मत्स्यपुराण १ प्रचण्डताण्डवाटोपे प्रक्षिप्ता येन दिग्गजाः । भवन्तु विघ्नभङ्गाय भवस्य चरणाम्बुजाः ॥ म.१ ॥ पातालादुत्पतिष्णोर्मकरवसतयो यस्य पुच्छाभिघातादूर्ध्वं ब्रह्माण्डखण्डव्यतिकरविहितव्यत्ययेनापतन्ति । विष्णोर्मत्स्यावतारे सकलवसुमतीमण्डलं व्यश्नुवानास्तस्यास्योदीरितानां ध्वनिरपहरतादश्रियं वः श्रुतीनाम् ॥ १.१ ॥ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥ १.२ ॥ अजोऽपि यः क्रियायोगान्नारायण इति स्मृतः । त्रिगुणाय त्रिवेदाय नमस्तस्मै स्वयम्भुवे ॥ १.३ ॥ सूतमेकाग्रमासीनं नैमिषारण्यवासिनः । मुनयो दीर्घसत्त्रान्ते पप्रच्छुर्दीर्घसंहिताम् ॥ १.४ ॥ प्रवृत्तासु पुराणीषु धर्म्यासु ललितासु च । कथासु शौनकाद्यास्तु अभिनन्द्य मुहुर्मुहुः ॥ १.५ ॥ कथितानि पुराणानि यान्यस्माकं त्वयानघ । तान्येवामृतकल्पानि श्रोतुमिच्छामहे पुनः ॥ १.६ ॥ कथं ससर्ज भगवंल्लोकनाथश्चराचरम् । कस्माच्च भगवान् विष्णुर्मत्स्यरूपत्वमाश्रितः ॥ १.७ ॥ भैरवत्वं भवस्यापि पुरारित्वं च केन हि । कस्य हेतोः कपालित्वं जगाम वृषभध्वजः ॥ १.८ ॥ सर्वमेतत्समाचक्ष्व सूत विस्तरशः क्रमात् । त्वद्वाक्येनामृतस्येव न तृप्तिरिह जायते ॥ १.९ ॥ *सूत उवाच पुण्यं पवित्रमायुष्यमिदानीं शृणुत द्विजाः । मात्स्यं पुराणमखिलं यज्जगाद गदाधरः ॥ १.१० ॥ पुरा राजा मनुर्नाम चीर्णवान् विपुलं तपः । पुत्रे राज्यं समारोप्य क्षमावान् रविनन्दनः ॥ १.११ ॥ मलयस्यैकदेशे तु सर्वात्मगुणसंयुतः । समदुःखसुखो वीरः प्राप्तवान् योगमुत्तमम् ॥ १.१२ ॥ बभूव वरदश्चास्य वर्षायुतशते गते । वरं वृणीष्व प्रोवाच प्रीतः स कमलासनः ॥ १.१३ ॥ एवमुक्तोऽब्रवीद्राजा प्रणम्य स पितामहम् । एकमेवाहमिच्छामि त्वत्तो वरमनुत्तमम् ॥ १.१४ ॥ भूतग्रामस्य सर्वस्य स्थावरस्य चरस्य च । भवेयं रक्षणायालं प्रलये समुपस्थिते ॥ १.१५ ॥ एवमस्त्विति विश्वात्मा तत्रैवान्तरधीयत । पुष्पवृष्टिः सुमहती खात्पपात सुरार्पिता ॥ १.१६ ॥ कदाचिदाश्रमे तस्य कुर्वतः पितृतर्पणम् । पपात पाण्योरुपरि शफरी जलसंयुता ॥ १.१७ ॥ दृष्ट्वा तच्छफरीरूपं स दयालुर्महीपतिः । रक्षणायाकरोद्यत्नं स तस्मिन्करकोदरे ॥ १.१८ ॥ अहोरात्रेण चैकेन षोडशाङ्गुलविस्तृतः । सोऽभवन्मत्स्यरूपेण पाहि पाहीति चाब्रवीत् ॥ १.१९ ॥ स तमादाय मणिके प्राक्षिपज्जलचारिणम् । तत्रापि चैकरात्रेण हस्तत्रयमवर्धत ॥ १.२० ॥ पुनः प्राहार्तनादेन सहस्रकिरणात्मजम् । स मत्स्यः पाहि पाहीति त्वामहं शरणं गतः ॥ १.२१ ॥ ततः स कूपे तं मत्स्यं प्राहिणोद्रविनन्दनः । यदा न माति तत्रापि कूपे मत्स्यः सरोवरे ॥ १.२२ ॥ क्षिप्तोऽसौ पृथुतामागात्पुनर्योजनसंमिताम् । तत्राप्याह पुनर्दीनः पाहि पाहि नृपोत्तम ॥ १.२३ ॥ ततः स मनुना क्षिप्तो गङ्गायामप्यवर्धत । यदा तदा समुद्रे तं प्राक्षिपन्मेदिनीपतिः ॥ १.२४ ॥ यदा समुद्रमखिलं व्याप्यासौ समुपस्थितः । तदा प्राह मनुर्भीतः कोऽपि त्वमसुरेश्वरः ॥ १.२५ ॥ अथवा वासुदेवस्त्वमन्य ईदृक्कथं भवेत् । योजनायुतविंशत्या कस्य तुल्यं भवेद्वपुः ॥ १.२६ ॥ ज्ञातस्त्वं मत्स्यरूपेण मां खेदयसि केशव । हृषीकेश जगन्नाथ जगद्धाम नमोऽस्तु ते ॥ १.२७ ॥ एवमुक्तः स भगवान्मत्स्यरूपी जनार्दनः । साधु साध्विति चोवाच सम्यग्ज्ञातस्त्वयानघ ॥ १.२८ ॥ अचिरेणैव कालेन मेदिनी मेदिनीपते । भविष्यति जले मग्ना सशैलवनकानना ॥ १.२९ ॥ नौरियं सर्वदेवानां निकायेन विनिर्मिता । महाजीवनिकायस्य रक्षणार्थं महीपते ॥ १.३० ॥ स्वेदाण्डजोद्भिदो ये वै ये च जीवा जरायुजाः । अस्यां निधाय सर्वांस्ताननाथान् पाहि सुव्रत ॥ १.३१ ॥ युगान्तवाताभिहता यदा भवति नौर्नृप । शृङ्गेऽस्मिन्मम राजेन्द्र तदेमां संयमिष्यसि ॥ १.३२ ॥ ततो लयान्ते सर्वस्य स्थावरस्य चरस्य च । प्रजापतिस्त्वं भविता जगतः पृथिवीपते ॥ १.३३ ॥ एवं कृतयुगस्यादौ सर्वज्ञो धृतिमान्नृपः । मन्वन्तराधिपश्चापि देवपूज्यो भविष्यसि ॥ १.३४ ॥ ______________________________________________________ मत्स्यपुराण २ *सूत उवाच एवमुक्तो मनुस्तेन पप्रच्छ मधुसूदनम् । भगवन्कियद्भिर्वर्षैर्भविष्यत्यन्तरक्षयः ॥ २.१ ॥ सत्त्वानि च कथं नाथ रक्षिष्ये मधुसूदन । त्वया सह पुनर्योगः कथं वा भविता मम ॥ २.२ ॥ *मत्स्य उवाच अद्यप्रभृत्यनावृष्टिर्भविष्यति महीतले । यावद्वर्षशतं साग्रं दुर्भिक्षमशुभावहम् ॥ २.३ ॥ ततोऽल्पसत्त्वक्षयदा रश्मयः सप्त दारुणाः । सप्तसप्तेर्भविष्यन्ति प्रतप्ताङ्गारवर्षिणः ॥ २.४ ॥ और्वानलोऽपि विकृतिं गमिष्यति युगक्षये । विषाग्निश्चापि पातालात्संकर्षणमुखच्युतः । भवस्यापि ललाटोत्थस्तृतीयनयनानलः ॥ २.५ ॥ त्रिजगन्निर्दहन् क्षोभं समेष्यति महामुने । एवं दग्धा मही सर्वा यदा स्याद्भस्मसंनिभा ॥ २.६ ॥ आकाशमूष्मणा तप्तं भविष्यति परंतप । ततः सदेवनक्षत्रं जगद्यास्यति संक्षयम् ॥ २.७ ॥ संवर्तो भीमनादश्च द्रोणश्चण्डो बलाहकः । विद्युत्पताकः शोणस्तु सप्तैते लयवारिदाः ॥ २.८ ॥ अग्निप्रस्वेदसम्भूताः प्लावयिष्यन्ति मेदिनीम् । समुद्राः क्षोभमागत्य चैकत्वेन व्यवस्थिताः ॥ २.९ ॥ एतदेकार्णवं सर्वं करिष्यन्ति जगत्त्रयम् । वेदनावमिमां गृह्य सत्त्वबीजानि सर्वशः ॥ २.१० ॥ आरोप्य रज्जुयोगेन मत्प्रदत्तेन सुव्रत । संयम्य नावं मच्छृङ्गे मत्स्यभावाभिरक्षितः ॥ २.११ ॥ एकः स्थास्यसि देवेषु दग्धेष्वपि परंतप । सोमसूर्यावहं ब्रह्मा चतुर्लोकसमन्वितः ॥ २.१२ ॥ नर्मदा च नदी पुण्या मार्कण्डेयो महानृषिः । भवो वेदाः पुराणानि विद्याभिः सर्वतोवृतम् ॥ २.१३ ॥ त्वया सार्धमिदं विश्वं स्थास्यत्यन्तरसंक्षये । एवमेकार्णवे जाते चाक्षुषान्तरसंक्षये ॥ २.१४ ॥ वेदान्प्रवर्तयिष्यामि त्वत्सर्गादौ महीपते । एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत ॥ २.१५ ॥ मनुरप्यास्थितो योगं वासुदेवप्रसादजम् । अभ्यसन् यावदाभूतसम्प्लवं पूर्वसूचितम् ॥ २.१६ ॥ काले यथोक्ते संजाते वासुदेवमुखोद्गते । शृङ्गी प्रादुर्बभूवाथ मत्स्यरूपी जनार्दनः ॥ २.१७ ॥ भुजंगो रज्जुरूपेण मनोः पार्श्वमुपागमत् । भूतान्सर्वान्समाकृष्य योगेनारोप्य धर्मवित् ॥ २.१८ ॥ भुजंगरज्ज्वा मत्स्यस्य शृङ्गे नावमयोजयत् । उपर्युपस्थितस्तस्याः प्रणिपत्य जनार्दनम् ॥ २.१९ ॥ आभूतसम्प्लवे तस्मिन्नतीते योगशायिना । पृष्टेन मनुना प्रोक्तं पुराणं मत्स्यरूपिणा । तदिदानीं प्रवक्ष्यामि शृणुध्वमृषिसत्तमाः ॥ २.२० ॥ यद्भवद्भिः पुरा पृष्टः सृष्ट्यादिकमहं द्विजाः । तदेवैकार्णवे तस्मिन्मनुः पप्रच्छ केशवम् ॥ २.२१ ॥ *मनुरुवाच उत्पत्तिं प्रलयं चैव वंशान्मन्वन्तराणि च । वंश्यानुचरितं चैव भुवनस्य च विस्तरम् ॥ २.२२ ॥ दानधर्मविधिं चैव श्राद्धकल्पं च शाश्वतम् । वर्णाश्रमविभागं च तथेष्टापूर्तसंज्ञितम् ॥ २.२३ ॥ देवतानां प्रतिष्ठादि यच्चान्यद्विद्यते भुवि । तत्सर्वं विस्तरेण त्वं धर्मं व्याख्यातुमर्हसि ॥ २.२४ ॥ *मत्स्य उवाच महाप्रलयकालान्त एतदासीत्तमोमयम् । प्रसुप्तमिव चातर्क्यमप्रज्ञातमलक्षणम् ॥ २.२५ ॥ अविज्ञेयमविज्ञातं जगत्स्थास्नु चरिष्णु च । ततः स्वयम्भूरव्यक्तः प्रभवः पुण्यकर्मणाम् ॥ २.२६ ॥ व्यञ्जयन्नेतदखिलं प्रादुरासीत्तमोनुदः । योऽतीन्द्रियः परो व्यक्तादणुर्ज्यायान् सनातनः । नारायण इति ख्यातः स एकः स्वयमुद्बभौ ॥ २.२७ ॥ यः शरीरादभिध्याय सिसृक्षुर्विविधं जगत् । अप एव ससर्जादौ तासु वीर्यमवासृजत् ॥ २.२८ ॥ तदेवाण्डं समभवद्धेमरूप्यमयं महत् । संवत्सरसहस्रेण सूर्यायुतसमप्रभम् ॥ २.२९ ॥ प्रविश्यान्तर्महातेजाः स्वयमेवात्मसम्भवः । प्रभावादपि तद्व्याप्त्या विष्णुत्वमगमत्पुनः ॥ २.३० ॥ तदन्तर्भगवानेष सूर्यः समभवत्पुरा । आदित्यश्चादिभूतत्वाद्ब्रह्मा ब्रह्म पठन्नभूत् ॥ २.३१ ॥ दिवं भूमिं समकरोत्तदण्डशकलद्वयम् । स चाकरोद्दिशः सर्वा मध्ये व्योम च शाश्वतम् ॥ २.३२ ॥ जरायुर्मेरुमुख्याश्च शैलास्तस्याभवंस्तदा ।* यदौल्बं तदभून्मेघस्तडित्सङ्घातमण्डलम् ॥ २.३३ ॥* नद्योऽण्डनाम्नः संभूताः पितरो मनवस्तथा । सप्त येऽमी समुद्राश्च तेऽपि चान्तर्जलोद्भवाः । लवणेक्षुसुराद्याश्च नानारत्नसमन्विताः ॥ २.३४ ॥ स सिसृक्षुरभूद्देवः प्रजापतिररिन्दम । तत्तेजसश्च तत्रैष मार्तण्डः समजायत ॥ २.३५ ॥ मृतेऽण्डे जायते यस्मान्मार्तण्डस्तेन संस्मृतः । रजोगुणमयं यत्तद्रूपं तस्य महात्मनः । चतुर्मुखः स भगवानभूल्लोकपितामहः ॥ २.३६ ॥ येन सृष्टं जगत्सर्वं सदेवासुरमानुषम् । तमवेहि रजोरूपं महत्सत्त्वमुदाहृतम् ॥ २.३७ ॥ ______________________________________________________ मत्स्यपुराण ३ *मनुरुवाच चतुर्मुखत्वमगमत्कस्माल्लोकपितामहः । कथं तु लोकानसृजद्ब्रह्मा ब्रह्मविदां वरः ॥ ३.१ ॥ *मत्स्य उवाच तपश्चचार प्रथमममराणां पितामहः । आविभूतास्तथा वेदाः साङ्गोपाङ्गपदक्रमाः ॥ ३.२ ॥ पुराणसर्वशास्त्राणां प्रथमं ब्रह्मणा स्मृतम् । नित्यं शब्दमयं पुण्यं शतकोटिप्रविस्तरम् ॥ ३.३ ॥ अनन्तरं च वक्त्रेभ्यो वेदास्तस्य विनिःसृताः । मीमांसान्यायविद्याश्च प्रमाणाष्टकसंयुताः ॥ ३.४ ॥ वेदाभ्यासरतस्यास्य प्रजाकामस्य मानसाः । मनसः पूर्वसृष्टा वै जाता यत्तेन मानसाः ॥ ३.५ ॥ मरीचिरभवत्पूर्वं ततोऽत्रिर्भगवानृषिः । अङ्गिरश्चाभवत्पश्चात्पुलस्त्यस्तदनन्तरम् ॥ ३.६ ॥ ततः पुलहनामा वै ततः क्रतुरजायत । प्रचेताश्च ततः पुत्रो वसिष्ठश्चाभवत्पुनः ॥ ३.७ ॥ पुत्रो भृगुरभूत्तद्वन्नारदोऽप्यचिरादभूत् । दशेमान्मानसान् ब्रह्मा मुनीन् पुत्रानजिजनत् ॥ ३.८ ॥ शारीरानथ वक्ष्यामि मातृहीनान् प्रजापतेः । अङ्गुष्ठाद्दक्षिणाद्दक्षः प्रजापतिरजायत ॥ ३.९ ॥ धर्मः स्तनान्तादभवद्धृदयात्कुसुमायुधः । भ्रूमध्यादभवत्क्रोधो लोभश्चाधरसंभवः ॥ ३.१० ॥ बुद्धेर्मोहः समभवदहंकारादभून्मदः । प्रमोदश्चाभवत्कण्ठान्मृत्युर्लोचनतो ण्र्प । भरतः करमध्यात्तु ब्रह्मसूनुरभूत्ततः ॥ ३.११ ॥ एते नव सुता राजन् कन्या च दशमी पुनः । अङ्गजा इति विख्याता दशमी ब्रह्मणः सुता ॥ ३.१२ ॥ *मनुरुवाच बुद्धेर्मोहः समभवदिति यत्परिकीर्तितम् । अहंकारः स्मृतः क्रोधो बुद्धिर्नाम किमुच्यते ॥ ३.१३ ॥ *मत्स्य उवाच सत्त्वं रजस्तमश्चैव गुणत्रयमुदाहृतम् । साम्यावस्थितिरेतेषां प्रकृतिः परिकीर्तिता ॥ ३.१४ ॥ केचित्प्रधानमित्याहुरव्यक्तमपरे जगुः । एतदेव प्रजासृष्टिं करोति विकरोति च ॥ ३.१५ ॥ गुणेभ्यः क्षोभमाणेभ्यस्त्रयो देवा विजज्ञिरे । एका मूर्तिस्त्रयो भागा ब्रह्मविष्णुमहेश्वराः ॥ ३.१६ ॥ सविकारात्प्रधानात्तु महत्तत्त्वं प्रजायते । महानिति यतः ख्यातिर्लोकानां जायते सदा ॥ ३.१७ ॥ अहंकारश्च महतो जायते मानवर्धनः । इन्द्रियाणि ततः पञ्च वक्ष्ये बुद्धिवशानि तु । प्रादुर्भवन्ति चान्यानि तथा कर्मवशानि तु ॥ ३.१८ ॥ श्रोत्रं त्वक्चक्षुषी जिह्वा नासिका च यथाक्रमम् । पायूपस्थं हस्तपादं वाक्क चेन्द्रियसंग्रहः ॥ ३.१९ ॥ शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः । उत्सर्गानन्दनादानगत्यालापाश्च तत्क्रियाः ॥ ३.२० ॥ मन एकादशं तेषां कर्मबुद्धिगुणान्वितम् । इन्द्रियावयवाः सूक्ष्मास्तस्य मूर्तिं मनीषिणः ॥ ३.२१ ॥ श्रयन्ति यस्मात्तन्मात्राः शरीरं तेन संस्मृतम् । शरीरयोगाज्जीवोऽपि शरीरी गद्यते बुधैः ॥ ३.२२ ॥ मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया । आकाशं शब्दतन्मात्रादभूच्छब्दगुणात्मकम् ॥ ३.२३ ॥ आकाशविकृतेर्वायुः शब्दस्पर्शगुणोऽभवत् । वायोश्च स्पर्शतन्मात्रात्तेजश्चाविरभूत्ततः ॥ ३.२४ ॥ त्रिगुणं तद्विकारेण तच्छब्दस्पर्शरूपवत् । तेजोविकारादभवद्वारि राजंश्चतुर्गुणम् ॥ ३.२५ ॥ रसतन्मात्रसंभूतं प्रायो रसगुणात्मकम् । भूमिस्तु गन्धतन्मात्रादभूत्पञ्चगुणान्विता ॥ ३.२६ ॥ प्रायो गन्धगुणा सा तु बुद्धिरेषा गरीयसी । एभिः संपादितं भुङ्क्ते पुरुषः पञ्चविंशकः ॥ ३.२७ ॥ ईश्वरेच्छावशः सोऽपि जीवात्मा कथ्यते बुधैः । एवं षड्विंशकं प्रोक्तं शरीरमिह मानवे ॥ ३.२८ ॥ सांख्यं संख्यात्मकत्वाच्च कपिलादिभिरुच्यते । एतत्तत्त्वात्मकं कृत्वा जगद्वेधा अजीजनत् ॥ ३.२९ ॥ सावित्रीं लोकसृष्ट्यर्थे हृदि कृत्वा समास्थितः । ततः संजपतस्तस्य भित्वा देहमकल्मषम् ॥ ३.३० ॥ स्त्रीरूपमर्धमकरोदर्धं पुरुषरूपवत् । शतरूपा च सा ख्याता सावित्री च निगद्यते ॥ ३.३१ ॥ सरस्वत्यथ गायत्री ब्रह्माणी च परन्तप । ततः स्वदेहसंभूतामात्मजामित्यकल्पयत् ॥ ३.३२ ॥ दृष्ट्वा तां व्यथितस्तावत्कामबाणार्दितो विभुः । अहो रूपमहो रूपमिति चाह प्रजापतिः ॥ ३.३३ ॥ ततो वासिष्ठप्रमुखा भगिनीमिति चुक्रुशुः । ब्रह्मा न किंचिद्ददृशे तन्मुखालोकनादृते ॥ ३.३४ ॥ अहो रूपमहो रूपमिति प्राह पुनः पुनः । ततः प्रणामनम्रां तां पुनरेवाभ्यलोकयत् ॥ ३.३५ ॥ अथ प्रदक्षिणं चक्रे सा पितुर्वरवर्णिनी । पुत्रेभ्यो लज्जितस्यास्य तद्रूपालोकनेच्छया ॥ ३.३६ ॥ आविर्भूतं तत्रो वक्त्रं दक्षिणं पाण्डुगण्डवत् । विस्मयस्फुरदोष्ठं च पाश्चात्यमुदगात्ततः ॥ ३.३७ ॥ चतुर्थमभवत्पश्चाद्वामं कामशरातुरम् । ततोऽन्यदभवत्तस्य कामातुरतया तथा ॥ ३.३८ ॥ उत्पतन्त्यास्तदाकारा आलोकनकुतूहलात् । सृष्ट्यर्थं यत्कृतं तेन तपः परमदारुणम् ॥ ३.३९ ॥ तत्सर्वं नाशमगमत्स्वसुतोपगमेच्छया । तेनोर्ध्वं वक्त्रमभवत्पञ्चमं तस्य धीमतः । आविर्भवज्जटाभिश्च तद्वक्त्रं चावृणोत्प्रभुः ॥ ३.४० ॥ ततस्तानब्रवीद्ब्रह्मा पुत्रानात्मसमुद्भवान् । प्रजाः सृजध्वमभितः सदेवासुरमानुषीः ॥ ३.४१ ॥ एवमुक्तास्ततः सर्वे ससृजुर्विविधाः प्रजाः । गतेषु तेषु सृष्ट्यर्थं प्रणामावनतामिमाम् ॥ ३.४२ ॥ उपयेमे स विश्वात्मा शतरूपामनिन्दिताम् । संबभूव तया सार्धमतिकामातुरो विभुः । सलज्जां चकमे देवः कमलोदरमन्दिरे ॥ ३.४३ ॥ यावदब्दशतं दिव्यं यथान्यः प्राकृतो जनः । ततःकालेन महता तस्याः पुत्रोऽभवन्मनुः ॥ ३.४४ ॥ स्वायंभुवो इति ख्यातः स विराडिति नः श्रुतम् । तद्रूपगुणसामान्यादधिपुरुष उच्यते ॥ ३.४५ ॥ वैराजा यत्र ते जाता बहवः शंसितव्रताः । स्वायंभुवा महाभागाः सप्त सप्त तथापरे ॥ ३.४६ ॥ स्वारोचिषाद्याः सर्वे ते ब्रह्मतुल्यस्वरूपिणः । औत्तमिप्रमुखास्तद्वद्येसां त्वं सप्तमोऽधुना ॥ ३.४७ ॥ ______________________________________________________ मत्स्यपुराण ४ *मनुरुवाच अहो कष्टतरं चैतदङ्गजागमनं विभो । कथं न दोषमगमत्कर्मणानेन पद्मभूः ॥ ४.१ ॥ परस्परं च सम्बन्धः सगोत्राणामभूत्कथम् । वैवाहिकस्तत्सुतानां छिन्द्धि मे संशयं विभो ॥ ४.२ ॥ *मत्स्य उवाच दिव्येयमादिसृष्टिस्तु रजोगुणसमुद्भवा । अतीन्द्रियेन्द्रिया तद्वदतीन्द्रियशरीरिका ॥ ४.३ ॥ दिव्यतेजोमयी भूप दिव्यज्ञानसमुद्भवा । न मर्त्यैरभितः शक्या वक्तुं वै मांसचक्षुभिः ॥ ४.४ ॥ यथा भुजंगाः सर्पाणामाकाशं विश्वपक्षिणाम् । विदन्ति मार्गं दिव्यानां दिव्या एव न मानवाः ॥ ४.५ ॥ कार्याकार्ये न देवानां शुभाशुभफलप्रदे । यस्मात्तस्मान्न राजेन्द्र तद्विचारो नृणां शुभः ॥ ४.६ ॥ अन्यच्च सर्ववेदानामधिष्ठाता चतुर्मुखः । गायत्री ब्रह्मणस्तद्वदङ्गभूता निगद्यते ॥ ४.७ ॥ अमूर्तं मूर्तिमद्वापि मिथुनं तत्प्रचक्षते । विरिञ्चिर्यत्र भगवांस्तत्र देवी सरस्वती । भारती यत्र यत्रैव तत्र तत्र प्रजापतिः ॥ ४.८ ॥ यथातपो न रहितश्छायया दृश्यते क्वचित् । गायत्री ब्रह्मणःपार्श्वं तथैव न विमुञ्चति ॥ ४.९ ॥ वेदराशिः स्मृतो ब्रह्मा सावित्री तदधिष्ठिता । तस्मान्न कश्चिद्दोषः स्यात्सावित्रीगमने विभो ॥ ४.१० ॥ तथापि लज्जावनतः प्रजापतिरभूत्पुरा । स्वसुतोपगमाद्ब्रह्मा शशाप कुसुमायुधम् ॥ ४.११ ॥ यस्मान्ममाभिभवता मनः संक्षोभितं शरैः । तस्मात्त्वद्देहमचिराद्रुद्रो भस्मीकरिष्यति ॥ ४.१२ ॥ ततः प्रसादयामास कामदेवश्चतुर्मुखम् । न मामकारणे शप्तुं त्वमिहार्हसि मानद ॥ ४.१३ ॥ अहमेवंविधः सृष्टस्त्वयैव चतुरानन । इन्द्रियक्षोभजनकः सर्वेषामेव देहिनाम् ॥ ४.१४ ॥ स्त्रीपुंसोरविचारेण मया सर्वत्र सर्वदा । क्षोभ्यं मनः प्रयत्नेन त्वयैवोक्तं पुरा विभो ॥ ४.१५ ॥ तस्मादनपराधोऽहं त्वया शप्तस्तथा विभो । कुरु प्रसादं भगवन् स्वशरीराप्तये पुनः ॥ ४.१६ ॥ *ब्रह्मोवाच वैवस्वतेऽन्तरे प्राप्ते यादवान्वयसम्भवः । रामो नाम यदा मर्त्यो मत्सत्त्वबलमाश्रितः ॥ ४.१७ ॥ अवतीर्यासुरध्वंसी द्वारकामधिवत्स्यति । तद्भ्रातुस्तत्समस्य त्वं तदा पुत्रत्वमेष्यसि ॥ ४.१८ ॥ एवं शरीरमासाद्य भुक्त्वा भोगानशेषतः । ततो भरतवंशान्ते भूत्वा वत्सनृपात्मजः ॥ ४.१९ ॥ विद्याधराधिपत्यं च यावदाभूतसंप्लवम् । सुखानि धर्मतः प्राप्य मत्समीपं गमिष्यसि ॥ ४.२० ॥ एवं शापप्रसादाभ्यामुपेतः कुसुमायुधः । शोकप्रमोदाभियुतो जगाम स यथागतम् ॥ ४.२१ ॥ *मनुरुवाच कोऽसौ यदुरिति प्रोक्तो यद्वंशे कामसम्भवः । कथं च दग्धो रुद्रेण किमथ कुसुमायुधः ॥ ४.२२ ॥ भरतस्यान्वये कस्य का च सृष्टिः पुराभवत् । एतत्सर्वं समाचक्ष्व मूलतः संशयो हि मे ॥ ४.२३ ॥ *मत्स्य उवाच या सा देहार्धसम्भूता गायत्री ब्रह्मवादिनी । जननी या मनोर्देवी शतरूपा शतेन्द्रिया ॥ ४.२४ ॥ रतिर्मनस्तपो बुद्धिर्महान् दिक्सम्भ्रमस्तथा । ततः स शतरूपायां सप्तापत्यान्यजीजनत् ॥ ४.२५ ॥ ये मरीच्यादयः पुत्रा मानसास्तस्य धीमतः । तेषामयमभूल्लोकः सर्वज्ञानात्मकः पुरा ॥ ४.२६ ॥ ततोऽसृजद्वामदेवं त्रिशूलवरधारिणम् । सनत्कुमारं च विभुं पूर्वेषामपि पूर्वजम् ॥ ४.२७ ॥ वामदेवस्तु भगवानसृजन्मुखतो द्विजान् । राजन्यानसृजद्बाह्वोर्विट्छूद्रानूरुपादयोः ॥ ४.२८ ॥ विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च । छन्दांसि च ससर्जादौ पर्जन्यं च ततः परम् ॥ ४.२९ ॥ ततः साध्यगणानीशस्त्रिनेत्रानसृजत्पुनः । कोटीश्च चतुरशीतिं जरामरणवर्जिताः ॥ ४.३० ॥ वामोऽसृजन्नमर्त्यांस्तान् ब्रह्मणा विनिवारितः । नैवंविधा भवेत्सृष्टिर्जरामरणवर्जिता ॥ ४.३१ ॥ शुभाशुभात्मिका या तु सैव सृष्टिः प्रशस्यते । एवं स्थितः स तेनादौ सृष्टेः स्थाणुरतोऽभवत् ॥ ४.३२ ॥ स्वायम्भुवो मनुर्धीमांस्तपस्तप्त्वा सुदुश्चरम् । पत्नीमेवाप रूपाढ्यामनन्ता नाम नामतः ॥ ४.३३ ॥ प्रियव्रतोत्तानपादौ मनुस्तस्यामजीजनत् । धर्मस्य कन्या चतुरा सूनृता नाम भामिनी ॥ ४.३४ ॥ उत्तानपादात्तनयान् प्राप मन्थरगामिनी । अपस्यतिमपस्यन्तं कीर्तिमन्तं ध्रुवं तथा ॥ ४.३५ ॥ उत्तानपादोऽजनयत्सूनृतायां प्रजापतिः । ध्रुवो वर्षसहस्राणि त्रीणि कृत्वा तपः पुरा ॥ ४.३६ ॥ दिव्यमाप ततः स्थानमचलं ब्रह्मणो वरात् । तमेव पुरतः कृत्वा ध्रुवं सप्तर्षयः स्थिताः ॥ ४.३७ ॥ धन्या नाम मनोः कन्या ध्रुवाच्छिष्टमजीजनत् । अग्निकन्या तु सुच्छाया शिष्टात्सा सुषुवे सुतान् ॥ ४.३८ ॥ कृपं रिपुं जयं वृत्तं वृकं च वृकतेजसम् । चक्षुषं ब्रह्मदौहित्र्यां वीरिण्यां स रिपुंजयः ॥ ४.३९ ॥ वीरणस्यात्मजायां तु चक्षुर्मनुमजीजनत् । मनुर्वै राजकन्यायां नड्वलायां स चाक्षुषः ॥ ४.४० ॥ जनयामास तनयान् दश शूरानकल्मषान् । ऊरुः पूरुः शतद्युम्नस्तपस्वी सत्यवाग्घविः ॥ ४.४१ ॥ अग्निष्टुदतिरात्रश्च सुद्युम्नश्चापराजितः । अभिमन्युस्तु दशमो नड्वलायामजायत ॥ ४.४२ ॥ ऊरोरजनयत्पुत्रान् षडाग्नेयी तु सुप्रभान् । अग्निं सुमनसं ख्यातिं क्रतुमङ्गिरसं गयम् ॥ ४.४३ ॥ पितृकन्या सुनीथा तु वेनमङ्गादजीजनत् । वेनमन्यायिनं विप्रा ममन्थुस्तत्करादभूत् । पृथुर्नाम महातेजाः स पुत्रौ द्वावजीजनत् ॥ ४.४४ ॥ अन्तर्धानस्तु मारीचं शिखण्डिन्यामजीजनत् । हविर्धानात्षडाग्नेयी धिषणाजनयत्सुतान् । प्राचीनबर्हिषं साङ्गं यमं शुक्रं बलं शुभम् ॥ ४.४५ ॥ प्राचीनबर्हिर्भगवान्महानासीत्प्रजापतिः । हविर्धानाः प्रजास्तेन बहवः सम्प्रवर्तिताः ॥ ४.४६ ॥ सवर्णायां तु सामुद्र्यां दशाधत्त सुतान्प्रभुः । सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः ॥ ४.४७ ॥ तत्तपोरक्षिता वृक्षा बभुर्लोके समन्ततः । देवादेशाच्च तानग्निरदहद्रविनन्दन ॥ ४.४८ ॥ सोमकन्याभवत्पत्नी मारीषा नाम विश्रुता । तेभ्यस्तु दक्षमेकं सा पुत्रमग्र्यमजीजनत् ॥ ४.४९ ॥ दक्षादनन्तरं वृक्षानौषधानि च सर्वशः । अजीजनत्सोमकन्या नदीं चन्द्रवतीं तथा ॥ ४.५० ॥ सोमांशस्य च तस्यापि दक्षस्याशीतिकोटयः । वक्ष्ये तासां तु विस्तारं लोके यः सुप्रतिष्ठितः ॥ ४.५१ ॥ द्विपदश्चाभवन् केचित्केचिद्बहुपदा नराः । वलीमुखाः शङ्कुकर्णाः कर्णप्रावरणास्तथा ॥ ४.५२ ॥ अश्वऋक्षमुखाः केचित्केचित्सिंहाननास्तथा । श्वसूकरमुखाः केचित्केचिदुष्ट्रमुखास्तथा ॥ ४.५३ ॥ जनयामास धर्मात्मा म्लेच्छान्सर्वाननेकशः । स सृष्ट्वा मनसा दक्षः स्त्रियः पश्चादजीजनत् ॥ ४.५४ ॥ ददौ स दश धर्माय कश्यपाय त्रयोदश । सप्तविंशतिं सोमाय ददौ नक्षत्रसंज्ञिताः । देवासुरमनुष्यादि ताभ्यः सर्वमभूज्जगत् ॥ ४.५५ ॥ ______________________________________________________ मत्स्यपुराण ५ *ऋषय ऊचुः देवानां दानवानां च गन्धर्वोरगरक्षसाम् । उत्पत्तिं विस्तरेणैव सूत ब्रूहि यथातथम् ॥ ५.१ ॥ *सूत उवाच संकल्पाद्दर्शनात्स्पर्शात्पूर्वेषां सृष्टिरुच्यते । दक्षात्प्राचेतसादूर्ध्वं सृष्टिर्मैथुनसम्भवा ॥ ५.२ ॥ प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयम्भुवा । यथा ससर्ज चैवादौ तथैव शृणुत द्विजाः ॥ ५.३ ॥ यदा तु सृजतस्तस्य देवर्षिगणपन्नगान् । न वृद्धिमगमल्लोकस्तदा मैथुनयोगतः । दक्षः पुत्रसहस्राणि पाञ्चजन्यामजीजनत् ॥ ५.४ ॥ तांस्तु दृष्ट्वा महाभागः सिसृक्षुर्विविधाः प्रजाः । नारदः प्राह हर्यश्वान् दक्षपुत्रान्समागतान् ॥ ५.५ ॥ भुवः प्रमाणं सर्वत्र ज्ञात्वोर्ध्वमध एव च । ततः सृष्टिं विशेषेण कुरुध्वमृषिसत्तमाः ॥ ५.६ ॥ ते तु तद्वचनं श्रुत्वा प्रयाताः सर्वतो दिशम् । अद्यापि न निवर्तन्ते समुद्रादिव सिन्धवः ॥ ५.७ ॥ हर्यश्वेषु प्रनष्टेषु पुनर्दक्षः प्रजापतिः । वैरिण्यामेव पुत्राणां सहस्रमसृजत्प्रभुः ॥ ५.८ ॥ शबला नाम ते विप्राः समेताः सृष्टिहेतवः । नारदोऽनुगतान्प्राह पुनस्तान्पूर्ववत्स तान् ॥ ५.९ ॥ भुवः प्रमाणं सर्वत्र ज्ञात्वा भ्रातॄनथो पुनः । आगत्य चाथ सृष्टिं च करिष्यथ विशेषतः ॥ ५.१० ॥ तेऽपि तेनैव मार्गेण जग्मुर्भ्रातृपथा तदा । ततः प्रभृति न भ्रातुः कनीयान्मार्गमिच्छति । अन्विष्यन्दुःखमाप्नोति तेन तत्परिवर्जयेत् ॥ ५.११ ॥ ततस्तेषु विनष्टेषु षष्टिं कन्याः प्रजापतिः । वैरिण्यां जनयामास दक्षः प्राचेतसस्तथा ॥ ५.१२ ॥ प्रादात्स दश धर्माय कश्यपाय त्रयोदश । सप्तविंशतिं सोमाय चतस्रोऽरिष्टनेमये ॥ ५.१३ ॥ द्वे चैव भृगुपुत्राय द्वे कृशाश्वाय धीमते । द्वे चैवाङ्गिरसे तद्वत्तासां नामानि विस्तरात् ॥ ५.१४ ॥ शृणुध्वं देवमातॄणां प्रजाविस्तारमादितः । मरुत्वती वसुर्यामी लम्बा भानुररुन्धती ॥ ५.१५ ॥ संकल्पा च मुहूर्ता च साध्या विश्वा च भामिनी । धर्मपत्न्यः समाख्यातास्तासां पुत्रान्निबोधत ॥ ५.१६ ॥ विश्वे देवास्तु विश्वायाः साध्या साध्यानजीजनत् । मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवस्तथा ॥ ५.१७ ॥ भानोस्तु भानवस्तद्वन्मुहूर्तायां मुहूर्तकाः । लम्बायां घोषनामानो नागवीथी तु यामिजा ॥ ५.१८ ॥ पृथिवीतलसम्भूतमरुन्धत्यामजायत । संकल्पायास्तु संकल्पो वसुसृष्टिं निबोधत ॥ ५.१९ ॥ ज्योतिष्मन्तस्तु ये देवा व्यापकाः सर्वतो दिशम् । वसवस्ते समाख्यातास्तेषां सर्गं निबोधत ॥ ५.२० ॥ आपो ध्रुवश्च सोमश्च धरश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥ ५.२१ ॥ आपस्य पुत्राश्चत्वारः शान्तो वै दण्ड एव च । शाम्बोऽथ मणिवक्त्रश्च यज्ञरक्षाधिकारिणः ॥ ५.२२ ॥ ध्रुवस्य कालः पुत्रस्तु वर्चाः सोमादजायत । द्रविणो हव्यवाहश्च धरपुत्रावुभौ स्मृतौ ॥ ५.२३ ॥ कल्याणिन्यां ततः प्राणो रमणः शिशिरोऽपि च । मनोहरा धरात्पुत्रानवापाथ हरेः सुता ॥ ५.२४ ॥ शिवा मनोजवं पुत्रमविज्ञातगतिं तथा । अवाप चानलात्पुत्रावग्निप्रायगुणौ पुनः ॥ ५.२५ ॥ अग्निपुत्रः कुमारस्तु शरस्तम्बे व्यजायत । तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजाः ॥ ५.२६ ॥ अपत्यं कृत्तिकानां तु कार्त्तिकेयस्ततः स्मृतः । प्रत्यूषस ऋषिः पुत्रो विभुर्नाम्नाथ देवलः । विश्वकर्मा प्रभासस्य पुत्रः शिल्पी प्रजापतिः ॥ ५.२७ ॥ प्रासादभवनोद्यानप्रतिमाभूषणादिषु । तडागारामकूपेषु स्मृतः सोऽमरवर्धकिः ॥ ५.२८ ॥ अजैकपादहिर्बुध्न्यो विरूपाक्षोऽथ रैवतः । हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः ॥ ५.२९ ॥ सावित्रश्च जयन्तश्च पिनाकी चापराजितः । एते रुद्राः समाख्याता एकादश गणेश्वराः ॥ ५.३० ॥ एतेषां मानसानां तु त्रिशूलवरधारिणाम् । कोटयश्चतुरशीतिस्तत्पुत्राश्चाक्षया मताः ॥ ५.३१ ॥ दिक्षु सर्वासु ये रक्षां प्रकुर्वन्ति गणेश्वराः । पुत्रपौत्रसुताश्चैते सुरभीगर्भसम्भवाः ॥ ५.३२ ॥ ______________________________________________________ मत्स्यपुराण ६ कश्यपस्य प्रवक्ष्यामि पत्नीभ्यः पुत्रपौत्रकान् । अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा तथा ॥ ६.१ ॥ सुरभिर्विनता तद्वत्ताम्रा क्रोधवशा इरा । कद्रूर्विश्वा मुनिस्तद्वत्तासां पुत्रान्निबोधत ॥ ६.२ ॥ तुषिता नाम ये देवाश्चाक्षुषस्यान्तरे मनोः । वैवस्वतेऽन्तरे चैते आदित्या द्वादश स्मृताः ॥ ६.३ ॥ इन्द्रो धाता भगस्त्वष्टा मित्रोऽथ वरुणो यमः । विवस्वान्सविता पूषा अंशुमान् विष्णुरेव च ॥ ६.४ ॥ एते सहस्रकिरणा आदित्या द्वादश स्मृताः । मारीचात्कश्यपादाप पुत्रानदितिरुत्तमान् ॥ ६.५ ॥ भृशाश्वस्य ऋषेः पुत्रा देवप्रहरणाः स्मृताः । एते देवगणा विप्राः प्रतिमन्वन्तरेषु च ॥ ६.६ ॥ उत्पद्यन्ते प्रलीयन्ते कल्पे कल्पे तथैव च । दितिः पुत्रद्वयं लेभे कश्यपादिति नः श्रुतम् ॥ ६.७ ॥ हिरण्यकशिपुं चैव हिरण्याक्षं तथैव च । हिरण्यकशिपोस्तद्वज्जातं पुत्रचतुष्टयम् ॥ ६.८ ॥ प्रह्लादश्चानुह्लादश्च संह्लादो ह्लाद एव च । प्रह्लादपुत्र आयुष्मान् शिबिर्बाष्कल एव च ॥ ६.९ ॥ विरोचनश्चतुर्थश्च स बलिं पुत्रमाप्तवान् । बलेः पुत्रशतं त्वासीद्बाणज्येष्ठं ततो द्विजाः ॥ ६.१० ॥ धृतराष्ट्रस्तथा सूर्यश्चन्द्रश्चन्द्रांशुतापनः । निकुम्भनाभो गुर्वक्षः कुक्षिभीमो विभीषणः ॥ ६.११ ॥ एवमाद्यास्तु बहवो बाणज्येष्ठा गुणाधिकाः । बाणः सहस्रबाहुश्च सर्वास्त्रगणसंयुतः ॥ ६.१२ ॥ तपसा तोषितो यस्य पुरे वसति शूलभृत् । महाकालत्वमगमत्साम्यं यश्च पिनाकिनः ॥ ६.१३ ॥ हिरण्याक्षस्य पुत्रोऽभूदुलूकः शकुनिस्तथा । भूतसंतापनश्चैव महानाभस्तथैव च ॥ ६.१४ ॥ एतेभ्यः पुत्रपौत्राणां कोटयः सप्तसप्ततिः । महाबला महाकाया नानारूपा महौजसः ॥ ६.१५ ॥ दनुः पुत्रशतं लेभे कश्यपाद्बलदर्पितम् । विप्रचित्तिः प्रधानोऽभूद्येषां मध्ये महाबलः ॥ ६.१६ ॥ द्विमूर्धा शकुनिश्चैव तथा शङ्कुशिरोधरः । अयोमुखः शम्बरश्च कपिशो नामतस्तथा ॥ ६.१७ ॥ मारीचिर्मेघवांश्चैव इरा गर्भशिरास्तथा । विद्रावणश्च केतुश्च केतुवीर्यः शतह्रदः ॥ ६.१८ ॥ इन्द्रजित्सप्तजिच्चैव वज्रनाभस्तथैव च । एकचक्रो महाबाहुर्वज्राक्षस्तारकस्तथा ॥ ६.१९ ॥ असिलोमा पुलोमा च बिन्दुर्बाणो महासुरः । स्वर्भानुर्वृषपर्वा च एवमाद्या दनोः सुताः ॥ ६.२० ॥ स्वर्भानोस्तु प्रभा कन्या शची चैव पुलोमजा । उपदानवी मयस्यासीत्तथा मन्दोदरी कुहूः ॥ ६.२१ ॥ शर्मिष्ठा सुन्दरी चैव चन्द्रा च वृषपर्वणः । पुलोमा कालका चैव वैश्वानरसुते हि ते ॥ ६.२२ ॥ बह्वपत्ये महासत्त्वे मारीचस्य परिग्रहे । तयोः षष्टिसहस्राणि दानवानामभूत्पुरा ॥ ६.२३ ॥ पौलोमान्कालकेयांश्च मारीचोऽजनयत्पुरा । अवध्या येऽमराणां वै हिरण्यपुरवासिनः ॥ ६.२४ ॥ चतुर्मुखाल्लब्धवरास्ते हता विजयेन तु । विप्रचित्तिः सैंहिकेयान् सिंहिकायामजीजनत् ॥ ६.२५ ॥ हिरण्यकशिपोर्ये वै भागिनेयास्त्रयोदश । व्यंसः कल्पश्च राजेन्द्र नलो वातापिरेव च ॥ ६.२६ ॥ इल्वलो नमुचिश्चैव श्वसृपश्चाजनस्तथा । नरकः कालनाभश्च सरमाणस्तथैव च ॥ ६.२७ ॥ कालवीयेश्च विख्यातो दनुवंशविवर्धनाः । संह्रादस्य तु दैत्यस्य निवातकवचाः स्मृताः ॥ ६.२८ ॥ अवध्याः सर्वदेवानां गन्धर्वोरगरक्षसाम् । ये हता भर्गमाश्रित्य त्वर्जुनेन रणाजिरे ॥ ६.२९ ॥ षट्कन्या जनयामास ताम्रा मारीचबीजतः । शुकी श्येनी च भासी च सुग्रीवी गृध्रिका शुचिः ॥ ६.३० ॥ शुकी शुकानुलूकांश्च जनयामास धर्मतः । श्येनी श्येनांस्तथा भासी कुररानप्यजीजनत् ॥ ६.३१ ॥ गृध्री गृध्रान्कपोतांश्च पारावतविहंगमान् । हंससारसक्रौञ्चांश्च प्लवाञ्छुचिरजीजनत् ॥ ६.३२ ॥ अजाश्वमेषोष्ट्रखरान् सुग्रीवी चाप्यजीजनत् । एष ताम्रान्वयः प्रोक्तो विनतायां निबोधत ॥ ६.३३ ॥ गरुडः पततां नाथः अरुणश्च पतत्रिणाम् । सौदामनी तथा कन्या येयं नभसि विश्रुता ॥ ६.३४ ॥। सम्पातिश्च जटायुश्च अरुणस्य सुतावुभौ । सम्पातिपुत्रो बभ्रुश्च शीघ्रगश्चापि विश्रुतः ॥ ६.३५ ॥ जटायुषः कर्णिकारः शतगामी च विश्रुतौ । सारसो रज्जुवालश्च भेरुण्डश्चापि तत्सुताः ॥ ६.३६ ॥ तेषामनन्तमभवत्पक्षिणां पुत्रपौत्रकम् । सुरसायाः सहस्रं तु सर्पाणामभवत्पुरा ॥ ६.३७ ॥ सहस्रशिरसां कद्रूः सहस्रं चापि सुव्रत । प्रधानास्तेषु विख्याताः षड्विंशतिररिंदम ॥ ६.३८ ॥ शेषवासुकिकर्कोटशङ्खैरावतकम्बलाः । धनंजयमहानीलपद्माश्वतरतक्षकाः ॥ ६.३९ ॥ एलापत्त्रमहापद्मधृतराष्ट्रबलाहकाः । शङ्खपालमहाशङ्खपुष्पदंष्ट्रशुभाननाः ॥ ६.४० ॥ शङ्कुरोमा च बहुलो वामनः पाणिनस्तथा । कपिलो दुर्मुखश्चापि पतञ्जलिरिति स्मृताः ॥ ६.४१ ॥ एषामनन्तमभवत्सर्वेषां पुत्रपौत्रकम् । प्रायशो यत्पुरा दग्धं जनमेजयमन्दिरे ॥ ६.४२ ॥ रक्षोगणं क्रोधवशा स्वनामानमजीजनत् । दंष्ट्रिणां नियुतं तेषां भीमसेनादगात्क्षयम् ॥ ६.४३ ॥ रुद्राणां च गणं तद्वद्गोमहिष्यो वराङ्गनाः । सुरभिर्जनयामास कश्यपात्संयतव्रता ॥ ६.४४ ॥ मुनिर्मुनीनां च गणं गणमप्सरसां तथा । तथा किंनरगन्धर्वानरिष्टाजनयद्बहून् ॥ ६.४५ ॥ तृणवृक्षलतागुल्ममिरा सर्वमजीजनत् । विश्वा तु यक्षरक्षांसि जनयामास कोटिशः ॥ ६.४६ ॥ तत एकोनपञ्चाशन्मरुतः कश्यपाद्दितिः । जनयामास धर्मज्ञान् सर्वानमरवल्लभान् ॥ ६.४७ ॥ ______________________________________________________ मत्स्यपुराण ७ *ऋषय ऊचुः दितेः पुत्राः कथं जाता मरुतो देववल्लभाः । देवैर्जग्मुश्च सापत्नैः कस्मात्ते सख्यमुत्तमम् ॥ ७.१ ॥ *सूत उवाच पुरा देवासुरे युद्धे हृतेषु हरिणा सुरैः । पुत्रपौत्रेषु शोकार्ता गत्वा भूलोकमुत्तमम् ॥ ७.२ ॥ स्यमन्तपञ्चके क्षेत्रे सरस्वत्यास्तटे शुभे । भर्तुराराधनपरा तप उग्रं चचार ह ॥ ७.३ ॥ तदा दितिर्दैत्यमाता ऋषिरूपेण सुव्रता । फलाहारा तपस्तेपे कृच्छ्रं चान्द्रायणादिकम् ॥ ७.४ ॥ यावद्वर्षशतं साग्रं जराशोकसमाकुला । ततः सा तपसा तप्ता वसिष्ठादीनपृच्छत ॥ ७.५ ॥ कथयन्तु भवन्तो मे पुत्रशोकविनाशनम् । व्रतं सौभाग्यफलदमिहलोके परत्र च ॥ ७.६ ॥ ऊचुर्वसिष्ठप्रमुखा मदनद्वादशीव्रतम् । यस्याः प्रभावादभवत्सुतशोकविवर्जिता ॥ ७.७ ॥ *ऋषय ऊचुः श्रोतुमिच्छामहे सूत मदनद्वादशीव्रतम् । सुतानेकोनपञ्चाशद्येन लेभे दितिः पुनः ॥ ७.८ ॥ *सूत उवाच यद्वसिष्ठादिभिः पूर्वं दितेः कथितमुत्तमम् । विस्तरेण तदेवेदं मत्सकाशान्निबोधत ॥ ७.९ ॥ चैत्रे मासि सिते पक्षे द्वादश्यां नियतव्रतः । स्थापयेदव्रणं कुम्भं सिततण्डुलपूरितम् ॥ ७.१० ॥ नानाफलयुतं तद्वदिक्षुदण्डसमन्वितम् । सितवस्त्रयुगच्छन्नं सितचन्दनचर्चितम् ॥ ७.११ ॥ नानाभक्ष्यसमोपेतं सहिरण्यं तु शक्तितः । ताम्रपात्रं गुडोपेतं तस्योपरि निवेशयेत् ॥ ७.१२ ॥ तस्मादुपरि कामं तु कदलीदलसंस्थितम् । कुर्याच्छर्करयोपेतां रतिं तस्य च वामतः ॥ ७.१३ ॥ गन्धं धूपं ततो दद्याद्गीतं वाद्यं च कारयेत् । तदभावे कथां कुर्यात्कामकेशवयोर्नरः ॥ ७.१४ ॥ कामनाम्ना हरेरर्चां स्नापयेद्गन्धवारिणा । शुक्लपुष्पाक्षततिलैरर्चयेन्मधुसूदनम् ॥ ७.१५ ॥ कामाय पादौ सम्पूज्य जङ्घे सौभाग्यदाय च । ऊरू स्मरायेति पुनर्मन्मथायेति वै कटिम् ॥ ७.१६ ॥ स्वच्छोदरायेत्युदरमनङ्गायेत्युरो हरेः । मुखं पद्ममुखायेति बाहू पञ्चशराय वै ॥ ७.१७ ॥ नमः सर्वात्मने मौलिमर्चयेदिति केशवम् । ततः प्रभाते तं कुम्भं ब्राह्मणाय निवेदयेत् ॥ ७.१८ ॥ ब्राह्मणान्भोजयेद्भक्त्या स्वयं च लवणादृते । भुक्त्या तु दक्षिणां दद्यादिमं मन्त्रमुदीरयेत् ॥ ७.१९ ॥ प्रीयतामत्र भगवान् कामरूपी जनार्दनः । हृदये सर्वभूतानां य आनन्दोऽभिधीयते ॥ ७.२० ॥ अनेन विधिना सर्वं मासि मासि व्रतं चरेत् । उपवासी त्रयोदश्यामर्चयेद्विष्णुमव्ययम् ॥ ७.२१ ॥ फलमेकं च संप्राश्य द्वादश्यां भूतले स्वपेत् । ततस्त्रयोदशे मासि धृतधेनुसमन्विताम् ॥ ७.२२ ॥ शय्यां दद्यादनङ्गाय सर्वोपस्करसंयुताम् । काञ्चनं कामदेवं च शुक्लां गां च पयस्विनीम् ॥ ७.२३ ॥ वासोभिर्द्विजदाम्पत्यं पूज्यं शक्त्या विभूषणैः । शय्यागन्धादिकं दद्यात्प्रीयतामित्युदीरयेत् ॥ ७.२४ ॥ होमः शुक्लतिलैः कार्यः कामनामानि कीर्तयेत् । गव्येन हविषा तद्वत्पायसेन च धर्मवित् ॥ ७.२५ ॥ विप्रेभ्यो भोजनं दद्याद्वित्तशाठ्यं विवर्जयेत् । इक्षुदण्डानथो दद्यात्पुष्पमालाश्च शक्तितः ॥ ७.२६ ॥ यः कुर्याद्विधिनानेन मदनद्वादशीमिमाम् । स सर्वपापनिर्मुक्तः प्राप्नोति हरिसाम्यताम् ॥ ७.२७ ॥ इहलोके वरान् पुत्रान् सौभाग्यफलमश्नुते । यः स्मरः संस्मृतो विष्णुरानन्दात्मा महेश्वरः ॥ ७.२८ ॥ सुखार्थी कामरूपेण स्मरेदङ्गजमीश्वरम् । एतच्छ्रुत्वा चकारासौ दितिः सर्वमशेषतः ॥ ७.२९ ॥ कश्यपो व्रतमाहात्म्यादागत्य परया मुदा । चकार कर्कशां भूयो रूपयौवनशालिनीम् ॥ ७.३० ॥ वरैराछन्दयामास सा तु वव्रे ततो वरम् । पुत्रं शक्रवधार्थाय समर्थममितौजसम् ॥ ७.३१ ॥ वरयामि महात्मानं सर्वामरनिषूदनम् । उवाच कश्यपो वाक्यमिन्द्रहन्तारमूर्जितम् ॥ ७.३२ ॥ प्रदास्याम्यहमेवेह किं त्वेतत्क्रियतां शुभे । आपस्तम्बः करोत्विष्टिं पुत्रीयामद्य सुव्रते ॥ ७.३३ ॥ विधास्यामि ततो गर्भमिन्द्रशत्रुनिषूदनम् । आपस्तम्बस्ततश्चक्रे पुत्रेष्टिं द्रविणाधिकाम् ॥ ७.३४ ॥ इन्द्रशत्रुर्भवस्वेति जुहाव च सविस्तरम् । देवा मुमुदिरे दैत्या विमुखाः स्युश्च दानवाः ॥ ७.३५ ॥ दित्यां गर्भमथाधत्त कश्यपः प्राह तां पुनः । त्वया यत्नो विधातव्यो ह्यस्मिन्गर्भे वरानने ॥ ७.३६ ॥ संवत्सरशतं त्वेकमस्मिन्नेव तपोवने । संख्यायां नैव भोक्तव्यं गर्भिण्या वरवर्णिनि ॥ ७.३७ ॥ न स्थातव्यं न गन्तव्यं वृक्षमूलेषु सर्वदा । नोपस्करेषूपविशेन्मुसलोलूखलादिषु ॥ ७.३८ ॥ जले च नावगाहेत शून्यागारं च वर्जयेत् । वल्मीकायां न तिष्ठेत न चोद्विग्नमना भवेत् ॥ ७.३९ ॥ विलिखेन्न नखैर्भूमिं नाङ्गारेण न भस्मना । न शयालुः सदा तिष्ठेद्व्यायामं च विवर्जयेत् ॥ ७.४० ॥ न तुषाङ्गारभस्मास्थिकपालेषु समाविशेत् । वर्जयेत्कलहं लोकैर्गात्रभङ्गं तथैव च ॥ ७.४१ ॥ न मुक्तकेशा तिष्ठेत नाशुचिः स्यात्कदाचन । न शयीतोत्तरशिरा न चापरशिराः क्वचित् ॥ ७.४२ ॥ न वस्त्रहीना नोद्विग्ना न चार्द्रचरणा सती । नामङ्गल्यां वदेद्वाचं न च हास्याधिका भवेत् ॥ ७.४३ ॥ कुर्यात्तु गुरुशुश्रूषां नित्यं माङ्गल्यतत्परा । सर्वौषधीभिः कोष्णेन वारिणा स्नानमाचरेत् ॥ ७.४४ ॥ कृतरक्षा सुभूषा च वास्तुपूजनतत्परा । तिष्ठेत्प्रसन्नवदना भर्तुः प्रियहिते रता ॥ ७.४५ ॥ दानशीला तृतीयायां पार्वण्यं नक्तमाचरेत् । इतिवृत्ता भवेन्नारी विशेषेण तु गर्भिणी ॥ ७.४६ ॥ यस्तु तस्या भवेत्पुत्रः शीलायुर्वृद्धिसंयुतः । अन्यथा गर्भपतनमवाप्नोति न संशयः ॥ ७.४७ ॥ तस्मात्त्वमनया वृत्त्या गर्भेऽस्मिन्यत्नमाचर । स्वस्त्यस्तु ते गमिष्यामि तथेत्युक्तस्तया पुनः ॥ ७.४८ ॥ पश्यतां सर्वभूतानां तत्रैवान्तरधीयत । ततः सा कश्यपोक्तेन विधिना समतिष्ठत ॥ ७.४९ ॥ अथ भीतस्तथेन्द्रोऽपि दितेः पार्श्वमुपागमत् । विहाय देवसदनं तच्छुश्रूषुरवस्थितः ॥ ७.५० ॥ दितेश्छिद्रान्तरप्रेप्सुरभवत्पाकशासनः । विनीतोऽभवदव्यग्रः प्रशान्तवदनो बहिः ॥ ७.५१ ॥ अजानन्किल तत्कार्यमात्मनः शुभमाचरन् । ततो वर्षशतान्ते सा न्यूने तु दिवसैस्त्रिभिः ॥ ७.५२ ॥ मेने कृतार्थमात्मानं प्रीत्या विस्मितमानसा । अकृत्वा पादयोः शौचं प्रसुप्ता मुक्तमूर्धजा ॥ ७.५३ ॥ निद्राभरसमाक्रान्ता दिवापरशिराः क्वचित् । ततस्तदन्तरं लब्ध्वा प्रविष्टस्तु शचीपतिः ॥ ७.५४ ॥ वज्रेण सप्तधा चक्रे तं गर्भं त्रिदशाधिपः । ततः सप्तैव ते जाताः कुमाराः सूर्यवर्चसः ॥ ७.५५ ॥ रुदन्तः सप्त ते बाला निषिद्धा गिरिदारिणा । भूयोऽपि रुदतश्चैतानेकैकं सप्तधा हरिः ॥ ७.५६ ॥ चिछेद वृत्रहन्ता वै पुनस्तदुदरे स्थितः । एवमेकोनपञ्चाशद्भूत्वा ते रुरुदुर्भृशम् ॥ ७.५७ ॥ इन्द्रो निवारयामास मां रोदिष्ट पुनः पुनः । ततः स चिन्तयामास किमेतदिति वृत्रहा ॥ ७.५८ ॥ धर्मस्य कस्य माहात्म्यात्पुनः संजीवितास्त्वमी । विदित्वा ध्यानयोगेन मदनद्वादशीफलम् ॥ ७.५९ ॥ नूनमेतत्परिणतमधुना कृष्णपूजनात् । वज्रेणापि हताः सन्तो न विनाशमवाप्नुयुः ॥ ७.६० ॥ एकोऽप्यनेकतामाप यस्मादुदरगोऽप्यलम् । अवध्या नूनमेते वै तस्माद्देवा भवन्त्विति ॥ ७.६१ ॥ यस्मान्मा रुदतेत्युक्ता रुदन्तो गर्भसंस्थिताः । मरुतो नाम ते नाम्ना भवन्तु मखभागिनः ॥ ७.६२ ॥ ततः प्रसाद्य देवेशः क्षमस्वेति दितिं पुनः । अर्थशास्त्रं समास्थाय मयैतद्दुष्कृतं कृतम् ॥ ७.६३ ॥ कृत्वा मरुद्गणं देवैः समानममराधिपः । दितिं विमानमारोप्य ससुतामनयद्दिवम् ॥ ७.६४ ॥ यज्ञभागभुजो जाता मरुतस्ते ततो द्विजाः । न जग्मुरैक्यमसुरैरतस्ते सुरवल्लभाः ॥ ७.६५ ॥ ______________________________________________________ मत्स्यपुराण ८ *ऋषय ऊचुः आदिसर्गश्च यः सूत कथितो विस्तरेण तु । प्रतिसर्गश्च ये येषामधिपास्तान्वदस्व नः ॥ ८.१ ॥ *सूत उवाच यदाभिषिक्तः सकलाधिराज्ये पृथुर्धरित्र्यामधिपो बभूव । तदौषधीनामधिपं चकार यज्ञव्रतानां तपसां च चन्द्रम् ॥ ८.२ ॥ नक्षत्रताराद्विजवृक्षगुल्मलतावितानस्य च रुक्मगर्भः । अपामधीशं वरुणं धनानां राज्ञां प्रभुं वैश्रवणं च तद्वत् ॥ ८.३ ॥ विष्णुं रवीणामधिपं वसूनामग्निं च लोकाधिपतिश्चकार । प्रजापतीनामधिपं च दक्षं चकार शक्रं मरुतामधीशम् ॥ ८.४ ॥ दैत्याधिपानामथ दानवानां प्रह्लादमीशं च यमं पितॄणाम् । पिशाचरक्षःपशुभूतयक्षवेतालराजं त्वथ शूलपाणिम् ॥ ८.५ ॥ प्रालेयशैलं च पतिं गिरीणामीशं समुद्रं ससरिन्नदानाम् । गन्धर्वविद्याधरकिंनराणामीशं पुनश्चित्ररथं चकार ॥ ८.६ ॥ नागाधिपं वासुकिमुग्रवीर्यं सर्पाधिपं तक्षकमादिदेश । दिशां गजानामधिपं चकार गजेन्द्रमैरावतनामधेयम् ॥ ८.७ ॥ सुपर्णमीशं पततामथाश्वराजानमुच्चैःश्रवसं चकार । सिंहं मृगाणां वृषभं गवां च प्लक्षं पुनः सर्ववनस्पतीनाम् ॥ ८.८ ॥ पितामहः पूर्वमथाभ्यषिञ्चच्चैतान्पुनः सर्वदिशाधिनाथान् । पूर्वेण दिक्पालमथाभ्यषिञ्चन्नाम्ना सुधर्माणमरातिकेतुम् ॥ ८.९ ॥ ततोऽधिपं दक्षिणतश्चकार सर्वेश्वरं शङ्खपदाभिधानम् । स केतुमन्तं च दिगीशमीशश्चकार पश्चाद्भुवनाण्डगर्भः ॥ ८.१० ॥ हिरण्यरोमाणमुदग्दिगीशं प्रजापतिर्देवसुतं चकार । अद्यापि कुर्वन्ति दिशामधीशाः शत्रून् दहन्तस्तु भुवोऽभिरक्षाम् ॥ ८.११ ॥ चतुर्भिरेभिः पृथुनामधेयो नृपोऽभिषिक्तः प्रथमं पृथिव्याम् । गतेऽन्तरे चाक्षुषनामधेये वैवस्वताख्ये च पुनः प्रवृत्ते । प्रजापतिः सोऽस्य चराचरस्य बभूव सूर्यान्वयवंशचिह्नः ॥ ८.१२ ॥ ______________________________________________________ मत्स्यपुराण ९ *सूत उवाच एवं श्रुत्वा मनुः प्राह पुनरेव जनार्दनम् । पूर्वेषां चरितं ब्रूहि मनूनां मधुसूदन ॥ ९.१ ॥ *मत्स्य उवाच मन्वन्तराणि राजेन्द्र मनूनां चरितं च यत् । प्रमाणं चैव कालस्य तां सृष्टिं च समासतः ॥ ९.२ ॥ एकचित्तः प्रशान्तात्मा शृणु मार्तण्डनन्दन । यामा नाम पुरा देवा आसन् स्वायम्भुवान्तरे ॥ ९.३ ॥ सप्तैव ऋषयः पूर्वे ये मरीच्यादयः स्मृताः । आग्नीध्रश्चाग्निबाहुश्च सहः सवन एव च ॥ ९.४ ॥ ज्योतिष्मान् द्युतिमान् हव्यो मेधा मेधातिथिर्वसुः । स्वायम्भुवस्यास्य मनोर्दशैते वंशवर्धनाः ॥ ९.५ ॥ प्रतिसर्गमिमे कृत्वा जग्मुर्यत्परमंपदम् । एतत्स्वायम्भुवं प्रोक्तं स्वारोचिषमतः परम् ॥ ९.६ ॥ स्वारोचिषस्य तनयाश्चत्वारो देववर्चसः । नभोनभस्यप्रसृतिभानवः कीर्तिवर्धनाः ॥ ९.७ ॥ दत्तो निश्च्यवनस्तम्बः प्राणः कश्यप एव च । और्वो बृहस्पतिश्चैव सप्तैते ऋषयः स्मृताः ॥ ९.८ ॥ देवाश्च तुषिता नाम स्मृताः स्वारोचिषेऽन्तरे । हस्तीन्द्रः सुकृतो मूर्तिरापो ज्योतिरयः स्मयः ॥ ९.९ ॥ वसिष्ठस्य सुताः सप्त ये प्रजापतयः स्मृताः । द्वितीयमेतत्कथितं मन्वन्तरमतः परम् ॥ ९.१० ॥ औत्तमीयं प्रवक्ष्यामि तथा मन्वन्तरं शुभम् । मनुर्नामौत्तमिर्यत्र दश पुत्रानजीजनत् ॥ ९.११ ॥ ईष ऊर्जश्च तर्जश्च शुचिः शुक्रस्तथैव च । मधुश्च माधवश्चैव नभस्योऽथ नभास्तथा ॥ ९.१२ ॥ सहः कनीयानेतेषामुदारः कीर्तिवर्धनः । भावनास्तत्र देवाः स्युरूर्जाः सप्तर्षयः स्मृताः ॥ ९.१३ ॥ कौकुरुण्डिश्च दाल्भ्यश्च शङ्गः प्रवहणः शिवः । सितश्च सस्मितश्चैव सप्तैते योगवर्धनाः ॥ ९.१४ ॥ मन्वन्तरं चतुर्थं तु तामसं नाम विश्रुतम् । कविः पृथुस्तथैवाग्निरकपिः कपिरेव च ॥ ९.१५ ॥ तथैव जल्पधीमानौ मुनयः सप्त तामसे । साध्या देवगणा यत्र कथितास्तामसेऽन्तरे ॥ ९.१६ ॥ अकल्मषस्तथा धन्वी तपोमूलस्तपोधनः । तपोरतिस्तपस्यश्च तपोद्युतिपरंतपौ ॥ ९.१७ ॥ तपोभागी तपोयोगी धर्माचाररताः सदा । तामसस्य सुताः सर्वे दश वंशविवर्धनाः ॥ ९.१८ ॥ पञ्चमस्य मनोस्तद्वद्रैवतस्यान्तरं शृणु । देवबाहुः सुबाहुश्च पर्जन्यः सोमपो मुनिः ॥ ९.१९ ॥ हिरण्यरोमा सप्ताश्वः सप्तैते ऋषयः स्मृताः । देवाश्चाभूतरजसस्तथा प्रकृतयः शुभाः ॥ ९.२० ॥ अरुणस्तत्त्वदर्शी च वित्तवान्हव्यपः कपिः । युक्तो निरुत्सुकः सत्त्वो निर्मोहोऽथ प्रकाशकः ॥ ९.२१ ॥ धर्मवीर्यबलोपेता दशैते रैवतात्मजाः । भृगुः सुधामा विरजाः सहिष्णुर्नाद एव च ॥ ९.२२ ॥ विवस्वानतिनामा च षष्ठे सप्तर्षयोऽपरे । चाक्षुषस्यान्तरे देवा लेखा नाम परिश्रुताः ॥ ९.२३ ॥ ऋभवोऽथ ऋभाद्याश्च वारिमूला दिवौकसः । चाक्षुषस्यान्तरे प्रोक्ता देवानां पञ्च योनयः ॥ ९.२४ ॥ रुरुप्रभृतयस्तद्वच्चाक्षुषस्य सुता दश । प्रोक्ताः स्वायम्भुवे वंशे ये मया पूर्वमेव तु ॥ ९.२५ ॥ अन्तरं चाक्षुषं चैतन्मया ते परिकीर्तितम् । सप्तमं तत्प्रवक्ष्यामि यद्वैवस्वतमुच्यते ॥ ९.२६ ॥ अत्रिश्चैव वसिष्ठश्च कश्यपो गौतमस्तथा । भरद्वाजस्तथा योगी विश्वामित्रः प्रतापवान् ॥ ९.२७ ॥ जमदग्निश्च सप्तैते साम्प्रतं ये महर्षयः । कृत्वा धर्मव्यवस्थानं प्रयान्ति परमं पदम् ॥ ९.२८ ॥ साध्या विश्वे च रुद्राश्च मरुतो वसवोऽश्विनौ । आदित्याश्च सुरास्तद्वत्सप्त देवगणाः स्मृताः ॥ ९.२९ ॥ इक्ष्वाकुप्रमुखाश्चास्य दश पुत्राः स्मृता भुवि । मन्वन्तरेषु सर्वेषु सप्त सप्त महर्षयः ॥ ९.३० ॥ कृत्वा धर्मव्यवस्थानं प्रयान्ति परमं पदम् । सावर्ण्यस्य प्रवक्ष्यामि मनोर्भावि तथान्तरम् ॥ ९.३१ ॥ अश्वत्थामा शरद्वांश्च कौशिको गालवस्तथा । शतानन्दः काश्यपश्च रामश्च ऋषयः स्मृताः ॥ ९.३२ ॥ धृतिर्वरीयान् यवसः सुवर्णो वष्टिरेव च । चरिष्णुरीड्यः सुमतिर्वसुः शुक्रश्च वीर्यवान् ॥ ९.३३ ॥ भविष्या दश सावर्णेर्मनोः पुत्राः प्रकीर्तिताः । रौच्यादयस्तथान्येऽपि मनवः संप्रकीर्तिताः ॥ ९.३४ ॥ रुचेः प्रजापतेः पुत्रो रौच्यो नाम भविष्यति । मनुर्भूतिसुतस्तद्वद्भौत्यो नाम भविष्यति ॥ ९.३५ ॥ ततस्तु मेरुसावर्णिर्ब्रह्मसूनुर्मनुः स्मृतः । ऋतश्च ऋतधामा च विष्वक्सेनो मनुस्तथा ॥ ९.३६ ॥ अतीतानागताश्चैते मनवः परिकीर्तिताः । षडूनं युगसाहस्रमेभिर्व्याप्तं नराधिप ॥ ९.३७ ॥ स्वे स्वेऽन्तरे सर्वमिदमुत्पाद्य सचराचरम् । कल्पक्षये विनिर्वृत्ते मुच्यन्ते ब्रह्मणा सहा ॥ ९.३८ ॥ एते युगसहस्रान्ते विनश्यन्ति पुनः पुनः । ब्रह्माद्या विष्णुसायुज्यं याता यास्यन्ति वै द्विजाः ॥ ंत्स्_९.३९ ॥ ______________________________________________________ मत्स्यपुराण १० *ऋषय ऊचुः बहुभिर्धारिणी भुक्ता भूपालैः श्रूयते पुरा । पार्थिवाः पृथिवीयोगात्पृथिवी कस्य योगतः ॥ १०.१ ॥ किमर्थं च कृता संज्ञा भूमेः किं पारिभाषिकी । गौरितीयं च विख्याता सूत कस्माद्ब्रवीहि नः ॥ १०.२ ॥ *सूत उवाच वंशे स्वायम्भुवस्यासीदङ्गो नाम प्रजापतिः । मृत्योस्तु दुहिता तेन परिणीता सुदुर्मुखा ॥ १०.३ ॥ सुनीथा नाम तस्यास्तु वेनो नाम सुतः पुरा । अधर्मनिरतश्चासीद्बलवान् वसुधाधिपः ॥ १०.४ ॥ लोकेऽप्यधर्मकृज्जातः परभार्यापहारकः । धर्माचारस्य सिद्ध्यर्थं जगतोऽथ महर्षिभिः ॥ १०.५ ॥ अनुनीतोऽपि न ददावनुज्ञां स यदा ततः । शापेन मारयित्वैनमराजकमयार्दिताः ॥ १०.६ ॥ ममन्थुर्ब्राह्मणास्तस्य बलाद्देहमकल्मषाः । तत्कायान्मथ्यमानात्तु निपेतुर्म्लेच्छजातयः ॥ १०.७ ॥ शरीरे मातुरंशेन कृष्णाञ्जनसमप्रभाः । पितुरंशस्य चांशेन धार्मिको धर्मचारिणः ॥ १०.८ ॥ उत्पन्नो दक्षिणाद्धस्तात्सधनुः सशरो गदी । दिव्यतेजोमयवपुः सरत्नकवचाङ्गदः ॥ १०.९ ॥ पृथोरेवाभवद्यत्नात्ततः पृथुरजायत । स विप्रैरभिषिक्तोऽपि तपः कृत्वा सुदारुणम् ॥ १०.१० ॥ विष्णोर्वरेण सर्वस्य प्रभुत्वमगमत्पुनः । निःस्वाध्यायवषट्कारं निर्धर्मं वीक्ष्य भूतलम् ॥ १०.११ ॥ दग्धुमेवोद्यतः कोपाच्छरेणामितविक्रमः । ततो गोरूपमास्थाय भूः पलायितुमुद्यता ॥ १०.१२ ॥ पृष्ठतोऽनुगतस्तस्याः पृथुर्दीप्तशरासनः । ततः स्थित्वैकदेशे तु किं करोमीति चाब्रवीत् ॥ १०.१३ ॥ पृथुरप्यवदद्वाक्यमीप्सितं देहि सुव्रते । सर्वस्य जगतः शीघ्रं स्थावरस्य चरस्य च ॥ १०.१४ ॥ तथैव साब्रवीद्भूमिर्दुदोह स नराधिपः । स्वके पाणौ पृथुर्वत्सं कृत्वा स्वायम्भुवं मनुम् ॥ १०.१५ ॥ तदन्नमभवच्छुद्धं प्रजा जीवन्ति येन वै । ततस्तु ऋषिभिर्दुग्धा वत्सः सोमस्तदाभवत् ॥ १०.१६ ॥ दोग्धा बृहस्पतिरभूत्पात्रं वेदस्तपो रसः । देवैश्च वसुधा दुग्धा दोग्धा मित्रस्तदाभवत् ॥ १०.१७ ॥ इन्द्रो वत्सः समभवत्क्षीरमूर्जस्करं बलम् । देवानां काञ्चनं पात्रं पितॄणां राजतं तथा ॥ १०.१८ ॥ अन्तकश्चाभवद्दोग्धा यमो वत्सः स्वधा रसः । अलाबुपात्रं नागानां तक्षको वत्सकोऽभवत् ॥ १०.१९ ॥ विषं क्षीरं ततो दोग्धा धृतराष्ट्रोऽभवत्पुनः । असुरैरपि दुग्धेयमायसे शक्रपीडिनीम् ॥ १०.२० ॥ पात्रे मायामभूद्वत्सः प्राह्लादिस्तु विरोचनः । दोग्धा द्विमूर्धा तत्रासीन्माया येन प्रवर्तिता ॥ १०.२१ ॥ यक्षैश्च वसुधा दुग्धा पुरान्तर्धानमीप्सुभिः । कृत्वा वैश्रवणं वत्समामपात्रे महीपते ॥ १०.२२ ॥ प्रेतरक्षोगणैर्दुग्धा धरा रुधिरमुल्बणम् । रौप्यनाभोऽभवद्दोग्धा सुमाली वत्स एव तु ॥ १०.२३ ॥ गन्धर्वैश्च पुरा दुग्धा वसुधा साप्सरोगणैः । वत्सं चैत्ररथं कृत्वा गन्धान्पद्मदले तथा ॥ १०.२४ ॥ दोग्धा वररुचिर्नाम नाट्यवेदस्य पारगः । गिरिभिर्वसुधा दुग्धा रत्नानि विविधानि च ॥ १०.२५ ॥ औषधानि च दिव्यानि दोग्धा मेरुर्महाचलः । वत्सोऽभूद्धिमवांस्तत्र पात्रं शैलमयं पुनः ॥ १०.२६ ॥ वृक्षैश्च वसुधा दुग्धा क्षीरं छिन्नप्ररोहणम् । पालाशपात्रे दोग्धा तु शालः पुष्पलताकुलः ॥ १०.२७ ॥ प्लक्षोऽभवत्ततो वत्सः सर्ववृक्षो धनाधिपः । एवमन्यैश्च वसुधा तदा दुग्धा यथेप्सितम् ॥ १०.२८ ॥ आयुर्धनानि सौख्यं च पृथौ राज्यं प्रशासति । न दरिद्रस्तदा कश्चिन्न रोगी न च पापकृत् ॥ १०.२९ ॥ नोपसर्गभयं किंचित्पृथौ राजनि शासति । नित्यं प्रमुदिता लोका दुःखशोकविवर्जिताः ॥ १०.३० ॥ धनुष्कोट्या च शैलेन्द्रानुत्सार्य स महाबलः । भुवस्तलं समं चक्रे लोकानां हितकाम्यया ॥ १०.३१ ॥ न पुरग्रामदुर्गाणि न चायुधधरा नराः । क्षयातिशयदुःखं च नार्थशास्त्रस्य चादरः ॥ १०.३२ ॥ धर्मैकवासना लोकाः पृथौ राज्यं प्रशासति । कथितानि च पात्राणि यत्क्षीरं च मया तव ॥ १०.३३ ॥ येषां यत्र रुचिस्तत्तद्देयं तेभ्यो विजानता । यज्ञश्राद्धेषु सर्वेषु मया तुभ्यं निवेदितम् ॥ १०.३४ ॥ दुहितृत्वं गता यस्मात्पृथोर्धर्मवतो मही । तदानुरागयोगाच्च पृथिवी विश्रुता बुधैः ॥ १०.३५ ॥ ______________________________________________________ मत्स्यपुराण ११ *ऋषय ऊचुः आदित्यवंशमखिलं वद सूत यथाक्रमम् । सोमवंशं च तत्त्वज्ञ यथावद्वक्तुमर्हसि ॥ ११.१ ॥ *सूत उवाच विवस्वान्कश्यपात्पूर्वमदित्यामभवत्सुतः । तस्य पत्नीत्रयं तद्वत्संज्ञा राज्ञी प्रभा तथा ॥ ११.२ ॥ रैवतस्य सुता राज्ञी रेवतं सुषुवे सुतम् । प्रभा प्रभातं सुषुवे त्वाष्ट्री संज्ञा तथा मनुम् ॥ ११.३ ॥ यमश्च यमुना चैव यमलौ तु बभूवतुः । ततस्तेजोमयं रूपमसहन्ती विवस्वतः ॥ ११.४ ॥ नारीमुत्पादयामास स्वशरीरादनिन्दिताम् । त्वाष्ट्री स्वरूपरूपेण नाम्ना छायेति भामिनी ॥ ११.५ ॥ पुरतः संस्थितां दृष्ट्वा संज्ञा तां प्रत्यभाषत । छाये तं भज भर्तारमस्मदीयं वरानने ॥ ११.६ ॥ अपत्यानि मदीयानि मातृस्नेहेन पालय । तथेत्युक्त्वा तु सा देवमगमत्क्वापि सुव्रता ॥ ११.७ ॥ कामयामास देवोऽपि संज्ञेयमिति चादरात् । जनयामास तस्यां तु पुत्रं च मनुरूपिणम् ॥ ११.८ ॥ सवर्णत्वाच्च सावर्णिर्मनोर्वैवस्वतस्य च । ततः शनिं च तपतीं विष्टिं चैव क्रमेण तु ॥ ११.९ ॥ छायायां जनयामास संज्ञेयमिति भास्करः । छाया स्वपुत्रेऽभ्यधिकं स्नेहं चक्रे मनौ तथा ॥ ११.१० ॥ पूर्वो मनुस्तु चक्षाम न यमः क्रोधमूर्छितः । संतर्जयामास तदा पादमुद्यम्य दक्षिणम् ॥ ११.११ ॥ शशाप च यमं छाया सक्षतः कृमिसंयुतः । पादोऽयमेको भविता पूयशोणितविस्रवः ॥ ११.१२ ॥ निवेदयामास पितुर्यमः शापादमर्षितः । निष्कारणमहं शप्तो मात्रा देव सकोपया ॥ ११.१३ ॥ बालभावान्मया किंचिदुद्यतश्चरणः सकृत् । मनुना वार्यमाणापि मम शापमदाद्विभो ॥ ११.१४ ॥ प्रायो न माता सास्माकं शापेनाहं यतो हतः । देवोऽप्याह यमं भूयः किं करोमि महामते ॥ ११.१५ ॥ मौर्ख्यात्कस्य न दुःखं स्यादथवा कर्मसंततिः । अनिवार्या भवस्यापि का कथान्येषु जन्तुषु ॥ ११.१६ ॥ कृकवाकुर्मया दत्तो यः कृमीन्भक्षयिष्यति । क्लेदं च रुधिरं चैव वत्सायमपनेष्यति ॥ ११.१७ ॥ एवमुक्तस्तपस्तेपे यमस्तीव्रं महायशाः । गोकर्णतीर्थे वैराग्यात्फलपत्त्रानिलाशनः ॥ ११.१८ ॥ आराधयन्महादेवं यावद्वर्षायुतायुतम् । वरं प्रादान्महादेवः संतुष्टः शूलभृत्तदा ॥ ११.१९ ॥ वव्रे स लोकपालत्वं पितृलोके नृपालयम् । धर्माधर्मात्मकस्यापि जगतस्तु परीक्षणम् ॥ ११.२० ॥ एवं स लोकपालत्वमगमच्छूलपाणिनः । पितॄणां चाधिपत्यं च धर्माधर्मस्य चानघ ॥ ११.२१ ॥ विवस्वानथ तज्ज्ञात्वा संज्ञायाः कर्मचेष्टितम् । त्वष्टुः समीपमगमदाचचक्षे च रोषवान् ॥ ११.२२ ॥ तमुवाच ततस्त्वष्टा सान्त्वपूर्वं द्विजोत्तमाः । तवासहन्ती भगवन्महस्तीव्रं तमोनुदम् ॥ ११.२३ ॥ वडबारूपमास्थाय मत्सकाशमिहागता । निवारिता मया सा नु त्वया चैव दिवाकर ॥ ११.२४ ॥ यस्मादविज्ञाततया मत्सकाशमिहागता । तस्मान्मदीयं भवनं प्रवेष्टुं न त्वमर्हसि ॥ ११.२५ ॥ एवमुक्ता जगामाथ मरुदेशमनिन्दिता । वडबारूपमास्थाय भूतले सम्प्रतिष्ठिता ॥ ११.२६ ॥ तस्मात्प्रसादं कुरु मे यद्यनुग्रहभागहम् । अपनेष्यामि ते तेजो यन्त्रे कृत्वा दिवाकर ॥ ११.२७ ॥ रूपं तव करिष्यामि लोकानन्दकरं प्रभो । तथेत्युक्तः स रविणा भ्रमौ कृत्वा दिवाकरम् ॥ ११.२८ ॥ पृथक्चकार तत्तेजश्चक्रं विष्णोरकल्पयत् । त्रिशूलं चापि रुद्रस्य वज्रमिन्द्रस्य चाधिकम् ॥ ११.२९ ॥ दैत्यदानवसंहर्तुः सहस्रकिरणात्मकम् । रूपं चाप्रतिमं चक्रे त्वष्टा पद्भ्यामृते महत् ॥ ११.३० ॥ न शशाकाथ तद्द्रष्टुं पादरूपं रवेः पुनः । अर्चास्वपि ततः पादौ न कश्चित्कारयेत्क्वचित् ॥ ११.३१ ॥ यः करोति स पापिष्ठां गतिमाप्नोति निन्दिताम् । कुष्ठरोगमवाप्नोति लोकेऽस्मिन्दुःखसंयुतः ॥ ११.३२ ॥ तस्माच्च धर्मकामार्थी चित्रेष्वायतनेषु च । न क्वचित्कारयेत्पादौ देवदेवस्य धीमतः ॥ ११.३३ ॥ ततः स भगवान्गत्वा भूर्लोकममराधिपः । कामयामास कामार्तो मुख एव दिवाकरः ॥ ११.३४ ॥ अश्वरूपेण महता तेजसा च समावृतः । संज्ञा च मनसा क्षोभमगमद्भयविह्वला ॥ ११.३५ ॥ नासापुटाभ्यामुत्सृष्टं परोऽयमिति शङ्कया । तद्रेतसस्ततो जातावश्विनाविति निश्चितम् ॥ ११.३६ ॥ दस्रौ सुतत्वात्संजातौ नासत्यौ नासिकाग्रतः । ज्ञात्वा चिराच्च तं देवं संतोषमगमत्परम् ॥ ११.३७ ॥ विमानेनागमत्स्वर्गं पत्या सह मुदान्विता । सावर्णोऽपि मनुर्मेरावद्याप्यास्ते तपोधनः । शनिस्तपोबलादाप ग्रहसाम्यं ततः पुनः ॥ ११.३८ ॥ यमुना तपती चैव पुनर्नद्यौ बभूवतुः । विष्टिर्घोरात्मिका तद्वत्कालत्वेन व्यवस्थिता ॥ ११.३९ ॥ मनोर्वैवस्वतस्यासन् दश पुत्रा महाबलाः । इलस्तु प्रथमस्तेषां पुत्रेष्ट्यां समजायत ॥ ११.४० ॥ इक्ष्वाकुः कुशनाभश्च अरिष्टो धृष्ट एव च । नरिष्यन्तः करूषश्च शर्यातिश्च महाबलाः । पृषध्रश्चाथ नाभागः सर्वे ते दिव्यमानुषाः ॥ ११.४१ ॥ अभिषिच्य मनुः पुत्रमिलं ज्येष्ठं स धार्मिकः । जगाम तपसे भूयः स महेन्द्रवनालयम् ॥ ११.४२ ॥ अथ दिग्जयसिद्ध्यर्थमिलः प्रायान्महीमिमाम् । भ्रमन्द्वीपानि सर्वाणि क्ष्माभृतः सम्प्रधर्षयन् ॥ ११.४३ ॥ जगामोपवनं शम्भोरश्वाकृष्टः प्रतापवान् । कल्पद्रुमलताकीर्णं नाम्ना शरवणं महत् ॥ ११.४४ ॥ रमते यत्र देवेशः शम्भुः सोमार्धशेखरः । उमया समयस्तत्र पुरा शरवणे कृतः ॥ ११.४५ ॥ पुंनाम सत्त्वं यत्किंचिदागमिष्यति ते वने । स्त्रीत्वमेष्यति तत्सर्वं दशयोजनमण्डले ॥ ११.४६ ॥ अज्ञातसमयो राजा इलः शरवणे पुरा । स्त्रीत्वमाप विशन्नेव वडबात्वं हयस्तदा ॥ ११.४७ ॥ पुरुषत्वं हृतं सर्वं स्त्रीरूपे विस्मितो नृपः । इलेति साभवन्नारी पीनोन्नतघनस्तनी ॥ ११.४८ ॥ उन्नतश्रोणिजघना पद्मपत्त्रायतेक्षणा । पूर्णेन्दुवदना तन्वी विलासोल्लासितेक्षणा ॥ ११.४९ ॥ मूलोन्नतायतभुजा नीलकुञ्चितमूर्धजा । तनुलोमा सुदशना मृदुगम्भीरभाषिणी ॥ ११.५० ॥ श्यामगौरेण वर्णेन हंसवारणगामिनी । कार्मुकभ्रूयुगोपेता तनुताम्रनखाङ्कुरा ॥ ११.५१ ॥ भ्रमन्ती च वने तस्मिंश्चिन्तयामास भामिनी । को मे पिताथवा भ्राता का मे माता भवेदिह ॥ ११.५२ ॥ कस्य भर्तुरहं दत्ता कियद्वत्स्यामि भूतले । चिन्तयन्तीति ददृशे सोमपुत्रेण साङ्गना ॥ ११.५३ ॥ इला रूपसमाक्षिप्तमनसा वरवर्णिनी । बुधस्तदाप्तये यत्नमकरोत्कामपीडितः ॥ ११.५४ ॥ विशिष्टाकारवान्दण्डी सकमण्डलुपुस्तकः । वेणुदण्डकृतानेकपवित्रकगणत्रिकः ॥ ११.५५ ॥ द्विजरूपः शिखी ब्रह्मा निगदन्कर्णकुण्डलः । बटुभिश्चान्वितो युक्तैः समित्पुष्पकुशोदकैः ॥ ११.५६ ॥ किलान्विषन् वने तस्मिन्नाजुहाव स तामिलाम् । बहिर्वनस्यान्तरितः किल पादपमण्डले ॥ ११.५७ ॥ ससंभ्रममकस्मात्तां सोपालम्भमिवावदत् । त्यक्त्वाग्निहोत्रशुश्रूषां क्व गता मन्दिरान्मम ॥ ११.५८ ॥ इयं विहारवेला ते ह्यतिक्रामति साम्प्रतम् । एह्येहि पृथुसुश्रोणि संभ्रान्ता केन हेतुना ॥ ११.५९ ॥ इयं सायन्तनी वेला विहारस्येह वर्तते । कृत्वोपलेपनं पुष्पैरलंकुरु गृहं मम ॥ ११.६० ॥ सा त्वब्रवीद्विरमृताहं सर्वमेतत्तपोधन । आत्मानं त्वां च भर्तारं कुलं च वद मेऽनघ ॥ ११.६१ ॥ बुधः प्रोवाच तां तन्वीमिला त्वं वरवर्णिनी । अहं च कामुको नाम बहुविद्यो बुधः स्मृतः ॥ ११.६२ ॥ तेजस्विनः कुले जातः पिता मे ब्राह्मणाधिपः । इति सा तस्य वचनात्प्रविष्टा बुधमन्दिरम् ॥ ११.६३ ॥ रत्नस्तम्भसमायुक्तं दिव्यमायाविनिर्मितम् । इला कृतार्थमात्मानं मेने तद्भवनस्थिता ॥ ११.६४ ॥ अहो वृत्तमहो रूपमहो धनमहो कुलम् । मम चास्य च मे भर्तुरहो लावण्यमुत्तमम् ॥ ११.६५ ॥ रेमे च सा तेन सममतिकालमिला ततः । सर्वभोगमये गेहे यथेन्द्रभवने तथा ॥ ११.६६ ॥ ______________________________________________________ मत्स्यपुराण १२ *सूत उवाच अथान्विषन्तो राजानं भ्रातरस्तस्य मानवाः । इक्ष्वाकुप्रमुखा जग्मुस्तदा शरवणान्तिकम् ॥ १२.१ ॥ ततस्ते ददृशुः सर्वे वडबामग्रतः स्थिताम् । रत्नपर्याणकिरणदीप्तकायामनुत्तमाम् ॥ १२.२ ॥ पर्याणप्रत्यभिज्ञानात्सर्वे विस्मयमागताः । अयं चन्द्रप्रभो नाम वाजी तस्य महात्मनः ॥ १२.३ ॥ अगमद्वडबारूपमुत्तमं केन हेतुना । ततस्तु मैत्रावरुणिं पप्रच्छुस्ते पुरोधसम् ॥ १२.४ ॥ किमित्येतदभूच्चित्रं वद योगविदां वर । वसिष्ठश्चाब्रवीत्सर्वं दृष्ट्वा तद्ध्यानचक्षुषा ॥ १२.५ ॥ समयः शम्भुदयिताकृतः शरवणे पुरा । यः पुमान्प्रविशेदत्र स नारीत्वमवाप्स्यति ॥ १२.६ ॥ अयमश्वोऽपि नारीत्वमगाद्राज्ञा सहैव तु । पुनः पुरुषतामेति यथासौ धनदोपमः ॥ १२.७ ॥ तथैव यत्नः कर्तव्यश्चाराध्यैव पिनाकिनम् । ततस्ते मानवा जग्मुर्यत्र देवो महेश्वरः ॥ १२.८ ॥ तुष्टुवुर्विविधैः स्तोत्रैः पार्वतीपरमेश्वरौ । तावूचतुरलङ्घ्योऽयं समयः किंतु साम्प्रतम् ॥ १२.९ ॥ इक्ष्वाकोरश्वमेधेन यत्फलं स्यात्तदावयोः । दत्त्वा किम्पुरुषो वीरः स भविष्यत्यसंशयम् ॥ १२.१० ॥ तथेत्युक्तास्ततस्ते तु जग्मुर्वैवस्वतात्मजाः । इक्ष्वाकोश्चाश्वमेधेन चेलः किम्पुरुषोऽभवत् ॥ १२.११ ॥ मासमेकं पुमान्वीरः स्त्री च मासमभूत्पुनः । बुधस्य भवने तिष्ठन्निलो गर्भधरोऽभवत् ॥ १२.१२ ॥ अजीजनत्पुत्रमेकमनेकगुणसंयुतम् । बुधश्चोत्पाद्य तं पुत्रं स्वर्लोकमगमत्ततः ॥ १२.१३ ॥ इलस्य नाम्ना तद्वर्षमिलावृतमभूत्तदा । सोमार्कवंशयोरादाविलोऽभून्मनुनन्दनः ॥ १२.१४ ॥ एवं पुरूरवाः पुंसोरभवद्वंशवर्धनः । इक्ष्वाकुरर्कवंशस्य तथैवोक्तस्तपोधनाः ॥ १२.१५ ॥ इलः किम्पुरुषत्वे च सुद्युम्न इति चोच्यते । पुनः पुत्रत्रयमभूत्सुद्युम्नस्यापराजितम् ॥ १२.१६ ॥ उत्कलो वै गहस्तद्वद्धरिताश्वश्च वीर्यवान् । उत्कलस्योत्कला नाम गयस्य तु गया मता ॥ १२.१७ ॥ हरिताश्वस्य दिक्पूर्वा विश्रुता कुरुभिः सह । प्रतिष्ठानेऽभिषिच्याथ स पुरूरवसं सुतम् ॥ १२.१८ ॥ जगामेलावृतं भोक्तुं वर्षं दिव्यफलाशनम् । इक्ष्वाकुर्ज्येष्ठदायादो मध्यदेशमवाप्तवान् ॥ १२.१९ ॥ नरिष्यन्तस्य पुत्रोऽभूच्छुचो नाम महाबलः । नाभागस्याम्बरीषस्तु धृष्टस्य च सुतत्रयम् ॥ १२.२० ॥ धृतकेतुश्चित्रनाथो रणधृष्टश्च वीर्यवान् । आनर्तो नाम शर्यातेः सुकन्या चैव दारिका ॥ १२.२१ ॥ आनर्तस्याभवत्पुत्रो रोचमानः प्रतापवान् । आनर्तो नाभ देशोऽभून्नगरी च कुशस्थली ॥ १२.२२ ॥ रोचमानस्य पुत्रोऽभूद्रेवो रैवत एव च । ककुद्मी चापरं नाम ज्येष्ठः पुत्रशतस्य च ॥ १२.२३ ॥ रेवती तस्य सा कन्या भार्या रामस्य विश्रुता । करूषस्य तु कारूषा बहवः प्रथिता भुवि ॥ १२.२४ ॥ पृषध्रो गोवधाच्छूद्रो गुरुशापादजायत । इक्ष्वाकुवंशं वक्ष्यामि शृणुध्वमृषिसत्तमाः ॥ १२.२५ ॥ इक्ष्वाकोः पुत्रतामाप विकुक्षिर्नाम देवराट् । ज्येष्ठः पुत्रशतस्यासीद्दश पञ्च च तत्सुताः ॥ १२.२६ ॥ मेरोरुत्तरतस्ते तु जाताः पार्थिवसत्तमाः । चतुर्दशोत्तरं चान्यच्छतमस्य तथाभवत् ॥ १२.२७ ॥ मेरोर्दक्षिणतो ये ये राजानः संप्रकीर्तिताः । ज्येष्ठः ककुत्स्थो नाम्नाभूत्तत्सुतस्तु सुयोधनः ॥ १२.२८ ॥ तस्य पुत्रः पृथुर्नाम विश्वगश्चपृथोः सुतः । इन्दुस्तस्य च पुत्रोऽभूद्युवनाश्वस्ततोऽभवत् ॥ १२.२९ ॥ श्रावस्तश्च महातेजा वत्सकस्तत्सुतोऽभवत् । निर्मिता येन श्रावस्ती गौडदेशे द्विजोत्तमाः ॥ १२.३० ॥ श्रावस्ताद्बृहदश्वोऽभूत्कुवलाश्वस्ततोऽभवत् । धुन्धुमारत्वमगमद्धुन्धुनाम्ना हतः पुरा ॥ १२.३१ ॥ तस्य पुत्रास्त्रयो जाता दृढाश्वो दण्ड एव च । कपिलाश्वश्च विख्यातो धौन्धुमारिः प्रतापवान् ॥ १२.३२ ॥ दृढाश्वस्य प्रमोदश्च हर्यश्वस्तस्य चात्मजः । हर्यश्वस्य निकुम्भोऽभूत्संहताश्वस्ततोऽभवत् ॥ १२.३३ ॥ अकृताश्वो रणाश्वश्च संहताश्वसुतावुभौ । युवनाश्वो रणाश्वस्य मान्धाता च ततोऽभवत् ॥ १२.३४ ॥ मान्धातुः पुरुकुत्सोऽभूद्धर्मसेनश्च पार्थिवः । मुचुकुन्दश्च विख्यातः शत्रुजिच्च प्रतापवान् ॥ १२.३५ ॥ पुरुकुत्सस्य पुत्रोऽभूद्वसुदो नर्मदापतिः । सम्भूतिस्तस्य पुत्रोऽभूत्त्रिधन्वा च ततोऽभवत् ॥ १२.३६ ॥ त्रिधन्वनः सुतो जातस्त्रय्यारुण इति स्मृतः । तस्मात्सत्यव्रतो नाम तस्मात्सत्यरथः स्मृतः ॥ १२.३७ ॥ तस्य पुत्रो हरिश्चन्द्रो हरिश्चन्द्राच्च रोहितः । रोहिताच्च वृको जातो वृकाद्बाहुरजायत ॥ १२.३८ ॥ सगरस्तस्य पुत्रोऽभूद्राजा परमधार्मिकः । द्वे भार्ये सगरस्यापि प्रभा भानुमती तथा ॥ १२.३९ ॥ ताभ्यामाराधितः पूर्वमौर्वोऽग्निः पुत्रकाम्यया । और्वस्तुष्टस्तयोः प्रादाद्यथेष्टं वरमुत्तमम् ॥ १२.४० ॥ एका षष्टिसहस्राणि सुतमेकं तथापरा । गृह्णातु वंशकर्तारं प्रभागृह्णाद्बहूंस्तदा ॥ १२.४१ ॥ एकं भानुमती पुत्रमगृह्णादसमञ्जसम् । ततः षष्टिसहस्राणि सुषुवे यादवी प्रभा ॥ १२.४२ ॥ खनन्तः पृथिवीं दग्धा विष्णुना येऽश्वमार्गणे । असमञ्जसस्तु तनयो योऽंशुमान्नाम विश्रुतः ॥ १२.४३ ॥ तस्य पुत्रो दिलीपस्तु दिलीपात्तु भगीरथः । येन भागीरथी गङ्गा तपः कृत्वावतारिता ॥ १२.४४ ॥ भगीरथस्य तनयो नाभाग इति विश्रुतः । नाभागस्याम्बरीषोऽभूत्सिन्धुद्वीपस्ततोऽभवत् ॥ १२.४५ ॥ तस्यायुतायुः पुत्रोऽभूदृतुपर्णस्ततोऽभवत् । तस्य कल्माषपादस्तु सर्वकर्मा ततः स्मृतः ॥ १२.४६ ॥ तस्यानरण्यः पुत्रोऽभून्निघ्नस्तस्य सुतोऽभवत् । निघ्नपुत्रावुभौ जातावनमित्ररघू नृपौ ॥ १२.४७ ॥ अनामित्रो वनमगाद्भविता स कृते नृपः । रघोरभूद्दिलीपस्तु दिलीपादजकस्तथा ॥ १२.४८ ॥ दीर्घबाहुरजाज्जातश्चाजपालस्ततो नृपः । तस्माद्दशरथो जातस्तस्य पुत्रचतुष्टयम् ॥ १२.४९ ॥ नारायणात्मकाः सर्वे रामस्तेष्वग्रजोऽभवत् । रावणान्तकरस्तद्वद्रघूणां वंशवर्धनः ॥ १२.५० ॥ वाल्मीकिस्तस्य चरितं चक्रे भार्गवसत्तमः । तस्य पुत्रौ कुशलवाविक्ष्वाकुकुलवर्धनौ ॥ १२.५१ ॥ अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य चात्मजः । नलस्तु नैषधस्तस्मान्नभास्तस्मादजायत ॥ १२.५२ ॥ नभसः पुण्डरीकोऽभूत्क्षेमधन्वा ततः स्मृतः । तस्य पुत्रोऽभवद्वीरो देवानीकः प्रतापवान् ॥ १२.५३ ॥ अहीनगुस्तस्य सुतः सहस्राश्वस्ततः परः । ततश्चन्द्रावलोकस्तु तारापीडस्ततोऽभवत् ॥ १२.५४ ॥ तस्यात्मजश्चन्द्रगिरिर्भानुश्चन्द्रस्ततोऽभवत् । श्रुतायुरभवत्तस्माद्भारते यो निपातितः ॥ १२.५५ ॥ नलौ द्वावेव विख्यातौ वंशे कश्यपसम्भवे । वीरसेनसुतस्तद्वन्नैषधश्च नराधिपः ॥ १२.५६ ॥ एते वैवस्वते वंशे राजानो भूरिदक्षिणाः । इक्ष्वाकुवंशप्रभवाः प्राधान्येन प्रकीर्तिताः ॥ १२.५७ ॥ ______________________________________________________ मत्स्यपुराण १३ *मनुरुवाच भगवञ्श्रोतुमिच्छामि पितॄणां वंशमुत्तमम् । रवेश्च श्राद्धदेवत्वं सोमस्य च विशेषतः ॥ १३.१ ॥ *मत्स्य उवाच हन्त ते कथयिष्यामि पितॄणां वंशमुत्तमम् । स्वर्गे पितृगणाः सप्त त्रयस्तेषाममूर्तयः ॥ १३.२ ॥ मूर्तिमन्तोऽथ चत्वारः सर्वेषाममितौजसः । अमूर्तयः पितृगणा वैराजस्य प्रजापतेः ॥ १३.३ ॥ जयन्ति यान्देवगणा वैराजा इति विश्रुताः । ये चैते योगविभ्रष्टाः प्राप्य लोकान्सनातनान् ॥ १३.४ ॥ पुनर्ब्रह्मदिनान्ते तु जायन्ते ब्रह्मवादिनः । सम्प्राप्य तां स्मृतिं भूयो योगं सांख्यमनुत्तमम् ॥ १३.५ ॥ सिद्धिं प्रयान्ति योगेन पुनरावृत्तिदुर्लभाम् । योगिनामेव देयानि तस्माच्छ्राद्धानि दातृभिः ॥ १३.६ ॥ एतेषां मानसी कन्या पत्नी हिमवतो मता । मैनाकस्तस्य दायादः क्रौञ्चस्तस्याग्रजोऽभवत् । क्रौञ्चद्वीपः स्मृतो येन चतुर्थो घृतसंवृतः ॥ १३.७ ॥ मेना च सुषुवे तिस्रः कन्या योगवतीस्ततः । उमैकपर्णापर्णा च तीव्रव्रतपरायणाः ॥ १३.८ ॥ रुद्रस्यैका सितस्यैका जैगीषव्यस्य चापरा । दत्ता हिमवता बालाः सर्वा लोके तपोऽधिकाः ॥ १३.९ ॥ *ऋषय ऊचुः कस्माद्दाक्षायणी पूर्वं ददाहात्मानमात्मना । हिमवद्दुहिता तद्वत्कथं जाता महीतले ॥ १३.१० ॥ संहरन्ती किमुक्तासौ सुता वा ब्रह्मसूनुना । दक्षेण लोकजननी सूत विस्तरतो वद ॥ १३.११ ॥ *सूत उवाच दक्षस्य यज्ञे वितते प्रभूतवरदक्षिणे । समाहूतेषु देवेषु प्रोवाच पितरं सती ॥ १३.१२ ॥ किमर्थं तात भर्ता मे यज्ञेऽस्मिन्नाभिमन्त्रितः । अयोग्य इति तामाह दक्षो यज्ञेषु शूलभृत् ॥ १३.१३ ॥ उपसंहारकृद्रुद्रस्तेनामङ्गलभागयम् । चुकोपाथ सती देहं त्यक्ष्यामीति त्वदुद्भवम् ॥ १३.१४ ॥ दशानां त्वं च भविता पितॄणामेकपुत्रकः । क्षत्रियत्वेऽश्वमेधे च रुद्रात्त्वं नाशमेष्यसि ॥ १३.१५ ॥ इत्युक्त्वा योगमास्थाय स्वदेहोद्भवतेजसा । निर्दहन्ती तदात्मानं सदेवासुरकिंनरैः ॥ १३.१६ ॥ किं किमेतदिति प्रोक्ता गन्धर्वगणगुह्यकैः । उपगम्याब्रवीद्दक्षः प्रणिपत्याथ दुःखितः ॥ १३.१७ ॥ त्वमस्य जगतो माता जगत्सौभाग्यदेवता । दुहितृत्वं गता देवि ममानुग्रहकाम्यया ॥ १३.१८ ॥ न त्वया रहितं किंचिद्ब्रह्माण्डे सचराचरम् । प्रसादं कुरु धर्मज्ञे न मां त्यक्तुमिहार्हसि ॥ १३.१९ ॥ प्राह देवी यदारब्धं तत्कार्यं मे न संशयः । किंत्ववश्यं त्वया मर्त्ये हतयज्ञेन शूलिना ॥ १३.२० ॥ प्रसादे लोकसृष्ट्यर्थं तपः कार्यं ममान्तिके । प्रजापतिस्त्वं भविता दशानामङ्गजोऽप्यलम् ॥ १३.२१ ॥ मदंशेनाङ्गना षष्टिर्भविष्यन्त्यङ्गजास्तव । मत्संनिधौ तपः कुर्वन् प्राप्स्यसे योगमुत्तमम् ॥ १३.२२ ॥ एवमुक्तोऽब्रवीद्दक्षः केषु केषु मयानघे । तीर्थेषु च त्वं द्रष्टव्या स्तोतव्या कैश्च नामभिः ॥ १३.२३ ॥ *देव्युवाच सर्वदा सर्वभूतेषु द्रष्टव्या सर्वतो भुवि । सर्वलोकेषु यत्किंचिद्रहितं न मया विना ॥ १३.२४ ॥ तथापि येषु स्थानेषु द्रष्टव्या सिद्धिमीप्सुभिः । स्मर्तव्या भूतिकामैर्वा तानि वक्ष्यामि तत्त्वतः ॥ १३.२५ ॥ वाराणस्यां विशालाक्षी नैमिषे लिङ्गधारिणी । प्रयागे ललिता देवी कामाक्षी गन्धमादने । मानसे कुमुदा नाम विश्वकाया तथाम्बरे ॥ १३.२६ ॥ गोमन्ते गोमती नाम मन्दरे कामचारिणी । मदोत्कटा चैत्ररथे जयन्ती हस्तिनापुरे ॥ १३.२७ ॥ कान्यकुब्जे तथा गौरी रम्भा मलयपर्वते । एकाम्भके कीर्तिमती विश्वां विश्वेश्वरे विदुः ॥ १३.२८ ॥ पुष्करे पुरुहूतेति केदारे मार्गदायिनी । नन्दा हिमवतः पृष्ठे गोकर्णे भद्रकर्णिका ॥ १३.२९ ॥ स्थानेश्वरे भवानी तु बिल्वले बिल्वपत्त्रिका । श्रीशैले माधवी नाम भद्रा भद्रेश्वरे तथा ॥ १३.३० ॥ जया वराहशैले तु कामला कमलालये । रुद्रकोट्यां च रुद्राणी काली कालञ्जरे गिरौ ॥ १३.३१ ॥ महालिङ्गे तु कपिला मर्कोटे मुकुटेश्वरी । शालग्रामे महादेवी शिवलिङ्गे जलप्रिया ॥ १३.३२ ॥ मायापुर्यां कुमारी तु संताने ललिता तथा । उत्पलाक्षी सहस्राक्षे कमलाक्षे महोत्पला ॥ १३.३३ ॥ गङ्गायां मङ्गला नाम विमिला पुरुषोत्तमे । विपाशायाममोघाक्षी पाटला पुण्ड्रवर्धने ॥ १३.३४ ॥ नारायणी सुपार्श्वे तु विकूटे भद्रसुन्दरी । विपुले विपुला नाम कल्याणी मलयाचले ॥ १३.३५ ॥ कोटवी कोटितीर्थे तु सुगन्धा माधवे वने । गोदाश्रमे त्रिसंध्या तु गङ्गाद्वारे रतिप्रिया ॥ १३.३६ ॥ शिवकुण्डे शिवानन्दा नन्दिनी देविकातटे । रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ॥ १३.३७ ॥ देवकी मथुरायां तु पाताले परमेश्वरी । चित्रकूटे तथा सीता विन्ध्ये विन्ध्याधिवासिनी ॥ १३.३८ ॥ सह्याद्रावेकवीरा तु हरिश्चन्द्रे तु चन्द्रिका । रमणा रामतीर्थे तु यमुनायां मृगावती ॥ १३.३९ ॥ करवीरे महालक्ष्मीरुमा देवी विनायके । अरोगा वैद्यनाथे तु महाकाले महेश्वरी ॥ १३.४० ॥ अभयेत्युष्णतीर्थेषु चामृता विन्ध्यकन्दरे । माण्डव्ये माण्डवी नाम स्वाहा माहेश्वरे पुरे ॥ १३.४१ ॥ छागलाण्डे प्रचण्डा तु चण्डिका मकरन्दके । सोमेश्वरे वरारोहा प्रभासे पुष्करावती ॥ १३.४२ ॥ देवमाता सरस्वत्यां पारावारतटे मता । महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी ॥ १३.४३ ॥ सिंहिका कृतशौचे तु कार्त्तिकेये यशस्करी । उत्पलावर्तके लोला सुभद्रा शोणसंगमे ॥ १३.४४ ॥ माता सिद्धपुरे लक्ष्मीरङ्गना भरताश्रमे । जालंधरे विश्वमुखी तारा किष्किन्धपर्वते ॥ १३.४५ ॥ देवदारुवने पुष्टिर्मेधा काश्मीरमण्डले । भीमा देवी हिमाद्रौ तु पुष्टिर्विश्वेश्वरे तथा ॥ १३.४६ ॥ कपालमोचने शुद्धिर्माता कायावरोहणे । शङ्खोद्धारे ध्वनिर्नाम धृतिः पिण्डारके तथा ॥ १३.४७ ॥ काला तु चन्द्रभागायामच्छोदे शिवकारिणी । वेणायाममृता नाम बदर्यामुर्वशी तथा ॥ १३.४८ ॥ ओषधी चोत्तरकुरौ कुशद्वीपे कुशोदका । मन्मथा हेमकूटे तु मुकुटे सत्यवादिनी ॥ १३.४९ ॥ अश्वत्थे वन्दनीया तु निधिर्वैश्रवणालये । गायत्री वेदवदने पार्वती शिवसंनिधौ ॥ १३.५० ॥ देवलोके तथेन्द्राणी ब्रह्मास्येषु सरस्वती । सूर्यबिम्बे प्रभा नाम मातॄणां वैष्णवी मता ॥ १३.५१ ॥ अरुन्धती सतीनां तु रामासु च तिलोत्तमा । चित्ते ब्रह्मकला नाम शक्तिः सर्वशरीरिणाम् ॥ १३.५२ ॥ एतदुद्देशतः प्रोक्तं नामाष्टशतमुत्तमम् । अष्टोत्तरं च तीर्थानां शतमेतदुदाहृतम् ॥ १३.५३ ॥ यः स्मरेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते । एषु तीर्थेषु यः कृत्वा स्नानं पश्यति मां नरः ॥ १३.५४ ॥ सर्वपापविनिर्मुक्तः कल्पं शिवपुरे वसेत् । यस्तु मत्परमं कालं करोत्येतेषु मानवः ॥ १३.५५ ॥ स भित्त्वा ब्रह्मसदनं पदमभ्येति शांकरम् । नाम्नामष्टशतं यस्तु श्रावयेच्छिवसंनिधौ ॥ १३.५६ ॥ तृतीयायामथाष्टम्यां बहुपुत्रो भवेन्नरः । गोदाने श्राद्धदाने वा अहन्यहनि वा बुधः ॥ १३.५७ ॥ देवार्चनविधौ विद्वान् पठन् ब्रह्माधिगच्छति । एवं वदन्ती सा तत्र ददाहात्मानमात्मना ॥ १३.५८ ॥ स्वायम्भुवोऽपि कालेन दक्षः प्राचेतसोऽभवत् । पार्वती साभवद्देवी शिवदेहार्धधारिणी ॥ १३.५९ ॥ मेनागर्भसमुत्पन्ना भुक्तमुक्तिफलप्रदा । अरुन्धती जपन्त्येतत्प्राप योगमनुत्तमम् ॥ १३.६० ॥ पुरूरवाश्च राजर्षिलोके व्यजेयतामगात् । ययातिः पुत्रलाभं च धनलाभं च भार्गवः ॥ १३.६१ ॥ तथान्ये देवदैत्याश्च ब्राह्मणाः क्षत्रियास्तथा । वैश्याः शूद्राश्च बहवः सिद्धिमीयुर्यथेप्सिताम् ॥ १३.६२ ॥ यत्रैतल्लिखितं तिष्ठेत्पूज्यते देवसंनिधौ । न तत्र शोको दौर्गत्यं कदाचिदपि जायते ॥ १३.६३ ॥ ______________________________________________________ मत्स्यपुराण १४ *सूत उवाच लोकाः सोमपथा नाम यत्र मारीचनन्दनाः । वर्तन्ते देव पितरो देवा यान्भावयन्त्यलम् ॥ १४.१ ॥ अग्निष्वात्ता इति ख्याता यज्वानो यत्र संस्थिताः । अच्छोदा नाम तेषां तु मानसी कन्यका नदी ॥ १४.२ ॥ अच्छोदं नाम च सरः पितृभिर्निर्मितं पुरा । अच्छोदा तु तपश्चक्रे दिव्यं वर्षसहस्रकम् ॥ १४.३ ॥ आजग्मुः पितरस्तुष्टाः किल दातुं च तां वरम् । दिव्यरूपधराः सर्वे दिव्यमाल्यानुलेपनाः ॥ १४.४ ॥ सर्वे युवानो बलिनः कुसुमायुधसंनिभाः । तन्मध्येऽमावसुं नाम पितरं वीक्ष्य साङ्गना ॥ १४.५ ॥ वव्रे वरार्थिनी सङ्गं कुसुमायुधपीडिता । योगाद्भ्रष्टा तु सा तेन व्यभिचारेण भामिनी ॥ १४.६ ॥ धरां तु नास्पृशत्पूर्वं पपाताथ भुवस्तले । तिथावमावसुर्यस्यामिच्छां चक्रे न तां प्रति ॥ १४.७ ॥ धैर्येण तस्य सा लोकैरमावास्येति विश्रुता । पितॄणां वल्लभा तस्मात्तस्यामक्षयकारकम् ॥ १४.८ ॥ अच्छोदाधोमुखी दीना लज्जिता तपसः क्षयात् । सा पितॄन् प्रार्थयामास पुरे चात्मप्रसिद्धये ॥ १४.९ ॥ विलप्यमाना पितृभिरिदमुक्ता तपस्विनी । भविष्यमर्थमालोक्य देवकार्यं च ते तदा ॥ १४.१० ॥ इदमूचुर्महाभागाः प्रसादशुभया गिरा । दिवि दिव्यशरीरेण यत्किंचित्क्रियते बुधैः ॥ १४.११ ॥ तेनैव तत्कर्मफलं भुज्यते वरवर्णिनी । सद्यः फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे ॥ १४.१२ ॥ तस्मात्त्वं पुत्रि तपसः प्राप्स्यसे प्रेत्य तत्फलम् । अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा ॥ १४.१३ ॥ व्यतिक्रमात्पितॄणां त्वं कष्टं कुलमवाप्स्यसि । तस्माद्राज्ञो वसोः कन्या त्वमवश्यं भविष्यसि ॥ १४.१४ ॥ कन्या भूत्वा च लोकान्स्वान् पुनराप्स्यसि दुर्लभान् । पराशरस्य वीर्येण पुत्रमेकमवाप्स्यसि ॥ १४.१५ ॥ द्वीपे तु बदरीप्राये बादरायणमच्युतम् । स वेदमेकं बहुधा विभजिष्यति ते सुतः ॥ १४.१६ ॥ पौरवस्यात्मजौ द्वौ तु समुद्रांशस्य शंतनोः । विचित्रवीर्यस्तनयस्तथा चित्राङ्गदो नृपः ॥ १४.१७ ॥ इमावुत्पाद्य तनयौ क्षेत्रजावस्य धीमतः । प्रौष्ठपद्यष्टकारूपा पितृलोके भविष्यसि ॥ १४.१८ ॥ नाम्ना सत्यवती लोके पितृलोके तथाष्टका । आयुरारोग्यदा नित्यं सर्वकामफलप्रदा ॥ १४.१९ ॥ भविष्यसि परे काले नदीत्वं च गमिष्यसि । पुण्यतोषा सरिच्छ्रेष्ठा लोके ह्यच्छोदनामिका ॥ १४.२० ॥ इत्युक्त्वा स गणस्तेषां तत्रैवान्तरधीयत । साप्यवाप च तत्सर्वं फलं यदुदितं पुरा ॥ १४.२१ ॥ ______________________________________________________ मत्स्यपुराण १५ *सूत उवाच विभ्राजा नाम चान्ये तु दिवि सन्ति सुवर्चसः । लोका बर्हिषदो यत्र पितरः सन्ति सुव्रताः ॥ १५.१ ॥ यत्र बर्हिणयुक्तानि विमानानि सहस्रशः । संकल्प्या बर्हिषो यत्र तिष्ठन्ति फलदायिनः ॥ १५.२ ॥ यत्राभ्युदयशालासु मोदन्ते श्राद्धदायिनः । यांश्च देवासुरगणा गन्धर्वाप्सरसां गणाः ॥ १५.३ ॥ यक्षरक्षोगणाश्चैव यजन्ति दिवि देवताः । पुलस्त्यपुत्राः शतशस्तपोयोगसमन्विताः ॥ १५.४ ॥ महात्मानो महाभागा भक्तानामभयप्रदाः । एतेषां पीवरी कन्या मानसी दिवि विश्रुता ॥ १५.५ ॥ योगिनी योगमाता च तपश्चक्रे सुदारुणम् । प्रसन्नो भगवांस्तस्या वरं वव्रे तु सा हरेः ॥ १५.६ ॥ योगवन्तं सुरूपं च भर्तारं विजितेन्द्रियम् । देहि देव प्रसन्नस्त्वं पतिं मे वदतां वरम् ॥ १५.७ ॥ उवाच देवो भविता व्यासपुत्रो यदा शुकः । भविता तस्य भार्या त्वं योगाचार्यस्य सुव्रते ॥ १५.८ ॥ भविष्यति च ते कन्या कृत्वी नाम च योगिनी । पाञ्चालाधिपतेर्देया मानुषस्य त्वया तदा ॥ १५.९ ॥ जननी ब्रह्मदत्तस्य योगसिद्धा च गौः स्मृता । कृष्णो गौरः प्रभुः शम्भुर्भविष्यन्ति च ते सुताः ॥ १५.१० ॥ महात्मानो महाभागा गमिष्यन्ति परं पदम् । तानुत्पाद्य पुनर्योगात्सवरा मोक्षमेष्यसि ॥ १५.११ ॥ सुमूर्तिमन्तः पितरो वसिष्ठस्य सुताः स्मृताः । नाम्ना तु मानसाः सर्वे सर्वे ते धर्ममूर्तयः ॥ १५.१२ ॥ ज्योतिर्भासिषु लोकेषु ये वसन्ति दिवः परम् । विराजमानाः क्रीडन्ति यत्र ते श्राद्धदायिनः ॥ १५.१३ ॥ सर्वकामसमृद्धेषु विमानेष्वपि पादजाः । किं पुनः श्राद्धदा विप्रा भक्तिमन्तः क्रियान्विताः ॥ १५.१४ ॥ गौर्नाम कन्या येषां तु मानसी दिवि राजते । शुक्रस्य दयिता पत्नी साध्यानां कीर्तिवर्धिनी ॥ १५.१५ ॥ मरीचिगर्भा नाम्ना तु लोका मार्तण्डमण्डले । पितरो यत्र तिष्ठन्ति हविष्मन्तोऽङ्गिरःसुताः ॥ १५.१६ ॥ तीर्थश्राद्धप्रदा यान्ति ये च क्षत्रियसत्तमाः । राज्ञां तु पितरस्ते वै स्वर्गमोक्षफलप्रदाः ॥ १५.१७ ॥ एतेषां मानसी कन्या यशोदा लोकविश्रुता । पत्नी ह्यंशुमतः श्रेष्ठा स्नुषा पञ्चजनस्य च ॥ १५.१८ ॥ जनन्यथ दिलीपस्य भगीरथपितामही । लोकाः कामदुघा नाम कामभोगफलप्रदाः ॥ १५.१९ ॥ सुस्वधा नाम पितरो यत्र तिष्ठन्ति सुव्रताः । आज्यपा नाम लोकेषु कर्दमस्य प्रजापतेः ॥ १५.२० ॥ पुलहाङ्गजदायादा वैश्यास्तान्भावयन्ति च । यत्र श्राद्धकृतः सर्वे पश्यन्ति युगपद्गताः ॥ १५.२१ ॥ मातृभ्रातृपितृस्वसृसखिसम्बन्धिबान्धवान् । अपि जन्मायुतैर्दृष्टाननुभूतान्सहस्रशः ॥ १५.२२ ॥ एतेषां मानसी कन्या विरजा नाम विश्रुता । या पत्नी नहुषस्यासीद्ययातेर्जननी तथा ॥ १५.२३ ॥ एकाष्टकाभवत्पश्चाद्ब्रह्मलोके गता सती । त्रय एते गणाः प्रोक्ताश्चतुर्थं तु वदाम्यतः ॥ १५.२४ ॥ लोकास्तु मानसा नाम ब्रह्माण्डोपरि संस्थिताः । येषां तु मानसी कन्या नर्मदा नाम विश्रुता ॥ १५.२५ ॥ सोमपा नाम पितरो यत्र तिष्ठन्ति शाश्वताः । धर्ममूर्तिधराः सर्वे परतो ब्रह्मणः स्मृताः ॥ १५.२६ ॥ उत्पन्नाः स्वधया ते तु ब्रह्मत्वं प्राप्य योगिनः । कृत्वा सृष्ट्यादिकं सर्वं मानसे साम्प्रतं स्थिताः ॥ १५.२७ ॥ नर्मदा नाम तेषां तु कन्या तोयवहा सरित् । भूतानि या पावयति दक्षिणापथगामिनी ॥ १५.२८ ॥ तेभ्यः सर्वे तु मनवः प्रजाः सर्गेषु निर्मिताः । ज्ञात्वा श्राद्धानि कुर्वन्ति धर्माभावेऽपि सर्वदा ॥ १५.२९ ॥ तेभ्य एव पुनः प्राप्तुं प्रसादाद्योगसंततिम् । पितॄणामादिसर्गे तु श्राद्धमेव विनिर्मितम् ॥ १५.३० ॥ सर्वेषां राजतं पात्रमथवा रजतान्वितम् । दत्तं स्वधा पुरोधाय पितॄन् प्रीणाति सर्वदा ॥ १५.३१ ॥ अग्नीषोमयमानां तु कार्यमाप्यायनं बुधः । अग्न्यभावेऽपि विप्रस्य प्राणावपि जलेऽथवा ॥ १५.३२ ॥ अजाकर्णेऽश्वकर्णे वा गोष्ठे वा सलिलान्तिके । पितॄणामम्बरं स्थानं दक्षिणा दिक्प्रशस्यते ॥ १५.३३ ॥ प्राचीनावीतमुदकं तिलाः सव्याङ्गमेव च । दर्भा मांसं च पाठीनं गोक्षीरं मधुरा रसाः ॥ १५.३४ ॥ खड्गलोहामिषमधुकुशश्यामाकशालयः । यवनीवारमुद्गेक्षुशुक्लपुष्पघृतानि च ॥ १५.३५ ॥ वल्लभानि प्रशस्तानि पितॄणामिह सर्वदा । द्वेष्याणि सम्प्रवक्ष्यामि श्राद्धे वर्ज्यानि यानि तु ॥ १५.३६ ॥ मसूरशणनिष्पावराजमाषकुसुम्भिकाः । पद्मबिल्वार्कधत्तूरपारिभद्राटरूषकाः ॥ १५.३७ ॥ न देयाः पितृकार्येषु पयश्चाजाविकं तथा । कोद्रवोदारचणकाः कपित्थं मधुकातसी ॥ १५.३८ ॥ एतान्यपि न देयानि पितृभ्यः प्रियमिच्छता । पितॄन् प्रीणाति यो भक्त्या ते पुनः प्रीणयन्ति तम् ॥ १५.३९ ॥ यच्छन्ति पितरः पुष्टिं स्वर्गारोग्यं प्रजाफलम् । देवकार्यादपि पुनः पितृकार्यं विशिष्यते ॥ १५.४० ॥ देवतानां च पितरः पूर्वमाप्यायनं स्मृतम् । शीघ्रप्रसादास्त्वक्रोधा निःशस्त्राः स्थिरसौहृदाः ॥ १५.४१ ॥ शान्तात्मानः शौचपराः सततं प्रियवादिनः । भक्तानुरक्ताः सुखदाः पितरः पूर्वदेवताः ॥ १५.४२ ॥ हविष्मतामाधिपत्ये श्राद्धदेवः स्मृतो रविः । एतद्वः सर्वमाख्यातं पितृवंशानुकीर्तनम् । पुण्यं पवित्रमायुष्यं कीर्तनीयं सदा नृभिः ॥ १५.४३ ॥ ______________________________________________________ मत्स्यपुराण १६ *सूत उवाच श्रुत्वैतत्सर्वमखिलं मनुः पप्रच्छ केशवम् । श्राद्धकालं च विविधं श्राद्धभेदं तथैव च ॥ १६.१ ॥ श्राद्धेषु भोजनीया ये ये च वर्ज्या द्विजातयः । कस्मिन्वासरभागे वा पितृभ्यः श्राद्धमाचरेत् ॥ १६.२ ॥ कस्मिन्दत्तं कथं याति श्राद्धं तु मधुसूदन । विधिना केन कर्तव्यं कथं प्रीणाति तत्पितॄन् ॥ १६.३ ॥ *मत्स्य उवाच कुर्यादहरहः श्राद्धमन्नाद्येनोदकेन वा । पयोमूलफलैर्वापि पितृभ्यः प्रीतिमावहन् ॥ १६.४ ॥ नित्यं नैमित्तिकं काम्यं त्रिविधं श्राद्धमुच्यते । नित्यं तावत्प्रवक्ष्यामि अर्घ्यावाहनवर्जितम् ॥ १६.५ ॥ अदैवं तद्विजानीयात्पार्वणं पर्वसु स्मृतम् । पार्वणं त्रिविधं प्रोक्तं शृणु तावन्महीपते ॥ १६.६ ॥ पार्वणे ये नियोज्यास्तु ताञ्शृणुष्व नराधिप । पञ्चाग्निः स्नातकश्चैव त्रिसुपर्णः षडङ्गवित् ॥ १६.७ ॥ श्रोत्रियः श्रोत्रियसुतो विधिवाक्यविशारदः । सर्वज्ञो वेदविन्मन्त्री ज्ञातवंशः कुलान्वितः ॥ १६.८ ॥ पुराणवेत्ता धर्मज्ञः स्वाध्यायजपतत्परः । शिवभक्तः पितृपरः सूर्यभक्तोऽथ वैष्णवः ॥ १६.९ ॥ ब्रह्मण्यो योगविच्छान्तो विजितात्मा च शीलवान् । भोजयेच्चापि दौहित्रं यत्नतः स्वसुहृद्गुरून् ॥ १६.१० ॥ विट्पीतं मातुलं बन्धुमृत्विगाचार्यसोमपान् । यश्च व्याकुरुते वाक्यं यश्च मीमांसतेऽध्वरम् ॥ १६.११ ॥ सामस्वरविधिज्ञश्च पङ्क्तिपावनपावनः । सामगो ब्रह्मचारी च वेदयुक्तोऽथ ब्रह्मवित् ॥ १६.१२ ॥ यत्रैते भुञ्जते श्राद्धे तदेव परमार्थवत् । एते भोज्याः प्रयत्नेन वर्जनीयान्निबोध मे ॥ १६.१३ ॥ पतितोऽभिशस्तः क्लीबः पिशुनव्यङ्गरोगिणः । कुनखी श्यावदन्तश्च कुण्डगोलाश्वपालकाः ॥ १६.१४ ॥ परिवित्तिर्नियुक्तात्मा प्रमत्तोन्मत्तदारुणाः । बैडाली बकवृत्तिश्च दम्भी देवलकादयः ॥ १६.१५ ॥ कृतघ्नान्नास्तिकांस्तद्वन्म्लेच्छदेशनिवासिनः । त्रिशङ्कुर्बर्बरद्राववीतद्रविडकोङ्कणान् ॥ १६.१६ ॥ वर्जयेल्लिङ्गिनः सर्वाञ्श्राद्धकाले विशेषतः । पूर्वेद्युरपरेद्युर्वा विनीतात्मा निमन्त्रयेत् ॥ १६.१७ ॥ निमन्त्रितान्हि पितर उपतिष्ठन्ति तान्द्विजान् । वायुभूता नु गच्छन्ति तथासीनानुपासते ॥ १६.१८ ॥ दक्षिणं जानुमालभ्य त्वं मया तु निमन्त्रितः । एवं निमन्त्र्य नियमं श्रावयेत्पितृबान्धवान् ॥ १६.१९ ॥ अक्रोधनैः शौचपरैः सततं ब्रह्मचारिभिः । भवितव्यं भवद्भिश्च मया च श्राद्धकारिणा ॥ १६.२० ॥ पितृयज्ञं विनिर्वर्त्य तर्पणाख्यं तु योऽग्निमान् । पिण्डान्वाहार्यकं कुर्याच्छ्राद्धमिन्दुक्षये सदा ॥ १६.२१ ॥ गोमयेनोपलिप्ते तु दक्षिणप्रवणे स्थले । श्राद्धं समाचरेद्भक्त्या गोष्ठे वा जलसंनिधौ ॥ १६.२२ ॥ अग्निमान्निर्वपेत्पित्र्यं चरुं च सममुष्टिभिः । पितृभ्यो निर्वपामीति सर्वं दक्षिणतो न्यसेत् ॥ १६.२३ ॥ अभिघार्यं ततः कुर्यान्निर्वापत्रयमग्रतः । तेऽपि तस्यायताः कार्याश्चतुरङ्गुलविस्तृताः ॥ १६.२४ ॥ दर्वीत्रयं तु कुर्वीत खादिरं रजतान्वितम् । रत्निमात्रं परिश्लक्ष्णं हस्ताकाराग्रमुत्तमम् ॥ १६.२५ ॥ उदपात्रं च कांस्यं च मेक्षणं च समित्कुशान् । तिलाः पात्राणि सद्वासो गन्धधूपानुलेपनम् ॥ १६.२६ ॥ आहरेदपसव्यं तु सर्वं दक्षिणतः शनैः । एवमासाद्य तत्सर्वं भवनस्याग्रतो भुवि ॥ १६.२७ ॥ गोमयेनोपलिप्तायां गोमूत्रेण तु मण्डलम् । अक्षताभिः सपुष्पाभिस्तदभ्यर्च्यापसव्यवत् ॥ १६.२८ ॥ विप्राणां क्षालयेत्पादावभिनन्द्य पुनः पुनः । आसनेषूपकॢप्तेषु दर्भवत्सु विधानवत् ॥ १६.२९ ॥ उपस्पृष्टोदकान्विप्रानुपवेश्यानुमन्त्रयेत् । द्वौ दैवे पितृकृत्ये त्रीनेकैकमुभयत्र च ॥ १६.३० ॥ भोजयेदीश्वरोऽपीह न कुर्याद्विस्तरं बुधः । दैवपूर्वं नियोज्याथ विप्रानर्घ्यादिना बुधः ॥ १६.३१ ॥ अग्नौ कुर्यादनुज्ञातो विप्रैर्विप्रो यथाविधि । स्वगृह्योक्तविधानेन कांस्ये कृत्वा चरुं ततः ॥ १६.३२ ॥ अग्नीषोमयमाभ्यां तु कुर्यादाप्यायनं बुधः । दक्षिणाग्नौ प्रतीते वा य एकाग्निर्द्विजोत्तमः ॥ १६.३३ ॥ यज्ञोपवीती निर्वर्त्य ततः पर्युक्षणादिकम् । प्राचीनावीतिना कार्यमतः सर्वं विजानता ॥ १६.३४ ॥ षट्च तस्माद्धविःशेषात्पिण्डान्कृत्वा ततोदकम् । दद्यादुदकपात्रैस्तु सतिलं सव्यपाणिना ॥ १६.३५ ॥ जान्वाच्य सव्यं यत्नेन दर्भयुक्तो विमत्सरः । विधाय लेखा यत्नेन निर्वापेष्ववनेजनम् ॥ १६.३६ ॥ दक्षिणाभिमुखः कुर्यात्करे दर्वीं निधाय वै । निधाय पिण्डमेकैकं सर्वदर्भेष्वनुक्रमात् ॥ १६.३७ ॥ निनयेदथ दर्भेषु नामगोत्रानुकीर्तनैः । तेषु दर्भेषु तं हस्तं विमृज्याल्लेपभागिनाम् ॥ १६.३८ ॥ तथैव च ततः कुर्यात्पुनः प्रत्यवनेजनम् । षडप्यृतून्नमस्कृत्य गन्धधूपार्हणादिभिः ॥ १६.३९ ॥ एवमावाह्य तत्सर्वं वेदमन्त्रैर्यथोदितैः । एकाग्नेरेक एव स्यान्निर्वापो दर्विका तथा ॥ १६.४० ॥ ततः कृत्वान्तरे दद्यात्पत्नीभ्योऽन्नं कुशेषु सः । तद्वत्पिण्डादिके कुर्यादावाहनविसर्जनम् ॥ १६.४१ ॥ ततो गृहीत्वा पिण्डेभ्यो मात्राः सर्वाः क्रमेण तु । तानेव विप्रान्प्रथमं प्राशयेद्यत्नतो नरः ॥ १६.४२ ॥ यस्मादन्नाद्धृता मात्रा भक्षयन्ति द्विजातयः । अन्वाहार्यकमित्युक्तं तस्मात्तच्चन्द्रसंक्षये ॥ १६.४३ ॥ पूर्वं दत्त्वा तु तद्धस्ते सपवित्रं तिलोदकम् । तत्पिण्डाग्रं प्रयच्छेत स्वधैषामस्त्विति ब्रुवन् ॥ १६.४४ ॥ वर्णयन्भोजयेदन्नं मिष्टं पूतं च सर्वदा । वर्जयेत्क्रोधपरतां स्मरन्नारायणं हरिम् ॥ १६.४५ ॥ तृप्ताञ्ज्ञात्वा ततः कुर्याद्विकिरन्सार्ववर्णिकम् । सोदकं चान्नमुद्धृत्य सलिलं प्रक्षिपेद्भुवि ॥ १६.४६ ॥ आचान्तेषु पुनर्दद्याज्जलपुष्पाक्षतोदकम् । स्वस्तिवाचनकं सर्वं पिण्डोपरि समाहरेत् ॥ १६.४७ ॥ देवाद्यन्तं प्रकुर्वीत श्राद्धनाशोऽन्यथा भवेत् । विसृज्य ब्राह्मणांस्तद्वत्तेषां कृत्वा प्रदक्षिणम् ॥ १६.४८ ॥ दक्षिणां दिशमाकाङ्क्षन् पितॄन् याचेत मानवः । दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च ॥ १६.४९ ॥ श्रद्धा च नो मा व्यगमद्बहु देयं च नोऽस्त्विति । अन्नं च नो बहु भवेदतिथींश्च लभेमहि ॥ १६.५० ॥ याचितारश्च नः सन्तु मा च याचिष्म कंचन । एतदस्त्विति तत्प्रोक्तमन्वाहार्यं तु पार्वणम् ॥ १६.५१ ॥ यथेन्दुसंक्षये तद्वदन्यत्रापि निगद्यते । पिण्डांस्तु गोजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा ॥ १६.५२ ॥ विप्राग्रतो वा विकिरेद्वयोभिरभिवाशयेत् । पत्नी तु मध्यमं पिण्डं प्राशयेद्विनयान्विता ॥ १६.५३ ॥ आधत्त पितरो गर्भमत्र संतानवर्धनम् । तावदुच्छेषणं तिष्ठेद्यावद्विप्रा विसर्जिताः ॥ १६.५४ ॥ वैश्वदेवं ततः कुर्यान्निवृत्ते पितृकर्मणि । इष्टैः सह ततः शान्तो भुञ्जीत पितृसेवितम् ॥ १६.५५ ॥ पुनर्भोजनमध्वानं यानमायासमैथुनम् । श्राद्धकृच्छ्राद्धभुक्चैव सर्वमेतद्विवर्जयेत् ॥ १६.५६ ॥ स्वाध्यायकलहं चैव दिवास्वप्नं च सर्वदा । अनेन विधिना श्राद्धं निरुद्वास्येह निर्वपेत् ॥ १६.५७ ॥ कन्याकुम्भवृषस्थेऽर्के कृष्णपक्षेषु सर्वदा । यत्र यत्र प्रदातव्यं सपिण्डीकरणात्परम् । तत्रानेन विधानेन देयमग्निमता सदा ॥ १६.५८ ॥ ______________________________________________________ मत्स्यपुराण १७ *सूत उवाच अतः परं प्रवक्ष्यामि विष्णुना यदुदीरितम् । श्राद्धं साधारणं नाम भुक्तिमुक्तिफलप्रदम् ॥ १७.१ ॥ अयने विषुवे युग्मे सामान्ये चार्कसंक्रमे । अमावास्याष्टकाकृष्णपक्षे पञ्चदशीषु च ॥ १७.२ ॥ आर्द्रामघारोहिणीषु द्रव्यब्राह्मणसंगमे । गजच्छायाव्यतीपाते विष्टिवैधृतिवासरे ॥ १७.३ ॥ वैशाखस्य तृतीयायां नवमी कार्त्तिकस्य च । पञ्चदशी च माघस्य नभस्ये च त्रयोदशी ॥ १७.४ ॥ युगादयः स्मृता ह्येता दत्तस्याक्षय्यकारिकाः । तथा मन्वन्तरादौ च देयं श्राद्धं विजानता ॥ १७.५ ॥ अश्वयुक्छुक्लनवमी द्वादशी कार्त्तिके तथा । तृतीया चैत्रमासस्य तथा भाद्रपदस्य च ॥ १७.६ ॥ फाल्गुनस्य ह्यमावास्या पौषस्यैकादशी तथा । आषाढस्यापि दशमी माघमासस्य सप्तमी ॥ १७.७ ॥ श्रावणस्याष्टमी कृष्णा तथाषाढी च पूर्णिमा । कार्त्तिकी फाल्गुनी चैत्री ज्येष्ठपञ्चदशी सिता । मन्वन्तरादयश्चैता दत्तस्याक्षय्यकारिकाः ॥ १७.८ ॥ यस्यां मन्वन्तरस्यादौ रथमास्ते दिवाकरः । माघमासस्य सप्तम्यां सा तु स्याद्रथसप्तमी ॥ १७.९ ॥ पानीयमप्यत्र तिलैर्विमिश्रं दद्यात्पितृभ्यः प्रयतो मनुष्यः । श्राद्धं कृतं तेन समाः सहस्रं रहस्यमेतत्पितरो वदन्ति ॥ १७.१० ॥ वैशाख्यामुपरागेषु तथोत्सवमहालये । तीर्थायतनगोष्ठेषु दीपोद्यानगृहेषु च ॥ १७.११ ॥ विविक्तेषूपलिप्तेषु श्राद्धं देयं विजानता । विप्रान्पूर्वे परे चाह्नि विनीतात्मा निमन्त्रयेत् ॥ १७.१२ ॥ शीलवृत्तगुणोपेतान् वयोरूपसमन्वितान् । द्वौ दैवे त्रींस्तथा पित्र्य एकैकमुभयत्र वा ॥ १७.१३ ॥ भोजयेत्सुसमृद्धोऽपि न प्रसज्जते विस्तरे । विश्वान्देवान्यवैः पुष्पैरभ्यर्च्यासनपूर्वकम् ॥ १७.१४ ॥ पूरयेत्पात्रयुग्मं तु स्थाप्य दर्भपवित्रकम् । शं नो देवीत्यपः कुर्याद्यवोऽसीति यवानपि ॥ १७.१५ ॥ गन्धपुष्पैश्च संपूज्य वैश्वदेवं प्रति न्यसेत् । विश्वे देवास इत्याभ्यामावाह्य विकिरेद्यवान् ॥ १७.१६ ॥ गन्धपुष्पैरलंकृत्य या दिव्येत्यर्घ्यमुत्सृजेत् । अभ्यर्च्य ताभ्यामुत्सृष्टं पितृकार्यं समारभेत् ॥ १७.१७ ॥ दर्भासनं तु दत्त्वादौ त्रीणि पात्राणि पूरयेत् । खपवित्राणि कृत्वादौ शं नो देवीत्यपः क्षिपेत् ॥ १७.१८ ॥ तिलोऽसीति तिलान्कुर्याद्गन्धपुष्पादिकं पुनः । पात्रं वनस्पतिमयं तथा पर्णमयं पुनः ॥ १७.१९ ॥ जलजं वाथ कुर्वीत तथा सागरसम्भवम् । सौवर्णं राजतं वापि पितॄणां पात्रमुच्यते ॥ १७.२० ॥ रजतस्य कथा वापि दर्शनं दानमेव वा । राजतैर्भाजनैरेषामथवा रजतान्वितैः ॥ १७.२१ ॥ वार्यपि श्रद्धया दत्तमक्षयायोपकल्पते । तथार्घ्यपिण्डभोज्यादौ पितॄणां राजतं मतम् ॥ १७.२२ ॥ शिवनेत्रोद्भवं यस्मात्तस्मात्तत्पितृवल्लभम् । अमङ्गलं तद्यत्नेन देवकार्येषु वर्जयेत् ॥ १७.२३ ॥ एवं पात्राणि संकल्प्य यथालाभं विमत्सरः । या दिव्येति पितुर्नाम गोत्रैर्दर्भकरो न्यसेत् ॥ १७.२४ ॥ पितॄनावाहयिष्यामि कुर्वित्युक्तस्तु तैः पुनः । उशन्तस्त्वा तथायन्तु ऋग्भ्यामावाहयेत्पितॄन् ॥ १७.२५ ॥ या दिव्येत्यर्घ्यमुत्सृज्य दद्याद्गन्धादिकांस्ततः । हस्तात्तदुदकं पूर्वं दत्त्वा संस्रवमादितः ॥ १७.२६ ॥ पितृपात्रे निधायाथ न्युब्जमुत्तरतो न्यसेत् । पितृभ्यः स्थानमसीति निधाय परिषेचयेत् ॥ १७.२७ ॥ तत्रापि पूर्ववत्कुर्यादग्निकार्यं विमत्सरः । उभाभ्यामपि हस्ताभ्यामाहृत्य परिवेषयेत् ॥ १७.२८ ॥ प्रशान्तचित्तः सततं दर्भपाणिरशेषतः । गुणाढ्यैः सूपशाकैस्तु नानाभक्ष्यैर्विशेषतः ॥ १७.२९ ॥ अन्नं तु सदधिक्षीरं गोघृतं शर्करान्वितम् । मासं प्रीणाति वै सर्वान् पितॄनित्याह केशवः ॥ १७.३० ॥ द्वौ मासौ मत्स्यमांसेन त्रीन्मासान्हारिणेन तु । औरभ्रेणाथ चतुरः शाकुनेनाथ पञ्च वै ॥ १७.३१ ॥ षण्मासं छागमांसेन तृप्यन्ति पितरस्तथा । सप्त पार्षतमांसेन तथाष्टावेणजेन तु ॥ १७.३२ ॥ दश मासांस्तु तृप्यन्ति वराहमहिषामिषैः । शशकूर्मजमांसेन मासानेकादशैव तु ॥ १७.३३ ॥ संवत्सरं तु गव्येन पयसा पायसेन च । रौरवेण च तृप्यन्ति मासान्पञ्चदशैव तु ॥ १७.३४ ॥ वार्ध्रीणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी । कालशाकेन चानन्ता खड्गमांसेन चैव हि ॥ १७.३५ ॥ यत्किंचिन्मधुसम्मिश्रं गोक्षीरं घृतपायसम् । दत्तमक्षयमित्याहुः पितरः पूर्वदेवताः ॥ १७.३६ ॥ स्वाध्यायं श्रावयेत्पित्र्यं पुराणान्यखिलानि च । ब्रह्मविष्ण्वर्करुद्राणां सूक्तानि विविधानि च ॥ १७.३७ ॥ इन्द्राग्निसोमसूक्तानि पावनानि स्वशक्तितः । बृहद्रथंतरं तद्वज्ज्येष्ठसाम सरौहिणम् ॥ १७.३८ ॥ तथैव शान्तिकाध्यायं मधुब्राह्मणमेव च । मण्डलं ब्राह्मणं तद्वत्प्रीतिकारि तु यत्पुनः ॥ १७.३९ ॥ विप्राणामात्मनश्चैव तत्सर्वं समुदीरयेत् । भुक्तवत्सु ततस्तेषु भोजनोपान्तिके नृप ॥ १७.४० ॥ सार्ववर्णिकमन्नाद्यं संनीयाप्लाव्य वारिणा । समुत्सृजेद्भुक्तवतामग्रतो विकिरेद्भुवि ॥ १७.४१ ॥ अग्निदग्धास्तु ये जीवा येऽप्यदग्धाः कुले मम । भूमौ दत्तेन तृप्यन्तु प्रयान्तु परमां गतिम् ॥ १७.४२ ॥ येषां न माता न पिता न बन्धुर्न गोत्रशुद्धिर्न तथान्नमस्ति । तत्तृप्तयेऽन्नं भुवि दत्तमेतत्प्रयान्तु लोकेषु सुखाय तद्वत् ॥ १७.४३ ॥ असंस्कृतप्रमीतानां त्यक्तानां कुलयोषिताम् । उच्छिष्टभागधेयः स्याद्दर्भे विकिरयोश्च यः ॥ १७.४४ ॥ तृप्ताञ्ज्ञात्वोदकं दद्यात्सकृद्विप्रकरे तथा । उपलिप्ते महीपृष्ठे गोशकृन्मूत्रवारिणा ॥ १७.४५ ॥ निधाय दर्भान्विधिवद्दक्षिणाग्रान् प्रयत्नतः । सर्ववर्णेन चान्नेन पिण्डांस्तु पितृयज्ञवत् ॥ १७.४६ ॥ अवनेजनपूर्वं तु नामगोत्रेण मानवः । गन्धधूपादिकं दद्यात्कृत्वा प्रत्यवनेजनम् ॥ १७.४७ ॥ जान्वाच्य सव्यं सव्येन पाणिनाथ प्रदक्षिणम् । पित्र्यमानीय तत्कार्यं विधिवद्दर्भपाणिना ॥ १७.४८ ॥ दीपप्रज्वालनं तद्वत्कुर्यात्पुष्पार्चनं बुधः । अथाचान्तेषु चाचम्य वारि दद्यात्सकृत्सकृत् ॥ १७.४९ ॥ अथ पुष्पाक्षतान् पश्चादक्षय्योदकमेव च । सतिलं नामगोत्रेण दद्याच्छक्त्या च दक्षिणाम् ॥ १७.५० ॥ गोभूहिरण्यवासांसि भव्यानि शयनानि च । दद्याद्यदिष्टं विप्राणामात्मनः पितुरेव च ॥ १७.५१ ॥ वित्तशाठ्येन रहितः पितृभ्यः प्रीतिमावहन् । ततः स्वधावाचनकं विश्वदेवेषु चोदकम् ॥ १७.५२ ॥ दत्त्वाशीः प्रतिगृह्णीयाद्द्विजेभ्यः प्राङ्मुखो बुधः । अघोराः पितरः सन्तु सन्त्वित्युक्तः पुनर्द्विजैः ॥ १७.५३ ॥ गोत्रं तथा वर्धतां नस्तथेत्युक्तश्च तैः पुनः । दातारो नोऽभिवर्धन्तामिति चैवमुदीरयेत् ॥ १७.५४ ॥ एताः सत्याशिषः सन्तु सन्त्वित्युक्तश्च तैः पुनः । स्वस्तिवाचनकं कुर्यात्पिण्डानुद्धृत्य भक्तितः ॥ १७.५५ ॥ उच्छेषणं तु तत्तिष्ठेद्यावद्विप्रा विसर्जिताः । ततो ग्रहबलिं कुर्यादिति धर्मव्यवस्थितिः ॥ १७.५६ ॥ उच्छेषणं भूमिगतमजिह्मस्यास्तिकस्य च । दासवर्गस्य तत्पित्र्यं भागधेयं प्रचक्षते ॥ १७.५७ ॥ पितृभिर्निर्मितं पूर्वमेतदाप्यायनं सदा । अपुत्राणां सपुत्राणां स्त्रीणामपि नराधिप ॥ १७.५८ ॥ ततस्तानग्रतः स्थित्वा परिगृह्योदपात्रकम् । वाजे वाज इति जपन् कुशाग्रेण विसर्जयेत् ॥ १७.५९ ॥ बहिः प्रदक्षिणां कुर्यात्पदान्यष्टावनुव्रजन् । बन्धुवर्गेण सहितः पुत्रभार्यासमन्वितः ॥ १७.६० ॥ निवृत्य प्रणिपत्याथ पर्युक्ष्याग्निं समन्त्रवत् । वैश्वदेवं प्रकुर्वीत नैत्यकं बलिमेव च ॥ १७.६१ ॥ ततस्तु वैश्वदेवान्ते सभृत्यसुतबान्धवः । भुञ्जीतातिथिसंयुक्तः सर्वं पितृनिषेवितम् ॥ १७.६२ ॥ एतच्चानुपनीतोऽपि कुर्यात्सर्वेषु पर्वसु । श्राद्धं साधारणं नाम सर्वकामफलप्रदम् ॥ १७.६३ ॥ भार्याविरहितोऽप्येतत्प्रवासस्थोऽपि भक्तिमान् । शूद्रोऽप्यमन्त्रवत्कुर्यादनेन विधिना बुधः ॥ १७.६४ ॥ तृतीयमाभ्युदयिकं वृद्धिश्राद्धं तदुच्यते । उत्सवानन्दसम्भारे यज्ञोद्वाहादिमङ्गले ॥ १७.६५ ॥ मातरः प्रथमं पूज्याः पितरस्तदनन्तरम् । ततो मातामहा राजन् विश्वे देवास्तथैव च ॥ १७.६६ ॥ प्रदक्षिणोपचारेण दध्यक्षतफलोदकैः । प्राङ्मुखो निर्वपेत्पिण्डान् दूर्वया च कुशैर्युतान् ॥ १७.६७ ॥ सम्पन्नमित्यभ्युदये दद्यादर्घ्यं द्वयोर्द्वयोः । युग्मा द्विजातयः पूज्या वस्त्रकार्तस्वरादिभिः ॥ १७.६८ ॥ तिलार्थस्तु यवैः कार्यो नान्दीशब्दानुपूर्वकः । माङ्गल्यानि च सर्वाणि वाचयेद्द्विजपुंगवैः ॥ १७.६९ ॥ एवं शूद्रोऽपि सामान्यवृद्धिश्राद्धेऽपि सर्वदा । नमस्कारेण मन्त्रेण कुर्यादामान्नतः सदा ॥ १७.७० ॥ दानप्रधानः शूद्रः स्यादित्याह भगवान्प्रभुः । दानेन सर्वकामाप्तिरस्य संजायते यतः ॥ १७.७१ ॥ ______________________________________________________ मत्स्यपुराण १८ *सूत उवाच एकोद्दिष्टमतो वक्ष्ये यदुक्तं चक्रपाणिना । मृते पुत्रैर्यथा कार्यमाशौचं च पितर्यपि ॥ १८.१ ॥ दशाहं शावमाशौचं ब्राह्मणेषु विधीयते । क्षत्रियेषु दश द्वे च पक्षं वैश्येषु चैव हि ॥ १८.२ ॥ शूद्रेषु मासमाशौचं सपिण्डेषु विधीयते । नैशं वाकृतचूडस्य त्रिरात्रं परतः स्मृतम् ॥ १८.३ ॥ जननेऽप्येवमेव स्यात्सर्ववर्णेषु सर्वदा । तथास्थिसंचयादूर्ध्वमङ्गस्पर्शो विधीयते ॥ १८.४ ॥ प्रेताय पिण्डदानं तु द्वादशाहं समाचरेत् । पाथेयं तस्य तत्प्रोक्तं यतः प्रीतिकरं महत् ॥ १८.५ ॥ तस्मात्प्रेतपुरं प्रेतो द्वादशाहं न नीयते । गृहं पुत्रं कलत्रं च द्वादशाहं प्रपश्यति ॥ १८.६ ॥ तस्मान्निधेयमाकाशे दशरात्रं पयस्तथा । सर्वदाहोपशान्त्यर्थमध्वश्रमविनाशनम् ॥ १८.७ ॥ तत एकादशाहे तु द्विजानेकादशैव तु । क्षत्रादिः सूतकान्ते तु भोजयेदयुजो द्विजान् ॥ १८.८ ॥ द्वितीयेऽह्नि पुनस्तद्वदेकोद्दिष्टं समाचरेत् । आवाहनाग्नौकरणं दैवहीनं विधानतः ॥ १८.९ ॥ एकं पवित्रमेकोऽर्घ एकः पिण्डो विधीयते । उपतिष्ठतामित्येतद्देयं पश्चात्तिलोदकम् ॥ १८.१० ॥ स्वदितं विकिरेद्ब्रूयाद्विसर्गे चाभिरम्यताम् । शेषं पूर्ववदत्रापि कार्यं वेदविदा पितुः ॥ १८.११ ॥ अनेन विधिना सर्वमनुमासं समाचरेत् । सूतकान्ताद्द्वितीयेऽह्नि शय्यां दद्याद्विलक्षणाम् ॥ १८.१२ ॥ काञ्चनं पुरुषं तद्वत्फलवस्त्रसमन्विताम् । संपूज्य द्विजदाम्पत्यं नानाभरणभूषणैः ॥ १८.१३ ॥ वृषोत्सर्गं प्रकुर्वीत देया च कपिला शुभा । उदकुम्भश्च दातव्यो भक्ष्यभोज्यसमन्वितः ॥ १८.१४ ॥ यावदब्दं नरश्रेष्ठ सतिलोदकपूर्वकम् । ततः संवत्सरे पूर्णे सपिण्डीकरणं भवेत् ॥ १८.१५ ॥ सपिण्डीकरणादूर्ध्वं प्रेतः पार्वणभाग्भवेत् । वृद्धिपूर्वेषु योग्यश्च गृहस्थश्च भवेत्ततः ॥ १८.१६ ॥ सपिण्डीकरणे श्राद्धे देवपूर्वं नियोजयेत् । पितॄन्निवासयेत्तत्र पृथक्प्रेतं विनिर्दिशेत् ॥ १८.१७ ॥ गन्धोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयम् । अर्घार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥ १८.१८ ॥ तद्वत्संकल्प्य चतुरः पिण्डान्पिण्डप्रदस्तथा । ये समाना इति द्वाभ्यामन्त्यं तु विभजेत्त्रिधा ॥ १८.१९ ॥ चतुर्थस्य पुनः कार्यं न कदाचिदतो भवेत् । ततः पितृत्वमापन्नः सर्वतस्तुष्टिमागतः ॥ १८.२० ॥ अग्निष्वात्तादिमध्यत्वं प्राप्नोत्यमृतमुत्तमम् । सपिण्डीकरणादूर्ध्वं तस्मै तस्मान्न दीयते ॥ १८.२१ ॥ पितृष्वेव तु दातव्यं तत्पिण्डो येषु संस्थितः । ततः प्रभृति संक्रान्तावुपरागादिपर्वसु ॥ १८.२२ ॥ त्रिपिण्डमाचरेच्छ्राद्धमेकोद्दिष्टे मृतेऽहनि । एकोद्दिष्टं परित्यज्य मृताहे यः समाचरेत् ॥ १८.२३ ॥ सदैव पितृहा स स्यान्मातृभ्रातृविनाशकः । मृताहे पार्वणं कुर्वन्नधोऽधो याति मानवः ॥ १८.२४ ॥ संपृक्तेष्वाकुलीभावः प्रेतेषु तु गतो भवेत् । प्रतिसंवत्सरं तस्मादेकोद्दिष्टं समाचरेत् ॥ १८.२५ ॥ यावदब्दं तु यो दद्यादुदकुम्भं विमत्सरः । प्रेतायान्नसमायुक्तं सोऽश्वमेधफलं लभेत् ॥ १८.२६ ॥ आमश्राद्धं यदा कुर्याद्विधिज्ञः श्राद्धदस्तदा । तेनाग्नौकरणं कुर्यात्पिण्डांस्तेनैव निर्वपेत् ॥ १८.२७ ॥ त्रिभिः सपिण्डीकरणे अशेषत्रितये पिता । यदा प्राप्स्यति कालेन तदा मुच्येत बन्धनात् ॥ १८.२८ ॥ मुक्तोऽपि लेपभागित्वं प्राप्नोति कुशमार्जनात् । लेपभाजश्चतुर्थाद्याः पित्राद्याः पिण्डभागिनः । पिण्डदः सप्तमस्तेषां सापिण्ड्यं साप्तपौरुषम् ॥ १८.२९ ॥ ______________________________________________________ मत्स्यपुराण १९ *ऋषय ऊचुः कथं कव्यानि देयानि हव्यानि च जनैरिह । गच्छन्ति पितृलोकस्थान् प्रापकः कोऽत्र गद्यते ॥ १९.१ ॥ यदि मर्त्यो द्विजो भुङ्क्ते हूयते यदि वानले । शुभाशुभात्मकैः प्रेतैर्दत्तं तद्भुज्यते कथम् ॥ १९.२ ॥ *सूत उवाच वसून्वदन्ति च पितॄन् रुद्रांश्चैव पितामहान् । प्रपितामहांस्तथादित्यानित्येवं वैदिकी श्रुतिः ॥ १९.३ ॥ नाम गोत्रं पितॄणां तु प्रापकं हव्यकव्ययोः । श्राद्धस्य मन्त्राः श्रद्धा च उपयोज्यातिभक्तितः ॥ १९.४ ॥ अग्निष्वात्तादयस्तेषामाधिपत्ये व्यवस्थिताः । नामगोत्रकालदेशा भवान्तरगतानपि ॥ १९.५ ॥ प्राणिनः प्रीणयन्त्येते तदाहारत्वमागतान् । देवो यदि पिता जातः शुभकर्मानुयोगतः ॥ १९.६ ॥ तस्यान्नममृतं भूत्वा दिव्यत्वेऽप्यनुगच्छति । दैत्यत्वे भोगरूपेण पशुत्वे च तृणं भवेत् ॥ १९.७ ॥ श्राद्धान्नं वायुरूपेण सर्पत्वेऽप्युपतिष्ठति । पानं भवति यक्षत्वे राक्षसत्वे तथामिषम् ॥ १९.८ ॥ दनुजत्वे तथा माया प्रेतत्वे रुधिरोदकम् । मनुष्यत्वेऽन्नपानानि नानाभोगरसं भवेत् ॥ १९.९ ॥ रतिशक्तिः स्त्रियः कान्ता भोज्यं भोजनशक्तिता । दानशक्तिः सविभवा रूपमारोग्यमेव च ॥ १९.१० ॥ श्रद्धा पुष्पमिदं प्रोक्तं फलं ब्रह्मसमागमः । आयुः पुत्रान् धनं विद्यां स्वर्गं मोक्षं सुखानि च ॥ १९.११ ॥ राज्यं चैव प्रयच्छन्ति प्रीताः पितृगणा नृणाम् । श्रूयते च पुरा मोक्षं प्राप्ताः कौशिकसूनवः । पञ्चभिर्जन्मसम्बन्धैर्गता विष्णोः परं पदम् ॥ १९.१२ ॥ ______________________________________________________ मत्स्यपुराण २० *ऋषय ऊचुः कथं कौशिकदायादाः प्राप्तास्ते योगमुत्तमम् । पञ्चभिर्जन्मसम्बन्धैः कथं कर्मक्षयो भवेत् ॥ २०.१ ॥ *सूत उवाच कौशिको नाम धर्मात्मा कुरुक्षेत्रे महानृषिः । नामतः कर्मतस्तस्य सुतान्सप्त निबोधत ॥ २०.२ ॥ श्वसृपः क्रोधनो हिंस्रः पिशुनः कविरेव च । वाग्दुष्टः पितृवर्ती च गर्गशिष्यास्तदाभवन् ॥ २०.३ ॥ पितर्युपरते तेषामभूद्दुर्भिक्षमुल्बणम् । अनावृष्टिश्च महती सर्वलोकभयंकरी ॥ २०.४ ॥ गर्गादेशाद्वने दोग्ध्रीं रक्षन्तस्ते तपोधनाः । खादामः कपिलामेतां वयं क्षुत्पीडिता भृशम् ॥ २०.५ ॥ इति चिन्तयतां पापं लघुः प्राह तदानुजः । यद्यवश्यमियं वध्या श्राद्धरूपेण योज्यताम् ॥ २०.६ ॥ श्राद्धे नियोज्यमानेयं पापात्त्रास्यति नो ध्रुवम् । एव कुर्वित्यनुज्ञातः पितृवर्ती तदानुजैः ॥ २०.७ ॥ चक्रे समाहितः श्राद्धमुपयुज्य च तां पुनः । द्वौ दैवे भ्रातरौ कृत्वा पित्रे त्रीनप्यनुक्रमात् ॥ २०.८ ॥ तथैकमतिथिं कृत्वा श्राद्धदः स्वयमेव तु । चकार मन्त्रवच्छ्राद्धं स्मरन्पितृपरायणः ॥ २०.९ ॥ विना गवा वत्सकोऽपि गुरवे विनिवेदितः । व्याघ्रेण निहता धेनुर्वत्सोऽयं प्रतिगृह्यताम् ॥ २०.१० ॥ एवं सा भक्षिता धेनुः सप्तभिस्तैस्तपोधनैः । वैदिकं बलमाश्रित्य क्रूरे कर्मणि निर्भयाः ॥ २०.११ ॥ ततः कालावकृष्टास्ते व्याधा दाशपुरेऽभवन् । जातिस्मरत्वं प्राप्तास्ते पितृभावेन भाविताः ॥ २०.१२ ॥ यत्कृतं क्रूरकर्मापि श्राद्धरूपेण तैस्तदा । तेन ते भवने जाता व्याधानां क्रूरकर्मिणाम् ॥ २०.१३ ॥ पितॄणां चैव माहात्म्याज्जाता जातिस्मरास्तु ते । ते तु वैराग्ययोगेन आस्थायानशनं पुनः ॥ २०.१४ ॥ जातिस्मराः सप्त जाता मृगाः कालञ्जरे गिरौ । नीलकण्ठस्य पुरतः पितृभावानुभाविताः ॥ २०.१५ ॥ तत्रापि ज्ञानवैराग्यात्प्राणानुत्सृज्य धर्मतः । लोकैरवेक्ष्यमाणास्ते तीर्थान्तेऽनशनेन तु ॥ २०.१६ ॥ मानसे चक्रवाकास्ते संजाताः सप्त योगिनः । नामतः कर्मतः सर्वाञ्छृणुध्वं द्विजसत्तमाः ॥ २०.१७ ॥ सुमनाः कुमुदः शुद्धश्छिद्रदर्शी सुनेत्रकः । सुनेत्रश्चांशुमांश्चैव सप्तैते योगपारगाः ॥ २०.१८ ॥ योगभ्रष्टास्त्रयस्तेषां बभ्रमुश्चाल्पचेतनाः । दृष्ट्वा विभ्राजमानं तमुद्याने स्त्रीभिरन्वितम् ॥ २०.१९ ॥ क्रीडन्तं विविधैर्भावैर्महाबलपराक्रमम् । पञ्चालान्वयसम्भूतं प्रभूतबलवाहनम् ॥ २०.२० ॥ राज्यकामोऽभवच्चैकस्तेषां मध्ये जलौकसाम् । पितृवर्ती च यो विप्रः श्राद्धकृत्पितृवत्सलः ॥ २०.२१ ॥ अपरौ मन्त्रिणौ दृष्ट्वा प्रभूतबलवाहनौ । मन्त्रित्वे चक्रतुश्चेच्छामस्मिन्मर्त्ये द्विजोत्तमाः ॥ २०.२२ ॥ तन्मध्ये ये तु निष्कामास्ते बभूवुर्द्विजोत्तमाः । विभ्राजपुत्रस्त्वेकोऽभूद्ब्रह्मदत्त इति स्मृतः ॥ २०.२३ ॥ मन्त्रिपुत्रौ तथा चोभौ कण्डरीकसुबालकौ । ब्रह्मदत्तोऽभिषिक्तः सन् पुरोहितविपश्चिता ॥ २०.२४ ॥ पञ्चालराजो विक्रान्तः सर्वशास्त्रविशारदः । योगवित्सर्वजन्तूनां रुतवेत्ताभवत्तदा ॥ २०.२५ ॥ तस्य राज्ञोऽभवद्भार्या देवलस्यात्मजा शुभा । संनतिर्नाम विख्याता कपिला याभवत्पुरा ॥ २०.२६ ॥ पितृकार्ये नियुक्तत्वादभवद्ब्रह्मवादिनी । तया चकार सहितः स राज्यं राजनन्दनः ॥ २०.२७ ॥ कदाचिदुद्यानगतस्तया सह स पार्थिवः । ददर्श कीटमिथुनमनङ्गकलहाकुलम् ॥ २०.२८ ॥ पिपीलिकामनुनयन् परितः कीटकामुकः । पञ्चबाणाभितप्ताङ्गः सगद्गदमुवाच ह ॥ २०.२९ ॥ न त्वया सदृशी लोके कामिनी विद्यते क्वचित् । मध्यक्षामातिजघना बृहद्वक्षोऽभिगामिनी ॥ २०.३० ॥ सुवर्णवर्णा सुश्रोणी मञ्जूक्ता चारुहासिनी । सुलक्ष्यनेत्ररसना गुडशर्करवत्सला ॥ २०.३१ ॥ भोक्ष्यसे मयि भुक्ते त्वं स्नासि स्नाते तथा मयि । प्रोषिते सति दीना त्वं क्रुद्धेऽपि भयचञ्चला ॥ २०.३२ ॥ किमर्थं वद कल्याणि सरोषवदना स्थिता । सा तमाह सकोपा तु किमालपसि मां शठ ॥ २०.३३ ॥ त्वया मोदकचूर्णं तु मां विहाय विनेष्यता । प्रदत्तं समतिक्रान्ते दिनेऽन्यस्याः समन्मथ ॥ २०.३४ ॥ *पिपीलिक उवाच त्वत्सादृश्यान्मया दत्तमन्यस्यै वरवर्णिनि । तदेकमपराधं मे क्षन्तुमर्हसि भामिनि ॥ २०.३५ ॥ नैतदेवं करिष्यामि पुनः क्वापीह सुव्रते । स्पृशामि पादौ सत्येन प्रसीद प्रणतस्य मे ॥ २०.३६ ॥ *सूत उवाच इति तद्वचनं श्रुत्वा सा प्रसन्नाभवत्ततः । आत्मानमर्पयामास मोहनाय पिपीलिका ॥ २०.३७ ॥ ब्रह्मदत्तोऽप्यशेषं तं ज्ञात्वा विस्मयमागमत् । सर्वसत्त्वरुतज्ञत्वात्प्रसादाच्चक्रपाणिनः ॥ २०.३८ ॥ ______________________________________________________ मत्स्यपुराण २१ *ऋषय ऊचुः कथं सत्त्वरुतज्ञोऽभूद्ब्रह्मदत्तो धरातले । तच्चाभवत्कस्य कुले चक्रवाकचतुष्टयम् ॥ २१.१ ॥ *ऋषय ऊचुः कथं सत्त्वरुतज्ञोऽभूद्ब्रह्मदत्तो धरातले । तच्चाभवत्कस्य कुले चक्रवाकचतुष्टयम् ॥ २१.१ ॥ *सूत उवाच तस्मिन्नेव पुरे जातास्ते च चक्राह्वयास्तदा । वृद्धद्विजस्य दायादा विप्रा जातिस्मराः पुरा ॥ २१.२ ॥ धृतिमांस्तत्त्वदर्शी च विद्याचण्डस्तपोत्सुकः । नामतः कर्मतश्चैते सुदरिद्रस्य ते सुताः ॥ २१.३ ॥ तपसे बुद्धिरभवत्तदा तेषां द्विजन्मनाम् । यास्यामः परमां सिद्धिमित्यूचुस्ते द्विजोत्तमाः ॥ २१.४ ॥ ततस्तद्वचनं श्रुत्वा सुदरिद्रो महातपाः । उवाच दीनया वाचा किमेतदिति पुत्रकाः ॥ २१.५ ॥ अधर्म एष इति वः पिता तानभ्यवारयत् । वृद्धं पितरमुत्सृज्य दरिद्रं वनवासिनः ॥ २१.६ ॥ को नु धर्मोऽत्र भविता मत्त्यागाद्गतिरेव वा । ऊचुस्ते कल्पिता वृत्तिस्तव तात वदस्व तत् ॥ २१.७ ॥ वित्तमेतत्पुरो राज्ञः स ते दास्यति पुष्कलम् । धनं ग्रामसहस्राणि प्रभाते पठतस्तव ॥ २१.८ ॥ ये विप्रमुख्याः कुरुजाङ्गलेषु दाशास्तथा दाशपुरे मृगाश्च । कालञ्जरे सप्त च चक्रवाका ये मानसे ते वयमत्र सिद्धाः ॥ २१.९ ॥ इत्युक्त्वा पितरं जग्मुस्ते वनं तपसे पुनः । वृद्धोऽपि राजभवनं जगामात्मार्थसिद्धये ॥ २१.१० ॥ अनघो नाम वैभ्राजः पाञ्चालाधिपतिः पुरा । पुत्रार्थी देवदेवेशं हरिं नारायणं प्रभुम् ॥ २१.११ ॥ आराधयामास विभुं तीव्रव्रतपरायणः । ततः कालेन महता तुष्टस्तस्य जनार्दनः ॥ २१.१२ ॥ वरं वृणीष्व भद्रं ते हृदयेनेप्सितं नृप । एवमुक्तस्तु देवेन वव्रे स वरमुत्तमम् ॥ २१.१३ ॥ पुत्रं मे देहि देवेश महाबलपराक्रमम् । पारगं सर्वशास्त्राणां धार्मिकं योगिनां परम् ॥ २१.१४ ॥ सर्वसत्त्वरुतज्ञं मे देहि योगिनमात्मजम् । एवमस्त्विति विश्वात्मा तमाह परमेश्वरः ॥ २१.१५ ॥ पश्यतां सर्वदेवानां तत्रैवान्तरधीयत । ततः स तस्य पुत्रोऽभूद्ब्रह्मदत्तः प्रतापवान् ॥ २१.१६ ॥ सर्वसत्त्वानुकम्पी च सर्वसत्त्वबलाधिकः । सर्वसत्त्वरुतज्ञश्च सर्वसत्त्वेश्वरेश्वरः ॥ २१.१७ ॥ अहसत्तेन योगात्मा स पिपीलिकरागतः । यत्र तत्कीटमिथुनं रममाणमवस्थितम् ॥ २१.१८ ॥ ततः सा संनतिर्दृष्ट्वा तं हसन्तं सुविस्मिता । किमप्याशङ्क्य मनसा तमपृच्छन्नरेश्वरम् ॥ २१.१९ ॥ *संनतिरुवाच अकस्मादतिहासस्ते किमर्थमभवन्नृप । हास्यहेतुं न जानामि यदकाले कृतं त्वया ॥ २१.२० ॥ *सूत उवाच अवदद्राजपुत्रोऽपि स पिपीलिकभाषितम् । रागवाग्भिः समुत्पन्नमेतद्धास्यं वरानने ॥ २१.२१ ॥ न चान्यत्कारणं किंचिद्धास्यहेतौ शुचिस्मिते । न सामन्यत्तदा देवी प्राहालीकमिदं वचः ॥ २१.२२ ॥ अहमेवाद्य हसिता न जीविष्ये त्वयाधुना । कथं पिपीलिकालापं मर्त्यो वेत्ति विना सुरान् ॥ २१.२३ ॥ तस्मात्त्वयाहमेवेह हसिता किमतः परम् । ततो निरुत्तरो राजा जिज्ञासुस्तत्पुरो हरेः ॥ २१.२४ ॥ आस्थाय नियमं तस्थौ सप्तरात्रमकल्मषः । स्वप्ने प्राह हृषीकेशः प्रभाते पर्यटन्पुरम् ॥ २१.२५ ॥ वृद्धद्विजो यस्तद्वाक्यात्सर्वं ज्ञास्यस्यशेषतः । इत्युक्त्वान्तर्दधे विष्णुः प्रभातेऽथ नृपः पुरात् ॥ २१.२६ ॥ निर्गच्छन्मन्त्रिसहितः सभार्यो वृद्धमग्रतः । गदन्तं विप्रमायान्तं तं वृद्धं संददर्श ह ॥ २१.२७ ॥ *ब्राह्मण उवाच ये विप्रमुख्याः कुरुजाङ्गलेषु दाशास्तथा दाशपुरे मृगाश्च । कालञ्जरे सप्त च चक्रवाका ये मानसे ते वयमत्र सिद्धाः ॥ २१.२८ ॥ *सूत उवाच इत्याकर्ण्य वचस्ताभ्यां स पपात शुचा ततः । जातिस्मरत्वमगमत्तौ च मन्त्रिवरावुभौ ॥ २१.२९ ॥ कामशास्त्रप्रणेता च बाभ्रव्यस्तु सुबालकः । पाञ्चाल इति लोकेषु विश्रुतः सर्वशास्त्रवित् ॥ २१.३० ॥ कण्डरीकोऽपि धर्मात्मा वेदशास्त्रप्रवर्तकः । भूत्वा जातिस्मरौ शोकात्पतितावग्रतस्तदा ॥ २१.३१ ॥ हा वयं योगविभ्रष्टाः कामतः कर्मबन्धनाः । एवं विलप्य बहुशस्त्रयस्ते योगपारगाः ॥ २१.३२ ॥ विस्मयाच्छ्राद्धमाहात्म्यमभिनन्द्य पुनः पुनः । ततस्तस्मै धनं दत्त्वा प्रभूतग्रामसंयुतम् ॥ २१.३३ ॥ विसृज्य ब्राह्मणं तं च वृद्धं धनमुदान्वितम् । आत्मीयं नृपतिः पुत्रं नृपलक्षणसंयुतम् ॥ २१.३४ ॥ विष्वक्सेनाभिधानं तु राजा राज्येऽभ्यषेचयत् । मानसे मिलिताः सर्वे ततस्ते योगिनां वराः ॥ २१.३५ ॥ ब्रह्मदत्तादयस्तस्मिन् पितृसक्ता विमत्सराः । संनतिश्चाभवद्भ्रष्टा मयैतत्किल कारितम् ॥ २१.३६ ॥ राज्यत्यागफलं सर्वं यदेतदभिलष्यते । तथेति प्राह राजा तु पुनस्तामभिनन्दयन् ॥ २१.३७ ॥ त्वत्प्रसादादिदं सर्वं मयैतत्प्राप्यते फलम् । ततस्ते योगमास्थाय सर्व एव वनौकसः ॥ २१.३८ ॥ ब्रह्मरन्ध्रेण परमं पदमापुस्तपोबलात् । एवमायुर्धनं विद्यां स्वर्गं मोक्षं सुखानि च ॥ २१.३९ ॥ प्रयच्छन्ति सुतान्राज्यं नृणां प्रीताः पितामहाः । य इदं पितृमाहात्म्यं ब्रह्मदत्तस्य च द्विजाः ॥ २१.४० ॥ द्विजेभ्यः श्रावयेद्यो वा शृणोत्यथ पठेत्तु वा । कल्पकोटिशतं साग्रं ब्रह्मलोके महीयते ॥ २१.४१ ॥ ______________________________________________________ मत्स्यपुराण २२ *ऋषय ऊचुः कस्मिन्काले च तच्छ्राद्धमनन्तफलदं भवेत् । कस्मिन्वासरभागे तु श्राद्धकृच्छ्राद्धमाचरेत् । तीर्थेषु केषु च कृतं श्राद्धं बहुफलं भवेत् ॥ २२.१ ॥ *सूत उवाच अपराह्णे तु सम्प्राप्ते अभिजिद्रौहिणोदये । यत्किंचिद्दीयते तत्र तदक्षयमुदाहृतम् ॥ २२.२ ॥ तीर्थानि यानि शस्तानि पितॄणां वल्लभानि च । नामतस्तानि वक्ष्यामि संक्षेपेण द्विजोत्तमाः ॥ २२.३ ॥ पितृतीर्थं गया नाम सर्वतीर्थवरं शुभम् । यत्रास्ते देवदेवेशः स्वयमेव पितामहः ॥ २२.४ ॥ तत्रैषा पितृभिर्गीता गाथा भागमभीप्सुभिः ॥ २२.५ ॥ एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् । यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ २२.६ ॥ तथा वाराणसी पुण्या पितॄणां वल्लभा सदा । यत्राविमुक्तसांनिध्यं भुक्तिमुक्तिफलप्रदम् ॥ २२.७ ॥ पितॄणां वल्लभं तद्वत्पुण्यं च विमलेश्वरम् । पितृतीर्थं प्रयागं तु सर्वकामफलप्रदम् ॥ २२.८ ॥ वटेश्वरस्तु भगवान्माधवेन समन्वितः । योगनिद्राशयस्तद्वत्सदा वसति केशवः ॥ २२.९ ॥ दशाश्वमेधिकं पुण्यं गङ्गाद्वारं तथैव च । नन्दाथ ललिता तद्वत्तीर्थं मायापुरी शुभा ॥ २२.१० ॥ तथा मित्रपदं नाम ततः केदारमुत्तमम् । गङ्गासागरमित्याहुः सर्वतीर्थमयं शुभम् ॥ २२.११ ॥ तीर्थं ब्रह्मसरस्तद्वच्छतद्रुसलिले ह्रदे । तीर्थं तु नैमिषं नाम सर्वतीर्थफलप्रदम् ॥ २२.१२ ॥ गङ्गोद्भेदस्तु गोमत्यां यत्रोद्भूतः सनातनः । तथा यज्ञवराहस्तु देवदेवश्च शूलभृत् ॥ २२.१३ ॥ यत्र तत्काञ्चनं द्वारमष्टादशभुजो हरः । नेमिस्तु हरिचक्रस्य शीर्णा यत्राभवत्पुरा ॥ २२.१४ ॥ तदेतन्नैमिषारण्यं सर्वतीर्थनिषेवितम् । देवदेवस्य तत्रापि वाराहस्य तु दर्शनम् ॥ २२.१५ ॥ यः प्रयाति स पूतात्मा नारायणपदं व्रजेत् । कृतशौचं महापुण्यं सर्वपापनिषूदनम् ॥ २२.१६ ॥ यत्रास्ते नारसिंहस्तु स्वयमेव जनार्दनः । तीर्थमिक्षुमती नाम पितॄणां वल्लभं सदा ॥ २२.१७ ॥ संगमे यत्र तिष्ठन्ति गङ्गायाः पितरः सदा । कुरुक्षेत्रं महापुण्यं सर्वतीर्थसमन्वितम् ॥ २२.१८ ॥ तथा च सरयूः पुण्या सर्वदेवनमस्कृता । इरावती नदी तद्वत्पितृतीर्थाधिवासिनी ॥ २२.१९ ॥ यमुना देविका काली चन्द्रभागा दृषद्वती । नदी वेणुमती पुण्या परा वेत्रवती तथा ॥ २२.२० ॥ पितॄणां वल्लभा ह्येताः श्राद्धे कोटिगुणा मताः । जम्बूमार्गं महापुण्यं यत्र मार्गो हि लक्ष्यते ॥ २२.२१ ॥ अद्यापि पितृतीर्थं तत्सर्वकामफलप्रदम् । नीलकुण्डमिति ख्यातं पितृतीर्थं द्विजोत्तमाः ॥ २२.२२ ॥ तथा रुद्रसरः पुण्यं सरो मानसमेव च । मन्दाकिनी तथाच्छोदा विपाशाथ सरस्वती ॥ २२.२३॒१ ॥ पूर्वमित्रपदं तद्वद्वैद्यनाथं महाफलम् । क्षिप्रा नदी महाकालस्तथा कालञ्जरं शुभम् ॥ २२.२३॒२ ॥ वंशोद्भेदं हरोद्भेदं गङ्गोद्भेदं महाफलम् । भद्रेश्वरं विष्णुपदं नर्मदाद्वारमेव च ॥ २२.२४ ॥ गयापिण्डप्रदानेन समान्याहुर्महर्षयः । एतानि पितृतीर्थानि सर्वपापहराणि च ॥ २२.२५ ॥ स्मरणादपि लोकानां किमु श्राद्धकृतां नृणाम् । ओंकारं पितृतीर्थं च कावेरी कपिलोदकम् ॥ २२.२६ ॥ सम्भेदश्चण्डवेगायास्तथैवामरकण्टकम् । कुरुक्षेत्राच्छतगुणं तस्मिन्स्नानादिकं भवेत् ॥ २२.२७ ॥ शुक्रतीर्थं च विख्यातं तीर्थं सोमेश्वरं परम् । सर्वव्याधिहरं पुण्यं शतकोटिफलाधिकम् ॥ २२.२८ ॥ श्राद्धे दाने तथा होमे स्वाध्याये जलसंनिधौ । कायावरोहणं नाम तथा चर्मण्वती नदी ॥ २२.२९ ॥ गोमती वरणा तद्वत्तीर्थमौशनसं परम् । भैरवं भृगुतुङ्गं च गौरीतीर्थमनुत्तमम् ॥ २२.३० ॥ तीर्थं वैनायकं नाम भद्रेश्वरमतः परम् । तथा पापहरं नाम पुण्याथ तपती नदी ॥ २२.३१ ॥ मूलतापी पयोष्णी च पयोष्णीसंगमस्तथा । महाबोधिः पाटला च नागतीर्थमवन्तिका ॥ २२.३२ ॥ तथा वेणा नदी पुण्या महाशालं तथैव च । महारुद्रं महालिङ्गं दशार्णा च नदी शुभा ॥ २२.३३ ॥ शतरुद्रा शताह्वा च तथा विश्वपदं परम् । अङ्गारवाहिका तद्वन्नदौ तौ शोणघर्घरौ ॥ २२.३४ ॥ कालिका च नदी पुण्या वितस्ता च नदी तथा । एतानि पितृतीर्थानि शस्यन्ते स्नानदानयोः ॥ २२.३५ ॥ श्राद्धमेतेषु यद्दत्तं तदनन्तफलं स्मृतम् । द्रोणी वाटनदी धारा सरित्क्षीरनदी तथा ॥ २२.३६ ॥ गोकर्णं गजकर्णं च तथा च पुरुषोत्तमः । द्वारका कृष्णतीर्थं च तथार्बुदसरस्वती ॥ २२.३७ ॥ नदी मणिमती नाम तथा च गिरिकर्णिका । धूतपापं तथा तीर्थं समुद्रो दक्षिणस्तथा ॥ २२.३८ ॥ एतेषु पितृतीर्थेषु श्राद्धमानन्त्यमश्नुते । तीर्थं मेघकरं नाम स्वयमेव जनार्दनः ॥ २२.३९ ॥ यत्र शार्ङ्गधरो विष्णुर्मेखलायामवस्थितः । तथा मन्दोदरीतीर्थं तीर्थं चम्पा नदी शुभा ॥ २२.४० ॥ तथा सामलनाथश्च महाशालनदी तथा । चक्रवाकं चर्मकोटं तथा जन्मेश्वरं महत् ॥ २२.४१ ॥ अर्जुनं त्रिपुरं चैव सिद्धेश्वरमतः परम् । श्रीशैलं शांकरं तीर्थं नारसिंहमतः परम् ॥ २२.४२ ॥ महेन्द्रं च तथा पुण्यमथ श्रीरङ्गसंज्ञितम् । एतेष्वपि सदा श्राद्धमनन्तफलदं स्मृतम् ॥ २२.४३ ॥ दर्शनादपि चैतानि सद्यः पापहराणि वै । तुङ्गभद्रा नदी पुण्या तथा भीमरथी सरित् ॥ २२.४४ ॥ भीमेश्वरं कृष्णवेणा कावेरी कुड्मला नदी । नदी गोदावरी नाम त्रिसंध्या तीर्थमुत्तमम् ॥ २२.४५ ॥ तीर्थं त्रैयम्बकं नाम सर्वतीर्थनमस्कृतम् । यत्रास्ते भगवानीशः स्वयमेव त्रिलोचनः ॥ २२.४६ ॥ श्राद्धमेतेषु सर्वेषु कोटिकोटिगुणं भवेत् । स्मरणादपि पापानि नश्यन्ति शतधा द्विजाः ॥ २२.४७ ॥ श्रीपर्णी ताम्रपर्णी च जया तीर्थमनुत्तमम् । तथा मत्स्यनदी पुण्या शिवधारं तथैव च ॥ २२.४८ ॥ भद्रतीर्थं च विख्यातं पम्पातीर्थं च शाश्वतम् । पुण्यं रामेश्वरं तद्वदेलापुरमलं पुरम् ॥ २२.४९ ॥ अङ्गभूतं च विख्यातमामर्दकमलम्भुषम् । आम्रातकेश्वरं तद्वदेकाम्भकमतः परम् ॥ २२.५० ॥ गोवर्धनं हरिश्चन्द्रं कृपुचन्द्रं पृथूदकम् । सहस्राक्षं हिरण्याक्षं तथा च कदली नदी ॥ २२.५१ ॥ रामाधिवासस्तत्रापि तथा सौमित्रिसंगमः । इन्द्रकीलं महानादं तथा च प्रियमेलकम् ॥ २२.५२ ॥ एतान्यपि सदा श्राद्धे प्रशस्तान्यधिकानि तु । एतेषु सर्वदेवानां सांनिध्यं दृश्यते यतः ॥ २२.५३ ॥ दानमेतेषु सर्वेषु दत्तं कोटिशताधिकम् । बाहुदा च नदीपुण्या तथा सिद्धवनं शुभम् ॥ २२.५४ ॥ तीर्थं पाशुपतं नाम नदी पार्वतिका शुभा । श्राद्धमेतेषु सर्वेषु दत्तं कोटिशतोत्तरम् ॥ २२.५५ ॥ तथैव पितृतीर्थं तु यत्र गोदावरी नदी । युता लिङ्गसहस्रेण सर्वान्तरजलावहा ॥ २२.५६ ॥ जामदग्न्यस्य तत्तीर्थं क्रमादायातमुत्तमम् । प्रतीकस्य भयाद्भिन्नं यत्र गोदावरी नदी ॥ २२.५७ ॥ तत्तीर्थं हव्यकव्यानामप्सरोयुगसंज्ञितम् । श्राद्धाग्निकार्यदानेषु तथा कोटिशताधिकम् ॥ २२.५८ ॥ तथा सहस्रलिङ्गं च राघवेश्वरमुत्तमम् । सेन्द्रफेना नदी पुण्या यत्रेन्द्रः पतितः पुरा ॥ २२.५९ ॥ निहत्य नमुचिं शक्रस्तपसा स्वर्गमाप्तवान् । तत्र दत्तं नरैः श्राद्धमनन्तफलदं भवेत् ॥ २२.६० ॥ तीर्थं तु पुष्करं नाम शालग्रामं तथैव च । सोमपानं च विख्यातं यत्र वैश्वानरालयम् ॥ २२.६१ ॥ तीर्थं सारस्वतं नाम स्वामितीर्थं तथैव च । मलंदरा नदी पुण्या कौशिकी चन्द्रिका तथा ॥ २२.६२ ॥ वैदर्भा वाथ वैरा च पयोष्णी प्राङ्मुखा परा । कावेरी चोत्तरा पुण्या तथा जालंधरो गिरिः ॥ २२.६३ ॥ एतेषु श्राद्धतीर्थेषु श्राद्धमानन्त्यमश्नुते । लोहदण्डं तथा तीर्थं चित्रकूटस्तथैव च ॥ २२.६४ ॥ विन्ध्ययोगश्च गङ्गायास्तथा नदीतटं शुभम् । कुब्जाभ्रं तु तथा तीर्थमुर्वशीपुलिनं तथा ॥ २२.६५ ॥ संसारमोचनं तीर्थं तथैव ऋणमोचनम् । एतेषु पितृतीर्थेषु श्राद्धमानन्त्यमश्नुते ॥ २२.६६ ॥ अट्टहासं तथा तीर्थं गौतमेश्वरमेव च । तथा वसिष्ठतीर्थं नु हारीतं तु ततः परम् ॥ २२.६७ ॥ ब्रह्मावर्तं कुशावर्तं हयतीर्थं तथैव च । पिण्डारकं च विख्यातं शङ्खोद्धारं तथैव च ॥ २२.६८ ॥ घण्टेश्वरं बिल्वकं च नीलपर्वतमेव च । तथा च धरणीतीर्थं रामतीर्थं तथैव च ॥ २२.६९ ॥ अश्वतीर्थं च विख्यातमनन्तं श्राद्धदानयोः । तीर्थं वेदशिरो नाम तथैवौघवती नदी ॥ २२.७० ॥ तीर्थं वसुप्रदं नाम छागलाण्डं तथैव च । एतेषु श्राद्धदातारः प्रयान्ति परमं पदम् ॥ २२.७१ ॥ तथाच बदरीतीर्थं गणतीर्थं तथैव च । जयन्तं विजयं चैव शक्रतीर्थं तथैव च ॥ २२.७२ ॥ श्रीपतेश्च तथा तीर्थं तीर्थं रैवतकं तथा । तथैव शारदातीर्थं भद्रकालेश्वरं तथा ॥ २२.७३ ॥ वैकुण्ठतीर्थं च परं भीमेश्वरमथापि वा । एतेषु श्राद्धदातारः प्रयान्ति परमां गतिम् ॥ २२.७४ ॥ तीर्थं मातृगृहं नाम करवीरपुरं तथा । कुशेशयं च विख्यातं गौरीशिखरमेव च ॥ २२.७५ ॥ नकुलेशस्य तीर्थं च कर्दमालं तथैव च । दिण्डिपुण्यकरं तद्वत्पुण्डरीकपुरं तथा ॥ २२.७६ ॥ सप्तगोदावरीतीर्थं सर्वतीर्थेश्वरेश्वरम् । तत्र श्राद्धं प्रदातव्यमनन्तफलमीप्सुभिः ॥ २२.७७ ॥ एष तूद्देशतः प्रोक्तस्तीर्थानां संग्रहो मया । वागीशोऽपि न शक्नोति विस्तरात्किमु मानुषः ॥ २२.७८ ॥ सत्यं तीर्थं दया तीर्थं तीर्थमिन्द्रियनिग्रहः । वर्णाश्रमाणां गेहेऽपि तीर्थं तु समुदाहृतम् ॥ २२.७९ ॥ एतत्तीर्थेषु यच्छ्राद्धं तत्कोटिगुणमिष्यते । यस्मात्तस्मात्प्रयत्नेन तीर्थे श्राद्धं समाचरेत् ॥ २२.८० ॥ प्रातःकालो मुहूर्तांस्त्रीन् संगवस्तावदेव तु । मध्याह्नस्त्रिमुहूर्तः स्यादपराह्णस्ततः परम् ॥ २२.८१ ॥ सायाह्नस्त्रिमुहूर्तः स्याच्छ्राद्धं तत्र न कारयेत् । राक्षसी नाम सा वेला गर्हिता सर्वकर्मसु ॥ २२.८२ ॥ अह्नो मुहूर्ता विख्याता दश पञ्च च सर्वदा । तत्राष्टमो मुहूर्तो यः स कालः कुतपः स्मृतः ॥ २२.८३ ॥ मध्याह्ने सर्वदा यस्मान्मन्दीभवति भास्करः । तस्मादनन्तफलदस्तदारम्भो विशिष्यते ॥ २२.८४ ॥ मध्याह्नः खड्गपात्रं च तथा नेपालकम्बलः । रूप्यं दर्भास्तिला गावो दौहित्रश्चाष्टमः स्मृतः ॥ २२.८५ ॥ पापं कुत्सितमित्याहुस्तस्य संतापकारिणः । अष्टावेते यतस्तस्मात्कुतपा इति विश्रुताः ॥ २२.८६ ॥ ऊर्ध्वं मुहूर्तात्कुतपाद्यन्मुहूर्तचतुष्टयम् । मुहूर्तपञ्चकं चैतत्स्वधाभवनमिष्यते ॥ २२.८७ ॥ विष्णोर्देहसमुद्भूताः कुशाः कृष्णास्तिलास्तथा । श्राद्धस्य रक्षणायालमेतत्प्राहुर्दिवौकसः ॥ २२.८८ ॥ तिलोदकाञ्जलिर्देयो जलस्थैस्तीर्थवासिभिः । सदर्भहस्तेनैकेन श्राद्धमेवं विशिष्यते ॥ २२.८९ ॥ श्राद्धसाधनकाले तु पाणिनैकेन दीयते । तर्पणं तूभयेनैव विधिरेष सदा स्मृतः ॥ २२.९० ॥ *सूत उवाच पुण्यं पवित्रमायुष्यं सर्वपापविनाशनम् । पुरा मलये न कथितं तीर्थश्राद्धानुकीर्तनम् ॥ २२.९१ ॥ शृणोति यः पठेद्वापि श्रीमान्संजायते नरः ॥ २२.९२ ॥ श्राद्धकाले च वक्तव्यं तथा तीर्थनिवासिभिः । सर्वपापोपशान्त्यर्थमलक्ष्मीनाशनं परम् ॥ २२.९३ ॥ इदं पवित्रं यशसो निधानमिदं महापापहरं च पुंसाम् । ब्रह्मार्करुद्रैरपि पूजितं च श्राद्धस्य माहात्म्यमुशन्ति तज्ज्ञाः ॥ २२.९४ ॥ ______________________________________________________ मत्स्यपुराण २३ *ऋषय ऊचुः सोमः पितॄणामधिपः कथं शास्त्रविशारद । तद्वंश्या ये च राजानो बभूवुः कीर्तिवर्धनाः ॥ २३.१ ॥ *सूत उवाच आदिष्टो ब्रह्मणा पूर्वमत्रिः सर्गविधौ पुरा । अनुत्तमं नाम तपः सृष्ट्यर्थं तप्तवान्प्रभुः ॥ २३.२ ॥ यदानन्दकरं ब्रह्म जगत्क्लेशविनाशनम् । ब्रह्मविष्ण्वर्करुद्राणामभ्यन्तरमतीन्द्रियम् ॥ २३.३ ॥ शान्तिकृच्छान्तमनसस्तदन्तर्नयने स्थितम् । माहात्म्यात्तपसा विप्राः परमानन्दकारकम् ॥ २३.४ ॥ यस्मादुमापतिः सार्धमुमया तमधिष्ठितः । तं दृष्ट्वा चाष्टमांशेन तस्मात्सोमोऽभवच्छिशुः ॥ २३.५ ॥ अधः सुस्राव नेत्राभ्यां धाम तच्चाम्बुसम्भवम् । दीपयन्विश्वमखिलं ज्योत्स्नया सचराचरम् ॥ २३.६ ॥ तद्दिशो जगृहुर्धाम स्त्रीरूपेण सुतेच्छया । गर्भो भूत्वोदरे तासामास्थितोऽब्दशतत्रयम् ॥ २३.७ ॥ आशास्तं मुमुचुर्गर्भमशक्ता धारणे ततः । समादायाथ तं गर्भमेकीकृत्य चतुर्मुखः ॥ २३.८ ॥ युवानमकरोद्ब्रह्मा सर्वायुधधरं नरम् । स्यन्दनेऽथ सहस्राश्वे वेदशक्तिमये प्रभुः ॥ २३.९ ॥ आरोप्य लोकमनयदात्मीयं स पितामह । तत्र ब्रह्मर्षिभिः प्रोक्तमस्मत्स्वामी भवत्वयम् ॥ २३.१० ॥ ऋषिभिर्देवगन्धर्वैरोषधीभिस्तथैव च । तुष्टुवुः सोमदेवत्यैर्ब्रह्माद्या मन्त्रसंग्रहैः ॥ २३.११ ॥ स्तूयमानस्य तस्याभूदधिको धामसम्भवः । तेजोवितानादभवद्भुवि दिव्यौषधीगणः ॥ २३.१२ ॥ तद्दीप्तिरधिका तस्माद्रात्रौ भवति सर्वदा । तेनौषधीशः सोमोऽभूद्द्विजेशश्चापि गद्यते ॥ २३.१३ ॥ वेदधामरसं चापि यदिदं चन्द्रमण्डलम् । क्षीयते वर्धते चैव शुक्ले कृष्णे च सर्वदा ॥ २३.१४ ॥ विंशतिं च तथा सप्त दक्षः प्राचेतसो ददौ । रूपलावण्यसंयुक्तास्तस्मै कन्याः सुवर्चसः ॥ २३.१५ ॥ ततः पद्मसहस्राणां सहस्राणि दशैव तु । तपश्चचार शीतांशुर्विष्णुध्यानैकतत्परः ॥ २३.१६ ॥ ततस्तुष्टस्तु भगवांस्तस्मै नारायणो हरिः । वरं वृणीष्व प्रोवाच परमात्मा जनार्दनः ॥ २३.१७ ॥ ततो वव्रे वरान्सोमः शक्रलोकं जयाम्यहम् । प्रत्यक्षमेव भोक्तारो भवन्तु मम मन्दिरे ॥ २३.१८ ॥ राजसूये सुरगणा ब्रह्माद्याः सन्तु मे द्विजाः । रक्षःपालः शिवोऽस्माकमास्तां शूलधरो हरः ॥ २३.१९ ॥ तथेत्युक्तः स आजह्रे राजसूयं तु विष्णुना । होतात्रिर्भृगुरध्वर्युरुद्गाताभूच्चतुर्मुखः ॥ २३.२० ॥ ब्रह्मत्वमगमत्तस्य उपद्रष्टा हरिः स्वयम् । सदस्याः सनकाद्यास्तु राजसूयविधौ स्मृताः ॥ २३.२१ ॥ चमसाध्वर्यवस्तत्र विश्वे देवा दशैव तु । त्रैलोक्यं दक्षिणा तेन ऋत्विग्भ्यः प्रतिपादितम् ॥ २३.२२ ॥ ततः समाप्तेऽवभृथे तद्रूपालोकनेच्छवः । कामबाणाभितप्ताङ्ग्यो नव देव्यः सिषेविरे ॥ २३.२३ ॥ लक्ष्मीर्नारायणं त्यक्त्वा सिनीवाली च कर्दमम् । द्युतिर्विभावसुं तद्वत्तुष्टिर्धातारमव्ययम् ॥ २३.२४ ॥ प्रभा प्रभाकरं त्यक्त्वा हविष्मन्तं कुहूः स्वयम् । कीर्तिर्जयन्तं भर्तारं वसुर्मारीचकश्यपम् ॥ २३.२५ ॥ धृतिस्त्यक्त्वा पीतं नन्दिं सोममेवाभजंस्तदा । स्वकीया इव सोमोऽपि कामयामास तास्तदा ॥ २३.२६ ॥ एवं कृतापचारस्य तासां भर्तृगणस्तदा । न शशाकापचाराय शापैः शस्त्रादिभिः पुनः ॥ २३.२७ ॥ तथाप्यराजत विधुर्दशधा भावयन्दिशः । सोमः प्राप्याथ दुष्प्राप्यमैश्वर्यमृषिसंस्कृतम् । सप्तलोकैकनाथत्वमवाप तपसा तदा ॥ २३.२८ ॥ कदाचिदुद्यानगतामपश्यदनेकपुष्पाभरणैश्च शोभिताम् । बृहन्नितम्बस्तनभारखेदात्पुष्पस्य भङ्गेऽप्यतिदुर्बलाङ्गीम् ॥ २३.२९ ॥ भार्यां च तां देवगुरोरनङ्ग बाणाभिरामायतचारुनेत्राम् । तारां स ताराधिपतिः स्मरार्तः केशेषु जग्राह विविक्तभूमौ ॥ २३.३० ॥ सापि स्मरार्ता सह तेन रेमे तद्रूपकान्त्या हृतमानसेन । चिरं विहृत्याथ जगाम तारां विधुर्गृहीत्वा स्वगृहं ततोऽपि ॥ २३.३१ ॥ न तृप्तिरासीच्च गृहेऽपि तस्य तारानुरक्तस्य सुखागमेषु । बृहस्पतिस्तद्विरहाग्निदग्धस्तद्ध्याननिष्ठैकमना बभूव ॥ २३.३२ ॥ शशाक शापं न च दातुमस्मै न मन्त्रशस्त्राग्निविषैरशेषैः । तस्यापकर्तुं विविधैरुपायैर्नैवाभिचारैरपि वागधीशः ॥ २३.३३ ॥ स याचयामास ततस्तु दैन्यात्सोमं स्वभार्यार्थमनङ्गतप्तः । स याच्यमानोऽपि ददौ न तारां बृहस्पतेस्तत्सुखपाशबद्धः ॥ २३.३४ ॥ महेश्वरेणाथ चतुर्मुखेण साध्यैर्मरुद्भिः सह लोकपालैः । ददौ यदा तां न कथंचिदिन्दुस्तदा शिवः क्रोधपरो बभूव ॥ २३.३५ ॥ यो वामदेवः प्रथितः पृथिव्यामनेकरुद्रार्चितपादपद्मः । ततः सशिष्यो गिरिशः पिनाकी बृहस्पतिस्नेहवशानुबद्धः ॥ २३.३६ ॥ धनुर्गृहीत्वाजगवं पुरारिर्जगाम भूतेश्वरसिद्धजुष्टः । युद्धाय सोमेन विशेषदीप्ततृतीयनेत्रानलभीमवक्त्रः ॥ २३.३७ ॥ सहैव जग्मुश्च गणेशकाद्या विंशच्चतुःषष्टिगणास्त्रयुक्ताः । यक्षेश्वरः कोटिशतैरनेकैर्युतोऽन्वगात्स्यन्दनसंस्थितानाम् ॥ २३.३८ ॥ वेतालयक्षोरगकिंनराणां पद्मेन चैकेन तथार्बुदेन । लक्षैस्त्रिभिर्द्वादशभी रथानां सोमोऽप्यगात्तत्र विवृद्धमन्युः ॥ २३.३९ ॥ नक्षत्रदैत्यासुरसैन्ययुक्तः शनैश्चराङ्गारकवृद्धतेजाः । जग्मुर्भयं सप्त तथैव लोकाश्चचाल भूर्द्वीपसमुद्रगर्भा ॥ २३.४० ॥ स सोममेवाभ्यगमत्पिनाकी गृहीतदीप्तास्त्रविशालवह्निः । अथाभवद्भीषणभीमसेनसैन्यद्वयस्यापि महाहवोऽसौ ॥ २३.४१ ॥ अशेषसत्त्वक्षयकृत्प्रवृद्धस्तीक्ष्णायुधास्त्रज्वलनैकरूपः । शस्त्रैरथान्योन्यमशेषसैन्यं द्वयोर्जगाम क्षयमुग्रतीक्ष्णैः ॥ २३.४२ ॥ पतन्ति शस्त्राणि तथोज्ज्वलानि स्वर्भूमिपातालमथो दहन्ति । रुद्रः कोपाद्ब्रह्मशीर्षं मुमोच सोमोऽपि सोमास्त्रममोघवीर्यम् ॥ २३.४३ ॥ तयोर्निपातेन समुद्रभूम्योरथान्तरिक्षस्य च भीतिरासीत् । तदस्त्रयुग्मं जगतां क्षयाय प्रवृद्धमालोक्य पितामहोऽपि ॥ २३.४४ ॥ अन्तः प्रविश्याथ कथं कथंचिन्निवारयामास सुरैः सहैव । अकारणं किं क्षयकृज्जनानां सोम त्वयापीत्थमकारि कार्यम् ॥ २३.४५ ॥ यस्मात्परस्त्रीहरणाय सोम त्वया कृतं युद्धमतीव भीमम् । पापग्रहस्त्वं भविता जनेषु शान्तोऽप्यलं नूनमथो सितान्ते । भार्यामिमामर्पय वाक्पतेस्त्वं न चावमानोऽस्ति परस्वहारे ॥ २३.४६ ॥ *सूत उवाच तथेति चोवाच हिमांशुमाली युद्धादपाक्रामदतः प्रशान्तः । बृहस्पतिः स्वामपगृह्य तारां हृष्टो जगाम स्वगृहं सरुद्रः ॥ २३.४७ ॥ ______________________________________________________ मत्स्यपुराण २४ *सूत उवाच ततः संवत्सरस्यान्ते द्वादशादित्यसंनिभः । दिव्यपीताम्बरधरो दिव्याभरणभूषितः ॥ २४.१ ॥ तारोदराद्विनिष्क्रान्तः कुमारश्चन्द्रसंनिभः । सर्वार्थशास्त्रविद्धीमान् हस्तिशास्त्रप्रवर्तकः ॥ २४.२ ॥ नाम यद्राजपुत्रीयं विश्रुतं गजवैद्यकम् । राज्ञः सोमस्य पुत्रत्वाद्राजपुत्रो बुधः स्मृतः ॥ २४.३ ॥ जातमात्रः स तेजांसि सर्वाण्येवाजयद्बली । ब्रह्माद्यास्तत्र चाजग्मुर्देवा देवर्षिभिः सह ॥ २४.४ ॥ बृहस्पतिगृहे सर्वे जातकर्मोत्सवे तदा । अपृच्छंस्ते सुरास्तारां केन जातः कुमारकः ॥ २४.५ ॥ ततः सा लज्जिता तेषां न किंचिदवदत्तदा । पुनः पुनस्तदा पृष्टा लज्जयन्ती वराङ्गना ॥ २४.६ ॥ सोमस्येति चिरादाह ततोऽगृह्णाद्विधुः सुतम् । बुध इत्यकरोन्नाम्ना प्रादाद्राज्यं च भूतले ॥ २४.७ ॥ अभिषेकं ततः कृत्वा प्रधानमकरोद्विभुः । गृहसाम्यं प्रदायाथ ब्रह्मा ब्रह्मर्षिसंयुतः ॥ २४.८ ॥ पश्यतां सर्वदेवानां तत्रैवान्तरधीयत । इलोदरे च धर्मिष्ठं बुधः पुत्रमजीजनत् ॥ २४.९ ॥ अश्वमेधशतं साग्रमकरोद्यः स्वतेजसा । पुरूरवा इति ख्यातः सर्वलोकनमस्कृतः ॥ २४.१० ॥ हिमवच्छिखरे रम्ये समाराध्य जनार्दनम् । लोकैश्वर्यमगाद्राजा सप्तद्वीपपतिस्तदा ॥ २४.११ ॥ केशिप्रभृतयो दैत्याः कोटिशो येन दारिताः । उर्वशी यस्य पत्नीत्वमगमद्रूपमोहिता ॥ २४.१२ ॥ सप्तद्वीपा वसुमती सशैलवनकानना । धर्मेण पालिता तेन सर्वलोकहितैषिणा ॥ २४.१३ ॥ चामरग्राहिणी कीर्तिः सदा चैवाङ्गवाहिका । विष्णोः प्रसादाद्देवेन्द्रो ददावर्धासनं तदा ॥ २४.१४ ॥ धर्मार्थकामान्धर्मेण सममेवाभ्यपालयत् । धर्मार्थकामाः संद्रष्टुमाजग्मुः कौतुकात्पुरा ॥ २४.१५ ॥ जिज्ञासवस्तच्चरितं कथं पश्यति नः समम् । भक्त्या चक्रे ततस्तेषामर्घ्यपाद्यादिकं नृपः ॥ २४.१६ ॥ आसनत्रयमानीय दिव्यं कनकभूषितम् । निविश्याथाकरोत्पूजामीषद्धर्मेऽधिकां पुनः ॥ २४.१७ ॥ जग्मतुस्तेन कामार्थावतिकोपं नृपं प्रति । अर्थः शापमदात्तस्मै लोभात्त्वं नाशमेष्यसि ॥ २४.१८ ॥ कामोऽप्याह तवोन्मादो भविता गन्धमादने । कुमारवनमाश्रित्य वियोगादुर्वशीभवात् ॥ २४.१९ ॥ धर्मोऽप्याह चिरायुस्त्वं धार्मिकश्च भविष्यसि । संततिस्तव राजेन्द्र यावच्चन्द्रार्कतारकम् ॥ २४.२० ॥ शतशो वृद्धिमायातु न नाशं भुवि यास्यति । इत्युक्त्वान्तर्दधुः सर्वे राजा राज्यं तदन्वभूत् ॥ २४.२१ ॥ अहन्यहनि देवेन्द्रं द्रष्टुं याति स राजराट् । कदाचिदारुह्य रथं दक्षिणाम्बरचारिणम् ॥ २४.२२ ॥ सार्धमर्केण सोऽपश्यन्नीयमानामथाम्बरे । केशिना दानवेन्द्रेण चित्रलेखामथोर्वशीम् ॥ २४.२३ ॥ तं विनिर्जित्य समरे विविधायुधपाणिना । बुधपुत्रेण वायव्यमस्त्रं मुक्त्वा यशोऽर्थिना ॥ २४.२४ ॥ तथा शक्रोऽपि समरे येन चैवं विनिर्जितः । मित्रत्वमगमद्देवैर्ददाविन्द्राय चोर्वशीम् ॥ २४.२५ ॥ ततःप्रभृति मित्रत्वमगमत्पाकशासनः । सर्वलोकातिशायित्वं बलमूर्जो यशः श्रियम् ॥ २४.२६ ॥ प्रादाद्वज्रीति संतुष्टो गेयतां भरतेन च । सा पुरूरवसः प्रीत्या गायन्ती चरितं महत् ॥ २४.२७ ॥ लक्ष्मीस्वयंवरं नाम भरतेन प्रवर्तितम् । मेनकामुर्वशीं रम्भां नृत्यतेति तदादिशत् ॥ २४.२८ ॥ ननर्त सलयं तत्र लक्ष्मीरूपेण चोर्वशी । सा पुरूरवसं दृष्ट्वा नृत्यन्ती कामपीडिता ॥ २४.२९ ॥ विस्मृताभिनयं सर्वं यत्पुरा भरतोदितम् । शशाप भरतः क्रोधाद्वियोगादस्य भूतले ॥ २४.३० ॥ पञ्चपञ्चाशदब्दानि लता सूक्ष्मा भविष्यसि । पुरूरवाः पिशाचत्वं तत्रैवानुभविष्यति ॥ २४.३१ ॥ ततस्तमुर्वशी गत्वा भर्तारमकरोच्चिरम् । शापान्ते भरतस्याथ उर्वशी बुधसूनुतः ॥ २४.३२ ॥ अजीजनत्सुतानष्टौ नामतस्तान्निबोधत । आयुर्दृढायुरश्वायुर्धनायुर्धृतिमान्वसुः ॥ २४.३३ ॥ शुचिविद्यः शतायुश्च सर्वे दिव्यबलौजसः । आयुषो नहुषः पुत्रौ वृद्धशर्मा तथैव च ॥ २४.३४ ॥ रजिर्दम्भो विपाप्मा च वीराः पञ्च महारथाः । रजेः पुत्रशतं जज्ञे राजेयमिति विश्रुतम् ॥ २४.३५ ॥ रजिराराधयामास नारायणमकल्मषम् । तपसा तोषितो विष्णुर्वरान्प्रादान्महीपते ॥ २४.३६ ॥ देवासुरमनुष्याणामभूत्स विजयी तदा । अथ देवासुरं युद्धमभूद्वर्षशतत्रयम् ॥ २४.३७ ॥ प्रह्लादशक्रयोर्भीमं न कश्चिद्विजयी तयोः । ततो देवासुरैः पृष्टः प्राह देवश्चतुर्मुखः ॥ २४.३८ ॥ अनयोर्विजयी कः स्याद्रजिर्यत्रेति सोऽब्रवीत् । जयाय प्रार्थितो राजा सहायस्त्वं भवस्व नः ॥ २४.३९ ॥ दैत्यैः प्राह यदि स्वामी वो भवामि ततस्त्वलम् । नासुरैः प्रतिपन्नं तत्प्रतिपन्नं सुरैस्तथा ॥ २४.४० ॥ स्वामी भव त्वमस्माकं संग्रामे नाशय द्विषः । ततो विनाशिताः सर्वे येऽवध्या वज्रपाणिना ॥ २४.४१ ॥ पुत्रत्वमगमत्तुष्टस्तस्येन्द्रः कर्मणा विभुः । दत्त्वेन्द्राय तदा राज्यं जगाम तपसे रजिः ॥ २४.४२ ॥ रजिपुत्रैस्तदाच्छिन्नं बलादिन्द्रस्य वैभवम् । यज्ञभागं च राज्यं च तपोबलगुणान्वितैः ॥ २४.४३ ॥ राज्यभ्रष्टस्तदा शक्रो रजिपुत्रैर्निपीडितः । प्राह वाचस्पतिं दीनः पीडितोऽस्मि रजेः सुतैः ॥ २४.४४ ॥ न यज्ञभागो राज्यं मे निर्जितश्च बृहस्पते । राज्यलाभाय मे यत्नं विधत्स्व धिषणाधिप ॥ २४.४५ ॥ ततो बृहस्पतिः शक्रमकरोद्बलदर्पितम् । ग्रहशान्तिविधानेन पौष्टिकेन च कर्मणा ॥ २४.४६ ॥ गत्वाथ मोहयामास रजिपुत्रान्बृहस्पतिः । जिनधर्मं समास्थाय वेदबाह्यं स वेदवित् ॥ २४.४७ ॥ वेदत्रयीपरिभ्रष्टांश्चकार धिषणाधिपः । वेदबाह्यान्परिज्ञाय हेतुवादसमन्वितान् ॥ २४.४८ ॥ जघान शक्रो वज्रेण सर्वान्धर्मबहिष्कृतान् । नहुषस्य प्रवक्ष्यामि पुत्रान्सप्तैव धार्मिकान् ॥ २४.४९ ॥ यतिर्ययातिः संयातिरुद्भवः पाचिरेव च । शर्यातिर्मेघजातिश्च सप्तैते वंशवर्धनाः ॥ २४.५० ॥ यतिः कुमारभावेऽपि योगी वैखानसोऽभवत् । ययातिश्चाकरोद्राज्यं धर्मैकशरणः सदा ॥ २४.५१ ॥ शर्मिष्ठा तस्य भार्याभूद्दुहिता वृषपर्वणः । भार्गवस्यात्मजा तद्वद्देवयानी च सुव्रता ॥ २४.५२ ॥ ययातेः पञ्च दायादास्तान्प्रवक्ष्यामि नामतः । देवयानी यदुं पुत्रं तुर्वसुं चाप्यजीजनत् ॥ २४.५३ ॥ तथा द्रुह्युमनुं पूरुं शर्मिष्ठाजनयत्सुतान् । यदुः पूरुश्चाभवतां तेषां वंशविवर्धनौ ॥ २४.५४ ॥ ययातिर्नाहुषश्चासीद्राजा सत्यपराक्रमः । पालयामास स महीमीजे च विधिवन्मखैः ॥ २४.५५ ॥ अतिभक्त्या पितॄनर्च्य देवांश्च प्रयतः सदा । अथाजयत्प्रजाः सर्वा ययातिरपराजितः ॥ २४.५६ ॥ स शाश्वतीः समा राजा प्रजा धर्मेण पालयन् । जरामार्छन्महाघोरां नाहुषो रूपनाशिनीम् ॥ २४.५७ ॥ जराभिभूतः पुत्रान् स राजा वचनमब्रवीत् । यदुं पूरुं तुर्वसुं च द्रुह्युं चानुं च पार्थिवः ॥ २४.५८ ॥ यौवनेन चलान्कामान् युवा युवतिभिः सह । विहर्तुमहमिच्छामि साहाय्यं कुरुतात्मजाः ॥ २४.५९ ॥ तं पुत्रो देवयानेयः पूर्वजो यदुरब्रवीत् । साहाय्यं भवतः कार्यमस्माभिर्यौवनेन किम् ॥ २४.६० ॥ ययातिरब्रवीत्पुत्राञ्जरा मे प्रतिगृह्यताम् । यौवनेनाथ भवतां चरेयं विषयानहम् ॥ २४.६१ ॥ यजतो दीर्घसत्त्रैर्मे शापाच्चोशनसो मुनेः । कामार्थः परिहीनो मेऽतृप्तोऽहं तेन पुत्रकाः ॥ २४.६२ ॥ स्वकीयेन शरीरेण जरामेनां प्रशास्तु वः । अहं तन्वाभिनवया युवा कामानवाप्नुयाम् ॥ २४.६३ ॥ न तेऽस्य प्रत्यगृह्णन्त यदुप्रभृतयो जराम् । चतुरस्तान्स राजर्षिरशपच्चेति नः श्रुतम् ॥ २४.६४ ॥ तमब्रवीत्ततः पूरुः कनीयान्सत्यविक्रमः । जरां मा देहि नवया तन्वा मे यौवनात्सुखी ॥ २४.६५ ॥ अहं जरां तवादाय राज्ये स्थास्यामि चाज्ञया । एवमुक्तः स राजर्षिस्तपोवीर्यसमाश्रयात् ॥ २४.६६ ॥ संस्थापयामास जरां तदा पुत्रे महात्मनि । पौरवेणाथ वयसा राजा यौवनमास्थितः ॥ २४.६७ ॥ ययातेश्चाथ वयसा राज्यं पूरुरकारयत् । ततो वर्षसहस्रान्ते ययातिरपराजितः ॥ २४.६८ ॥ अतृप्त इव कामानां पूरुं पुत्रमुवाच ह । त्वया दायादवानस्मि त्वं मे वंशकरः सुतः ॥ २४.६९ ॥ पौरवो वंश इत्येष ख्यातिं लोके गमिष्यति । ततः स नृपशार्दूलः पूरुं राज्येऽभिषिच्य च ॥ २४.७० ॥ कालेन महता पश्चात्कालधर्ममुपेयिवान् । पूरुवंशं प्रवक्ष्यामि शृणुध्वमृषिसत्तमाः । यत्र ते भारता जाता भरतान्वयवर्धनाः ॥ २४.७१ ॥ ______________________________________________________ मत्स्यपुराण २५ *ऋषय ऊचुः किमर्थं पौरवो वंशः श्रेष्ठत्वं प्राप भूतले । ज्येष्ठस्यापि यदोर्वंशः किमर्थं हीयते श्रिया ॥ २५.१ ॥ अन्यद्ययातिचरितं सूत विस्तरतो वद । यस्मात्तत्पुण्यमायुष्यमभिनन्द्यं सुरैरपि ॥ २५.२ ॥ *सूत उवाच एतदेव पुरा पृष्टः शतानीकेन शौनकः । पुण्यं पवित्रमायुष्यं ययातिचरितं महत् ॥ २५.३ ॥ *शतानीक उवाच ययातिः पूर्वजोऽस्माकं दशमो यः प्रजापतेः । कथं स शुक्रतनयां लेभे परमदुर्लभाम् ॥ २५.४ ॥ एतदिच्छाम्यहं श्रोतुं विस्तरेण तपोधन । आनुपूर्व्याच्च मे शंस पूरोर्वंशधरान्नृपान् ॥ २५.५ ॥ *शौनक उवाच ययातिरासीद्राजर्षिर्देवराजसमद्युतिः । तं शुक्रवृषपर्वाणौ वव्राते वै यथा पुरा ॥ २५.६ ॥ तत्तेऽहं सम्प्रवक्ष्यामि पृच्छतो राजसत्तम । देवयान्याश्च संयोगं ययातेर्नाहुषस्य च ॥ २५.७ ॥ सुराणामसुराणां च समजायत वै मिथः । ऐश्वर्यं प्रति संघर्षस्त्रैलोक्ये सचराचरे ॥ २५.८ ॥ जिगीषया ततो देवा वव्रुराङ्गिरसं मुनिम् । पौरोहित्ये च यज्ञार्थे काव्यं तूशनसं परे ॥ २५.९ ॥ ब्राह्मणौ तावुभौ नित्यमन्योन्यं स्पर्धिनौ भृशम् । तत्र देवा निजघ्नुर्यान् दानवान् युधि संगतान् ॥ २५.१० ॥ तान्पुनर्जीवयामास काव्यो विद्याबलाश्रयात् । ततस्ते पुनरुत्थाय योधयांचक्रिरे सुरान् ॥ २५.११ ॥ असुरास्तु निजघ्नुर्यान् सुरान्समरमूर्धनि । न तान्संजीवयामास बृहस्पतिरुदारधीः ॥ २५.१२ ॥ न हि वेद स तां विद्यां यां काव्यो वेद वीर्यवान् । संजीवनीं ततो देवा विषादमगमन्परम् ॥ २५.१३ ॥ अथ देवा भयोद्विग्नाः काव्यादुशनसस्तदा । ऊचुः कचमुपागम्य ज्येष्ठं पुत्रं बृहस्पतेः ॥ २५.१४ ॥ भजमानान्भजस्वास्मान् कुरु साहाय्यमुत्तमम् । यासौ विद्या निवसति ब्राह्मणेऽमिततेजसि ॥ २५.१५ ॥ शुक्रे तामाहर क्षिप्रं भागभाङ्नो भविष्यसि । वृषपर्वणः समीपेऽसौ शक्यो द्रष्टुं त्वया द्विजः ॥ २५.१६ ॥ रक्षते दानवांस्तत्र न स रक्षत्यदानवान् । तमाराधयितुं शक्तो नान्यः कश्चिदृते त्वया ॥ २५.१७ ॥ देवयानी च दयिता सुता तस्य महात्मनः । तामाराधयितुं शक्तो नान्यः कश्चन विद्यते ॥ २५.१८ ॥ शीलदाक्षिण्यमाधुर्यैराचारेण दमेन च । देवयान्यां तु तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम् ॥ २५.१९ ॥ तदा हि प्रेषितो देवैः समीपे वृषपर्वणः । तथेत्युक्त्वा तु स प्रायाद्बृहस्पतिसुतः कचः ॥ २५.२० ॥ स गत्वा त्वरितो राजन् देवैः सम्पूजितः कचः । असुरेन्द्रपुरे शुक्रं प्रणम्येदमुवाच ह ॥ २५.२१ ॥ ऋषेरङ्गिरसः पौत्रं पुत्रं साक्षाद्बृहस्पतेः । नाम्ना कचेति विख्यातं शिष्यं गृह्णातु मां भवान् ॥ २५.२२ ॥ ब्रह्मचर्यं चरिष्यामि त्वय्यहं परमं गुरो । अनुमन्यस्व मां ब्रह्मन् सहस्रपरिवत्सरान् ॥ २५.२३ ॥ *शुक्र उवाच कच सुस्वागतं तेऽस्तु प्रतिगृह्णामि ते वचः । अर्चयिष्येऽहमर्च्यं त्वामर्चितोऽस्तु बृहस्पतिः ॥ २५.२४ ॥ *शौनक उवाच कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद्व्रतम् । आदिष्टं कविपुत्रेण शुक्रेणोशनसा स्वयम् ॥ २५.२५ ॥ व्रतं च व्रतकालं च यथोक्तं प्रत्यगृह्णत । आराधयन्नुपाध्यायं देवयानीं च भारत ॥ २५.२६ ॥ नित्यमाराधयिष्यंस्तां युवा यौवनगोचराम् । गायन्नृत्यन्वादयंश्च देवयानीमतोषयत् ॥ २५.२७ ॥ संशीलयन्देवयानीं कन्यां सम्प्राप्तयौवनाम् । पुष्पैः फलैः प्रेषणैश्च तोषयामास भार्गवीम् ॥ २५.२८ ॥ देवयान्यपि तं विप्रं नियमव्रतचारिणम् । अनुगायन्ती ललना रहः पर्यचरत्तदा ॥ २५.२९ ॥ पञ्च वर्षशतान्येवं कचस्य चरतो भृशम् । तत्तत्तीव्रं व्रतं बुद्ध्वा दानवास्तं ततः कचम् ॥ २५.३० ॥ गा रक्षन्तं वने दृष्ट्वा रहस्येनममर्षिताः । जघ्नुर्बृहस्पतेर्द्वेषान्निजरक्षार्थमेव च ॥ २५.३१ ॥ हत्वा सालावृकेभ्यश्च प्रायच्छंस्तिलशः कृतम् । ततो गावो निवृत्तास्ता अगोपाः स्वनिवेशनम् ॥ २५.३२ ॥ ता दृष्ट्वा रहिता गास्तु कचेनाभ्यागता वनात् । उवाच वचनं काले देवयान्यथ भार्गवम् ॥ २५.३३ ॥ हुतं चैवाग्निहोत्रं ते सूर्यश्चास्तं गतः प्रभो । अगोपाश्चागता गावः कचस्तात न दृश्यते ॥ २५.३४ ॥ व्यक्तं हतो धृतो वापि कचस्तात भविष्यति । तं विना नैव जीवामि वचः सत्यं ब्रवीम्यहम् ॥ २५.३५ ॥ *शुक्र उवाच अथेह्येहीति शब्देन मृतं संजीवयाम्यहम् । ततः संजीवनीं विद्यां प्रयुक्त्वा कचमाह्वयत् ॥ २५.३६ ॥ आहूतः प्रादुरभवत्कचः शुक्रं ननाम स । हतोऽहमिति चाचख्यौ राक्षसैर्धिषणात्मजः ॥ २५.३७ ॥ स पुनर्देवयान्युक्तः पुष्पाहारे यदृच्छया । वनं ययौ कचो विप्रः पठन्ब्रह्म च शाश्वतम् ॥ २५.३८ ॥ वने पुष्पाणि चिन्वन्तं ददृशुर्दानवाश्च तम् । ततोऽद्वितीयं तं हत्वा दग्धं कृत्वा च चूर्णवत् । प्रायच्छन् ब्राह्मणायैव सुरायामसुरास्तदा ॥ २५.३९ ॥ देवयान्यथ भूयोऽपि पितरं वाक्यमब्रवीत् । पुष्पाहारप्रेषणकृत्कचस्तात न दृश्यते ॥ २५.४० ॥ व्यक्तं हतो मृतो वापि कचस्तात भविष्यति । तं विना नैव जीवामि वचः सत्यं ब्रवीमि ते ॥ २५.४१ ॥ *शुक्र उवाच बृहस्पतेः सुतः पुत्रि कचः प्रेतगतिं गतः । विद्यया जीवितोऽप्येवं हन्यते करवाणि किम् ॥ २५.४२ ॥ मैनं शुचो मा रुद देवयानि न त्वादृशी मर्त्यमनु प्रशोचेत् । यस्यास्तव ब्रह्म च ब्राह्मणाश्च सेन्द्राश्च देवा वसवोऽश्विनौ च ॥ २५.४३ ॥ सुरद्विषश्चैव जगच्च सर्वमुपस्थितं मत्तपसः प्रभावात् । अशक्योऽयं जीवयितुं द्विजातिः संजीवितो यो वध्यते चैव भूयः ॥ २५.४४ ॥ *देवयान्युवाच यस्याङ्गिरा वृद्धतमः पितामहो बृहस्पतिश्चापि पिता तपोनिधिः । ऋषेः सुपुत्रं तमथापि पौत्रं कथं न शोचे यमहं न रुद्याम् ॥ २५.४५ ॥ स ब्रह्मचारी च तपोधनश्च सदोत्थितः कर्मसु चैव दक्षः । कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये प्रियो हि मे तात कचोऽभिरूपः ॥ २५.४६ ॥ *शौनक उवाच स त्वेवमुक्तो देवयान्या महर्षिः संरम्भेण व्याजहाराथ काव्यः । असंशयं मामसुरा द्विषन्ति ये मे शिष्यानागतान्सूदयन्ति ॥ २५.४७ ॥ अब्राह्मणं कर्तुमिच्छन्ति रौद्रा एभिर्व्यर्थं प्रस्तुतो दानवैर्हि । तत्कर्मणाप्यस्य भवेदिहान्तः कं ब्रह्महत्या न दहेदपीन्द्रम् ॥ २५.४८ ॥ स तेनापृष्टो विद्यया चोपहूतः शनैर्वाचं जठरे व्याजहार । तमब्रवीत्केन चेहोपनीतो ममोदरे तिष्ठसि ब्रूहि वत्स ॥ २५.४९ ॥ *कच उवाच भवत्प्रसादान्न जहाति मां स्मृतिः सर्वं स्मरेयं यच्च यथा च वृत्तम् । न त्वेवं स्यात्तपसः क्षयो मे तत क्लेशं घोरतरं स्मरामि ॥ २५.५० ॥ असुरैः सुरायां भवतोऽस्मि दत्तो हत्वा दग्ध्वा चूर्णयित्वा च काव्य । ब्राह्मीं मायां त्वासुरी त्वत्र माया त्वयि स्थिते कथमेवाभिबाधते ॥ २५.५१ ॥ *शुक्र उवाच किं ते प्रियं करवाण्यद्य वत्से विनैव मे जीवितं स्यात्कचस्य । नान्यत्र कुक्षेर्मम भेदनाच्च दृश्येत्कचो मद्गतो देवयानि ॥ २५.५२ ॥ *देवयान्युवाच द्वौ मां शोकावग्निकल्पौ दहेतां कचस्य नाशस्तव चैवोपघातः । कचस्य नाशे मम नास्ति शर्म तवोपघाते जीवितुं नास्मि शक्ता ॥ २५.५३ ॥ *शुक्र उवाच संसिद्धरूपोऽसि बृहस्पतेः सुत यत्त्वां भक्तं भजते देवयानी । विद्यामिमां प्राप्नुहि जीवनीं त्वं न चेदिन्द्रः कचरूपी त्वमद्य ॥ २५.५४ ॥ न निवर्तेत्पुनर्जीवन् कश्चिदन्यो ममोदरात् । ब्राह्मणं वर्जयित्वैकं तस्माद्विद्यामवाप्नुहि ॥ २५.५५ ॥ पुत्रो भूत्वा निष्क्रमस्वोदरान्मे भित्त्वा कुक्षिं जीवय मां च तात । अवेक्षेथा धर्मवतीमवेक्षां गुरोः सकाशात्प्राप्य विद्यां सविद्यः ॥ २५.५६ ॥ *शौनक उवाच गुरोः सकाशात्समवाप्य विद्यां भित्त्वा कुक्षिं निर्विचक्राम विप्रः । प्रालेयाद्रेः शुक्लमुद्भिद्य शृङ्गं रात्र्यागमे पौर्णमास्यामिवेन्दुः ॥ २५.५७ ॥ दृष्ट्वा च तं पतितं वेदराशिमुत्थापयामास ततः कचोऽपि । विद्यां सिद्धां तामवाप्याभिवाद्य ततः कचस्तं गुरुमित्युवाच ॥ २५.५८ ॥ निधिं निधीनां वरदं वराणां ये नाद्रियन्ते गुरुमर्चनीयम् । प्रालेयाद्रिप्रोज्ज्वलद्भालसंस्थं पापांल्लोकांस्ते व्रजन्त्यप्रतिष्ठाः ॥ २५.५९ ॥ *शौनक उवाच सुरापानाद्वञ्चनात्प्रापयित्वा संज्ञानाशं चेतसश्चापि घोरम् । दृष्ट्वा कचं चापि तथाभिरूपं पीतं तथा सुरया मोहितेन ॥ २५.६० ॥ समन्युरुत्थाय महानुभावस्तदोशना विप्रहितं चिकीर्षुः । काव्यः स्वयं वाक्यमिदं जगाद सुरापानं प्रत्यसौ जातशङ्कः ॥ २५.६१ ॥ *शुक्र उवाच यो ब्राह्मणोऽद्यप्रभृतीह कश्चिन्मोहात्सुरां पास्यति मन्दबुद्धिः । अपेतधर्मा ब्रह्महा चैव स स्यादस्मिंल्लोके गर्हितः स्यात्परे च ॥ २५.६२ ॥ मया चेमां विप्रधर्मोक्तसीमां मर्यादां वै स्थापितां सर्वलोके । सन्तो विप्राः शुश्रुवांसो गुरूणां देवा दैत्याश्चोपशृण्वन्तु सर्वे ॥ २५.६३ ॥ *शौनक उवाच इतीदमुक्त्वा स महाप्रभावस्तपोनिधीनां निधिरप्रमेयः । तान्दानवांश्चैव निगूढबुद्धीनिदं समाहूय वचोऽभ्युवाच ॥ २५.६४ ॥ *शुक्र उवाच आचक्षे वो दानवा बालिशाः स्थ शिष्यः कचो वत्स्यति मत्समीपे । संजीवनीं प्राप्य विद्यां मयायं तुल्यप्रभावो ब्राह्मणो ब्रह्मभूतः ॥ २५.६५ ॥ *शौनक उवाच गुरोरुष्य सकाशे च दश वर्षशतानि सः । अनुज्ञातः कचो गन्तुमियेष त्रिदशालयम् ॥ २५.६६ ॥ ______________________________________________________ मत्स्यपुराण २६ *शौनक उवाच समापितव्रतं तं तु विसृष्टं गुरुणा तदा । प्रस्थितं त्रिदशावासं देवयानीदमब्रवीत् ॥ २६.१ ॥ *देवयान्युवाच ऋषेरङ्गिरसः पौत्र वृत्तेनाभिजनेन च । भ्राजसे विद्यया चैव तपसा च दमेन च ॥ २६.२ ॥ ऋषिर्यथाङ्गिरा मान्यः पितुर्मम महायशाः । तथा मान्यश्च पूज्यश्च मम भूयो बृहस्पतिः ॥ २६.३ ॥ एवं ज्ञात्वा विजानीहि यद्ब्रवीमि तपोधन । व्रतस्थे नियमोपेते यथा वर्ताम्यहं त्वयि ॥ २६.४ ॥ स समापितविद्यो मां भक्तां न त्यक्तुमर्हसि । गृहाण पाणिं विधिवन्मम मन्त्रपुरस्कृतम् ॥ २६.५ ॥ *कच उवाच पूज्यो मान्यश्च भगवान् यथा मम पिता तव । तथा त्वमनवद्याङ्गि पूजनीयतमा मता ॥ २६.६ ॥ आत्मप्राणैः प्रियतमा भार्गवस्य महात्मनः । त्वं भद्रे धर्मतः पूज्या गुरुपुत्री सदा मम ॥ २६.७ ॥ यथा मम गुरुर्नित्यं मान्यः शुक्रः पिता तव । देवयानि तथैव त्वं नैवं मां वक्तुमर्हसि ॥ २६.८ ॥ *देवयान्युवाच गुरुपुत्रस्य पुत्रो मे न तु त्वमसि मे पितुः । तस्मान्मान्यश्च पूज्यश्च ममापि त्वं द्विजोत्तम ॥ २६.९ ॥ असुरैर्हन्यमाने तु कचे त्वयि पुनः पुनः । तदाप्रभृति या प्रीतिस्तां त्वमेव स्मरस्व मे ॥ २६.१० ॥ सौहार्दे चानुरागे च वेत्थ मे भक्तिमुत्तमाम् । न मामर्हसि धर्मज्ञ त्यक्तुं भक्तामनागसम् ॥ २६.११ ॥ *कच उवाच अनियोज्ये नियोगे मां नियुनक्षि शुभव्रते । प्रसीद सुभ्रूर्मह्यं त्वं गुरोर्गुरुतरा शुभे ॥ २६.१२ ॥ यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने । तत्राहमुषितो भद्रे कुक्षौ काव्यस्य भामिनि ॥ २६.१३ ॥ भगिनी धर्मतो मे त्वं मैवं वोचः शुभानने । सुखेनाध्युषितो भद्रे न मन्युर्विद्यते मम ॥ २६.१४ ॥ आपृच्छे त्वां गमिष्यामि शिवमस्त्वथ मे पथि । अविरोधेन धर्मस्य स्मर्तव्योऽस्मि कथान्तरे । अप्रमत्तोद्यता नित्यमाराधय गुरुं मम ॥ २६.१५ ॥ *देवयान्युवाच दैत्यैर्हतस्त्वं यद्भर्तृबुद्ध्या त्वं रक्षितो मया । यदि मां धर्मकामार्थं प्रत्याख्यास्यसि धर्मतः ॥ २६.१६ ॥ ततः कच न ते विद्या सिद्धिमेषा गमिष्यति ॥ २६.१७ ॥ *कच उवाच गुरुपुत्रीति कृत्वाहं प्रत्याख्यास्ये न दोषतः । गुरुणा चाभ्यनुज्ञातः काममेव शपस्व माम् ॥ २६.१८ ॥ आर्षं धर्मं ब्रुवाणोऽहं देवयानि यथा त्वया । शप्तुं नार्होऽस्मि कल्याणि कामतोऽद्य च धर्मतः ॥ २६.१९ ॥ तस्माद्भवत्या यः कामो न तथा सम्भविष्यति । ऋषिपुत्रो न ते कश्चिज्जातु पाणिं ग्रहीष्यति ॥ २६.२० ॥ फलिष्यति न मे विद्या त्वद्वचश्चेति तत्तया । अध्यापयिष्यामि च यं तस्य विद्या फलिष्यति ॥ २६.२१ ॥ *शौनक उवाच एवमुक्त्वा नृपश्रेष्ठ देवयानीं कचस्तदा । त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः ॥ २६.२२ ॥ तमागतमभिप्रेक्ष्य देवाः सेन्द्रपुरोगमाः । बृहस्पतिं सभाज्येदं कचमाहुर्मुदान्विताः ॥ २६.२३ ॥ *देवा ऊचुः त्वं कचास्मद्धितं कर्म कृतवान्महदद्भुतम् । न ते यशः प्रणशिता भागभाक्च भविष्यसि ॥ २६.२४ ॥ ______________________________________________________ मत्स्यपुराण २७ *शौनक उवाच कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः । कचादवेत्य तां विद्यां कृतार्था भरतर्षभ ॥ २७.१ ॥ सर्व एव समागम्य शतक्रतुमथाब्रुवन् । कालस्त्वद्विक्रमस्याद्य जहि शत्रून्पुरंदर ॥ २७.२ ॥ एवमुक्तस्तु सह तैस्त्रिदशैर्मघवांस्तदा । तथेत्युक्त्वोपचक्राम सोऽपश्यद्विपिने स्त्रियः ॥ २७.३ ॥ क्रीडन्तीनां तु कन्यानां वने चैत्ररथोपमे । वायुर्भूतः स वस्त्राणि सर्वाण्येव व्यमिश्रयत् ॥ २७.४ ॥ ततो जलात्समुत्तीर्य ताः कन्याः सहितास्तदा । वस्त्राणि जगृहुस्तानि यथासंस्थान्यनेकशः ॥ २७.५ ॥ तत्र वासो देवयान्याः शर्मिष्ठा जगृहे तदा । व्यतिक्रममजानन्ती दुहिता वृषपर्वणः ॥ २७.६ ॥ ततस्तयोर्मिथस्तत्र विरोधः समजायत । देवयान्याश्च राजेन्द्र शर्मिष्ठायाश्च तत्कृते ॥ २७.७ ॥ *देवयान्युवाच कस्माद्गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि । समुदाचारहीनाया न ते श्रेयो भविष्यति ॥ २७.८ ॥ *शर्मिष्ठोवाच आसीनं च शयानं च पिता ते पितरं मम । स्तौति पृच्छति चाभीक्ष्णं नीचस्थः सुविनीतवत् ॥ २७.९ ॥ याचतस्त्वं च दुहिता स्तुवतः प्रतिगृह्णतः । सुताहं स्तूयमानस्य ददतो न तु गृह्णतः ॥ २७.१० ॥ अनायुधा सायुधायाः किं त्वं कुप्यसि भिक्षुकि । लप्स्यसे प्रतियोद्धारं न च त्वां गणयाम्यहम् ॥ २७.११ ॥ *शौनक उवाच सा विस्मयं देवयानीं गतां सक्तां च वाससि । शर्मिष्ठा प्राक्षिपत्कूपे ततः स्वपुरमाविशत् ॥ २७.१२ ॥ हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्चया । अनवेक्ष्य ययौ तस्मात्क्रोधवेगपरायणा ॥ २७.१३ ॥ अथ तं देशमभ्यागाद्ययातिर्नहुषात्मजः । श्रान्तयुग्यः श्रान्तरूपो मृगलिप्सुः पिपासितः ॥ २७.१४ ॥ नाहुषिः प्रेक्षमाणो हि स निपाने गतोदके । ददर्श कन्यां तां तत्र दीप्तामग्निशिखामिव ॥ २७.१५ ॥ तामपृच्छत्स दृष्ट्वैव कन्याममरवर्णिनीम् । सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना ॥ २७.१६ ॥ का त्वं चारुमुखी श्यामा सुमृष्टमणिकुण्डला । दीर्घं ध्यायसि चात्यर्थं कस्माच्छ्वसिषि चातुरा ॥ २७.१७ ॥ कथं च पतिता ह्यस्मिन् कूपे वीरुत्तृणावृते । दुहिता चैव कस्य त्वं वद सर्वं सुमध्यमे ॥ २७.१८ ॥ *देवयान्युवाच योऽसौ देवैर्हतान् दैत्यानुत्थापयति विद्यया । तस्य शुक्रस्य कन्याहं त्वं मां नूनं न बुध्यसे ॥ २७.१९ ॥ एष मे दक्षिणो राजन् पाणिस्ताम्रनखाङ्गुलिः । समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः ॥ २७.२० ॥ जानामि त्वां च संशान्तं वीर्यवन्तं यशस्विनम् । तस्मान्मां पतितां कूपादस्मादुद्धर्तुमर्हसि ॥ २७.२१ ॥ *शौनक उवाच तामथ ब्राह्मणीं स्त्रीं च विज्ञाय नहुषात्मजः । गृहीत्वा दक्षिणे पाणावुज्जहार ततोऽवटात् ॥ २७.२२ ॥ उद्धृत्य चैनां तरसा तस्मात्कूपान्नराधिपः । आमन्त्रयित्वा सुश्रोणीं ययातिः स्वपुरं ययौ ॥ २७.२३ ॥ गते तु नाहुषे तस्मिन् देवयान्यपि निन्दिता । उवाच शोकसंतप्ता घूर्णिकामागतां पुनः ॥ २७.२४ ॥ *देवयान्युवाच त्वरितं घूर्णिके गच्छ सर्वमाचक्ष्व मे पितुः । नेदानीं तु प्रवेक्ष्यामि नगरं वृषपर्वणः ॥ २७.२५ ॥ *शौनक उवाच सा तु वै त्वरितं गत्वा घूर्णिकासुरमन्दिरम् । दृष्ट्वा काव्यमुवाचेदं कम्पमाना विचेतना ॥ २७.२६ ॥ आचख्यौ च महाभागा देवयानी वने हता । शर्मिष्ठया महाप्राज्ञ दुहित्रा वृषपर्वणः ॥ २७.२७ ॥ श्रुत्वा दुहितरं काव्यस्तदा शर्मिष्ठया हताम् । त्वरया निर्ययौ दुःखान्मार्गमाणः सुतां वने ॥ २७.२८ ॥ दृष्ट्वा दुहितरं काव्यो देवयानीं तपोवने । बाहुभ्यां सम्परिष्वज्य दुःखितो वाक्यमब्रवीत् ॥ २७.२९ ॥ आत्मदोषैर्नियच्छन्ति सर्वे दुःखसुखे जनाः । मन्ये दुश्चरितं तेऽस्ति तस्येयं निष्कृतिः कृता ॥ २७.३० ॥ *देवयान्युवाच निष्कृतिर्वास्तु वा मास्तु शृणुष्वावहितो मम । शर्मिष्ठया यदुक्तास्मि दुहित्रा वृषपर्वणः ॥ २७.३१ ॥ सत्यं किलैतत्सा प्राह दैत्यानामस्मि गायना । एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी ॥ २७.३२ ॥ वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम् । स्तुवतो दुहितासि त्वं याचतः प्रतिगृह्णतः ॥ २७.३३ ॥ सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः । इति मामाह शर्मिष्ठा दुहिता वृषपर्वणः । क्रोधसंरक्तनयना दर्पपूर्णानना ततः ॥ २७.३४ ॥ यद्यहं स्तुवतस्तात दुहिता प्रतिगृह्णतः । प्रसादयिष्ये शर्मिष्ठामित्युक्ता हि सखी मया ॥ २७.३५ ॥ *शुक्र उवाच स्तुवतो दुहिता न त्वं भद्रे न प्रतिगृह्णतः । अतस्त्वं स्तूयमानस्य दुहिता देवयान्यसि ॥ २७.३५ ॥ वृषपर्वैव तद्वेद शक्रो राजा च नाहुषः । अचिन्त्यं ब्रह्म निर्द्वंद्वमैश्वरं हि बलं मम ॥ २७.३७ ॥ ______________________________________________________ मत्स्यपुराण २८ *शुक्र उवाच यः परेषां नरो नित्यमतिवादांस्तितिक्षति । देवयानि विजानीहि तेन सर्वमिदं जितम् ॥ २८.१ ॥ यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा । स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते ॥ २८.२ ॥ यः समुत्पतितं क्रोधमक्रोधने नियच्छति । देवयानि विजानीहि तेन सर्वमिदं जितम् ॥ २८.३ ॥ यः समुत्पतितं कोपं क्षमयैव निरस्यति । यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ॥ २८.४ ॥ यस्तु भावयते धर्मं योऽतिमात्रं तितिक्षति । यश्च तप्तो न तपति भृशं सोऽर्थस्य भाजनम् ॥ २८.५ ॥ यो यजेदश्वमेधेन मासि मासि शतं समाः । यस्तु कुप्येन्न सर्वस्य तयोरक्रोधनो वरः ॥ २८.६ ॥ ये कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः । नैतत्प्राज्ञस्तु कुर्वीत विदुस्ते न बलाबलम् ॥ २८.७ ॥ *देवयान्युवाच वेदाहं तात बालापि कार्याणां तु गतागतम् । क्रोधे चैवातिवादे वा कार्यस्यापि बलाबले ॥ २८.८ ॥ शिष्यस्याशिष्यवृत्तं हि न क्षन्तव्यं बुभूषुणा । असत्संकीर्णवृत्तेषु वासो मम न रोचते ॥ २८.९ ॥ पुंसो ये नाभिनन्दन्ति वृत्तेनाभिजनेन च । न तेषु निवसेत्प्राज्ञः श्रेयोर्थी पापबुद्धिषु ॥ २८.१० ॥ ये नैनमभिजानन्ति वृत्तेनाभिजनेन च । तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते ॥ २८.११ ॥ तन्मे मथ्नाति हृदयमग्निकल्पमिवारणम् । वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः ॥ २८.१२ ॥ न ह्यतो दुष्करं मन्ये तात लोकेष्वपि त्रिषु । यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते ॥ २८.१३ ॥ ______________________________________________________ मत्स्यपुराण २९ *शौनक उवाच ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह । वृषपर्वाणमासीनमित्युवाचाविचारयन् ॥ २९.१ ॥ नाधर्मश्चरितो राजन् सद्यः फलति गौरिव । शनैरावर्त्यमानस्तु मूलान्यपि निकृन्तति ॥ २९.२ ॥ यदि नात्मनि पुत्रेषु न चेत्पश्यति नप्तृषु । पापमाचरितं कर्म त्रिवर्गमतिवर्तते ॥ २९.३ ॥ फलत्येवं ध्रुवं पापं गुरुभुक्तमिवोदरे । यदा घातयसे विप्रं कचमाङ्गिरसं तदा ॥ २९.४ ॥ अपापशीलं धर्मज्ञं शुश्रूषुं मद्गृहे रतम् । वधादनर्हतस्तस्य वधाच्च दुहितुर्मम ॥ २९.५ ॥ वृषपर्वन्निबोध त्वं त्यक्ष्यामि त्वां सबान्धवम् । स्थातुं त्वद्विषये राजन्न शक्नोमि त्वया सह ॥ २९.६ ॥ अद्यैवमभिजानामि दैत्यं मिथ्याप्रलापिनम् । यतस्त्वमात्मनोदीर्णां दुहितां किमुपेक्षसे ॥ २९.७ ॥ *वृषपर्वोवाच नावद्यं न मृषावादं त्वयि जानामि भार्गव । त्वयि सत्यं च धर्मश्च तत्प्रसीदतु मां भवान् ॥ २९.८ ॥ अद्यास्मानपहाय त्वमितो यास्यसि भार्गव । समुद्रं सम्प्रवेक्ष्यामि नान्यदस्ति परायणम् ॥ २९.९ ॥ *शुक्र उवाच समुद्रं प्रविशध्वं वो दिशो वा व्रजतासुराः । दुहितुर्नाप्रियं सोढुं शक्तोऽहं दयिता हि मे ॥ २९.१० ॥ प्रसाद्यतां देवयानी जीवितं यत्र मे स्थितम् । योगक्षेमकरस्तेऽहमिन्द्रस्येव बृहस्पतिः ॥ २९.११ ॥ *वृषपर्वोवाच यत्किंचिदसुरेन्द्राणां विद्यते वसु भार्गव । भुवि हस्तिरथाश्वं वा तस्य त्वं मम चेश्वरः ॥ २९.१२ ॥ *शुक्र उवाच यत्किंचिदस्ति द्रविणं दैत्येन्द्राणां महासुर । तस्येश्वरोऽस्मि यद्येतद्देवयानी प्रसाद्यताम् ॥ २९.१३ ॥ *शौनक उवाच ततस्तु त्वरितः शुक्रस्तेन राज्ञा समं ययौ । उवाच चैनां सुभगे प्रतिपन्नं वचस्तव ॥ २९.१४ ॥ *देवयान्युवाच यदि त्वमीश्वरस्तात राज्ञो वित्तस्य भार्गव । नाभिजानामि तत्तेऽहं राजा वदतु मां स्वयम् ॥ २९.१५ ॥ *वृषपर्वोवाच यं काममभिजानासि देवयानि शुचिस्मिते । तत्तेऽहं सम्प्रदास्यामि यद्यपि स्यात्सुदुर्लभम् ॥ २९.१६ ॥ *देवयान्युवाच दासीं कन्यासहस्रेण शर्मिष्ठामभिकामये । अनुयास्यति मां तत्र यत्र दास्यति मे पिता ॥ २९.१७ ॥ *वृषपर्वोवाच उत्तिष्ठ धात्रि गच्छ त्वं शर्मिष्ठां शीघ्रमानय । यं च कामयते कामं देवयानी करोतु तम् ॥ २९.१८ ॥ *शौनक उवाच ततो धात्री तत्र गत्वा शर्मिष्ठामिदमब्रवीत् । उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखमावह ॥ २९.१९ ॥ त्यजति ब्राह्मणः शिष्यान् देवयान्या प्रचोदितः । यं सा कामयते कामं स कार्योऽत्र त्वयानघे । दासीत्वमभिजातासि देवयान्याः सुशोभने ॥ २९.२० ॥ *शर्मिष्ठोवाच यं च कामयते कामं करवाण्यहमद्य तम् । मा गान्मन्युवशं शुक्रो देवयानी च मत्कृते ॥ २९.२१ ॥ *शौनक उवाच ततः कन्यासहस्रेण वृता शिबिकया तदा । पितुर्निदेशात्त्वरिता निश्चक्राम पुरोत्तमात् ॥ २९.२२ ॥ *शर्मिष्ठोवाच अहं कन्यासहस्रेण दाशी ते परिचारिका । ध्रुवं त्वां तत्र यास्यामि यत्र दास्यति ते पिता ॥ २९.२३ ॥ *देवयान्युवाच स्तुवतो दुहिता चाहं याचतः प्रतिगृह्णतः । स्तूयमानस्य दुहिता कथं दासी भविष्यसि ॥ २९.२४ ॥ *शर्मिष्ठोवाच येन केनचिदार्तानां ज्ञातीनां सुखमावहेत् । अनुयास्याम्यहं तत्र यत्र दास्यति ते पिता ॥ २९.२५ ॥ *शौनक उवाच प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः । देवयानी नृपश्रेष्ठ पितरं वाक्यमब्रवीत् ॥ २९.२६ ॥ *देवयान्युवाच प्रविशामि पुरं तात तुष्टास्मि द्विजसत्तम । अमोघं तव विज्ञानमस्ति विद्याबलं च ते ॥ २९.२७ ॥ *शौनक उवाच एवमुक्तो द्विजश्रेष्ठो दुहित्रा सुमहायशाः । प्रविवेश पुरं हृष्टः पूजितः सर्वदानवैः ॥ २९.२८ ॥ ______________________________________________________ मत्स्यपुराण ३० *शौनक उवाच अथ दीर्घेण कालेन देवयानी नृपोत्तम । वनं तदैव निर्याता क्रीडार्थं वरवर्णिनी ॥ ३०.१ ॥ तेन दासीसहस्रेण सार्धं शर्मिष्ठया तदा । तमेव देशं सम्प्राप्ता यथाकामं चचार सा ॥ ३०.२ ॥ ताभिः सखीभिः सहिता सर्वाभिर्मुदिता भृशम् । क्रीडन्त्योऽभिरताः सर्वाः पिबन्त्यो मधु माधवम् ॥ ३०.३ ॥ खादन्त्यो विविधान्भक्ष्यान् फलानि विविधानि च । पुनश्च नाहुषो राजा मृगलिप्सुर्यदृच्छया ॥ ३०.४ ॥ तमेव देशं सम्प्राप्तो जललिप्सुः प्रतर्षितः । ददर्श देवयानीं च शर्मिष्ठां ताश्च योषितः ॥ ३०.५ ॥ पिबन्त्यो ललनास्ताश्च दिव्याभरणभूषिताः । उपविष्टां च ददृशे देवयानीं शुचिस्मिताम् ॥ ३०.६ ॥ रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनाम् । शर्मिष्ठया सेव्यमानां पादसंवाहनादिभिः ॥ ३०.७ ॥ *ययातिरुवाच द्वाभ्यां कन्यासहस्राभ्यां द्वे कन्ये परिवारिते । गोत्रे च नामनी चैव द्वयोः पृच्छाम्यतो ह्यहम् ॥ ३०.८ ॥ *देवयान्युवाच आख्यास्याम्यहमादत्स्व वचनं मे नराधिप । शुको नामासुरगुरुः सुतां जानीहि तस्य माम् ॥ ३०.९ ॥ इयं च मे सखी दासी यत्राहं तत्र गामिनी । दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः ॥ ३०.१० ॥ *ययातिरुवाच कथं तु ते सखी दासी कन्येयं वरवर्णिनी । असुरेन्द्रसुता सुभूः परं कौतूहलं हि मे ॥ ३०.११ ॥ *देवयान्युवाच सर्वमेव नरव्याघ्र विधानमनुवर्तते । विधिना विहितं ज्ञात्वा मा विचित्रं मनः कृथाः ॥ ३०.१२ ॥ राजवद्रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च । किंनामा त्वं कुतश्चासि कस्य पुत्रश्च शंस मे ॥ ३०.१३ ॥ *ययातिरुवाच ब्रह्मचर्येण वेदो मे कृत्स्नः श्रुतिपथं गतः । राजाहं राजपुत्रश्च ययातिरिति विश्रुतः ॥ ३०.१४ ॥ *देवयान्युवाच केन चार्थेन नृपते ह्येनं देशं समागतः । जिघृक्षुर्वारि यत्किंचिदथवा मृगलिप्सया ॥ ३०.१५ ॥ *ययातिरुवाच मृगलिप्सुरहं भद्रे पानीयार्थमिहागतः । बहुधाप्यनुयुक्तोऽस्मि त्वमनुज्ञातुमर्हसि ॥ ३०.१६ ॥ *देवयान्युवाच द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सह । त्वदधीनास्मि भद्रं ते सखे भर्ता च मे भव ॥ ३०.१७ ॥ *ययातिरुवाच विद्ध्यौशनसि भद्रं ते न त्वदर्होऽस्मि भामिनि । अविवाह्याः स्म राजानो देवयानि पितुस्तव ॥ ३०.१८ ॥ *देवयान्युवाच संसृष्टं ब्रह्मणा क्षत्रं क्षत्रं ब्रह्मणि संश्रितम् । ऋषिश्च ऋषिपुत्रश्च नाहुषाद्य भजस्व माम् ॥ ३०.१९ ॥ *ययातिरुवाच एकदेहोद्भवा वर्णाश्चत्वारोऽपि वरानने । पृथग्धर्माः पृथक्छौचास्तेषां वै ब्राह्मणो वरः ॥ ३०.२० ॥ *देवयान्युवाच पाणिग्रहो नाहुषायं न पुंभिः सेवितः पुरा । त्वं पाणिमग्रहीदग्रे वृणोमि त्वामहं ततः ॥ ३०.२१ ॥ कथं तु मे मनस्विन्याः पाणिमन्यः पुमान्स्पृशेत् । गृहीतमृषिपुत्रेण स्वयं वाप्यृषिणा त्वया ॥ ३०.२२ ॥ *ययातिरुवाच क्रुद्धादाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात् । दुराधर्षतरो विप्रः पुरुषेण विजानता ॥ ३०.२३ ॥ *देवयान्युवाच कथमाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात् । दुराधर्षतरो विप्र इत्यात्थ पुरुषर्षभ ॥ ३०.२४ ॥ *ययातिरुवाच दशेदाशीविषस्त्वेकं शस्त्रेणैकश्च वध्यते । हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः ॥ ३०.२५ ॥ दुराधर्षतरो विप्रस्तस्माद्भीरु मतो मम । अतोऽदत्तां च पित्रा त्वां भद्रे न विवहाम्यहम् ॥ ३०.२६ ॥ *देवयान्युवाच दत्तां वहस्व पित्रा मां त्वं हि राजन्वृतो मया । अयाचतो भयं नास्ति दत्तां च प्रतिगृह्णतः ॥ ३०.२७ ॥ *शौनक उवाच त्वरितं देवयान्याथ प्रेषिता पितुरात्मनः । सर्वं निवेदयामास धात्री तस्मै यथातथम् ॥ ३०.२८ ॥ श्रुत्वैव च स राजानं दर्शयामास भार्गवः । दृष्ट्वैवमागतं विप्रं ययातिः पृथिवीपतिः ॥ ३०.२९ ॥ ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः । तं चाप्यभ्यवदत्काव्यः साम्ना परमवल्गुना ॥ ३०.३० ॥ *देवयान्युवाच राजायं नाहुषस्तात दुर्गमे पाणिमग्रहीत् । नमस्ते देहि मामस्मै लोके नान्यं पतिं वृणे ॥ ३०.३१ ॥ *शुक्र उवाच वृतोऽनया पतिर्वीर सुतया त्वं ममेष्टया । गृहाणेमां मया दत्तां महिषीं नहुषात्मज ॥ ३०.३२ ॥ *ययातिरुवाच अधर्मो मां स्पृशेदेवं पापमस्याश्च भार्गव । वर्णसंकरतो ब्रह्मन्निति त्वां प्रवृणोम्यहम् ॥ ३०.३३ ॥ *शुक्र उवाच अधर्मात्त्वां विमुञ्चामि वरं वरय चेप्सितम् । अस्मिन्विवाहे त्वं श्लाघ्यो रहः पापं नुदामि ते ॥ ३०.३४ ॥ वहस्व भार्यां धर्मेण देवयानीं शुचिस्मिताम् । अनया सह सम्प्रीतिमतुलां समवाप्नुहि ॥ ३०.३५ ॥ इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी । संपूज्या सततं राजन्न चैनां शयने ह्वय ॥ ३०.३६ ॥ *शौनक उवाच एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम् । जगाम स्वपुरं हृष्टः सोऽनुज्ञातो महात्मना ॥ ३०.३७ ॥ ______________________________________________________ मत्स्यपुराण ३१ *शौनक उवाच ययातिः स्वपुरं प्राप्य महेन्द्रपुरसंनिभम् । प्रविश्यान्तःपुरं तत्र देवयानीं न्यवेशयत् ॥ ३१.१ ॥ देवयान्याश्चानुमते सुतां तां वृषपर्वणः । अशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशयत् ॥ ३१.२ ॥ वृतां दासीसहस्रेण शर्मिष्ठामासुरायणीम् । वासोभिरन्नपानैश्च संविभज्य सुसंवृताम् ॥ ३१.३ ॥ देवयान्या तु सहितः स नृपो नहुषात्मजः । विजहार बहूनब्दान् देववन्मुदितो भृशम् ॥ ३१.४ ॥ ऋतुकाले तु सम्प्राप्ते देवयानी वराङ्गना । लेभे गर्भं प्रथमतः कुमारश्च व्यजायत ॥ ३१.५ ॥ गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी । ददर्श यौवनं प्राप्ता ऋतुं सा कमलेक्षणा ॥ ३१.६ ॥ चिन्तयामास धर्मज्ञा ऋतुप्राप्तौ च भामिनी । ऋतुकालश्च सम्प्राप्तो न कश्चिन्मे पतिर्वृतः ॥ ३१.७ ॥ किं प्राप्तं किंच कर्तव्यं कथं कृत्वा सुखं भवेत् । देवयानी प्रसूतासौ वृथाहं प्राप्तयौवना ॥ ३१.८ ॥ यथा तया वृतो भर्ता तथैवाहं वृणोमि तम् । राज्ञा पुत्रफलं देयमिति मे निश्चिता मतिः । अपीदानीं स धर्मात्मा रहो मे दर्शनं व्रजेत् ॥ ३१.९ ॥ *शौनक उवाच अथ निष्क्रम्य राजासौ तस्मिन्काले यदृच्छया । अशोकवनिकाभ्याशे शर्मिष्ठां प्राप्य विस्मितः ॥ ३१.१० ॥ तमेकं रहसि दृष्ट्वा शर्मिष्ठा चारुहासिनी । प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यमब्रवीत् ॥ ३१.११ ॥ *शर्मिष्ठोवाच सोमश्चेन्द्रश्च वायुश्च यमश्च वरुणश्च वा । तव वा नाहुष गृहे कः स्त्रियं द्रष्टुमर्हति ॥ ३१.१२ ॥ रूपाभिजनशीलैर्हि त्वं राजन्वेत्थ मां सदा । सा त्वां याचे प्रसाद्येह रन्तुमेहि नराधिप ॥ ३१.१३ ॥ *ययातिरुवाच वेद्मि त्वां शीलसम्पन्नां दैत्यकन्यामनिन्दिताम् । रूपं तु ते न पश्यामि सूच्यग्रमपि निन्दितम् ॥ ३१.१४ ॥ मामब्रवीत्तदा शुक्रो देवयानीं यदावहम् । नेयमाह्वयितव्या ते शयने वार्षपर्वणी ॥ ३१.१५ ॥ *शर्मिष्ठोवाच न नर्मयुक्तं वचनं हिनस्ति न स्त्रीषु राजन्न विवाहकाले । प्राणात्यये सर्वधनापहारे पञ्चानृतान्याहुरपातकानि ॥ ३१.१६ ॥ पृष्टास्तु साक्ष्ये प्रवदन्ति चान्यथा भवन्ति मिथ्यावचना नरेन्द्र ते । एकार्थतायां तु समाहितायां मिथ्या वदन्तं ह्यनृतं हिनस्ति ॥ ३१.१७ ॥ *ययातिरुवाच राजा प्रमाणं भूतानां स विनश्येन्मृषा वदन् । अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे ॥ ३१.१८ ॥ *शर्मिष्ठोवाच समावेतौ मतौ राजन् पतिः सख्याश्च यः पतिः । समं विवाह इत्याहुः सख्या मेऽसि पतिर्यतः ॥ ३१.१९ ॥ *ययातिरुवाच दातव्यं याचमानस्य हीति मे व्रतमाहितम् । त्वं च याचसि कामं मां ब्रूहि किं करवाणि तत् ॥ ३१.२० ॥ *शर्मिष्ठोवाच अधर्मात्त्राहि मां राजन् धर्मं च प्रतिपादय । त्वत्तोऽपत्यवती लोके चरेयं धर्ममुत्तमम् ॥ ३१.२१ ॥ त्रय एवाधना राजन् भार्या दासस्तथा सुतः । यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥ ३१.२२ ॥ देवयान्या भुजिष्यास्मि वश्या च तव भार्गवी । सा चाहं च त्वया राजन् भरणीयां भजस्व माम् ॥ ३१.२३ ॥ *शौनक उवाच एवमुक्तस्तया राजा तथ्यमित्यभिजज्ञिवान् । पूजयामास शर्मिष्ठां धर्मं च प्रतिपादयन् ॥ ३१.२४ ॥ स समागम्य शर्मिष्ठां यथाकाममवाप्य च । अन्योन्यं चाभिसंपूज्य जग्मतुस्तौ यथागतम् ॥ ३१.२५ ॥ तस्मिन्समागमे सुभ्रूः शर्मिष्ठा वार्षपर्वणी । लेभे गर्भं प्रथमतस्तस्मान्नृपतिसत्तमात् ॥ ३१.२६ ॥ प्रजज्ञे च ततः काले राज्ञी राजीवलोचना । कुमारं देवगर्भाभमादित्यसमतेजसम् ॥ ३१.२७ ॥ ______________________________________________________ मत्स्यपुराण ३२ *शौनक उवाच श्रुत्वा कुमारं जातं सा देवयानी शुचिस्मिता । चिन्तयाविष्टदुःखार्ता शर्मिष्ठां प्रति भारत ॥ ३२.१ ॥ ततोऽभिगम्य शर्मिष्ठां देवयान्यब्रवीदिदम् । किमर्थं वृजिनं सुभ्रूः कृतं ते कामलुब्धया ॥ ३२.२ ॥ *शर्मिष्ठोवाच ऋषिरभ्यागतः कश्चिद्धर्मात्मा वेदपारगः । स मया तु वरः कामं याचितो धर्मसंहतम् ॥ ३२.३ ॥ नाहमन्यायतः काममाचरामि शुचिस्मिते । तस्मादृषेर्ममापत्यमिति सत्यं ब्रवीमि ते ॥ ३२.४ ॥ *देवयान्युवाच पद्येतदेवं शर्मिष्ठे न मन्युर्विद्यते मम । अपत्यं यदि ते लब्धं ज्येष्ठाच्छ्रेष्ठाच्च वै द्विजात् ॥ ३२.५ ॥ शोभनं भीरु सत्यं चेत्कथं स ज्ञायते द्विजः । गोत्रनामाभिजनतः श्रोतुमिच्छामि तं द्विजम् ॥ ३२.६ ॥ *शर्मिष्ठोवाच ओजसा तेजसा चैव दीप्यमानं रविं यथा । तं दृष्ट्वा मम संप्रष्टुं शक्तिर्नासीच्छुचिस्मिते ॥ ३२.७ ॥ *शौनक उवाच अन्योन्यमेवमुक्त्वा च सम्प्रहस्य च ते मिथः । जगाम भार्गवी वेश्म तथ्यमित्यभिजानती ॥ ३२.८ ॥ ययातिर्देवयान्यां तु पुत्रावजनयन्नृपः । यदुं च तुर्वसुं चैव शक्रविष्णू इवापरौ ॥ ३२.९ ॥ तस्मादेव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी । द्रुह्यं चानुं च पूरुं च त्रीन्कुमारानजीजनत् ॥ ३२.१० ॥ ततः काले च कस्मिंश्चिद्देवयानी शुचिस्मिता । ययातिसहिता राजञ्जगाम हरितं वनम् ॥ ३२.११ ॥ ददर्श च तदा तत्र कुमारान्देवरूपिणः । क्रीडमानान् तु विस्रब्धान् विस्मिता चेदमब्रवीत् ॥ ३२.१२ ॥ *देवयान्युवाच कस्यैते दारका राजन् देवपुत्रोपमाः शुभाः । वर्चसा रूपतश्चैव दृश्यन्ते सदृशास्तव ॥ ३२.१३ ॥ एवं पृष्ट्वा तु राजानं कुमारान्पर्यपृच्छत । किं नामधेयगोत्रे वः पुत्रका ब्राह्मणः पिता ॥ ३२.१४ ॥ विब्रूत मे यथातथ्यं श्रोतुकामास्म्यतो ह्यहम् । तेऽदर्शयन्प्रदेशिन्या तमेव नृपसत्तमम् ॥ ३२.१५ ॥ शर्मिष्ठां मातरं चैव तस्या ऊचुः कुमारकाः । *शौनक उवाच इत्युक्त्वा सहितास्तेन राजानमुपचक्रमुः ॥ ३२.१६ ॥ नाभ्यनन्दत तान्राजा देवयान्यास्तदान्तिके । रुदन्तस्तेऽथ शर्मिष्ठामभ्ययुर्बालकास्तदा ॥ ३२.१७ ॥ दृष्ट्वा तेषां तु बालानां प्रणयं पार्थिवं प्रति । बुद्ध्वा च तत्त्वतो देवी शर्मिष्ठामिदमब्रवीत् ॥ ३२.१८ ॥ *देवयान्युवाच मदधीना सती कस्मादकार्षीर्विप्रियं मम । तमेवासुरधर्मं त्वमास्थिता न बिभेषि किम् ॥ ३२.१९ ॥ *शर्मिष्ठोवाच यदुक्तमृषिरित्येव तत्सत्यं चारुहासिनि । न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते ॥ ३२.२० ॥ यदा त्वया वृतो राजा वृत एव तदा मया । सखीभर्ता हि धर्मेण भर्ता भवति शोभने ॥ ३२.२१ ॥ पूज्यासि मम मान्या च श्रेष्ठा ज्येष्ठा च ब्राह्मणी । त्वत्तो हि मे पूज्यतरो राजर्षिः किं न वेत्सि तत् ॥ ३२.२२ ॥ *शौनक उवाच श्रुत्वा तस्यास्ततो वाक्यं देवयान्यब्रवीदिदम् । राजन्नाद्येह वत्स्यामि विप्रियं मे त्वया कृतम् ॥ ३२.२३ ॥ सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम् । तूर्णं सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा ॥ ३२.२४ ॥ अनुवव्राज संभ्रान्तः पृष्ठतः सान्त्वयन्नृपः । न्यवर्तत न सा चैव क्रोधसंरक्तलोचना ॥ ३२.२५ ॥ अविब्रुवन्ती किंचिच्च राजानं साश्रुलोचना । अचिरादेव सम्प्राप्ता काव्यस्योशनसोऽन्तिकम् ॥ ३२.२६ ॥ सा तु दृष्ट्वैव पितरमभिवाद्याग्रतः स्थिता । अनन्तरं ययातिस्तु पूजयामास भार्गवम् ॥ ३२.२७ ॥ *देवयान्युवाच अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम् । शर्मिष्ठा यातिवृत्तास्ति दुहिता वृषपर्वणः ॥ ३२.२८ ॥ त्रयोऽस्यां जनिताः पुत्रा राज्ञानेन ययातिना । दुर्भगाया मम द्वौ तु पुत्रौ तात ब्रवीमि ते ॥ ३२.२९ ॥ धर्मज्ञ इति विख्यात एष राजा भृगूद्वह । अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते ॥ ३२.३० ॥ *शुक्र उवाच धर्मज्ञस्त्वं महाराज योऽधर्ममकृथाः प्रियम् । तस्माज्जरा त्वामचिराद्धर्षयिष्यति दुर्जया ॥ ३२.३१ ॥ *ययातिरुवाच ऋतुं यो याच्यमानाया न ददाति पुमान्वृतः । भ्रूणहेत्युच्यते ब्रह्मन् स चेह ब्रह्मवादिभिः ॥ ३२.३२ ॥ ऋतुकामां स्त्रियं यस्तु गम्यां रहसि याचितः । नोपैति यो हि धर्मेण ब्रह्महेत्युच्यते बुधैः ॥ ३२.३३ ॥ इत्येतानि समीक्ष्याहं कारणानि भृगूद्वह । अधर्मभयसंविग्नः शर्मिष्ठामुपजग्मिवान् ॥ ३२.३४ ॥ *शुक्र उवाच न त्वहं प्रत्यवेक्ष्यस्ते मदधीनोऽसि पार्थिव । मिथ्याचरणधर्मेषु चौर्यं भवति नाहुष ॥ ३२.३५ ॥ *शौनक उवाच क्रोधेनोशनसा शप्तो ययातिर्नाहुषस्तदा । पूर्वं वयः परित्यज्य जरां सद्योऽन्वपद्यत ॥ ३२.३६ ॥ *ययातिरुवाच अतृप्तो यौवनस्याहं देवयान्यां भृगूद्वह । प्रसादं कुरु मे ब्रह्मञ्जरेयं मा विशेत माम् ॥ ३२.३७ ॥ *शुक्र उवाच नाहं मृषा वदाम्येतज्जरां प्राप्तोऽसि भूमिप । जरां त्वेतां त्वमन्यस्मिन् संक्रामय यदीच्छसि ॥ ३२.३८ ॥ *ययातिरुवाच राज्यभाक्स भवेद्ब्रह्मन् पुण्यभाक्कीर्तिभाक्तथा । यो दद्यान्मे वयः पुत्रस्तद्भवाननुमन्यताम् ॥ ३२.३९ ॥ *शुक्र उवाच संक्रामयिष्यसि जरां यथेष्टं नहुषात्मज । मामनुध्याय तत्त्वेन न च पापमवाप्स्यसि ॥ ३२.४० ॥ वयो दास्यति ते पुत्रो यः स राजा भविष्यति । आयुष्मान्कीर्तिमांश्चैव बह्वपत्यस्तथैव च ॥ ३२.४१ ॥ ______________________________________________________ मत्स्यपुराण ३३ *शौनक उवाच जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव हि । पुत्रं ज्येष्ठं वरिष्ठं च यदुमित्यब्रवीद्द्विजः ॥ ३३.१ ॥ *ययातिरुवाच जरा वली च मां तात पलितानि च पर्यगुः । काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ॥ ३३.२ ॥ त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह । यौवनेन त्वदीयेन चरेयं विषयानहम् ॥ ३३.३ ॥ पूर्णे वर्षसहस्रे तु त्वदीयं यौवनं त्वहम् । दत्त्वा सम्प्रतिपत्स्यामि पाप्मानं जरया सह ॥ ३३.४ ॥ *यदुरुवाच सितश्मश्रुधरो दीनो जरसा शिथिलीकृतः । वलीसंततगात्रश्च दुर्दर्शो दुर्बलः कृशः ॥ ३३.५ ॥ अशक्तः कार्यकरणे परिभूतः स यौवने । सहोपजीविभिश्चैव तज्जरां नाभिकामये ॥ ३३.६ ॥ सन्ति ते बहवः पुत्रा मत्तः प्रियतरा नृप । जरां ग्रहीतुं धर्मज्ञ पुत्रमन्यं वृणीष्व वै ॥ ३३.७ ॥ *ययातिरुवाच यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि । पापान्मातुलसम्बन्धाद्दुष्प्रजा ते भविष्यति ॥ ३३.८ ॥ तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह । यौवनेन चरेयं वै विषयांस्तव पुत्रक ॥ ३३.९ ॥ पूर्णे वर्षसहस्रे नु पुनर्दास्यामि यौवनम् । तथैव प्रतिपत्स्यामि पाप्मानं जरया सह ॥ ३३.१० ॥ *तुर्वसुरुवाच न कामये जरां तात कामभोगप्रणाशिनीम् । बलरूपान्तकरणीं बुद्धिमानविनाशिनीम् ॥ ३३.११ ॥ *ययातिरुवाच यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि । तस्मात्प्रजा समुच्छेदं तुर्वसो तव यास्यति ॥ ३३.१२ ॥ संकीर्णाश्चोरधर्मेषु प्रतिलोमचरेषु च । पिशिताशिषु लोकेषु नूनं राजा भविष्यसि ॥ ३३.१३ ॥ गुरुदारप्रसक्तेषु तिर्यग्योनिरतेषु च । पशुधर्मिषु म्लेच्छेषु पापेषु प्रभविष्यसि ॥ ३३.१४ ॥ *शौनक उवाच एवं स तुर्वसुं शप्त्वा ययातिः सुतमात्मनः । शर्मिष्ठायाः सुतं ज्येष्ठं द्रुह्युं वचनमब्रवीत् ॥ ३३.१५ ॥ *ययातिरुवाच द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् । जरां वर्षसहस्रं मे यौवनं स्वं प्रयच्छताम् ॥ ३३.१६ ॥ पूर्णे वर्षसहस्रे तु ते प्रदास्यामि यौवनम् । स्वं चादास्यामि भूयोऽहं पाप्मानं जरया सह ॥ ३३.१७ ॥ *द्रुह्युरुवाच न राज्यं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम् । न रागश्चास्य भवति तज्जरां ते न कामये ॥ ३३.१८ ॥ *ययातिरुवाच यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि । तद्द्रुह्यो वै प्रियः कामो न ते सम्पत्स्यते क्वचित् ॥ ३३.१९ ॥ नौरुपप्लवसंचारो यत्र नित्यं भविष्यति । अराज्यभोजशब्दं त्वं तत्र प्राप्स्यसि सान्वयः ॥ ३३.२० ॥ *ययातिरुवाच अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह । एकं वर्षसहस्रं तु चरेयं यौवनेन ते ॥ ३३.२१ ॥ *अनुरुवाच जीर्णः शिशुरिवादत्ते कालेऽन्नमशुचिर्यथा । न जुहोति च कालेऽग्निं तां जरां नाभिकामये ॥ ३३.२२ ॥ *ययातिरुवाच यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि । जरादोषस्त्वयोक्तो यस्तस्मात्त्वं प्रतिपद्यसे ॥ ३३.२३ ॥ प्रजाश्च यौवनं प्राप्ता विनश्यन्ति ह्यनो तव । अग्निप्रस्कन्दनगतस्त्वं चाप्येवं भविष्यसि ॥ ३३.२४ ॥ *ययातिरुवाच पूरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह । त्वं मे प्रियतरः पुत्रस्त्वं वरीयान् भविष्यसि ॥ ३३.२५ ॥ जरा वली च मां तात पलितानि च पर्यगुः । काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ॥ ३३.२६ ॥ किंचित्कालं चरेयं वै विषयान्वयसा तव । पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् । स्वं चैव प्रतिपत्स्येऽहं पाप्मानं जरया सह ॥ ३३.२७ ॥ *शौनक उवाच एवमुक्तः प्रत्युवाच पूरुः पितरमञ्जसा । यथात्थ त्वं महाराज तत्करिष्यामि ते वचः ॥ ३३.२८ ॥ प्रतिपत्स्यामि ते राजन् पाप्मानं जरया सह । गृहाण यौवनं मत्तश्चर कामान् यथेप्सितान् ॥ ३३.२९ ॥ जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव । यौवनं भवते दत्त्वा चरिष्यामि यथेच्छया ॥ ३३.३० ॥ *ययातिरुवाच पूरो प्रीतोऽस्मि ते वत्स वरं चेमं ददामि ते । सर्वकामसमृद्धार्था भविष्यति तव प्रजा ॥ ३३.३१ ॥ ______________________________________________________ मत्स्यपुराण ३४ *शौनक उवाच एवमुक्तः स राजर्षिः काव्यं स्मृत्वा महाव्रतम् । संक्रामयामास जरां तदा पुत्रे महात्मनि ॥ ३४.१ ॥ पौरवेणाथ वयसा ययातिर्नहुषात्मजः । प्रीतियुक्तो नरश्रेष्ठश्चचार विषयान्प्रियान् ॥ ३४.२ ॥ यथाकामं यथोत्साहं यथाकालं यथासुखम् । धर्माविरुद्धान्राजेन्द्रो यथार्हति स एव हि ॥ ३४.३ ॥ देवानतर्पयद्यज्ञैः श्राद्धैरपि पितामहान् । दीनाननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् ॥ ३४.४ ॥ अतिथीनन्नपानैश्च विशश्च प्रतिपालनैः । आनृशंस्येन शूद्रांश्च दस्यून्निग्रहणेन च ॥ ३४.५ ॥ धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयन् । ययातिः पालयामास साक्षादिन्द्र इवापरः ॥ ३४.६ ॥ स राजा सिंहविक्रान्तो युवा विषयगोचरः । अविरोधेन धर्मस्य चचार सुखमुत्तमम् ॥ ३४.७ ॥ स सम्प्राप्य शुभान्कामांस्तृप्तः खिन्नश्च पार्थिवः । कालं वर्षसहस्रान्तं सस्मार मनुजाधिपः ॥ ३४.८ ॥ परिचिन्त्य स कालज्ञः कलाकाष्ठाश्च वीर्यवान् । पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह ॥ ३४.९ ॥ न जातु कामः कामानामुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ॥ ३४.१० ॥ यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । नालमेकस्य तत्सर्वमिति मत्वा शमं व्रजेत् ॥ ३४.११ ॥ यथासुखं यथोत्साहं यथाकाममरिंदम । सेविता विषयाः पुत्र यौवनेन मया तव ॥ ३४.१२ ॥ पूरो प्रीतोऽस्मि भद्रं ते गृहाणेदं स्वयौवनम् । राज्यं चैव गृहाणेदं त्वं हि मे प्रियकृत्सुतः ॥ ३४.१३ ॥ *शौनक उवाच प्रतिपेदे जरां राजा ययातिर्नाहुषस्तदा । यौवनं प्रतिपेदे स पूरुः स्वं पुनरात्मनः ॥ ३४.१४ ॥ अभिषेक्तुकामं च नृपं पूरुं पुत्रं कनीयसम् । ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ॥ ३४.१५ ॥ कथं शुक्रस्य दौहित्रं देवयान्याः सुतं प्रभो । ज्येष्ठं यदुमतिक्रम्य राज्यं पूरोः प्रदास्यसि ॥ ३४.१६ ॥ ज्येष्ठो यदुस्तव सुतस्तुर्वसुस्तदनन्तरम् । शर्मिष्ठायाः सुतो द्रुह्युस्तथानुः पूरुरेव च ॥ ३४.१७ ॥ कथं ज्येष्ठमतिक्रम्य कनीयान् राज्यमर्हति । एतत्संबोधयामस्त्वां स्वधर्ममनुपालय ॥ ३४.१८ ॥ *ययातिरुवाच ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः । ज्येष्ठं प्रति यतो राज्यं न देयं मे कथंचन ॥ ३४.१९ ॥ मम ज्येष्ठेन यदुना नियोगो नानुपालितः । प्रतिकूलः पितुर्यश्च न स पुत्रः सतां मतः ॥ ३४.२० ॥ मातापित्रोर्वचनकृद्धितः पथ्यश्च यः सुतः । स पुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु ॥ ३४.२१ ॥ यदुनाहमवज्ञातस्तथा तुर्वसुनापि वा । द्रुह्युणा चानुना चैवमप्यवज्ञा कृता भृशम् ॥ ३४.२२ ॥ पूरुणा मे कृतं वाक्यं मानितं च विशेषतः । कनीयान्मम दायादो जरा येन धृता मम ॥ ३४.२३ ॥ मम कामः स च कृतः पूरुणा पुत्ररूपिणा । शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम् ॥ ३४.२४ ॥ पुत्रो यस्त्वानुवर्तेत स राजा पृथिवीपतिः । भवन्तः प्रतिजानन्तु पूरू राज्येऽभिषिच्यताम् ॥ ३४.२५ ॥ *प्रकृतय ऊचुः यः पुत्रो गुणसम्पन्नो मातापित्रोर्हितः सदा । सर्वं सोऽर्हति कल्याणं कनीयानपि स प्रभुः ॥ ३४.२६ ॥ अर्हं पूरोरिदं राज्यं यः प्रियः प्रियकृत्तव । वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम् ॥ ३४.२७ ॥ *शौनक उवाच पौरजानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा । अभिषिच्य ततः पूरुं राज्ये स्वसुतमात्मजम् ॥ ३४.२८ ॥ दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः । पुरात्स निर्ययौ राजा ब्राह्मणैस्तापसैः सह ॥ ३४.२९ ॥ यदोस्तु यादवा जातास्तुर्वसोर्यवनाः सुताः । द्रुह्योश्चैव सुता भोजा अनोस्तु म्लेच्छजातयः ॥ ३४.३० ॥ पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव । इदं वर्षसहस्रात्तु राज्यं कुरुकुलागतम् ॥ ३४.३१ ॥ ______________________________________________________ मत्स्यपुराण ३५ *शौनक उवाच एवं स नाहुषो राजा ययातिः पुत्रमीप्सितम् । राज्येऽभिषिच्य मुदितो वानप्रस्थोऽभवन्मुनिः ॥ ३५.१ ॥ उषित्वा वनवासं स ब्राह्मणैः सह संश्रितः । फलमूलाशनो दान्तो यथा स्वर्गमितो गतः ॥ ३५.२ ॥ स गतः स्वर्गवासं तु न्यवसन्मुदितः सुखी । कालस्य नातिमहतः पुनः शक्रेण पातितः ॥ ३५.३ ॥ विवशः प्रच्युतः स्वर्गादप्राप्तो मेदिनीतलम् । स्थितश्चासीदन्तरिक्षे स तदेति श्रुतं मया ॥ ३५.४ ॥ तत एव पुनश्चापि गतः स्वर्गमिति श्रुतिः । राज्ञा वसुमता सार्धमष्टकेन च वीर्यवान् । प्रतर्दनेन शिबिना समेत्य किल संसदि ॥ ३५.५ ॥ *शतानीक उवाच कर्मणा केन स दिवं पुनः प्राप्तो महीपतिः । कथमिन्द्रेण भगवन् पातितो मेदिनीतले ॥ ३५.६ ॥ सर्वमेतदशेषेण श्रोतुमिच्छामि तत्त्वतः । कथ्यमानं त्वया विप्र देवर्षिगणसंनिधौ ॥ ३५.७ ॥ देवराजसमो ह्यासीद्ययातिः पृथिवीपतिः । वर्धनः कुरुवंशस्य विभावसुसमद्युतिः ॥ ३५.८ ॥ तस्य विस्तीर्णयशसः सत्यकीर्तेर्महात्मनः । श्रोतुमिच्छामि देवेश दिवि चेह च सर्वशः ॥ ३५.९ ॥ *शौनक उवाच हन्त ते कथयिष्यामि ययातेरुत्तमां कथाम् । दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम् ॥ ३५.१० ॥ ययातिर्नाहुषो राजा पूरुं पुत्रं कनीयसम् । राज्येऽभिषिच्य मुदितः प्रवव्राज वनं तदा ॥ ३५.११ ॥ अन्तेषु स विनिक्षिप्य पुत्रान् यदुपुरोगमान् । फलमूलाशनो राजा वनेऽसौ न्यवसच्चिरम् ॥ ३५.१२ ॥ स जितात्मा जितक्रोधस्तर्पयन् पितृदेवताः । अग्नींश्च विधिवज्जुह्वन् वानप्रस्थविधानतः ॥ ३५.१३ ॥ अतिथीन् पूजयन्नित्यं वन्येन हविषा विभुः । शिलोञ्छवृत्तिमास्थाय शेषान्नकृतभोजनः ॥ ३५.१४ ॥ पूर्णं सहस्रं वर्षाणामेवंवृत्तिरभून्नृपः । अम्बुभक्षः स चाब्दांस्त्रीनासीन्नियतवाङ्मनाः ॥ ३५.१५ ॥ ततस्तु वायुभक्षोऽभूत्संवत्सरमतन्द्रितः । पञ्चाग्निमध्ये च तपस्तेपे संवत्सरं पुनः ॥ ३५.१६ ॥ एकपादस्थितश्चासीत्षण्मासाननिलाशनः । पुण्यकीर्तिस्ततः स्वर्गं जगामावृत्य रोदसी ॥ ३५.१७ ॥ ______________________________________________________ मत्स्यपुराण ३६ *शौनक उवाच स्वर्गतस्तु स राजेन्द्रो न्यवसद्देवसद्मनि । पूजितस्त्रिदशैः साध्यैर्मरुद्भिर्वसुभिस्तथा ॥ ३६.१ ॥ देवलोकाद्ब्रह्मलोकं संचरन्पुण्यकृद्वशी । अवसत्पृथिवीपालो दीर्घकालमिति श्रुतिः ॥ ३६.२ ॥ स कदाचिन्नृपश्रेष्ठो ययातिः शक्रमागतः । कथान्ते तत्र शक्रेण पृष्टः स पृथिवीपतिः ॥ ३६.३ ॥ *शक्र उवाच यदा स पूरुस्तव रूपेण राजञ्जरां गृहीत्वा प्रचचार लोके । तदा राज्यं सम्प्रदायैव तस्मै त्वया किमुक्तः कथयेह सत्यम् ॥ ३६.४ ॥ *ययातिरुवाच प्रकृत्यनुमते पूरुं राज्ये कृत्वेदमब्रुवम् । गङ्गायमुनयोर्मध्ये कृत्स्नोऽयं विषयस्तव । मध्ये पृथिव्यास्त्वं राजा भ्रातरोऽन्तेऽधिपास्तव ॥ ३६.५ ॥ अक्रोधनः क्रोधनेभ्यो विशिष्टस्तथा तितिक्षुरतितिक्षोर्विशिष्टः । अमानुषेभ्यो मानुषश्च प्रधानो विद्वांस्तथैवाविदुषः प्रधानः ॥ ३६.६ ॥ आक्रुश्यमानो नाक्रोशेन्मन्युमेव तितिक्षति । आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ॥ ३६.७ ॥ नारुन्तुदः स्यान्न नृशंसवादी न हीनतः परमभ्याददीत । ययास्य वाचा पर उद्विजेत न तां वदेद्रुशतीं पापलौल्याम् ॥ ३६.८ ॥ अरुन्तुदं पुरुषं तीव्रवाचं वाक्कण्टकैर्वितुदन्तं मनुष्यान् । विद्यादलक्ष्मीकतमं जनानां मुखे निबद्धं निरृतिं वहन्तम् ॥ ३६.९ ॥ सद्भिः पुरस्तादभिपूजितः स्यात्सद्भिस्तथा पृष्ठतो रक्षितः स्यात् । सदा सतामतिवादांस्तितिक्षेत्सतां वृत्तं पालयन्साधुवृतः ॥ ३६.१० ॥ वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति वा त्र्यहानि । परस्य नो मर्मसु ते पतन्ति तान्पण्डितो नावसृजेत्परेषु ॥ ३६.११ ॥ नास्तीदृशं संवननं त्रिषु लोकेषु किंचन । यथा मैत्री च लोकेषु दानं च मधुरा च वाक् ॥ ३६.१२ ॥ तस्मात्सान्त्वं सदा वाच्यं न वाच्यं परुषं क्वचित् । पूज्यान्सम्पूजयेद्दद्यान्नाभिशापं कदाचन ॥ ३६.१३ ॥ ______________________________________________________ मत्स्यपुराण ३७ * इन्द्र उवाच सर्वाणि कार्याणि समाप्य राजन् गृहान्परित्यज्य वनं गतोऽसि । तत्त्वां पृच्छामि नहुषस्य पुत्र केनापि तुल्यस्तपसा ययाते ॥ ३७.१ ॥ *ययातिरुवाच नाहं देवमनुष्येषु न गन्धर्वमहर्षिषु । आत्मनस्तपसा तुल्यं कंचित्पश्यामि वासव ॥ ३७.२ ॥ *इन्द्र उवाच यदावमंस्थाः सदृशः श्रेयसश्च पापीयसश्चाविदितप्रभावः । तस्माल्लोका ह्यन्तवन्तस्तवेमे क्षीणे पुण्ये पतितोऽस्यद्य राजन् ॥ ३७.३ ॥ *ययातिरुवाच सुरर्षिगन्धर्वनरावमानात्क्षयं गता मे यदि शक्रलोकाः । इच्छाम्यहं सुरलोकाद्विहीनः सतां मध्ये पतितुं देवराज ॥ ३७.४ ॥ *इन्द्र उवाच सतां सकाशे पतितोऽसि राजंश्च्युतः प्रतिष्ठां यत्र लब्धासि भूयः । एवं विदित्वा तु पुनर्ययाते न तेऽवमान्याः सदृशः श्रेयसे च ॥ ३७.५ ॥ *शौनक उवाच ततः पपातामरराजजुष्टात्पुण्याल्लोकात्पतमानं ययातिम् । सम्प्रेक्ष्य राजर्षिवरोऽष्टकस्तमुवाच सद्धर्मविधानगोप्ता ॥ ३७.६ ॥ *अष्टक उवाच कस्त्वं युवा वासवतुल्यरूपः स्वतेजसा दीप्यमानो यथाग्निः । पतस्युदीर्णाम्बुधरप्रकाशः खे खेचराणां प्रवरो यथार्कः ॥ ३७.७ ॥ दृष्ट्वा च त्वां सूर्यपथात्पतन्तं वैश्वानरार्कद्युतिमप्रमेयम् । किंनुस्विदेतत्पततीव सर्वे वितर्कयन्तः परिमोहिताः स्मः ॥ ३७.८ ॥ दृष्ट्वा च त्वाधिष्ठितं देवमार्गे शक्रार्कविष्णुप्रतिमप्रभावम् । प्रत्युद्गतास्त्वां वयमद्य सर्वे तस्मात्पाते तव जिज्ञासमानाः ॥ ३७.९ ॥ न चापि त्वां धृष्णवः प्रष्टुमग्रे न च त्वमस्मान्पृच्छसि के वयं स्म । तत्त्वां पृच्छामि स्पृहणीयरूपं कस्य त्वं वा किंनिमित्तं त्वमागाः ॥ ३७.१० ॥ भयं तु ते व्येतु विषादमोहौ त्यजाशु देवेन्द्रसमानरूप । त्वां वर्तमानं हि सतां सकाशे शक्रो न सोढुं बलहापि शक्तः ॥ ३७.११ ॥ सन्तः प्रतिष्ठा हि सुखच्युतानां सतां सदैवामरराजकल्प । ते संगताः स्थावरजङ्गमेशाः प्रतिष्ठितस्त्वं सदृशेषु सत्सु ॥ ३७.१२ ॥ प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः । प्रभुः सूर्यः प्रकाशाच्च सतां चाभ्यागतः प्रभुः ॥ ३७.१३ ॥ ______________________________________________________ मत्स्यपुराण ३८ *ययातिरुवाच अहं ययातिर्नहुषस्य पुत्रः पूरोः पिता सर्वभूतावमानात् । प्रभ्रंशितोऽहं सुरसिद्धलोकात्परिच्युतः प्रपताम्यल्पपुण्यः ॥ ३८.१ ॥ अहं हि पूर्वो वयसा भवद्भयस्तेनाभिवादं भवतां न युञ्जे । यो विद्यया तपसा जन्मना वा वृद्धः स वै सम्भवति द्विजानाम् ॥ ३८.२ ॥ *अष्टक उवाच अवादीस्त्वं वयसास्मि प्रवृद्ध इति वै राजन्नधिकः कथंचित् । यो वै विद्वांस्तपसा सम्प्रवृद्धः स एव पूज्यो भवति द्विजानाम् ॥ ३८.३ ॥ *ययातिरुवाच प्रतिकूलं कर्मणां पापमाहुस्तद्वर्तिनां प्रवणं पापलोकम् । सन्तोऽसतो नान्ववर्तन्त ते वै यदात्मनैषां प्रतिकूलवादी ॥ ३८.४ ॥ अभूद्धनं मे विपुलं महद्वै विचेष्टमानोऽधिगन्ता तदस्मि । एवं प्रधार्यात्महिते निविष्टो यो वर्तते स विजानाति धीरः ॥ ३८.५ ॥ नानाभावा बहवो जीवलोके दैवाधीना नष्टचेष्टाधिकाराः । तत्तत्प्राप्य न विहन्येत धीरो दिष्टं बलीय इति मत्वात्मबुद्ध्या ॥ ३८.६ ॥ सुखं हि जन्तुर्यदि वापि दुःखं दैवाधीनं विन्दति नात्मशक्त्या । तस्माद्दिष्टं बलवन्मन्यमानो न संज्वरेन्नापि हृष्येत्कदाचित् ॥ ३८.७ ॥ दुःखे न तप्येत सुखे न हृष्येत्समेन वर्तेत सदैव धीरः । दिष्टं बलीय इति मन्यमानो न संज्वरेन्नापि हृष्येत्कदाचित् ॥ ३८.८ ॥ भये न मुह्याम्यष्टकाहं कदाचित्संतापो मे मनसो नास्ति कश्चित् । धाता यथा मां विदधाति लोके ध्रुवं तथाहं भवितेति मत्वा ॥ ३८.९ ॥ संस्वेदजा ह्यण्डजा ह्युद्भिदश्च सरीसृपाः कृमयोऽप्यप्सु मत्स्याः । तथाश्मानस्तृणकाष्ठं च सर्वं दिष्टक्षये स्वां प्रकृतिं भजन्ते ॥ ३८.१० ॥ अनित्यतां सुखदुःखस्य बुद्ध्वा कस्मात्संतापमष्टकाहं भजेयम् । किं कुर्यां वै किंच कृत्वा न तप्ये तस्मात्संतापं वर्जयाम्यप्रमत्तः ॥ ३८.११ ॥ *शौनक उवाच एवं ब्रुवाणं नृपतिं ययातिमथाष्टकः पुनरेवान्वपृच्छत् । मातामहं सर्वगुणोपपन्नं यत्र स्थितं स्वर्गलोके यथावत् ॥ ३८.१२ ॥ *अष्टक उवाच ये ये लोकाः पार्थिवेन्द्र प्रधानास्त्वया भुक्ता यं च काले यथा च । तन्मे राजन्ब्रूहि सर्वं यथावत्क्षेत्रज्ञवद्भाषसे त्वं हि धर्मम् ॥ ३८.१३ ॥ *ययातिरुवाच राजाहमासं त्विह सार्वभौमस्ततो लोकान्महतश्चाजर्यं वै । तत्रावसं वर्षसहस्रमात्रं ततो लोकान्परमानभ्युपेतः ॥ ३८.१४ ॥ ततः पुरीं पुरुहूतस्य रम्यां सहस्रद्वारां शतयोजनान्ताम् । अध्यावसं वर्षसहस्रमात्रं ततो लोकान्परमानभ्युपेतः ॥ ३८.१५ ॥ ततो दिव्यमजरं प्राप्य लोकं प्रजापतेर्लोकपतेर्दुरापम् । तत्रावसं वर्षसहस्रमात्रं ततो लोकान्परमानभ्युपेतः ॥ ३८.१६ ॥ देवस्य देवस्य निवेशने च विजित्य लोकान्न्यवसं यथेष्टम् । सम्पूज्यमानस्त्रिदशैः समस्तैस्तुल्यप्रभावद्युतिरीश्वराणाम् ॥ ३८.१७ ॥ तथावसं नन्दने कामरूपी संवत्सराणामयुतं शतानाम् । सहाप्सरोभिर्विचरन्पुण्यगन्धान् पश्यन्नगान् पुष्पितांश्चारुरूपान् ॥ ३८.१८ ॥ तत्र स्थितं मां देवसुखेषु सक्तं कालेऽतीते महति ततोऽतिमात्रम् । दूतो देवानामब्रवीदुग्ररूपो ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण ॥ ३८.१९ ॥ एतावन्मे विदितं राजसिंह ततो भ्रष्टोऽहं नन्दनात्क्षीणपुण्यः । वाचोऽश्रौषं चान्तरिक्षे सुराणामनुक्रोशाच्छोचतां मां नरेन्द्र ॥ ३८.२० ॥ अकस्माद्वै क्षीणपुण्यो ययातिः पतत्यसौ पुण्यकृत्पुण्यकीर्तिः । तानब्रुवं पतमानस्तदाहं सतां मध्ये निपतेयं कथं नु ॥ ३८.२१ ॥ तैराख्यातां भवतां यज्ञभूमिं समीक्ष्य चैनामहमागतोऽस्मि । हविर्गन्धैर्दर्शितां यज्ञभूमिं धूमापाङ्गं परिगृह्य प्रतीताम् ॥ ३८.२२ ॥ ______________________________________________________ मत्स्यपुराण ३९ *अष्टक उवाच यदा वसन्नन्दने कामरूपे संवत्सराणामयुतं शतानाम् । किंकारणं कार्तयुगप्रधान हित्वा तद्वै वसुधामन्वपद्यः ॥ ३९.१ ॥ *ययातिरुवाच ज्ञातिः सुहृत्स्वजनो यो यथेह क्षीणे वित्ते त्यज्यते मानवैर्हि । तथा स्वर्गे क्षीणपुण्यं मनुष्यं त्यजन्ति सद्यः खेचरा देवसंघाः ॥ ३९.२ ॥ *अष्टक उवाच कथं तस्मिन्क्षीणपुण्या भवन्ति संमुह्यते मेऽत्र मनोऽतिमात्रम् । किंविशिष्टाः कस्य धामोपयान्ति तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे ॥ ३९.३ ॥ *ययातिरुवाच इमं भौमं नरकं ते पतन्ति लालप्यमाना नरदेव सर्वे । ते कङ्कगोमायुपलाशनार्थं क्षितौ विवृद्धिं बहुधा प्रयान्ति ॥ ३९.४ ॥ तस्मादेवं वर्जनीयं नरेन्द्र दुष्टं लोके गर्हणीयं च कर्म । आख्यातं ते पार्थिव सर्वमेतद्भूयश्चेदानीं वद किं ते वदामि ॥ ३९.५ ॥ *अष्टक उवाच यदा तु तांस्ते वितुदन्ते वयांसि तथा गृध्राः शितिकण्ठाः पतंगाः । कथं भवन्ति कथमाभवन्ति त्वत्तो भौमं नरकमहं शृणोमि ॥ ३९.६ ॥ *ययातिरुवाच ऊर्ध्वं देहात्कर्मणो जृम्भमाणाद्व्यक्तं पृथिव्यामनुसंचरन्ति । इमं भौमं नरकं ते पतन्ति नावेक्षन्ते वर्षपूगाननेकान् ॥ ३९.७ ॥ षष्टिं सहस्राणि पतन्ति व्योम्नि तथाशीतिं चैव तु वत्सराणाम् । तान्वै नुदन्ते प्रपतन्तः प्रयातान् भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः ॥ ३९.८ ॥ *अष्टक उवाच यदेतांस्ते संपततस्तुदन्ति भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः । कथं भवन्ति कथमाभवन्ति कथंभूता गर्भभूता भवन्ति ॥ ३९.९ ॥ *ययातिरुवाच असृग्रेतः पुष्परसानुयुक्तमन्वेति सद्यः पुरुषेण सृष्टम् । तव तरया रज आपद्यते च स गर्भभूतः समुपैति तत्र ॥ ३९.१० ॥ वनस्पतीनोषधींश्चाविशन्ति अपो वायुं पृथिवीं चान्तरिक्षम् । चतुष्पदं द्विपदं चापि सर्व एवंभूता गर्भभूता भवन्ति ॥ ३९.११ ॥ *अष्टक उवाच अन्यद्वपुर्विदधातीह गर्भ उताहोस्वित्स्वेन कामेन याति । आपद्यमानो नरयोनिमेतामाचक्ष्व मे संशयात्पृच्छतस्त्वम् ॥ ३९.१२ ॥ शरीरदेहादिसमुच्छ्रयं च चक्षुःश्रोत्रे लभते केन संज्ञाम् । एतत्सर्वं तात आचक्ष्व पृष्टः क्षेत्रज्ञं त्वां मन्यमाना हि सर्वे ॥ ३९.१३ ॥ *ययातिरुवाच वायुः समुत्कर्षति गर्भयोनिमृतौ रेतः पुष्परसानुयुक्तम् । स तत्र तन्मात्रकृताधिकारः क्रमेण संवर्धयतीह गर्भम् ॥ ३९.१४ ॥ स जायमानोऽथ गृहीतमात्रः संज्ञामधिष्ठाय ततो मनुष्यः । स श्रोत्राभ्यां वेदयतीह शब्दं स वै रूपं पश्यति चक्षुषा च ॥ ३९.१५ ॥ घ्राणेन गन्धं जिह्वयाथो रसं च त्वचा स्पर्शं मनसा देवभावम् । इत्यष्टकेहोपचितं हि विद्धि महात्मनः प्राणभृतः शरीरे ॥ ३९.१६ ॥ *अष्टक उवाच यः संस्थितः पुरुषो दह्यते वा निखन्यते वापि निकृष्यते वा । अभावभूतः स विनाशमेत्य केनात्मानं चेतयते पुरस्तात् ॥ ३९.१७ ॥ *ययातिरुवाच हित्वा सोऽसून् सुप्तवन्निष्ठितत्वात्पुरोधाय सुकृतं दुष्कृतं च । अन्यां योनिं पुण्यपापानुसारां हित्वा देहं भजते राजसिंह ॥ ३९.१८ ॥ पुण्यां योनिं पुण्यकृतो विशन्ति पापां योनिं पापकृतो व्रजन्ति । कीटाः पतंगाश्च भवन्ति पापान्न मे विवक्षास्ति महानुभाव ॥ ३९.१९ ॥ चतुष्पदा द्विपदाः पक्षिणश्च तथाभूता गर्भभूता भवन्ति । आख्यातमेतन्निखिलं हि सर्वं भूयस्तु किं पृच्छसि राजसिंह ॥ ३९.२० ॥ *अष्टक उवाच किं स्वित्कृत्वा लभते तात संज्ञां मर्त्यः श्रेष्ठां तपसा विद्यया वा । तन्मे पृष्टः शंस सर्वं यथावच्छुभांल्लोकान् येन गच्छेत्क्रमेण ॥ ३९.२१ ॥ *ययातिरुवाच तपश्च दानं च शमो दमश्च ह्रीरार्जवं सर्वभूतानुकम्पा । स्वर्गस्य लोकस्य वदन्ति सन्तो द्वाराणि सप्तैव महान्ति पुंसाम् ॥ ३९.२२ ॥ सर्वाणि चैतानि यथोदितानि तपःप्रधानान्यभिमर्षकेण । नश्यन्ति मानेन तमोऽभिभूताः पुंसः सदैवेति वदन्ति सन्तः ॥ ३९.२३ ॥ अधीयानः पण्डितं मन्यमानो यो विद्यया हन्ति यशः परस्य । तस्यान्तवन्तः पुरुषस्य लोका न चास्य तद्ब्रह्मफलं ददाति ॥ ३९.२४ ॥ चत्वारि कर्माणि भयंकराणि भयं प्रयच्छन्त्ययथाकृतानि । मानाग्निहोत्रमुत मानमौनं मानेनाधीतमुत मानयज्ञः ॥ ३९.२५ ॥ न मान्यमानो मुदमाददीत न संतापं प्राप्नुयाच्चावमानात् । सन्तः सतः पूजयन्तीह लोके नासाधवः साधुबुद्धिं लभन्ते ॥ ३९.२६ ॥ इति दद्यादिति यजेदित्यधीयीत मे श्रुतम् । इत्येतान्यभयान्याहुस्तान्यवर्ज्यानि नित्यशः ॥ ३९.२७ ॥ येनाश्रयं वेदयन्ते पुराणं मनीषिणो मानसे मानयुक्तम् । तन्निःश्रेयस्तेन संयोगमेत्य परां शान्तिं प्राप्नुयुः प्रेत्य चेह ॥ ३९.२८ ॥ ______________________________________________________ मत्स्यपुराण ४० *अष्टक उवाच चरन्गृहस्थः कथमेति देवान् कथं भिक्षुः कथमाचार्यकर्मा । वानप्रस्थः सत्पथे संनिविष्टो बहून्यस्मिन् सम्प्रति वेदयन्ति ॥ ४०.१ ॥ *ययातिरुवाच आहूताध्यायी गुरुकर्मसु चोद्यतः पूर्वोत्थायी चरमं चोपशायी । मृदुर्दान्तो धृतिमानप्रमत्तः स्वाध्यायशीलः सिध्यति ब्रह्मचारी ॥ ४०.२ ॥ धर्मागतं प्राप्य धनं यजेत दद्यात्सदैवातिथीन्भोजयेच्च । अनाददानश्च परैरदत्तं सैषा गृहस्थोपनिषत्पुराणी ॥ ४०.३ ॥ स्ववीर्यजीवी वृजिनान्निवृत्तो दाता परेभ्यो न परोपतापी । तादृङ्मुनिः सिद्धिमुपैति मुख्यां वसन्नरण्ये नियताहारचेष्टः ॥ ४०.४ ॥ अशिल्पजीवी विगृहश्च नित्यं जितेन्द्रियः सर्वतो विप्रमुक्तः । अनोकशायी लघु लिप्समानश्चरन् देशानेकचरः स भिक्षुः ॥ ४०.५ ॥ रात्र्या यया चाभिरताश्च लोका भवन्ति कामाभिजिताः सुखेन च । तामेव रात्रिं प्रयतेत विद्वानरण्यसंस्थो भवितुं यतात्मा ॥ ४०.६ ॥ दशैव पूर्वान्दश चापरांस्तु ज्ञातींस्तथात्मानमथैकविंशम् । अरण्यवासी सुकृतं दधाति मुक्त्वा त्वरण्ये स्वशरीरधातून् ॥ ४०.७ ॥ *अष्टक उवाच कतिस्विद्देवमुनयो मौनानि कति चाप्युत । भवन्तीति तदाचक्ष्व श्रोतुमिच्छामहे वयम् ॥ ४०.८ ॥ *ययातिरुवाच अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः । ग्रामे वा वसतोऽरण्यं स मुनिः स्याज्जनाधिप ॥ ४०.९ ॥ *अष्टक उवाच कथंस्विद्वसतोऽरण्ये ग्रामो भवति पृष्ठतः । ग्रामे वा वसतोऽरण्यं कथं भवति पृष्ठतः ॥ ४०.१० ॥ *ययातिरुवाच न ग्राम्यमुपयुञ्जीत य आरण्यो मुनिर्भवेत् । तथास्य वसतोऽरण्ये ग्रामो भवति पृष्ठतः ॥ ४०.११ ॥ अनग्निरनिकेतश्चाप्यगोत्रचरणो मुनिः । कौपीनाच्छादनं यावत्तावदिच्छेच्च चीवरम् ॥ ४०.१२ ॥ यावत्प्राणाभिसंधानं तावदिच्छेच्च भोजनम् । तदास्य वसतो ग्रामेऽरण्यं भवति पृष्ठतः ॥ ४०.१३ ॥ यस्तु कामान्परित्यज्य त्यक्तकर्मा जितेन्द्रियः । आतिष्ठेत मुनिर्मौनं स लोके सिद्धिमाप्नुयात् ॥ ४०.१४ ॥ धौतदन्तं कृत्तनखं सदा स्नातमलंकृतम् । असितं सितकर्मस्थं कस्तं नार्चितुमर्हति ॥ ४०.१५ ॥ तपसा कर्शितः क्षामः क्षीणमांसास्थिशोणितः । यदा भवति निर्द्वंद्वो मुनिर्मौनं समास्थितः ॥ ४०.१६ ॥ अथ लोकमिमं जित्वा लोकं चापि जयेत्परम् । आस्येन तु यदाहारं गोवन्मृगयते मुनिः । अथास्य लोकैः सर्वो यः सोऽमृतत्वाय कल्पते ॥ ४०.१७ ॥ ______________________________________________________ मत्स्यपुराण ४१ *अष्टक उवाच कतरस्त्वेतयोः पूर्वं देवानामेति सात्म्यताम् । उभयोर्धावतो राजन् सूर्यचन्द्रमसोरिव ॥ ४१.१ ॥ *ययातिरुवाच अनिकेतगृहस्थेषु कामवृत्तेषु संयतः । ग्राम एव चरन्भिक्षुस्तयोः पूर्वतरं गतः ॥ ४१.२ ॥ अप्राप्यं दीर्घमायुश्च यः प्राप्तो विकृतिं चरेत् । तप्येत यदि तत्कृत्वा चरेत्सोग्रं तपस्ततः ॥ ४१.३ ॥ यद्वै नृशंसं तदपथ्यमाहुर्यः सेवते धर्ममनर्थबुद्धिः । असावनीशः स तथैव राजंस्तदार्जवं स समाधिस्तदार्यम् ॥ ४१.४ ॥ *अष्टक उवाच केनाद्य त्वं तु प्रहितोऽसि राजन् युवा स्रग्वी दर्शनीयः सुवर्चाः । कुत आगतः कतमस्यां दिशि त्वमुताहोस्वित्पार्थिवस्थानमस्ति ॥ ४१.५ ॥ *ययातिरुवाच इमं भौमं नरकं क्षीणपुण्यः प्रवेष्टुमूर्वीं गगनाद्विप्रकीर्णः । उक्त्वाहं वः प्रपतिष्याम्यनन्तरं त्वरन्त्वमी ब्रह्मणो लोकपा ये ॥ ४१.६ ॥ सतां सकाशे तु वृतः प्रपातस्ते सङ्गता गुणवन्तस्तु सर्वे । शक्राच्च लब्धो हि वरो मयैष पतिष्यता भूमितलं नरेन्द्र ॥ ४१.७ ॥ *अष्टक उवाच पृच्छामि त्वां प्रपतन्तं प्रपातं यदि लोकाः पार्थिव सन्ति मेऽत्र । यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥ ४१.८ ॥ *ययातिरुवाच यावत्पृथिव्यां विहितं गवाश्वं सहारण्यैः पशुभिः पक्षिभिश्च । तावल्लोका दिवि ते संस्थिता वै तथा विजानीहि नरेन्द्रसिंह ॥ ४१.९ ॥ *अष्टक उवाच तांस्ते ददामि मा प्रपत प्रपातं ये मे लोका दिवि राजेन्द्र सन्ति । यद्यन्तरिक्षे यदि वा दिवि श्रितास्तानाक्रम क्षिप्रममित्रहाऽथसि ॥ ४१.१० ॥ *ययातिरुवाच नास्मद्विधोऽब्राह्मणो ब्रह्मविच्च प्रतिग्रहे वर्तते राजमुख्य । यथा प्रदेयं सततं द्विजेभ्यस्तदा ददे पूर्वमहं नरेन्द्र ॥ ४१.११ ॥ नाब्राह्मणः कृपणो जातु जीवेद्यद्यपि स्याद्ब्राह्मणी वीरपत्नी । सोऽहं यदेवाकृतपूर्वं चरेयं विवित्समानः किमु तत्र साधुः ॥ ४१.१२ ॥ *प्रतर्दन उवाच पृच्छामि त्वां स्पृहणीयरूप प्रतर्दनोऽहं यदि मे सन्ति लोकाः । यद्यन्तरिक्षे यदि वा दिवि श्रुताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥ ४१.१३ ॥ *ययातिरुवाच सन्ति लोका बहवस्ते नरेन्द्र अप्येकैकं सप्त शतान्यहानि । मधुच्युतो घृतवन्तो विशोकास्तेनान्तवन्तः प्रतिपालयन्ति ॥ ४१.१४ ॥ *प्रतर्दन उवाच तांस्ते ददामि पतमानस्य राजन् ये मे लोकास्तव ते वै भवन्तु । यद्यन्तरिक्षे यदि वा दिवि श्रितास्तानाक्रम क्षिप्रमपेतमोहः ॥ ४१.१५ ॥ *ययातिरुवाच नु तुल्यतेजाः सुकृतं हि कामये योगक्षेमं पार्थिवात्पार्थिवः सन् । दैवादेशादापदं प्राप्य विद्वांश्चरेन्नृशंसं हि न जातु राजा ॥ ४१.१६ ॥ धर्म्यं मार्गं चिन्तयानो यशस्यं कुर्यात्तपो धर्ममवेक्षमाणः । न मद्विधो धर्मबुद्धिर्हि राजा ह्येवं कुर्यात्कृपणं मां यथात्थ ॥ ४१.१७ ॥ कुर्यामपूर्वं न कृतं यदन्यैर्विवित्समानः किमु तत्र साधुः । ब्रुवाणमेवं नृपतिं ययातिं नृपोत्तमो वसुमानब्रवीत्तम् ॥ ४१.१८ ॥ ______________________________________________________ मत्स्यपुराण ४२ *वसुमानुवाच पृच्छाम्यहं वसुमानौषदश्विर्यद्यस्ति लोको दिवि मह्यं नरेन्द्र । यद्यन्तरिक्षे प्रथितो महात्मन् क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥ ४२.१ ॥ *ययातिरुवाच यदन्तरिक्षं पृथिवी दिशश्च यत्तेजसा तपते भानुमांश्च । लोकास्तावन्तो दिवि संस्थिता वै ते त्वां भवन्तं प्रतिपालयन्ति ॥ ४२.२ ॥ *वसुमानुवाच तांस्ते ददामि पत मां प्रपातं ये मे लोकास्तव ते वै भवन्तु । क्रीणीष्वैनांस्तृणकेनापि राजन् प्रतिग्रहस्ते यदि सम्यक्प्रदुष्टः ॥ ४२.३ ॥ *ययातिरुवाच न मिथ्याहं विक्रयं वै स्मरामि मया कृतं शिशुभावेऽपि राजन् । कुर्यां न चैवाकृतपूर्वमन्यैर्विवित्समानो वसुमन्न साधु ॥ ४२.४ ॥ *वसुमानुवाच तांस्त्वं लोकान्प्रतिपद्यस्व राजन्मया दत्तान्यदि नेष्टः क्रयस्ते । नाहं तान्वै प्रतिगन्ता नरेन्द्र सर्वे लोकास्तावका वै भवन्तु ॥ ४२.५ ॥ *शिबिरुवाच पृच्छामि त्वां शिबिरौशीनरोऽहं ममापि लोका यदि सन्ति तात । यद्यन्तरिक्षे यदि वा दिवि श्रिताः क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ॥ ४२.६ ॥ *ययातिरुवाच न त्वं वाचा हृदयेनापि राजन् परीप्समानो मावमंस्था नरेन्द्र । तेनानन्ता दिवि लोकाः स्थिता वै विद्युद्रूपाः स्वनवन्तो महान्तः ॥ ४२.७ ॥ *शिबिरुवाच तांस्त्वं लोकान्प्रतिपद्यस्व राजन्मया दत्तान्यदि नेष्टः क्रयस्ते । न चाहं तान्प्रतिपद्य दत्त्वा यत्र त्वं तात गन्तासि लोकान् ॥ ४२.८ ॥ *ययातिरुवाच यथा त्वमिन्द्रप्रतिमप्रभावस्तेचाप्यनन्ता नरदेव लोकाः । तथाद्य लोके न रमेऽन्यदत्ते तस्माच्छिबे नाभिनन्दामि वाचम् ॥ ४२.९ ॥ *अष्टक उवाच न चेदेकैकशो राजंल्लोकान्नः प्रतिनन्दसि । सर्वे प्रदाय तांल्लोकान् गन्तारो नरकं वयम् ॥ ४२.१० ॥ *ययातिरुवाच यदर्हास्तद्वदध्वं वः सन्तः सत्यादिदर्शिनः । अहं तु नाभिगृह्णामि यत्कृतं न मया पुरा ॥ ४२.११ ॥ अलिप्समानस्य तु मे यदुक्तं न तत्तथास्तीह नरेन्द्रसिंह । अस्य प्रदानस्य यदेव युक्तं तस्यैव चानन्तफलं भविष्यम् ॥ ४२.१२ ॥ *अष्टक उवाच कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः । उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव ॥ ४२.१३ ॥ *ययातिरुवाच भवतां मम चैवैते रथा भान्ति हिरण्मयाः । आरुह्यैतेषु गन्तव्यं भवद्भिश्च मया सह ॥ ४२.१४ ॥ *अष्टक उवाच आतिष्ठस्व रथं राजन् विक्रमस्व विहायसा । वयमप्यनुयास्यामो यदा कालो भविष्यति ॥ ४२.१५ ॥ *ययातिरुवाच सर्वैरिदानीं गन्तव्यं सह स्वर्गो जितो यतः । एष वो विरजाः पन्था दृश्यते देवसद्मगः ॥ ४२.१६ ॥ *शौनक उवाच तेऽभिरुह्य रथान्सर्वे प्रयाता नृपते नृपाः । आक्रामन्तो दिवं भान्ति धर्मेणावृत्य रोदसी ॥ ४२.१७ ॥ *अष्टक उवाच अहं मन्ये पूर्वमेकोऽभिगन्ता सखा चेन्द्रः सर्वथा मे महात्मा । कस्मादेवं शिबिरौशीनरोऽयमेकोऽत्ययात्सर्वं वेगेन वाहान् ॥ ४२.१८ ॥ *ययातिरुवाच अददाद्देवयानाय यावद्वित्तमनिन्दितः । उशीनरस्य पुत्रोऽयं तस्माच्छ्रेष्ठो हि वः शिबिः ॥ ४२.१९ ॥ दानं शौचं सत्यमथो ह्यहिंसा ह्रीः श्रीस्तितिक्षा समतानृशंस्यम् । राजन्त्येतान्यथ सर्वाणि राज्ञि शिबौ स्थितान्यप्रतिमे सुबुद्ध्या । एवं वृत्तं ह्रीनिषेवी बिभर्ति तस्माच्छिबिरभिगन्ता रथेन ॥ ४२.२० ॥ *शौनक उवाच अथाष्टकः पुनरेवान्वपृच्छन्मातामहं कौतुकादिन्द्रकल्पम् । पृच्छामि त्वां नृपते ब्रूहि सत्यं कुतश्च कश्चासि कथं त्वमागाः । कृतं त्वया यद्धि न तस्य कर्ता लोके त्वदन्यो ब्राह्मणः क्षत्रियो वा ॥ ४२.२१ ॥ *ययातिरुवाच ययातिरस्मि नहुषस्य पुत्रः पूरोः पिता सार्वभौमस्त्विहासम् । गुह्यं मन्त्रं मामकेभ्यो ब्रवीमि मातामहो भवतां सुप्रकाशः ॥ ४२.२२ ॥ सर्वामिमां पृथिवीं निर्जिगाय ऋद्धां महीमददां ब्राह्मणेभ्यः । मेध्यानश्वान्नैकशस्तान्सुरूपांस्तदा देवाः पुण्यभाजो भवन्ति ॥ ४२.२३ ॥ अदामहं पृथिवीं ब्राह्मणेभ्यः पूर्णामिमामखिलान्नैः प्रशस्ताम् । गोभिः सुवर्णैश्च धनैश्च मुख्यैरश्वाः सनागाः शतशस्त्वर्बुदानि ॥ ४२.२४ ॥ सत्येन मे द्यौश्च वसुंधरा च तथैवाग्निर्ज्वलते मानुषेषु । न मे वृथा व्याहृतमेव वाक्यं सत्यं हि सन्तः प्रतिपूजयन्ति ॥ ४२.२५ ॥ साध्वष्टक प्रब्रवीमीह सत्यं प्रतर्दनं वसुमन्तं शिबिं च ।* सर्वे देवा मुनयश्च लोकाः सत्येन पूज्या इति मे मनोगतम् ॥ ४२.२६ ॥* यो नः सर्वजितं सर्वं यथावृत्तं निवेदयेत् । अनसूयुर्द्विजाग्न्येभ्यः स भजेन्नः सलोकताम् ॥ ४२.२७ ॥ *शौनक उवाच एवं राजन्स महात्मा ययातिः स्वदौहित्रैस्तारितो मित्रवर्यैः । त्यक्त्वा महीं परमोदारकर्मा स्वर्गं गतः कर्मभिर्व्याप्य पृथ्वीम् ॥ ४२.२८ ॥ एवं सर्वं विस्तरतो यथावदाख्यातं ते चरितं नाहुषस्य । वंशो यस्य प्रथितं पौरवेयो यस्मिञ्जातस्त्वं मनुजेन्द्रकल्पः ॥ ४२.२९ ॥ ______________________________________________________ मत्स्यपुराण ४३ *सूत उवाच इत्येतच्छौनकाद्राजा शतानीको निशम्य तु । विस्मितः परया प्रीत्या पूर्णचन्द्र इवाबभौ ॥ ४३.१ ॥ पूजयामास नृपतिर्विधिवच्चाथ शौनकम् । रत्नैर्गोभिः सुवर्णैश्च वासोभिर्विविधैस्तथा ॥ ४३.२ ॥ प्रतिगृह्य ततः सर्वं यद्राज्ञा प्रहितं धनम् । दत्त्वा च ब्राह्मणेभ्यश्च शौनकोऽन्तरधीयत ॥ ४३.३ ॥ *ऋषय ऊचुः ययातेर्वंशमिच्छामः श्रोतुं विस्तरतो वद । यदुप्रभृतिभिः पुत्रैर्यदा लोके प्रतिष्ठितम् ॥ ४३.४ ॥ *सूत उवाच यदोर्वंशं प्रवक्ष्यामि ज्येष्ठस्योत्तमतेजसः । विस्तरेणानुपूर्व्या च गदतो मे निबोधत ॥ ४३.५ ॥ यदोः पुत्रा बभूवुर्हि पञ्च देवसुतोपमाः । महारथा महेष्वासा नामतस्तान्निबोधत ॥ ४३.६ ॥ सहस्रजिरथो ज्येष्ठः क्रोष्टुर्नीलोऽन्तिको लघुः । सहस्रजेस्तु दायादः शतजिर्नाम पार्थिवः ॥ ४३.७ ॥ शतजेरपि दायादास्त्रयः परमकीर्तयः । हैहयश्च हयश्चैव तथा वेणुहयश्च यः ॥ ४३.८ ॥ हैहयस्य तु दायादो धर्मनेत्रः प्रतिश्रुतः । धर्मनेत्रस्य कुन्तिस्तु संहतस्तस्य चात्मजः ॥ ४३.९ ॥ संहतस्य तु दायादो महिष्मान्नाम पार्थिवः । आसीन्महिष्मतः पुत्रो रुद्रश्रेण्यः प्रतापवान् ॥ ४३.१० ॥ वाराणस्यामभूद्राजा कथितं पूर्वमेव तु । रुद्रश्रेण्यस्य पुत्रोऽभूद्दुर्दमो नाम पार्थिवः ॥ ४३.११ ॥ दुर्दमस्य सुतो धीमान् कनको नाम वीर्यवान् । कनकस्य तु दायादाश्चत्वारो लोकविश्रुताः ॥ ४३.१२ ॥ कृतवीर्यः कृताग्निश्च कृतवर्मा तथैव च । कृतौजाश्च चतुर्थोऽभूत्कृतवीर्यात्ततोऽर्जुनः ॥ ४३.१३ ॥ जातः करसहस्रेण सप्तद्वीपेश्वरो नृपः । वर्षायुतं तपस्तेपे दुश्चरं पृथिवीपतिः ॥ ४३.१४ ॥ दत्तमाराधयामास कार्तवीर्योऽत्रिसम्भवम् । तस्मै दत्ता वरास्तेन चत्वारः पुरुषोत्तम ॥ ४३.१५ ॥ पूर्वं बाहुसहस्रं तु स वव्रे राजसत्तमः । अधर्मं चरमाणस्य सद्भिश्चापि निवारणम् ॥ ४३.१६ ॥ युद्धेन पृथिवीं जित्वा धर्मेणैवानुपालनम् । संग्रामे वर्तमानस्य वधश्चैवाधिकाद्भवेत् ॥ ४३.१७ ॥ तेनेयं पृथिवी सर्वा सप्तद्वीपा सपर्वता । सप्तोदधिपरिक्षिप्ता क्षात्त्रेण विधिना जिता ॥ ४३.१८ ॥ जज्ञे बाहुसहस्रं वै इच्छतस्तस्य धीमतः । रथो ध्वजश्च संजज्ञ इत्येवमनुशुश्रुम ॥ ४३.१९ ॥ दश यज्ञसहस्राणि राज्ञां द्वीपेषु वै तदा । निरर्गलानि वृत्तानि श्रूयन्ते तस्य धीमतः ॥ ४३.२० ॥ सर्वे यज्ञा महाराज्ञस्तस्यासन् भूरिदक्षिणाः । सर्वे काञ्चनयूपास्ते सर्वाः काञ्चनवेदिकाः ॥ ४३.२१ ॥ सर्वे देवैः समं प्राप्तैर्विमानस्थैरलंकृताः । गन्धर्वैरप्सरोभिश्च नित्यमेवोपशोभिताः ॥ ४३.२२ ॥ तस्य यज्ञे जगौ गाथां गन्धर्वो नारदस्तथा । कार्तवीर्यस्य राजर्षेर्महिमानं निरीक्ष्य सः ॥ ४३.२३ ॥ न नूनं कार्तवीर्यस्य गतिं यास्यन्ति क्षत्रियाः । यज्ञैर्दानैस्तपोभिश्च विक्रमेण श्रुतेन च ॥ ४३.२४ ॥ स हि सप्तसु द्वीपेषु खड्गी चक्री शरासनी । रथी द्वीपान्यनुचरन् योगी पश्यति तस्करान् ॥ ४३.२५ ॥ पञ्चाशीतिसहस्राणि वर्षाणां स नराधिपः । स सर्वरत्नसम्पूर्णश्चक्रवर्ती बभूव ह ॥ ४३.२६ ॥ स एव पशुपालोऽभूत्क्षेत्रपालः स एव हि । स एव वृष्ट्या पर्जन्यो योगित्वादर्जुनोऽभवत् ॥ ४३.२७ ॥ योऽसौ बाहुसहस्रेण ज्याघातकठिनत्वचा । भाति रश्मिसहस्रेण शारदेनेव भास्करः ॥ ४३.२८ ॥ एष नागं मनुष्येषु माहिष्मत्यां महाद्युतिः । कर्कोटकसुतं जित्वा पुर्यां तत्र न्यवेशयत् ॥ ४३.२९ ॥ एष वेगं समुद्रस्य प्रावृट्काले भजेत वै । क्रीडन्नेव सुखोद्भिन्नः प्रतिस्रोतो महीपतिः ॥ ४३.३० ॥ ललता क्रीडता तेन प्रतिस्रग्दाममालिनी । ऊर्मिभ्रुकुटिसंत्रासाच्चकिताभ्येति नर्मदा ॥ ४३.३१ ॥ एको बाहुसहस्रेण वगाहे स महार्णवम् । करोत्युद्वृत्तवेगां तु नर्मदां प्रावृडुद्धताम् ॥ ४३.३२ ॥ तस्य बाहुसहस्रेण क्षोभ्यमाणे महोदधौ । भवन्त्यतीव निश्चेष्टाः पातालस्था महासुराः ॥ ४३.३३ ॥ चूर्णीकृतमहावीचिलीनमीनमहातिमिम् । मारुताविद्धफेनौघमावर्ताक्षिप्तदुःसहम् ॥ ४३.३४ ॥ करोत्यालोडयन्नेव दोःसहस्रेण सागरम् । मन्दरक्षोभचकिता ह्यमृतोत्पादशङ्किताः ॥ ४३.३५ ॥ तदा निश्चलमूर्धानो भवन्ति च महोरगाः । सायाह्ने कदलीखण्डा निर्वातस्तिमिता इव ॥ ४३.३६ ॥ एवं बद्ध्वा धनुर्ज्यायामुत्सिक्तं पञ्चभिः शरैः । लङ्कायां मोहयित्वा तु सबलं रावणं बलात् ॥ ४३.३७ ॥ निर्जित्य बद्ध्वा चानीय माहिष्मत्यां बबन्ध च । ततो गत्वा पुलस्त्यस्तु ह्यर्जुनं संप्रसादयन् ॥ ४३.३८ ॥ मुमोच रक्षः पौलस्त्यं पुलस्त्येनेह सान्त्वितम् । तस्य बाहुसहस्रेण बभूव ज्यातलस्वनः ॥ ४३.३९ ॥ युगान्ताभ्रसहस्रस्य आस्फोटस्त्वशनेरिव । अहो बत विधेर्वीर्यं भार्गवोऽयं यदाछिनत् ॥ ४३.४० ॥ तद्वै सहस्रं बाहूनां हेमतालवनं यथा । यत्रापवस्तु संक्रुद्धो ह्यर्जुनं शप्तवान्प्रभुः ॥ ४३.४१ ॥ यस्माद्वनं प्रदग्धं वै विश्रुतं मम हैहय । तस्मात्ते दुष्करं कर्म कृतमन्यो हरिष्यति ॥ ४३.४२ ॥ छित्त्वा बाहुसहस्रं ते प्रथमं तरसा बली । तपस्वी ब्राह्मणश्च त्वां स वधिष्यति भार्गव ॥ ४३.४३ ॥ *सूत उवाच तस्य रामस्तदा त्वासीन्मृत्युः शापेन धीमतः । वरश्चैव तु राजर्षेः स्वयमेव वृतः पुरा ॥ ४३.४४ ॥ तस्य पुत्रशतं त्वासीत्पञ्च तत्र महारथाः । कृतास्त्रा बलिनः शूरा धर्मात्मानो महाबलाः ॥ ४३.४५ ॥ शूरसेनश्च शूरश्च धृष्टः क्रोष्टुस्तथैव च । जयध्वजश्च वैकर्ता अवन्तिश्च विशांपते ॥ ४३.४६ ॥ जयध्वजस्य पुत्रस्तु तालजङ्घो महाबलः । तस्य पुत्रशतान्येव तालजङ्घा इति श्रुताः ॥ ४३.४७ ॥ तेषां पञ्च कुलाः ख्याता हैहयानां महात्मनाम् । वीतिहोत्राश्च शार्यातो भोजाश्चावन्तयस्तथा ॥ ४३.४८ ॥ कुण्डिकेराश्च विक्रान्तास्तालजङ्घास्तथैव च । वीतिहोत्रसुतश्चापि आनर्तो नाम वीर्यवान् । दुर्जेयस्तस्य पुत्रस्तु बभूव मित्रकर्शनः ॥ ४३.४९ ॥ सद्भावेन महाराज प्रजा धर्मेण पालयन् । कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् ॥ ४३.५० ॥ येन सागरपर्यन्ता धनुषा निर्जिता मही । यस्तस्य कीर्तयेन्नाम कल्यमुत्थाय मानवः ॥ ४३.५१ ॥ न तस्य वित्तनाशः स्यान्नष्टं च लभते पुनः । कार्तवीर्यस्य यो जन्म कथयेदिह धीमतः । यथावत्स्विष्टपूतात्मा स्वर्गलोके महीयते ॥ ४३.५२ ॥ ______________________________________________________ मत्स्यपुराण ४४ *ऋषय ऊचुः किमर्थं तद्वनं दग्धमापवस्य महात्मनः । कार्तवीर्येण विक्रम्य सूत प्रब्रूहि तत्त्वतः ॥ ४४.१ ॥ रक्षिता स तु राजर्षिः प्रजानामिति नः श्रुतम् । स कथं रक्षिता भूत्वा अदहत्तत्तपोवनम् ॥ ४४.२ ॥ *सूत उवाच आदित्यो द्विजरूपेण कार्तवीर्यमुपस्थितः । तृप्तिमेकां प्रयच्छस्व आदित्योऽहं नरेश्वर ॥ ४४.३ ॥ *राजोवाच भगवन्केन तृप्तिस्ते भवत्येव दिवाकर । कीदृशं भोजनं दद्मि हुत्वा तु विदधाम्यहम् ॥ ४४.४ ॥ *आदित्य उवाच स्थावरं देहि मे सर्वमाहारं ददतां वर । तेन तृप्तो भवेयं वै सा मे तृप्तिर्हि पार्थिव ॥ ४४.५ ॥ *कार्तवीर्य उवाच न शक्याः स्थावराः सर्वे तेजसा च बलेन च । निर्दग्धुं तपतां श्रेष्ठ तेन त्वां प्रणमाम्यहम् ॥ ४४.६ ॥ *आदित्य उवाच तुष्टस्तेऽहं शरान्दद्मि अक्षयान्सर्वतोमुखान् । ये प्रक्षिप्ता ज्वलिष्यन्ति मम तेजःसमन्विताः ॥ ४४.७ ॥ आविष्टा मम तेजोभिः शोषयिष्यन्ति स्थावरान् । शुष्कान् भस्मीकरिष्यन्ति तेन तृप्तिर्नराधिप ॥ ४४.८ ॥ *सूत उवाच ततः शरांस्तदादित्यस्त्वर्जुनाय प्रयच्छत । ततो ददाह सम्प्राप्तान् स्थावरान् सर्वमेव च ॥ ४४.९ ॥ ग्रामांस्तथाश्रमांश्चैव घोषाणि नगराणि च । तपोवनानि रम्याणि वनान्युपवनानि च ॥ ४४.१० ॥ एवं प्राचीमन्वदहत्ततः सर्वां स दक्षिणाम् । निर्वृक्षा निस्तृणा भूमिर्हता घोरेण तेजसा ॥ ४४.११ ॥ एतस्मिन्नेव काले तु आपवो जलमास्थितः । दश वर्षसहस्राणि तत्रास्ते स महानृषिः ॥ ४४.१२ ॥ पूर्णे व्रते महातेजा उदतिष्ठंस्तपोधनः । सोऽपश्यदाश्रमं दग्धमर्जुनेन महामुनिः ॥ ४४.१३ ॥ क्रोधाच्छशाप राजर्षिं कीर्तितं वो यथा मया । क्रोष्टोः शृणुत राजर्षेर्वंशमुत्तमपौरुषम् ॥ ४४.१४ ॥ यस्यान्ववाये सम्भूतो विष्णुर्वृष्णिकुलोद्वहः । क्रोष्टोरेवाभवत्पुत्रो वृजिनीवान्महारथः ॥ ४४.१५ ॥ वृजिनीवतश्च पुत्रोऽभूत्स्वाहो नाम महाबलः । स्वाहपुत्रोऽभवद्राजन् रुषङ्गुर्वदतां वरः ॥ ४४.१६ ॥ स तु प्रसूतिमिच्छन् वै रुषङ्गुः सौम्यमात्मजम् । चित्रश्चित्ररथश्चास्य पुत्रः कर्मभिरन्वितः ॥ ४४.१७ ॥ अथ चैत्ररथिवीरो जज्ञे विपुलदक्षिणः । शशबिन्दुरिति ख्यातश्चक्रवर्ती बभूव ह ॥ ४४.१८ ॥ अत्रानुवंशश्लोकोऽयं गीतस्तस्मिन्पुराभवत् । शशबिन्दोस्तु पुत्राणां शतानामभवच्छतम् ॥ ४४.१९ ॥ धीमतां चाभिरूपाणां भूरिद्रविणतेजसाम् । तेषां शतप्रधानानां पृथुसाह्वा महाबलाः ॥ ४४.२० ॥ पृथुश्रवाः पृथुयशाः पृथुधर्मा पृथुंजयः । पृथुकीर्तिः पृथुमना राजानः शशबिन्दवः ॥ ४४.२१ ॥ शंसन्ति च पुराणज्ञाः पृथुश्रवसमुत्तमम् । अन्तरस्य सुयज्ञस्य सुयज्ञस्तनयोऽभवत् ॥ ४४.२२ ॥ उशना तु सुयज्ञस्य यो रक्षन्पृथिवीमिमाम् । आजहाराश्वमेधानां शतमुत्तमधार्मिकः ॥ ४४.२३ ॥ तितिक्षुरभवत्पुत्र औशनः शत्रुतापनः । मरुत्तस्तस्य तनयो राजर्षीणामनुत्तमः ॥ ४४.२४ ॥ आसीन्मरुत्ततनयौ वीरः कम्बलबर्हिषः । पुत्रस्तु रुक्मकवचो विद्वान्कम्बलबर्हिषः ॥ ४४.२५ ॥ निहत्य रुक्मकवचः परान्कवचधारिणः । धन्विनो विविधैर्बाणैरवाप्य पृथिवीमिमाम् ॥ ४४.२६ ॥ अश्वमेधे ददौ राजा ब्राह्मणेभ्यस्तु दक्षिणाम् । यज्ञे तु रुक्मकवचः कदाचित्परवीरहा ॥ ४४.२७ ॥ जज्ञिरे पञ्च पुत्रास्तु महावीर्या धनुर्भृतः । रुक्मेषुः पृथुरुक्मश्च ज्यामघः परिघो हरिः ॥ ४४.२८ ॥ परिघं च हरिं चैव विदेहेऽस्थापयत्पिता । रुक्मेषुरभवद्राजा पृथुरुक्मस्तदाश्रयः ॥ ४४.२९ ॥ तेभ्यः प्रव्राजितो राज्याज्ज्यामघस्तु तदाश्रमे । प्रशान्तश्चाश्रमस्थश्च ब्राह्मणेनावबोधितः ॥ ४४.३० ॥ जगाम धनुरादाय देशमन्यं ध्वजी रथी । नर्मदां नृप एकाकी केवलं वृत्तिकामतः ॥ ४४.३१ ॥ ऋक्षवन्तं गिरिं गत्वा भुक्तमन्यैरुपाविशत् । ज्यामघस्याभवद्भार्या चैत्रा परिणता सती ॥ ४४.३२ ॥ अपुत्रो न्यवसद्राजा भार्यामन्यां न विन्दत । तस्यासीद्विजयो युद्धे तत्र कन्यामवाप्य सः ॥ ४४.३३ ॥ भार्यामुवाच संत्रासात्स्नुषेयं ते शुचिस्मिते । एवमुक्ताब्रवीदेनं कस्य चेयं स्नुषेति च ॥ ४४.३४ ॥ *राजोवाच यस्ते जनिष्यते पुत्रस्तस्य भार्या भविष्यति । तस्मात्सा तपसोग्रेण कन्यायाः सम्प्रसूयत ॥ ४४.३५ ॥ पुत्रं विदर्भं सुभगा चैत्रा परिणता सती । राजपुत्र्यां च विद्वान्स स्नुषायां क्रथकैशिकौ । लोमपादं तृतीयं तु पुत्रं परमधार्मिकम् ॥ ४४.३६ ॥ तस्यां विदर्भोऽजनयच्छरान्रणविशारदान् । लोमपादान्मनुः पुत्रा ज्ञातिस्तस्य तु चात्मजः ॥ ४४.३७ ॥ कैशिकस्य चिदिः पुत्रस्तस्माच्चैद्या नृपाः स्मृताः । क्रथो विदर्भपुत्रस्तु कुन्तिस्तस्यात्मजोऽभवत् ॥ ४४.३८ ॥ कुन्तेर्धृष्टः सुतो जज्ञे रणधृष्टः प्रतापवान् । धृष्टस्य पुत्रो धर्मात्मा निर्वृतिः परवीरहा ॥ ४४.३९ ॥ तदेको निर्वृतेः पुत्रो नाम्ना स तु विदूरथः । दशार्हस्तस्य वै पुत्रो व्योमस्तस्य च वै स्मृतः । दाशार्हाच्चैव व्योमात्तु पुत्रो जीमूत उच्यते ॥ ४४.४० ॥ जीमूतपुत्रो विमलस्तस्य भीमरथः सुतः । सुतो भीमरथस्यासीत्स्मृतो नवरथः किल ॥ ४४.४१ ॥ तस्य चासीद्दृढरथः शकुनिस्तस्य चात्मजः । तस्मात्करम्भः कारम्भिर्देवरातो बभूव ह ॥ ४४.४२ ॥ देवक्षत्रोऽभवद्राजा दैवरातिर्महायशाः । देवगर्भसमो जज्ञे देवनक्षत्रनन्दनः ॥ ४४.४३ ॥ मधुर्नाम महातेजा मधोः पुरवसस्तथा । आसीत्पुरवसात्पुत्रः पुरुद्वान्पुरुषोत्तमः ॥ ४४.४४ ॥ जन्तुर्जज्ञेऽथ वैदर्भ्यां भद्रसेन्यां पुरुद्वतः । ऐक्ष्वाकी चाभवद्भार्या जन्तोस्तस्यामजायत ॥ ४४.४५ ॥ सात्वतः सत्त्वसंयुक्तः सात्वतां कीर्तिवर्धनः । इमां विसृष्टिं विज्ञाय ज्यामघस्य महात्मनः । प्रजावानेति सायुज्यं राज्ञः सोमस्य धीमतः ॥ ४४.४६ ॥ सात्वतान् सत्त्वसम्पन्नान् कौशल्या सुषुवे सुतान् । भजिनं भजमानं तु दिव्यं देवावृधं नृप ॥ ४४.४७ ॥ अन्धकं च महाभोजं वृष्णिं च यदुनन्दनम् । तेषां तु सर्गाश्चत्वारो विस्तरेणैव तच्छृणु ॥ ४४.४८ ॥ भजमानस्य सृञ्जय्यां बाह्यकायां च बाह्यकाः । सृञ्जयस्य सुते द्वे तु बाह्यकास्तु तदाभवन् ॥ ४४.४९ ॥ तस्य भार्ये भगिन्यौ द्वे सुषुवाते बहून्सुतान् । निमिं च कृमिलं चैव वृष्णिं परपुरंजयम् । ते बाह्यकायां सृञ्जय्यां भजमानाद्विजज्ञिरे ॥ ४४.५० ॥ यज्ञे देवावृधो राजा बन्धूनां मित्रवर्धनः । अपुत्रस्त्वभवद्राजा चचार परमं तपः । पुत्रः सर्वगुणोपेतो मम भूयादिति स्पृहन् ॥ ४४.५१ ॥ संयोज्य मन्त्रमेवाथ पर्णाशाजलमस्पृशत् । तदोपस्पर्शनात्तस्य चकार प्रियमापगा ॥ ४४.५२ ॥ कल्याणत्वान्नरपतेस्तस्मै सा निम्नगोत्तमा । चिन्तयाथ परीतात्मा जगामाथ विनिश्चयम् ॥ ४४.५३ ॥ नाधिगच्छाम्यहं नारीं यस्यामेवंविधः सुतः । जायेत तस्मादद्याहं भवाम्यथ सहस्रशः ॥ ४४.५४ ॥ अथ भूत्वा कुमारी सा बिभ्रती परमं वपुः । ज्ञापयामास राजानं तामियेष महाव्रतः ॥ ४४.५५ ॥ अथ सा नवमे मासि सुषुवे सरितां वरा । पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधान्नृपात् ॥ ४४.५६ ॥ अनुवंशे पुराणज्ञा गायन्तीति परिश्रुतम् । गुणान्देवावृधस्यापि कीर्तयन्तो महात्मनः ॥ ४४.५७ ॥ यथैव शृणुमो दूरादपश्यामस्तथान्तिकात् । बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृधः समः ॥ ४४.५८ ॥ षष्टिश्च पूर्वपुरुषाः सहस्राणि च सप्ततिः । एतेऽमृतत्वं सम्प्राप्ता बभ्रोर्देवावृधान्नृप ॥ ४४.५९ ॥ यज्वा दानपतिर्वीरो ब्रह्मण्यश्च दृढव्रतः । रूपवान्सुमहातेजाः श्रुतवीर्यधरस्तथा ॥ ४४.६० ॥ अथ कङ्कस्य दुहिता सुषुवे चतुरः सुतान् । कुकुरं भजमानं च शशिं कम्बलबर्हिषम् ॥ ४४.६१ ॥ कुकुरस्य सुतो वृष्णिर्वृष्णेस्तु तनयो धृतिः । कपोतरोमा तस्याथ तैत्तिरिस्तस्य चात्मजः ॥ ४४.६२ ॥ तस्यासीत्तनुजः सर्पो विद्वान्पुत्रो नलः किल । ख्यायते तस्य नाम्ना स नन्दनो दरदुन्दुभिः ॥ ४४.६३ ॥ तस्मिन्प्रवितते यज्ञे अभिजातः पुनर्वसुः । अश्वमेधं च पुत्रार्थमाजहार नरोत्तमः ॥ ४४.६४ ॥ तस्य मध्येऽतिरात्रस्य सभामध्यात्समुत्थितः । अतस्तु विद्वान्कर्मज्ञो यज्वा दाता पुनर्वसुः ॥ ४४.६५ ॥ तस्यासीत्पुत्रमिथुनं बभूवाविजितं किल । आहुकश्चाहुकी चैव ख्यातं मातेमतां वर ॥ ४४.६६ ॥ इमांश्चोदाहरन्त्यत्र श्लोकान्प्रति तमाहुकम् । सोपासङ्गानुकर्षाणां सध्वजानां वरूथिनाम् ॥ ४४.६७ ॥ रथानां मेघघोषाणां सहस्राणि दशैव तु । नासत्यवादी नातेजा नायज्वा नासहस्रदः ॥ ४४.६८ ॥ नाशुचिर्नाप्यविद्वान् हि यो भोजेष्वभ्यजायत । आहुकस्य भृतिं प्राप्ता इत्येतद्वै तदुच्यते ॥ ४४.६९ ॥ आहुकश्चाप्यवन्तीषु स्वसारं चाहुकीं ददौ । आहुकात्काश्यदुहिता द्वौ पुत्रौ समसूयत ॥ ४४.७० ॥ देवकश्चोग्रसेनश्च देवगर्भसमावुभौ । देवकस्य सुता वीरा जज्ञिरे त्रिदशोपमाः ॥ ४४.७१ ॥ देववानुपदेवश्च सुदेवो देवरक्षितः । तेषां स्वसारः सप्तासन् वसुदेवाय ता ददौ ॥ ४४.७२ ॥ देवकी श्रुतदेवी च मित्रदेवी यशोधरा । श्रीदेवी सत्यदेवी च सुतापी चेति सप्तमी ॥ ४४.७३ ॥ नवोग्रसेनस्य सुताः कंसस्तेषां तु पूर्वजः । न्यग्रोधश्च सुनामा च कङ्कः शङ्कुश्च भूयसः ॥ ४४.७४ ॥ अजभू राष्ट्रपालश्च युद्धमुष्टिः सुमुष्टिदः । तेषां स्वसारः पञ्चासन् कंसा कंसवती तथा ॥ ४४.७५ ॥ सुतन्तू राष्ट्रपाली च कङ्का चेति वराङ्गनाः । उग्रसेनः सहापत्यो व्याख्यातः कुकुरोद्भवः ॥ ४४.७६ ॥ भजमानस्य पुत्रोऽथ रथिमुख्यो विदूरथः । राजाधिदेवः शूरश्च विदूरथसुतोऽभवत् ॥ ४४.७७ ॥ राजाधिदेवस्य सुतौ जज्ञाते देवसंमितौ । नियमव्रतप्रधानौ शोणाश्वः श्वेतवाहनः ॥ ४४.७८ ॥ शोणाश्वस्य सुताः पञ्च शूरा रणविशारदाः । शमी च देवशर्मा च निकुन्तः शक्रशत्रुजित् ॥ ४४.७९ ॥ शमिपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः । प्रतिक्षेत्रः सुतो भोजो हृदीकस्तस्य चात्मजः ॥ ४४.८० ॥ हृदीकस्याभवन्पुत्रा दश भीमपराक्रमाः । कृतवर्माग्रजस्तेषां शतधन्वा च मध्यमः ॥ ४४.८१ ॥ देवार्हश्चैव नाभश्च भीषणश्च महाबलः । अजातो वनजातश्च कनीयककरम्भकौ ॥ ४४.८२ ॥ देवार्हस्य सुतो विद्वाञ्जज्ञे कम्बलबर्हिषः । असामञ्जाः सुतस्तस्य तमोजातस्य चात्मजः ॥ ४४.८३ ॥ अजातपुत्रा विक्रान्तास्त्रयः परमकीर्तयः । सुदंष्ट्रश्च सुनाभश्च कृष्ण इत्यन्धका मताः ॥ ४४.८४ ॥ अन्धकानामिमं वंशं यः कीर्तयति नित्यशः । आत्मनो विपुलं वंशं प्रजावानाप्नुते नरः ॥ ४४.८५ ॥ ______________________________________________________ मत्स्यपुराण ४५ *सूत उवाच गान्धारी चैव माद्री च वृष्णिभार्ये बभूवतुः । गान्धारी जनयामास सुमित्रं मित्रनन्दनम् ॥ ४५.१ ॥ माद्री युधाजितं पुत्रं ततो वै देवमीढुषम् । अनमित्रं शिबिं चैव पञ्चमं कृतलक्षणम् ॥ ४५.२ ॥ अनमित्रसुतो निघ्नो निघ्नस्यापि तु द्वौ सुतौ । प्रसेनश्च महावीर्यः शक्तिसेनश्च तावुभौ ॥ ४५.३ ॥ स्यमन्तकः प्रसेनस्य मणिरत्नमनुत्तमम् । पृथिव्यां सर्वरत्नानां राजा वै सोऽभवन्मणिः ॥ ४५.४ ॥ हृदि कृत्वा तु बहुशो मणिं तमभियाचितः । गोविन्दोऽपि न तं लेभे शक्तोऽपि न जहार सः ॥ ४५.५ ॥ कदाचिन्मृगयां यातः प्रसेनस्तेन भूषितः । यथाशब्दं स शुश्राव बिले सत्त्वेन पूरिते ॥ ४५.६ ॥ ततः प्रविश्य स बिलं प्रसेनो ह्यृक्षमैक्षत । ऋक्षः प्रसेनं च तथा ऋक्षं चैव प्रसेनजित् ॥ ४५.७ ॥ हत्वा ऋक्षः प्रसेनं तु ततस्तं मणिमाददात् । अदृष्टस्तु हतस्तेन अन्तर्बिलगतस्तदा ॥ ४५.८ ॥ प्रसेनं तु हतं ज्ञात्वा गोविन्दः परिशङ्कितः । गोविन्देन हतो व्यक्तं प्रसेनो मणिकारणात् ॥ ४५.९ ॥ प्रसेनस्तु गतोऽरण्यं मणिरत्नेन भूषितः । तं दृष्ट्वा स हतस्तेन गोविन्दः प्रत्युवाच ह । हन्मि चैनं दुराचारं शत्रुभूतं हि वृष्णिषु ॥ ४५.१० ॥ अथ दीर्घेण कालेन मृगयां निर्गतः पुनः । यदृच्छया च गोविन्दो बिलस्याभ्याशमागमत् ॥ ४५.११ ॥ तं दृष्ट्वा तु महाशब्दं स चक्रे ऋक्षराड्बली । शब्दं श्रुत्वा तु गोविन्दः खड्गपाणिः प्रविश्य सः । अपश्यज्जाम्बवन्तं तमृक्षराजं महाबलम् ॥ ४५.१२ ॥ ततस्तूर्णं हृषीकेशस्तमृक्षपतिमञ्जसा । जाम्बवन्तं स जग्राह क्रोधसंरक्तलोचनः ॥ ४५.१३ ॥ तुष्टावैनं तदा ऋक्षः कर्मभिर्वैष्णवैः प्रभुम् । ततस्तुष्टस्तु भगवान् वरेणैनमरोचयत् ॥ ४५.१४ ॥ *जाम्बवानुवाच इच्छे चक्रप्रहारेण त्वत्तोऽहं मरणं प्रभो । कन्या चेयं मम शुभा भर्तारं त्वामवाप्नुयात् । योऽयं मणिः प्रसेनं तु हत्वा प्राप्तो मया प्रभो ॥ ४५.१५ ॥ ततः स जाम्बवन्तं तं हत्वा चक्रेण वै प्रभुः । कृतकर्मा महाबाहुः सकन्यं मणिमाहरत् ॥ ४५.१६ ॥ ददौ सत्राजितायैनं सर्वसात्वतसंसदि । तेन मिथ्यापवादेन संतप्तोऽयं जनार्दनः ॥ ४५.१७ ॥ ततस्ते यादवाः सर्वे वासुदेवमथाब्रुवन् । अस्माकं तु मतिर्ह्यासीत्प्रसेनस्तु त्वया हतः ॥ ४५.१८ ॥ कैकेयस्य सुता भार्या दश सत्राजितः शुभाः । तासूत्पन्नाः सुतास्तस्य शतमेकं तु विश्रुताः । ख्यातिमन्तो महावीर्या भङ्गकारस्तु पूर्वजः ॥ ४५.१९ ॥ अथ व्रतवती तस्माद्भङ्गकारात्तु पूर्वजात् । सुषुवे सुकुमारीस्तु तिस्रः कमललोचनाः ॥ ४५.२० ॥ सत्यभामा वरा स्त्रीणां व्रतिनी च दृढव्रता । तथा पद्मावती चैव ताश्च कृष्णाय सोऽददात् ॥ ४५.२१ ॥ अनमित्राच्छिनिर्जज्ञे कनिष्ठाद्वृष्णिनन्दनात् । सत्यकस्तस्य पुत्रस्तु सात्यकिस्तस्य चात्मजः ॥ ४५.२२ ॥ सत्यवान्युयुधानस्तु शिनेर्नप्ता प्रतापवान् । असङ्गो युयुधानस्य द्युम्निस्तस्यात्मजोऽभवत् ॥ ४५.२३ ॥ द्युम्नेर्युगंधरः पुत्र इति शैन्याः प्रकीर्तिताः । अनमित्रान्वयो ह्येष व्याख्यातो वृष्णिवंशजः ॥ ४५.२४ ॥ अनमित्रस्य संजज्ञे पृथ्व्यां वीरो युधाजितः । अन्यौ तु तनयौ वीरौ वृषभः क्षत्र एव च ॥ ४५.२५ ॥ वृषभः काशिराजस्य सुतां भार्यामविन्दत । जयन्तस्तु जयन्त्यां तु पुत्रः समभवच्छुभः ॥ ४५.२६ ॥ सदायज्ञोऽतिवीरश्च श्रुतवानतिथिप्रियः । अक्रूरः सुषुवे तस्मात्सदायज्ञोऽतिदक्षिणः ॥ ४५.२७ ॥ रत्ना कन्या च शैब्यस्य अक्रूरस्तामवाप्तवान् । पुत्रानुत्पादयामास एकादश महाबलान् ॥ ४५.२८ ॥ उपलम्भः सदालम्भो वृकलो वीर्य एव च । सवीतरः सदापक्षः शत्रुघ्नो वारिमेजयः ॥ ४५.२९ ॥ धर्मभृद्धर्मवर्माणौ धृष्टमानस्तथैव च । सर्वे च प्रतिहोतारो रत्नायां जज्ञिरे च ते ॥ ४५.३० ॥ अक्रूरादुग्रसेनायां सुतौ द्वौ कुलवर्धनौ । देववानुपदेवश्च जज्ञाते देवसंनिभौ ॥ ४५.३१ ॥ अश्विन्यां च ततः पुत्राः पृथुर्विपृथुरेव च । अश्वत्थामा सुबाहुश्च सुपार्श्वकगवेषणौ ॥ ४५.३२ ॥ वृष्टिनेमिः सुधर्मा च तथा शर्यातिरेव च । अभूमिर्वर्जभूमिश्च श्रमिष्ठः श्रवणस्तथा ॥ ४५.३३ ॥ इमां मिथ्याभिशस्तिं यो वेद कृष्णादपोहिताम् । न स मिथ्याभिशापेन अभिशाप्योऽथ केनचित् ॥ ४५.३४ ॥ ______________________________________________________ मत्स्यपुराण ४६ *सूत उवाच ऐक्ष्वाकी सुषुवे शूरं ख्यातमद्भुतमीढुषम् । पौरुषाज्जज्ञिरे शूराद्भोजायां पुत्रका दश ॥ ४६.१ ॥ वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः । देवमार्गस्ततो जज्ञे ततो देवश्रवाः पुनः ॥ ४६.२ ॥ अनाधृष्टिः शिनिश्चैव नन्दश्चैव ससृञ्जयः । श्यामः शमीकः संयूपः पञ्च चास्य वराङ्गनाः ॥ ४६.३ ॥ श्रुतकीर्तिः पृथा चैव श्रुतादेवी श्रुतश्रवाः । राजाधिदेवी च तथा पञ्चैता वीरमातरः ॥ ४६.४ ॥ कृतस्य तु श्रुतादेवी सुग्रीवं सुषुवे सुतम् । कैकेय्यां श्रुतकीर्त्यां तु जज्ञे सोऽनुव्रतो नृपः ॥ ४६.५ ॥ श्रुतश्रवसि चैद्यस्य सुनीथः समपद्यत । बहुशो धर्मचारी स संबभूवारिमर्दनः ॥ ४६.६ ॥ अथ सख्येन वृद्धेऽसौ कुन्तिभोजे सुतां ददौ । एवं कुन्ती समाख्याता वसुदेवस्वसा पृथा ॥ ४६.७ ॥ वसुदेवेन सा दत्ता पाण्डोर्भार्या ह्यनिन्दिता । पाण्डोरर्थेन सा जज्ञे देवपुत्रान्महारथान् ॥ ४६.८ ॥ धर्माद्युधिष्ठिरो जज्ञे वायोर्जज्ञे वृकादेरः । इन्द्राद्धनंजयश्चैव शक्रतुल्यपराक्रमः ॥ ४६.९ ॥ माद्रवत्यां तु जनितावश्विभ्याभिति शुश्रुम । नकुलः सहदेवश्च रूपशीलगुणान्वितौ ॥ ४६.१० ॥ रोहिणी पौरवी नाम भार्या ह्यानकदुन्दुभेः । लेभे ज्येष्ठं सुतं रामं सारणं च सुतं प्रियम् ॥ ४६.११ ॥ दुर्दमं दमनं सुभ्रुं पिण्डारकमहाहनू । चित्राक्ष्यौ द्वे कुमार्यौ तु रोहिण्यां जज्ञिरे तदा ॥ ४६.१२ ॥ देवक्यां जज्ञिरे शौरेः सुषेणः कीर्तिमानपि । उदासी भद्रसेनश्च ऋषिवासस्तथैव च । षष्ठो भद्रविदेहश्च कंसः सर्वानघातयत् ॥ ४६.१३ ॥ प्रथमा या अमावास्या वार्षिकी तु भविष्यति । तस्यां जज्ञे महाबाहुः पूर्वं कृष्णः प्रजापतिः ॥ ४६.१४ ॥ अनुजा त्वभवत्कृष्णा सुभद्रा भद्रभाषिणी । देवक्यां तु महातेजा जज्ञे शूरो महायशाः ॥ ४६.१५ ॥ सहदेवस्तु ताम्रायां जज्ञे शौरिः कुलोद्वहः । उपासङ्गधरं लेभे तनयं देवरक्षिता । एकां कन्यां च सुभगां कंसस्तामभ्यघातयत् ॥ ४६.१६ ॥ विजयं रोचमानं च वर्धमानं तु देवलम् । एते सर्वे महात्मानो ह्युपदेव्यां प्रजज्ञिरे ॥ ४६.१७ ॥ अवगाहो महात्मा च वृकदेव्यामजायत । वृकदेव्यां स्वयं जज्ञे नन्दको नाम नामतः ॥ ४६.१८ ॥ सप्तमं देवकीपुत्रं मदनं सुषुवे नृप । गवेषणं महाभागं संग्रामेष्वपराजितम् ॥ ४६.१९ ॥ श्रद्धादेव्या विहारे तु वने हि विचरन्पुरा । वैश्यायामदधाच्छौरिः पुत्रं कौशिकमग्रजम् ॥ ४६.२० ॥ सुतनू रथराजी च शौरेरास्तां परिग्रहौ । पुण्ड्रश्च कपिलश्चैव वसुदेवात्मजौ बलौ ॥ ४६.२१ ॥ जरा नाम निषादोऽभूत्प्रथमः स धनुर्धरः । सौभद्रश्च भवश्चैव महासत्त्वौ बभूवतुः ॥ ४६.२२ ॥ देवभागसुतश्चापि नाम्नासावुद्धवः स्मृतः । पण्डितं प्रथमं प्राहुर्देवश्रवःसमुद्भवम् ॥ ४६.२३ ॥ ऐक्ष्वाक्यलभतापत्यमनाधृष्टेर्यशस्विनी । निधूतसत्त्वं शत्रुघ्नं श्राद्धस्तस्मादजायत ॥ ४६.२४ ॥ करूषायानपत्याय कृष्णस्तुष्टः सुतं ददौ । सुचन्द्रं तु महाभागं वीर्यवन्तं महाबलम् ॥ ४६.२५ ॥ जाम्बवत्याः सुतावेतौ द्वौ च सत्कृतलक्षणौ । चारुदेष्णश्च साम्बश्च वीर्यवन्तौ महाबलौ ॥ ४६.२६ ॥ तन्तिपालश्च तन्तिश्च नन्दनस्य सुतावुभौ । शमीकपुत्राश्चत्वारो विक्रान्ताः सुमहाबलाः । विराजश्च धनुश्चैव श्यामश्च सृञ्जयस्तथा ॥ ४६.२७ ॥ अनपत्योऽभवच्छ्यामः शमीकस्तु वनं ययौ । जुगुप्समानो भोजत्वं राजर्षित्वमवाप्तवान् ॥ ४६.२८ ॥ कृष्णस्य जन्माभ्युदयं यः कीर्तयति नित्यशः । शृणोति मानवो नित्यं सर्वपापैः प्रमुच्यते ॥ ४६.२९ ॥ ______________________________________________________ मत्स्यपुराण ४७ *सूत उवाच अथ देवो महादेवः पूर्वं कृष्णः प्रजापतिः । विहारार्थं स देवेशो मानुषेष्विह जयते ॥ ४७.१ ॥ देवक्यां वसुदेवस्य तपसा पुष्करेक्षणः । चतुर्बाहुस्तदा जातो दिव्यरूपो ज्वलञ्श्रिया ॥ ४७.२ ॥ श्रीवत्सलक्षणं देवं दृष्ट्वा दिव्यैश्च लक्षणैः । उवाच वसुदेवस्तं रूपं संहर वै प्रभो ॥ ४७.३ ॥ भीतोऽहं देव कंसस्य ततस्त्वेतद्ब्रवीमि ते । मम पुत्रा हतास्तेन ज्येष्ठास्ते भीमविक्रमाः ॥ ४७.४ ॥ वसुदेववचः श्रुत्वा रूपं संहरतेऽच्युतः । अनुज्ञाप्य ततः शौरिं नन्दगोपगृहेऽनयत् ॥ ४७.५ ॥ दत्त्वैनं नन्दगोपस्य रक्ष्यतामिति चाब्रवीत् । अतस्तु सर्वकल्याणं यादवानां भविष्यति । अयं तु गर्भो देवक्यां जातः कंसं हनिष्यति ॥ ४७.६ ॥ *ऋषय ऊचुः क एष वसुदेवस्तु देवकी च यशस्विनी । नन्दगोपश्च कस्त्वेष यशोदा च महाव्रता ॥ ४७.७ ॥ यो विष्णुं जनयामास यं च तातेत्यभाषत । या गर्भं जनयामास या चैनं त्वभ्यवर्धयत् ॥ ४७.८ ॥ *सूत उवाच पुरुषः कश्यपस्त्वासीददितिस्तु प्रिया स्मृता । ब्रह्मणः कश्यपस्त्वंशः पृथिव्यास्त्वदितिस्तथा ॥ ४७.९ ॥ अथ कामान्महाबाहुर्देवक्याः समपूरयत् । ये तया काङ्क्षिता नित्यमजातस्य महात्मनः ॥ ४७.१० ॥ सोऽवतीर्णो महीं देवः प्रविष्टो मानुषीं तनुम् । मोहयन्सर्वभूतानि योगात्मा योगमायया ॥ ४७.११ ॥ नष्टे धर्मे तथा जज्ञे विष्णुर्वृष्णिकुले प्रभुः । कर्तुं धर्मस्य संस्थानमसुराणां प्रणाशनम् ॥ ४७.१२ ॥ रुक्मिणी सत्यभामा च सत्या नाग्नजिती तथा । सुभामा च तथा शैब्या गान्धारी लक्ष्मणा तथा ॥ ४७.१३ ॥ मित्रविन्दा च कालिन्दी देवी जाम्बवती तथा । सुशीला च तथा माद्री कौशल्या विजया तथा । एवमादीनि देवीनां सहस्राणि च षोडश ॥ ४७.१४ ॥ रुक्मिणी जनयामास पुत्रान्रणविशारदान् । चारुदेष्णं रणे शूरं प्रद्युम्नं च महाबलम् ॥ ४७.१५ ॥ सुचारुं भद्रचारुं च सुदेष्णं भद्रमेव च । परशुं चारुगुप्तं च चारुभद्रं सुचारुकम् । चारुहासं कनिष्ठं च कन्यां चारुमतीं तथा ॥ ४७.१६ ॥ जज्ञिरे सत्यभामायां भानुर्भ्रमरतेक्षणः । रोहितो दीप्तिमांश्चैव ताम्रश्चक्रो जलंधमः ॥ ४७.१७ ॥ चतस्रो जज्ञिरे तेषां स्वसारस्तु यवीयसीः । जाम्बवत्याः सुतो जज्ञे साम्बः समितिशोभनः ॥ ४७.१८ ॥ मित्रवान्मित्रविन्दश्च मित्रविन्दा वराङ्गना । मित्रबाहुः सुनीथश्च नाग्नजित्याः प्रजा हि सा ॥ ४७.१९ ॥ एवमादीनि पुत्राणां सहस्राणि निबोधत । शतं शतसहस्राणां पुत्राणां तस्य धीमतः ॥ ४७.२० ॥ अशीतिश्च सहस्राणि वासुदेवसुतास्तथा । लक्षमेकं तथा प्रोक्तं पुत्राणां च द्विजोत्तमाः ॥ ४७.२१ ॥ उपसङ्गस्य तु सुतौ वज्रः संक्षिप्त एव च । भूरीन्द्रसेनो भूरिश्च गवेषणसुतावुभौ ॥ ४७.२२ ॥ प्रद्युम्नस्य तु दायादो वैदर्भ्यां बुद्धिसत्तमः । अनिरुद्धो रणेऽरुद्धो जज्ञेऽस्य मृगकेतनः ॥ ४७.२३ ॥ काश्या सुपार्श्वतनया साम्बाल्लेभे तरस्विनः । सत्यप्रकृतयो देवाः पञ्च वीराः प्रकीर्तिताः ॥ ४७.२४ ॥ तिस्रः कोट्यः प्रवीराणां यादवानां महात्मनाम् । षष्टिः शतसहस्राणि वीर्यवन्तो महाबलाः ॥ ४७.२५ ॥ देवांशाः सर्व एवेह ह्युत्पन्नास्ते महौजसः । देवासुरे हता ये च त्वसुरा ये महाबलाः ॥ ४७.२६ ॥ इहोत्पन्ना मनुष्येषु बाधन्ते सर्वमानवान् । तेषामुत्सादनार्थाय उत्पन्नो यादवे कुले ॥ ४७.२७ ॥ कुलानां शतमेकं च यादवानां महात्मनाम् । सर्वमेतत्कुलं यावद्वर्तते वैष्णवे कुले ॥ ४७.२८ ॥ विष्णुस्तेषां प्रणेता च प्रभुत्वे च व्यवस्थितः । निदेशस्थायिनस्तस्य कथ्यन्ते सर्वयादवाः ॥ ४७.२९ ॥ *ऋषय ऊचुः सप्तर्षयः कुबेरश्च यक्षो माणिचरस्तथा । शालकिर्नारदश्चैव सिद्धो धन्वन्तरिस्तथा ॥ ४७.३० ॥ आदिदेवस्तथा विष्णुरेभिस्तु सह दैवतः । किमर्थं संघशो भूताः स्मृताः सम्भूतयः कति ॥ ४७.३१ ॥ भविष्याः कति चैवान्ये प्रादुर्भावा महात्मनः । ब्रह्मक्षत्रेषु शान्तेषु किमर्थमिह जायते ॥ ४७.३२ ॥ यदर्थमिह सम्भूतो विष्णुर्वृष्ण्यन्धकोत्तमः । पुनः पुनर्मनुष्येषु तन्नः प्रब्रूहि पृच्छताम् ॥ ४७.३३ ॥ *सूत उवाच त्यक्त्वा दिव्यां तनुं विष्णुर्मानुषेष्विह जायते । युगे त्वथ परावृत्ते काले प्रशिथिले प्रभुः ॥ ४७.३४ ॥ देवासुरविमर्देषु जायते हरिरीश्वरः । हिरण्यकशिपौ दैत्ये त्रैलोक्यं प्राक्प्रशासति ॥ ४७.३५ ॥ बलिनाधिष्ठिते चैव पुरा लोकत्रये क्रमात् । सख्यमासीत्परमकं देवानामसुरैः सह ॥ ४७.३६ ॥ युगाख्यासुरसम्पूर्णं ह्यासीदत्याकुलं जगत् । निदेशस्थायिनश्चापि तयोर्देवासुराः समम् ॥ ४७.३७ ॥ मृधो बलिविमर्दाय सम्प्रवृद्धः सुदारुणः । देवानामसुराणां च घोरः क्षयकरो महान् ॥ ४७.३८ ॥ कर्तुं धर्मव्यवस्थानं जायते मानुषेष्विह । भृगोः शापनिमित्तं तु देवासुरकृते तदा ॥ ४७.३९ ॥ *मुनय ऊचुः कथं देवासुरकृते व्यापारं प्राप्तवान्स्वतः । देवासुरं यथा वृत्तं तन्नः प्रब्रूहि पृच्छताम् ॥ ४७.४० ॥ *सूत उवाच तेषां दायनिमित्तं ते संग्रामास्तु सुदारुणाः । वराहाद्या दश द्वौ च शण्डामर्कान्तरे स्मृताः ॥ ४७.४१ ॥ नामतस्तु समासेन शृणुतैषां विवक्षतः । प्रथमो नारसिंहस्तु द्वितीयश्चापि वामनः ॥ ४७.४२ ॥ तृतीयस्तु वराहश्च चतुर्थोऽमृतमन्थनः । संग्रामः पञ्चमश्चैव संजातस्तारकामयः ॥ ४७.४३ ॥ षष्ठो ह्याडीबकाख्यस्तु सप्तमस्त्रैपुरस्तथा । अन्धकाख्योऽष्टमस्तेषां नवमो वृत्रघातकः ॥ ४७.४४ ॥ धात्रश्च दशमश्चैव ततो हालाहलः स्मृतः । प्रथितो द्वादशस्तेषां घोरः कोलाहलस्तथा ॥ ४७.४५ ॥ हिरण्यकशिपुर्दैत्यो नारसिंहेन पातितः । वामनेन बलिर्बद्धस्त्रैलोक्याक्रमणे पुरा ॥ ४७.४६ ॥ हिरण्याक्षो हतो द्वंद्वे प्रतिघाते तु दैवतैः । दंष्ट्रया तु वराहेण समुद्रस्तु द्विधा कृतः ॥ ४७.४७ ॥ प्रह्लादो निर्जितो युद्धे इन्द्रेणामृतमन्थने । विरोचनस्तु प्राह्लादिर्नित्यमिन्द्रवधोद्यतः ॥ ४७.४८ ॥ इन्द्रेणैव तु विक्रम्य निहतस्तारकामये । अशक्नुवन्स देवानां सर्वं सोढुं सदैवतम् ॥ ४७.४९ ॥ निहता दानवाः सर्वे त्रैलोक्ये त्र्यम्बकेण तु । असुराश्च पिशाचाश्च दानवाश्चान्धकाहवे ॥ ४७.५० ॥ हता देवमनुष्ये स्वे पितृभिश्चैव सर्वशः । संपृक्तो दानवैर्वृत्रो घोरो हालाहले हतः ॥ ४७.५१ ॥ तदा विष्णुसहायेन महेन्द्रेण निवर्तितः । हतो ध्वजे महेन्द्रेण मायाच्छन्नस्तु योगवित् । ध्वजलक्षणमाविश्य विप्रचित्तिः सहानुजः ॥ ४७.५२ ॥ दैत्यांश्च दानवांश्चैव संयतान्किल संयुतान् । जयन्कोलाहले सर्वान् देवैः परिवृतो वृषा ॥ ४७.५३ ॥ यज्ञस्यावभृथे दृश्यौ शण्डामर्कौ तु दैवतैः । एते देवासुरे वृत्ताः संग्रामा द्वादशैव तु ॥ ४७.५४ ॥ देवासुरक्षयकराः प्रजानां तु हिताय वै । हिरण्यकशिपू राजा वर्षाणामर्बुदं बभौ ॥ ४७.५५ ॥ द्विसप्तति तथान्यानि नियुतान्यधिकानि च । अशीतिं च सहस्राणि त्रैलोक्यैश्वर्यतां गतः ॥ ४७.५६ ॥ पर्यायेण नु राजाभूद्बलिर्वर्षायुतं पुनः । षष्टिवर्षसहस्राणि नियुतानि च विंशतिः ॥ ४७.५७ ॥ बले राज्याधिकारस्तु यावत्कालं बभूव ह । तावत्कालं तु प्रह्लादो निवृत्तो ह्यसुरैः सह ॥ ४७.५८ ॥ इन्द्रास्त्रयस्ते विज्ञेया असुराणां महौजसः । दैत्यसंस्थमिदं सर्वमासीद्दशयुगं पुनः ॥ ४७.५९ ॥ त्रैलोक्यमिदमव्यग्रं महेन्द्रेणानुपाल्यते । असपत्नमिदं सर्वमासीद्दशयुगं पुनः ॥ ४७.६० ॥ प्रह्लादस्य हते तस्मिंस्त्रैलोक्ये कालपर्ययात् । पर्यायेण तु सम्प्राप्ते त्रैलोक्यं पाकशासने । ततोऽसुरान्परित्यज्य शुक्रो देवानगच्छत ॥ ४७.६१ ॥ यज्ञे देवानथ गतं दितिजाः काव्यमाह्वयन् । किं त्वं नो मिषतां राज्यं त्यक्त्वा यज्ञं पुनर्गतः ॥ ४७.६२ ॥ स्थातुं न शक्नुमो ह्यत्र प्रविशामो रसातलम् । एवमुक्तोऽब्रवीद्दैत्यान् विषण्णान्सान्त्वयन्गिरा ॥ ४७.६३ ॥ मा भैष्ट धारयिष्यामि तेजसा स्वेन वोऽसुराः । मन्त्राश्चौषधयश्चैव रसा वसु च यत्परम् ॥ ४७.६४ ॥ कृत्स्नानि मयि तिष्ठन्ति पादस्तेषां सुरेषु वै । तत्सर्वं वः प्रदास्यामि युष्मदर्थे धृता मया ॥ ४७.६५ ॥ ततो देवास्तु तान्दृष्ट्वा वृतान्काव्येन धीमता । संमन्त्रयन्ति देवा वै संविज्ञास्तु जिघृक्षया ॥ ४७.६६ ॥ काव्यो ह्येष इदं सर्वं व्यावर्तयति नो बलात् । साधु गच्छामहे तूर्णं यावन्नाध्यापयिष्यति ॥ ४७.६७ ॥ प्रसह्य हत्वा शिष्टांस्तु पातालं प्रापयामहे । ततो देवास्तु संरब्धा दानवानुपसृत्य ह ॥ ४७.६८ ॥ ततस्ते वध्यमानास्तु काव्यमेवाभिदुद्रुवुः । ततः काव्यस्तु तान्दृष्ट्वा तूर्णं देवैरभिद्रुतान् ॥ ४७.६९ ॥ रक्षां काव्येन संहृत्य देवास्तेऽप्यसुरार्दिताः । काव्यं दृष्ट्वा स्थितं देवा निःशङ्कमसुराञ्जहुः ॥ ४७.७० ॥ ततः काव्योऽनुचिन्त्याथ ब्राह्मणो वचनं हितम् । तानुवाच ततः काव्यः पूर्वं वृत्तमनुस्मरन् ॥ ४७.७१ ॥ त्रैलोक्यं वो हृतं सर्वं वामनेन त्रिभिः क्रमैः । बलिर्बद्धो हतो जम्भो निहतश्च विरोचनः ॥ ४७.७२ ॥ महासुरा द्वादशसु संग्रामेषु सुरैर्हताः । तैस्तैरुपायैर्भूयिष्ठं निहता वः प्रधानतः ॥ ४७.७३ ॥ किंचिच्छीष्टास्तु यूयं वै युद्धं मास्त्विति मे मतम् । नीतिं यां वोऽभिधास्यामि तिष्ठध्वं कालपर्ययात् ॥ ४७.७४ ॥ यास्याम्यहं महादेवं मन्त्रार्थं विजयावहम् । अप्रतीपांस्ततो मन्त्रान् देवात्प्राप्य महेश्वरात् । युध्यामहे पुनर्देवांस्ततः प्राप्स्यथ वै जयम् ॥ ४७.७५ ॥ ततस्ते कृतसंवादा देवानूचुस्तदासुराः । न्यस्तशस्त्रा वयं सर्वे निःसंनाहा रथैर्विना ॥ ४७.७६ ॥ वयं तपश्चरिष्यामः संवृता वल्कलैर्वने । प्रह्लादस्य वचः श्रुत्वा सत्याभिव्याहृतं तु तत् ॥ ४७.७७ ॥ ततो देवा न्यवर्तन्त विज्वरा मुदिताश्च ते । न्यस्तशस्त्रेषु दैत्येषु विनिवृत्तास्तदा सुराः ॥ ४७.७८ ॥ ततस्तानब्रवीत्काव्यः कंचित्कालमुपास्यथ । निरुत्सिक्तास्तपोयुक्ताः कालं कार्यार्थसाधकम् ॥ ४७.७९ ॥ पितुर्ममाश्रमस्था वै मां प्रतीक्षत दानवाः । तत्संदिश्यासुरान्काव्यो महादेवं प्रपद्यत ॥ ४७.८० ॥ *शुक्र उवाच मन्त्रानिच्छाम्यहं देव ये न सन्ति बृहस्पतौ । पराभवाय देवानामसुराणां जयाय च ॥ ४७.८१ ॥ एवमुक्तोऽब्रवीद्देवो व्रतं त्वं चर भार्गव । पूर्णं वर्षसहस्रं तु कणधूममवाक्शिराः । यदि पास्यसि भद्रं ते ततो मन्त्रानवाप्स्यसि ॥ ४७.८२ ॥ तथेति समनुज्ञाप्य शुक्रस्तु भृगुनन्दनः । पादौ संस्पृश्य देवस्य बाढमित्यब्रवीद्वचः । व्रतं चराम्यहं देव त्वयादिष्टोऽद्य वै प्रभो ॥ ४७.८३ ॥ ततोऽनुसृष्टो देवेन कुण्डधारोऽस्य धूमकृत् । तदा तस्मिन्गते शुक्रे ह्यसुराणां हिताय वै । मन्त्रार्थं तत्र वसति ब्रह्मचर्यं महेश्वरे ॥ ४७.८४ ॥ तद्बुद्ध्वा नीतिपूर्वं तु राज्ये न्यस्ते तदासुरैः । अस्मिंश्छिद्रे तदामर्षाद्देवास्तान्समुपाद्रवन् । दंशिताः सायुधाः सर्वे बृहस्पतिपुरःसराः ॥ ४७.८५ ॥ दृष्ट्वासुरगणा देवान् प्रगृहीतायुधान्पुनः । उत्पेतुः सहसा ते वै संत्रस्तास्तान्वचोऽब्रुवन् ॥ ४७.८६ ॥ न्यस्ते शस्त्रेऽभये दत्त आचार्ये व्रतमास्थिते । दत्त्वा भवन्तो ह्यभयं सम्प्राप्ता नो जिघांसया ॥ ४७.८७ ॥ अनाचार्या वयं देवास्त्यक्तशस्त्रास्त्ववस्थिताः । चीरकृष्णाजिनधरा निष्क्रिया निष्परिग्रहाः ॥ ४७.८८ ॥ रणे विजेतुं देवांश्च न शक्ष्यामः कथंचन । अयुद्धेन प्रपत्स्यामः शरणं काव्यमातरम् ॥ ४७.८९ ॥ यापयामः कृच्छ्रमिदं यावदभ्येति नो गुरुः । निवृत्ते च तथा शुक्रे योत्स्यामो दंशितायुधाः ॥ ४७.९० ॥ एवमुक्त्वा ततोऽन्योन्यं शरणं काव्यमातरम् । प्रापद्यन्त ततो भीतास्तेभ्योऽदादभयं तु सा ॥ ४७.९१ ॥ न भेतव्यं न भेतव्यं भयं त्यजत दानवाः । मत्संनिधौ वर्ततां वो न भीर्भवितुमर्हति ॥ ४७.९२ ॥ तया चाभ्युपपन्नांस्तान् दृष्ट्वा देवास्ततोऽसुरान् । अभिजग्मुः प्रसह्यैतानविचार्य बलाबलम् ॥ ४७.९३ ॥ ततस्तान्बाध्यमानांस्तु देवैर्दृष्ट्वासुरांस्तदा । देवी क्रुद्धाब्रवीद्देवाननिन्द्रान्वः करोम्यहम् ॥ ४७.९४ ॥ संभृत्य सर्वसम्भारानिन्द्रं साभ्यचरत्तदा । तस्तम्भ देवी बलवद्योगयुक्ता तपोधना ॥ ४७.९५ ॥ ततस्तं स्तम्भितं दृष्ट्वा इन्द्रं देवाश्च मूकवत् । प्राद्रवन्त ततो भीता इन्द्रं दृष्ट्वा वशीकृतम् ॥ ४७.९६ ॥ गतेषु सुरसंघेषु शक्रं विष्णुरभाषत । मां त्वं प्रविश भद्रं ते नयिष्ये त्वां सुरोत्तम ॥ ४७.९७ ॥ एवमुक्तस्ततो विष्णुं प्रविवेश पुरंदरः । विष्णुना रक्षितं दृष्ट्वा देवी क्रुद्धा वचोऽब्रवीत् ॥ ४७.९८ ॥ एषा त्वां विष्णुना सार्धं दहामि मघवन्बलात् । मिषतां सर्वभूतानां दृश्यतां मे तपोबलम् ॥ ४७.९९ ॥ तयाऽभिभूतौ तौ देवाविन्द्राविष्णू बभूवतुः । कथं मुच्येव सहितौ विष्णुरिन्द्रमभाषत ॥ ४७.१०० ॥ इन्द्रोऽब्रवीज्जहि ह्येनां यावन्नौ न दहेत्प्रभो । विशेषणाभिभूतोऽस्मि त्वत्तोऽहं जहि मा चिरम् ॥ ४७.१०१ ॥ ततः समीक्ष्य विष्णुस्तां स्त्रीवधे कृच्छ्रमास्थितः । अभिध्याय ततश्चक्रमापदुद्धरणे तु तत् ॥ ४७.१०२ ॥ ततस्तु त्वरया युक्तः शीघ्रकारी भयान्वितः । ज्ञात्वा विष्णुस्ततस्तस्या क्रूरं देव्याश्चिकीर्षितम् । क्रुद्धः स्वमस्त्रमादाय शिरश्चिच्छेद वै भिया ॥ ४७.१०३ ॥ तं दृष्ट्वा स्त्रीवधं घोरं चुक्रोध भृगुरीश्वरः । ततोऽभिशप्तो भृगुणा विष्णुर्भार्यावधे तदा ॥ ४७.१०४ ॥ यस्मात्ते जानतो धर्मप्रवध्या स्त्री निषूदिता । तस्मात्त्वं सप्तकृत्वेह मानुषेषूपपत्स्जसे ॥ ४७.१०५ ॥ ततस्तेनाभिशापेन नष्टे धर्मे पुनःपुनः । लोकस्य च हितार्थाय जायते मानुयेष्विह ॥ ४७.१०६ ॥ अनुव्याहृत्य विष्णुं स तदादाय शिरस्त्वरन् । समानीय ततः कायमसौ गृह्येदमब्रवीत् ॥ ४७.१०७ ॥ एषा त्वं विष्पुना देवि हता संजीवयाम्यहम् । ततस्तां योज्य शिरसा अभिजीवेति सोऽब्रवीत् ॥ ४७.१०८ ॥ यदि कृत्स्नो मया धर्मो ज्ञायते चरितोऽपि वा । तेन सत्येन जीवस्व यदि सत्यं वदाम्यहम् ॥ ४७.१०९ ॥ ततस्तां प्रोक्ष्य शीताभिरद्भिर्जीवेति सोऽब्रवीत् । ततोऽभिव्याहृते तस्य देवी संजीविता तदा ॥ ४७.११० ॥ ततस्तां सर्वभूतानि दृष्ट्वा सुप्तोत्थितामिव । साधु साध्विति चक्रुस्ते वचसा सर्वतोदिशम् ॥ ४७.१११ ॥ एवं प्रत्याहृता तेन देवी सा भृगुणा तदा । मिषतां देवतानां हि तदद्भुतमिवाभवद् ॥ ४७.११२ ॥ असंभ्रान्तेन भृगुणा पत्नी संजीविता पुनः । दृष्ट्वा चेन्द्रो नालभत शर्म काव्यभयात्पुनः । प्रजागरे ततश्चेन्द्रो जयन्तीमिदमब्रवीत् ॥ ४७.११३ ॥ संचिन्त्य मतिमान् वाक्यं स्वां कन्यां पाकशासनः । एष काव्यो ह्यमित्राय व्रतं चरति दारुणम् । तेनाहं व्याकुलः पुत्रि कृतो मतिमता भृशम् ॥ ४७.११४ ॥ गच्छ संसाधयस्वैनं श्रमापनयनैः शुभैः । तैस्तैर्मनोनुकूलैश्च ह्युपचारैरतन्द्रिता ॥ ४७.११५ ॥ काव्यमाराधयस्वैनं यथा तुष्येत स द्विजः । गच्छ त्वं तस्य दत्ताऽसि प्रयत्नं कुरु मत्कृते ॥ ४७.११६ ॥ एवमुक्ता जयन्ती सा वचः संगृह्य वै पितुः । अगच्छद्यत्र घोरं स तप आरभ्य तिष्ठति ॥ ४७.११७ ॥ तं दृष्ट्वा तु पिबन्तं सा कणधूममवाङ्मुखम् । यक्षेण पात्यमानं च कुण्डधारेण पातितम् ॥ ४७.११८ ॥ दृष्ट्वा च तं पात्यमानं देवी काव्यमवस्थितम् । स्वरूपं ध्यानशाम्यन्तं दुर्बलं भूतिमास्थितम् । पित्रा यथोक्तं वाक्यं सा काव्ये कृतवती तदा ॥ ४७.११९ ॥ गीर्भिश्चैवानुकूलाभिः स्तुवती वल्गुभाषिणी । गात्रसंवाहनैः काले सेवमाना त्वचः सुखैः । व्रतचर्यानुकूलाभिरुवास बहुलाः समाः ॥ ४७.१२० ॥ पूर्णे धूमव्रते तस्मिन् घोरे वर्षसहस्रके । वरेण च्छन्दयामास काव्यं प्रीतो भवस्तदा ॥ ४७.१२१ ॥ *महादेव उवाच एतद्व्रतं त्वयैकेन चीर्णं नान्येन केनचित् । तस्माद्वै तपसा बुद्ध्या श्रुतेन च बलेन च ॥ ४७.१२२ ॥ तेजसा च सुरान्सर्वांस्त्वमेकोऽभिभविष्यसि । यच्चाभिलषितं ब्रह्मन् विद्यते भृगुनन्दन ॥ ४७.१२३ ॥ प्रपत्स्यसे तु तत्सर्वं नानुवाच्यं तु कस्यचित् । सर्वाभिभावी तेन त्वं भविष्यसि द्विजोत्तम ॥ ४७.१२४ ॥ एतान्दत्त्वा वरांस्तस्मै भार्गवाय भवः पुनः । प्रजेशत्वं धनेशत्वमवध्यत्वं च वै ददौ ॥ ४७.१२५ ॥ एतांल्लब्ध्वा वरान्काव्यः सम्प्रहृष्टतनूरुहः । हर्षात्प्रादुर्बभौ तस्य दिव्यस्तोत्रं महेश्वरे । तथा तिर्यक्स्थितश्चैव तुष्टुवे नीललोहितम् ॥ ४७.१२६ ॥ *शुक्र उवाच नमोऽस्तु शितिकण्ठाय कनिष्ठाय सुवर्चसे । लेलिहानाय काव्याय वत्सरायान्धसः पते ॥ ४७.१२७ ॥ कपर्दिने करालाय हर्यक्ष्णे वरदाय च । संस्तुताय सुतीर्थाय देवदेवाय रंहसे ॥ ४७.१२८ ॥ उष्णीषिणे सुवक्त्राय बहुरूपाय वेधसे । वसुरेताय रुद्राय तपसे चित्रवाससे ॥ ४७.१२९ ॥ ह्रस्वाय मुक्तकेशाय सेनान्ये रोहिताय च । कवये राजवृक्षाय तक्षकक्रीडनाय च ॥ ४७.१३० ॥ सहस्रशिरसे चैव सहस्राक्षाय मीधुषे । वराय भव्यरूपाय श्वेताय पुरुषाय च ॥ ४७.१३१ ॥ गिरिशाय नमोऽर्काय बलिने आज्यपाय च । सुतृप्ताय सुवस्त्राय धन्विने भार्गवाय च ॥ ४७.१३२ ॥ निषङ्गिणे च ताराय स्वक्षाय क्षपणाय च । ताम्राय चैव भीमाय उग्राय च शिवाय च ॥ ४७.१३३ ॥ महादेवाय शर्वाय विश्वरूपशिवाय च । हिरण्याय वरिष्ठाय ज्येष्ठाय मध्यमाय च ॥ ४७.१३४ ॥ वास्तोष्पते पिनाकाय मुक्तये केवलाय च । मृगव्याधाय दक्षाय स्थाणवे भीषणाय च ॥ ४७.१३५ ॥ बहुनेत्राय धुर्याय त्रिनेत्रायेश्वराय च । कपालिने च वीराय मृत्यवे त्र्यम्बकाय च ॥ ४७.१३६ ॥ बभ्रवे च पिशङ्गाय पिङ्गलायारुणाय च । पिनाकिने चेषुमते चित्राय रोहिताय च ॥ ४७.१३७ ॥ दुन्दुभ्यायैकपादाय अजाय बुद्धिदाय च । आरण्याय गृहस्थाय यतये ब्रह्मचारिणे ॥ ४७.१३८ ॥ सांख्याय चैव योगाय व्यापिने दीक्षिताय च । अनाहताय शर्वाय भव्येशाय यमाय च ॥ ४७.१३९ ॥ रोधसे चेकितानाय ब्रह्मिष्ठाय महर्षये । चतुष्पदाय मेध्याय रक्षिणे शीघ्रगाय च ॥ ४७.१४० ॥ शिखण्डिने करालाय दंष्ट्रिणे विश्ववेधसे । भास्वराय प्रतीताय सुदीप्ताय सुमेधसे ॥ ४७.१४१ ॥ क्रूरायाविकृतायैव भीषणाय शिवाय च । सौम्याय चैव मुख्याय धार्मिकाय शुभाय च ॥ ४७.१४२ ॥ अवध्यायामृतायैव नित्याय शाश्वताय च । व्यापृताय विशिष्टाय भरताय च साक्षिणे ॥ ४७.१४३ ॥ क्षेमाय सहमानाय सत्याय चामृताय च । कर्त्रे परशवे चैव शूलिने दिव्यचक्षुषे ॥ ४७.१४४ ॥ सोमपायाज्यपायैव धूमपायोष्मपाय च । शुचये परिधानाय सद्योजाताय मृत्यवे ॥ ४७.१४५ ॥ पिशिताशाय सर्वाय मेघाय विद्युताय च । व्यावृत्ताय वरिष्ठाय भरिताय तरक्षवे ॥ ४७.१४६ ॥ त्रिपुरघ्नाय तीर्थायावक्राय रोमशाय च । तिग्मायुधाय व्याख्याय सुसिद्धाय पुलस्तये ॥ ४७.१४७ ॥ रोचमानाय चण्डाय स्फीताय ऋषभाय च । व्रतिने युञ्जमानाय शुचये चोर्ध्वरेतसे ॥ ४७.१४८ ॥ असुरघ्नाय स्वाघ्नाय मृत्युघ्ने यज्ञियाय च । कृशानवे प्रचेताय वह्नये निर्मलाय च ॥ ४७.१४९ ॥ रक्षोघ्नाय पशुघ्नायाविघ्नाय श्वसिताय च । विभ्रान्ताय महान्ताय अर्णवे दुर्गमाय च ॥ ४७.१५० ॥ कृष्णाय च जयन्ताय लोकानामीश्वराय च । अनाश्रिताय वेध्याय समत्वाधिष्ठिताय च ॥ ४७.१५१ ॥ हिरण्यबाहवे चैव व्याप्ताय च महाय च । सुकर्मणे प्रसह्याय चेशानाय सुचक्षुषे ॥ ४७.१५२ ॥ क्षिप्रेषवे सदश्वाय शिवाय मोक्षदाय च । कपिलाय पिशङ्गाय महादेवाय धीमते ॥ ४७.१५३ ॥ महाकायाय दीप्ताय रोदनाय सहाय च । दृढधन्विने कवचिने रथिने च वरूथिने ॥ ४७.१५४ ॥ भृगुनाथाय शुक्राय गह्वरेष्ठाय वेधसे । अमोघाय प्रशान्ताय सुमेधाय वृषाय च ॥ ४७.१५५ ॥ नमोऽस्तु तुभ्यं भगवन् विश्वाय कृत्तिवाससे । पशूनां पतये तुभ्यं भूतानां पतये नमः ॥ ४७.१५६ ॥ प्रणवे ऋग्यजुःसाम्ने स्वाहाय च स्वधाय च । वषट्कारात्मने चैव तुभ्यं मन्त्रात्मने नमः ॥ ४७.१५७ ॥ त्वष्ट्रे धात्रे तथा कर्त्रे चक्षुःश्रोत्रमयाय च । भूतभव्यभवेशाय तुभ्यं कर्मात्मने नमः ॥ ४७.१५८ ॥ वसवे चैव साध्याय रुद्रादित्यसुराय च । विषाय मारुतायैव तुभ्यं देवात्मने नमः ॥ ४७.१५९ ॥ अग्नीषोमविधिज्ञाय पशुमन्त्रौषधाय च । स्वयम्भुवे ह्यजायैव अपूर्वप्रथमाय च । प्रजानां पतये चैव तुभ्यं ब्रह्मात्मने नमः ॥ ४७.१६० ॥ आत्मेशायात्मवश्याय सर्वेशातिशयाय च । सर्वभूताङ्गभूताय तुभ्यं भूतात्मने नमः ॥ ४७.१६१ ॥ निर्गुणाय गुणज्ञाय व्याकृतायामृताय च । निरुपाख्याय मित्राय तुभ्यं सांख्यात्मने नमः ॥ ४७.१६२ ॥ पृथिव्यै चान्तरिक्षाय दिव्याय च महाय च । जनस्तपाय सत्याय तुभ्यं लोकात्मने नमः ॥ ४७.१६३ ॥ अव्यक्ताय च महते भूतादेरिन्द्रियाय च । आत्मज्ञाय विशेषाय तुभ्यं सर्वात्मने नमः ॥ ४७.१६४ ॥ नित्याय चात्मलिङ्गाय सूक्ष्मायैवेतराय च । बुद्धाय विभवे चैव तुभ्यं मोक्षात्मने नमः ॥ ४७.१६५ ॥ नमस्ते त्रिषु लोकेषु नमस्ते परतस्त्रिषु । सत्यान्तेषु महाद्येषु चतुर्षु च नमोऽस्तु ते ॥ ४७.१६६ ॥ नमः स्तोत्रे मया ह्यस्मिन् यदि न व्याहृतं भवेत् । मद्भक्त इति ब्रह्मण्य तत्सर्वं क्षन्तुमर्हसि ॥ ४७.१६७ ॥ *सूत उवाच एवमाभाष्य देवेशमीश्वरं नीललोहितम् । प्रह्वोऽभिप्रणतस्तस्मै प्राञ्जलिर्वाग्यतोऽभवत् ॥ ४७.१६८ ॥ काव्यस्य गात्रं संस्पृश्य हस्तेन प्रीतिमान्भवः । निकामं दर्शनं दत्त्वा तत्रैवान्तरधीयत ॥ ४७.१६९ ॥ ततः सोऽन्तर्हिते तस्मिन् देवेशेऽनुचरीं तदा । तिष्ठन्तीं पार्श्वतो दृष्ट्वा जयन्तीमिदमब्रवीत् ॥ ४७.१७० ॥ कस्य त्वं सुभगे का वा दुःखिते मयि दुःखिता । महता तपसा युक्ता किमर्थं मां निषेवसे ॥ ४७.१७१ ॥ अनया संस्तुतो भक्त्या प्रश्रयेण दमेन च । स्नेहेन चैव सुश्रोणि प्रीतोऽस्मि वरवर्णिनि ॥ ४७.१७२ ॥ किमिच्छसि वरारोहे कस्ते कामः समृध्यताम् । तत्ते सम्पादयाम्यद्य यद्यपि स्यात्सुदुष्करः ॥ ४७.१७३ ॥ एवमुक्ताब्रवीदेनं तपसा ज्ञातुमर्हसि । चिकीर्षितं हि मे ब्रह्मंस्त्वं हि वेत्थ यथातथम् ॥ ४७.१७४ ॥ एवमुक्तोऽब्रवीदेनां दृष्ट्वा दिव्येन चक्षुषा । मया सह त्वं सुश्रोणि दश वर्षाणि भामिनि ॥ ४७.१७५ ॥ सर्वभूतैरदृश्या च संप्रयोगमिहेच्छसि । देवि चेन्दीवरश्यामे वरार्हे वामलोचने । एवं वृणोषि कामं त्वं मत्तो वै वल्गुभाषिणि ॥ ४७.१७६ ॥ एवं भवतु गच्छामो गृहान्नो मत्तकाशिनि । ततः स्वगृहमागत्य जयन्त्याः पाणिमुद्वहन् ॥ ४७.१७७ ॥ तया सहावसद्देव्या दश वर्षाणि भार्गवः । अदृश्यः सर्वभूतानां मायया संवृतः प्रभुः ॥ ४७.१७८ ॥ कृतार्थमागतं दृष्ट्वा काव्यं सर्वे दितेः सुताः । अभिजग्मुर्गृहं तस्य मुदितास्ते दिदृक्षवः ॥ ४७.१७९ ॥ यदा गता न पश्यन्ति मायया संवृतं गुरुम् । लक्षणं तस्य तद्बुद्ध्वा प्रतिजग्मुर्यथागतम् ॥ ४७.१८० ॥ बृहस्पतिस्तु संरुद्धं काव्यं ज्ञात्वा वरेण तु । तुष्ट्यर्थं दश वर्षाणि जयन्त्या हितकाम्यया ॥ ४७.१८१ ॥ बुद्ध्वा तदन्तरं सोऽपि दैत्यानामिन्द्रनोदितः । काव्यस्य रूपमास्थाय असुरान् समुपाह्वयत् ॥ ४७.१८२ ॥ ततस्तानागतान्दृष्ट्वा बृहस्पतिरुवाच ह । स्वागतं मम याज्यानां प्राप्तोऽहं वो हिताय च ॥ ४७.१८३ ॥ अहं वोऽध्यापयिष्यामि विद्याः प्राप्तास्तु या मया । ततस्ते हृष्टमनसो विद्यार्थमुपपेदिरे ॥ ४७.१८४ ॥ पूर्णे काव्यस्तदा तस्मिन् समये दशवार्षिके । समयान्ते देवयानी तदोत्पन्ना इति श्रुतिः । बुद्धिं चक्रे ततः सोऽथ याज्यानां प्रत्यवेक्षणे ॥ ४७.१८५ ॥ देवि गच्छाम्यहं द्रष्टुं मम याज्याञ्शुचिस्मिते । विभ्रान्तवीक्षिते साध्वि त्रिवर्णायतलोचने ॥ ४७.१८६ ॥ एवमुक्ताब्रवीदेनं भज भक्तान्महाव्रत । एष धर्मः सतां ब्रह्मन्न धर्मं लोपयामि ते ॥ ४७.१८७ ॥ ततो गत्वासुरान्दृष्ट्वा देवाचार्येण धीमता । वञ्चितान्काव्यरूपेण ततः काव्योऽब्रवीत्तु तान् ॥ ४७.१८८ ॥ काव्यं मां वो विजानीध्वं तोषितो गिरिशो विभुः । वञ्चिता बत यूयं वै सर्वे शृणुत दानवाः ॥ ४७.१८९ ॥ श्रुत्वा तथा ब्रुवाणं तं संभ्रान्तास्ते तदाभवन् । प्रेक्षन्तस्तावुभौ तत्र स्थितासीनौ सुविस्मिताः ॥ ४७.१९० ॥ सम्प्रमूढास्ततः सर्वे न प्राबुध्यन्त किंचन । अब्रवीत्सम्प्रमूढेषु काव्यस्तानसुरांस्तदा ॥ ४७.१९१ ॥ आचार्यो वो ह्यहं काव्यो देवाचार्योऽयमङ्गिराः । अनुगच्छत मां दैत्यास्त्यजतैनं बृहस्पतिम् ॥ ४७.१९२ ॥ इत्युक्ता ह्यसुरास्तेन तावुभौ समवेक्ष्य च । यदासुरा विशेषं तु न जानन्त्युभयोस्तयोः ॥ ४७.१९३ ॥ बृहस्पतिरुवाचैनानसम्भ्रान्तस्तपोधनः । काव्यो वोऽहं गुरुर्दैत्या मद्रूपोऽयं बृहस्पतिः ॥ ४७.१९४ ॥ संमोहयति रूपेण मामकेनैष वोऽसुराः । श्रुत्वा तस्य ततस्ते वै समेत्य तु ततोऽब्रुवन् ॥ ४७.१९५ ॥ अयं नो दश वर्षाणि सततं शास्ति वै प्रभुः । एष वै गुरुरस्माकमन्तरेप्सुरयं द्विजः ॥ ४७.१९६ ॥ ततस्ते दानवाः सर्वे प्रणिपत्याभिनन्द्य च । वचनं जगृहुस्तस्य चिराभ्यासे न मोहिताः ॥ ४७.१९७ ॥ ऊचुस्तमसुराः सर्वे क्रोधसंरक्तलोचनाः । अयं गुरुर्हितोऽस्माकं गच्छ त्वं नासि नो गुरुः ॥ ४७.१९८ ॥ भार्गवो वाङ्गिरा वापि भगवानेष नो गुरुः । स्थिता वयं निदेशेऽस्य साधु त्वं गच्छ माचिरम् ॥ ४७.१९९ ॥ एवमुक्त्वासुराः सर्वे प्रापद्यन्त बृहस्पतिम् । यदा न प्रत्यपद्यन्त काव्येनोक्तं महद्धितम् ॥ ४७.२०० ॥ चुकोप भार्गवस्तेषामवलेपेन तेन तु । बोधिता हि मया यस्मान्न मां भजथ दानवाः ॥ ४७.२०१ ॥ तस्मात्प्रनष्टसंज्ञा वै पराभवमवाप्स्यथ । इति व्याहृत्य तान्काव्यो जगामाथ यथागतम् ॥ ४७.२०२ ॥ शप्तांस्तानसुराञ्ज्ञात्वा काव्येन स बृहस्पतिः । कृतार्थः स तदा हृष्टः स्वरूपं प्रत्यपद्यत ॥ ४७.२०३ ॥ बुद्ध्यासुरान् हताञ्ज्ञात्वा कृतार्थोऽन्तरधीयत । ततः प्रनष्टे तस्मिंस्तु विभ्रान्ता दानवाभवन् ॥ ४७.२०४ ॥ अहो विवञ्चिताः स्मेति परस्परमथाब्रुवन् । पृष्ठतोऽभिमुखाश्चैव ताडिताङ्गिरसेन तु ॥ ४७.२०५ ॥ वञ्चिताः सोपधानेन स्वे स्वे वस्तुनि मायया । ततस्त्वपरितुष्टास्ते तमेव त्वरिता ययुः । प्रह्लादमग्रतः कृत्वा काव्यस्यानुपदं पुनः ॥ ४७.२०६ ॥ ततः काव्यं समासाद्य उपतस्थुरवाङ्मुखाः । समागतान्पुनर्दृष्ट्वा काव्यो याज्यानुवाच ह ॥ ४७.२०७ ॥ मया संबोधिताः सर्वे यस्मान्मा नाभिनन्दथ । ततस्तेनावमानेन गता यूयं पराभवम् ॥ ४७.२०८ ॥ एवं ब्रुवाणं शुक्रं तु बाष्पसंदिग्धया गिरा । प्रह्लादस्तं तदोवाच मा नस्त्वं त्यज भार्गव ॥ ४७.२०९ ॥ स्वाश्रयान् भजमानांश्च भक्तांस्त्वं भज भार्गव । त्वय्यदृष्टे वयं तेन देवाचार्येण मोहिताः । भक्तानर्हसि वै ज्ञातुं तपोदीर्घेण चक्षुषा ॥ ४७.२१० ॥ यदि नस्त्वं न कुरुषे प्रसादं भृगुनन्दन । अपध्यातास्त्वया ह्यद्य प्रविशामो रसातलम् ॥ ४७.२११ ॥ ज्ञात्वा काव्यो यथातत्त्वं कारुण्यादनुकम्पया । एवं प्रत्यनुनीतो वै ततः कोपं नियम्य सः । उवाचैतान्न भेतव्यं न गन्तव्यं रसातलम् ॥ ४७.२१२ ॥ अवश्यं भाविनो ह्यर्थाः प्राप्तव्या मयि जाग्रति । न शक्यमन्यथा कर्तुं दिष्टं हि बलवत्तरम् ॥ ४७.२१३ ॥ संज्ञा प्रनष्टा या वोऽद्य तामेतां प्रतिपत्स्यथ । देवाञ्जित्वा सकृच्चापि पातालं प्रतिपत्स्यथ ॥ ४७.२१४ ॥ प्राप्ते पर्यायकाले च हीति ब्रह्माभ्यभाषत । मत्प्रसादाच्च त्रैलोक्यं भुक्तं युष्माभिरूर्जितम् ॥ ४७.२१५ ॥ युगाख्या दश सम्पूर्णा देवानाक्रम्य मूर्धनि । एतावन्तं च कालं वै ब्रह्मा राज्यमभाषत ॥ ४७.२१६ ॥ राज्यं सावर्णिके तुभ्यं पुनः किल भविष्यति । लोकानामीश्वरो भाव्यस्तव पौत्रः पुनर्बलिः ॥ ४७.२१७ ॥ एवं किल मिथः प्रोक्तः पौत्रस्ते विष्णुना स्वयम् । वाचा हृतेषु लोकेषु तास्तास्तस्याभवन्किल ॥ ४७.२१८ ॥ यस्मात्प्रवृत्तयश्चास्य संकाशादभिसंधिताः । तस्माद्वृत्तेन प्रीतेन तुभ्यं दत्तं स्वयम्भुवा ॥ ४७.२१९ ॥ देवराज्ये बलिर्भाव्य इति मामीश्वरोऽब्रवीत् । तस्माददृश्यो भूतानां कालापेक्षः स तिष्ठति ॥ ४७.२२० ॥ प्रीतेन चापरो दत्तो वरस्तुभ्यं स्वयम्भुवा । तस्मान्निरुत्सुकस्त्वं वै पर्यायं सहितोऽसुरैः ॥ ४७.२२१ ॥ न हि शक्यं मया तुभ्यं पुरस्ताद्विप्रभाषितुम् । ब्रह्मणा प्रतिषिद्धोऽहं भविष्यं जानता विभो ॥ ४७.२२२ ॥ इमौ च शिष्यौ द्वौ मह्यं समावेतौ बृहस्पतेः । दैवतैः सह संसृष्टान् सर्वान्वो धारयिष्यतः ॥ ४७.२२३ ॥ इत्युक्ता ह्यसुराः सर्वे काव्येनाक्लिष्टकर्मणा । हृष्टास्तेन ययुः सार्धं प्रह्लादेन महात्मना ॥ ४७.२२४ ॥ अवश्यं भाव्यमर्थं तु श्रुत्वा शुक्रेण भाषितम् । सकृदाशंसमानास्तु जयं शुक्रेण भाषितम् । दंशिताः सायुधाः सर्वे ततो देवान्समाह्वयन् ॥ ४७.२२५ ॥ देवास्तदासुरान्दृष्ट्वा संग्रामे समुपस्थितान् । सर्वे संभृतसम्भारा देवास्तान् समयोधयन् ॥ ४७.२२६ ॥ देवासुरे तदा तस्मिन् वर्तमाने शतं समाः । अजयन्नसुरा देवांस्ततो देवा ह्यमन्त्रयन् ॥ ४७.२२७ ॥ यज्ञेनोपाह्वयामस्तौ ततो जेष्यामहेऽसुरान् । तदोपामन्त्रयन्देवाः शण्डामर्कौ तु तावुभौ ॥ ४७.२२८ ॥ यज्ञे चाहूय तौ प्रोक्तौ त्यजेतामसुरान् द्विजौ । वयं युवां भजिष्यामः सह जित्वा तु दानवान् ॥ ४७.२२९ ॥ एवं कृताभिसंधी तौ शण्डामर्कौ सुरास्तथा । ततो देवा जयं प्रापुर्दानवाश्च पराजिताः ॥ ४७.२३० ॥ शण्डामर्कपरित्यक्ता दानवा ह्यबलास्तथा । एवं दैत्याः पुरा काव्यशापेनाभिहतास्तदा ॥ ४७.२३१ ॥ काव्यशापाभिभूतास्ते निराधाराश्च सर्वशः । निरस्यमाना देवैश्च विविशुस्ते रसातलम् ॥ ४७.२३२ ॥ एवं निरुद्यमा देवैः कृताः कृच्छ्रेण दानवाः । ततः प्रभृति शापेन भृगोर्नैमित्तिकेन तु ॥ ४७.२३३ ॥ जज्ञे पुनः पुनर्विष्णुर्धर्मे प्रशिथिले प्रभुः । कुर्वन्धर्मव्यवस्थानमसुराणां प्रणाशनम् ॥ ४७.२३४ ॥ प्रह्लादस्य निदेशे तु न स्थास्यन्त्यसुराश्च ये । मनुष्यवध्यास्ते सर्वे ब्रह्मेति व्याहरत्प्रभुः ॥ ४७.२३५ ॥ धर्मान्नारायणस्यांशः सम्भूतश्चाक्षुषेऽन्तरे । यज्ञं वै वर्तयामासुर्देवा वैवस्वतेऽन्तरे ॥ ४७.२३६ ॥ प्रादुर्भावे ततस्तस्य ब्रह्मा ह्यासीत्पुरोहितः । युगाख्यायां चतुर्थ्यां तु आपन्नेषु सुरेषु वै ॥ ४७.२३७ ॥ सम्भूतस्तु समुद्रान्ते हिरण्यकशिपोर्वधे । द्वितीये नरसिंहाख्ये रुद्रो ह्यासीत्पुरोहितः ॥ ४७.२३८ ॥ बलिसंस्थेषु लोकेषु त्रेतायां सप्तमं प्रति । तृतीये वामनस्यार्थे धर्मेण तु पुरोधसा ॥ ४७.२३९ ॥ एतास्तिस्रः स्मृतास्तस्य दिव्याः सम्भूतयो द्विजाः । मानुषाः सप्त यान्यास्तु शापजास्ता निबोधत ॥ ४७.२४० ॥ त्रेतायुगे तु प्रथमे दत्तात्रेयो बभूव ह । नष्टे धर्मे चतुर्थांशे मार्कण्डेयपुरःसरः ॥ ४७.२४१ ॥ पञ्चमः पञ्चदश्यां च त्रेतायां संबभूव ह । मान्धाता चक्रवर्ती तु तदोत्तङ्कपुरःसरे ॥ ४७.२४२ ॥ एकोनविंश्यां त्रेतायां सर्वक्षत्रान्तकृद्विभुः । जामदग्न्यस्तथा षष्ठो विश्वामित्रपुरःसरः ॥ ४७.२४३ ॥ चतुर्विंशे युगे रामो वसिष्ठेन पुरोधसा । सप्तमो रावणस्यार्थे जज्ञे दशरथात्मजः ॥ ४७.२४४ ॥ अष्टमे द्वापरे विष्णुरष्टाविंशे पराशरात् । वेदव्यासस्तथा जज्ञे जातूकर्ण्यपुरःसरः ॥ ४७.२४५ ॥ कर्तुं धर्मव्यवस्थानमसुराणां प्रणाशनम् । बुद्धो नवमको जज्ञे तपसा पुष्करेक्षणः । देवसुन्दररूपेण द्वैपायनपुरःसरः ॥ ४७.२४६ ॥ तस्मिन्नेव युगे क्षीणे संध्याशिष्टे भविष्यति । कल्की तु विष्णुयशसः पाराशर्यपुरःसरः ॥ ४७.२४७ ॥ दशमो भाव्यसम्भूतो याज्ञवल्क्यपुरःसरः । सर्वांश्च भूतांस्तिमितान् पाषण्डांश्चैव सर्वशः ॥ ४७.२४८ ॥ प्रगृहीतायुधैर्विप्रैर्वृतः शतसहस्रशः ॥ ४७.२४९ ॥ निःशेषाञ्छूद्रराज्ञस्तु तदा स तु करिष्यति । ब्रह्मद्विषः सपत्नांस्तु संहृत्यैव च तद्वपुः ॥ ४७.२५० ॥ पञ्चविंशे स्थितः कल्किश्चरितार्थः ससैनिकः । शूद्रान् संशोधयित्वा तु समुद्रान्तं च वै स्वयम् ॥ ४७.२५१ ॥ प्रवृत्तचक्रो बलवान् संहारं तु करिष्यति । उत्सादयित्वा वृषलान् प्रायशस्तानधार्मिकान् ॥ ४७.२५२ ॥ ततस्तदा स वै कल्किश्चरितार्थः ससैनिकः । प्रजास्तं साधयित्वा तु समृद्धास्तेन वै स्वयम् ॥ ४७.२५३ ॥ अकस्मात्कोपितान्योन्यं भविष्यन्तीह मोहिताः । क्षपयित्वा तु तेऽन्योन्यं भाविनार्थेन चोदिताः ॥ ४७.२५४ ॥ ततः काले व्यतीते तु स देवोऽन्तरधीयत । नृपेष्वथ प्रनष्टेषु प्रजानां संग्रहात्तदा ॥ ४७.२५५ ॥ रक्षणे विनिवृत्ते तु हत्वा चान्योन्यमाहवे । परस्परं च हत्वा तु निराक्रन्दाः सुदुःखिताः ॥ ४७.२५६ ॥ पुराणि हित्वा ग्रामांश्च तुल्यत्वे निष्परिग्रहाः । प्रनष्टाश्रमधर्माश्च नष्टवर्णाश्रमास्तथा ॥ ४७.२५७ ॥ अट्टशूला नानपदाः शिवशूलाश्चतुष्पथाः । प्रमदाः केशशूलाश्च भविष्यन्ति युगक्षये ॥ ४७.२५८ ॥ ह्रस्वदेहायुषश्चैव भविष्यन्ति वनौकसः । सरित्पर्वतवासिन्यो मूलपत्त्रफलाशनाः ॥ ४७.२५९ ॥ चीरचर्माजिनधराः संकरं घोरमाश्रिताः । उत्पातदुःखाः स्वल्पार्था बहुबाधाश्च ताः प्रजाः ॥ ४७.२६० ॥ एवं कष्टमनुप्राप्ताः काले संध्यंशके तदा । ततः क्षयं गमिष्यन्ति सार्धं कलियुगेन तु ॥ ४७.२६१ ॥ क्षीणे कलियुगे तस्मिंस्ततः कृतमवर्तत । इत्येतत्कीर्तितं सम्यग्देवासुरविचेष्टितम् ॥ ४७.२६२ ॥ यदुवंशप्रसङ्गेन समासाद्वैष्णवं यशः । तुर्वसोस्तु प्रवक्ष्यामि पूरोर्द्रुह्योस्तथा ह्यनोः ॥ ४७.२६३ ॥ ______________________________________________________ मत्स्यपुराण ४८ *सूत उवाच तुर्वसोस्तु सुतो गर्भो गोभानुस्तस्य चात्मजः । गोभानोस्तु सुतो वीरस्त्रिसारिरपराजितः ॥ ४८.१ ॥ करंधमस्तु त्रैसारिर्भरतस्तस्य चात्मजः । दुष्यन्तः पौरवस्यापि तस्य पुत्रो ह्यकल्मषः ॥ ४८.२ ॥ एवं ययातिशापेन जरासंक्रमणे पुरा । तुर्वसोः पौरवं वंशं प्रविवेश पुरा किल ॥ ४८.३ ॥ दुष्यन्तस्य तु दायादो वरूथो नाम पार्थिवः । वरूथात्तु तथाण्डीरः संधानस्तस्य चात्मजः ॥ ४८.४ ॥ पाण्ड्यश्च केरलश्चैव चोलः कर्णस्तथैव च । तेषां जनपदाः स्फीताः पाण्ड्याश्चोलाः सकेरलाः ॥ ४८.५ ॥ द्रुह्योस्तु तनयौ शूरौ सेतुः केतुस्तथैव च । सेतुपुत्रः शरद्वांस्तु गन्धारस्तस्य चात्मजः ॥ ४८.६ ॥ ख्यायते यस्य नाम्नासौ गन्धारविषयो महान् । आरट्टदेशजास्तस्य तुरगा वाजिनां वराः ॥ ४८.७ ॥ गन्धारपुत्रो धर्मस्तु घृतस्तस्यात्मजोऽभवत् । घृताच्च विदुषो जज्ञे प्रचेतास्तस्य चात्मजः ॥ ४८.८ ॥ प्रचेतसः पुत्रशतं राजानः सर्व एव ते । म्लेच्छराष्ट्राधिपाः सर्वे उदीचीं दिशमाश्रिताः ॥ ४८.९ ॥ अनोश्चैव सुता वीरास्त्रयः परमधार्मिकाः । सभानरश्चाक्षुषश्च परमेषुस्तथैव च ॥ ४८.१० ॥ सभानरस्य पुत्रस्तु विद्वान्कोलाहलो नृपः । कोलाहलस्य धर्मात्मा संजयो नाम विश्रुतः ॥ ४८.११ ॥ संजयस्याभवत्पुत्रो वीरो नाम पुरंजयः । जनमेजयो महाराज पुरंजयसुतोऽभवत् ॥ ४८.१२ ॥ जनमेजयस्य राजर्षेर्महाशालोऽभवत्सुतः । आसीदिन्द्रसमो राजा प्रतिष्ठितयशाभवत् ॥ ४८.१३ ॥ महामनाः सुतस्तस्य महाशालस्य धार्मिकः । सप्तद्वीपेश्वरो जज्ञे चक्रवर्ती महामनाः ॥ ४८.१४ ॥ महामनास्तु द्वौ पुत्रौ जनयामास विश्रुतौ । उशीनरं च धर्मज्ञं तितिक्षुं चैव तावुभौ ॥ ४८.१५ ॥ उशीनरस्य पत्न्यस्तु पञ्च राजर्षिसम्भवाः । भृशा कृशा नवा दर्शा या च देवी दृषद्वती ॥ ४८.१६ ॥ उशीनरस्य पुत्रास्तु तासु जाताः कुलोद्वहाः । तपसा ते तु महता जाता वृद्धस्य धार्मिकाः ॥ ४८.१७ ॥ भृशायास्तु नृगः पुत्रो नवाया नव एव च । कृशायास्तु कृशो जज्ञे दर्शायाः सुव्रतोऽभवत् । दृषद्वत्याः सुतश्चापि शिबिरौशीनरो नृपः ॥ ४८.१८ ॥ शिबेस्तु शिबयः पुत्राश्चत्वारो लोकविश्रुताः । पृथुदर्भः सुवीरश्च केकयो भद्रकस्तथा ॥ ४८.१९ ॥ तेषां जनपदाः स्फीताः केकया भद्रकास्तथा । सौवीराश्चैव पौराश्च नृगस्य केकयास्तथा ॥ ४८.२० ॥ सुव्रतस्य तथाम्बष्ठा कृशस्य वृषला पुरी । नवस्य नवराष्ट्रं तु तितिक्षोस्तु प्रजां शृणु ॥ ४८.२१ ॥ तितिक्षुरभवद्राजा पूर्वस्यां दिशि विश्रुतः । बृहद्रथः सुतस्तस्य तस्य सेनोऽभवत्सुतः ॥ ४८.२२ ॥ सेनस्य सुतपा जज्ञे सुतपस्तनयो बलिः । जातो मानुषयोन्यां तु क्षीणे वंशे प्रजेच्छया ॥ ४८.२३ ॥ महायोगी तु स बलिर्बद्धो बन्धैर्महात्मना । पुत्रानुत्पादयामास क्षेत्रजान्पञ्च पार्थिवान् ॥ ४८.२४ ॥ अङ्गं स जनयामास वङ्गं सुह्मं तथैव च । पुण्ड्रं कलिङ्गं च तथा बालेयं क्षेत्रमुच्यते । बालेया ब्राह्मणाश्चैव तस्य वंशकराः प्रभो ॥ ४८.२५ ॥ बलेश्च ब्रह्मणा दत्तो वरः प्रीतेन धीमतः । महायोगित्वमायुश्च कल्पस्य परिमाणकम् ॥ ४८.२६ ॥ संग्रामे चाप्यजेयत्वं धर्मे चैवोत्तमा मतिः । त्रैकाल्यदर्शनं चैव प्राधान्यं प्रसवे तथा ॥ ४८.२७ ॥ जयं चाप्रतिमं युद्धे धर्मे तत्त्वार्थदर्शनम् । चतुरो नियतान्वर्णान् स वै स्थापयिता प्रभुः ॥ ४८.२८ ॥ तेषां च पञ्च दायादा वङ्गाङ्गाः सुह्मकास्तथा । पुण्ड्राः कलिङ्गाश्च तथा अङ्गस्य तु निबोधत ॥ ४८.२९ ॥ *मुनय ऊचुः कथं बलेः सुता जाताः पञ्च तस्य महात्मनः । किंनाम्नी महिषी तस्य जनिता कतम ऋषिः ॥ ४८.३० ॥ कथं चोत्पादितास्तेन तन्नः प्रब्रूहि पृच्छताम् । माहात्म्यं च प्रभावं च निखिलेन वदस्व तत् ॥ ४८.३१ ॥ *सूत उवाच अथोशिज इति ख्यात आसीद्विद्वानृषिः पुरा । पत्नी वै ममता नाम बभूवास्य महात्मनः ॥ ४८.३२ ॥ उशिजस्य यवीयान्वै भ्रातृपत्नीमकामयत् । बृहस्पतिर्महातेजा ममतामेत्य कामतः ॥ ४८.३३ ॥ उवाच ममता तं तु देवरं वरवर्णिनी । अन्तर्वत्न्यस्मि ते भ्रातुर्ज्येष्ठस्य तु विरम्यताम् ॥ ४८.३४ ॥ अयं तु मे महाभाग गर्भः कुप्येद्बृहस्पते । औशिजो भ्रातृजन्यस्ते सोपाङ्गं वेदमुद्गिरन् ॥ ४८.३५ ॥ अमोघरेतास्त्वं चापि न मां भजितुमर्हसि । अस्मिन्नेवं गते काले यथा वा मन्यसे प्रभो ॥ ४८.३६ ॥ एवमुक्तस्तथा सम्यग्बृहत्तेजा बृहस्पतिः । कामात्मा स महात्मापि न मनः सोऽभ्यवारयत् ॥ ४८.३७ ॥ संबभूवैव धर्मात्मा तया सार्धमकामया । उत्सृजन्तं तु तद्रेतोवाचं गर्भोऽभ्यभाषत ॥ ४८.३८ ॥ भो तात वाचामधिप द्वयोर्नास्तीह संस्थितिः । अमोघरेतास्त्वं चापि पूर्वं चाहमिहागतः ॥ ४८.३९ ॥ सोऽशपत्तं ततः क्रुद्ध एवमुक्तो बृहस्पतिः । पुत्रं ज्येष्ठस्य वै भ्रातुर्गर्भस्थं भगवानृषिः ॥ ४८.४० ॥ यस्मात्त्वमीदृशे काले गर्भस्थोऽपि निषेधसि । मामेवमुक्तवांस्तस्मात्तमो दीर्घं प्रवेक्ष्यसि ॥ ४८.४१ ॥ ततो दीर्घतमा नाम शापादृषिरजायत । अतोऽंशजो बृहत्कीर्तिर्बृहस्पतिरिवौजसा ॥ ४८.४२ ॥ ऊर्ध्वरेतास्ततोऽसौ वै वसते भ्रातुराश्रमे । स धर्मान्सौरभेयांस्तु वृषभाच्छ्रुतवांस्ततः ॥ ४८.४३ ॥ तस्य भ्राता पितृव्यो यश्चकार भरणं तदा । तस्मिन्निवसतस्तस्य यदृच्छातस्तु वै वृषः ॥ ४८.४४ ॥ यज्ञार्थमाहृतान्दर्भांश्चचार सुरभीसुतः । जग्राह तं दीर्घतमाः शृङ्गयोस्तु चतुष्पदम् ॥ ४८.४५ ॥ तेनासौ निगृहीतश्च न चचाल पदात्पदम् । ततोऽब्रवीद्वृषस्तं वै मुञ्च मां बलिनां वर ॥ ४८.४६ ॥ न मयासादितस्तात बलवांस्त्वत्समः क्वचित् । मम चान्यः समो वापि न हि मे बलसंख्यया । मुञ्च तातेति च पुनः प्रीतस्तेऽहं वरं वृणु ॥ ४८.४७ ॥ एवमुक्तोऽब्रवीदेनं जीवन्मे त्वं क्व यास्यसि । एष त्वां न विमोक्ष्यामि परस्वादं चतुष्पदम् ॥ ४८.४८ ॥ *वृषभ उवाच नास्माकं विद्यते तात पातकं स्तेयमेव च । भक्ष्याभक्ष्यं तथा चैव पेयापेयं तथैव च ॥ ४८.४९ ॥ द्विपदां बहवो ह्येते धर्म एष गवां स्मृतः । कार्याकार्ये न वागम्यागमनं च तथैव च ॥ ४८.५० ॥ *सूत उवाच गवां धर्मं तु वै श्रुत्वा संभ्रान्तस्तु विसृज्य तम् । शक्त्यान्नपानदानात्तु गोपतिं संप्रसादयत् ॥ ४८.५१ ॥ प्रसादिते गते तस्मिन् गोधर्मं भक्तितस्तु सः । मनसैव समादध्यौ तन्निष्ठस्तत्परो हि सः ॥ ४८.५२ ॥ ततो यवीयसः पत्नीं गौतमस्याभ्यपद्यत । कृतावलेपां तां मत्वा सोऽनड्वानिव न क्षमः ॥ ४८.५३ ॥ गोधर्मं तु परं मत्वा स्नुषां तामभ्यपद्यत । निर्भर्त्स्य चैनं रुद्ध्वा च बाहुभ्यां सम्प्रगृह्य च ॥ ४८.५४ ॥ भाव्यमर्थं तु तं ज्ञात्वा माहात्म्यात्तमुवाच सा । विपर्ययं तु त्वं लब्ध्वा अनड्वानिव वर्तसे ॥ ४८.५५ ॥ गम्यागम्यं न जानीषे गोधर्मात्प्रार्थयन्सुताम् । दुर्वृत्तं त्वां त्यजाम्यद्य गच्छ त्वं स्वेन कर्मणा ॥ ४८.५६ ॥ काष्ठे समुद्गे प्रक्षिप्य गङ्गाम्भसि समुत्सृजत् । यस्मात्त्वमन्धो वृद्धश्च भर्तव्यो दुरधिष्ठितः ॥ ४८.५७ ॥ तमुह्यमानं वेगेन स्रोतसोऽभ्याशमागतः । जग्राह तं स धर्मात्मा बलिर्वैरोचनिस्तदा ॥ ४८.५८ ॥ अन्तःपुरे जुगोपैनं भक्ष्यभोज्यैश्च तर्पयन् । प्रीतश्चैव वरेणैव च्छन्दयामास वै बलिम् ॥ ४८.५९ ॥ तस्माच्च स वरं वव्रे पुत्रार्थे दानवर्षभः । संतानार्थं महाभागभार्यायां मम मानद । पुत्रान्धर्मार्थतत्त्वज्ञानुत्पादयितुमर्हसि ॥ ४८.६० ॥ एवमुक्तोऽथ देवर्षिस्तथास्त्वित्युक्तवान् प्रभुः । स तस्य राजा स्वां भार्यां सुदेष्णां नाम प्राहिणोत् । अन्धं वृद्धं च तं ज्ञात्वा न सा देवी जगाम ह ॥ ४८.६१ ॥ शूद्रां धात्रेयिकां तस्मावन्धाय प्राहिणोत्तदा । तस्यां कक्षीवदादींश्च शूद्रयोनावृषिर्वशी ॥ ४८.६२ ॥ जनयामास धर्मात्मा शूद्रानित्येवमादिकम् । उवाच तं बली राजा दृष्ट्वा कक्षीवदादिकान् ॥ ४८.६३ ॥ *राजोवाच प्रवीणानृषिधर्मस्य चेश्वरान् ब्रह्मवादिनः । विद्वान् प्रत्यक्षधर्माणां बुद्धिमान् वृत्तिमाञ्छुचीन् ॥ ४८.६४ ॥ ममैव चेति होवाच तं दीर्घतमसं बलिः । नत्युवाच मुनिस्तं वै ममैवमिति चाब्रवीत् ॥ ४८.६५ ॥ उत्पन्नाः शूद्रयोना तु भवच्छन्दे सुरोत्तम । अन्धं वृद्धं च मां ज्ञात्वा सुदेष्णा महिषी तव । प्राहिणोदवमानान्मे शूद्रां धात्रेयिकां नृप ॥ ४८.६६ ॥ ततः प्रसादयामास बलिस्तमृषिसत्तमम् । बलिः सुदेष्णां तां भार्यां भर्त्सयामास दानवः ॥ ४८.६७ ॥ पुनश्चैनामलंकृत्य ऋषये प्रत्यपादयत् । तां स दीर्घतमा देवीं तथा कृतवतीं तदा ॥ ४८.६८ ॥ दध्ना लवणमिश्रेण त्वभ्यक्तं मधुकेन तु । लिह मामजुगुप्सन्ती आपादतलमस्तकम् । ततस्त्वं प्राप्स्यसे देवि पुत्रान्वै मनसेप्सितान् ॥ ४८.६९ ॥ तस्य सा तद्वचो देवी सर्वं कृतवती तदा । तस्य सापानमासाद्य देवी परिहरत्तदा ॥ ४८.७० ॥ तामुवाच ततः सोऽथ यत्ते परिहृतं शुभे । विनापानं कुमारं तु जनयिष्यसि पूर्वजम् ॥ ४८.७१ ॥ *सुदेष्णोवाच नार्हसि त्वं महाभाग पुत्रं मे दातुमीदृशम् । तोषितश्च यथाशक्ति प्रसादं कुरु मे प्रभो ॥ ४८.७२ ॥ *दीर्घतमा उवाच तवापचाराद्देव्येष नान्यथा भविता शुभे । नैव दास्यति पुत्रस्ते पौत्रौ वै दास्यते फलम् ॥ ४८.७३ ॥ तस्यापानं विना चैव योग्यभावो भविष्यति । तस्माद्दीर्घतमाङ्गेषु कुक्षौ स्पृष्ट्वेदमब्रवीत् ॥ ४८.७४ ॥ प्राशितं यद्यदङ्गेषु न सोपस्थं शुचिस्मिते । तेन तिष्ठन्ति ते गर्भे पौर्णमास्यामिवोडुराट् ॥ ४८.७५ ॥ भविष्यन्ति कुमारास्तु पञ्च देवसुतोपमाः । तेजस्विनः सुवृत्ताश्च यज्वानो धार्मिकाश्च ते ॥ ४८.७६ ॥ *सूत उवाच तदंशस्तु सुदेष्णाया ज्येष्ठः पुत्रो व्यजायत । अङ्गस्तथा कलिङ्गश्च पुण्ड्रः सुह्मस्तथैव च ॥ ४८.७७ ॥ वङ्गराजस्तु पञ्चैते बलेः पुत्राश्च क्षेत्रजाः । इत्येते दीर्घतमसा बलेर्दत्ताः सुतास्तथा ॥ ४८.७८ ॥ प्रतिष्ठामागतानां हि ब्राह्मण्यं कारयंस्ततः । ततो मानुषयोन्यां स जनयामास वै प्रजाः ॥ ४८.७९ ॥ ततस्तं दीर्घतमसं सुरभिर्वाक्यमब्रवीत् । विचार्य यस्माद्गोधर्मं प्रमाणं ते कृतं विभो ॥ ४८.८० ॥ शक्त्या चानन्ययास्मासु तेन प्रीतास्मि तेऽनघ । तस्मात्तुभ्यं तमो दीर्घमाघ्रायापनुदामि वै ॥ ४८.८१ ॥ बार्हस्पत्यस्तथैवैष पाप्मा वै तिष्ठति त्वयि । जरां मृत्युं तमश्चैव आघ्रायापनुदामि ते ॥ ४८.८२ ॥ सद्यः स घ्रातमात्रस्तु असितो मुनिसत्तमः । आयुष्मांश्च वपुष्मांश्च चक्षुष्मांश्च ततोऽभवत् ॥ ४८.८३ ॥ गोऽभ्याहते तमसि वै गौतमस्तु ततोऽभवत् । काक्षीवांस्तु ततो गत्वा सह पित्रा गिरिव्रजम् ॥ ४८.८४ ॥ दृष्ट्वा स्पृष्ट्वा पितुर्वै स ह्युपविष्टश्चिरं तपः । ततः कालेन महता तपसा भावितस्तु सः ॥ ४८.८५ ॥ विधूय मातृजं कायं ब्राह्मण्यं प्राप्तवान्विभुः । ततोऽब्रवीत्पिता तं वै पुत्रवानस्म्यहं त्वया ॥ ४८.८६ ॥ सत्पुत्रेण तु धर्मज्ञ कृतार्थोऽहं यशस्विना । मुक्त्वात्मानं ततोऽसौ वै प्राप्तवान्ब्रह्मणः क्षयम् ॥ ४८.८७ ॥ ब्राह्मण्यं प्राप्य काक्षीवान् सहस्रमसृजत्सुतान् । कौष्माण्डा गौतमाश्चैव स्मृताः काक्षीवतः सुताः ॥ ४८.८८ ॥ इत्येष दीर्घतमसो बलेर्वैरोचनस्य च । समागमो वः कथितः संततिश्चोभयोस्तथा ॥ ४८.८९ ॥ बलिस्तानभिनन्द्याह पञ्च पुत्रानकल्मषान् । कृतार्थः सोऽपि धर्मात्मा योगमायावृतः स्वयम् ॥ ४८.९० ॥ अदृश्यः सर्वभूतानां कालापेक्षः स वै प्रभुः । तत्राङ्गस्य तु दायादो राजासीद्दधिवाहनः ॥ ४८.९१ ॥ दधिवाहनपुत्रस्तु राजा दिविरथः स्मृतः । आसीद्दिविरथापत्यं विद्वान्धर्मरथो नृपः ॥ ४८.९२ ॥ स हि धर्मरथः श्रीमांस्तेन विष्णुपदे गिरौ । सोमः शुक्रेण वै राज्ञा सह पीतो महात्मना ॥ ४८.९३ ॥ अथ धर्मरथस्याभूत्पुत्रश्चित्ररथः किल । तस्य सत्यरथः पुत्रस्तस्माद्दशरथः किल ॥ ४८.९४ ॥ लोमपाद इति ख्यातस्तस्य शान्ता सुताभवत् । अथ दाशरथिर्वीरश्चतुरङ्गो महायशाः ॥ ४८.९५ ॥ ऋष्यशृङ्गप्रसादेन जज्ञे स्वकुलवर्धनः । चतुरङ्गस्य पुत्रस्तु पृथुलाक्ष इति स्मृतः ॥ ४८.९६ ॥ पृथुलाक्षसुतश्चापि चम्पनामा बभूव ह । चम्पस्य तु पुरी चम्पा पूर्वं या मालिनी भवत् ॥ ४८.९७ ॥ पूर्णभद्रप्रसादेन हर्यङ्गोऽस्य सुतोऽभवत् । यज्ञे विभाण्डकाच्चास्य वारणः शत्रुवारणः ॥ ४८.९८ ॥ अवतारयामास महीं मन्त्रैर्वाहनमुत्तमम् । हर्यङ्गस्य तु दायादो जातो भद्ररथः किल ॥ ४८.९९ ॥ अथ भद्ररथस्यासीद्बृहत्कर्मा जनेश्वरः । बृहद्भानुः सुतस्तस्य तस्माज्जज्ञे महात्मवान् ॥ ४८.१०० ॥ बृहद्भानुस्तु राजेन्द्रो जनयामास वै सुतम् । नाम्ना जयद्रथं नाम तस्माद्बृहद्रथो नृपः ॥ ४८.१०१ ॥ आसीद्बृहद्रथाच्चैव विश्वजिज्जनमेजयः । दायादस्तस्य चाङ्गो वै तस्मात्कर्णोऽभवन्नृपः ॥ ४८.१०२ ॥ कर्णस्य वृषसेनस्तु पृथुसेनस्तथात्मजः । एतेऽङ्गस्यात्मजाः सर्वे राजानः कीर्तिता मया । विस्तरेणानुपूर्व्याच्च पूरोस्तु शृणुत द्विजाः ॥ ४८.१०३ ॥ *ऋषय ऊचुः कथं सूतात्मजः कर्णः कथमङ्गस्य चात्मजः । एतदिच्छामहे श्रोतुमत्यन्तकुशलो ह्यसि ॥ ४८.१०४ ॥ *सूत उवाच बृहद्भानुसुतो जज्ञे राजा नाम्ना बृहन्मनाः । तस्य पत्नीद्वयं ह्यासीच्छैब्यस्य तनये ह्युभे । यशोदेवी च सत्या च तयोर्वंशं च मे शृणु ॥ ४८.१०५ ॥ जयद्रथं तु राजानं यशोदेवी ह्यजीजनत् । सा बृहन्मनसः सत्या विजयं नाम विश्रुतम् ॥ ४८.१०६ ॥ विजयस्य बृहत्पुत्रस्तस्य पुत्रो बृहद्रथः । बृहद्रथस्य पुत्रस्तु सत्यकर्मा महामनाः ॥ ४८.१०७ ॥ सत्यकर्मणोऽधिरथः सूतश्चाधिरथः स्मृतः । यः कर्णं प्रतिजग्राह तेन कर्णस्तु सूतजः । तच्चेदं सर्वमाख्यातं कर्णं प्रति यथोदितम् ॥ ४८.१०८ ॥ ______________________________________________________ मत्स्यपुराण ४९ *सूत उवाच पूरोः पुत्रो महातेजा राजा स जनमेजयः । प्राचीत्वतः सुतस्तस्य यः प्राचीमकरोद्दिशम् ॥ ४९.१ ॥ प्राचीत्वतस्य तनयो मनस्युश्च तथाभवत् । राजा पीतायुधो नाम मनस्योरभवत्सुतः ॥ ४९.२ ॥ दायादस्तस्य चाप्यासीद्धुन्धुर्नाम महीपतिः । धुन्धोर्बहुविधः पुत्रः सम्पातिस्तस्य चात्मजः ॥ ४९.३ ॥ सम्पातेस्तु रंहवर्चा भद्राश्वस्तस्य चात्मजः । भद्राश्वस्य धृतायां तु दशाप्सरसि सूनवः ॥ ४९.४ ॥ औचेयुश्च हृषेयुश्च कक्षेयुश्च सनेयुकः । धृतेयुश्च विनेयुश्च स्थलेयुश्चैव सत्तमः ॥ ४९.५ ॥ धर्मेयुः संनतेयुश्च पुण्येयुश्चेति ते दश । औचेयोर्ज्वलना नाम भार्या वै तक्षकात्मजा ॥ ४९.६ ॥ तस्यां स जनयामास अन्तिनारं महीपतिम् । अन्तिनारो मनस्विन्यां पुत्राञ्जज्ञे पराञ्छुभान् ॥ ४९.७ ॥ अमूर्तरयसं वीरं त्रिवनं चैव धार्मिकम् । गौरी कन्या तृतीया च मान्धातुर्जननी शुभा ॥ ४९.८ ॥ इलिना तु यमस्यासीत्कन्या याजनयत्सुतान् । ब्रह्मवादपराक्रान्ताञ्छुभदा त्विलिना ह्यभूत् ॥ ४९.९ ॥ उपदानवी सुतांल्लेभे चतुरस्त्विलिनात्मजात् । ऋष्यन्तमथ दुष्यन्तं प्रवीरमनधं तथा ॥ ४९.१० ॥ चक्रवर्ती ततो यज्ञे दुष्यन्तात्समितिंजयः । शकुन्तलायां भरतो यस्य नाम्ना च भारताः ॥ ४९.११ ॥ दौष्यन्तीं प्रति राजानं वागूचे चाशरीरिणी । माता भस्त्रा पितुः पुत्रो येन जातः स एव सः ॥ ४९.१२ ॥ भरस्व पुत्रं दुष्यन्त मावमंस्थाः शकुन्तलाम् । रेतोधां नयते पुत्रः परेतं यमसादनात् । त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥ ४९.१३ ॥ भरतस्य विनष्टेषु तनयेषु पुरा किल । पुत्राणां मातृकात्कोपात्सुमहान्संक्षयः कृतः ॥ ४९.१४ ॥ ततो मरुद्भिरानीय पुत्रः स तु बृहस्पतेः । संक्रामितो भरद्वाजो मरुद्भिर्भरतस्य तु ॥ ४९.१५ ॥ *ऋषय ऊचुः भरतस्य भरद्वाजः पुत्रार्थं मारुतैः कथम् । संक्रामितो महातेजास्तन्नो ब्रूहि यथातथम् ॥ ४९.१६ ॥ *सूत उवाच पत्न्यामापन्नसत्त्वायामुशिजः स स्थितो भुवि । भ्रातुर्भार्यां स दृष्ट्वा तु बृहस्पतिरुवाच ह ॥ ४९.१७ ॥ उपतिष्ठ स्वलंकृत्य मैथुनाय च मां शुभे । एवमुक्ताब्रवीदेनं स्वयमेव बृहस्पतिम् ॥ ४९.१८ ॥ गर्भः परिणतश्चायं ब्रह्म व्याहरते गिरा । अमोघरेतास्त्वं चापि धर्मं चैवं विगर्हितम् ॥ ४९.१९ ॥ एवमुक्तोऽब्रवीदेनां स्वयमेव बृहस्पतिः । नोपदेष्टव्यो विनयस्त्वया मे वरवर्णिनि ॥ ४९.२० ॥ धर्षमाणः प्रसह्यैनां मैथुनायोपचक्रमे । ततो बृहस्पतिं गर्भो धर्षमाणमुवाच ह ॥ ४९.२१ ॥ संनिविष्टो ह्यहं पूर्वमिह नाम बृहस्पते । अमोघरेताश्च भवान्नावकाश इह द्वयोः ॥ ४९.२२ ॥ एवमुक्तः स गर्भेण कुपितः प्रत्युवाच ह । यस्मात्त्वमीदृशे काले सर्वभूतेप्सिते सति । अभिषेधसि तस्मात्त्वं तमो दीर्घं प्रवेक्ष्यसि ॥ ४९.२३ ॥ ततः कामं संनिवर्त्य तस्यानन्दाद्बृहस्पतेः । तद्रेतस्त्वपतद्भूमौ निवृत्तं शिशुकोऽभवत् ॥ ४९.२४ ॥ सद्योजातं कुमारं तु दृष्ट्वा तं ममताब्रवीत् । गमिष्यामि गृहं स्वं वै भरस्वैनं बृहस्पते ॥ ४९.२५ ॥ एवमुक्त्वा गता सा तु गतायां सोऽपि तं त्यजत् । मातापितृभ्यां त्यक्तं तु दृष्ट्वा तं मरुतः शिशुम् । जगृहुस्तं भरद्वाजं मरुतः कृपया स्थिताः ॥ ४९.२६ ॥ तस्मिन्काले तु भरतो बहुभिरृतुभिर्विभुः । पुत्रनैमित्तिकैर्यज्ञैरयजत्पुत्रलिप्सया ॥ ४९.२७ ॥ यदा स यजमानस्तु पुत्रं नासादयत्प्रभुः । ततः क्रतुं मरुत्सोमं पुत्रार्थे समुपाहरत् ॥ ४९.२८ ॥ तेन ते मरुतस्तस्य मरुत्सोमेन तुष्टुवुः । उपनिन्युर्भरद्वाजं पुत्रार्थं भरताय वै ॥ ४९.२९ ॥ दायादोऽङ्गिरसः सूनोरौरसस्तु बृहस्पतेः । संक्रामितो भरद्वाजो मरुद्भिर्भरतं प्रति ॥ ४९.३० ॥ भरतस्तु भरद्वाजं पुत्रं प्राप्य विभुर्ब्रवीत् । आदावात्महिताय त्वं कृतार्थोऽहं त्वया विभो ॥ ४९.३१ ॥ पूर्वं तु वितथे तस्मिन् कृते वै पुत्रजन्मनि । ततस्तु वितथो नाम भरद्वाजो नृपोऽभवत् ॥ ४९.३२ ॥ तस्मादपि भरद्वाजाद्ब्राह्मणाः क्षत्रिया भुवि । द्व्यामुष्यायणकौलीनाः स्मृतास्ते द्विविधेन च ॥ ४९.३३ ॥ ततो जाते हि वितथे भरतश्च दिवं ययौ । भरद्वाजो दिवं यातो ह्यभिषिच्य सुतमृषिः ॥ ४९.३४ ॥ दायादो वितथस्यासीद्भुवमन्युर्महायशाः । महाभूतोपमाः पुत्राश्चत्वारो भुवमन्यवः ॥ ४९.३५ ॥ बृहत्क्षत्रो महावीर्यो नरो गर्गश्च वीर्यवान् । नरस्य संकृतिः पुत्रस्तस्य पुत्रो महायशाः ॥ ४९.३६ ॥ गुरुधी रन्तिदेवश्च सत्कृत्यां तावुभौ स्मृतौ । गर्गस्य चैव दायादः शिबिर्विद्वानजायत ॥ ४९.३७ ॥ स्मृताः शैब्यास्ततो गर्गाः क्षत्रोपेता द्विजातयः । आहार्यतनयश्चैव धीमानासीदुरुक्षवः ॥ ४९.३८ ॥ तस्य भार्या विशाला तु सुषुवे पुत्रकत्रयम् । त्र्युषणं पुष्करिं चैव कविं चैव महायशाः ॥ ४९.३९ ॥ उरुक्षवाः स्मृता ह्येते सर्वे ब्राह्मणतां गताः । काव्यानां तु वरा ह्येते त्रयः प्रोक्ता महर्षयः ॥ ४९.४० ॥ गर्गाः संकृतयः काव्याः क्षत्रोपेता द्विजातयः । संभृताङ्गिरसो दक्षा बृहत्क्षत्रस्य च क्षितिः ॥ ४९.४१ ॥ बृहत्क्षत्रस्य दायादो हस्तिनामा बभूव ह । तेनेदं निर्मितं पूर्वं पुरं तु गजसाह्वयम् ॥ ४९.४२ ॥ हस्तिनश्चैव दायादास्त्रयः परमकीर्तयः । अजमीढो द्विमीढश्च पुरुमीढस्तथैव च ॥ ४९.४३ ॥ अजमीढस्य पत्न्यस्तु तिस्रः कुरुकुलोद्वहाः । नीलिनी धूमिनी चैव केशिनी चैव विश्रुता ॥ ४९.४४ ॥ स तासु जनयामास पुत्रान्वै देववर्चसः । तपसोऽन्ते महातेजा जाता वृद्धस्य धार्मिकाः ॥ ४९.४५ ॥ भारद्वाजप्रसादेन विस्तरं तेषु मे शृणु । आजमीढस्य केशिन्यां कण्वः समभवत्किल ॥ ४९.४६ ॥ मेधातिथिः सुतस्तस्य तस्मात्काण्वायना द्विजाः । अजमीढस्य भूमिन्यां जज्ञे बृहदनुर्नृपः ॥ ४९.४७ ॥ बृहदनोर्बृहन्तोऽथ बृहन्तस्य बृहन्मनाः । बृहन्मनःसुतश्चापि बृहद्धनुरिति श्रुतः ॥ ४९.४८ ॥ बृहद्धनोर्बृहदिषुः पुत्रस्तस्य जयद्रथः । अश्वजित्तनयस्तस्य सेनजित्तस्य चात्मजः ॥ ४९.४९ ॥ अथ सेनजितः पुत्राश्चत्वारो लोकविश्रुताः । रुचिराश्वश्च काव्यश्च राजा दृढरथस्तथा ॥ ४९.५० ॥ वत्सश्चावर्तको राजा यस्यैते परिवत्सकाः । रुचिराश्वस्य दायादः पृथुसेनो महायशाः ॥ ४९.५१ ॥ पृथुसेनस्य पौरस्तु पौरान्नीपोऽथ जज्ञिवान् । नीपस्यैकशतं त्वासीत्पुत्राणाममितौजसाम् ॥ ४९.५२ ॥ नीपा इति समाख्याता राजानः सर्व एव ते । तेषां वंशकरः श्रीमान्नीपानां कीर्तिवर्धनः ॥ ४९.५३ ॥ काव्याच्च समरो नाम सदेष्टसमरोऽभवत् । समरस्य पारसम्पारौ सदश्व इति ते त्रयः ॥ ४९.५४ ॥ पुत्राः सर्वगुणोपेता जाता वै विश्रुता भुवि । पारपुत्रः पृथुर्जातः पृथोस्तु सुकृतोऽभवत् ॥ ४९.५५ ॥ जज्ञे सर्वगुणोपेतो विभ्राजस्तस्य चात्मजः । विभ्राजस्य तु दायादस्त्वणुहो नाम वीर्यवान् ॥ ४९.५६ ॥ बभूव शुकजामाता कृत्वीभर्ता महायशाः । अणुहस्य तु दायादो ब्रह्मदत्तो महीपतिः ॥ ४९.५७ ॥ युगदत्तः सुतस्तस्य विष्वक्सेनो महायशाः । विभ्राजः पुनराजातः सुकृतेनेह कर्मणा ॥ ४९.५८ ॥ विष्वक्सेनस्य पुत्रस्तु उदक्सेनो बभूव ह । भल्लाटस्तस्य पुत्रस्तु तस्यासीज्जनमेजयः । उग्रायुधेन तस्यार्थे सर्वे नीपाः प्रणाशिताः ॥ ४९.५९ ॥ *ऋषय ऊचुः उग्रायुधः कस्य सुतः कस्य वंशे स कथ्यते । किमर्थं तेन ते नीपाः सर्वे चैव प्रणाशिताः ॥ ४९.६० ॥ *सूत उवाच उग्रायुधः सूर्यवंश्यस्तपस्तेपे वराश्रमे । स्थाणुभूतोऽष्टसाहस्रं तं भेजे जनमेजयः ॥ ४९.६१ ॥ तस्य राज्यं प्रतिश्रुत्य नीपानाजघ्निवान् प्रभुः । उवाच सान्त्वं विविधं जघ्नुस्ते वै ह्युभावपि ॥ ४९.६२ ॥ हन्यमानागतानूचे यस्माद्धेतोर्न मे वचः । शरणागतरक्षार्थं तस्मादेवं शपामि वः ॥ ४९.६३ ॥ यदि मेऽस्ति तपस्तप्तं सर्वान्नयतु वो यमः । ततस्तान् कृप्यमाणांस्तु यमेन पुरतः स तु ॥ ४९.६४ ॥ कृपया परयाविष्टो जनमेजयमूचिवान् । गतानेतानिमान्वीरांस्त्वं मे रक्षितुमर्हसि ॥ ४९.६५ ॥ *जनमेजय उवाच अरे पापा दुराचारा भवितारोऽस्य किंकराः । तथेत्युक्तस्ततो राजा यमेन युयुधे चिरम् ॥ ४९.६६ ॥ व्याधिभिर्नारकैर्घोरैर्यमेन सह तान्बलात् । विजित्य मुनये प्रादात्तदद्भुतमिवाभवत् ॥ ४९.६७ ॥ यमस्तुष्टस्ततस्तस्मै मुक्तिज्ञानं ददौ परम् । सर्वे यथोचितं कृत्वा जग्मुस्ते कृष्णमव्ययम् ॥ ४९.६८ ॥ येषां तु चरितं गृह्य हन्यते नापमृत्युभिः । इह लोके परे चैव सुखमक्षय्यमश्नुते ॥ ४९.६९ ॥ अजमीढस्य धूमिन्यां विद्वाञ्जज्ञे यवीनरः । धृतिमांस्तस्य पुत्रस्तु तस्य सत्यधृतिः स्मृतः । अथ सत्यधृतेः पुत्रो दृढनेमिः प्रतापवान् ॥ ४९.७० ॥ दृढनेमिसुतश्चापि सुधर्मा नाम पार्थिवः । आसीत्सुधर्मतनयः सार्वभौमः प्रतापवान् ॥ ४९.७१ ॥ सार्वभौमेति विख्यातः पृथिव्यामेकराड्बभौ । तस्यान्ववाये महति महापौरवनन्दनः ॥ ४९.७२ ॥ महापौरवपुत्रस्तु राजा रुक्मरथः स्मृतः । अथ रुक्मरथस्यासीत्सुपार्श्वो नाम पार्थिवः ॥ ४९.७३ ॥ सुपार्श्वतनयश्चापि सुमतिर्नाम धार्मिकः । सुमतेरपि धर्मात्मा राजा संनतिमानपि ॥ ४९.७४ ॥ तस्यासीत्संनतिमतः कृतो नाम सुतो महान् । हिरण्यनाभिनः शिष्यः कौशल्यस्य महात्मनः ॥ ४९.७५ ॥ चतुर्विंशतिधा येन प्रोक्ता वै सामसंहिताः । स्मृतास्ते प्राच्यसामानः कार्ता नामेह सामगाः ॥ ४९.७६ ॥ कार्तिरुग्रायुधोऽसौ वै महापौरववर्धनः । बभूव येन विक्रम्य पृथुकस्य पिता हतः ॥ ४९.७७ ॥ नीलो नाम महाराजः पाञ्चालाधिपतिर्वशी । उग्रायुधस्य दायादः क्षेमो नाम महायशाः ॥ ४९.७८ ॥ क्षेमात्सुनीथः संजज्ञे सुनीथस्य नृपंजयः । नृपंजयाच्च विरथ इत्येते पौरवाः स्तुताः ॥ ४९.७९ ॥ ______________________________________________________ मत्स्यपुराण ५० *सूत उवाच अजमीढस्य नीलिन्यां नीलः समभवन्नृपः । नीलस्य तपसोग्रेण सुशान्तिरुदपद्यत ॥ ५०.१ ॥ पुरुजानुः सुशान्तेस्तु पृथुस्तु पुरुजानुतः । भद्राश्वः पृथुदायादो भद्राश्वतनयाञ्छृणु ॥ ५०.२ ॥ मुद्गलश्च जयश्चैव राजा बृहदिषुस्तथा । जवीनरश्च विक्रान्तः कपिलश्चैव पञ्चमः ॥ ५०.३ ॥ पञ्चानां चैव पञ्चालानेताञ्जनपदान्विदुः । पञ्चालरक्षिणो ह्येते देशानामिति नः श्रुतम् ॥ ५०.४ ॥ मुद्गलस्यापि मौद्गल्याः क्षत्रोपेता द्विजातयः । एते ह्यङ्गिरसः पक्षं संश्रिताः काण्वमुद्गलाः ॥ ५०.५ ॥ मुद्गलस्य सुतो जज्ञे ब्रह्मिष्ठः सुमहायशाः । इन्द्रसेनः सुतस्तस्य विन्ध्याश्वस्तस्य चात्मजः ॥ ५०.६ ॥ विन्ध्याश्वान्मिथुनं जज्ञे मेनकायामिति श्रुतिः । दिवोदासश्च राजर्षिरहल्या च यशस्विनी ॥ ५०.७ ॥ शरद्वतस्तु दायादमहल्या सम्प्रसूयत । शतानन्दमृषिश्रेष्ठं तस्यापि सुमहातपाः ॥ ५०.८ ॥ सुतः सत्यधृतिर्नाम धनुर्वेदस्य पारगः । आसीत्सत्यधृतेः शुक्रममोघं धार्मिकस्य तु ॥ ५०.९ ॥ स्कन्नं रेतः सत्यधृतेर्दृष्ट्वा चाप्सरसं जले । मिथुनं तत्र संभृतं तस्मिन्सरसि संभृतम् ॥ ५०.१० ॥ ततः सरसि तस्मिंस्तु क्रममाणं महीपतिः । दृष्ट्वा जग्राह कृपया शंतनुर्मृगयां गतः ॥ ५०.११ ॥ एते शरद्वतः पुत्रा आख्याता गौतमा वराः । अत ऊर्ध्वं प्रवक्ष्यामि दिवोदासस्य वै प्रजाः ॥ ५०.१२ ॥ दिवोदासस्य दायादो धर्मिष्ठो मित्रयुर्नृपः । मैत्रायणावरः सोऽथ मैत्रेयस्तु ततः स्मृतः ॥ ५०.१३ ॥ एते वंश्या यतेः पक्षाः क्षत्रोपेतास्तु भार्गवाः । राजा चैद्यवरो नाम मैत्रेयस्य सुतः स्मृतः ॥ ५०.१४ ॥ अथ चैद्यवराद्विद्वान् सुदासस्तस्य चात्मजः । अजमीढः पुनर्जातः क्षीणे वंशे तु सोमकः ॥ ५०.१५ ॥ सोमकस्य सुतो जन्तुर्हते तस्मिञ्छतं बभौ । पुत्राणामजमीढस्य सोमकस्य महात्मनः ॥ ५०.१६ ॥ महिषी त्वजमीढस्य धूमिनी पुत्रवर्धिनी । पुत्राभावे तपस्तेपे शतं वर्षाणि दुश्चरम् ॥ ५०.१७ ॥ हुत्वाग्निं विधिवत्सम्यक्पवित्रीकृतभोजना । अग्निहोत्रक्रमेणैव सा सुष्वाप महाव्रता ॥ ५०.१८ ॥ तस्यां वै धूमवर्णायामजमीढः समीयिवान् । ऋक्षं सा जनयामास धूमवर्णं शताग्रजम् ॥ ५०.१९ ॥ ऋक्षात्संवरणो जज्ञे कुरुः संवरणात्ततः । यः प्रयागमतिक्रम्य कुरुक्षेत्रमकल्पयत् ॥ ५०.२० ॥ कृष्यतस्तु महाराजो वर्षाणि सुबहून्यथ । कृष्यमाणस्ततः शक्रो भयात्तस्मै वरं ददौ ॥ ५०.२१ ॥ पुण्यं च रमणीयं च कुरुक्षेत्रं तु तत्स्मृतम् । तस्यान्ववायः सुमहान् यस्य नाम्ना तु कौरवाः ॥ ५०.२२ ॥ कुरोस्तु दयिताः पुत्राः सुधन्वा जह्नुरेव च । परीक्षिच्च महातेजाः प्रजनश्चारिमर्दनः ॥ ५०.२३ ॥ सुधन्वनस्तु दायादः पुत्रो मतिमतां वरः । च्यवनस्तस्य पुत्रस्तु राजा धर्मार्थतत्त्ववित् ॥ ५०.२४ ॥ च्यवनस्य कृमिः पुत्र ऋक्षाज्जज्ञे महातपाः । कृमेः पुत्रो महावीर्यः ख्यातस्त्विन्द्रसमो विभुः ॥ ५०.२५ ॥ चैद्योपरिचरो वीरो वसुर्नामान्तरिक्षगः । चैद्योपरिचराज्जज्ञे गिरिका सप्त वै सुतान् ॥ ५०.२६ ॥ महारथो मगधराड्विश्रुतो यो बृहद्रथः । प्रत्यश्रवाः कुशश्चैव चतुर्थो हरिवाहनः ॥ ५०.२७ ॥ पञ्चमश्च यजुश्चैव मत्स्यः काली च सप्तमी । बृहद्रथस्य दायादः कुशाग्रो नाम विश्रुतः ॥ ५०.२८ ॥ कुशाग्रस्यात्मजश्चैव वृषभो नाम वीर्यवान् । वृषभस्य तु दायादः पुण्यवान्नाम पार्थिवः ॥ ५०.२९ ॥ पुण्यः पुण्यवतश्चैव राजा सत्यधृतिस्ततः । दायादस्तस्य धनुषस्तस्मात्सर्वश्च जज्ञिवान् ॥ ५०.३० ॥ सर्वस्य सम्भवः पुत्रस्तस्माद्राजा बृहद्रथः । द्वे तस्य शकले जाते जरया संधितश्च सः ॥ ५०.३१ ॥ जरया संधितो यस्माज्जरासंधस्ततः स्मृतः । जेता सर्वस्य क्षत्रस्य जरासंधो महाबलः ॥ ५०.३२ ॥ जरासंधस्य पुत्रस्तु सहदेवः प्रतापवान् । सहदेवात्मजः श्रीमान् सोमवित्स महातपाः ॥ ५०.३३ ॥ श्रुतश्रवास्तु सोमादेर्मागधाः परिकीर्तिताः । जह्नुस्त्वजनयत्पुत्रं सुरथं नाम भूमिपम् ॥ ५०.३४ ॥ सुरथस्य तु दायादो वीरो राजा विदूरथः । विदूरथसुतश्चापि सार्वभौम इति स्मृतः ॥ ५०.३५ ॥ सार्वभौमाज्जयत्सेनो रुचिरस्तस्य चात्मजः । रुचिरात्तु ततो भौमस्त्वरितायुस्ततोऽभवत् ॥ ५०.३६ ॥ अक्रोधनस्त्वायुसुतस्तस्माद्देवातिथिः स्मृतः । देवातिथेस्तु दायादो दक्ष एव बभूव ह ॥ ५०.३७ ॥ भीमसेनस्ततो दक्षाद्दिलीपस्तस्य चात्मजः । दिलीपस्य प्रतीपस्तु तस्य पुत्रास्त्रयः स्मृताः ॥ ५०.३८ ॥ देवापिः शंतनुश्चैव वाह्लीकश्चैव ते त्रयः । वाह्लीकस्य तु दायादाः सप्त वाह्लीश्वरा नृपाः । देवापिस्तु ह्यपध्यातः प्रजाभिरभवन्मुनिः ॥ ५०.३९ ॥ *मुनय ऊचुः प्रजाभिस्तु किमर्थं वै ह्यपध्यातो जनेश्वरः । को दोषो राजपुत्रस्य प्रजाभिः समुदाहृतः ॥ ५०.४० ॥ *सूत उवाच किलासीद्राजपुत्रस्तु कुष्ठी तं नाभ्यपूजयन् । कार्यं चैव तु देवानां क्षत्रं प्रति द्विजोत्तमाः । भविष्यं कीर्तयिष्यामि शंतनोस्तु निबोधत ॥ ५०.४१ ॥ शंतनुस्त्वभवद्राजा विद्वान्स वै महाभिषक् । इदं चोदाहरन्त्यत्र श्लोकं प्रति महाभिषक् ॥ ५०.४२ ॥ यं यं कराभ्यां स्पृशति जीर्णं रोगिणमेव च । पुनर्युवा च भवति तस्मात्तं शंतनुं विदुः ॥ ५०.४३ ॥ तत्तस्य शंतनुत्वं हि प्रजाभिरिह कीर्त्यते । ततोऽवृणुत भार्यार्थं शंतनुर्जाह्नवीं नृप ॥ ५०.४४ ॥ तस्यां देवव्रतं नाम कुमारं जनयद्विभुः । काली विचित्रवीर्यं तु दाशेयी जनयत्सुतम् ॥ ५०.४५ ॥ शंतनोर्दयितं पुत्रं शान्तात्मानमकल्मषम् । कृष्णद्वैपायनो नाम क्षेत्रे वैचित्रविर्यके ॥ ५०.४६ ॥ धृतराष्ट्रं च पाण्डुं च विदुरं चाप्यजीजनत् । धृतराष्ट्रस्तु गान्धार्यां पुत्रानजनयच्छतम् ॥ ५०.४७ ॥ तेषां दुर्योधनः श्रेष्ठः सर्वक्षत्रस्य वै प्रभुः । माद्री कुन्ती तथा चैव पाण्डोर्भार्ये बभूवतुः ॥ ५०.४८ ॥ देवदत्ताः सुताः पञ्च पाण्डोरर्थेऽभिजज्ञिरे । धर्माद्युधिष्ठिरो जज्ञे मारुताच्च वृकोदरः ॥ ५०.४९ ॥ इन्द्राद्धनंजयश्चैव इन्द्रतुल्यपराक्रमः । नकुलं सहदेवं च माद्र्यश्विभ्यामजीजनत् ॥ ५०.५० ॥ पञ्चैते पाण्डवेभ्यस्तु द्रौपद्यां जज्ञिरे सुताः । द्रौपद्यजनयच्छ्रेष्ठं प्रतिविन्ध्यं युधिष्ठिरात् ॥ ५०.५१ ॥ श्रुतसेनं भीमसेनाच्छ्रुतकीर्तिं धनंजयात् । चतुर्थं श्रुतकर्माणं सहदेवादजायत ॥ ५०.५२ ॥ नकुलाच्च शतानीकं द्रौपदेयाः प्रकीर्तिताः । तेभ्योऽपरे पाण्डवेयाः षडेवान्ये महारथाः ॥ ५०.५३ ॥ हैडम्बो भीमसेनात्तु पुत्रो जज्ञे घटोत्कचः । काशी बलधराद्भीमाज्जज्ञे वै सर्वगं सुतम् ॥ ५०.५४ ॥ सुहोत्रं तनयं माद्री सहदेवादसूयत । करेणुमत्यां चैद्यायां निरमित्रस्तु नाकुलिः ॥ ५०.५५ ॥ सुभद्रायां रथी पार्थादभिमन्युरजायत । यौधेयं देवकी चैव पुत्रं जज्ञे युधिष्ठिरात् ॥ ५०.५६ ॥ अभिमन्योः परीक्षित्तु पुत्रः परपुरजयः । जनमेजयः परीक्षितः पुत्रः परमधार्मिकः ॥ ५०.५७ ॥ ब्रह्माणं कल्पयामास स वै वाजसनेयकम् । स वैशम्पायनेनैव शप्तः किल महर्षिणा ॥ ५०.५८ ॥ न स्थास्यतीह दुर्बुद्धे तवैतद्वचनं भुवि । यावत्स्थास्यसि त्वं लोके तावदेव प्रपत्स्यति ॥ ५०.५९ ॥ क्षत्रस्य विजयं ज्ञात्वा ततःप्रभृति सर्वशः । अभिगम्य स्थिताश्चैव नृपं च जनमेजयम् ॥ ५०.६० ॥ ततःप्रभृति शापेन क्षत्रियस्य तु याजिनः । उत्सन्ना याजिनो यज्ञे ततःप्रभृति सर्वशः ॥ ५०.६१ ॥ क्षत्रस्य याजिनः केचिच्छापात्तस्य महात्मनः । पौर्णमासेन हविषा इष्ट्वा तस्मिन्प्रजापतिम् । स वैशम्पायनेनैव प्रविशन्वारितस्ततः ॥ ५०.६२ ॥ परीक्षितः सुतोऽसौ वै पौरवो जनमेजयः । द्विरश्वमेधमाहृत्य महावाजसनेयकः ॥ ५०.६३ ॥ प्रवर्तयित्वा तं सर्वमृषिं वाजसनेयकम् । विवादे ब्राह्मणैः सार्धमभिशप्तो वनं ययौ ॥ ५०.६४ ॥ जनमेजयाच्छतानीकस्तस्माज्जज्ञे स वीर्यवान् । जनमेजयः शतानीकं पुत्रं राज्येऽभिषिक्तवान् ॥ ५०.६५ ॥ अथाश्वमेधेन ततः शतानीकस्य वीर्यवान् । जज्ञेऽधिसोमकृष्णाख्यः साम्प्रतं यो महायशाः ॥ ५०.६६ ॥ तस्मिञ्छासति राष्ट्रं तु युष्माभिरिदमाहृतम् । दुरापं दीर्घसत्त्रं वै त्रीणि वर्षाणि पुष्करे । वर्षद्वयं कुरुक्षेत्रे दृषद्वत्यां द्विजोत्तमाः ॥ ५०.६७ ॥ *मुनय ऊचुः भविष्यं श्रोतुमिच्छामः प्रजानां लोमहर्षणे । पुरा किल यदेतद्वै व्यतीतं कीर्तितं त्वया ॥ ५०.६८ ॥ येषु वै स्थास्यते क्षत्रमुत्पत्स्यन्ते नृपाश्च ये । तेषामायुष्प्रमाणं च नामतश्चैव तान्नृपान् ॥ ५०.६९ ॥ कृतयुगप्रमाणं च त्रेताद्वापरयोस्तथा । कलियुगप्रमाणं च युगदोषं युगक्षयम् ॥ ५०.७० ॥ सुखदुःखप्रमाणं च प्रजादोषं युगस्य तु । एतत्सर्वं प्रसंख्याय पृच्छतां ब्रूहि नः प्रभो ॥ ५०.७१ ॥ *सूत उवाच यथा मे कीर्तितं पूर्वं व्यासेनाक्लिष्टकर्मणा । भाव्यं कलियुगं चैव तथा मन्वन्तराणि च ॥ ५०.७२ ॥ अनागतानि सर्वाणि ब्रुवतो मे निबोधत । अत ऊर्ध्वं प्रवक्ष्यामि भविष्या ये नृपास्तथा ॥ ५०.७३ ॥ ऐडेक्ष्वाक्वन्वये चैव पौरवे चान्वये तथा । येषु संस्थास्यते तच्च ऐडेक्ष्वाकुकुलं शुभम् । तान्सर्वान्कीर्तयिष्यामि भविष्ये कथितान्नृपान् ॥ ५०.७४ ॥ तेभ्योऽपरेऽपि ये त्वन्ये ह्युत्पत्स्यन्ते नृपाः पुनः । क्षत्राः पारशवाः शूद्रास्तथान्ये ये बहिश्चराः ॥ ५०.७५ ॥ अन्धाः शकाः पुलिन्दाश्च चूलिका यवनास्तथा । कैवर्ताभीरशबरा ये चान्ये म्लेच्छसम्भवाः । पर्यायतः प्रवक्ष्यामि नामतश्चैव तान्नृपान् ॥ ५०.७६ ॥ अधिसोमकृष्णश्चैतेषां प्रथमं वर्तते नृपः । तस्यान्ववाये वक्ष्यामि भविष्ये कथितान्नृपान् ॥ ५०.७७ ॥ अधिसोमकृष्णपुत्रस्तु विवक्षुर्भविता नृपः । गङ्गया तु हृते तस्मिन्नगरे नागसाह्वये ॥ ५०.७८ ॥ त्यक्त्वा विवक्षुर्नगरं कौशाम्ब्यां तु निवत्स्यति । भविष्याष्टौ सुतास्तस्य महाबलपराक्रमाः ॥ ५०.७९ ॥ भूरिर्ज्येष्ठः सुतस्तस्य तस्य चित्ररथः स्मृतः । शुचिद्रवश्चित्ररथाद्वृष्णिमांश्च शुचिद्रवात् ॥ ५०.८० ॥ वृष्णिमतः सुषेणश्च भविष्यति शुचिर्नृपः । तस्मात्सुषेणाद्भविता सुनीथो नाम पार्थिवः ॥ ५०.८१ ॥ नृपात्सुनीथाद्भविता नृचक्षुः सुमहायशाः । नृचक्षुषस्तु दायादो भविता वै सुखीवलः ॥ ५०.८२ ॥ सुखीवलसुतश्चापि भावी राजा परिष्णवः । परिष्णवसुतश्चापि भविता सुतपा नृपः ॥ ५०.८३ ॥ मेधावी तस्य दायादो भविष्यति न संशयः । मेधाविनः सुतश्चापि भविष्यति पुरंजयः ॥ ५०.८४ ॥ उर्वो भाव्यः सुतस्तस्य तिग्मात्मा तस्य चात्मजः । तिग्माद्बृहद्रथो भाव्यो वसुदामा बृहद्रथात् ॥ ५०.८५ ॥ वसुदाम्नः शतानीको भविष्योदयनस्ततः । भविष्यते चोदयनाद्वीगे राजा वहीनरः ॥ ५०.८६ ॥ वहीनरात्मजश्चैव दण्डपाणिर्भविष्यति । दण्डपाणेर्निरमित्रो निरमित्रात्तु क्षेमकः ॥ ५०.८७ ॥ अत्रानुवंशश्लोकोऽयं गीतो विप्रैः पुरातनैः । ब्रह्मक्षत्रस्य यो योनिर्वंशो देवर्षिसत्कृतः । क्षेमकं प्राप्य राजानं संस्थास्यति कलौ युगे ॥ ५०.८८ ॥ इत्येष पौरवो वंशो यथावदिह कीर्तितः । धीमतः पाण्डुपुत्रस्य चार्जुनस्य महात्मनः ॥ ५०.८९ ॥ ______________________________________________________ मत्स्यपुराण ५१ *ऋषय ऊचुः ये पूज्याः स्युर्द्विजातीनामग्नयः सूत सर्वदा । तानिदानीं समाचक्ष्व तद्वंशं चानुपूर्वशः ॥ ५१.१ ॥ *सूत उवाच योऽसावग्निरभीमानी स्मृतः स्वायम्भुवेऽन्तरे । ब्रह्मणो मानसः पुत्रस्तस्मात्स्वाहा व्यजीजनत् ॥ ५१.२ ॥ पावकं पवमानं च शुचिरग्निश्च यः स्मृतः । निर्मथ्यः पवमानोऽग्निर्वैद्युतः पावकात्मजः ॥ ५१.३ ॥ शुचिरग्निः स्मृतः सौरः स्थावराश्चैव ते स्मृताः । पवमानात्मजो ह्यग्निर्हव्यवाहः स उच्यते ॥ ५१.४ ॥ पावकः सहरक्षस्तु हव्यवाहमुखः शुचिः । देवानां हव्यवाहोऽग्निः प्रथमो ब्रह्मणः सुतः ॥ ५१.५ ॥ सहरक्षः सुराणां तु त्रयाणां ते त्रयोऽग्नयः । एतेषां पुत्रपौत्राश्च चत्वारिंशत्तथैव च ॥ ५१.६ ॥ प्रवक्ष्ये नामतस्तान्वै प्रविभागेन तान्पृथक् । पावनो लौकिको ह्यग्निः प्रथमो ब्रह्मणश्च यः ॥ ५१.७ ॥ ब्रह्मौदनाग्निस्तत्पुत्रो भरतो नाम विश्रुतः । वैश्वानरो हव्यवाहो वहन्हव्यं ममार सः ॥ ५१.८ ॥ स मृतोऽथर्वणः पुत्रो मथितः पुष्करोदधिः । योऽथर्वा लौकिको ह्यग्निर्दक्षिणाग्निः स उच्यते ॥ ५१.९ ॥ भृगोः प्रजायताथर्वा ह्यङ्गिराथर्वणः स्मृतः । तस्य ह्यलौकिको ह्यग्निर्दक्षिणाग्निः स वै स्मृतः ॥ ५१.१० ॥ अथ यः पवमानस्तु निर्मथ्योऽग्निः स उच्यते । स च वै गार्हपत्योऽग्निः प्रथमो ब्रह्मणः स्मृतः ॥ ५१.११ ॥ ततः सभ्यावसथ्यौ च संशत्यास्तौ सुतावुभौ । ततः षोडश नद्यस्तु चकमे हव्यवाहनः । यः खल्वाहवनीयोऽग्निरभिमानी द्विजैः स्मृतः ॥ ५१.१२ ॥ कावेरीं कृष्णवेणीं च नर्मदां यमुनां तथा । गोदावरीं वितस्तां च चन्द्रभागामिरावतीम् ॥ ५१.१३ ॥ विपाशां कौशिकीं चैव शतद्रुं सरयूं तथा । सीतां मनस्विनीं चैव ह्रादिनीं पावनां तथा ॥ ५१.१४ ॥ तासु षोडशधात्मानं प्रविभज्य पृथक्पृथक् । तदा तु विहरंस्तासु धिष्ण्येच्छः स बभूव ह ॥ ५१.१५ ॥ स्वाभिधानस्थिता धिष्ण्यास्तासूत्पन्नाश्च धिष्णवः । धिष्ण्येषु जज्ञिरे यस्मात्ततस्ते धिष्णवः स्मृताः ॥ ५१.१६ ॥ इत्येते वै नदीपुत्रा धिष्ण्येषु प्रतिपेदिरे । तेषां विहरणीया ये उपस्थेयाश्च ताञ्शृणु । विभुः प्रवाहणोऽग्नीध्रस्तत्रस्था धिष्णवोऽपरे ॥ ५१.१७ ॥ विहरति यथास्थानं पुण्याहे समुपक्रमे । अनिर्देश्यानिवार्याणामग्नीनां शृणुत क्रमम् ॥ ५१.१८ ॥ वासवोऽग्निः कृशानुर्यो द्वितीयोत्तरवेदिकः । सम्राडग्निसुतो ह्यष्टावुपतिष्ठन्ति तान्द्विजाः ॥ ५१.१९ ॥ पर्जन्यः पवमानस्तु द्वितीयः सोऽनुदृश्यते । पावकोष्णः समूह्यस्तु वोत्तरे सोऽग्निरुच्यते ॥ ५१.२० ॥ हव्यसूदो ह्यसंमृज्यः शामित्रः स विभाव्यते । शतधामा सुधाज्योती रौद्रैश्वर्यः स उच्यते ॥ ५१.२१ ॥ ब्रह्मज्योतिर्वसुधामा ब्रह्मस्थानीय उच्यते । अजैकपादुपस्थेयः स वै शालामुखो यतः ॥ ५१.२२ ॥ अनिर्देश्यो ह्यहिर्बुध्न्यो बहिरन्ते तु दक्षिणौ । पुत्रा ह्येते तु सर्वस्य उपस्थेया द्विजैः स्मृताः ॥ ५१.२३ ॥ ततो विहरणीयांस्तु वक्ष्याम्यष्टौ तु तान्सुतान् । हौत्रियस्य सुतो ह्यग्निर्बर्हिषो हव्यवाहनः ॥ ५१.२४ ॥ प्रशंस्योऽग्निः प्रचेतास्तु द्वितीयः संसहायकः । सुतो ह्यग्नेर्विश्ववेदा ब्राह्मणाच्छंसिरुच्यते ॥ ५१.२५ ॥ अपां योनिः स्मृतः स्वाम्भः सेतुर्नाम विभाव्यते । धिष्ण्य आहरणा ह्येते सोमेनेज्यन्त वै द्विजैः ॥ ५१.२६ ॥ ततो यः पावको नाम्ना यः सद्भिर्योग उच्यते । अग्निः सोऽवभृथो ज्ञेयो वरुणेन सहेज्यते ॥ ५१.२७ ॥ हृदयस्य सुतो ह्यग्नेर्जठरेऽसौ नृणां पचन् । मन्युमाञ्जठरश्चाग्निर्विद्धाग्निः सततं स्मृतः ॥ ५१.२८ ॥ परस्परोत्थितो ह्यग्निर्भूतानीह विभुर्दहन् । अग्नेर्मन्युमतः पुत्रो घोरः संवर्तकः स्मृतः ॥ ५१.२९ ॥ पिबन्नपः स वसति समुद्रे वडवामुखे । समुद्रवासिनः पुत्रः सहरक्षो विभाव्यते ॥ ५१.३० ॥ सहरक्षस्तु वै कामान् गृहे स वसते नृणाम् । क्रव्यादग्निः सुतस्तस्य पुरुषान्योऽत्ति वै मृतान् ॥ ५१.३१ ॥ इत्येते पावकस्याग्नेर्द्विजैः पुत्राः प्रकीर्तिताः । ततः सुतास्तु सौवीर्याद्गन्धर्वैरसुरैर्हृताः ॥ ५१.३२ ॥ मथितो यस्त्वरण्यां तु सोऽग्निराप समिन्धनम् । आयुर्नाम्ना तु भगवान् पशौ यस्तु प्रणीयते ॥ ५१.३३ ॥ आयुषो महिमान्पुत्रो दहनस्तु ततः सुतः । पाकयज्ञेष्वभीमानी हुतं हव्यं भुनक्ति यः ॥ ५१.३४ ॥ सर्वस्माद्देवलोकाच्च हव्यं कव्यं भुनक्ति यः । पुत्रोऽस्य सहितो ह्यग्निरद्भुतः स महायशाः ॥ ५१.३५ ॥ प्रायश्चित्तेष्वभीमानी हृतं हव्यं भुनक्ति यः । अद्भुतस्य सुतो वीरो देवांशस्तु महान्स्मृतः ॥ ५१.३६ ॥ विविधाग्निस्ततस्तस्य तस्य पुत्रो महाकविः । विविधाग्निसुतादर्कादग्नयोऽष्टौ सुताः स्मृताः ॥ ५१.३७ ॥ काम्यास्विष्टिष्वभीमानी रक्षोहायतिकृच्च यः । सुरभिर्वसुमान्नादो हर्यश्वश्चैव रुक्मवान् ॥ ५१.३८ ॥ प्रवर्ग्यः क्षेमवांश्चैव इत्यष्टौ च प्रकीर्तिताः । शुच्यग्नेस्तु प्रजा ह्येषा अग्नयश्च चतुर्दश ॥ ५१.३९ ॥ इत्येते ह्यग्नयः प्रोक्ताः प्रणीता ये हि चाध्वरे । समतीते तु सर्गे ये यामैः सह सुरोत्तमैः ॥ ५१.४० ॥ स्वायम्भुवेऽन्तरे पूर्वमग्नयस्तेऽभिमानिनः । एते विहरणीयेषु चेतनाचेतनेष्विह ॥ ५१.४१ ॥ स्थानाभिमानिनोऽग्नीध्राः प्रागासन्हव्यवाहनाः । काम्यनैमित्तिकाद्यास्ते ये ते कर्मस्ववस्थिताः ॥ ५१.४२ ॥ पूर्वे मन्वन्तरेऽतीते शुक्रैर्यामैश्च तैः सह । एते देवगणैः सार्धं प्रथमस्यान्तरे मनोः ॥ ५१.४३ ॥ इत्येता योनयो ह्यक्ताः स्थानाख्या जातवेदसाम् । स्वारोचिषादिषु ज्ञेयाः सवर्णान्तेषु सप्तसु ॥ ५१.४४ ॥ तैरेवं तु प्रसंख्यातं साम्प्रतानागतेष्विह । मन्वन्तरेषु सर्वेषु लक्षणं जातवेदसाम् ॥ ५१.४५ ॥ मन्वन्तरेषु सर्वेषु नानारूपप्रयोजनैः । वर्तन्ते वर्तमानैश्च यामैर्देवैः सहाग्नयः ॥ ५१.४६ ॥ अनागतैः सुरैः सार्धं वत्स्यन्तोऽनागतास्त्वथ । इत्येष प्रचयोऽग्नीनां मया प्रोक्तो यथाक्रमम् । विस्तरेणानुपूर्व्या च किमन्यच्छ्रोतुमिच्छथ ॥ ५१.४७ ॥ ______________________________________________________ मत्स्यपुराण ५२ *ऋषय ऊचुः इदानीं प्राह यद्विष्णुः पृष्टः परममुत्तमम् । तदिदानीं समाचक्ष्व धर्माधर्मस्य विस्तरम् ॥ ५२.१ ॥ *सूत उवाच एवमेकार्णवे तस्मिन्मत्स्यरूपी जनार्दनः । विस्तारमादिसर्गस्य प्रतिसर्गस्य चाखिलम् ॥ ५२.२ ॥ कथयामास विश्वात्मा मनवे सूर्यसूनवे । कर्मयोगं च सांख्यं च यथावद्विस्तरान्वितम् ॥ ५२.३ ॥ *ऋषय ऊचुः श्रोतुमिच्छामहे सूत कर्मयोगस्य लक्षणम् । यस्मादविदितं लोके न किंचित्तव सुव्रत ॥ ५२.४ ॥ *सूत उवाच कर्मयोगं च वक्ष्यामि यथा विष्णुविभाषितम् । ज्ञानयोगसहस्राद्धि कर्मयोगः प्रशस्यते ॥ ५२.५ ॥ कर्मयोगोद्भवं ज्ञानं तस्मात्तत्परमं पदम् । कर्मज्ञानोद्भवं ब्रह्म न च ज्ञानमकर्मणः ॥ ५२.६ ॥ तस्मात्कर्मणि युक्तात्मा तत्त्वमाप्नोति शाश्वतम् । वेदोऽखिलो धर्ममूलमाचारश्चैव तद्विदाम् ॥ ५२.७ ॥ अष्टावात्मगुणास्तस्मिन् प्रधानत्वेन संस्थिताः । दया सर्वेषु भूतेषु क्षान्ती रक्षातुरस्य तु ॥ ५२.८ ॥ अनसूया तथा लोके शौचमन्तर्बहिर्द्विजाः । अनायासेषु कार्येषु माङ्गल्याचारसेवनम् ॥ ५२.९ ॥ न च द्रव्येषु कार्पण्यमार्तेषूपार्जितेषु च । तथास्पृहा परद्रव्ये परस्त्रीषु च सर्वदा ॥ ५२.१० ॥ अष्टावात्मगुणाः प्रोक्ताः पुराणस्य तु कोविदैः । अयमेव क्रियायोगो ज्ञानयोगस्य साधकः ॥ ५२.११ ॥ कर्मयोगं विना ज्ञानं कस्यचिन्नेह दृश्यते । श्रुतिस्मृत्युदितं धर्ममुपतिष्ठेत्प्रयत्नतः ॥ ५२.१२ ॥ देवतानां पितॄणां च मनुष्याणां च सर्वदा । कुर्यादहरहर्यज्ञैर्भूतर्षिगणतर्पणम् ॥ ५२.१३ ॥ स्वाध्यायैरर्चयेच्चर्षीन् होमैर्विद्वान्यथाविधि । पितॄञ्छ्राद्धैरन्नदानैर्भूतानि बलिकर्मभिः ॥ ५२.१४ ॥ पञ्चैते विहिता यज्ञाः पञ्चसूनापनुत्तये । कण्डनी पेषणी चुल्ली जलकुम्भी प्रमार्जनी ॥ ५२.१५ ॥ पञ्च सूना गृहस्थस्य तेन स्वर्गं न गच्छति । तत्पापनाशनायामी पञ्च यज्ञाः प्रकीर्तिताः ॥ ५२.१६ ॥ द्वाविंशतिस्तथाष्टौ च ये संस्काराः प्रकीर्तिताः । तद्युक्तोऽपि न मोक्षाय यस्त्वात्मगुणवर्जितः ॥ ५२.१७ ॥ तस्मादात्मगुणोपेतः श्रुतिकर्म समाचरेत् । गोब्राह्मणानां वित्तेन सर्वदा भद्रमाचरेत् ॥ ५२.१८ ॥ गोभूहिरण्यवासोभिर्गन्धमाल्योदकेन च । पूजयेद्ब्रह्मविष्ण्वर्करुद्रवस्वात्मकं शिवम् ॥ ५२.१९ ॥ व्रतोपवासैर्विधिवच्छ्रद्धया च विमत्सरः । योऽसावतीन्द्रियः शान्तः सूक्ष्मोऽव्यक्तः सनातनः । वासुदेवो जगन्मूर्तिस्तस्य सम्भूतयो ह्यमी ॥ ५२.२० ॥ ब्रह्मा विष्णुश्च भगवान्मार्तण्डो वृषवाहनः । अष्टौ च वसवस्तद्वदेकादश गणाधिपाः । लोकपालाधिपाश्चैव पितरो मातरस्तथा ॥ ५२.२१ ॥ इमा विभूतयः प्रोक्ताश्चराचरसमन्विताः । ब्रह्माद्याश्चतुरो मूलमव्यक्ताधिपतिः स्मृतः ॥ ५२.२२ ॥ ओं ओं ब्रह्मणा चाथ सूर्येण विष्णुनाथ शिवेन वा । अभेदात्पूजितेन स्यात्पूजितं सचराचरम् ॥ ५२.२३ ॥ ब्रह्मादीनां परं धाम त्रयाणामपि संस्थितिः । वेदमूर्तावतः पूषा पूजनीयः प्रयत्नतः ॥ ५२.२४ ॥ तस्मादग्निद्विजमुखान् कृत्वा सम्पूजयेदिमान् । दानैर्व्रतोपवासैश्च जपहोमादिना नरः ॥ ५२.२५ ॥ इति क्रियायोगपरायणस्य वेदान्तशास्त्रस्मृतिवत्सलस्य । विकर्मभीतस्य सदा न किंचित्प्राप्तव्यमस्तीह परे च लोके ॥ ५२.२६ ॥ ______________________________________________________ मत्स्यपुराण ५३ *मुनय ऊचुः पुराणसंख्यामाचक्ष्व सूत विस्तरशः क्रमात् । दानधर्ममशेषं तु यथावदनुपूर्वशः ॥ ५३.१ ॥ *सूत उवाच इदमेव पुराणेषु पुराणपुरुषस्तदा । यदुक्तवान्स विश्वात्मा मनवे तन्निबोधत ॥ ५३.२ ॥ *मत्स्य उवाच पुराणं सर्वशास्त्राणां प्रथमं ब्रह्मणा स्मृतम् । अनन्तरं च वक्त्रेभ्यो वेदास्तस्य विनिर्गताः ॥ ५३.३ ॥ पुराणमेकमेवासीत्तदा कल्पान्तरेऽनघ । त्रिवर्गसाधनं पुण्यं शतकोटिप्रविस्तरम् ॥ ५३.४ ॥ निर्दग्धेषु च लोकेषु वाजिरूपेण वै मया । अङ्गानि चतुरो वेदान् पुराणं न्यायविस्तरम् ॥ ५३.५ ॥ मीमांसां धर्मशास्त्रं च परिगृह्य मया कृतम् । मत्स्यरूपेण च पुनः कल्पादावुदकार्णवे ॥ ५३.६ ॥ अशेषमेतत्कथितमुदकान्तर्गतेन च । श्रुत्वा जगाद च मुनीन् प्रति देवांश्चतुर्मुखः ॥ ५३.७ ॥ प्रवृत्तिः सर्वशास्त्राणां पुराणस्याभवत्ततः । कालेनाग्रहणं दृष्ट्वा पुराणस्य ततो नृप ॥ ५३.८ ॥ व्यासरूपमहं कृत्वा संहरामि युगे युगे । चतुर्लक्षप्रमाणेन द्वापरे द्वापरे सदा ॥ ५३.९ ॥ तथाष्टादशधा कृत्वा भूर्लोकेऽस्मिन्प्रकाश्यते । अद्यापि देवलोकेऽस्मिञ्छतकोटिप्रविस्तरम् ॥ ५३.१० ॥ तदर्थोऽत्र चतुर्लक्षं संक्षेपेण निवशितः । पुराणानि दशाष्टौ च साम्प्रतं तदिहोच्यते ॥ ५३.११ ॥ नामतस्तानि वक्ष्यामि शृणुध्वं मुनिसत्तमाः । ब्रह्मणाभिहितं पूर्वं यावन्मात्रं मरीचये ॥ ५३.१२ ॥ ब्राह्मं त्रिदशसाहस्रं पुराणं परिकीर्त्यते । लिखित्वा तच्च यो दद्याज्जलधेनुसमन्वितम् । वैशाखपूर्णिमायां च ब्रह्मलोके महीयते ॥ ५३.१३ ॥ एतदेव यदा पद्ममभूद्धैरण्मयं जगत् । तद्वृत्तान्ताश्रयं तद्वत्पाद्ममित्युच्यते बुधैः । पाद्मं तत्पञ्चपञ्चाशत्सहस्राणीह कथ्यते ॥ ५३.१४ ॥ तत्पुराणं च यो दद्यात्सुवर्णकमलान्वितम् । ज्येष्ठे मासि तिलैर्युक्तमश्वमेधफलं लभेत् ॥ ५३.१५ ॥ वाराहकल्पवृत्तान्तमधिकृत्य पराशरः । यत्प्राह धर्मानखिलांस्तद्युक्तं वैष्णवं विदुः ॥ ५३.१६ ॥ तदाषाढे च यो दद्याद्घृतधेनुसमन्वितम् । पौर्णमास्यां विपूतात्मा स पदं याति वारुणम् । त्रयोविंशतिसाहस्रं तत्प्रमाणं विदुर्बुधाः ॥ ५३.१७ ॥ श्वेतकल्पप्रसङ्गेन धर्मान्वायुरिहाब्रवीत् । यत्र तद्वायवीयं स्याद्रुद्रमाहात्म्यसंयुतम् । चतुर्विंशसहस्राणि पुराणं तदिहोच्यते ॥ ५३.१८ ॥ श्रावण्यां श्रावणे मासि गुडधेनुसमन्वितम् । यो दद्याद्वृषसंयुक्तं ब्राह्मणाय कुटुम्बिने । शिवलोके स पूतात्मा कल्पमेकं वसेन्नरः ॥ ५३.१९ ॥ यत्राधिकृत्य गायत्रीं वर्ण्यते धर्मविस्तरः । वृत्रासुरवधोपेतं तद्भागवतमुच्यते ॥ ५३.२० ॥ सारस्वतस्य कल्पस्य मध्ये ये स्युर्नरोत्तमाः । तद्वृत्तान्तोद्भवं लोके तद्भागवतमुच्यते ॥ ५३.२१ ॥ लिखित्वा तच्च यो दद्याद्धेमसिंहसमन्वितम् । पौर्णमास्यां प्रौष्ठपद्यां स याति परमां गतिम् । अष्टादश सहस्राणि पुराणं तत्प्रचक्षते ॥ ५३.२२ ॥ यत्राह नारदो धर्मान् बृहत्कल्पाश्रयाणि च । पञ्चविंशत्सहस्राणि नारदीयं तदुच्यते ॥ ५३.२३ ॥ आश्विने पञ्चदश्यां तु दद्याद्धेनुसमन्वितम् । परमां सिद्धिमाप्नोति पुनरावृत्तिदुर्लभाम् ॥ ५३.२४ ॥ यत्राधिकृत्य शकुनीन् धर्माधर्मविचारणा । व्याख्याता वै मुनिप्रश्ने मुनिभिर्धर्मचारिभिः ॥ ५३.२५ ॥ मार्कण्डेयेन कथितं तत्सर्वं विस्तरेण तु । पुराणं नवसाहस्रं मार्कण्डेयमिहोच्यते ॥ ५३.२६ ॥ प्रतिलिख्य च यो दद्यात्सौवर्णकरिसंयुतम् । कार्त्तिक्यां पुण्डरीकस्य यज्ञस्य फलभाग्भवेत् ॥ ५३.२७ ॥ यत्तदीशानकं कल्पं वृत्तान्तमधिकृत्य च । वसिष्ठायाग्निना प्रोक्तमाग्नेयं तत्प्रचक्षते ॥ ५३.२८ ॥ लिखित्वा तच्च यो दद्याद्धेमपद्मसमन्वितम् । मार्गशीर्ष्यां विधानेन तिलधेनुसमन्वितम् ॥ ५३.२९ ॥ तच्च षोडशसाहस्रं सर्वक्रतुफलप्रदम् । यः प्रदधन्नरः सोऽथ स्वर्गलोके महीयते ॥ ५३.३० ॥ यत्राधिकृत्य माहात्म्यमादित्यस्य चतुर्मुखः । अघोरकल्पवृत्तान्तप्रसङ्गेन जगत्स्थितिम् । मनवे कथयामास भूतग्रामस्य लक्षणम् ॥ ५३.३१ ॥ चतुर्दश सहस्राणि तथा पञ्च शतानि च । भविष्यचरितप्रायं भविष्यं तदिहोच्यते ॥ ५३.३२ ॥ तत्पौषे मासि यो दद्यात्पौर्णमास्यां विमत्सरः । गुडकुम्भसमायुक्तमग्निष्टोमफलं भवेत् ॥ ५३.३३ ॥ रथंतरस्य कल्पस्य वृत्तान्तमधिकृत्य च । सावर्णिना नारदाय कृष्णमाहात्म्यमुत्तमम् ॥ ५३.३४ ॥ यत्र ब्रह्मवराहस्य चोदन्तं वर्णितं मुहुः । तदष्टादशसाहस्रं ब्रह्मवैवर्तमुच्यते ॥ ५३.३५ ॥ पुराणं ब्रह्मवैवर्तं यो दद्यान्माघमासि च । पौर्णमास्यां शुभदिने ब्रह्मलोके महीयते ॥ ५३.३६ ॥ यत्राग्निलिङ्गमध्यस्थः प्राह देवो महेश्वरः । धर्मार्थकाममोक्षार्थमाग्नेयमधिकृत्य च ॥ ५३.३७ ॥ कल्पान्ते लैङ्गमित्युक्तं पुराणं ब्रह्मणा स्वयम् । तदेकादशसाहस्रं फाल्गुन्यां यः प्रयच्छति । तिलधेनुसमायुक्तं स याति शिवसाम्यताम् ॥ ५३.३८ ॥ महावराहस्य पुनर्माहात्म्यमधिकृत्य च । विष्णुनाभिहितं क्षोण्यै तद्वाराहमिहोच्यते ॥ ५३.३९ ॥ मानवस्य प्रसङ्गेन कल्पस्य मुनिसत्तमाः । चतुर्विंशत्सहस्राणि तत्पुराणमिहोच्यते ॥ ५३.४० ॥ काञ्चनं गरुडं कृत्वा तिलधेनुसमन्वितम् । पौर्णमास्यां मधौ दद्याद्ब्राह्मणाय कुटुम्बिने । वराहस्य प्रसादेन पदमाप्नोति वैष्णवम् ॥ ५३.४१ ॥ यत्र माहेश्वरान्धर्मानधिकृत्य च षण्मुखः । कल्पे तत्पुरुषं वृत्तं चरितैरुपबृंहितम् ॥ ५३.४२ ॥ स्कान्दं नाम पुराणं च ह्येकाशीतिर्निगद्यते । सहस्राणि शतं चैकमिति मर्त्येषु गद्यते ॥ ५३.४३ ॥ परिलिख्य च यो दद्याद्धेमशूलसमन्वितम् । शैवं पदमवाप्नोति मीने चोपागते रवौ ॥ ५३.४४ ॥ त्रिविक्रमस्य माहात्म्यमधिकृत्य चतुर्मुखः । त्रिवर्गमभ्यधात्तच्च वामनं परिकीर्तितम् ॥ ५३.४५ ॥ पुराणं दशसाहस्रं कूर्मकल्पानुगं शिवम् । यः शरद्विषुवे दद्याद्वैष्णवं यात्यसौ पदम् ॥ ५३.४६ ॥ यत्र धर्मार्थकामानां मोक्षस्य च रसातले । माहात्म्यं कथयामास कूर्मरूपी जनार्दनः ॥ ५३.४७ ॥ इन्द्रद्युम्नप्रसङ्गेन ऋषिभ्यः शक्रसंनिधौ । अष्टादश सहस्राणि लक्ष्मीकल्पानुषङ्गिकम् ॥ ५३.४८ ॥ यो दद्यादयने कूर्मं हेमकूर्मसमन्वितम् । गोसहस्रप्रदानस्य फलं सम्प्राप्नुयान्नरः ॥ ५३.४९ ॥ श्रुतीनां यत्र कल्पादौ प्रवृत्त्यर्थं जनार्दनः । मत्स्यरूपेण मनवे नरसिंहोपवर्णनम् ॥ ५३.५० ॥ अधिकृत्याब्रवीत्सप्तकल्पवृत्तं मुनीश्वराः । तन्मात्स्यमिति जानीध्वं सहस्राणि चतुर्दश ॥ ५३.५१ ॥ विषुवे हेममत्स्येन धेन्वा चैव समन्वितम् । यो दद्यात्पृथिवी तेन दत्ता भवति चाखिला ॥ ५३.५२ ॥ यदा च गारुडे कल्पे विश्वाण्डाद्गरुडोद्भवम् । अधिकृत्याब्रवीत्कृष्णो गारुडं तदिहोच्यते ॥ ५३.५३ ॥ तदष्टादशकं चैकं सहस्राणीह पठ्यते । सौवर्णहंससंयुक्तं यो ददाति पुमानिह । स सिद्धिं लभते मुख्यां शिवलोके च संस्थितिम् ॥ ५३.५४ ॥ ब्रह्मा ब्रह्माण्डमाहात्म्यमधिकृत्याब्रवीत्पुनः । तच्च द्वादशसाहस्रं ब्रह्माण्डं द्विशताधिकम् ॥ ५३.५५ ॥ भविष्याणां च कल्पानां श्रूयते यत्र विस्तरः । तद्ब्रह्माण्डपुराणं च ब्रह्मणा समुदाहृतम् ॥ ५३.५६ ॥ यो दद्यात्तद्व्यतीपाते पीतोर्णायुगसंयुतम् । राजसूयसहस्रस्य फलमाप्नोति मानवः । हेमधेन्वा युतं तच्च ब्रह्मलोकफलप्रदम् ॥ ५३.५७ ॥ चतुर्लक्षमिदं प्रोक्तं व्यासेनाद्भुतकर्मणा । मत्पितुर्मम पित्रा च मया तुभ्यं निवेदितम् ॥ ५३.५८ ॥ इह लोकहितार्थाय संक्षिप्तं परमर्षिणा । इदमद्यापि देवेषु शतकोटिप्रविस्तरम् ॥ ५३.५९ ॥ उपभेदान्प्रवक्ष्यामि लोके ये सम्प्रतिष्ठिताः । पाद्मे पुराणे यत्रोक्तं नरसिंहोपवर्णनम् । तच्चाष्टादशसाहस्रं नारसिंहमिहोच्यते ॥ ५३.६० ॥ नन्दाया यत्र माहात्म्यं कार्त्तिकेयेन वर्ण्यते । नन्दीपुराणं तल्लोकैराख्यातमिति कीर्त्यते ॥ ५३.६१ ॥ यत्र साम्बं पुरस्कृत्य भविष्यति कथानकम् । प्रोच्यते तत्पुनर्लोके साम्बमेतन्मुनिव्रताः ॥ ५३.६२ ॥ पुरातनस्य कल्पस्य पुराणानि विदुर्बुधाः । धन्यं यशस्यमायुष्यं पुराणानामनुक्रमम् । एवमादित्यसंज्ञा च तत्रैव परिगद्यते ॥ ५३.६३ ॥ अष्टादशभ्यस्तु पृथक्पुराणं यत्प्रदिश्यते । विजानीध्वं द्विजश्रेष्ठास्तदेतेभ्यो विनिर्गतम् ॥ ५३.६४ ॥ पञ्चाङ्गानि पुराणेषु आख्यानकमिति स्मृतम् । सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंश्यानुचरितं चैव पुराणं पञ्चलक्षणम् ॥ ५३.६५ ॥ ब्रह्मविष्ण्वर्करुद्राणां माहात्म्यं भुवनस्य च । ससंहारप्रदानां च पुराणे पञ्चवर्णके ॥ ५३.६६ ॥ धर्मश्चार्थश्च कामश्च मोक्षश्चैवात्र कीर्त्यते । सर्वेष्वपि पुराणेषु तद्विरुद्धं च यत्फलम् ॥ ५३.६७ ॥ सात्त्विकेषु पुराणेषु माहात्म्यमधिकं हरेः । राजसेषु च माहात्म्यमधिकं ब्रह्मणो विदुः ॥ ५३.६८ ॥ तद्वदग्नेश्च माहात्म्यं तामसेषु शिवस्य च । संकीर्णेषु सरस्वत्याः पितॄणां च निगद्यते ॥ ५३.६९ ॥ अष्टादश पुराणानि कृत्वा सत्यवतीसुतः । भारताख्यानमखिलं चक्रे तदुपबृंहितम् । लक्षेणैकेन यत्प्रोक्तं वेदार्थपरिबृंहितम् ॥ ५३.७० ॥ वाल्मीकिना तु यत्प्रोक्तं रामोपाख्यानमुत्तमम् । ब्रह्मणाभिहितं यच्च शतकोटिप्रविस्तरम् ॥ ५३.७१ ॥ आहृत्य नारदायैवं तेन वाल्मीकये पुनः । वाल्मीकिना च लोकेषु धर्मकामार्थसाधनम् । एवं सपादाः पञ्चैते लक्षा मर्त्ये प्रकीर्तिताः ॥ ५३.७२ ॥ पुरातनस्य कल्पस्य पुराणानि विदुर्बुधाः । धन्यं यशस्यमायुष्यं पुराणानामनुक्रमम् । यः पठेच्छृणुयाद्वापि स याति परमां गतिम् ॥ ५३.७३ ॥ इदं पवित्रं यशसो निधानमिदं पितॄणामतिवल्लभं च । इदं च देवेष्वमृतायितं च नित्यं त्विदं पापहरं च पुंसाम् ॥ ५३.७४ ॥ ______________________________________________________ मत्स्यपुराण ५४ *सूत उवाच अतः परं प्रवक्ष्यामि दानधर्मानशेषतः । व्रतोपवाससंयुक्तान् यथामत्स्योदितानिह ॥ ५४.१ ॥ महादेवस्य संवादे नारदस्य च धीमतः । यथावृत्तं प्रवक्ष्यामि धर्मकामार्थसाधकम् ॥ ५४.२ ॥ कैलासशिखरासीनमपृच्छन्नारदः पुरा । विनयनमनङ्गारिमनङ्गाङ्गहरं हरम् ॥ ५४.३ ॥ *नारद उवाच भगवन्देवदेवेश ब्रह्मविष्ण्विन्द्रनायक । श्रीमदारोग्यरूपायुर्भाग्यसौभाग्यसम्पदा । संयुक्तस्तव विष्णोर्वा पुमान्भक्तः कथं भवेत् ॥ ५४.४ ॥ नारी वा विधवा सर्वगुणसौभाग्यसंयुता । क्रमान्मुक्तिप्रदं देव किंचिद्व्रतमिहोच्यताम् ॥ ५४.५ ॥ *ईश्वर उवाच सम्यक्पृष्टं त्वया ब्रह्मन् सर्वलोकहितावहम् । श्रुतमप्यत्र यच्छान्त्यै तद्व्रतं शृणु नारद ॥ ५४.६ ॥ नक्षत्रपुरुषं नाम व्रतं नारायणात्मकम् । पादादि कुर्याद्विधिवद्विष्णुनामानुकीर्तनम् ॥ ५४.७ ॥ प्रतिमां वासुदेवस्य मूलर्क्षादिषु चार्चयेत् । चैत्रमासं समासाद्य कृत्वा ब्राह्मणवाचनम् ॥ ५४.८ ॥ मूले नमो विश्वधराय पादौ गुल्फावनन्ताय च रोहिणीषु । जङ्घेऽभिपूज्ये वरदाय चैव द्वे जानुनी वाश्विकुमारऋक्षे ॥ ५४.९ ॥ पूर्वोत्तराषाढयुगे तथोरू नमः शिवायेत्यभिपूजनीयौ । पूर्वोत्तराफल्गुनियुग्मके च मेढ्रं नमः पञ्चशराय पूज्यम् ॥ ५४.१० ॥ कटिं नमः शार्ङ्गधराय विष्णोः सम्पूजयेन्नारद कृत्तिकासु । तथार्चयेद्भाद्रपदाद्वये च पार्श्वे नमः केशिनिषूदनाय ॥ ५४.११ ॥ कुक्षिद्वयं नारद रेवतीषु दामोदरायेत्यभिपूजनीयम् । ऋक्षेऽनुराधासु च माधवाय नमस्तथोरःस्थलमेव पूज्यम् ॥ ५४.१२ ॥ पृष्ठं धनिष्ठासु च पूजनीयमघौघविध्वंसकराय तच्च । श्रीशङ्खचक्रासिगदाधराय नमो विशाखासु भुजाश्च पूज्याः ॥ ५४.१३ ॥ हस्ते तु हस्ता मधुसूदनाय नमोऽभिपूज्या इति कैटभारेः । पुनर्वसावङ्गुलिपूर्वभागाः साम्नामधीशाय नमोऽभिपूज्याः ॥ ५४.१४ ॥ भुजंगनक्षत्रदिने नखानि सम्पूजयेन्मत्स्यशरीरभाजः । कूर्मस्य पादौ शरणं व्रजामि ज्येष्ठासु कण्ठे हरिरर्चनीयः ॥ ५४.१५ ॥ श्रोत्रे वराहाय नमोऽभिपूज्या जनार्दनस्य श्रवणेन सम्यक् । पुष्ये मुखं दानवसूदनाय नमो नृसिंहाय च पूजनीयम् ॥ ५४.१६ ॥ नमो नमः कारणवामनाय स्वातीषु दन्ताग्रमथार्चनीयम् । आस्यं हरेर्भार्गवनन्दनाय संपूजनीयं द्विज वारुणे तु ॥ ५४.१७ ॥ नमोऽस्तु रामाय मघासु नासा संपूजनीया रघुनन्दनस्य । मृगोत्तमाङ्गे नयनेऽभिपूज्ये नमोऽस्तु ते राम विघूर्णिताक्ष ॥ ५४.१८ ॥ बुद्धाय शान्ताय नमो ललाटं चित्रासु संपूज्यतमं मुरारेः । शिरोऽभिपूज्यं भरणीषु विष्णोर्नमोऽस्तु विश्वेश्वर कल्किरूपिणे ॥ ५४.१९ ॥ आर्द्रासु केशाः पुरुषोत्तमस्य संपूजनीया हरये नमस्ते । उपोषितेनर्क्षदिनेषु भक्त्या संपूजनीया द्विजपुंगवाः स्युः ॥ ५४.२० ॥ पूर्णे व्रते सर्वगुणान्विताय वाग्रूपशीलाय च सामगाय । हैमीं विशालायतबाहुदण्डां मुक्ताफलेन्दूपलवज्रयुक्ताम् ॥ ५४.२१ ॥ जलस्य पूर्णे कलशे निविष्टामर्चां हरेर्वस्त्रगवा सहैव । शय्यां तथोपस्करभाजनादियुक्तां प्रदद्याद्द्विजपुंगवाय ॥ ५४.२२ ॥ यद्यस्ति यत्किंचिदिहास्ति देयं दद्याद्द्विजायात्महिताय सर्वम् । मनोरथान्नः सफलीकुरुष्व हिरण्यगर्भाच्युतरुद्ररूपिन् ॥ ५४.२३ ॥ सलक्ष्मीकं सभार्याय काञ्चनं पुरुषोत्तमम् । शय्यां च दद्यान्मन्त्रेण ग्रन्थिभेदविवर्जिताम् ॥ ५४.२४ ॥ यथा न विष्णुभक्तानां वृजिनं जायते क्वचित् । तथा सुरूपतारोग्यं केशवे भक्तिमुत्तमाम् ॥ ५४.२५ ॥ यथा न लक्ष्म्या शयनं तव शून्यं जनार्दन । शय्या ममाप्यशून्यास्तु कृष्ण जन्मनि जन्मनि ॥ ५४.२६ ॥ एवं निवेद्य तत्सर्वं वस्त्रमाल्यानुलेपनम् । नक्षत्रपुरुषज्ञाय विप्रायाथ विसर्जयेत् ॥ ५४.२७ ॥ भुञ्जीतातैललवणं सर्वर्क्षेष्वप्युपोषितः । भोजनं च यथाशक्ति वित्तशाठ्यविवर्जितः ॥ ५४.२८ ॥ इति नक्षत्रपुरुषमुपास्य विधिवत्स्वयम् । सर्वान्कामानवाप्नोति विष्णुलोके महीयते ॥ ५४.२९ ॥ ब्रह्महत्यादिकं किंचिदिह वामुत्र वा कृतम् । आत्मना वाथ पितृभिस्तत्सर्वं क्षयमाप्नुयात् ॥ ५४.३० ॥ इति पठति शृणोति वातिभक्त्या पुरुषवरो व्रतमङ्गनाथ कुर्यात् । कलिकलुषविदारणं मुरारेः सकलविभूतिफलप्रदं च पुंसाम् ॥ ५४.३१ ॥ ______________________________________________________ मत्स्यपुराण ५५ *नारद उवाच उपवासेष्वशक्तस्य तदेव फलमिच्छतः । अनभ्यासेन रोगाद्वा किमिष्टं व्रतमुत्तमम् ॥ ५५.१ ॥ *ईश्वर उवाच उपवासेऽप्यशक्तानां नक्तं भोजनमिष्यते । यस्मिन्व्रते तदप्यत्र श्रूयतामक्षयं महत् ॥ ५५.२ ॥ आदित्यशयनं नाम यथावच्छंकरार्चनम् । येषु नक्षत्रयोगेषु पुराणज्ञाः प्रचक्षते ॥ ५५.३ ॥ यदा हस्तेन सप्तम्यामादित्यस्य दिनं भवेत् । सूर्यस्य चाथ संक्रान्तिस्तिथिः सा सार्वकामिकी ॥ ५५.४ ॥ उमामहेश्वरस्यार्चामर्चयेत्सूर्यनामभिः । सूर्यार्चां शिवलिङ्गे च प्रकुर्वन् पूजयेद्यतः ॥ ५५.५ ॥ उमापते रवेर्वापि न भेदो दृश्यते क्वचित् । यस्मात्तस्मान्मुनिश्रेष्ठ गृहे शम्भुं समर्चयेत् ॥ ५५.६ ॥ हस्ते च सूर्याय नमोऽस्तु पादावर्काय चित्रासु च गुल्फदेशम् । स्वातीषु जङ्घे पुरुषोत्तमाय धात्रे विशाखासु च जानुदेशम् ॥ ५५.७ ॥ तथानुराधासु नमोऽभिपूज्यमूरुद्वयं चैव सहस्रभानोः । ज्येष्ठास्वनङ्गाय नमोऽस्तु गुह्यमिन्द्राय सोमाय कटी च मूले ॥ ५५.८ ॥ पूर्वोत्तराषाढयुगे च नाभिं त्वष्ट्रे नमः सप्ततरंगमाय । तीक्ष्णांशवे च श्रवणे च कुक्षौ पृष्ठं धनिष्ठासु विकर्तनाय ॥ ५५.९ ॥ चक्षुःस्थलं ध्वान्तविनाशनाय जलाधिपर्क्षे परिपूजनीयम् । पूर्वोत्तराभाद्रपदाद्वये च बाहू नमश्चण्डकराय पूज्यौ ॥ ५५.१० ॥ साम्नामधीशाय करद्वयं च संपूजनीयं द्विज रेवतीषु । नखानि पूज्यानि तथाश्विनीषु नमोऽस्तु सप्ताश्वधुरंधराय ॥ ५५.११ ॥ कठोरधाम्ने भरणीषु कण्ठं दिवाकरायेत्यभिपूजनीया । ग्रीवाग्निऋक्षेऽधरमम्बुजेशे सम्पूजयेन्नारद रोहिणीषु ॥ ५५.१२ ॥ मृगोत्तमाङ्गे दशना मुरारेः संपूजनीया हरये नमस्ते । नमः सवित्रे रसनां शंकरे च नासाभिपूज्या च पुनर्वसौ च ॥ ५५.१३ ॥ ललाटमम्भोरुहवल्लभाय पुष्येऽलका वेदशरीरधारिणे । सार्पेऽथ मौलिं विबुधप्रियाय मघासु कर्णाविति गोगणेशे ॥ ५५.१४ ॥ पूर्वासु गोब्राह्मणवन्दनाय नेत्राणि संपूज्यतमानि शम्भोः । अथोत्तराफल्गुनिभे भ्रुवौ च विश्वेश्वरायेति च पूजनीये ॥ ५५.१५ ॥ नमोऽस्तु पाशाङ्कुशशूलपद्मकपालसर्पेन्दुधनुर्धराय । गजासुरानङ्गपुरान्धकादिविनाशमूलाय नमः शिवाय ॥ ५५.१६ ॥ इत्यादि चास्त्राणि च पूज्य नित्यं विश्वेश्वरायेति शिवोऽभिपूज्यः । भोक्तव्यमत्रैवमतैलशाकममांसमक्षारमभुक्तशेषम् ॥ ५५.१७ ॥ इत्येवं द्विज नक्तानि कृत्वा दद्यात्पुनर्वसौ । शालेयतण्डुलप्रस्थमौदुम्बरमये घृतम् ॥ ५५.१८ ॥ संस्थाप्य पात्रे विप्राय सहिरण्यं निवेदयेत् । सप्तमे वस्त्रयुग्मं च पारणे त्वधिकं भवेत् ॥ ५५.१९ ॥ चतुर्दशे तु सम्प्राप्ते पारणे नारदाब्दिके । ब्राह्मणान्भोजयेद्भक्त्या गुडक्षीरघृतादिभिः ॥ ५५.२० ॥ कृत्वा तु काञ्चनं पद्ममष्टपत्त्रं सकर्णिकम् । शुद्धमष्टाङ्गुलं तच्च पद्मरागदलान्वितम् ॥ ५५.२१ ॥ शय्यां विलक्षणां कृत्वा विरुद्धग्रन्थिवर्जिताम् । सोपधानकविश्रामस्वास्तरव्यजनानि च ॥ ५५.२२ ॥ भाजनोपानहछत्त्रचामरासनदर्पणैः । भूषणैरपि संयुक्तां फलवस्त्रानुलेपनैः ॥ ५५.२३ ॥ तस्यां विधाय तत्पद्ममलंकृत्य गुणान्वितम् । कपिलां वस्त्रसंयुक्तां सुशीलां च पयस्विनीम् ॥ ५५.२४ ॥ रौप्यखुरीं हेमशृङ्गीं सवत्सां कांस्यदोहनाम् । दद्यान्मन्त्रेण पूर्वाह्णे न चैनामभिलङ्घयेत् ॥ ५५.२५ ॥ यथैवादित्यशयनमशून्यं तव सर्वदा । कान्त्या धृत्या श्रिया रत्या तथा मे सन्तु सिद्धयः ॥ ५५.२६ ॥ यथा न देवाः श्रेयांसं त्वदन्यमनघं विदुः । तथा मामुद्धराशेषदुःखसंसारसागरात् ॥ ५५.२७ ॥ ततः प्रदक्षिणीकृत्य प्रणिपत्य विसर्जयेत् । शय्यागवादि तत्सर्वं द्विजस्य भवनं नयेत् ॥ ५५.२८ ॥ नैतद्विशीलाय न दाम्भिकाय कुतर्कदुष्टाय विनिन्दकाय । प्रकाशनीयं व्रतमिन्दुमौलेर्यश्चापि निन्दामधिकां विधत्ते ॥ ५५.२९ ॥ भक्ताय दान्ताय च गुह्यमेतदाख्येयमानन्दकरं शिवस्य । इदं महापातकभिन्नराणामप्यक्षरं वेदविदो वदन्ति ॥ ५५.३० ॥ न बन्धुपुत्रेण धनैर्वियुक्तः पत्नीभिरानन्दकरः सुराणाम् । नाभ्येति रोगं न च शोकदुःखं या वाथ नारी कुरुतेऽतिभक्त्या ॥ ५५.३१ ॥ इदं वसिष्ठेन पुरार्जुनेन कृतं कुबेरेण पुरंदरेण । यत्कीर्तनेनाप्यखिलानि नाशमायान्ति पापानि न संशयोऽस्ति ॥ ५५.३२ ॥ इति पठति शृणोति वा य इत्थं रविशयनं पुरुहूतवल्लभः स्यात् ।* अपि नरकगतान्पितॄनशेषानपि दिवमानयतीह यः करोति ॥ ५५.३३ ॥* ______________________________________________________ मत्स्यपुराण ५६ *श्रीभगवानुवाच कृष्णाष्टमीमथो वक्ष्ये सर्वपापप्रणाशिनीम् । शान्तिर्मुक्तिश्च भवति जयः पुंसां विशेषतः ॥ ५६.१ ॥ शंकरं मार्गशिरसि शम्भुं पौषेऽभिपूजयेत् । माघे महेश्वरं देवं महादेवं च फाल्गुने ॥ ५६.२ ॥ स्थाणुं चैत्रे शिवं तद्वद्वैशाखे त्वर्चयेन्नरः । ज्येष्ठे पशुपतिं चार्चेदाषाढे उग्रमर्चयेत् ॥ ५६.३ ॥ पूजयेच्छ्रावणे शर्वं नभस्ये त्र्यम्बकं तथा । हरमाश्वयुजे मासि तथेशानं च कार्त्तिके ॥ ५६.४ ॥ कृष्णाष्टमीषु सर्वासु शक्तः सम्पूजयेद्द्विजान् । गोभूहिरण्यवासोभिः शिवभक्तानुपोषितः ॥ ५६.५ ॥ गोमूत्रघृतगोक्षीरतिलान् यवकुशोदकम् । गोशृङ्गोदशिरीषार्कबिल्वपत्त्रदधीनि च । पञ्चगव्यं च संप्राश्य शंकरं पूजयेन्निशि ॥ ५६.६ ॥ अश्वत्थं च वटं चैवोदुम्बरं प्लक्षमेव च । पलाशं जम्बुवृक्षं च विदुः षष्ठं महर्षयः ॥ ५६.७ ॥ मार्गशीर्षाषाढमासाभ्यां द्वाभ्यां द्वाभ्यामितिक्रमात् । एकैकं दन्तपवनं वृक्षेष्वेतेषु भक्षयेत् ॥ ५६.८ ॥ देवाय दद्यादर्घ्यं च कृष्णां गां कृष्णवाससम् । दद्यात्समाप्ते दध्यन्नं वितानध्वजचामरम् ॥ ५६.९ ॥ द्विजानामुदकुम्भांश्च पञ्चरत्नसमन्वितान् । गावः कृष्णाः सुवर्णं च वासांसि विविधानि च । अशक्तस्तु पुनर्दद्याद्गामेकामपि शक्तितः ॥ ५६.१० ॥ न वित्तशाठ्यं कुर्वीत कुर्वन्दोषमवाप्नुयात् । कृष्णाष्टमीमुपोष्यैव सप्तकल्पशतत्रयम् । पुमान्सम्पूजितो देवैः शिवलोके महीयते ॥ ५६.११ ॥ ______________________________________________________ मत्स्यपुराण ५७ *नारद उवाच दीर्घायुरारोग्यकुलाभिवृद्धियुक्तः पुमान्भूपकुलायुतः स्यात् । मुहुर्मुहुर्जन्मनि येन सम्यग्व्रतं समाचक्ष्व तदिन्दुमौले ॥ ५७.१ ॥ *श्रीभगवानुवाच त्वया पृष्टमिदं सम्यगुक्तं चाक्षय्यकारकम् । रहस्यं तव वक्ष्यामि यत्पुराणविदो विदुः ॥ ५७.२ ॥ रोहिणीचन्द्रशयनं नाम व्रतमिहोत्तमम् । तस्मिन्नारायणस्यार्चामर्चयदिन्दुनामभिः ॥ ५७.३ ॥ यदा सोमदिने शुक्ला भवेत्पञ्चदशी क्वचित् । अथवा ब्रह्मनक्षत्रं पौर्णमास्यां प्रजायते ॥ ५७.४ ॥ तदा स्नानं नरः कुर्यात्पञ्चगव्येन सर्षपैः । आप्यायस्वेति तु जपेद्विद्वानष्टशतं पुनः ॥ ५७.५ ॥ शूद्रोऽपि परया भक्त्या पाषण्डालापवर्जितः । सोमाय वरदायाथ विष्णवे च नमो नमः ॥ ५७.६ ॥ कृतजप्यः स्वभवनमागत्य मधुसूदनम् । पूजयेत्फलपुष्पैश्च सोमनामानि कीर्तयन् ॥ ५७.७ ॥ सोमाय शान्ताय नमोऽस्तु पादावनन्तधाम्नेति च जानुजङ्घे । ऊरुद्वयं चापि जलोदराय सम्पूजयेन्मेढ्रमनन्तबाहवे ॥ ५७.८ ॥ नमो नमः कामसुखप्रदाय कटिः शशाङ्कस्य सदार्चनीया । तथोदरं चाप्यमृतोदराय नाभिः शशाङ्काय नमोऽभिपूज्या ॥ ५७.९ ॥ नमोऽस्तु चन्द्राय मुखं च पूज्यं दन्ता द्विजानामधिपाय पूज्याः । हास्यं नमश्चन्द्रमसेऽभिपूज्यमोष्ठौ कुमुद्वन्तवनप्रियाय ॥ ५७.१० ॥ नासा च नाथाय वनौषधीनामानन्दभूताय पुनर्भ्रुवौ च । नेत्रद्वयं पद्मनिभं तथेन्दोरिन्दीवरश्यामकराय शौरेः ॥ ५७.११ ॥ नमः समस्ताध्वरवन्दिताय कर्णद्वयं दैत्यनिषूदनाय । ललाटमिन्दोरुदधिप्रियाय केशाः सुषुम्नाधिपतेः प्रपूज्याः ॥ ५७.१२ ॥ शिरः शशाङ्काय नमो मुरारेर्विश्वेश्वरायेति नमः किरीटिने । पद्मप्रिये रोहिणि नाम लक्ष्मीः सौभाग्यसौख्यामृतचारुकाये ॥ ५७.१३ ॥ देवीं च संपूज्य सुगन्धपुष्पैर्नैवेद्यधूपादिभिरिन्दुपत्नीम् । सुप्त्वाथ भूमौ पुनरुत्थितेन स्नात्वा च विप्राय हविष्ययुक्तः ॥ ५७.१४ ॥ देयः प्रभाते सहिरण्यवारिकुम्भो नमः पापविनाशनाय । संप्राश्य गोमूत्रममांसमन्नमक्षारमष्टावथ विंशतिं च । ग्रासान्पयःसर्पिर्युतानुपोष्य भुक्त्वेतिहासं शृणुयान्मुहूर्तम् ॥ ५७.१५ ॥ कदम्बनीलोत्पलकेतकानि जाती सरोजं शतपत्त्रिका च । अम्लानकुब्जान्यथ सिन्दुवारं पुष्पं पुनर्नारद मल्लिकायाः । शुभ्रं च विष्णोः करवीरपुष्पं श्रीचम्पकं चन्द्रमसः प्रदेयम् ॥ ५७.१६ ॥ श्रावणादिषु मासेषु क्रमादेतानि सर्वदा । यस्मिन्मासे व्रतादिः स्यात्तत्पुष्पैरर्चयेद्धरिम् ॥ ५७.१७ ॥ एवं संवत्सरं यावदुपास्य विधिवन्नरः । व्रतान्ते शयनं दद्याद्दर्पणोपस्करान्वितम् ॥ ५७.१८ ॥ रोहिणीचन्द्रमिथुनं कारयित्वाथ काञ्चनम् । चन्द्रः षडङ्गुलः कार्यो रोहिणी चतुरङ्गुला ॥ ५७.१९ ॥ मुक्ताफलाष्टकयुतं सितनेत्रपटावृतम् । क्षीरकुम्भोपरि पुनः कांस्यपात्राक्षतान्वितम् । दद्यान्मन्त्रेण पूर्वाह्णे शालीक्षुफलसंयुतम् ॥ ५७.२० ॥ श्वेतामथ सुवर्णास्यां खुरै रौप्यैः समन्विताम् । सवस्त्रभाजनां धेनुं तथा शङ्खं च शोभनम् ॥ ५७.२१ ॥ भूषणैर्द्विजदाम्पत्यमलंकृत्य गुणान्वितम् । चन्द्रोऽयं द्विजरूपेण सभार्य इति कल्पयेत् ॥ ५७.२२ ॥ यथा न रोहिणी कृष्ण शय्यां संत्यज्य गच्छति । सोमरूपस्य ते तद्वन्ममाभेदोऽस्तु भूतिभिः ॥ ५७.२३ ॥ यथा त्वमेव सर्वेषां परमानन्दमुक्तिदः । भुक्तिर्मुक्तिस्तथा भक्तिस्त्वयि चन्द्रास्तु मे सदा ॥ ५७.२४ ॥ इति संसारभीतस्य मुक्तिकामस्य चानघ । रूपारोग्यायुषामेतद्विधायकमनुत्तमम् ॥ ५७.२५ ॥ इदमेव पितॄणां च सर्वदा वल्लभं मुने । त्रैलोक्याधिपतिर्भूत्वा सप्तकल्पशतत्रयम् । चन्द्रलोकमवाप्नोति विद्युद्भूत्वा तु मुच्यते ॥ ५७.२६ ॥ नारी वा रोहिणी चन्द्रशयनं या समाचरेत् । सापि तत्फलमाप्नोति पुनरावृत्तिदुर्लभम् ॥ ५७.२७ ॥ इति पठति शृणोति वा य इत्थं मधुमथनार्चनमिन्दुकीर्तनेन । मतिमपि च ददाति सोऽपि शौरेर्भवनगतः परिपूज्यतेऽमरौघैः ॥ ५७.२८ ॥ ______________________________________________________ मत्स्यपुराण ५८ *सूत उवाच जलाशयगतं विष्णुमुवाच रविनन्दनः । तडागारामकूपानां वापीषु नलिनीषु च ॥ ५८.१ ॥ विधिं पृच्छामि देवेशे देवतायतनेषु च । के तत्र चर्त्विजो नाथ वेदी वा कीदृशी भवेत् ॥ ५८.२ ॥ दक्षिणावलयः कालः स्थानमाचार्य एव च । द्रव्याणि कानि शस्तानि सर्वमाचक्ष्व तत्त्वतः ॥ ५८.३ ॥ *मत्स्य उवाच शृणु राजन्महाबाहो तडागादिषु यो विधिः । पुराणेष्वितिहासोऽयं पठ्यते वेदवादिभिः ॥ ५८.४ ॥ प्राप्य पक्षं शुभं शुक्लमतीते चोत्तरायणे । पुण्येऽह्नि विप्रकथिते कृत्वा ब्राह्मणवाचनम् ॥ ५८.५ ॥ प्रागुदक्प्रवणे देशे तडागस्य समीपतः । चतुर्हस्तां शुभां वेदीं चतुरस्रां चतुर्मुखाम् ॥ ५८.६ ॥ तथा षोडशहस्तः स्यान्मण्डपश्च चतुर्मुखः । वेद्याश्च परितो गर्ता रत्निमात्रास्त्रिमेखलाः ॥ ५८.७ ॥ नव सप्ताथ वा पञ्च नातिरिक्ता नृपात्मज । वितस्तिमात्रा योनिः स्यात्षट्सप्ताङ्गुलिविस्तृता ॥ ५८.८ ॥ गर्ताश्च तत्र सप्त स्युस्त्रिपर्वोच्छ्रितमेखलाः । सर्वतस्तु सवर्णाः स्युः पताकाध्वजसंयुताः ॥ ५८.९ ॥ अश्वत्थोदुम्बरप्लक्षवटशाखाकृतानि तु । मण्डपस्य प्रतिदिशं द्वाराण्येतानि कारयेत् ॥ ५८.१० ॥ शुभास्तत्राष्ट होतारो द्वारपालास्तथाष्ट वै । अष्टौ तु जापकाः कार्या ब्राह्मणा वेदपारगाः ॥ ५८.११ ॥ सर्वलक्षणसम्पूर्णो मन्त्रविद्विजितेन्द्रियः । कुलशीलसमायुक्तः पुरोधाः स्याद्द्विजोत्तमः ॥ ५८.१२ ॥ प्रतिगर्तेषु कलशी यज्ञोपकरणानि च । व्यजनं चामरे शुभ्रे ताम्रपात्रे सुविस्तृते ॥ ५८.१३ ॥ ततस्त्वनेकवर्णाः स्युश्चरवः प्रतिदैवतम् । आचार्यः प्रक्षिपेद्भूमावनुमन्त्र्य विचक्षणः ॥ ५८.१४ ॥ त्र्यरत्निमात्रो यूपः स्यात्क्षारवृक्षविनिर्मितः । यजमानप्रमाणो वा संस्थाप्यो भूतिमिच्छता ॥ ५८.१५ ॥ हेमालंकारिणः कार्याः पञ्चविंशतिऋत्विजः । कुण्डलानि च हैमानि केयूरकटकानि च ॥ ५८.१६ ॥ तथाङ्गुल्यः पवित्राणि वासांसि विविधानि च । पूजयेत्तु समं सर्वानाचार्यो द्विगुणं पुनः । दद्याच्छयनसंयुक्तमात्मनश्चापि यत्प्रियम् ॥ ५८.१७ ॥ सौवर्णकूर्ममकरौ राजतौ मत्स्यदुन्दुभौ । ताम्रौ कुलीरमण्डूकावायसः शिशुमारकः । एवमासाद्य तत्सर्वमादावेव विशां पते ॥ ५८.१८ ॥ शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः । सर्वौषध्युदकैस्तत्र स्नापितो वेदपारगैः ॥ ५८.१९ ॥ यजमानः सपत्नीकः पुत्रपौत्रसमन्वितः । पश्चिमं द्वारमासाद्य प्रविशेद्यागमण्डपम् ॥ ५८.२० ॥ ततो मङ्गलशब्देन भेरीणां निःस्वनेन च । अञ्जसा मण्डलं कुर्यात्पञ्चवर्णेन तत्त्ववित् ॥ ५८.२१ ॥ षोडशारं ततश्चक्रं पद्मगर्भं चतुर्मुखम् । चतुरस्रं च परितो वृत्तं मध्ये सुशोभनम् ॥ ५८.२२ ॥ वेद्याश्चोपरि तत्कृत्वा ग्रहांल्लोकपतींस्ततः । विन्यसेन्मन्त्रतः सर्वान् प्रतिदिक्षु विचक्षणः ॥ ५८.२३ ॥ कूर्मादि स्थापयेन्मध्ये वारुणं मन्त्रमाश्रितः । ब्रह्माणं च शिवं विष्णुं तत्रैव स्थापयेद्बुधः ॥ ५८.२४ ॥ विनायकं च विन्यस्य कमलामम्बिकां तथा । शान्त्यर्थं सर्वलोकानां भूतग्रामं न्यसेत्ततः ॥ ५८.२५ ॥ पुष्पभक्ष्यफलैर्युक्तमेवं कृत्वाधिवासनम् । कुम्भान् सजलगर्भांस्तान् वासोभिः परिवेष्टयेत् ॥ ५८.२६ ॥ पुष्पगन्धैरलंकृत्य द्वारपालान्समन्ततः । पठध्वमिति तान्ब्रूयादाचार्यस्त्वभिपूजयेत् ॥ ५८.२७ ॥ बह्वृचौ पूर्वतः स्थाप्यौ दक्षिणेन यजुर्विदौ । सामगौ पश्चिमे तद्वदुत्तरेण त्वथर्वणौ ॥ ५८.२८ ॥ उदङ्मुखो दक्षिणतो यजमान उपाविशेत् । यजध्वमिति तान्ब्रूयाद्धौत्रिकान्पुनरेव तु ॥ ५८.२९ ॥ उत्कृष्टान्मन्त्रजापेन तिष्ठध्वमिति जापकान् । एवमादिश्य तान्सर्वान् पर्युक्ष्याग्निं स मन्त्रवित् ॥ ५८.३० ॥ जुहुयाद्वारुणैर्मन्त्रैराज्यं च समिधस्तथा । ऋत्विग्भिश्चाथ होतव्यं वारुणैरेव सर्वतः ॥ ५८.३१ ॥ ग्रहेभ्यो विधिवद्धुत्वा तथेन्द्रायेश्वराय च । मरुद्भ्यो लोकपालेभ्यो विधिवद्विश्वकर्मणे ॥ ५८.३२ ॥ रात्रिसूक्तं च रौद्रं च पावमानं सुमङ्गलम् । जपेयुः पौरुषं सूक्तं पूर्वतो बह्वृचः पृथक् ॥ ५८.३३ ॥ शाक्रं रौद्रं च सौम्यं च कूष्माण्डं जातवेदसम् । सौरसूक्तं जपेन्मन्त्रं दक्षिणेन यजुर्विदः ॥ ५८.३४ ॥ वैराज्यं पौरुषं सूक्तं सौवर्णं रुद्रसंहिताम् । शैशवं पञ्चनिधनं गायत्रं ज्येष्ठसाम च ॥ ५८.३५ ॥ वामदेव्यं बृहत्साम रौरवं सरथंतरम् । गवां व्रतं च काण्वं च रक्षोघ्नं वयसस्तथा । गायेयुः सामगा राजन् पश्चिमं द्वारमाश्रिताः ॥ ५८.३६ ॥ अथर्वणश्चोत्तरतः शान्तिकं पौष्टिकं तथा । जपेयुर्मनसा देवमाश्रित्य वरुणं प्रभुम् ॥ ५८.३७ ॥ पूर्वेद्युरमितो रात्रावेवं कृत्वाधिवासनम् । गजाश्वरथ्यावल्मीकात्संगमाद्ध्रदगोकुलात् । मृदमादाय कुम्भेषु प्रक्षिपेच्चत्वरात्तथा ॥ ५८.३८ ॥ रोचनां च ससिद्धार्थां गन्धं गुग्गुलमेव च । स्नपनं तस्य कर्तव्यं पञ्चगव्यसमन्वितम् ॥ ५८.३९ ॥ प्रत्येकं तु महामन्त्रैरेव कृत्वा विधानतः । एवं क्षपातिवाह्याथ विधियुक्तेन कर्मणा ॥ ५८.४० ॥ ततः प्रभाते विमले संजातेऽथ शतं गवाम् । ब्राह्मणेभ्यः प्रदातव्यमष्टषष्टिश्च वा पुनः । पञ्चाशद्वाथ षट्त्रिंशत्पञ्चविंशतिरप्यथ ॥ ५८.४१ ॥ ततः सांवत्सरप्रोक्ते शुभे लग्ने सुशोभने । वेदशब्दैश्च गान्धर्वैर्वाद्यैश्च विविधैः पुनः ॥ ५८.४२ ॥ कनकालंकृतां कृत्वा जले गामवतारयेत् । सामगाय च सा देया ब्राह्मणाय विशां पते ॥ ५८.४३ ॥ पात्रीमादाय सौवर्णीं पञ्चरत्नसमन्विताम् । ततो निक्षिप्य मकरमत्स्यादींश्चैव सर्वशः । धृतां चतुर्विधैर्विप्रैर्वेदवेदाङ्गपारगैः ॥ ५८.४४ ॥ महानदीजलोपेतां दध्यक्षतसमन्विताम् । उत्तराभिमुखीं धेनुं जलमध्ये तु कारयेत् ॥ ५८.४५ ॥ अथर्वणेन संस्नातां पुनर्मामेत्यथेति च । आपो हि ष्ठेति मन्त्रेण क्षिप्त्वागत्य च मण्डपम् ॥ ५८.४६ ॥ पूजयित्वा सरस्तत्र बलिं दद्यात्समन्ततः । पुनर्दिनानि होतव्यं चत्वारि मुनिसत्तमाः ॥ ५८.४७ ॥ चतुर्थीकर्म कर्तव्यं देया तत्रापि शक्तितः । दक्षिणा राजशार्दूल वरुणक्ष्मापणं ततः ॥ ५८.४८ ॥ कृत्वा तु यज्ञपात्राणि यज्ञोपकरणानि च । ऋत्विग्भ्यस्तु समं दत्त्वा मण्डपं विभजेत्पुनः । हेमपात्रीं च शय्यां च स्थापकाय निवेदयेत् ॥ ५८.४९ ॥ ततः सहस्रं विप्राणामथवाष्टशतं तथा । भोजनीयं यथाशक्ति पञ्चाशद्वाथ विंशतिः । एवमेष पुराणेषु तडागविधिरुच्यते ॥ ५८.५० ॥ कूपवापीषु सर्वासु तथा पुष्करिणीषु च । एष एव विधिर्दृष्टः प्रतिष्ठासु तथैव च ॥ ५८.५१ ॥ मन्त्रतस्तु विशेषः स्यात्प्रासादाद्यानभूमिषु । अयं त्वशक्तावर्धेन विधिर्दृष्टः स्वयम्भुवा । अल्पेष्वेकाग्निवत्कृत्वा वित्तशाठ्यादृते नृणाम् ॥ ५८.५२ ॥ प्रावृट्काले स्थिते तोये ह्यग्निष्टोमफलं स्मृतम् । शरत्काले स्थितं यत्स्यात्तदुक्तफलदायकम् । वाजपेयातिरात्राभ्यां हेमन्ते शिशिरे स्थितम् ॥ ५८.५३ ॥ अश्वमेधसमं प्राहुर्वसन्तसमये स्थितम् । ग्रीष्मेऽपि तत्स्थितं तोयं राजसूयाद्विशिष्यते ॥ ५८.५४ ॥ एतान्महाराज विशेषधर्मान् करोति योऽप्यागमशुद्धबुद्धिः । स याति रुद्रालयमाशु पूतः कल्पाननेकान्दिवि मोदते च ॥ ५८.५५ ॥ अनेकलोकान्स महत्तमादीन् भुक्त्वा परार्धद्वयमङ्गनाभिः । सहैव विष्णोः परमं पदं यत्प्राप्नोति तद्यागफलेन भूयः ॥ ५८.५६ ॥ ______________________________________________________ मत्स्यपुराण ५९ *ऋषय ऊचुः पादपानां विधिं सूत यथावद्विस्तराद्वद । विधिना केन कर्तव्यं पादपोद्यापनं बुधैः ॥ ५९.१ ॥ ये च लोकाः स्मृतास्तेषां तानिदानीं वदस्व नः । यत्फलं लभते प्रेत्य तत्सर्वं वक्तुमर्हसि ॥ ५९.२ ॥ *सूत उवाच पादपानां विधिं वक्ष्ये तथैवोद्यानभूमिषु । तडागविधिवत्सर्वमासाद्य जगदीश्वर ॥ ५९.३ ॥ ऋत्विङ्मण्डपसम्भारश्चाचार्यश्चैव तद्विधः । पूजयेद्ब्राह्मणांस्तद्वद्धेमवस्त्रानुलेपनैः ॥ ५९.४ ॥ सर्वौषध्युदकैः सिक्तान् पिष्टातकविभूषितान् । वृक्षान्माल्यैरलंकृत्य वासोभिरभिवेष्टयेत् ॥ ५९.५ ॥ सूच्या सौवर्णया कार्यं सर्वेषां कर्णवेधनम् । अञ्जनं चापि दातव्यं तद्वद्धेमशलाकया ॥ ५९.६ ॥ फलानि सप्त चाष्टौ वा कालधौतानि कारयेत् । प्रत्येकं सर्ववृक्षाणां वेद्यां तान्यधिवासयेत् ॥ ५९.७ ॥ धूपोऽत्र गुग्गुलः श्रेष्ठस्ताम्रपात्रैरधिष्ठितान् । सप्तधान्यस्थितान्कृत्वा वस्त्रगन्धानुलेपनैः ॥ ५९.८ ॥ कुम्भान्सर्वेषु वृक्षेषु स्थापयित्वा नरेश्वर । सहिरण्यानशेषांस्तान् कृत्वा बलिनिवेदनम् ॥ ५९.९ ॥ यथास्वं लोकपालानामिन्द्रादीनां विशेषतः । वनस्पतेश्च विद्वद्भिर्होमः कार्यो द्विजातिभिः ॥ ५९.१० ॥ ततः शुक्लाम्बरधरां सौवर्णकृतभूषणाम् । सकांस्यदोहां सौवर्णशृङ्गाभ्यामतिशालिनीम् । पयस्विनीं वृक्षमध्यादुत्सृजेद्गामुदङ्मुखीम् ॥ ५९.११ ॥ ततोऽभिषेकमन्त्रेण वाद्यमङ्गलगीतकैः । ऋग्यजुःसाममन्त्रैश्च वारुणैरभितस्तथा । तैरेव कुम्भैः स्नपनं कुर्याद्ब्राह्मणपुंगवः ॥ ५९.१२ ॥ स्नातः शुक्लाम्बरस्तद्वद्यजमानोऽभिपूजयेत् । गोभिर्विभवतः सर्वानृत्विजस्तान्समाहितः ॥ ५९.१३ ॥ हेमसूत्रैः सकटकैरङ्गुलीयपवित्रकैः । वासोभिः शयनीयैश्च तथोपस्करपादुकैः । क्षीरेण भोजनं दद्याद्यावद्दिनचतुष्टयम् ॥ ५९.१४ ॥ होमश्च सर्षपैः कार्यो यवैः कृष्णतिलैस्तथा । पलाशसमिधः शस्ताश्चतुर्थेऽह्नि तथोत्सवः । दक्षिणा च पुनस्तद्वद्देया तत्रापि शक्तितः ॥ ५९.१५ ॥ यद्यदिष्टतमं किंचित्तत्तद्दद्यादमत्सरी । आचार्ये द्विगुणं दद्यात्प्रणिपत्य विसर्जयेत् ॥ ५९.१६ ॥ अनेन विधिना यस्तु कुर्याद्वृक्षोत्सवं बुधः । सर्वान्कामानवाप्नोति फलं चानन्त्यमश्नुते ॥ ५९.१७ ॥ यश्चैकमपि राजेन्द्र वृक्षं संस्थापयेन्नरः । सोऽपि स्वर्गे वसेद्राजन् यावदिन्द्रायुतत्रयम् ॥ ५९.१८ ॥ भूतान्भव्यांश्च मनुजांस्तारयेद्द्रुमसंमितान् । परमां सिद्धिमाप्नोति पुनरावृत्तिदुर्लभाम् ॥ ५९.१९ ॥ य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः । सोऽपि सम्पूजितो देवैर्ब्रह्मलोके महीयते ॥ ५९.२० ॥ ______________________________________________________ मत्स्यपुराण ६० *मत्स्य उवाच तथैवान्यत्प्रवक्ष्यामि सर्वकामफलप्रदम् । सौभाग्यशयनं नाम यत्पुराणविदो विदुः ॥ ६०.१ ॥ पुरा दग्धेषु लोकेषु भूर्भुवःस्वर्महादिषु । सौभाग्यं सर्वभूतानामेकस्थमभवत्तदा । वैकुण्ठं स्वर्गमासाद्य विष्णोर्वक्षःस्थलस्थितम् ॥ ६०.२ ॥ ततः कालेन महता पुनः सर्गविधौ नृप । अहंकारावृते लोके प्रधानपुरुषान्विते ॥ ६०.३ ॥ स्पर्धायां च प्रवृत्तायां कमलासनकृष्णयोः । लिङ्गाकारा समुद्भूता वह्नेर्ज्वालातिभीषणा । तयाभितप्तस्य हरेर्वक्षसस्तद्विनिःसृतम् ॥ ६०.४ ॥ वक्षःस्थलं समाश्रित्य विष्णोः सौभाग्यमास्थितम् । रसरूपं ततो यावत्प्राप्नोति वसुधातलम् ॥ ६०.५ ॥ उत्क्षिप्तमन्तरिक्षे तद्ब्रह्मपुत्रेण धीमता । दक्षेण पीतमात्रं तद्रूपलावण्यकारकम् ॥ ६०.६ ॥ बलं तेजो महज्जातं दक्षस्य परमेष्ठिनः । शेषं यदपतद्भूमावष्टधा समजायत ॥ ६०.७ ॥ ततो जनानां संजाताः सप्त सौभाग्यदायिकाः । इक्षवो रसराजाश्च निष्पावाजाजिधान्यकम् ॥ ६०.८ ॥ विकारवच्च गोक्षीरं कुसुम्भं कुङ्कुमं तथा । लवणं चाष्टमं तद्वत्सौभाग्याष्टकमुच्यते ॥ ६०.९ ॥ पीतं यद्ब्रह्मपुत्रेण योगज्ञानविदा पुनः । दुहिता साभवत्तस्य या सतीत्यभिधीयते ॥ ६०.१० ॥ लोकानतीत्य लालित्याल्ललिता तेन चोच्यते । त्रैलोक्यसुन्दरीमेनामुपयेमे पिनाकधृक् ॥ ६०.११ ॥ या देवी सौभाग्यमयी भुक्तिमुक्तिफलप्रदा । तामाराध्य पुमान्भक्त्या नारी वा किं न विन्दति ॥ ६०.१२ ॥ *मनुरुवाच कथमाराधनं तस्या जगद्धात्र्या जनार्दन । तद्विधानं जगन्नाथ तत्सर्वं च वदस्व मे ॥ ६०.१३ ॥ *मत्स्य उवाच वसन्तमासमासाद्य तृतीयायां जनप्रिय । शुक्लपक्षस्य पूर्वाह्णे तिलैः स्नानं समाचरेत् ॥ ६०.१४ ॥ तस्मिन्नहनि सा देवी किल विश्वात्मना सती । पाणिग्रहणकैर्मन्त्रैरुदूढा वरवर्णिनी ॥ ६०.१५ ॥ तया सहैव देवेशं तृतीयायामथार्चयेत् । फलैर्नानाविधैर्धूपैर्दीपनैवेद्यसंयुतैः ॥ ६०.१६ ॥ प्रतिमां पञ्चगव्येन तथा गन्धोदकेन तु । स्नापयित्वार्चयेद्गौरीमिन्दुशेखरसंयुताम् ॥ ६०.१७ ॥ नमोऽस्तु पाटलायै तु पादौ देव्याः शिवस्य तु । शिवायेति च संकीर्य जयायै गुल्फयोर्द्वयोः ॥ ६०.१८ ॥ त्रिगुणायेति रुद्राय भवान्यै जङ्घयोर्युगम् । शिवां रुद्रेश्वरायै च विजयायेति जानुनी । संकीर्त्य हरिकेशाय तथोरू वरदे नमः ॥ ६०.१९ ॥ ईशायै च कीटं देव्याः शंकरायेति शंकरम् । कुक्षिद्वयं च कोटव्यै शूलिने शूलपाणये ॥ ६०.२० ॥ मङ्गलायै नमस्तुभ्यमुदरं चाभिपूजयेत् । सर्वात्मने नमो रुद्रमीशान्यै च कुचद्वयम् ॥ ६०.२१ ॥ शिवं वेदात्मने तद्वद्रुद्राण्यै कण्ठमर्चयेत् । त्रिपुरघ्नाय विश्वेशमनन्तायै करद्वयम् ॥ ६०.२२ ॥ त्रिलोचनाय च हरं बाहू कालानलप्रिये । सौभाग्यभवनायेति भूषणानि सदार्चयेत् । स्वाहास्वधायै च मुखमीश्वरायेति शूलिनम् ॥ ६०.२३ ॥ अशोकमधुवासिन्यै पूज्यावोष्ठौ च भूतिदौ । स्थाणवे तु हरं तद्वद्धास्यं चन्द्रमुखप्रिये ॥ ६०.२४ ॥ नमोऽर्धनारीशहरमसिताङ्गीति नासिकाम् । नम उग्राय लोकेशं ललितेति पुनर्भ्रुवौ ॥ ६०.२५ ॥ शर्वाय पुरहन्तारं वासव्यै तु तथालकान् । नमः श्रीकण्ठनाथायै शिवकेशांस्ततोऽर्चयेत् । भीमोग्रसमरूपिण्यै शिरः सर्वात्मने नमः ॥ ६०.२६ ॥ शिवमभ्यर्च्य विधिवत्सौभाग्याष्टकमग्रतः । स्थापयेद्धृतनिष्पावकुसुम्भक्षीरजीरकम् ॥ ६०.२७ ॥ रसराजं च लवणं कुस्तुम्बुरु तथाष्टकम् । दत्तं सौभाग्यमित्यस्मात्सौभाग्याष्टकमित्यतः ॥ ६०.२८ ॥ एवं निवेद्य तत्सर्वमग्रतः शिवयोः पुनः । रात्रौ शृङ्गोदकं प्राश्य तद्वद्भूमावरिंदम ॥ ६०.२९ ॥ पुनः प्रभाते तु तथा कृतस्नानजपः शुचिः । संपूज्य द्विजदाम्पत्यं वस्त्रमाल्यविभूषणैः ॥ ६०.३० ॥ सौभाग्याष्टकसंयुक्तं सुवर्णचरणद्वयम् । प्रीयतामत्र ललिता ब्राह्मणाय निवेदयेत् ॥ ६०.३१ ॥ एवं संवत्सरं यावत्तृतीयायां सदा मनो । कर्तव्यं विधिवद्भक्त्या सर्वसौभाग्यमीप्सुभिः ॥ ६०.३२ ॥ प्राशने दानमन्त्रे च विशेषोऽयं निबोध मे । शृङ्गोदकं चैत्रमासे वैशाखे गोमयं पुनः ॥ ६०.३३ ॥ ज्येष्ठे मन्दारकुसुमं बिल्वपत्त्रं शुचौ स्मृतम् । श्रावणे दधि संप्राश्यं नभस्ये च कुशोदकम् ॥ ६०.३४ ॥ क्षीरमाश्वयुजे मासि कार्त्तिके पृषदाज्यकम् । मार्गे मासे तु गोमूत्रं पौषे संप्राशयेद्घृतम् ॥ ६०.३५ ॥ माघे कृष्णतिलांस्तद्वत्पञ्चगव्यं च फाल्गुने । ललिता विजया भद्रा भवानी कुमुदा शिवा ॥ ६०.३६ ॥ वासुदेवी तथा गौरी मङ्गला कमला सती । उमा च दानकाले तु प्रीयतामिति कीर्तयेत् ॥ ६०.३७ ॥ मल्लिकाशोककमलं कदम्बोत्पलमालतीः । कुब्जकं करवीरं च बाणमम्लानकुङ्कुमम् ॥ ६०.३८ ॥ सिन्धुवारं च सर्वेषु मासेषु क्रमशः स्मृतम् । जपाकुसुम्भकुसुमं मालती शतपत्त्रिका ॥ ६०.३९ ॥ यथालाभं प्रशस्तानि करवीरं च सर्वदा । एवं संवत्सरं यावदुपोष्य विधिवन्नरः ॥ ६०.४० ॥ स्त्री भक्ता वा कुमारी वा शिवमभ्यर्च्य भक्तितः । व्रतान्ते शयनं दद्यात्सर्वोपस्करसंयुतम् ॥ ६०.४१ ॥ उमामहेश्वरं हैमं वृषभं च गवा सह । स्थापयित्वाथ शयने ब्राह्मणाय निवेदयेत् ॥ ६०.४२ ॥ अन्यान्यपि यथाशक्ति मिथुनान्यम्बरादिभिः । धान्यालंकारगोदानैरभ्यर्चेद्धनसंचयैः । वित्तशाठ्येन रहितः पूजयेद्गतविस्मयः ॥ ६०.४३ ॥ एवं करोति यः सम्यक्सौभाग्यशयनव्रतम् । सर्वान्कामानवाप्नोति पदमत्यन्तमश्नुते । फलस्यैकस्य त्यागेन व्रतमेतत्समाचरेत् ॥ ६०.४४ ॥ य इच्छन्कीर्तिमाप्नोति प्रतिमासं नराधिप । सौभाग्यारोग्यरूपायुर्वस्त्रालंकारभूषणैः । न वियुक्तो भवेद्राजन्नवार्बुदशतत्रयम् ॥ ६०.४५ ॥ यस्तु द्वादश वर्षाणि सौभाग्यशयनव्रतम् । करोति सप्त चाष्टौ वा श्रीकण्ठभवनेऽमरैः । पूज्यमानो वसेत्सम्यग्यावत्कल्पायुतत्रयम् ॥ ६०.४६ ॥ नारी वा कुरुते वापि कुमारी वा नरेश्वर । सापि तत्फलमाप्नोति देव्यनुग्रहलालिता ॥ ६०.४७ ॥ शृणुयादपि यश्चैव प्रदद्यादथवा मतिम् । सोऽपि विद्याधरो भूत्वा स्वर्गलोके चिरं वसेत् ॥ ६०.४८ ॥ इदमिह मदनेन पूर्वमिष्टं शतधनुषा कृतवीर्यसूनुना च । कृतमथ वरुणेन नन्दिना वा किमु जननाथ ततो यदुद्भवः स्यात् ॥ ६०.४९ ॥ ______________________________________________________ मत्स्यपुराण ६१ *नारद उवाच भूर्लोकोऽथ भुवर्लोकः स्वर्लोकोऽथ महर्जनः । तपः सत्यं च सप्तैते देवलोकाः प्रकीर्तिताः ॥ ६१.१ ॥ पर्यायेण तु सर्वेषामाधिपत्यं कथं भवेत् । इह लोके शुभं रूपमायुः सौभाग्यमेव च । लक्ष्मीश्च विपुला नाथ कथं स्यात्पुरसूदन ॥ ६१.२ ॥ *महेश्वर उवाच पुरा हुताशनः सार्धं मारुतेन महीतले । आदिष्टः पुरुहूतेन विनाशाय सुरद्विषाम् ॥ ६१.३ ॥ निर्दग्धेषु ततस्तेन दानवेषु सहस्रशः । तारकः कमलाक्षश्च कालदंष्ट्रः परावसुः । विरोचनश्च संग्रामादपलायंस्तपोधन ॥ ६१.४ ॥ अम्भः सामुद्रमाविश्य संनिवेशमकुर्वत । अशक्या इति तेऽप्यग्निमारुताभ्यामुपेक्षिताः ॥ ६१.५ ॥ ततः प्रभृति ते देवान्मनुष्यान्सह जङ्गमान् । संपीड्य च मुनीन्सर्वान् प्रविशन्ति पुनर्जलम् ॥ ६१.६ ॥ एवं वर्षसहस्राणि वीराः पञ्च च सप्त च । जलदुर्गबलाद्ब्रह्मन् पीडयन्ति जगत्त्रयम् ॥ ६१.७ ॥ ततः परमथो वह्निमारुतावमराधिपः । आदिदेश चिरादम्बुनिधिरेष विशोष्यताम् ॥ ६१.८ ॥ यस्मादस्मद्द्विषामेष शरणं वरुणालयः । तस्माद्भवद्भ्यामद्यैव क्षयमेष प्रणीयताम् ॥ ६१.९ ॥ तावूचतुस्ततः शक्रमुभौ शम्बरसूदनम् । अधर्म एष देवेन्द्र सागरस्य विनाशनम् ॥ ६१.१० ॥ यस्माज्जीवनिकायस्य महतः संक्षयो भवेत् । तस्मान्न पापमद्यावां करवाव पुरंदर ॥ ६१.११ ॥ अस्य योजनमात्रेऽपि जीवकोटिशतानि च । निवसन्ति सुरश्रेष्ठ स कथं नाशमर्हति ॥ ६१.१२ ॥ एवमुक्तः सुरेन्द्रस्तु कोपात्संरक्तलोचनः । उवाचेदं वचो रोषान्निर्दहन्निव पावकम् ॥ ६१.१३ ॥ न धर्माधर्मसंयोगं प्राप्नुवन्त्यमराः क्वचित् । भवतोस्तु विशेषेण माहात्म्यं चाधितिष्ठतोः ॥ ६१.१४ ॥ मदाज्ञालङ्घनं यस्मान्मारुतेन समं त्वया । मुनिव्रतमहिंसादि परिगृह्य त्वया कृतम् । धर्मार्थशास्त्ररहितं शत्रुं प्रति विभावसो ॥ ६१.१५ ॥ तस्मादेकेन वपुषा मुनिरूपेण मानुषे । मारुतेन समं लोके तव जन्म भविष्यति ॥ ६१.१६ ॥ यदा च मानुषत्वेऽपि त्वयागस्त्येन शोषितः । भविष्यत्युदधिर्वह्ने तदा देवत्वमाप्स्यसि ॥ ६१.१७ ॥ इतीन्द्रशापात्पतितौ तत्क्षणात्तौ महीतले । अवाप्तावेकदेहेन कुम्भाज्जन्म तपोधन ॥ ६१.१८ ॥ मित्रावरुणयोर्वीर्याद्वसिष्ठस्यानुजोऽभवत् । अगस्त्य इत्युग्रतपाः संबभूव पुनर्मुनिः ॥ ६१.१९ ॥ *नारद उवाच सम्भूतः स कथं भ्राता वसिष्ठस्याभवन्मुनिः । कथं च मित्रावरुणौ पितरावस्य तौ स्मृतौ । जन्म कुम्भादगस्त्यस्य कथं स्यात्पुरसूदन ॥ ६१.२० ॥ *ईश्वर उवाच पुरा पुराणपुरुषः कदाचिद्गन्धमादने । भूत्वा धर्मसुतो विष्णुश्चचार विपुलं तपः ॥ ६१.२१ ॥ तपसा तस्य भीतेन विघ्नार्थं प्रेषितावुभौ । शक्रेण माधवानङ्गावप्सरोगणसंयुतौ ॥ ६१.२२ ॥ यदा न गीतवाद्येन नाङ्गरागादिना हरिः । न काममाधवाभ्यां च विषयान्प्रति चुक्षुभे ॥ ६१.२३ ॥ तदा काममधुस्त्रीणां विषादमगमद्गणः । संक्षोभाय ततस्तेषां स्वोरुदेशान्नराग्रजः । नारीमुत्पादयामास त्रैलोक्यजनमोहिनीम् ॥ ६१.२४ ॥ संक्षुब्धास्तु तया देवास्तौ तु देववरावुभौ । अप्सरोभिः समक्षं हि देवानामब्रवीद्धरिः ॥ ६१.२५ ॥ अप्सरा इति सामान्या देवानामब्रवीद्धरिः । उर्वशीति च नाम्नेयं लोके ख्यातिं गमिष्यति ॥ ६१.२६ ॥ ततः कामयमानेन मित्रेणाहूय सोर्वशी । उक्ता मां रमयस्वेति बाढमित्यब्रवीत्तु सा ॥ ६१.२७ ॥ गच्छन्ती चाम्बरं तद्वत्स्तोकमिन्दीवरेक्षणा । वरुणेन धृता पश्चाद्वरुणं नाभ्यनन्दत ॥ ६१.२८ ॥ मित्रेणाहं वृता पूर्वमद्य भार्या न ते विभो । उवाच वरुणश्चित्तं मयि संन्यस्य गम्यताम् ॥ ६१.२९ ॥ गतायां बाढमित्युक्त्वा मित्रः शापमदात्तदा । तस्यै मानुषलोके त्वं गच्छ सोमसुतात्मजम् ॥ ६१.३० ॥ भजस्वेति यतो वेश्या धर्म एष त्वया कृतः । जलकुम्भे ततो वीर्यं मित्रेण वरुणेन च । प्रक्षिप्तमथ संजातौ द्वावेव मुनिसत्तमौ ॥ ६१.३१ ॥ निमिर्नाम सह स्त्रीभिः पुरा द्यूतमदीव्यत । तत्रान्तरेऽभ्याजगाम वसिष्ठो ब्रह्मसम्भवः ॥ ६१.३२ ॥ तस्य पूजामकुर्वन्तं शशाप स मुनिर्नृपम् । विदेहस्त्वं भवस्वेति ततस्तेनाप्यसौ मुनिः ॥ ६१.३३ ॥ अन्योन्यशापाच्च तयोर्विगते इव चेतसी । जग्मतुः शापनाशाय ब्रह्माणं जगतः पतिम् ॥ ६१.३४ ॥ अथ ब्रह्मण आदेशाल्लोचनेष्ववसन्निमिः । निमेषाः स्युश्च लोकानां तद्विश्रामाय नारद ॥ ६१.३५ ॥ वसिष्ठोऽप्यभवत्तस्मिञ्जलकुम्भे च पूर्ववत् । ततः श्वेतश्चतुर्बाहुः साक्षसूत्रकमण्डलुः । अगस्त्य इति शान्तात्मा बभूव ऋषिसत्तमः ॥ ६१.३६ ॥ मलयस्यैकदेशे तु वैखानसविधानतः । सभार्यः संवृतो विप्रैस्तपश्चक्रे सुदुश्चरम् ॥ ६१.३७ ॥ ततः कालेन महता तारकादतिपीडितम् । जगद्वीक्ष्य स कोपेन पीतवान्वरुणालयम् ॥ ६१.३८ ॥ ततोऽस्य वरदाः सर्वे बभूवुः शंकरादयः । ब्रह्मा विष्णुश्च भगवान् वरदानाय जग्मतुः । वरं वृणीष्व भद्रं ते यदभीष्टं च वै मुने ॥ ६१.३९ ॥ *अगस्त्य उवाच यावद्ब्रह्मसहस्राणां पञ्चविंशतिकोटयः । वैमानिको भविष्यामि दक्षिणाचलवर्त्मनि ॥ ६१.४० ॥ मद्विमानोदये कुर्याद्यः कश्चित्पूजनं मम । स सप्तलोकाधिपतिः पर्यायेण भविष्यति ॥ ६१.४१ ॥ *ईश्वर उवाच एवमस्त्विति तेऽप्युक्त्वा जग्मुर्देवा यथागतम् । तस्मादर्घः प्रदातव्यो ह्यगस्त्यस्य सदा बुधैः ॥ ६१.४२ ॥ *नारद उवाच कथमर्घप्रदानं तु कर्तव्यं तस्य वै विभो । विधानं यदगस्त्यस्य पूजने तद्वदस्व मे ॥ ६१.४३ ॥ *ईश्वर उवाच प्रत्यूषसमये विद्वान् कुर्यादस्योदये निशि । स्नानं शुक्लतिलैस्तद्वच्छुक्लमाल्याम्बरो गृही ॥ ६१.४४ ॥ स्थापयेदव्रणं कुम्भं माल्यवस्त्रविभूषितम् । पञ्चरत्नसमायुक्तं घृतपात्रसमन्वितम् । नानाभक्ष्यफलैर्युक्तं ताम्रपात्रसमन्वितम् ॥ ६१.४५ ॥ अङ्गुष्ठमात्रं पुरुषं तथैव सौवर्णमत्यायतबाहुदण्डम् । चतुर्मुखं कुम्भमुखे निधाय धान्यानि सप्ताम्बरसंयुतानि ॥ ६१.४६ ॥ सकांस्यपात्राक्षतशुक्तियुक्तं मन्त्रेण दद्याद्द्विजपुंगवाय । उत्क्षिप्य लम्बोदरदीर्घबाहुमनन्यचेता यमदिङ्मुखः सन् ॥ ६१.४७ ॥ श्वेतां च दद्याद्यदि शक्तिरस्ति रौप्यैः खुरैर्हेममुखीं सवत्साम् । धेनुं नरः क्षीरवतीं प्रणम्य सवत्सघण्टाभरणां द्विजाय ॥ ६१.४८ ॥ आ सप्तरात्रोदयमेतदस्य दातव्यमेतत्सकलं नरेण । यावत्समाः सप्त दशाथवा स्युरथोर्ध्वमप्यत्र वदन्ति केचित् ॥ ६१.४९ ॥ काशपुष्पप्रतीकाश वह्निमारुतसम्भव । मित्रावरुणयोः पुत्र कुम्भयोने नमोऽस्तु ते ॥ ६१.५० ॥ विन्ध्यवृद्धिक्षयकर मेघतोयविषापह । रत्नवल्लभ देवेश लङ्कावासिन्नमोऽस्तु ते ॥ ६१.५१ ॥ वातापी भक्षितो येन समुद्रः शोषितः पुरा । लोपामुद्रापतिः श्रीमान् योऽसौ तस्मै नमो नमः ॥ ६१.५२ ॥ राजपुत्रि महाभागे ऋषिपत्नि वरानने । लोपामुद्रे नमस्तुभ्यमर्घो मे प्रतिगृह्यताम् । प्रत्यब्दं तु फलत्यागमेवं कुर्वन्न सीदति ॥ ६१.५३ ॥ होमं कृत्वा ततः पश्चाद्वर्जयेन्मानवः फलम् । अनेन विधिना यस्तु पुमानर्घ्यं निवेदयेत् ॥ ६१.५४ ॥ इमं लोकं स चाप्नोति रूपारोग्यसमन्वितः । द्वितीयेन भुवर्लोकं स्वर्गलोकं ततः परम् ॥ ६१.५५ ॥ सप्तैव लोकानाप्नोति सप्तार्घान् यः प्रयच्छति । यावदायुश्च यः कुर्यात्परं ब्रह्माधिगच्छति ॥ ६१.५६ ॥ इह पठति शृणोति वा य एतद्युगलमुनिप्रभवार्घ्यसम्प्रदानम् । मतिमपि च ददाति सोऽपि विष्णोर्भवनगतः परिपूज्यतेऽमरौघैः ॥ ६१.५७ ॥ ______________________________________________________ मत्स्यपुराण ६२ *मनुरुवाच सौभाग्यारोग्यफलदममुत्राक्षय्यकारकम् । भुक्तिमुक्तिप्रदं देव तन्मे ब्रूहि जनार्दन ॥ ६२.१ ॥ *मत्स्य उवाच यदुमायाः पुरा देव उवाच पुरसूदनः । कैलासशिखरासीनो देव्या पृष्टस्तदा किल ॥ ६२.२ ॥ कथासु सम्प्रवृत्तासु धर्म्यासु ललितासु च । तदिदानीं प्रवक्ष्यामि भुक्तिमुक्तिफलप्रदम् ॥ ६२.३ ॥ *ईश्वर उवाच शृणुष्वावहिता देवि तथैवानन्तपुण्यकृत् । नराणामथ नारीणामाराधनमनुत्तमम् ॥ ६२.४ ॥ नभस्ये वाथ वैशाखे पुण्यमार्गशिरस्य च । शुक्लपक्षे तृतीयायां सुस्नातो गौरसर्षपैः ॥ ६२.५ ॥ गोरोचनं सगोमूत्रमुष्णं गोशकृतं तथा । दधिचन्दनसम्मिश्रं ललाटे तिलकं न्यसेत् । सौभाग्यारोग्यदं यस्मात्सदा च ललिताप्रियम् ॥ ६२.६ ॥ प्रतिपक्षं तृतीयासु पुमानापीतवाससी । धारयेदथ रक्तानि नारी चेदथ संयता ॥ ६२.७ ॥ विधवा धातुरक्तानि कुमारी शुक्लवाससी । देवीं तु पञ्चगव्येन ततः क्षीरेण केवलम् । स्नापयेन्मधुना तद्वत्पुष्पगन्धोदकेन च ॥ ६२.८ ॥ पूजयेच्छुक्लपुष्पैश्च फलैर्नानाविधैरपि । धान्यकाजाजिलवणैर्गुडक्षीरघृतान्वितैः ॥ ६२.९ ॥ शुक्लाक्षततिलैरर्च्यां ततो देवीं सदार्चयेत् । पादाद्यभ्यर्चनं कुर्यात्प्रतिपक्षं वरानने ॥ ६२.१० ॥ वरदायै नमः पादौ तथा गुल्फौ नमः श्रियै । अशोकायै नमो जङ्घे पार्वत्यै जानुनी तथा ॥ ६२.११ ॥ ऊरू मङ्गलकारिण्यै वामदेव्यै तथा कटिम् । पद्मोदरायै जठरमुरः कामश्रियै नमः ॥ ६२.१२ ॥ करौ सौभाग्यदायिन्यै बाहू हरमुखश्रियै । मुखं दर्पणवासिन्यै स्मरदायै स्मितं नमः ॥ ६२.१३ ॥ गौर्यै नमस्तथा नासामुत्पलायै च लोचने । तुष्ट्यै ललाटमलकान् कात्यायन्यै शिरस्तथा ॥ ६२.१४ ॥ नमो गौर्यै नमो धिष्ण्यै नमः कान्त्यै नमः श्रियै । रम्भायै ललितायै च वासुदेव्यै नमो नमः ॥ ६२.१५ ॥ एवं सम्पूज्य विधिवदग्रतः पद्ममालिखेत् । पत्त्रैर्द्वादशभिर्युक्तं कुङ्कुमेन सकर्णिकम् ॥ ६२.१६ ॥ पूर्वेण विन्यसेद्गौरीमपर्णां च ततः परम् । भवानीं दक्षिणे तद्वद्रुद्राणीं च ततः परम् ॥ ६२.१७ ॥ विन्यसेत्पश्चिमे सौम्यां सदा मदनवासिनीम् । वायव्ये पाटलामुग्रामन्तरेण ततोऽप्युमाम् ॥ ६२.१८ ॥ मध्ये यथास्वं मांसाङ्गां मङ्गलां कुमुदां सतीम् । रुद्रं च मध्ये संस्थाप्य ललितां कर्णिकोपरि । कुसुमैरक्षतैर्वार्भिर्नमस्कारेण विन्यसेत् ॥ ६२.१९ ॥ गीतमङ्गलनिर्घोषान् कारयित्वा सुवासिनीः । पूजयेद्रक्तवासोभी रक्तमाल्यानुलेपनैः । सिन्दूरं स्नानचूर्णं च तासां शिरसि पातयेत् ॥ ६२.२० ॥ सिन्दूरकुङ्कुमस्नानमतीवेष्टतमं यतः । तथोपदेष्टारमपि पूजयेद्यत्नतो गुरुम् । न पूज्यते गुरुर्यत्र सर्वास्तत्राफलाः क्रियाः ॥ ६२.२१ ॥ नभस्ये पूजयेद्गौरीमुत्पलैरसितैः सदा । बन्धुजीवैराश्वयुजे कार्त्तिके शतपत्त्रकैः ॥ ६२.२२ ॥ जातीपुष्पैर्मार्गशीर्षे पौषे पीतैः कुरण्टकैः । कुन्दकुङ्कुमपुष्पैस्तु देवीं माघे तु पूजयेत् । सिन्दुवारेण जात्या वा फाल्गुनेऽप्यर्चयेदुमाम् ॥ ६२.२३ ॥ चैत्रे तु मल्लिकाशोकैर्वैशाखे गन्धपाटलैः । ज्येष्ठे कमलमन्दारैराषाढे च नवाम्बुजैः । कदम्बैरथ मालत्या श्रावणे पूजयेत्सदा ॥ ६२.२४ ॥ गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । बिल्वपत्त्रार्कपुष्पं च यवान्गोशृङ्गवारि च ॥ ६२.२५ ॥ पञ्चगव्यं च बिल्वं च प्राशयेत्क्रमशस्तदा । एतद्भाद्रपदाद्यं तु प्राशनं समुदाहृतम् ॥ ६२.२६ ॥ प्रतिपक्षं च मिथुनं तृतीयायां वरानने । पूजयित्वार्चयेद्भक्त्या वस्त्रमाल्यानुलेपनैः ॥ ६२.२७ ॥ पुंसः पीताम्बरे दद्यात्स्त्रियै कौसुम्भवाससी । निष्पावाजाजिलवणमिक्षुदण्डगुडान्वितम् । तस्यै दद्यात्फलं पुष्पं सुवर्णोत्पलसंयुतम् ॥ ६२.२८ ॥ यथा न देवि देवेशस्त्वां परित्यज्य गच्छति । तथा मामुद्धराशेषदुःखसंसारसागरात् ॥ ६२.२९ ॥ कुमुदा विमलानन्ता भवानी च सुधा शिवा । ललिता कमला गौरी सती रम्भाथ पार्वती ॥ ६२.३० ॥ नभस्यादिषु मासेषु प्रीयतामित्युदीरयेत् । व्रतान्ते शयनं दद्यात्सुवर्णकमलान्वितम् ॥ ६२.३१ ॥ मिथुनानि चतुर्विंशद्दश द्वो च समर्चयेत् । अष्टौ षड्वाप्यथ पुनश्चानुमासं समर्चयेत् ॥ ६२.३२ ॥ पूर्वं दत्त्वा तु गुरवे शेषानप्यर्चयेद्बुधः । उक्तानन्ततृतीयैषा सदानन्तफलप्रदा ॥ ६२.३३ ॥ सर्वपापहरां देवि सौभाग्यारोग्यवर्धिनीम् । न चैनां वित्तशाठ्येन कदाचिदपि लङ्घयेत् । नरो वा यदि वा नारी वित्तशाठ्यात्पतत्यधः ॥ ६२.३४ ॥ गर्भिणी सूतिका नक्तं कुमारी वाथ रोगिणी । यद्यशुद्धा तदान्येन वारयेत्प्रयता स्वयम् ॥ ६२.३५ ॥ इमामनन्तफलदां यस्तृतीयां समाचरेत् । कल्पकोटिशतं साग्रं शिवलोके महीयते ॥ ६२.३६ ॥ वित्तहीनोऽपि कुरुते वर्षत्रयमुपोषणैः । पुष्पमन्त्रविधानेन सोऽपि तत्फलमाप्नुयात् ॥ ६२.३७ ॥ नारी वा कुरुते या तु कुमारी विधवाथवा । सापि तत्फलमाप्नोति गौर्यनुग्रहलालिता ॥ ६२.३८ ॥ इति पठति शृणोति वा य इत्थं गिरितनयाव्रतमिन्द्रवाससंस्थः । मतिमपि च ददाति सोऽपि देवैरमरवधूजनकिंनरैश्च पूज्यः ॥ ६२.३९ ॥ ______________________________________________________ मत्स्यपुराण ६३ *ईश्वर उवाच अथान्यामपि वक्ष्यामि तृतीयां पापनाशिनीम् । रसकल्याणिनीमेतां पुराकल्पविदो विदुः ॥ ६३.१ ॥ माघमासे तु सम्प्राप्ते तृतीयां शुक्लपक्षतः । प्रातर्गव्येन पयसा तिलैः स्नानं समाचरेत् ॥ ६३.२ ॥ स्नापयेन्मधुना देवीं तथैवेक्षुरसेन च । गन्धोदकेन तु पुनर्लेपयेत्कुङ्कुमेन तु । दक्षिणाङ्गानि सम्पूज्य ततो वामानि पूजयेत् ॥ ६३.३ ॥ ललितायै नमो देव्याः पादौ गुल्फौ ततोऽर्चयेत् । जङ्घां जानुं तथा शान्त्यै तथैवोरुं श्रियै नमः ॥ ६३.४ ॥ मदालसायै तु कटिममलायै तथोदरम् । स्तनौ मदनवासिन्यै कुमुदायै च कन्दराम् ॥ ६३.५ ॥ भुजं भुजाग्रं माधव्यै कमलायै मुखस्मिते । भूललाटं च रुद्राण्यै शंकरायै तथालकान् ॥ ६३.६ ॥ मुकुटं विश्ववासिन्यै शिरः कान्त्यै तथार्चयेत् । मदनायै ललाटं तु मोहनायै पुनर्भ्रुवौ ॥ ६३.७ ॥ नेत्रे चन्द्रार्धधारिण्यै तुष्ट्यै च वदनं पुनः । उत्कण्ठिन्यै नमः कण्ठममृतायै नमः स्तनौ ॥ ६३.८ ॥ रम्भायै वामकुक्षिं च विशोकायै नमः कटिम् । हृदयं मन्मथाधिष्ण्यै पाटलायै तथोदरम् ॥ ६३.९ ॥ कटिं सुरतवासिन्यै तथोरुं चम्पकप्रिये । जानुजङ्घे नमो गौर्यै गायत्र्यै घुटिके नमः ॥ ६३.१० ॥ धराधरायै पादौ तु विश्वकायै नमः शिरः । नमो भवान्यै कामिन्यै कामदेव्यै जगत्प्रिये ॥ ६३.११ ॥ आनन्दायै सुनन्दायै सुभद्रायै नमो नमः । एवं सम्पूज्य विधिवद्द्विजदाम्पत्यमर्चयेत् । भोजयित्वान्नपानेन मधुरेण विमत्सरः ॥ ६३.१२ ॥ जलपूरितं तथा कुम्भं शुक्लाम्बरयुगद्वयम् । दत्त्वा सुवर्णकमलं गन्धमाल्यैः समर्चयेत् ॥ ६३.१३ ॥ प्रीयतामत्र कुमुदा गृह्णीयाल्लवणव्रतम् । अनेन विधिना देवी मासि मासि सदार्चयेत् ॥ ६३.१४ ॥ लवणं वर्जयेन्माघे फाल्गुने च गुडं पुनः । तैलं राजिं तथा चैत्रे वर्ज्यं च मधु माधवे ॥ ६३.१५ ॥ पानकं ज्येष्ठमासे तु आषाढे चाथ जीरकम् । श्रावणे वर्जयेत्क्षीरं दधि भाद्रपदे तथा ॥ ६३.१६ ॥ घृतमाश्वयुजे तद्वदूर्जे वर्ज्यं च माक्षिकम् । धान्यकं मार्गशीर्षे तु पौषे वर्ज्या च शर्करा ॥ ६३.१७ ॥ व्रतान्ते करकं पूर्णमेतेषां मासि मासि च । दद्याद्द्विकालवेलायां पूर्णपात्रेण संयुतम् ॥ ६३.१८ ॥ लड्डुकाञ्छ्वेतवर्णांश्च संयावमथ पूरिकाः । घारिकानप्यपूपांश्च पिष्टापूपांश्च मण्डकान् ॥ ६३.१९ ॥ क्षीरं शाकं च दध्यन्नमिण्डर्योऽशोकवर्तिकाः । माघादिक्रमशो दद्यादेतानि करकोपरि ॥ ६३.२० ॥ कुमुदा माधवी गौरी रम्भा भद्रा जया शिवा । उमा रतिः सती तद्वन्मङ्गला रतिलालसा ॥ ६३.२१ ॥ क्रमान्माघादि सर्वत्र प्रीयतामिति कीर्तयेत् । सर्वत्र पञ्चगव्येन प्राशनं समुदाहृतम् । उपवासी भवेन्नित्यमशक्ते नक्तमिष्यते ॥ ६३.२२ ॥ पुनर्माघे तु सम्प्राप्ते शर्करां करकोपरि । कृत्वा तु काञ्चनीं गौरीं पञ्चरत्नसमन्विताम् ॥ ६३.२३ ॥ हैमीमङ्गुष्ठमात्रां च साक्षसूत्रकमण्डलुम् । चतुर्भुजामिन्दुयुतां सितनेत्रपटावृताम् ॥ ६३.२४ ॥ तद्वद्गोमिथुनं शुक्लं सुवर्णास्यं सिताम्बरम् । सवस्त्रभाजनं दद्याद्भवानी प्रीयतामिति ॥ ६३.२५ ॥ अनेन विधिना यस्तु रसकल्याणिनीव्रतम् । कुर्यात्स सर्वपापेभ्यस्तत्क्षणादेव मुच्यते ॥ ६३.२६ ॥ नवार्बुदसहस्रं तु न दुःखी जायते नरः । सुवर्णकमलं गौरि मासि मासि ददन्नरः । अग्निष्टोमसहस्रस्य यत्फलं तदवाप्नुयात् ॥ ६३.२७ ॥ नारी वा कुरुते या तु कुमारी वा वरानने । विधवा या तथा नारी सापि तत्फलमाप्नुयात् । सौभाग्यारोग्यसम्पन्ना गौरीलोके महीयते ॥ ६३.२८ ॥ इति पठति शृणोति श्रावयेद्यः प्रसङ्गात्कलिकलुषविमुक्तः पार्वतीलोकमेति । मतिमपि च नराणां यो ददाति प्रियार्थं विबुधपतिविमाने नायकः स्यादमोघः ॥ ६३.२९ ॥ ______________________________________________________ मत्स्यपुराण ६४ *ईश्वर उवाच तथैवान्यां प्रवक्ष्यामि तृतीयां पापनाशिनीम् । नाम्ना च लोके विख्यातामार्द्रानन्दकरीमिमाम् ॥ ६४.१ ॥ यदा शुक्लतृतीयायामाषाढर्क्षं भवेत्क्वचित् । ब्रह्मर्क्षं वा मृगर्क्षं वा हस्तो मूलमथापि वा । दर्भगन्धोदकैः स्नानं तदा सम्यक्समाचरेत् ॥ ६४.२ ॥ शुक्लमाल्याम्बरधरः शुक्लगन्धानुलेपनः । भवानीमर्चयेद्भक्त्या शुक्लपुष्पैः सुगन्धिभिः । महादेवेन सहितामुपविष्टां महासने ॥ ६४.३ ॥ वासुदेव्यै नमः पादौ शंकराय नमो हरम् । जङ्घे शोकविनाशिन्यै आनन्दाय नमः प्रभो ॥ ६४.४ ॥ रम्भायै पूजयेदूरू शिवाय च पिनाकिनः । अदित्यै च कटिं देव्याः शूलिनः शूलपाणये ॥ ६४.५ ॥ माधव्यै च तथा नाभिमथ शम्भोर्भवाय च । स्तनावानन्दकारिण्यै शंकरस्येन्दुधारिणे ॥ ६४.६ ॥ उत्कण्ठिन्यै नमः कण्ठं नीलकण्ठाय वै हरम् । करावुत्पलधारिण्यै रुद्राय च जगत्पते । बाहू च परिरम्भिण्यै त्रिशूलाय हरस्य च ॥ ६४.७ ॥ देव्या मुखं विलासिन्यै वृषेशाय पुनर्विभोः । स्मितं सस्मेरलीलायै विश्ववक्त्राय वै विभो ॥ ६४.८ ॥ नेत्रे मदनवासिन्यै विश्वधाम्ने त्रिशूलिनः । भ्रुवौ नृत्यप्रियायै तु ताण्डवेशाय शूलिनः ॥ ६४.९ ॥ देव्या ललाटमिन्द्राण्यै हव्यवाहाय वै विभोः । स्वाहायै मुकुटं देव्या विभोर्गङ्गाधराय वै ॥ ६४.१० ॥ विश्वकायौ विश्वमुखौ विश्वपादकरौ शिवौ । प्रसन्नवदनौ वन्दे पार्वतीपरमेश्वरौ ॥ ६४.११ ॥ एवं सम्पूज्य विधिवदग्रतः शिवयोः पुनः । पद्मोत्पलानि रजसा नानावर्णेन कारयेत् ॥ ६४.१२ ॥ शङ्खचक्रे सकटके स्वस्तिकाङ्कुशचामरान् । यावन्तः पांसवस्तत्र रजसः पतिता भुवि । तावद्वर्षसहस्राणि शिवलोके महीयते ॥ ६४.१३ ॥ चत्वारि घृतपात्राणि सहिरण्यानि शक्तितः । दत्त्वा द्विजाय करकमुदकान्नसमन्वितम् । प्रतिपक्षं चतुर्मासं यावदेतन्निवेदयेत् ॥ ६४.१४ ॥ ततस्तु चतुरो मासान् पूर्ववत्करकोपरि । चत्वारि सक्तुपात्राणि तिलपात्राण्यतः परम् ॥ ६४.१५ ॥ गन्धोदकं पुष्पवारि चन्दनं कुङ्कुमोदकम् । अपक्वं दधि दुग्धं च गोशृङ्गोदकमेव च ॥ ६४.१६ ॥ पिष्टोदकं तथा वारि कुष्ठचूर्णान्वितं पुनः । उशीरसलिलं तद्वद्यवचूर्णोदकं पुनः ॥ ६४.१७ ॥ तिलोदकं च संप्राश्य स्वपेन्मार्गशिरादिषु । मासेषु पक्षद्वितयं प्राशनं समुदाहृतम् ॥ ६४.१८ ॥ सर्वत्र शुक्लपुष्पाणि प्रशस्तानि सदार्चने । दानकाले च सर्वत्र मन्त्रमेतमुदीरयेत् ॥ ६४.१९ ॥ गौरी मे प्रीयतां नित्यमघनाशाय मङ्गला । सौभाग्यायास्तु ललिता भवानी सर्वसिद्धये ॥ ६४.२० ॥ संवत्सरान्ते लवणं गुडकुम्भं च सर्जिकाम् । चन्दनं नेत्रपट्टं च सहिरण्याम्बुजेन तु ॥ ६४.२१ ॥ उमामहेश्वरं हैमं तद्वदिक्षुफलैर्युतम् । सतूलावरणां शय्यां सविश्रामां निवेदयेत् । सपत्नीकाय विप्राय गौरी मे प्रीयतामिति ॥ ६४.२२ ॥ आर्द्रानन्दकरी नाम्ना तृतीयैषा सनातनी । यामुपोष्य नरो याति शम्भोर्यत्परमं पदम् ॥ ६४.२३ ॥ इह लोके सदानन्दमाप्नोति धनसम्पदः । आयुरारोग्यसम्पत्त्या न कश्चिच्छोकमाप्नुयात् ॥ ६४.२४ ॥ नारी वा कुरुते या तु कुमारी विधवा च या । सापि तत्फलमाप्नोति देव्यनुग्रहलालिता ॥ ६४.२५ ॥ प्रतिपक्षमुपोष्यैवं मन्त्रार्चनविधानवित् । रुद्राणीलोकमभ्येति पुनरावृत्तिदुर्लभम् ॥ ६४.२६ ॥ य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः । शक्रलोके स गन्धर्वैः पूज्यतेऽपि युगत्रयम् ॥ ६४.२७ ॥ आनन्ददां सकलदुःखहरां तृतीयां या स्त्री करोत्यविधवा विधवाथ वापि । सा स्वे गृहे सुखशतान्यनुभूय भूयो गौरीपदं सदयिता दयिता प्रयाति ॥ ६४.२८ ॥ ______________________________________________________ मत्स्यपुराण ६५ *ईश्वर उवाच अथान्यामपि वक्ष्यामि तृतीयां सर्वकामदाम् । यस्यां दत्तं हुतं जप्तं सर्वं भवति चाक्षयम् ॥ ६५.१ ॥ वैशाखशुक्लपक्षे तु तृतीया यैरुपोषिता । अक्षयं फलमाप्नोति सर्वस्य सुकृतस्य च ॥ ६५.२ ॥ सा तथा कृत्तिकोपेता विशेषेण सुपूजिता । तत्र दत्तं हुतं जप्तं सर्वमक्षयमुच्यते ॥ ६५.३ ॥ अक्षया संततिस्तस्यास्तस्यां सुकृतमक्षयम् । अक्षतैः पूज्यते विष्णुस्तेन साप्यक्षया स्मृता । अक्षतैस्तु नराः स्नाता विष्णोर्दत्त्वा तथाक्षतान् ॥ ६५.४ ॥ विप्रेषु दत्त्वा तानेव तथा सक्तून् सुसंकृतान् । यथान्नभुङ्महाभागः फलमक्षय्यमश्नुते ॥ ६५.५ ॥ एकामप्युक्तवत्कृत्वा तृतीयां विधिवन्नरः । एतासामपि सर्वासां तृतीयानां फलं भवेत् ॥ ६५.६ ॥ तृतीयायां समभ्यर्च्य सोपवासो जनार्दनम् । राजसूयफलं प्राप्य गतिमग्र्यां च विन्दति ॥ ६५.७ ॥ ______________________________________________________ मत्स्यपुराण ६६ *मनुरुवाच मधुरा भारती केन व्रतेन मधुसूदन । तथैव जनसौभाग्यमतिविद्यासु कौशलम् ॥ ६६.१ ॥ अभेदश्चापि दम्पत्योस्तथा बन्धुजनेन च । आयुश्च विपुलं पुंसां तन्मे कथय माधव ॥ ६६.२ ॥ *मत्स्य उवाच सम्यक्पृष्टं त्वया राजञ्छृणु सारस्वतं व्रतम् । यस्य संकीर्तनादेव तुष्यतीह सरस्वती ॥ ६६.३ ॥ यो यद्भक्तः पुमान्कुर्यादेतद्व्रतमनुत्तमम् । तद्वासरादौ सम्पूज्य विप्रानेतान्समाचरेत् ॥ ६६.४ ॥ अथवादित्यवारेण ग्रहताराबलेन च । पायसं भोजयेद्विप्रान् कृत्वा ब्राह्मणवाचनम् ॥ ६६.५ ॥ शुक्लवस्त्राणि दत्त्वा च सहिरण्यानि शक्तितः । गायत्रीं पूजयेद्भक्त्या शुक्लमाल्यानुलेपनैः ॥ ६६.६ ॥ यथा न देवि भगवान् ब्रह्मलोके पितामहः । त्वां परित्यज्य संतिष्ठेत्तथा भव वरप्रदा ॥ ६६.७ ॥ वेदाः शास्त्राणि सर्वाणि गीतनृत्यादिकं च यत् । न विहीनं त्वया देवि तथा मे सन्तु सिद्धयः ॥ ६६.८ ॥ लक्ष्मीर्मेधा धरा पुष्टिर्गौरी तुष्टिः प्रभा मतिः । एताभिः पाहि चाष्टाभिस्तनुभिर्मां सरस्वति ॥ ६६.९ ॥ एवं सम्पूज्य गायत्रीं वीणाक्षमणिधारिणीम् । शुक्लपुष्पाक्षतैर्भक्त्या सकमण्डलुपुस्तकाम् । मौनव्रतेन भुञ्जीत सायं प्रातस्तु धर्मवित् ॥ ६६.१० ॥ पञ्चम्यां प्रतिपक्षं च पूजयेद्ब्रह्मवासिनीम् । तथैव तण्डुलप्रस्थं घृतपात्रेण संयुतम् । क्षीरं दद्याद्धिरण्यं च गायत्री प्रीयतामिति ॥ ६६.११ ॥ संध्यायां च तथा मौनमेतत्कुर्वन्समाचरेत् । नान्तरा भोजनं कुर्याद्यावन्मासास्त्रयोदश ॥ ६६.१२ ॥ समाप्ते तु व्रते कुर्याद्भोजनं शुक्लतण्डुलैः । पूर्वं सवस्त्रयुग्मं च दद्याद्विप्राय भोजनम् ॥ ६६.१३ ॥ देव्या वितानं घण्टां च सितनेत्रे पयस्विनीम् । चन्दनं वस्त्रयुग्मं च दद्याच्च शिखरं पुनः ॥ ६६.१४ ॥ तथोपदेष्टारमपि भक्त्या सम्पूजयेद्गुरुम् । वित्तशाठ्येन रहितो वस्त्रमाल्यानुलेपनैः ॥ ६६.१५ ॥ अनेन विधिना यस्तु कुर्यात्सारस्वतं व्रतम् । विद्यावानर्थसंयुक्तो रक्तकण्ठश्च जायते ॥ ६६.१६ ॥ सरस्वत्याः प्रसादेन ब्रह्मलोके महीयते । नारी वा कुरुते या तु सापि तत्फलगामिनी ॥ ६६.१७ ॥ ब्रह्मलोके वसेद्राजन् यावत्कल्पायुतत्रयम् ॥ ६६.१८ ॥ सारस्वतं व्रतं यस्तु शृणुयादपि यः पठेत् । विद्याधरपुरे सोऽपि वसेत्कल्पायुतत्रयम् ॥ ६६.१९ ॥ ______________________________________________________ मत्स्यपुराण ६७ चन्द्रादित्योपरागे तु यत्स्नानमभिधीयते । तदहं श्रोतुमिच्छामि द्रव्यमन्त्रविधानवित् ॥ ६७.१ ॥ *मत्स्य उवाच यस्य राशिं समासाद्य भवेद्ग्रहणसम्प्लवः । तस्य स्नानं प्रवक्ष्यामि मन्त्रौषधविधानतः ॥ ६७.२ ॥ चन्द्रोपरागं सम्प्राप्य कृत्वा ब्राह्मणवाचनम् । सम्पूज्य चतुरो विप्राञ्शुक्लमाल्यानुलेपनैः ॥ ६७.३ ॥ पूर्वमेवोपरागस्य समासाद्यौषधादिकम् । स्थापयेच्चतुरः कुम्भानव्रणान्सागरानिति ॥ ६७.४ ॥ गजाश्वरथ्यावल्मीकसंगमाद्ध्रदगोकुलात् । राजद्वारप्रदेशाच्च मृदमानीय चाक्षिपेत् ॥ ६७.५ ॥ पञ्चगव्यं च कुम्भेषु शुद्धमुक्ताफलानि च । रोचनां पद्मशङ्खौ च पञ्चरत्नसमन्वितम् ॥ ६७.६ ॥ स्फटिकं चन्दनं श्वेतं तीर्थवारि ससर्षपम् । राजदन्तं सकुमुदं तथैवोशीरगुग्गुलम् । एतत्सर्वं विनिक्षिप्य कुम्भेष्वावाहयेत्सुरान् ॥ ६७.७ ॥ सर्वे समुद्राः सरितस्तीर्थानि जलदा नदाः । आयान्तु यजमानस्य दुरितक्षयकारकाः ॥ ६७.८ ॥ योऽसौ वज्रधरो देव आदित्यानां प्रभुर्मतः । सहस्रनयनश्चेन्द्रो ग्रहपीडां व्यपोहतु ॥ ६७.९ ॥ मुखं यः सर्वदेवानां सप्तार्चिरमितद्युतिः । चन्द्रोपरागसम्भूतामग्निः पीडां व्यपोहतु ॥ ६७.१० ॥ यः कर्मसाक्षी भूतानां धर्मो महिषवाहनः । यमश्चन्द्रोपरागोत्थां मम पीडां व्यपोहतु ॥ ६७.११ ॥ रक्षोगणाधिपः साक्षात्प्रलयानलसंनिभः । खड्गव्यग्रोऽतिभीमश्च रक्षःपीडां व्यपोहतु ॥ ६७.१२ ॥ नागपाशधरो देवः साक्षान्मकरवाहनः । स जलाधिपतिश्चन्द्रग्रहपीडां व्यपोहतु ॥ ६७.१३ ॥ प्राणरूपेण यो लोकान् पाति कृष्णमृगप्रियः । वायुश्चन्द्रोपरागोत्थां पीडामत्र व्यपोहतु ॥ ६७.१४ ॥ योऽसौ निधिपतिर्देवः खड्गशूलगदाधरः । चन्द्रोपरागकलुषं धनदो मे व्यपोहतु ॥ ६७.१५ ॥ योऽसाविन्दुधरो देवः पिनाकी वृषवाहनः । चन्द्रोपरागजां पीडां विनाशयतु शंकरः ॥ ६७.१६ ॥ त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च । ब्रह्मविष्ण्वर्कयुक्तानि तानि पापं दहन्तु वै ॥ ६७.१७ ॥ एवमामन्त्र्य तैः कुम्भैरभिषिक्तो गुणान्वितैः । ऋग्यजुःसाममन्त्रैश्च शुक्लमाल्यानुलेपनैः । पूजयेद्वस्त्रगोदानैर्ब्राह्मणानिष्टदेवताः ॥ ६७.१८ ॥ एतानेव ततो मन्त्रान् विलिखेत्करकान्वितान् । वस्त्रपट्टेऽथवा पद्मे पञ्चरत्नसमन्वितान् ॥ ६७.१९ ॥ यजमानस्य शिरसि निदध्युस्ते द्विजोत्तमाः । ततोऽतिवाहयेद्वेलामुपरागानुगामिनीम् ॥ ६७.२० ॥ प्राङ्मुखः पूजयित्वा तु नमस्यन्निष्टदेवताम् । चन्द्रग्रहे विनिर्वृत्ते कृतगोदानमङ्गलः । कृतस्नानाय तं पट्टं ब्राह्मणाय निवेदयेत् ॥ ६७.२१ ॥ अनेन विधिना यस्तु ग्रहस्नानं समाचरेत् । न तस्य ग्रहपीडा स्यान्न च बन्धुजनक्षयः ॥ ६७.२२ ॥ परमां सिद्धिमाप्नोति पुनरावृत्तिदुर्लभाम् । सूर्यग्रहे सूर्यनाम सदा मन्त्रेषु कीर्तयेत् ॥ ६७.२३ ॥ अधिकाः पद्मरागाः स्युः कपिलां च सुशोभनाम् । प्रयच्छेच्च निशां पत्ये चन्द्रसूर्योपरागयोः ॥ ६७.२४ ॥ य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः । सर्वपापविनिर्मुक्तः शक्रलोके महीयते ॥ ६७.२५ ॥ ______________________________________________________ मत्स्यपुराण ६८ *नारद उवाच किमुद्वेगाद्भुते कृत्यमलक्ष्मीः केन हन्यते । मृतवत्साभिषेकादिकार्येषु च किमिष्यते ॥ ६८.१ ॥ *श्रीभगवानुवाच पुरा कृतानि पापानि फलन्त्यस्मिंस्तपोधन । रोगदौर्गत्यरूपेण तथैवेष्टवधेन च ॥ ६८.२ ॥ तद्विघाताय वक्ष्यामि सदा कल्पाणकारकम् । सप्तमीस्नपनं नाम जनपीडाविनाशनम् ॥ ६८.३ ॥ बालानां मरणं यत्र क्षीरपाणां प्रदृश्यते । तद्वद्वृद्धातुराणां च यौवने चापि वर्तताम् ॥ ६८.४ ॥ शान्तये तत्र वक्ष्यामि मृतवत्साभिषेचनम् । एतदेवाद्भुतोद्वेगचित्तभ्रमविनाशनम् ॥ ६८.५ ॥ भविष्यति च वाराहो यत्र कल्पस्तपोधन । वैवस्वतश्च तत्रापि यदा तु मनुरुत्तमः ॥ ६८.६ ॥ भविष्यति च तत्रैव पञ्चविंशतिमं यदा । कृतं नाम युगं तत्र हैहयान्वयवर्धनः । भविता नृपतिर्वीरः कृतवीर्यः प्रतापवान् ॥ ६८.७ ॥ स सप्तद्वीपमखिलं पालयिष्यति भूतलम् । यावद्वर्षसहस्राणि सप्तसप्तति नारद ॥ ६८.८ ॥ जातमात्रं च तस्यापि यावत्पुत्रशतं तथा । च्यवनस्य तु शापेन विनाशमपयास्यति ॥ ६८.९ ॥ सहस्रबाहुश्च यदा भविता तस्य वै सुतः । कुरङ्गनयनः श्रीमान् सम्भूतो नृपलक्षणैः ॥ ६८.१० ॥ कृतवीर्यस्तदाराध्य सहस्रांशुं दिवाकरम् । उपवासैर्व्रतैर्दिव्यैर्वेदसूक्तैश्च नारद । पुत्रस्य जीवनायालमेतत्स्नानमवाप्स्यति ॥ ६८.११ ॥ कृतवीर्येण वै पृष्ट इदं वक्ष्यति भास्करः । अशेषदुष्टशमनं सदा कल्मषनाशनम् ॥ ६८.१२ ॥ *सूर्य उवाच अलं क्लेशेन महता पुत्रस्तव नराधिप । भविष्यति चिरंजीवी किंतु कल्मषनाशनम् ॥ ६८.१३ ॥ सप्तमीस्नपनं वक्ष्ये सर्वलोकहिताय वै । जातस्य मृतवत्सायाः सप्तमे मासि नारद । अथवा शुक्लसप्तम्यामेतत्सर्वं प्रशस्यते ॥ ६८.१४ ॥ ग्रहताराबलं लब्ध्वा कृत्वा ब्राह्मणवाचनम् । बालस्य जन्मनक्षत्रं वर्जयेत्तां तिथिं बुधः । तद्वद्वृद्धातुराणां च कृत्यं स्यादितरेषु च ॥ ६८.१५ ॥ गोमयेनानुलिप्तायां भूमावेकाग्निवत्तदा । तण्डुलै रक्तशालीयैश्चरुं गोक्षीरसंयुतम् । निर्वपेत्सूर्यरुद्राभ्यां तन्मन्त्राभ्यां विधानतः ॥ ६८.१६ ॥ कीर्तयेत्सूर्यदेवत्यं सप्तर्चं च घृताहुतीः । जुहुयाद्रुद्रसूक्तेन तद्वद्रुद्राय नारद ॥ ६८.१७ ॥ होतव्याः समिधश्चात्र तथैवार्कपलाशयोः । यवकृष्णतिलैर्होमः कर्तव्योऽष्टशतं पुनः ॥ ६८.१८ ॥ व्याहृतीभिस्तथाज्येन तथैवाष्टशतं पुनः । हुत्वा स्नानं च कर्तव्यं मङ्गलं येन धीमता ॥ ६८.१९ ॥ विप्रेण वेदविदुषा विधिवद्दर्भपाणिना । स्थापयित्वा तु चतुरः कुम्भान्कोणेषु शोभनान् ॥ ६८.२० ॥ पञ्चमं च पुनर्मध्ये दध्यक्षतविभूषितम् । स्थापयेदव्रणं कुम्भं सप्तर्चेनाभिमन्त्रितम् ॥ ६८.२१ ॥ सौरेण तीर्थतोयेन पूर्णं रत्नसमन्वितम् । सर्वान्सर्वौषधैर्युक्तान् पञ्चगव्यसमन्वितान् । पञ्चरत्नफलैः पुष्पैर्वासोभिः परिवेष्टयेत् ॥ ६८.२२ ॥ गजाश्वरथ्यावल्मीकात्संगमाद्ध्रदगोकुलात् । संशुद्धां मृदमानीय सर्वेष्वेव विनिक्षिपेत् ॥ ६८.२३ ॥ चतुर्ष्वपि च कुम्भेषु रत्नगर्भेषु मध्यमम् । गृहीत्वा ब्राह्मणस्तत्र सौरान्मन्त्रानुदीरयेत् ॥ ६८.२४ ॥ नारीभिः सप्तसंख्याभिरव्यङ्गाङ्गीभिरत्र च । पूजिताभिर्यथाशक्त्या माल्यवस्त्रविभूषणैः । सविप्राभिश्च कर्तव्यं मृतवत्साभिषेचनम् ॥ ६८.२५ ॥ एतेऽभिषेकमन्त्राः दीर्घायुरस्तु बालोऽयं जीवत्पुत्रा च भामिनी । आदित्यश्चन्द्रमाः सार्धं ग्रहनक्षत्रमण्डलैः ॥ ६८.२६ ॥ सशक्रा लोकपाला वै ब्रह्मविष्णुमहेश्वराः । ते ते चान्ये च देवौघाः सदा पान्तु कुमारकम् ॥ ६८.२७ ॥ मित्रः शनिर्वा हुतभुग्ये च बालग्रहाः क्वचित् । पीडां कुर्वन्तु बालस्य मा मातुर्जनकस्य वै ॥ ६८.२८ ॥ ततः शुक्लाम्बरधरा कुमारपतिसंयुता । सप्तकं पूजयेद्भक्त्या स्त्रीणामथ गुरुं पुनः ॥ ६८.२९ ॥ काञ्चनीं च ततः कुर्यात्ताम्रपात्रोपरिस्थिताम् । प्रतिमां धर्मराजस्य गुरवे विनिवेदयेत् ॥ ६८.३० ॥ वस्त्रकाञ्चनरत्नौघैर्भक्ष्यैः सघृतपायसैः । पूजयेद्ब्राह्मणांस्तद्वद्वित्तशाठ्यविवर्जितः ॥ ६८.३१ ॥ भुक्त्वा च गुरुणा चेयमुच्चार्या मन्त्रसंततिः । दीर्घायुरस्तु बालोऽयं यावद्वर्षशतं सुखी ॥ ६८.३२ ॥ यत्किंचिदस्य दुरितं तत्क्षिप्तं वडवानले । ब्रह्मा रुद्रो वसुः स्कन्दो विष्णुः शक्रो हुताशनः ॥ ६८.३३ ॥ रक्षन्तु सर्वे दुष्टेभ्यो वरदाः सन्तु सर्वदा । एवमादीनि वाक्यानि वदन्तं पूजयेद्गुरुम् ॥ ६८.३४ ॥ शक्तितः कपिलां दद्यात्प्रणम्य च विसर्जयेत् । चरुं च पुत्रसहिता प्रणम्य रविशंकरौ ॥ ६८.३५ ॥ हुतशेषं तदाश्नीयादादित्याय नमोऽस्त्विति । इदमेवाद्भुतोद्वेगदुःस्वप्नेषु प्रशस्यते ॥ ६८.३६ ॥ कर्तुर्जन्मदिनर्क्षं च त्यक्त्वा सम्पूजयेत्सदा । शान्त्यर्थं शुक्लसप्तम्यामेतत्कुर्वन्न सीदति ॥ ६८.३७ ॥ सदानेन विधानेन दीर्घायुरभवन्नरः । संवत्सराणामयुतं शशास पृथिवीमिमाम् ॥ ६८.३८ ॥ पुण्यं पवित्रमायुष्यं सप्तमीस्नपनं रविः । कथयित्वा द्विजश्रेष्ठ तत्रैवान्तरधीयत ॥ ६८.३९ ॥ एतत्सर्वं समाख्यातं सप्तमीस्नानमुत्तमम् । सर्वदुष्टोपशमनं बालानां परमं हितम् ॥ ६८.४० ॥ आरोग्यं भास्करादिच्छेद्धनमिच्छेद्धुताशनात् । ईश्वराज्ज्ञानमन्विच्छेन्मोक्षमिच्छेज्जनार्दनात् ॥ ६८.४१ ॥ एतन्महापातकनाशनं स्यात्परं हितं बालविवर्धनं च । शृणोति यश्चैनमनन्यचेतास्तस्यापि सिद्धिं मुनयो वदन्ति ॥ ६८.४२ ॥ ______________________________________________________ मत्स्यपुराण ६९ *मत्स्य उवाच पुरा रथंतरे कल्पे परिपृष्टो महात्मना । मन्दरस्थो महादेवः पिनाकी ब्रह्मणा स्वयम् ॥ ६९.१ ॥ *ब्रह्मोवाच कथमारोग्यमैश्वर्यमनन्तममरेश्वर । स्वल्पेन तपसा देव भवेन्मोक्षोऽथवा नृणाम् ॥ ६९.२ ॥ किमज्ञातं महादेव त्वत्प्रसादादधोक्षज । स्वल्पकेनाथ तपसा महत्फलमिहोच्यताम् ॥ ६९.३ ॥ *मत्स्य उवाच एवं पृष्टः स विश्वात्मा ब्रह्मणा लोकभावनः । उमापतिरुवाचेदं मनसः प्रीतिकारकम् ॥ ६९.४ ॥ *ईश्वर उवाच अस्माद्रथंतरात्कल्पात्त्रयोविंशात्पुनर्यदा । वाराहो भविता कल्पस्तस्य मन्वन्तरे शुभे ॥ ६९.५ ॥ वैवस्वताख्ये संजाते सप्तमे सप्तलोककृत् । द्वापराख्यं युगं तद्वदष्टाविंशतिमं जगुः ॥ ६९.६ ॥ तस्यान्ते स महादेवो वासुदेवो जनार्दनः । भारावतरणार्थाय त्रिधा विष्णुर्भविष्यति ॥ ६९.७ ॥ द्वैपायन ऋषिस्तद्वद्रौहिणेयोऽथ केशवः । कंसादिदर्पमथनः केशवः क्लेशनाशनः ॥ ६९.८ ॥ पुरीं द्वारवतीं नाम साम्प्रतं या कुशस्थली । दिव्यानुभावसंयुक्तामधिवासाय शार्ङ्गिणः । त्वष्टा ममाज्ञया तद्वत्करिष्यति जगत्पतेः ॥ ६९.९ ॥ तस्यां कदाचिदासीनः सभायाममितद्युतिः । भार्याभिर्वृष्णिभिश्चैव भूभृद्भिर्भूरिदक्षिणैः ॥ ६९.१० ॥ कुरुभिर्देवगन्धर्वैरभितः कैटभार्दनः । प्रवृत्तासु पुराणीषु धर्मसम्बन्धिनीषु च ॥ ६९.११ ॥ कथान्ते भीमसेनेन परिपृष्टः प्रतापवान् । त्वया पृष्टस्य धर्मस्य रहस्यस्यास्य भेदकृत् ॥ ६९.१२ ॥ भविता स तदा ब्रह्मन् कर्ता चैव वृकोदरः । प्रवर्तकोऽस्य धर्मस्य पाण्डुपुत्रो महाबलः ॥ ६९.१३ ॥ यस्य तीक्ष्णो वृको नाम जठरे हव्यवाहनः । मया दत्तः स धर्मात्मा तेन चासौ वृकोदरः ॥ ६९.१४ ॥ मतिमान्मानशीलश्च नागायुतबलो महान् । भविष्यत्यजरः श्रीमान् कन्दर्प इव रूपवान् ॥ ६९.१५ ॥ धार्मिकस्याप्यशक्तस्य तीव्राग्नित्वादुपोषणे । इदं व्रतमशेषाणां व्रतानामधिकं यतः ॥ ६९.१६ ॥ कथयिष्यति विश्वात्मा वासुदेवो जगद्गुरुः । अशेषयज्ञफलदमशेषाघविनाशनम् ॥ ६९.१७ ॥ अशेषदुष्टशमनमशेषसुरपूजितम् । पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम् । भविष्यं च भविष्याणां पुराणानां पुरातनम् ॥ ६९.१८ ॥ *वासुदेव उवाच यद्यष्टमीचतुर्दश्योर्द्वादशीष्वथ भारत । अन्येष्वपि दिनर्क्षेषु न शक्तस्त्वमुपोषितुम् ॥ ६९.१९ ॥ ततः पुण्यां तिथिमिमां सर्वपापप्रणाशिनीम् । उपोष्य विधिनानेन गच्छ विष्णोः परं पदम् ॥ ६९.२० ॥ माघमासस्य दशमी यदा शुक्ला भवेत्तदा । घृतेनाभ्यञ्जनं कृत्वा तिलैः स्नानं समाचरेत् ॥ ६९.२१ ॥ तथैव विष्णुमभ्यर्च्य नभो नारायणेति च । कृष्णाय पादौ सम्पूज्य शिरः सर्वात्मने नमः ॥ ६९.२२ ॥ वैकुण्ठायेति वैकुण्ठमुरः श्रीवत्सधारिणे । शङ्खिने चक्रिणे तद्वद्गदिने वरदाय वै । सर्वे नारायणस्यैवं संपूज्या बाहवः क्रमात् ॥ ६९.२३ ॥ दामोदरायेत्युदरं मेढ्रं पञ्चशराय वै । ऊरू सौभाग्यनाथाय जानुनी भूतधारिणे ॥ ६९.२४ ॥ नमो नीलाय वै जङ्घे पादौ विश्वसृजे नमः । नमो देव्यै नमः शान्त्यै नमो लक्ष्म्यै नमः श्रियै ॥ ६९.२५ ॥ नमः पुष्ट्यै नमस्तुष्ट्यै धृष्ट्यै हृष्ट्यै नमो नमः । नमो विहंगनाथाय वायुवेगाय पक्षिणे । विषप्रमाथिने नित्यं गरुडं चाभिपूजयेत् ॥ ६९.२६ ॥ एवं सम्पूज्य गोविन्दमुमापतिविनायकौ । गन्धैर्माल्यैस्तथा धूपैर्भक्ष्यैर्नानाविधैरपि ॥ ६९.२७ ॥ गव्येन पयसा सिद्धां कृसरामथ वाग्यतः । सर्पिषा सह भुक्त्वा च गत्वा शतपदं बुधः ॥ ६९.२८ ॥ नैयग्रोधं दन्तकाष्ठमथवा खादिरं बुधः । गृहीत्वा धावयेद्दन्तानाचान्तः प्रागुदङ्मुखः ॥ ६९.२९ ॥ ब्रूयात्सायन्तनीं कृत्वा संध्यामस्तमिते रवौ । नमो नारायणायेति त्वामहं शरणं गतः ॥ ६९.३० ॥ एकादश्यां निराहारः समभ्यर्च्य च केशवम् । रात्रिं च सकलां स्थित्वा स्नानं च पयसा तथा ॥ ६९.३१ ॥ सर्पिषा चापि दहनं हुत्वा ब्राह्मणपुंगवैः । सहैव पुण्डरीकाक्ष द्वादश्यां क्षीरभोजनम् ॥ ६९.३२ ॥ करिष्यामि यतात्माहं निर्विघ्नेनास्तु तच्च मे । एवमुक्त्वा स्वपेद्भूमावितिहासकथां पुनः ॥ ६९.३३ ॥ श्रुत्वा प्रभाते संजाते नदीं गत्वा विशां पते । स्नानं कृत्वा मृदा तद्वत्पाषण्डानभिवर्जयेत् ॥ ६९.३४ ॥ उपास्य संध्यां विधिवत्कृत्वा च पितृतर्पणम् । प्रणम्य च हृषीकेशं सप्तलोकैकमीश्वरम् ॥ ६९.३५ ॥ गृहस्य पुरतो भक्त्या मण्डपं कारयेद्बुधः । दशहस्तमथाष्टौ वा करान्कुर्याद्विशां पते ॥ ६९.३६ ॥ चतुर्हस्तां शुभां कुर्याद्वेदीमरिनिषूदन । चतुर्हस्तप्रमाणं च विन्यसेत्तत्र तोरणम् ॥ ६९.३७ ॥ आरोप्य कलशं तत्र दिक्पालान्पूजयेत्ततः । छिद्रेण जलसम्पूर्णमथ कृष्णाजिनस्थितः । तस्य धारां च शिरसा धारयेत्सकलां निशाम् ॥ ६९.३८ ॥ तथैव विष्णोः शिरसि क्षीरधारां प्रपातयेत् । अरत्निमात्रं कुण्डं च कुर्यात्तत्र त्रिमेखलम् ॥ ६९.३९ ॥ योनिवक्त्रं च तत्कृत्वा ब्राह्मणैः यवसर्पिषी । तिलांश्च विष्णुदेवत्यैर्मन्त्रैरेकाग्निवत्तदा ॥ ६९.४० ॥ हुत्वा च वैष्णवं सम्यक्चरुं गोक्षीरसंयुतम् । निष्पावार्धप्रमाणां वै धारामाज्यस्य पातयेत् ॥ ६९.४१ ॥ जलकुम्भान्महावीर्य स्थापयित्वा त्रयोदश । भक्ष्यैर्नानाविधैर्युक्तान् सितवस्त्रैरलंकृतान् ॥ ६९.४२ ॥ युक्तानौदुम्बरैः पात्रैः पञ्चरत्नसमन्वितान् । चतुर्भिर्बह्वृचैर्होमस्तत्र कार्य उदङ्मुखैः ॥ ६९.४३ ॥ रुद्रजापश्चतुर्भिश्च यजुर्वेदपरायणैः । वैष्णवानि तु सामानि चतुरः सामवेदिनः । अरिष्टवर्गसहितान्यभितः परिपाठयेत् ॥ ६९.४४ ॥ एवं द्वादश तान्विप्रान् वस्त्रमाल्यानुलेपनैः । पूजयेदङ्गुलीयैश्च कटकैर्हेमसूत्रकैः ॥ ६९.४५ ॥ वासोभिः शयनीयैश्च वित्तशाठ्यविवर्जितः । एवं क्षपातिवाह्या च गीतमङ्गलनिःस्वनैः ॥ ६९.४६ ॥ उपाध्यायस्य च पुनर्द्विगुणं सर्वमेव तु । ततः प्रभाते विमले समुत्थाय त्रयोदश ॥ ६९.४७ ॥ गा वै दद्यात्कुरुश्रेष्ठ सौवर्णमुखसंयुताः । पयस्विनीः शीलवतीः कांस्यदोहसमन्विताः ॥ ६९.४८ ॥ रौप्यखुराः सवस्त्राश्च चन्दनेनाभिषेचिताः । तास्तु तेषां ततो भक्त्या भक्ष्यभोज्यान्नतर्पितान् ॥ ६९.४९ ॥ कृत्वा वै ब्राह्मणान् सर्वानन्नैर्नानाविधैस्तथा । भुक्त्वा चाक्षारलवणमात्मना च विसर्जयेत् ॥ ६९.५० ॥ अनुगम्य पदान्यष्टौ पुत्रभार्यासमन्वितः । प्रीयतामत्र देवेशः केशवः क्लेशनाशनः ॥ ६९.५१ ॥ शिवस्य हृदये विष्णुर्विष्णोश्च हृदये शिवः । यथान्तरं न पश्यामि तथा मे स्वस्ति चायुषः ॥ ६९.५२ ॥ एवमुच्चार्य तान्कुम्भान् गाश्चैव शयनानि च । वासांसि चैव सर्वेषां गृहाणि प्रापयेद्बुधः ॥ ६९.५३ ॥ अभावे बहुशय्यानामेकामपि सुसंस्कृताम् । शय्यां दद्याद्द्विजातेश्च सर्वोपस्करसंयुताम् ॥ ६९.५४ ॥ इतिहासपुराणानि वाचयित्वातिवाहयेत् । तद्दिनं नरशार्दूल य इच्छेद्विपुलां श्रियम् ॥ ६९.५५ ॥ तस्मात्त्वं सत्त्वमालम्ब्य भीमसेन विमत्सरः । कुरु व्रतमिदं सम्यक्स्नेहात्तव मयेरितम् ॥ ६९.५६ ॥ त्वया कृतमिदं वीर त्वन्नामाख्यं भविष्यति । सा भीमद्वादशी ह्येषा सर्वपापहरा शुभा । या तु कल्याणिनी नाम पुरा कल्पेषु पठ्यते ॥ ६९.५७ ॥ त्वमादिकर्ता भव सौकरेऽस्मिन् कल्पे महावीरवरप्रधान । यस्याः स्मरन्कीर्तनमप्यशेषं विनष्टपापस्त्रिदशाधिपः स्यात् ॥ ६९.५८ ॥ कृत्वा च यामप्सरसामधीशा वेश्या कृता ह्यन्यभवान्तरेषु । आभीरकन्यातिकुतूहलेन सैवोर्वशी सम्प्रति नाकपृष्ठे ॥ ६९.५९ ॥ जाताथवा वैश्यकुलोद्भवापि पुलोमकन्या पुरुहूतपत्नी । तत्रापि तस्याः परिचारिकेयं मम प्रिया सम्प्रति सत्यभामा ॥ ६९.६० ॥ स्नातः पुरा मण्डलमेष तद्वत्तेजोमयं वेदशरीरमाप । अस्यां च कल्याणतिथौ विवस्वान् सहस्रधारेण सहस्ररश्मिः ॥ ६९.६१ ॥ इदमेव कृतं महेन्द्रमुख्यैर्वसुभिर्देवसुरारिभिस्तथा तु । फलमस्य न शक्यतेऽभिवक्तुं यदि जिह्वायुतकोटयो मुखे स्युः ॥ ६९.६२ ॥ कलिकलुषविदारिणीमनन्तामिति कथयिष्यति यादवेन्द्रसूनुः । अपि नरकगतान्पितॄनशेषानलमुद्धर्तुमिहैव यः करोति ॥ ६९.६३ ॥ य इदमघविदारणं शृणोति भक्त्या परिपठतीह परोपकारहेतोः । तिथिमिह सकलार्थभाङ्नरेन्द्रस्तव चतुरानन साम्यतामुपैति ॥ ६९.६४ ॥ कल्याणिनी नाम पुरा बभूव या द्वादशी माघदिनेषु पूज्या । सा पाण्डुपुत्रेण कृता भविष्यत्यनन्तपुण्यानघ भीमपूर्वा ॥ ६९.६५ ॥ ______________________________________________________ मत्स्यपुराण ७० *ब्रह्मोवाच वर्णाश्रमाणां प्रभवः पुराणेषु मया श्रुतः । सदाचारस्य भगवन् धर्मशास्त्रविनिश्चयः । पण्यस्त्रीणां सदाचारं श्रोतुमिच्छामि तत्त्वतः ॥ ७०.१ ॥ *ईश्वर उवाच तस्मिन्नेव युगे ब्रह्मन् सहस्राणि तु षोडश । वासुदेवस्य नारीणां भविष्यन्त्यम्बुजोद्भव ॥ ७०.२ ॥ ताभिर्वसन्तसमये कोकिलालिकुलाकुले । पुष्पिते पवनोत्फुल्लकह्लारसरसस्तटे ॥ ७०.३ ॥ निर्भरापानगोष्ठीषु प्रसक्ताभिरलंकृतः । कुरङ्गनयनः श्रीमान्मालतीकृतशेखरः ॥ ७०.४ ॥ गच्छन्समीपमार्गेण साम्बः परपुरंजयः । साक्षात्कन्दर्पो रूपेण सर्वाभरणभूषितः ॥ ७०.५ ॥ अनङ्गशरतप्ताभिः साभिलाषमवेक्षितः । प्रवृद्धो मन्मथस्तासां भविष्यति यदात्मनि ॥ ७०.६ ॥ तदावेक्ष्य जगन्नाथः सर्वतो ज्ञानचक्षुषा । शापं वक्ष्यति ताः सर्वा वो हरिष्यन्ति दस्यवः । मत्परोक्षं यतः कामलौल्यादीदृग्विधं कृतम् ॥ ७०.७ ॥ ततः प्रसादितो देव इदं वक्ष्यति शार्ङ्गभृत् । ताभिः शापाभितप्ताभिर्भगवान् भूतभावनः ॥ ७०.८ ॥ उत्तारभूतं दासत्वं समुद्राद्ब्राह्मणप्रियः । उपदेक्ष्यत्यनन्तात्मा भाविकल्याणकारकम् ॥ ७०.९ ॥ भवतीनामृषिर्दाल्भ्यो यद्व्रतं कथयिष्यति । तदैवोत्तारणायालं दासत्वेऽपि भविष्यति । इत्युक्त्वा ताः परिष्वज्य गतो द्वारवतीश्वरः ॥ ७०.१० ॥ ततः कालेन महता भारावतरणे कृते । निवृत्ते मौसले तद्वत्केशवे दिवमागते ॥ ७०.११ ॥ शून्ये यदुकुले सर्वैश्चौरैरपि जितेऽर्जुने । हृतासु कृष्णपत्नीषु दासभोग्यासु चाम्बुधौ ॥ ७०.१२ ॥ तिष्ठन्तीषु च दौर्गत्यसंतप्तासु चतुर्मुख । आगमिष्यति योगात्मा दाल्भ्यो नाम महातपाः ॥ ७०.१३ ॥ तास्तमर्घ्येण सम्पूज्य प्रणिपत्य पुनः पुनः । लालप्यमाना बहुशो बाष्पपर्याकुलेक्षणाः ॥ ७०.१४ ॥ स्मरन्त्यो विपुलान्भोगान् दिव्यमाल्यानुलेपनान् । भर्तारं जगतामीशमनन्तमपराजितम् ॥ ७०.१५ ॥ दिव्यभावां तां च पुरीं नानारत्नगृहाणि च । द्वारकावासिनः सर्वान् देवरूपान्कुमारकान् । प्रश्नमेवं करिष्यन्ति मुनेरभिमुखं स्थिताः ॥ ७०.१६ ॥ *स्त्रिय ऊचुः दस्युभिर्भगवान्सर्वाः परिभुक्ता वयं बलात् । स्वधर्माच्च्यवनेऽस्माकमस्मिन्नः शरणं भव ॥ ७०.१७ ॥ आदिष्टोऽसि पुरा ब्रह्मन् केशवेन च धीमता । कस्मादीशेन संयोगं प्राप्य वेश्यात्वमागताः ॥ ७०.१८ ॥ वेश्यानामपि यो धर्मस्तं नो ब्रूहि तपोधन । कथयिष्यत्यतस्तासां स दाल्भ्यश्चैकितायनः ॥ ७०.१९ ॥ *दाल्भ्य उवाच जलक्रीडाविहारेषु पुरा सरसि मानसे । भवतीनां च सर्वासां नारदोऽभ्याशमागतः ॥ ७०.२० ॥ हुताशनसुताः सर्वा भवन्त्योऽप्सरसः पुरा । अप्रणम्यावलेपेन परिपृष्टः स योगवित् । कथं नारायणोऽस्माकं भर्ता स्यादित्युपादिश ॥ ७०.२१ ॥ तस्माद्वरप्रदानं वः शापश्चायमभूत्पुरा । शय्याद्वयप्रदानेन मधुमाधवमासयोः ॥ ७०.२२ ॥ सुवर्णोपस्करोत्सर्गाद्द्वादश्यां शुक्लपक्षतः । भर्ता नारायणो नूनं भविष्यत्यन्यजन्मनि ॥ ७०.२३ ॥ यदकृत्वा प्रणामं मे रूपसौभाग्यमत्सरात् । परिपृष्टोऽस्मि तेनाशु वियोगो वो भविष्यति । चौरैरपहृताः सर्वा वेश्यात्वं समवाप्स्यथ ॥ ७०.२४ ॥ एवं नारदशापेन केशवस्य च धीमतः । वेश्यात्वमागताः सर्वा भवन्त्यः काममोहिताः । इदानीमपि यद्वक्ष्ये तच्छृणुध्वं वराङ्गनाः ॥ ७०.२५ ॥ *दाल्भ्य उवाच पुरा देवासुरे युद्धे हतेषु शतशः सुरैः । दानवासुरदैत्येषु राक्षसेषु ततस्ततः ॥ ७०.२६ ॥ तेषां व्रातसहस्राणि शतान्यपि च योषिताम् । परिणीतानि यानि स्युर्बलाद्भुक्तानि यानि वै । तानि सर्वाणि देवेशः प्रोवाच वदतां वरः ॥ ७०.२७ ॥ *इन्द्र उवाच वेश्याधर्मेण वर्तध्वमधुना नृपमन्दिरे । भक्तिमत्यो वरारोहास्तथा देवकुलेषु च ॥ ७०.२८ ॥ राजानः स्वामिनस्तुल्याः सुता वापि च तत्समाः । भविष्यति च सौभाग्यं सर्वासामपि शक्तितः ॥ ७०.२९ ॥ यः कश्चिच्छुल्कमादाय गृहमेष्यति वः सदा । निधनेनोपचार्यो वः स तदान्यत्र दाम्भिकात् ॥ ७०.३० ॥ देवतानां पितॄणां च पुण्याहे समुपस्थिते । गोभूहिरण्यधान्यानि प्रदेयानि स्वशक्तितः । ब्राह्मणानां वरारोहाः कार्याणि वचनानि च ॥ ७०.३१ ॥ यच्चाप्यन्यद्व्रतं सम्यगुपदेक्ष्याम्यहं ततः । अविचारेण सर्वाभिरनुष्ठेयं च तत्पुनः ॥ ७०.३२ ॥ संसारोत्तारणायालमेतद्वेदविदो विदुः । यदा सूर्यदिने हस्तः पुष्यो याथ पुनर्वसुः ॥ ७०.३३ ॥ भवेत्सर्वौषधीस्नानं सम्यङ्नारी समाचरेत् । तदा पञ्चशरस्यापि संनिधातृत्वमेष्यति । अर्चयेत्पुण्डरीकाक्षमनङ्गस्यानुकीर्तनैः ॥ ७०.३४ ॥ कामाय पादौ सम्पूज्य जङ्घे वै मोहकारिणे । मेढ्रं कन्दर्पनिधये कीटं प्रीतिमते नमः ॥ ७०.३५ ॥ नाभिं सौख्यसमुद्राय वामाय च तथोदरम् । हृदयं हृदयेशाय स्तनावाह्लादकारिणे ॥ ७०.३६ ॥ उत्कण्ठायेति वैकुण्ठमास्यमानन्दकारिणे । वामाङ्गं पुष्पचापाय पुष्पबाणाय दक्षिणम् ॥ ७०.३७ ॥ मानसायेति वै मौलिं विलोलायेति मूर्धजम् । सर्वात्मने च सर्वाङ्गं देवदेवस्य पूजयेत् ॥ ७०.३८ ॥ नमः शिवाय शान्ताय पाशाङ्कुशधराय च । गदिने पीतवस्त्राय शङ्खचक्रधराय च ॥ ७०.३९ ॥ नमो नारायणायेति कामदेवात्मने नमः । सर्वशान्त्यै नमः प्रीत्यै नमो रत्यै नम श्रियै ॥ ७०.४० ॥ नमः पुष्ट्यै नमस्तुष्ट्यै नमः सर्वार्थसम्पदे । एवं सम्पूज्य देवेशमनङ्गात्मकमीश्वरम् । गन्धैर्मौल्यैस्तथा धूपैर्नैवेद्येन च कामिनी ॥ ७०.४१ ॥ तत आहूय धर्मज्ञं ब्रह्माणं वेदपारगम् । अव्यङ्गावयवं पूज्य गन्धपुष्पार्चनादिभिः ॥ ७०.४२ ॥ शालेयतण्डुलप्रस्थं घृतपात्रेण संयुतम् । तस्मै विप्राय सा दद्यान्माधवः प्रीयतामिति ॥ ७०.४३ ॥ यथेष्टाहारयुक्तं वै तमेव द्विजसत्तमम् । रत्यर्थं कामदेवोऽयमिति चित्तेऽवधार्य तम् ॥ ७०.४४ ॥ यद्यदिच्छति विप्रेन्द्रस्तत्तत्कुर्याद्विलासिनी । सर्वभावेन चात्मानमर्पयेत्स्मितभाषिणी ॥ ७०.४५ ॥ एवमादित्यवारेण सर्वमेतत्समाचरेत् । तण्डुलप्रस्थदानं च यावन्मासास्त्रयोदश ॥ ७०.४६ ॥ ततस्त्रयोदशे मासि सम्प्राप्ते तस्य भामिनी । विप्रस्योपस्करैर्युक्तां शय्यां दद्याद्विलक्षणाम् ॥ ७०.४७ ॥ सोपधानकविश्रामां सास्तरावरणां शुभाम् । प्रदीपोपानहच्छत्त्रपादुकासनसंयुताम् ॥ ७०.४८ ॥ सपत्नीकमलंकृत्य हेमसूत्राङ्गुलीयकैः । सूक्ष्मवस्त्रैः सकटकैर्धूपमाल्यानुलेपनैः ॥ ७०.४९ ॥ कामदेवं सपत्नीकं गुडकुम्भोपरि स्थितम् । ताम्रपात्रासनगतं हैमनेत्रपटावृतम् ॥ ७०.५० ॥ सकांस्यभाजनोपेतमिक्षुदण्डसमन्वितम् । दद्यादेतेन मन्त्रेण तथैकां गां पयस्विनीम् ॥ ७०.५१ ॥ यथान्तरं न पश्यामि कामकेशवयोः सदा । तथैव सर्वकामाप्तिरस्तु विष्णो सदा मम ॥ ७०.५२ ॥ यथा न कमला देहात्प्रयाति तव केशव । तथा ममापि देवेश शरीरे स्वे कुरु प्रभो ॥ ७०.५३ ॥ तथा च काञ्चनं देवं प्रतिगृह्णन्द्विजोत्तमः । क इदं कस्मा अदादिति वैदिकं मन्त्रमीरयेत् ॥ ७०.५४ ॥ ततः प्रदक्षिणीकृत्य विसर्ज्य द्विजपुंगवम् । शय्यासनादिकं सर्वं ब्राह्मणस्य गृहं नयेत् ॥ ७०.५५ ॥ ततः प्रभृति यो विप्रो रत्यर्थं गृहमागतः । स मान्यः सूर्यवारे च स मन्तव्यो भवेत्तदा ॥ ७०.५६ ॥ एवं त्रयोदशं यावन्मासमेवं द्विजोत्तमान् । तर्पयेत यथाकामं प्रोषितेऽन्यं समाचरेत् ॥ ७०.५७ ॥ तदनुज्ञया रूपवान्यो यावदभ्यागतो भवेत् । आत्मनोऽपि यथाविघ्नं गर्भभूतिकरं प्रियम् ॥ ७०.५८ ॥ दैवं वा मानुषं वा स्यादनुरागेण वा ततः । साचारानष्टपञ्चाशद्यथाशक्त्या समाचरेत् ॥ ७०.५९ ॥ एतद्धि कथितं सम्यग्भवतीनां विशेषतः । अधर्मोऽयं ततो न स्याद्वेश्यानामिह सर्वदा ॥ ७०.६० ॥ पुरुहूतेन यत्प्रोक्तं दानवीषु पुरा मया । तदिदं साम्प्रतं सर्वं भवतीष्वपि युज्यते ॥ ७०.६१ ॥ सर्वपापप्रशमनमनन्तफलदायकम् । कल्याणीनां च कथितं तत्कुरुध्वं वराननाः ॥ ७०.६२ ॥ करोति याशेषमखण्डमेतत्कल्याणिनी माधवलोकसंस्था । सा पूजिता देवगणैरशेषैरानन्दकृत्स्थानमुपैति विष्णोः ॥ ७०.६३ ॥ *श्रीभगवानुवाच तपोधनः सोऽप्यभिधाय चैवं तदा च तासां व्रतमङ्गनानाम् । स्वस्थानमेष्यत्यनु ताः समस्तं व्रतं करिष्यन्ति च देवयानैः ॥ ७०.६४ ॥ ______________________________________________________ मत्स्यपुराण ७१ *ब्रह्मोवाच मोहाद्वापि मदाद्वापि यः परस्त्रीं समाश्रयेत् । तस्यापि निष्कृतिं देव वद सर्वकृपाकर ॥ ७१.१ ॥ भगवन्पुरुषस्येह स्त्रियाश्च विरहादिकम् । शोकव्याधिभयं दुःखं न भवेद्येन तद्वद ॥ ७१.२ ॥ *श्रीभगवानुवाच श्रावणस्य द्वितीयायां कृष्णायां मधुसूदनः । क्षीरार्णवे सपत्नीकः सदा वसति केशवः ॥ ७१.३ ॥ तस्यां सम्पूज्य गोविन्दं सर्वान्कामान्समश्नुते । गोभूहिरण्यदानादि सप्तकल्पशतानुगम् ॥ ७१.४ ॥ अशून्यशयनं नाम द्वितीया संप्रकीर्तिता । तस्यां सम्पूजयेद्विष्णुमेभिर्मन्त्रैर्विधानतः ॥ ७१.५ ॥ श्रीवत्सधारिञ्छ्रीकान्त श्रीधामञ्छ्रीपतेऽव्यय । गार्हस्थ्यं मा प्रणाशं मे यातु धर्मार्थकामदम् ॥ ७१.६ ॥ अग्नयो मा प्रणश्यन्तु देवताः पुरुषोत्तम । पितरो मा प्रणश्यन्तु मास्तु दाम्पत्यभेदनम् ॥ ७१.७ ॥ लक्ष्म्या वियुज्यते देव न कदाचिद्यथा भवान् । तथा कलत्रसम्बन्धो देव मा मे वियुज्यताम् ॥ ७१.८ ॥ लक्ष्म्या न शून्यो वरद शय्यां त्वं शयनं गतः । शय्या ममाप्यशून्यास्तु तथैव मधुसूदन ॥ ७१.९ ॥ गीतवादित्रनिर्घोषं देवदेवस्य कीर्तयेत् । घण्टा भवेदशक्तस्य सर्ववाद्यमयी यतः ॥ ७१.१० ॥ एवं सम्पूज्य गोविन्दमश्नीयात्तैलवर्जितम् । नक्तमक्षारलवणं यावत्तत्स्याच्चतुष्टयम् ॥ ७१.११ ॥ ततः प्रभाते संजाते लक्ष्मीपतिसमन्विताम् । दीपान्नभाजनैर्युक्तां शय्यां दद्याद्विलक्षणाम् ॥ ७१.१२ ॥ पादुकोपानहच्छत्त्रचामरासनसंयुताम् । अभीष्टोपस्करैर्युक्तां शुक्लपुष्पाम्बरावृताम् ॥ ७१.१३ ॥ सोपधानकविश्रामां फलैर्नानाविधैर्युताम् । तथाभरणधान्यैश्च यथाशक्त्या समन्विताम् ॥ ७१.१४ ॥ अव्यङ्गाङ्गाय विप्राय वैष्णवाय कुटुम्बिने । दातव्या वेदविदुषे भावेनापतिताय च ॥ ७१.१५ ॥ तत्रोपविश्य दाम्पत्यमलंकृत्य विधानतः । पत्न्यास्तु भाजनं दद्याद्भक्ष्यभोज्यसमन्वितम् ॥ ७१.१६ ॥ ब्राह्मणस्यापि सौवर्णीमुपस्करसमन्विताम् । प्रतिमां देवदेवस्य सोदकुम्भां निवेदयेत् ॥ ७१.१७ ॥ एवं यस्तु पुमान्कुर्यादशून्यशयनं हरेः । वित्तशाठ्येन रहितो नारायणपरायणः ॥ ७१.१८ ॥ न तस्य पत्न्या विरहः कदाचिदपि जायते । नारी वा विधवा ब्रह्मन् यावच्चन्द्रार्कतारकम् । न विरूपौ न शोकार्तौ दम्पती भवतः क्वचित् ॥ ७१.१९ ॥ न पुत्रपशुरत्नानि क्षयं यान्ति पितामह । सप्त कल्पसहस्राणि सप्त कल्पशतानि च । कुर्वन्नशून्यशयनं विष्णुलोके महीयते ॥ ७१.२० ॥ ______________________________________________________ मत्स्यपुराण ७२ *ईश्वर उवाच शृणु चान्यद्भविष्यं यद्रूपसम्पद्विधायकम् । भविष्यति युगे तस्मिन् द्वापरान्ते पितामह । पिप्पलादस्य संवादो युधिष्ठिरपुरःसरैः ॥ ७२.१ ॥ वसन्तं नैमिषारण्ये पिप्पलादं महामुनिम् । अभिगम्य तदा चैनं प्रश्नमेकं करिष्यति । युधिष्ठिरो धर्मपुत्रो धर्मयुक्तस्तपोधनम् ॥ ७२.२ ॥ *युधिष्ठिर उवाच कथमारोग्यमैश्वर्यं मतिर्धर्मे गतिस्तथा । अव्यङ्गता शिवे भक्तिर्वैष्णवो वा भवेत्कथम् ॥ ७२.३ ॥ *ईश्वर उवाच तस्योत्तरमिदं ब्रह्मन् पिप्पलादस्य धीमतः । शृणुष्व यद्वक्ष्यति वै धर्मपुत्राय धार्मिकः ॥ ७२.४ ॥ *पिप्पलाद उवाच साधु पृष्टं त्वया भद्र इदानीं कथयामि ते । अङ्गारव्रतमित्येतत्स वक्ष्यति महीपतेः ॥ ७२.५ ॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । विरोचनस्य संवादं भार्गवस्य च धीमतः ॥ ७२.६ ॥ प्रह्लादस्य सुतं दृष्ट्वा द्विरष्टपरिवत्सरम् । रूपेणाप्रतिमं कान्त्या सोऽहसद्भृगुनन्दनः ॥ ७२.७ ॥ साधु साधु महाबाहो विरोचन शिवं तव । तत्तथा हसितं तस्य पप्रच्छ सुरसूदनः ॥ ७२.८ ॥ ब्रह्मन्किमर्थमेतत्ते हास्यमाकस्मिकं कृतम् । साधुसाध्विति मामेवमुक्तवांस्त्वं वदस्व मे ॥ ७२.९ ॥ तमेवंवादिनं शुक्र उवाच वदतां वरः । विस्मयाद्व्रतमाहात्म्याद्धास्यमेतत्कृतं मया ॥ ७२.१० ॥ पुरा दक्षविनाशाय कुपितस्य तु शूलिनः । अथ तद्भीमवक्त्रस्य स्वेदबिन्दुर्ललाटजः ॥ ७२.११ ॥ भित्त्वा स सप्त पातालानदहत्सप्त सागरान् । अनेकवक्त्रनयनो ज्वलज्ज्वलनभीषणः ॥ ७२.१२ ॥ वीरभद्र इति ख्यातः करपादायुतैर्युतः । कृत्वासौ यज्ञमथनं पुनर्भूतलसम्भवः । त्रिजगन्निर्दहन्भूयः शिवेन विनिवारितः ॥ ७२.१३ ॥ कृतं त्वया वीरभद्र दक्षयज्ञविनाशनम् । इदानीमलमेतेन लोकदाहेन कर्मणा ॥ ७२.१४ ॥ शान्तिप्रदाता सर्वेषां ग्रहाणां प्रथमो भव । प्रेक्षिष्यन्ते जनाः पूजां करिष्यन्ति वरान्मम ॥ ७२.१५ ॥ अङ्गारक इति ख्यातिं गमिष्यसि धरात्मज । देवलोकेऽद्वितीयं च तव रूपं भविष्यति ॥ ७२.१६ ॥ ये च त्वां पूजयिष्यन्ति चतुर्थ्यां त्वद्दिने नराः । रूपमारोग्यमैश्वर्यं तेष्वनन्तं भविष्यति ॥ ७२.१७ ॥ एवमुक्तस्तदा शान्तिमगमत्कामरूपधृक् । संजातस्तत्क्षणाद्राजन् ग्रहत्वमगमत्पुनः ॥ ७२.१८ ॥ स कदाचिद्भवांस्तस्य पूजार्घ्यादिकमुत्तमम् । दृष्टवान्क्रियमाणं च शूद्रेण च व्यवस्थितः ॥ ७२.१९ ॥ तेन त्वं रूपवाञ्जातः सुरशत्रुकुलोद्वह । विविधा च रुचिर्जाता यस्मात्तव विदूरगा ॥ ७२.२० ॥ विरोचन इति प्राहुस्तस्मात्त्वां देवदानवाः । शूद्रेण क्रियमाणस्य व्रतस्य तव दर्शनात् । ईदृशीं रूपसम्पत्तिं दृष्ट्वा विस्मितवानहम् ॥ ७२.२१ ॥ साधु साध्विति तेनोक्तमहो माहात्म्यमुत्तमम् । पश्यतोऽपि भवेद्रूपमैश्वर्यं किमु कुर्वतः ॥ ७२.२२ ॥ यस्माच्च भक्त्या धरणीसुतस्य विनिन्द्यमानेन गवादिदानम् । आलोकितं तेन सुरारिगर्भे सम्भूतिरेषा तव दैत्य जाता ॥ ७२.२३ ॥ *ईश्वर उवाच अथ तद्वचनं श्रुत्वा भार्गवस्य महात्मनः । प्रह्रादनन्दनो वीरः पुनः पप्रच्छ विस्मितः ॥ ७२.२४ ॥ *विरोचन उवाच भगवंस्तद्व्रतं सम्यक्श्रोतुमिच्छामि तत्त्वतः । दीयमानं तु यद्दानं मया दृष्टं भवान्तरे ॥ ७२.२५ ॥ माहात्म्यं च विधिं तस्य यथावद्वक्तुमर्हसि । इति तद्वचनं श्रुत्वा पुनः प्रोवाच विस्तरात् ॥ ७२.२६ ॥ *शुक्र उवाच चतुर्थ्यङ्गारकदिने यदा भवति दानव । मृदा स्नानं तदा कुर्यात्पद्मरागविभूषितः ॥ ७२.२७ ॥ अग्निर्मूर्धा दिवो मन्त्रं जपन्नास्ते उदङ्मुखः । शूद्रस्तूष्णीं स्मरन्भौममास्ते भोगविवर्जितः ॥ ७२.२८ ॥ तथास्तमित आदित्ये गोमयेनानुलेपयेत् । प्राङ्गणं पुष्पमालाभिरक्षताभिः समन्ततः ॥ ७२.२९ ॥ अभ्यर्च्याभिलिखेत्पद्मं कुङ्कुमेनाष्टपत्त्रकम् । कुङ्कुमस्याप्यभावे तु रक्तचन्दनमिष्यते ॥ ७२.३० ॥ चत्वारः करकाः कार्या भक्ष्यभोज्यसमन्विताः । तण्डुलै रक्तशालीयैः पद्मरागैश्च संयुताः ॥ ७२.३१ ॥ चतुष्कोणेषु तान्कृत्वा फलानि विविधानि च । गन्धमाल्यादिकं सर्वं तथैव विनिवेदयेत् ॥ ७२.३२ ॥ सुवर्णशृङ्गीं कपिलामथार्च्य रौप्यैः सुरैः कांस्यदोहां सवत्साम् । धुरंधरं रक्तमतीव सौम्यं धान्यानि सप्ताम्बरसंयुतानि ॥ ७२.३३ ॥ अङ्गुष्ठमात्रं पुरुषं तथैव सौवर्णमत्यायतबाहुदण्डम् । चतुर्भुजं हेममये निविष्टं पात्रे गुडस्योपरि सर्पियुक्ते ॥ ७२.३४ ॥ समस्तयज्ञाय जितेन्द्रियाय पात्राय शीलान्वयसंयुताय । दातव्यमेतत्सकलं द्विजाय कुटुम्बिने नैव तु दाम्भिकाय । समर्पयेद्विप्रवराय भक्त्या कृताञ्जलिः पूर्वमुदीर्य मन्त्रम् ॥ ७२.३५ ॥ भूमिपुत्र महाभाग स्वेदोद्भव पिनाकिनः । रूपार्थी त्वां प्रपन्नोऽहं गृहाणार्घ्यं नमोऽस्तु ते ॥ ७२.३६ ॥ मन्त्रेणानेन दत्त्वार्घ्यं रक्तचन्दनवारिणा । ततोऽर्चयेद्विप्रवरं रक्तमाल्याम्बरादिभिः ॥ ७२.३७ ॥ दद्यात्तेनैव मन्त्रेण भौमं गोमिथुनान्वितम् । शय्यां च शक्तितो दद्यात्सर्वोपस्करसंयुताम् ॥ ७२.३८ ॥ यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे । तत्तद्गुणवते देयं तदेवाक्षय्यमिच्छता ॥ ७२.३९ ॥ प्रदक्षिणं ततः कृत्वा विसर्ज्य द्विजपुंगवम् । नक्तमक्षारलवणमश्नीयाद्घृतसंयुतम् ॥ ७२.४० ॥ भक्त्या यस्तु पुनः कुर्यादेवमङ्गारकाष्टकम् । चतुरो वाथ वा तस्य यत्पुण्यं तद्वदामि ते ॥ ७२.४१ ॥ रूपसौभाग्यसम्पन्नः पुनर्जन्मनि जन्मनि । विष्णौ वाथ शिवे भक्तः सप्तद्वीपाधिपो भवेत् ॥ ७२.४२ ॥ सप्त कल्पसहस्राणि रुद्रलोके महीयते । तस्मात्त्वमपि दैत्येन्द्र व्रतमेतत्समाचर ॥ ७२.४३ ॥ *पिप्पलाद उवाच इत्येवमुक्त्वा भृगुनन्दनोऽपि जगाम दैत्यश्च चकार सर्वम् । त्वं चापि राजन्कुरु सर्वमेतद्यतोऽक्षयं वेदविदो वदन्ति ॥ ७२.४४ ॥ *ईश्वर उवाच तथेति सम्पूज्य स पिप्पलादं वाक्यं चकाराद्भुतवीर्यकर्मा । शृणोति यश्चैनमनन्यचेतास्तस्यापि सिद्धिं भगवान्विधत्ते ॥ ७२.४५ ॥ ______________________________________________________ मत्स्यपुराण ७३ *पिप्पलाद उवाच अथातः शृणु भूपाल प्रतिशुक्रं प्रशान्तये । यात्रारम्भेऽवसाने च तथा शुक्रोदये त्विह ॥ ७३.१ ॥ राजते वाथ सौवर्णे कांस्यपात्रेऽथवा पुनः । शुक्लपुष्पाम्बरयुते सिततण्डुलपूरिते ॥ ७३.२ ॥ विधाय राजतं शुक्रं शुचिमुक्ताफलान्वितम् । मन्त्रेणानेन तत्सर्वं सामगाय निवेदयेत् ॥ ७३.३ ॥ नमस्ते सर्वलोकेश नमस्ते भृगुनन्दन । कवे सर्वार्थसिद्ध्यर्थं गृहाणार्घ्यं नमोऽस्तु ते ॥ ७३.४ ॥ एवमस्योदये कुर्वन् यात्रादिषु च भारत । सर्वान्कामानवाप्नोति विष्णुलोके महीयते ॥ ७३.५ ॥ यावच्छुक्रस्य न हृता पूजा सा माल्यकैः शुभैः । वटकैः पूरिकाभिश्च गोधूमैश्चणकैरपि । तावदन्नं न चाश्नीयात्त्रिभिः कामार्थसिद्धये ॥ ७३.६ ॥ तद्वद्वाचस्पतेः पूजां प्रवक्ष्यामि युधिष्ठिर । सुवर्णपात्रे सौवर्णममरेशपुरोहितम् ॥ ७३.७ ॥ पीतपुष्पाम्बरयुतं कृत्वा स्नात्वाथ सर्षपैः । पलाशाश्वत्थयोगेन पञ्चगव्यजलेन च ॥ ७३.८ ॥ पीताङ्गरागवसनो घृतहोमं तु कारयेत् । प्रणम्य च गवा सार्धं ब्राह्मणाय निवेदयेत् ॥ ७३.९ ॥ नमस्तेऽङ्गिरसां नाथ वाक्पते च बृहस्पते । क्रूरग्रहैः पीडितानाममृताय नमो नमः ॥ ७३.१० ॥ संक्रान्तावस्य कौन्तेय यात्रास्वभ्युदयेषु च । कुर्वन्बृहस्पतेः पूजां सर्वान्कामान्समश्नुते ॥ ७३.११ ॥ ______________________________________________________ मत्स्यपुराण ७४ *ब्रह्मोवाच भगवन् भवसंसारसागरोत्तारकारक । किंचिद्व्रतं समाचक्ष्व स्वर्गारोग्यसुखप्रदम् ॥ ७४.१ ॥ *ईश्वर उवाच सौरं धर्मं प्रवक्ष्यामि नाम्ना कल्याणसप्तमीम् । विशोकसप्तमीं तद्वत्फलाढ्यां पापनाशिनीम् ॥ ७४.२ ॥ शर्करासप्तमीं पुण्यां तथा कमलसप्तमीम् । मन्दारसप्तमीं तद्वच्छुभदां शुभसप्तमीम् ॥ ७४.३ ॥ सर्वानन्तफलाः प्रोक्ताः सर्वा देवर्षिपूजिताः । विधानमासां वक्ष्यामि यथावदनुपूर्वशः ॥ ७४.४ ॥ यदा तु शुक्लसप्तम्यामादित्यस्य दिनं भवेत् । सा तु कल्याणिनी नाम विजया च निगद्यते ॥ ७४.५ ॥ प्रातर्गव्येन पयसा स्नानमस्यां समाचरेत् । ततः शुक्लाम्बरः पद्ममक्षताभिः प्रकल्पयेत् ॥ ७४.६ ॥ प्राङ्मुखोऽष्टदलं मध्ये तद्वद्वृत्तां च कर्णिकाम् । पुष्पाक्षताभिर्देवेशं विन्यसेत्सर्वतः क्रमात् ॥ ७४.७ ॥ पूर्वेण तपनायेति मार्तण्डायेति चानले । याम्ये दिवाकरायेति विधात्र इति नैरृते ॥ ७४.८ ॥ पश्चिमे वरुणायेति भास्करायेति चानिले । सौम्ये विकर्तनायेति रवये चाष्टमे दले ॥ ७४.९ ॥ आदावन्ते च मध्ये च नमोऽस्तु परमात्मने । मन्त्रैरेभिः समभ्यर्च्य नमस्कारान्तदीपितैः ॥ ७४.१० ॥ शुक्लवस्त्रैः फलैर्भक्ष्यैर्धूपमाल्यानुलेपनैः । स्थण्डिले पूजयेद्भक्त्या गुडेन लवणेन च ॥ ७४.११ ॥ ततो व्याहृतिमन्त्रेण विसृजेद्द्विजपुंगवान् । शक्तितः पूजयेद्भक्त्या गुडक्षीरघृतादिभिः । तिलपात्रं हिरण्यं च ब्राह्मणाय निवेदयेत् ॥ ७४.१२ ॥ एवं नियमकृत्सुप्त्वा प्रातरुत्थाय मानवः । कृतस्नानजपो विप्रैः सहैव घृतपायसम् ॥ ७४.१३ ॥ भुक्त्वा च वेदविदुषे बिडालव्रतवर्जिते । घृतपात्रं सकनकं सोदकुम्भं निवेदयेत् ॥ ७४.१४ ॥ प्रीयतामत्र भगवान् परमात्मा दिवाकरः । अनेन विधिना सर्वं मासि मासि व्रतं चरेत् ॥ ७४.१५ ॥ ततस्त्रयोदशे मासि गा वै दद्यात्त्रयोदश । वस्त्रालंकारसंयुक्ताः सुवर्णास्याः पयस्विनीः ॥ ७४.१६ ॥ एकामपि प्रदद्याद्वा वित्तहीनो विमत्सरः । न वित्तशाठ्यं कुर्वीत यतो मोहात्पतत्यधः ॥ ७४.१७ ॥ अनेन विधिना यस्तु कुर्यात्कल्याणसप्तमीम् । सर्वपापविनिर्मुक्तः सूर्यलोके महीयते । आयुरारोग्यमैश्वर्यमनन्तमिह जायते ॥ ७४.१८ ॥ सर्वपापहरा नित्यं सर्वदैवतपूजिता । सर्वदुष्टोपशमनी सदा कल्याणसप्तमी ॥ ७४.१९ ॥ इमामनन्तफलदां यस्तु कल्याणसप्तमीम् । शृणोति पठते चेह सर्वपापैः प्रमुच्यते ॥ ७४.२० ॥ ______________________________________________________ मत्स्यपुराण ७५ *ईश्वर उवाच विशोकसप्तमीं तद्वद्वक्ष्यामि मुनिपुंगव । यामुपोष्य नरः शोकं न कदाचिदिहाश्नुते ॥ ७५.१ ॥ माघे कृष्णतिलैः स्नात्वा षष्ठ्यां वै शुक्लपक्षतः । कृताहारः कृसरया दन्तधावनपूर्वकम् । उपवासव्रतं कृत्वा ब्रह्मचारी भवेन्निशि ॥ ७५.२ ॥ ततः प्रभात उत्थाय कृतस्नानजपः शुचिः । कृत्वा तु काञ्चनं पद्ममर्कायेति च पूजयेत् । करवीरेण रक्तेन रक्तवस्त्रयुगेन च ॥ ७५.३ ॥ यथा विशोकं भुवनं त्वयैवादित्य सर्वदा । तथा विशोकता मेऽस्तु त्वद्भक्तिः प्रतिजन्म च ॥ ७५.४ ॥ एवं सम्पूज्य षष्ठ्यां तु भक्त्या सम्पूजयेद्द्विजान् । सुप्त्वा संप्राश्य गोमूत्रमुत्थाय कृतनैत्यकः ॥ ७५.५ ॥ सम्पूज्य विप्रानन्नेन गुडपात्रसमन्वितम् । तद्वस्त्रयुग्मं पद्मं च ब्राह्मणाय निवेदयेत् ॥ ७५.६ ॥ अतैललवणं भुक्त्वा सप्तम्यां मौनसंयुतः । ततः पुराणश्रवणं कर्तव्यं भूतिमिच्छता ॥ ७५.७ ॥ अनेन विधिना सर्वमुभयोरपि पक्षयोः । कृत्वा यावत्पुनर्माघशुक्लपक्षस्य सप्तमी ॥ ७५.८ ॥ व्रतान्ते कलशं दद्यात्सुवर्णकमलान्वितम् । शय्यां सोपस्करां दद्यात्कपिलां च पयस्विनीम् ॥ ७५.९ ॥ अनेन विधिना यस्तु वित्तशाठ्यविवर्जितः । विशोकसप्तमीं कुर्यात्स याति परमां गतिम् ॥ ७५.१० ॥ यावज्जन्मसहस्राणां साग्रं कोटिशतं भवेत् । तावन्न शोकमभ्येति रोगदौर्गत्यवर्जितः ॥ ७५.११ ॥ यं यं प्रार्थयते कामं तं तमाप्नोति पुष्कलम् । निष्कामः कुरुते यस्तु स परं ब्रह्म गच्छति ॥ ७५.१२ ॥ यः पठेच्छृणुयाद्वापि विशोकाख्यां च सप्तमीम् । सोऽपीन्द्रलोकमाप्नोति न दुःखी जायते क्वचित् ॥ ७५.१३ ॥ ______________________________________________________ मत्स्यपुराण ७६ *ईश्वर उवाच अन्यामपि प्रवक्ष्यामि नाम्ना तु फलसप्तमीम् । यामुपोष्य नरः पापाद्विमुक्तः स्वर्गभाग्भवेत् ॥ ७६.१ ॥ मार्गशीर्षे शुभे मासि सप्तम्यां नियतव्रतः । तामुपोष्याथ कमलं कारयित्वा तु काञ्चनम् ॥ ७६.२ ॥ शर्करासंयुतं दद्याद्ब्राह्मणाय कुटुम्बिने । रविं काञ्चनकं कृत्वा पलस्यैकस्य धर्मवित् । दद्याद्द्विकालवेलायां भानुर्मे प्रीयतामिति ॥ ७६.३ ॥ भक्त्या तु विप्रान्सम्पूज्य चाष्टम्यां क्षीरभोजनम् । दत्त्वा कुर्यात्फलयुतं यावत्स्यात्कृष्णेसप्तमी ॥ ७६.४ ॥ तामप्युपोष्य विधिवदनेनैव क्रमेण तु । तद्वद्धैमफलं दत्त्वा सुवर्णकमलान्वितम् ॥ ७६.५ ॥ शर्करापात्रसंयुक्तं वस्त्रमाल्यसमन्वितम् । संवत्सरं च तेनैव विधिनोभयसप्तमीम् ॥ ७६.६ ॥ उपोष्य दत्त्वा क्रमशः सूर्यमन्त्रमुदीरयेत् । भानुरर्को रविर्ब्रह्मा सूर्यः शक्रो हरिः शिवः । श्रीमान्विभावसुस्त्वष्टा वरुणः प्रीयतामिति ॥ ७६.७ ॥ प्रतिमासं च सप्तम्यामेकैकं नाम कीर्तयेत् । प्रतिपक्षं फलत्यागमेतत्कुर्वन्समाचरेत् ॥ ७६.८ ॥ व्रतान्ते विप्रमिथुनं पूजयेद्वस्त्रभूषणैः । शर्कराकलशं दद्याद्धेमपद्मदलान्वितम् ॥ ७६.९ ॥ यथा न विफलाः कामास्त्वद्भक्तानां सदा रवे । तथानन्तफलावाप्तिरस्तु मे सप्तजन्मसु ॥ ७६.१० ॥ इमामनन्तफलदां यः कुर्यात्फलसप्तमीम् । सर्वपापविशुद्धात्मा सूर्यलोके महीयते ॥ ७६.११ ॥ सुरापानादिकं किंचिद्यदत्रामुत्र वा कृतम् । तत्सर्वं नाशमायाति यः कुर्यात्फलसप्तमीम् ॥ ७६.१२ ॥ कुर्वाणः सप्तमीं चेमां सततं रोगवर्जितः । भूतान्भव्यांश्च पुरुषांस्तारयेदेकविंशतिम् । यः शृणोति पठेद्वापि सोऽपि कल्याणभाग्भवेत् ॥ ७६.१३ ॥ ______________________________________________________ मत्स्यपुराण ७७ *ईश्वर उवाच शर्करासप्तमीं वक्ष्ये तद्वत्कल्मषनाशिनीम् । आयुरारोग्यमैश्वर्यं ययानन्तं प्रजायते ॥ ७७.१ ॥ माधवस्य सिते पक्षे सप्तम्यां नियतव्रतः । प्रातः स्नात्वा तिलैः शुक्लैः शुक्लमाल्यानुलेपनः ॥ ७७.२ ॥ स्थण्डिले पद्ममालिख्य कुङ्कुमेन सकर्णिकम् । तस्मिन्नमः सवित्रे तु गन्धधूपौ निवेदयेत् ॥ ७७.३ ॥ स्थापयेदुदकुम्भं च शर्करापात्रसंयुतम् । शुक्लवस्त्रैरलंकृत्य शुक्लमाल्यानुलेपनैः । सुवर्णेन समायुक्तं मन्त्रेणानेन पूजयेत् ॥ ७७.४ ॥ विश्ववेदमयो यस्माद्वेदवादीति पठ्यसे । सर्वस्यामृतमेव त्वमतः शान्तिं प्रयच्छ मे ॥ ७७.५ ॥ पञ्चगव्यं ततः पीत्वा स्वपेत्तत्पार्श्वतः क्षितौ । सौरसूक्तं स्मरन्नास्ते पुराणश्रवणेन च ॥ ७७.६ ॥ अहोरात्रे गते पश्चादष्टम्यां कृतनैत्यकः । तत्सर्वं विदुषे तद्वद्ब्राह्मणाय निवेदयेत् ॥ ७७.७ ॥ भोजयेच्छक्तितो विप्राञ्छर्कराघृतपायसैः । भुञ्जीतातैललवणं स्वयमप्यथ वाग्यतः ॥ ७७.८ ॥ अनेन विधिना सर्वं मासि मासि समाचरेत् । संवत्सरान्ते शयनं शर्कराकलशान्वितम् ॥ ७७.९ ॥ सर्वोपस्करसंयुक्तं तथैकां गां पयस्विनीम् । गृहं च शक्तिमान्दद्यात्समस्तोपस्करान्वितम् ॥ ७७.१० ॥ सहस्रेणाथ निष्काणां कृत्वा दद्याच्छतेन वा । दशभिर्वाथ निष्केण तदर्धेनापि शक्तितः ॥ ७७.११ ॥ सुवर्णाश्वः प्रदातव्यः पूर्ववन्मन्त्रवादनम् । न वित्तशाठ्यं कुर्वीत कुर्वन्दोषं समश्नुते ॥ ७७.१२ ॥ अमृतं पिबतो वक्त्रात्सूर्यस्यामृतबिन्दवः । निपेतुर्ये धरण्यां तु शालिमुद्गेक्षवः स्मृताः ॥ ७७.१३ ॥ शर्करा तु परा तस्मादिक्षुसारोऽमृतात्मवान् । इष्टा रवेरतः पुण्या शर्करा हव्यकव्ययोः ॥ ७७.१४ ॥ शर्करासप्तमी चेयं वाजिमेधफलप्रदा । सर्वदुष्टप्रशमनी पुत्रपौत्रप्रवर्धिनी ॥ ७७.१५ ॥ यः कुर्यात्परया भक्त्या स वै सद्गतिमाप्नुयात् । कल्पमेकं वसेत्स्वर्गे ततो याति परं पदम् ॥ ७७.१६ ॥ इदमनघं शृणोति यः स्मरेद्वा परिपठतीह दिवाकरस्य लोके । मतिमपि च ददाति सोऽपि देवैरमरवधूजनमालयाभिपूज्यः ॥ ७७.१७ ॥ ______________________________________________________ मत्स्यपुराण ७८ *ईश्वर उवाच अतः परं प्रवक्ष्यामि तद्वत्कमलसप्तमीम् । यस्याः संकीर्तनादेव तुष्यतीह दिवाकरः ॥ ७८.१ ॥ वसन्तामलसप्तम्यां स्नातः सन्गौरसर्षपैः । तिलपात्रे च सौवर्णे विधाय कमलं शुभम् ॥ ७८.२ ॥ वस्त्रयुग्मावृतं कृत्वा गन्धपुष्पैः समर्चयेत् । नमः कमलहस्ताय नमस्ते विश्वधारिणे ॥ ७८.३ ॥ दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते । ततो द्विकालवेलायामुदकुम्भसमन्विताम् ॥ ७८.४ ॥ विप्राय दद्यात्सम्पूज्य वस्त्रमाल्यविभूषणैः । शक्त्या च कपिलां दद्यादलंकृत्य विधानतः ॥ ७८.५ ॥ अहोरात्रे गते पश्चादष्टम्यां भोजयेद्द्विजान् । यथाशक्त्यथ भुञ्जीत मांसतैलविवर्जितम् ॥ ७८.६ ॥ अनेन विधिना शुक्लसप्तम्यां मासि मासि च । सर्वं समाचरेद्भक्त्या वित्तशाठ्यविवर्जितः ॥ ७८.७ ॥ व्रतान्ते शयनं दद्यात्सुवर्णकमलान्वितम् । गां च दद्यात्स्वशक्त्या तु सुवर्णाढ्यां पयस्विनीम् ॥ ७८.८ ॥ भाजनासनदीपादीन् दद्यादिष्टानुपस्करान् । अनेन विधिना यस्तु कुर्यात्कमलसप्तमीम् । लक्ष्मीमनन्तामभ्येति सूर्यलोके महीयते ॥ ७८.९ ॥ कल्पे कल्पे ततो लोकान् सप्तगत्वा पृथक्पृथक् । अप्सरोभिः परिवृतस्ततो याति परां गतिम् ॥ ७८.१० ॥ यः पश्यतीदं शृणुयाच्च मर्त्यः पठेच्च भक्त्याथ मतिं ददाति । सोऽप्यत्र लक्ष्मीमचलामवाप्य गन्धर्वविद्याधरलोकभाक्स्यात् ॥ ७८.११ ॥ ______________________________________________________ मत्स्यपुराण ७९ *ईश्वर उवाच अथातः सम्प्रवक्ष्यामि सर्वपापप्रणाशिनीम् । सर्वकामप्रदां रम्यां नाम्ना मन्दारसप्तमीम् ॥ ७९.१ ॥ माघस्यामलपक्षे तु पञ्चम्यां लघुभुङ्नरः । दन्तकाष्ठं ततः कृत्वा षष्ठीमुपवसेद्बुधः ॥ ७९.२ ॥ विप्रान् सम्पूजयित्वा तु मन्दारं प्राशयेन्निशि । ततः प्रभात उत्थाय कृत्वा स्नानं पुनर्द्विजान् ॥ ७९.३ ॥ भोजयेच्छक्तितः कृत्वा मन्दारकुसुमाष्टकम् । सौवर्णं पुरुषं तद्वत्पद्महस्तं सुशोभनम् ॥ ७९.४ ॥ पद्मं कृष्णतिलैः कृत्वा ताम्रपात्रेऽष्टपत्त्रकम् । हैममन्दारकुसुमैर्भास्करायेति पूर्वतः ॥ ७९.५ ॥ नमस्कारेण तद्वच्च सूर्यायेत्यानले दले । दक्षिणे तद्वदर्काय तथार्यम्णे च नैरृते ॥ ७९.६ ॥ पश्चिमे वेदधाम्ने च वायव्ये चण्डभानवे । पूष्णेत्युत्तरतः पूज्यमानन्दायेत्यतः परम् ॥ ७९.७ ॥ कर्णिकायां च पुरुषं सर्वात्मन इति न्यसेत् । शुक्लवस्त्रैः समावेष्ट्य भक्ष्यैर्माल्यफलादिभिः ॥ ७९.८ ॥ एवमभ्यर्च्य तत्सर्वं दद्याद्वेदविदे पुनः । भुञ्जीतातैललवणं वाग्यतः प्राङ्मुखो गृही ॥ ७९.९ ॥ अनेन विधिना सर्वं सप्तम्यां मासि मासि च । कुर्यात्संवत्सरं यावद्वित्तशाठ्यविवर्जितः ॥ ७९.१० ॥ एतदेव व्रतान्ते तु निधाय कलशोपरि । गोभिर्विभवतः सार्धं दातव्यं भूतिमिच्छता ॥ ७९.११ ॥ नमो मन्दारनाथाय मन्दारभवनाय च । त्वं रवे तारयस्वास्मान् संसारभयसागरात् ॥ ७९.१२ ॥ अनेन विधिना यस्तु कुर्यान्मन्दारसप्तमीम् । विपाप्मा स सुखी मर्त्यः कल्पं च दिवि मोदते ॥ ७९.१३ ॥ इमामघौघपटलभीषणध्वान्तदीपिकाम् । गच्छन्प्रगृह्य संसारे सर्वार्थांश्च लभेन्नरः ॥ ७९.१४ ॥ मन्दारसप्तमीमेतामीप्सितार्थफलप्रदाम् । यः पठेच्छृणुयाद्वापि सर्वपापैः प्रमुच्यते ॥ ७९.१५ ॥ ______________________________________________________ मत्स्यपुराण ८० *श्रीभगवानुवाच अथान्यामपि वक्ष्यामि शोभनां शुभसप्तमीम् । यामुपोष्य नरो रोगशोकदुःखैः प्रमुच्यते ॥ ८०.१ ॥ पुण्येन चाश्वयुजे मासि कृतस्नानजपः शुचिः । वाचयित्वा ततो विप्रानारभेच्छुभसप्तमीम् ॥ ८०.२ ॥ कपिलां पूजयेद्भक्त्या गन्धमाल्यानुलेपनैः । नमामि सूर्यसम्भूतामशेषभुवनालयाम् । त्वामहं शुभकल्याणशरीरां सर्वसिद्धये ॥ ८०.३ ॥ अथ कृत्वा तिलप्रस्थं ताम्रपात्रेण संयुतम् । काञ्चनं वृषभं तद्वद्गन्धमाल्यगुडान्वितैः ॥ ८०.४ ॥ फलैर्नानाविधैर्भक्ष्यैर्घृतपायससंयुतैः । दद्याद्द्विकालवेलायामर्यमा प्रीयतामिति ॥ ८०.५ ॥ पञ्चगव्यं च संप्राश्य स्वपेद्भूमौ विमत्सरः । ततः प्रभाते संजाते भक्त्या सम्पूजयेद्द्विजान् ॥ ८०.६ ॥ अनेन विधिना दद्यान्मासि मासि सदा नरः । वाससा वृषभं हैमं तद्वद्गां काञ्चनोद्भवाम् ॥ ८०.७ ॥ संवत्सरान्ते शयनमिक्षुदण्डगुडान्वितम् । सोपधानकविश्रामं भाजनासनसंयुतम् ॥ ८०.८ ॥ ताम्रपात्रे तिलप्रस्थं सौवर्णं वृषभं तथा । दद्याद्वेदविदे सर्वं विश्वात्मा प्रीयतामिति ॥ ८०.९ ॥ अनेन विधिना विद्वान् कुर्याद्यः शुभसप्तमीम् । तस्य श्रीर्विपुला कीर्तिर्भवेज्जन्मनि जन्मनि ॥ ८०.१० ॥ अप्सरोगणगन्धर्वैः पूज्यमानः सुरालये । वसेद्गणाधिपो भूत्वा यावदाभूतसंप्लवम् । कल्पादाववतीर्णस्तु सप्तद्वीपाधिपो भवेत् ॥ ८०.११ ॥ ब्रह्महत्यासहस्रस्य भ्रूणहत्याशतस्य च । नाशायालमियं पुण्या पठ्यते शुभसप्तमी ॥ ८०.१२ ॥ इमां पठेद्यः शृणुयान्मुहूर्तं पश्येत्प्रसङ्गादपि दीयमानम् । सोऽप्यत्र सर्वाघविमुक्तदेहः प्राप्नोति विद्याधरनायकत्वम् ॥ ८०.१३ ॥ यावत्समाः सप्त नरः करोति यः सप्तमीं सप्तविधानयुक्ताम् । स सप्तलोकाधिपतिः क्रमेण भूत्वा पदं याति परं मुरारेः ॥ ८०.१४ ॥ ______________________________________________________ मत्स्यपुराण ८१ *मनुरुवाच किमभीष्टवियोगशोकसंघादलमुद्धर्तुमुपोषणं व्रतं वा । विभवोद्भवकारि भूतलेऽस्मिन् भवभीतेरपि सूदनं च पुंसः ॥ ८१.१ ॥ *मत्स्य उवाच परिपृष्टमिदं जगत्प्रियं ते विबुधानामपि दुर्लभं महत्त्वात् । तव भक्तिमतस्तथापि वक्ष्ये व्रतमिन्द्रासुरमानवेषु गुह्यम् ॥ ८१.२ ॥ पुण्यमाश्वयुजे मासि विशोकद्वादशीव्रतम् । दशम्यां लघुभुग्विद्वानारभेन्नियमेन तु ॥ ८१.३ ॥ उदङ्मुखः प्राङ्मुखो वा दन्तधावनपूर्वकम् । एकादश्यां निराहारः समभ्यर्च्य तु केशवम् । श्रियं वाभ्यर्च्य विधिवद्भोक्ष्यामि त्वपरेऽहनि ॥ ८१.४ ॥ एवं नियमकृत्सुप्त्वा प्रातरुत्थाय मानवः । स्नानं सर्वौषधैः कुर्यात्पञ्चगव्यजलेन तु । शुक्लमाल्याम्बरधरः पूजयेच्छ्रीशमुत्पलैः ॥ ८१.५ ॥ विशोकाय नमः पादौ जङ्घे च वरदाय वै । श्रीशाय जानुनी तद्वदूरू च जलशायिने ॥ ८१.६ ॥ कन्दर्पाय नमो गुह्यं माधवाय नमः कटिम् । दामोदरायेत्युदरं पार्श्वे च विपुलाय वै ॥ ८१.७ ॥ नाभिं च पद्मनाभाय हृदयं मन्मथाय वै । श्रीधराय विभोर्वक्षः करौ मधुजिते नमः ॥ ८१.८ ॥ चक्रिणे वामबाहुं च दक्षिणं गदिने नमः । वैकुण्ठाय नमः कण्ठमास्यं यज्ञमुखाय वै ॥ ८१.९ ॥ नासामशोकनिधये वासुदेवाय चाक्षिणी । ललाटं वामनायेति हरये च पुनर्भ्रुवौ ॥ ८१.१० ॥ अलकान्माधवायेति किरीटं विश्वरूपिणे । नमः सर्वात्मने तद्वच्छिर इत्यभिपूजयेत् ॥ ८१.११ ॥ एवं सम्पूज्य गोविन्दं फलमाल्यानुलेपनैः । ततस्तु मण्डलं कृत्वा स्थण्डिलं कारयेन्मुदा ॥ ८१.१२ ॥ चतुरस्रं समन्ताच्च रत्निमात्रमुदक्प्लवम् । श्लक्ष्णं हृद्यं च परितो वप्रत्रयसमावृतम् ॥ ८१.१३ ॥ अङ्गुलेनोच्छ्रिता वप्रास्तद्विस्तारस्तु द्व्यङ्गुलः । स्थण्डिलस्योपरिष्टाच्च भित्तिरष्टाङ्गुला भवेत् ॥ ८१.१४ ॥ नदीवालुकया शूर्पे लक्ष्म्याः प्रतिकृतिं न्यसेत् । स्थण्डिले शूर्पमारोप्य लक्ष्मीमित्यर्चयेद्बुधः ॥ ८१.१५ ॥ नमो देव्यै नमः शान्त्यै नमो लक्ष्म्यै नमः श्रियै । नमः पुष्ट्यै नमस्तुष्ट्यै वृष्ट्यै हृष्ट्यै नमो नमः ॥ ८१.१६ ॥ विशोका दुःखनाशाय विशोका वरदास्तु मे । विशोका चास्तु सम्पत्त्यै विशोका सर्वसिद्धये ॥ ८१.१७ ॥ ततः शुक्लाम्बरैः शूर्पं वेष्ट्य सम्पूजयेत्फलैः । वस्त्रैर्नानाविधैस्तद्वत्सुवर्णकमलेन च ॥ ८१.१८ ॥ रजनीषु च सर्वासु पिबेद्दर्भोदकं बुधः । ततस्तु गीतनृत्यादि कारयेत्सकलां निशाम् ॥ ८१.१९ ॥ यामत्रये व्यतीते तु सुप्त्वाप्युत्थाय मानवः । अभिगम्य च विप्राणां मिथुनानि तदार्चयेत् ॥ ८१.२० ॥ शक्तितस्त्रीणि चैकं वा वस्त्रमाल्यानुलेपनैः । शयनस्थानि पूज्यानि नमोऽस्तु जलशायिने ॥ ८१.२१ ॥ ततस्तु गीतवाद्येन रात्रौ जागरणे कृते । प्रभाते च ततः स्नानं कृत्वा दाम्पत्यमर्चयेत् ॥ ८१.२२ ॥ भोजनं च यथाशक्त्या वित्तशाठ्यविवर्जितः । भुक्त्वा श्रुत्वा पुराणानि तद्दिनं चातिवाहयेत् ॥ ८१.२३ ॥ अनेन विधिना सर्वं मासि मासि समाचरेत् । व्रतान्ते शयनं दद्याद्गुडधेनुसमन्वितम् । सोपधानकविश्रामं सास्तरावरणं शुभम् ॥ ८१.२४ ॥ यथा न लक्ष्मीर्देवेश त्वां परित्यज्य गच्छति । तथा सुरूपतारोग्यमशोकश्चास्तु मे सदा ॥ ८१.२५ ॥ यथा देवेन रहिता न लक्ष्मीर्जायते क्वचित् । तथा विशोकता मेऽस्तु भक्तिरग्र्या च केशवे ॥ ८१.२६ ॥ मन्त्रेणानेन शयनं गुडधेनुसमन्वितम् । शूर्पं च लक्ष्म्या सहितं दातव्यं भूतिमिच्छता ॥ ८१.२७ ॥ उत्पलं करवीरं च बाणमम्लानकुङ्कुमम् । केतकी सिन्दुवारं च मल्लिका गन्धपाटला । कदम्बं कुब्जकं जातिः शस्तान्येतानि सर्वदा ॥ ८१.२८ ॥ ______________________________________________________ मत्स्यपुराण ८२ *मनुरुवाच गुडधेनुविधानं मे समाचक्ष्व जगत्पते । किंरूपं केन मन्त्रेण दातव्यं तदिहोच्यताम् ॥ ८२.१ ॥ *मत्स्य उवाच गुडधेनुविधानस्य यद्रूपमिह यत्फलम् । तदिदानीं प्रवक्ष्यामि सर्वपापविनाशनम् ॥ ८२.२ ॥ कृष्णाजिनं चतुर्हस्तं प्राग्ग्रीवं विन्यसेद्भुवि । गोमयेनानुलिप्तायां दर्भानास्तीर्य सर्वतः ॥ ८२.३ ॥ लघ्वेणकाजिनं तद्वद्वत्सं च परिकल्पयेत् । प्राङ्मुखीं कल्पयेद्धेनुमुदक्पादां सवत्सकाम् ॥ ८२.४ ॥ उत्तमा गुडधेनुः स्यात्सदा भारचतुष्टयम् । वत्सं भारेण कुर्वीत द्वाभ्यां वै मध्यमा स्मृता ॥ ८२.५ ॥ अर्धभारेण वत्सः स्यात्कनिष्ठा भारकेण तु । चतुर्थांशेन वत्सः स्याद्गृहवित्तानुसारतः ॥ ८२.६ ॥ धेनुवत्सौ घृतास्यौ च सितसूक्ष्माम्बरावृतौ । शुक्तिकर्णाविक्षुपादौ शुचिमुक्ताफलेक्षणौ ॥ ८२.७ ॥ सितसूत्रशिरालौ तौ सितकम्बलकम्बलौ । ताम्रगण्डकपृष्ठौ तौ सितचामररोमकौ ॥ ८२.८ ॥ विद्रुमभ्रूयुगोपेतौ नवनीतस्तनावुभौ । क्षौमपुच्छौ कांस्यदोहाविन्द्रनीलकतारकौ ॥ ८२.९ ॥ सुवर्णशृङ्गाभरणौ राजतैः खुरसंयुतौ । नानाफलसमायुक्तौ घ्राणगन्धकरण्डकौ । इत्येवं रचयित्वा तौ धूपदीपैरथार्चयेत् ॥ ८२.१० ॥ या लक्ष्मीः सर्वभूतानां या च देवेष्ववस्थिता । धेनुरूपेण सा देवी मम शान्तिं प्रयच्छतु ॥ ८२.११ ॥ देहस्था या च रुद्राणी शंकरस्य सदा प्रिया । धेनुरूपेण सा देवी मम पापं व्यपोहतु ॥ ८२.१२ ॥ विष्णोर्वक्षसि या लक्ष्मीः स्वाहा या च विभावसोः । चन्द्रार्कशक्रशक्तिर्या धेनुरूपास्तु सा श्रिये ॥ ८२.१३ ॥ चतुर्मुखस्य या लक्ष्मीर्या लक्ष्मीर्धनदस्य च । लक्ष्मीर्या लोकपालानां सा धेनुर्वरदास्तु मे ॥ ८२.१४ ॥ स्वधा या पितृमुख्याणां स्वाहा यज्ञभुजां च या । सर्वपापहरा धेनुस्तस्माच्छान्तिं प्रयच्छ मे ॥ ८२.१५ ॥ एवमामन्त्र्य तां धेनुं ब्राह्मणाय निवेदयेत् । विधानमेतद्धेनूनां सर्वासामभिपठ्यते ॥ ८२.१६ ॥ यास्ताः पापविनाशिन्यः पठ्यन्ते दश धेनवः । तासां स्वरूपं वक्ष्यामि नामानि च नराधिप ॥ ८२.१७ ॥ प्रथमा गुडधेनुः स्याद्घृतधेनुस्तथापरा । तिलधेनुस्तृतीया तु चतुर्थी जलसंज्ञिता ॥ ८२.१८ ॥ क्षीरधेनुश्च विख्याता मधुधेनुस्तथा परा । सप्तमी शर्कराधेनुर्दधिधेनुस्तथाष्टमी । रसधेनुश्च नवमी दशमी स्यात्स्वरूपतः ॥ ८२.१९ ॥ कुम्भाः स्युर्द्रवधेनूनामितरासां तु राशयः । सुवर्णधेनुमप्यत्र केचिदिच्छन्ति भानवः ॥ ८२.२० ॥ नवनीतेन रत्नैश्च तथान्ये तु महर्षयः । एतदेवंविधानं स्यात्त एवोपस्कराः स्मृताः ॥ ८२.२१ ॥ मन्त्रावाहनसंयुक्ताः सदा पर्वणि पर्वणि । यथाश्रद्धं प्रदातव्या भुक्तिमुक्तिफलप्रदाः ॥ ८२.२२ ॥ गुडधेनुप्रसङ्गेन सर्वास्तावन्मयोदिताः । अशेषयज्ञफलदाः सर्वाः पापहराः शुभाः ॥ ८२.२३ ॥ व्रतानामुत्तमं यस्माद्विशोकद्वादशीव्रतम् । तदङ्गत्वेन चैवात्र गुडधेनुः प्रशस्यते ॥ ८२.२४ ॥ अयने विषुवे पुण्ये व्यतीपातेऽथवा पुनः । गुडधेन्वादयो देयास्तूपरागादिपर्वसु ॥ ८२.२५ ॥ विशोकद्वादशी चैषा पुण्या पापहरा शुभा । यामुपोष्य नरो याति तद्विष्णोः परमं पदम् ॥ ८२.२६ ॥ इह लोके च सौभाग्यमायुरारोग्यमेव च । वैष्णवं पुरमाप्नोति मरणे च स्मरन्हरिम् ॥ ८२.२७ ॥ नवार्बुदसहस्राणि दश चाष्टौ च धर्मवित् । न शोकदुःखदौर्गत्यं तस्य संजायते नृप ॥ ८२.२८ ॥ नारी वा कुरुते या तु विशोकद्वादशीव्रतम् । नृत्यगीतपरा नित्यं सापि तत्फलमाप्नुयात् ॥ ८२.२९ ॥ तस्मादग्रे हरेर्नित्यमनन्तं गीतवादनम् । कर्तव्यं भूतिकामेन भक्त्या तु परया नृप ॥ ८२.३० ॥ इति पठति य इत्थं यः शृणोतीह सम्यङ्मधुमुरनरकारेरर्चनं यश्च पश्येत् । मतिमाप च जनानां यो ददातीन्द्रलोके वसति स विबुधौघैः पूज्यते कल्पमेकम् ॥ ८२.३१ ॥ ______________________________________________________ मत्स्यपुराण ८३ *नारद उवाच भगवञ्छ्रोतुमिच्छामि दानमाहात्म्यमुत्तमम् । यदक्षयं परे लोके देवर्षिगणपूजितम् ॥ ८३.१ ॥ *उमापतिरुवाच मेरोः प्रदानं वक्ष्यामि दशधा मुनिपुंगव । यत्प्रदानान्नरो लोकानाप्नोति सुरपूजितान् ॥ ८३.२ ॥ पुराणेषु च वेदेषु यज्ञेष्वायतनेषु च । न तत्फलमधीतेषु कृतेष्विह यदश्नुते ॥ ८३.३ ॥ तस्माद्विधानं वक्ष्यामि पर्वतानामनुक्रमात् । प्रथमो धान्यशैलः स्याद्द्वितीयो लवणाचलः ॥ ८३.४ ॥ गुडाचलस्तृतीयस्तु चतुर्थो हेमपर्वतः । पञ्चमस्तिलशैलः स्यात्षष्ठः कार्पासपर्वतः ॥ ८३.५ ॥ सप्तमो घृतशैलश्च रत्नशैलस्तथाष्टमः । राजतो नवमस्तद्वद्दशमः शर्कराचलः ॥ ८३.६ ॥ वक्ष्ये विधानमेतेषां यथावदनुपूर्वशः । अयने विषुवे पुण्ये व्यतीपाते दिनक्षये ॥ ८३.७ ॥ शुक्लपक्षे तृतीयायामुपरागे शशिक्षये । विवाहोत्सवयज्ञेषु द्वादश्यामथ वा पुनः ॥ ८३.८ ॥ शुक्लायां पञ्चदश्यां वा पुण्यर्क्षे वा विधानतः । धान्यशैलादयो देया यथाशास्त्रं विजानता ॥ ८३.९ ॥ तीर्थेष्वायतने वापि गोष्ठे वा भवनाङ्गणे । मण्डपं कारयेद्भक्त्या चतुरस्रमुदङ्मुखम् । प्रागुदक्प्रवणं तद्वत्प्राङ्मुखं च विधानतः ॥ ८३.१० ॥ गोमयेनानुलिप्तायां भूमावास्तीर्य वै कुशान् । तन्मध्ये पर्वतं कुर्याद्विष्कम्भपर्वतान्वितम् ॥ ८३.११ ॥ धान्यद्रोणसहस्रेण भवेद्गिरिरिहोत्तमः । मध्यमः पञ्चशतिकः कनिष्ठः स्यात्त्रिभिः शतैः ॥ ८३.१२ ॥ मेरुर्महाव्रीहिमयस्तु मध्ये सुवर्णवृक्षत्रयसंयुतः स्यात् । पूर्वेण मुक्ताफलवज्रयुक्तो याग्येन गोमेदकपुष्परागैः ॥ ८३.१३ ॥ पश्चाच्च गारुत्मतनीलरत्नैः सौम्येन वैदूर्यसरोजरागैः । श्रीखण्डखण्डैरभितः प्रवालैर्लतान्वितः शुक्तिशिलातलः स्यात् ॥ ८३.१४ ॥ ब्रह्माथ विष्णुर्भगवान्पुरारिर्दिवाकरोऽप्यत्र हिरण्मयः स्यात् । मूर्धन्यवस्थानममत्सरेण कार्यं त्वनेकैश्च पुनर्द्विजौघैः ॥ ८३.१५ ॥ चत्वारि शृङ्गाणि च राजतानि नितम्बभागेष्वपि राजतः स्यात् । तथेक्षुवंशावृतकन्दरस्तु घृतोदकप्रस्रवणैश्च दिक्षु ॥ ८३.१६ ॥ शुक्लाम्बराण्यम्बुधरावली स्यात्पूर्वेण पीतानि च दक्षिणेन । वासांसि पश्चादथ कर्बुराणि रक्तानि चैवोत्तरतो घनाली ॥ ८३.१७ ॥ रौप्यान्महेन्द्रप्रमुखांस्तथाष्टौ संस्थाप्य लोकाधिपतीन्क्रमेण । नानाफलाली च समन्ततः स्यान्मनोरमं माल्यविलेपनं च ॥ ८३.१८ ॥ वितानकं चोपरि पञ्चवर्णमम्लानपुष्पाभरणं सितं च । इत्थं निवेश्यामरशैलमग्र्यं मेरोस्तु विष्कम्भगिरीन् क्रमेण ॥ ८३.१९ ॥ तुरीयभागेण चतुर्दिशं च संस्थापयेत्पुष्पविलेपनाढ्यान् । पूर्वेण मन्दरमनेकफलावलीभिर्युक्तं यवैः कनकभद्रकदम्बचिह्नैः ॥ ८३.२० ॥ कामेन काञ्चनमयेन विराजमानमाकारयेत्कुसुमवस्त्रविलेपनाढ्यम् । क्षीरारुणोदसरसाथ वनेन चैवं रौप्येण शक्तिघटितेन विराजमानम् ॥ ८३.२१ ॥ याम्येन गन्धमदनश्च निवेशनीयो गोधूमसंचयमयः कलधौतयुक्तः । हैमेन यज्ञपतिना घृतमानसेन वस्त्रैश्च राजतवनेन च संयुतः स्यात् ॥ ८३.२२ ॥ पश्चात्तिलाचलमनेकसुगन्धिपुष्पसौवर्णपिप्पलहिरण्मयहंसयुक्तम् । आकारयेद्रजतपुष्पवनेन तद्वद्वस्त्रान्वितं दधिसितोदसरस्तथाग्रे ॥ ८३.२३ ॥ संस्थाप्य तं विपुलशैलमथोत्तरेण शैलं सुपार्श्वमपि माषमयं सुवस्त्रम् । पुष्पैश्च हेमवटपादपशेखरं तमाकारयेत्कनकधेनुविराजमानम् ॥ ८३.२४ ॥ माक्षीकभद्रसरसाथ वनेन तद्वद्रौप्येण भास्वरवता च युतं विधाय । होमश्चतुर्भिरथ वेदपुराणविद्भिर्दान्तैरनिन्द्यचरिताकृतिभिर्द्विजेन्द्रैः ॥ ८३.२५ ॥ पूर्वेण हस्तमितमत्र विधाय कुण्डं कार्यस्तिलैर्यवघृतेन समित्कुशैश्च । रात्रौ च जागरमनुद्धतगीततूर्यैरावाहनं च कथयामि शिलोच्चयानाम् ॥ ८३.२६ ॥ त्वं सर्वदेवगणधामनिधे विरुद्धमस्मद्गृहेष्वमरपर्वत नाशयाशु । क्षेमं विधत्स्व कुरु शान्तिमनुत्तमां नः सम्पूजितः परमभक्तिमता मया हि ॥ ८३.२७ ॥ त्वमेव भगवानीशो ब्रह्मा विष्णुर्दिवाकरः । मूर्तामूर्तात्परं बीजमतः पाहि सनातन ॥ ८३.२८ ॥ यस्मात्त्वं लोकपालानां विश्वमूर्तेश्च मन्दिरम् । रुद्रादित्यवसूनां च तस्माच्छान्तिं प्रयच्छ मे ॥ ८३.२९ ॥ यस्मादशून्यममरैर्नारीभिश्च शिवेन च । तस्मान्मामुद्धराशेषदुःखसंसारसागरात् ॥ ८३.३० ॥ एवमभ्यर्च्य तं मेरुं मन्दरं चाभिपूजयेत् । यस्माच्चैत्ररथेन त्वं भद्राश्वेन च वर्षतः ॥ ८३.३१ ॥ शोभसे मन्दर क्षिप्रमतस्तुष्टिकरो भव । यस्माच्चूडामणिर्जम्बूद्वीपे त्वं गन्धमादन ॥ ८३.३२ ॥ गन्धर्ववनशोभावानतः कीर्तिर्दृढास्तु मे । यस्मात्त्वं केतुमालेन वैभ्राजेन वनेन च ॥ ८३.३३ ॥ हिरण्मयाश्वत्थशिरास्तस्मात्पुष्टिर्ध्रुवास्तु मे । उत्तरैः कुरुभिर्यस्मात्सावित्रेण वनेन च ॥ ८३.३४ ॥ सुपार्श्व राजसे नित्यमतः श्रीरक्षयास्तु मे । एवमामन्त्र्य तान्सर्वान् प्रभाते विमले पुनः ॥ ८३.३५ ॥ स्नात्वाथ गुरवे दद्यान्मध्यमं पर्वतोत्तमम् । विष्कम्भपर्वतान्दद्यादृत्विग्भ्यः क्रमशो मुने ॥ ८३.३६ ॥ गाश्च दद्याच्चतुर्विंशत्यथवा दश नारद । नव सप्त तथाष्टौ वा पञ्च दद्यादशक्तिमान् ॥ ८३.३७ ॥ एकापि गुरवे देया कपिला च पयस्विनी । पर्वतानामशेषाणामेष एव विधिः स्मृतः ॥ ८३.३८ ॥ त एव पूजने मन्त्रास्त एवोपस्करा मताः । ग्रहाणां लोकपालानां ब्रह्मादीनां च सर्वदा ॥ ८३.३९ ॥ स्वमन्त्रेणैव सर्वेषु होमः शैलेषु पठ्यते । उपवासी भवेन्नित्यमशक्ते नक्तमिष्यते ॥ ८३.४० ॥ विधानं सर्वशैलानां क्रमशः शृणु नारद । दानकाले च ये मन्त्राः पर्वतेषु च यत्फलम् ॥ ८३.४१ ॥ अन्नं ब्रह्म यतः प्रोक्तमन्ने प्राणाः प्रतिष्ठिताः । अन्नाद्भवन्ति भूतानि जगदन्नेन वर्तते ॥ ८३.४२ ॥ अन्नमेव ततो लक्ष्मीरन्नमेव जनार्दनः । धान्यपर्वतरूपेण पाहि तस्मान्नगोत्तम ॥ ८३.४३ ॥ अनेन विधिना यस्तु दद्याद्धान्यमयं गिरिम् । मन्वन्तरशतं साग्रं देवलोके महीयते ॥ ८३.४४ ॥ अप्सरोगणगन्धर्वैराकीर्णेन विराजता । विमानेन दिवः पृष्ठमायाति स्म निषेवित । धर्मक्षये राजराज्यमाप्नोतीह न संशयः ॥ ८३.४५ ॥ ______________________________________________________ मत्स्यपुराण ८४ *ईश्वर उवाच अथातः सम्प्रवक्ष्यामि लवणाचलमुत्तमम् । यत्प्रदानान्नरो लोकानाप्नोति शिवसंयुतान् ॥ ८४.१ ॥ उत्तमः षोडशद्रोणैः कर्तव्यो लवणाचलः । मध्यमः स्यात्तदर्धेन चतुर्भिरधमः स्मृतः ॥ ८४.२ ॥ वित्तहीनो यथाशक्त्या द्रोणादूर्ध्वं तु कारयेत् । चतुर्थांशेन विष्कम्भपर्वतान्कारयेत्पृथक् ॥ ८४.३ ॥ विधानं पूर्ववत्कुर्याद्ब्रह्मादीनां च सर्वदा । तद्वद्धेममयान्सर्वांल्लोकपालान्निवेशयेत् ॥ ८४.४ ॥ सरांसि कामदेवादींस्तद्वदत्रापि कारयेत् । कुर्याज्जागरणं चापि दानमन्त्रान्निबोधत ॥ ८४.५ ॥ सौभाग्यसरः सम्भूतो यतोऽयं लवणो रसः । तद्दानकर्तृकत्वेन त्वं मां पाहि नगोत्तम ॥ ८४.६ ॥ यस्मादन्नरसाः सर्वे नोत्कटा लवणं विना । प्रियं च शिवयोर्नित्यं तस्माच्छान्तिं प्रयच्छ मे ॥ ८४.७ ॥ विष्णुदेहसमुद्भूतं यस्मादारोग्यवर्धनम् । तस्मात्पर्वतरूपेण पाहि संसारसागरात् ॥ ८४.८ ॥ अनेन विधिना यस्तु दद्याल्लवणपर्वतम् । उमालोके वसेत्कल्पं ततो याति परां गतिम् ॥ ८४.९ ॥ ______________________________________________________ मत्स्यपुराण ८५ *ईश्वर उवाच अतः परं प्रवक्ष्यामि गुडपर्वतमुत्तमम् । यत्प्रदानान्नरः स्वर्गमाप्नोति सुरपूजितम् ॥ ८५.१ ॥ उत्तमो दशभिर्भारैर्मध्यमः पञ्चभिर्मतः । त्रिभिर्भारैः कनिष्ठः स्यात्तदर्धेनाल्पवित्तवान् ॥ ८५.२ ॥ तद्वदामन्त्रणं पूजां हेमवृक्षसुरार्चनम् । विष्कम्भपर्वतांस्तद्वत्सरांसि वनदेवताः ॥ ८५.३ ॥ होमजागरणं तद्वल्लोकपालाधिवासनम् । धान्यपर्वतवत्कुर्यादिमं मन्त्रमुदीरयेत् ॥ ८५.४ ॥ यथा देवेषु विश्वात्मा प्रवरोऽयं जनार्दनः । सामवेदस्तु वेदानां महादेवस्तु योगिनाम् ॥ ८५.५ ॥ प्रणवः सर्वमन्त्राणां नारीणां पार्वती यथा । तथा रसानां प्रवरः सदैवेक्षुरसो मतः ॥ ८५.६ ॥ मम तस्मात्परां लक्ष्मीं गुडपर्वत देहि वै । यस्मात्सौभाग्यदायिन्या भ्राता त्वं गुडपर्वत । निवासश्चापि पार्वत्यास्तस्माच्छान्तिं प्रयच्छ मे ॥ ८५.७ ॥ अनेन विधिना यस्तु दद्याद्गुडमयं गिरिम् । पूज्यमानः स गन्धर्वैर्गौरीलोके महीयते ॥ ८५.८ ॥ ततः कल्पशतान्ते तु सप्तद्वीपाधिपो भवेत् । आयुरारोग्यसम्पन्नः शत्रुभिश्चापराजितः ॥ ८५.९ ॥ ______________________________________________________ मत्स्यपुराण ८६ *ईश्वर उवाच अथ पापहरं वक्ष्ये सुवर्णाचलमुत्तमम् । यस्य प्रदानाद्भवनं वैरिञ्चं याति मानवः ॥ ८६.१ ॥ उत्तमः पलसाहस्रो मध्यमः पञ्चभिः शतैः । तदर्धेनाधमस्तद्वदल्पवित्तोऽपि शक्तितः । दद्यादेकपलादूर्ध्वं यथाशक्त्या विमत्सरः ॥ ८६.२ ॥ धान्यपर्वतवत्सर्वं विदध्यान्मुनिपुंगव । विष्कम्भशैलास्तद्वच्च ऋत्विग्भ्यः प्रतिपादयेत् ॥ ८६.३ ॥ नमस्ते ब्रह्मबीजाय ब्रह्मगर्भाय ते नमः । यस्मादनन्तफलदस्तस्मात्पाहि शिलोच्चय ॥ ८६.४ ॥ यस्मादग्नेरपत्यं त्वं यस्मात्पुण्यं जगत्पते । हेमपर्वतरूपेण तस्मात्पाहि नगोत्तम ॥ ८६.५ ॥ अनेन विधिना यस्तु दद्यात्कनकपर्वतम् । स याति परमं ब्रह्मलोकमानन्दकारकम् । तत्र कल्पशतं तिष्ठेत्ततो याति परां गतिम् ॥ ८६.६ ॥ ______________________________________________________ मत्स्यपुराण ८७ *ईश्वर उवाच अतः परं प्रवक्ष्यामि तिलशैलं विधानतः । यत्प्रदानान्नरो याति विष्णुलोकं सनातनम् ॥ ८७.१ ॥ उत्तमो दशभिर्द्रोणैर्मध्यमः पञ्चभिः स्मृतः । त्रिभिः कनिष्ठो विप्रेन्द्र तिलशैलः प्रकीर्तितः ॥ ८७.२ ॥ पूर्ववच्चापरान्सर्वान् विष्कम्भानभितो गिरीन् । दानमन्त्रान् प्रवक्ष्यामि यथावन्मुनिपुंगव ॥ ८७.३ ॥ यस्मान्मधुवधे विष्णोर्देहस्वेदसमुद्भवाः । तिलाः कुशाश्च माषाश्च तस्माच्छान्त्यै भवत्विह ॥ ८७.४ ॥ हव्ये कव्ये च यस्माच्च तिला एवाभिरक्षणम् । भवादुद्धर शैलेन्द्र तिलाचल नमोऽस्तु ते ॥ ८७.५ ॥ इत्यामन्त्र्य च यो दद्यात्तिलाचलमनुत्तमम् । स वैष्णवं पदं याति पुनरावृत्तिदुर्लभम् ॥ ८७.६ ॥ दीर्घायुष्यं समाप्नोति पुत्रपौत्रैश्च मोदते । पितृभिर्देवगन्धर्वैः पूज्यमानो दिवं व्रजेत् ॥ ८७.७ ॥ ______________________________________________________ मत्स्यपुराण ८८ *ईश्वर उवाच अथातः सम्प्रवक्ष्यामि कार्पासाचलमुत्तमम् । यत्प्रदानान्नरो नित्यमाप्नोति परमं पदम् ॥ ८८.१ ॥ कार्पासपर्वतस्तद्वद्विंशद्भारैरिहोत्तमः । दशभिर्मध्यमः प्रोक्तः पञ्चभिस्त्वधमः स्मृतः । भारेणाल्पधनो दद्याद्वित्तशाठ्यविवर्जितः ॥ ८८.२ ॥ धान्यपर्वतवत्सर्वमासाद्य मुनिपुंगव । प्रभातायां तु शर्वर्यां दद्यादिदमुदीरयेत् ॥ ८८.३ ॥ त्वमेवावरणं यस्माल्लोकानामिह सर्वदा । कार्पासाद्रे नमस्तुभ्यमघौघध्वंसनो भव ॥ ८८.४ ॥ इति कार्पासशैलेन्द्रं यो दद्याच्छर्वसंनिधौ । रुद्रलोके वसेत्कल्पं ततो राजा भवेदिह ॥ ८८.५ ॥ ______________________________________________________ मत्स्यपुराण ८९ *ईश्वर उवाच अतः परं प्रवक्ष्यामि घृताचलमनुत्तमम् । तेजोऽमृतमयं दिव्यं महापातकनाशनम् ॥ ८९.१ ॥ विंशत्या घृतकुम्भानामुत्तमः स्याद्घृताचलः । दशभिर्मध्यमः प्रोक्तः पञ्चभिस्त्वधमः स्मृतः ॥ ८९.२ ॥ अल्पवित्तोऽपि यः कुर्याद्द्वाभ्यामिह विधानतः । विष्कम्भपर्वतांस्तद्वच्चतुर्भागेण कल्पयेत् ॥ ८९.३ ॥ शालितण्डुलपात्राणि कुम्भोपरि निवेशयेत् । कारयेत्संहतानुच्चान् यथाशोभं विधानतः ॥ ८९.४ ॥ वेष्टयेच्छुक्लवासोभिरिक्षुदण्डफलादिकैः । धान्यपर्वतवच्छेषं विधानमिह पठ्यते ॥ ८९.५ ॥ अधिवासनपूर्वं च तद्वद्धोमसुरार्चनम् । प्रभातायां तु शर्वर्यां गुरवे तं निवेदयेत् । विष्कम्भपर्वतांस्तद्वदृत्विग्भ्यः शान्तमानसः ॥ ८९.६ ॥ संयोगाद्घृतमुत्पन्नं यस्मादमृततेजसोः । तस्माद्धृतार्चिर्विश्वात्मा प्रीयतामत्र शंकरः ॥ ८९.७ ॥ यस्मात्तेजोमयं ब्रह्म घृते तद्विद्ध्यवस्थितम् । घृतपर्वतरूपेण तस्मात्त्वं पाहि नोऽनिशम् ॥ ८९.८ ॥ अनेन विधिना दद्याद्घृताचलमनुत्तमम् । महापातकयुक्तोऽपि लोकमाप्नोति शांकरम् ॥ ८९.९ ॥ हंससारसयुक्तेन किङ्किणीजालमालिना । विमानेनाप्सरोभिश्च सिद्धविद्याधरैर्वृतः । विहरेत्पितृभिः सार्धं यावदाभूतसंप्लवम् ॥ ८९.१० ॥ ______________________________________________________ मत्स्यपुराण ९० *ईश्वर उवाच अतः परं प्रवक्ष्यामि रत्नाचलमनुत्तमम् । मुक्ताफलसहस्रेण पर्वतः स्यादनुत्तमः ॥ ९०.१ ॥ मध्यमः पञ्चशतिकस्त्रिशतेनाधमः स्मृतः । चतुर्थांशेन विष्कम्भपर्वताः स्युः समन्ततः ॥ ९०.२ ॥ पूर्वेण वज्रगोमेदैर्दक्षिणेनेन्द्रनीलकैः । पद्मरागयुतः कार्यो विद्वद्भिर्गन्धमादनः ॥ ९०.३ ॥ वैदूर्यविद्रुमैः पश्चात्सम्मिश्रो विमलाचलः । पद्मरागैः ससौवर्णैरुत्तरेण च विन्यसेत् ॥ ९०.४ ॥ धान्यपर्वतवत्सर्वमत्रापि परिकल्पयेत् । तद्वदावाहनं कुर्याद्वृक्षान्देवांश्च काञ्चनान् ॥ ९०.५ ॥ पूजयेत्पुष्पगन्धाद्यैः प्रभाते च विमत्सरः । पूर्ववद्गुरुऋत्विग्भ्य इमान्मन्त्रानुदीरयेत् ॥ ९०.६ ॥ यदा देवगणाः सर्वे सर्वरत्नेष्ववस्थिताः । त्वं च रत्नमयो नित्यं नमस्तेऽस्तु सदाचल ॥ ९०.७ ॥ यस्माद्रत्नप्रदानेन तुष्टिं प्रकुरुते हरिः । सदा रत्नप्रदानेन तस्मान्नः पाहि पर्वत ॥ ९०.८ ॥ अनेन विधिना यस्तु दद्याद्रत्नमयं गिरिम् । स याति विष्णुसालोक्यममरेश्वरपूजितः ॥ ९०.९ ॥ यावत्कल्पशतं साग्रं वसेच्चेह नराधिप । रूपारोग्यगुणोपेतः सप्तद्वीपाधिपो भवेत् ॥ ९०.१० ॥ ब्रह्महत्यादिकं किंचिद्यदत्रामुत्र वा कृतम् । तत्सर्वं नाशमायाति गिरिर्वज्रहतो यथा ॥ ९०.११ ॥ ______________________________________________________ मत्स्यपुराण ९१ *ईश्वर उवाच अतः परं प्रवक्ष्यामि रौप्याचलमनुत्तमम् । यत्प्रदानान्नरो याति सोमलोकमनुत्तमम् ॥ ९१.१ ॥ दशभिः पलसाहस्रैरुत्तमो रजताचलः । पञ्चभिर्मध्यमः प्रोक्तस्तदर्धेनाधमः स्मृतः ॥ ९१.२ ॥ अशक्तो विंशतेरूर्ध्वं कारयेच्छक्तितस्तदा । विष्कम्भपर्वतांस्तद्वत्तुरीयांशेन कल्पयेत् ॥ ९१.३ ॥ पूर्ववद्राजतान्कुर्वन्मन्दरादीन्विधानतः । कलधौतमयांस्तद्वल्लोकेशानर्चयेद्बुधः ॥ ९१.४ ॥ ब्रह्मविष्ण्वर्कवान्कार्यो नितम्बोऽत्र हिरण्मयः । राजतं स्याद्यदन्येषां सर्वं तदिह काञ्चनम् ॥ ९१.५ ॥ शेषं तु पूर्ववत्कुर्याद्धोमजागरणादिकम् । दद्यात्ततः प्रभाते तु गुरवे रौप्यपर्वतम् ॥ ९१.६ ॥ विष्कम्भशैलानृत्विग्भ्यः पूज्यवस्त्रविभूषणैः । इमं मन्त्रं पठन्दद्याद्दर्भपाणिर्विमत्सरः ॥ ९१.७ ॥ पितॄणां वल्लभो यस्माद्धरीन्द्राणां शिवस्य च । पाहि राजत तस्मात्त्वं शोकसंसारसागरात् ॥ ९१.८ ॥ इत्थं निवेद्य यो दद्याद्रजताचलमुत्तमम् । गवामयुतदानस्य फलं प्राप्नोति मानवः ॥ ९१.९ ॥ सोमलोके स गन्धर्वैः किंनराप्सरसां गणैः । पूज्यमानो वसेद्विद्वान् यावदाभूतसंप्लवम् ॥ ९१.१० ॥ ______________________________________________________ मत्स्यपुराण ९२ *ईश्वर उवाच अथातः सम्प्रवक्ष्यामि शर्कराशैलमुत्तमम् । यस्य प्रदानाद्विष्ण्वर्करुद्रास्तुष्यन्ति सर्वदा ॥ ९२.१ ॥ अष्टाभिः शर्कराभारैरुत्तमः स्यान्महाचलः । चतुर्भिर्मध्यमः प्रोक्तो भाराभ्यामधमः स्मृतः ॥ ९२.२ ॥ भारेण वार्धभारेण कुर्याद्यः स्वल्पवित्तवान् । विष्कम्भपर्वतान्कुर्यात्तुरीयांशेन मानवः ॥ ९२.३ ॥ धान्यपर्वतवत्सर्वमासाद्यामरसंयुतम् । मेरोरुपरि तद्वच्च स्थाप्यं हेमतरुत्रयम् ॥ ९२.४ ॥ मन्दारः पारिजातश्च तृतीयः कल्पपादपः । एतद्वृक्षत्रयं मूर्ध्नि सर्वेष्वपि नियोजयेत् ॥ ९२.५ ॥ हरिचन्दनसंतानौ पूर्वपश्चिमभागयोः । निवेश्यौ सर्वशैलेषु विशेषाच्छर्कराचले ॥ ९२.६ ॥ मन्दरे कामदेवस्तु प्रत्यग्वक्त्रः सदा भवेत् । गन्धमादनशृङ्गे तु धनदः स्यादुदङ्मुखः ॥ ९२.७ ॥ प्राङ्मुखो वेदमूर्तिस्तु हंसः स्याद्विपुलाचले । हैमी सुपार्श्वे सुरभिर्दक्षिणाभिमुखी भवेत् ॥ ९२.८ ॥ धान्यपर्वतवत्सर्वमावाहनविधानकम् । कृत्वा तु गुरवे दद्यान्मध्यमं पर्वतोत्तमम् । ऋत्विग्भ्यश्चतुरः शैलानिमान्मन्त्रानुदीरयन् ॥ ९२.९ ॥ सौभाग्यामृतसारोऽयं पर्वतः शर्करायुतः । तस्मादानन्दकारी त्वं भव शैलेन्द्र सर्वदा ॥ ९२.१० ॥ अमृतं पिबतां ये तु निपेतुर्भुवि शीकराः । देवानां तत्समुत्थस्त्वं पाहि नः शर्कराचल ॥ ९२.११ ॥ मनोभवधनुर्मध्यादुद्भूता शर्करा यतः । तन्मयोऽसि महाशैल पाहि संसारसागरात् ॥ ९२.१२ ॥ यो दद्याच्छर्कराशैलमनेन विधिना नरः । सर्वपापैर्विनिर्मुक्तः स याति परमं पदम् ॥ ९२.१३ ॥ चन्द्रतारार्कसंकाशमधिरुह्यानुजीविभिः । सहैव यानमातिष्ठेत्तत्र विष्णुप्रचोदितः ॥ ९२.१४ ॥ ततः कल्पशतान्ते तु सप्तद्वीपाधिपो भवेत् । आयुरारोग्यसम्पन्नो यावज्जन्मार्बुदत्रयम् ॥ ९२.१५ ॥ भोजनं शक्तितः कुर्यात्सर्वशैलेष्वमत्सरः । सर्वत्राक्षारलवणमश्नीयात्तदनुज्ञया । पर्वतोपस्करान्सर्वान् प्रापयेद्ब्राह्मणालयम् ॥ ९२.१६ ॥ *ईश्वर उवाच आसीत्पुरा बृहत्कल्पे धर्ममूर्तिर्जनाधिपः । सुहृच्छक्रस्य निहता येन दैत्याः सहस्रशः ॥ ९२.१७ ॥ सोमसूर्यादयो यस्य तेजसा विगतप्रभाः । भवन्ति शतशो येन शत्रवश्चापराजिताः । यथेच्छारूपधारी च मनुष्योऽप्यपराजितः ॥ ९२.१८ ॥ तस्य भानुमती नाम भार्या त्रैलोक्यसुन्दरी । लक्ष्मीवद्दिव्यरूपेण निर्जितामरसुन्दरी ॥ ९२.१९ ॥ राज्ञस्तस्याग्र्यमहिषी प्राणेभ्योऽपि गरीयसी । दशनारीसहस्राणां मध्ये श्रीरिव राजते ॥ ९२.२० ॥ नृपकोटिसहस्रेण न कदाचित्स मुच्यते । कदाचिदास्थानगतः पप्रच्छ स पुरोधसम् । विस्मयेनावृतो राजा वसिष्ठमृषिसत्तमम् ॥ ९२.२१ ॥ *राजोवाच भगवन्केन धर्मेण मम लक्ष्मीरनुत्तमा । कस्माच्च विपुलं तेजो मच्छरीरे सदोत्तमम् ॥ ९२.२२ ॥ *वसिष्ठ उवाच पुरा लीलावती नाम वेश्या शिवपरायणा । तया दत्तश्चतुर्दश्यां गुरवे लवणाचलः । हेमवृक्षादिभिः सार्धं यथावद्विधिपूर्वकम् ॥ ९२.२३ ॥ शूद्रः सुवर्णकारश्च नाम्ना शौण्डोऽभवत्तदा । भृत्यो लीलावतीगेहे तेन हेम्ना विनिर्मिताः ॥ ९२.२४ ॥ तरवः सुरमुख्याश्च श्रद्धायुक्तेन पार्थिव । अतिरूपेण सम्पन्ना घटयित्वा विना भृतिम् । धर्मकार्यमिति ज्ञात्वा न गृह्णाति कथंचन ॥ ९२.२५ ॥ उज्ज्वालिताश्च तत्पत्न्या सौवर्णामरपादपाः । लीलावती गिरेः पार्श्वे परिचर्यां च पार्थिव ॥ ९२.२६ ॥ कृत्वा ताभ्यामशाठ्येन गुरुशुश्रूषणादिकम् । सा च लीलावती वेश्याकालेन महतापि च ॥ ९२.२७ ॥ कालधर्ममनुप्राप्ता कर्मयोगेण नारद । सर्वपापविनिर्मुक्ता जगाम शिवमन्दिरम् ॥ ९२.२८ ॥ योऽसौ सुवर्णकारस्तु दरिद्रोऽप्यतिसत्त्ववान् । न मौल्यमादाद्वेश्यातः स भवानिह साम्प्रतम् ॥ ९२.२९ ॥ सप्तद्वीपपतिर्जातः सूर्यायुतसमप्रभः । यया सुवर्णकारस्य तरवो हेमनिर्मिताः । सम्यगुज्ज्वालिताः पत्न्या सेयं भानुमती तव ॥ ९२.३० ॥ उज्ज्वालनादुज्ज्वलरुपमस्याः संजातमस्मिन्भुवनाधिपत्यम् । यस्मात्कृतं तत्परिकर्म रात्रावनुद्धताभ्यां लवणाचलस्य ॥ ९२.३१ ॥ तस्माच्च लोकेष्वपराजितत्वमारोग्यसौभाग्ययुता च लक्ष्मीः । तस्मात्त्वमप्यत्र विधानपूर्वं धान्याचलादीन्दशधा कुरुष्व ॥ ९२.३२ ॥ तथेति सत्कृत्य स धर्ममूर्तिर्वचो वसिष्ठस्य ददौ च सर्वान् । धान्याचलदीञ्छतशो मुरारेर्लोकं जगामामरपूज्यमानः ॥ ९२.३३ ॥ पश्येदपीमानधनोऽतिभक्त्या स्पृशेन्मनुष्यैरपि दीयमानान् । शृणोति भक्त्याथ मतिं ददाति विकल्मषः सोऽपि दिवं प्रयाति ॥ ९२.३४ ॥ दुःस्वप्नं प्रशममुपैति पठ्यमानैः शैलेन्द्रैर्भवभयभेदनैर्मनुष्यैः । यः कुर्यात्किमु मुनिपुंगवेह सम्यक्शान्तात्मा सकलगिरीन्द्रसम्प्रदानम् ॥ ९२.३५ ॥ ______________________________________________________ मत्स्यपुराण ९३ *सूत उवाच वैशम्पायनमासीनमपृच्छच्छौनकः पुरा । सर्वकामाप्तये नित्यं कथं शान्तिकपौष्टिकम् ॥ ९३.१ ॥ *वैशम्पायन उवाच श्रीकामः शान्तिकामो वा ग्रहयज्ञं समारभेत् । वृद्ध्यायुः पुष्टिकामो वा तथैवाभिचरन्पुनः । येन ब्रह्मन्विधानेन तन्मे निगदतः शृणु ॥ ९३.२ ॥ सर्वशास्त्राण्यनुक्रम्य संक्षिप्य ग्रन्थविस्तरम् । ग्रहशान्तिं प्रवक्ष्यामि पुराणश्रुतिचोदिताम् ॥ ९३.३ ॥ पुण्येऽह्नि विप्रकथिते कृत्वा ब्राह्मणवाचनम् । ग्रहान्ग्रहाधिदेवांश्च स्थाप्य होमं समारभेत् ॥ ९३.४ ॥ ग्रहयज्ञस्त्रिधा प्रोक्तः पुराणश्रुतिकोविदैः । प्रथमोऽयुतहोमः स्याल्लक्षहोमस्ततः परम् ॥ ९३.५ ॥ तृतीयः कोटिहोमस्तु सर्वकामफलप्रदः । अयुतेनाहुतीनां च नवग्रहमखः स्मृतः ॥ ९३.६ ॥ तस्य तावद्विधिं वक्ष्ये पुराणश्रुतिभाषितम् । गर्तस्योत्तरपूर्वेण वितस्तिद्वयविस्तृताम् ॥ ९३.७ ॥ वप्रद्वयावृतां वेदिं वितस्त्युच्छ्रायसंमिताम् । संस्थापनाय देवानां चतुरस्रामुदङ्मुखाम् ॥ ९३.८ ॥ अग्निप्रणयनं कृत्वा तस्यामावाहयेत्सुरान् । देवतानां ततः स्थाप्या विंशतिर्द्वादशाधिका ॥ ९३.९ ॥ सूर्यः सोमस्तथा भौमो बुधजीवसितार्कजाः । राहुः केतुरिति प्रोक्ता ग्रहा लोकहितावहाः ॥ ९३.१० ॥ मध्ये तु भास्करं विद्याल्लोहितं दक्षिणेन तु । उत्तरेण गुरुं विद्याद्बुधं पूर्वोत्तरेण तु ॥ ९३.११ ॥ पूर्वेण भार्गवं विद्यात्सोमं दक्षिणपूर्वके । पश्चिमेन शनिं विद्याद्राहुं पश्चिमदक्षिणे । पश्चिमोत्तरतः केतुं स्थापयेच्छुक्लतण्डुलैः ॥ ९३.१२ ॥ भास्करस्येश्वरं विद्यादुमां च शशिनस्तथा । स्कन्दमङ्गारकस्यापि बुधस्य च तथा हरिम् ॥ ९३.१३ ॥ ब्रह्माणं च गुरोर्विद्याच्छुक्रस्यापि शचीपतिम् । शनैश्चरस्य तु यमं राहोः कालं तथैव च ॥ ९३.१४ ॥ केतोर्वै चित्रगुप्तं च सर्वेषामधिदेवताः । अग्निरापः क्षितिर्विष्णुरिन्द्र ऐन्द्री च देवताः ॥ ९३.१५ ॥ प्रजापतिश्च सर्पाश्च ब्रह्मा प्रत्यधिदेवताः । विनायकं तथा दुर्गां वायुराकाशमेव च । आवाहयेद्व्याहृतिभिस्तथैवाश्विकुमारकौ ॥ ९३.१६ ॥ संस्मरेद्रक्तमादित्यमङ्गारकसमन्वितम् । सोमशुक्रौ तथा श्वेतो बुधजीवौ च पिङ्गलौ । मन्दराहू तथा कृष्णौ धूम्रं केतुगणं विदुः ॥ ९३.१७ ॥ ग्रहवर्णानि देयानि वासांसि कुसुमानि च । धूपामोदोऽत्र सुरभिरुपरिष्टाद्वितानिकम् । शोभनं स्थापयेत्प्राज्ञः फलपुष्पसमन्वितम् ॥ ९३.१८ ॥ गुडौदनं रवेर्दद्यात्सोमाय घृतपायसम् । अङ्गारकाय संयावं बुधाय क्षीरषष्टिके ॥ ९३.१९ ॥ दध्योदनं च जीवाय शक्राय च घृतौदनम् । शनैश्चराय कृसरामजामांसं च राहवे । चित्रौदनं च केतुभ्यः सर्वभक्ष्यैरथार्चयेत् ॥ ९३.२० ॥ प्रागुत्तरेण तस्माच्च दध्यक्षतविभूषितम् । चूतपल्लवसंछन्नं फलवस्त्रयुगान्वितम् ॥ ९३.२१ ॥ पञ्चरत्नसमायुक्तं पञ्चभङ्गसमन्वितम् । स्थापयेदव्रणं कुम्भं वरुणं तत्र विन्यसेत् ॥ ९३.२२ ॥ गङ्गाद्याः सरितः सर्वाः समुद्रांश्च सरांसि च । गजाश्वरथ्यावल्मीकसंगमाद्ध्रदगोकुलात् ॥ ९३.२३ ॥ मृदमानीय विप्रेन्द्र सर्वौषधिजलान्विताम् । स्नानार्थं विन्यसेत्तत्र यजमानस्य धर्मवित् ॥ ९३.२४ ॥ सर्वे समुद्राः सरितः सरांसि च नदास्तथा । आयान्तु यजमानस्य दुरितक्षयकारकाः ॥ ९३.२५ ॥ एवमावाहयेदेतानमरान्मुनिसत्तम । होमं समारभेत्सर्पिर्यवव्रीहितिलादिना ॥ ९३.२६ ॥ अर्कः पलाशखदिरावपामार्गोऽथ पिप्पलः । औदुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात् ॥ ९३.२७ ॥ एकैकस्याष्टकशतमष्टविंशतिरेव वा । होतव्या मधुसर्पिर्भ्यां दध्ना चैव समन्विताः ॥ ९३.२८ ॥ प्रादेशमात्रा अशिफा अशाखा अपलाशिनीः । समिधः कल्पयेत्प्राज्ञः सर्वकर्मसु सर्वदा ॥ ९३.२९ ॥ देवानामपि सर्वेषामुपांशु परमार्थवित् । स्वेन स्वेनैव मन्त्रेण होतव्याः समिधः पृथक् ॥ ९३.३० ॥ होतव्यं च घृताभ्यक्तं चरुभक्षादिकं पुनः । मन्त्रैर्दशाहुतीर्हुत्वा होमं व्याहृतिभिस्ततः ॥ ९३.३१ ॥ उदङ्मुखाः प्राङ्मुखा वा कुर्युर्ब्राह्मणपुंगवाः । मन्त्रवन्तश्च कर्तव्याश्चरवः प्रतिदैवतम् ॥ ९३.३२ ॥ हुत्वा च तांश्चरून्सम्यक्ततो होमं समाचरेत् । आकृष्णेति च सूर्याय होमः कार्यो द्विजन्मना ॥ ९३.३३ ॥ आप्यायस्वेति सोमाय मन्त्रेण जुहुयात्पुनः । अग्निर्मूर्धा दिवो मन्त्र इति भौमाय कीर्तयेत् ॥ ९३.३४ ॥ अग्ने विवस्वदुषस इति सोमसुताय वै । बृहस्पते परिदीया रथेनेति गुरोर्मतः ॥ ९३.३५ ॥ शुक्रं ते अन्यदिति च शुक्रस्यापि निगद्यते । शनैश्चरायेति पुनः शं नो देवीति होमयेत् ॥ ९३.३६ ॥ कया नश्चित्र आभुवदिति राहोरुदाहृतः । केतुं कृण्वन्नपि ब्रूयात्केतूनामपि शान्तये ॥ ९३.३७ ॥ आ वो राजेति रुद्रस्य बलिहोमं समाचरेत् । आपो हि ष्ठेत्युमायास्तु स्योनेति स्वामिनस्तथा ॥ ९३.३८ ॥ विष्णोरिदं विष्णुरिति तमीशेति स्वयम्भुवः । इन्द्रमिद्देवतातेति इन्द्राय जुहुयात्ततः ॥ ९३.३९ ॥ तथा यमस्य चायं गौरिति होमः प्रकीर्तितः । कालस्य ब्रह्म जज्ञानमिति मन्त्रः प्रशस्यते ॥ ९३.४० ॥ चित्रगुप्तस्य चाज्ञातमिति मन्त्रविदो विदुः । अग्निं दूतं वृणीमह इति वह्नेरुदाहृतः ॥ ९३.४१ ॥ उदुत्तमं वरुणमित्यपां मन्त्रः प्रकीर्तितः । भूमेः पृथिव्यन्तरिक्षमिति वेदेषु पठ्यते ॥ ९३.४२ ॥ सहस्रशीर्षा पुरुष इति विष्णोरुदाहृतः । इन्द्रायेन्दो मरुत्वत इति शक्रस्य शस्यते ॥ ९३.४३ ॥ उत्तानपर्णे सुभगे इति देव्याः समाचरेत् । प्रजापतेः पुनर्होमः प्रजापतिरिति स्मृतः ॥ ९३.४४ ॥ नमोऽस्तु सर्पेभ्य इति सर्पाणां मन्त्र उच्यते । एष ब्रह्मा य ऋत्विग्भ्य इति ब्रह्मण्युदाहृतः ॥ ९३.४५ ॥ विनायकस्य चानूनमिति मन्त्रो बुधैः स्मृतः । जातवेदसे सुनवाम दुर्गामन्त्रोऽयमुच्यते ॥ ९३.४६ ॥ आदित्प्रत्नस्य रेतस आकाशस्य उदाहृतः । क्राणा शिशुर्महीनां च वायोर्मन्त्रः प्रकीर्तितः ॥ ९३.४७ ॥ एषो उषा अपूर्व्या इत्यश्विनोर्मन्त्र उच्यते । पूर्णाहुतिस्तु मूर्धानं दिव इत्यभिपातयेत् ॥ ९३.४८ ॥ अथाभिषेकमन्त्रेण वाद्यमङ्गलगीतकैः । पूर्णकुम्भेन तेनैव होमान्ते प्रागुदङ्मुखम् ॥ ९३.४९ ॥ अव्यङ्गावयवैर्ब्रह्मन् हेमस्रग्दामभूषितैः । यजमानस्य कर्तव्यं चतुर्भिः स्नपनं द्विजैः ॥ ९३.५० ॥ सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः । वासुदेवो जगन्नाथस्तथा संकर्षणो विभुः । प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते ॥ ९३.५१ ॥ आखण्डलोऽग्निर्भगवान् यमो वै निरृतिस्तथा । वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः । ब्रह्मणा सहितः शेषो दिक्पालास्त्वामवन्तु ते ॥ ९३.५२ ॥ कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः । बुद्धिर्लज्जा वपुः शान्तिस्तुष्टिः क्रान्तिश्च मातरः । एतास्त्वामभिषिञ्चन्तु धर्मपत्न्यः समागताः ॥ ९३.५३ ॥ आदित्यश्चन्द्रमा भौमो बुधो जीवः सितोऽर्कजः । ग्रहास्त्वामभिषिञ्चन्तु राहुः केतुश्च तर्पिताः ॥ ९३.५४ ॥ देवदानवगन्धर्वा यक्षराक्षसपन्नगाः । ऋषयो मुनयो गावो देवमातर एव च ॥ ९३.५५ ॥ देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसां गणाः । अस्त्राणि सर्वशस्त्राणि राजानो वाहनानि च ॥ ९३.५६ ॥ औषधानि च रत्नानि कालस्यावयवाश्च ये । सरितः सागराः शैलास्तीर्थानि जलदा नदाः । एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये ॥ ९३.५७ ॥ ततः शुक्लाम्बरधरः शुक्लगन्धानुलेपनः । सर्वौषधैः सर्वगन्धैः स्नापितो द्विजपुंगवैः ॥ ९३.५८ ॥ यजमानः सपत्नीक ऋत्विजः सुसमाहितान् । दक्षिणाभिः प्रयत्नेन पूजयेद्गतविस्मयः ॥ ९३.५९ ॥ सूर्याय कपिलां धेनुं शङ्खं दद्यात्तथेन्दवे । रक्तं धुरंधरं दद्याद्भौमाय च ककुद्मिनम् ॥ ९३.६० ॥ बुधाय जातरूपं तु गुरवे पीतवाससी । श्वेताश्वं दैत्यगुरवे कृष्णां गामर्कसूनवे ॥ ९३.६१ ॥ आयसं राहवे दद्यात्केतुभ्यश्छागमुत्तमम् । सुवर्णेन समा कार्या यजमानेन दक्षिणा ॥ ९३.६२ ॥ सर्वेषामथवा गावो दातव्या हेमभूषिताः । सुवर्णमथवा दद्याद्गुरुर्वा येन तुष्यति । समन्त्रेणैव दातव्याः सर्वाः सर्वत्र दक्षिणाः ॥ ९३.६३ ॥ कपिले सर्वदेवानां पूजनीयासि रोहिणी । तीर्थदेवमयी यस्मादतः शान्तिं प्रयच्छ मे ॥ ९३.६४ ॥ पुण्यस्त्वं शङ्ख पुण्यानां मङ्गलानां च मङ्गलम् । विष्णुना विधृतश्चासि ततः शान्तिं प्रयच्छ मे ॥ ९३.६५ ॥ धर्मस्त्वं वृषरूपेण जगदानन्दकारक । अष्टमूर्तेरधिष्ठानमतः शान्तिं प्रयच्छ मे ॥ ९३.६६ ॥ हिरण्यगर्भगर्भस्त्वं हेमबीजं विभावसोः । अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥ ९३.६७ ॥ पीतवस्त्रयुगं यस्माद्वासुदेवस्य वल्लभम् । प्रदानात्तस्य मे विष्णो ह्यतः शान्तिं प्रयच्छ मे ॥ ९३.६८ ॥ विष्णुस्त्वमश्वरूपेण यस्मादमृतसम्भवः । चन्द्रार्कवाहनो नित्यमतः शान्तिं प्रयच्छ मे ॥ ९३.६९ ॥ यस्मात्त्वं पृथिवी सर्वा धेनुः केशवसंनिभा । सर्वपापहरा नित्यमतः शान्तिं प्रयच्छ मे ॥ ९३.७० ॥ यस्मादायासकर्माणि तवाधीनानि सर्वदा । लाङ्गलाद्यायुधादीनि तस्माच्छान्तिं प्रयच्छ मे ॥ ९३.७१ ॥ यस्मात्त्वं सर्वयज्ञानामङ्गत्वेन व्यवस्थितः । यानं विभावसोर्नित्यमतः शान्तिं प्रयच्छ मे ॥ ९३.७२ ॥ गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश । यस्मात्तस्माच्छ्रिये मे स्यादिह लोके परत्र च ॥ ९३.७३ ॥ यस्मादशून्यं शयनं केशवस्य च सर्वदा । शय्या ममाप्यशून्यास्तु दत्ता जन्मनि जन्मनि ॥ ९३.७४ ॥ यथा रत्नेषु सर्वेषु सर्वे देवाः प्रतिष्ठिताः । तथा रत्नानि यच्छन्तु रत्नदानेन मे सुराः ॥ ९३.७५ ॥ यथा भूमिप्रदानस्य कलां नार्हन्ति षोडशीम् । दानान्यन्यानि मे शान्तिर्भूमिदानाद्भवत्विह ॥ ९३.७६ ॥ एवं सम्पूजयेद्भक्त्या वित्तशाठ्येन वर्जितः । रत्नकाञ्चनवस्त्रौघैर्धूपमाल्यानुलेपनैः ॥ ९३.७७ ॥ अनेन विधिना यस्तु ग्रहपूजां समाचरेत् । सर्वान्कामानवाप्नोति प्रेत्य स्वर्गे महीयते ॥ ९३.७८ ॥ यस्तु पीडाकरो नित्यमल्पवित्तस्य वा ग्रहः । तं च यत्नेन सम्पूज्य शेषानप्यर्चयेद्बुधः ॥ ९३.७९ ॥ ग्रहा गावो नरेन्द्राश्च ब्राह्मणाश्च विशेषतः । पूजिताः पूजयन्त्येते निर्दहन्त्यवमानिताः ॥ ९३.८० ॥ यथा बाणप्रहाराणां कवचं भवति वारणम् । तद्वद्दैवोपघातानां शान्तिर्भवति वारणम् ॥ ९३.८१ ॥ तस्मान्न दक्षिणाहीनं कर्तव्यं भूतिमिच्छता । सम्पूर्णया दक्षिणया यस्मादेकोऽपि तुष्यति ॥ ९३.८२ ॥ सदैवायुतहोमोऽयं नवग्रहमखे स्थितः । विवाहोत्सवयज्ञेषु प्रतिष्ठादिषु कर्मसु ॥ ९३.८३ ॥ निर्विघ्नार्थं मुनिश्रेष्ठ तथोद्वेगाद्भुतेषु च । कथितोऽयुतहोमोऽयं लक्षहोममतः शृणु ॥ ९३.८४ ॥ सर्वकामाप्तये यस्माल्लक्षहोमं विदुर्बुधाः । पितॄणां वल्लभं साक्षाद्भुक्तिमुक्तिफलप्रदम् ॥ ९३.८५ ॥ ग्रहताराबलं लब्ध्वा कृत्वा ब्राह्मणवाचनम् । गृहस्योत्तरपूर्वेण मण्डपं कारयेद्बुधः ॥ ९३.८६ ॥ रुद्रायतनभूमौ वा चतुरस्रमुदङ्मुखम् । दशहस्तमथाष्टौ वा हस्तान्कुर्याद्विधानतः ॥ ९३.८७ ॥ प्रागुदक्प्लवनां भूमिं कारयेद्यत्नतो बुधः । प्रागुत्तरं समासाद्य प्रदेशं मण्डपस्य तु ॥ ९३.८८ ॥ शोभनं कारयेत्कुण्डं यथावल्लक्षणान्वितम् । चतुरस्रं समन्तात्तु योनिवक्त्रं समेखलम् ॥ ९३.८९ ॥ चतुरङ्गुलविस्तारा मेखला तद्वदुच्छ्रिता । प्रागुदक्प्लवना कार्या सर्वतः समवस्थिता ॥ ९३.९० ॥ शान्त्यर्थं सर्वलोकानां नवग्रहमखः स्मृतः । मानहीनाधिकं कुण्डमनेकभयदं भवेत् । यस्मात्तस्मात्सुसम्पूर्णं शान्तिकुण्डं विधीयते ॥ ९३.९१ ॥ अस्माद्दशगुणः प्रोक्तो लक्षहोमः स्वयम्भुवा । आहुतीभिः प्रयत्नेन दक्षिणाभिस्तथैव च ॥ ९३.९२ ॥ द्विहस्तविस्तृतं तद्वच्चतुर्हस्तायतं पुनः । लक्षहोमे भवेत्कुण्डं योनिवक्त्रं त्रिमेखलम् ॥ ९३.९३ ॥ तस्य चोत्तरपूर्वेण वितस्तित्रयसंस्थितम् । प्रागुदक्प्लवनं तच्च चतुरस्रं समन्ततः ॥ ९३.९४ ॥ विष्कम्भार्धोच्छ्रितं प्रोक्तं स्थण्डिलं विश्वकर्मणा । संस्थापनाय देवानां वप्रत्रयसमावृतम् ॥ ९३.९५ ॥ द्व्यङ्गुलो ह्युच्छ्रितो वप्रः प्रथमः स उदाहृतः । अङ्गुलोच्छ्रयसंयुक्तं वप्रद्वयमथोपरि ॥ ९३.९६ ॥ त्र्यङ्गुलस्य च विस्तारः सर्वेषां कथ्यते बुधैः । दशाङ्गुलोच्छ्रिता भित्तिः स्थण्डिले स्यात्तथोपरि । तस्मिन्नावाहयेद्देवान् पूर्ववत्पुष्पतण्डुलैः ॥ ९३.९७ ॥ आदित्याभिमुखाः सर्वाः साधिप्रत्यधिदेवताः । स्थापनीया मुनिश्रेष्ठ नोत्तरेण पराङ्मुखाः ॥ ९३.९८ ॥ गरुत्मानधिकस्तत्र संपूज्यः श्रियमिच्छता । सामध्वनिशरीरस्त्वं वाहनं परमेष्ठिनः । विषपापहरो नित्यमतः शान्तिं प्रयच्छ मे ॥ ९३.९९ ॥ पूर्ववत्कुम्भमामन्त्र्य तद्वद्धोमं समाचरेत् । सहस्राणां शतं हुत्वा समित्संख्याधिकं पुनः । घृतकुम्भवसोर्धारां पातयेदनलोपरि ॥ ९३.१०० ॥ औदुम्बरीं तथार्द्रां च ऋज्वीं कोटरवर्जिताम् । बाहुमात्रां स्रुचं कृत्वा ततः स्तम्भद्वयोपरि । घृतधारां तया सम्यगग्नेरुपरि पातयेत् ॥ ९३.१०१ ॥ श्रावयेत्सूक्तमाग्नेयं वैष्णवं रौद्रमैन्दवम् । महावैश्वानरं साम ज्येष्ठसाम च वाचयेत् ॥ ९३.१०२ ॥ स्नानं च यजमानस्य पूर्ववत्स्वस्तिवाचनम् । दातव्या यजमानेन पूर्ववद्दक्षिणाः पृथक् ॥ ९३.१०३ ॥ कामक्रोधविहीनेन ऋत्विग्भ्यः शान्तचेतसा । नवग्रहमखे विप्राश्चत्वारो वेदवेदिनः ॥ ९३.१०४ ॥ अथवा ऋत्विजौ शान्तौ द्वावेव श्रुतिकोविदौ । कार्यावयुतहोमे तु न प्रसज्येत विस्तरे ॥ ९३.१०५ ॥ तद्वच्च दश चाष्टौ च लक्षहोमे तु ऋत्विजः । कर्तव्याः शक्तितस्तद्वच्चत्वारो वा विमत्सरः ॥ ९३.१०६ ॥ नवग्रहमखात्सर्वं लक्षहोमे दशोत्तरम् । भक्ष्यान्दद्यान्मुनिश्रेष्ठ भूषणान्यपि शक्तितः ॥ ९३.१०७ ॥ शयनानि सवस्त्राणि हैमानि कटकानि च । कर्णाङ्गुलिपवित्राणि कण्ठसूत्राणि शक्तिमान् ॥ ९३.१०८ ॥ न कुर्याद्दक्षिणाहीनं वित्तशाठ्येन मानवः । अददल्लोभतो मोहात्कुलक्षयमवाप्नुते ॥ ९३.१०९ ॥ अन्नदानं यथाशक्त्या कर्तव्यं भूतिमिच्छता । अन्नहीनः कृतो यस्माद्दुर्भिक्षफलदो भवेत् ॥ ९३.११० ॥ अन्नहीनो दहेद्राष्ट्रं मन्त्रहीनस्तु ऋत्विजः । यष्टारं दक्षिणाहीनं नास्ति यज्ञसमो रिपुः ॥ ९३.१११ ॥ न वाप्यल्पधनः कुर्याल्लक्षहोमं नरः क्वचित् । यस्मात्पीडाकरो नित्यं यज्ञे भवति विग्रहः ॥ ९३.११२ ॥ तमेव पूजयेद्भक्त्या द्वौ वा त्रीन्वा यथाविधि । एकमप्यर्चयेद्भक्त्या ब्राह्मणं वेदपारगम् । दक्षिणाभिः प्रयत्नेन न बहूनल्पवित्तवान् ॥ ९३.११३ ॥ लक्षहोमस्तु कर्तव्यो यथावित्तं भवेद्बहु । यतः सर्वानवाप्नोति कुर्वन्कामान्विधानतः ॥ ९३.११४ ॥ पूज्यते शिवलोके च वस्वादित्यमरुद्गणैः । यावत्कल्पशतान्यष्टावथ मोक्षमवाप्नुयात् ॥ ९३.११५ ॥ सकामो यस्त्विमं कुर्याल्लक्षहोमं यथाविधि । स तं काममवाप्नोति पदमानन्त्यमश्नुते ॥ ९३.११६ ॥ पुत्रार्थी लभते पुत्रान् धनार्थी लभते धनम् । भार्यार्थी शोभनां भार्यां कुमारी च शुभं पतिम् ॥ ९३.११७ ॥ भ्रष्टराज्यस्तथा राज्यं श्रीकामः श्रियमाप्नुयात् । यं यं प्रार्थयते कामं स वै भवति पुष्कलः । निष्कामः कुरुते यस्तु स परं ब्रह्म गच्छति ॥ ९३.११८ ॥ अस्माच्छतगुणः प्रोक्तः कोटिहोमः स्वयम्भुवा । आहुतीभिः प्रयत्नेन दक्षिणाभिः फलेन च ॥ ९३.११९ ॥ पूर्ववद्ग्रहदेवानामावाहनविसर्जने । होममन्त्रास्त एवोक्ताः खाने दाने तथैव च । कुण्डमण्डपवेदीनां विशेषोऽयं निबोध मे ॥ ९३.१२० ॥ कोटिहोमे चतुर्हस्तं चतुरस्रं तु सर्वतः । योनिवक्त्रद्वयोपेतं तदप्याहुस्त्रिमेखलम् ॥ ९३.१२१ ॥ द्व्यङ्गुलाभ्युच्छ्रिता कार्या प्रथमा मेखला बुधैः । त्र्यङ्गुलाभ्युच्छ्रिता तद्वद्द्वितीया परिकीर्तिता ॥ ९३.१२२ ॥ उच्छ्रायविस्तराभ्यां च तृतीया चतुरङ्गुला । द्व्यङ्गुलश्चेति विस्तारः पूर्वयोरेव शस्यते ॥ ९३.१२३ ॥ वितस्तिमात्रा योनिः स्यात्षट्सप्ताङ्गुलविस्तृता । कूर्मपृष्ठोन्नता मध्ये पार्श्वयोश्चाङ्गुलोच्छ्रिता ॥ ९३.१२४ ॥ गजौष्ठसदृशी तद्वदायता छिद्रसंयुता । एतत्सर्वेषु कुण्डेषु योनिलक्षणमुच्यते ॥ ९३.१२५ ॥ मेखलोपरि सर्वत्र अश्वत्थदलसंनिभम् । वेदी च कोटिहोमे स्याद्वितस्तीनां चतुष्टयम् ॥ ९३.१२६ ॥ चतुरस्रा समन्ताच्च त्रिभिर्वप्रैस्तु संयुता । वप्रप्रमाणं पूर्वोक्तं वेदीनां च तथोच्छ्रयः ॥ ९३.१२७ ॥ तथा षोडशहस्तः स्यान्मण्डपश्च चतुर्मुखः । पूर्वद्वारे च संस्थाप्य बह्वृचं वेदपारगम् ॥ ९३.१२८ ॥ यजुर्विदं तथा याम्ये पश्चिमे सामवेदिनम् । अथर्ववेदिनं तद्वदुत्तरे स्थापयेद्बुधः ॥ ९३.१२९ ॥ अष्टौ तु होमकाः कार्या वेदवेदाङ्गवेदिनः । एवं द्वादश विप्राः स्युर्वस्त्रमाल्यानुलेपनैः । पूर्ववत्पूजयेद्भक्त्या वस्त्राभरणभूषणैः ॥ ९३.१३० ॥ रात्रिसूक्तं च रौद्रं च पावमानं सुमङ्गलम् । पूर्वतो बह्वृचः शान्तिं पठन्नास्ते ह्युदङ्मुखः ॥ ९३.१३१ ॥ शाक्तं शाक्रं च सौम्यं च कौष्माण्डं शान्तिमेव च । पाठयेद्दक्षिणद्वारि यजुर्वेदिनमुत्तमम् ॥ ९३.१३२ ॥ सुपर्णमथ वैराजमाग्नेयं रुद्रसंहिताम् । ज्येष्ठमास तथा शान्तिं छन्दोगः पश्चिमे जपेत् ॥ ९३.१३३ ॥ शान्तिसूक्तं च सौरं च तथा शाकुनकं शुभम् । पौष्टिकं च महाराज्यमुत्तरेणाप्यथर्ववित् ॥ ९३.१३४ ॥ पञ्चभिः सप्तभिर्वापि होमः कार्योऽत्र पूर्ववत् । स्नाने दाने च मन्त्राः स्युस्त एव मुनिसत्तम ॥ ९३.१३५ ॥ वसोर्धाराविधानं च लक्षहोमे विशिष्यते । अनेन विधिना यस्तु कोटिहोमं समाचरेत् । सर्वान्कामानवाप्नोति ततो विष्णुपदं व्रजेत् ॥ ९३.१३६ ॥ यः पठेच्छृणुयाद्वापि ग्रहयज्ञत्रयं नरः । सर्वपापविशुद्धात्मा पदमिन्द्रस्य गच्छति ॥ ९३.१३७ ॥ अश्वमेधसहस्राणि दश चाष्टौ च धर्मवित् । कृत्वा यत्फलमाप्नोति कौटिहोमात्तदश्नुते ॥ ९३.१३८ ॥ ब्रह्महत्यासहस्राणि भ्रूणहत्यार्बुदानि च । कोटिहोमेन नश्यन्ति यथावच्छिवभाषितम् ॥ ९३.१३९ ॥ वश्यकर्माभिचारादि तथैवोच्चाटनादिकम् । नवग्रहमखं कृत्वा ततः काम्यं समाचरेत् ॥ ९३.१४० ॥ अन्यथा फलदं पुंसां न काम्यं जायते क्वचित् । तस्मादयुतहोमस्य विधानं पूर्वमाचरेत् ॥ ९३.१४१ ॥ वृत्तं वोच्चाटने कुण्डं तथा च वश्यकर्मणि । त्रिमेखलं चैकवक्त्रमरत्निर्विस्तरेण तु ॥ ९३.१४२ ॥ पलाशसमिधः शस्ता मधुगोरोचनान्विताः । चन्दनागुरुणा तद्वत्कुङ्कुमेनाभिषिञ्चिताः ॥ ९३.१४३ ॥ होमयेन्मधुसर्पिर्भ्यां बिल्वानि कमलानि च । सहस्राणि दशैवोक्तं सर्वदैव स्वयम्भुवा ॥ ९३.१४४ ॥ वश्यकर्मणि बिल्वानां पद्मानां चैव धर्मवित् । सुमित्रिया न आप ओषधय इति होमयेत् ॥ ९३.१४५ ॥। न चात्र स्थापनं कार्यं न च कुम्भाभिषेचनम् । स्नानं सर्वौषधैः कृत्वा शुक्लपुष्पाम्बरो गृही ॥ ९३.१४६ ॥ कण्ठसूत्रैः सकनकैर्विप्रान् समभिपूजयेत् । सूक्ष्मवस्त्राणि देयानि शुक्ला गावः सकाञ्चनाः ॥ ९३.१४७ ॥ अवश्यानि वशी कुर्यात्सर्वशत्रुबलान्यपि । अमित्राण्यपि मित्राणि होमोऽयं पापनाशनः ॥ ९३.१४८ ॥ विद्वेषणेऽभिचारे च त्रिकोणं कुण्डमिष्यते । द्विमेखलं कोणमुखं हस्तमात्रं च सर्वशः ॥ ९३.१४९ ॥ होमं कुर्युस्ततो विप्रा रक्तमाल्यानुलेपनाः । निवीतलोहितोष्णीषा लोहिताम्बरधारिणः ॥ ९३.१५० ॥ नववायसरक्ताढ्यपात्रत्रयसमन्विताः । समिधो वामहस्तेन श्येनास्थिबलसंयुताः । होतव्या मुक्तकेशैस्तु ध्यायद्भिरशिवं रिपौ ॥ ९३.१५१ ॥ दुर्मित्रियास्तस्मै सन्तु तथा हुंफडितीति च । श्येनाभिचारमन्त्रेण क्षुरं समभिमन्त्र्य च ॥ ९३.१५२ ॥ प्रतिरूपं रिपोः कृत्वा क्षुरेण परिकर्तयेत् । रिपुरूपस्य शकलान् यथैवाग्नौ विनिष्क्षिपेत् ॥ ९३.१५३ ॥ ग्रहयज्ञविधानान्ते सदैवाभिचरन्पुनः । विद्वेषणं तथा कुर्वन्नेतदेव समाचरेत् ॥ ९३.१५४ ॥ इहैव फलदं पुंसामेतन्नामुत्र शोभनम् । तस्माच्छान्तिकमेवात्र कर्तव्यं भूतिमिच्छता ॥ ९३.१५५ ॥ ग्रहयज्ञत्रयं कुर्याद्यस्त्वकाम्येन मानवः । स विष्णोः पदमाप्नोति पुनरावृत्तिदुर्लभम् ॥ ९३.१५६ ॥ य इदं शृणुयान्नित्यं श्रावयेद्वापि मानवः । न तस्य ग्रहपीडा स्यान्न च बन्धुजनक्षयः ॥ ९३.१५७ ॥ ग्रहयज्ञत्रयं गेहे लिखितं यत्र तिष्ठति । न पीडा तत्र बालानां न रोगो न च बन्धनम् ॥ ९३.१५८ ॥ अशेषयज्ञफलदं निःशेषाघविनाशनम् । कोटिहोमं विदुः प्राज्ञा भुक्तिमुक्तिफलप्रदम् ॥ ९३.१५९ ॥ अश्वमेधफलं प्राहुर्लक्षहोमं सुरोत्तमाः । द्वादशाहमखस्तद्वन्नवग्रहमखः स्मृतः ॥ ९३.१६० ॥ इति कथितमिदानीमुत्सवानन्दहेतोः सकलकलुषहारी देवयज्ञाभिषेकः । परिपठति य इत्थं यः शृणोति प्रसङ्गादभिभवति स शत्रूनायुरारोग्ययुक्तः ॥ ९३.१६१ ॥ ______________________________________________________ मत्स्यपुराण ९४ *शिव उवाच पद्मासनः पद्मकरः पद्मगर्भसमद्युतिः । सप्ताश्वः सप्तरज्जुश्च द्विभुजः स्यात्सदा रविः ॥ ९४.१ ॥ श्वेतः श्वेताम्बरधरः श्वेताश्वः श्वेतवाहनः । गदापाणिर्द्विबाहुश्च कर्तव्यो वरदः शशी ॥ ९४.२ ॥ रक्तमाल्याम्बरधरः शक्तिशूलगदाधरः । चतुर्भुजः श्वेतरोमा वरदः स्याद्धरासुतः ॥ ९४.३ ॥ पीतमाल्याम्बरधरः कर्णिकारसमद्युतिः । खड्गचर्मगदापाणिः सिंहस्थो वरदो बुधः ॥ ९४.४ ॥ देवदैत्यगुरू तद्वत्पीतश्वेतौ चतुर्भुजौ । दण्डिनौ वरदौ कार्यौ साक्षसूत्रकमण्डलू ॥ ९४.५ ॥ इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः । बाणबाणासनधरः कर्तव्योऽर्कसुतस्तथा ॥ ९४.६ ॥ करालवदनः खड्गचर्मशूली वरप्रदः । नीलसिंहासनस्थश्च राहुरत्र प्रशस्यते ॥ ९४.७ ॥ धूम्रा द्विबाहवः सर्वे गदिनो विकृताननाः । गृध्रासनगता नित्यं केतवः स्युर्वरप्रदाः ॥ ९४.८ ॥ सर्वे किरीटिनः कार्या ग्रहा लोकहितावहाः । स्वाङ्गुलेनोच्छ्रिताः सर्वे शतमष्टोत्तरं सदा ॥ ९४.९ ॥ ______________________________________________________ मत्स्यपुराण ९५ *नारद उवाच भगवन्भूतभव्येश तथान्यदपि यच्छ्रुतम् । भुक्तिमुक्तिफलायालं तत्पुनर्वक्तुमर्हसि ॥ ९५.१ ॥ एवमुक्तोऽब्रवीच्छम्भुरयं वाङ्मयपारगः । मत्समस्तपसा ब्रह्मन् पुराणश्रुतिविस्तरैः ॥ ९५.२ ॥ धर्मोऽयं वृषरूपेण नन्दी नाम गणाधिपः । धर्मान्माहेश्वरान् वक्ष्यत्यतःप्रभृति नारद ॥ ९५.३ ॥ *मत्स्य उवाच इत्युक्त्वा देवदेवेशस्तत्रैवान्तरधीयत । नारदोऽपि हि शुश्रूषुरपृच्छन्नन्दिकेश्वरम् । आदिष्टस्त्वं शिवेनेह वद माहेश्वरं व्रतम् ॥ ९५.४ ॥ *नन्दिकेश्वर उवाच शृणुष्वावहितो ब्रह्मन् वक्ष्ये माहेश्वरं व्रतम् । त्रिषु लोकेषु विख्याता नाम्ना शिवचतुर्दशी ॥ ९५.५ ॥ मार्गशीर्षत्रयोदश्यां सितायामेकभोजनः । प्रार्थयेद्देवदेवेशं त्वामहं शरणं गतः ॥ ९५.६ ॥ चतुर्दश्यां निराहारः सम्यगभ्यर्च्य शंकरम् । सुवर्णवृषभं दत्त्वा भोक्ष्यामि च परेऽहनि ॥ ९५.७ ॥ एवं नियमकृत्सुप्त्वा प्रातरुत्थाय मानवः । कृतस्नानजपःपश्चादुमया सह शंकरम् । पूजयेत्कमलैः शुभ्रैर्गन्धमाल्यानुलेपनैः ॥ ९५.८ ॥ पादौ नमः शिवायेति शिरः सर्वात्मने नमः । त्रिनेत्रायेति नेत्राणि ललाटं हरये नमः ॥ ९५.९ ॥ मुखमिन्दुमुखायेति श्रीकण्ठायेति कंधराम् । सद्योजाताय कर्णौ तु वामदेवाय वै भुजौ ॥ ९५.१० ॥ अघोरहृदयायेति हृदयं चाभिपूजयेत् । स्तनौ तत्पुरुषायेति तथेशानाय चोदरम् ॥ ९५.११ ॥ पार्श्वौ चानन्तधर्माय ज्ञानभूताय वै कटिम् । ऊरू चानन्तवैराग्यसिंहायेत्यभिपूजयेत् ॥ ९५.१२ ॥ अनन्तैश्वर्यनाथाय जानुनी चार्चयेद्बुधः । प्रधानाय नमो जङ्घे गुल्फौ व्योमात्मने नमः ॥ ९५.१३ ॥ व्योमकेशात्मरूपाय केशान्पृष्ठं च पूजयेत् । नमः पुष्ट्यै नमस्तुष्ट्यै पार्वतीं चापि पूजयेत् ॥ ९५.१४ ॥ ततस्तु वृषभं हैममुदकुम्भसमन्वितम् । शुक्लमाल्याम्बरधरं पञ्चरत्नसमन्वितम् । भक्ष्यैर्नानाविधैर्युक्तं ब्राह्मणाय निवेदयेत् ॥ ९५.१५ ॥ प्रीयतां देवदेवोऽत्र सद्योजातः पिनाकधृक् । ततो विप्रान्समाहूय तर्पयेद्भक्तितः शुभान् । पृषदाज्यं च संप्राश्य स्वपेद्भूमावुदङ्मुखः ॥ ९५.१६ ॥ पञ्चदश्यां च सम्पूज्य विप्रान्भुञ्जीत वाग्यतः । तद्वत्कृष्णचतुर्दश्यामेतत्सर्वं समाचरेत् ॥ ९५.१७ ॥ चतुर्दशीषु सर्वासु कुर्यात्पूर्ववदर्चनम् । ये तु मासे विशेषाः स्युस्तान्निबोध क्रमादिह ॥ ९५.१८ ॥ मार्गशीर्षादिमासेषु क्रमादेतदुदीरयेत् । शंकराय नमस्तेऽस्तु नमस्ते करवीरक ॥ ९५.१९ ॥ त्र्यम्बकाय नमस्तेऽस्तु महेश्वरमतः परम् । नमस्तेऽस्तु महादेव स्थाणवे च ततः परम् ॥ ९५.२० ॥ नमः पशुपते नाथ नमस्ते शम्भवे पुनः । नमस्ते परमानन्द नमः सोमार्धधारिणे ॥ ९५.२१ ॥ नमो भीमाय इत्येवं त्वामहं शरणं गतः । गोमूत्रं गोमूयं क्षीरं दधि सर्पिः कुशोदकम् ॥ ९५.२२ ॥ पञ्चगव्यं ततो बिल्वं कर्पूरं चागुरुं यवाः । तिलाः कृष्णाश्च विधिवत्प्राशनं क्रमशः स्मृतम् । प्रतिमासं चतुर्दश्योरेकैकं प्राशनं स्मृतम् ॥ ९५.२३ ॥ मन्दारमालतीभिश्च तथा धत्तूरकैरपि । सिन्दुवारैरशोकैश्च मल्लिकाभिश्च पाटलैः ॥ ९५.२४ ॥ अर्कपुष्पैः कदम्बैश्च शतपत्त्र्या तथोत्पलैः । एकैकेन चतुर्दश्योरर्चयेत्पार्वतीपतिम् ॥ ९५.२५ ॥ पुनश्च कार्त्तिके मासे प्राप्ते संतर्पयेद्द्विजान् । अन्नैर्नानाविधैर्भक्ष्यैर्वस्त्रमाल्यविभूषणैः ॥ ९५.२६ ॥ कृत्वा नीलवृषोत्सर्गं श्रुत्युक्तविधिना नरः । उमामहेश्वरं हैमं वृषभं च गवा सह ॥ ९५.२७ ॥ मुक्ताफलाष्टकयुतं सितनेत्रपटावृताम् । सर्वोपस्करसंयुक्तां शय्यां दद्यात्सकुम्भकाम् ॥ ९५.२८ ॥ ताम्रपात्रोपरि पुनः शालितण्डुलसंयुतम् । स्थाप्य विप्राय शान्ताय वेदव्रतपराय च ॥ ९५.२९ ॥ ज्येष्ठसामविदे देयं नवकव्रतिने क्वचित् । गुणज्ञे श्रोत्रिये दद्यादाचार्ये तत्त्ववेदिनि ॥ ९५.३० ॥ अव्यङ्गाङ्गाय सौम्याय सदा कल्पाणकारिणे । सपत्नीकाय सम्पूज्य वस्त्रमाल्यविभूषणैः ॥ ९५.३१ ॥ गुरौ सति गुरोर्देयं तदभावे द्विजातये । न वित्तशाठ्यं कुर्वीत कुर्वन्दोषात्पतत्यधः ॥ ९५.३२ ॥ अनेन विधिना यस्तु कुर्याच्छिवचतुर्दशीम् । सोऽश्वमेधसहस्रस्य फलं प्राप्नोति मानवः ॥ ९५.३३ ॥ ब्रह्महत्यादिकं किंचिद्यदत्रामुत्र वा कृतम् । पितृभिर्भ्रातृभिर्वापि तत्सर्वं नाशमाप्नुयात् ॥ ९५.३४ ॥ दीर्घायुरारोग्यकुलान्नवृद्धिरत्राक्षयामुत्र चतुर्भुजत्वम् । गणाधिपत्यं दिवि कल्पकोटिशतान्युषित्वा पदमेति शम्भोः ॥ ९५.३५ ॥ न बृहस्पतिरप्यनन्तमस्याः फलमिन्दो न पितामहोऽपि वक्तुम् । न च सिद्धगणोऽप्यलं न चाहं यदि जिह्वायुतकोटयोऽपि वक्त्रे ॥ ९५.३६ ॥ भवत्यमरवल्लभः पठति यः स्मरेद्वा सदा शृणोत्यपि विमत्सरः सकलपापनिर्मोचनीम् । इमां शिवचतुर्दशीममरकामिनीकोटयः स्तुवन्ति तमनिन्दितं किमु समाचरेद्यः सदा ॥ ९५.३७ ॥ या वाथ नारी कुरुतेऽतिभक्त्या भर्तारमापृच्छ्य सुतान्गुरून्वा । सापि प्रसादात्परमेश्वरस्य परं पदं याति पिनाकपाणेः ॥ ९५.३८ ॥ ______________________________________________________ मत्स्यपुराण ९६ *नन्दिकेश्वर उवाच फलत्यागस्य माहात्म्यं यद्भवेच्छृणु नारद । यदक्षयं परं लोके सर्वकामफलप्रदम् ॥ ९६.१ ॥ मार्गशीर्षे शुभे मासि तृतीयायां मुने व्रतम् । द्वादश्यामथवाष्टम्यां चतुर्दश्यामथापि वा । आरभेच्छुक्लपक्षस्य कृत्वा ब्राह्मणवाचनम् ॥ ९६.२ ॥ अन्येष्वपि हि मासेषु पुण्येषु मुनिसत्तम । सदक्षिणं पायसेन भोजयेच्छक्तितो द्विजान् ॥ ९६.३ ॥ अष्टादशानां धान्यानामन्यच्च फलमूलकम् । वर्जयेदब्दमेकं तु ऋते औषधकारणम् । सवृषं काञ्चनं रुद्रं धर्मराजं च कारयेत् ॥ ९६.४ ॥ कूष्माण्डं मातुलिङ्गं च वार्ताकं पनसं तथा । आम्रातकं कपित्थानि कलिङ्गमथ वालुकम् ॥ ९६.५ ॥ श्रीफलाश्वत्थबदरं जम्बीरं कदलीफलम् । काश्मरं दाडिमं शक्त्या कालधौतानि षोडश ॥ ९६.६ ॥ मूलकामलकं जम्बूतिन्तिडीकरमर्दकम् । कङ्कोलैलाकतुण्डीरकरीरकुटजं शमी ॥ ९६.७ ॥ औदुम्बरं नारिकेलं द्राक्षाथ बृहतीद्वयम् । रौप्याणि कारयेच्छक्त्या फलानीमानि षोडश ॥ ९६.८ ॥ ताम्रं तालफलं कुर्यादगस्तिफलमेव च । पिण्डारकाश्मर्यफलं तथा सूरणकन्दकम् ॥ ९६.९ ॥ रक्तालुकाकन्दकं च कनकाह्वं च चिर्भिटम् । चित्रवल्लीफलं तद्वत्कूटशाल्मलिजं फलम् ॥ ९६.१० ॥ आम्रनिष्पावमधुकवटमुद्गपटोलकम् । ताम्राणि षोडशैतानि कारयेच्छक्तितो नरः ॥ ९६.११ ॥ उदकुम्भद्वयं कुर्याद्धान्योपरि सवस्त्रकम् । ततश्च कारयेच्छय्यां यथोपरि सुवाससी ॥ ९६.१२ ॥ भक्ष्यपात्रत्रयोपेतं यमरुद्रवृषान्वितम् । धेन्वा सहैव शान्ताय विप्रायाथ कुटुम्बिने । सपत्नीकाय सम्पूज्य पुण्येऽह्नि विनिवेदयेत् ॥ ९६.१३ ॥ यथा फलेषु सर्वेषु वसन्त्यमरकोटयः । तथा सर्वफलत्यागव्रताद्भक्तिः शिवेऽस्तु मे ॥ ९६.१४ ॥ यथा शिवश्च धर्मश्च सदानन्तफलप्रदौ । तद्युक्तफलदानेन तौ स्यातां मे वरप्रदौ ॥ ९६.१५ ॥ यथा फलान्यनन्तानि शिवभक्तेषु सर्वदा । तथानन्तफलावाप्तिरस्तु जन्मनि जन्मनि ॥ ९६.१६ ॥ यथा भेदं न पश्यामि शिवविष्ण्वर्कपद्मजान् । तथा ममास्तु विश्वात्मा शंकरः शंकरः सदा ॥ ९६.१७ ॥ इति दत्त्वा च तत्सर्वमलंकृत्य च भूषणैः । शक्तिश्चेच्छयनं दद्यात्सर्वोपस्करसंयुतम् ॥ ९६.१८ ॥ अशक्तस्तु फलान्येव यथोक्तानि विधानतः । तथोदकुम्भसंयुक्तौ शिवधर्मौ च काञ्चनौ ॥ ९६.१९ ॥ विप्राय दत्त्वा भुञ्जीत वाग्यतस्तैलवर्जितम् । अन्यान्यपि यथाशक्त्या भोजयेच्छक्तितो द्विजान् ॥ ९६.२० ॥ एतद्भागवतानां तु सौरवैष्णवयोगिनाम् । शुभं सर्वफलत्यागव्रतं वेदविदो विदुः ॥ ९६.२१ ॥ नारीभिश्च यथाशक्त्या कर्तव्यं द्विजपुंगव । एतस्मान्नापरं किंचिदिह लोके परत्र च । व्रतमस्ति मुनिश्रेष्ठ यदनन्तफलप्रदम् ॥ ९६.२२ ॥ सौवर्णरौप्यताम्रेषु यावन्तः परमाणवः । भवन्ति चूर्ण्यमानेषु फलेषु मुनिसत्तम । तावद्युगसहस्राणि रुद्रलोके महीयते ॥ ९६.२३ ॥ एतत्समस्तकलुषापहरं जनानामाजीवनाय मनुजेषु च सर्वदा स्यात् । जन्मान्तरेष्वपि न पुत्रवियोगदुःखमाप्नोति धाम च पुरंदरलोकजुष्टम् ॥ ९६.२४ ॥ यो वा शृणोति पुरुषोऽल्पधनः पठेद्वा देवालयेषु भवनेषु च धार्मिकाणाम् । पापैर्वियुक्तवपुरत्र पुरं मुरारेरानन्दकृत्पदमुपैति मुनीन्द्र सोऽपि ॥ ९६.२५ ॥ ______________________________________________________ मत्स्यपुराण ९७ *नारद उवाच यदारोग्यकरं पुंसां यदनन्तफलप्रदम् । यच्छान्तये च मर्त्यानां वद नन्दीश तद्व्रतम् ॥ ९७.१ ॥ *नन्दिकेश्वर उवाच यत्तद्विश्वात्मनो धाम परं ब्रह्म सनातनम् । सूर्याग्निचन्द्ररूपेण तत्त्रिधा जगति स्थितम् ॥ ९७.२ ॥ तदाराध्य पुमान्विप्र प्राप्नोति कुशलं सदा । तस्मादादित्यवारेण सदा नक्ताशनो भवेत् ॥ ९७.३ ॥ यदा हस्तेन संयुक्तमादित्यस्य च वासरम् । तदा शनिदिने कुर्यादेकभक्तं विमत्सरः ॥ ९७.४ ॥ नक्तमादित्यवारेण भोजयित्वा द्विजोत्तमान् । पत्त्रैर्द्वादशसंयुक्तं रक्तचन्दनपङ्कजम् ॥ ९७.५ ॥ विलिख्य विन्यसेत्सूर्यं नमस्कारेण पूर्वतः । दिवाकरं तथाग्नेये विवस्वन्तमतः परम् ॥ ९७.६ ॥ भगं तु नैरृते देवं वरुणं पश्चिमे दले । महेन्द्रमनिले तद्वदादित्यं च तथोत्तरे ॥ ९७.७ ॥ शान्तमीशानभागे तु नमस्कारेण विन्यसेत् । कर्णिकापूर्वपत्त्रे तु सूर्यस्य तुरगान्न्यसेत् ॥ ९७.८ ॥ दक्षिणेऽर्यमनामानं मार्तण्डं पश्चिमे दले । उत्तरे तु रविं देवं कर्णिकायां च भास्करम् ॥ ९७.९ ॥ रक्तपुष्पोदकेनार्घ्यं सतिलारुणचन्दनम् । तस्मिन्पद्मे ततो दद्यादिमं मन्त्रमुदीरयेत् ॥ ९७.१० ॥ कालात्मा सर्वभूतात्मा वेदात्मा विश्वतोमुखः । यस्मादग्नीन्द्ररूपस्त्वमतः पाहि दिवाकर ॥ ९७.११ ॥ अग्निमीडे नमस्तुभ्यमिषेत्वोर्जे च भास्कर । अग्न आयाहि वरद नमस्ते ज्योतिषां पते ॥ ९७.१२ ॥ अर्घ्यं दत्त्वा विसृजाथ निशि तैलविवर्जितम् । भुञ्जीत वत्सरान्ते तु काञ्चनं कमलोत्तमम् । पुरुषं च यथाशक्त्या कारयेद्द्विभुजं तथा ॥ ९७.१३ ॥ सुवर्णशृङ्गीं कपिलां महार्घ्यां रौप्यैः खुरैः कांस्यदोहां सवत्साम् । पूर्णे गुडस्योपरि ताम्रपात्रे निधाय पद्मं पुरुषं च दद्यात् ॥ ९७.१४ ॥ सम्पूज्य रक्ताम्बरमाल्यधूपैर्द्विजं च रक्तैरथ हेमशृङ्गैः । संकल्पयित्वा पुरुषं सपद्मं दद्यादनेकव्रतदानकाय । अव्यङ्गरूपाय जितेन्द्रियाय कुटुम्बिने देयमनुद्धताय ॥ ९७.१५ ॥ नमो नमः पापविनाशनाय विश्वात्मने सप्ततुरंगमाय । सामर्ग्यजुर्धामनिधे विधात्रे भवाब्धिपोताय जगत्सवित्रे ॥ ९७.१६ ॥ इत्यनेन विधिना समाचरेदब्दभेकमिह यस्तु मानवः । सोऽधिरोहति विनष्टकल्मषः सूर्यधाम धुतचामरावलिः ॥ ९७.१७ ॥ धर्मसंक्षयमवाप्य भूपतिः शोकदुःखभयरोगवर्जितः । द्वीपसप्तकपतिः पुनः पुनर्वर्ममूर्तिरमितौजसा युतः ॥ ९७.१८ ॥ या च भर्तृगुरुदेवतत्परा वेदमूर्तिदिननक्तमाचरेत् । सापि लोकममरेशवन्दिता याति नारद रवेर्न संशयः ॥ ९७.१९ ॥ यः पठेदपि शृणोति मानवः पठ्यमानमथ वानुमोदते । सोऽपि शक्रभुवनस्थितोऽमरैः पूज्यते वसति चाक्षयं दिवि ॥ ९७.२० ॥ ______________________________________________________ मत्स्यपुराण ९८ *नन्दिकेश्वर उवाच अथान्यदपि वक्ष्यामि संक्रान्त्युद्यापने फलम् । यदक्षयं परे लोके सर्वकामफलप्रदम् ॥ ९८.१ ॥ अयने विषुवे वापि संक्रान्तिव्रतमाचरेत् । पूर्वेद्युरेकभक्तेन दन्तधावनपूर्वकम् । संक्रान्तिवासरे प्रातस्तिलैः स्नानं विधीयते ॥ ९८.२ ॥ रविसंक्रमणे भूमौ चन्दनेनाष्टपत्त्रकम् । पद्मं सकर्णिकं कुर्यात्तस्मिन्नावाहयेद्रविम् ॥ ९८.३ ॥ कर्णिकायां न्यसेत्सूर्यमादित्यं पूर्वतस्ततः । नम उष्णार्चिषे याम्ये नमो ऋङ्मण्डलाय च ॥ ९८.४ ॥ नमः सवित्रे नैरृत्ये वारुणे तपनं पुनः । वायव्ये तु भगं न्यस्य पुनः पुनरथार्चयेत् ॥ ९८.५ ॥ मार्तण्डमुत्तरे विष्णुमीशाने विन्यसेत्सदा । गन्धमाल्यफलैर्भक्ष्यैः स्थण्डिले पूजयेत्ततः ॥ ९८.६ ॥ द्विजाय सोदकुम्भं च घृतपात्रं हिरण्मयम् । कमलं च यथाशक्त्या कारयित्वा निवेदयेत् ॥ ९८.७ ॥ चन्दनोदकपुष्पैश्च देवायार्घ्यं न्यसेद्भुवि । विश्वाय विश्वरूपाय विश्वधाम्ने स्वयम्भुवे । नमोऽनन्त नमो धात्रे ऋक्सामयजुषां पते ॥ ९८.८ ॥ अनेन विधिना सर्वं मासि मासि समाचरेत् । वत्सरान्तेऽथवा कुर्यात्सर्वं द्वादशधा नरः ॥ ९८.९ ॥ संवत्सरान्ते घृतपायसेन संतर्प्य वह्निं द्विजपुंगवांश्च । कुम्भान्पुनर्द्वादश धेनुयुक्तान् सरत्नहैरण्मयपद्मयुक्तान् ॥ ९८.१० ॥ पयस्विनीः शीलवतीश्च दद्याद्धर्मैः शृङ्गैः रौप्यखुरैश्च युक्ताः । गावोऽष्ट वा सप्त सकांस्यदोहा माल्याम्बरा वा चतुरोऽप्यशक्तः । दौर्गत्ययुक्तः कपिलामथैकां निवेदयेद्ब्राह्मणपुंगवाय ॥ ९८.११ ॥ हैमीं च दद्यात्पृथिवीं सशेषामाकार्य रूप्यामथ वा च ताम्रीम् । पैष्टीमशक्तः प्रतिमां विधाय सौवर्णसूर्येण समं प्रदद्यात् । न वित्तशाठ्यं पुरुषोऽत्र कुर्यात्कुर्वन्नधो याति न संशयोऽत्र ॥ ९८.१२ ॥ यावन्महेन्द्रप्रमुखैर्नगेन्द्रैः पृथ्वा च सप्ताब्धियुतेह तिष्ठेत् । तावत्स गन्धर्वगणैरशेषैः सम्पूज्यते नारद नाकपृष्ठे ॥ ९८.१३ ॥ ततस्तु कर्मक्षयमाप्य सप्तद्वीपाधिपः स्यात्कुलशीलयुक्तः । सृष्टेर्मुखेऽव्यङ्गवपुः सभार्यः प्रभूतपुत्रान्वयवन्दिताङ्घ्रिः ॥ ९८.१४ ॥ इति पठति शृणोति वाथ भक्त्या विधिमखिलं रविसंक्रमस्य पुण्यम् । मतिमपि च ददाति सोऽपि देवैरमरपतेर्भवने प्रपूज्यते च ॥ ९८.१५ ॥ ______________________________________________________ मत्स्यपुराण ९९ *नन्दिकेश्वर उवाच शृणु नारद वक्ष्यामि विष्णोर्व्रतमनुत्तमम् । विभूतिद्वादशी नाम सर्वदेवनमस्कृतम् ॥ ९९.१ ॥ कार्त्तिके चैत्रवैशाखे मार्गशीर्षे च फाल्गुने । आषाढे वा दशम्यां तु शुक्लायां लघुभुङ्नरः । कृत्वा सायन्तनीं संध्यां गृह्णीयान्नियमं बुधः ॥ ९९.२ ॥ एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् । द्वादश्यां द्विजसंयुक्तः करिष्ये भोजनं विभो ॥ ९९.३ ॥ तदविघ्नेन मे यातु सफलं स्याच्च केशव । नमो नारायणायेति वाच्यं च स्वपता निशि ॥ ९९.४ ॥ ततः प्रभात उत्थाय कृतस्नानजपः शुचिः । पूजयेत्पुण्डरीकाक्षं शुक्लमाल्यानुलेपनैः ॥ ९९.५ ॥ विभूतये नमः पादावशोकाय च जानुनी । नमः शिवायेत्यूरू च विश्वमूर्ते नमः कटिम् ॥ ९९.६ ॥ कन्दर्पाय नमो मेढ्रमादित्याय नमः करौ । दामोदरायेत्युदरं वासुदेवाय च स्तनौ ॥ ९९.७ ॥ माधवायेत्युरो विष्णोः कण्ठमुत्कण्ठिने नमः । श्रीधराय मुखं केशान् केशवायेति नारद ॥ ९९.८ ॥ पृष्ठं शार्ङ्गधरायेति श्रवणौ वरदाय वै । स्वनाम्ना शङ्खचक्रासिगदाजलजपाणये । शिरः सर्वात्मने ब्रह्मन्नम इत्यभिपूजयेत् ॥ ९९.९ ॥ मत्स्यमुत्पलसंयुक्तं हैमं कृत्वा तु शक्तितः । उदकुम्भसमायुक्तमग्रतः स्थापयेद्बुधः ॥ ९९.१० ॥ गुडपात्रं तिलैर्युक्तं सितवस्त्राभिवेष्टितम् । रात्रौ जागरणं कुर्यादितिहासकथादिना ॥ ९९.११ ॥ प्रभातायां तु शर्वर्यां ब्राह्मणाय कुटुम्बिने । सकाञ्चनोत्पलं देवं सोदकुम्भं निवेदयेत् ॥ ९९.१२ ॥ यथा न मुच्यसे देव सदा सर्वविभूतिभिः । तथा मामुद्धराशेषदुःखसंसारकर्दमात् ॥ ९९.१३ ॥ दशावताररूपाणि प्रतिमासं क्रमान्मुने । दत्तात्रेयं तथा व्यासमुत्पलेन समन्वितम् । दद्यादेवं समा यावत्पाषण्डानभिवर्जयेत् ॥ ९९.१४ ॥ समाप्यैवं यथाशक्त्या द्वादश द्वादशीः पुनः । संवत्सरान्ते लवणपर्वतेन समन्विताम् । शय्यां दद्यान्मुनिश्रेष्ठ गुरवे धेनुसंयुताम् ॥ ९९.१५ ॥ ग्रामं च शक्तिमान्दद्यात्क्षेत्रं वा भवनान्वितम् । गुरुं सम्पूज्य विधिवद्वस्त्रालंकारभूषणैः ॥ ९९.१६ ॥ अन्यानपि यथाशक्त्या भोजयित्वा द्विजोत्तमान् । तर्पयेद्वस्त्रगोदानै रत्नौघधनसंचयैः । अल्पवित्तो यथाशक्त्या स्तोकं स्तोकं समाचरेत् ॥ ९९.१७ ॥ यश्चाप्यतीव निःस्वः स्याद्भक्तिमान्माधवं प्रति । पुष्पार्चनविधानेन स कुर्याद्वत्सरद्वयम् ॥ ९९.१८ ॥ अनेन विधिना यस्तु विभूतिद्वादशीव्रतम् । कुर्यात्पापविनिर्मुक्तः पितॄणां तारयेच्छतम् ॥ ९९.१९ ॥ जन्मनां शतसाहस्रं न शोकफलभाग्भवेत् । न च व्याधिर्भवेत्तस्य न दारिद्र्यं न बन्धनम् । वैष्णवो वाथ शैवो वा भवेज्जन्मनि जन्मनि ॥ ९९.२० ॥ यावद्युगसहस्राणां शतमष्टोत्तरं भवेत् । तावत्स्वर्गे वसेद्ब्रह्मन् भूपतिश्च पुनर्भवेत् ॥ ९९.२१ ॥ ______________________________________________________ मत्स्यपुराण १०० *नन्दिकेश्वर उवाच पुरा रथंतरे कल्पे राजासीत्पुष्पवाहनः । नाम्ना लोकेषु विख्यातस्तेजसा सूर्यसंनिभः ॥ १००.१ ॥ तपसा तस्य तुष्टेन चतुर्वक्त्रेण नारद । कमलं काञ्चनं दत्तं यथाकामगमं मुने ॥ १००.२ ॥ लोकैः समस्तैर्नगरवासिभिः सहितो नृपः । द्वीपानि सुरलोकं च यथेष्टं व्यचरत्तदा ॥ १००.३ ॥ कल्पादौ सप्तमं द्वीपं तस्य पुष्करवासिनः । लोके च पूजितं यस्मात्पुष्करद्वीपमुच्यते ॥ १००.४ ॥ देवेन ब्रह्मणा दत्तं यानमस्य यतोऽम्बुजम् । पुष्पवाहनमित्याहुस्तस्मात्तं देवदानवाः ॥ १००.५ ॥ नागम्यमस्यास्ति जगत्त्रयेऽपि ब्रह्माम्बुजस्थस्य तपोऽनुभावात् । पत्नी च तस्याप्रतिमा मुनीन्द्र नारीसहस्रैरभितोऽभिनन्द्या । नाम्ना च लावण्यवती बभूव सा पार्वतीवेष्टतमा भवस्य ॥ १००.६ ॥ तस्यात्मजानामयुतं बभूव धर्मात्मनामग्र्यधनुर्धराणाम् । तदात्मनः सर्वमवेक्ष्य राजा मुहुर्मुहुर्विस्मयमाससाद । सोऽभ्यागतं वीक्ष्य मुनिप्रवीरं प्राचेतसं वाक्यमिदं बभाषे ॥ १००.७ ॥ कस्माद्विभूतिरमलामरमर्त्यपूज्या जाता च सर्वविजितामरसुन्दरीणाम् । भार्या ममाल्पतपसा परितोषितेन दत्तं ममाम्बुजगृहं च मुनीन्द्र धात्रा ॥ १००.८ ॥ यस्मिन्प्रविष्टमपि कोटिशतं नृपाणां सामात्यकुञ्जररथौघजनावृतानाम् । नो लक्ष्यते क्व गतमम्बरमध्य इन्दुस्तारागणैरिव गतः परितः स्फुरद्भिः ॥ १००.९ ॥ तस्मात्किमन्यजननीजठरोद्भवेन धर्मादिकं कृतमशेषफलाप्तिहेतुः । भगवन्मयाथ तनयैरथवानयापि भद्रं यदेतदखिलं कथय प्रचेतः ॥ १००.१० ॥ मुनिरभ्यधादथ भवान्तरितं समीक्ष्य पृथ्वीपतेः प्रसभमद्भुतहेतुवृत्तम् । जन्माभवत्तव तु लुब्धकुलेऽतिघोरे जातस्त्वमप्यनुदिनं किल पापकारी ॥ १००.११ ॥ वपुरप्यभूत्तव पुनः पुरुषाङ्गसंधिर्दुर्गन्धिसत्त्वभुजगावरणं समन्तात् । न च ते सुहृन्न सुतबन्धुजनो न तातस्त्वादृक्स्वसा न जननी च तदाभिशस्ता ॥ १००.१२ ॥ अभिसंगता परमभीष्टतमा विमुखी महीश तव योषिदियम् । अभूदनावृष्टिरतीव रौद्रा कदाचिदाहारनिमित्तमस्मिन् । क्षुत्पीडितेनाथ तदा न किंचिदासादितं धान्यफलामिषाद्यम् ॥ १००.१३ ॥ अथाभिदृष्टं महदम्बुजाढ्यं सरोवरं पङ्कपरीतरोधः । पद्मान्यथादाय ततो बहूनि गतः पुरं वैदिशनामधेयम् ॥ १००.१४ ॥ तन्मौल्यलाभाय पुरं समस्तं भ्रान्तं त्वयाशेषमहस्तदासीत् । क्रेता न कश्चित्कमलेषु जातः श्रान्तो भृशं क्षुत्परिपीडितश्च ॥ १००.१५ ॥ उपविष्टस्त्वमेकस्मिन् सभार्यो भवनाङ्गणे । अथ मङ्गलशब्दश्च त्वया रात्रौ महाञ्श्रुतः ॥ १००.१६ ॥ सभार्यस्तत्र गतवान् यत्रासौ मङ्गलध्वनिः । तत्र मण्डपमध्यस्था विष्णोरर्चावलोकिता ॥ १००.१७ ॥ वेश्यानङ्गवती नाम विभूतिद्वादशीव्रतम् । समाप्तौ माघमासस्य लवणाचलमुत्तमम् ॥ १००.१८ ॥ निवेदयन्ती गुरवे शय्यां चोपस्करान्विताम् । अलंकृत्य हृषीकेशं सौवर्णामरपादपम् ॥ १००.१९ ॥ तां तु दृष्ट्वा ततस्ताभ्यामिदं च परिचिन्तितम् । किमेभिः कमलैः कार्यं वरं विष्णुरलंकृतः ॥ १००.२० ॥ इति भक्तिस्तदा जाता दम्पत्योस्तु नराधिप । तत्प्रसङ्गात्समभ्यर्च्य केशवं लवणाचलम् । शय्या च पुष्पप्रकरैः पूजिता भूश्च सर्वतः ॥ १००.२१ ॥ अथानङ्गवती तुष्टा तयोर्धनशतत्रयम् । दीयतामादिदेशाथ कलधौतशतत्रयम् ॥ १००.२२ ॥ न गृहीतं ततस्ताभ्यां बहुसत्त्वावलम्बनात् । अनङ्गवत्या च पुनस्तयोरन्नं चतुर्विधम् । आनीय व्याहृतं चात्र भुज्यतामिति भूपते ॥ १००.२३ ॥ ताभ्यां तु तदपि त्यक्तं भोक्ष्यावो वै वरानने । प्रसङ्गादुपवासेन तवाद्य सुखमावयोः ॥ १००.२४ ॥ जन्मप्रभृति पापिष्ठौ कुकर्माणौ दृढव्रते । तत्प्रसङ्गात्तयोर्मध्ये धर्मलेशस्तु तेऽनघ ॥ १००.२५ ॥ इति जागरणं ताभ्यां तत्प्रसङ्गादनुष्ठितम् । प्रभाते च तदा दत्ता शय्या सलवणाचला ॥ १००.२६ ॥ ग्रामाश्च गुरवे भक्त्या विप्रेषु द्वादशैव तु । वस्त्रालंकारसंयुक्ता गावश्च करकान्विताः ॥ १००.२७ ॥ भोजनं च सुहृन्मित्रदीनान्धकृपणैः समम् । तच्च लुब्धकदाम्पत्यं पूजयित्वा विसर्जितम् ॥ १००.२८ ॥ स भवांल्लुब्धको जातः सपत्नीको नृपेश्वरः । पुष्करप्रकरात्तस्मात्केशवस्य न पूजनात् ॥ १००.२९ ॥ विनष्टाशेषपापस्य तव पुष्करमन्दिरम् । तस्य सत्त्वस्य माहात्म्यादल्पेन तपसा नृप ॥ १००.३० ॥ यथाकामगमं जातं लोकनाथश्चतुर्मुखः । संतुष्टस्तव राजेन्द्र ब्रह्मरूपी जनार्दनः ॥ १००.३१ ॥ साप्यनङ्गवती वेश्या कामदेवस्य साम्प्रतम् । पत्नी सपत्नी संजाता रत्याः प्रीतिरिति श्रुता । लोकेष्वानन्दजननी सकलामरपूजिता ॥ १००.३२ ॥ तस्मादुत्सृज्य राजेन्द्र पुष्करं तन्महीतले । गङ्गातटं समाश्रित्य विभूतिद्वादशीव्रतम् । कुरु राजेन्द्र निर्वाणमवश्यं समवाप्स्यसि ॥ १००.३३ ॥ इत्युक्त्वा स मुनिर्ब्रह्मंस्तत्रैवान्तरधीयत । राजा यथोक्तं च पुनरकरोत्पुष्पवाहनः ॥ १००.३४ ॥ इदमाचरतो ब्रह्मन्नखण्डव्रतमाचरेत् । यथाकथंचित्कमलैर्द्वादश द्वादशीर्मुने ॥ १००.३५ ॥ कर्तव्याः शक्तितो देया विप्रेभ्यो दक्षिणानघ । न वित्तशाठ्यं कुर्वीत भक्त्या तुष्यति केशवः ॥ १००.३६ ॥ इति कलुषत्रिदारणं जनानामपि पठतीह शृणोति चाथ भक्त्या ।* मतिमपि च ददाति देवलोके वसति स कोटिशतानि वत्सराणाम् ॥ १००.३७ ॥* ______________________________________________________ मत्स्यपुराण १०१ *नन्दिकेश्वर उवाच अथातः सम्प्रवक्ष्यामि व्रतषष्ठीमनुत्तमाम् । रुद्रेणाभिहितां दिव्यां महापातकनाशनम् ॥ १०१.१ ॥ नक्तमब्दं चरित्वा तु गवा सार्धं कुटुम्बिने । हैमं चक्रं त्रिशूलं च दद्याद्विप्राय वाससी ॥ १०१.२ ॥ शिवरूपस्ततोऽस्माभिः शिवलोके स मोदते । एतद्देवव्रतं नाम महापातकनाशनम् ॥ १०१.३ ॥ यस्त्वेकभक्तेन समां शिवं हैमवृषान्वितम् । धेनुं तिलमयीं दद्यात्स पदं याति शांकरम् । एतद्रुद्रव्रतं नाम पापशोकविनाशनम् ॥ १०१.४ ॥ यस्तु नीलोत्पलं हैमं शर्करापात्रसंयुतम् । एकान्तरितनक्ताशी समान्ते वृषसंयुतम् । स वैष्णवं पदं याति लीलाव्रतमिदं स्मृतम् ॥ १०१.५ ॥ आषाढादिचतुर्मासमभ्यङ्गं वर्जयेन्नरः । भोजनोपस्करं दद्यात्स याति भवनं हरेः । जने प्रीतिकरं नॄणां प्रीतिव्रतमिहोच्यते ॥ १०१.६ ॥ वर्जयित्वा मधौ यस्तु दधिक्षीरघृतैक्षवम् । दद्याद्वस्त्राणि सूक्ष्माणि रसपात्रैश्च संयुतम् ॥ १०१.७ ॥ सम्पूज्य विप्रमिथुनं गौरी मे प्रीयतामिति । एतद्गौरीव्रतं नाम भवानीलोकदायकम् ॥ १०१.८ ॥ पुष्यादौ यस्त्रयोदश्यां कृत्वा नक्तं मधौ पुनः । अशोकं काञ्चनं दद्यादिक्षुयुक्तं दशाङ्गुलम् ॥ १०१.९ ॥ विप्राय वस्त्रसंयुक्तं प्रद्युम्नः प्रीयतामिति । कल्पं विष्णुपदे स्थित्वा विशोकः स्यात्पुनर्नरः । एतत्कामव्रतं नाम सदा शोकविनाशनम् ॥ १०१.१० ॥ आषाढादिव्रतं यस्तु वर्जयेन्नखकर्तनम् । वार्ताकं च चतुर्मासं मधुसर्पिर्घटान्वितम् ॥ १०१.११ ॥ कार्त्तिक्यां तत्पुनर्हैमं ब्राह्मणाय निवेदयेत् । स रुद्रलोकमाप्नोति शिवव्रतमिदं स्मृतम् ॥ १०१.१२ ॥ वर्जयेद्यस्तु पुष्पाणि हेमन्तशिशिरावृतू । पुष्पत्रयं च फाल्गुन्यां कृत्वा शक्त्या च काञ्चनम् ॥ १०१.१३ ॥ दद्याद्द्विकालवेलायां प्रीयेतां शिवकेशवौ । दत्त्वा परं पदं याति सौम्यव्रतमिदं स्मृतम् ॥ १०१.१४ ॥ फाल्गुन्यादितृतीयायां लवणं यस्तु वर्जयेत् । समाप्ते शयनं दद्याद्गृहं चोपस्करान्वितम् ॥ १०१.१५ ॥ सम्पूज्य विप्रमिथुनं भवानी प्रीयतामिति । गौरीलोके वसेत्कल्पं सौभाग्यव्रतमुच्यते ॥ १०१.१६ ॥ संध्यामौनं ततः कृत्वा समान्ते घृतकुम्भकम् । वस्त्रयुग्मं तिलान्घण्टां ब्राह्मणाय निवेदयेत् ॥ १०१.१७ ॥ सारस्वतं पदं याति पुनरावृत्तिदुर्लभम् । एतत्सारस्वतं नाम रूपविद्याप्रदायकम् ॥ १०१.१८ ॥ लक्ष्मीमभ्यर्च्य पञ्चम्यामुपवासी भवेन्नरः । समान्ते हेमकमलं दद्याद्धेनुसमन्वितम् ॥ १०१.१९ ॥ स वैष्णवं पदं याति लक्ष्मीवाञ्जन्मजन्मनि । एतत्सम्पद्व्रतं नाम सदा पापविनाशनम् ॥ १०१.२० ॥ कृत्वोपलेपनं शम्भोरग्रतः केशवस्य च । यावदब्दं पुनर्दद्याद्धेनुं जलघटान्विताम् ॥ १०१.२१ ॥ जन्मायुतं स राजा स्यात्ततः शिवपुरं व्रजेत् । एतदायुर्व्रतं नाम सर्वकामप्रदायकम् ॥ १०१.२२ ॥ अश्वत्थं भास्करं गङ्गां प्रणम्यैकत्र वाग्यतः । एकभक्तं नरः कुर्यादब्दमेकं विमत्सरः ॥ १०१.२३ ॥ व्रतान्ते विप्रमिथुनं पूज्यं धेनुत्रयान्वितम् । वृक्षं हिरण्मयं दद्यात्सोऽश्वमेधफलं लभेत् । एतत्कीर्तिव्रतं नाम भूतिकीर्तिफलप्रदम् ॥ १०१.२४ ॥ घृतेन स्नपनं कुर्याच्छम्भोर्वा केशवस्य च । अक्षताभिः सुपुष्पाभिः कृत्वा गोमयमण्डलम् ॥ १०१.२५ ॥ तिलधेनुसमोपेतं समान्ते हेमपङ्कजम् । शुद्धमष्टाङ्गुलं दद्याच्छिवलोके महीयते । सामगाय ततश्चैतत्सामव्रतमिहोच्यते ॥ १०१.२६ ॥ नवम्यामेकभक्तं तु कृत्वा कन्याश्च शक्तितः । भोजयित्वासनं दद्याद्धैमकञ्चुकवाससी ॥ १०१.२७ ॥ हैमं सिंहं च विप्राय दत्त्वा शिवपदं व्रजेत् । जन्मार्बुदं सुरूपः स्याच्छत्रुभिश्चापराजितः । एतद्वीरव्रतं नाम नारीणां च सुखप्रदम् ॥ १०१.२८ ॥ यावत्समा भवेद्यस्तु पञ्चदश्यां पयोव्रतः । समान्ते श्राद्धकृद्दद्यात्पञ्च गास्तु पयस्विनीः ॥ १०१.२९ ॥ वासांसि च पिशङ्गानि जलकुम्भयुतानि च । स याति वैष्णवं लोकं पितॄणां तारयेच्छतम् । कल्पान्ते राजराजः स्यात्पितृव्रतमिदं स्मृतम् ॥ १०१.३० ॥ चैत्रादिचतुरो मासाञ्जलं दद्यादयाचितम् । व्रतान्ते मणिकं दद्यादन्नवस्त्रसमन्वितम् ॥ १०१.३१ ॥ तिलपात्रं हिरण्यं च ब्रह्मलोके महीयते । कल्पान्ते भूपतिर्नूनमानन्दव्रतमुच्यते ॥ १०१.३२ ॥ पञ्चामृतेन स्नपनं कृत्वा संवत्सरं विभोः । वत्सरान्ते पुनर्दद्याद्धेनुं पञ्चामृतेन हि ॥ १०१.३३ ॥ विप्राय दद्याच्छङ्खं च स पदं याति शांकरम् । राजा भवति कल्पान्ते धृतिव्रतमिदं स्मृतम् ॥ १०१.३४ ॥ वर्जयित्वा पुमान्मांसमब्दान्ते गोप्रदो भवेत् । तद्वद्धेममृगं दद्यात्सोऽश्वमेधफलं लभेत् । अहिंसाव्रतमित्युक्तं कल्पान्ते भूपतिर्भवेत् ॥ १०१.३५ ॥ माघमास्युषसि स्नानं कृत्वा दाम्पत्यमर्चयेत् । भोजयित्वा यथाशक्त्या माल्यवस्त्रविभूषणः । सूर्यलोके वसेत्कल्पं सूर्यव्रतमिदं स्मृतम् ॥ १०१.३६ ॥ आषाढादिचतुर्मासं प्रातःस्नायी भवेन्नरः । विप्रेषु भोजनं दद्यात्कार्त्तिक्यां गोप्रदो भवेत् । स वैष्णवं पदं याति विष्णुव्रतमिदं शुभम् ॥ १०१.३७ ॥ अयनादयनं यावद्वर्जयेत्पुष्पसर्पिषी । तदन्ते पुष्पदामानि घृतधेन्वा सहैव तु ॥ १०१.३८ ॥ दत्त्वा शिवपदं गच्छेद्विप्राय घृतपायसम् । एतच्छीलव्रतं नाम शीलारोग्यफलप्रदम् ॥ १०१.३९ ॥ संध्यादीपप्रदो यस्तु समां तैलं विवर्जयेत् । समान्ते दीपिकां दद्याच्चक्रशूले च काञ्चने ॥ १०१.४० ॥ वस्त्रयुग्मं च विप्राय तेजस्वी स भवेदिह । रुद्रलोकमवाप्नोति दीप्तिव्रतमिदं स्मृतम् ॥ १०१.४१ ॥ कार्त्तिक्यादितृतीयायां प्राश्य गोमूत्रयावकम् । नक्तं चरेदब्दमेकमब्दान्ते गोप्रदो भवेत् ॥ १०१.४२ ॥ गौरीलोके वसेत्कल्पं ततो राजा भवेदिह । एतद्रुद्रव्रतं नाम सदा कल्याणकारकम् ॥ १०१.४३ ॥ वर्जयेच्चैत्रमासे च यश्च गन्धानुलेपनम् । शुक्तिं गन्धभृतां दत्त्वा विप्राय सितवाससी । वारुणं पदमाप्नोति दृढव्रतमिदं स्मृतम् ॥ १०१.४४ ॥ वैशाखे पुष्पलवणं वर्जयित्वाथ गोप्रदः । भूत्वा विष्णुपदे कल्पं स्थित्वा राजा भवेदिह । एतत्कान्तिव्रतं नाम कान्तिकीर्तिफलप्रदम् ॥ १०१.४५ ॥ ब्रह्माण्डं काञ्चनं कृत्वा तिलराशिसमन्वितम् । त्र्यहं तिलप्रदो भूत्वा वह्निं संतर्प्य सद्विजम् ॥ १०१.४६ ॥ सम्पूज्य विप्रदाम्पत्यं माल्यवस्त्रविभूषणैः । शक्तितस्त्रिपलादूर्ध्वं विश्वात्मा प्रीयतामिति ॥ १०१.४७ ॥ पुण्येऽह्नि दद्यात्स परं ब्रह्म यात्यपुनर्भवम् । एतद्ब्रह्मव्रतं नाम निर्वाणपददायकम् ॥ १०१.४८ ॥ यश्चोभयमुखीं दद्यात्प्रभूतकनकान्विताम् । दिनं पयोव्रतस्तिष्ठेत्स याति परमं पदम् । एतद्धेनुव्रतं नाम पुनरावृत्तिदुर्लभम् ॥ १०१.४९ ॥ त्र्यहं पयोव्रते स्थित्वा काञ्चनं कल्पपादपम् । पलादूर्ध्वं यथाशक्त्या तण्डुलैस्तूपसंयुतम् । दत्त्वा ब्रह्मपदं याति कल्पव्रतमिदं स्मृतम् ॥ १०१.५० ॥ मासोपवासी यो दद्याद्धेनुं विप्राय शोभनाम् । स वैष्णवं पदं यति भीमव्रतमिदं स्मृतम् ॥ १०१.५१ ॥ दद्याद्विंशत्पलादूर्ध्वं महीं कृत्वा तु काञ्चनीम् । दिनं पयोव्रतस्तिष्ठेद्रुद्रलोके महीयते । धराव्रतमिदं प्रोक्तं सप्तकल्पशतानुगम् ॥ १०१.५२ ॥ माघे मासेऽथवा चैत्रे गुडधेनुप्रदो भवेत् । गुडव्रतस्तृतीयायां गौरीलोके महीयते । महाव्रतमिदं नाम परमानन्दकारकम् ॥ १०१.५३ ॥ पक्षोपवासी यो दद्याद्विप्राय कपिलाद्वयम् । ब्रह्मलोकमवाप्नोति देवासुरसुपूजितम् । कल्पान्ते राजराजः स्यात्प्रभाव्रतमिदं स्मृतम् ॥ १०१.५४ ॥ वत्सरं त्वेकभक्ताशी सभक्ष्यजलकुम्भदः । शिवलोके वसेत्कल्पं प्राप्तिव्रतमिदं स्मृतम् ॥ १०१.५५ ॥ नक्ताशी चाष्टमीषु स्याद्वत्सरान्ते च धेनुदः । पौरंदरं पुरं याति सुगतिव्रतमुच्यते ॥ १०१.५६ ॥ विप्रायेन्धनदो यस्तु वर्षादिचतुरस्त्वृतून् । घृतधेनुप्रदोऽन्ते च स परं ब्रह्म गच्छति । वैश्वानरव्रतं नाम सर्वपापविनाशनम् ॥ १०१.५७ ॥ एकादश्यां च नक्ताशी यश्चक्रं विनिवेदयेत् । समान्ते वैष्णवं हैमं स विष्णोः पदमाप्नुयात् । एतत्कृष्णव्रतं नाम कल्पान्ते राज्यभाग्भवेत् ॥ १०१.५८ ॥ पायसाशी समान्ते तु दद्याद्विप्राय गोयुगम् । लक्ष्मीलोकमवाप्नोति ह्येतद्देवीव्रतं स्मृतम् ॥ १०१.५९ ॥ सप्तम्यां नक्तभुग्दद्यात्समान्ते गां पयस्विनीम् । सूर्यलोकमवाप्नोति भानुव्रतमिदं स्मृतम् ॥ १०१.६० ॥ चतुर्थ्यां नक्तभुग्दद्यादब्दान्ते हेमवारणम् । व्रतं वैनायकं नाम शिवलोकफलप्रदम् ॥ १०१.६१ ॥ महाफलानि यस्त्यक्त्वा चतुर्मासं द्विजातये । हैमानि कार्त्तिके दद्याद्गोयुगेन समन्वितम् । एतत्फलव्रतं नाम विष्णुलोकफलप्रदम् ॥ १०१.६२ ॥ यश्चोपवासी सप्तम्यां समान्ते हैमपङ्कजम् । गाश्च वै शक्तितो दद्याद्धेमान्नघटसंयुताः । एतत्सौरव्रतं नाम सूर्यलोकफलप्रदम् ॥ १०१.६३ ॥ द्वादश द्वादशीर्यस्तु समाप्योपोषणेन च । गोवस्त्रकाञ्चनैर्विप्रान् पूजयेच्छक्तितो नरः । परमं पदं प्राप्नोति विष्णुव्रतमिदं स्मृतम् ॥ १०१.६४ ॥ कार्त्तिक्यां च वृषोत्सर्गं कृत्वा नक्तं समाचरेत् । शैवं पदमवाप्नोति वार्षव्रतमिदं स्मृतम् ॥ १०१.६५ ॥ कृच्छ्रान्ते गोप्रदः कुर्याद्भोजनं शक्तितः पदम् । विप्राणां शांकरं याति प्राजापत्यमिदं व्रतम् ॥ १०१.६६ ॥ चतुर्दश्यां तु नक्ताशी समान्ते गोधनप्रदः । शैवं पदमवाप्नोति त्रैयम्बकमिदं व्रतम् ॥ १०१.६७ ॥ सप्तरात्रोषितो दद्याद्घृतकुम्भं द्विजातये । घृतव्रतमिदं प्राहुर्ब्रह्मलोकफलप्रदम् ॥ १०१.६८ ॥ आकाशशायी वर्षासु धेनुमन्ते पयस्विनीम् । शक्रलोके वसेन्नित्यमिन्द्रव्रतमिदं स्मृतम् ॥ १०१.६९ ॥ अनग्निपक्कमश्नाति तृतीयायां तु यो नरः । गां दत्त्वा शिवमभ्येति पुनरावृत्तिदुर्लभम् । इह चानन्दकृत्पुंसां श्रेयोव्रतमिदं स्मृतम् ॥ १०१.७० ॥ हैमं पलद्वयादूर्ध्वं रथमश्वयुगान्वितम् । ददत्कृतोपवासः स्याद्दिवि कल्पशतं वसेत् । कल्पान्ते राजराजः स्यादश्वव्रतमिदं स्मृतम् ॥ १०१.७१ ॥ तद्वद्धेमरथं दद्यात्करिभ्यां संयुतं नरः । सत्यलोके वसेत्कल्पं सहस्रमथ भूपतिः । भवेदुपोषितो भूत्वा करिव्रतमिदं स्मृतम् ॥ १०१.७२ ॥ उपवासं परित्यज्य समान्ते गोप्रदो भवेत् । यक्षाधिपत्यमाप्नोति सुखव्रतमिदं स्मृतम् ॥ १०१.७३ ॥ निशि कृत्वा जले वासं प्रभाते गोप्रदो भवेत् । वारुणं लोकमाप्नोति वरुणव्रतमुच्यते ॥ १०१.७४ ॥ चान्द्रायणं च यः कुर्याद्धैमं चन्द्रं निवेदयेत् । चन्द्रव्रतमिदं प्रोक्तं चन्द्रलोकफलप्रदम् ॥ १०१.७५ ॥ ज्येष्ठे पञ्चतपाः सायं हेमधेनुप्रदो दिवम् । यात्यष्टमीचतुर्दश्यो रुद्रव्रतमिदं स्मृतम् ॥ १०१.७६ ॥ सकृद्वितानकं कुर्यात्तृतीयायां शिवालये । समान्ते धेनुदो याति भवानीव्रतमुच्यते ॥ १०१.७७ ॥ माघे निश्यार्द्रवासाः स्यात्सप्तम्यां गोप्रदो भवेत् । दिवि कल्पमुषित्वेह राजा स्यात्पवनं व्रतम् ॥ १०१.७८ ॥ त्रिरात्रोपोषितो दद्यात्फाल्गुन्यां भवनं शुभम् । आदित्यलोकमाप्नोति धामव्रतमिदं स्मृतम् ॥ १०१.७९ ॥ त्रिसंध्यं पूज्य दाम्पत्यमुपवासी विभूषणैः । अन्नं गाश्च समाप्नोति मोक्षमिन्द्रव्रतादिह ॥ १०१.८० ॥ दत्त्वा सितद्वितीयायामिन्दोर्लवणभाजनम् । समान्ते गोप्रदो याति विप्राय शिवमन्दिरम् । कल्पान्ते राजराजः स्यात्सोमव्रतमिदं स्मृतम् ॥ १०१.८१ ॥ प्रतिपद्येकभक्ताशी समान्ते कपिलाप्रदः । वैश्वानरपदं याति शिवव्रतमिदं स्मृतम् ॥ १०१.८२ ॥ दशम्यामेकभक्ताशी समान्ते दशधेनुदः । दिशश्च काञ्चनैर्दद्याद्ब्रह्माण्डाधिपतिर्भवेत् । एतद्विश्वव्रतं नाम महापातकनाशनम् ॥ १०१.८३ ॥ यः पठेच्छृणुयाद्वापि व्रतषष्टिमनुत्तमाम् । मन्वन्तरशतं सोऽपि गन्धर्वाधिपतिर्भवेत् ॥ १०१.८४ ॥ षष्टिव्रतं नारद पुण्यमेतत्तवोदितं विश्वजनीनमन्यत् । श्रोतुं तवेच्छा तदुदीरयामि प्रियेषु किं वाकथनीयमस्ति ॥ १०१.८५ ॥ ______________________________________________________ मत्स्यपुराण १०२ *नन्दिकेश्वर उवाच नैर्मल्यं भावशुद्धिश्च विना स्नानं न विद्यते । तस्मान्मनोविशुद्ध्यर्थं स्नानमादौ विधीयते ॥ १०२.१ ॥ अनुद्धृतैरुद्धृतैर्वा जलैः स्नानं समाचरेत् । तीर्थं च कल्पयेद्विद्वान्मूलमन्त्रेण मन्त्रवित् । नमो नारायणायेति मूलमन्त्र उदाहृतः ॥ १०२.२ ॥ दर्भपाणिस्तु विधिना आचान्तः प्रयतः शुचिः । चतुर्हस्तसमायुक्तं चतुरस्रं समन्ततः । प्रकल्प्यावाहयेद्गङ्गामेभिर्मन्त्रैर्विचक्षणः ॥ १०२.३ ॥ विष्णोः पादप्रसूतासि वैष्णवी विष्णुदेवता । पाहि नस्त्वेनसस्तस्मादाजन्ममरणान्तिकात् ॥ १०२.४ ॥ तिस्रः कोट्योऽर्धकोटी च तीर्थानां वायुरब्रवीत् । दिवि भुव्यन्तरिक्षे च तानि ते सन्ति जाह्नवि ॥ १०२.५ ॥ नन्दिनीत्येव ते नाम देवेषु नलिनीति च । दक्षा पृथ्वी च विहगा विश्वकायामृता शिवा ॥ १०२.६ ॥ विद्याधरी सुप्रशान्ता तथा विश्वप्रसादिनी । क्षेमा च जाह्नवी चैव शान्ता शान्तिप्रदायिनी ॥ १०२.७ ॥ एतानि पुण्यनामानि स्नानकाले प्रकीर्तयेत् । भवेत्संनिहिता तत्र गङ्गा त्रिपथगामिनी ॥ १०२.८ ॥ सप्तवाराभिजप्तेन करसम्पुटयोजितः । मूर्ध्नि कुर्याज्जलं भूयस्त्रिचतुष्पञ्चसप्तकम् । स्नानं कुर्यान्मृदा तद्वदामन्त्र्य तु विधानतः ॥ १०२.९ ॥ अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुंधरे । मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम् ॥ १०२.१० ॥ उद्धृतासि वराहेण कृष्णेन शतबाहुना । मृत्तिके ब्रह्मदत्तासि काश्यपेनाभिमन्त्रिता । आरुह्य मम गात्राणि सर्वं पापं प्रचोदय ॥ १०२.११ ॥ मृत्तिके देहि नः पुष्टिं त्वयि सर्वं प्रतिष्ठितम् । नमस्ते सर्वलोकानां प्रभवारणि सुव्रते ॥ १०२.१२ ॥ एवं स्नात्वा ततः पश्चादाचम्य च विधानतः । उत्थाय वाससी शुक्ले शुद्धे तु परिधाय वै । ततस्तु तर्पणं कुर्यात्त्रैलोक्याप्यायनाय वै ॥ १०२.१३ ॥ देवा यक्षास्तथा नागा गन्धर्वाप्सरसोऽसुराः । क्रूराः सर्पाः सुपर्णाश्च तरवो जम्बुकाः खगाः ॥ १०२.१४ ॥ वाय्वाधारा जलाधारास्तथैवाकाशगामिनः । निराधाराश्च ये जीवा ये तु धर्मरतास्तथा ॥ १०२.१५ ॥ तेषामाप्यायनायैतद्दीयते सलिलं मया । कृतोपवीती देवेभ्यो निवीती च भवेत्ततः ॥ १०२.१६ ॥ मनुष्यांस्तर्पयेद्भक्त्या ब्रह्मपुत्रानृषींस्तथा । सनकश्च सनन्दश्च तृतीयश्च सनातनः ॥ १०२.१७ ॥ कपिलश्चासुरिश्चैव वोढुः पञ्चशिखस्तथा । सर्वे ते तृप्तिमायान्तु मद्दत्तेनाम्बुना सदा ॥ १०२.१८ ॥ मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम् । प्रचेतसं वसिष्ठं च भृगुं नारदमेव च । देवब्रह्मऋषीन् सर्वांस्तर्पयेदक्षतौदकैः ॥ १०२.१९ ॥ अपसव्यं ततः कृत्वा सव्यं जान्वाच्य भूतले । अग्निष्वात्तास्तथा सौम्या हविष्मन्तस्तथोष्मपाः ॥ १०२.२० ॥ सुकालिनो बर्हिषदस्तथान्ये वाज्यपाः पुनः । संतर्प्याः पितरो भक्त्या सतिलोदकचन्दनैः ॥ १०२.२१ ॥ यमाय धर्मराजाय मृत्यवे चान्तकाय च । वैवस्वताय कालाय सर्वभृतक्षयाय च ॥ १०२.२२ ॥ औदुम्बराय दध्नाय नीलाय परमेष्ठिने । वृकोदराय चित्राय चित्रगुप्ताय वै नमः । दर्भपाणिस्तु विधिना पितॄन्संतर्पयेद्बुधः ॥ १०२.२३ ॥ पित्रादीन्नामगोत्रेण तथा मातामहानपि । संतर्प्य विधिना भक्त्या इमं मन्त्रमुदीरयेत् ॥ १०२.२४ ॥ येऽबान्धवा बान्धवा वा येऽन्यजन्मनि बान्धवाः । ते तृप्तिमखिलां यान्तु यश्चास्मत्तोऽभिवाञ्छति ॥ १०२.२५ ॥ ततश्चाचम्य विधिवदालिखेत्पद्ममग्रतः । अक्षताभिः सपुष्पाभिः सजलारुणचन्दनम् । अर्घ्यं दद्यात्प्रयत्नेन सूर्यनामानि कीर्तयेत् ॥ १०२.२६ ॥ नमस्ते विष्णुरूपाय नमो विष्णुमुखाय वै । सहस्ररश्मये नित्यं नमस्ते सर्वतेजसे ॥ १०२.२७ ॥ नमस्ते शिव सर्वेश नमस्ते सर्ववत्सल । जगत्स्वामिन्नमस्तेऽस्तु दिव्यचन्दनभूषित ॥ १०२.२८ ॥ पद्मासन नमस्तेऽस्तु कुण्डलाङ्गदभूषित । नमस्ते सर्वलोकेश जगत्सर्वं विबोधसे ॥ १०२.२९ ॥ सुकृतं दुष्कृतं चैव सर्वं पश्यसि सर्वग । सत्यदेव नमस्तेऽस्तु प्रसीद मम भास्कर ॥ १०२.३० ॥ दिवाकर नमस्तेऽस्तु प्रभाकर नमोऽस्तु ते । एवं सूर्यं नमस्कृत्य त्रिः कृत्वाथ प्रदक्षिणम् । द्विजं गां काञ्चनं स्पृष्ट्वा ततो विष्णुगृहं व्रजेत् ॥ १०२.३१ ॥ ______________________________________________________ मत्स्यपुराण १०३ *नन्दिकेश्वर उवाच अतः परं प्रवक्ष्यामि प्रयागस्योपवर्णनम् । मार्कण्डेयेन कथितं यत्पुरा पाण्डुसूनवे ॥ १०३.१ ॥ भारते तु यदा वृत्ते प्राप्तराज्ये पृथासुते । एतस्मिन्नन्तरे राजा कुन्तीपुत्रो युधिष्ठिरः ॥ १०३.२ ॥ भ्रातृशोकेन संतप्तश्चिन्तयन्स पुनः पुनः । आसीत्सुयोधनो राजा एकादशचमूपतिः ॥ १०३.३ ॥ अस्मान्संताप्य बहुशः सर्वे ते निधनं गताः । वासुदेवं समाश्रित्य पञ्च शेषास्तु पाण्डवाः ॥ १०३.४ ॥ हत्वा भीष्मं च द्रोणं च कर्णं चैव महाबलम् । दुर्योधनं च राजानं पुत्रभ्रातृसमन्वितम् ॥ १०३.५ ॥ राजानो निहताः सर्वे ये चान्ये शूरमानिनः । किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥ १०३.६ ॥ धिक्कष्टमिति संचित्य राजा वैक्लव्यभागतः । निर्विचेष्टो निरुत्साहः किंचित्तिष्ठत्यधोमुखः ॥ १०३.७ ॥ लब्धसंज्ञो यदा राजा चिन्तयन्स पुनः पुनः । कतरो विनियोगो वा नियमं तीर्थमेव च ॥ १०३.८ ॥ येनाहं शीघ्रमामुञ्चे महापातकिकिल्बिषात् । यत्र स्थित्वा नरो याति विष्णुलोकमनुत्तमम् ॥ १०३.९ ॥ कथं पृच्छामि वै कृष्णं येनेदं कारितोऽस्म्यहम् । धृतराष्ट्रं कथं पृच्छे यस्य पुत्रशतं हतम् ॥ १०३.१० ॥ व्यासं कथमहं पृच्छे यस्य गोत्रक्षयः कृतः । एवं वैक्लव्यमापन्नो धर्मराजो युधिष्ठिरः । रुदन्ति पाण्डवाः सर्वे भ्रातृशोकपरिप्लुताः ॥ १०३.११ ॥ ये च तत्र महात्मानः समेताः पाण्डवाः स्मृताः । कुन्ती च द्रौपदी चैव ये च तत्र समागताः । भूमौ निपतिताः सर्वे रुदन्तस्तु समन्ततः ॥ १०३.१२ ॥ वाराणस्यां मार्कण्डेयस्तेन ज्ञातो युधिष्ठिरः । यथा वैक्लव्यमापन्नो रुदमानस्तु दुःखितः ॥ १०३.१३ ॥ अचिरेणैव कालेन मार्कण्डेयो महातपाः । सम्प्राप्तो हास्तिनपुरं राजद्वारे ह्यतिष्ठत ॥ १०३.१४ ॥ द्वारपालोऽपि तं दृष्ट्वा राज्ञः कथितवान्द्रुतम् । त्वां द्रष्टुकामो मार्कण्डेयो द्वारि तिष्ठत्यसौ मुनिः । त्वरितो धर्मपुत्रस्तु द्वारमागादतः परम् ॥ १०३.१५ ॥ *युधिष्ठिर उवाच स्वागतं ते महाभाग स्वागतं ते महामुने । अद्य मे सफलं जन्म अद्य मे तारितं कुलम् ॥ १०३.१६ ॥ अद्य मे पितरस्तुष्टास्त्वयि दृष्टे महामुने । अद्याहं पूतदेहोऽस्मि यत्त्वया सह दर्शनम् ॥ १०३.१७ ॥ *नन्दिकेश्वर उवाच सिंहासने समास्थाप्य पादशौचार्चनादिभिः । युधिष्ठिरो महात्मा वै पूजयामास तं मुनिम् ॥ १०३.१८ ॥ ततः स तुष्टो मार्कण्डः पूजितश्चाह तं नृपम् । आख्याहि त्वरितं राजन् किमर्थं रुदितं त्वया । केन वा विक्लवीभूतः का बाधा ते किमप्रियम् ॥ १०३.१९ ॥ *युधिष्ठिर उवाच अस्माकं चैव यद्वृत्तं राज्यस्यार्थे महामुने । एतत्सर्वं विदित्वा तु चिन्तावशमुपागतः ॥ १०३.२० ॥ *मार्कण्डेय उवाच शृणु राजन्महाबाहो क्षत्रधर्मव्यवस्थितम् । नैव दृष्टं रणे पापं युध्यमानस्य धीमतः ॥ १०३.२१ ॥ किं पुना राजधर्मेण क्षत्रियस्य विशेषतः । तदेवं हृदयं कृत्वा तस्मात्पापं न चिन्तयेत् ॥ १०३.२२ ॥ ततो युधिष्ठिरो राजा प्रणम्य शिरसा मुनिम् । पप्रच्छ विनयोपेतः सर्वपातकनाशनम् ॥ १०३.२३ ॥ *युधिष्ठिर उवाच पृच्छामि त्वां महाप्राज्ञ नित्यं त्रैलोक्यदर्शिनम् । कथय त्वं समासेन येन मुच्येत किल्बिषात् ॥ १०३.२४ ॥ *मार्कण्डेय उवाच शृणु राजन्महाबाहो सर्वपातकनाशनम् । प्रयागगमनं श्रेष्ठं नराणां पुण्यकर्मणाम् ॥ १०३.२५ ॥ ______________________________________________________ मत्स्यपुराण १०४ *युधिष्ठिर उवाच भगवञ्छ्रोतुमिच्छामि पुरा कल्पे यथास्थितम् । ब्रह्मणा देवमुख्येन यथावत्कथितं मुने ॥ १०४.१ ॥ कथं प्रयागगमनं नराणां तत्र कीदृशम् । मृतानां का गतिस्तत्र स्नातानां तत्र किं फलम् ॥ १०४.२ ॥ ये वसन्ति प्रयागे तु ब्रूहि तेषां च किं फलम् । एतन्मे सर्वमाख्याहि परं कौतूहलं हि मे ॥ १०४.३ ॥ *मार्कण्डेय उवाच कथयिष्यामि ते वत्स यच्छ्रेष्ठं तत्र यत्फलम् । पुरा हि सर्वविप्राणां कथ्यमानं मया श्रुतम् ॥ १०४.४ ॥ आ प्रयागप्रतिष्ठानादापुराद्वासुकेर्ह्रदात् । कम्बलाश्वतरौ नागौ नागश्च बहुमूलकः । एतत्प्रजापतेः क्षेत्रं त्रिषु लोकेषु विश्रुतम् ॥ १०४.५ ॥ तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः । ततो ब्रह्मादयो देवा रक्षां कुर्वन्ति संगताः ॥ १०४.६ ॥ अन्ये च बहवस्तीर्थाः सर्वपापहराः शुभाः । न शक्याः कथितुं राजन् बहुवर्षशतैरपि । संक्षेपेण प्रवक्ष्यामि प्रयागस्य तु कीर्तनम् ॥ १०४.७ ॥ षष्टिर्धनुःसहस्राणि यानि रक्षन्ति जाह्नवीम् । यमुनां रक्षति सदा सविता सप्तवाहनः ॥ १०४.८ ॥ प्रयागं तु विशेषेण सदा रक्षति वासवः । मण्डलं रक्षति हरिर्दैवतैः सह संगतः ॥ १०४.९ ॥ तं वटं रक्षति सदा शूलपाणिर्महेश्वरः । स्थानं रक्षन्ति वै देवाः सर्वपापहरं शुभम् ॥ १०४.१० ॥ अधर्मेणावृतो लोको नैव गच्छति तत्पदम् । स्वल्पमल्पतरं पापं यदा ते स्यान्नराधिप । प्रयागं स्मरमाणस्य सर्वमायाति संक्षयम् ॥ १०४.११ ॥ दर्शनात्तस्य तीर्थस्य नामसंकीर्तनादपि । मृत्तिकालम्भनाद्वापि नरः पापात्प्रमुच्यते ॥ १०४.१२ ॥ पञ्च कुण्डानि राजेन्द्र तेषां मध्ये तु जाह्नवी । प्रयागस्य प्रवेशे तु पापं नश्यति तत्क्षणात् ॥ १०४.१३ ॥ योजनानां सहस्रेषु गङ्गायाः स्मरणान्नरः । अपि दुष्कृतकर्मा तु लभते परमां गतिम् ॥ १०४.१४ ॥ कीर्तनान्मुच्यते पापाद्दृष्ट्वा भद्राणि पश्यति । अवगाह्य च पीत्वा तु पुनात्यासप्तमं कुलम् ॥ १०४.१५ ॥ सत्यवादी जितक्रोधो ह्यहिंसायां व्यवस्थितः । धर्मानुसारी तत्त्वज्ञो गोब्राह्मणहिते रतः ॥ १०४.१६ ॥ गङ्गायमुनयोर्मध्ये स्नातो मुच्येत किल्बिषात् । मनसा चिन्तयन्कामानवाप्नोति सुपुष्कलान् ॥ १०४.१७ ॥ ततो गत्वा प्रयागं तु सर्वदेवाभिरक्षितम् । ब्रह्मचारी वसेन्मासं पितॄन्देवांश्च तर्पयेत् । ईप्सितांल्लभते कामान् यत्र यत्राभिजायते ॥ १०४.१८ ॥ तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता । समागता महाभागा यमुना तत्र निम्नगा । तत्र संनिहितो नित्यं साक्षाद्देवो महेश्वरः ॥ १०४.१९ ॥ दुष्प्राप्यं मानुषैः पुण्यं प्रयागं तु युधिष्ठिर । देवदानवगन्धर्वा ऋषयः सिद्धचारणाः । तदुपस्पृश्य राजेन्द्र स्वर्गलोकमुपासते ॥ १०४.२० ॥ ______________________________________________________ मत्स्यपुराण १०५ *मार्कण्डेय उवाच शृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु । यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ १०५.१ ॥ आर्तानां हि दरिद्राणां निश्चितव्यवसायिनाम् । स्थानमुक्तं प्रयागं तु नाख्येयं तु कदाचन ॥ १०५.२ ॥ व्याधितो यदि वा दीनो वृद्धो वापि भवेन्नरः । गङ्गायमुनयोर्मध्ये यस्तु प्राणान्परित्यजेत् ॥ १०५.३ ॥ दीप्तकाञ्चनवर्णाभैर्विमानैः सूर्यसंनिभैः । गन्धर्वाप्सरसां मध्ये स्वर्गे क्रीडति मानवः ॥ १०५.४ ॥ ईप्सितांल्लभते कामान् वदन्ति ऋषिपुंगवाः । सर्वरत्नमयैर्दिव्यैर्नानाध्वजसमाकुलैः । वराङ्गनासमाकीर्णैर्मोदते शुभलक्षणैः ॥ १०५.५ ॥ गीतवाद्यविनिर्घोषैः प्रसुप्तः प्रतिबुध्यते । यावन्न स्मरते जन्म तावत्स्वर्गे महीयते ॥ १०५.६ ॥ ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः । हिरण्यरत्नसम्पूर्णे समृद्धे जायते कुले । तदेव स्मरते तीर्थं स्मरणात्तत्र गच्छति ॥ १०५.७ ॥ देशस्थो यदि वारण्ये विदेशस्थोऽथवा गृहे । प्रयागं स्मरमाणोऽपि यस्तु प्राणान्परित्यजेत् । ब्रह्मलोकमवाप्नोति वदन्ति ऋषिपुंगवाः ॥ १०५.८ ॥ सर्वकामफला वृक्षा मही यत्र हिरण्मयी । ऋषयो मुनयः सिद्धास्तत्र लोके स गच्छति ॥ १०५.९ ॥ स्त्रीसहस्रावृते रम्ये मन्दाकिन्यास्तटे शुभे । मोदते ऋषिभिः सार्धं सुकृतेनेह कर्मणा ॥ १०५.१० ॥ सिद्धचारणगन्धर्वैः पूज्यते दिवि दैवतैः । ततः स्वर्गात्परिभ्रष्टो जम्बूद्वीपपतिर्भवेत् ॥ १०५.११ ॥ ततः शुभानि कर्माणि चिन्तयानः पुनः पुनः । गुणवान्वित्तसम्पन्नो भवतीह न संशयः ॥ १०५.१२ ॥ कर्मणा मनसा वाचा धर्मसत्यप्रतिष्ठितः । गङ्गायमुनयोर्मध्ये यस्तु गां सम्प्रयच्छति ॥ १०५.१३ ॥ सुवर्णमणिमुक्ताश्च यदि वान्यत्परिग्रहम् । स्वकार्ये पितृकार्ये वा देवताभ्यर्चनेऽपि वा । सफलं तस्य तत्तीर्थं यथावत्पुण्यमाप्नुयात् ॥ १०५.१४ ॥ एवं तीर्थे न गृह्णीयात्पुण्येष्वायतनेषु च । निमित्तेषु च सर्वेषु ह्यप्रमत्तो भवेद्द्विजः ॥ १०५.१५ ॥ कपिलां पाटलावर्णां यस्तु धेनुं प्रयच्छति । स्वर्णशृङ्गीं रौप्यखुरां कांस्यदोहां पयस्विनीम् ॥ १०५.१६ ॥ प्रयागे श्रोत्रियं सन्तं ग्राहयित्वा यथाविधि । शुक्लाम्बरधरं शान्तं धर्मज्ञं वेदपारगम् ॥ १०५.१७ ॥ सा गौस्तस्मै प्रदातव्या गङ्गायमुनसंगमे । वासांसि च महार्हाणि रत्नानि विविधानि च ॥ १०५.१८ ॥ यावद्रोमाणि तस्या गोः सन्ति गात्रेषु सत्तम । तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥ १०५.१९ ॥ यत्रासौ लभते जन्म सा गौस्तस्याभिजायते । न च पश्यति तं घोरं नरकं तेन कर्मणा । उत्तरान्स कुरून्प्राप्य मोदते कालमक्षयम् ॥ १०५.२० ॥ गवां शतसहस्रेभ्यो दद्यादेकां पयस्विनीम् । पुत्रान्दारांस्तथा भृत्यान् गौरेका प्रति तारयेत् ॥ १०५.२१ ॥ तस्मात्सर्वेषु दानेषु गोदानं तु विशिष्यते । दुर्गमे विषमे घोरे महापातकसम्भवे । गौरेव रक्षां कुरुते तस्माद्देया द्विजोत्तमे ॥ १०५.२२ ॥ ______________________________________________________ मत्स्यपुराण १०६ *युधिष्ठिर उवाच यथा यथा प्रयागस्य माहात्म्यं कथ्यते त्वया । तथा तथा प्रमुच्येऽहं सर्वपापैर्न संशयः ॥ १०६.१ ॥ भगवन्केन विधिना गन्तव्यं धर्मनिश्चयैः । प्रयागे यो विधिः प्रोक्तस्तन्मे ब्रूहि महामुने ॥ १०६.२ ॥ *मार्कण्डेय उवाच कथयिष्यामि ते राजंस्तीर्थयात्राविधिक्रमम् । आर्षेण विधिनानेन यथादृष्टं यथाश्रुतम् ॥ १०६.३ ॥ प्रयागतीर्थयात्रार्थी यः प्रयाति नरः क्वचित् । बलीवर्दसमारूढः शृणु तस्यापि यत्फलम् ॥ १०६.४ ॥ नरके वसते घोरे गवां क्रोष्टा हि दारुणे । सलिलं न च गृह्णन्ति पितरस्तस्य देहिनः ॥ १०६.५ ॥ यस्तु पुत्रांस्तथा बालान् स्नापयेत्पाययेत्तथा । यथात्मना तथा सर्वं दानं विप्रेषु दापयेत् ॥ १०६.६ ॥ ऐश्वर्यलोभमोहाद्वा गच्छेद्यानेन यो नरः । निष्फलं तस्य तत्सर्वं तस्माद्यानं विवर्जयेत् ॥ १०६.७ ॥ गङ्गायमुनयोर्मध्ये यस्तु कन्यां प्रयच्छति । आर्षेणैव विवाहेन यथाविभवसम्भवम् ॥ १०६.८ ॥ न स पश्यति तं घोरं नरकं तेन कर्मणा । उत्तरान्स कुरून्गत्वा मोदते कालमक्षयम् । पुत्रान्दारांश्च लभते धार्मिकान्रूपसंयुतान् ॥ १०६.९ ॥ तत्र दानं प्रकर्तव्यं यथाविभवसम्भवम् । तेन तीर्थफलं चैव वर्धते नात्र संशयः । स्वर्गे तिष्ठति राजेन्द्र यावदाभूतसंप्लवम् ॥ १०६.१० ॥ वटमूलं समासाद्य यस्तु प्राणान्विमुञ्चति । सर्वलोकानतिक्रम्य रुद्रलोकं स गच्छति ॥ १०६.११ ॥ तत्र ते द्वादशादित्यास्तपन्ति रुद्रसंश्रिताः । निर्दहन्ति जगत्सर्वं वटमूलं न दह्यते ॥ १०६.१२ ॥ नष्टचन्द्रार्कभुवनं यदा चैकार्णवं जगत् । स्थीयते तत्र वै विष्णुर्यजमानः पुनः पुनः ॥ १०६.१३ ॥ देवदानवगन्धर्वा ऋषयः सिद्धचारणाः । सदा सेवन्ति तत्तीर्थं गङ्गायमुनसंगमम् ॥ १०६.१४ ॥ ततो गच्छेत राजेन्द्र प्रयागं संस्तुवंश्च यत् । यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः ॥ १०६.१५ ॥ लोकपालाश्च साध्याश्च पितरो लोकसंमताः । सनत्कुमारप्रमुखास्तथैव परमर्षयः ॥ १०६.१६ ॥ अङ्गिरःप्रमुखाश्चैव तथा ब्रह्मर्षयः परे । तथा नागाः सुपर्णाश्च सिद्धाश्च खेचराश्च ये ॥ १०६.१७ ॥ सागराः सरितः शैला नागा विद्याधराश्च ये । हरिश्च भगवनास्ते प्रजापतिपुरःसरः ॥ १०६.१८ ॥ गङ्गायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम् । प्रयागं राजशार्दूल त्रिषु लोकेषु विश्रुतम् । ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत ॥ १०६.१९ ॥ श्रवणात्तस्य तीर्थस्य नामसंकीर्तनादपि । मृत्तिकालम्भनाद्वापि नरः पापात्प्रमुच्यते ॥ १०६.२० ॥ तत्राभिषेकं यः कुर्यात्संगमे शंसितव्रतः । तुल्यं फलमवाप्नोति राजसूयाश्वमेधयोः ॥ १०६.२१ ॥ न देववचनात्तात न लोकवचनात्तथा । मतिरुत्क्रमणीया ते प्रयागगमनं प्रति ॥ १०६.२२ ॥ दश तीर्थसहस्राणि षष्टिकोट्यस्तथा पराः । तेषां सांनिध्यमत्रैव ततस्तु कुरुनन्दन ॥ १०६.२३ ॥ या गतिर्योगयुक्तस्य सत्यस्थस्य मनीषिणः । सा गतिस्त्यजतः प्राणान् गङ्गायमुनसंगमे ॥ १०६.२४ ॥ न ते जीवन्ति लोकेऽस्मिंस्तत्र तत्र युधिष्ठिर । ये प्रयागं न सम्प्राप्तास्त्रिषु लोकेषु वञ्चिताः ॥ १०६.२५ ॥ एवं दृष्ट्वा तु तत्तीर्थं प्रयागं परमं पदम् । मुच्यते सर्वपापेभ्यः शशाङ्क इव राहुणा ॥ १०६.२६ ॥ कम्बलाश्वतरौ नागौ विपुले यमुनातटे । तत्र स्नात्वा च पीत्वा च सर्वपापैः प्रमुच्यते ॥ १०६.२७ ॥ तत्र गत्वा च संस्थानं महादेवस्य विश्रुतम् । नरस्तारयते सर्वान् दश पूर्वान्दशापरान् ॥ १०६.२८ ॥ कृत्वाभिषेकं तु नरः सोऽश्वमेधफलं लभेत् । स्वर्गलोकमवाप्नोति यावदाभूतसंप्लवम् ॥ १०६.२९ ॥ पूर्वपार्श्वे तु गङ्गायास्त्रिषु लोकेषु भारत । कूपं चैव तु सामुद्रं प्रतिष्ठानं च विश्रुतम् ॥ १०६.३० ॥ ब्रह्मचारी जितक्रोधस्त्रिरात्रं यदि तिष्ठति । सर्वपापविशुद्धात्मा सोऽश्वमेधफलं लभेत् ॥ १०६.३१ ॥ उत्तरेण प्रतिष्ठानाद्भागीरथ्यास्तु पूर्वतः । हंसप्रपतनं नाम तीर्थं त्रैलोक्यविश्रुतम् ॥ १०६.३२ ॥ अश्वमेधफलं तस्मिन् स्नानमात्रेण भारत । यावच्चन्द्रश्च सूर्यश्च तावत्स्वर्गे महीयते ॥ १०६.३३ ॥ उर्वशीरमणे पुण्ये विपुले हंसपाण्डुरे । परित्यजति यः प्राणाञ्शृणु तस्यापि यत्फलम् ॥ १०६.३४ ॥ षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च । सेव्यते पितृभिः सार्धं स्वर्गलोके नराधिप ॥ १०६.३५ ॥ उर्वशीं तु सदा पश्येत्स्वर्गलोके नरोत्तम । पूज्यते सततं पुत्र ऋषिगन्धर्वकिंनरैः ॥ १०६.३६ ॥ ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः । उर्वशीसदृशीनां तु कन्यानां लभते शतम् ॥ १०६.३७ ॥ मध्ये नारीसहस्राणां बहूनां च पतिर्भवेत् । दशग्रामसहस्राणां भोक्ता भवति भूमिपः ॥ १०६.३८ ॥ काञ्चीनूपुरशब्देन सुप्तोऽसौ प्रतिबुध्यते । भुक्त्वा तु विपुलान् भोगांस्तत्तीर्थं भजते पुनः ॥ १०६.३९ ॥ शुक्लाम्बरधरो नित्यं नियतः संयतेन्द्रियः । एकं कालं तु भुञ्जानो मासं भूमिपतिर्भवेत् ॥ १०६.४० ॥ सुवर्णालंकृतानां तु नारीणां लभते शतम् । पृथिव्यामासमुद्रायां महाभूमिपतिर्भवेत् ॥ १०६.४१ ॥ धनधान्यसमायुक्तो दाता भवति नित्यशः । भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थं लभते पुनः ॥ १०६.४२ ॥ अथ संध्यावटे रम्ये ब्रह्मचारी जितेन्द्रियः । उपवासी शुचिः संध्यां ब्रह्मलोकमवाप्नुयात् ॥ १०६.४३ ॥ कोटितीर्थं समासाद्य यस्तु प्राणान्परित्यजेत् । कोटिवर्षसहस्राणां स्वर्गलोके महीयते ॥ १०६.४४ ॥ ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः । सुवर्णमणिमुक्ताढ्यकुले जायेत रूपवान् ॥ १०६.४५ ॥ ततो भोगवतीं गत्वा वासुकेरुत्तरेण तु । दशाश्वमेधकं नाम तीर्थं तत्रापरं भवेत् ॥ १०६.४६ ॥ कृताभिषेकस्तु नरः सोऽश्वमेधफलं लभेत् । धनाढ्यो रूपवान्दक्षो दाता भवति धार्मिकः ॥ १०६.४७ ॥ चतुर्वेदेषु यत्पुण्यं यत्पुण्यं सत्यवादिषु । अहिंसायां तु यो धर्मो गमनादेव तत्फलम् ॥ १०६.४८ ॥ कुरुक्षेत्रसमा गङ्गा यत्र यत्रावगाह्यते । कुरुक्षेत्राद्दशगुणा यत्र विन्ध्येन संगता ॥ १०६.४९ ॥ यत्र गङ्गा महाभागा बहुतीर्था तपोधना । सिद्धक्षेत्रं हि तज्ज्ञेयं नात्र कार्या विचारणा ॥ १०६.५० ॥ क्षितौ तारयते मर्त्यान्नागांस्तारयतेऽप्यधः । दिवि तारयते देवांस्तेन त्रिपथगा स्मृता ॥ १०६.५१ ॥ यावदस्थीनि गङ्गायां तिष्ठन्ति हि शरीरिणः । तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥ १०६.५२ ॥ ततः स्वर्गात्परिभ्रष्टो जम्बूद्वीपपतिर्भवेत् । तीर्थानां तु परं तीर्थं नदीनां तु महानदी । मोक्षदा सर्वभूतानां महापातकिनामपि ॥ १०६.५३ ॥ सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा । गङ्गाद्वारे प्रयागे च गङ्गासागरसंगमे । तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥ १०६.५४ ॥ सर्वेषामेव भूतानां पापोपहतचेतसाम् । गतिमन्विष्यमाणानां नास्ति गङ्गासमा गतिः ॥ १०६.५५ ॥ पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम् । महेश्वरशिरोभ्रष्टा सर्वपापहरा शुभा ॥ १०६.५६ ॥ कृते तु नैमिषं क्षेत्रं त्रेतायां पुष्करं परम् । द्वापरे तु कुरुक्षेत्रं कलौ गङ्गा विशिष्यते ॥ १०६.५७ ॥ गङ्गामेव निषेवेत प्रयागं तु विशेषतः । नान्यत्कलियुगे घोरे भेषजं नृप विद्यते ॥ १०६.५८ ॥ ______________________________________________________ मत्स्यपुराण १०७ *मार्कण्डेय उवाच शृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु । यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ १०७.१ ॥ मानसं नाम तत्तीर्थं गङ्गाया उत्तरे तटे । त्रिरात्रोपोषितो भूत्वा सर्वकामानवाप्नुयात् ॥ १०७.२ ॥ गोभूहिरण्यदानेन यत्फलं प्राप्नुयान्नरः । स तत्फलमवाप्नोति तत्तीर्थं स्मरते पुनः ॥ १०७.३ ॥ अकामो वा सकामो वा गङ्गायां योऽभिपद्यते । मृतस्तु लभते स्वर्गं नरकं च न पश्यति ॥ १०७.४ ॥ अप्सरोगणसंगीतैः सुप्तोऽसौ प्रतिबुध्यते । हंससारसयुक्तेन विमानेन स गच्छति । बहुवर्षसहस्राणि स्वर्गं राजेन्द्र भुञ्जति ॥ १०७.५ ॥ ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः । सुवर्णमणिमुक्ताढ्ये जायते विपुले कुले ॥ १०७.६ ॥ षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथापगाः । माघमासे गमिष्यन्ति गङ्गायमुनसंगमम् ॥ १०७.७ ॥ गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् । प्रयागे माघमासे तु त्र्यहस्नानात्तु तत्फलम् ॥ १०७.८ ॥ गङ्गायमुनयोर्मध्ये कर्षाग्निं यस्तु साधयेत् । अहीनाङ्गो ह्यरोगश्च पञ्चेन्द्रियसमन्वितः ॥ १०७.९ ॥ यावन्ति रोमकूपाणि तस्य गात्रेषु देहिनः । तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥ १०७.१० ॥ ततः स्वर्गात्परिभ्रष्टो जम्बूद्वीपपतिर्भवेत् । स भुक्त्वा विपुलान्भोगांस्तत्तीर्थं स्मरते पुनः ॥ १०७.११ ॥ जलप्रवेशं यः कुर्यात्संगमे लोकविश्रुते । राहुग्रस्ते तथा सोमे विमुक्तः सर्वकिल्बिषैः ॥ १०७.१२ ॥ सोमलोकमवाप्नोति सोमेन सह मोदते । षष्टिवर्षसहस्राणि स्वर्गलोके महीयते ॥ १०७.१३ ॥ स्वर्गे च शक्रलोकेऽस्मिन्नृषिगन्धर्वसेविते । परिभ्रष्टस्तु राजेन्द्र समृद्धे जायते कुले ॥ १०७.१४ ॥ अधःशिरास्तु यो ज्वालामूर्ध्वपादः पिबेन्नरः । शतवर्षसहस्राणि स्वर्गलोके महीयते ॥ १०७.१५ ॥ परिभ्रष्टस्तु राजेन्द्र सोऽग्निहोत्री भवेन्नरः । भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थं भजते पुनः ॥ १०७.१६ ॥ यः स्वदेहं तु कर्तित्वा शकुनिभ्यः प्रयच्छति । विहगैरुपभुक्तस्य शृणु तस्यापि यत्फलम् ॥ १०७.१७ ॥ शतं वर्षसहस्राणां सोमलोके महीयते । तस्मादपि परिभ्रष्टो राजा भवति धार्मिकः ॥ १०७.१८ ॥ गुणवान् रूपसम्पन्नो विद्वांश्च प्रियवाचकः । भुक्त्वा तु विपुलान्भोगांस्तत्तीर्थं भजते पुनः ॥ १०७.१९ ॥ यामुने चोत्तरे कूले प्रयागस्य तु दक्षिणे । ऋणप्रमोचनं नाम तत्तीर्थं परमं स्मृतम् ॥ १०७.२० ॥ एकरात्रोषितः स्नात्वा ऋणैः सर्वैः प्रमुच्यते । स्वर्गलोकमवाप्नोति अनृणश्च सदा भवेत् ॥ १०७.२१ ॥ ______________________________________________________ मत्स्यपुराण १०८ *युधिष्ठिर उवाच एतच्छ्रुत्वा प्रयागस्य यत्त्वया परिकीर्तितम् । विशुद्धं मेऽद्य हृदयं प्रयागस्य तु कीर्तनात् ॥ १०८.१ ॥ अनाशकफलं ब्रूहि भगवंस्तत्र कीदृशम् । यं च लोकमवाप्नोति विशुद्धः सर्वकिल्बिषैः ॥ १०८.२ ॥ *मार्कण्डेय उवाच शृणु राजन्प्रयागे तु अनाशकफलं विभो । प्राप्नोति पुरुषो धीमाञ्श्रद्दधानो जितेन्द्रियः ॥ १०८.३ ॥ अहीनाङ्गोऽप्यरोगश्च पञ्चेन्द्रियसमन्वितः । अश्वमेधफलं तस्य गच्छतस्तु पदे पदे ॥ १०८.४ ॥ कुलानि तारयेद्राजन् दश पूर्वान्दशापरान् । मुच्यते सर्वपापेभ्यो गच्छेत्तु परमं पदम् ॥ १०८.५ ॥ *युधिष्ठिर उवाच महाभाग्यं हि धर्मस्य यत्त्वं वदसि मे प्रभो । अल्पेनैव प्रयत्नेन बहून्धर्मानवाप्नुते ॥ १०८.६ ॥ अश्वमेधैस्तु बहुभिः प्राप्यते सुव्रतैरिह । इमं मे संशयं छिन्द्धि परं कौतूहलं हि मे ॥ १०८.७ ॥ *मार्कण्डेय उवाच शृणु राजन्महावीर यदुक्तं ब्रह्मयोनिना । ऋषीणां संनिधौ पूर्वं कथ्यमानं मया श्रुतम् ॥ १०८.८ ॥ पञ्चयोजनविस्तीर्णं प्रयागस्य तु मण्डलम् । प्रविष्टमात्रे तद्भूमावश्वमेधः पदे पदे ॥ १०८.९ ॥ व्यतीतान्पुरुषान्सप्त भविष्यांश्च चतुर्दश । नरस्तारयते सर्वान् यस्तु प्राणान्परित्यजेत् ॥ १०८.१० ॥ एवं ज्ञात्वा तु राजेन्द्र सदा सेवापरो भवेत् । अश्रद्दधानाः पुरुषाः पापोपहतचेतसः । न प्राप्नुवन्ति तत्स्थानं प्रयागं देवरक्षितम् ॥ १०८.११ ॥ *युधिष्ठिर उवाच स्नेहाद्वा द्रव्यलोभाद्वा ये तु कामवशं गताः । कथं तीर्थफलं तेषां कथं पुण्यफलं भवेत् ॥ १०८.१२ ॥ विक्रयः सर्वभाण्डानां कार्याकार्यमजानतः । प्रयागे का गतिस्तस्य तन्मे ब्रूहि पितामह ॥ १०८.१३ ॥ *मार्कण्डेय उवाच शृणु राजन्महागुह्यं सर्वपापप्रणाशनम् । मासमेकं तु यः स्नायात्प्रयागे नियतेन्द्रियः । मुच्यते सर्वपापेभ्यः स गच्छेत्परमं पदम् ॥ १०८.१४ ॥ विश्रम्भघातकानां तु प्रयागे शृणु यत्फलम् । त्रिकालमेव स्नायीत आहारं भैक्ष्यमाचरेत् । त्रिभिर्मासैः स मुच्येत प्रयागे तु न संशयः ॥ १०८.१५ ॥ अज्ञानेन तु यस्येह तीर्थयात्रादिकं भवेत् । सर्वकामसमृद्धस्तु स्वर्गलोके महीयते । स्थानं च लभते नित्यं धनधान्यसमाकुलम् ॥ १०८.१६ ॥ एवं ज्ञानेन सम्पूर्णः सदा भवति भोगवान् । तारिताः पितरस्तेन नरकात्प्रपितामहाः ॥ १०८.१७ ॥ धर्मानुसारि तत्त्वज्ञ पृच्छतस्ते पुनः पुनः । त्वत्प्रियार्थं समाख्यातं गुह्यमेतत्सनातनम् ॥ १०८.१८ ॥ *युधिष्ठिर उवाच अद्य मे सफलं जन्म अद्य मे तारितं कुलम् । प्रीतोऽस्म्यनुगृहीतोऽस्मि दर्शनादेव ते मुने ॥ १०८.१९ ॥ त्वद्दर्शनात्तु धर्मात्मन्मुक्तोऽहं चाद्य किल्बिषात् । इदानीं वेद्मि चात्मानं भगवन्गतकल्मषम् ॥ १०८.२० ॥ *मार्कण्डेय उवाच दिष्ट्या ते सफलं जन्म दिष्ट्या ते तारितं कुलम् । कीर्तनाद्वर्धते पुण्यं श्रुतात्पापप्रणाशनम् ॥ १०८.२१ ॥ *युधिष्ठिर उवाच यमुनायां तु किं पुण्यं किं फलं तु महामुने । एतन्मे सर्वमाख्याहि यथादृष्टं यथाश्रुतम् ॥ १०८.२२ ॥ *मार्कण्डेय उवाच तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता । समाख्याता महाभागा यमुना तत्र निम्नगा ॥ १०८.२३ ॥ येनैव निःसृता गङ्गा तेनैव यमुना गता । योजनानां सहस्रेषु कीर्तनात्पापनाशिनी ॥ १०८.२४ ॥ तत्र स्नात्वा च पीत्वा च यमुनायां युधिष्ठिर । कीर्तनाल्लभते पुण्यं दृष्ट्वा भद्राणि पश्यति ॥ १०८.२५ ॥ अवगाह्य च पीत्वा च पुनात्यासप्तमं कुलम् । प्राणांस्त्यजति यस्तत्र स याति परमां गतिम् ॥ १०८.२६ ॥ अग्नितीर्थमिति ख्यातं यमुनादक्षिणे तटे । पश्चिमे धर्मराजस्य तीर्थं तु नरकं स्मृतम् ॥ १०८.२७ ॥ तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः । एवं तीर्थसहस्राणि यमुनादक्षिणे तटे ॥ १०८.२८ ॥ उत्तरेण प्रवक्ष्यामि आदित्यस्य महात्मनः । तीर्थं निरञ्जनं नाम यत्र देवाः सवासवाः ॥ १०८.२९ ॥ उपासते स्म संध्यां ये त्रिकालं हि युधिष्ठिर । देवाः सेवन्ति तत्तीर्थं ये चान्ये विबुधा जनाः ॥ १०८.३० ॥ श्रद्दधानपरो भूत्वा कुरु तीर्थाभिषेचनम् । अन्ये च बहवस्तीर्थाः सर्वपापहराः स्मृताः । तेषु स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥ १०८.३१ ॥ गङ्गा च यमुना चैव उभे तुल्यफले स्मृते । केवलं ज्येष्ठभावेन गङ्गा सर्वत्र पूज्यते ॥ १०८.३२ ॥ एवं कुरुष्व कौन्तेय सर्वतीर्थाभिषेचनम् । यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ॥ १०८.३३ ॥ यस्त्विमं कल्य उत्थाय पठते च शृणोति च । मुच्यते सर्वपापेभ्यः स्वर्गलोकं स गच्छति ॥ १०८.३४ ॥ ______________________________________________________ मत्स्यपुराण १०९ *मार्कण्डेय उवाच श्रुतं मे ब्रह्मणा प्रोक्तं पुराणे ब्रह्मसम्भवे । तीर्थानां तु सहस्राणि शतानि नियुतानि च । सर्वे पुण्याः पवित्राश्च गतिश्च परमा स्मृता ॥ १०९.१ ॥ सोमतीर्थं महापुण्यं महापातकनाशनम् । स्नानमात्रेण राजेन्द्र पुरुषांस्तारयेच्छतम् । तस्मात्सर्वप्रयत्नेन तत्र स्नानं समाचरेत् ॥ १०९.२ ॥ *युधिष्ठिर उवाच पृथिव्यां नैमिषं पुण्यमन्तरिक्षे च पुष्करम् । त्रयाणामपि लोकानां कुरुक्षेत्रं विशिष्यते ॥ १०९.३ ॥ सर्वाणि तानि संत्यज्य कथमेकं प्रशंससि । अप्रमाणं तु तत्रोक्तमश्रद्धेयमनुत्तमम् ॥ १०९.४ ॥ गतिं च परमां दिव्यां भोगांश्चैव यथेप्सितान् । किमर्थमल्पयोगेन बहु धर्मं प्रशंससि । एतन्मे संशयं ब्रूहि यथादृष्टं यथाश्रुतम् ॥ १०९.५ ॥ *मार्कण्डेय उवाच अश्रद्धेयं न वक्तव्यं प्रत्यक्षमपि यद्भवेत् । नरस्याश्रद्दधानस्य पापोपहतचेतसः ॥ १०९.६ ॥ अश्रद्दधानो ह्यशुचिर्दुर्मतिस्त्यक्तमङ्गलः । एते पातकिनः सर्वे तेनेदं भाषितं त्वया ॥ १०९.७ ॥ शृणु प्रयागमाहात्म्यं यथादृष्टं यथाश्रुतम् । प्रत्यक्षं च परोक्षं च यथान्यस्तं भविष्यति ॥ १०९.८ ॥ यथैवान्यददृष्टं च यथादृष्टं यथाश्रुतम् । शास्त्रं प्रमाणं कृत्वा च युज्यते योगमात्मनः ॥ १०९.९ ॥ क्लिश्यते चापरस्तत्र नैव योगमवाप्नुयात् । जन्मान्तरसहस्रेभ्यो योगो लभ्येत मानवैः ॥ १०९.१० ॥ यथा योगसहस्रेण योगो लभ्येत मानवैः । यस्तु सर्वाणि रत्नानि ब्राह्मणेभ्यः प्रयच्छति ॥ १०९.११ ॥ तेन दानेन दत्तेन योगं नाभ्येति मानवः । प्रयागे तु मृतस्येदं सर्वं भवति नान्यथा ॥ १०९.१२ ॥ प्रधानहेतुं वक्ष्यामि श्रद्दधत्स्व च भारत । यथा सर्वेषु भूतेषु ब्रह्म सर्वत्र दृश्यते ॥ १०९.१३ ॥ ब्राह्मणे वास्ति यत्किंचिदब्राह्ममिति वोच्यते । एवं सर्वेषु भूतेषु ब्रह्म सर्वत्र पूज्यते ॥ १०९.१४ ॥ तथा सर्वेषु लोकेषु प्रयागं पूजयेद्बुधः । पूज्यते तीर्थराजस्तु सत्यमेव युधिष्ठिर ॥ १०९.१५ ॥ ब्रह्मापि स्मरते नित्यं प्रयागं तीर्थमुत्तमम् । तीर्थराजमनुप्राप्य न चान्यत्किंचिदर्हति ॥ १०९.१६ ॥ को हि देवत्वमासाद्य मनुष्यत्वं चिकीर्षति । अनेनैवोपमानेन त्वं ज्ञास्यसि युधिष्ठिर । यथा पुण्यतमं चास्ति तथैव कथितं मया ॥ १०९.१७ ॥ *युधिष्ठिर उवाच श्रुतं चेदं त्वया प्रोक्तं विस्मितोऽहं पुनः पुनः । कथं योगेन तत्प्राप्तिः स्वर्गवासस्तु कर्मणा ॥ १०९.१८ ॥ दाता वै लभते भोगान् गां च यत्कर्मणः फलम् । तानि कर्माणि पृच्छामि पुनस्तैः प्राप्यते मही ॥ १०९.१९ ॥ *मार्कण्डेय उवाच शृणु राजन्महाबाहो यथोक्तकरणं महीम् । गामग्निं ब्राह्मणं शास्त्रं काञ्चनं सलिलं स्त्रियः ॥ १०९.२० ॥ मातरं पितरं चैव ये निन्दन्ति नराधमाः । न तेषामूर्ध्वगमनमिदमाह प्रजापतिः ॥ १०९.२१ ॥ एवं योगस्य सम्प्राप्तिस्थानं परमदुर्लभम् । गच्छन्ति नरकं घोरं ये नराः पापकर्मिणः ॥ १०९.२२ ॥ हस्त्यश्वं गामनड्वाहं मणिमुक्तादिकाञ्चनम् । परोक्षं हरते यस्तु पश्चाद्दानं प्रयच्छति ॥ १०९.२३ ॥ न ते गच्छन्ति वै स्वर्गं दातारो यत्र भोगिनः । अनेनकर्मणा युक्ताः पच्यन्ते नरके पुनः ॥ १०९.२४ ॥ एवं योगं च धर्मं च दातारं च युधिष्ठिर । यथा सत्यमसत्यं वा अस्ति नास्तीति यत्फलम् । निरुक्तं तु प्रवक्ष्यामि यथाह स्वयमंशुमान् ॥ १०९.२५ ॥ ______________________________________________________ मत्स्यपुराण ११० *मार्कण्डेय उवाच शृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु । नैमिषं पुष्करं चैव गोतीर्थं सिन्धुसागरम् ॥ ११०.१ ॥ गया च चैत्रकं चैव गङ्गासागरमेव च । एते चान्ये च बहवो ये च पुण्याः शिलोच्चयाः ॥ ११०.२ ॥ दश तीर्थसहस्राणि त्रिंशत्कोट्यस्तथा पराः । प्रयागे संस्थिता नित्यमेवमाहुर्मनीषिणः ॥ ११०.३ ॥ त्रीणि चाप्यग्निकुण्डानि येषां मध्ये तु जाह्नवी । प्रयागादभिनिष्क्रान्ता सर्वतीर्थनमस्कृता ॥ ११०.४ ॥ तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता । यमुना गङ्गया सार्धं संगता लोकभाविनी ॥ ११०.५ ॥ गङ्गायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम् । प्रयागं राजशार्दूल कलां नार्हति षोडशीम् ॥ ११०.६ ॥ तिस्रः कोट्योऽर्धकोटिश्च तीर्थानां वायुरब्रवीत् । दिवि भुव्यन्तरिक्षे च तत्सर्वं जाह्नवी स्मृता ॥ ११०.७ ॥ प्रयागं समधिष्ठानं कम्बलाश्वतरावुभौ । भोगवत्यथ या चैषा वेदिरेषा प्रजापतेः ॥ ११०.८ ॥ तत्र वेदाश्च यज्ञाश्च मूर्तिमन्तो युधिष्ठिर । प्रजापतिमुपासन्ते ऋषयश्च तपोधनाः ॥ ११०.९ ॥ यजन्ते क्रतुभिर्देवास्तथा चक्रधरा नृपाः । ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत ॥ ११०.१० ॥ प्रभावात्सर्वतीर्थेभ्यः प्रभवत्यधिकं विभो । दश तीर्थसहस्राणि तिस्रः कोट्यस्तथा पराः ॥ ११०.११ ॥ यत्र गङ्गा महाभागा स देशस्तत्तपोधनम् । सिद्धक्षेत्रं च विज्ञेयं गङ्गातीरसमन्वितम् ॥ ११०.१२ ॥ इदं सत्यं विजानीयात्साधूनामात्मनश्च वै । सुहृदश्च जपेत्कर्णे शिष्यस्यानुगतस्य च ॥ ११०.१३ ॥ इदं धन्यमिदं स्वर्ग्यमिदं सत्यमिदं सुखम् । इदं पुण्यमिदं धर्म्यं पावनं धर्ममुत्तमम् ॥ ११०.१४ ॥ महर्षीणामिदं गुह्यं सर्वपापप्रणाशनम् । अधीत्य च द्विजोऽप्येतन्निर्मलः स्वर्गमाप्नुयात् ॥ ११०.१५ ॥ य इदं शृणुयान्नित्यं तीर्थं पुण्यं सदा शुचिः । जातिस्मरत्वं लभते नाकपृष्ठे च मोदते ॥ ११०.१६ ॥ प्राप्यन्ते तानि तीर्थानि सद्भिः शिष्टानुदर्शिभिः । स्नाहि तीर्थेषु कौरव्य न च वक्रमतिर्भव ॥ ११०.१७ ॥ त्वया च सम्यक्पृष्टेन कथितं वै मया विभो । पितरस्तारिताः सर्वे तथैव च पितामहाः ॥ ११०.१८ ॥ व्रतं दानं तपस्तीर्थं यागाः सर्वे सदक्षिणाः । योगाः सांख्यं सदाचारो ये चान्ये ज्ञानहेतवः । प्रयागस्य तु सर्वे ते कलां नार्हन्ति षोडशीम् ॥ ११०.१९ ॥ एवं ज्ञानं च योगश्च तीर्थं चैव युधिष्ठिर । बहुक्लेशेन युज्यन्ते तेन यान्ति परां गतिम् । त्रिकालं जायते ज्ञानं स्वर्गलोकं गमिष्यति ॥ ११०.२० ॥ ______________________________________________________ मत्स्यपुराण १११ *युधिष्ठिर उवाच कथं सर्वमिदं प्रोक्तं प्रयागस्य महामुने । एतन्नः सर्वमाख्याहि यथा हि मम तारयेत् ॥ १११.१ ॥ *मार्कण्डेय उवाच शृणु राजन्प्रयागे तु प्रोक्तं सर्वमिदं जगत् । ब्रह्मा विष्णुस्तथेशानो देवताः प्रभुरव्ययः ॥ १११.२ ॥ ब्रह्मा सृजति भूतानि स्थावरं जङ्गमं च यत् । तान्येतानि परं लोके विष्णुः संवर्धते प्रजाः ॥ १११.३ ॥ कल्पान्ते तत्समग्रं हि रुद्रः संहरते जगत् । तदा प्रयागतीर्थं च न कदाचिद्विनश्यति ॥ १११.४ ॥ ईश्वरः सर्वभूतानां यः पश्यति स पश्यति । यत्नेनानेन तिष्ठन्ति ते यान्ति परमां गतिम् ॥ १११.५ ॥ *युधिष्ठिर उवाच आख्याहि मे यथातथ्यं यथैषा तिष्ठति श्रुतिः । केन वा कारणेनैव तिष्ठन्ते लोकसत्तमाः ॥ १११.६ ॥ *मार्कण्डेय उवाच प्रयागे निवसन्त्येते ब्रह्मविष्णुमहेश्वराः । कारणं तत्प्रवक्ष्यामि शृणु तत्त्वं युधिष्ठिर ॥ १११.७ ॥ पञ्चयोजनविस्तीर्णं प्रयागस्य तु मण्डलम् । तिष्ठन्ति रक्षणायात्र पापकर्मनिवारणात् ॥ १११.८ ॥ उत्तरेण प्रतिष्ठानाच्छद्मना ब्रह्म तिष्ठति । वेणीमाधवरूपी तु भगवांस्तत्र तिष्ठति ॥ १११.९ ॥ माहेश्वरो वटो भूत्वा तिष्ठते परमेश्वरः । ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः । रक्षन्ति मण्डलं नित्यं पापकर्मनिवारणात् ॥ १११.१० ॥ यस्मिञ्जुह्वन्स्वकं पापं नरकं च न पश्यति । एवं ब्रह्मा च विष्णुश्च प्रयागे स महेश्वरः ॥ १११.११ ॥ सप्तद्वीपाः समुद्राश्च पर्वताश्च महीतले । रक्षमाणाश्च तिष्ठन्ति यावदाभूतसंप्लवम् ॥ १११.१२ ॥ ये चान्ये बहवः सर्वे तिष्ठन्ति च युधिष्ठिर । यत्पृथिवी तत्समाश्रित्य निर्मिता दैवतैस्त्रिभिः ॥ १११.१३ ॥ प्रजापतेरिदं क्षेत्रं प्रयागमिति विश्रुतम् । एतत्पुण्यं पवित्रं वै प्रयागं च युधिष्ठिर । स्वराज्यं कुरु राजेन्द्र भ्रातृभिः सहितोऽनघ ॥ १११.१४ ॥ ______________________________________________________ मत्स्यपुराण ११२ *नन्दिकेश्वर उवाच भ्रातृभिः सहितः सर्वैर्द्रौपद्या सह भार्यया । ब्राह्मणेभ्यो नमस्कृत्य गुरून्देवानतर्पयत् ॥ ११२.१ ॥ वासुदेवोऽपि तत्रैव क्षणेनाभ्यागतस्तदा । पाण्डवैः सहितैः सर्वैः पूज्यमानस्तु माधवः ॥ ११२.२ ॥ कृष्णेन सहितैः सर्वैः पुनरेव महात्मभिः । अभिषिक्तः स्वराज्ये च धर्मपुत्रो युधिष्ठिरः ॥ ११२.३ ॥ एतस्मिन्नन्तरे चैव मार्कण्डेयो महामुनिः । ततः स्वस्तीति चोक्त्वा तु क्षणादाश्रममागमत् ॥ ११२.४ ॥ युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितोऽवसत् । महादानं ततो दत्त्वा धर्मपुत्रो महामनाः ॥ ११२.५ ॥ यस्त्विदं कल्य उत्थाय माहात्म्यं पठते नरः । प्रयागं स्मरते नित्यं स याति परमं पदम् । मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति ॥ ११२.६ ॥ *वासुदेव उवाच मम वाक्यं च कर्तव्यं महाराज ब्रवीम्यहम् । नित्यं जपस्व जुह्वस्व प्रयागे विगतज्वरः ॥ ११२.७ ॥ प्रयागं स्मर वै नित्यं सहास्माभिर्युधिष्ठिर । स्वयं प्राप्स्यसि राजेन्द्र स्वर्गलोकं न संशयः ॥ ११२.८ ॥ प्रयागमनुगच्छेद्वा वसते वापि यो नरः । सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ॥ ११२.९ ॥ प्रतिग्रहादुपावृत्तः संतुष्टो नियतः शुचिः । अहंकारनिवृत्तश्च स तीर्थफलमश्नुते ॥ ११२.१० ॥ अकोपनश्च सत्यश्च सत्यवादी दृढव्रतः । आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ॥ ११२.११ ॥ ऋषिभिः क्रतवः प्रोक्ता देवैश्चापि यथाक्रमम् । न हि शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते ॥ ११२.१२ ॥ बहूपकरणा यज्ञा नानासम्भारविस्तराः । प्राप्यन्ते पार्थिवैरेतैः समृद्धैर्वै नरैः क्वचित् ॥ ११२.१३ ॥ यो दरिद्रैरपि विधिः शक्यः प्राप्तुं नरेश्वर । तुल्यो यज्ञफलैः पुण्यैस्तन्निबोध युधिष्ठिर ॥ ११२.१४ ॥ ऋषीणां परमं गुह्यमिदं भरतसत्तम । तीर्थानुगमनं पुण्यं यज्ञेभ्योऽपि विशिष्यते ॥ ११२.१५ ॥ दश तीर्थसहस्राणि तिस्रः कोट्यस्तथापगाः । माघमासे गमिष्यन्ति गङ्गायां भरतर्षभ ॥ ११२.१६ ॥ स्वस्थो भव महाराज भुङ्क्ष्व राज्यमकण्टकम् । पुनर्द्रक्ष्यसि राजेन्द्र यजमानो विशेषतः ॥ ११२.१७ ॥ *नन्दिकेश्वर उवाच इत्युक्त्वा स महाभागो मार्कण्डेयो महातपाः । युधिष्ठिरस्य नृपतेस्तत्रैवान्तरधीयत ॥ ११२.१८ ॥ ततस्तत्र समाप्लाव्य गात्राणि सगणो नृपः । यथोक्तेनाथ विधिना परां निर्वृतिमागमत् ॥ ११२.१९ ॥ तथा त्वमपि देवर्षे प्रयागाभिमुखो भव । अभिषेकं तु कृत्वाद्य कृतकृत्यो भविष्यसि ॥ ११२.२० ॥ *सूत उवाच एवमुक्त्वाथ नन्दीशस्तत्रैवान्तरधीयत । नारदोऽपि जगामाशु प्रयागाभिमुखस्तथा ॥ ११२.२१ ॥ तत्र स्नात्वा च जप्त्वा च विधिदृष्टेन कर्मणा । दानं दत्त्वा द्विजाग्र्येभ्यो गतः स्वभवनं तदा ॥ ११२.२२ ॥ ______________________________________________________ मत्स्यपुराण ११३ *ऋषय ऊचुः कति द्वीपाः समुद्रा वा पर्वता वा कति प्रभो । कियन्ति चैव वर्षाणि तेषु नद्यश्च काः स्मृताः ॥ ११३.१ ॥ महाभूमिप्रमाणं च लोकालोकस्तथैव च । पर्याप्तिं परिमाणं च गतिश्चन्द्रार्कयोस्तथा ॥ ११३.२ ॥ एतद्ब्रवीहि नः सर्वं विस्तरेण यथार्थवित् । त्वदुक्तमेतत्सकलं श्रोतुमिच्छामहे वयम् ॥ ११३.३ ॥ *सूत उवाच द्वीपभेदसहस्राणि सप्त चान्तर्गतानि च । न शक्यन्ते क्रमेणेह वक्तुं वै सकलं जगत् ॥ ११३.४ ॥ सप्तैव तु प्रवक्ष्यामि चन्द्रादित्यग्रहैः सह । तेषां मनुष्यतर्केण प्रमाणानि प्रचक्षते ॥ ११३.५ ॥ अचिन्त्याः खलु ये भावास्तांस्तु तर्केण साधयेत् । प्रकृतिभ्यः परं यच्च तदचिन्त्यस्य लक्षणम् ॥ ११३.६ ॥ सप्त वर्षाणि वक्ष्यामि जम्बूद्वीपं यथाविधम् । विस्तरं मण्डलं यच्च योजनैस्तान्निबोधत ॥ ११३.७ ॥ योजनानां सहस्राणि शतं द्वीपस्य विस्तरः । नानाजनपदाकीर्णं पुरैश्च विविधैः शुभैः ॥ ११३.८ ॥ सिद्धचारणसंकीर्णं पर्वतैरुपशोभितम् । सर्वधातुपिनद्धैस्तैः शिलाजालसमुद्गतैः ॥ ११३.९ ॥ पर्वतप्रभवाभिश्च नदीभिस्तु समन्ततः । प्रागायता महापार्श्वाः षडिमे वर्षपर्वताः ॥ ११३.१० ॥ अवगाह्य ह्युभयतः समुद्रौ पूर्वपश्चिमौ । हिमप्रायश्च हिमवान् हेमकूटश्च हेमवान् ॥ ११३.११ ॥ सर्वतः सुमुखश्चापि निषधः पर्वतो महान् । चातुर्वर्ण्यस्तु सौवर्णो मेरुश्चोल्बमयः स्मृतः । चतुर्विंशत्सहस्राणि विस्तीर्णः स चतुर्दिशम् ॥ ११३.१२ ॥ वृत्ताकृतिप्रमाणश्च चतुरस्रः समाहितः । नानावर्णैः समः पार्श्वैः प्रजापतिगुणान्वितः ॥ ११३.१३ ॥ नाभीबन्धनसम्भूतो ब्रह्मणोऽव्यक्तजन्मनः । पूर्वतः श्वेतवर्णस्तु ब्राह्मण्यं तस्य तेन वै ॥ ११३.१४ ॥ पीतश्च दक्षिणेनासौ तेन वैश्यत्वमिष्येत । भृङ्गिपत्त्रीनभश्चैव पश्चिमेन समन्वितः । तेनास्य शूद्रता सिद्धा मेरोर्नामार्थकर्मतः ॥ ११३.१५ ॥ पार्श्वमुत्तरतस्तस्य रक्तवर्णं स्वभावतः । तेनास्य क्षत्रभावः स्यादिति वर्णाः प्रकीर्तिताः ॥ ११३.१६ ॥ नीलश्च वैडूर्यमयः श्वेतः पीतो हिरण्मयः । मयूरबर्हवर्णश्च शातकौम्भः स शृङ्गवान् ॥ ११३.१७ ॥ एते पर्वतराजानः सिद्धचारणसेविताः । तेषामन्तरविष्कम्भो नवसाहस्रमुच्यते ॥ ११३.१८ ॥ मध्ये त्विलावृतं नाम महामेरोः समन्ततः । चतुर्विंशत्सहस्राणि विस्तीर्णो योजनैः समः ॥ ११३.१९ ॥ मध्ये तस्य महामेरुर्विधूम इव पावकः । वेद्यर्धं दक्षिणं मेरोरुत्तरार्धं तथोत्तरम् ॥ ११३.२० ॥ वर्षाणि यानि सप्तात्र तेषां वै वर्षपर्वताः । द्वे द्वे सहस्रे विस्तीर्णा योजनैर्दक्षिणोत्तरम् ॥ ११३.२१ ॥ जम्बूद्वीपस्य विस्तारस्तेषामायाम उच्यते । नीलश्च निषधश्चैव तेषां हीनाश्च ये परे ॥ ११३.२२ ॥ श्वेतश्च हेमकूटश्च हिमवाञ्छृङ्गवांश्च यः । जम्बूद्वीपप्रमाणेण ऋषभः परिकीर्त्यते ॥ ११३.२३ ॥ तस्माद्द्वादशभागेन हेमकूटोऽपि हीयते । हिमवान्विंशभागेन तस्मादेव प्रहीयते । अष्टाशीतिसहस्राणि हेमकूटो महागिरिः ॥ ११३.२४ ॥ अशीतिर्हिमवाञ्छैल आयतः पूर्वपश्चिमे । द्वीपस्य मण्डलीभावाद्ध्रासवृद्धी प्रकीर्तिते ॥ ११३.२५ ॥ वर्षाणां पर्वतानां च यथाभेदं तथोत्तरम् । तेषां मध्ये जनपदास्तानि वर्षाणि सप्त वै ॥ ११३.२६ ॥ प्रपातविषमैस्तैस्तु पर्वतैरावृतानि तु । सप्त तानि नदीभेदैरगम्यानि परस्परम् ॥ ११३.२७ ॥ वसन्ति तेषु सत्त्वानि नानाजातीनि सर्वशः । इमं हैमवतं वर्षं भारतं नाम विश्रुतम् ॥ ११३.२८ ॥ हेमकूटं परं तस्मान्नाम्ना किम्पुरुषं स्मृतम् । हेमकूटाच्च निषधं हरिवर्षं तदुच्यते ॥ ११३.२९ ॥ हरिवर्षात्परं चापि मेरोस्तु तदिलावृतम् । इलावृतात्परं नीलं रम्यकं नाम विश्रुतम् ॥ ११३.३० ॥ रम्यकादपरं श्वेतं विश्रुतं तद्धिरण्यकम् । हिरण्यकात्परं चैव शृङ्गशाकंकुरं स्मृतम् ॥ ११३.३१ ॥ धनुःसंस्थे तु विज्ञेये देवर्षे दक्षिणोत्तरे । दीर्घाणि तस्य चत्वारि मध्यमं तदिलावृतम् ॥ ११३.३२ ॥ पूर्वतो निषधस्येदं वेद्यर्धं दक्षिणं स्मृतम् । परं त्विलावृतं पश्चाद्वेद्यर्धं तु तदुत्तरम् ॥ ११३.३३ ॥ तयोर्मध्ये तु विज्ञेयो मेरुर्यत्र त्विलावृतम् । दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ॥ ११३.३४ ॥ उदगायतो महाशैलो माल्यवान्नाम पर्वतः । द्वात्रिंशता सहस्रेण प्रतीच्यां सागरानुगः ॥ ११३.३५ ॥ माल्यवान्वै सहस्रैक आ नीलनिषधायतः । द्वात्रिंशत्त्वेवमप्युक्तः पर्वतो गन्धमादनः ॥ ११३.३६ ॥ परिमण्डलयोर्मध्ये मेरुः कनकपर्वतः । चातुर्वर्ण्यसमो वर्णैश्चतुरस्रः समुच्छ्रितः ॥ ११३.३७ ॥ नानावर्णः स पार्श्वेषु पूर्वान्ते श्वेत उच्यते । पीतं तु दक्षिणं तस्य भृङ्गिपत्त्रनिभं परम् । उत्तरं तस्य रक्तं वै इति वर्णसमन्वितः ॥ ११३.३८ ॥ मेरुस्तु शुशुभे दिव्यो राजवत्स तु वेष्टितः । आदित्यतरुणाभासो विधूम इव पावकः ॥ ११३.३९ ॥ योजनानां सहस्राणि चतुराशीतिसूच्छ्रितः । प्रविष्टः षोडशाधस्तादष्टाविंशतिविस्तृतः ॥ ११३.४० ॥ विस्तराद्द्विगुणश्चास्य परीणाहः समन्ततः । स पर्वतो महादिव्यो दिव्यौषधिसमन्वितः ॥ ११३.४१ ॥ भुवनैरावृतः सर्वैर्जातरूपपरिष्कृतैः । तत्र देवगणाश्चैव गन्धर्वासुरराक्षसाः । शैलराजे प्रमोदन्ते सर्वतोऽप्सरसां गणैः ॥ ११३.४२ ॥ स तु मेरुः परिवृतो भुवनैर्भूतभावनैः । यस्येमे चतुरो देशा नानापार्श्वेषु संस्थिताः ॥ ११३.४३ ॥ भद्राश्वं भारतं चैव केतुमालं च पश्चिमे । उत्तराश्चैव कुरवः कृतपुण्यप्रतिश्रयाः ॥ ११३.४४ ॥ विष्कम्भपर्वतास्तद्वन्मन्दरो गन्धमादनः । विपुलश्च सुपार्श्वश्च सर्वरत्नविभूषिताः ॥ ११३.४५ ॥ अरुणोदं मानसं च सितोदं भद्रसंज्ञितम् । तेषामुपरि चत्वारि सरांसि च वनानि च ॥ ११३.४६ ॥ तथा भद्रकदम्बस्तु पर्वते गन्धमादने । जम्बूवृक्षस्तथाश्वत्थो विपुलेऽथ वटः परम् ॥ ११३.४७ ॥ गन्धमादनपार्श्वे तु पश्चिमेऽमरगण्डिकः । द्वात्रिंशच्च सहस्राणि योजनैः सर्वतः समः ॥ ११३.४८ ॥ तत्र ते शुभकर्माणः केतुमालाः परिश्रुताः । तत्र कालानलाः सर्वे महासत्त्वा महाबलाः ॥ ११३.४९ ॥ स्त्रियश्चोत्पलवर्णाभाः सुन्दर्यः प्रियदर्शनाः । तत्र दिव्यो महावृक्षः पनसः पत्त्रभासुरः ॥ ११३.५० ॥ तस्य पीत्वा फलरसं संजीवन्ति समायुतम् । तस्य माल्यवतः पार्श्वे पूर्वे पूर्वा तु गण्डिका । द्वात्रिंशच्च सहस्राणि तत्रापि शतमुच्यते ॥ ११३.५१ ॥ भद्राश्वस्तत्र विज्ञेयो नित्यं मुदितमानसः । भद्रमालवनं तत्र कालाम्रश्च महाद्रुमः ॥ ११३.५२ ॥ तत्र ते पुरुषाः श्वेता महासत्त्वा महाबलाः । स्त्रियः कुमुदवर्णाभाः सुन्दर्यः प्रियदर्शनाः ॥ ११३.५३ ॥ चन्द्रप्रभाश्चन्द्रवर्णाः पूर्णचन्द्रनिभाननाः । चन्द्रशीतलगात्राश्च स्त्रियो ह्युत्पलगन्धिकाः ॥ ११३.५४ ॥ दशवर्षसहस्राणि आयुस्तेषामनामयम् । कालाम्रस्य रसं पीत्वा ते सर्वे स्थिरयौवनाः ॥ ११३.५५ ॥ *सूत उवाच इत्युक्तवानृषीन्ब्रह्मा वर्षाणि च निसर्गतः । पूर्वं ममानुग्रहकृद्भूयः किं वर्णयामि वः ॥ ११३.५६ ॥ एतच्छ्रुत्वा वचस्ते तु ऋषयः संशितव्रताः । जातकौतूहलाः सर्वे प्रत्यूचुस्ते मुदान्विताः ॥ ११३.५७ ॥ *ऋषय ऊचुः पूर्वापरौ समाख्यातौ यौ देशौ तौ त्वया मुने । उत्तराणां च वर्षाणां पर्वतानां च सर्वशः ॥ ११३.५८ ॥ आख्याहि नो यथातथ्यं ये च पर्वतवासिनः । एवमुक्तस्तु ऋषिभिस्तेभ्यस्त्वाख्यातवान्पुनः ॥ ११३.५९ ॥ *सूत उवाच शृणुध्वं यानि वर्षाणि पूर्वोक्तानि च वै मया । दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ॥ ११३.६० ॥ वर्षं रमणकं नाम जायन्ते यत्र वै प्रजाः । रतिप्रधाना विमला जायन्ते यत्र मानवाः । शुक्लाभिजनसम्पन्नाः सर्वे ते प्रियदर्शनाः ॥ ११३.६१ ॥ तत्रापि च महावृक्षो न्यग्रोधो रोहिणो महान् । तस्यापि ते फलरसं पिबन्तो वर्तयन्ति हि ॥ ११३.६२ ॥ दशवर्षसहस्राणि दशवर्षशतानि च । जीवन्ति ते महाभागाः सदा हृष्टा नरोत्तमाः ॥ ११३.६३ ॥ उत्तरेण तु श्वेतस्य पार्श्वे शृङ्गस्य दक्षिणे । वर्षं हिरण्वतं नाम यत्र हैरण्वती नदी ॥ ११३.६४ ॥ महाबला महासत्त्वा नित्यं मुदितमानसाः । शुक्लाभिजनसम्पन्नाः सर्वे च प्रियदर्शनाः ॥ ११३.६५ ॥ एकादश सहस्राणि वर्षाणां ते नरोत्तमाः । आयुष्प्रमाणं जीवन्ति शतानि दश पञ्च च ॥ ११३.६६ ॥ तस्मिन्वर्षे महावृक्षो लकुचः पत्त्रसंश्रयः । तस्य पीत्वा फलरसं तत्र जीवन्ति मानवाः ॥ ११३.६७ ॥ शृङ्गसाह्वस्य शृङ्गाणि त्रीणि तानि महान्ति वै । एकं मणियुतं तत्र एकं तु कनकान्वितम् । सर्वरत्नमयं चैकं भुवनैरुपशोभितम् ॥ ११३.६८ ॥ उत्तरे चास्य शृङ्गस्य समुद्रान्ते च दक्षिणे । कुरवस्तत्र तद्वर्यं पुण्यं सिद्धनिषेवितम् ॥ ११३.६९ ॥ तत्र वृक्षा मधुफला दिव्यामृतमयापगाः । वस्त्राणि ते प्रसूयन्ते फलैश्चाभरणानि च ॥ ११३.७० ॥ सर्वकामप्रदातारः केचिद्वृक्षा मनोरमाः । अपरे क्षीरिणो नाम वृक्षास्तत्र मनोरमाः । ये रक्षन्ति सदा क्षीरं षड्रसं चामृतोपमम् ॥ ११३.७१ ॥ सर्वा मणिमयी भूमिः सूक्ष्मा काञ्चनवालुका । सर्वत्र सुखसंस्पर्शा निःशब्दाः पवनाः शुभाः ॥ ११३.७२ ॥ देवलोकच्युतास्तत्र जायन्ते मानवाः शुभाः । शुक्लाभिजनसम्पन्नाः सर्वे ते स्थिरयौवनाः ॥ ११३.७३ ॥ मिथुनानि प्रजायन्ते स्त्रियश्चाप्सरसोपमाः । तेषां ते क्षीरिणां क्षीरं पिबन्ति ह्यमृतोपमम् ॥ ११३.७४ ॥ एकाहाज्जायते युग्मं समं चैव विवर्धते । समं रूपं च शीलं च समं चैव म्रियन्ति वै ॥ ११३.७५ ॥ एकैकमनुरक्ताश्च चक्रवाकमिव ध्रुवम् । अनामया ह्यशोकाश्च नित्यं मुदितमानसाः ॥ ११३.७६ ॥ दश वर्षसहस्राणि दश वर्षशतानि च । जीवन्ति च महासत्त्वा न चान्या स्त्री प्रवर्तते ॥ ११३.७७ ॥ *सूत उवाच एवमेव निसर्गो वै वर्षाणां भारते युगे । दृष्टः परमधर्मज्ञाः किं भूयः कथयामि वः ॥ ११३.७८ ॥ आख्यातास्त्वेवमृषयः सूतपुत्रेण धीमता । उत्तरश्रवणे भूयः पप्रच्छुः सूतनन्दनम् ॥ ११३.७९ ॥ ______________________________________________________ मत्स्यपुराण ११४ *ऋषय ऊचुः यदिदं भारतं वर्षं यस्मिन् स्वायम्भुवादयः । चतुर्दशैव मनवः प्रजासर्गं ससर्जिरे ॥ ११४.१ ॥ एतद्वेदितुमिच्छामः सकाशात्तव सुव्रत । उत्तरश्रवणं भूयः प्रब्रूहि वदतां वर ॥ ११४.२ ॥ एतच्छ्रुत्वा ऋषीणां तु प्राब्रवील्लौमहर्षणिः । पौराणिकस्तदा सूत ऋषीणां भावितात्मनाम् ॥ ११४.३ ॥ बुद्ध्या विचार्य बहुधा विमृश्य च पुनः पुनः । तेभ्यस्तु कथयामास उत्तरश्रवणं तदा ॥ ११४.४ ॥ *सूत उवाच अथाहं वर्णयिष्यामि वर्षेऽस्मिन्भारते प्रजाः । भरणात्प्रजनाच्चैव मनुर्भरत उच्यते ॥ ११४.५ ॥ निरुक्तवचनैश्चैव वर्षं तद्भारतं स्मृतम् । यतः स्वर्गश्च मोक्षश्च मध्यमश्चापि हि स्मृतः ॥ ११४.६ ॥ न खल्वन्यत्र मर्त्यानां भूमौ कर्मविधिः स्मृतः । भारतस्यास्य वर्षस्य नव भेदान्निबोधत ॥ ११४.७ ॥ इन्द्रद्वीपः कशेरुश्च ताम्रपर्णो गभस्तिमान् । नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः ॥ ११४.८ ॥ अयं तु नवमस्तेषां द्वीपः सागरसंवृतः । योजनानां सहस्रं तु द्वीपोऽयं दक्षिणोत्तरः ॥ ११४.९ ॥ आयतस्तु कुमारीतो गङ्गायाः प्रवहावधिः । तिर्यगूर्ध्वं तु विस्तीर्णः सहस्राणि दशैव तु ॥ ११४.१० ॥ द्वीपो ह्युपनिविष्टोऽयं म्लेच्छैरन्तेषु सर्वशः । यवनाश्च किराताश्च तस्यान्ते पूर्वपश्चिमे ॥ ११४.११ ॥ ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भागशः । इज्यायुतवणिज्यादि वर्तयन्तो व्यवस्थिताः ॥ ११४.१२ ॥ तेषां स व्यवहारोऽयं वर्तनं तु परस्परम् । धर्मार्थकामसंयुक्तो वर्णानां तु स्वकर्मसु ॥ ११४.१३ ॥ संकल्पपञ्चमानां तु आश्रमाणां यथाविधि । इह स्वर्गापवर्गार्थं प्रवृत्तिरिह मानुषे ॥ ११४.१४ ॥ यस्त्वयं मानवो द्वीपस्तिर्यग्यामः प्रकीर्तितः । य एनं जयते कृत्स्नं स सम्राडिति कीर्तितः ॥ ११४.१५ ॥ अयं लोकस्तु वै सम्राडन्तरिक्षजितां स्मृतः । स्वराडसौ स्मृतो लोकः पुनर्वक्ष्यामि विस्तरात् ॥ ११४.१६ ॥ सप्त चास्मिन्महावर्षे विश्रुताः कुलपर्वताः । महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि ॥ ११४.१७ ॥ विन्ध्यश्च पारियात्रश्च इत्येते कुलपर्वताः । तेषां सहस्रशश्चान्ये पर्वतास्तु समीपतः ॥ ११४.१८ ॥ अभिज्ञातास्ततश्चान्ये विपुलाश्चित्रसानवः । अन्ये तेभ्यः परिज्ञाता ह्रस्वा ह्रस्वोपजीविनः ॥ ११४.१९ ॥ तैर्विमिश्रा जानपदा आर्या म्लेच्छाश्च सर्वतः । पिबन्ति बहुला नद्यो गङ्गा सिन्धुः सरस्वती ॥ ११४.२० ॥ शतद्रुश्चन्द्रभागा च यमुना सरयूस्तथा । ऐरावती वितस्ता च विशाला देविका कुहूः ॥ ११४.२१ ॥ गोमती धौतपापा च बाहुदा च दृषद्वती । कौशिकी तु तृतीया च निश्चला गण्डकी तथा ॥ ११४.२२ ॥ इक्षुर्लौहितमित्येता हिमवत्पार्श्वनिःसृताः । वेदस्मृतिर्वेत्रवती वृत्रघ्नी सिन्धुरेव च । पर्णाशा नर्मदा चैव कावेरी महती तथा ॥ ११४.२३ ॥ पारा च धन्वतीरूपा विदुषा वेणुमत्यपि । शिप्रा ह्यवन्ती कुन्ती च पारियात्राश्रिताः स्मृताः ॥ ११४.२४ ॥ शोणो महानदश्चैव नन्दना सुकृशा क्षमा । मन्दाकिनी दशार्णा च चित्रकूटा तथैव च । तमसा पिप्पली श्येनी तथा चित्रोत्पलापि च ॥ ११४.२५ ॥ विमला चञ्चला चैव तथा च धूतवाहिनी । शुक्तिमन्ती शुनी लज्जा मुकुटा ह्रादिकापि च । ऋष्यवन्तप्रसूतास्ता नद्योऽमलजलाः शुभाः ॥ ११४.२६ ॥ तापी पयोष्णी निर्विन्ध्या क्षिप्रा च ऋषभा नदी । वेणा वैतरणी चैव विश्वमाला कुमुद्वती ॥ ११४.२७ ॥ तोया चैव महागौरी दुर्गमा तु शिला तथा । विन्ध्यपादप्रसूतास्ताः सर्वाः शीतजलाः शुभाः ॥ ११४.२८ ॥ गोदावरी भीमरथी कृष्णवेणी च वञ्जुला । तुङ्गभद्रा सुप्रयोगा वाह्या कावेरी चैव तु । दक्षिणापथनद्यस्ताः सह्यपादाद्विनिःसृताः ॥ ११४.२९ ॥ कृतमाला ताम्रपर्णी पुष्पजा ह्युत्पलावती । मलयप्रसूता नद्यस्ताः सर्वाः शीतजलाः शुभाः ॥ ११४.३० ॥ त्रिभागा ऋषिकुल्या च इक्षुदा त्रिदिवाचला । ताम्रपर्णी तथा मूली शरवा विमला तथा । महेन्द्रतनयाः सर्वाः प्रख्याताः शुभगामिनीः ॥ ११४.३१ ॥ काशिका सुकुमारी च मन्दगा मन्दवाहिनी । कृपा च पाशिनी चैव शुक्तिमन्तात्मजास्तु ताः ॥ ११४.३२ ॥ सर्वाः पुण्यजलाः पुण्याः सर्वगाश्च समुद्रगाः । विश्वस्य मातरः सर्वाः सर्वपापहराः शुभाः ॥ ११४.३३ ॥ तासां नद्युपनद्यश्च शतशोऽथ सहस्रशः । तास्विमे कुरुपाञ्चालाः शाल्वाश्चैव सजाङ्गलाः ॥ ११४.३४ ॥ शूरसेना भद्रकारा बाह्याः सहपटच्चराः । मत्स्याः किराताः कुल्याश्च कुन्तलाः काशिकोशलाः ॥ ११४.३५ ॥ आवन्ताश्च कलिङ्गाश्च मूकाश्चैवान्धकैः सह । मध्यदेशा जनपदाः प्रायशः परिकीर्तिताः ॥ ११४.३६ ॥ सह्यस्यानन्तरे चैते तत्र गोदावरी नदी । पृथिव्यामपि कृत्स्नायां स प्रदेशो मनोरमः ॥ ११४.३७ ॥ यत्र गोवर्धनो नाम मन्दरो गन्धमादनः । रामप्रियार्थं स्वर्गीया वृक्षा दिव्यास्तथौषधीः ॥ ११४.३८ ॥ भरद्वाजेन मुनिना प्रियार्थमवतारिताः । ततः पुष्पवरो देशस्तेन जज्ञे मनोरमः ॥ ११४.३९ ॥ वाह्लीका वाटधानाश्च आभीराः कालतोयकाः । पुरंध्राश्चैव शूद्राश्च पल्लवाश्चात्तखण्डिकाः ॥ ११४.४० ॥ गान्धारा यवनाश्चैव सिन्धुसौवीरमद्रकाः । शका द्रुह्याः पुलिन्दाश्च पारदाहारमूर्तिकाः ॥ ११४.४१ ॥ रामठाः कण्टकाराश्च कैकेया दशनामकाः । क्षत्रियोपनिवेश्याश्च वैश्याः शूद्रकुलानि च ॥ ११४.४२ ॥ अत्रयोऽथ भरद्वाजाः प्रस्थलाः सदसेरकाः । लम्पकास्तलगानाश्च सैनिकाः सह जाङ्गलैः । एते देशा उदीच्यास्तु प्राच्यान्देशान्निबोधत ॥ ११४.४३ ॥ अङ्गा वङ्गा मद्गुरका अन्तर्गिरिबहिर्गिरी । ततः प्लवंगमातंगा यमका मल्लवर्णकाः । सुह्मोत्तराः प्रविजया मार्गवा गेयमालवाः ॥ ११४.४४ ॥ प्राग्ज्योतिषाश्च पुण्ड्राश्च विदेहास्ताम्रलिप्तकाः । शाल्वमागधगोनर्दाः प्राच्या जनपदाः स्मृताः ॥ ११४.४५ ॥ तेषां परे जनपदा दक्षिणापथवासिनः । पाण्ड्याश्च केरलाश्चैव चोलाः कुल्यास्तथैव च ॥ ११४.४६ ॥ सेतुकाः सूतिकाश्चैव कुपथां वाजिवासिकाः । नवराष्ट्रा माहिषिकाः कलिङ्गाश्चैव सर्वशः ॥ ११४.४७ ॥ कारूषाश्च सहैषीका आटव्याः शबरास्तथा । पुलिन्दा विन्ध्यपुषिका वैदर्भा दण्डकैः सह ॥ ११४.४८ ॥ कुलीयाश्च सिरालाश्च रूपसास्तापसैः सह । तथा तैत्तिरिकाश्चैव सर्वे कारस्करास्तथा ॥ ११४.४९ ॥ वासिक्याश्चैव ये चान्ये ये चैवान्तरनर्मदाः । भारुकच्छाः समाहेयाः सह सारस्वतैस्तथा ॥ ११४.५० ॥ काच्छीकाश्चैव सौराष्ट्रा आनर्ता अर्बुदैः सह । इत्येते अपरान्तास्तु शृणु ये विन्ध्यवासिनः ॥ ११४.५१ ॥ मालवाश्च करूषाश्च मेकलाश्चोत्कलैः सह । औण्ड्रा माषा दशार्णाश्च भोजाः किष्किन्धकैः सह ॥ ११४.५२ ॥ स्तोशलाः कोसलाश्चैव त्रैपुरा वैदिशास्तथा । तुमुरास्तुम्बराश्चैव पद्गमा नैषधैः सह ॥ ११४.५३ ॥ अरूपाः शौण्डिकेराश्च वीतिहोत्रा अवन्तयः । एते जनपदाः ख्याता विन्ध्यपृष्ठनिवासिनः ॥ ११४.५४ ॥ अतो देशान्प्रवक्ष्यामि पर्वताश्रयिणश्च ये । निराहाराः सर्वगाश्च कुपथा अपथास्तथा ॥ ११४.५५ ॥ कुथप्रावरणाश्चैव ऊर्णादवाः समुद्गकाः । त्रिगर्ता मण्डलाश्चैव किराताश्चामरैः सह ॥ ११४.५६ ॥ चत्वारि भारते वर्षे युगानि मुनयोऽब्रुवन् । कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् । तेषां निसर्गं वक्ष्यामि उपरिष्टाच्च कृत्स्नशः ॥ ११४.५७ ॥ *मत्स्य उवाच एतच्छ्रुत्वा तु ऋषय उत्तरं पुनरेव ते । शुश्रूषवस्तमूचुस्ते प्रकामं लौमहर्षणिम् ॥ ११४.५८ ॥ *ऋषय ऊचुः यच्च किम्पुरुषं वर्षं हरिवर्षं तथैव च । आचक्ष्व नो यथातत्त्वं कीर्तितं भारतं त्वया ॥ ११४.५९ ॥ जम्बूखण्डस्य विस्तारं तथान्येषां विदांवर । द्वीपानां वासिनां तेषां वृक्षाणां प्रब्रवीहि नः ॥ ११४.६० ॥ पृष्टस्त्वेवं तदा विप्रैर्यथाप्रश्नं विशेषतः । उवाच ऋषिभिर्दृष्टं पुराणाभिमतं तथा ॥ ११४.६१ ॥ *सूत उवाच शुश्रूषवस्तु यद्विप्राः शुश्रूषध्वमतन्द्रिताः । जम्बूवर्षः किम्पुरुषः सुमहानन्दनोपमः ॥ ११४.६२ ॥ दश वर्षसहस्राणि स्थितिः किम्पुरुषे स्मृता । जायन्ते मानवास्तत्र सुतप्तकनकप्रभाः ॥ ११४.६३ ॥ वर्षे किम्पुरुषे पुण्ये प्लक्षो मधुवहः स्मृतः । तस्य किम्पुरुषाः सर्वे पिबन्तो रसमुत्तमम् ॥ ११४.६४ ॥ अनामया ह्यशोकाश्च नित्यं मुदितमानसाः । सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसः स्मृताः ॥ ११४.६५ ॥ ततः परं किम्पुरुषाद्धरिवर्षं प्रचक्षते । महारजतसंकाशा जायन्ते यत्र मानवाः ॥ ११४.६६ ॥ देवलोकच्युताः सर्वे बहुरूपाश्च सर्वशः । हरिवर्षे नराः सर्वे पिबन्तीक्षुरसं शुभम् ॥ ११४.६७ ॥ न जरा बाधते तत्र तेन जीवन्ति ते चिरम् । एकादश सहस्राणि तेषामायुः प्रकीर्तितम् ॥ ११४.६८ ॥ मध्यमं तन्मया प्रोक्तं नाम्ना वर्षमिलावृतम् । न तत्र सूर्यस्तपति न च जानन्ति मानवाः ॥ ११४.६९ ॥ चन्द्रसूर्यौ सनक्षत्रावप्रकाशाविलावृते । पद्मप्रभाः पद्मवर्णाः पद्मपत्त्रनिभेक्षणाः ॥ ११४.७० ॥ पद्मगन्धाश्च जायन्ते तत्र सर्वे च मानवाः । जम्बूफलरसाहारा अनिष्पन्दाः सुगन्धिनः ॥ ११४.७१ ॥ देवलोकच्युताः सर्वे महारजतवाससः । त्रयोदश सहस्राणि वर्षाणां ते नरोत्तमाः ॥ ११४.७२ ॥ आयुष्प्रमाणं जीवन्ति ये तु वर्ष इलावृते । मेरोस्तु दक्षिणे पार्श्वे निषधस्योत्तरेण वा ॥ ११४.७३ ॥ सुदर्शनो नाम महाञ्जम्बूवृक्षः सनातनः । नित्यपुष्पफलोपेतः सिद्धचारणसेवितः ॥ ११४.७४ ॥ तस्य नाम्ना समाख्यातो जम्बूद्वीपो वनस्पतेः । योजनानां सहस्रं च शतधा च महान्पुनः ॥ ११४.७५ ॥ उत्सेधो वृक्षराजस्य दिवमावृत्य तिष्ठति । तस्य जम्बूफलरसो नदी भूत्वा प्रसर्पति ॥ ११४.७६ ॥ मेरुं प्रदक्षिणं कृत्वा जम्बूमूलगता पुनः । तं पिबन्ति सदा हृष्टा जम्बूरसमिलावृते ॥ ११४.७७ ॥ जम्बूफलरसं पीत्वा न जरा बाधतेऽपि तान् । न क्षुधा न क्लमो वापि न दुःखं च तथाविधम् ॥ ११४.७८ ॥ तत्र जाम्बूनदं नाम कनकं देवभूषणम् । इन्द्रगोपकसंकाशं जायते भासुरं च यत् ॥ ११४.७९ ॥ सर्वेषां वर्षवृक्षाणां शुभः फलरसस्तु सः । स्कन्नं तु काञ्चनं शुभ्रं जायते देवभूषणम् ॥ ११४.८० ॥ तेषां मूत्रं पुरीषं वा दिक्ष्वष्टासु च सर्वशः । ईश्वरानुग्रहाद्भूमिर्मृतांश्च ग्रसते तु तान् ॥ ११४.८१ ॥ रक्षःपिशाचा यक्षाश्च सर्वे हैमवतास्तु ते । हेमकूटे तु विज्ञेया गन्धर्वाः साप्सरोगणाः ॥ ११४.८२ ॥ सर्वे नागा निषेवन्ते शेषवासुकितक्षकाः । महामेरौ त्रयस्त्रिंशत्क्रीडन्ते यज्ञियाः शुभाः ॥ ११४.८३ ॥ नीलवैडूर्ययुक्तेऽस्मिन् सिद्धा ब्रह्मर्षयोऽवसन् । दैत्यानां दानवानां च श्वेतः पर्वत उच्यते ॥ ११४.८४ ॥ शृङ्गवान् पर्वतश्रेष्ठः पितॄणां प्रतिसंचरः । इत्येतानि मयोक्तानि नववर्षाणि भारते ॥ ११४.८५ ॥ भूतैरपि निविष्टानि गतिमन्ति ध्रुवाणि च । तेषां वृद्धिर्बहुविधा दृश्यते देवमानुषैः । अशक्या परिसंख्यातुं श्रद्धेया च बुभूषता ॥ ११४.८६ ॥ ______________________________________________________ मत्स्यपुराण ११५ *मनुरुवाच चरितं बुधपुत्रस्य जनार्दन मया श्रुतम् । श्रुतः श्राद्धविधिः पुण्यः सर्वपापप्रणाशनः ॥ ११५.१ ॥ धेन्वाः प्रसूयमानायाः फलं दानस्य मे श्रुतम् । कृष्णाजिनप्रदानं च वृषोत्सर्गस्तथैव च ॥ ११५.२ ॥ श्रुत्वा रूपं नरेन्द्रस्य बुधपुत्रस्य केशव । कौतूहलं समुत्पन्नं तन्ममाचक्ष्व पृच्छतः ॥ ११५.३ ॥ केन कर्मविपाकेन स तु राजा पुरूरवाः । अवाप तादृशं रूपं सौभाग्यमपि चोत्तमम् ॥ ११५.४ ॥ देवांस्त्रिभुवनश्रेष्ठान् गन्धर्वांश्च मनोरमान् । उर्वशी संमता त्यक्त्वा सर्वभावेन तं नृपम् ॥ ११५.५ ॥ *मत्स्य उवाच शृणु कर्मविपाकेन येन राजा पुरूरवाः । अवाप तादृशं रूपं सौभाग्यमपि चोत्तमम् ॥ ११५.६ ॥ अतीते जन्मनि पुरा योऽयं राजा पुरूरवाः । पुरूरवा इति ख्यातो मद्रदेशाधिपो हि सः ॥ ११५.७ ॥ चाक्षुषस्यान्वये राजा चाक्षुषस्यान्तरे मनोः । स वै नृपगुणैर्युक्तः केवलं रूपवर्जितः ॥ ११५.८ ॥ *ऋषय ऊचुः पुरूरवा मद्रपतिः कर्मणा केन पार्थिवः । बभूव कर्मणा केन रूपवांश्चैव सूतज ॥ ११५.९ ॥ *सूत उवाच द्विजग्रामे द्विजश्रेष्ठो नाम्ना चासीत्पुरूरवाः । नद्याः कूले महाराजः पूर्वजन्मनि पार्थिवः ॥ ११५.१० ॥ स तु मद्रपती राजा यस्तु नाम्ना पुरूरवाः । तस्मिञ्जन्मन्यसौ विप्रो द्वादश्यां तु सदानघ ॥ ११५.११ ॥ उपोष्य पूजयामास राज्यकामो जनार्दनम् । चकार सोपवासश्च स्नानमभ्यङ्गपूर्वकम् ॥ ११५.१२ ॥ उपवासफलात्प्राप्तं राज्यं मद्रेष्वकण्टकम् । उपोषितस्तथाभ्यङ्गाद्रूपहीनो व्यजायत ॥ ११५.१३ ॥ उपोषितैर्नरैस्तस्मात्स्नानमभ्यङ्गपूर्वकम् । वर्जनीयं प्रयत्नेन रूपघ्नं तत्परं नृप ॥ ११५.१४ ॥ एतद्वः कथितं सर्वं यद्वृत्तं पूर्वजन्मनि । मद्रेश्वरत्वचरितं शृणु तस्य महीपतेः ॥ ११५.१५ ॥ तस्य राजगुणैः सर्वैः समुपेतस्य भूपतेः । जनानुरागो नैवासीद्रूपहीनस्य तस्य वै ॥ ११५.१६ ॥ रूपकामः स मद्रेशस्तपसे कृतनिश्चयः । राज्यं मन्त्रिगतं कृत्वा जगाम हिमपर्वतम् ॥ ११५.१७ ॥ व्यवसायद्वितीयस्तु पद्भ्यमेव महायशाः । द्रष्टुं स तीर्थसदनं विषयान्ते स्वके नदीम् ॥ ११५.१८ ॥ ऐरावतीति विख्यातां ददर्शातिमनोरमाम् ॥ ११५.१९ ॥ तुहिनगिरिभवां महौघवेगां तुहिनगभस्तिसमानशीतलोदाम् ॥ ११५.२० ॥ तुहिनसदृशहैमवर्णपुञ्जां तुहिनयशाः सरितं ददर्श राजा ॥ ११५.२१ ॥ ______________________________________________________ मत्स्यपुराण ११६ *सूत उवाच स ददर्श नदीं पुण्यां दिव्यां हैमवतीं शुभाम् । गन्धर्वैश्च समाकीर्णां नित्यं शक्रेण सेविताम् ॥ ११६.१ ॥ सुरेभमदसंसिक्तां समन्तात्तु विराजिताम् । मध्येन शक्रचापाभां तस्मिन्नहनि सर्वदा ॥ ११६.२ ॥ तपस्विशरणोपेतां महाब्राह्मणसेविताम् । ददर्श तपनीयाभां महाराजः पुरूरवाः ॥ ११६.३ ॥ सितहंसावलिच्छन्नां काशचामरराजिताम् । साभिषिक्तामिव सतां पश्यन्प्रीतिं परां ययौ ॥ ११६.४ ॥ पुण्यां सुशीतलां हृद्यां मनसः प्रीतिवर्धिनीम् । क्षयवृद्धियुतां रम्यां सोममूर्तिमिवापराम् ॥ ११६.५ ॥ सुशीतशीघ्रपानीयां द्विजसंघनिषेविताम् । सुतां हिमवतः श्रेष्ठां चञ्चद्वीचिविराजिताम् ॥ ११६.६ ॥ अमृतस्वादुसलिलां तापसैरुपशोभिताम् । स्वर्गारोहणनिःश्रेणीं सर्वकल्मषनाशिनीम् ॥ ११६.७ ॥ अग्र्यां समुद्रमहिषीं महर्षिगणसेविताम् । सर्वलोकस्य चौत्सुक्यकारिणीं सुमनोहराम् ॥ ११६.८ ॥ हितां सर्वस्य लोकस्य नाकमार्गप्रदायिकाम् । गोकुलाकुलतीरान्तां रम्यां शैवालवर्जिताम् ॥ ११६.९ ॥ हंससारससंघुष्टां जलजैरुपशोभिताम् । आवर्तनाभिगम्भीरां द्वीपोरुजघनस्थलीम् ॥ ११६.१० ॥ नीलनीरजनेत्राभामुत्फुल्लकमलाननाम् । हिमाभफेनवसनां चक्रवाकाधरां शुभाम् । बलाकापङ्क्तिदशनां चलन्मत्स्यावलिभ्रुवम् ॥ ११६.११ ॥ स्वजलोद्भूतमातंगरम्यकुम्भपयोधराम् । हंसनूपुरसंघुष्टां मृणालवलयावलीम् ॥ ११६.१२ ॥ तस्यां रूपमदोन्मत्ता गन्धर्वानुगताः सदा । मध्याह्नसमये राजन् क्रीडन्त्यप्सरसां गणाः ॥ ११६.१३ ॥ तामप्सरोविनिर्मुक्तं वहन्तीं कुङ्कुमं शुभम् । स्वतीरद्रुमसम्भूतनानावर्णसुगन्धिनीम् ॥ ११६.१४ ॥ तरंगव्रातसंक्रान्तसूर्यमण्डलदुर्दृशम् । सुरेभजनिताघातविकूलद्वयभूषिताम् ॥ ११६.१५ ॥ शक्रेभगण्डसलिलैर्देवस्त्रीकुचचन्दनैः । संयुतं सलिलं तस्याः षट्पदैरुपसेव्यते ॥ ११६.१६ ॥ तस्यास्तीरभवा वृक्षाः सुगन्धकुसुमाञ्चिताः । तथापकृष्टसंभ्रान्तभ्रमरस्तनिताकुलाः ॥ ११६.१७ ॥ यस्यास्तीरे रतिं यान्ति सदा कामवशा मृगाः । तपोवनाश्च ऋषयस्तथा देवाः सहाप्सराः ॥ ११६.१८ ॥ लभन्ते यत्र पूताङ्गा देवेभ्यः प्रतिमानिताः । स्त्रियश्च नाकबहुलाः पद्मेन्दुप्रतिमाननाः ॥ ११६.१९ ॥ या बिभर्ति सदा तोयं देवसंघैरपीडितम् । पुलिन्दैर्नृपसंघैश्च व्याघ्रवृन्दैरपीडितम् ॥ ११६.२० ॥ सतामरसपानीयां सतारगगनामलाम् । स तां पश्यन्ययौ राजा सतामीप्सितकामदाम् ॥ ११६.२१ ॥ यस्यास्तीररुहैः काशैः पूर्णैश्चन्द्रांशुसंनिभैः । राजते विविधाकारै रम्यतीरं महाद्रुमैः । या सदा विविधैर्विप्रैर्देवैश्चापि निषेव्यते ॥ ११६.२२ ॥ या च सदा सकलौघविनाशं भक्तजनस्य करोत्यचिरेण । यानुगता सरितां हि कदम्बैर्यानुगता सततं हि मुनीन्द्रैः ॥ ११६.२३ ॥ या हि सुतानिव पाति मनुष्यान् या च युता सततं हिमसंघैः । या च युता सततं सुरवृन्दैर्या च जनैः स्वहिताय श्रिता वै ॥ ११६.२४ ॥ प्रयुक्ता च केसरिगणैः करिवृन्दजुष्टा संतानयुक्तसलिलापि सुवर्णयुक्ता । सूर्यांशुतापपरिवृद्धिविवृद्धशीता शीतांशुतुल्ययशसा ददृशे नृपेण ॥ ११६.२५ ॥ ______________________________________________________ मत्स्यपुराण ११७ *सूत उवाच आलोकयन्नदीं पुण्यां तत्समीरहृतश्रमः । स गच्छन्नेव ददृशे हिमवन्तं महागिरिम् ॥ ११७.१ ॥ खमुल्लिखद्भिर्बहुभिर्वृतं शृङ्गैस्तु पाण्डुरैः । पक्षिणामपि संचारैर्विना सिद्धगतिं शुभाम् ॥ ११७.२ ॥ नदीप्रवाहसंजातमहाशब्दैः समन्ततः । असंश्रुतान्यशब्दं तं शीततोयं मनोरमम् ॥ ११७.३ ॥ देवदारुवनैर्नीलैः कृताधोवसनं शुभम् । मेघोत्तरीयकं शैलं ददृशे स नराधिपः ॥ ११७.४ ॥ श्वेतमेघकृतोष्णीषं चन्द्रार्कमुकुटं क्वचित् । हिमानुलिप्तसर्वाङ्गं क्वचिद्धातुविमिश्रितम् ॥ ११७.५ ॥ चन्दनेनानुलिप्ताङ्गं दत्तपञ्चाङ्गुलं यथा । शीतप्रदं निदाघेऽपि शिलाविकटसंकटम् । सालक्तकैरप्सरसां मुद्रितं चरणैः क्वचित् ॥ ११७.६ ॥ क्वचित्संस्पृष्टसूर्यांशुं क्वचिच्च तमसावृतम् । दरीमुखैः क्वचिद्भीमैः पिबन्तं सलिलं महत् ॥ ११७.७ ॥ क्वचिद्विद्याधरगणैः क्रीडद्भिरुपशोभितम् । उपगीतं तथा मुख्यैः किंनराणां गणैः क्वचित् ॥ ११७.८ ॥ आपानभूमौ गलितैर्गन्धर्वाप्सरसां क्वचित् । पुष्पैः संतानकादीनां दिव्यैस्तमुपशोभितम् ॥ ११७.९ ॥ सुप्तोत्थिताभिः शय्याभिः कुसुमानां तथा क्वचित् । मृदिताभिः समाकीर्णं गन्धर्वाणां मनोरमम् ॥ ११७.१० ॥ निरुद्धपवनैर्देशैर्नीलशाद्वलमण्डितैः । क्वचिच्च कुसुमैर्युक्तमत्यन्तरुचिरं शुभम् ॥ ११७.११ ॥ तपस्विशरणं शैलं कामिनामतिदुर्लभम् । मृगैर्यथानुचरितं दन्तिभिन्नमहाद्रुमम् ॥ ११७.१२ ॥ यत्र सिंहनिनादेन त्रस्तानां भैरवं रवम् । दृश्यते न च संश्रान्तं गजानामाकुलं कुलम् ॥ ११७.१३ ॥ तटाश्च तापसैर्यत्र कुञ्जदेशैरलंकृताः । रत्नैर्यस्य समुत्पन्नैस्त्रैलोक्यं समलंकृतम् ॥ ११७.१४ ॥ अहीनशरणं नित्यमहीनजनसेवितम् । अहीनः पश्यति गिरिमहीनं रत्नसम्पदा ॥ ११७.१५ ॥ अल्पेन तपसा यत्र सिद्धिं प्राप्स्यन्ति तापसाः । यस्य दर्शनमात्रेण सर्वकल्मषनाशनम् ॥ ११७.१६ ॥ महाप्रपातसम्पातप्रपातादिगताम्बुभिः । वायुनीतैः सदा तृप्तिकृतदेशं क्वचित्क्वचित् ॥ ११७.१७ ॥ समालब्धजलैः शृङ्गैः क्वचिच्चापि समुच्छ्रितैः । नित्यार्कतापविषमैरगम्यैर्मनसा युतम् ॥ ११७.१८ ॥ देवदारुमहावृक्षव्रजशाखानिरन्तरैः । वंशस्तम्बवनाकारैः प्रदेशैरुपशोभितम् ॥ ११७.१९ ॥ हिमछत्त्रमहाशृङ्गं प्रपातशतनिर्झरम् । शब्दलभ्याम्बुविषमं हिमसंरुद्धकन्दरम् ॥ ११७.२० ॥ दृष्ट्वैव तं चारुनितम्बभूमिं महानुभावः स तु मद्रनाथः । बभ्राम तत्रैव मुदा समेतः स्थानं तदा किंचिदथाससाद ॥ ११७.२१ ॥ ______________________________________________________ मत्स्यपुराण ११८ *सूत उवाच तस्यैव पर्वतेन्द्रस्य प्रदेशं सुमनोरमम् । अगम्यं मानुषैरन्यैर्दैवयोगादुपागतः ॥ ११८.१ ॥ ऐरावती सरिच्छ्रेष्ठा यस्माद्देशाद्विनिर्गता । मेघश्यामं च तं देशं द्रुमखण्डैरनेकशः ॥ ११८.२ ॥ शालैस्तालैस्तमालैश्च कर्णिकारैः सशामलैः । न्यग्रोधैश्च तथाश्वत्थैः शिरीषैः शिंशपद्रुमैः ॥ ११८.३ ॥ श्लेष्मातकैरामलकैर्हरीतकविभीतकैः । भूर्जैः समुञ्जकैर्बाणैर्वृक्षैः सप्तच्छदद्रुमैः ॥ ११८.४ ॥ महानिम्बैस्तथा निम्बैर्निर्गुण्डीभिर्हरिद्रुमैः । देवदारुमहावृक्षैस्तथा कालेयकद्रुमैः ॥ ११८.५ ॥ पद्मकैश्चन्दनैर्बिल्वैः कपित्थै रक्तचन्दनैः । माताम्ररिष्टकाक्षोटैरब्दकैश्च तथार्जुनैः ॥ ११८.६ ॥ हस्तिकर्णैः सुमनसैः कोविदारैः सुपुष्पितैः । प्राचीनामलकैश्चापि धनकैः समराटकैः ॥ ११८.७ ॥ खर्जूरैर्नारिकेलैश्च प्रियालाम्रातकेङ्गुदैः । तन्तुमालैर्धवैर्भव्यैः काश्मीरीपर्णिभिस्तथा ॥ ११८.८ ॥ जातीफलैः पूगफलैः कट्फलैलावलीफलैः । मन्दारैः कोविदारैश्च किंशुकैः कुसुमांशुकैः ॥ ११८.९ ॥ यवासैः शमिपर्णासैर्वेतसैरम्बुवेतसैः । रक्तातिरङ्गनारङ्गैर्हिङ्गुभिः सप्रियङ्गुभिः ॥ ११८.१० ॥ रक्ताशोकैस्तथाशोकैराकल्लैरविचारकैः । मुचुकुन्दैस्तथा कुन्दैराटरूषपरूषकैः ॥ ११८.११ ॥ किरातैः किङ्किरातैश्च केतकैः श्वेतकेतकैः । शोभाञ्जनैरञ्जनैश्च सुकलिङ्गनिकोटकैः ॥ ११८.१२ ॥ सुवर्णचारुवसनैर्द्रुमश्रेष्ठैस्तथासनैः । मन्मथस्य शराकारैः सहकारैर्मनोरमैः ॥ ११८.१३ ॥ पीतयूथिकया चैव श्वेतयूथिकया तथा । जात्या चम्पकजात्या च तुम्बरैश्चाप्यतुम्बरैः ॥ ११८.१४ ॥ मोचैर्लोचैस्तु लकुचैस्तिलपुष्पकुशेशयैः । तथा सुपुष्पावरणैश्चव्यकैः कामिवल्लभैः ॥ ११८.१५ ॥ पुष्पाङ्कुरैश्च बकुलैः पारिभद्रहरिद्रकैः । धाराकदम्बैः कुटजैः कदम्बैर्गिरिकुटजैः ॥ ११८.१६ ॥ आदित्यमुस्तकैः कुम्भैः कुङ्कुमैः कामवल्लभैः । कट्फलैर्बदरैर्नीपैर्दीपैरिव महोज्ज्वलैः ॥ ११८.१७ ॥ रक्तैः पालीवनैः श्वेतैर्दाडिमैश्चम्पकद्रुमैः । बन्धूकैश्च सुबन्धूकैः कुञ्जकानां तु जातिभिः ॥ ११८.१८ ॥ कुसुमैः पाटलाभिश्च मल्लिकाकरवीरकैः । कुरबकैर्हिमवरैर्जम्बूभिर्नृपजम्बुभिः ॥ ११८.१९ ॥ बीजपूरैः सकर्पूरैर्गुरुभिश्चागुरुद्रुमैः । बिम्बैश्च प्रतिबिम्बैश्च संतानकवितानकैः ॥ ११८.२० ॥ तथा गुग्गुलवृक्षैश्च हिन्तालधवलेक्षुभिः । तृणशून्यैः करवीरैरशोकैश्चक्रमर्दनैः ॥ ११८.२१ ॥ पीलुभिर्धातकीभिश्च चिरिबिल्वैः समाकुलैः । तिन्तिडीकैस्तथा लोध्रैर्विडङ्गैः क्षीरिकाद्रुमैः ॥ ११८.२२ ॥ अश्मन्तकैस्तथा कालैर्जम्बीरैः श्वैतकद्रुमैः । भल्लातकैरिन्द्रयवैर्वल्गुजैः सिद्धिसाधकैः ॥ ११८.२३ ॥ नागकेसरवृक्षैश्च सुकेसरमनोहरैः । करमर्दैः कासमर्दैररिष्टकवरिष्टकैः । रुद्राक्षैर्द्राक्षसम्भूतैः सप्ताह्वैः पुत्रजीवकैः ॥ ११८.२४ ॥ कङ्कोलकैर्लवङ्गैश्च त्वग्द्रुमैः पारिजातकैः । प्रतानैः पिप्पलीनां च नागवल्यश्च भागशः ॥ ११८.२५ ॥ मरीचस्य तथा गुल्मैर्नवमल्लिकया तथा । मृद्वीकामण्डपैर्मुख्यैरतिमुक्तकमण्डपैः ॥ ११८.२६ ॥ त्रपुषैर्नर्तिकानां च प्रतानैः सफलैः शुभैः । कूष्माण्डानां प्रतानैश्च अलाबूनां तथा क्वचित् ॥ ११८.२७ ॥ चिर्भिटस्य प्रतानैश्च पटोलीकारवेल्लकैः । कर्कोटकीवितानैश्च वार्ताकैर्बृहतीफलैः ॥ ११८.२८ ॥ कण्टकैर्मूलकैर्मूलशाकैस्तु विविधैस्तथा । कह्लारैश्च विदार्या च रुरूटैः स्वादुकण्टकैः ॥ ११८.२९ ॥ सभाण्डीरविदूसारराजजम्बूकवालुकैः । सुवर्चलाभिः सर्वाभिः सर्षपाभिस्तथैव च ॥ ११८.२९* ॥ काकोलीक्षीरकाकोली छत्त्रया चातिच्छत्रया । कासमर्दीसहासद्भिः सकन्दलसकाण्डकैः ॥ ११८.२९** ॥ तथा क्षीरकशाकेन कालशाकेन चाप्यथ । शिम्बीधान्यैस्तथा धान्यैः सर्वैर्निरवशेषतः ॥ ११८.२९*** ॥ औषधीभिर्विचित्राभिर्दीप्यमानाभिरेव च । आयुष्याभिर्यशस्याभिर्बल्याभिश्च नराधिप ॥ ११८.३० ॥ जरामृत्युभयघीभिः क्षुद्भयघ्नीभिरेव च । सौभाग्यजननीभिश्च कुत्स्नाभिश्चाप्यनेकशः ॥ ११८.३१ ॥ तत्र वेणुलताभिश्च तथा कीचकवेणुभिः । काशैः शशाङ्ककाशैश्च शरगुल्मैस्तथैव च ॥ ११८.३२ ॥ कुशगुल्मैस्तथा रम्यैर्गुल्मैश्चेक्षोर्मनोरमैः । कार्पासजातिवर्गेण दुर्लभेन शुभेन च ॥ ११८.३३ ॥ तथा च कदलीखण्डैर्मनोहारिभिरुत्तमैः । तथा मरकतप्रख्यैः प्रदेशैः शाद्वलान्वितैः ॥ ११८.३४ ॥ इरापुंष्पसमायुक्तैः कुङ्कमस्य च भागशः । तगरातिविषामांसीग्रन्थिकैस्तु सुरागदैः ॥ ११८.३५ ॥ सुवर्णपुष्पैश्च तथा भूमिपुष्पैस्तथापरैः । जम्बीरकैर्भूस्तृणकैः सरसैः सशुकैस्तथा ॥ ११८.३६ ॥ शङ्गवेराजमोदाभिः कुबेरकप्रियालकैः । जलजैश्च तथा वणैर्नानावर्णैः सुगन्धिभिः ॥ ११८.३७ ॥ उदयादित्यसंकाशैः सूर्यचन्द्रनिभैस्तथा । तपनीयसवर्णैश्च अतसीपुष्पसंनिभैः ॥ ११८.३८ ॥ शूकपत्त्रनिभैश्चान्यैः स्थलपत्त्रैश्च भागशः । पञ्चवर्णैः समाकीर्णैर्बहुवर्णैस्तथैव च ॥ ११८.३९ ॥ द्रष्टुर्दृष्ट्या हितमुदैः कुमुदैश्चन्द्रसंनिभैः । तथा वह्निशिखाकारैर्गजवक्त्रोत्पलैः शुभैः ॥ ११८.४० ॥ नीलोत्पलैः सकह्लारैर्गुञ्जातककसेरुकैः । शृङ्गाटकमृणालैश्च करटै राजतोत्पलैः ॥ ११८.४१ ॥ जलजैः स्थलजैर्मूलैः फलैः पुष्पैर्विशेषतः । विविधैश्चैव नीवारैर्मुनिभोज्यैर्नराधिप ॥ ११८.४२ ॥ न तद्धान्यं न तत्सस्यं न तच्छाकं न तत्फलम् । न तन्मूलं न तत्कन्दं न तत्पुष्पं नराधिप ॥ ११८.४३ ॥ नागलोकोद्भवं दिव्यं नरलोकभवं च यत् । अनूपोत्थं वनोत्थं च तत्र यन्नास्ति पार्थिवः ॥ ११८.४४ ॥ सदा पुष्पफलं सर्वमजर्यमृतुयोगतः । मद्रेश्वरः स ददृशे तपसा ह्यतियोगतः ॥ ११८.४५ ॥ ददृशे च तथा तत्र नानारूपान् पतत्रिणः । मयूरान् शतपत्त्रांश्च कलविङ्कांश्च कोकिलान् ॥ ११८.४६ ॥ तथा कादम्बकान्हंसान् कोयष्टीन् खञ्जरीटकान् । कुररान्कालकूटांश्च खट्वाङ्गान् लुब्धकांस्तथा ॥ ११८.४७ ॥ गोक्ष्वेडकांस्तथा कुम्भान् धार्तराष्ट्राञ्शुकान्बकान् । घातुकांश्चक्रवाकांश्च कटुकान्टिट्टिभान् भटान् ॥ ११८.४८ ॥ पुत्रप्रियान् लोहपृष्ठान् गोचर्मगिरिवर्तकान् । पारावतांश्च कमलान् सारिका जीवजीवकान् ॥ ११८.४९ ॥ लाववर्तकवार्ताकान् रक्तवर्त्मप्रभद्रकान् । ताम्रचूडान्स्वर्णचूडान् कुक्कुटान् काष्ठकुक्कुटान् ॥ ११८.५० ॥ कपिञ्जलान्कलविङ्कांस्तथा कुङ्कुमचूडकान् । भृङ्गराजान् सीरपादान् भूलिङ्गान् डिण्डिमान्नवान् ॥ ११८.५१ ॥ मञ्जुलीतकदात्यूहान् भारद्वाजांस्तथा चषान् । एतांश्चान्यांश्च सुबहून् पक्षिसंघान्मनोहरान् ॥ ११८.५२ ॥ श्वापदान्विविधाकारान्मृगांश्चैव महामृगान् । व्याघ्रान्केसरिणः सिंहान् द्वीपिनः शरभान्वृकान् ॥ ११८.५३ ॥ ऋक्षांस्तरक्षूंश्च बहून् गोलाङ्गूलान् सवानरान् । शशलोमान् सकादम्बान्मार्जारान् वायुवेगिनः ॥ ११८.५४ ॥ मूषकान्नकुलान् कावान् सिंहान् द्रुममनोहरान् । तथा मत्तांश्च मातंगान्महिषान् गवयान् वृषान् । चमरान् सृमरांश्चैव तथा गौरखरानपि ॥ ११८.५५ ॥ उरभ्रांश्च तथा मेषान् सारङ्गानथ कूकुरान् । नीलांश्चैव महानालान् करालान्मृगमातृकान् ॥ ११८.५६ ॥ सदंष्ट्रारामसरभान् क्रौञ्चाकारकशम्बरान् । करालान्कृतमालांश्च कालपुच्छांश्च तोरणान् ॥ ११८.५७ ॥ दंष्ट्रान्खड्गान्वराहांश्च तुरंगान्खरगर्दभान् । एतानद्विष्टान्मद्रेशो विरुद्धांश्च परस्परम् ॥ ११८.५८ ॥ अविरुद्धान्वने दृष्ट्वा विस्मयं परमं ययौ । तच्चाश्रमपदं पुण्यं बभूवात्रेः पुरा नृपम् ॥ ११८.५९ ॥ तत्प्रसादात्प्रभायुक्तं स्थावरैर्जङ्गमैस्तथा । हिंसन्ति हि न चान्योन्यं हिंसकास्तु परस्परम् ॥ ११८.६० ॥ क्रव्यादाः प्राणिनस्तत्र सर्वे क्षीरफलाशनाः । निर्मितास्तत्र चात्यर्थमत्रिणा सुमहात्मना ॥ ११८.६१ ॥ शैलानितम्बदेशेषु न्यवसच्च स्वयं नृपः । पयः क्षरन्ति ते दिव्यममृतस्वादुकण्टकम् ॥ ११८.६२ ॥ क्वचिद्राजन्महिष्यश्च क्वचिदाजाश्च सर्वशः । शिलाः क्षीरेण सम्पूर्णा दध्ना चान्यत्र वा बहिः ॥ ११८.६३ ॥ संपश्यन्परमां प्रीतिमवाप वसुधाधिपः । सरांसि तत्र दिव्यानि नद्यश्च विमलोदकाः ॥ ११८.६४ ॥ प्रणालिकानि चोष्णानि शीतलानि च भागशः । कन्दराणि च शैलस्य सुसेव्यानि पदे पदे ॥ ११८.६५ ॥ हिमपातो न तत्रास्ति समन्तात्पञ्चयोजनम् । उपत्यका सुशैलस्य शिखरस्य न विद्यते ॥ ११८.६६ ॥ तत्रास्ति राजञ्छिखरं पर्वतेन्द्रस्य पाण्डुरम् । हिमपातं घना यत्र कुर्वन्ति सहिताः सदा ॥ ११८.६७ ॥ तत्रास्ति चापरं शृङ्गं यत्र तोयघना घनाः । नित्यमेवाभिवर्षन्ति शिलाभिः शिखरं वरम् ॥ ११८.६८ ॥ तदाश्रमं मनोहारि यत्र कामधरा धरा । सुरमुख्योपयोगित्वाच्छाखिनां सफलाः फलाः ॥ ११८.६९ ॥ सदोपगीतभ्रमरसुरस्त्रीसेवितं परम् । सर्वपापक्षयकरं शैलस्येव प्रहारकम् ॥ ११८.७० ॥ वानरैः क्रीडमानैश्च देशाद्देशान्नराधिप । हिमपुञ्जाः कृतास्तत्र चन्द्रबिम्बसमप्रभाः ॥ ११८.७१ ॥ तदाश्रमं समन्ताच्च हिमसंरुद्धकन्दरैः । शैलवाटैः परिवृतमगम्यं मनुजैः सदा ॥ ११८.७२ ॥ पूर्वाराधितभावोऽसौ महाराजः पुरूरवाः । तदाश्रमपदं प्राप्तो देवदेवप्रसादतः ॥ ११८.७३ ॥ तदाश्रमं श्रमशमनं मनोहरं मनोहरैः कुसुमशतैरलंकृतम् । कृतं स्वयं रुचिरमथात्रिणा शुभं शुभावहं च हि ददृशे स मद्रराट् ॥ ११८.७४ ॥ ______________________________________________________ मत्स्यपुराण ११९ *सूत उवाच तत्र यौ तौ महाशृङ्गौ महावर्णौ महाहिमौ । तृतीयं तु तयोर्मध्ये शृङ्गमत्यन्तमुच्छ्रितम् ॥ ११९.१ ॥ नित्यातप्तशिलाजातं सदाभ्रपरिवर्जितम् । तस्याधस्ताद्वृक्षगणे दिशां भागे च पश्चिमे ॥ ११९.२ ॥ जातीलतापरिक्षिप्तं विवरं चारुदर्शनम् । दृष्ट्वैव कौतुकाविष्टस्तं विवेश महीपतिः ॥ ११९.३ ॥ तमसा चातिनिबिडं नल्वमात्रं सुसंकटम् । नल्वमात्रमतिक्रम्य स्वप्रभाभरणोज्ज्वलम् ॥ ११९.४ ॥ तमुच्छ्रितमथात्यन्तं गम्भीरं परिवर्तुलम् । न तत्र सूर्यस्तपति न विराजति चन्द्रमाः ॥ ११९.५ ॥ तथापि दिवसाकारं प्रकाशं तदहर्निशम् । क्रोशाधिकपरीमाणं सरसा च विराजितम् ॥ ११९.६ ॥ समन्तात्सरसस्तस्य शैललग्ना तु वेदिका । सौवर्णै राजतैर्वृक्षैर्विद्रुमैरुपशोभितम् ॥ ११९.७ ॥ नानामाणिक्यकुसुमैः सुप्रभाभरणोज्ज्वलैः । तस्मिन्सरसि पद्मानि पद्मरागच्छदानि तु ॥ ११९.८ ॥ वज्रकेसरजालानि सुगन्धीनि तथा युतम् । पत्त्रैर्मरकतैर्नीलैर्वैडूर्यस्य महीपते ॥ ११९.९ ॥ कर्णिकाश्च तथा तेषां जातरूपस्य पार्थिव । तस्मिन्सरसि या भूमिर्न सा वज्रसमाकुला ॥ ११९.१० ॥ नानारत्नैरुपचिता जलजानां समाश्रयः । कपर्दिकानां शुक्तीनां शङ्खानां च महीपते ॥ ११९.११ ॥ मकराणां च मत्स्यानां चण्डानां कच्छपैः सह । तत्र मरकतखण्डानि वज्राणां च सहस्रशः ॥ ११९.१२ ॥ पद्मरागेन्द्रनीलानि महानीलानि पार्थिव । पुष्परागाणि सर्वाणि तथा कर्कोटकानि च ॥ ११९.१३ ॥ तुत्थकस्य तु खण्डानि तथा शेषस्य भागशः । राजावर्तस्य मुख्यस्य रुचिराक्षस्य चाप्यथ ॥ ११९.१४ ॥ सूर्येन्दुकान्तयश्चैव नीलो वर्णान्तिमश्च यः । ज्योतीरसस्य रम्यस्य स्यमन्तस्य च भागशः ॥ ११९.१५ ॥ सुरोरगवलक्षाणां स्फटिकस्य तथैव च । गोमेदपित्तकानां च धूलीमरकतस्य च ॥ ११९.१६ ॥ वैडूर्यसौगन्धिकयोस्तथा राजमणेर्नृप । वज्रस्यैव च मुख्यस्य तथा ब्रह्ममणेरपि ॥ ११९.१७ ॥ मुक्ताफलानि मुक्तानां ताराविग्रहधारिणाम् ॥ ११९.१८ ॥ सुखोष्णं चैव तत्तोयं स्नानाच्छीतविनाशनम् । वैडूर्यस्य शिला मध्ये सरसस्तस्य शोभना ॥ ११९.१९ ॥ प्रमाणेन तथा सा च द्वे च राजन्धनुःशते । चतुरस्रा तथा रम्या तपसा निर्मितात्रिणा ॥ ११९.२० ॥ बिलद्वारसमो देशो यत्र यत्र हिरण्मयः । प्रदेशः स तु राजेन्द्र द्वीपे तस्मिन्मनोहरे ॥ ११९.२१ ॥ तथा पुष्करिणी रम्या तस्मिन्राजञ्शिलातले । सुशीतामलपानीया जलजैश्च विराजिता ॥ ११९.२२ ॥ आकाशप्रतिमा राजंश्चतुरस्रा मनोहरा । तस्यास्तदुदकं स्वादु लघु शीतं सुगन्धिकम् ॥ ११९.२३ ॥ न क्षिणोति यथा कण्ठं कुक्षिं नापूरयत्यपि । तृप्तिं विधत्ते परमां शरीरे च महत्सुखम् ॥ ११९.२४ ॥ मध्ये तु तस्याः प्रासादं निर्मितं तपसात्रिणा । रुक्मसेतुप्रवेशान्तं सर्वरत्नमयं शुभम् ॥ ११९.२५ ॥ शशाङ्करश्मेः संकाशं प्रासादं राजतं हितम् । रम्यवैडूर्यसोपानं विद्रुमामलसारकम् ॥ ११९.२६ ॥ इन्द्रनीलमहास्तम्भं मरकतासक्तवेदिकम् । वज्रांशुजालैः स्फुरितं रम्यं दृष्टिमनोरमम् ॥ ११९.२७ ॥ प्रासादे तत्र भगवान् देवदेवो जनार्दनः । भोगिभोगावलीसुप्तः सर्वालंकारभूषितः ॥ ११९.२८ ॥ जानुनाकुञ्चितस्त्वेको देवदेवस्य चक्रिणः । फणीन्द्रसंनिविष्टोऽङ्घ्रिर्द्वितीयश्च तथानघ ॥ ११९.२९ ॥ लक्षयुत्सङ्गगतोऽङ्घ्रिस्तु शेषभोगप्रशायिनः । फणीन्द्रभोगसंन्यस्तबाहुः केयूरभूषणः ॥ ११९.३० ॥ अङ्गुलीपृष्ठविन्यस्तदेवशीर्षधरं भुजम् । एकं वै देवदेवस्य द्वितीयं तु प्रसारितम् ॥ ११९.३१ ॥ समाकुञ्चितजानुस्थमणिबन्धेन शोभितम् । किंचिदाकुञ्चितं चैव नाभिदेशकरस्थितम् ॥ ११९.३२ ॥ तृतीयं तु भुजं तस्य चतुर्थं तु तथा शृणु । आत्तसंतानकुसुमं घ्राणदेशानुसर्पिणम् ॥ ११९.३३ ॥ लक्ष्म्या संवाह्यमानाङ्घ्रिः पद्मपत्त्रनिभैः करैः । संतानमालामुकुटं हारकेयूरभूषितम् ॥ ११९.३४ ॥ भूषितं च तथा देवमङ्गदैरङ्गुलीयकैः । फणीन्द्रफणविन्यस्तचारुरत्नशिरोज्ज्वलम् ॥ ११९.३५ ॥ अज्ञातवस्तुचरितं प्रतिष्ठितमथात्रिणा । सिद्धानुपूज्यं सततं संतानकुसुमार्चितम् ॥ ११९.३६ ॥ दिव्यगन्धानुलिप्ताङ्गं दिव्यधूपेन धूपितम् । सुरसैः सुफलैर्हृद्यैः सिद्धैरुपहृतैः सदा ॥ ११९.३७ ॥ शोभितोत्तमपार्श्वं तं देवमुत्पलशीर्षकम् । ततः सम्मुखमुद्वीक्ष्य ववन्दे स नराधिपः ॥ ११९.३८ ॥ जानुभ्यां शिरसा चैव गत्वा भूमिं यथाविधि । नाम्नां सहस्रेण तदा तुष्टाव मधुसूदनम् ॥ ११९.३९ ॥ प्रदक्षिणमथो चक्रे स तूत्थाय पुनः पुनः । रम्यमायतनं दृष्ट्वा तत्रोवासाश्रमे पुनः ॥ ११९.४० ॥ बिलाद्बहिर्गुहां कांचिदाश्रित्य सुमनोहराम् । तपश्चकार तत्रैव पूजयन्मधुसूदनम् ॥ ११९.४१ ॥ नानाविधैस्तथा पुष्पैः फलमूलैः सगोरसैः । नित्यं त्रिषवणस्नायी वह्निपूजापरायणः ॥ ११९.४२ ॥ देववापीजलैः कुर्वन् सततं प्राणधारणम् । सर्वाहारपरित्यागं कृत्वा तु मनुजेश्वरः ॥ ११९.४३ ॥ अनास्तृतगुहाशायी कालं नयति पार्थिवः । त्यक्ताहारक्रियश्चैव केवलं तोयतो नृपः । न तस्य ग्लानिमायाति शरीरं च तदद्भुतम् ॥ ११९.४४ ॥ एवं स राजा तपसि प्रसक्तः सम्पूजयन्देववरं सदैव । तत्राश्रमे कालमुवास कंचित्स्वर्गोपमे दुःखमविन्दमानः ॥ ११९.४५ ॥ ______________________________________________________ मत्स्यपुराण १२० स त्वाश्रमपदे रम्ये त्यक्ताहारपरिच्छदः । क्रीडाविहारं गन्धर्वैः पश्यन्नप्सरसां सह ॥ १२०.१ ॥ कृत्वा पुष्पोच्चयं भूरि ग्रन्थयित्वा तथा स्रजः । अग्रं निवेद्य देवाय गन्धर्वेभ्यस्तदा ददौ ॥ १२०.२ ॥ पुष्पोच्चयप्रसक्तानां क्रीडन्तीनां यथासुखम् । चेष्टा नानाविधाकाराः पश्यन्नपि न पश्यति ॥ १२०.३ ॥ काचित्पुष्पोच्चये सक्ता लताजालेन वेष्टिता । सखीजनेन संत्यक्ता कान्तेनाभिसमुज्झिता ॥ १२०.४ ॥ काचित्कमलगन्धाभा निःश्वासपवनाहृतैः । मधुपैराकुलमुखी कान्तेन परिमोचिता ॥ १२०.५ ॥ मकरन्दसभाक्रान्तनयना काचिदङ्गना । कान्तनिःश्वासवातेन नीरजस्ककृतेक्षणा ॥ १२०.६ ॥ काचिदुच्चीय पुष्पाणि ददौ कान्तस्य भामिनी । कान्तसंग्रथितैः पुष्पै रराज कृतशेखरा ॥ १२०.७ ॥ उच्चीय स्वयमुद्ग्रथ्य कान्तेन कृतशेखरा । कृतकृत्यमिवात्मानं मेने मन्मथवर्धिनी ॥ १२०.८ ॥ अस्त्वस्मिन्गहने कुञ्जे विशिष्टकुसुमा लता । काचिदेवं रहो नीता रमणेन रिरंसुना ॥ १२०.९ ॥ कान्तसंनामितलता कुसुमानि विचिन्वती । सर्वाभ्यः काचिदात्मानं मेने सर्वगुणाधिकम् ॥ १२०.१० ॥ काश्चित्पश्यति भूपालं नलिनीषु पृथक्पृथक् । क्रीडमानास्तु गन्धर्वैर्देवरामा मनोरमाः ॥ १२०.११ ॥ काचिदाताडयत्कान्तमुदकेन शुचिस्मिता । ताड्यमानाथ कान्तेन प्रीतिं काचिदुपाययौ ॥ १२०.१२ ॥ कान्तं च ताडयामास जातखेदा वराङ्गना । अदृश्यत वरारोहा श्वासनृत्यत्पयोधरा ॥ १२०.१३ ॥ कान्ताम्बुताडनाकृष्टकेशपाशनिबन्धना । केशाकुलमुखी भाति मधुपैरिव पद्मिनी ॥ १२०.१४ ॥ स्वचक्षुःसदृशैः पुष्पैः संछन्ने नलिनीवने । छन्ना काचिच्चिरात्प्राप्ता कान्तेनान्विष्य यत्नतः ॥ १२०.१५ ॥ स्नाता शीतापदेशेन काचित्प्राहाङ्गना भृशम् । रमणालिङ्गनं चक्रे मनोऽभिलषितं चिरम् ॥ १२०.१६ ॥ जलार्द्रवसनं सूक्ष्ममङ्गलीनं शुचिस्मिता । धारयन्ती जनं चक्रे काचित्तत्र समन्मथम् ॥ १२०.१७ ॥ कण्ठमाल्यगुणैः काचित्कान्तेन कृष्यताम्भसि । त्रुट्यत्स्रग्दामपतितं रमणं प्राहसच्चिरम् ॥ १२०.१८ ॥ काचिद्भुग्ना सखीदत्तजानुदेशे नखक्षता । संभ्रान्ता कान्तशरणं मग्ना काचिद्गता चिरम् ॥ १२०.१९ ॥ काचित्पृष्ठकृतादित्या केशनिस्तोयकारिणी । शिलातलगता भर्त्रा दृष्टा कामार्तचक्षुषा ॥ १२०.२० ॥ कृत्तमाल्यं विलुलितं संक्रान्तकुचकुङ्कुमम् । रतिक्रीडितकान्तेव रराज तत्सरोदकम् ॥ १२०.२१ ॥ सुस्नातदेवगन्धर्वदेवरामागणेन च । पूज्यमानं च ददृशे देवदेवं जनार्दनम् ॥ १२०.२२ ॥ क्वचिच्च ददृशे राजा लतागृहगताः स्त्रियः । मण्डयन्तीः स्वगात्राणि कान्तसंन्यस्तमानसाः ॥ १२०.२३ ॥ काचिदादर्शनकरा व्यग्रा दूतीमुखोद्गतम् । शृण्वती कान्तवचनमधिका तु तथा बभौ ॥ १२०.२४ ॥ काचित्सत्वरिता दूत्या भूषणानां विपर्ययम् । कुर्वाणा नैव बुबुधे मन्मथाविष्टचेतना ॥ १२०.२५ ॥ वायुनुन्नातिसुरभिकुसुमोत्करमण्डिते । काचित्पिबन्ती ददृशे मैरेयं नीलशाद्वले ॥ १२०.२६ ॥ पाययामास रमणं स्वयं काचिद्वराङ्गना । काचित्पपौ वरारोहा कान्तपाणिसमर्पितम् ॥ १२०.२७ ॥ काचित्स्वनेत्रचपलनीलोत्पलयुतं पयः । पीत्वा पप्रच्छ रमणं क्व गते ते ममोत्पले ॥ १२०.२८ ॥ त्वयैव पीतौ तौ नूनमित्युक्ता रमणेन सा । तथा विदित्वा मुग्धत्वाद्बभूव व्रीडिता भृशम् ॥ १२०.२९ ॥ काचित्कान्तार्पितं सुभ्रूः कान्तपीतावशेषितम् । सविशेषरसं पानं पपौ मन्मथवर्धनम् ॥ १२०.३० ॥ आपानगोष्ठीषु तथा तासां स नरपुंगवः । शुश्राव विविधं गीतं तन्त्रीस्वरविमिश्रितम् ॥ १२०.३१ ॥ प्रदोषसमये ताश्च देवदेवं जनार्दनम् । राजन्सदोपनृत्यन्ति नानावाद्यपुरःसराः ॥ १२०.३२ ॥ याममात्रे गते रात्रौ विनिर्गत्य गुहामुखात् । आवसन्संयुताः कान्तैः परर्द्धिरचितां गुहाम् ॥ १२०.३३ ॥ नानागन्धान्वितलतां नानागन्धसुगन्धिनीम् । नानाविचित्रशयनां कुसुमोत्करमण्डिताम् ॥ १२०.३४ ॥ एवमप्सरसां पश्यन् क्रीडितानि स पर्वते । तपस्तेपे महाराजन् केशवार्पितमानसः ॥ १२०.३५ ॥ तमूचुर्नृपतिं गत्वा गन्धर्वाप्सरसां गणाः । राजन्स्वर्गोपमं देशमिमं प्राप्तोऽस्यरिंदम ॥ १२०.३६ ॥ वयं हि ते प्रदास्यामो मनसः काङ्क्षितान्वरान् । तानादाय गृहं गच्छ तिष्ठेह यदि वा पुनः ॥ १२०.३७ ॥ *राजोवाच अमोघदर्शनाः सर्वे भवन्तस्त्वमितौजसः । वरं वितरताद्यैव प्रसादं मधुसूदनात् ॥ १२०.३८ ॥ एवमस्त्वित्यथोक्तस्तैः स तु राजा पुरूरवाः । तत्रोवास सुखी मासं पूजयानो जनार्दनम् ॥ १२०.३९ ॥ प्रिय एव सदैवासीद्गन्धर्वाप्सरसां नृपः । तुतोष स जनो राज्ञस्तस्यालौल्येन कर्मणा ॥ १२०.४० ॥ मासस्य मध्ये स नृपः प्रविष्टस्तदाश्रमं रत्नसहस्रचित्रम् ।* तोयाशनस्तत्र ह्युवास मासं यावत्सितान्तो नृप फाल्गुनस्य ॥ १२०.४१ ॥* फाल्गुनामलपक्षान्ते राजा स्वप्ने पुरूरवाः । तस्यैव देवदेवस्य श्रुतवान्गदितं शुभम् ॥ १२०.४२ ॥ रात्र्यामस्यां व्यतीतायामत्रिणा त्वं समेष्यसि । तेन राजन्समागम्य कृतकृत्यो भविष्यसि ॥ १२०.४३ ॥ स्वप्नमेवं स राजर्षिर्दृष्ट्वा देवेन्द्रविक्रमः । प्रत्यूषकाले विधिवत्स्नातः स प्रयतेन्द्रियः ॥ १२०.४४ ॥ कृतकृत्यो यथाकामं पूजयित्वा जनार्दनम् । ददर्शात्रिं मुनिं राजा प्रत्यक्षं तपसां निधिम् ॥ १२०.४५ ॥ स्वप्नं तु देवदेवस्य न्यवेदयत धार्मिकः । ततः शुश्राव वचनं देवतानां समीरितम् ॥ १२०.४६ ॥ एवमेतन्महीपाल नात्र कार्या विचारणा । एवं प्रसादं सम्प्राप्य देवदेवाज्जनार्दनात् ॥ १२०.४७ ॥ कृतदेवार्चनो राजा तथा हुतहुताशनः । सर्वान्कामानवाप्तोऽसौ वरदानेन केशवात् ॥ १२०.४८ ॥ ______________________________________________________ मत्स्यपुराण १२१ *सूत उवाच तस्याश्रमस्योत्तरतस्त्रिपुरारिनिषेवितः । नानारत्नमयैः शृङ्गैः कल्पद्रुमसमन्वितैः ॥ १२१.१ ॥ मध्ये हिमवतः पृष्ठे कैलासो नाम पर्वतः । तस्मिन्निवसति श्रीमान् कुबेरः सह गुह्यकैः ॥ १२१.२ ॥ अप्सरोऽनुगुप्तो राजा मोदते ह्यलकाधिपः । कैलासपादसम्भूतं पुण्यं शीतजलं शुभम् ॥ १२१.३ ॥ मन्दोदकं नाम सरः पयस्तु दधिसंनिभम् । तस्मात्प्रवहते दिव्या नदी मन्दाकिनी शुभा ॥ १२१.४ ॥ दिव्यं च नन्दनं तत्र तस्यास्तीरे महद्वनम् । प्रागुत्तरेण कैलासाद्दिव्यं सौगन्धिकं गिरिम् ॥ १२१.५ ॥ सर्वधातुमयं दिव्यं सुवेलं पर्वतं प्रति । चन्द्रप्रभो नाम गिरिः यः शुभ्रो रत्नसंनिभः ॥ १२१.६ ॥ तत्समीपे सरो दिव्यमच्छोदं नाम विश्रुतम् । तस्मात्प्रभवते दिव्या नदी ह्यच्छोदका शुभा ॥ १२१.७ ॥ तस्यास्तीरे वनं दिव्यं महच्चैत्ररथं शुभम् । तस्मिन्गिरौ निवसति मणिभद्रः सहानुगः ॥ १२१.८ ॥ यक्षसेनापतिः क्रूरो गुह्यकैः परिवारितः । पुण्या मन्दाकिनी नाम नदी ह्यच्छोदका शुभा ॥ १२१.९ ॥ महीमण्डलमध्ये तु प्रविष्टे तु महोदधिम् । कैलासदक्षिणे प्राच्यां शिवं सर्वौषधिं गिरिम् ॥ १२१.१० ॥ मनःशिलामयं दिव्यं सुवेलं पर्वतं प्रति । लोहितो हेमशृङ्गस्तु गिरिः सूर्यप्रभो महान् ॥ १२१.११ ॥ तस्य पादे महद्दिव्यं लोहितं सुमहत्सरः । तस्मात्प्रभवते पुण्यो लौहित्यश्च नदो महान् ॥ १२१.१२ ॥ दिव्यारण्यं विशोकं च तस्य तीरे महद्वनम् । तस्मिन्गिरौ निवसति यक्षो मणिधरो वशी ॥ १२१.१३ ॥ सौम्यैः सुधार्मिकैश्चैव गुह्यकैः परिवारितः । कैलासात्पश्चिमोदीच्यां ककुद्मानौषधीगिरिः ॥ १२१.१४ ॥ ककुद्मति च रुद्रस्य उत्पत्तिश्च ककुद्मिनः । तदञ्जनं त्रैककुदं शैलं त्रिककुदं प्रति ॥ १२१.१५ ॥ सर्वधातुमयस्तत्र सुमहान्वैद्युतो गिरिः । तस्य पादे महद्दिव्यं मानसं सिद्धसेवितम् ॥ १२१.१६ ॥ तस्मात्प्रभवते पुण्या सरयूर्लोकपावनी । यस्यास्तीरे वनं दिव्यं वैभ्राजं नाम विश्रुतम् ॥ १२१.१७ ॥ कुबेरानुचरस्तस्मिन् प्रहेतितनयो वशी । ब्रह्मधाता निवसति राक्षसोऽनन्तविक्रमः ॥ १२१.१८ ॥ कैलासात्पश्चिमामाशां दिव्यः सर्वौषधिगिरिः । वरुणः पर्वतश्रेष्ठो रुक्मधातुविभूषितः ॥ १२१.१९ ॥ भवस्य दयितः श्रीमान् पर्वतो हैमसंनिभः । शातकौम्भमयैर्दिव्यैः शिलाजालैः समाचितः ॥ १२१.२० ॥ शतसङ्ख्यैस्तापनीयैः शृङ्गैर्दिवमिवोल्लिखन् । शृङ्गवान्सुमहादिव्यो दुर्गः शैलो महाचितः ॥ १२१.२१ ॥ तस्मिन्गिरौ निवसति गिरिशो धूम्रलोहितः । तस्य पादात्प्रभवति शैलोदं नाम तत्सरः ॥ १२१.२२ ॥ तस्मात्प्रभवते पुण्या नदी शैलोदका शुभा । सा चक्षुसी तयोर्मध्ये प्रविष्टा पश्चिमोदधिम् ॥ १२१.२३ ॥ अस्त्युत्तरेण कैलासाच्छिवः सर्वौषधो गिरिः । गौरं तु पर्वतश्रेष्ठं हरितालमयं प्रति ॥ १२१.२४ ॥ हिरण्यशृङ्गः सुमहादिव्यौषधिमयो गिरिः । तस्य पादे महद्दिव्यं सरः काञ्चनवालुकम् ॥ १२१.२५ ॥ रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः । गङ्गार्थे स तु राजर्षिरुवास बहुलाः समाः ॥ १२१.२६ ॥ दिवं यास्यन्तु मे पूर्वे गङ्गातोयाप्लुतास्थिकाः । तत्र त्रिपथगा देवी प्रथमं तु प्रतिष्ठिता ॥ १२१.२७ ॥ सोमपादात्प्रसूता सा सप्तधा प्रविभज्यते । यूपा मणिमयास्तत्र विमानाश्च हिरण्मयाः ॥ १२१.२८ ॥ तत्रेष्ट्वा क्रतुभिः सिद्धः शक्रः सुरगणैः सह । दिव्यश्छायापथस्तत्र नक्षत्राणां तु मण्डलम् ॥ १२१.२९ ॥ दृश्यते भासुरा रात्रौ देवी त्रिपथगा तु सा । अन्तरिक्षं दिवं चैव भावयित्वा भुवं गता ॥ १२१.३० ॥ भवोत्तमाङ्गे पतिता संरुद्धा योगमायया । तस्या ये बिन्दवः केचित्क्रुद्धायाः पतिता भुवि ॥ १२१.३१ ॥ कृतं तु तैर्बहुसरस्ततो बिन्दुसरः स्मृतम् । ततस्तस्या निरुद्धाया भवेन सहसा रुषा ॥ १२१.३२ ॥ ज्ञात्वा तस्या ह्यभिप्रायं क्रूरं देव्याश्चिकीर्षितम् । भित्त्वा विशामि पातालं स्रोतसा गृह्य शंकरम् ॥ १२१.३३ ॥ अथावलेपं तं ज्ञात्वा तस्याः क्रुद्धस्तु शंकरः । तिरोभावयितुं बुद्धिरासीदङ्गेषु तां नदीम् ॥ १२१.३४ ॥ एतस्मिन्नेव काले तु दृष्ट्वा राजानमग्रतः । धमनीसंततं क्षीणं क्षुधाव्याकुलितेन्द्रियम् ॥ १२१.३५ ॥ अनेन तोषितश्चाहं नद्यर्थे पूर्वमेव तु । बुद्ध्वाऽस्य वरदानं तु ततः कोपं न्ययच्छत ॥ १२१.३६ ॥ ब्रह्मणो वचनं श्रुत्वा यदुक्तं धारयन्नदीम् । ततो विसर्जयामास संरुद्धां स्वेन तेजसा ॥ १२१.३७ ॥ नदीं भगीरथस्यार्थे तपसोग्रेण तोषितः । ततो विसर्जयामास सप्त स्रोतांसि गङ्गया ॥ १२१.३८ ॥ त्रीणि प्राचीमभिमुखं प्रतीचीं त्रीण्यथैव तु । स्रोतांसि त्रिपथायास्तु प्रत्यपद्यन्त सप्तधा ॥ १२१.३९ ॥ नलिनी ह्लादिनी चैव पावनी चैव प्राच्यगा । सीता चक्षुश्च सिन्धुश्च तिस्रस्ता वै प्रतीच्यगाः ॥ १२१.४० ॥ सप्तमी त्वनुगा तासां दक्षिणेन भगीरथम् । तस्माद्भागीरथी सा वै प्रविष्टा दक्षिणोदधिम् ॥ १२१.४१ ॥ सप्त चैताः प्लावयन्ति वर्षं तु हिमसाह्वयम् । प्रसूताः सप्त नद्यस्तु शुभा बिन्दुसरोद्भवाः ॥ १२१.४२ ॥ तान्देशान्प्लावयन्ति स्म म्लेच्छप्रायांश्च सर्वशः । सशैलान्कुकुरान्रौध्रान् बर्बरान्यवनान्खसान् ॥ १२१.४३ ॥ पुलिकांश्च कुलत्थांश्च अङ्गलोक्यान्वरांश्च यान् । कृत्वा द्विधा हिमवन्तं प्रविष्टा दक्षिणोदधिम् ॥ १२१.४४ ॥ अथ वीरमरूंश्चैव कालिकांश्चैव शूलिकान् । तुकरान्बर्बराकारान् पह्लवान्पारदाञ्छकान् ॥ १२१.४५ ॥ एताञ्जनपदांश्चक्षुः प्लावयित्वोदधिं गता । दरदोर्जगुडांश्चैव गान्धारानौरसान्कुहून् ॥ १२१.४६ ॥ शिवपौरानिन्द्रमरून् वसतीन्समतेजसम् । सैन्धवानुर्वसान्बर्बान् कुपथान्भीमरोमकान् ॥ १२१.४७ ॥ शुनामुखांश्चोर्दमरून् सिन्धुरेतान्निषेवते । गन्धर्वान्किन्नरान्यक्षान् रक्षोविद्याधरोरगान् ॥ १२१.४८ ॥ कलापग्रामकांश्चैव तथा किम्पुरुषान्नरान् । किरातांश्च पुलिन्दांश्च कुरून्वै भारतानपि ॥ १२१.४९ ॥ पाञ्चालान्कौशिकान्मत्स्यान्मागधाङ्गांस्तथैव च । ब्रह्मोत्तरांश्च वङ्गांश्च ताम्रलिप्तांस्तथैव च ॥ १२१.५० ॥ एताञ्जनपदानार्यान् गङ्गा भावयते शुभा । ततः प्रतिहता विन्ध्ये प्रविष्टा दक्षिणोदधिम् ॥ १२१.५१ ॥ ततस्तु ह्लादिनी पुण्या प्राचीनाभिमुखी ययौ । प्लावयन्त्युपकांश्चैव निषादानपि सर्वशः ॥ १२१.५२ ॥ धीवरानृषिकांश्चैव तथा नलिमुखानपि । केकरानेककर्णांश्च किरातानपि चैव हि ॥ १२१.५३ ॥ कालञ्जरान्विकर्णांश्च कुशिकान्स्वर्गभौमकान् । सा मण्डले समुद्रस्य तीरे भूत्वा तु सर्वशः ॥ १२१.५४ ॥ ततस्तु नलिनी चापि प्राचीमेव दिशं ययौ । कुपथान्प्लावयन्ती सा इन्द्रद्युम्नसरांस्यपि ॥ १२१.५५ ॥ तथा खरपथान्देशान् वेत्रशङ्कुपथानपि । मध्येनोज्जानकमरून् कुथप्रावरणान्ययौ ॥ १२१.५६ ॥ इन्द्रद्वीपसमीपे तु प्रविष्टा लवणोदधिम् । ततस्तु पावनी प्रायात्प्राचीमाशां जवेन तु ॥ १२१.५७ ॥ तोमरान्प्लावयती च हंसमार्गान्समूहकान् । पूर्वान्देशांश्च सेवन्ती भित्त्वा सा बहुधा गिरिम् । कर्णप्रावरणान्प्राप्य गता साश्वमुखानपि ॥ १२१.५८ ॥ सिक्त्वा पर्वतमेरुं सा गत्वा विद्याधरानपि । शैमिमण्डलकोष्ठं तु सा प्रविष्टा महत्सरः ॥ १२१.५९ ॥ तासां नद्युपनद्योऽन्याः शतशोऽथ सहस्रशः । उपगच्छन्ति ता नद्यो यतो वर्षति वासवः ॥ १२१.६० ॥ तीरे वंशौकसारायाः सुरभिर्नाम तद्वनम् । हिरण्यशृङ्गो वसति विद्वान्कौबेरको वशी ॥ १२१.६१ ॥ यज्ञादपेतः सुमहानमितौजाः सुविक्रमः । तत्रागस्त्यैः परिवृता विद्वभिर्द्ब्रह्मराक्षसैः ॥ १२१.६२ ॥ कुबेरानुचरा ह्येते चत्वारस्तत्समाश्रिताः । एवमेव तु विज्ञेया सिद्धिः पर्वतवासिनाम् ॥ १२१.६३ ॥ परस्परेण द्विगुणा धर्मतः कामतोऽर्थतः । हेमकूटस्य पृष्ठे तु सर्पाणां तत्सरः स्मृतम् ॥ १२१.६४ ॥ सरस्वती प्रभवति तस्माज्ज्योतिष्मती तु या । अवगाढे ह्युभयतः समुद्रौ पूर्वपश्चिमौ ॥ १२१.६५ ॥ सरो विष्णुपदं नाम निषधे पर्वतोत्तमे । यस्मादग्रे प्रभवति गन्धर्वानुकुले च ते ॥ १२१.६६ ॥ मेरोः पार्श्वात्प्रभवति ह्रदश्चन्द्रप्रभो महान् । जम्बूश्चैव नदी पुण्या यस्यां जाम्बूनदं स्मृतम् ॥ १२१.६७ ॥ पयोदस्तु ह्रदो नीलः स शुभ्रः पुण्डरीकवान् । पुण्डरीकात्पयोदाच्च तस्माद्द्वे सम्प्रसूयताम् ॥ १२१.६८ ॥ सरसस्तु सरस्त्वेतत्स्मृतमुत्तरमानसम् । मृग्या च मृगकान्ता च तस्माद्द्वे सम्प्रसूयताम् ॥ १२१.६९ ॥ ह्रदाः कुरुषु विख्याताः पद्ममीनकुलाकुलाः । नाम्ना ते वै जया नाम द्वादशोदधिसंनिभाः ॥ १२१.७० ॥ तेभ्यः शान्ती च मध्वी च द्वे नद्यौ सम्प्रसूयताम् । किम्पुरुषाद्यानि यान्यष्टौ तेषु देवो न वर्षति ॥ १२१.७१ ॥ उद्भिदान्युदकान्यत्र प्रवहन्ति सरिद्वराः । बलाहकश्च ऋषभो चक्रो मैनाक एव च ॥ १२१.७२ ॥ विनिविष्टाः प्रतिदिशं निमग्ना लवणाम्बुधिम् । चन्द्रकान्तस्तथा द्रोणः सुमहांश्च शिलोच्चयः ॥ १२१.७३ ॥ उद्गायता उदीच्यां तु अवगाढा महोदधिम् । चक्रो बधिरकश्चैव तथा नारदपर्वतः ॥ १२१.७४ ॥ प्रतीचीमायतास्ते वै प्रतिष्ठास्ते महोदधिम् । जीमूतो द्रावणश्चैव मैनाकश्चन्द्रपर्वतः ॥ १२१.७५ ॥ आयतास्ते महाशैलाः समुद्रं दक्षिणं प्रति । चक्रमैनाकयोर्मध्ये दिवि सन् दक्षिणापथे ॥ १२१.७६ ॥ तत्र संवर्तको नाम सोऽग्निः पिबति तज्जलम् । अग्निः समुद्रवासस्तु और्वोऽसौ वडवामुखः ॥ १२१.७७ ॥ इत्येते पर्वताविष्टाश्चत्वारो लवणोदधिम् । छिद्यमानेषु पक्षेषु पुरा इन्द्रस्य वै भयात् ॥ १२१.७८ ॥ तेषां तु दृश्यते चन्द्रे शुक्ले कृष्णे समाप्लुतिः । ते भारतस्य वर्षस्य भेदा येन प्रकीर्तिताः ॥ १२१.७९ ॥ इहोदितस्य दृश्यन्ते अन्ये त्वन्यत्र चोदिताः । उत्तरोत्तरमेतेषां वर्षमुद्रिच्यते गुणैः ॥ १२१.८० ॥ आरोग्यायुःप्रमाणाभ्यां धर्मतः कामतोऽर्थतः । समन्वितानि भूतानि तेषु वर्षेषु भागशः ॥ १२१.८१ ॥ वसन्ति नानाजातीनि तेषु सर्वेषु तानि वै । इत्येतद्धारयद्विश्वं पृथ्वी जगदिदं स्थिता ॥ १२१.८२ ॥ ______________________________________________________ मत्स्यपुराण १२२ *सूत उवाच शाकद्वीपस्य वक्ष्यामि यथावदिह निश्चयम् । कथ्यमानं निबोध त्वं शाकं द्वीपं द्विजोत्तमाः ॥ १२२.१ ॥ जम्बूद्वीपस्य विस्ताराद्द्विगुणस्तस्य विस्तरः । विस्तारात्त्रिगुणश्चापि परिणाहः समन्ततः ॥ १२२.२ ॥ तेनावृतः समुद्रोऽयं द्वीपेन लवणोदधिः । तत्र पुण्या जनपदाश्चिराच्च म्रियते जनः ॥ १२२.३ ॥ कुत एव च दुर्भिक्षं क्षमातेजोयुतेष्विह । तत्रापि पर्वताः शुभ्राः सप्तैव मणिभूषिताः ॥ १२२.४ ॥ शाकद्वीपादिषु त्वेषु सप्त सप्त नगास्त्रिषु । ऋज्वायताः प्रतिदिशं निविष्टा वर्षपर्वताः ॥ १२२.५ ॥ रत्नाकरादिनामानः सानुमन्तो महाचिताः । समोदिताः प्रतिदिशं द्वीपविस्तारमानतः ॥ १२२.६ ॥ उभयत्रावगाढौ च लवणक्षीरसागरौ । शाकद्वीपे तु वक्ष्यामि सप्त दिव्यान्महाचलान् ॥ १२२.७ ॥ देवर्षिगन्धर्वयुतः प्रथमो मेरुरुच्यते । प्रागायतः स सौवर्ण उदयो नाम पर्वतः ॥ १२२.८ ॥ तत्र मेघास्तु वृष्ट्यर्थं प्रभवन्त्यपयान्ति च । तस्यापरेण सुमहाञ्जलधारो महागिरिः ॥ १२२.९ ॥ स वै चन्द्रः समाख्यातः सर्वौषधिसमन्वितः । तस्मान्नित्यमुपादत्ते वासवः परमं जलम् ॥ १२२.१० ॥ नारदो नाम चैवोक्तो दुर्गशैलो महाचितः । तत्राचलौ समुत्पन्नौ पूर्वं नारदपर्वतौ ॥ १२२.११ ॥ तस्यापरेण सुमहाञ्श्यामो नाम महागिरिः । यत्र श्यामत्वमापन्नाः प्रजाः पूर्वमिमाः किल ॥ १२२.१२ ॥ स एव दुन्दुभिर्नाम श्यामपर्वतसंनिभः । शब्दमृत्युः पुरा तस्मिन् दुन्दुभिस्ताडितः सुरैः ॥ १२२.१३ ॥ रत्नमालान्तरमयः शाल्मलश्चान्तरालकृत् । तस्यापरेण रजतो महानस्तो गिरिः स्मृतः ॥ १२२.१४ ॥ स वै सोमक इत्युक्तो देवैर्यत्रामृतं पुरा । संभृतं च हृतं चैव मातुरर्थे गरुत्मता ॥ १२२.१५ ॥ तस्यापरे चाम्बिकेयः सुमनाश्चैव स स्मृतः । हिरण्याक्षो वराहेण तस्मिञ्छैले निषूदितः ॥ १२२.१६ ॥ आम्बिकेयात्परो रम्यः सर्वौषधिनिषेवितः । विभ्राजस्तु समाख्यातः स्फाटिकस्तु महान्गिरिः ॥ १२२.१७ ॥ यस्माद्विभ्राजते वह्निर्विभ्राजस्तेन स स्मृतः । सैवेह केशवेत्युक्तो यतो वायुः प्रवाति च ॥ १२२.१८ ॥ तेषां वर्षाणि वक्ष्यामि पर्वतानां द्विजोत्तमाः । शृणुध्वं नामतस्तानि यथावदनुपूर्वशः ॥ १२२.१९ ॥ द्विनामान्येव वर्षाणि यथैव गिरयस्तथा । उदयस्योदयं वर्षं जलधारेति विश्रुतम् ॥ १२२.२० ॥ नाम्ना गतभयं नाम वर्षं तत्प्रथमं स्मृतम् । द्वितीयं जलधारस्य सुकुमारमिति स्मृतम् ॥ १२२.२१ ॥ तदेव शैशिरं नाम वर्षं तत्परिकीर्तितम् । नारदस्य च कौमारं तदेव च सुखोदयम् ॥ १२२.२२ ॥ श्यामपर्वतवर्षं तदनीचकमिति स्मृतम् । आनन्दकमिति प्रोक्तं तदेव मुनिभिः शुभम् ॥ १२२.२३ ॥ सोमकस्य शुभं वर्षं विज्ञेयं कुसुमोत्करम् । तदेवासितमित्युक्तं वर्षं सोमकसंज्ञितम् ॥ १२२.२४ ॥ आम्बिकेयस्य मैनाकं क्षेमकं चैव तत्कृतम् । केसरः पर्वतस्यापि महाद्रुममिति स्मृतम् । तदेव धवमित्युक्तं वर्षं विभ्राजसंज्ञितम् ॥ १२२.२५ ॥ द्वीपस्य परिणाहं च ह्रस्वदीर्घत्वमेव च । जम्बूद्वीपेन संख्यातं तस्य मध्ये वनस्पतिः ॥ १२२.२६ ॥ शाको नाम महावृक्षः प्रजास्तस्य महानुगाः । एतेषु देवगन्धर्वाः सिद्धाश्च सह चारणैः ॥ १२२.२७ ॥ विहरन्ति रमन्ते च दृश्यमानाश्च तैः सह । तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः ॥ १२२.२८ ॥ तेषु नद्यश्च सप्तैव प्रतिवर्षं समुद्रगाः । द्विनाम्ना चैव ताः सर्वा गङ्गाः सप्तविधाः स्मृताः ॥ १२२.२९ ॥ प्रथमा सुकुमारीति गङ्गा शिवजला शुभा । मुनितप्ता च नाम्नैषा नदी सम्परिकीर्तिता ॥ १२२.३० ॥ सुकुमारी तपःसिद्धा द्वितीया नामतः सती । नन्दा च पावनी चैव तृतीया परिकीर्तिता ॥ १२२.३१ ॥ शिबिका च चतुर्थी स्याद्द्विविधा च पुनः स्मृता । इक्षुश्च पञ्चमी ज्ञेया तथैव च पुनः कुहूः ॥ १२२.३२ ॥ वेणुका चामृता चैव षष्ठी सम्परिकीर्तिता । सुकृता च गभस्ती च सप्तमी परिकीर्तिता ॥ १२२.३३ ॥ एताः सप्त महाभागाः प्रतिवर्षं शिवोदकाः । भावयन्ति जनं सर्वं शाकद्वीपनिवासिनम् ॥ १२२.३४ ॥ अभिगच्छन्ति ताश्चान्या नदा नद्यः सरांसि च । बहूदकपरिस्रावा यतो वर्षति वासवः ॥ १२२.३५ ॥ तासां तु नामधेयानि परिमाणं तथैव च । न शक्यं परिसंख्यातुं पुण्यास्ताः सरिदुत्तमाः ॥ १२२.३६ ॥ ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते । एते शान्तभयाः प्रोक्ताः प्रमोदा ये च वै शिवाः ॥ १२२.३७ ॥ आनन्दाश्च सुखाश्चैव क्षेमकाश्च नवैः सह । वर्णाश्रमाचारयुता देशास्ते सप्त विश्रुताः ॥ १२२.३८ ॥ आरोग्या बलिनश्चैव सर्वे मरणवर्जिताः । अवसर्पिणी न तेष्वस्ति तथैवोत्सर्पिणी पुनः ॥ १२२.३९ ॥ न तत्रास्ति युगावस्था चतुर्युगकृता क्वचित् । त्रेतायुगसमः कालस्तथा तत्र प्रवर्तते ॥ १२२.४० ॥ शाकद्वीपादिषु ज्ञेयं पञ्चस्वेतेषु सर्वशः । देशस्य तु विचारेण कालः स्वाभाविकः स्मृतः ॥ १२२.४१ ॥ न तेषु संकरः कश्चिद्वर्णाश्रमकृतः क्वचित् । धर्मस्य चाव्यभीचारादेकान्तसुखिनः प्रजाः ॥ १२२.४२ ॥ न तेषु माया लोभो वा ईर्ष्यासूया भयं कुतः । विपर्ययो न तेष्वस्ति तद्वै स्वाभाविकं स्मृतम् ॥ १२२.४३ ॥ कालो नैव च तेष्वस्ति न दण्डो न च दाण्डिकः । स्वधर्मेण च धर्मज्ञास्ते रक्षन्ति परस्परम् ॥ १२२.४४ ॥ परिमण्डलस्तु सुमहान् द्वीपो वै कुशसंज्ञकः । नदीजलैः परिवृतः पर्वतश्चाभ्रसंनिभैः ॥ १२२.४५ ॥ सर्वधातुविचित्रैश्च मणिविद्रुमभूषितैः । अन्यैश्च विविधाकारै रम्यैर्जनपदैस्तथा ॥ १२२.४६ ॥ वृक्षैः पुष्पफलोपेतैः सर्वतो धनधान्यवान् । नित्यं पुष्पफलोपेतः सर्वरत्नसमावृतः ॥ १२२.४७ ॥ आवृतः पशुभिः सर्वैर्ग्राम्यारण्यैश्च सर्वशः । आनुपूर्व्यात्समासेन कुशद्वीपं निबोधत ॥ १२२.४८ ॥ अथ तृतीयं वक्ष्यामि कुशद्वीपं च कृत्स्नशः । कुशद्वीपेन क्षीरोदः सर्वतः परिवारितः ॥ १२२.४९ ॥ शाकद्वीपस्य विस्ताराद्द्विगुणेन समन्वितः । तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः ॥ १२२.५० ॥ रत्नाकरास्तथा नद्यस्तेषां नामानि मे शृणु । द्विनामानश्च ते सर्वे शाकद्वीपे यथा तथा ॥ १२२.५१ ॥ प्रथमः सूर्यसंकाशः कुमुदो नाम पर्वतः । विद्रुमोच्चय इत्युक्तः स एव च महीधरः ॥ १२२.५२ ॥ सर्वधातुमयैः शृङ्गैः शिलाजालसमन्वितैः । द्वितीयः पर्वतस्तत्र उन्नतो नाम विश्रुतः ॥ १२२.५३ ॥ हेमपर्वत इत्युक्तः स एव च महीधरः । हरितालमयैः शृङ्गैर्द्वीपमावृत्य सर्वशः ॥ १२२.५४ ॥ बलाहकस्तृतीयस्तु जात्यञ्जनमयो गिरिः । द्युतिमान्नामतः प्रोक्तः स एव च महीधरः ॥ १२२.५५ ॥ चतुर्थः पर्वतो द्रोणो यत्रौषध्यो महागिरौ । विशल्यकरणी चैव मृतसंजीवनी तथा ॥ १२२.५६ ॥ पुष्पवान्नाम सैवोक्तः पर्वतः सुमहाचितः । कङ्कस्तु पञ्चमस्तेषां पर्वतो नाम सारवान् ॥ १२२.५७ ॥ कुशेशय इति प्रोक्तः पुनः स पृथिवीधरः । दिव्यपुष्पफलोपेतो दिव्यविरुत्समन्वितः ॥ १२२.५८ ॥ षष्ठस्तु पर्वतस्तत्र महिषो मेघसंनिभः । स एव तु पुनः प्रोक्तो हरिरित्यभिविश्रुतः ॥ १२२.५९ ॥ तस्मिन्सोऽग्निर्निवसति महिषो नाम योऽप्सुजः । सप्तमः पर्वतस्तत्र ककुद्मान्स हि भाषते ॥ १२२.६० ॥ मन्दरः सैव विज्ञेयः सर्वधातुमयः शुभः । मन्द इत्येष यो धातुरपामर्थे प्रकाशकः ॥ १२२.६१ ॥ अपां विदारणाच्चैव मन्दरः स निगद्यते । तत्र रत्नान्यनेकानि स्वयं रक्षति वासवः ॥ १२२.६२ ॥ प्रजापतिमुपादाय प्रजाभ्यो विदधत्स्वयम् । तेषामन्तरविष्कम्भो द्विगुणः समुदाहृतः ॥ १२२.६३ ॥ इत्येते पर्वताः सप्त कुशद्वीपे प्रभाषिताः । तेषां वर्षाणि वक्ष्यामि सप्तैव तु विभागशः ॥ १२२.६४ ॥ कुमुदस्य स्मृतः श्वेत उन्नतश्चेव स स्मृतः । उन्नतस्य तु विज्ञेयं वर्षं लोहितसंज्ञकम् ॥ १२२.६५ ॥ वेणुमण्डलकं चैव तथैव परिकीर्तितम् । बलाहकस्य जीमूतः स्वैरथाकारमित्यपि ॥ १२२.६६ ॥ द्रोणस्य हरिकं नाम लवणं च पुनः स्मृतम् । कङ्कस्यापि ककुन्नाम धृतिमच्चैव तत्स्मृतम् ॥ १२२.६७ ॥ महिषं महिषस्यापि पुनश्चापि प्रभाकरम् । ककुद्मिनस्तु तद्वर्षं कपिलं नाम विश्रुतम् ॥ १२२.६८ ॥ एतान्यपि विशिष्टानि सप्त सप्त पृथक्पृथक् । वर्षाणि पर्वताश्चैव नदीस्तेषु निबोधत ॥ १२२.६९ ॥ तत्रापि नद्यः सप्तैव प्रतिवर्षं हि ताः स्मृताः । द्विनामवत्यस्ताः सर्वाः सर्वाः पुण्यजलाः स्मृताः ॥ १२२.७० ॥ धूतपापा नदी नाम योनिश्चैव पुनः स्मृता । सीता द्वितीया विज्ञेया सा चैव हि निशा स्मृता ॥ १२२.७१ ॥ पवित्रा तृतीया विज्ञेया वितृष्णापि च या पुनः । चतुर्थी ह्लादिनीत्युक्ता चन्द्रभा इति च स्मृता ॥ १२२.७२ ॥ विद्युच्च पञ्चमी प्रोक्ता शुक्ला चैव विभाव्यते । पुण्ड्रा षष्ठी तु विज्ञेया पुनश्चैव विभावरी ॥ १२२.७३ ॥ महती सप्तमी प्रोक्ता पुनश्चैषा धृतिः स्मृता । अन्यास्ताभ्योऽपि संजाताः शतशोऽथ सहस्रशः ॥ १२२.७४ ॥ अभिगच्छन्ति ता नद्यो यतो वर्षति वासवः । इत्येष संनिवेशो वः कुशद्वीपस्य वर्णितः ॥ १२२.७५ ॥ शाकद्वीपेन विस्तारः प्रोक्तस्तस्य सनातनः । कुशद्वीपः समुद्रेण घृतमण्डोदकेन च ॥ १२२.७६ ॥ सर्वतः सुमहान्द्वीपश्चन्द्रवत्परिवेष्टितः । विस्तारान्मण्डलाच्चैव क्षीरोदाद्द्विगुणो मतः ॥ १२२.७७ ॥ ततः परं प्रवक्ष्यामि क्रौञ्चद्वीपं यथा तथा । कुशद्वीपस्य विस्ताराद्द्विगुणस्तस्य विस्तरः ॥ १२२.७८ ॥ घृतोदकः समुद्रो वै क्रौञ्चद्वीपेन संवृतः । चक्रनेमिप्रमाणेन वृतो वृत्तेन सर्वशः ॥ १२२.७९ ॥ तस्मिन्द्वीपे नगाः श्रेष्ठा देवनो गिरिरुच्यते । देवनात्परतश्चापि गोविन्दो नाम पर्वतः ॥ १२२.८० ॥ गोविन्दात्परतश्चापि क्रौञ्चस्तु प्रथमो गिरिः । क्रौञ्चात्परे पावनकः पावनादन्धकारकः ॥ १२२.८१ ॥ अन्धकारात्परे चापि देवावृन्नाम पर्वतः । देवावृतः परेणापि पुण्डरीको महान्गिरिः ॥ १२२.८२ ॥ एते रत्नमयाः सप्त क्रौञ्चद्वीपस्य पर्वताः । परस्परस्य द्विगुणो विष्कम्भो वर्षपर्वतः ॥ १२२.८३ ॥ वर्षाणि तस्य वक्ष्यामि नामतस्तु निबोधत । क्रौञ्चस्य कुशलो देशो वामनस्य मनोनुगः ॥ १२२.८४ ॥ मनोनुगात्परे चोष्णास्तृतीयोऽपि स उच्यते । उष्णात्परे पावनकः पावनादन्धकारकः ॥ १२२.८५ ॥ अन्धकारकदेशात्तु मुनिदेशस्तथा परः । मुनिदेशात्परे चापि प्रोच्यते दुन्दुभिस्वनः ॥ १२२.८६ ॥ सिद्धचारणसंकीर्णो गौरप्रायः शुचिर्जनः । श्रुतास्तत्रैव नद्यस्तु प्रतिवर्षं गताः शुभाः ॥ १२२.८७ ॥ गौरी कुमुद्वती चैव संध्या रात्रिर्मनोजवा । ख्याती च पुण्डरीका च गङ्गा सप्तविधा स्मृता ॥ १२२.८८ ॥ तासां सहस्रशश्चान्या नद्यः पार्श्वसमीपगाः । अभिगच्छन्ति ता नद्यो बहुलाश्च बहूदकाः ॥ १२२.८९ ॥ तेषां निसर्गो देशानामानुपूर्व्येण सर्वशः । न शक्यो विस्तराद्वक्तुमपि वर्षशतैरपि ॥ १२२.९० ॥ सर्गो यश्च प्रजानां तु संहारो यश्च तेषु वै । अत ऊर्ध्वं प्रवक्ष्यामि शाल्मलस्य निबोधत ॥ १२२.९१ ॥ शाल्मलो द्विगुणो द्वीपः क्रौञ्चद्वीपस्य विस्तरात् । परिवार्य समुद्रं तु दधिमण्डोदकं स्थितः ॥ १२२.९२ ॥ तत्र पुण्या जनपदाश्चिराच्च म्रियते जनः । कुत एव तु दुर्भिक्षं क्षमातेजोयुता हि ते ॥ १२२.९३ ॥ प्रथमः सूर्यसंकाशः सुमना नाम पर्वतः । पीतस्तु मध्यमश्चासीत्ततः कुम्भमयो गिरिः ॥ १२२.९४ ॥ नाम्ना सर्वसुखो नाम दिव्यौषधिसमन्वितः । तृतीयश्चैव सौवर्णो भृङ्गपत्त्रनिभो गिरिः ॥ १२२.९५ ॥ सुमहान्रोहितो नाम दिव्यो गिरिवरो हि सः । सुमनाः कुशलो देशः सुखोदर्कः सुखोदयः ॥ १२२.९६ ॥ रोहितो यस्तृतीयस्तु रोहिणो नाम विश्रुतः । तत्र रत्नान्यनेकानि स्वयं रक्षति वासवः ॥ १२२.९७ ॥ प्रजापतिमुपादाय प्रसन्नो विदधत्स्वयम् । न तत्र मेघा वर्षन्ति शीतोष्णं च न तद्विधम् ॥ १२२.९८ ॥ वर्णाश्रमाणां वार्त्ता वा त्रिषु द्वीपेषु विद्यते । न ग्रहो न च चन्द्रोऽस्ति ईर्ष्यासूया भयं तथा ॥ १२२.९९ ॥ उद्भिदान्युदकान्यत्र गिरिप्रस्रवणानि च । भोजनं षड्रसं तत्र तेषां स्वयमुपस्थितम् ॥ १२२.१०० ॥ अधमोत्तमं न तेष्वस्ति न लोभो न परिग्रहः । आरोग्यबलवन्तश्च एकान्तसुखिनो नराः ॥ १२२.१०१ ॥ त्रिंशद्वर्षसहस्राणि मानसीं सिद्धिमास्थिताः । सुखमायुश्च रूपं च धर्मैश्वर्यं तथैव च ॥ १२२.१०२ ॥ शाल्मलान्तेषु विज्ञेयं द्वीपेषु त्रिषु सर्वतः । व्याख्यातः शाल्मलान्तानां द्वीपानां तु विधिः शुभः ॥ १२२.१०३ ॥ परिमण्डलस्तु द्वीपस्य चक्रवत्परिवेष्टितः । सुरोदेन समुद्रेण द्विगुणेन समन्वितः ॥ १२२.१०४ ॥ ______________________________________________________ मत्स्यपुराण १२३ *सूत उवाच गोमेदकं प्रवक्ष्यामि षष्ठं द्वीपं तपोधनाः । सुरोदकसमुद्रस्तु गोमेदेन समावृतः ॥ १२३.१ ॥ शाल्मलस्य तु विस्ताराद्द्विगुणस्तस्य विस्तरः । तस्मिन्द्वीपे तु विज्ञेयौ पर्वतौ द्वौ समाहितौ ॥ १२३.२ ॥ प्रथमः सुमना नाम जात्यञ्जनमयो गिरिः । द्वितीयः कुमुदो नाम सर्वौषधिसमन्वितः ॥ १२३.३ ॥ शातकौम्भमयः श्रीमान् विज्ञेयः सुमहाचितः । समुद्रेक्षुरसोदेन वृतो गोमेदकश्च सः ॥ १२३.४ ॥ षष्ठेन तु समुद्रेण सुरोदाद्द्विगुणेन च । धातकीकुमुदश्चैव हव्यपुत्रौ सुविस्तृतौ ॥ १२३.५ ॥ सौमनं प्रथमं वर्षं धातकीखण्डमुच्यते । धातकिनः स्मृतं तद्वै प्रथमं प्रथमस्य तु ॥ १२३.६ ॥ गोमेदं यत्स्मृतं वर्षं नाम्ना सर्वसुखं तु तत् । कुमुदस्य द्वितीयस्य द्वितीयं कुमुदं ततः ॥ १२३.७ ॥ एतौ द्वौ पर्वतौ वृत्तौ शेषौ सर्वसमुच्छ्रितौ । पूर्वेण तस्य द्वीपस्य सुमनाः पर्वतः स्थितः ॥ १२३.८ ॥ प्राक्पश्चिमायतैः पादैरासमुद्रादिति स्थितः । पश्चार्धे कुमुदस्तस्य एवमेव स्थितस्तु वै ॥ १२३.९ ॥ एतैः पर्वतपादैस्तु स देशो वै द्विधाकृतः । दक्षिणार्धं तु द्वीपस्य धातकीखण्डमुच्यते ॥ १२३.१० ॥ कुमुदं तूत्तरे तस्य द्वितीयं वर्षमुत्तमम् । एतौ जनपदौ द्वौ तु गोमेदस्य तु विस्तृतौ ॥ १२३.११ ॥ अतः परं प्रवक्ष्यामि सप्तमं द्वीपमुत्तमम् । समुद्रेक्षुरसं चैव गोमेदाद्द्विगुणं हि सः ॥ १२३.१२ ॥ आवृत्य तिष्ठति द्वीपः पुष्करः पुष्करैर्वृतः । पुष्करेण वृतः श्रीमांश्चित्रसानुमहागिरिः ॥ १२३.१३ ॥ कूटैश्चित्रैर्मणिमयैः शिलाजालसमुद्भवैः । द्वीपस्यैव तु पूर्वार्धे चित्रसानुः स्थितो महान् ॥ १२३.१४ ॥ परिमण्डलसहस्राणि विस्तीर्णः सप्तविंशतिः । ऊर्ध्वं स वै चतुर्विंशद्योजनानां महाबलः ॥ १२३.१५ ॥ द्वीपार्धस्य परिक्षिप्तः पश्चिमे मानसो गिरिः । स्थितो वेलासमीपे तु पूर्वचन्द्र इवोदितः ॥ १२३.१६ ॥ योजनानां सहस्राणि सार्धं पञ्चाशदुच्छ्रितः । तस्य पुत्रो महावीतः पश्चिमार्धस्य रक्षिता ॥ १२३.१७ ॥ पूर्वार्धे पर्वतस्यापि द्विधा देशस्तु स स्मृतः । स्वादूदकेनोदधिना पुष्करः परिवारितः ॥ १२३.१८ ॥ विस्तारान्मण्डलाच्चैव गोमेदाद्द्विगुणेन तु । त्रिंशद्वर्षसहस्राणि तेषु जीवन्ति मानवाः ॥ १२३.१९ ॥ विपर्ययो न तेष्वस्ति एतत्स्वाभाविकं स्मृतम् । आरोग्यं सुखबाहुल्यं मानसीं सिद्धिमास्थिताः ॥ १२३.२० ॥ सुखमायुश्च रूपं च त्रिषु द्वीपेषु सर्वशः । अधमोत्तमौ न तेष्वास्तां तुल्यास्ते वीर्यरूपतः ॥ १२३.२१ ॥ न तत्र वध्यवधकौ नेर्ष्यासूया भयं तथा । न लोभो न च दम्भो वा न च द्वेषः परिग्रहः ॥ १२३.२२ ॥ सत्यानृते न तेष्वास्तां धर्माधर्मौ तथैव च । वर्णाश्रमाणां वार्त्ता च पाशुपाल्यं वणिक्कृषिः ॥ १२३.२३ ॥ त्रयीविद्या दण्डनीतिः शुश्रूषा दण्ड एव च । न तत्र वर्षं नद्यो वा शीतोष्णं च न विद्यते ॥ १२३.२४ ॥ उद्भिदान्युदकानि स्युर्गिरिप्रस्रवणानि च । तुल्योत्तरकुरूणां तु कालस्तत्र तु सर्वदा ॥ १२३.२५ ॥ सर्वतः सुखकालोऽसौ जराक्लेशविवर्जितः । सर्गस्तु धातकीखण्डे महावीते तथैव च ॥ १२३.२६ ॥ एवं द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः । द्वीपस्यानन्तरो यस्तु समुद्रस्तत्समस्तु वै ॥ १२३.२७ ॥ एवं द्वीपसमुद्राणां वृद्धिर्ज्ञेया परस्परम् । अपां चैव समुद्रेकात्समुद्र इति संज्ञितः ॥ १२३.२८ ॥ ऋषद्वसन्त्यो वर्षेषु प्रजा यत्र चतुर्विधाः । ऋषिरत्येव रमणे वर्षन्त्वेतेन तेषु वै ॥ १२३.२९ ॥ उदयतीन्दौ पूर्वे तु समुद्रः पूर्यते सदा । प्रक्षीयमाने बहुले क्षीयतेऽस्तमिते च वै ॥ १२३.३० ॥ आपूर्यमाणो ह्युदधिरात्मनैवाभिपूर्यते । ततो वै क्षीयमाणे तु स्वात्मन्येव ह्यपां क्षयः ॥ १२३.३१ ॥ उदयात्पयसां योगात्पुष्पन्त्यापो यथा स्वयम् । तथा स तु समुद्रोऽपि वर्धते शशिनोदये ॥ १२३.३२ ॥ अन्यूनानतिरिक्तात्मा वर्धन्त्यापो ह्रसन्ति च । उदयेऽस्तमये चेन्दोः पक्षयोः शुक्लकृष्णयोः ॥ १२३.३३ ॥ क्षयवृद्धी समुद्रस्य शशिवृद्धिक्षये तथा । दशोत्तराणि पञ्चाहुरङ्गुलानां शतानि च ॥ १२३.३४ ॥ अपां वृद्धिः क्षयो दृष्टः समुद्राणां तु पर्वसु । द्विरापत्वात्स्मृतो द्वीपो दधनाच्चोदधिः स्मृतः ॥ १२३.३५ ॥ निगीर्णत्वाच्च गिरयः पर्वबन्धाच्च पर्वताः । शाकद्वीपे तु वै शाकः पर्वतस्तेन चोच्यते ॥ १२३.३६ ॥ कुशद्वीपे कुशस्तम्बो मध्ये जनपदस्य तु । क्रौञ्चद्वीपे गिरिः क्रौञ्चस्तस्य नाम्ना निगद्यते ॥ १२३.३७ ॥ शाल्मलिः शाल्मलद्वीपे पूज्यते स महाद्रुमः । गोमेदके तु गोमेदः पर्वतस्तेन चोच्यते ॥ १२३.३८ ॥ न्यग्रोधः पुष्करद्वीपे पद्मवत्तेन स स्मृतः । पूज्यते स महादेवैर्ब्रह्मांशोऽव्यक्तसम्भवः ॥ १२३.३९ ॥ तस्मिन्स वसति ब्रह्मा साध्यैः सार्धं प्रजापतिः । तत्र देवा उपासन्ते त्रयस्त्रिंशन्महर्षिभिः ॥ १२३.४० ॥ स तत्र पूज्यते देवो देवैर्महर्षिसत्तमैः । जम्बूद्वीपात्प्रवर्तन्ते रत्नानि विविधानि च ॥ १२३.४१ ॥ द्वीपेषु तेषु सर्वेषु प्रजानां क्रमशस्तु वै । आर्जवाद्ब्रह्मचर्येण सत्येन च दमेन च ॥ १२३.४२ ॥ आरोग्यायुःप्रमाणाभ्यां द्विगुणं द्विगुणं ततः । द्वीपेषु तेषु सर्वेषु यथोक्तं वर्षकेषु च ॥ १२३.४३ ॥ गोपायन्ते प्रजास्तत्र सर्वैः सहजपण्डितैः । भोजनं चाप्रयत्नेन सदा स्वयमुपस्थितम् ॥ १२३.४४ ॥ षड्रसं तन्महावीर्यं तत्र ते भुञ्जते जनाः । परेण पुष्करस्याथ आवृत्यावस्थितो महान् ॥ १२३.४५ ॥ स्वादूदकसमुद्रस्तु स समन्तादवेष्टयत् । स्वादूदकस्य परितः शैलस्तु परिमण्डलः ॥ १२३.४६ ॥ प्रकाशश्चाप्रकाशश्च लोकालोकः स उच्यते । आलोकस्तत्र चार्वाक्च निरालोकस्ततः परम् ॥ १२३.४७ ॥ लोकविस्तारमात्रं तु पृथिव्यर्धं तु बाह्यतः । प्रतिच्छिन्नं समन्तात्तु उदकेनावृतं महत् ॥ १२३.४८ ॥ भूमेर्दशगुणाश्चापः समन्तात्पालयन्ति गाम् । अद्भ्यो दशगुणश्चाग्निः सर्वतो धारयत्यपः ॥ १२३.४९ ॥ अग्नेर्दशगुणो वायुर्धारयञ्ज्योतिरास्थितः । तिर्यक्च मण्डलो वायुर्भूतान्यावेष्ट्य धारयन् ॥ १२३.५० ॥ दशाधिकं तथाकाशं वायोर्भूतान्यधारयत् । भूतादिर्धारयन्व्योम तस्माद्दशगुणस्तु वै ॥ १२३.५१ ॥ भूतादितो दशगुणं महद्भूतान्यधारयत् । महत्तत्त्वं ह्यनन्तेन अव्यक्तेन तु धार्यते ॥ १२३.५२ ॥ आधाराधेयभावेन विकारास्ते विकारिणाम् । पृथ्व्यादयो विकारास्ते परिच्छिन्नाः परस्परम् ॥ १२३.५३ ॥ परस्पराधिकाश्चैव प्रविष्टाश्च परस्परम् । एवं परस्परोत्पन्ना धार्यन्ते च परस्परम् ॥ १२३.५४ ॥ यस्मात्प्रविष्टास्तेऽन्योन्यं तस्मात्ते स्थिरतां गताः । आसंस्ते ह्यविशेषाश्च विशेषा अन्यवेशनात् ॥ १२३.५५ ॥ पृथ्व्यादयस्तु वाय्वन्ताः परिच्छिन्नास्तु तत्र ते । भूतेभ्यः परतस्तेभ्यो ह्यलोकः सर्वतः स्मृतः ॥ १२३.५६ ॥ तथा ह्यालोक आकाशे परिच्छिन्नानि सर्वशः । पात्रे महति पात्राणि यथा ह्यन्तर्गतानि च ॥ १२३.५७ ॥ भवन्त्यन्योन्यहीनानि परस्परसमाश्रयात् । तथा ह्यालोक आकाशे भेदास्त्वन्तर्गतागताः ॥ १२३.५८ ॥ कृतान्येतानि तत्त्वानि अन्योन्यस्याधिकानि च । यावदेतानि तत्त्वानि तावदुत्पत्तिरुच्यते ॥ १२३.५९ ॥ जन्तूनामिह संस्कारो भूतेष्वन्तर्गतेषु वै । प्रत्याख्यायेह भूतानि कार्योत्पत्तिर्न विद्यते ॥ १२३.६० ॥ तस्मात्परिमिता भेदाः स्मृताः कार्यात्मकास्तु वै । ते कारणात्मकाश्चैव स्युर्भेदा महदादयः ॥ १२३.६१ ॥ इत्येवं संनिवेशोऽयं पृथ्व्याक्रान्तस्तु भागशः । सप्तद्वीपसमुद्राणां याथातथ्येन वै मया ॥ १२३.६२ ॥ विस्तारान्मण्डलाच्चैव प्रसंख्यानेन चैव हि । विश्वरूपं प्रधानस्य परिमाणैकदेशिनः ॥ १२३.६३ ॥ एतावत्संनिवेशस्तु मया सम्यक्प्रकाशितः । एतावदेव श्रोतव्यं संनिवेशस्य पार्थिव ॥ १२३.६४ ॥ ______________________________________________________ मत्स्यपुराण १२४ *सूत उवाच अत ऊर्ध्वं प्रवक्ष्यामि सूर्यचन्द्रमसोर्गतिम् । सूर्याचन्द्रमसावेतौ भ्राजन्तौ यावदेव तु ॥ १२४.१ ॥ सप्तद्वीपसमुद्राणां द्वीपानां भाति विस्तरः । विस्तरार्धं पृथिव्यास्तु भवेदन्यत्र बाह्यतः ॥ १२४.२ ॥ पर्यासपरिमाणं च चन्द्रादित्यौ प्रकाशतः । पर्यासपारिमाण्यात्तु बुधैस्तुल्यं दिवः स्मृतम् ॥ १२४.३ ॥ त्रींल्लोकान्प्रति सामान्यात्सूर्यो यात्यविलम्बतः । अचिरात्तु प्रकाशेन अवनात्तु रविः स्मृतः ॥ १२४.४ ॥ भूयो भूयः प्रवक्ष्यामि प्रमाणं चन्द्रसूर्ययोः । महितत्वान्महच्छब्दो ह्यस्मिन्नर्थे निगद्यते ॥ १२४.५ ॥ अस्य भारतवर्षस्य विष्कम्भात्तुल्यविस्तृतम् । मण्डलं भास्करस्याथ योजनैस्तन्निबोधत ॥ १२४.६ ॥ नवयोजनसाहस्रो विस्तारो मण्डलस्य तु । विस्तारात्त्रिगुणश्चापि परिणाहोऽत्र मण्डले ॥ १२४.७ ॥ विष्कम्भान्मण्डलाच्चैव भास्कराद्द्विगुणः शशी । अतः पृथिव्या वक्ष्यामि प्रमाणं योजनैः पुनः ॥ १२४.८ ॥ सप्तद्वीपसमुद्राया विस्तारो मण्डलस्य तु । इत्येतदिह संख्यातं पुराणे परिमाणतः ॥ १२४.९ ॥ तद्वक्ष्यामि प्रसंख्याय साम्प्रतं चाभिमानिभिः । अभिमानिनो ह्यतीता ये तुल्यास्ते साम्प्रतैस्त्विह ॥ १२४.१० ॥ देवादेवैरतीतास्तु रूपैर्नामभिरेव च । तस्माद्वै साम्प्रतैर्देवैर्वक्ष्यामि वसुधातलम् ॥ १२४.११ ॥ दिव्यस्य संनिवेशो वै साम्प्रतैरेव कृत्स्नशः । शतार्धकोटिविस्तारा पृथिवी कृत्स्नशः स्मृता ॥ १२४.१२ ॥ तस्याश्चार्धप्रमाणं च मेरोश्चैवोत्तरोत्तरम् । मेरोर्मध्ये प्रतिदिशं कोटिरेका तु सा स्मृता ॥ १२४.१३ ॥ तथा शतसहस्राणामेकोननवतिं पुनः । पञ्चाशच्च सहस्राणि पृथिव्यर्धस्य विस्तरः ॥ १२४.१४ ॥ पृथिव्या विस्तरं कृत्यं योजनैस्तं निबोधत । तिस्रः कोट्यस्तु विस्तारात्संख्यातास्तु चतुर्दिशम् ॥ १२४.१५ ॥ तथा शतसहस्राणामेकोनाशीतिरुच्यते । सप्तद्वीपसमुद्रायाः पृथिव्याः स तु विस्तरः ॥ १२४.१६ ॥ विस्तारं त्रिगुणं चैव पृथिव्यन्तरमण्डलम् । गणितं योजनानां तु कोट्यस्त्वेकादश स्मृताः ॥ १२४.१७ ॥ तथा शतसहस्राणां सप्तत्रिंशाधिकास्तु ताः । इत्येतद्वै प्रसंख्यातं पृथिव्यन्तरमण्डलम् ॥ १२४.१८ ॥ तारकासंनिवेशस्य दिवि यावत्तु मण्डलम् । पर्याप्तसंनिवेशस्य भूमेस्तावत्तु मण्डलम् ॥ १२४.१९ ॥ पर्यासपरिमाणं च भूमेस्तुल्यं दिवः स्मृतम् । मेरोः प्राच्यां दिशायां तु मानसोत्तरमूर्धनि ॥ १२४.२० ॥ वस्त्वेकसारा माहेन्द्री पुण्या हेमपरिष्कृता । दक्षिणेन पुनर्मेरोर्मानसस्य तु पृष्ठतः ॥ १२४.२१ ॥ वैवस्वतो निवसति यमः संयमने पुरे । प्रतीच्यां तु पुनर्मेरोर्मानसस्य तु मूर्धनि ॥ १२४.२२ ॥ सुषा नाम पुरी रम्या वरुणस्यापि धीमतः । दिश्युत्तरस्यां मेरोस्तु मानसस्यैव मूर्धनि ॥ १२४.२३ ॥ तुल्या महेन्द्रपुर्यापि सोमस्यापि विभावरी । मानसोत्तरपृष्ठे तु लोकपालाश्चतुर्दिशम् ॥ १२४.२४ ॥ स्थिता धर्मव्यवस्थार्थं लोकसंरक्षणाय च । लोकपालोपरिष्टात्तु सर्वतो दक्षिणायने ॥ १२४.२५ ॥ काष्ठागतस्य सूर्यस्य गतिस्तत्र निबोधत । दक्षिणोपक्रमे सूर्यः क्षिप्तेषुरिव सर्पति ॥ १२४.२६ ॥ ज्योतिषां चक्रमादाय सततं परिगच्छति । मध्यगश्चामरावत्यां यदा भवति भास्करः ॥ १२४.२७ ॥ वैवस्वते संयमने उद्यन्सूर्यः प्रदृश्यते । सुषायामर्धरात्रस्तु विभावर्यास्तमेति च ॥ १२४.२८ ॥ वैवस्वते संयमने मध्याह्ने तु रविर्यदा । सुषायामथ वारुण्यामुत्तिष्ठन्स तु दृश्यते ॥ १२४.२९ ॥ विभावर्यामर्धरात्रं माहेन्द्र्यामस्तमेव च । सुषायामथ वारुण्यां मध्याह्ने तु रविर्यदा ॥ १२४.३० ॥ विभावर्यां सोमपुर्यामुत्तिष्ठति विभावसुः । महेन्द्रस्यामरावत्यामुद्गच्छति दिवाकरः ॥ १२४.३१ ॥ अर्धरात्रं संयमने वारुण्यामस्तमेति च । स शीघ्रमेव पर्येति भानुरालातचक्रवत् ॥ १२४.३२ ॥ भ्रमन्वै भ्रममाणानि ऋक्षाणि चरते रविः । एवं चतुर्षु पार्श्वेषु दक्षिणान्तेषु सर्पति ॥ १२४.३३ ॥ उदयास्तमये वासावुत्तिष्ठति पुनः पुनः । पूर्वाह्णे चापराह्णे च द्वौ द्वौ देवालयौ तु सः ॥ १२४.३४ ॥ पतत्येकं तु मध्याह्ने भाभिरेव च रश्मिभिः । उदितो वर्धमानाभिर्मध्याह्ने तपते रविः ॥ १२४.३५ ॥ अतः परं ह्रसन्तीभिर्गोभिरस्तं स गच्छति । उदयास्तमयाभ्यां च स्मृते पूर्वापरे तु वै ॥ १२४.३६ ॥ यादृक्पुरस्तात्तपति यादृक्पृष्ठे तु पार्श्वयोः । यत्रोदयस्तु दृश्येत तेषां स उदयः स्मृतः ॥ १२४.३७ ॥ प्रणाशं गच्छते यत्र तेषामस्तः स उच्यते । सर्वेषामुत्तरे मेरुर्लोकालोकस्य दक्षिणे ॥ १२४.३८ ॥ विदूरभावादर्कस्य भूमेरेषा गतस्य च । श्रयन्ते रश्मयो यस्मात्तेन रात्रौ न दृश्यते ॥ १२४.३९ ॥ ऊर्ध्वं शतसहस्रांशुः स्थितस्तत्र प्रदृश्यते । एवं पुष्करमध्ये तु यदा भवति भास्करः ॥ १२४.४० ॥ त्रिंशद्भागं च मेदिन्या मुहूर्तेन स गच्छति । योजनानां सहस्रस्य इमां संख्यां निबोधत ॥ १२४.४१ ॥ पूर्णं शतसहस्राणामेकत्रिंशच्च सा स्मृता । पञ्चाशच्च सहस्राणि तथान्यान्यधिकानि च ॥ १२४.४२ ॥ मौहूर्तिकी गतिर्ह्येषा सूर्यस्य तु विधीयते । एतेन क्रमयोगेण यदा काष्ठां तु दक्षिणाम् ॥ १२४.४३ ॥ परिगच्छति सूर्योऽसौ मासं काष्ठामुदग्दिनात् । मध्येन पुष्करस्याथ भ्रमते दक्षिणायने ॥ १२४.४४ ॥ मानसोत्तरमेरोस्तु अन्तरं त्रिगुणं स्मृतम् । सर्वतो दक्षिणस्यां तु काष्ठायां तन्निबोधत ॥ १२४.४५ ॥ नव कोट्यः प्रसंख्याता योजनैः परिमण्डलम् । तथा शतसहस्राणि चत्वारिंशच्च पञ्च च ॥ १२४.४६ ॥ अहोरात्रात्पतंगस्य गतिरेषा विधीयते । दक्षिणादिङ्निवृत्तोऽसौ विषुवस्थो यदा रविः ॥ १२४.४७ ॥ क्षीरोदस्य समुद्रस्योत्तरतोऽपि दिशं चरन् । मण्डलं विषुवच्चापि योजनैस्तन्निबोधत ॥ १२४.४८ ॥ तिस्रः कोट्यस्तु सम्पूर्णा विषुवस्यापि मण्डलम् । तथा शतसहस्राणि विंशत्येकाधिकानि तु ॥ १२४.४९ ॥ श्रावणे चोत्तरां काष्ठां चित्रभानुर्यदा भवेत् । गोमेदस्य परद्वीपे उत्तरां च दिशं चरन् ॥ १२४.५० ॥ उत्तरायाः प्रमाणं तु काष्ठाया मण्डलस्य तु । दक्षिणोत्तरमध्यानि तानि विन्द्याद्यथाक्रमम् ॥ १२४.५१ ॥ स्थानं जरद्गवं मध्ये तथैरावतमुत्तमम् । वैश्वानरं दक्षिणतो निर्दिष्टमिह तत्त्वतः ॥ १२४.५२ ॥ नागवीथ्युत्तरा वीथी ह्यजवीथिस्तु दक्षिणा । उभे आषाढमूलं तु अजवीथ्यादयस्त्रयः ॥ १२४.५३ ॥ अभिजित्पूर्वतः स्वातिं नागवीथ्युत्तरास्त्रयः । अश्विनी कृत्तिका याम्या नागवीथ्यस्त्रयः स्मृताः ॥ १२४.५४ ॥ रोहिण्यार्द्रा मृगशिरो नागवीथिरिति स्मृता । पुष्याश्लेषा पुनर्वस्वोर्वीथी चैरावती स्मृता ॥ १२४.५५ ॥ तिस्रस्तु वीथयो ह्येता उत्तरो मार्ग उच्यते । पूर्वोत्तरा च फल्गुन्यौ मघा चैवार्षभी भवेत् ॥ १२४.५६ ॥ पूर्वोत्तरप्रोष्ठपदौ गोवीथी रेवती स्मृता । श्रवणं च धनिष्ठा च वारुणं च जरद्गवम् ॥ १२४.५७ ॥ एतास्तु वीथयस्तिस्रो मध्यमो मार्ग उच्यते । हस्तश्चित्रा तथा स्वाती ह्यजवीथिरिति स्मृता ॥ १२४.५८ ॥ ज्येष्ठा विशाखा मैत्रं च मृगवीथी तथोच्यते । मूलं पूर्वोत्तराषाढे वीथी वैश्वानरी भवेत् ॥ १२४.५९ ॥ स्मृतास्तिस्रस्तु वीथ्यस्ता मार्गे वै दक्षिणे पुनः । काष्ठयोरन्तरं चैतद्वक्ष्यते योजनैः पुनः ॥ १२४.६० ॥ एतच्छतसहस्राणामेकत्रिंशत्तु वै स्मृतम् । शतानि त्रीणि चान्यानि त्रयस्त्रिंशत्तथैव च ॥ १२४.६१ ॥ काष्ठयोरन्तरं ह्येतद्योजनानां प्रकीर्तितम् । काष्ठयोर्लेखयोश्चैव अयने दक्षिणोत्तरे ॥ १२४.६२ ॥ ते वक्ष्यामि प्रसंख्याय योजनैस्तु निबोधत । एकैकमन्तरं तद्वद्युक्तान्येतानि सप्तभिः ॥ १२४.६३ ॥ सहस्रेणातिरिक्ता च ततोऽन्या पञ्चविंशतिः । लेखयोः काष्ठयोश्चैव बाह्याभ्यन्तरयोश्चरन् ॥ १२४.६४ ॥ अभ्यन्तरं स पर्येति मण्डलान्युत्तरायणे । बाह्यतो दक्षिणेनैव सततं सूर्यमण्डलम् ॥ १२४.६५ ॥ चरन्नसावुदीच्यां च ह्यशीत्या मण्डलाञ्छतम् । अभ्यन्तरं स पर्येति क्रमते मण्डलानि तु ॥ १२४.६६ ॥ प्रमाणं मण्डलस्यापि योजनानां निबोधत । योजनानां सहस्राणि दश चाष्टौ तथा स्मृतम् ॥ १२४.६७ ॥ अधिकान्यष्टपञ्चाशद्योजनानि तु वै पुनः । विष्कम्भो मण्डलस्यैव तिर्यक्स तु विधीयते ॥ १२४.६८ ॥ अहस्तु चरते नाभेः सूर्यो वै मण्डलं क्रमात् । कुलालचक्रपर्यन्तो यथा चन्द्रो रविस्तथा ॥ १२४.६९ ॥ दक्षिणे चक्रवत्सूर्यस्तथा शीघ्रं निवर्तते । तस्मात्प्रकृष्टां भूमिं तु कालेनाल्पेन गच्छति ॥ १२४.७० ॥ सूर्यो द्वादशभिः शीघ्रं मुहूर्तैर्दक्षिणायने । त्रयोदशार्धमृक्षाणां मध्ये चरति मण्डलम् ॥ १२४.७१ ॥ मुहूर्तैस्तानि ऋक्षाणि नक्तमष्टादशैश्चरन् । कुलालचक्रमध्यस्थो यथा मन्दं प्रसर्पति ॥ १२४.७२ ॥ उदग्याने तथा सूर्यः सर्पते मन्दविक्रमः । तस्माद्दीर्घेण कालेन भूमिं सोऽल्पां प्रसर्पति ॥ १२४.७३ ॥ सूर्योऽष्टादशभिरह्नो मुहूर्तैरुदगायने । त्रयोदशानां मध्ये तु ऋक्षाणां चरते रविः । मुहूर्तैस्तानि ऋक्षाणि रात्रौ द्वादशभिश्चरन् ॥ १२४.७४ ॥ ततो मन्दतरं ताभ्यां चक्रं तु भ्रमते पुनः । मृत्पिण्ड इव मध्यस्थो भ्रमतेऽसौ ध्रुवस्तथा ॥ १२४.७५ ॥ मुहूर्तैस्त्रिंशता तावदहोरात्रं भुवो भ्रमन् । उभयोः काष्ठयोर्मध्ये भ्रमते मण्डलानि तु ॥ १२४.७६ ॥ उत्तरक्रमणेऽर्कस्य दिवा मन्दगतिः स्मृता । तस्यैव तु पुनर्नक्तं शीघ्रा सूर्यस्य वै गतिः ॥ १२४.७७ ॥ दक्षिणप्रक्रमे वापि दिवा शीघ्रं विधीयते । गतिः सूर्यस्य वै नक्तं मन्दा चापि विधीयते ॥ १२४.७८ ॥ एवं गतिविशेषेण विभजन्रात्र्यहानि तु । अजवीथ्यां दक्षिणायां लोकालोकस्य चोत्तरम् ॥ १२४.७९ ॥ लोकसंतानतो ह्येष वैश्वानरपथाद्बहिः । व्युष्टिर्यावत्प्रभा सौरी पुष्करात्सम्प्रवर्तते ॥ १२४.८० ॥ पार्श्वेभ्यो बाह्यतस्तावल्लोकालोकश्च पर्वतः । योजनानां सहस्राणि दशोर्ध्वं चोच्छ्रितो गिरिः ॥ १२४.८१ ॥ प्रकाशश्चाप्रकाशश्च पर्वतः परिमण्डलः । नक्षत्रचन्द्रसूर्याश्च ग्रहास्तारागणैः सह ॥ १२४.८२ ॥ अभ्यन्तरे प्रकाशन्ते लोकालोकस्य वै गिरेः । एतावानेव लोकस्तु निरालोकस्ततः परम् ॥ १२४.८३ ॥ लोक आलोकने धातुर्निरालोकस्त्वलोकता । लोकालोकौ तु संधत्ते यस्मात्सूर्यः परिभ्रमन् ॥ १२४.८४ ॥ तस्मात्संध्येति तामाहुरुषाव्युष्टैर्यथान्तरम् । उषा रात्रिः स्मृता विप्रैर्व्युष्टिश्चापि अहः स्मृतम् ॥ १२४.८५ ॥ त्रिंशत्कलो मुहूर्तस्तु अहस्ते दश पञ्च च । ह्रासो वृद्धिरहर्भागैर्दिवसानां यथा तु वै ॥ १२४.८६ ॥ संध्यामुहूर्तमात्रायां ह्रासवृद्धी तु ते ऋते । लेखाप्रभृत्यथादित्ये त्रिमुहूर्तागते तु वै ॥ १२४.८७ ॥ प्रातः स्मृतस्ततः कालो भागांश्चाहुश्च पञ्च च । तस्मात्प्रातर्गतात्कालान्मुहूर्ताः संगवस्त्रयः ॥ १२४.८८ ॥ मध्याह्नस्त्रिमुहूर्तस्तु तस्मात्कालादनन्तरम् । तस्मान्मध्यंदिनात्कालादपराह्ण इति स्मृतः ॥ १२४.८९ ॥ त्रय एव मुहूर्तास्तु काल एष स्मृतो बुधैः । अपराह्णव्यतीताच्च कालः सायं स उच्यते ॥ १२४.९० ॥ दश पञ्च मुहूर्ताह्नो मुहूर्तास्त्रय एव च । दशपञ्चमुहूर्तं वै अहस्तु विषुवे स्मृतम् ॥ १२४.९१ ॥ वर्धत्यतो ह्रसत्येव अयने दक्षिणोत्तरे । अहस्तु ग्रसते रात्रिं रात्रिस्तु ग्रसते अहः ॥ १२४.९२ ॥ शरद्वसन्तयोर्मध्यं विषुवं तु विधीयते । आलोकान्तः स्मृतो लोको लोकाच्चालोक उच्यते ॥ १२४.९३ ॥ लोकपालाः स्थितास्तत्र लोकालोकस्य मध्यतः । चत्वारस्ते महात्मानस्तिष्ठन्त्याभूतसंप्लवम् ॥ १२४.९४ ॥ सुधामा चैव वैराजः कर्दमश्च प्रजापतिः । हिरण्यरोमा पर्जन्यः केतुमान्राजसश्च सः ॥ १२४.९५ ॥ निर्द्वंद्वा निरभीमाना निस्तन्द्रा निष्परिग्रहाः । लोकपालाः स्थितास्त्वेते लोकालोके चतुर्दिशम् ॥ १२४.९६ ॥ उत्तरं यदगस्त्यस्य शृङ्गं देवर्षिसेवितम् । पितृयानः स्मृतः पन्था वैश्वानरपथाद्बहिः ॥ १२४.९७ ॥ तत्रासते प्रजाकामा ऋषयो येऽग्निहोत्रिणः । लोकस्य संतानकराः पितृयाने पथि स्थिताः ॥ १२४.९८ ॥ भूतारम्भकृतं कर्म आशिषश्च विशां पते । प्रारभन्ते लोककामास्तेषां पन्थाः स दक्षिणः ॥ १२४.९९ ॥ चलितं ते पुनर्धर्मं स्थापयन्ति युगे युगे । संतप्ततपसा चैव मर्यादाभिः श्रुतेन च ॥ १२४.१०० ॥ जायमानास्तु पूर्वे वै पश्चिमानां गृहेषु ते । पश्चिमाश्चैव पूर्वेषां जायन्ते निधनेष्विह ॥ १२४.१०१ ॥ एवमावर्तमानास्ते वर्तन्त्याभूतसंप्लवम् । अष्टाशीतिसहस्राणि ऋषीणां गृहमेधिनाम् ॥ १२४.१०२ ॥ सवितुर्दक्षिणं मार्गमाश्रित्याभूतसंप्लवम् । क्रियावतां प्रसंख्यैषा ये श्मशानानि भेजिरे ॥ १२४.१०३ ॥ लोकसंव्यवहारार्थं भूतारम्भकृतेन च । इच्छाद्वेषरताच्चैव मैथुनोपगमाच्च वै ॥ १२४.१०४ ॥ तथा कामकृतेनेह सेवनाद्विषयस्य च । इत्येतैः कारणैः सिद्धाः श्मशानानीह भेजिरे ॥ १२४.१०५ ॥ प्रजौषणिः सप्तर्षयो द्वापरेष्विह जज्ञिरे । संततिं ते जुगुप्सन्ते तस्मान्मृत्युर्जितस्तु तैः ॥ १२४.१०६ ॥ अष्टाशीतिसहस्राणि तेषामप्यूर्ध्वरेतसाम् । उदक्पन्था न पर्यन्तमाश्रित्याभूतसंप्लवम् ॥ १२४.१०७ ॥ ते संप्रयोगाल्लोकस्य मिथुनस्य च वर्जनात् । ईर्ष्याद्वेषनिवृत्त्या च भूतारम्भविवर्जनात् ॥ १२४.१०८ ॥ ततोऽन्यकामसंयोगशब्दादेर्दोषदर्शनात् । इत्येतैः कारणैः शुद्धैस्तेऽमृतत्वं हि भेजिरे ॥ १२४.१०९ ॥ आभूतसम्प्लवस्थानाममृतत्वं विभाव्यते । त्रैलोक्यस्थितिकालो हि न पुनर्मारगामिणाम् ॥ १२४.११० ॥ भ्रूणहत्याश्वमेधादिपापपुण्यनिभैः परम् । आभूतसम्प्लवान्ते तु क्षीयन्ते चोर्ध्वरेतसः ॥ १२४.१११ ॥ ऊर्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्रानुसंस्थितः । एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भास्वरम् ॥ १२४.११२ ॥ यत्र गत्वा न शोचन्ति तद्विष्णोः परमं पदम् । धर्मे ध्रुवस्य तिष्ठन्ति ये तु लोकस्य काङ्क्षिणः ॥ १२४.११३ ॥ ______________________________________________________ मत्स्यपुराण १२५ एवं श्रुत्वा कथां दिव्यामब्रुवंल्लौमहर्षणिम् । सूर्याचन्द्रमसोश्चारं ग्रहाणां चैव सर्वशः ॥ १२५.१ ॥ *ऋषय ऊचुः भ्रमन्ति कथमेतानि ज्योतींषि रविमण्डले । अव्यूहेनैव सर्वाणि तथा चासंकरेण वा ॥ १२५.२ ॥ कश्च भ्रामयते तानि भ्रमन्ति यदि वा स्वयम् । एतद्वेदितुमिच्छामस्ततो निगद सत्तम ॥ १२५.३ ॥ *सूत उवाच भूतसंमोहनं ह्येतद्ब्रुवतो मे निबोधत । प्रत्यक्षमपि दृश्यं तत्संमोहयति वै प्रजाः ॥ १२५.४ ॥ योऽसौ चतुर्दशर्क्षेषु शिशुमारो व्यवस्थितः । उत्तानपादपुत्रोऽसौ मेढीभूतो ध्रुवो दिवि ॥ १२५.५ ॥ सैष भ्रमन्भ्रामयते चन्द्रादित्यौ ग्रहैः सह । भ्रमन्तमनुसर्पन्ति नक्षत्राणि च चक्रवत् ॥ १२५.६ ॥ ध्रुवस्य मनसा यो वै भ्रमते ज्योतिषां गणः । वातानीकमयैर्बन्धैर्ध्रुवे बद्धः प्रसर्पति ॥ १२५.७ ॥ तेषां भेदश्च योगश्च तथा कालस्य निश्चयः । अस्तोदयास्तथोत्पाता अयने दक्षिणोत्तरे ॥ १२५.८ ॥ विषुवद्ग्रहवर्णश्च सर्वमेतद्ध्रुवेरितम् । जीमूता नाम ते मेघा यदेभ्यो जीवसम्भवः ॥ १२५.९ ॥ द्वितीय आवहन्वायुर्मेघास्ते त्वभिसंश्रिताः । इतो योजनमात्राच्च अध्यर्धविकृता अपि ॥ १२५.१० ॥ वृष्टिसर्गस्तथा तेषां धारासारः प्रकीर्तितः । पुष्करावर्तका नाम ये मेघाः पक्षसम्भवाः ॥ १२५.११ ॥ शक्रेण पक्षाश्छिन्ना वै पर्वतानां महौजसा । कामगानां समृद्धानां भूतानां नाशमिच्छताम् ॥ १२५.१२ ॥ पुष्करा नाम ते पक्षा बृहन्तस्तोयधारिणः । पुष्करावर्तका नाम कारणेनेह शब्दिताः ॥ १२५.१३ ॥ नानारूपधराश्चैव महाघोरस्वराश्च ते । कल्पान्तवृष्टिकर्तारः कल्पान्ताग्नेर्नियामकाः ॥ १२५.१४ ॥ वाय्वाधारा वहन्ते वै सामृताः कल्पसाधकाः । यान्यस्याण्डस्य भिन्नस्य प्राकृतान्यभवंस्तदा ॥ १२५.१५ ॥ यस्मिन् ब्रह्मा समुत्पन्नश्चतुर्वक्त्रः स्वयं प्रभुः । तान्येवाण्डकपालानि सर्वे मेघाः प्रकीर्तिताः ॥ १२५.१६ ॥ तेषामाप्यायनं धूमः सर्वेषामविशेषतः । तेषां श्रेष्ठश्च पर्जन्यश्चत्वारश्चैव दिग्गजाः ॥ १२५.१७ ॥ गजानां पर्वतानां च मेघानां भोगिभिः सह । कुलमेकं द्विधा भूतं योनिरेका जलं स्मृतम् ॥ १२५.१८ ॥ पर्जन्यो दिग्गजाश्चैव हेमन्ते शीतसम्भवम् । तुषारवर्षं वर्षन्ति वृद्धा ह्यन्नविवृद्धये ॥ १२५.१९ ॥ षष्ठः परिवहो नाम वायुस्तेषां परायणः । यौऽसौ बिभर्ति भगवान् गङ्गामाकाशगोचराम् ॥ १२५.२० ॥ दिव्यामृतजलां पुण्यां त्रिपथामिति विश्रुताम् । तस्या विस्पन्दितं तोयं दिग्गजाः पृथुभिः करैः ॥ १२५.२१ ॥ शीकरान् सम्प्रमुञ्चन्ति नीहार इति स स्मृतः । दक्षिणेन गिरिर्योऽसौ हेमकूट इति स्मृतः ॥ १२५.२२ ॥ उदग्धिमवतः शैलस्योत्तरे चैव दक्षिणे । पुण्ड्रं नाम समाख्यातं सम्यग्वृष्टिविवृद्धये ॥ १२५.२३ ॥ तस्मिन्प्रवर्तते वर्षं तत्तुषारसमुद्भवम् । ततो हिमवतो वायुर्हिमं तत्र समुद्भवम् ॥ १२५.२४ ॥ आनयत्यात्मवेगेन सिञ्चयानो महागिरिम् । हिमवन्तमतिक्रम्य वृष्टिशेषं ततः परम् ॥ १२५.२५ ॥ इभास्ये च ततः पश्चादिदं भूतविवृद्धये । वर्षद्वयं समाख्यातं सम्यग्वृष्टिविवृद्धये ॥ १२५.२६ ॥ मेघाश्चाप्यायनं चैव सर्वमेतत्प्रकीर्तितम् । सूर्य एव तु वृष्टीनां स्रष्टा समुपदिश्यते ॥ १२५.२७ ॥ वर्षं घर्मं हिमं रात्रिं संध्ये चैव दिनं तथा । शुभाशुभफलानीह ध्रुवात्सर्वं प्रवर्तते ॥ १२५.२८ ॥ ध्रुवेणाधिष्ठिताश्चापः सूर्यो वै गृह्य तिष्ठति । सर्वभूतशरीरेषु त्वापो ह्यनुश्रिताश्च याः ॥ १२५.२९ ॥ दह्यमानेषु तेष्वेव जङ्गमस्थावरेषु च । धूमभूतास्तु ता ह्यापो निष्क्रामन्तीह सर्वशः ॥ १२५.३० ॥ तेन चाभ्राणि जायन्ते स्थानमभ्रमयं स्मृतम् । तेजोभिः सर्वलोकेभ्य आदत्ते रश्मिभिर्जलम् ॥ १२५.३१ ॥ समुद्राद्वायुसंयोगाद्वहन्त्यापो गभस्तयः । ततस्त्वृतुवशात्काले परिवर्तन्दिवाकरः ॥ १२५.३२ ॥ नियच्छत्यापो मेघेभ्यः शुक्लाः शुक्लैस्तु रश्मिभिः । अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः ॥ १२५.३३ ॥ ततो वर्षति षण्मासान् सर्वभूतविवृद्धये । वायुभिः स्तनितं चैव विद्युतस्त्वग्निजाः स्मृताः ॥ १२५.३४ ॥ मेहनाच्च मिहेर्धातोर्मेघत्वं व्यञ्जयन्ति च । न भ्रश्यन्ते ततो ह्यापस्तस्मादभ्रस्य वै स्थितिः । स्रष्टासौ वृष्टिसर्गस्य ध्रुवेणाधिष्ठितो रविः ॥ १२५.३५ ॥ ध्रुवेणाधिष्ठितो वायुर्वृष्टिं संहरते पुनः । ग्रहन्निवृत्त्या सूर्यात्तु चरते ऋक्षमण्डलम् ॥ १२५.३६ ॥ चारस्यान्ते विशत्यर्कं ध्रुवेण समधिष्ठितम् । अतः सूर्यरथस्यापि संनिवेशं प्रचक्षते ॥ १२५.३७ ॥ स्थितेन त्वेकचक्रेण पञ्चारेण त्रिणाभिना । हिरण्मयेनाणुना वै अष्टचक्रैकनेमिना । चक्रेण भास्वता सूर्यः स्यन्दनेन प्रसर्पिणा ॥ १२५.३८ ॥ शतयोजनसाहस्रो विस्तारायाम उच्यते । द्विगुणा च रथोपस्थादीषादण्डः प्रमाणतः ॥ १२५.३९ ॥ स तस्य ब्रह्मणा सृष्टो रथो ह्यर्थवशेन तु । असङ्गः काञ्चनो दिव्यो युक्तः पवनगैर्हयैः ॥ १२५.४० ॥ छन्दोभिर्वाजिरूपैस्तैर्यथाचक्रं समास्थितैः । वारुणस्य रथस्येह लक्षणैः सदृशश्च सः ॥ १२५.४१ ॥ तेनासौ चरति व्योम्नि भास्वाननुदिनं दिवि । अथाङ्गानि तु सूर्यस्य प्रत्यङ्गानि रथस्य च । संवत्सरस्यावयवैः कल्पितानि यथाक्रमम् ॥ १२५.४२ ॥ अहर्नाभिस्तु सूर्यस्य एकचक्रस्य वै स्मृतः । अराः संवत्सरास्तस्य नेम्यः षडृतवः स्मृताः ॥ १२५.४३ ॥ रात्रिर्वरूथो धर्मश्च ध्वज ऊर्ध्वं व्यवस्थितः । अक्षकोट्योर्युगान्यस्य आर्तवाहाः कलाः स्मृताः ॥ १२५.४४ ॥ तस्य काष्ठा स्मृता घोणा दन्तपङ्क्तिः क्षणास्तु वै । निमेषश्चानुकर्षोऽस्य ईषा चास्य कला स्मृता ॥ १२५.४५ ॥ युगाक्षकोटी ते तस्य अर्थकामावुभौ स्मृतौ । सप्ताश्वरूपाश्छन्दांसि वहन्ते वायुरंहसा ॥ १२५.४६ ॥ गायत्री चैव त्रिष्टुप्च जगत्यनुष्टुप्तथैव च । पङ्क्तिश्च बृहती चैव उष्णिगेव तु सप्तमम् ॥ १२५.४७ ॥ चक्रमक्षे निबद्धं तु ध्रुवे चाक्षः समर्पितः । सहचक्रो भ्रमत्यक्षः सहाक्षो भ्रमति ध्रुवः ॥ १२५.४८ ॥ अक्षः सहैव चक्रेण भ्रमतेऽसौ ध्रुवेरितः । एवमर्थवशात्तस्य संनिवेशो रथस्य तु ॥ १२५.४९ ॥ तथा संयोगभागेन सिद्धो वै भास्करो रथः । तेनासौ तरणिर्देवो नभसः सर्पते दिवम् ॥ १२५.५० ॥ युगाक्षकोटी ते तस्य दक्षिणे स्यन्दनस्य तु । भ्रमतो भ्रमतो रश्मी तौ चक्रयुगयोस्तु वै ॥ १२५.५१ ॥ मण्डलानि भ्रमन्तेऽस्य खेचरस्य रथस्य तु । कुलालचक्रभ्रमवन्मण्डलं सर्वतोदिशम् ॥ १२५.५२ ॥ युगाक्षकोटी ते तस्य वातोर्मी स्यन्दनस्य तु । संक्रमेते ध्रुवमहो मण्डले सर्वतोदिशम् ॥ १२५.५३ ॥ भ्रमतस्तस्य रश्मी ते मण्डले तूत्तरायणे । वर्धेते दक्षिणेष्वत्र भ्रमतो मण्डलानि तु ॥ १२५.५४ ॥ युगाक्षकोटीसम्बद्धौ द्वौ रश्मी स्यन्दनस्य तु । ध्रुवेण प्रगृहीतौ तौ रथौ यौ वनतो रविम् ॥ १२५.५५ ॥ आकृष्येते यदा ते तु ध्रुवेण समधिष्ठिते । तदा सोऽभ्यन्तरे सूर्यो भ्रमते मण्डलानि तु ॥ १२५.५६ ॥ अशीतिमण्डलशतं काष्ठयोरुभयोश्चरन् । ध्रुवेण मुच्यमानेन पुना रश्मियुगेन च ॥ १२५.५७ ॥ तथैव बाह्यतः सूर्यो भ्रमते मण्डलानि तु । उद्वेष्टयन्वै वेगेन मण्डलानि तु गच्छति ॥ १२५.५८ ॥ ______________________________________________________ मत्स्यपुराण १२६ *सूत उवाच स रथोऽधिष्ठितो देवैर्मासि मासि यथाक्रमम् । ततो वहत्यथादित्यं बहुभिरृषिभिः सह ॥ १२६.१ ॥ गन्धर्वैरप्सरोभिश्च सर्पग्रामणिराक्षसैः । एते वसन्ति वै सूर्ये मासौ द्वौ द्वौ क्रमेण च ॥ १२६.२ ॥ धातार्यमा पुलस्त्यश्च पुलहश्च प्रजापती । उरगौ वासुकिश्चैव संकीर्णश्चैव तावुभौ ॥ १२६.३ ॥ तुम्बुरुर्नारदश्चैव गन्धर्वौ गायतां वरौ । कृतस्थलाप्सराश्चैव या च सा पुञ्जिकस्थला ॥ १२६.४ ॥ ग्रामण्यौ रथकृत्तस्य रथौजाश्चैव तावुभौ । रक्षो हेतिः प्रहेतिश्च यातुधानावुभौ ऋतौ ॥ १२६.५ ॥ मधुमाधवयोर्ह्येष गणो वसति भास्करे । वसन्ग्रीष्मे तु द्वौ मासौ मित्रश्च वरुणश्च वै ॥ १२६.६ ॥ ऋषी अत्रिर्वसिष्ठश्च नागौ तक्षकरम्भकौ । मेनका सहजन्या च हाहा हूहूश्च गायकौ ॥ १२६.७ ॥ रथंतरश्च ग्रामण्यौ रथकृच्चैव तावुभौ । पुरुषादो वधश्चैव यातुधानौ तु तौ स्मृतौ ॥ १२६.८ ॥ एते वसन्ति वै सूर्ये मासयोः शुचिशुक्रयोः । ततः सूर्ये पुनश्चान्या निवसन्ति स्म देवताः ॥ १२६.९ ॥ इन्द्रश्चैव विवस्वांश्च अङ्गिरा भृगुरेव च । एलापत्त्रस्तथा सर्पः शङ्खपालश्च पन्नगः ॥ १२६.१० ॥ विश्वावसुसुषेणौ च प्रातश्चैव रथश्च हि । प्रम्लोचेत्यप्सराश्चैव निम्रोचन्ती च ते उभे ॥ १२६.११ ॥ यातुधानस्तथा हेतिर्व्याघ्रश्चैव तु तावुभौ । नभस्यनभसोरेतैर्वसन्तश्च दिवाकरे ॥ १२६.१२ ॥ मासौ द्वौ देवताः सूर्ये वसन्ति च शरदृतौ । पर्जन्यश्चैव पूषा च भरद्वाजः सगौतमः ॥ १२६.१३ ॥ चित्रसेनश्च गन्धर्वस्तथा वा सुरुचिश्च यः । विश्वाची च घृताची च उभे ते पुण्यलक्षणे ॥ १२६.१४ ॥ नागश्चैरावतश्चैव विश्रुतश्च धनंजयः । सेनजिच्च सुषेणश्च सेनानीर्ग्रामणीस्तथा ॥ १२६.१५ ॥ चारो वातश्च द्वावेतौ यातुधानावुभौ स्मृतौ । वसन्त्येते च वै सूर्ये मासयोश्च त्विषोर्जयोः ॥ १२६.१६ ॥ हैमन्तिकौ च द्वौ मासौ निवसन्ति दिवाकरे । अंशो भगश्च द्वावेतौ कश्यपश्च क्रतुश्च तौ ॥ १२६.१७ ॥ भुजंगश्च महापद्मः सर्पः कर्कोटकस्तथा । चित्रसेनश्च गन्धर्वः पूर्णायुश्चैव गायनौ ॥ १२६.१८ ॥ अप्सराः पूर्वचित्तिश्च गन्धर्वा ह्युर्वशी च या । तार्क्ष्यश्चारिष्टनेमिश्च सेनानीर्ग्रामणीश्च तौ ॥ १२६.१९ ॥ विद्युत्सूर्यश्च तावुग्रौ यातुधानौ तु तौ स्मृतौ । सहे चैव सहस्ये च वसन्त्येते दिवाकरे ॥ १२६.२० ॥ ततस्तु शिशिरे चापि मासयोर्निवसन्ति ते । त्वष्टा विष्णुर्जमदग्निर्विश्वामित्रस्तथैव च ॥ १२६.२१ ॥ काद्रवेयौ तथा नागौ कम्बलाश्वतरावुभौ । गन्धर्वौ धृतराष्ट्रश्च सूर्यवर्चाश्च तावुभौ ॥ १२६.२२ ॥ तिलोत्तमाप्सराश्चैव देवी रम्भा मनोरमा । ग्रामणीरृतजिच्चैव सत्यजिच्च महाबलः ॥ १२६.२३ ॥ ब्रह्मोपेतश्च वै रक्षो यज्ञोपेतस्तथैव च । इत्येते निवसन्ति स्म द्वौ द्वौ मासौ दिवाकरे ॥ १२६.२४ ॥ स्थानाभिमानिनो ह्येते गणा द्वादश सप्तकाः । सूर्यमापादयन्त्येते तेजसा तेज उत्तमम् ॥ १२६.२५ ॥ ग्रथितैस्तु वचोभिश्च स्तुवन्ति ऋषयो रविम् । गन्धर्वाप्सरसश्चैव गीतनृत्यैरुपासते ॥ १२६.२६ ॥ विद्याग्रामणिनो यक्षाः कुर्वन्त्याभीषुसंग्रहम् । सर्पाः सर्पन्ति वै सूर्ये यातुधानानुयान्ति च ॥ १२६.२७ ॥ वालखिल्या नयन्त्यस्तं परिवार्योदयाद्रविम् । एतेषामेव देवानां यथावीर्यं यथातपः ॥ १२६.२८ ॥ यथायोगं यथाधर्मं यथातत्त्वं यथाबलम् । तथा तपत्यसौ सूर्यस्तेषामिद्धस्तु तेजसा ॥ १२६.२९ ॥ भूतानामशुभं सर्वं व्यपोहति स्वतेजसा । मानवानां शुभैर्ह्येतैर्ह्रियते दुरितं तु वै ॥ १२६.३० ॥ दुरितं शुभचाराणां व्यपोहन्ति क्वचित्क्वचित् । एते सहैव सूर्येण भ्रमन्ति सानुगा दिवि ॥ १२६.३१ ॥ तपन्तश्च जपन्तश्च ह्लादयन्तश्च वै प्रजाः । गोपायन्ति स्म भूतानि ईहन्ते ह्यनुकम्पया ॥ १२६.३२ ॥ स्थानाभिमानिनां ह्येतत्स्थानं मन्वन्तरेषु वै । अतीतानागतानां च वर्तन्ते साम्प्रतं च ये ॥ १२६.३३ ॥ एवं वसन्ति वै सूर्ये सप्तकास्ते चतुर्दश । चतुर्दशेषु वर्तन्ते गणा मन्वन्तरेषु वै ॥ १२६.३४ ॥ ग्रीष्मे हिमे च वर्षासु मुञ्चमाना यथाक्रमम् । धर्मं हिमं च वर्षं च यथाक्रममहर्निशम् ॥ १२६.३५ ॥ गच्छत्यसावनुदिनं परिवृत्य रश्मीन् देवान्पितॄंश्च मनुजांश्च सुतर्पयन्वै । शुक्ले च कृष्णे तदहःक्रमेण कालक्षये चैव सुराः पिबन्ति ॥ १२६.३६ ॥ मासेन तच्चामृतमस्य मृष्टं सुवृष्टये रश्मिषु रक्षितं तु । सर्वेऽमृतं तत्पितरः पिबन्ति देवाश्च सौम्याश्च तथैव काव्याः ॥ १२६.३७ ॥ सूर्येण गोभिर्हि विवर्धिताभिरद्भिः पुनश्चैव समुच्छ्रिताभिः । वृष्ट्याभिवृष्टाभिरथौषधीभिर्मर्त्या अथान्नेन क्षुधं जयन्ति ॥ १२६.३८ ॥ तृप्तिश्च तेनार्धमासं सुराणां मासं सुधाभिः स्वधया पितॄणाम् । अन्नेन जीवन्त्यनिशं मनुष्याः सूर्यः श्रितं तद्धि बिभर्ति गोभिः ॥ १२६.३९ ॥ इत्येष एकचक्रेण सूर्यस्तूर्णं प्रसर्पति । तत्र तैरक्रमैरश्वैः सर्पतेऽसौ दिनक्षये ॥ १२६.४० ॥ हरिर्हरिद्भिर्ह्रियते तुरंगमैः पिबत्यथापो हरिभिः सहस्रधा । पुनः प्रमुञ्चत्यथ ताश्च यो हरिः स मुह्यमानो हरिभिस्तुरंगमैः ॥ १२६.४१ ॥ अहोरात्रं रथेनासावेकचक्रेण वै भ्रमन् । सप्तद्वीपसमुद्रांश्च सप्तभिः सप्तभिर्द्रुतम् ॥ १२६.४२ ॥ छन्दोरूपैश्च तैरश्वैर्युतश्चक्रं ततः स्थितिः । कामरूपैः सकृद्युक्तैः कामगैस्तैर्मनोजवैः ॥ १२६.४३ ॥ हरितैरव्यथैः पिङ्गैरीश्वरैर्ब्रह्मवादिभिः । बाह्यतोऽनन्तरं चैव मण्डलं दिवसक्रमात् ॥ १२६.४४ ॥ कल्पादौ सम्प्रयुक्ताश्च वहन्त्याभूतसंप्लवम् । आवृतो वालखिल्यैश्च भ्रमते रात्र्यहानि तु ॥ १२६.४५ ॥ ग्रथितैः स्ववचोभिश्च स्तूयमानो महर्षिभिः । सेव्यते गीतनृत्यैश्च गन्धर्वाप्सरसां गणैः ॥ १२६.४६ ॥ पतंगैः पतगैरश्वैर्भ्राम्यमाणो दिवस्पतिः । वीथ्याश्रयाणि चरति नक्षत्राणि तथा शशी ॥ १२६.४७ ॥ ह्रासवृद्धी तथैवास्य रश्मयः सूर्यवत्स्मृताः । त्रिचक्रोभयतोऽश्वश्च विज्ञेयः शशिनो रथः ॥ १२६.४८ ॥ अपां गर्भसमुत्पन्नो रथः साश्वः ससारथिः । सहारैस्तैस्त्रिभिश्चक्रैर्युक्तः शुक्लैर्हयोत्तमैः ॥ १२६.४९ ॥ दशभिस्तुरगैर्दिव्यैरसङ्गैस्तन्मनोजवैः । सकृद्युक्ते रथे तस्मिन् वहन्तस्त्वायुगक्षयम् ॥ १२६.५० ॥ संगृहीता रथे तस्मिञ्छ्वेतश्चक्षुःश्रवाश्च वै । अश्वास्तमेकवर्णास्ते वहन्ते शङ्खवर्चसः ॥ १२६.५१ ॥ अजश्च त्रिपथश्चैव वृषो वाजी नरो हयः । अंशुमान् सप्तधातुश्च हंसो व्योममृगस्तथा ॥ १२६.५२ ॥ इत्येते नामभिश्चैव दश चन्द्रमसो हयाः । एवं चन्द्रमसं देवं वहन्ति स्मायुगक्षयम् ॥ १२६.५३ ॥ देवैः परिवृतः सोमः पितृभिः सह गच्छति । सोमस्य शुक्लपक्षादौ भास्करे परतः स्थिते ॥ १२६.५४ ॥ आपूर्यते परो भागः सोमस्य तु अहःक्रमात् । ततः पीतक्षयं सोमं युपगद्व्यापयन् रविः ॥ १२६.५५ ॥ पीतं पञ्चदशाहं च रश्मिनैकेन भास्करः । आपूरयन्ददौ तेन भागं भागमहःक्रमात् ॥ १२६.५६ ॥ सुषुम्नाप्ययमानस्य शुक्ले वर्धन्ति वै कलाः । तस्माद्ध्रसन्ति वै कृष्णे शुक्ले ह्याप्याययन्ति च ॥ १२६.५७ ॥ इत्येवं सूर्यवीर्येण चन्द्रस्याप्यायते तनुः । पौर्णमास्यां प्रदृश्येत शुक्लः सम्पूर्णमण्डलः ॥ १२६.५८ ॥ एवमाप्यायते सोमः शुक्लपक्षेष्वहःक्रमात् । ततो द्वितीयाप्रभृति बहुलस्य चतुर्दशी ॥ १२६.५९ ॥ अपां सारमयस्येन्दो रसमात्रात्मकस्य च । पिबन्त्यम्बुमयं देवा मधु सौम्यं तथामृतम् ॥ १२६.६० ॥ संभृतं त्वर्धमासेन अमृतं सूर्यतेजसा । भक्षार्थमागतं सोमं पौर्णमास्यामुपासते ॥ १२६.६१ ॥ एकरात्रं सुराः सार्धं पितृभिरृषिभिश्च वै । सोमस्य कृष्णपक्षादौ भास्कराभिमुखस्य वै ॥ १२६.६२ ॥ प्रक्षीयते परे ह्यात्मा पीयमानकलाक्रमात् । त्रयश्च त्रिंशता सार्धं त्रयस्त्रिंशच्छतानि तु ॥ १२६.६३ ॥ त्रयस्त्रिंशत्सहस्राणि देवाः सोमं पिबन्ति वै । इत्येवं पीयमानस्य कृष्णे वर्धन्ति ताः कलाः ॥ १२६.६४ ॥ क्षीयन्ते च ताः शुक्लाः कृष्णा ह्याप्याययन्ति च । एवं दिनक्रमात्पीते देवैश्चापि निशाकरे ॥ १२६.६५ ॥ पीत्वार्धमासं गच्छन्ति अमावास्यां सुराश्च ते । पितरश्चोपतिष्ठन्ति अमावास्यां निशाकरम् ॥ १२६.६६ ॥ ततः पञ्चदशे भागे किंचिच्छेषे निशाकरे । ततोऽपराह्णे पितरो जघन्यदिवसे पुनः ॥ १२६.६७ ॥ पिबन्ति द्विकलं कालं शिष्टास्तास्तु कलास्तु याः । विनिःसृष्टं त्वमावास्यां गभस्तिभ्यस्तदामृतम् ॥ १२६.६८ ॥ अर्धमाससमाप्तौ तु पीत्वा गच्छन्ति तेऽमृतम् । सौम्या बर्हिषदश्चैव अग्निष्वात्ताश्च ये स्मृताः ॥ १२६.६९ ॥ काव्याश्चैव तु ये प्रोक्ताः पितरः सर्व एव ते । संवत्सराश्च ये काव्याः पञ्चाब्दा वै द्विजाः स्मृताः ॥ १२६.७० ॥ सौम्याः सुतपसो ज्ञेयाः सौम्या बर्हिषदस्तथा । अग्निष्वात्तास्त्रयश्चैव पितृसर्गस्थिता द्विजाः ॥ १२६.७१ ॥ पितृभिः पीयमानायां पञ्चदश्यां तु वै कलाम् । यावच्च क्षीयते तस्माद्भागः पञ्चदशस्तु सः ॥ १२६.७२ ॥ अमावास्यां तथा तस्य अन्तरा पूर्यते परः । वृद्धिक्षयौ वै पक्षादौ षोडश्यां शशिनः मृतौ । एवं सूर्यनिमित्ते ते क्षयवृद्धी निशाकरे ॥ १२६.७३ ॥ ______________________________________________________ मत्स्यपुराण १२७ *सूत उवाच ताराग्रहाणां वक्ष्यामि स्वर्भानोस्तु रथं पुनः । अथ तेजोमयः शुभ्रः सोमपुत्रस्य वै रथः ॥ १२७.१ ॥ युक्तो हयैः पिशङ्गस्तु दशभिर्वातरंहसैः । श्वेतः पिशङ्गः सारङ्गो नीलः श्यामो विलोहितः ॥ १२७.२ ॥ श्वेतश्च हरितश्चैव पृषतो वृष्णिरेव च । दशभिस्तु महाभागैरुत्तमैर्वातसम्भवैः ॥ १२७.३ ॥ ततो भौमरथश्चापि अष्टाङ्गः काञ्चनः स्मृतः । अष्टभिर्लोहितैरश्वैः सध्वजैरग्निसम्भवैः । सर्पतेऽसौ कुमारो वै ऋजुवक्रानुवक्रगः ॥ १२७.४ ॥ अतश्चाङ्गिरसो विद्वान् देवाचार्यो बृहस्पतिः । गौराश्वेन तु रौक्मेण स्यन्दनेन विसर्पति ॥ १२७.५ ॥ युक्तेनाष्टाभिरश्वैश्च ध्वजैरग्निसमुद्भवैः । अब्दं वसति यो राशौ स्वदिशं तेन गच्छति ॥ १२७.६ ॥ युक्तेनाष्टाभिरश्वैश्च सध्वजैरग्निसंनिभैः । रथेन क्षिप्रवेगेण भार्गवस्तेन गच्छति ॥ १२७.७ ॥ ततः शनैश्चरोऽप्यश्वैः सबलैर्वातरंहसैः । कार्ष्णायसं समारुह्य स्यन्दनं यात्यसौ शनिः ॥ १२७.८ ॥ स्वर्भानोस्तु यथाष्टाश्वाः कृष्णा वै वातरंहसः । रथं तमोमयं तस्य वहन्ति स्म सुदंशिताः ॥ १२७.९ ॥ आदित्यनिलयो राहुः सोमं गच्छति पर्वसु । आदित्यमेति सोमाच्च तमसोऽन्तेषु पर्वसु ॥ १२७.१० ॥ ततः केतुमतस्त्वश्वा अष्टौ ते वातरंहसः । पलालधूमवर्णाभाः क्षामदेहाः सुदारुणाः ॥ १२७.११ ॥ एते वाहा ग्रहाणां वै मया प्रोक्ता रथैः सह । सर्वे ध्रुवे निबद्धास्ते निबद्धा वातरश्मिभिः ॥ १२७.१२ ॥ एते वै भ्राम्यमाणास्ते यथायोगं वहन्ति वै । वाय याभिरदृश्याभिः प्रबद्धा वातरश्मिभिः ॥ १२७.१३ ॥ परिभ्रमन्ति तद्बद्धाश्चन्द्रसूर्यग्रहा दिवि । यावत्तमनुपर्येति ध्रुवं च ज्योतिषां गणः ॥ १२७.१४ ॥ यथा नद्युदके नोस्तु उदकेन सहोह्यते । तथा देवगृहाणि स्युरुह्यन्ते वातरंहसा । तस्माद्यानि प्रगृह्यन्ते व्योम्नि देवगृहा इति ॥ १२७.१५ ॥ यावत्यश्चैव ताराः स्युस्तावन्तोऽस्य मरीचयः । सर्वा ध्रुवनिबद्धास्ता भ्रमन्त्यो भ्रामयन्ति च ॥ १२७.१६ ॥ तैलपीडं यथा चक्रं भ्रमते भ्रामयन्ति वै । तथा भ्रमन्ति ज्योतींषि वातबद्धानि सर्वशः ॥ १२७.१७ ॥ अलातचक्रवद्यान्ति वातचक्रेरितानि तु । यस्मात्प्रवहते तानि प्रवहस्तेन स स्मृतः ॥ १२७.१८ ॥ एवं ध्रुवे नियुक्तोऽसौ भ्रमते ज्योतिषां गणः । एष तारामयः प्रोक्तः शिशुमारे ध्रुवो दिवि ॥ १२७.१९ ॥ यदह्ना कुरुते पापं तं दृष्ट्वा निशि मुञ्चति । शिशुमारशरीरस्था यावत्यस्तारकास्तु ताः ॥ १२७.२० ॥ वर्षाणि दृष्ट्वा जीवेत तावदेवाधिकानि तु । शिशुमाराकृतिं ज्ञात्वा प्रविभागेन सर्वशः ॥ १२७.२१ ॥ उत्तानपादस्तस्याथ विज्ञेयः सोत्तरो हनुः । यज्ञोऽधरस्तु विज्ञेयो धर्मो मूर्धानमाश्रितः ॥ १२७.२२ ॥ हृदि नारायणः साध्या अश्विनौ पूर्वपादयोः । वरुणश्चार्यमा चैव पश्चिमे तस्य सक्थिनी ॥ १२७.२३ ॥ शिश्ने संवत्सरो ज्ञेयो मित्रश्चापानमाश्रितः । पुच्छेऽग्निश्च महेन्द्रश्च मरीचिः कश्यपो ध्रुवः ॥ १२७.२४ ॥ एष तारामयः स्तम्भो नास्तमेति न वोदयम् । नक्षत्रचन्द्रसूर्याश्च ग्रहास्तारागणैः सह ॥ १२७.२५ ॥ तन्मुखाभिमुखाः सर्वे चक्रभूता दिवि स्थिताः । ध्रुवेणाधिष्ठिताश्चैव ध्रुवमेव प्रदक्षिणम् ॥ १२७.२६ ॥ परियान्ति सुरश्रेष्ठं मेढीभूतं ध्रुवं दिवि । आग्नीध्रकाश्यपानां तु तेषां स परमो ध्रुवः ॥ १२७.२७ ॥ एक एव भ्रमत्येष मेरोरन्तरमूर्धनि । ज्योतिषां चक्रमादाय आकर्षंस्तमधोमुखः । मेरुमालोकयन्नेव प्रतियाति प्रदक्षिणम् ॥ १२७.२८ ॥ ______________________________________________________ मत्स्यपुराण १२८ *ऋषय ऊचुः यदेतद्भवता प्रोक्तं श्रुतं सर्वमशेषतः । कथं देवगृहाणि स्युः पुनर्ज्योतींषि वर्णय ॥ १२८.१ ॥ *सूत उवाच एतत्सर्वं प्रवक्ष्यामि सूर्याचन्द्रमसोर्गतिम् । यथा देवगृहाणि स्युः सूर्याचन्द्रमसोस्तथा ॥ १२८.२ ॥ अग्नेर्व्युष्टौ रजन्यां वै ब्रह्मणाव्यक्तयोनिना । अव्याकृतमिदं त्वासीन्नैशेन तमसा वृतम् ॥ १२८.३ ॥ चतुर्भूतावशिष्टेऽस्मिन् ब्रह्मणा समधिष्ठिते । स्वयम्भूर्भगवांस्तत्र लोकतत्त्वार्थसाधकः ॥ १२८.४ ॥ खद्योतरूपी विचरन्नाविर्भावं व्यचिन्तयत् । ज्ञात्वाग्निं कल्पकालादावपः पृथ्वीं च संश्रिता ॥ १२८.५ ॥ स संभृत्य प्रकाशार्थं त्रिधा तुल्योऽभवत्पुनः । पाचको यस्तु लोकेऽस्मिन् पार्थिवः सोऽग्निरुच्यते ॥ १२८.६ ॥ यश्चासौ तपते सूर्ये शुचिरग्निश्च स स्मृतः । वैद्युतो जाठरः सौम्यो वैद्युतश्चाप्यबिन्धनः ॥ १२८.७ ॥ तेजोभिश्चाप्यते कश्चित्कश्चिदेवाप्यनिन्धनः । काष्ठेन्धनस्तु निर्मथ्यः सोऽद्भिः शाम्यति पावकः ॥ १२८.८ ॥ अर्चिष्मान्पचनोऽग्निस्तु निष्प्रभः सौम्यलक्षणः । यश्चासौ मण्डले शुक्ले निरूष्मा न प्रकाशते ॥ १२८.९ ॥ प्रभा सौरी तु पादेन अस्तं याति दिवाकरे । अग्निमाविशते रात्रौ तस्मादग्निः प्रकाशते ॥ १२८.१० ॥ उदिते तु पुनः सूर्ये ऊष्माग्नेस्तु समाविशत् । पादेन तेजसश्चाग्नेस्तस्मात्संतपते दिवा ॥ १२८.११ ॥ प्राकाश्यं च तथौष्ण्यं च सौर्याग्नेये तु तेजसी । परस्परानुप्रवेशादाप्यायेते दिवानिशम् ॥ १२८.१२ ॥ उत्तरे चैव भूम्यर्धे तथा ह्यस्मिंस्तु दक्षिणे । उत्तिष्ठति पुनः सूर्ये रात्रिराविशते ह्यपः ॥ १२८.१३ ॥ तस्मात्ताम्रा भवन्त्यापो दिवारात्रिप्रवेशनात् । अस्तं गते पुनः सूर्ये अहर्वै प्रविशत्यपः ॥ १२८.१४ ॥ तस्मान्नक्तं पुनः शुक्ला ह्यापो दृश्यन्ति भासुराः । एतेन क्रमयोगेण भूम्यर्धे दक्षिणोत्तरे ॥ १२८.१५ ॥ उदयास्तमये ह्यत्र अहोरात्रं विशत्यपः । यश्चासौ तपते सूर्यः सोऽपः पिबति रश्मिभिः ॥ १२८.१६ ॥ सहस्रपादस्त्वेषोऽग्नी रक्तकुम्भनिभस्तु सः । आदत्ते स तु नाडीनां सहस्रेण समन्ततः ॥ १२८.१७ ॥ अपो नदीसमुद्रेभ्यो ह्रदकूपेभ्य एव च । तस्य रश्मिसहस्रेण शीतवर्षोष्णनिःस्रवः ॥ १२८.१८ ॥ तासां चतुःशतं नाड्यो वर्षन्ते चित्रमूर्तयः । चन्दनाश्चैव मेध्याश्च केतनाश्चेतनास्तथा ॥ १२८.१९ ॥ अमृता जीवनाः सर्वा रश्मयो वृष्टिसर्जनाः । हिमोद्भवाश्च तेऽन्योन्यं रश्मयस्त्रिंशतः स्मृताः । चन्द्रताराग्रहैः सर्वैः पीता भानोर्गभस्तयः ॥ १२८.२० ॥ एता मध्यास्तथान्याश्च ह्लादिन्यो हिमसर्जनाः । शुक्लाश्च ककुभश्चैव गावो विश्वसृतश्च याः ॥ १२८.२१ ॥ शुक्लास्ता नामतः सर्वास्त्रिंशतो घर्मसर्जनाः । संबिभ्रति हि ताः सर्वा मनुष्यान्देवताः पितॄन् ॥ १२८.२२ ॥ मनुष्यानोषधीभिश्च स्वधया च पितॄनपि । अमृतेन सुरान्सर्वान् संततं परितर्पयन् ॥ १२८.२३ ॥ वसन्ते चैव ग्रीष्मे च शनैः संतपते त्रिभिः । वर्षासु च शरद्येवं चतुर्भिः संप्रवर्षति ॥ १२८.२४ ॥ हेमन्ते शिशिरे चैव हिमोत्सर्गस्त्रिभिः पुनः । ओषधीषु बलं धत्ते सुधां च स्वधया पुनः ॥ १२८.२५ ॥ सूर्योऽमरत्वममृते त्रयस्त्रिषु नियच्छति । एवं रश्मिसहस्रं तु सौरं लोकार्थसाधकम् ॥ १२८.२६ ॥ भिद्यते ऋतुमासाद्य सहस्रं बहुधा पुनः । इत्येवं मण्डलं शुक्लं भास्वरं लोकसंज्ञितम् ॥ १२८.२७ ॥ नक्षत्रग्रहसोमानां प्रतिष्ठा योनिरेव च । चन्द्र ऋक्षग्रहाः सर्वे विज्ञेयाः सूर्यसम्भवाः ॥ १२८.२८ ॥ सुषुम्ना सूर्यरश्मिर्या क्षीणं शशिनमेधते । हरिकेशः पुरस्तात्तु यो वै नक्षत्रयोनिकृत् ॥ १२८.२९ ॥ दक्षिणे विश्वकर्मा तु रश्मिराप्याययद्बुधम् । विश्वावसुश्च यः पश्चाच्छुक्रयोनिश्च स स्मृतः ॥ १२८.३० ॥ संवर्धनस्तु यो रश्मिः स योनिर्लोहितस्य च । षष्ठस्तु ह्यश्वभू रश्मिर्योनिः स हि बृहस्पतेः ॥ १२८.३१ ॥ शनैश्चरं पुनश्चापि रश्मिराप्यायते सुराट् । न क्षीयते यतस्तानि तस्मान्नक्षत्रता स्मृता ॥ १२८.३२ ॥ क्षेत्राण्येतानि वै सूर्यमापतन्ति गभस्तिभिः । क्षेत्राणि तेषामादत्ते सूर्यो नक्षत्रता ततः ॥ १२८.३३ ॥ अस्माल्लोकादमुं लोकं तीर्णानां सुकृतात्मनाम् । तारणात्तारका ह्येताः शुक्लत्वाच्चैव शुक्लिकाः ॥ १२८.३४ ॥ दिव्यानां पार्थिवानां च वंशानां चैव सर्वशः । तपनस्तेजसो योगादादित्य इति गद्यते ॥ १२८.३५ ॥ स्रवतिः स्यन्दनार्थे च धातुरेष निगद्यते । स्रवणात्तेजसश्चैव तेनासौ सविता स्मृतः ॥ १२८.३६ ॥ बह्वर्थश्चन्द इत्येष प्रधानो धातुरुच्यते । शुक्लत्वे ह्यमृतत्वे च शीतत्वे ह्लादनेऽपि च ॥ १२८.३७ ॥ सूर्याचन्द्रमसोर्दिव्ये मण्डले भास्वरे खगे । जलतेजोमये शुक्ले वृत्तकुम्भनिभे शुभे ॥ १२८.३८ ॥ वसन्ति कर्मदेवास्तु स्थानान्येतानि सर्वशः । मन्वन्तरेषु सर्वेषु ऋषिसूर्यग्रहादयः ॥ १२८.३९ ॥ तानि देवगृहाणि स्युः स्थानाख्यानि भवन्ति हि । सौरं सूर्योऽविशत्स्थानं सौम्यं सोमस्तथैव च ॥ १२८.४० ॥ शौक्रं शुक्रोऽविशत्स्थानं षोडशारं प्रभास्वरम् । बृहस्पतिर्बृहत्त्वं च लोहितं चापि लोहितः ॥ १२८.४१ ॥ शनैश्चरोऽविशत्स्थानमेवं शानैश्चरं तथा । बुधोऽपि वै बुधस्थानं भानुं स्वर्भानुरेव च ॥ १२८.४२ ॥ नक्षत्राणि च सर्वाणि नाक्षत्राण्याविशन्ति च । ज्योतींषि सुकृतामेते ज्ञेया देवगृहास्तु वै ॥ १२८.४३ ॥ स्थानान्येतानि तिष्ठन्ति यावदाभूतसंप्लवम् । मन्वन्तरेषु सर्वेषु देवस्थानानि तानि वै ॥ १२८.४४ ॥ अभिमानेन तिष्ठन्ति तानि देवाः पुनः पुनः । अतीतास्तु सहातीतैर्भाव्या भाव्यैः सुरैः सह ॥ १२८.४५ ॥ वर्तन्ते वर्तमानैश्च सुरैः सार्धं तु स्थानिनः । सूर्यो देवो विवस्वांश्च अष्टमस्त्वदितेः सुतः ॥ १२८.४६ ॥ द्युतिमान्धर्मयुक्तश्च सोमो देवो वसुः स्मृतः । शुक्रो दैत्यस्तु विज्ञेयो भार्गवोऽसुरयाजकः ॥ १२८.४७ ॥ बृहस्पतिर्बृहत्तेजा देवाचार्योऽङ्गिरःसुतः । बुधो मनोहरश्चैव शशिपुत्रस्तु स स्मृतः ॥ १२८.४८ ॥ शनैश्चरो विरूपश्च संज्ञापुत्रो विवस्वतः । अग्निर्विकेश्यां जज्ञे तु युवासौ लोहिताधिपः ॥ १२८.४९ ॥ नक्षत्रनाम्न्यः क्षेत्रेषु दाक्षायण्यः सुताः स्मृताः । स्वर्भानुः सिंहिकापुत्रो भूतसंसाधनोऽसुरः ॥ १२८.५० ॥ चन्द्रार्कग्रहनक्षत्रेष्वभिमानी प्रकीर्तितः । स्थानान्येतानि चोक्तानि स्थानिन्यश्चैव देवताः ॥ १२८.५१ ॥ शुक्लमग्निसमं दिव्यं सहस्रांशोर्विवस्वतः । सहस्रांशुत्विषः स्थानमम्मयं तैजसं तथा ॥ १२८.५२ ॥ आशास्थानं मनोज्ञस्य रविरश्मिगृहे स्थितम् । शुक्रः षोडशरश्मिस्तु यस्तु देवो ह्यपोमयः ॥ १२८.५३ ॥ लोहितो नवरश्मिस्तु स्थानमाप्यं तु तस्य वै । बृहद्द्वादशरश्मीकं हरिद्राभं तु वेधसः ॥ १२८.५४ ॥ अष्टरश्मिशनेस्तत्तु कृष्णं वृद्धमयस्मयम् । स्वर्भानोस्त्वायसं स्थानं भूतसंतापनालयम् ॥ १२८.५५ ॥ सुकृतामाश्रयास्तारा रश्मयस्तु हिरण्मयाः । तारणात्तारका ह्येताः शुक्लत्वाच्चैव तारकाः ॥ १२८.५६ ॥ नवयोजनसाहस्रो विष्कम्भः सवितुः स्मृतः । मण्डलं त्रिगुणं चास्य विस्तारो भास्करस्य तु ॥ १२८.५७ ॥ द्विगुणः सूर्यविस्ताराद्विस्तारः शशिनः स्मृतः । त्रिगुणं मण्डलं चास्य वैपुल्याच्छशिनः स्मृतम् ॥ १२८.५८ ॥ सर्वोपरि निसृष्टानि मण्डलानि तु तारकाः । योजनार्धप्रमाणानि ताभ्योऽन्यानि गणानि तु ॥ १२८.५९ ॥ तुल्यो भूत्वा तु स्वर्भानुस्तदधस्तात्प्रसर्पति । उद्धूत्य पार्थिवीं छायां निर्मितां मण्डलाकृतिम् ॥ १२८.६० ॥ ब्रह्मणा निर्मितं स्थानं तृतीयं तु तमोमयम् । आदित्यात्स तु निष्क्रम्य सोमं गच्छति पर्वसु ॥ १२८.६१ ॥ आदित्यमेति सोमाच्च पुनः सौरेषु पर्वसु । स्वभासा तुदते यस्मात्स्वर्भानुरिति स स्मृतः ॥ १२८.६२ ॥ चन्द्रतः षोडशो भागो भार्गवस्य विधीयते । विष्कम्भान्मण्डलाच्चैव योजनानां तु स स्मृतः ॥ १२८.६३ ॥ भार्गवात्पादहीनश्च विज्ञेयो वै बृहस्पतिः । बृहस्पतेः पादहीनौ केतुवक्रावुभौ स्मृतौ ॥ १२८.६४ ॥ विस्तारमण्डलाभ्यां तु पादहीनस्तयोर्बुधः । तारानक्षत्ररूपाणि वपुष्मन्तीह यानि वै ॥ १२८.६५ ॥ बुधेन समरूपाणि विस्तारान्मण्डलात्तु वै । तारानक्षत्ररूपाणि हीनानि तु परस्परम् ॥ १२८.६६ ॥ शतानि पञ्च चत्वारि त्रीणि द्वे चैकमेव च । सर्वोपरि निसृष्टानि मण्डलानि तु तारकाः ॥ १२८.६७ ॥ योजनार्धप्रमाणानि तेभ्यो ह्रस्वं न विद्यते । उपरिष्टात्तु ये तेषां ग्रहा ये क्रूरसात्त्विकाः ॥ १२८.६८ ॥ सौरश्चाङ्गिरसो वक्रो विज्ञेया मन्दचारिणः । तेभ्योऽधस्तात्तु चत्वारः पुनश्चान्ये महाग्रहाः ॥ १२८.६९ ॥ सोमः सूर्यो बुधश्चैव भार्गवश्चेति शीघ्रगाः । यावन्ति चैव ऋक्षाणि कोट्यस्तावन्ति तारकाः ॥ १२८.७० ॥ सर्वेषां तु ग्रहाणां वै सूर्योऽधस्तात्प्रसर्पति । विस्तीर्णं मण्डलं कृत्वा तस्योर्ध्वं चरते शशी ॥ १२८.७१ ॥ नक्षत्रमण्डलं चापि सोमादूर्ध्वं प्रसर्पति । नक्षत्रेभ्यो बुधश्चोर्ध्वं बुधाच्चोर्ध्वं तु भार्गवः ॥ १२८.७२ ॥ वक्रस्तु भार्गवादूर्ध्वं वक्रादूर्ध्वं बृहस्पतिः । तस्माच्छनैश्चरश्चोर्ध्वं देवाचार्योपरि स्थितः ॥ १२८.७३ ॥ शनैश्चरात्तथा चोर्ध्वं ज्ञेयं सप्तर्षिमण्डलम् । सप्तर्षिभ्यो ध्रुवश्चोर्ध्वं समस्तं त्रिदिवं ध्रुवे ॥ १२८.७४ ॥ द्विगुणेषु सहस्रेषु योजनानां शतेषु च । ग्रहान्तरमथैकैकमूर्ध्वं नक्षत्रमण्डलात् ॥ १२८.७५ ॥ ताराग्रहान्तराणि स्युरुपर्युपर्यधिष्ठितम् । ग्रहाश्च चन्द्रसूर्यौ च दिवि दिव्येन तेजसा ॥ १२८.७६ ॥ नक्षत्रेषु च युज्यन्ते गच्छन्तो नियतक्रमात् । चन्द्रार्कग्रहनक्षत्रा नीचोच्चगृहमाश्रिताः ॥ १२८.७७ ॥ समागमे च भेदे च पश्यन्ति युगपत्प्रजाः । परस्परं स्थिता ह्येवं युज्यन्ते च परस्परम् ॥ १२८.७८ ॥ असंकरेण विज्ञेयस्तेषां योगस्तु वै बुधैः । इत्येवं संनिवेशो वै पृथिव्या ज्योतिषां च यः ॥ १२८.७९ ॥ द्वीपानामुदधीनां च पर्वतानां तथैव च । वर्षाणां च नदीनां च ये च तेषु वसन्ति वै ॥ १२८.८० ॥ इत्येषोऽर्कवशेनैव संनिवेशस्तु ज्योतिषाम् । आवर्तः सान्तरो मध्ये संक्षिप्तश्च ध्रुवात्तु स ॥ १२८.८१ ॥ सर्वतस्तेषु विस्तीर्णो वृत्ताकार इवोच्छ्रितः । लोकसंव्यवहारार्थमीश्वरेण विनिर्मितः ॥ १२८.८२ ॥ कल्पादौ बुद्धिपूर्वं तु स्थापितोऽसौ स्वयम्भुवा । इत्येष संनिवेशो वै सर्वस्य ज्योतिरात्मकः ॥ १२८.८३ ॥ वैश्वरूपं प्रधानस्य परिणाहोऽस्य यः स्मृतः । तेषां शक्यं न संख्यातुं याथातथ्येन केनचित् । गतागतं मनुष्येण ज्योतिषां मांसचक्षुषा ॥ १२८.८४ ॥ ______________________________________________________ मत्स्यपुराण १२९ *ऋषय ऊचुः कथं जगाम भगवान् पुरारित्वं महेश्वरः । ददाह च कथं देवस्तन्नो विस्तरतो वद ॥ १२९.१ ॥ पृच्छामस्त्वां वयं सर्वे बहुमानात्पुनः पुनः । त्रिपुरं तद्यथा दुर्गं मयमायाविनिर्मितम् । देवेनैकेषुणा दग्धं तथा नो वद मानद ॥ १२९.२ ॥ *सूत उवाच शृणुध्वं त्रिपुरं देवो यथा दारितवान् भवः । मयो नाम महामायो मायानां जनकोऽसुरः ॥ १२९.३ ॥ निर्जितः स तु संग्रामे तताप परमं तपः । तपस्यन्तं तु तं विप्रा दैत्यावन्यावनुग्रहात् ॥ १२९.४ ॥ तस्यैव कृत्यमुद्दिश्य तेपतुः परमं तपः । विद्युन्माली च बलवांस्तारकाख्यश्च वीर्यवान् ॥ १२९.५ ॥ मयतेजःसमाक्रान्तौ तेपतुर्मयपार्श्वगौ । लोका इव यथा मूर्तास्त्रयस्त्रय इवाग्नयः ॥ १२९.६ ॥ लोकत्रयं तापयन्तस्ते तेपुर्दानवास्तपः । हेमन्ते जलशय्यासु ग्रीष्मे पञ्चतपे तथा ॥ १२९.७ ॥ वर्षासु च तथाकाशे क्षपयन्तस्तनूः प्रियाः । सेवानाः फलमूलानि पुष्पाणि च जलानि च ॥ १२९.८ ॥ अन्यदाचरिताहाराः पङ्केनाचितवल्कलाः । मग्नाः शैवालपङ्केषु विमलाविमलेषु च ॥ १२९.९ ॥ निर्मांसाश्च ततो जाताः कृशा धमनिसंतताः । तेषां तपःप्रभावेन प्रभावविधुतं यथा ॥ १२९.१० ॥ निष्प्रभं तु जगत्सर्वं मन्दमेवाभिभाषितम् । दह्यमानेषु लोकेषु तैस्त्रिभिर्दानवाग्निभिः ॥ १२९.११ ॥ तेषामग्रे जगद्बन्धुः प्रादुर्भूतः पितामहः । ततः साहसकर्तारः प्राहुस्ते सहसागतम् ॥ १२९.१२ ॥ स्वकं पितामहं दैत्यास्तं वै तुष्टुवुरेव च । अथ तान्दानवान्ब्रह्मा तपसा तपनप्रभान् ॥ १२९.१३ ॥ उवाच हर्षपूर्णाक्षो हर्षपूर्णमुखस्तदा । वरदोऽहं हि वो वत्सास्तपस्तोषित आगतः ॥ १२९.१४ ॥ व्रियतामीप्सितं यच्च साभिलाषं तदुच्यताम् । इत्येवमुच्यमानास्तु प्रतिपन्नं पितामहम् ॥ १२९.१५ ॥ विश्वकर्मा मयः प्राह प्रहर्षोत्फुल्ललोचनः । देव दैत्याः पुरा देवैः संग्रामे तारकामये ॥ १२९.१६ ॥ निर्जितास्ताडिताश्चैव हताश्चाप्यायुधैरपि । देवैर्वैरानुबन्धाच्च धावन्तो भयवेपिताः ॥ १२९.१७ ॥ शरणं नैव जानीमः शर्म वा शरणार्थिनः । सोऽहं तपःप्रभावेन तव भक्त्या तथैव च ॥ १२९.१८ ॥ इच्छामि कर्तुं तद्दुर्गं यद्देवैरपि दुस्तरम् । तस्मिंश्च त्रिपुरे दुर्गे मत्कृते कृतिनां वर ॥ १२९.१९ ॥ भूम्यानां जलजानां च शापानां मुनितेजसाम् । देवप्रहरणानां च देवानां च प्रजापतेः ॥ १२९.२० ॥ अलङ्घनीयं भवतु त्रिपुरं यदि ते प्रियम् । विश्वकर्मा इतीवोक्तः स तदा विश्वकर्मणा ॥ १२९.२१ ॥ उवाच प्रहसन्वाक्यं मयं दैत्यगणाधिपम् । सर्वामरत्वं नैवास्ति असद्वृत्तस्य दानव ॥ १२९.२२ ॥ तस्माद्दुर्गविधानं हि क्षणादपि विधीयताम् । पितामहवचः श्रुत्वा तदैवं दानवो मयः ॥ १२९.२३ ॥ प्राञ्जलिः पुनरप्याह ब्रह्माणं पद्मसम्भवम् । यस्तदेकेषुणा दुर्गं सकृन्मुक्तेन निर्दहेत् ॥ १२९.२४ ॥ समं स संयुगे हन्यादवध्यं शेषतो भवेत् । एवमस्त्विति चाप्युक्त्वा मयं देवः पितामहः ॥ १२९.२५ ॥ स्वप्ने लब्धो यथार्थो वै तत्रैवादर्शनं ययौ । गते पितामहे दैत्या गता मयरविप्रभाः ॥ १२९.२६ ॥ वरदानाद्विरेजुस्ते तपसा च महाबलाः । स मयस्तु महाबुद्धिर्दानवो वृषसत्तमः ॥ १२९.२७ ॥ दुर्गं व्यवसितः कर्तुमिति चाचिन्तयत्तदा । कथं नाम भवेद्दुर्गं तन्मया त्रिपुरं कृतम् ॥ १२९.२८ ॥ वत्स्यते तत्पुरं दिव्यं मत्तो नान्यैर्न संशयः । यथाचैकेषुणा तेन तत्पुरं न हि हन्यते ॥ १२९.२९ ॥ देवैस्तथा विधातव्यं मया मतिविचारणम् । विस्तारो योजनशतमेकैकस्य पुरस्य तु ॥ १२९.३० ॥ कार्यस्तेषां च विष्कम्भश्चैकैकशतयोजनम् । पुष्ययोगेण निर्माणं पुराणं च भविष्यति ॥ १२९.३१ ॥ पुष्ययोगेण च दिवि समेष्यन्ति परस्परम् । पुष्ययोगेण युक्तानि यस्तान्यासादयिष्यति ॥ १२९.३२ ॥ पुराण्येकप्रहारेण शतानि निहनिष्यति । आयसं तु क्षितितले राजतं तु नभस्तले ॥ १२९.३३ ॥ राजतस्योपरिष्टात्तु सौवर्णं भविता पुरम् । एवं त्रिभिः पुरैर्युक्तं त्रिपुरं तद्भविष्यति । शतयोजनविष्कम्भैरन्तरैस्तद्दुरासदम् ॥ १२९.३४ ॥ अट्टालकैर्यन्त्रशतघ्निभिश्च सचक्रशूलोपलकम्पनैश्च । द्वारैर्महामन्दरमेरुकल्पैः प्राकारशृङ्गैः सुविराजमानम् ॥ १२९.३५ ॥ सतारकाख्येन मयेन गुप्तं स्वस्थं च गुप्तं तडिन्मालिनापि । को नाम हन्तुं त्रिपुरं समर्थो मुक्त्वा त्रिनेत्रं भगवन्तमेकम् ॥ १२९.३६ ॥ ______________________________________________________ मत्स्यपुराण १३० *सूत उवाच इति चिन्तायुतो दैत्यो दिव्योपायप्रभावजम् । चकार त्रिपुरं दुर्गं मनःसंचारचारितम् ॥ १३०.१ ॥ प्राकारोऽनेन मार्गेण इह वामुत्र गोपुरम् । इह चाट्टालकद्वारमिह चाट्टालगोपुरम् ॥ १३०.२ ॥ राजमार्ग इतश्चापि विपुलो भवतामिति । रथ्योपरथ्याः सत्त्रिका इह चत्वर एव च ॥ १३०.३ ॥ इदमन्तःपुरस्थानं रुद्रायतनमत्र च । सवटानि तडागानि ह्यत्र वाप्यः सरांसि च ॥ १३०.४ ॥ आरामाश्च सभाश्चात्र उद्यानान्यत्र वा तथा । उपनिर्गमो दानवानां भवत्यत्र मनोहरः ॥ १३०.५ ॥ इत्येवं मानसं तत्राकल्पयत्पुरकल्पवित् । मयेन तत्पुरं सृष्टं त्रिपुरं त्विति नः श्रुतम् ॥ १३०.६ ॥ कार्ष्णायसमयं यत्तु मयेन विहितं पुरम् । तारकाख्योऽधिपस्तत्र कृतस्थानाधिपोऽवसत् ॥ १३०.७ ॥ यत्तु पूर्णेन्दुसंकाशं राजतं निर्मितं पुरम् । विद्युन्माली प्रभुस्तत्र विद्युन्माली त्विवाम्बुदः ॥ १३०.८ ॥ सुवर्णाधिकृतं यच्च मयेन विहितं पुरम् । स्वयमेव मयस्तत्र गतस्तदधिपः प्रभुः ॥ १३०.९ ॥ तारकस्य पुरं तत्र शतयोजनमन्तरम् । विद्युन्मालिपुरं चापि शतयोजनकेऽन्तरे ॥ १३०.१० ॥ मेरुपर्वतसंकाशं मयस्यापि पुरं महत् । पुष्यसंयोगमात्रेण कालेन स मयः पुरा ॥ १३०.११ ॥ कृतवांस्त्रिपुरं दैत्यस्त्रिनेत्रः पुष्पकं यथा । येन येन मयो याति प्रकुर्वाणः पुरं पुरात् ॥ १३०.१२ ॥ प्रशस्तास्तत्र तत्रैव वारुण्यामालयाः स्वयम् । रुक्मरूप्यायसानां च शतशोऽथ सहस्रशः ॥ १३०.१३ ॥ रत्नाचितानि शोभन्ते पुराण्यमरविद्विषाम् । प्रासादशतजुष्टानि कूटागारोत्कटानि च ॥ १३०.१४ ॥ सर्वेषां कामगानि स्युः सर्वलोकातिगानि च । सोद्यानवापीकूपानि सपद्मसरवन्ति च ॥ १३०.१५ ॥ अशोकवनभूतानि कोकिलारुतवन्ति च । चित्रशालाविशालानि चतुःशालोत्तमानि च ॥ १३०.१६ ॥ सप्ताष्टदशभौमानि सत्कृतानि मयेन च । बहुध्वजपताकानि स्रग्दामालंकृतानि च ॥ १३०.१७ ॥ किङ्किणीजालशब्दानि गन्धवन्ति महान्ति च । सुसंयुक्तोपलिप्तानि पुष्पनैवेद्यवन्ति च ॥ १३०.१८ ॥ यज्ञधूमान्धकाराणि संपूर्णकलशानि च । गगनावरणाभानि हंसपङ्क्तिनिभानि च ॥ १३०.१९ ॥ पङ्क्तीकृतानि राजन्ते गृहाणि त्रिपुरे पुरे । मुक्ताकलापैर्लम्बद्भिर्हसन्तीव शशिश्रियम् ॥ १३०.२० ॥ मल्लिकाजातिपुष्पाद्यैर्गन्धधूपाधिवासितैः । पञ्चेन्द्रियसुखैर्नित्यं समैः सत्पुरुषैरिव ॥ १३०.२१ ॥ हेमराजतलोहाद्यमणिरत्नाञ्जनाङ्किताः । प्राकारास्त्रिपुरे तस्मिन् गिरिप्राकारसंनिभाः ॥ १३०.२२ ॥ एकैकस्मिन्पुरे तस्मिन् गोपुराणां शतं शतम् । सपताकाध्वजवतां दृश्यन्ते गिरिशृङ्गवत् ॥ १३०.२३ ॥ नूपुरारावरम्याणि त्रिपुरे तत्पुराण्यपि । स्वर्गातिरिक्तश्रीकाणि तत्र कन्यापुराणि च ॥ १३०.२४ ॥ आरामैश्च विहारैश्च तडागवटचत्वरैः । सरोभिश्च सरिद्भिश्च वनैश्चोपवनैरपि ॥ १३०.२५ ॥ दिव्यभोगोपभोगानि नानारत्नयुतानि च । पुष्पोत्करैश्च सुभगास्त्रिपुरस्योपनिर्गमाः । परिखाशतगम्भीराः कृता मायानिवारणैः ॥ १३०.२६ ॥ निशम्य तद्दुर्गविधानमुत्तमं कृतं मयेनाद्भुतवीर्यकर्मणा । दितेः सुता दैवतराजवैरिणः सहस्रशः प्रापुरनन्तविक्रमाः ॥ १३०.२७ ॥ तदासुरैर्दर्पितवैरिमर्दनैर्जनार्दनैः शैलकरीन्द्रसंनिभैः । बभूव पूर्णं त्रिपुरं तथा पुरा यथाम्बरं भूरिजलैर्जलप्रदैः ॥ १३०.२८ ॥ ______________________________________________________ मत्स्यपुराण १३१ *सूत उवाच निर्मिते त्रिपुरे दुर्गे मयेनासुरशिल्पिना । तद्दुर्गं दुर्गतां प्राप बद्धवैरैः सुरासुरैः ॥ १३१.१ ॥ सकलत्राः सपुत्राश्च शस्त्रवन्तोऽन्तकोपमाः । मयादिष्टानि विविशुर्गृहाणि हृषिताश्च ते ॥ १३१.२ ॥ सिंहा वनमिवानेके मकरा इव सागरम् । रोषैश्चैवातिपारुष्यैः शरीरमिव संहतैः ॥ १३१.३ ॥ तद्वद्बलिभिरध्यस्तं तत्पुरं देवतारिभिः । त्रिपुरं संकुलं जातं दैत्यकोटिशताकुलम् ॥ १३१.४ ॥ सुतलादपि निष्पत्य पातालाद्दानवालयात् । उपतस्थुः पयोदाभा ये च गिर्युपजीविनः ॥ १३१.५ ॥ यो यं प्रार्थयते कामं सम्प्राप्तस्त्रिपुराश्रयात् । तस्य तस्य मयस्तत्र मायया विदधाति सः ॥ १३१.६ ॥ सचन्द्रेषु प्रदोषेषु साम्बुजेषु सरःसु च । आरामेषु सचूतेषु तपोधनवनेषु च ॥ १३१.७ ॥ स्वङ्गाश्चन्दनदिग्धाङ्गां मातंगाः समदा इव । मृष्टाभरणवस्त्राश्च मृष्टस्रगनुलेपनाः ॥ १३१.८ ॥ प्रियाभिः प्रियक्रामाभिर्हावभावप्रसूतिभिः । नारीभिः सततं रेमुर्मुदिताश्चैव दानवाः ॥ १३१.९ ॥ मयेन निर्मिते स्थाने मोदमाना महासुराः । अर्थे धर्मे च कामे च निदधुस्ते मतीः स्वयम् ॥ १३१.१० ॥ तेषां त्रिपुरयुक्तानां त्रिपुरे त्रिदशारिणाम् । व्रजति स्म सुखं कालः स्वर्गस्थानां यथा तथा ॥ १३१.११ ॥ शुश्रूषन्ते पितॄन्पुत्राः पत्न्यश्चापि पतींस्तथा । विमुक्तकलहाश्चापि प्रीतयः प्रचुराभवन् ॥ १३१.१२ ॥ नाधर्मस्त्रिपुरस्थानां बाधते वीर्यवानपि । अर्चयन्तो दितेः पुत्रास्त्रिपुरायतने हरम् ॥ १३१.१३ ॥ पुण्याहशब्दानुच्चेरुराशीर्वादांश्च वेदगान् । स्वनूपुररवोन्मिश्रान् वेणुवीणारवानपि ॥ १३१.१४ ॥ हासश्च वरनारीणां चित्तव्याकुलकारकः । त्रिपुरे दानवेन्द्राणां रमतां श्रूयते सदा ॥ १३१.१५ ॥ तेषामर्चयतां देवान् ब्राह्मणांश्च नमस्यताम् । धर्मार्थकाममन्त्राणां महान्कालोऽभ्यवर्तत ॥ १३१.१६ ॥ अथालक्ष्मीरसूया च तृड्बुभुक्षे तथैव च । कलिश्च कलहश्चैव त्रिपुरं विविशुः सह ॥ १३१.१७ ॥ संध्याकालं प्रविष्टास्ते त्रिपुरं च भयावहाः । समध्यासुः समं घोराः शरीराणि यथामयाः ॥ १३१.१८ ॥ सर्व एते विशन्तस्तु मयेन त्रिपुरान्तरम् । स्वप्ने भयावहा दृष्टा आविशन्तस्तु दानवान् ॥ १३१.१९ ॥ उदिते च सहस्रांशौ शुभभासाकरे रवौ । मयः सभामाविवेश भास्कराभ्यामिवाम्बुदः ॥ १३१.२० ॥ मेरुकूटनिभे रम्य आसने स्वर्णमण्डिते । आसीनाः काञ्चनगिरेः शृङ्गे तोयमुचो यथा ॥ १३१.२१ ॥ पार्श्वयोस्तारकाख्यश्च विद्युन्माली च दानवः । उपविष्टौ मयस्यान्ते हस्तिनः कलभाविव ॥ १३१.२२ ॥ ततः सुरारयः सर्वेऽशेषकोपा रणाजिरे । उपविष्टा दृढं विद्धा दानवा देवशत्रवः ॥ १३१.२३ ॥ तेष्वासीनेषु सर्वेषु सुखासनगतेषु च । मयो मायाविजनक इत्युवाच स दानवान् ॥ १३१.२४ ॥ खेचराः खेचरारावा भो भो दाक्षायणीसुताः । निशामयध्वं स्वप्नोऽयं मया दृष्टो भयावहः ॥ १३१.२५ ॥ चतस्रः प्रमदास्तत्र त्रयो मर्त्या भयावहाः । कोपानलादीप्तमुखाः प्रविष्टास्त्रिपुरार्दिनः ॥ १३१.२६ ॥ प्रविश्य रुषितास्ते च पुराण्यतुलविक्रमाः । प्रविष्टाः स्म शरीराणि भूत्वा बहुशरीरिणः ॥ १३१.२७ ॥ नगरं त्रिपुरं चेदं तमसा समवस्थितम् । सगृहं सह युष्माभिः सागराम्भसि मज्जितम् ॥ १३१.२८ ॥ उलूकं रुचिरा नारी नग्नारूढा खरं तथा । सह स्त्रीभिर्हसन्ती च चुम्बने प्रमदा यथा । पुरुषः सिन्दुतिलकश्चतुरङ्घ्रिस्त्रिलोचनः ॥ १३१.२९ ॥ येन सा प्रमदा नुन्ना अहं चैव विबोधितः । ईदृशी प्रमदा दृष्टा मया चातिभयावहा ॥ १३१.३० ॥ एष ईदृशकः स्वप्नो दृष्टो वै दितिनन्दनाः । दृष्टः कथं हि कष्टाय असुराणां भविष्यति ॥ १३१.३१ ॥ यदि वोऽहं क्षमो राजा यदिदं वेत्थ चेद्धितम् । निबोधध्वं सुमनसो न चासूयितुमर्हथ ॥ १३१.३२ ॥ कामं चेर्ष्यां च कोपं च असूयां संविहाय च । सत्ये दमे च धर्मे च मुनिवादे च तिष्ठत ॥ १३१.३३ ॥ शान्तयश्च प्रयुज्यन्तां पूज्यतां च महेश्वरः । यदि नामास्य स्वप्नस्य ह्येवं चोपरमो भवेत् ॥ १३१.३४ ॥ कुप्यते नो ध्रुवं रुद्रो देवदेवस्त्रिलोचनः । भविष्याणि च दृश्यन्ते यतो नस्त्रिपुरेऽसुराः ॥ १३१.३५ ॥ कलहं वर्जयन्तश्च अर्जयन्तस्तथार्जवम् । स्वप्नोदयं प्रतीक्षध्वं कालोदयमथापि च ॥ १३१.३६ ॥ श्रुत्वा दाक्षायणीपुत्रा इत्येवं मयभाषितम् । क्रोधेर्ष्यावस्थया युक्ता दृश्यन्ते च विनाशगाः ॥ १३१.३७ ॥ विनाशमुपपश्यन्तो ह्यलक्ष्म्या व्यापितासुराः । तत्रैव दृष्ट्वा तेऽन्योन्यं सक्रोधापूरितेक्षणाः ॥ १३१.३८ ॥ अथ दैवपरिध्वस्ता दानवास्त्रिपुरालयाः । हित्वा सत्यं च धर्मं च अकार्याण्युपचक्रमुः ॥ १३१.३९ ॥ द्विषन्ति ब्राह्मणान्पुण्यान्न चार्चन्ति हि देवताः । गुरुं चैव न मन्यन्ते ह्यन्योन्यं चापि चुक्रुधुः ॥ १३१.४० ॥ कलहेषु च सज्जन्ते स्वधर्मेषु हसन्ति च । परस्परं च निन्दन्ति अहमित्येव वादिनः ॥ १३१.४१ ॥ उच्चैर्गुरून्प्रभाषन्ते नाभिभाषन्ति पूजिताः । अकस्मात्साश्रुनयना जायन्ते च समुत्सुकाः ॥ १३१.४२ ॥ दधिसक्तून्पयश्चैव कपित्थानि च रात्रिषु । भक्षयन्ति च शेरन्त उच्छिष्टाः संवृतास्तथा ॥ १३१.४३ ॥ मूत्रं कृत्वोपस्पृशन्ति चाकृत्वा पादधावनम् । संविशन्ति च शय्यासु शौचाचारविवर्जिताः ॥ १३१.४४ ॥ संकुचन्ति भयाच्चैव मार्जाराणां यथाखुकः । भार्यां गत्वा न शुध्यन्ति रहोवृत्तिषु निस्त्रपाः ॥ १३१.४५ ॥ पुरा सुशीला भूत्वा च दुःशीलत्वमुपागताः । देवांस्तपोधनांश्चैव बाधन्ते त्रिपुरालयाः ॥ १३१.४६ ॥ मयेन वार्यमाणा अपि ते विनाशमुपस्थिताः । विप्रियाण्येव विप्राणां कुर्वाणाः कलहैषिणः ॥ १३१.४७ ॥ वैभ्राजं नन्दनं चैव तथा चैत्ररथं वनम् । अशोकं च वराशोकं सर्वर्तुकमथापि च ॥ १३१.४८ ॥ स्वर्गं च देवतावासं पूर्वदेववशानुगाः । विध्वंसयन्ति संक्रुद्धास्तपोधनवनानि च ॥ १३१.४९ ॥ विध्वस्तदेवायतनाश्रमं च संभग्नदेवद्विजपूजकं तु । जगद्बभूवामरराजदुष्टैरभिद्रुतं सस्यमिवालिवृन्दैः ॥ १३१.५० ॥ ______________________________________________________ मत्स्यपुराण १३२ *सूत उवाच अशीलेषु प्रदुष्टेषु दानवेषु दुरात्मसु । लोकेषूत्साद्यमानेषु तपोधनवनेषु च ॥ १३२.१ ॥ सिंहनादे व्योमगानां तेषु भीतेषु जन्तुषु । त्रैलोक्ये भयसंमूढे तमोन्धन्वमुपागते ॥ १३२.२ ॥ आदित्या वसवः साध्याः पितरो मरुतां गणाः । भीताः शरणमाजग्मुर्ब्रह्माणां प्रपितामहम् ॥ १३२.३ ॥ ते तं स्वर्णोत्पलासीनं ब्रह्माणं समुपागताः । नेमुरूचुश्च सहिताः पञ्चास्यं चतुराननम् ॥ १३२.४ ॥ वरगुप्तास्तवैवेह दानवास्त्रिपुरालयाः । बाधन्तेऽस्मान्यथा प्रेष्याननुशाधि ततोऽनघ ॥ १३२.५ ॥ मेघागमे यथा हंसा मृगाः सिंहभयादिव । दानवानां भयात्तद्वद्भ्रमामो हि पितामह ॥ १३२.६ ॥ पुत्राणां नामधेयानि कलत्राणां तथैव च । दानवैर्भ्राम्यमाणानां विस्मृतानि ततोऽनघ ॥ १३२.७ ॥ देववेश्मप्रभङ्गाश्च आश्रमभ्रंशनानि च । दानवैर्लोममोहान्धैः क्रियन्ते च भ्रमन्ति च ॥ १३२.८ ॥ यदि न त्रायसे लोकं दानवैर्विद्रुतं द्रुतम् । धर्षणानेन निर्देवं निर्मनुष्याश्रमं जगत् ॥ १३२.९ ॥ इत्येवं त्रिदशैरुक्तः पद्मयोनिः पितामहः । प्रत्याह त्रिदशान् सेन्द्रानिन्दुतुल्याननः प्रभुः ॥ १३२.१० ॥ भयस्य यो वरो दत्तो मया मतिमतां वराः । तस्यान्त एष सम्प्राप्तो यः पुरोक्तो मया सुराः ॥ १३२.११ ॥ तच्च तेषामधिष्ठानं त्रिपुरं त्रिदशर्षभाः । एकेषुपातमोक्षेण हन्तव्यं नेषुवृष्टिभिः ॥ १३२.१२ ॥ भवतां च न पश्यामि कमप्यत्र सुरर्षभाः । यस्तु चैकप्रहारेण पुरं हन्यात्सदानवम् ॥ १३२.१३ ॥ त्रिपुरं नाल्पवीर्येण शक्यं हन्तुं शरेण तु । एकं मुक्त्वा महादेवं महेशानं प्रजापतिम् ॥ १३२.१४ ॥ ते यूयं यदि अन्ये च क्रतुविध्वंसकं हरम् । याचामः सहिता देवं त्रिपुरं स हनिष्यति ॥ १३२.१५ ॥ कृतः पुराणां विष्कम्भो योजमानां शतं शतम् । यथा चैकप्रहारेण हन्यते वै भवेन तु । पुष्ययोगेण युक्तानि तानि चैकक्षणेन तु ॥ १३२.१६ ॥ ततो देवैश्च सम्प्रोक्तो यास्याम इति दुःखितैः । पितामहश्च तैः सार्धं भवसंसदमागतः ॥ १३२.१७ ॥ तं भवं भूतभव्येशं गिरिशं शूलपाणिनम् । पश्यन्ति चोमया सार्धं नन्दिना च महात्मना ॥ १३२.१८ ॥ अग्निवर्णमजं देवमग्निकुण्डनिभेक्षणम् । अग्न्यादित्यसहस्राभमग्निवर्णविभूषितम् ॥ १३२.१९ ॥ चन्द्रावयवलक्ष्माणं चन्द्रसौम्यतराननम् । आगम्य तमजं देवमथ तं नीललोहितम् । अस्तुवन्गोपतिं शम्भुं वरदं पार्वतीपतिम् ॥ १३२.२० ॥ *देवा ऊचुः नमो भवाय शर्वाय रुद्राय वरदाय च । पशूनां पतये नित्यमुग्राय च कपर्दिने ॥ १३२.२१ ॥ महादेवाय भीमाय त्र्यम्बकाय च शान्तये । ईशानाय भयघ्नाय नमस्त्वन्धकघातिने ॥ १३२.२२ ॥ नीलग्रीवाय भीमाय वेधसे वेधसा स्तुते । कुमारशत्रुनिघ्नाय कुमारजनकाय च ॥ १३२.२३ ॥ विलोहिताय धूम्राय वराय क्रथनाय च । नित्यं नीलशिखण्डाय शूलिने दिव्यशायिने ॥ १३२.२४ ॥ उरगाय त्रिनेत्राय हिरण्यवसुरेतसे । अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च ॥ १३२.२५ ॥ वृषध्वजाय मुण्डाय जटिने ब्रह्मचारिणे । तप्यमानाय सलिले ब्रह्मण्यायाजिताय च ॥ १३२.२६ ॥ विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते । नमोऽस्तु दिव्यरूपाय प्रभवे दिव्यशम्भवे ॥ १३२.२७ ॥ अभिगम्याय काम्याय स्तुत्यायार्च्याय सर्वदा । भक्तानुकम्पिने नित्यं दिशते यन्मनोगतम् ॥ १३२.२८ ॥ ______________________________________________________ मत्स्यपुराण १३३ *सूत उवाच ब्रह्माद्यैः स्तूयमानस्तु देवैर्देवो महेश्वरः । प्रजापतिमुवाचेदं देवानां क्व भयं महत् ॥ १३३.१ ॥ भो देवाः स्वागतं वोऽस्तु ब्रूत यद्वो मनोगतम् । तावदेव प्रयच्छामि नास्त्यदेयं मया हि वः ॥ १३३.२ ॥ युष्माकं नितरां शं वै कर्ताहं विबुधर्षभाः । चरामि महदत्युग्रं यच्चापि परमं तपः ॥ १३३.३ ॥ विद्विष्टा वो मम द्विष्टाः कष्टाः कष्टपराक्रमाः । तेषामभावः संपाद्यो युष्माकं भव एव च ॥ १३३.४ ॥ एवमुक्तास्तु देवेन प्रेम्णा सब्रह्मकाः सुराः । रुद्रमाहुर्महाभागं भागार्हाः सर्व एव ते ॥ १३३.५ ॥ भगवंस्तैस्तपस्तप्तं रौद्रं रौद्रपराक्रमैः । असुरैर्वध्यमानाः स्म वयं त्वां शरणं गताः ॥ १३३.६ ॥ मयो नाम दितेः पुत्रस्त्रिनेत्र कलहप्रियः । त्रिपुरं येन तद्दुर्गं कृतं पाण्डुरगोपुरम् ॥ १३३.७ ॥ तदाश्रित्य पुरं दुर्गं दानवा वरनिर्भयाः । बाधन्तेऽस्मान्महादेव प्रेष्यमस्वामिनं यथा ॥ १३३.८ ॥ उद्यानानि च भग्नानि नन्दनादीनि यानि च । वराश्चाप्सरसः सर्वा रम्भाद्या दनुजैर्हृताः ॥ १३३.९ ॥ इन्द्रस्य वाह्याश्च गजाः कुमुदाञ्जनवामनाः । ऐरावताद्या अपहृता देवतानां महेश्वर ॥ १३३.१० ॥ ये चेन्द्ररथमुख्याश्च हरयोऽपहृतासुरैः । जाताश्च दानवानां ते रथयोग्यास्तुरंगमाः ॥ १३३.११ ॥ ये रथा ये गजाश्चैव याः स्त्रियो वसु यच्च नः । तन्नो व्यपहृतं दैत्यैः संशयो जीविते पुनः ॥ १३३.१२ ॥ त्रिनेत्र एवमुक्तस्तु देवैः शक्रपुरोगमैः । उवाच देवान्देवेशो वरदो वृषवाहनः ॥ १३३.१३ ॥ व्यपगच्छतु वो देवा महद्दानवजं भयम् । तदहं त्रिपुरं धक्ष्ये क्रियतां यद्ब्रवीमि तत् ॥ १३३.१४ ॥ यदीच्छत मया दग्धुं तत्पुरं सहमानवम् । रथमौपयिकं मह्यं सज्जयध्वं किमास्यते ॥ १३३.१५ ॥ दिग्वाससा तथोक्तास्ते सपितामहकाः सुराः । तथेत्युक्त्वा महादेवं चक्रुस्ते रथमुत्तमम् ॥ १३३.१६ ॥ धरां कूबरकौ द्वौ तु रुद्रपार्श्वचरावुभौ । अधिष्ठानं शिरो मेरोरक्षो मन्दर एव च ॥ १३३.१७ ॥ चक्रुश्चन्द्रं च सूर्यं च चक्रे काञ्चनराजते । कृष्णपक्षं शुक्लपक्षं पक्षद्वयमपीश्वराः ॥ १३३.१८ ॥ रथनेमिद्वयं चक्रुर्देवा ब्रह्मपुरःसराः । आदिद्वयं पक्षयन्त्रं यन्त्रमेताश्च देवताः ॥ १३३.१९ ॥ कम्बलाश्वतराभ्यां च नागाभ्यां समवेष्टितम् । भार्गवश्चाङ्गिराश्चैव बुधोऽङ्गारक एव च ॥ १३३.२० ॥ शनैश्चरस्तथा चात्र सर्वे ते देवसत्तमाः । वरूथं गगनं चक्रुश्चारुरूपं रथस्य ते ॥ १३३.२१ ॥ कृतं द्विजिह्वनयनं त्रिवेणुं शातकौम्भिकम् । मणिमुक्तेन्द्रनीलैश्च वृतं ह्यष्टमुखैः सुरैः ॥ १३३.२२ ॥ गङ्गा सिन्धुः शतद्रुश्च चन्द्रभागा इरावती । वितस्ता च विपाशा च यमुना गण्डकी तथा ॥ १३३.२३ ॥ सरस्वती देविका च तथा च सरयूरपि । एताः सरिद्वराः सर्वा वेणुसंज्ञा कृता रथे ॥ १३३.२४ ॥ धृतराष्ट्राश्च ये नागास्ते च वेश्यात्मकाः कृताः । वासुकेः कुलजा ये च ये च रैवतवंशजाः ॥ १३३.२५ ॥ ते सर्पा दर्पसम्पूर्णाश्चापतूणेष्वनूनगाः । अवतस्थुः शरा भूत्वा नानाजातिशुभाननाः ॥ १३३.२६ ॥ सुरसा सरमा कद्रूर्विनता शुचिरेव च । तृषा बुभुक्षा सर्वोग्रा मृत्युः सर्वशमस्तथा ॥ १३३.२७ ॥ ब्रह्मवध्या च गोवध्या बालवध्या प्रजाभयाः । गदा भूत्वा शक्तयश्च तदा देवरथेऽभ्ययुः ॥ १३३.२८ ॥ युगं कृतयुगं चात्र चातुर्होत्रप्रयोजकाः । चतुर्वर्णाः सलीलाश्च बभूवुः स्वर्णकुण्डलाः ॥ १३३.२९ ॥ तद्युगं युगसंकाशं रथशीर्षे प्रतिष्ठितम् । धृतराष्ट्रेण नागेन बद्धं बलवता महत् ॥ १३३.३० ॥ ऋग्वेदः सामवेदश्च यजुर्वेदस्तथा परः । वेदाश्चत्वार एवैते चत्वारस्तुरगाभवन् ॥ १३३.३१ ॥ अन्नदानपुरोगाणि यानि दानानि कानिचित् । तान्यासन्वाजिनां तेषां भूषणानि सहस्रशः ॥ १३३.३२ ॥ पद्मद्वयं तक्षकश्च कर्कोटकधनंजयौ । नागा बभूवुरेवैते हयानां वालबन्धनाः ॥ १३३.३३ ॥ ओंकारप्रभवास्ता वा मन्त्रयज्ञक्रतुक्रियाः । उपद्रवाः प्रतीकाराः पशुबन्धेष्टयस्तथा ॥ १३३.३४ ॥ यज्ञोपवाहान्येतानि तस्मिंल्लोकरथे शुभे । मणिमुक्ताप्रवालैस्तु भूषितानि सहस्रशः ॥ १३३.३५ ॥ प्रतोद ओंकार एवासीत्तदग्रं च वषट्कृतम् । सिनीवाली कुहू राका तथा चानुमतिः शुभा । योक्त्राण्यासंस्तुरंगाणामपसर्पणविग्रहाः ॥ १३३.३६ ॥ कृष्णान्यथ च पीतानि श्वेतमाञ्जिष्ठकानि च । अवदाताः पताकास्तु बभूवुः पवनेरिताः ॥ १३३.३७ ॥ ऋतुभिश्च कृतः षड्भिर्धनुः संवत्सरोऽभवत् । अजरा ज्याभवच्चापि साम्बिका धनुषो दृढा ॥ १३३.३८ ॥ कालो हि भगवान्रुद्रस्तं च संवत्सरं विदुः । तस्मादुमा कालरात्रिर्धनुषो ज्याजराभवत् ॥ १३३.३९ ॥ सगर्भं त्रिपुरं येन दग्धवान्स त्रिलोचनः । स इषुर्विष्णुसोमाग्नित्रिदैवतमयोऽभवत् ॥ १३३.४० ॥ आननं ह्यग्निरभवच्छल्यं सोमस्तमोनुदः । तेजसः समवायोऽथ चेषोस्तेजो रथाङ्गधृक् ॥ १३३.४१ ॥ तस्मिंश्च वीर्यवृद्ध्यर्थं वासुकिर्नागपार्थिवः । तेजःसंवसनार्थं वै मुमोचातिविषो विषम् ॥ १३३.४२ ॥ कृत्वा देवा रथं चापि दिव्यं दिव्यप्रभावतः । लोकाधिपतिमभ्येत्य इदं वचनमब्रुवन् ॥ १३३.४३ ॥ संस्कृतोऽयं रथोऽस्माभिस्तव दानवशत्रुजित् । इदमापत्परित्राणं देवान्सेन्द्रपुरोगमान् ॥ १३३.४४ ॥ तं मेरुशिखराकारं त्रैलोक्यरथमुत्तमम् । प्रशस्य देवान्साध्विति रथं पश्यति शंकरः ॥ १३३.४५ ॥ मुहुर्दृष्ट्वा रथं साधु साध्वित्युक्त्वा मुहुर्मुहुः । उवाच सेन्द्रानमरानमराधिपतिः स्वयम् ॥ १३३.४६ ॥ यादृशोऽयं रथः कॢप्तो युष्माभिर्मम सत्तमाः । ईदृशो रथसम्पत्त्या यन्ता शीघ्रं विधीयताम् ॥ १३३.४७ ॥ इत्युक्त्वा देवदेवेन देवा विद्धा इवेषुभिः । अवापुर्महतीं चिन्तां कथं कार्यमिति ब्रुवन् ॥ १३३.४८ ॥ महादेवस्य देवोऽन्यः को नाम सदृशो भवेत् । मुक्त्वा चक्रायुधं देवं सोऽप्यस्येषुं समाश्रितः ॥ १३३.४९ ॥ धुरि युक्ता इवोक्षाणो घटन्त इव पर्वतैः । निश्वसन्तः सुराः सर्वे कथमेतदिति ब्रुवन् ॥ १३३.५० ॥ देवेष्वाह देवदेवो लोकनाथस्य धूर्गतान् । अहं सारथिरित्युक्त्वा जग्राहाश्वांस्ततोऽग्रजः ॥ १३३.५१ ॥ ततो देवैः सगन्धर्वैः सिंहनादो महान्कृतः । प्रतोदहस्तं सम्प्रेक्ष्य ब्रह्माणं सूततां गतम् ॥ १३३.५२ ॥ भगवानपि विश्वेशो रथस्थे वै पितामहे । सदृशः सूत इत्युक्त्वा चारुरोह रथं हरः ॥ १३३.५३ ॥ आरोहति रथं देवे ह्यश्वा हरभरातुराः । जानुभिः पतिता भूमौ रजोग्रासश्च ग्रासितः ॥ १३३.५४ ॥ देवो दृष्ट्वाथ वेदांस्तानभीरुग्रहयान् भयात् । उज्जहार पितॄनार्तान् सुपुत्र इव दुःखितान् ॥ १३३.५५ ॥ ततः सिंहरवो भूयो बभूव रथभैरवः । जयशब्दश्च देवानां संबभूवार्णवोपमः ॥ १३३.५६ ॥ तदोंकारमयं गृह्य प्रतोदं वरदः प्रभुः । स्वयम्भूः प्रययौ वाहाननुमन्त्र्य यथाजवम् ॥ १३३.५७ ॥ ग्रसमाना इवाकाशं मुष्णन्त इव मेदिनीम् । मुखेभ्यः ससृजुः श्वासानुच्छ्वसन्त इवोरगाः ॥ १३३.५८ ॥ स्वयम्भुवा चोद्यमानाश्चोदितेन कपर्दिना । व्रजन्ति तेऽश्वा जवनाः क्षयकाल इवानिलाः ॥ १३३.५९ ॥ ध्वजोच्छ्रयविनिर्माणे ध्वजयष्टिमनुत्तमाम् । आक्रम्य नन्दी वृषभस्तस्थौ तस्मिञ्छिवेच्छया ॥ १३३.६० ॥ भार्गवाङ्गिरसौ देवौ दण्डहस्तौ रविप्रभौ । रथचक्रे तु रक्षेते रुद्रस्य प्रियकाङ्क्षिणौ ॥ १३३.६१ ॥ शेषश्च भगवान्नागोऽनन्तोऽनन्तकरोऽरिणाम् । शरहस्तो रथं पाति शयनं ब्रह्मणस्तदा ॥ १३३.६२ ॥ यमस्तूर्णं समास्थाय महिषं चातिदारुणम् । द्रविणाधिपतिर्व्यालं सुराणामधिपो द्विपम् ॥ १३३.६३ ॥ मयूरं शतचन्द्रं च कूजन्तं किंनरं यथा । गुह आस्थाय वरदो युगोपमरथं पितुः ॥ १३३.६४ ॥ नन्दीश्वरश्च भगवाञ्छूलमादाय दीप्तिमान् । पृष्ठतश्चापि पार्श्वाभ्यां लोकस्य क्षयकृद्यथा ॥ १३३.६५ ॥ प्रमथाश्चाग्निवर्णाभाः साग्निज्वाला इवाचलाः । अनुजग्मू रथं शार्वं नक्रा इव महार्णवम् ॥ १३३.६६ ॥ भृगुर्भरद्वाजवसिष्ठगौतमाः क्रतुः पुलस्त्यः पुलहस्तपोधनाः । मरीचिरत्रिर्भगवानथाङ्गिराः पराशरागस्त्यमुखा महर्षयः ॥ १३३.६७ ॥ हरमजितमजं प्रतुष्टुवुर्वचनविशेषैर्विचित्रभूषणैः । रथस्त्रिपुरे सकाञ्चनाचलो व्रजति सपक्ष इवाद्रिरम्बरे ॥ १३३.६८ ॥ करिगिरिरविमेघसंनिभाः सजलपयोदनिनादनादिनः ।* प्रमथगणाः परिवार्य देवगुप्तं रथमभितः प्रययुः स्वदर्पयुक्ताः ॥ १३३.६९ ॥* मकरतिमितिमिङ्गिलावृतः प्रलय इवातिसमुद्धतोऽर्णवः । व्रजति रथवरोऽतिभास्वरो ह्यशनिनिपातपयोदनिःस्वनः ॥ १३३.७० ॥ ______________________________________________________ मत्स्यपुराण १३४ *सूत उवाच पूज्यमाने रथे तस्मिंल्लोकैर्देवे रथे स्थिते । प्रमथेषु नदत्सूग्रं प्रवदत्सु च साध्विति ॥ १३४.१ ॥ ईश्वरस्वरघोषेण नर्दमाने महावृषे । जयत्सु विप्रेषु तथा गर्जत्सु तुरगेषु च ॥ १३४.२ ॥ रणाङ्गणात्समुत्पत्य देवर्षिर्नारदः प्रभुः । कान्त्या चन्द्रोपमस्तूर्णं त्रिपुरं पुरमागतः ॥ १३४.३ ॥ औत्पातिकं तु दैत्यानां त्रिपुरे वर्तते ध्रुवम् । नारदश्चात्र भगवान् प्रादुर्भूतस्तपोधनः ॥ १३४.४ ॥ आगतं जलदाभासं समेताः सर्वदानवाः । उत्तस्थुर्नारदं दृष्ट्वा अभिवादनवादिनः ॥ १३४.५ ॥ तमर्घ्येण च पाद्येन मधुपर्केण चेश्वराः । नारदं पूजयामासुर्ब्रह्माणमिव वासवः ॥ १३४.६ ॥ तेषां स पूजां पूजार्हः प्रतिगृह्य तपोधनः । नारदः सुखमासीनः काञ्चने परमासने ॥ १३४.७ ॥ मयस्तु सुखमासीने नारदे नारदोद्भवे । यथार्हं दानवैः सार्धमासीनो दानवाधिपः ॥ १३४.८ ॥ आसीनं नारदं प्रेक्ष्य मयस्त्वथ महासुरः । अब्रवीद्वचनं तुष्टो हृष्टरोमाननेक्षणः ॥ १३४.९ ॥ औत्पातिकं पुरेऽस्माकं यथा नान्यत्र कुत्रचित् । वर्तते वर्तमानज्ञ वद त्वं हि च नारद ॥ १३४.१० ॥ दृश्यन्ते भयदाः स्वप्ना भज्यन्ते च ध्वजाः परम् । विना च वायुना केतुः पतते च तथा भुवि ॥ १३४.११ ॥ अट्टालकाश्च नृत्यन्ते सपताकाः सगोपुराः । हिंस हिंसेति श्रूयन्ते गिरश्च भयदाः पुरे ॥ १३४.१२ ॥ नाहं बिभेमि देवानां सेन्द्राणामपि नारद । मुक्त्वैकं वरदं स्थाणुं भक्ताभयकरं हरम् ॥ १३४.१३ ॥ भगवन्नास्त्यविदितमुत्पातेषु तवानघ । अनागतमतीतं च भवाञ्जानाति तत्त्वतः ॥ १३४.१४ ॥ तदेतन्नो भयस्थानमुत्पाताभिनिवेदितम् । कथयस्व मुनिश्रेष्ठ प्रपन्नस्य तु नारद ॥ १३४.१५ ॥ इत्युक्तो नारदस्तेन मयेनामयवर्जितः ॥ १३४.१६ ॥ *नारद उवाच शृणु दानव तत्त्वेन भवन्त्यौत्पातिका यथा । धर्मेति धारणे धातुर्माहात्म्ये चैव पठ्यते । धारणाच्च महत्त्वेन धर्म एष निरुच्यते ॥ १३४.१७ ॥ स इष्टप्रापको धर्म आचार्यैरुपदिश्यते । इतरश्चानिष्टफल आचार्यैर्नोपदिश्यते ॥ १३४.१८ ॥ उत्पथान्मार्गमागच्छेन्मार्गाच्चेव विमार्गताम् । विनाशस्तस्य निर्देश्य इति वेदविदो विदुः ॥ १३४.१९ ॥ त्वमधर्मरथारूढः सहैभिर्मत्तदानवैः । अपकारिषु देवानां कुरुषे त्वं सहायताम् ॥ १३४.२० ॥ तदेतान्येवमादीनि उत्पातावेदितानि च । वैनाशिकानि दृश्यन्ते दानवानां तथैव च ॥ १३४.२१ ॥ एष रुद्रः समास्थाय महालोकमयं रथम् । आयाति त्रिपुरं हन्तुं मय त्वामसुरानपि ॥ १३४.२२ ॥ स त्वं महौजसं नित्यं प्रपद्यस्व महेश्वरम् । यास्यसे सह पुत्रेण दानवैः सह मानद ॥ १३४.२३ ॥ इत्येवमावेद्य भयं दानवोपस्थितं महत् । दानवानां पुनर्देवो देवेशपदमागतः ॥ १३४.२४ ॥ नारदे तु मुनौ याते मयो दानवनायकः । शूरसंमतमित्येवं दानवानाह दानवः ॥ १३४.२५ ॥ शूराः स्थ जातपुत्राः स्थ कृतकृत्याः स्थ दानवाः । युध्यध्वं दैवतैः सार्धं कर्तव्यं चापि नो भयम् ॥ १३४.२६ ॥ जित्वा वयं भविष्यामः सर्वेऽमरसभासदः । देवांश्च सेन्द्रकान्हत्वा लोकान्भोक्ष्यामहेऽसुराः ॥ १३४.२७ ॥ अट्टालकेषु च तथा तिष्ठध्वं शस्त्रपाणयः । दंशिता युद्धसज्जाश्च तिष्ठध्वं प्रोद्यतायुधाः ॥ १३४.२८ ॥ पुराणि त्रीणि चैतानि यथास्थानेषु दानवाः । तिष्ठध्वं लङ्घनीयानि भविष्यन्ति पुराणि च ॥ १३४.२९ ॥ नमोगतास्तथा शूरा देवता विदिता हि वः । ताः प्रयत्नेन वार्याश्च विदार्याश्चैव सायकैः ॥ १३४.३० ॥ इति दनुतनयान्मयस्तथोक्त्वा सुरगणवारणवारणे वचांसि । युवतिजनविषण्णमानसं तत्त्रिपुरपुरं सहसा विवेश राजा ॥ १३४.३१ ॥ अथ रजतविशुद्धभावभावो भवमभिपूज्य दिगम्बरं सुगीर्भिः । शरणमुपजगाम देवदेवं मदनार्यन्धकयज्ञदेहघातम् ॥ १३४.३२ ॥ मयमभयपदैषिणं प्रपन्नं न किल बुबोध तृतीयदीप्तनेत्रः । तदभिमतमदात्ततः शशाङ्की स च किल निर्भय एव दानवोऽभूत् ॥ १३४.३३ ॥ ______________________________________________________ मत्स्यपुराण १३५ *सूत उवाच ततो रणे देवबलं नारदोऽभ्यगमत्पुनः । आगत्य चैव त्रिपुरात्सभायामास्थितः स्वयम् ॥ १३५.१ ॥ इलावृतमिति ख्यातं तद्वर्षं विस्तृतायतम् । यत्र यज्ञो बलेर्वृत्तो बलिर्यत्र च संयतः ॥ १३५.२ ॥ देवानां जन्मभूमिर्या त्रिषु लोकेषु विश्रुता । विवाहाः क्रतवश्चैव जातकर्मादिकाः क्रियाः ॥ १३५.३ ॥ देवानां यत्र वृत्तानि कन्यादानानि यानि च । रेमे नित्यं भवो यत्र सहायैः पार्षदैर्गणैः ॥ १३५.४ ॥ लोकपालाः सदा यत्र तस्थुर्मेरुगिरौ यथा । मधुपिङ्गलनेत्रस्तु चन्द्रावयवभूषणः । देवानामधिपं प्राह गणपांश्च महेश्वरः ॥ १३५.५ ॥ वासवैतदरीणां ते त्रिपुरं परिदृश्यते । विमानैश्च पताकाभिर्ध्वजैश्च समलंकृतम् ॥ १३५.६ ॥ इदं वृत्तमिदं ख्यातं वह्निवद्भृशतापनम् । एते जना गिरिप्रख्याः सकुण्डलकिरीटिनः ॥ १३५.७ ॥ प्राकारगोपुराट्टेषु कक्षान्ते दानवाः स्थिताः । इमे च तोयदाभासा दनुजा विकृताननाः ॥ १३५.८ ॥ निर्गच्छन्ति पुरो दैत्याः सायुधा विजयैषिणः ॥ १३५.९ ॥ स त्वं सुरशतैः सार्धं ससहायो वरायुधः । सहद्भिर्मामकैर्भृत्यैर्व्यापादय महासुरान् ॥ १३५.१० ॥ अहं च रथवर्येण निश्चलाचलवत्स्थितः । पुरः पुरस्य रन्ध्रार्थी स्थास्यामि विजयाय वः ॥ १३५.११ ॥ यदा तु पुष्ययोगेण एकत्वं स्थास्यते पुरम् । तदेतन्निर्दहिष्यामि शरेणैकेन वासव ॥ १३५.१२ ॥ इत्युक्तो वै भगवता रुद्रेणेह सुरेश्वरः । ययौ तत्त्रिपुरं जेतुं तेन सैन्येन संवृतः ॥ १३५.१३ ॥ प्रक्रान्तरथभीमैस्तैः सदेवैः पार्षदां गणैः । कृतसिंहरवोपेतैरुद्गच्छद्भिरिवाम्बुदैः ॥ १३५.१४ ॥ तेन नादेन त्रिपुराद्दानवा युद्धलालसाः । उत्पत्य दुद्रुवुश्चेलुः सायुधाः खे गणेश्वरान् ॥ १३५.१५ ॥ अन्ये पयोधरारावाः पयोधरसमा बभुः । ससिंहनादं वादित्रं वादयामासुरुद्धताः ॥ १३५.१६ ॥ देवानां सिंहनादश्च सर्वतूर्यरवो महान् । ग्रस्तोऽभूद्दैत्यनादैश्च चन्द्रस्तोयधरैरिव ॥ १३५.१७ ॥ चन्द्रोदयात्समुद्भूतः पौर्णमास इवार्णवः । त्रिपुरं प्रभवत्तद्वद्भीमरूपमहासुरैः ॥ १३५.१८ ॥ प्राकारेषु पुरे तत्र गोपुरेष्वपि चापरे । अट्टालकान्समारुह्य केचिच्चलितवादिनः ॥ १३५.१९ ॥ स्वर्णमालाधराः शूराः प्रभासितकराम्बराः । केचिन्नदन्ति दनुजास्तोयमत्ता इवाम्बुदाः ॥ १३५.२० ॥ इतश्चेतश्च धावन्तः केचिदुद्भूतवाससः । किमेतदिति पप्रच्छुरन्योन्यं गृहमाश्रिताः ॥ १३५.२१ ॥ किमेतन्नैव जानामि ज्ञानमन्तर्हितं हि मे । ज्ञास्यसेऽनन्तरेणेति कालो विस्तारतो महान् ॥ १३५.२२ ॥ सोऽप्यसौ पृथ्वीसारं च सिंहश्च रथमास्थितः । तिष्ठते त्रिपुरं पीड्य देहं व्याधिरिवोच्छ्रितः ॥ १३५.२३ ॥ य एषोऽस्ति स एषोऽस्तु का चिन्ता सम्भ्रमे सति । एहि आयुधमादाय क्व मे पृच्छा भविष्यति ॥ १३५.२४ ॥ इति तेऽन्योन्यमाविद्धा उत्तरोत्तरभाषिणः । आसाद्य पृच्छन्ति तदा दानवास्त्रिपुरालयाः ॥ १३५.२५ ॥ तारकाख्यपुरे दैत्यास्तारकाख्यपुरःसराः । निर्गताः कुपितास्तूर्णं बिलादिव महोरगाः ॥ १३५.२६ ॥ निर्धावन्तस्तु ते दैत्याः प्रमथाधिपयूथपैः । निरुद्धा गजराजानो यथा केसरियूथपैः ॥ १३५.२७ ॥ दर्पितानां ततश्चैषां दर्पितानामिवाग्नीनाम् । रूपाणि जज्वलुस्तेषामग्नीनामिव धम्यताम् ॥ १३५.२८ ॥ ततो बृहन्ति चापानि भीमनादानि सर्वशः । निकृष्य जघ्नुरन्योन्यमिषुभिः प्राणभोजनैः ॥ १३५.२९ ॥ मार्जारमृगभीमास्यान् पार्षदान्विकृताननान् । दृष्ट्वा दृष्ट्वाहसन्नुच्चैर्दानवा रूपसम्पदा ॥ १३५.३० ॥ बाहुभिः परिघाकारैः कृष्यतां धनुषां शराः । भटवर्मेषु विविशुस्तडागानीव पक्षिणः ॥ १३५.३१ ॥ मृताः स्थ क्व नु यास्यध्वं हनिष्यामो निवर्तताम् । इत्येवं परुषाण्युक्त्वा दानवाः पार्षदर्षभान् ॥ १३५.३२ ॥ बिभिदुः सायकैस्तीक्ष्णैः सूर्यपादा इवाम्बुदान् । प्रमथा अपि सिंहाक्षाः सिंहविक्रान्तविक्रमाः । खण्डशैलशिलावृक्षैर्बिभिदुर्दैत्यदानवान् ॥ १३५.३३ ॥ अम्बुदैराकुलमिव हंसाकुलमिवाम्बरम् । दानवाकुलमत्यर्थं तत्पुरं सकलं बभौ ॥ १३५.३४ ॥ विकृष्टचापा दैत्येन्द्राः सृजन्ति शरदुर्दिनम् । इन्द्रचापाङ्कितोरस्का जलदा इव दुर्दिनम् ॥ १३५.३५ ॥ इषुभिस्ताड्यमानास्ते भूयो भूयो गणेश्वराः । चक्रुस्ते देहनिर्यासं स्वर्णधातुमिवाचलाः ॥ १३५.३६ ॥ तथा वृक्षशिलावज्रशूलपट्टिपरश्वधैः । चूर्ण्यन्तेऽभिहता दैत्याः काचाष्टङ्कहता इव ॥ १३५.३७ ॥ चन्द्रोदयात्समुद्भूतः पौर्णमास इवार्णवः । त्रिपुरं प्रभवत्तद्वद्भीमरूपमहासुरैः ॥ १३५.३८ ॥ तारकाख्यो जयत्येष इति दैत्या अघोषयन् । जयतीन्द्रश्च रुद्रश्च इत्येव च गणेश्वराः ॥ १३५.३९ ॥ वारिता दारिता बाणैर्योधास्तस्मिन्बलार्णवे । निःस्वनन्तोऽम्बुसमये जलगर्भा इवाम्बुदाः ॥ १३५.४० ॥ करैश्छिन्नैः शिरोभिश्च ध्वजैश्छत्त्रैश्च पाण्डुरैः । युद्धभूमिर्भयवती मांसशोणितपूरिता ॥ १३५.४१ ॥ व्योम्नि चोत्प्लुत्य सहसा तालमात्रं वरायुधैः । दृढाहताः पतन् पूर्वं दानवाः प्रमथास्तथा ॥ १३५.४२ ॥ सिद्धाश्चाप्सरसश्चैव चारणाश्च नभोगताः । दृढप्रहारहृषिताः साधु साध्विति चुक्रुशुः ॥ १३५.४३ ॥ अनाहताश्च वियति देवदुन्दुभयस्तथा । नदन्तो मेघशब्देन शरभा इव रोषिताः ॥ १३५.४४ ॥ ते तस्मिंस्त्रिपुरे दैत्या नद्यः सिन्धुपताविव । विशन्ति क्रुद्धवदना वल्मीकमिव पन्नगाः ॥ १३५.४५ ॥ तारकाख्यपुरे तस्मिन् सुराः शूराः समन्ततः । सशस्त्रा निपतन्ति स्म सपक्षा इव भूधराः ॥ १३५.४६ ॥ योधयन्ति त्रिभागेण त्रिपुरे तु गणेश्वराः । विद्युन्माली मयश्चैव मग्नौ च द्रुमवद्रणे ॥ १३५.४७ ॥ विद्युन्माली स दैत्येन्द्रो गिरीन्द्रसदृशद्युतिः । आदाय परिघं घोरं ताडयामास नन्दिनम् ॥ १३५.४८ ॥ स नन्दी दानवेन्द्रेण परिघेण दृढाहतः । भ्रमते मधुना व्यक्तः पुरा नारायणो यथा ॥ १३५.४९ ॥ नन्दीश्वरे गते तत्र गणपाः ख्यातविक्रमाः । दुद्रुवुर्जातसंरम्भा विद्युन्मालिनमासुरम् ॥ १३५.५० ॥ घण्टाकर्णः शङ्कुकर्णो महाकालश्च पार्षदाः । ततश्च सायकैः सर्वान् गणपान्गणपाकृतीन् ॥ १३५.५१ ॥ भूयो भूयः स विव्याध गणेश्वरमहत्तमान् । भित्त्वा भित्त्वा रुरावोच्चैर्नभस्यम्बुधरो यथा ॥ १३५.५२ ॥ तस्यारम्भितशब्देन नन्दी दिनकरप्रभः । संज्ञां प्राप्य ततः सोऽपि विद्युन्मालिनमाद्रवत् ॥ १३५.५३ ॥ रुद्रदत्तं तदा दीप्तं दीप्तानलसमप्रभम् । वज्रं वज्रनिभाङ्गस्य दानवस्य ससर्ज ह ॥ १३५.५४ ॥ तं नन्दिभुजनिर्मुक्तं मुक्ताफलविभूषितम् । पपात वक्षसि तदा वज्रं दैत्यस्य भीषणम् ॥ १३५.५५ ॥ स वज्रनिहतो दैत्यो वज्रसंहननोपमः । पपात वज्राभिहतः शक्रेणाद्रिरिवाहतः ॥ १३५.५६ ॥ दैत्येश्वरं विनिहतं नन्दिना कुलनन्दिना । चुक्रुशुर्दानवाः प्रेक्ष्य दुद्रुवुश्च गणाधिपाः ॥ १३५.५७ ॥ दुःखामर्षितरोषास्ते विद्युन्मालिनि पातिते । द्रुमशैलमहावृष्टिं पयोदाः ससृजुर्यथा ॥ १३५.५८ ॥ ते पीड्यमाना गुरुभिर्गिरिभिश्च गणेश्वराः । कर्तव्यं न विदुः किंचिद्वन्द्यमाधार्मिका इव ॥ १३५.५९ ॥ ततोऽसुरवरः श्रीमांस्तारकाख्यः प्रतापवान् । सतरूणां गिरीणां वै तुल्यरूपधरो बभौ ॥ १३५.६० ॥ भिन्नोत्तमाङ्गा गणपा भिन्नपादाङ्किताननाः । विरेजुर्भुजगा मन्त्रैर्वार्यमाणा यथा तथा ॥ १३५.६१ ॥ मयेन मायावीर्येण वध्यमाना गणेश्वराः । भ्रमन्ति बहुशब्दालाः पञ्जरे शकुना इव ॥ १३५.६२ ॥ तयासुरवरः श्रीमांस्तारकाख्यः प्रतापवान् । ददाह च बलं सर्वं शुष्केन्धनमिवानलः ॥ १३५.६३ ॥ तारकाख्येन वार्यन्ते शरवर्षैस्तदा गणाः । मयेन मायानिहतास्तारकाख्येन चेषुभिः । गणेशा विधुरा जाता जीर्णमूला यथा द्रुमाः ॥ १३५.६४ ॥ भूयः संपतते चाग्निर्ग्रहान्ग्राहान्भुजंगमान् । गिरीन्द्रांश्च हरीन्व्याघ्रान् वृक्षान् सृमरवर्णकान् ॥ १३५.६५ ॥ शरभानष्टपादांश्च अपः पवनमेव च । मयो मायाबलेनैव पातयत्येव शत्रुषु ॥ १३५.६६ ॥ ते तारकाख्येन मयेन मायया संमुह्यमाना विवशा गणेश्वराः । नाशक्नुवंस्ते मनसापि चेष्टितुं यथेन्द्रियार्था मुनिनाभिसंयताः ॥ १३५.६७ ॥ महाजलाग्न्यादिसकुञ्जरोरगैर्हरीन्द्रव्याघ्रर्क्षतरक्षुराक्षसैः । विबाध्यमानास्तमसा विमोहिताः समुद्रमध्येष्विव गाधकाङ्क्षिणः ॥ १३५.६८ ॥ संमर्द्यमानेषु गणेश्वरेषु संनर्दमानेषु सुरेतरेषु । ततः सुराणां प्रवराभिरक्षितुं रिपोर्बलं संविविशुः सहायुधाः ॥ १३५.६९ ॥ यमो गदास्त्रो वरुणश्च भास्करस्तथा कुमारोऽमरकोटिसंयुतः । स्वयं च शक्रः सितनागवाहनः कुलीशपाणिः सुरलोकपुंगवः ॥ १३५.७० ॥ स चोडुनाथः ससुतो दिवाकरः स सान्तकस्त्र्यक्षपतिर्महाद्युतिः । एते रिपूणां प्रबलाभिरक्षितं तदा बलं संविविशुर्मदोद्धताः ॥ १३५.७१ ॥ यथा वनं दर्पितकुञ्जराधिपा यथा नभः साम्बुधरं दिवाकरः । यथा च सिंहैर्विजनेषु गोकुलं तथा बलं तत्त्रिदशैरभिद्रुतम् ॥ १३५.७२ ॥ कृतप्रहारातुरदीनदानवं ततस्त्वभज्यन्त बलं हि पार्षदाः । स्वर्ज्योतिषां ज्योतिरिवोष्मवान् हरिर्यथा तमो घोरतरं नराणाम् ॥ १३५.७३ ॥ विशान्तयामास यथा सदैव निशाकरः संचितशार्वरं तमः । ततोऽपकृष्टे च तमःप्रभावे अस्त्रप्रभावे च विवर्धमाने ॥ १३५.७४ ॥ दिग्लोकपालैर्गणनायकैश्च कृतो महान्सिंहरवो मुहूर्तम् । संख्ये विभग्ना विकरा विपादाश्छिन्नोत्तमाङ्गाः शरपूरिताङ्गाः ॥ १३५.७५ ॥ देवेतरा देववरैर्विभिन्नाः सीदन्ति पङ्केषु यथा गजेन्द्राः । वज्रेण भीमेन च वज्रपाणिः शक्त्या च शक्त्या च मयूरकेतुः ॥ १३५.७६ ॥ दण्डेन चोग्रेण च धर्मराजः पाशेन चोग्रेण च वारिगोप्ता । शूलेन कालेन च यक्षराजो वीर्येण तेजस्वितया सुकेशः ॥ १३५.७७ ॥ गणेश्वरास्ते सुरसंनिकाशाः पूर्णाहुतीसिक्तशिखिप्रकाशाः । उत्सादयन्ते दनुपुत्रवृन्दान् यथैव इन्द्राशनयः पतन्त्यः ॥ १३५.७८ ॥ मयस्तु देवान्परिरक्षितारमुमात्मजं देववरं कुमारम् । शरेण भित्त्वा स हि तारकासुतं स तारकाख्यासुरमाबभाषे ॥ १३५.७९ ॥ कृत्वा प्रहारं प्रविशामि वीरं पुरं हि दैत्येन्द्रबलेन युक्तः । विश्राममूर्जस्करमप्यवाप्य पुनः करिष्यामि रणं प्रपन्नैः ॥ १३५.८० ॥ वयं हि शस्त्रक्षतविक्षताङ्गा विशीर्णशस्त्रध्वजवर्मवाहाः । जयैषिणस्ते जयकाशिनश्च गणेश्वरा लोकवराधिपाश्च ॥ १३५.८१ ॥ मयस्य श्रुत्वा दिवि तारकाख्यो वचोऽभिकाङ्क्षन्क्षतजोपमाक्षः । विवेश तूर्णं त्रिपुरं दितेः सुतैः सुतैरदित्या युधि वृद्धहर्षैः ॥ १३५.८२ ॥ ततः सशङ्खानकभेरिभीमं ससिंहनादं हरसैन्यमाबभौ ।* मयानुगं घोरगभीरगह्वरं यथा सिंहनादितम् ॥ १३५.८३ ॥* ______________________________________________________ मत्स्यपुराण १३६ *सूत उवाच मयः प्रहारं कृत्वा तु मायावी दानवर्षभः । विवेश तूर्णं त्रिपुरमभ्रं नीलमिवाम्बरम् ॥ १३६.१ ॥ स दीर्घमुष्णं निःश्वस्य दानवान्वीक्ष्य मध्यगान् । दध्यौ लोकक्षये प्राप्ते कालं काल इवापरः ॥ १३६.२ ॥ इन्द्रोऽपि बिभ्यते यस्य स्थितो युद्धेप्सुरग्रतः । स चापि निधनं प्राप्तो विद्युन्माली महायशाः ॥ १३६.३ ॥ दुर्गं वै त्रिपुरस्यास्य न समं विद्यते पुरम् । तस्याप्येषोऽनयः प्राप्तो न दुर्गं कारणं क्वचित् ॥ १३६.४ ॥ कालस्यैव वशे सर्वं दुर्गं दुर्गतरं च यत् । काले क्रुद्धे कथं कालात्त्राणं नोऽद्य भविष्यति ॥ १३६.५ ॥ एकेषु त्रिषु यत्किंचिद्बलं वै सर्वजन्तुषु । कालस्य तद्वशं सर्वमिति पैतामहो विधिः ॥ १३६.६ ॥ अस्मिन्कः प्रभवेद्योगो ह्यसंधार्येऽमितात्मनि । लङ्घने कः समर्थः स्यादृते देवं महेश्वरम् ॥ १३६.७ ॥ बिभेमि नेन्द्राद्धि यमाद्वरुणान्न च वित्तपात् । स्वामी चैषां तु देवानां दुर्जयः स महेश्वरः ॥ १३६.८ ॥ ऐश्वर्यस्य फलं यत्तत्प्रभुत्वस्य च यत्फलम् । तदद्य दर्शयिष्यामि यावद्वीराः समन्ततः ॥ १३६.९ ॥ वापीममृततोयेन पूर्णां स्रक्ष्ये वरौषधीः । जीविष्यन्ति तदा दैत्याः संजीवनवरौषधैः ॥ १३६.१० ॥ इति संचिन्त्य बलवान्मयो मायाविनां वरः । मायया ससृजे वापीं रम्भामिव पितामहः ॥ १३६.११ ॥ द्वियोजनायतां दीर्घां पूर्णयोजनविस्तृताम् । आरोहसंक्रमवतीं चित्ररूपां कथामिव ॥ १३६.१२ ॥ इन्दोः किरणकल्पेन मृष्टेनामृतगन्धिना । पूर्णां परमतोयेन गुणपूर्णामिवाङ्गनाम् ॥ १३६.१३ ॥ उत्पलैः कुमुदैः पद्मैर्वृतां कादम्बकैस्तथा । चन्द्रभास्करवर्णाभैर्भीमैरावरणैर्वृताम् ॥ १३६.१४ ॥ खगैर्मधुररावैश्च चारुचामीकरप्रभैः । कामैषिभिरिवाकीर्णां जीवानामरणीमिव ॥ १३६.१५ ॥ तां वापीं सृज्य स मयो गङ्गामिव महेश्वरः । तस्यां प्रक्षालयामास विद्युन्मालिनमादितः ॥ १३६.१६ ॥ स वाप्यां मज्जितो दैत्यो देवशत्रुर्महाबलः । उत्तस्थाविन्धनैरिद्धः सद्यो हुत इवानलः ॥ १३६.१७ ॥ मयस्य चाञ्जलिं कृत्वा तारकाख्योऽभिवादितः । विद्युन्मालीति वचनं मयमुत्थाय चाब्रवीत् ॥ १३६.१८ ॥ क्व नन्दी सह रुद्रेण वृतः प्रमथजम्बुकैः । युध्यामोऽरीन् विनिष्पीड्य दया देहेषु का हि नः ॥ १३६.१९ ॥ अन्वास्यैव च रुद्रस्य भवामः प्रभविष्णवः । तैर्वा विनिहता युद्धे भविष्यामो यमाशनाः ॥ १३६.२० ॥ विद्युन्मालेर्निशम्यैतन्मयो वचनमूर्जितम् । तं परिष्वज्य सार्द्राक्ष इदमाह महासुरः ॥ १३६.२१ ॥ विद्युन्मालिन्न मे राज्यमभिप्रेतं न जीवितम् । त्वया विना महाबाहो किमन्येन महासुर ॥ १३६.२२ ॥ महामृतमयी वापी ह्येषा मायाभिरीश्वर । सृष्टा दानवदैत्यानां हतानां जीववर्धिनी ॥ १३६.२३ ॥ दिष्ट्या त्वां दैत्य पश्यामि यमलोकादिहागतम् । दुर्गतावनयग्रस्तं भोक्ष्यामोऽद्य महानिधिम् ॥ १३६.२४ ॥ दृष्ट्वा दृष्ट्वा च तां वापीं मायया मयनिर्मिताम् । हृष्टाननाक्षा दैत्येन्द्रा इदं वचनमब्रुवन् ॥ १३६.२५ ॥ दानवा युध्यतेदानीं प्रमथैः सह निर्भयाः । मयेन निर्मिता वापी हतान्संजीवयिष्यति ॥ १३६.२६ ॥ ततः क्षुब्धाम्बुधिनिभा भेरी सा तु भयंकरी । वाद्यमाना ननादोच्चै रौरवी सा पुनः पुनः ॥ १३६.२७ ॥ श्रुत्वा भेरीरवं घोरं मेघारम्भितसंनिभम् । न्यपतन्नसुरास्तूर्णं त्रिपुराद्युद्धलालसाः ॥ १३६.२८ ॥ लोहराजतसौवर्णैः कटकैर्मणिराजितैः । आमुक्तैः कुण्डलैर्हारैर्मुकुटैरपि चोत्कटैः ॥ १३६.२९ ॥ धूमायिता ह्यविरमा ज्वलन्त इव पावकाः । आयुधानि समादाय काशिनो दृढविक्रमाः ॥ १३६.३० ॥ नृत्यमाना इव नटा गर्जन्त इव तोयदाः । करोच्छ्रया इव गजाः सिंहा इव च निर्भयाः ॥ १३६.३१ ॥ ह्रदा इव च गम्भीराः सूर्या इव प्रतापिताः । द्रुमा इव च दैत्येन्द्रास्त्रासयन्तो बलं महत् ॥ १३६.३२ ॥ प्रमथा अपि सोत्साहा गरुडोत्पातपातिनः । युयुत्सवोऽभिधावन्ति दानवान्दानवारयः ॥ १३६.३३ ॥ नन्दीश्वरेण प्रमथास्तारकाख्येन दानवाः । चक्रुः संहत्य संग्रामं चोद्यमाना बलेन च ॥ १३६.३४ ॥ तेऽसिभिश्चन्द्रसंकाशैः शूलैश्चानलपिङ्गलैः । बाणैश्च दृढनिर्मुक्तैरभिजघ्नुः परस्परम् ॥ १३६.३५ ॥ शराणां सृज्यमानानामसीनां च निपात्यताम् । रूपाण्यासन्महोल्कानां पतन्तीनामिवाम्बरात् ॥ १३६.३६ ॥ शक्तिभिर्भिन्नहृदया निर्दया इव पातिताः । निरयेष्विव निर्मग्नाः कूजन्ते प्रमथासुराः ॥ १३६.३७ ॥ हेमकुण्डलयुक्तानि किरीटोत्कटवन्ति च । शिरांस्युर्व्यां पतन्ति स्म गिरिकूटा इवात्यये ॥ १३६.३८ ॥ परश्वधैः पट्टिशैश्च खड्गैश्च परिघैस्तथा । छिन्नाः करिवराकारा निपेतुस्ते धरातले ॥ १३६.३९ ॥ गर्जन्ति सहसा हृष्टाः प्रमथा भीमगर्जनाः । साधयन्त्यपरे सिद्धा युद्धगान्धर्वमद्भुतम् ॥ १३६.४० ॥ बलवान्भासि प्रमथ दर्पितो भासि दानव । इति चोच्चारयन्वाचं वारणा रणधूर्गताः ॥ १३६.४१ ॥ परिघैराहताः केचिद्दानवैः शंकरानुगाः । वमन्ते रुधिरं वक्त्रैः स्वर्णधातुमिवाचलाः ॥ १३६.४२ ॥ प्रमथैरपि नाराचैरसुराः सुरशत्रवः । द्रुमैश्च गिरिशृङ्गैश्च गाढमेवाहवे हताः ॥ १३६.४३ ॥ सूदितानथ तान्दैत्यानन्ये दानवपुंगवाः । उत्क्षिप्य चिक्षिपुर्वाप्यां मयदानवचोदिताः ॥ १३६.४४ ॥ ते चापि भास्वरैर्देहैः स्वर्गलोक इवामराः । उत्तस्थुर्वापीमासाद्य सद्रूपाभरणाम्बराः ॥ १३६.४५ ॥ अथैके दानवाः प्राप्य वापीप्रक्षेपणादसून् । आस्फोट्य सिंहनादं च कृत्वाधावंस्तथासुराः ॥ १३६.४६ ॥ दानवाः प्रमथानेतान् प्रसर्पत किमासथ । हतानपि हि वो वापी पुनरुज्जीवयिष्यति ॥ १३६.४७ ॥ एवं श्रुत्वा शङ्कुकर्णो वचोऽग्रग्रहसंनिभः । द्रुतमेवैत्य देवेशमिदं वचनमब्रवीत् ॥ १३६.४८ ॥ सूदिताः सूदिता देव प्रमथैरसुरा ह्यमी । उत्तिष्ठन्ति पुनर्भीमाः सस्या इव जलोक्षिताः ॥ १३६.४९ ॥ अस्मिन्किल पुरे वापी पूर्णामृतरसाम्भसा । निहता निहता यत्र क्षिप्ता जीवन्ति दानवाः ॥ १३६.५० ॥ इति विज्ञापयद्देवं शङ्कुकर्णो महेश्वरम् । अभवन्दानवबल उत्पाता वै सुदारुणाः ॥ १३६.५१ ॥ तारकाख्यः सुभीमाक्षो दारितास्यो हरिर्यथा । अभ्यधावत्सुसंक्रुद्धो महादेवरथं प्रति ॥ १३६.५२ ॥ त्रिपुरे तु महान्घोरो भेरीशङ्खरवो बभौ । दानवा निःसृता दृष्ट्वा देवदेवरथे सुरम् ॥ १३६.५३ ॥ भूकम्पश्चाभवत्तत्र शताङ्गो भूगतोऽभवत् । दृष्ट्वा क्षोभमगाद्रुद्रः स्वयम्भूश्च पितामहः ॥ १३६.५४ ॥ ताभ्यां देववरिष्ठाभ्यामन्वितः स रथोत्तमः । अनायतनमासाद्य सीदते गुणवानिव ॥ १३६.५५ ॥ धातुक्षये देह इव ग्रीष्मे चाल्पमिवोदकम् । शैथिल्यं याति स रथः स्नेहो विप्रकृतो यथा ॥ १३६.५६ ॥ रथादुत्पत्यात्मभूर्वै सीदन्तं तु रथोत्तमम् । उज्जहार महाप्राणो रथं त्रैलोक्यरूपिणम् ॥ १३६.५७ ॥ तदा शराद्विनिष्पत्य पीतवासा जनार्दनः । वृषरूपं महत्कृत्वा रथं जग्राह दुर्धरम् ॥ १३६.५८ ॥ स विषाणाभ्यां त्रैलोक्यं रथमेव महारथः । प्रगृह्योद्वहते सज्जं कुलं कुलवहो यथा ॥ १३६.५९ ॥ तारकाख्योऽपि दैत्येन्द्रो गिरीन्द्र इव पक्षवान् । अभ्यद्रवत्तदा देवं ब्रह्माणं हतवांश्च सः ॥ १३६.६० ॥ स तारकाख्याभिहतः प्रतोदं न्यस्य कूबरे । विजज्वाल मुहुर्ब्रह्मा श्वासं वक्त्रात्समुद्गिरन् ॥ १३६.६१ ॥ तत्र दैत्यैर्महानादो दानवैरपि भैरवः । तारकाख्यस्य पूजार्थं कृतो जलधरोपमः ॥ १३६.६२ ॥ रथचरणकरोऽथ महामृधे वृषभवपुर्वृषभेन्द्रपूजितः । दितितनयबलं विमर्द्य सर्वं त्रिपुरपुरं प्रविवेश केशवः ॥ १३६.६३ ॥ सजलजलदराजितां समस्तां कुमुदवरोत्पलफुल्लपङ्कजाढ्याम् । सुरगुरुरपिबत्पयोऽमृतं तद्रविरिव संचितशार्वरं तमोऽन्धम् ॥ १३६.६४ ॥ वापीं पीत्वासुरेन्द्राणां पीतवासा जनार्दनः । नर्दमानो महाबाहुः प्रविवेश शरं ततः ॥ १३६.६५ ॥ ततोऽसुरा भीमगणेश्वरैर्हताः प्रहारसंवर्धितशोणितापगाः । पराङ्मुखा भीममुखैः कृता रणे यथा नयाभ्युद्यततत्परैर्नरैः ॥ १३६.६६ ॥ स तारकाख्यस्तडिन्मालिरेव च मयेन सार्धं प्रमथैरभिद्रुताः । पुरं परावृत्य नु ते शरार्दिता यथा शरीरं पवनोदये गताः ॥ १३६.६७ ॥ गणेश्वराभ्युद्यतदर्पकाशिनो महेन्द्रनन्दीश्वरषण्मुखा युधि । विनेदुरुच्चैर्जहसुश्च दुर्मदा जयेम चन्द्रादिदिगीश्वरैः सह ॥ १३६.६८ ॥ ______________________________________________________ मत्स्यपुराण १३७ *सूत उवाच प्रमथैः समरे भिन्नास्त्रैपुरास्ते सुरारयः । पुरं प्रविविशुर्भीताः प्रमथैर्भग्नगोपुरम् ॥ १३७.१ ॥ शीर्णदंष्ट्रा यथा नागा भग्नशृङ्गा यथा वृषाः । यथा विपक्षाः शकुना नद्यः क्षीणोदका यथा ॥ १३७.२ ॥ मृतप्रायास्तथा दैत्या दैवतैर्विकृताननाः । बभूवुस्ते विमनसः कथं कार्यमिति ब्रुवन् ॥ १३७.३ ॥ अथ तान्म्लानमनसस्तदा तामरसाननः । उवाच दैत्यो दैत्यानां परमाधिपतिर्मयः ॥ १३७.४ ॥ कृत्वा युद्धानि घोराणि प्रमथैः सह सामरैः । तोषयित्वा तथा युद्धे प्रमथानमरैः सह ॥ १३७.५ ॥ यूयं यत्प्रथमं दैत्याः पश्चाच्च बलपीडिताः । प्रविष्टा नगरं त्रासात्प्रमथैर्भृशमर्दिताः ॥ १३७.६ ॥ अप्रियं क्रियते व्यक्तं देवैर्नास्त्यत्र संशयः । यत्र नाम महाभागाः प्रविशन्ति गिरेर्वनम् ॥ १३७.७ ॥ अहो हि कालस्य बलमहो कालो हि दुर्जयः । यत्रेदृशस्य दुर्गस्य उपरोधोऽवमागतः ॥ १३७.८ ॥ मये विवदमाने तु नर्दमान इवाम्बुदे । बभूवुर्निष्प्रभा दैत्या ग्रहा इन्दूदये यथा ॥ १३७.९ ॥ वापीपालास्ततोऽभ्येत्य नभः काल इवाम्बुदाः । मयमाहुर्यमप्रख्यं साञ्जलिप्रग्रहाः स्थिताः ॥ १३७.१० ॥ या सामृतरसा गूढा वापी वै निर्मिता त्वया । समाकुलोत्पलवना समीनाकुलपङ्कजा ॥ १३७.११ ॥ पीता सा वृषरूपेण केनचिद्दैत्यनायक । वापी सा साम्प्रतं दृष्टा मृतसंज्ञा इवाङ्गना ॥ १३७.१२ ॥ वापीपालवचः श्रुत्वा मयोऽसौ दानवप्रभुः । कष्टमित्यसकृत्प्रोच्य दितिजानिदमब्रवीत् ॥ १३७.१३ ॥ मया मायाबलकृता वापी पीता त्वियं यदि । विनष्टाः स्म न संदेहस्त्रिपुरं दानवा गतम् ॥ १३७.१४ ॥ निहतान्निहतान्दैत्यानाजीवयति दैवतैः । पीता वा यदि वा वापी पीता वै पीतवाससा ॥ १३७.१५ ॥ कोऽन्यो मन्मायया गुप्तां वापीममृततोयिनीम् । पास्यते विष्णुमजितं वर्जयित्वा गदाधरम् ॥ १३७.१६ ॥ सुगुह्यमपि दैत्यानां नास्त्यस्याविदितं भुवि । यत्र मद्वरकौशल्यं विज्ञातं न वृतं बुधैः ॥ १३७.१७ ॥ समोऽयं रुचिरो देशो निर्द्रुमो निर्द्रुमाचलः । नवाम्भःपूरितं कृत्वा बाधन्तेऽस्मान्मरुद्गणाः ॥ १३७.१८ ॥ ते यूयं यदि मन्यध्वं सागरोपरिधिष्ठिताः । प्रमथानां महावेगं सहामः श्वसनोपमम् ॥ १३७.१९ ॥ एतेषां च समारम्भास्तस्मिन्सागरसम्प्लवे । निरुत्साहा भविष्यन्ति एतद्रथपथावृताः ॥ १३७.२० ॥ युध्यतां निघ्नतां शत्रून् भीतानां च द्रविष्यताम् । सागरोऽम्बरसंकाशः शरणं नो भविष्यति ॥ १३७.२१ ॥ इत्युक्त्वा स मयो दैत्यो दैत्यानामधिपस्तदा । त्रिपुरेण ययौ तूर्णं सागरं सिन्धुबान्धवम् ॥ १३७.२२ ॥ सागरे जलगम्भीर उत्पपात पुरं वरम् । अवतस्थुः पुराण्येव गोपुराभरणानि च ॥ १३७.२३ ॥ अपक्रान्ते तु त्रिपुरे त्रिपुरारिस्त्रिलोचनः । पितामहमुवाचेदं वेदवादविशारदम् ॥ १३७.२४ ॥ पितामह दृढं भीता भगवन्दानवा हि नः । विपुलं सागरं ते तु दानवाः समुपाश्रिताः ॥ १३७.२५ ॥ यत एव हि ते यातास्त्रिपुरेण तु दानवाः । तत एव रथं तूर्णं प्रापयस्व पितामह ॥ १३७.२६ ॥ सिंहनादं ततः कृत्वा देवा देवरथं च तम् । परिवार्य ययुर्हृष्टाः सायुधाः पश्चिमोदधिम् ॥ १३७.२७ ॥ ततोऽमरामरगुरुं परिवार्य भवं हरम् । नर्दयन्तो ययुस्तूर्णं सागरं दानवालयम् ॥ १३७.२८ ॥ अथ चारुपताकभूषितं पटहाडम्बरशङ्खनादितम् ।* त्रिपुरमभिसमीक्ष्य देवता विविधबला ननदुर्यथा घनाः ॥ १३७.२९ ॥* अमरवरपुरेऽपि दारुणो जलधररावमृदङ्गगह्वरः । दनुतनयनिनादमिश्रितः प्रतिनिधिसंक्षुभिताणवोपमः ॥ १३७.३० ॥ अथ भुवनपतिर्गतिः सुराणामरिमृगयामददात्सुलब्धबुद्धिः । त्रिदशगणपतिर्ह्युवाच शक्रं त्रिपुरगतं सहसा निरीक्ष्य शत्रुम् ॥ १३७.३१ ॥ त्रिदशगणपते निशामयैतत्त्रिपुरनिकेतनं दानवाः प्रविष्टाः । यमवरुणकुबेरषण्मुखैस्तत्सह गणपैरपि हन्मि तावदेव ॥ १३७.३२ ॥ विहितपरबलाभिघातभूतं व्रज जलधेस्तु यतः पुराणि तस्थुः । स रथवरगतो भवः समर्थो ह्युदधिमगात्त्रिपुरं पुनर्निहन्तुम् ॥ १३७.३३ ॥ इति परिगणयन्तो दितेः सुता ह्यवतस्थुर्लवणार्णवोपरिष्टात् । अभिभवत्रिपुरं सदानवेन्द्रं शरवर्षैर्मुसलैश्च वज्रमिश्रैः ॥ १३७.३४ ॥ अहमपि रथवर्यमास्थितः सुरवरवर्य भवेय पृष्ठतः । असुरवरवधार्थमुद्यतानां प्रतिविदधामि सुखाय तेऽनघ ॥ १३७.३५ ॥ इति भववचनप्रचोदिते दशशतनयनवपुः समुद्यतः । त्रिपुरपुरजिघांसया हरिः प्रविकसिताम्बुजलोचनो ययौ ॥ १३७.३६ ॥ ______________________________________________________ मत्स्यपुराण १३८ *सूत उवाच मघवा तु निहन्तुं तानसुरानमरेश्वरः । लोकपाला ययुः सर्वे गणपालाश्च सर्वशः ॥ १३८.१ ॥ ईश्वरा मोदिताः सर्व उत्पेतुश्चाम्बरे तदा । खगतास्तु विरेजुस्ते पक्षवन्त इवाचलाः ॥ १३८.२ ॥ प्रययुस्तत्पुरं हन्तुं शरीरमिव व्याधयः । शङ्खाडम्बरनिर्घोषैः पणवान्पटहानपि । नादयन्तः पुरो देवा दृष्टास्त्रिपुरवासिभिः ॥ १३८.३ ॥ हरः प्राप्त इतीवोक्त्वा बलिनस्ते महासुराः । आजग्मुः परमं क्षोभमत्ययेष्विव सागराः ॥ १३८.४ ॥ सुरतूर्यरवं श्रुत्वा दानवा भीमदर्शनाः । निनेदुर्वादयन्तश्च नानावाद्यान्यनेकशः ॥ १३८.५ ॥ भूयोदीरितवीर्यास्ते परस्परकृतागसः । पूर्वदेवाश्च देवाश्च सूदयन्तः परस्परम् ॥ १३८.६ ॥ आक्रोशेऽपि समप्रख्ये तेषां देहनिकृन्तनम् । प्रवृत्तं युद्धमतुलं प्रहारकृतनिःस्वनम् ॥ १३८.७ ॥ निष्पतन्त इवादित्याः प्रज्वलन्त इवाग्नयः । शंसन्त इव नागेन्द्रा भ्रमन्त एव पक्षिणः । गिरीन्द्रा इव कम्पन्तो गर्जन्त इव तोयदाः ॥ १३८.८ ॥ जृम्भन्त इव शार्दूलाः गर्जन्त इव तोयदाः । प्रवृद्धोर्मितरंगौघाः क्षुभ्यन्त इव सागराः ॥ १३८.९ ॥ प्रमथाश्च महाशूरा दानवाश्च महाबलाः । युयुधुर्निश्चला भूत्वा वज्रा इव महाचलैः ॥ १३८.१० ॥ कार्मुकाणां विकृष्टानां बभूवुर्दारुणा रवाः । कालानुगानां मेघानां यथा वियति वायुना ॥ १३८.११ ॥ आहुश्च युद्धे मा भैषीः क्व यास्यसि मृतो ह्यसि । प्रहराशु स्थितोऽस्म्यत्र एहि दर्शय पौरुषम् ॥ १३८.१२ ॥ गृहाण छिन्द्धि भिन्द्धीति खाद मारय दारय । इत्यन्योन्यमनूच्चार्य प्रययुर्यमसादनम् ॥ १३८.१३ ॥ खड्गापवर्जिताः केचित्केचिच्छिन्नाः परश्वधैः । केचिन्मुद्गरचूर्णाश्च केचिद्बाहुभिराहताः ॥ १३८.१४ ॥ पट्टिशैः सूदिताः केचित्केचिच्छूलविदारिताः । दानवाः शरपुष्पाभाः सवना इव पर्वताः । निपतन्त्यर्णवजले भीमनक्रतिमिङ्गिले ॥ १३८.१५ ॥ व्यसुभिः सुनिबद्धाङ्गैः पतमानैः सुरेतरैः । संबभूवार्णवे शब्दः सजलाम्बुदनिस्वनः ॥ १३८.१६ ॥ तेन शब्देन मकरा नक्रास्तिमितिमिङ्गिलाः । मत्ता लोहितगन्धेन क्षोभयन्तो महार्णवम् ॥ १३८.१७ ॥ परस्परेण कलहं कुर्वाणा भीममूर्तयः । भ्रमन्ते भक्षयन्तश्च दानवानां च लोहितम् ॥ १३८.१८ ॥ सरथान् सायुधान् साश्वान् सवस्त्राभरणावृतान् । जग्रसुस्तिमयो दैत्यान् द्रावयन्तो जलेचरान् ॥ १३८.१९ ॥ मृधं यथासुराणां च प्रमथानां प्रवर्तते । अम्बरेऽम्भसि च तथा युद्धं चक्रुर्जलेचराः ॥ १३८.२० ॥ यथा भ्रमन्ति प्रमथाः सदैत्यास्तथा भ्रमन्ते तिमयः सनक्राः । यथैव छिन्दन्ति परस्परं तु तथैव क्रन्दन्ति विभिन्नदेहाः ॥ १३८.२१ ॥ व्रणाननैरङ्गरसं स्रवद्भिः सुरासुरैर्नक्रतिमिङ्गिलैश्च । कृतो मुहूर्तेन समुद्रदेशः सरक्ततोयः समुदीर्णतोयः ॥ १३८.२२ ॥ पूर्वं महाम्भोधरपर्वताभं द्वारं महान्तं त्रिपुरस्य शक्रः । निपीड्य तस्थौ महता बलेन युक्तोऽमराणां महता बलेन ॥ १३८.२३ ॥ तथोत्तरं सोऽन्तरजो हरस्य बालार्कजाम्बूनदतुल्यवर्णः । स्कन्दः पुरद्वारमथारुरोह वृद्धोऽस्तशृङ्गं प्रपतन्निवार्कः ॥ १३८.२४ ॥ यमश्च वित्ताधिपतिश्च देवो दण्डान्वितः पाशवरायुधश्च । देवारिणस्तस्य पुरस्य द्वारं ताभ्यां तु तत्पश्चिमतो निरुद्धम् ॥ १३८.२५ ॥ दक्षारिरुद्रस्तपनायुताभः स भास्वता देवरथेन देवः । तद्दक्षिणद्वारमरेः पुरस्य रुद्ध्वावतस्थौ भगवांस्त्रिनेत्रः ॥ १३८.२६ ॥ तुङ्गानि वेश्मानि सगोपुराणि स्वर्णानि कैलासशशिप्रभाणि । प्रह्लादरूपाः प्रमथावरुद्धा ज्योतींषि मेघा इव चाश्मवर्षाः ॥ १३८.२७ ॥ उत्पात्य चोत्पाट्य गृहाणि तेषां सशैलमालासमवेदिकानि । प्रक्षिप्य प्रक्षिप्य समुद्रमध्ये कालाम्बुदाभाः प्रमथा विनेदुः ॥ १३८.२८ ॥ रक्तानि चाशेषवनैर्युतानि साशोकखण्डानि सकोकिलानि । गृहाणि हे नाथ पितः सुतेति भ्रातेति कान्तेति प्रियेति चापि । उत्पाट्यमानेषु गृहेषु नार्यस्त्वनार्यशब्दान्विविधान्प्रचक्रुः ॥ १३८.२९ ॥ कलत्रपुत्रक्षयप्राणनाशे तस्मिन्पुरे युद्धमतिप्रवृत्ते । महासुराः सागरतुल्यवेगा गणेश्वराः कोपवृताः प्रतीयुः ॥ १३८.३० ॥ परश्वधैस्तत्र शिलोपलैश्च त्रिशूलवज्रोत्तमकम्पनैश्च । शरीरसद्मक्षपणं सुघोरं युद्धं प्रवृत्तं दृढवैरबद्धम् ॥ १३८.३१ ॥ अन्योन्यमुद्दिश्य विमर्दतां च प्रधावतां चैव विनिघ्नतां च । शब्दो बभूवामरदानवानां युगान्तकालेष्विव सागराणाम् ॥ १३८.३२ ॥ व्रणैरजस्रं क्षतजं वमन्तः कोपोपरक्ता बहुधा नदन्तः । गणेश्वरास्तेऽसुरपुंगवाश्च युध्यन्ति शब्दं च महदुद्गिरन्तः ॥ १३८.३३ ॥ मार्गाः पुरे लोहितकर्दमालाः स्वर्णेष्टकास्फाटिकभिन्नचित्राः । कृता मुहूर्तेन सुखेन गन्तुं छिन्नोत्तमाङ्गाङ्घ्रिकराः करालाः ॥ १३८.३४ ॥ कोपावृताक्षः स तु तारकाख्यः संख्ये सवृक्षः सगिरिर्निलीनः । तस्मिन्क्षणे द्वारवरं रिरक्षो रुद्धं भवेनाद्भुतविक्रमेण ॥ १३८.३५ ॥ स तत्र प्राकारागतांश्च भूताञ्छातन्महानद्भुतवीर्यसत्त्वः । चचार चाप्तेन्द्रियगर्वदृप्तः पुराद्विनिष्क्रम्य ररास घोरम् ॥ १३८.३६ ॥ ततः स दैत्योत्तमपर्वताभो यथाञ्जसा नाग इवाभिमत्तः । निवारितो रुद्ररथं जिघृक्षुर्यथार्णवः सर्पति चातिवेलः ॥ १३८.३७ ॥ शेषः सुधन्वा गिरिशश्च देवश्चतुर्मुखो यः स त्रिलोचनश्च । ते तारकाख्याभिगता गताजौ क्षोभं यथा वायुवशात्समुद्राः ॥ १३८.३८ ॥ शेषो गिरीशः सपितामहेशश्चोत्क्षुभ्यमाणः स रथेऽम्बरस्थः । बिभेद संधीषु बलाभिपन्नः कूजन्निनादांश्च करोति घोरान् ॥ १३८.३९ ॥ एकं तु ऋग्वेदतुरंगमस्य पृष्ठे पदं न्यस्य वृषस्य चैकम् । तस्थौ भवः सोद्यतबाणचापः पुरस्य तत्सङ्गसमीक्षमाणः ॥ १३८.४० ॥ तदा भवपदन्यासाद्धयस्य वृषभस्य च । पेतुः स्तनाश्च दन्ताश्च पीडिताभ्यां त्रिशूलिना ॥ १३८.४१ ॥ ततःप्रभृति चाश्वानां स्तना दन्ता गवां तथा । मूढाः समभवंस्तेन चादृश्यत्वमुपागताः ॥ १३८.४२ ॥ तारकाख्यस्तु भीमाक्षो रौद्ररक्तान्तरेक्षणः । रुद्रान्तिके सुसंरुद्धो नन्दिना कुलनन्दिना ॥ १३८.४३ ॥ परश्वधेन तीक्ष्णेन स नन्दी दानवेश्वरम् । तक्षयामास वै तक्षा चन्दनं गन्धदो यथा ॥ १३८.४४ ॥ परश्वधहतः शूरः शैलादिः शरभो यथा । दुद्राव खड्गं निष्कृष्य तारकाख्यो गणेश्वरम् ॥ १३८.४५ ॥ यज्ञोपवीतमादाय चिछेद च ननाद च । ततः सिंहरवो घोरः शङ्खशब्दश्च भैरवः । गणेश्वरैः कृतस्तत्र तारकाख्ये निषूदिते ॥ १३८.४६ ॥ प्रमथारसितं श्रुत्वा वादित्रस्वनमेव च । पार्श्वस्थः सुमहापार्श्वं विद्युन्मालिं मयोऽब्रवीत् ॥ १३८.४७ ॥ बहुवदनवतां किमेष शब्दो नदतां श्रूयते भिन्नसागराभः । वद वचनं तडिन्मालिन् किं किमेतद्गणपाला युयुधुर्ययुर्गजेन्द्राः ॥ १३८.४८ ॥ इति मयवचनाङ्कुशार्दितस्तं तडिन्माली रविरिवांशुमाली । रणशिरसि समागतः सुराणां निजगादेदमरिंदमोऽतिहर्षात् ॥ १३८.४९ ॥ यमवरुणमहेन्द्ररुद्रवीर्यस्तव यशसो निधिर्धीर तारकाख्यः । सकलसमरशीर्षपर्वतेन्द्रो युद्ध्वा यस्तपति हि तारको गणेन्द्रैः ॥ १३८.५० ॥ मृदितमुपनिशम्य तारकाख्यं रविदीप्तानलभीषणायताक्षम् । हृषितसकलनेत्रलोमसत्त्वाः प्रमथास्तोयमुचो यथा नदन्ति ॥ १३८.५१ ॥ इति सुहृदो वचनं निशम्य तत्त्वं तडिमालेः स मयः सुवर्णमाली । रणशिरस्यसिताञ्जनाचलाभो जगदे वाक्यमिदं नवेन्दुमालिम् ॥ १३८.५२ ॥ विद्युन्मालिन्न नः कालः साधितुं ह्यवहेलया । करोमि विक्रमेणैतत्पुरं व्यसनवर्जितम् ॥ १३८.५३ ॥ विद्युन्माली ततः क्रुद्धो मयश्च त्रिपुरेश्वरः । गणाञ्जघ्नुस्तु द्राघिष्ठाः सहितास्तैर्महासुरैः ॥ १३८.५४ ॥ येन येन ततो विद्युन्माली याति मयश्च सः । तेन तेन पुरं शून्यं प्रमथैः प्रहृतैः कृतम् ॥ १३८.५५ ॥ अथ यमवरुणमृदङ्गघोषैः पणवडिण्डिमज्यास्वनप्रघोषैः । सकरतलपुटैश्च सिंहनादैर्भवमभिपूज्य तदा सुरा अवतस्थुः ॥ १३८.५६ ॥ सम्पूज्यमानो दितिजैर्महात्मभिः सहस्ररश्मिप्रतिमौजसैर्विभुः । अभिष्टुतः सत्यरतैस्तपोधनैर्यथास्तशृङ्गाभिगतो दिवाकरः ॥ १३८.५७ ॥ ______________________________________________________ मत्स्यपुराण १३९ *सूत उवाच तारकाख्ये हते युद्धे उत्सार्य प्रमथान्मयः । उवाच दानवान्भूयो भूयः स तु भयावृतान् ॥ १३९.१ ॥ भोऽसुरेन्द्राधुना सर्वे निबोधध्वं प्रभाषितम् । यत्कर्तव्यं मया चैव युष्माभिश्च महाबलैः ॥ १३९.२ ॥ पुष्यं समेष्यते काले चन्द्रश्चन्द्रनिभाननाः । यदैकं त्रिपुरं सर्वं क्षणमेकं भविष्यति ॥ १३९.३ ॥ कुरुध्वं निर्भयाः काले कोकिलाशंसितेन च । स कालः पुष्ययोगस्य पुरस्य च मया कृतः ॥ १३९.४ ॥ काले तस्मिन्पुरे यस्तु संभावयति संहतिम् । स एनं कारयेच्चूर्णं बलिनैकैषुणा सुरः ॥ १३९.५ ॥ यो वः प्राणो बलं यच्च या च वो वैरितासुराः । तत्कृत्वा हृदये चैव पालयध्वमिदं पुरम् ॥ १३९.६ ॥ महेश्वररथं ह्येकं सर्वप्राणेन भीषणम् । विमुखीकुरुतात्यर्थं यथा नोत्सृजते शरम् ॥ १३९.७ ॥ तत एवं कृतेऽस्माभिस्त्रिपुरस्यापि रक्षणे । प्रतीक्षिष्यन्ति विवशाः पुष्ययोगं दिवौकसः ॥ १३९.८ ॥ निशम्य तन्मयस्यैवं दानवास्त्रिपुरालयाः । मुहुः सिंहरुतं कृत्वा मयमूचुर्यमोपमाः ॥ १३९.९ ॥ प्रयत्नेन वयं सर्वे कुर्मस्तव प्रभाषितम् । तथा कुर्मो यथा रुद्रो न मोक्ष्यति पुरे शरम् ॥ १३९.१० ॥ अद्य यास्यामः संग्रामं तद्रुद्रस्य जिघांसवः । कथयन्ति दितेः पुत्रा हृष्टा भिन्नतनूरुहाः ॥ १३९.११ ॥ कल्पं स्थास्यति वा खस्थं त्रिपुरं शाश्वतं ध्रुवम् । अदानवं वा भविता नारायणपदत्रयम् ॥ १३९.१२ ॥ वयं न धर्मं हास्यामो यस्मिन्योक्ष्यसि नो भवान् । अदैवतमदैत्यं वा लोकं द्रक्ष्यन्ति मानवाः ॥ १३९.१३ ॥ इति संमन्त्र्य हृष्टास्ते पुरान्तर्विबुधारयः । प्रदोषे मुदिता भूत्वा चेरुर्मन्मथचारताम् ॥ १३९.१४ ॥ मुहुर्मुक्तोदयो भ्रान्त उदयाग्रं महामणिः । तमांस्युत्सार्य भगवांश्चन्द्रो जृम्भति सोऽम्बरम् ॥ १३९.१५ ॥ कुमुदालंकृते हंसो यथा सरसि विस्तृते । सिंहो यथा चोपविष्टो वैडूर्यशिखरे महान् ॥ १३९.१६ ॥ विष्णोर्यथा च विस्तीर्णे हारश्चोरसि संस्थितः । तथावगाढे नभसि चन्द्रोऽत्रिनयनोद्भवः । भ्राजते भ्राजयंल्लोकान् सृजञ्ज्योत्स्नारसं बलात् ॥ १३९.१७ ॥ शीतांशावुदिते चन्द्रे ज्योत्स्नापूर्णे पुरेऽसुराः । प्रदोषे ललितं चक्रुर्गृहमात्मानमेव च ॥ १३९.१८ ॥ रथ्यासु राजमार्गेषु प्रासादेषु गृहेषु च । दीपाश्चम्पकपुष्पाभा नाल्पस्नेहप्रदीपिताः ॥ १३९.१९ ॥ तदा मठेषु ते दीपाः स्नेहपूर्णाः प्रदीपिताः । गृहाणि वसुमन्त्येषां सर्वरत्नमयानि च । ज्वलतोऽदीपयन्दीपांश्चन्द्रोदय इव ग्रहाः ॥ १३९.२० ॥ चन्द्रांशुभिर्भासमानमन्तर्दीपैः सुदीपितम् । उपद्रवैः कुलमिव पीयते त्रिपुरे तमः ॥ १३९.२१ ॥ तस्मिन्पुरे वै तरुणप्रदोषे चन्द्राट्टहासे तरुणप्रदोषे । रत्यर्थिनो वै दनुजा गृहेषु सहाङ्गनाभिः सुचिरं विरेमुः ॥ १३९.२२ ॥ विनोदिता ये तु वृषध्वजस्य पञ्चेषवस्ते मकरध्वजेन । तत्रासुरेष्वासुरपुंगवेषु स्वाङ्गाङ्गनाः स्वेदयुता बभूवुः ॥ १३९.२३ ॥ कलप्रलापेषु च दानवीनां वीणाप्रलापेषु च मूर्छितेषु । मत्तप्रलापेषु च कोकिलानां सचापबाणो मदनो ममन्थ ॥ १३९.२४ ॥ तमांसि नैशानि द्रुतं निहत्य ज्योत्स्नावितानेन जगद्वितत्य । खे रोहिणीं तां च प्रियां समेत्य चन्द्रः प्रभाभिः कुरुतेऽधिराज्यम् ॥ १३९.२५ ॥ स्थित्वैव कान्तस्य तु पादमूले काचिद्वरस्त्री स्वकपोलमूले । विशेषकं चारुतरं करोति तेनाननं स्वं समलंकरोति ॥ १३९.२६ ॥ दृष्ट्वाननं मण्डलदर्पणस्थं महाप्रभा मे मुखजेति जप्त्वा । स्मृत्वा वराङ्गी रमणेरितानि तेनैव भावेन रतीमवाप ॥ १३९.२७ ॥ रोमाञ्चितैर्गात्रवरैर्युवभ्यो रतानुरागाद्रमणेन चान्याः । स्वयं द्रुतं यान्ति मदाभिभूताः क्षपा यथा चार्कदिनावसाने ॥ १३९.२८ ॥ पेपीयते चातिरसानुविद्धा विमार्गितान्या च प्रियं प्रसन्ना । काचित्प्रियस्यातिचिरात्प्रसन्ना आसीत्प्रलापेषु च सम्प्रसन्ना ॥ १३९.२९ ॥ गोशीर्षयुक्तैर्हरिचन्दनैश्च पङ्काङ्किताक्षी च वरासुरीणाम् । मनोज्ञरूपा रुचिरा बभूवुः पूर्णामृतस्येव सुवर्णकुम्भाः ॥ १३९.३० ॥ क्षताधरोष्ठा द्रुतदोषरक्ता ललन्ति दैत्या दयितासु रक्ताः । तन्त्रीप्रलापास्त्रिपुरेषु रक्ताः स्त्रीणां प्रलापेषु पुनर्विरक्ताः ॥ १३९.३१ ॥ क्वचित्प्रवृत्तं मधुराभिगानं कामस्य बाणैः सुकृतं निधानम् । आपानभूमीषु सुखप्रमेयं गेयं प्रवृत्तं त्वथ साधयन्ति ॥ १३९.३२ ॥ गेयं प्रवृत्तं त्वथ शोधयन्ति केचित्प्रियां तत्र च साधयन्ति । केचित्प्रियां सम्प्रति बोधयन्ति संबुध्य संबुध्य च रामयन्ति ॥ १३९.३३ ॥ धूतप्रसूनप्रभवः सुबन्धः सूर्ये गते वै त्रिपुरे बभूव । समर्मरो नूपुरमेखलानां शब्दश्च संबाधति कोकिलानाम् ॥ १३९.३४ ॥ प्रियावगूढा दयितोपगूढा काचित्प्ररूढाङ्गरुहापि नारी । सुचारुबाष्पाङ्कुरपल्लवानां नवाम्बुसिक्ता इव भूमिरासीत् ॥ १३९.३५ ॥ शशाङ्कपादैरुपशोभितेषु प्रासादवर्येषु वराङ्गनानाम् । माधुर्यभूताभरणा महान्तः स्वना बभूवुर्मदनेषु तुल्याः ॥ १३९.३६ ॥ पानेन खिन्ना दयितातिवेलं कपोलमाजिघ्रसि किं ममेदम् । आरोह मे श्रोणिमिमां विशालां पीनोन्नतां काञ्चनमेखलाढ्याम् ॥ १३९.३७ ॥ रथ्यासु चन्द्रोदयभासितासु सुरेन्द्रमार्गेषु च विस्तृतेषु । दैत्याङ्गना यूथगता विभान्ति तारा यथा चन्द्रमसो दिवान्ते ॥ १३९.३८ ॥ अट्टाट्टहासेषु च चामरेषु प्रेङ्खासु चान्या मदलोलभावात् । संदोलयन्ते कलसम्प्रहासाः प्रोवाच काञ्ची गुणसूक्ष्मनादा ॥ १३९.३९ ॥ अम्लानमालान्वितसुन्दरीणां पर्याय एषोऽस्ति च हर्षितानाम् । श्रूयन्ति वाचः कलधौतकल्पा वापीषु चान्ये कलहंसशब्दाः ॥ १३९.४० ॥ काञ्चीकलापश्च सहाङ्गरागः प्रेङ्खासु तद्रागकृताश्च भावाः । छिन्दन्ति तासामसुराङ्गनानां प्रियालयान्मन्मथमार्गणानाम् ॥ १३९.४१ ॥ चित्राम्बरश्चोद्धृतकेशपाशः संदोल्यमानः शुशुभेऽसुरीणाम् । सुचारुवेशाभरणैरुपेतस्तारागणैर्ज्योतिरिवास चन्द्रः ॥ १३९.४२ ॥ संदोलनादुच्छ्वसितैश्छिन्नसूत्रैः काञ्चीभ्रष्टैर्मणिभिर्विप्रकीर्णैः । दोलाभूमिस्तैर्विचित्रा विभाति चन्द्रस्य पार्श्वोपगतैर्विचित्रा ॥ १३९.४३ ॥ सचन्द्रिके सोपवने प्रदोषे रुतेषु वृन्देषु च कोकिलानाम् । शरव्ययं प्राप्य पुरेऽसुराणां प्रक्षीणबाणो मदनश्चचार ॥ १३९.४४ ॥ इति तत्र पुरेऽमरद्विषाणां सपदि हि पश्चिमकौमुदी तदासीत् ।* रणशिरसि पराभविष्यतां वै भवतुरगैः कृतसंक्षया अरीणाम् ॥ १३९.४५ ॥* चन्द्रोऽथ कुन्दकुसुमाकरहारवर्णो ज्योत्स्नावितानरहितोऽभ्रसमानवर्णः । विछायतां हि समुपेत्य न भाति तद्वद्भाग्यक्षये धनपतिश्च नरो विवर्णः ॥ १३९.४६ ॥ चन्द्रप्रभामरुणसारथिनाभिभूय संतप्तकाञ्चनरथाङ्गसमानबिम्बः । स्थित्वोदयाग्रमुकुटे बहुरेव सूर्यो भात्यम्बरे तिमिरतोयवहां तरिष्यन् ॥ १३९.४७ ॥ ______________________________________________________ मत्स्यपुराण १४० *सूत उवाच उदिते तु सहस्रांशौ मेरौ भासाकरे रवौ । नदद्देवबलं कृत्स्नं युगान्त इव सागरः ॥ १४०.१ ॥ सहस्रनयनो देवस्ततः शक्रः पुरंदरः । सवित्तदः सवरुणस्त्रिपुरं प्रययौ हरः ॥ १४०.२ ॥ ते नानाविधरूपाश्च प्रमथातिप्रमाथिनः । ययुः सिंहरवैर्घोरैर्वादित्रनिनदैरपि ॥ १४०.३ ॥ ततो वादितवादित्रैश्चातपत्रैर्महाद्रुमैः । बभूव तद्बलं दिव्यं वनं प्रचलितं यथा ॥ १४०.४ ॥ तदापतन्तं सम्प्रेक्ष्य रौद्रं रुद्रबलं महत् । संक्षोभो दानवेन्द्राणां समुद्रप्रतिमो बभौ ॥ १४०.५ ॥ ते चासीन्पट्टिशाञ्शक्तीः शूलदण्डपरश्वधान् । शरासनानि वज्राणि गुरूणि मुसलानि च ॥ १४०.६ ॥ प्रगृह्य कोपरक्ताक्षाः सपक्षा इव पर्वताः । निजघ्नुः पर्वतघ्नाय घना इव तपात्यये ॥ १४०.७ ॥ सविद्युन्मालिनस्ते वै समया दितिनन्दनाः । मोदमानाः समासेदुर्देवदेवैः सुरारयः ॥ १४०.८ ॥ मर्तव्यकृतबुद्धीनां जये चानिश्चितात्मनाम् । अबलानां चमूर्ह्यासीदबलावयवा इव ॥ १४०.९ ॥ विगर्जन्त इवाम्भोदा अम्भोदसदृशत्विषः । प्रयुध्य युद्धकुशलाः परस्परकृतागसः ॥ १४०.१० ॥ धूमायन्तो ज्वलद्भिश्च आयुधैश्चन्द्रवर्चसैः । कोपाद्वा युद्धलुब्धाश्च कुट्टयन्ते परस्परम् ॥ १४०.११ ॥ वज्राहताः पतन्त्यन्ये बाणैरन्ये विदारिताः । अन्ये विदारिताश्चक्रैः पतन्ति ह्युदधेर्जले ॥ १४०.१२ ॥ छिन्नस्रग्दामहाराश्च प्रमृष्टाम्बरभूषणाः । तिमिनक्रगणे चैव पतन्ति प्रमथाः सुराः ॥ १४०.१३ ॥ गदानां मुसलानां च तोमराणां परश्वधाम् । वज्रशूलर्ष्टिपातानां पट्टिशानां च सर्वतः ॥ १४०.१४ ॥ गिरिशृङ्गोपलानां च प्रेरितानां प्रमन्युभिः । सजवानां दानवानां सधूमानां रवित्विषाम् । आयुधानां महानोघः सागरौघे पतत्यपि ॥ १४०.१५ ॥ प्रवृद्धवेगैस्तैस्तत्र सुरासुरकरेरितैः । आयुधैस्त्रस्तनक्षत्रः क्रियते संक्षयो महान् ॥ १४०.१६ ॥ क्षुद्राणां गजयोर्युद्धे यथा भवति संक्षयः । देवासुरगणैस्तद्वत्तिमिनक्रक्षयोऽभवत् ॥ १४०.१७ ॥ विद्युन्माली च वेगेन विद्युन्माली इवाम्बुदः । विद्युर्मालघनोन्नादो नन्दीश्वरमभिद्रुतः ॥ १४०.१८ ॥ स तं तमोरिवदनं प्रणदन्वदतां वरः । उवाच युधि शैलादिं दानवोऽम्बुधिनिःस्वनः ॥ १४०.१९ ॥ युद्धाकाङ्क्षी तु बलवान् विद्युन्माल्यहमागतः । यदि त्विदानीं मे जीवन्मुच्यसे नन्दिकेश्वर । न विद्युन्मालिहननं वचोभिर्युधि दानव ॥ १४०.२० ॥ तमेवंवादिनं दैत्यं नन्दीशस्तपतां वरः । उवाच प्रहरंस्तत्र वाक्यालंकारकोविदः ॥ १४०.२१ ॥ दानवा धर्मकामाणां नैषोऽवसर इत्युत । शक्तो हन्तुं किमात्मानं जातिदोषाद्विबृंहसि ॥ १४०.२२ ॥ यदि तावन्मया पूर्वं हतोऽसि पशुवद्यथा । इदानीं वा कथं नाम न हिंस्ये क्रतुदूषणम् ॥ १४०.२३ ॥ सागरं तरते दोर्भ्यां पातयेद्यो दिवाकरम् । सोऽपि मां शक्नुयान्नैव चक्षुर्भ्यां समवेक्षितुम् ॥ १४०.२४ ॥ इत्येवंवादिनं तत्र नन्दिनं तन्निभो बले । बिभेदैकेषुणा दैत्यः करेणार्क इवाम्बुदम् ॥ १४०.२५ ॥ वक्षसः स शरस्तस्य पपौ रुधिरमुत्तमम् । सूर्यस्त्वात्मप्रभावेण नद्यर्णवजलं यथा ॥ १४०.२६ ॥ स तेन सुप्रहारेण प्रथमं चातिरोपितः । हस्तेन वृक्षमुत्पाट्य चिक्षेप गजराडिव ॥ १४०.२७ ॥ वायुनुन्नः स च तरुः शीर्णपुष्पो महारवः । विद्युन्मालिशरैश्छिन्नः पपात पतगेशवत् ॥ १४०.२८ ॥ वृक्षमालोक्य तं छिन्नं दानवेन वरेषुभिः । रोषमाहारयत्तीव्रं नन्दीश्वरः सुविग्रहः ॥ १४०.२९ ॥ सोद्यम्य करमारावे रविशक्रकरप्रभम् । दुद्राव हन्तुं स क्रूरं महिषं गजराडिव ॥ १४०.३० ॥ तमापतन्तं वेगेन वेगवान्प्रसभं बलात् । विद्युन्माली शरशतैः पूरयामास नन्दिनम् ॥ १४०.३१ ॥ शरकण्टकिताङ्गो वै शैलादिः सोऽभवत्पुनः । अरेर्गृह्य रथं तस्य महतः प्रययौ जवात् ॥ १४०.३२ ॥ विलम्बिताश्वो विशिरो भ्रमितश्च रणे रथः । पपात मुनिशापेन सादित्योऽर्करथो यथा ॥ १४०.३३ ॥ अन्तरान्निर्गतश्चैव मायया स दितेः सुतः । आजघान तदा शक्त्या शैलादिं समवस्थितम् ॥ १४०.३४ ॥ तामेव तु विनिष्क्रम्य शक्तिं शोणितभूषिताम् । विद्युन्मालिनमुद्दिश्य चिक्षेप प्रमथाग्रणीर् ॥ १४०.३५ ॥ तया भिन्नतनुत्राणो विभिन्नहृदयस्त्वपि । विद्युन्माल्यपतद्भूमौ वज्राहत इवाचलः ॥ १४०.३६ ॥ विद्युन्मालिनि निहते सिद्धचारणकिंनराः । साधु साध्विति चोक्त्वा ते पूजयन्त उमापतिम् ॥ १४०.३७ ॥ नन्दिना सादिते दैत्ये विद्युन्मालौ हते मयः । ददाह प्रमथानीकं वनमग्निरिवोद्धतः ॥ १४०.३८ ॥ शूलनिर्दारितोरस्का गदाचूर्णितमस्तकाः । इषुभिर्गाढविद्धाश्च पतन्ति प्रमथार्णवे ॥ १४०.३९ ॥ अथ वज्रधरो यमोऽर्थदः स च नन्दी स च षण्मुखो गुहः ।* मयमसुरवीरसम्प्रवृत्तं विविधुः शस्त्रवरैर्हतारयः ॥ १४०.४० ॥* नागं तु नागाधिपतेः शताक्षं मयो विदार्येषुवरेण तूर्णम् । यमं च वित्ताधिपतिं च विद्ध्वा ररास मत्ताम्बुदवत्तदानीम् ॥ १४०.४१ ॥ ततः शरैः प्रमथगणैश्च दानवा दृढाहताश्चोत्तमवेगविक्रमाः । भृशानुविद्धास्त्रिपुरं प्रवेशिता यथा शिवश्चक्रधरेण संयुगे ॥ १४०.४२ ॥ ततस्तु शङ्खानकभेरिमर्दलाः ससिंहनादा दनुपुत्रभङ्गदाः । कपर्दिसैन्ये प्रबभुः समन्ततो निपात्यमाना युधि वज्रसंनिभाः ॥ १४०.४३ ॥ अथ दैत्यपुराभावे पुष्ययोगो बभूव ह । बभूव चापि संयुक्तं तद्योगेन पुरत्रयम् ॥ १४०.४४ ॥ ततो बाणं त्रिधा देवस्त्रिदैवतमयं हरः । मुमोच त्रिपुरे तूर्णं त्रिनेत्रस्त्रिपथाधिपः ॥ १४०.४५ ॥ तेन मुक्तेन बाणेन बाणपुष्पसमप्रभम् । आकाशं स्वर्णसंकाशं कृतं सूर्येण रञ्जितम् ॥ १४०.४६ ॥ मुक्त्वा त्रिदैवतमयं त्रिपुरे त्रिदशः शरम् । धिग्धिङ्मामिति चक्रन्द कष्टं कष्टमिति ब्रुवन् ॥ १४०.४७ ॥ वैधुर्यं दैवतं दृष्ट्वा शैलादिर्गजवद्गतः । किमिदं त्विति पप्रच्छ शूलपाणिं महेश्वरम् ॥ १४०.४८ ॥ ततः शशाङ्कतिलकः कपर्दी परमार्तवत् । उवाच नन्दिनं भक्तः स मयोऽद्य विनङ्क्ष्यति ॥ १४०.४९ ॥ अथ नन्दीश्वरस्तूर्णं मनोमारुतवद्बली । शरे त्रिपुरमायाति त्रिपुरं प्रविवेश सः ॥ १४०.५० ॥ स मयं प्रेक्ष्य गणपः प्राह काञ्चनसंनिभः । विनाशस्त्रिपुरस्यास्य प्राप्तो मय सुदारुणः । अनेनैव गृहेण त्वमपक्राम ब्रवीम्यहम् ॥ १४०.५१ ॥ श्रुत्वा तन्नन्दिवचनं दृढभक्तो महेश्वरे । तेनैव गृहमुख्येण त्रिपुरादपसर्पितः ॥ १४०.५२ ॥ सोऽपीषुः पत्त्रपुटवद्दग्ध्वा तन्नगरत्रयम् । त्रिधा इव हुताशश्च सोमो नारायणस्तथा ॥ १४०.५३ ॥ शरतेजःपरीतानि पुराणि द्विजपुंगवाः । दुष्पुत्रदोषाद्दह्यन्ते कुलान्यूर्ध्वं यथा तथा ॥ १४०.५४ ॥ मेरुकैलासकल्पानि मन्दराग्रनिभानि च । सकपाटगवाक्षाणि बलिभिः शोभितानि च ॥ १४०.५५ ॥ सप्रासादानि रम्याणि कूटागारोत्कटानि च । सजलानि समाख्यानि सावलोकनकानि च ॥ १४०.५६ ॥ बद्धध्वजपताकानि स्वर्णरौप्यमयानि च । गृहाणि तस्मिंस्त्रिपुरे दानवानामुपद्रवे । दह्यन्ते दहनाभानि दहनेन सहस्रशः ॥ १४०.५७ ॥ प्रासादाग्रेषु रम्येषु वनेषूपवनेषु च । वातायनगताश्चान्याश्चाकाशस्य तलेषु च ॥ १४०.५८ ॥ रमणैरुपगूढाश्च रमन्त्यो रमणैः सह । दह्यन्ते दानवेन्द्राणामग्निना ह्यपि ताः स्त्रियः ॥ १४०.५९ ॥ काचित्प्रियं परित्यज्य अशक्ता गन्तुमन्यतः । पुरः प्रियस्य पञ्चत्वं गताग्निवदने क्षयम् ॥ १४०.६० ॥ उवाच शतपत्त्राक्षी सास्राक्षीव कृताञ्जलिः । हव्यवाहन भार्याहं परस्य परतापन । धर्मसाक्षी त्रिलोकस्य न मां स्प्रष्टुमिहार्हसि ॥ १४०.६१ ॥ शायितं च मया देव शिवया च शिवप्रभ । परेण प्रैहि मुक्त्वेदं गृहं च दयितं हि मे ॥ १४०.६२ ॥ एका पुत्रमुपादाय बालकं दानवाङ्गना । हुताशनसमीपस्था इत्युवाच हुताशनम् ॥ १४०.६३ ॥ बालोऽयं दुःखलब्धश्च मया पावक पुत्रकः । नार्हस्येनमुपादातुं दयितं षण्मुखप्रिय ॥ १४०.६४ ॥ काश्चित्प्रियान्परित्यज्य पीडिता दानवाङ्गनाः । निपतन्त्यर्णवजले सिञ्जमानविभूषणाः ॥ १४०.६५ ॥ तात पुत्रेति मातेति मातुलेति च विह्वलम् । चक्रन्दुस्त्रिपुरे नार्यः पावकज्वालवेपिताः ॥ १४०.६६ ॥ यथा दहति शैलाग्निः साम्बुजं जलजाकरम् । तथा स्त्रीवक्त्रपद्मानि चादहत्त्रिपुरेऽनलः ॥ १४०.६७ ॥ तुषारराशिः कमलाकराणां यथा दहत्यम्बुजकानि शीते । तथैव सोऽग्निस्त्रिपुराङ्गनानां ददाह वक्त्रेक्षणपङ्कजानि ॥ १४०.६८ ॥ शराग्निपातात्समभिद्रुतानां तत्राङ्गनानामतिकोमलानाम् । बभूव काञ्चीगुणनूपुराणामाक्रन्दितानां च रवोऽतिमिश्रः ॥ १४०.६९ ॥ दग्धार्धचन्द्राणि सवेदिकानि विशीर्णहर्म्याणि सतोरणानि । दग्धानि दग्धानि गृहाणि तत्र पतन्ति रक्षार्थमिवार्णवौघे ॥ १४०.७० ॥ गृहैः पतद्भिर्ज्वलनावलीढैरासीत्समुद्रे सलिलं प्रतप्तम् । कुपुत्रदोषैः प्रहतानुविद्धं यथा कुलं याति धनान्वितस्य ॥ १४०.७१ ॥ गृहप्रतापैः क्वथितं समन्तात्तदार्णवे तोयमुदीर्णवेगम् । वित्रासयामास तिमीन्सनक्रांस्तिमिङ्गिलांस्तत्क्वथितांस्तथान्यान् ॥ १४०.७२ ॥ सगोपुरो मन्दरपादकल्पः प्राकारवर्यस्त्रिपुरे च सोऽथ । तैरेव सार्धं भवनैः पपात शब्दं महान्तं जनयन्समुद्रे ॥ १४०.७३ ॥ सहस्रशृङ्गैर्भवनैर्यदासीत्सहस्रशृङ्गः स इवाचलेशः । नामावशेषं त्रिपुरं प्रजज्ञे हुताशनाहारबलिप्रयुक्तम् ॥ १४०.७४ ॥ प्रदह्यमानेन पुरेण तेन जगत्सपातालदिवं प्रतप्तम् । दुःखं महत्प्राप्य जलावमग्नं यस्मिन्महान्सौधवरो मयस्य ॥ १४०.७५ ॥ तद्देवेशो वचः श्रुत्वा इन्द्रो वज्रधरस्तदा । शशाप तद्गृहं चापि मयस्यादितिनन्दनः ॥ १४०.७६ ॥ असेव्यमप्रतिष्ठं च भयेन च समावृतम् । भविष्यति मयगृहं नित्यमेव यथानलः ॥ १४०.७७ ॥ यस्य यस्य तु देशस्य भविष्यति पराभवः । द्रक्ष्यन्ति त्रिपुरं खण्डं तत्रेदं नाशगा जनाः । तदेतदद्यापि गृहं मयस्यामयवर्जितम् ॥ १४०.७८ ॥ *ऋषय ऊचुः भगवन्स मयो येन गृहेण प्रपलायितः । तस्य नो गतिमाख्याहि मयस्य चमसोद्भव ॥ १४०.७९ ॥ *सूत उवाच दृश्यते दृश्यते यत्र ध्रुवस्तत्र मयास्पदम् । देवद्विट्तु मयश्चातः स तदा खिन्नमानसः । ततश्च्युतोऽन्यलोकेऽस्मिंस्त्राणार्थं वै चकार सः ॥ १४०.८० ॥ तत्रापि देवताः सन्ति आप्तोर्यामाः सुरोत्तमाः । तत्राशक्तं ततो गन्तुं तं चैकं पुरमुत्तमम् ॥ १४०.८१ ॥ शिवः सृष्ट्वा गृहं प्रादान्मयायैव गृहार्थिने । विरराम सहस्राक्षः पूजयामास चेश्वरम् । पूज्यमानं च भूतेशं सर्वे तुष्टुवुरीश्वरम् ॥ १४०.८२ ॥ सम्पूज्यमानं त्रिदशैः समीक्ष्य गणैर्गणेशाधिपतिं तु मुख्यम् । हर्षाद्ववल्गुर्जहसुश्च देवा जग्मुर्ननर्दुस्तु विषक्तहस्ताः ॥ १४०.८३ ॥ पितामहं वन्द्य ततो महेशं प्रगृह्य चापं प्रविमृज्य भूतान् । रथाच्च संपत्य हरेषुदग्धं क्षिप्तं पुरं तन्मकरालये च ॥ १४०.८४ ॥ य इमं रुद्रविजयं पठते विजयावहम् । विजयं तस्य कृत्येषु ददाति वृषभध्वजः ॥ १४०.८५ ॥ पितॄणां वापि श्राद्धेषु य इमं श्रावयिष्यति । अनन्तं तस्य पुण्यं स्यात्सर्वयज्ञफलप्रदम् ॥ १४०.८६ ॥ इदं स्वस्त्ययनं पुण्यमिदं पुंसवनं महत् । इदं श्रुत्वा पठित्वा च यान्ति रुद्रसलोकताम् ॥ १४०.८७ ॥ ______________________________________________________ मत्स्यपुराण १४१ *ऋषय ऊचुः कथं गच्छत्यमावास्यां मासि मासि दिवं नृपः । ऐलः पुरूरवाः सूत तर्पयेत कथं पितॄन् । एतदिच्छामहे श्रोतुं प्रभावं तस्य धीमतः ॥ १४१.१ ॥ *सूत उवाच एतदेव तु पप्रच्छ मनुः स मधुसूदनम् । सूर्यपुत्राय चोवाच यथा तन्मे निबोधत ॥ १४१.२ ॥ *मत्स्य उवाच तस्य चाहं प्रवक्ष्यामि प्रभावं विस्तरेण तु । ऐलस्य दिवि संयोगं सोमेन सह धीमता ॥ १४१.३ ॥ सोमाच्चैवामृतप्राप्तिः पितॄणां तर्पणं तथा । सौम्या बर्हिषदः काव्या अग्निष्वात्तास्तथैव च ॥ १४१.४ ॥ यदा चन्द्रश्च सूर्यश्च नक्षत्राणां समागतौ । अमावास्यां निवसत एकस्मिन्नथ मण्डले ॥ १४१.५ ॥ तदा स गच्छति द्रष्टुं दिवाकरनिशाकरौ । अमावास्याममावास्यां मातामहपितामहौ ॥ १४१.६ ॥ अभिवाद्य तु तौ तत्र कालापेक्षः स तिष्ठति । प्रचस्कन्द ततः सोममर्चयित्वा परिश्रमात् ॥ १४१.७ ॥ ऐलः पुरूरवा विद्वान्मासि श्राद्धचिकीर्षया । ततः स दिवि सोमं वै ह्युपतस्थे पितॄनपि ॥ १४१.८ ॥ द्विलवं कुहूमात्रं च तावुभौ तु निधाय सः । सिनीवालीप्रमाणाल्पकुहूमात्रव्रतोदये ॥ १४१.९ ॥ कुहूमात्रं पित्रुद्देशं ज्ञात्वा कुहूमुपासाते । तमुपास्य ततः सोमं कलापेक्षी प्रतीक्षते ॥ १४१.१० ॥ स्वधामृतं तु सोमाद्वै वसंस्तेषां च तृप्तये । दशभिः पञ्चभिश्चैव स्वधामृतपरिस्रवैः । कृष्णपक्षभुजां प्रीतिर्द्रुह्यते परमांशुभिः ॥ १४१.११ ॥ सद्योऽभिक्षरता तेन सौम्येन मधुना च सः । निवापेष्वथ दत्तेषु पित्र्येण विधिना तु वै ॥ १४१.१२ ॥ स्वधामृतेन सौम्येन तर्पयामास वै पितॄन् । सौम्या बर्हिषदः काव्या अग्निष्वात्तास्तथैव च ॥ १४१.१३ ॥ ऋतुरग्निः स्मृतो विप्रैरृतुं संवत्सरं विदुः । जज्ञिरे ऋतवस्तस्मादृतुभ्यो ह्यार्तवा अभवन् ॥ १४१.१४ ॥ पितर ऋतवोऽर्धमासा विज्ञेया ऋतुसूनवः । पितामहास्तु ऋतवो ह्यमावास्याब्दसूनवः । प्रपितामहाः स्मृता देवाः पञ्चाब्दा ब्रह्मणः सुताः ॥ १४१.१५ ॥ सौम्या बर्हिषदः काव्या अग्निष्वात्ता इति त्रिधा । गृहस्था ये तु यज्वानो हविर्यज्ञार्तवाश्च ये । स्मृता बर्हिषदस्ते वै पुराणे निश्चयं गताः ॥ १४१.१६ ॥ गृहमेधिनश्च यज्वानो ह्यग्निष्वात्तार्तवाः स्मृताः । अष्टकापतयः काव्याः पञ्चाब्दांस्तु निबोधत ॥ १४१.१७ ॥ तेषु संवत्सरो ह्यग्निः सूर्यस्तु परिवत्सरः । सोमस्त्विड्वत्सरश्चैव वायुश्चैवानुवत्सरः ॥ १४१.१८ ॥ रुद्रस्तु वत्सरस्तेषां पञ्चाब्दा ये युगात्मकाः । कालेनाधिष्ठितस्तेषु चन्द्रमाः स्रवते सुधाम् ॥ १४१.१९ ॥ एते स्मृता देवकृत्याः सोमपाश्चोष्मपाश्च ये । तांस्तेन तर्पयामास यावदासीत्पुरूरवाः ॥ १४१.२० ॥ यस्मात्प्रसूयते सोमो मासि मासि विशेषतः । ततः स्वधाभृतं तद्वै पितॄणां सोमपायिनाम् । एतत्तदमृतं सोममवाप मधु चैव हि ॥ १४१.२१ ॥ ततः पीतसुधं सोमं सूर्योऽसावेकरश्मिना । आप्यायते सुषुम्नेन सोमं तु सोमपायिनम् ॥ १४१.२२ ॥ निःशेषा वै कलाः पूर्वा युगपद्व्यापयन् पुरा । सुषुम्नाप्यायमानस्य भागं भागमहःक्रमात् ॥ १४१.२३ ॥ कलाः क्षीयन्ति कृष्णास्ताः शुक्ला ह्याप्याययन्ति च । एवं सा सूर्यवीर्येण चन्द्रस्याप्यायिता तनुः ॥ १४१.२४ ॥ पौर्णमास्यां स दृश्येत शुक्लः सम्पूर्णमण्डलः । एवमाप्यायितः सोमः शुक्लपक्षेऽप्यहःक्रमात् । देवैः पीतसुधं सोमं पुरा पश्चात्पिबेद्रविः ॥ १४१.२५ ॥ पीतं पञ्चदशाहं तु रश्मिनैकेन भास्करः । आप्याययत्सुषुम्नेन भागं भागमहःक्रमात् ॥ १४१.२६ ॥ सुषुम्नाप्यायमानस्य शुक्ला वर्धन्ति वै कलाः । तस्माद्ध्रसन्ति वै कृष्णाः शुक्ला ह्याप्याययन्ति च ॥ १४१.२७ ॥ एवमाप्यायते सोमः क्षयिते च पुनः पुनः । समृद्धिरेवं सोमस्य पक्षयोः शुक्लकृष्णयोः ॥ १४१.२८ ॥ इत्येष पितृमान्सोमः स्मृतस्तद्वसुधात्मकः । कान्तः पञ्चदशैः सार्धं सुधाभृतपरिस्रवैः ॥ १४१.२९ ॥ अतः परं प्रवक्ष्यामि पर्वणां संधयश्च याः । यथा ग्रथ्नन्ति पर्वाणि आवृत्तादिक्षुवेणुवत् ॥ १४१.३० ॥ तथाब्दमासाः पक्षाश्च शुक्लाः कृष्णास्तु वै स्मृताः । पौर्णमास्यास्तु यो भेदो ग्रन्थयः संधयस्तथा ॥ १४१.३१ ॥ अर्धमासस्य पर्वाणि द्वितीयाप्रभृतीनि च । अग्न्याधानक्रिया यस्मान्नीयन्ते पर्वसंधिषु ॥ १४१.३२ ॥ तस्मात्तु पर्वणो ह्यादौ प्रतिपद्यादिसंधिषु । सायाह्ने अनुमत्याश्च द्वौ लवौ काल उच्यते । लवौ द्वावेव राकायाः कालो ज्ञेयोऽपराह्णिकः ॥ १४१.३३ ॥ प्रकृतिः कृष्णपक्षस्य कालेऽतीतेऽपराह्णिके । सायाह्ने प्रतिपद्येष स कालः पौर्णमासिकः ॥ १४१.३४ ॥ व्यतीपाते स्थिते सूर्ये लेखादूर्ध्वं युगान्तरम् । युगान्तरोदिते चैव चन्द्रे लेखोपरि स्थिते ॥ १४१.३५ ॥ पूर्णमासव्यतीपातौ यदा पश्येत्परस्परम् । तौ तु वै प्रतिपद्यावत्तस्मिन्काले व्यवस्थितौ ॥ १४१.३६ ॥ तत्कालं सूर्यमुद्दिश्य दृष्ट्वा संख्यातुमर्हसि । स चैव सत्क्रियाकालः षष्ठः कालोऽभिधीयते ॥ १४१.३७ ॥ पूर्णेन्दुः पूर्णपक्षे तु रात्रिसंधिषु पूर्णिमा । तस्मादाप्यायते नक्तं पौर्णमास्यां निशाकरः ॥ १४१.३८ ॥ यदान्योन्यवतीं पाते पूर्णिमां प्रेक्षते दिवा । चन्द्रादित्योऽपराह्णे तु पूर्णत्वात्पूर्णिमा स्मृता ॥ १४१.३९ ॥ यस्मात्तामनुमन्यन्ते पितरो दैवतैः सह । तस्मादनुमतिर्नाम पूर्णत्वात्पूर्णिमा स्मृता ॥ १४१.४० ॥ अत्यर्थं राजते यस्मात्पौर्णमास्यां निशाकरः । रञ्जनाच्चैव चन्द्रस्य राकेति कवयो विदुः ॥ १४१.४१ ॥ अमा वसेतामृक्षे तु यदा चन्द्रदिवाकरौ । एका पञ्चदशी रात्रिरमावास्या ततः स्मृता ॥ १४१.४२ ॥ उद्दिश्य ताममावास्यां यदा दर्शं समागतौ । अन्योन्यं चन्द्रसूर्यौ तु दर्शनाद्दर्श उच्यते ॥ १४१.४३ ॥ द्वौ द्वौ लवावमावास्यां स कालः पर्वसंधिषु । द्व्यक्षरः कुहूमात्रश्च पर्वकालस्तु स स्मृतः ॥ १४१.४४ ॥ दृष्टचन्द्रा त्वमावास्या मध्याह्नप्रभृतीह वै । दिवा तदूर्ध्वं रात्र्यां तु सूर्ये प्राप्ते तु चन्द्रमाः । सूर्येण सहसोद्गच्छेत्ततः प्रातस्तनात्तु वै ॥ १४१.४५ ॥ समागम्य लवौ द्वौ तु मध्याह्नान्निपतन्रविः । प्रतिपच्छुक्लपक्षस्य चन्द्रमाः सूर्यमण्डलात् ॥ १४१.४६ ॥ निर्मुच्यमानयोर्मध्ये तयोर्मण्डलयोस्तु वै । स तदान्वाहुतेः कालो दर्शस्य च वषट्क्रियाः । एतदृतुमुखं ज्ञेयममावास्यां तु पार्वणम् ॥ १४१.४७ ॥ दिवा पर्व त्वमावास्यां क्षीणेन्दौ धवले तु वै । तस्माद्दिवा त्वमावास्यां गृह्यते यो दिवाकरः ॥ १४१.४८ ॥ कुहेति कोकिलेनोक्तं यस्मात्कालात्समाप्यते । तत्कालसंज्ञिता ह्येषा अमावास्या कुहूः स्मृता ॥ १४१.४९ ॥ सिनीवालीप्रमाणं तु क्षीणशेषो निशाकरः । अमावास्या विशत्यर्कं सिनीवाली तदा स्मृता ॥ १४१.५० ॥ अनुमतिश्च राका च सिनीवाली कुहूस्तथा । एतासां द्विलवः कालः कुहूमात्रा कुहूः स्मृता ॥ १४१.५१ ॥ इत्येष पर्वसंधीनां कालो वै द्विलवः स्मृतः । पर्वणां तुल्यकालस्तु तुल्याहुतिवषट्क्रियाः ॥ १४१.५२ ॥ चन्द्रभूर्यव्यतीपाते समे वै पूर्णिमे उभे । प्रतिपत्प्रतिपन्नस्तु पर्वकालो द्विमात्रकः ॥ १४१.५३ ॥ कालः कुहूसिनीवाल्योः समुद्धो द्विलवः स्मृतः । अर्कनिर्मण्डले सोमे पर्वकालः कलाः स्मृताः ॥ १४१.५४ ॥ यस्मादापूर्यते सोमः पञ्चदश्यां तु पूर्णिमा । दशभिः पञ्चभिश्चैव कलाभिर्दिवसक्रमात् ॥ १४१.५५ ॥ तस्मात्पञ्चदशे सोमे कला वै नास्ति षोडशी । तस्मात्सोमस्य विप्रोक्तः पञ्चदश्यां मया क्षयः ॥ १४१.५६ ॥ इत्येते पितरो देवाः सोमपाः सोमवर्धनाः । आर्तवा ऋतवोऽथाब्दा देवास्तान्भावयन्ति हि ॥ १४१.५७ ॥ अतः परं प्रवक्ष्यामि पितॄञ्छ्राद्धभुजस्तु ये । तेषां गतिं च सत्तत्वं प्राप्तिं श्राद्धस्य चैव हि ॥ १४१.५८ ॥ न मृतानां गतिः शक्या ज्ञातुं वा पुनरागतिः । तपसा हि प्रसिद्धेन किं पुनर्मांसचक्षुषा ॥ १४१.५९ ॥ अत्र देवान्पितॄंश्चैते पितरो लौकिकाः स्मृताः । तेषां ते धर्मसामर्थ्यात्स्मृताः सायुज्यगा द्विजैः ॥ १४१.६० ॥ यदि वाश्रमधर्मेण प्रज्ञानेषु व्यवस्थितान् । अन्ये चात्र प्रसीदन्ति श्रद्धायुक्तेषु कर्मसु ॥ १४१.६१ ॥ ब्रह्मचर्येण तपसा यज्ञेन प्रजया भुवि । श्राद्धेन विद्यया चैव चान्नदानेन सप्तधा ॥ १४१.६२ ॥ कर्मस्वेतेषु ये सक्ता वर्तन्त्या देहपातनात् । देवैस्ते पितृभिः सार्धमूष्मपैः सोमपैस्तथा । स्वर्गता दिवि मोदन्ते पितृमन्त उपासते ॥ १४१.६३ ॥ प्रजावतां प्रसिद्धैषा उक्ता श्राद्धकृतां च वै । तेषां निवापे दत्तं हि तत्कुलीनैस्तु बान्धवैः ॥ १४१.६४ ॥ मासश्राद्धं हि भुञ्जानास्तेऽत्येते सोमलौकिकाः । एते मनुष्याः पितरो मासश्राद्धभुजस्तु वै ॥ १४१.६५ ॥ तेभ्योऽपरे तु ये त्वन्ये संकीर्णाः कर्मयोनिषु । भ्रष्टाश्चाश्रमधर्मेषु स्वधास्वाहाविवर्जिताः ॥ १४१.६६ ॥ भिन्ने देहे दुरापन्नाः प्रेतभूता यमक्षये । स्वकर्माण्यनुशोचन्तो यातनास्थानमागताः ॥ १४१.६७ ॥ दीर्घाश्चैवातिशुष्काश्च श्मश्रुलाश्च विवाससः । क्षुत्पिपासाभिभूतास्ते विद्रवन्ति त्वितस्ततः ॥ १४१.६८ ॥ सरित्सरस्तडागानि पुष्करिण्यश्च सर्वशः । परान्नान्यभिकाङ्क्षन्तः काल्यमाना इतस्ततः ॥ १४१.६९ ॥ स्थानेषु पात्यमाना ये यातनास्थेषु तेषु वै । शाल्मल्यां वैतरण्यां च कुम्भीपाकेद्धवालुके ॥ १४१.७० ॥ असिपत्त्रवने चैव पात्यमानाः स्वकर्मभिः । तत्रस्थानां तु तेषां वै दुःखितानामशायिनाम् ॥ १४१.७१ ॥ तेषां लोकान्तरस्थानां बान्धवैर्नामगोत्रतः । भूमावसव्यं दर्भेषु दत्ताः पिण्डास्त्रयस्तु वै । प्राप्तांस्तु तर्पयन्त्येव प्रेतस्थानेष्वधिष्ठितान् ॥ १४१.७२ ॥ अप्राप्ता यातनास्थानं प्रभ्रष्टा ये च पञ्चधा । पश्चाद्ये स्थावरान्ते वै भूतानीके स्वकर्मभिः ॥ १४१.७३ ॥ नानारूपासु जातीनां तिर्यग्योनिषु मूर्तिषु । यदाहारा भवन्त्येते तासु तास्विह योनिषु ॥ १४१.७४ ॥ तस्मिंस्तस्मिंस्तदाहारे श्राद्धं दत्तं तु प्रीणयेत् । काले न्यायागतं पात्रे विधिना प्रतिपादितम् । प्राप्नुवन्त्यन्नमादत्तं यत्र यत्रावतिष्ठते ॥ १४१.७५ ॥ यथा गोषु प्रनष्टासु वत्सो विन्दति मातरम् । तथा श्राद्धेषु दृष्टान्तो मन्त्रः प्रापयते तु तम् ॥ १४१.७६ ॥ एवं ह्यविकलं श्राद्धं श्रद्धादत्तं मनुर्ब्रवीत् । सनत्कुमारः प्रोवाच पश्यन्दिव्येन चक्षुषा ॥ १४१.७७ ॥ गतागतज्ञः प्रेतानां प्राप्तिं श्राद्धस्य चैव हि । कृष्णपक्षस्त्वहस्तेषां शुक्लः स्वप्नाय शर्वरी ॥ १४१.७८ ॥ इत्येते पितरो देवा देवाश्च पितरश्च वै । अन्योन्यपितरो ह्येते देवाश्च पितरो दिवि ॥ १४१.७९ ॥ एते तु पितरो देवा मनुष्याः पितरश्च ये । पिता पितामहश्चैव तथैव प्रपितामहः ॥ १४१.८० ॥ इत्येष विषयः प्रोक्तः पितॄणां सोमपायिनाम् । एतत्पितृमहत्त्वं हि पुराणे निश्चयं गतम् ॥ १४१.८१ ॥ इत्येष सोमसूर्याभ्यामैलस्य च समागमः । अवाप्तिं श्रद्धया चैव पितॄणां चैव तर्पणम् ॥ १४१.८२ ॥ पर्वणां चैव यः कालो यातनास्थानमेव च । समासात्कीर्तितस्तुभ्यं सर्ग एष सनातनः ॥ १४१.८३ ॥ वैरूप्यं येन तत्सर्वं कथितं त्वेकदेशिकम् । अशक्यं परिसंख्यातुं श्रद्धेयं भूतिमिच्छता ॥ १४१.८४ ॥ स्वायम्भुवस्य देवस्य एष सर्गो मयेरितः । विस्तरेणानुपूर्व्याच्च भूयः किं कथयामि वः ॥ १४१.८५ ॥ ______________________________________________________ मत्स्यपुराण १४२ *ऋषय ऊचुः चतुर्युगाणि यानि स्युः पूर्वे स्वायम्भुवेऽन्तरे । एषां निसर्गसंख्यां च श्रोतुमिच्छाम विस्तरात् ॥ १४२.१ ॥ *सूत उवाच पृथिवीद्युप्रसङ्गेन मया तु प्रागुदाहृतम् । एतच्चतुर्युगं त्वेवं तद्वक्ष्यामि निबोधत । तत्प्रमाणं प्रसंख्याय विस्तराच्चैव कृत्स्नशः ॥ १४२.२ ॥ लौकिकेन प्रमाणेन निष्पाद्याब्दं तु मानुषम् । तेनापीह प्रसंख्याय वक्ष्यामि तु चतुर्युगम् । निमेषतुल्यकालानि मात्रालब्धेक्षराणि च ॥ १४२.३ ॥ काष्ठा निमेषा दश पञ्च चैव त्रिंशच्च काष्ठां गणयेत्कलां तु । त्रिंशत्कलाश्चैव भवेन्मुहूर्तस्तैस्त्रिंशता रात्र्यहनी समेते ॥ १४२.४ ॥ अहोरात्रे विभजते सूर्यो मानुषलौकिके । रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः ॥ १४२.५ ॥ पित्र्ये रात्र्यहनी मासः प्रविभागस्तयोः पुनः । कृष्णपक्षस्त्वहस्तेषां शुक्लः स्वप्नाय शर्वरी ॥ १४२.६ ॥ त्रिंशद्ये मानुषा मासाः पित्र्यो मासः स उच्यते । शतानि त्रीणि मासानां षष्ट्या चाभ्यधिकानि तु । पित्र्यः संवत्सरो ह्येष मानुषेण विभाव्यते ॥ १४२.७ ॥ मानुषेणैव मानेन वर्षाणां यच्छतं भवेत् । पितॄणां तानि वर्षाणि संख्यातानि तु त्रीणि वै । दश च द्व्यधिका मासाः पितृसंख्येह कीर्तिता ॥ १४२.८ ॥ लौकिकेन प्रमाणेन अब्दो यो मानुषः स्मृतः । एतद्दिव्यमहोरात्रमित्येषा वैदिकी श्रुतिः ॥ १४२.९ ॥ दिव्ये रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः । अहस्तु यदुदक्चैव रात्रिर्या दक्षिणायनम् । एते रात्र्यहनी दिव्ये प्रसंख्याते तयोः पुनः ॥ १४२.१० ॥ त्रिंशद्यानि तु वर्षाणि दिव्यो मासस्तु स स्मृतः । मानुषाणां शतं यच्च दिव्या मासास्त्रयस्तु वै । तथैव सह संख्यातो दिव्य एष विधिः स्मृतः ॥ १४२.११ ॥ त्रीणि वर्षशतान्येवं षष्टिर्वर्षास्तथैव च । दिव्यः संवत्सरो ह्येष मानुषेण प्रकीर्तितः ॥ १४२.१२ ॥ त्रीणि वर्षसहस्राणि मानुषेण प्रमाणतः । त्रिंशदन्यानि वर्षाणि स्मृतः सप्तर्षिवत्सरः ॥ १४२.१३ ॥ नव यानि सहस्राणि वर्षाणां मानुषाणि च । वर्षाणि नवतिश्चैव ध्रुवसंवत्सरः स्मृतः ॥ १४२.१४ ॥ षट्त्रिंशत्तु सहस्राणि वर्षाणां मानुषाणि च । षष्टिश्चैव सहस्राणि संख्यातानि तु संख्यया । दिव्यं वर्षसहस्रं तु प्राहुः संख्याविदो जनाः ॥ १४२.१५ ॥ इत्येतदृषिभिर्गीतं दिव्यया संख्यया द्विजाः । दिव्येनैव प्रमाणेन युगसंख्या प्रकल्पिता ॥ १४२.१६ ॥ चत्वारि भारते वर्षे युगानि ऋषयोऽब्रुवन् । कृतं त्रेता द्वापरं च कलिश्चैवं चतुर्युगम् ॥ १४२.१७ ॥ पूर्वं कृतयुगं नाम ततस्त्रेताभिधीयते । द्वापरं च कलिश्चैव युगानि परिकल्पयेत् ॥ १४२.१८ ॥ चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम् । तस्य तावच्छती संध्या संध्यांशश्च तथाविधः ॥ १४२.१९ ॥ इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु । एकपादे निवर्तन्ते सहस्राणि शतानि च ॥ १४२.२० ॥ त्रेता त्रीणि सहस्राणि युगसंख्याविदो विदुः । तस्यापि त्रिशती संध्या संध्यांशः संध्यया समः ॥ १४२.२१ ॥ द्वे सहस्रे द्वापरं तु संध्यांशौ तु चतुःशतम् । सहस्रमेकं वर्षाणां कलिरेव प्रकीर्तितः । द्वे शते च तथान्ये च संध्यासंध्यांशयोः स्मृते ॥ १४२.२२ ॥ एषा द्वादशसाहस्री युगसंख्या तु संज्ञिता । कृतं त्रेता द्वापरं च कलिश्चेति चतुष्टयम् ॥ १४२.२३ ॥ तत्र संवत्सराः सृष्टा मानुषास्तान्निबोधत । नियुतानि दश द्वे च पञ्च चैवात्र संख्यया । अष्टाविंशत्सहस्राणि कृतं युगमथोच्यते ॥ १४२.२४ ॥ प्रयुतं तु तथा पूर्णं द्वे चान्ये नियुते पुनः । षण्णवतिसहस्राणि संख्यातानि च संख्यया । त्रेतायुगस्य संख्यैषा मानुषेण तु संज्ञिता ॥ १४२.२५ ॥ अष्टौ शतसहस्राणि वर्षाणां मानुषाणि तु । चतुःषष्टिसहस्राणि वर्षाणां द्वापरं युगम् ॥ १४२.२६ ॥ चत्वारि नियुतानि स्युर्वर्षाणि तु कलिर्युगम् । द्वात्रिंशच्च तथान्यानि सहस्राणि तु संख्यया । एतत्कलियुगं प्रोक्तं मानुषेण प्रमाणतः ॥ १४२.२७ ॥ एषा चतुर्युगावस्था मानुषेण प्रकीर्तिता । चतुर्युगस्य संख्याता संध्या संध्यांशकैः सह ॥ १४२.२८ ॥ एषा चतुर्युगाख्या तु साधिका त्वेकसप्ततिः । कृतत्रेतादियुक्ता सा मनोरन्तरमुच्यते ॥ १४२.२९ ॥ मन्वन्तरस्य संख्या तु मानुषेण निबोधत । एकत्रिंशत्तथा कोट्यः संख्याताः संख्यया द्विजैः ॥ १४२.३० ॥ तथा शतसहस्राणि दश चान्यानि भागशः । सहस्राणि तु द्वात्रिंशच्छतान्यष्टाधिकानि च ॥ १४२.३१ ॥ अशीतिश्चैव वर्षाणि मासाश्चैवाधिकास्तु षट् । मन्वन्तरस्य संख्यैषा मानुषेण प्रकीर्तिता ॥ १४२.३२ ॥ दिव्येन च प्रमाणेन प्रवक्ष्याम्यन्तरं मनोः । सहस्राणां शतान्याहुः स च वै परिसंख्यया ॥ १४२.३३ ॥ चत्वारिंशत्सहस्राणि मनोरन्तरमुच्यते । मन्वन्तरस्य कालस्तु युगैः सह प्रकीर्तितः ॥ १४२.३४ ॥ एषा चतुर्युगाख्या तु साधिका ह्येकसप्ततिः । क्रमेण परिवृत्ता सा मनोरन्तरमुच्यते ॥ १४२.३५ ॥ एतच्चतुर्दशगुणं कल्पमाहुस्तु तद्विदः । ततस्तु प्रलयः कृत्स्नः स तु संप्रलयो महान् ॥ १४२.३६ ॥ कल्पप्रमाणो द्विगुणो यथा भवति संख्यया । चतुर्युगाख्या व्याख्याता कृतं त्रेतायुगं च वै ॥ १४२.३७ ॥ त्रेतासृष्टं प्रवक्ष्यामि द्वापरं कलिमेव च । युगपत्समवेतौ द्वौ द्विधा वक्तुं न शक्यते ॥ १४२.३८ ॥ क्रमागतं मयाप्येतत्तुभ्यं नोक्तं युगद्वयम् । ऋषिवंशप्रसङ्गेन व्याकुलत्वात्तथा क्रमात् ॥ १४२.३९ ॥ नोक्तं त्रेतायुगे शेषं तद्वक्ष्यामि निबोधत । अथ त्रेतायुगस्यादौ मनुः सप्तर्षयश्च ये । श्रौतस्मार्तं ब्रुवन्धर्मं ब्रह्मणा तु प्रचोदिताः ॥ १४२.४० ॥ दाराग्निहोत्रसम्बन्धमृग्यजुःसामसंहिताः । इत्यादिबहुलं श्रौतं धर्मं सप्तर्षयोऽब्रुवन् ॥ १४२.४१ ॥ परम्परागतं धर्मं स्मार्तं त्वाचारलक्षणम् । वर्णाश्रमाचारयुतं मनुः स्वायम्भुवोऽब्रवीत् ॥ १४२.४२ ॥ सत्येन ब्रह्मचर्येण श्रुतेन तपसा तथा । तेषां सुतप्ततपसामार्षेणानुक्रमेण ह ॥ १४२.४३ ॥ सप्तर्षीणां मनोश्चैव आदौ त्रेतायुगे ततः । अबुद्धिपूर्वकं तेन सकृत्पूर्वकमेव च ॥ १४२.४४ ॥ अभिवृत्तास्तु ते मन्त्रा दर्शनैस्तारकादिभिः । आदिकल्पे तु देवानां प्रादुर्भूतास्तु ते स्वयम् ॥ १४२.४५ ॥ प्रमाणेष्वथ सिद्धानामन्येषां च प्रवर्तते । मन्त्रयोगो व्यतीतेषु कल्पेष्वथ सहस्रशः । ते मन्त्रा वै पुनस्तेषां प्रतिमायामुपस्थिताः ॥ १४२.४६ ॥ ऋचो यजूंषि सामानि मन्त्राश्चाथर्वणास्तु ये । सप्तर्षिभिश्च ये प्रोक्ताः स्मार्तं तु मनुरब्रवीत् ॥ १४२.४७ ॥ त्रेतादौ संहता वेदाः केवलं धर्मसेतवः । संरोधादायुषश्चैव व्यस्यन्ते द्वापरे च ते । ऋषयस्तपसा वेदानहोरात्रमधीयते ॥ १४२.४८ ॥ अनादिनिधना दिव्याः पूर्वं प्रोक्ताः स्वयम्भुवा । स्वधर्मसंवृताः साङ्गा यथाधर्मं युगे युगे । विक्रियन्ते स्वधर्मं तु वेदवादाद्यथायुगम् ॥ १४२.४९ ॥ आरम्भयज्ञः क्षत्रस्य हविर्यज्ञा विशः स्मृताः । परिचारयज्ञाः शूद्राश्च जपयज्ञाश्च ब्राह्मणाः ॥ १४२.५० ॥ ततः समुदिता वर्णास्त्रेतायां धर्मशालिनः । क्रियावन्तः प्रजावन्तः समृद्धाः सुखिनश्च वै ॥ १४२.५१ ॥ ब्राह्मणैश्च विधीयन्ते क्षत्रियाः क्षत्रियैर्विशः । वैश्याञ्छूद्रा अनुवर्तन्ते परस्परमनुग्रहात् ॥ १४२.५२ ॥ शुभाः प्रकृतयस्तेषां धर्मा वर्णाश्रमाश्रयाः । संकल्पितेन मनसा वाचा वा हस्तकर्मणा । त्रेतायुगे ह्यविकले कर्मारम्भः प्रसिध्यति ॥ १४२.५३ ॥ आयूरूपं बलं मेधा आरोग्यं धर्मशीलता । सर्वसाधारणं ह्येतदासीत्त्रेतायुगे तु वै ॥ १४२.५४ ॥ वर्णाश्रमव्यवस्थानमेषां ब्रह्मा तथाकरोत् । संहिताश्च तथा मन्त्रा आरोग्यं धर्मशीलता ॥ १४२.५५ ॥ संहिताश्च तथा मन्त्रा ऋषिभिर्ब्रह्मणः सुतैः । यज्ञः प्रवर्तितश्चैव तदा ह्येव तु दैवतैः ॥ १४२.५६ ॥ यामैः शुक्लैर्जयैश्चैव सर्वसाधनसंभृतैः । विश्वसृड्भिस्तथा सार्धं देवेन्द्रेण महौजसा । स्वायम्भुवेऽन्तरे देवैस्ते यज्ञाः प्राक्प्रवर्तिताः ॥ १४२.५७ ॥ सत्यं जपस्तपो दानं पूर्वधर्मो य उच्यते । यदा धर्मस्य ह्रसते शाखाधर्मस्य वर्धते ॥ १४२.५८ ॥ जायन्ते च तदा शूरा आयुष्मन्तो महाबलाः । न्यस्तदण्डा महायोगा यज्वानो ब्रह्मवादिनः ॥ १४२.५९ ॥ पद्मपत्त्रायताक्षाश्च पृथुवक्त्राः सुसंहताः । सिंहोरस्का महासत्त्वा मत्तमातंगगामिनः ॥ १४२.६० ॥ महाधनुर्धराश्चैव त्रेतायां चक्रवर्तिनः । सर्वलक्षणपूर्णास्ते न्यग्रोधपरिमण्डलाः ॥ १४२.६१ ॥ न्यग्रोधौ तु स्मृतौ बाहू व्यामो न्यग्रोध उच्यते । व्यामेन सूच्छ्रयो यस्य अत ऊर्ध्वं तु देहिनः । समुच्छ्रयः परीणाहो न्यग्रोधपरिमण्डलः ॥ १४२.६२ ॥ चक्रं रथो मणिर्भार्या निधिरश्वो गजस्तथा । प्रोक्तानि सप्त रत्नानि पूर्वं स्वायम्भुवेऽन्तरे ॥ १४२.६३ ॥ विष्णोरंशेन जायन्ते पृथिव्यां चक्रवर्तिनः । मन्वन्तरेषु सर्वेषु ह्यतीतानागतेषु वै ॥ १४२.६४ ॥ भूतभव्यानि यानीह वर्तमानानि यानि च । त्रेतायुगानि तेष्वत्र जायन्ते चक्रवर्तिनः ॥ १४२.६५ ॥ भद्राणीमानि तेषां च विभाव्यन्ते महीक्षिताम् । अत्यद्भुतानि चत्वारि बलं धर्मं सुखं धनम् ॥ १४२.६६ ॥ अन्योन्यस्याविरोधेन प्राप्यन्ते नृपतेः समम् । अर्थो धर्मश्च कामश्च यशो विजय एव च ॥ १४२.६७ ॥ ऐश्वर्येणाणिमाद्येन प्रभुशक्तिबलान्विताः । श्रुतेन तपसा चैव ऋषींस्तेऽभिभवन्ति हि ॥ १४२.६८ ॥ बलेनाभिभवन्त्येते तेन दानवमानवान् । लक्षणैश्चैव जायन्ते शरीरस्थैरमानुषैः ॥ १४२.६९ ॥ केशाः स्थिता ललाटेन जिह्वा च परिमार्जनी । श्यामप्रभाश्चतुर्दंष्ट्राः सुवंशाश्चोर्ध्वरेतसः ॥ १४२.७० ॥ आजानुबाहवश्चैव तालहस्तौ वृषाकृती । परिणाहप्रमाणाभ्यां सिंहस्कन्धाश्च मेधिनः ॥ १४२.७१ ॥ पादयोश्चक्रमत्स्यौ तु शङ्खपद्मे च हस्तयोः । पञ्चाशीतिसहस्राणि जीवन्ति ह्यजरामयाः ॥ १४२.७२ ॥ असङ्गा गतयस्तेषां चतस्रश्चक्रवर्तिनाम् । अन्तरिक्षे समुद्रेषु पाताले पर्वतेषु च ॥ १४२.७३ ॥ इज्या दानं तपः सत्यं त्रेताधर्मास्तु वै स्मृताः । तदा प्रवर्तते धर्मो वर्णाश्रमविभागशः । मर्यादास्थापनार्थं च दण्डनीतिः प्रवर्तते ॥ १४२.७४ ॥ हृष्टपुष्टा जनाः सर्वे अरोगाः पूर्णमानसाः । एको वेदश्चतुष्पादस्त्रेतायां तु विधिः स्मृतः । त्रीणि वर्षसहस्राणि जीवन्ते तत्र ताः प्रजाः ॥ १४२.७५ ॥ पुत्रपौत्रसमाकीर्णा म्रियन्ते च क्रमेण ताः । एष त्रेतायुगे भावस्त्रेतासंख्यां निबोधत ॥ १४२.७६ ॥ त्रेतायुगस्वभावेन संध्यापादेन वर्तते । संध्यापादः स्वभावाच्च योऽंशः पादेन तिष्ठति ॥ १४२.७७ ॥ ______________________________________________________ मत्स्यपुराण १४३ *ऋषय ऊचुः कथं त्रेतायुगमुखे यज्ञस्यासीत्प्रवर्तनम् । पूर्वे स्वायम्भुवे सर्गे यथावत्प्रब्रवीहि नः ॥ १४३.१ ॥ अन्तर्हितायां संध्यायां सार्धं कृतयुगेन हि । कालाख्यायां प्रवृत्तायां प्राप्ते त्रेतायुगे तदा ॥ १४३.२ ॥ ओषधीषु च जातासु प्रवृत्ते वृष्टिसर्जने । प्रतिष्ठितायां वार्त्तायां ग्रामेषु च पुरेषु च ॥ १४३.३ ॥ वर्णाश्रमप्रतिष्ठानं कृत्वा मन्त्रैश्च तैः पुनः । संहितास्तु सुसंहृत्य कथं यज्ञः प्रवर्तितः । एतच्छ्रुत्वाब्रवीत्सूतः श्रूयतां तत्प्रचोदितम् ॥ १४३.४ ॥ *सूत उवाच मन्त्रान्वै योजयित्वा तु इहामुत्र च कर्मसु । तथा विश्वभुगिन्द्रस्तु यज्ञं प्रावर्तयत्प्रभुः ॥ १४३.५ ॥ दैवतैः सह संहृत्य सर्वसाधनसंवृतः । तस्याश्वमेधे वितते समाजग्मुर्महर्षयः ॥ १४३.६ ॥ यज्ञकर्मण्यवर्तन्त कर्मण्यग्रे तथर्त्विजः । हूयमाने देवहोत्रे अग्नौ बहुविधं हविः ॥ १४३.७ ॥ सम्प्रतीतेषु देवेषु सामगेषु च सुस्वरम् । परिक्रान्तेषु लघुषु अध्वर्युपुरुषेषु च ॥ १४३.८ ॥ आलब्धेषु च मध्ये तु तथा पशुगणेषु वै । आहूतेषु च देवेषु यज्ञभुक्षु ततस्तदा ॥ १४३.९ ॥ य इन्द्रियात्मका देवा यज्ञभागभुजस्तु ते । तान्यजन्ति तदा देवाः कल्यादिषु भवन्ति ये ॥ १४३.१० ॥ अध्वर्युप्रैषकाले तु व्युत्थिता ऋषयस्तथा । महर्षयश्च तान्दृष्ट्वा दीनान्पशुगणांस्तदा । विश्वभुजं ते त्वपृच्छन् कथं यज्ञविधिस्तव ॥ १४३.११ ॥ अधर्मो बलवानेष हिंसा धर्मेप्सया तव । नवः पशुविधिस्त्विष्टस्तव यज्ञे सुरोत्तम ॥ १४३.१२ ॥ अधर्मो धर्मघाताय प्रारब्धः पशुभिस्त्वया । नायं धर्मो ह्यधर्मोऽयं न हिंसा धर्म उच्यते । आगमेन भवान्धर्मं प्रकरोतु यदीच्छति ॥ १४३.१३ ॥ विधिदृष्टेन यज्ञेन धर्मेणाव्यसनेन तु । यज्ञबीजैः सुरश्रेष्ठ त्रिवर्गपरिमोषितैः ॥ १४३.१४ ॥ एष यज्ञो महानिन्द्रः स्वयम्भुविहितः पुरा । एवं विश्वभुगिन्द्रस्तु ऋषिभिस्तत्त्वदर्शिभिः । उक्तो न प्रतिजग्राह मानमोहसमन्वितः ॥ १४३.१५ ॥ तेषां विवादः सुमहाञ्जज्ञे इन्द्रमहर्षीणाम् । जङ्गमैः स्थावरैः केन यष्टव्यमिति चोच्यते ॥ १४३.१६ ॥ ते तु खिन्ना विवादेन शक्त्या युक्ता महर्षयः । संधाय सममिन्द्रेण पप्रच्छुः खचरं वसुम् ॥ १४३.१७ ॥ *ऋषय ऊचुः महाप्राज्ञ त्वया दृष्टः कथं यज्ञविधिर्नृप । औत्तानपादे प्रब्रूहि संशयं नस्तुद प्रभो ॥ १४३.१८ ॥ *सूत उवाच श्रुत्वा वाक्यं वसुस्तेषामविचार्य बलाबलम् । वेदशास्त्रमनुस्मृत्य यज्ञतत्त्वमुवाच ह ॥ १४३.१९ ॥ यथोपनीतैर्यष्टव्यमिति होवाच पार्थिवः । यष्टव्यं पशुभिर्मेध्यैरथ मूलफलैरपि ॥ १४३.२० ॥ हिंसा स्वभावो यज्ञस्य इति मे दर्शनागमः । तथैते भाविता मन्त्रा हिंसालिङ्गा महर्षिभिः ॥ १४३.२१ ॥ दीर्घेण तपसा युक्तैस्तारकादिनिदर्शिभिः । तत्प्रमाणं मया चोक्तं तस्माच्छमितुमर्हथ ॥ १४३.२२ ॥ यदि प्रमाणं स्वान्येव मन्त्रवाक्याणि वो द्विजाः । तथा प्रवर्ततां यज्ञो ह्यन्यथा मानृतं वचः ॥ १४३.२३ ॥ एवं कृतोत्तरास्ते तु युज्यात्मानं ततो धिया । अवश्यम्भाविनं दृष्ट्वा तमधो ह्यशपंस्तदा ॥ १४३.२४ ॥ इत्युक्तमात्रो नृपतिः प्रविवेश रसातलम् । ऊर्ध्वचारी नृपो भूत्वा रसातलचरोऽभवत् ॥ १४३.२५ ॥ वसुधातलचारी तु तेन वाक्येन सोऽभवत् । धर्माणां संशयछेत्ता राजा वसुरधोगतः ॥ १४३.२६ ॥ तस्मान्न वाच्यो ह्येकेन बहुज्ञेनापि संशयः । बहुधारस्य धर्मस्य सूक्ष्मा दुरनुगा गतिः ॥ १४३.२७ ॥ तस्मान्न निश्चयाद्वक्तुं धर्मः शक्यो हि केनचित् । देवानृषीनुपादाय स्वायम्भुवमृते मनुम् ॥ १४३.२८ ॥ तस्मान्न हिंसा यज्ञे स्याद्यदुक्तमृषिभिः पुरा । ऋषिकोटिसहस्राणि स्वैस्तपोभिर्दिवं गताः ॥ १४३.२९ ॥ तस्मान्न हिंसायज्ञं च प्रशंसन्ति महर्षयः । उञ्छं मूलं फलं शाकमुदपात्रं तपोधनाः ॥ १४३.३० ॥ एतद्दत्त्वा विभवतः स्वर्गलोके प्रतिष्ठिताः । अद्रोहश्चाप्यलोभश्च दमो भूतदया शमः ॥ १४३.३१ ॥ ब्रह्मचर्यं तपः शौचमनुक्रोशं क्षमा धृतिः । सनातनस्य धर्मस्य मूलमेव दुरासदम् ॥ १४३.३२ ॥ द्रव्यमन्त्रात्मको यज्ञस्तपश्च समतात्मकम् । यज्ञैश्च देवानाप्नोति वैराजं तपसा पुनः ॥ १४३.३३ ॥ ब्रह्मणः कर्मसंन्यासाद्वैराग्यात्प्रकृतेर्लयम् । ज्ञानात्प्राप्नोति कैवल्यं पञ्चैता गतयः स्मृताः ॥ १४३.३४ ॥ एवं विवादः सुमहान् यज्ञस्यासीत्प्रवर्तने । ऋषीणां देवतानां च पूर्वे स्वायम्भुवेऽन्तरे ॥ १४३.३५ ॥ ततस्ते ऋषयो दृष्ट्वा हृतं धर्मं बलेन तु । वसोर्वाक्यमनादृत्य जग्मुस्ते वै यथागतम् ॥ १४३.३६ ॥ गतेषु ऋषिसंघेषु देवा यज्ञमवाप्नुयुः । श्रूयन्ते हि तपःसिद्धा ब्रह्मक्षत्रादयो नृपाः ॥ १४३.३७ ॥ प्रियव्रतोत्तानपादौ ध्रुवो मेधातिथिर्वसुः । सुधामा विरजाश्चैव शङ्खपाद्राजसस्तथा ॥ १४३.३८ ॥ प्राचीनबर्हिः पर्जन्यो हविर्धानादयो नृपाः । एते चान्ये च बहवस्ते तपोभिर्दिवं गताः ॥ १४३.३९ ॥ राजर्षयो महात्मानो येषां कीर्तिः प्रतिष्ठिता । तस्माद्विशिष्यते यज्ञात्तपः सर्वैस्तु कारणैः ॥ १४३.४० ॥ ब्रह्मणा तपसा सृष्टं जगद्विश्वमिदं पुरा । तस्मान्नाप्नोति तद्यज्ञात्तपोमूलमिदं स्मृतम् ॥ १४३.४१ ॥ यज्ञप्रवर्तनं ह्येवमासीत्स्वायम्भुवेऽन्तरे । तदाप्रभृति यज्ञोऽयं युगैः सार्धं प्रवर्तितः ॥ १४३.४२ ॥ ______________________________________________________ मत्स्यपुराण १४४ *सूत उवाच अत ऊर्ध्वं प्रवक्ष्यामि द्वापरस्य विधिं पुनः । तत्र त्रेतायुगे क्षीणे द्वापरं प्रतिपद्यते ॥ १४४.१ ॥ द्वापरादौ प्रजानां तु सिद्धिस्त्रेतायुगे तु या । परिवृत्ते युगे तस्मिंस्ततः सा वै प्रणश्यति ॥ १४४.२ ॥ ततः प्रवर्तिते तासां प्रजानां द्वापरे पुनः । लोभो धृतिर्वणिग्युद्धं तत्त्वानामविनिश्चयः ॥ १४४.३ ॥ प्रध्वंसश्चैव वर्णानां कर्मणां तु विपर्ययः । यात्रा वधः परो दण्डो मानो दर्पोऽक्षमा बलम् ॥ १४४.४ ॥ तथा रजस्तमो भूयः प्रवृत्ते द्वापरे पुनः । आद्ये कृते नाधर्मोऽस्ति स त्रेतायां प्रवर्तितः ॥ १४४.५ ॥ द्वापरे व्याकुलो भूत्वा प्रणश्यति कलौ पुनः । वर्णानां द्वापरे धर्माः संकीर्यन्ते तथाश्रमाः ॥ १४४.६ ॥ द्वैधमुत्पद्यते चैव युगे तस्मिञ्श्रुतिस्मृतौ । द्विधा श्रुतिः स्मृतिश्चैव निश्चयो नाधिगम्यते ॥ १४४.७ ॥ अनिश्चयावगमनाद्धर्मतत्त्वं न विद्यते । धर्मतत्त्वे ह्यविज्ञाते मतिभेदस्तु जायते ॥ १४४.८ ॥ परस्परं विभिन्नास्ते दृष्टीनां विभ्रमेण तु । अतो दृष्टिविभिन्नैस्तैः कृतमत्याकुलं त्विदम् ॥ १४४.९ ॥ एको वेदश्चतुष्पादः संहृत्य तु पुनः पुनः । संक्षेपादायुषश्चैव व्यस्यते द्वापरेष्विह ॥ १४४.१० ॥ वेदश्चैकश्चतुर्धा तु व्यस्यते द्वापरादिषु । ऋषिपुत्रैः पुनर्वेदा भिद्यन्ते दृष्टिविभ्रमैः ॥ १४४.११ ॥ ते तु ब्राह्मणविन्यासैः स्वरक्रमविपर्ययैः । संहृता ऋग्यजुःसाम्नां संहितास्तैर्महर्षिभिः ॥ १४४.१२ ॥ सामान्याद्वैकृताच्चैव दृष्टिभिन्नैः क्वचित्क्वचित् । ब्राह्मणं कल्पसूत्राणि भाष्यविद्यास्तथैव च ॥ १४४.१३ ॥ अन्ये तु प्रस्थितास्तान्वै केचित्तान् प्रत्यवस्थिताः । द्वापरेषु प्रवर्तन्ते भिन्नार्थैस्तैः स्वदर्शनैः ॥ १४४.१४ ॥ एकमाध्वर्यवं पूर्वमासीद्द्वैधं तु तत्पुनः । सामान्यविपरीतार्थैः कृतं शास्त्राकुलं त्विदम् ॥ १४४.१५ ॥ आध्वर्यवं च प्रस्थानैर्बहुधा व्याकुलीकृतम् । तथैवाथर्वणां साम्नां विकल्पैः स्वस्य संक्षयैः ॥ १४४.१६ ॥ व्याकुलो द्वापरेष्वर्थः क्रियते भिन्नदर्शनैः । द्वापरे संनिवृत्ते ते वेदा नश्यन्ति वै कलौ ॥ १४४.१७ ॥ तेषां विपर्ययोत्पन्ना भवन्ति द्वापरे पुनः । अदृष्टिर्मरणं चैव तथैव व्याध्युपद्रवाः ॥ १४४.१८ ॥ वाङ्मनःकर्मभिर्दुःखैर्निर्वेदो जायते ततः । निर्वेदाज्जायते तेषां दुःखमोक्षविचारणा ॥ १४४.१९ ॥ विचारणायां वैराग्यं वैराग्याद्दोषदर्शनम् । दोषाणां दर्शनाच्चैव ज्ञानोत्पत्तिस्तु जायते ॥ १४४.२० ॥ तेषां मेधाविनां पूर्वं मर्त्ये स्वायम्भुवेऽन्तरे । उत्पस्यन्तीह शास्त्राणां द्वापरे परिपन्थिनः ॥ १४४.२१ ॥ आयुर्वेदविकल्पाश्च अङ्गानां ज्योतिषस्य च । अर्थशास्त्रविकल्पाश्च हेतुशास्त्रविकल्पनम् ॥ १४४.२२ ॥ प्रक्रिया कल्पसूत्राणां भाष्यविद्याविकल्पनम् । स्मृतिशास्त्रप्रभेदाश्च प्रस्थानानि पृथक्पृथक् ॥ १४४.२३ ॥ द्वापरेष्वभिवर्तन्ते मतिभेदास्तथा नृणाम् । मनसा कर्मणा वाचा कृच्छ्राद्वार्त्ता प्रसिध्यति ॥ १४४.२४ ॥ द्वापरे सर्वभूतानां कालः क्लेशपरः स्मृतः । लोभोऽधृतिर्वणिग्युद्धं तत्त्वानामविनिश्चयः ॥ १४४.२५ ॥ वेदशास्त्रप्रणयनं धर्माणां संकरस्तथा । वर्णाश्रमपरिध्वंसः कामद्वेषौ तथैव च ॥ १४४.२६ ॥ पूर्णे वर्षसहस्रे द्वे परमायुस्तदा नृणाम् । निःशेषे द्वापरे तस्मिंस्तस्य संध्या तु पादतः ॥ १४४.२७ ॥ गुणहीनास्तु तिष्ठन्ति धर्मस्य द्वापरस्य तु । तथैव संध्या पादेन अंशस्तस्यां प्रतिष्ठितः ॥ १४४.२८ ॥ द्वापरस्य तु पर्याये पुष्यस्य च निबोधत । द्वापरस्यांशशेषे तु प्रतिपत्तिः कलेरथ ॥ १४४.२९ ॥ हिंसा स्तेयानृतं माया दम्भश्चैव तपस्विनाम् । एते स्वभावाः पुष्यस्य साधयन्ति च ताः प्रजाः ॥ १४४.३० ॥ एष धर्मः स्मृतः कृत्स्नो धर्मश्च परिहीयते । मनसा कर्मणा वाचा वार्त्ताः सिध्यन्ति वा न वा ॥ १४४.३१ ॥ कलिः प्रमारको रोगः सततं चापि क्षुद्भयम् । अनावृष्टिभयं चैव देशानां च विपर्ययः ॥ १४४.३२ ॥ न प्रमाणे स्थितिर्ह्यस्ति पुष्ये घोरे युगे कलौ । गर्भस्थो म्रियते कश्चिद्यौवनस्थस्तथा परः ॥ १४४.३३ ॥ स्थाविर्ये मध्यकौमारे म्रियन्ते च कलौ प्रजाः । अल्पतेजोबलाः पापा महाकोपा ह्यधार्मिकाः ॥ १४४.३४ ॥ अनृतव्रतलुब्धाश्च पुष्ये चैव प्रजाः स्थिताः । दुरिष्टैर्दुरधीतैश्च दुराचारैर्दुरागमैः ॥ १४४.३५ ॥ विप्राणां कर्मदोषैस्तैः प्रजानां जायते भयम् । हिंसा मानस्तथेर्ष्या च क्रोधोऽसूयाक्षमाधृतिः ॥ १४४.३६ ॥ पुष्ये भवन्ति जन्तूनां लोभो मोहश्च सर्वशः । संक्षोभो जायतेऽत्यर्थं कलिमासाद्य वै युगम् ॥ १४४.३७ ॥ नाधीयते तथा वेदान्न यजन्ते द्विजातयः । उत्सीदन्ति तथा चैव वैश्यैः सार्धं तु क्षत्रियाः ॥ १४४.३८ ॥ शूद्राणां मन्त्रयोनिस्तु सम्बन्धो ब्राह्मणैः सह । भवतीह कलौ तस्मिञ्छयनासनभोजनैः ॥ १४४.३९ ॥ राजानः शूद्रभूयिष्ठाः पाषण्डानां प्रवृत्तयः । काषायिणश्च निष्कच्छास्तथा कापालिनश्च ह ॥ १४४.४० ॥ ये चान्ये देवव्रतिनस्तथा ये धर्मदूषकाः । दिव्यवृत्ताश्च ये केचिद्वृत्त्यर्थं श्रुतिलिङ्गिनः ॥ १४४.४१ ॥ एवंविधाश्च ये केचिद्भवन्तीह कलौ युगे । अधीयते तदा वेदाञ्छूद्रा धर्मार्थकोविदाः ॥ १४४.४२ ॥ यजन्ते ह्यश्वमेधैस्तु राजानः शूद्रयोनयः । स्त्रीबालगोवधं कृत्वा हत्वा चैव परस्परम् ॥ १४४.४३ ॥ उपहत्य तथान्योन्यं साधयन्ति तदा प्रजाः । दुःखप्रचुरताल्पायुर्देशोत्सादः सरोगता ॥ १४४.४४ ॥ अधर्माभिनिवेशित्वं तमोवृत्तं कलौ स्मृतम् । भ्रूणहत्या प्रजानां न तथा ह्येवं प्रवर्तते ॥ १४४.४५ ॥ तस्मादायुर्बलं रूपं प्रहीयन्ते कलौ युगे । दुःखेनाभिप्लुतानां च परमायुः शतं नृणाम् ॥ १४४.४६ ॥ भूत्वा च न भवन्तीह वेदाः कलियुगेऽखिलाः । उत्सीदन्ते तथा यज्ञाः केवलं धर्महेतवः ॥ १४४.४७ ॥ एषा कलियुगावस्था संध्यांशौ तु निबोधत । युगे युगे तु हीयन्ते त्रींस्त्रीन्पादांश्च सिद्धयः ॥ १४४.४८ ॥ युगस्वभावाः संध्यासु अवतिष्ठन्ति पादतः । संध्यास्वभावाः स्वांशेषु पादेनैवावतस्थिरे ॥ १४४.४९ ॥ एवं संध्यांशके काले सम्प्राप्ते तु युगान्तिके । तेषामधर्मिणां शास्ता भृगूणां च कुले स्थितः ॥ १४४.५० ॥ गोत्रेण वै चन्द्रमसो नाम्ना प्रमतिरुच्यते । कलिसंध्यांशभागेषु मनोः स्वायम्भुवेऽन्तरे ॥ १४४.५१ ॥ समास्त्रिंशत्तु सम्पूर्णाः पर्यटन्वै वसुंधराम् । अश्वकर्मा स वै सेनां हस्त्यश्वरथसंकुलाम् ॥ १४४.५२ ॥ प्रगृहीतायुधैर्विप्रैः शतशोऽथ सहस्रशः । स तदा तैः परिवृतो म्लेच्छान्सर्वान्निजघ्निवान् ॥ १४४.५३ ॥ स हत्वा सर्वशश्चैव राजानः शूद्रयोनयः । पाषण्डान्स सदा सर्वान्निःशेषानकरोत्प्रभुः ॥ १४४.५४ ॥ अधार्मिकाश्च ये केचित्तान्सर्वान्हन्ति सर्वशः । उदीच्यान्मध्यदेशांश्च पार्वतीयांस्तथैव च ॥ १४४.५५ ॥ प्राच्यान्प्रतीच्यांश्च तथा विन्ध्यपृष्ठापरान्तिकान् । तथैव दाक्षिणात्यांश्च द्रविडान्सिंहलैः सह ॥ १४४.५६ ॥ गान्धारान्पारदांश्चैव पह्लवान्यवनाञ्छकान् । तुषारान्बर्बराञ्छ्वेतान् हलिकान्दरदान्खसान् ॥ १४४.५७ ॥ लम्पकानान्ध्रकांश्चापि चोरजातींस्तथैव च । प्रवृत्तचक्रो बलवाञ्छूद्राणामन्तकृद्बभौ ॥ १४४.५८ ॥ विद्राव्य सर्वभूतानि चचार वसुधामिमाम् । मानवस्य तु वंशे तु नृदेवस्येह जज्ञिवान् ॥ १४४.५९ ॥ पूर्वजन्मनि विष्णुश्च प्रमतिर्नाम वीर्यवान् । सुतः स वै चन्द्रमसः पूर्वे कलियुगे प्रभुः ॥ १४४.६० ॥ द्वात्रिंशेऽभ्युदिते वर्षे प्रक्रान्तो विंशतिं समाः । निजघ्ने सर्वभूतानि मानुषाण्येव सर्वशः ॥ १४४.६१ ॥ कृत्वा बीजावशिष्टां तां पृथ्वीं क्रूरेण कर्मणा । परस्परनिमित्तेन कालेनाकस्मिकेन च ॥ १४४.६२ ॥ संस्थिता सहसा या तु सेना प्रमतिना सह । गङ्गायमुनयोर्मध्ये सिद्धिं प्राप्ता समाधिना ॥ १४४.६३ ॥ ततस्तेषु प्रनष्टेषु संध्यांशे कूरकर्मसु । उत्साद्य पार्थिवान्सर्वांस्तेष्वतीतेषु वै तदा ॥ १४४.६४ ॥ ततः संध्यांशके काले सम्प्राप्ते च युगान्तिके । स्थितास्वल्पावशिष्टासु प्रजास्विह क्वचित्क्वचित् ॥ १४४.६५ ॥ स्वाप्रदानास्तदा ते वै लोभाविष्टास्तु वृन्दशः । उपहिंसन्ति चान्योन्यं प्रलुम्पन्ति परस्परम् ॥ १४४.६६ ॥ अराजके युगांशे तु संक्षये समुपस्थिते । प्रजास्ता वै तदा सर्वाः परस्परभयार्दिताः ॥ १४४.६७ ॥ व्याकुलास्ताः परावृत्तास्त्यक्त्वा देवं गृहाणि तु । स्वान्स्वान्प्राणानवेक्षन्तो निष्कारुण्यात्सुदुःखिताः ॥ १४४.६८ ॥ नष्टे श्रौतस्मृते धर्मे कामक्रोधवशानुगाः । निर्मर्यादा निरानन्दा निःस्नेहा निरपत्रपाः ॥ १४४.६९ ॥ नष्टे धर्मे प्रतिहता ह्रस्वकाः पञ्चविंशकाः । हित्वा दारांश्च पुत्रांश्च विषादव्याकुलप्रजाः ॥ १४४.७० ॥ अनावृष्टिहतास्ते वै वार्त्तामुत्सृज्य दुःखिताः । आश्रयन्ति स्म प्रत्यन्तान् हित्वा जनपदान्स्वकान् ॥ १४४.७१ ॥ सरितः सागरानूपान् सेवन्ते पर्वतानपि । चीरकृष्णाजिनधरा निष्क्रिया निष्परिग्रहाः ॥ १४४.७२ ॥ वर्णाश्रमपरिभ्रष्टाः संकरं घोरमास्थिताः । एवं कष्टमनुप्राप्ता ह्यल्पशेषाः प्रजास्ततः ॥ १४४.७३ ॥ जन्तवश्च क्षुधाविष्टा दुःखान्निर्वेदमागमन् । संश्रयन्ति च देशांस्तांश्चक्रवत्परिवर्तनाः ॥ १४४.७४ ॥ ततः प्रजास्तु ताः सर्वा मांसाहारा भवन्ति हि । मृगान्वराहान्वृषभान् ये चान्ये वनचारिणः ॥ १४४.७५ ॥ भक्ष्यांश्चैवाप्यभक्ष्यांश्च सर्वांस्तान्भक्षयन्ति ताः । समुद्रं संश्रिता यास्तु नदीश्चैव प्रजास्तु ताः ॥ १४४.७६ ॥ तेऽपि मत्स्यान्हरन्तीह आहारार्थं च सर्वशः । अभक्ष्याहारदोषेण एकवर्णगताः प्रजाः ॥ १४४.७७ ॥ यथा कृतयुगे पूर्वमेकवर्णमभूत्किल । तथा कलियुगस्यान्ते शूद्रीभूताः प्रजास्तथा ॥ १४४.७८ ॥ एवं वर्षशतं पूर्णं दिव्यं तेषां न्यवर्तत । षट्त्रिंशच्च सहस्राणि मानुषाणि तु तानि वै ॥ १४४.७९ ॥ अथ दीर्घेण कालेन पक्षिणः पशवस्तथा । मत्स्याश्चैव हताः सर्वैः क्षुधाविष्टैश्च सर्वशः ॥ १४४.८० ॥ निःशेषेष्वथ सर्वेषु मत्स्यपक्षिपशुष्वथ । संध्यांशे प्रतिपन्ने तु निःशेषास्तु तदा कृताः ॥ १४४.८१ ॥ ततः प्रजास्तु सम्भूय कन्दमूलमथोऽखनन् । फलमूलाशनाः सर्वे अनिकेतास्तथैव च ॥ १४४.८२ ॥ वल्कलान्यथ वासांसि अधःशय्याश्च सर्वशः । परिग्रहो न तेष्वस्ति धनशुद्धिमवाप्नुयुः ॥ १४४.८३ ॥ एवं क्षयं गमिष्यन्ति ह्यल्पशिष्टाः प्रजास्तदा । तासामल्पावशिष्टानामाहारादृद्धिरिष्यते ॥ १४४.८४ ॥ एवं वर्षशतं दिव्यं संध्यांशस्तस्य वर्तते । ततो वर्षशतस्यान्ते अल्पशिष्टाः स्त्रियः सुताः ॥ १४४.८५ ॥ मिथुनानि तु ताः सर्वा ह्यन्योन्यं सम्प्रजज्ञिरे । ततस्तास्तु म्रियन्ते वै पूर्वोत्पन्नाः प्रजास्तु याः ॥ १४४.८६ ॥ जातमात्रेष्वपत्येषु ततः कृतमवर्तत । यथा स्वर्गे शरीराणि नरके चैव देहिनाम् ॥ १४४.८७ ॥ उपभोगसमर्थानि एवं कृतयुगादिषु । एवं कृतस्य संतानः कलेश्चैव क्षयस्तथा ॥ १४४.८८ ॥ विचारणात्तु निर्वेदः साम्यावस्थात्मना तथा । ततश्चैवात्मसम्बोधः सम्बोधाद्धर्मशीलता ॥ १४४.८९ ॥ कलिशिष्टेषु तेष्वेवं जायन्ते पूर्ववत्प्रजाः । भाविनोऽर्थस्य च बलात्ततः कृतमवर्तत ॥ १४४.९० ॥ अतीतानागतानि स्युर्यानि मन्वन्तरेष्विह । एते युगस्वभावास्तु मयोक्तास्तु समासतः ॥ १४४.९१ ॥ विस्तरेणानुपूर्व्याच्च नमस्कृत्य स्वयम्भुवे । प्रवृत्ते तु ततस्तस्मिन् पुनः कृतयुगे तु वै ॥ १४४.९२ ॥ उत्पन्नाः कलिशिष्टेषु प्रजाः कार्तयुगास्तथा । तिष्ठन्ति चेह ये सिद्धा अदृष्टा विहरन्ति च ॥ १४४.९३ ॥ सह सप्तर्षिभिर्ये तु तत्र ये च व्यवस्थिताः । ब्रह्मक्षत्रविशः शूद्रा बीजार्थे य इह स्मृताः । कार्तयुगभवैः सार्धं निर्विशेषास्तदाभवन् ॥ १४४.९४ ॥ तेषां सप्तर्षयो धर्मं कथयन्तीह तेषु च ॥ १४४.९५ ॥ वर्णाश्रमाचारयुतं श्रौतस्मार्तविधानतः । एवं तेषु क्रियावत्सु प्रवर्तन्तीह वै कृते ॥ १४४.९६ ॥ श्रौतस्मार्तस्थितानां तु धर्मे सप्तर्षिदर्शिते । ते तु धर्मव्यवस्थार्थं तिष्ठन्तीह कृते युगे ॥ १४४.९७ ॥ मन्वन्तराधिकारेषु तिष्ठन्ति ऋषयस्तु ते । यथा दावप्रदग्धेषु तृणेष्वेवापरं तृणम् ॥ १४४.९८ ॥ वनानां प्रथमं वृष्ट्या तेषां मूलेषु सम्भवः । एवं युगाद्युगानां वै संतानस्तु परस्परम् ॥ १४४.९९ ॥ प्रवर्तते ह्यविच्छेदाद्यावन्मन्वन्तरक्षयः । सुखमायुर्बलं रूपं धर्मार्थौ काम एव च ॥ १४४.१०० ॥ युगेष्वेतानि हीयन्ते त्रयः पादाः क्रमेण तु । इत्येष प्रतिसंधिर्वः कीर्तितस्तु मया द्विजाः ॥ १४४.१०१ ॥ चतुर्युगाणां सर्वेषामेतदेव प्रसाधनम् । एषां चतुर्युगाणां तु गणिता ह्येकसप्ततिः ॥ १४४.१०२ ॥ क्रमेण परिवृत्तास्ता मनोरन्तरमुच्यते । युगाख्यासु तु सर्वासु भवतीह यदा च यत् ॥ १४४.१०३ ॥ तदेव च तदन्यासु पुनस्तद्वै यथाक्रमम् । सर्गे सर्गे यथा भेदा ह्युत्पद्यन्ते तथैव च ॥ १४४.१०४ ॥ चतुर्दशसु तावन्तो ज्ञेया मन्वन्तरेष्विह । आसुरी यातुधानी च पैशाची यक्षराक्षसी ॥ १४४.१०५ ॥ युगे युगे तदा काले प्रजा जायन्ति ताः शृणु । यथाकल्पं युगैः सार्धं भवन्ते तुल्यलक्षणाः । इत्येतल्लक्षणं प्रोक्तं युगानां वै यथाक्रमम् ॥ १४४.१०६ ॥ मन्वन्तराणां परिवर्तनानि चिरप्रवृत्तानि युगस्वभावात् । क्षणं न संतिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्तमानः ॥ १४४.१०७ ॥ एते युगस्वभावा वः परिक्रान्ता यथाक्रमम् । मन्वन्तराणि यान्यस्मिन् कल्पे वक्ष्यामि तानि च ॥ १४४.१०८ ॥ ______________________________________________________ मत्स्यपुराण १४५ *सूत उवाच मन्वन्तराणि यानि स्युः कल्पे कल्पे चतुर्दश । व्यतीतानागतानि स्युर्यानि मन्वन्तरेष्विह ॥ १४५.१ ॥ विस्तरेणानुपूर्व्याच्च स्थितिं वक्ष्ये युगे युगे । तस्मिन्युगे च सम्भूतिर्यासां यावच्च जीवितम् ॥ १४५.२ ॥ युगमात्रं तु जीवन्ति न्यूनं तत्स्याद्द्वयेन च । चतुर्दशसु तावन्तो ज्ञेया मन्वन्तरेष्विह ॥ १४५.३ ॥ मनुष्याणां पशूनां च पक्षिणां स्थावरैः सह । तेषामायुरुपक्रान्तं युगधर्मेषु सर्वशः ॥ १४५.४ ॥ तथैवायुः परिक्रान्तं युगधर्मेषु सर्वशः । अस्थितिं च कलौ दृष्ट्वा भूतानामायुषश्च वै ॥ १४५.५ ॥ परमायुः शतं त्वेतन्मानुषाणां कलौ स्मृतम् । देवासुरमनुष्याश्च यक्षगन्धर्वराक्षसाः ॥ १४५.६ ॥ परिणाहोच्छ्रये तुल्या जायन्ते ह कृते युगे । षण्णवत्यङ्गुलोत्सेधो ह्यष्टानां देवयोनिनाम् ॥ १४५.७ ॥ नवाङ्गुलप्रमाणेन निष्पन्नेन तथाष्टकम् । एतत्स्वाभाविकं तेषां प्रमाणमधिकुर्वताम् ॥ १४५.८ ॥ मनुष्या वर्तमानास्तु युगसंध्यांशकेष्विह । देवासुरप्रमाणं तु सप्तसप्ताङ्गुलं क्रमात् ॥ १४५.९ ॥ चतुरशीतिकैश्चैव कलिजैरङ्गुलैः स्मृतम् । आ पादतलमस्तको नवतालो भवेत्तु यः ॥ १४५.१० ॥ संहृत्याजानुबाहुश्च दैवतैरभिपूज्यते । गवां च हस्तिनां चैव महिषस्थावरात्मनाम् ॥ १४५.११ ॥ क्रमेणैतेन विज्ञेये ह्रासवृद्धी युगे युगे । षट्सप्तत्यङ्गुलोत्सेधः पशुराककुदो भवेत् ॥ १४५.१२ ॥ अङ्गुलानामष्टशतमुत्सेधो हस्तिनां स्मृतः । अङ्गुलानां सहस्रं तु द्विचत्वारिंशदङ्गुलम् ॥ १४५.१३ ॥ शतार्धमङ्गुलानां तु ह्युत्सेधः शाखिनां परः । मानुषस्य शरीरस्य संनिवेशस्तु यादृशः ॥ १४५.१४ ॥ तल्लक्षणं तु देवानां दृश्यतेऽन्वयदर्शनात् । बुद्ध्यातिशयसंयुक्तो देवानां काय उच्यते ॥ १४५.१५ ॥ तथा नातिशयश्चैव मानुषः काय उच्यते । इत्येव हि परिक्रान्ता भावा ये दिव्यमानुषाः ॥ १४५.१६ ॥ पशूनां पक्षिणां चैव स्थावराणां च सर्वशः । गावोऽजाश्वाश्च विज्ञेया हस्तिनः पक्षिणो मृगाः ॥ १४५.१७ ॥ उपयुक्ताः क्रियास्वेते यज्ञियास्त्विह सर्वशः । यथाक्रमोपभोगाश्च देवानां पशुमूर्तयः ॥ १४५.१८ ॥ तेषां रूपानुरूपैश्च प्रमाणैः स्थिरजङ्गमाः । मनोज्ञैस्तत्र तैर्भोगैः सुखिनो ह्युपपेदिरे ॥ १४५.१९ ॥ अथ शिष्टान्प्रवक्ष्यामि साधूनथ ततश्च वै । ब्राह्मणाः श्रुतिशब्दाश्च देवानां पशुमूर्तयः । संयुज्य ब्रह्मणा ह्यन्तस्तेन सन्तः प्रचक्षते ॥ १४५.२० ॥ सामान्येषु च धर्मेषु तथा वैशिषिकेषु च । ब्रह्मक्षत्रविशो युक्ताः श्रौतस्मार्तेन कर्मणा ॥ १४५.२१ ॥ वर्णाश्रमेषु युक्तस्य सुखोदर्कस्य स्वर्गतौ । श्रौतस्मार्तो हि यो धर्मो ज्ञानधर्मः स उच्यते ॥ १४५.२२ ॥ दिव्यानां साधनात्साधुर्ब्रह्मचारी गुरोर्हितः । कारणात्साधनाच्चैव गृहस्थः साधुरुच्यते ॥ १४५.२३ ॥ तपसश्च तथारण्ये साधुर्वैखानसः स्मृतः । यतमानो यतिः साधुः स्मृतो योगस्य साधनात् ॥ १४५.२४ ॥ धर्मो धर्मगतिः प्रोक्तः शब्दो ह्येष क्रियात्मकः । कुशलाकुशलौ चैव धर्माधर्मौ ब्रवीत्प्रभुः ॥ १४५.२५ ॥ अथ देवाश्च पितर ऋषयश्चैव मानुषाः । अयं धर्मो ह्ययं नेति ब्रुवते मौनमूर्तिना ॥ १४५.२६ ॥ धर्मेति धारणे धातुर्महत्त्वे चैव उच्यते । आधारणे महत्त्वे वा धर्मः स तु निरुच्यते ॥ १४५.२७ ॥ तत्रेष्टप्रापको धर्म आचार्यैरुपदिश्यते । अधर्मश्चानिष्टफल आचार्यैर्नोपदिश्यते ॥ १४५.२८ ॥ वृद्धाश्चालोलुपाश्चैव आत्मवन्तो ह्यदाम्भिकाः । सम्यग्विनीता मृदवस्तानाचार्यान्प्रचक्षते ॥ १४५.२९ ॥ धर्मज्ञैर्विहितो धर्मः श्रौतस्मार्तो द्विजातिभिः । दाराग्निहोत्रसम्बन्धमिज्या श्रौतस्य लक्षणम् ॥ १४५.३० ॥ स्मार्तो वर्णाश्रमाचारो यमैश्च नियमैर्युतः । पूर्वेभ्यो वेदयित्वेह श्रौतं सप्तर्षयोऽब्रुवन् ॥ १४५.३१ ॥ ऋचो यजूंषि सामानि ब्रह्मणोऽङ्गानि वै श्रुतिः । मन्वन्तरस्यातीतस्य स्मृत्वा तन्मनुरब्रवीत् ॥ १४५.३२ ॥ तस्मात्स्मार्तः सूतो धर्मो वर्णाश्रमविभागशः । एवं वै द्विविधो धर्मः शिष्टाचारः स उच्यते ॥ १४५.३३ ॥ शिषेर्धातोश्च निष्ठान्ताच्छिष्टशब्दं प्रचक्षते । मन्वन्तरेषु ये शिष्टा इह तिष्ठन्ति धार्मिकाः ॥ १४५.३४ ॥ मनुः सप्तर्षयश्चैव लोकसंतानकारिणः । तिष्ठन्तीह च धर्मार्थं ताञ्छिष्टान्सम्प्रचक्षते ॥ १४५.३५ ॥ तैः शिष्टैश्चलितो धर्मः स्थाप्यते वै युगे युगे । त्रयी वार्त्ता दण्डनीतिः प्रजावर्णाश्रमेप्सया ॥ १४५.३६ ॥ शिष्टैराचर्यते यस्मात्पुनश्चैव मनुक्षये । पूर्वैःपूर्वैर्मतत्वाच्च शिष्टाचारः स शाश्वतः ॥ १४५.३७ ॥ दानं सत्यं तपो लोको विद्येज्या पूजनं दमः । अष्टौ तानि चरित्राणि शिष्टाचारस्य लक्षणम् ॥ १४५.३८ ॥ शिष्टा यस्माच्चरन्त्येनं मनुः सप्तर्षयश्च ह । मन्वन्तरेषु सर्वेषु शिष्टाचारस्ततः स्मृतः ॥ १४५.३९ ॥ विज्ञेयः श्रवणाच्छ्रौतः स्मरणात्स्मार्त उच्यते । इज्यावेदात्मकः श्रौतः स्मार्तो वर्णाश्रमात्मकः । प्रत्यङ्गानि प्रवक्ष्यामि धर्मस्येह तु लक्षणम् ॥ १४५.४० ॥ दृष्टानुभूतमर्थं च यः पृष्टो न विगूहते । यथाभूतप्रवादस्तु इत्येतत्सत्यलक्षणम् ॥ १४५.४१ ॥ ब्रह्मचर्यं तपो मौनं निराहारत्वमेव च । इत्येतत्तपसो रूपं सुघोरं तु दुरासदम् ॥ १४५.४२ ॥ पशूनां द्रव्यहविषामृक्सामयजुषां तथा । ऋत्विजां दक्षिणायाश्च संयोगो यज्ञ उच्यते ॥ १४५.४३ ॥ आत्मवत्सर्वभूतेषु यो हिताय शुभाय च । वर्तते सततं हृष्टः क्रिया श्रेष्ठा दया स्मृता ॥ १४५.४४ ॥ आक्रुष्टोऽभिहतो यस्तु नाक्रोशेत्प्रहरेदपि । अदुष्टो वाङ्मनःकायैस्तितिक्षुः सा क्षमा स्मृता ॥ १४५.४५ ॥ स्वामिना रक्ष्यमाणानामुत्सृष्टानां च सम्भ्रमे । परस्वानामनादानमलोभ इति संज्ञितम् ॥ १४५.४६ ॥ मैथुनस्यासमाचारो जल्पनाच्चिन्तनात्तथा । निवृत्तिर्ब्रह्मचर्यं च तदेतच्छमलक्षणम् ॥ १४५.४७ ॥ आत्मार्थे वा परार्थे वा इन्द्रियाणीह यस्य वै । विषये न प्रवर्तन्ते दमस्यैतत्तु लक्षणम् ॥ १४५.४८ ॥ पञ्चात्मके यो विषये कारणे चाष्टलक्षणे । न क्रुध्येत प्रतिहतः स जितात्मा भविष्यति ॥ १४५.४९ ॥ यद्यदिष्टतमं द्रव्यं न्यायेनैवागतं च यत् । तत्तद्गुणवते देयमित्येतद्दानलक्षणम् ॥ १४५.५० ॥ श्रुतिस्मृतिभ्यां विहितो धर्मो वर्णाश्रमात्मकः । शिष्टाचारप्रवृद्धश्च धर्मोऽयं साधुसंमतः ॥ १४५.५१ ॥ अप्रद्वेषो ह्यनिष्टेषु इष्टं वै नाभिनन्दति । प्रीतितापविषादानां विनिवृत्तिर्विरक्तता ॥ १४५.५२ ॥ संन्यासः कर्मणां न्यासः कृतानामकृतैः सह । कुशलाकुशलाभ्यां तु प्रहाणं न्यास उच्यते ॥ १४५.५३ ॥ अव्यक्तादिविशेषान्तविकारेऽस्मिन्निवर्तते । चेतनाचेतनं ज्ञात्वा ज्ञाने ज्ञानी स उच्यते ॥ १४५.५४ ॥ प्रत्यङ्गानि तु धर्मस्य चेत्येतल्लक्षणं स्मृतम् । ऋषिभिर्धर्मतत्त्वज्ञैः पूर्वैः स्वायम्भुवेऽन्तरे ॥ १४५.५५ ॥ अत्र वो वर्णयिष्यामि विधिं मन्वन्तरस्य तु । तथैव चातुर्होत्रस्य चातुर्वर्ण्यस्य चैव हि ॥ १४५.५६ ॥ प्रतिमन्वन्तरं चैव श्रुतिरन्या विधीयते । ऋचो यजूंषि सामानि यथावत्प्रतिदैवतम् ॥ १४५.५७ ॥ विधिस्तोत्रं तथा हौत्रं पूर्ववत्सम्प्रवर्तते । द्रव्यस्तोत्रं गुणस्तोत्रं कर्मस्तोत्रं तथैव च ॥ १४५.५८ ॥ तथैवाभिजनस्तोत्रं स्तोत्रमेवं चतुर्विधम् । मन्वन्तरेषु सर्वेषु यथा भेदा भवन्ति हि ॥ १४५.५९ ॥ प्रवर्तयन्ति तेषां वै ब्रह्मस्तोत्रं पुनः पुनः । एवं मन्त्रगुणानां तु समुत्पत्तिश्चतुर्विधा ॥ १४५.६० ॥ अथर्वऋग्यजुःसाम्नां वेदेष्विह पृथक्पृथक् । ऋषीणां तप्यतां तेषां तपः परमदुश्चरम् ॥ १४५.६१ ॥ मन्त्राः प्रादुर्भवन्त्यादौ पूर्वमन्वन्तरस्य ह । असंतोषाद्भयाद्दुःखान्मोहाच्छोकाच्च पञ्चधा ॥ १४५.६२ ॥ ऋषीणां तारका येन लक्षणेन यदृच्छया । ऋषीणां यादृशत्वं हि तद्वक्ष्यामीह लक्षणम् ॥ १४५.६३ ॥ अतीतानागतानां च पञ्चधा ह्यार्षकं स्मृतम् । तथा ऋषीणां वक्ष्यामि आर्षस्येह समुद्भवम् ॥ १४५.६४ ॥ गुणसाम्येन वर्तन्ते सर्वसंप्रलये तदा । अविभागेन देवानामनिर्देश्ये तमोमये ॥ १४५.६५ ॥ अबुद्धिपूर्वकं तद्वै चेतनार्थं प्रवर्तते । तेनार्षं बुद्धिपूर्वं तु चेतनेनाप्यधिष्ठितम् ॥ १४५.६६ ॥ प्रवर्तते तथा ते तु यथा मत्स्योदकावुभौ । चेतनाधिकृतं सर्वं प्रावर्तत गुणात्मकम् । कार्यकारणभावेन तथा तस्य प्रवर्तते ॥ १४५.६७ ॥ विषयो विषयित्वं च तदा ह्यर्थपदात्मकौ । कालेन प्रापणीयेन भेदाश्च कारणात्मकाः ॥ १४५.६८ ॥ सांसिद्धिकास्तदा वृत्ताः क्रमेण महदादयः । महतोऽसावहंकारस्तस्माद्भूतेन्द्रियाणि च ॥ १४५.६९ ॥ भूतभेदाश्च भूतेभ्यो जज्ञिरे तु परस्परम् । संसिद्धिकारणं कार्यं सद्य एव विवर्तते ॥ १४५.७० ॥ यथोल्मुकात्तु विटपा एककालाद्भवन्ति हि । तथा प्रवृत्ताः क्षेत्रज्ञाः कालेनैकेन कारणात् ॥ १४५.७१ ॥ यथान्धकारे खद्योतः सहसा सम्प्रदृश्यते । तथा निवृत्तो ह्यव्यक्तः खद्योत इव संज्वलन् ॥ १४५.७२ ॥ स महात्मा शरीरस्थस्तत्रैवेह प्रवर्तते । महतस्तमसः पारे वैलक्षण्याद्विभाव्यते ॥ १४५.७३ ॥ तत्रैव संस्थितो विद्वांस्तपसोऽन्त इति श्रुतम् । बुद्धिर्विवर्धतस्तस्य प्रादुर्भूता चतुर्विधा ॥ १४५.७४ ॥ ज्ञानं वैराग्यमैश्वर्यं धर्मश्चेति चतुष्टयम् । सांसिद्धिकान्यथैतानि अप्रतीतानि तस्य वै ॥ १४५.७५ ॥ महात्मनः शरीरस्य चैतन्यात्सिद्धिरुच्यते । पुरि शेते यतः पूर्वं क्षेत्रज्ञानं तथापि च ॥ १४५.७६ ॥ पुरे शयनात्पुरुषो ज्ञानात्क्षेत्रज्ञ उच्यते । यस्माद्धर्मात्प्रसूते हि तस्माद्वै धार्मिकस्तु सः ॥ १४५.७७ ॥ सांसिद्धिके शरीरे च बुद्ध्याव्यक्तस्तु चेतनः । एवं विवृत्तः क्षेत्रज्ञः क्षेत्रं ह्यनभिसंधितः ॥ १४५.७८ ॥ निवृत्तिसमकाले तु पुराणं तदचेतनम् । क्षेत्रज्ञेन परिज्ञातं भोग्योऽयं विषयो मम ॥ १४५.७९ ॥ ऋषिर्हिंसागतौ धातुर्विद्या सत्यं तपः श्रुतम् । एष सन्निलयो यस्माद्ब्राह्मणस्तुततस्त्वृषिः ॥ १४५.८० ॥ निवृत्तिसमकालाच्च बुद्ध्याव्यक्त ऋषिस्त्वयम् । ऋषते परमं यस्मात्परमर्षिस्ततः स्मृतः ॥ १४५.८१ ॥ गत्यर्थादृषतेर्धातोर्नामनिर्वृत्तिकारणम् । यस्मादेष स्वयंभूतस्तस्माच्च ऋषिता मता ॥ १४५.८२ ॥ सेश्वराः स्वयमुद्भूता ब्रह्मणो मानसाः सुताः । निवर्तमानैस्तैर्बुद्ध्या महान्परिगतः परः ॥ १४५.८३ ॥ यस्माद्दृशपरत्वेन सह तस्मान्महर्षयः । ईश्वराणां सुतास्तेषां मानसाश्चौरसाश्च वै ॥ १४५.८४ ॥ ऋषिस्तस्मात्परत्वेन भूतादिरृषयस्ततः । ऋषिपुत्रा ऋषीकास्तु मैथुनाद्गर्भसम्भवाः ॥ १४५.८५ ॥ परत्वेन ऋषन्ते वै भूतादीनृषिकास्ततः । ऋषिकाणां सुता ये तु विज्ञेया ऋषिपुत्रकाः ॥ १४५.८६ ॥ श्रुत्वा ऋषं परत्वेन श्रुतास्तस्माच्छ्रुतर्षयः । अव्यक्तात्मा महात्मा वाहंकारात्मा तथैव च ॥ १४५.८७ ॥ भूतात्मा चेन्द्रियात्मा च तेषां तज्ज्ञानमुच्यते । इत्येवमृषिजातिस्तु पञ्चधा नामविश्रुता ॥ १४५.८८ ॥ भृगुर्मरीचिरत्रिश्च अङ्गिराः पुलहः क्रतुः । मनुर्दक्षो वसिष्ठश्च पुलस्त्यश्चापि ते दश ॥ १४५.८९ ॥ ब्रह्मणो मानसा ह्येते उत्पन्नाः स्वयमीश्वराः । परत्वेनर्षयो यस्मान्मतास्तस्मान्महर्षयः ॥ १४५.९० ॥ ईश्वराणां सुतास्त्वेषामृषयस्तान्निबोधत । काव्यो बृहस्पतिश्चैव कश्यपश्च्यवनस्तथा ॥ १४५.९१ ॥ उतथ्यो वामदेवश्च अगस्त्यः कौशिकस्तथा । कर्दमो वालखिल्याश्च विश्रवाः शक्तिवर्धनः ॥ १४५.९२ ॥ इत्येते ऋषयः प्रोक्तास्तपसा ऋषितां गताः । तेषां पुत्रानृषीकांस्तु गर्भोत्पन्नान्निबोधत ॥ १४५.९३ ॥ वत्सरो नग्नहूश्चैव भरद्वाजश्च वीर्यवान् । ऋषिर्दीर्घतमाश्चैव बृहद्वक्षाः शरद्वतः ॥ १४५.९४ ॥ वाजिश्रवाः सुचिन्तश्च शावश्च सपराशरः । शृङ्गी च शङ्खपाच्चैव राजा वैश्रवणस्तथा ॥ १४५.९५ ॥ इत्येते ऋषिकाः सर्वे सत्येन ऋषितां गताः । ईश्वरा ऋषयश्चैव ऋषीका ये च विश्रुताः ॥ १४५.९६ ॥ एवं मन्त्रकृतः सर्वे कृत्स्नशश्च निबोधत । भृगुः काश्यपः प्रचेता दधीचो ह्यात्मवानपि ॥ १४५.९७ ॥ ऊर्षोऽथ जमदग्निश्च वेदः सारस्वतस्तथा । आर्ष्टिषेणश्च्यवनश्च वीतहव्यः सवेधसः ॥ १४५.९८ ॥ वैन्यः पृथुर्दिवोदासो ब्रह्मवान्गृत्सशौनकौ । एकोनविंशतिर्ह्येते भृगवो मन्त्रकृत्तमाः ॥ १४५.९९ ॥ अङ्गिराश्चैव त्रितश्च भरद्वाजोऽथ लक्ष्मणः । कृतवाचस्तथा गर्गः स्मृतिसंकृतिरेव च ॥ १४५.१०० ॥ गुरुवीतश्च मान्धाता अम्बरीषस्तथैव च । युवनाश्वः पुरुकुत्सः स्वश्रवस्तु सदस्यवान् ॥ १४५.१०१ ॥ अजमीढोऽस्वहार्यश्च ह्युत्कलः कविरेव च । पृषदश्वो विरूपश्च काव्यश्चैवाथ मुद्गलः ॥ १४५.१०२ ॥ उतथ्यश्च शरद्वांश्च तथा वाजिश्रवा अपि । अपस्यौषः सुचित्तिश्च वामदेवस्तथैव च ॥ १४५.१०३ ॥ ऋषिजो बृहच्छुक्लश्च ऋषिर्दीर्घतमा अपि । कक्षीवांश्च त्रयस्त्रिंशत्स्मृता ह्यङ्गिरसां वराः ॥ १४५.१०४ ॥ एते मन्त्रकृतः सर्वे काश्यपांस्तु निबोधत । काश्यपः सहवत्सारो नैध्रुवो नित्य एव च ॥ १४५.१०५ ॥ असितो देवलश्चैव षडेते ब्रह्मवादिनः । अत्रिरर्धस्वनश्चैव शावास्योऽथ गविष्ठिरः ॥ १४५.१०६ ॥ कर्णकश्च ऋषिः सिद्धस्तथा पूर्वातिथिश्च यः ॥ १४५.१०७ ॥ इत्येते त्वत्रयः प्रोक्ता मन्त्रकृत्षण्महर्षयः । वसिष्ठश्चैव शक्तिश्च तृतीयश्च पराशरः ॥ १४५.१०८ ॥ ततस्तु इन्द्रप्रतिमः पञ्चमस्तु भरद्वसुः । षष्ठस्तु मित्रावरुणः सत्तमः कुण्डिनस्तथा ॥ १४५.१०९ ॥ इत्येते सप्त विज्ञेया वासिष्ठा ब्रह्मवादिनः । विश्वामित्रश्च गाधेयो देवरातस्तथा बलः ॥ १४५.११० ॥ तथा विद्वान्मधुच्छन्दा ऋषिश्चान्योऽघमर्षणः । अष्टको लोहितश्चैव भृतकीलश्च माम्बुधिः ॥ १४५.१११ ॥ देवश्रवा देवरातः पुराणश्च धनंजयः । शिशिरश्च महातेजाः शालङ्कायन एव च ॥ १४५.११२ ॥ त्रयोदशैते विज्ञेया ब्रह्मिष्ठाः कौशिका वराः । अगस्त्योऽथ दृढद्युम्न इन्द्रबाहुस्तथैव च ॥ १४५.११३ ॥ ब्रह्मिष्ठागस्तयो ह्येते त्रयः परमकीर्तयः । मनुर्वैवस्वतश्चैव ऐलो राजा पुरूरवाः ॥ १४५.११४ ॥ क्षत्रियाणां वरा ह्येते विज्ञेया मन्त्रवादिनः । भलन्दकश्च वासाश्वः संकीलश्चैव ते त्रयः ॥ १४५.११५ ॥ एते मन्त्रकृतो ज्ञेया वैश्यानां प्रवराः सदा । इति द्विनवतिः प्रोक्ता मन्त्रायैश्च बहिष्कृताः ॥ १४५.११६ ॥ ब्राह्मणाः क्षत्रिया वैश्या ऋषिपुत्रान्निबोधत । ऋषीकाणां सुता ह्येते ऋषिपुत्राः श्रुतर्षयः ॥ १४५.११७ ॥ ______________________________________________________ मत्स्यपुराण १४६ *ऋषय ऊचुः कथं मत्स्येन कथितस्तारकस्य वधो महान् । कस्मिन्काले विनिर्वृत्ता कथेयं सूतनन्दन ॥ १४६.१ ॥ त्वन्मुखक्षीरसिन्धूत्था कथेयममृतात्मिका । कर्णाभ्यां पिबतां तृप्तिरस्माकं न प्रजायते । इदं मुने समाख्याहि महाबुद्धे मनोगतम् ॥ १४६.२ ॥ *सूत उवाच पृष्टस्तु मनुना देवो मत्स्यरूपी जनार्दनः । कथं शरवणे जातो देवः षड्वदनो विभो ॥ १४६.३ ॥ एतत्तु वचनं श्रुत्वा पार्थिवस्यामितौजसः । उवाच भगवान्प्रीतो ब्रह्मसूनुर्महामतिम् ॥ १४६.४ ॥ *मत्स्य उवाच वज्राङ्गो नाम दैत्योऽभूत्तस्य पुत्रस्तु तारकः । सुरानुद्वासयामास पुरेभ्यः स महाबलः ॥ १४६.५ ॥ ततस्ते ब्रह्मणोऽभ्याशं जग्मुर्भयनिपीडिताः । भीतांश्च त्रिदशान्दृष्ट्वा ब्रह्मा तेषामुवाच ह ॥ १४६.६ ॥ संत्यजध्वं भयं देवाः शंकरस्यात्मजः शिशुः । तुहिनाचलदौहित्रस्तं हनिष्यति दानवम् ॥ १४६.७ ॥ ततः काले तु कस्मिंश्चिद्दृष्ट्वा वै शैलजां शिवः । स्वरेतो वह्निवदने व्यसृजत्कारणान्तरे ॥ १४६.८ ॥ तत्प्राप्तं वह्निवदने रेतो देवानतर्पयत् । विदार्य जठराण्येषामजीर्णं निर्गतं मुने ॥ १४६.९ ॥ पतितं तत्सरिद्वरां ततस्तु शरकानने । तस्मात्तु स समुद्भूतो गुहो दिनकरप्रभः ॥ १४६.१० ॥ स सप्तदिवसो बालो निजघ्ने तारकासुरम् । एवं श्रुत्वा ततो वाक्यं तमूचुरृषिसत्तमाः ॥ १४६.११ ॥ *ऋषय ऊचुः अत्याश्चर्यवती रम्या कथेयं पापनाशिनी । विस्तरेण हि नो ब्रूहि याथातथ्येन शृण्वताम् ॥ १४६.१२ ॥ वज्राङ्गो नाम दैत्येन्द्रः कस्य वंशोद्भवः पुरा । यस्याभूत्तारकः पुत्रः सुरप्रमथनो बली ॥ १४६.१३ ॥ निर्मितः को वधे चाभूत्तस्य दैत्येश्वरस्य तु । गुहजन्म तु कार्त्स्न्येन अस्माकं ब्रूहि मानद ॥ १४६.१४ ॥ *सूत उवाच मानसो ब्रह्मणः पुत्रो दक्षो नाम प्रजापतिः । षष्टिं सोऽजनयत्कन्या वैरिण्यामेव नः श्रुतम् ॥ १४६.१५ ॥ ददौ स दश धर्माय कश्यपाय त्रयोदश । सप्तविंशतिं सोमाय चतस्रोऽरिष्टनेमये ॥ १४६.१६ ॥ द्वे वै बाहुकपुत्राय द्वे वै चाङ्गिरसे तथा । द्वे कृशाश्वाय विदुषे प्रजापतिसुतः प्रभुः ॥ १४६.१७ ॥ अदितिर्दितिर्दनुर्विश्वा ह्यरिष्टा सुरसा तथा । सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा ॥ १४६.१८ ॥ कद्रूर्मुनिश्च लोकस्य मातरो गोषु मातरः । तासां सकाशाल्लोकानां जङ्गमस्थावरात्मनाम् ॥ १४६.१९ ॥ जन्म नानाप्रकाराणां ताभ्योऽन्ये देहिनः स्मृताः । देवेन्द्रोपेन्द्रपूषाद्याः सर्वे ते दितिजा मताः ॥ १४६.२० ॥ दितेः सकाशाल्लोकास्तु हिरण्यकशिपादयः । दानवाश्च दनोः पुत्रा गावश्च सुरभीसुताः ॥ १४६.२१ ॥ पक्षिणो विनतापुत्रा गरुडप्रमुखाः स्मृताः । नागाः कद्रूसुता ज्ञेयाः शेषाश्चान्येऽपि जन्तवः ॥ १४६.२२ ॥ त्रैलोक्यनाथं शक्रं तु सर्वामरगणप्रभुम् । हिरण्यकशिपुश्चक्रे जित्वा राज्यं महाबलः ॥ १४६.२३ ॥ ततः केनापि कालेन हिरण्यकशिपादयः । निहता विष्णुना संख्ये शेषाश्चेन्द्रेण दानवाः ॥ १४६.२४ ॥ ततो निहतपुत्राभूद्दितिर्वरमयाचत । भर्तारं कश्यपं देवं पुत्रमन्यं महाबलम् ॥ १४६.२५ ॥ समरे शक्रहन्तारं स तस्या अददात्प्रभुः ॥ १४६.२६ ॥ नियमे वर्त हे देवि सहस्रं शुचिमानसा । वर्षाणां लप्स्यसे पुत्रमित्युक्ता सा तथाकरोत् ॥ १४६.२७ ॥ वर्तन्त्या नियमे तस्याः सहस्राक्षः समाहितः । उपासामाचरत्तस्याः सा चैनमन्वमन्यत ॥ १४६.२८ ॥ दशवत्सरशेषस्य सहस्रस्य तदा दितिः । उवाच शक्रं सुप्रीता वरदा तपसि स्थिता ॥ १४६.२९ ॥ *दितिरुवाच पुत्रोत्तीर्णव्रतां प्रायो विद्धि मां पाकशासन । भविष्यति च ते भ्राता तेन सार्धमिमां श्रियम् ॥ १४६.३० ॥ भुङ्क्ष्व वत्स यथाकामं त्रैलोक्यं हतकण्टकम् । इत्युक्त्वा निद्रयाविष्टा चरणाक्रान्तमूर्धजा ॥ १४६.३१ ॥ स्वयं सुष्वापानियता भाविनोऽर्थस्य गौरवात् । तत्तु रन्ध्रं समासाद्य जठरं पाकशासनः ॥ १४६.३२ ॥ चकार सप्तधा गर्भं कुलिशेन तु देवराट् । एकैकं तु पुनः खण्डं चकार मघवा ततः ॥ १४६.३३ ॥ सप्तधा सप्तधा कोपात्प्राबुध्यत ततो दितिः । विबुध्योवाच मा शक्र घातयेथाः प्रजां मम ॥ १४६.३४ ॥ तच्छ्रुत्वा निर्गतः शक्रः स्थित्वा प्राञ्जलिरग्रतः । उवाच वाक्यं संत्रस्तो मातुर्वै वदनेरितम् ॥ १४६.३५ ॥ *शक्र उवाच दिवास्वप्नपरा मातः पादाक्रान्तशिरोरुहा । सप्तसप्तभिरेवातस्तव गर्भः कृतो मया ॥ १४६.३६ ॥ एकोनपञ्चाशत्कृता भागा वज्रेण ते सुताः । दास्यामि तेषां स्थानानि दिवि दैवतपूजिते ॥ १४६.३७ ॥ इत्युक्ता सा तदा देवी सैवमस्त्वित्यभाषत । पुनश्च देवी भर्तारमुवाचासितलोचना ॥ १४६.३८ ॥ पुत्रं प्रजापते देहि शक्रजेतारमूर्जितम् । यो नास्त्रशस्त्रैर्वध्यत्वं गच्छेत्त्रिदिववासिनाम् ॥ १४६.३९ ॥ इत्युक्तः स तथोवाच तां पत्नीमतिदुःखिताम् । दश वर्षसहस्राणि तपः कृत्वा तु लप्स्यसे ॥ १४६.४० ॥ वज्रासारमयैरङ्गैरछेद्यैरायसैर्दृढैः । वज्राङ्गो नाम पुत्रस्ते भविता पुत्रवत्सले ॥ १४६.४१ ॥ सा तु लब्धवरा देवी जगाम तपसे वनम् । दश वर्षसहस्राणि सा तपो घोरमाचरत् ॥ १४६.४२ ॥ तपसोऽन्ते भगवती जनयामास दुर्जयम् । पुत्रमप्रतिकर्माणमजेयं वज्रदुश्छिदम् ॥ १४६.४३ ॥ स जातमात्र एवाभूत्सर्वशस्त्रास्त्रपारगः । उवाच मातरं भक्त्या मातः किं करवाण्यहम् ॥ १४६.४४ ॥ तमुवाच ततो हृष्टा दितिर्दैत्याधिपं च सा । बहवो मे हताः पुत्राः सहस्राक्षेण पुत्रक ॥ १४६.४५ ॥ तेषां त्वं प्रतिकर्तुं वै गच्छ शक्रवधाय च । बाढमित्येव तामुक्त्वा जगाम त्रिदिवं बली ॥ १४६.४६ ॥ बद्ध्वा ततः सहस्राक्षं पाशेनामोघवर्चसा । मातुरन्तिकमागच्छद्व्याघ्रः क्षुद्रमृगं यथा ॥ १४६.४७ ॥ एतस्मिन्नन्तरे ब्रह्मा कश्यपश्च महातपाः । आगतौ तत्र यत्रास्तां मातापुत्रावभीतकौ ॥ १४६.४८ ॥ दृष्ट्वा तु तावुवाचेदं ब्रह्मा कश्यप एव च । मुञ्चैनं पुत्र देवेन्द्रं किमनेन प्रयोजनम् ॥ १४६.४९ ॥ अपमानो वधः प्रोक्तः पुत्र संभावितस्य च । अस्मद्वाक्येन यो मुक्तो विद्धि तं मृतमेव च ॥ १४६.५० ॥ परस्य गौरवान्मुक्तः शत्रूणां भारमावहेत् । जीवन्नेव मृतो वत्स दिवसे दिवसे स तु ॥ १४६.५१ ॥ महतां वशमायाते वैरं नैवास्ति वैरिणि । एतच्छ्रुत्वा तु वज्राङ्गः प्रणतो वाक्यमब्रवीत् ॥ १४६.५२ ॥ न मे कृत्यमनेनास्ति मातुराज्ञा कृता मया । त्वं सुरासुरनाथोऽसि मम च प्रपितामहः ॥ १४६.५३ ॥ करिष्ये त्वद्वचो देव एष मुक्तः शतक्रतुः । तपसे मे रतिर्देव निर्विघ्नं चैव मे भवेत् ॥ १४६.५४ ॥ त्वत्प्रसादेन भगवन्नित्युक्त्वा विरराम सः । तस्मिंस्तूष्णीं स्थिते दैत्ये प्रोवाचेदं पितामहः ॥ १४६.५५ ॥ *ब्रह्मोवाच तपस्त्वं क्रूरमापन्नो ह्यस्मच्छासनसंस्थितः । अनया चित्तशुद्ध्या ते पर्याप्तं जन्मनः फलम् ॥ १४६.५६ ॥ इत्युक्त्वा पद्मजः कन्यां ससर्जायतलोचनाम् । तामस्मै प्रददौ देवः पत्न्यर्थं पद्मसम्भवः ॥ १४६.५७ ॥ वराङ्गीति च नामास्याः कृत्वा यातः पितामहः । वज्राङ्गोऽपि तया सार्धं जगाम तपसे वनम् ॥ १४६.५८ ॥ ऊर्ध्वबाहुः स दैत्येन्द्रोऽचरदब्दसहस्रकम् । कालं कमलपत्त्राक्षः शुद्धबुद्धिर्महातपाः ॥ १४६.५९ ॥ तावच्चावाङ्मुखः कालं तावत्पञ्चाग्निमध्यगः । निराहारो घोरतपास्तपोराशिरजायत ॥ १४६.६० ॥ ततः सोऽन्तर्जले चक्रे कालं वर्षसहस्रकम् । जलान्तरं प्रविष्टस्य तस्य पत्नी महाव्रता ॥ १४६.६१ ॥ तस्यैव तीरे सरसस्तत्प्रीत्या मौनमास्थिता । निराहारा तपो घोरं प्रविवेश महाद्युतिः ॥ १४६.६२ ॥ तस्यां तपसि वर्तन्त्यामिन्द्रश्चक्रे विभीषिकाम् । भूत्वा तु मर्कटस्तत्र तदाश्रमपदं महान् ॥ १४६.६३ ॥ चक्रे विलोलं निःशेषं तुम्बीघटकरण्डकम् । ततस्तु मेघरूषेण कम्पं तस्याकरोन्महान् ॥ १४६.६४ ॥ ततो भुजंगरूपेण बद्ध्वा च चरणद्वयम् । अपाकर्षत्ततो दूरं भ्रमंस्तस्या महीमिमाम् ॥ १४६.६५ ॥ तपोबलाढ्या सा तस्य न वध्यत्वं जगाम ह । ततो गोमायुरूपेण तस्यादूषयदाश्रमम् ॥ १४६.६६ ॥ ततस्तु मेघरूपेण तस्याः क्लेदयदाश्रमम् । भीषिकाभिरनेकाभिस्तां क्लिश्यन्पाकशासनः ॥ १४६.६७ ॥ विरराम यदा नैवं वज्राङ्गमहिषी तदा । शैलस्य दुष्टतां मत्वा शापं दातुं व्यवस्थिता ॥ १४६.६८ ॥ स शापाभिमुखां दृष्ट्वा शैलः पुरुषविग्रहः । उवाच तां वरारोहां वराङ्गीं भीरुचेतनः ॥ १४६.६९ ॥ नाहं वराङ्गने दुष्टः सेव्योऽहं सर्वदेहिनाम् । विभ्रमं तु करोत्येष रुषितः पाकशासनः ॥ १४६.७० ॥ एतस्मिन्नन्तरे जातः कालो वर्षसहस्रिकः । तस्मिन्गते तु भगवान् काले कमलसंभवः । तुष्टः प्रोवाच वज्राङ्गं तमागम्य जलाश्रयम् ॥ १४६.७१ ॥ *ब्रह्मोवाच ददामि सर्वकामांस्ते उत्तिष्ठ दितिनन्दन । एवमुक्तस्तदोत्थाय दैत्येन्द्रस्तपसां निधिः । उवाच प्राञ्जलिर्वाक्यं सर्वलोकपितामहम् ॥ १४६.७२ ॥ *वज्राङ्ग उवाच आसुरो मास्तु मे भावः सन्तु लोका ममाक्षयाः । तपस्येव रतिर्मेऽस्तु शरीरस्यास्तु वर्तनम् ॥ १४६.७३ ॥ एवमस्त्विति तं देवो जगाम स्वकमालयम् । वज्राङ्गोऽपि समाप्ते तु तपसि स्थिरसंयमः ॥ १४६.७४ ॥ आहारमिच्छन्भार्यां स्वां न ददर्शाश्रमे स्वके । क्षुधाविष्टः स शैलस्य गहनं प्रविवेश ह ॥ १४६.७५ ॥ आदातुं फलमूलानि स च तस्मिन्व्यलोकयत् । रुदतीं तां प्रियां दीनां तनुप्रच्छादिताननाम् । तां विलोक्य स दैत्येन्द्रः प्रोवाच परिसान्त्वयन् ॥ १४६.७६ ॥ *वज्राङ्ग उवाच केन तेऽपकृतं भीरु यमलोकं यियासुना । कं वा कामं प्रयच्छामि शीघ्रं मे ब्रूहि भामिनि ॥ १४६.७७ ॥ ______________________________________________________ मत्स्यपुराण १४७ *वराङ्ग्युवाच त्रासितास्म्यपविद्धास्मि ताडिता पीडितापि च । रौद्रेण देवराजेन नष्टनाथेव भूरिशः ॥ १४७.१ ॥ दुःखपारमपश्यन्ती प्राणांस्त्यक्तुं व्यवस्थिता । पुत्रं मे तारकं देहि दुःखशोकमहार्णवात् ॥ १४७.२ ॥ एवमुक्तः स दैत्येन्द्रः कोपव्याकुललोचनः । शक्तोऽपि देवराजस्य प्रतिकर्तुं महासुरः ॥ १४७.३ ॥ तपः कर्तुं पुनर्दैत्यो व्यवस्वेत महाबलः । ज्ञात्वा तु तस्य संकल्पं ब्रह्मा क्रूरतरं पुनः ॥ १४७.४ ॥ आजगाम तदा तत्र यत्रासौ दितिनन्दनः । उवाच तस्मै भगवान् प्रभुर्मधुरया गिरा ॥ १४७.५ ॥ *ब्रह्मोवाच किमर्थं पुत्रं भूयस्त्वं नियमं क्रूरमिच्छसि । आहाराभिमुखो दैत्य तन्नो ब्रूहि महाव्रत ॥ १४७.६ ॥ यावदब्दसहस्रेण निराहारस्य यत्फलम् । क्षणेनैकेन तल्लभ्यं त्यक्त्वाहारमुपस्थितम् ॥ १४७.७ ॥ त्यागो ह्यप्राप्तकामानां कामेभ्यो न तथा गुरुः । यथा प्राप्तं परित्यज्य कामं कमललोचन ॥ १४७.८ ॥ श्रुत्वैतद्ब्रह्मणो वाक्यं दैत्यः प्राञ्जलिरब्रवीत् । चिन्तयंस्तपसा युक्तो हृदि ब्रह्ममुखेरितम् ॥ १४७.९ ॥ *वज्राङ्ग उवाच उत्थितेन मया दृष्टा समाधानात्त्वदाज्ञया । महिषी भीषिता दीना रुदती शाखिनस्तले ॥ १४७.१० ॥ सा मयोक्ता तु तन्वङ्गी दूयमानेन चेतसा । किमेवं वर्तसे भीरु वद त्वं किं चिकीर्षसि ॥ १४७.११ ॥ इत्युक्ता सा मया देव प्रोवाच स्खलिताक्षरम् । वाक्यं चोवाच तन्वङ्गी भीता सा हेतुसंहितम् ॥ १४७.१२ ॥ *वराङ्ग्युवाच त्रासितास्म्यपविद्धास्मि कर्षिता पीडितास्मि च । रौद्रेण देवराजेन नष्टनाथेव भूरिशः ॥ १४७.१३ ॥ दुःखस्यान्तमपश्यन्ती प्राणांस्त्यक्तुं व्यवस्थिता । पुत्रं मे तारकं देहि ह्यस्माद्दुःखमहार्णवात् ॥ १४७.१४ ॥ एवमुक्तस्तु संक्षुब्धस्तस्याः पुत्रार्थमुद्यतः । तपो घोरं करिष्यामि जयाय त्रिदिवौकसाम् ॥ १४७.१५ ॥ एतच्छ्रुत्वा वचो देवः पद्मगर्भोद्भवस्तदा । उवाच दैत्यराजानं प्रसन्नश्चतुराननः ॥ १४७.१६ ॥ *ब्रह्मोवाच अलं ते तपसा वत्स मा क्लेशे दुस्तरे विश । पुत्रस्ते तारको नाम भविष्यति महाबलः ॥ १४७.१७ ॥ देवसीमन्तिनीनां तु धम्मिल्लस्य विमोक्षणः । इत्युक्तो दैत्यनाथस्तु प्रणिपत्य पितामहम् ॥ १४७.१८ ॥ आगत्यानन्दयामास महिषीं हर्षिताननः । तौ दम्पती कृतार्थौ तु जग्मतुः स्वाश्रमं मुदा ॥ १४७.१९ ॥ वज्राङ्गेणाहितं गर्भं वराङ्गी वरवर्णिनी । पूर्णं वर्षसहस्रं च दधारोदर एव हि ॥ १४७.२० ॥ ततो वर्षसहस्रान्ते वराङ्गी सुषुवे सुतम् । जायमाने तु दैत्येन्द्रे तस्मिंल्लोकभयंकरे ॥ १४७.२१ ॥ चचाल सकला पृथ्वी समुद्राश्च चकम्पिरे । चेलुर्महीधराः सर्वे ववुर्वाताश्च भीषणाः ॥ १४७.२२ ॥ जेपुर्जप्यं मुनिवरा नेदुर्व्यालमृगा अपि । चन्द्रसूर्यौ जहुः कान्तिं सनीहारा दिशोऽभवन् ॥ १४७.२३ ॥ जाते महासुरे तस्मिन् सर्वे चापि महासुराः । आजग्मुर्हृषितास्तत्र तथा चासुरयोषितः ॥ १४७.२४ ॥ जगुर्हर्षसमाविष्टा ननृतुश्चासुराङ्गनाः । ततो महोत्सवो जातो दानवानां द्विजोत्तमाः ॥ १४७.२५ ॥ विषण्णमनसो देवाः समहेन्द्रास्तदाभवन् । वराङ्गी स्वसुतं दृष्ट्वा हर्षेणापूरिता तदा ॥ १४७.२६ ॥ बहु मेने न देवेन्द्रविजयं तु तदेव सा । जातमात्रस्तु दैत्येन्द्रस्तारकश्चण्डविक्रमः ॥ १४७.२७ ॥ अभिषिक्तोऽसुरैः सर्वैः कुजम्भमहिषादिभिः । सर्वासुरमहाराज्ये पृथिवीतुलनक्षमैः ॥ १४७.२८ ॥ स तु प्राप्य महाराज्यं तारको मुनिसत्तमाः । उवाच दानवश्रेष्ठान् युक्तियुक्तमिदं वचः ॥ १४७.२९ ॥ ______________________________________________________ मत्स्यपुराण १४८ *तारक उवाच शृणुध्वमसुराः सर्वे वाक्यं मम महाबलाः । श्रेयसे क्रियतां बुद्धिः सर्वैः कृत्यस्य संविधौ ॥ १४८.१ ॥ वंशक्षयकरा देवाः सर्वेषामेव दानवाः । अस्माकं जातिधर्मो वै विरूढं वैरमक्षयम् ॥ १४८.२ ॥ वयमद्य गमिष्यामः सुराणां निग्रहाय तु । स्वबाहुबलमाश्रित्य सर्व एव न संशयः ॥ १४८.३ ॥ किंतु नातपसा युक्तो मन्येऽहं सुरसंगमम् । अहमादौ करिष्यामि ततो घोरं दितेः सुताः ॥ १४८.४ ॥ ततः सुरान्विजेष्यामो भोक्ष्यामोऽथ जगत्त्रयम् । स्थिरोपायो हि पुरुषः स्थिरश्रीरपि जायते ॥ १४८.५ ॥ रक्षितुं नैव शक्नोति चपलश्चपलाः श्रियः । तच्छ्रुत्वा दानवाः सर्वे वाक्यं तस्यासुरस्य तु ॥ १४८.६ ॥ साधु साध्वित्यवोचंस्ते तत्र दैत्याः सविस्मयाः । सोऽगच्छत्पारियात्रस्य गिरेः कन्दरमुत्तमम् ॥ १४८.७ ॥ सर्वर्तुकुसुमाकीर्णं नानौषधिविदीपितम् । नानाधातुरसस्रावचित्रं नानागुहागृहम् ॥ १४८.८ ॥ गहनैः सर्वतो गूढं चित्रकल्पद्रुमाश्रयम् । अनेकाकारबहुलं पृथक्पक्षिकुलाकुलम् ॥ १४८.९ ॥ नानाप्रस्रवणोपेतं नानाविधजलाशयम् । प्राप्य तत्कन्दरं दैत्यश्चचार विपुलं तपः ॥ १४८.१० ॥ निराहारः पञ्चतपाः पत्त्रभुग्वारिभोजनः । शतं शतं समानां तु तपांस्येतानि सोऽकरोत् ॥ १४८.११ ॥ ततः स्वदेहादुत्कृत्य कर्षं कर्षं दिने दिने । मांसस्याग्नौ जुहावासौ ततो निर्मांसतां गतः ॥ १४८.१२ ॥ तस्मिन्निर्मांसतां याते तपोराशित्वमागते । जज्वलुः सर्वभूतानि तेजसा तस्य सर्वतः ॥ १४८.१३ ॥ उद्विग्नाश्च सुराः सर्वे तपसा तस्य भीषिताः । एतस्मिन्नन्तरे ब्रह्मा परमं तोषमागतः ॥ १४८.१४ ॥ तारकस्य वरं दातुं जगाम त्रिदशालयात् । प्राप्य तं शैलराजानं स गिरेः कन्दरस्थितम् । उवाच तारकं देवो गिरा मधुरया युतः ॥ १४८.१५ ॥ *ब्रह्मोवाच पुत्रालं तपसा तेऽस्तु नास्त्यसाध्यं तवाधुना । वरं वृणीष्व रुचिरं यत्ते मनसि वर्तते ॥ १४८.१६ ॥ इत्युक्तस्तारको दैत्यः प्रणम्यात्मभुवं विभुम् । उवाच प्राञ्जलिर्भूत्वा प्रणतः पृथुविक्रमः ॥ १४८.१७ ॥ *तारक उवाच देवभूतमनोवास वेत्सि जन्तुविचेष्टितम् । कृतप्रतिकृताकाङ्क्षी जिगीषुः प्रायशो जनः ॥ १४८.१८ ॥ वयं च जातिधर्मेण कृतवैराः सहामरैः । तैश्च निःशेषिता दैत्याः क्रूरैः संत्यज्य धर्मिताम् । तेषामहं समुद्धर्ता भवेयमिति मे मतिः ॥ १४८.१९ ॥ अवध्यः सर्वभूतानामस्त्राणां च महौजसाम् । स्यामहं परमो ह्येष वरो मम हृदि स्थितः ॥ १४८.२० ॥ एतन्मे देहि देवेश नान्यो मे रोचते वरः । तमुवाच ततो दैत्यं विरिञ्चिः सुरनायकः ॥ १४८.२१ ॥ न युज्यन्ते विना मृत्युं देहिनो दैत्यसत्तम । यतस्ततोऽपि वरय मृत्युं यस्मान्न शङ्कसे ॥ १४८.२२ ॥ ततः संचिन्त्य दैत्येन्द्रः शिशोर्वै सप्तवासरात् । वव्रे महासुरो मृत्युमवलेपेन मोहितः ॥ १४८.२३ ॥ ब्रह्मा चास्मै वरं दत्त्वा यत्किंचिन्मनसेप्सितम् । जगाम त्रिदिवं देवो दैत्योऽपि स्वकमालयम् ॥ १४८.२४ ॥ उत्तीर्णं तपसस्तं तु दैत्यं दैत्येश्वरास्तथा । परिवव्रुः सहस्राक्षं दिवि देवगणा यथा ॥ १४८.२५ ॥ तस्मिन्महति राज्यस्थे तारके दैत्यनन्दने । ऋतवो मूर्तिमन्तश्च स्वकालगुणबृंहिताः ॥ १४८.२६ ॥ अभवन्किंकरास्तस्य लोकपालाश्च सर्वशः । कान्तिर्द्युतिर्धृतिर्मेधा श्रीरवेक्ष्य च दानवम् ॥ १४८.२७ ॥ परिवव्रुर्गुणाकीर्णा निश्छिद्राः सर्व एव हि । कालागुरुविलिप्ताङ्गं महामुकुटभूषणम् ॥ १४८.२८ ॥ रुचिराङ्गदनद्धाङ्गं महासिंहासने स्थितम् । वीजयन्त्यप्सरःश्रेष्ठा भृशं मुञ्चन्ति नैव ताः ॥ १४८.२९ ॥ चन्द्रार्कौ दीपमार्गेषु व्यजनेषु च मारुतः । कृतान्तोऽग्रेसरस्तस्य बभूवुर्मुनिसत्तमाः ॥ १४८.३० ॥ एवं प्रयाति काले तु वितते तारकासुरः । बभाषे सचिवान्दैत्यः प्रभूतवरदर्पितः ॥ १४८.३१ ॥ *तारक उवाच राज्येन कारणं किं मे त्वनाक्रम्य त्रिविष्टपम् । अनिर्याप्य सुरैर्वैरं का शान्तिर्हृदये मम ॥ १४८.३२ ॥ भुञ्जतेऽद्यापि यज्ञांशानमरा नाक एव हि । विष्णुः श्रियं न जहति तिष्ठते च गतभ्रमः ॥ १४८.३३ ॥ स्वस्थाभिः स्वर्गनारीभिः पीड्यन्तेऽमरवल्लभाः । सोत्पला मदिरामोदा दिवि क्रीडायनेषु च ॥ १४८.३४ ॥ लब्ध्वा जन्म न यः कश्चिद्घटयेत्पौरुषं नरः । जन्म तस्य वृथा भूतमजन्मा तु विशिष्यते ॥ १४८.३५ ॥ मातापितृभ्यां न करोति कामान् बन्धूनशोकान्न करोति यो वा । कीर्तिं हि वा नार्जयते हिमाभां पुमान्स जातोऽपि मृतो मतं मे ॥ १४८.३६ ॥ तस्माज्जयायामरपुंगवानां त्रैलोक्यलक्ष्मीहरणाय शीघ्रम् । संयोज्यतां मे रथमष्टचक्रं बलं च मे दुर्जयदैत्यचक्रम् । ध्वजं च मे काञ्चनपट्टनद्धं छत्त्रं च मे मौक्तिकजालबद्धम् ॥ १४८.३७ ॥ तारकस्य वचः श्रुत्वा ग्रसनो नाम दानवः । सेनानीर्दैत्यराजस्य तथा चक्रे बलान्वितः ॥ १४८.३८ ॥ आहत्य भेरीं गम्भीरां दैत्यानाहूय सत्वरः । तुरगाणां सहस्रेण चक्राष्टकविभूषितम् ॥ १४८.३९ ॥ शुक्लाम्बरपरिष्कारं चतुर्योजनविस्तृतम् । नानाक्रीडागृहयुतं गीतवाद्यमनोहरम् ॥ १४८.४० ॥ विमानमिव देवस्य सुरभर्तुः शतक्रतोः । दशकोटीश्वरा दैत्या दैत्यानां चण्डविक्रमाः ॥ १४८.४१ ॥ तेषामग्रेसरो जम्भः कुजम्भोऽनन्तरस्ततः । महिषः कुञ्जरो मेघः कालनेमिर्निमिस्तथा ॥ १४८.४२ ॥ मथनो जम्भकः शुम्भो दैत्येन्द्रा दश नायकाः । अन्येऽपि शतशस्तस्य पृथिवीदलनक्षमाः ॥ १४८.४३ ॥ दैत्येन्द्रा गिरिवर्ष्माणः सन्ति चण्डपराक्रमाः । नानायुधप्रहरणा नानाशस्त्रास्त्रपारगाः ॥ १४८.४४ ॥ तारकस्याभवत्केतू रौद्रः कनकभूषणः । केतुना मकरेणापि सेनानीर्ग्रसनोऽरिहा ॥ १४८.४५ ॥ पैशाचं यस्य वदनं जम्भस्यासीदयोमयम् । खरविधूतलाङ्गूलं कुजम्भस्याभवद्ध्वजे ॥ १४८.४६ ॥ महिषस्य तु गोमायुः केतोर्हैमस्तदाभवत् । ध्वाङ्क्षो ध्वजे तु शुम्भस्य कृष्णायोमयमुच्छ्रितम् ॥ १४८.४७ ॥ अनेकाकारविन्यासाश्चान्येषां तु ध्वजास्तथा । शतेन शीघ्रवेगाणां व्याघ्राणां हेममालिनाम् ॥ १४८.४८ ॥ ग्रसनस्य रथो युक्तां किङ्किणीजालमालिनाम् । शतेनापि च सिंहानां रथो जम्भस्य दुर्जयः ॥ १४८.४९ ॥ कुजम्भस्य रथो युक्तः पिशाचवदनैः खरैः । रथस्तु महिषस्योष्ट्रैर्गजस्य तु तुरंगमैः ॥ १४८.५० ॥ मेषस्य द्वीपिभिर्भीमैः कुञ्जरैः कालनेमिनः । पर्वताभैः समारूढो निमिर्मत्तैर्महागजैः ॥ १४८.५१ ॥ चतुर्दन्तैर्गन्धवद्भिः शिक्षितैर्मेघभैरवैः । शतहस्तायतैः कृष्णैस्तुरंगैर्हेमभूषणैः ॥ १४८.५२ ॥ सितचामरजालेन शोभिते दक्षिणां दिशम् । सितचन्दनचार्वङ्गो नानापुष्पस्रजोज्ज्वलः ॥ १४८.५३ ॥ मथनो नाम दैत्येन्द्रः पाशहस्तो व्यराजत । जम्भकः किङ्किणीजालमालमुष्ट्रं समास्थितः ॥ १४८.५४ ॥ कालशुक्लमहामेषमारूढः शुम्भदानवः । अन्येऽपि दानवा वीरा नानावाहनगामिनः ॥ १४८.५५ ॥ प्रचण्डचित्रकर्माणः कुण्डलोष्णीषभूषणाः । नानाविधोत्तरासङ्गा नानामाल्यविभूषणाः ॥ १४८.५६ ॥ नानासुगन्धिगन्धाढ्या नानाबन्दिजनस्तुताः । नानावाद्यपरिस्पन्दाश्चाग्रेसरमहारथाः ॥ १४८.५७ ॥ नानाशौर्यकथासक्तास्तस्मिन्सैन्ये महासुराः । तद्बलं दैत्यसिंहस्य भीमरूपं व्यजायत ॥ १४८.५८ ॥ प्रमत्तचण्डमातंगतुरंगरथसंकुलम् । प्रतस्थेऽमरयुद्धाय बहुपत्तिपताकि तत् ॥ १४८.५९ ॥ एतस्मिन्नन्तरे वायुर्देवदूतोऽम्बरालये । दृष्ट्वा स दानवबलं जगामेन्द्रस्य शंसितुम् ॥ १४८.६० ॥ स गत्वा तु सभां दिव्यां महेन्द्रस्य महात्मनः । शशंस मध्ये देवानां तत्कार्यं समुपस्थितम् ॥ १४८.६१ ॥ तच्छ्रुत्वा देवराजस्तु निमीलितविलोचनः । बृहस्पतिमुवाचेदं वाक्यं काले महाभुजः ॥ १४८.६२ ॥ *इन्द्र उवाच सम्प्राप्तोऽति विमर्दोऽयं देवानां दानवैः सह । कार्यं किमत्र तद्ब्रूहि नीत्युपायसमन्वितम् ॥ १४८.६३ ॥ एतच्छ्रुत्वा तु वचनं महेन्द्रस्य गिरांपतिः । इत्युवाच महाभागो बृहस्पतिरुदारधीः ॥ १४८.६४ ॥ सामपूर्वा स्मृता नीतिश्चतुरङ्गा पताकिनी । जिगीषतां सुरश्रेष्ठ स्थितिरेषा सनातनी ॥ १४८.६५ ॥ साम भेदस्तथा दानं दण्डश्चाङ्गचतुष्टयम् । नीतौ क्रमाद्देशकालरिपुयोग्यक्रमादिदम् ॥ १४८.६६ ॥ न शान्तिगोचरे लुब्धः क्रूरो लब्धसमाश्रयः । संतापितः खलो याति साध्यतां भ्रष्टसंशयः ॥ १४८.६७ ॥ साम दैत्येषु नैवास्ति यतस्ते लब्धसंश्रयाः । जातिधर्मेण वा भेद्या दानं प्राप्तश्रिये च किम् ॥ १४८.६८ ॥ एकोऽभ्युपायो दण्डोऽत्र भवतां यदि रोचते । दुर्जनेषु कृतं साम महद्याति च वन्ध्यताम् ॥ १४८.६९ ॥ भवादिति व्यवस्यन्ति क्रूराः साम महात्मनाम् । ऋजुतामार्यबुद्धित्वं दयानीतिव्यतिक्रमम् ॥ १४८.७० ॥ मन्यन्ते दुर्जना नित्यं साम चापि भयोदयात् । तस्माद्दुर्जनमाक्रान्तुं श्रेयान्पौरुषसंश्रयः ॥ १४८.७१ ॥ आक्रान्ते तु क्रिया युक्ता सतामेतन्महाव्रतम् । दुर्जनः सुजनत्वाय कल्पते न कदाचन ॥ १४८.७२ ॥ सुजनोऽपि स्वभावस्य त्यागं वाञ्छेत्कदाचन । एवं मे बुध्यते बुद्धिर्यूयमत्र व्यवस्यत ॥ १४८.७३ ॥ एवमुक्तः सहस्राक्ष एवमेवेत्युवाच तम् । कर्तव्यतां स संचिन्त्य प्रोवाचामरसंसदि ॥ १४८.७४ ॥ *इन्द्र उवाच सावधानेन मे वाचं शृणुध्वं नाकवासिनः । भवन्तो यज्ञभोक्तारस्तुष्टात्मानोऽतिसात्त्विकाः ॥ १४८.७५ ॥ स्वे महिम्नि स्थिता नित्यं जगतः परिपालकाः । भवतश्चानिमित्तेन बाधने दानवेश्वराः ॥ १४८.७६ ॥ तेषां सामादि नैवास्ति दण्ड एव विधीयताम् । क्रियतां समरोद्योगः सैन्यं संयोज्यतां मम ॥ १४८.७७ ॥ आद्रियन्तां च शस्त्राणि पूज्यन्तामस्त्रदेवताः । वाहनानि च यानानि योजयन्तु ममामराः ॥ १४८.७८ ॥ यमं सेनापतिं कृत्वा शीघ्रमेवं दिवौकसः । इत्युक्ताः समनह्यन्त देवानां ये प्रधानतः ॥ १४८.७९ ॥ वाजिनामयुतेनाजौ हेमघण्टापरिष्कृतम् । नानाश्चर्यगुणोपेतं सम्प्राप्तं सर्वदैवतैः ॥ १४८.८० ॥ रथं मातलिना कॢप्तं देवराजस्य दुर्जयम् । यमो महिषमास्थाय सेनाग्रे समवर्तत ॥ १४८.८१ ॥ चण्डकिंकरवृन्देन सर्वतः परिवारितः । कल्पकालोद्धतज्वालापूरिताम्बरलोचनः ॥ १४८.८२ ॥ हुताशनश्छागरूढः शक्तिहस्तो व्यवस्थितः । पवनोऽङ्कुशपाणिस्तु विस्तारितमहाजवः ॥ १४८.८३ ॥ भुजगेन्द्रसमारूढो जलेशो भगवान्स्वयम् । नरयुक्तरथे देवो राक्षसेशो वियच्चरः ॥ १४८.८४ ॥ तीक्ष्णखड्गयुतो भीमः समरे समवस्थितः । महासिंहरवो देवो धनाध्यक्षो गदायुधः ॥ १४८.८५ ॥ चन्द्रादित्यावश्विनौ च चतुरङ्गबलान्वितौ । राजभिः सहितास्तस्थुर्गन्धर्वा हेमभूषणाः ॥ १४८.८६ ॥ हेमपीतोत्तरासङ्गाश्चित्रवर्मरथायुधाः । नाकपृष्ठशिखण्डास्तु वैडूर्यमकरध्वजाः ॥ १४८.८७ ॥ जपारक्तोत्तरासङ्गा राक्षसा रक्तमूर्धजाः । गृध्रध्वजा महावीर्या निर्मलायोविभूषणाः ॥ १४८.८८ ॥ मुसलासिगदाहस्ता रथे चोष्णीषदंशिताः । महामेघरवा नागा भीमोल्काशनिहेतयः ॥ १४८.८९ ॥ यक्षाः कृष्णाम्बरभृतो भीमबाणधनुर्धराः । ताम्रोलूकध्वजा रौद्रा हेमरत्नविभूषणाः ॥ १४८.९० ॥ द्वीपिचर्मोत्तरासङ्गं निशाचरबलं बभौ । गार्ध्रपत्त्रध्वजप्रायमस्थिभूषणभूषितम् ॥ १४८.९१ ॥ मुसलायुधदुष्प्रेक्ष्यं नानाप्राणिमहारवम् । किंनराः श्वेतवसनाः सितपत्त्रिपताकिनः ॥ १४८.९२ ॥ मत्तेभवाहनप्रायास्तीक्ष्णतोमरहेतयः । मुक्ताजालपरिष्कारो हंसो रजतनिर्मितः ॥ १४८.९३ ॥ केतुर्जलाधिनाथस्य भीमधूमध्वजानलः । पद्मरागमहारत्नविटपं धनदस्य तु ॥ १४८.९४ ॥ ध्वजं समुच्छ्रितं भाति गन्तुकाममिवाम्बरम् । वृकेण काष्ठलोहेन यमस्यासीन्महाध्वजः ॥ १४८.९५ ॥ राक्षसेशस्य केतोर्वै प्रेतस्य मुखमाबभौ । हेमसिंहध्वजौ देवौ चन्द्रार्कावमितद्युती ॥ १४८.९६ ॥ कुम्भेन रत्नचित्रेण केतुरश्विनयोरभूत् । हेममातंगरचितं चित्ररत्नपरिष्कृतम् ॥ १४८.९७ ॥ ध्वजं शतक्रतोरासीत्सितचामरमण्डितम् । सनागयक्षगन्धर्वमहोरगनिशाचरा ॥ १४८.९८ ॥ सेना सा देवराजस्य दुर्जया भुवनत्रये । कोटयस्तास्त्रयस्त्रिंशद्देवदेवनिकायिनाम् ॥ १४८.९९ ॥ हिमाचलाभे सितकर्णचामरे सुवर्णपद्मामलसुन्दरस्रजि । कृताभिरागोज्ज्वलकुङ्कुमाङ्कुरे कपोललीलालिकदम्बसंकुले ॥ १४८.१०० ॥ स्थितस्तदैरावतनामकुञ्जरे महाबलश्चित्रविभूषणाम्बरः । विशालवस्त्रांशुवितानभूषितः प्रकीर्णकेयूरभुजाग्रमण्डलः । सहस्रदृग्बन्दिसहस्रसंस्तुतस्त्रिविष्टपेऽशोभत पाकशासनः ॥ १४८.१०१ ॥ तुरंगमातंगबलौघसंकुला सितातपत्रध्वजराजिशालिनी । चमूश्च सा दुर्जयपत्त्रिसंतता विभाति नानायुधयोधदुस्तरा ॥ १४८.१०२ ॥ ______________________________________________________ मत्स्यपुराण १४९ *सूत उवाच सुरासुराणां सम्मर्दस्तस्मिन्नत्यन्तदारुणे । तुमुलोऽतिमहानासीत्सेनयोरुभयोरपि ॥ १४९.१ ॥ गर्जतां देवदैत्यानां शङ्खभेरीरवेण च । तूर्याणां चैव निर्घोषैर्मातंगानां च बृंहितैः ॥ १४९.२ ॥ ह्वेषतां हयवृन्दानां रथनेमिस्वनेन च । ज्याघोषेण च शूराणां तुमुलोऽतिमहानभूत् ॥ १४९.३ ॥ समासाद्योभये सेने परस्परजयैषिणाम् । रोषेणातिपरीतानां त्यक्तजीवितचेतसाम् ॥ १४९.४ ॥ समासाद्य तु तेऽन्योन्यं प्रक्रमेण विलोमतः । रथेनासक्तपादातो रथेन च तुरंगमः ॥ १४९.५ ॥ हस्ती पदातिसंयुक्तो रथिना च क्वचिद्रथी । मातंगेनापरो हस्ती तुरंगैर्बहुभिर्गजः ॥ १४९.६ ॥ पदातिरेको बहुभिर्गजैर्मत्तैश्च युज्यते । ततः प्रासाशनिगदाभिन्दिपालपरश्वधैः ॥ १४९.७ ॥ शक्तिभिः पट्टिशैः शूलैर्मुद्गरैः कुणपैर्गडैः । चक्रैश्च शङ्कुभिश्चैव तोमरैरङ्कुशैः सितैः ॥ १४९.८ ॥ कर्णिनालीकनाराचवत्सदन्तार्धचन्द्रकैः । भल्लैश्च शतपत्त्रैश्च शुकतुण्डैश्च निर्मलैः ॥ १४९.९ ॥ वृष्टिरत्यद्भुताकारा गगने समदृश्यत । संप्रच्छाद्य दिशः सर्वास्तमोमयमिवाकरोत् ॥ १४९.१० ॥ न प्राज्ञायत तेऽन्योन्यं तस्मिंस्तमसि संकुले । अलक्ष्यं विसृजन्तस्ते हेतिसंघातमुद्धतम् ॥ १४९.११ ॥ पतितं सेनयोर्मध्ये निरीक्षन्ते परस्परम् । ततो ध्वजैर्भुजैश्छत्त्रैः शिरोभिश्च सकुण्डलैः ॥ १४९.१२ ॥ गजैस्तुरंगैः पादातैः पतद्भिः पतितैरपि । आकाशसरसो भ्रष्टैः पङ्कजैरिव भूः स्तृता ॥ १४९.१३ ॥ भग्नदन्ता भिन्नकुम्भाश्छिन्नदीर्घमहाकराः । गजाः शलनिभाः पेतुर्धरण्यां रुधिरस्रवाः ॥ १४९.१४ ॥ भग्नेषादण्डचक्राक्षा रथाश्च शकलीकृताः । पेतुः शकलतां यातास्तुरंगाश्च सहस्रशः ॥ १४९.१५ ॥ ततोऽसृघ्रददुस्तारा पृथिवी समजायत । नद्यश्च रुधिरावर्ता हर्षदाः पिशिताशिनाम् । वेतालाक्रीडमभवत्तत्संकुलरणाजिरम् ॥ १४९.१६ ॥ ______________________________________________________ मत्स्यपुराण १५० *सूत उवाच अथ ग्रसनमालोक्य यमः क्रोधविमूर्छितः । ववर्ष शरवर्षेण विशेषेणाग्निवर्चसा ॥ १५०.१ ॥ स विद्धो बहुभिर्बाणैर्ग्रसनोऽतिपराक्रमः । कृतप्रतिकृताकाङ्क्षी धनुरानम्य भैरवम् ॥ १५०.२ ॥ शतैः पञ्चभिरत्युग्रैः शराणां यममर्दयत् । स विचिन्त्य यमो बाणान् ग्रसनस्यातिपौरुषम् ॥ १५०.३ ॥ बाणवृष्टिभिरुग्राभिर्यमो ग्रसनमर्दयत् । कृतान्तशरवृष्टिं तां वियति प्रतिसर्पिणीम् ॥ १५०.४ ॥ चिछेद शरवर्षेण ग्रसनो दानवेश्वरः । विफलां तां समालोक्य यमस्तां शरसंततिम् ॥ १५०.५ ॥ स विचिन्त्य शरव्रातं ग्रसनस्य रथं प्रति । चिक्षेप मुद्गरं घोरं तरसा तस्य चान्तकः ॥ १५०.६ ॥ स तं मुद्गरमायान्तमुत्प्लुत्य गगनस्थितम् । जग्राह वामहस्तेन याम्यं दानवनन्दनः ॥ १५०.७ ॥ तमेव मुद्गरं गृह्य यमस्य महिषं रुषा । पातयामास वेगेन स पपात महीतले ॥ १५०.८ ॥ उत्प्लुत्याथ यमस्तस्मान्महिषान्निष्पतिष्यतः । प्रासेन ताडयामास ग्रसनं वदने दृढम् ॥ १५०.९ ॥ स तु प्रासप्रहारेण मूर्छितो न्यपतद्भुवि । ग्रसनं पतितं दृष्ट्वा जम्भो भीमपराक्रमः ॥ १५०.१० ॥ यमस्य भिन्दिपालेन प्रहारमकरोद्धृदि । यमस्तेन प्रहारेण सुस्राव रुधिरं मुखात् ॥ १५०.११ ॥ कृतान्तं मर्दितं दृष्ट्वा गदापाणिर्धनाधिपः । वृतो यक्षायुतशतैर्जम्भं प्रत्युद्ययौ रुषा ॥ १५०.१२ ॥ जम्भो रुषा तमायान्तं दानवानीकसंवृतः । उवाच प्राज्ञो वाक्यं तु यथा स्निग्धेन भाषितम् ॥ १५०.१३ ॥ ग्रसनो लब्धसंज्ञोऽथ यमस्य प्राहिणोद्गदाम् । मणिहेमपरिष्कारां गुर्वीमरिविमर्दिनीम् ॥ १५०.१४ ॥ तामप्रतर्क्यां सम्प्रेक्ष्य गदां महिषवाहनः । गदायाः प्रतिघातार्थं जगद्दलनभैरवम् ॥ १५०.१५ ॥ दण्डं मुमोच कोपेन ज्वालामालासमाकुलम् । स गदां वियति प्राप्य ररासाम्बुधरो यथा ॥ १५०.१६ ॥ संघट्टमभवत्ताभ्यां शैलाभ्यामिव दुःसहम् । ताभ्यां निष्पेषनिर्ह्रादजडीकृतदिगन्तरम् ॥ १५०.१७ ॥ जगद्व्याकुलतां यातं प्रलयागमशङ्कया । क्षणात्प्रशान्तनिर्ह्रादं ज्वलदुल्कासमाचितम् ॥ १५०.१८ ॥ निष्पेषणे तयोर्भीममभूद्गगनगोचरम् । निहत्याथ गदां दण्डस्ततो ग्रसनमूर्धनि ॥ १५०.१९ ॥ हृत्वा श्रियमिवानर्थो दुर्वृत्तस्यापतद्दृढः । स तु तेन प्रहारेण दृष्ट्वा सतिमिरा दिशः ॥ १५०.२० ॥ पपात भूमौ निःसंज्ञो भूमिरेणुविभूषितः । ततो हाहारवो घोरः सेनयोरुभयोरभूत् ॥ १५०.२१ ॥ ततो मुहूर्तमात्रेण ग्रसनः प्राप्य चेतनाम् । अपश्यत्स्वां तनुं ध्वस्तां विलोलाभरणाम्बराम् ॥ १५०.२२ ॥ स चापि चिन्तयामास कृते प्रतिकृतिक्रियाम् । मद्विधे वस्तुनि पुंसि प्रभोः परिभवोदयात् ॥ १५०.२३ ॥ मय्याश्रितानि सैन्यानि जिते मयि विनाशिता । असंभावित एवास्तु जनः स्वच्छन्दचेष्टितः ॥ १५०.२४ ॥ न तु व्यर्थशतोद्घुष्टसंभावितधनो नरः । एवं संचिन्त्य वेगेन समुत्तस्थौ महाबलः ॥ १५०.२५ ॥ मुद्गरं कालदण्डाभं गृहीत्वा गिरिसंनिभः । ग्रसनो घोरसंकल्पः संदष्टौष्ठपुटच्छदः ॥ १५०.२६ ॥ रथेन त्वरितो गच्छन्नाससादान्तकं रणे । समासाद्य यमं युद्धे ग्रसनो भ्राम्य मुद्गरम् ॥ १५०.२७ ॥ वेगेन महता रौद्रं चिक्षेप यममूर्धनि । विलोक्य मुद्गरं दीप्तं यमः संभ्रान्तलोचनः ॥ १५०.२८ ॥ वञ्चयामास दुर्धर्षं मुद्गरं स महाबलः । तस्मिन्नपसृते दूरं चण्डानां भीमकर्मणाम् ॥ १५०.२९ ॥ याम्यानां किंकराणां तु सहस्रं निष्पिपेष ह । ततस्तां निहतां दृष्ट्वा घोरां किंकरवाहिनीम् ॥ १५०.३० ॥ अगमत्परमं क्षोभं नानाप्रहरणोद्यतः । ग्रसनस्तु समालोक्य तां किंकरमयीं चमूम् ॥ १५०.३१ ॥ मेने यमसहस्राणि सृष्टानि यममायया । निग्राह्य ग्रसनः सेनां विसृजन्नस्त्रवृष्टयः ॥ १५०.३२ ॥ कल्पान्तघोरसंकाशो बभूव क्रोधमूर्छितः । कांश्चिद्बिभेद शूलेन कांश्चिद्बाणैरजिह्मगैः ॥ १५०.३३ ॥ कांश्चित्पिपेष गदया कांश्च मुद्गरवृष्टिभिः । केचित्प्रासप्रहारैश्च दारुणैस्ताडितास्तदा ॥ १५०.३४ ॥ अपरे बहुशस्तस्य ललम्बुर्बाहुमण्डले । शिलाभिरपरे जघ्नुर्द्रुमैरन्यैर्महोच्छ्रयैः ॥ १५०.३५ ॥ तस्यापरे तु गात्रेषु दशनैरप्यदंशयन् । अपरे मुष्टिभिः पृष्ठं किंकराः प्रहरन्ति च ॥ १५०.३६ ॥ अभिद्रुतस्तथा घोरैर्ग्रसनः क्रोधमूर्छितः । उत्सृज्य गात्रं भूपृष्ठे निष्पिपेष सहस्रशः ॥ १५०.३७ ॥ कांश्चिदुत्थाय मुष्टिभिर्जघ्ने किंकरसंश्रयान् । स तु किंकरयुद्धेन ग्रसनः श्रममाप्तवान् ॥ १५०.३८ ॥ तमालोक्य यमः श्रान्तं निहतां च स्ववाहिनीम् । आजगाम समुद्यम्य दण्डं महिषवाहनः ॥ १५०.३९ ॥ ग्रसनस्तु समायान्तमाजघ्ने गदयोरसि । अचिन्तयित्वा तत्कर्म ग्रसनस्यान्तकोऽरिहा ॥ १५०.४० ॥ जघ्ने रथस्य मूर्धन्यान् व्याघ्रान्दण्डेन कोपनः । स रथो दण्डमथितैर्व्याघ्रैरर्धैर्विकृष्यते ॥ १५०.४१ ॥ संशयः पुरुषस्येव चित्तं दैत्यस्य तद्रथम् । समुत्सृज्य रथं दैत्यः पदातिर्धरणीं गतः ॥ १५०.४२ ॥ यमं भुजाभ्यामादाय योधयामास दानवः । यमोऽपि शस्त्राण्युत्सृज्य बाहुयुद्धेष्ववर्तत ॥ १५०.४३ ॥ ग्रसनः कटिवस्त्रैस्तु यमं गुह्य बलोद्धतः । भ्रामयामास वेगेन प्रचित्तमिव सम्भ्रमः ॥ १५०.४४ ॥ यमोऽपि कण्ठेऽवष्टभ्य दैत्यं बाहुयुगेन तु । वेगेन भ्रामयामास समुत्कृष्य महीतलात् ॥ १५०.४५ ॥ ततो मुष्टिभिरन्योन्यं निर्दयौ तौ निजघ्नतुः । दैत्येन्द्रस्यातिकायत्वात्ततः श्रान्तभुजो यमः ॥ १५०.४६ ॥ स्कन्धे निधाय दैत्यस्य मुखं विश्रान्तिमैच्छत । तमालक्ष्य ततो दैत्यः श्रान्तमन्तकमोजसा ॥ १५०.४७ ॥ निष्पिपेष महीपृष्ठे बहुशः पार्ष्णिपाणिभिः । यावद्यमस्य वदनात्सुस्राव रुधिरं बहु ॥ १५०.४८ ॥ निर्जीवितं यमं दृष्ट्वा ततः संत्यज्य दानवः । जयं प्राप्योद्धतं दैत्यो नादं मुक्त्वा महास्वनः ॥ १५०.४९ ॥ स्वयं सैन्यं समासाद्य तस्थौ गिरिरिवाचलः । धनाधिपस्य जम्भेन सायकैर्मर्मभेदिभिः ॥ १५०.५० ॥ दिशोऽवरुद्धाः क्रुद्धेन सैन्यं चास्य निकृन्तितम् । ततः क्रोधपरीतस्तु धनेशो जम्भदानवम् ॥ १५०.५१ ॥ हृदि विव्याध बाणानां सहस्रेणाग्निवर्चसाम् । सारथिं च शतेनाजौ ध्वजं दशभिरेव च ॥ १५०.५२ ॥ हस्तौ च पञ्चसप्तत्या मार्गणैर्दशभिर्धनुः । मार्गणैर्बर्हिपत्त्राङ्गैस्तैलधौतैरजिह्मगैः ॥ १५०.५३ ॥ सिंहमेकेन तं तीक्ष्णैर्विव्याध दशभिः शरैः । जम्भस्तु कर्म तद्दृष्ट्वा धनेशस्यातिदुष्करम् ॥ १५०.५४ ॥ हृदि धैर्यं समालम्ब्य किंचित्संत्रस्तमानसः । जग्राह निशितान्बाणाञ्छत्रुमर्मविभेदिनः ॥ १५०.५५ ॥ आकर्णाकृष्टचापस्तु जम्भः क्रोधपरिप्लुतः । विव्याध धनदं तीक्ष्णैः शरैर्वक्षसि दानवः ॥ १५०.५६ ॥ सारथिं चास्य बाणेन दृढेनाभ्यहनद्धृदि । चिछेद ज्यामथैकेन तैलधौतेन दानवः ॥ १५०.५७ ॥ ततस्तु निशितैर्बाणैर्दारुणैर्मर्मभेदिभिः । विव्याधोरसि वित्तेशं दशभिः क्रूरकर्मकृत् ॥ १५०.५८ ॥ मोहं परमतो गच्छन् दृढविद्धो हि वित्तपः । स क्षणाद्धैर्यमालम्ब्य धनुराकृष्य भैरवम् ॥ १५०.५९ ॥ किरन्बाणसहस्राणि निशितानि धनाधिपः । दिशः खं विदिशो भूमीरनीकान्यसुरस्य च ॥ १५०.६० ॥ पूरयामास वेगेन संछाद्य रविमण्डलम् । जम्भोऽपि परमेकैकं शरैर्बहुभिराहवे ॥ १५०.६१ ॥ चिछेद लघुसंधानो धनेशस्यातिपौरुषात् । ततो धनेशः संक्रुद्धो दानवेन्द्रस्य कर्मणा ॥ १५०.६२ ॥ व्यधमत्तस्य सैन्यानि नानासायकवृष्टिभिः । तद्दृष्ट्वा दुष्कृतं कर्म धनाध्यक्षस्य दानवः ॥ १५०.६३ ॥ गृहीत्वा मुद्गरं भीममायसं हेमभूषितम् । धनदानुचरान्यक्षान्निष्पिपेष सहस्रशः ॥ १५०.६४ ॥ ते वध्यमाना दैत्येन मुञ्चन्तो भैरवान्रवान् । रथं धनपतेः सर्वे परिवार्य व्यवस्थिताः ॥ १५०.६५ ॥ दृष्ट्वा तानर्दितान्देवः शूलं जग्राह दारुणम् । तेन दैत्यसहस्राणि सूदयामास सत्वरः ॥ १५०.६६ ॥ क्षीयमाणेषु दैत्येषु दानवः क्रोधमूर्छितः । जग्राह परशुं दैत्यो मर्दनं दैत्यविद्विषाम् ॥ १५०.६७ ॥ स तेन शितधारेण धनभर्तुर्महारथम् । चिछेद शतशो दैत्यो ह्याखुः स्निग्धमिवाम्बरम् ॥ १५०.६८ ॥ पदातिरथ वित्तेशो गदामादाय भैरवीम् । महाहवविमर्देषु दृप्तशत्रुविनाशिनीम् ॥ १५०.६९ ॥ अधृष्यां सर्वभूतानां बहुवर्षगणार्चिताम् । नानाचन्दनदिग्धाङ्गां दिव्यपुष्पविवासिताम् ॥ १५०.७० ॥ निर्मलायोमयीं गुर्वीममोघां हेमभूषणाम् । चिक्षेप मूर्ध्नि संक्रुद्धो जम्भस्य तु धनाधिपः ॥ १५०.७१ ॥ आयान्तीं तां समालोक्य तडित्संघातमण्डिताम् । दैत्यो गदाभिघातार्थं शस्त्रवृष्टिं मुमोच ह ॥ १५०.७२ ॥ चक्राणि कुणपान्प्रासान् भुशुण्डीः पट्टिशानपि । हेमकेयूरनद्धाभ्यां बाहुभ्यां चण्डविक्रमः ॥ १५०.७३ ॥ व्यर्थीकृत्य तु तान्सर्वानायुधान्दैत्यवक्षसि । प्रस्फुरन्ती पपातोग्रा महोल्केवाद्रिकन्दरे ॥ १५०.७४ ॥ स तयाभिहतो गाढं पपात रथकूबरे । स्रोतोभिश्चास्य रुधिरं सुस्राव गतचेतसः ॥ १५०.७५ ॥ जम्भं तु निहतं मत्वा कुजम्भो भैरवस्वनः । धनाधिपस्य संक्रुद्धो वाक्येनातीव कोपितः ॥ १५०.७६ ॥ चक्रे बाणमयं जालं दिक्षु यक्षाधिपस्य तु । चिछेद बाणजालं तदर्धचन्द्रैः शितैस्ततः ॥ १५०.७७ ॥ मुमोच शरवृष्टिं तु तस्मै यक्षाधिपो बली । स तं दैत्यः शरव्रातं चिछेद निशितैः शरैः ॥ १५०.७८ ॥ व्यर्थीकृतां तु तां दृष्ट्वा शरवृष्टिं धनाधिपः । शक्तिं जग्राह दुर्धर्षां हेमघण्टाट्टहासिनीम् ॥ १५०.७९ ॥ बाहुना रत्नकेयूरकान्तिसंतानहासिना । स तां निरूप्य वेगेन कुजम्भाय मुमोच ह ॥ १५०.८० ॥ सा कुजम्भस्य हृदयं दारयामास दारुणम् । वित्तेहा स्वल्पसत्त्वस्य पुरुषस्येव भाविता ॥ १५०.८१ ॥ अथास्य हृदयं भित्त्वा जगाम धरणीतलम् । ततो मुहूर्तादस्वस्थो दानवो दारुणाकृतिः ॥ १५०.८२ ॥ जग्राह पट्टिशं दैत्यः प्रांशुं शितशिलामुखम् । स तेन पट्टिशेनाजौ धनदस्य स्तनान्तरम् ॥ १५०.८३ ॥ वाक्येन तीक्ष्णरूपेण मर्मान्तरविसर्पिणा । निर्बिभेदाभिजातस्य हृदयं दुर्जनो यथा ॥ १५०.८४ ॥ तेन पट्टिशघातेन धनेशः परिमूर्छितः । निपपात रथोपस्थे जर्जरो धूर्वहो यथा ॥ १५०.८५ ॥ तथागतं तु तं दृष्ट्वा धनेशं नरवाहनम् । खड्गास्त्रो निरृतिर्देवो निशाचरबलानुगः ॥ १५०.८६ ॥ अभिदुद्राव वेगेन कुजम्भं भीमविक्रमम् । अथ दृष्ट्वा तु दुर्धर्षं कुजम्भो राक्षसेश्वरम् ॥ १५०.८७ ॥ चोदयामास सैन्यानि राक्षसेन्द्रवधं प्रति । स दृष्ट्वा चोदितां सेनां भल्लनानास्त्रभीषणाम् ॥ १५०.८८ ॥ रथादाप्लुत्य वेगेन भूषणद्युतिभास्वरः । खड्गेन कमलानीव विकोशेनाम्बरत्विषा ॥ १५०.८९ ॥ चिछेद रिपुवक्त्राणि विचित्राणि समन्ततः । तिर्यक्पृष्ठमधश्चोर्ध्वं दीर्घबाहुर्महासिना ॥ १५०.९० ॥ संदष्टौष्ठपुटाटोपभ्रुकुटीविकटाननः । प्रचण्डकोपरक्ताक्षो न्यकृन्तद्दानवान्रणे ॥ १५०.९१ ॥ ततो निःशेषितप्रायां विलोक्य स्वामनीकिनीम् । मुक्त्वा कुजम्भो धनदं राक्षसेन्द्रमभिद्रवन् ॥ १५०.९२ ॥ लब्धसंज्ञोऽथ जम्भस्तु धनाध्यक्षपदानुगान् । जीवग्राहान्स जग्राह बद्ध्वा पाशैः सहस्रशः ॥ १५०.९३ ॥ मूर्तिमन्ति तु रत्नानि विविधानि च दानवाः । वाहनानि च दिव्यानि विमानानि सहस्रशः ॥ १५०.९४ ॥ धनेशो लब्धसंज्ञोऽथ तामवस्थां विलोक्य तु । निःश्वसन्दीर्घमुष्णं च रोषात्ताम्रविलोचनः ॥ १५०.९५ ॥ ध्यात्वास्त्रं गारुडं दिव्यं बाणं संधाय कार्मुके । मुमोच दानवानीके तं बाणं शत्रुदारणम् ॥ १५०.९६ ॥ प्रथमं कार्मुकात्तस्य निश्चेरुर्धूमराजयः । अनन्तरं स्फुलिङ्गानां कोटयो दीप्तवर्चसाम् ॥ १५०.९७ ॥ ततो ज्वालाकुलं व्योम चकारास्त्रं समन्ततः । ततः क्रमेण दुर्वारं नानारूपं तदाभवत् ॥ १५०.९८ ॥ अमूर्तश्चाभवल्लोको ह्यन्धकारसमावृतः । ततोऽन्तरिक्षे शंसन्ति तेजस्ते तु परिष्कृतम् ॥ १५०.९९ ॥ कुजम्भस्तत्समालोच्य दानवोऽतिपराक्रमः । अभिदुद्राव वेगेन पदातिर्धनदं नदन् ॥ १५०.१०० ॥ अथाभिमुखमायान्तं दैत्यं दृष्ट्वा धनाधिपः । बभूव सम्भ्रमाविष्टः पलायनपरायणः ॥ १५०.१०१ ॥ ततः पलायतस्तस्य मुकुटं रत्नमण्डितम् । पपात भूतले दीप्तं रविबिम्बमिवाम्बरात् ॥ १५०.१०२ ॥ शूराणामभिजातानां भर्तर्यपसृते रणात् । मर्तुं संग्रामशिरसि युक्तं तद्भूषणाग्रतः ॥ १५०.१०३ ॥ इति व्यवस्य दुर्धर्षा नानाशस्त्रास्त्रपाणयः । युयुत्सवः स्थिता यक्षा मुकुटं परिवार्य तम् ॥ १५०.१०४ ॥ अभिमानधना वीरा धनदस्य पदानुगाः । तानमर्षाच्च सम्प्रेक्ष्य दानवश्चण्डपौरुषः ॥ १५०.१०५ ॥ भुशुण्डीं भैरवाकारां गृहीत्वा शैलगौरवाम् । रक्षिणो मुकुटस्याथ निष्पिपेष निशाचरान् ॥ १५०.१०६ ॥ तान्प्रमथ्याथ दनुजो मुकुटं तत्स्वके रथे । समारोप्यामररिपुर्जित्वा धनदमाहवे ॥ १५०.१०७ ॥ धनानि रत्नानि च मूर्तिमन्ति तथा निधानानि शरीरिणश्च । आदाय सर्वाणि जगाम दैत्यो जम्भः स्वसैन्यं दनुजेन्द्रसिंहः । धनाधिपो वै विनिकीर्णमूर्धजो जगाम दीनः सुरभर्तुरन्तिकम् ॥ १५०.१०८ ॥ कुजम्भेनाथ संसक्तो रजनीचरनन्दनः । मायाममोघामाश्रित्य तामसीं राक्षसेश्वरः ॥ १५०.१०९ ॥ मोहयामास दैत्येन्द्रं जगत्कृत्वा तमोमयम् । ततो विफलनेत्राणि दानवानां बलानि तु ॥ १५०.११० ॥ न शेकुश्चलितं तत्र पदादपि पदं तदा । ततो नानास्त्रवर्षेण दानवानां महाचमूम् ॥ १५०.१११ ॥ जघान घननीहारतिमिरातुरवाहनाम् । वध्यमानेषु दैत्येषु कुजम्भे मूढचेतसि ॥ १५०.११२ ॥ महिषो दानवेन्द्रस्तु कल्पान्ताम्भोदसंनिभः । अस्त्रं चकार सावित्रमुल्कासंघातमण्डितम् ॥ १५०.११३ ॥ विजृम्भत्यथ सावित्रे परमास्त्रे प्रतापिनि । प्रणाशमगमत्तीव्रं तमो घोरमनन्तरम् ॥ १५०.११४ ॥ ततोऽस्त्रं विस्फुलिङ्गाङ्कं तमः कृत्स्नं व्यनाशयत् । प्रफुल्लारुणपद्मौघं शरदीवामलं सरः ॥ १५०.११५ ॥ ततस्तमसि संशान्ते दैत्येन्द्राः प्राप्तचक्षुषः । चक्रुः क्रूरेण मनसा देवानीकैः सहाद्भुतम् ॥ १५०.११६ ॥ शस्त्रैरमर्षान्निर्मुक्तैर्भुजंगास्त्रं विनोदितम् । अथादाय धनुर्घोरमिषूंश्चाशीविषोपमान् ॥ १५०.११७ ॥ कुजम्भोऽधावत क्षिप्तं रक्षोराजबलं प्रति । राक्षसेन्द्रस्तमायान्तं विलोक्य सपदानुगः ॥ १५०.११८ ॥ विव्याध निशितैर्बाणैः क्रूराशीविषभीषणैः । तदादानं च संधानं न मोक्षश्चापि लक्ष्यते ॥ १५०.११९ ॥ चिछेदास्य शरव्रातान् स्वशरैरतिलाघवात् । ध्वजं परमतीक्ष्णेन चित्रकर्मामरद्विषः ॥ १५०.१२० ॥ सारथिं चास्य भल्लेन रथनीडादपातयत् । कुजम्भः कर्म तद्दृष्ट्वा राक्षसेन्द्रस्य संयुगे ॥ १५०.१२१ ॥ रोषरक्तेक्षणयुतो रथादाप्लुत्य दानवः । खड्गं जग्राह वेगेन शरदम्बरनिर्मलम् ॥ १५०.१२२ ॥ चर्म चोदयखण्डेन्दुदशकेन विभूषितम् । अभ्यद्रवद्रणे दैत्यो रक्षोऽधिपतिमोजसा ॥ १५०.१२३ ॥ तं रक्षोऽधिपतिः प्राप्तं मुद्गरेणाहनद्धृदि । स तु तेन प्रहारेण क्षीणः संभ्रान्तमानसः ॥ १५०.१२४ ॥ तस्थावचेष्टो दनुजो यथा धीरो धराधरः । स मुहूर्तं समाश्वस्तो दानवेन्द्रोऽतिदुर्जयः ॥ १५०.१२५ ॥ रथमारुह्य जग्राह रक्षो वामकरेण तु । केशेषु निरृतिं दैत्यो जानुनाक्रम्य धिष्ठितम् ॥ १५०.१२६ ॥ ततः खड्गेन च शिरश्छेत्तुमैच्छदमर्षणः । तस्मिंस्तदन्तरे देवो वरुणोऽपांपतिर्द्रुतम् ॥ १५०.१२७ ॥ पाशेन दानवेन्द्रस्य बबन्ध च भुजद्वयम् । ततो बद्धभुजं दैत्यं विफलीकृतपौरुषम् ॥ १५०.१२८ ॥ ताडयामास गदया दयामुत्सृज्य पाशभृत् । स तु तेन प्रहारेण स्रोतोभिः क्षतजं वमन् ॥ १५०.१२९ ॥ दधार रूपं मेघस्य विद्युन्मालालतावृतम् । तदवस्थागतं दृष्ट्वा कुजम्भं महिषासुरः ॥ १५०.१३० ॥ व्यावृत्तवदनेऽगाधे ग्रस्तुमैच्छत्सुरावुभौ । निरृतिं वरुणं चैव तीक्ष्णदंष्ट्रोत्कटाननः ॥ १५०.१३१ ॥ तावभिप्रायमालक्ष्य तस्य दैत्यस्य दूषितम् । त्यक्त्वा रथपथं भीतौ महिषस्यातिरंहसा ॥ १५०.१३२ ॥ भृशं द्रुतौ जवाद्दिग्भ्यामुभाभ्यां भयविह्वलौ । जगाम निरृतिः क्षिप्रं शरणं पाकशासनम् ॥ १५०.१३३ ॥ क्रुद्धस्तु महिषो दैत्यो वरुणं समभिद्रुतः । तमन्तकमुखासक्तमालोक्य हिमवद्द्युतिः ॥ १५०.१३४ ॥ चक्रे सोमास्त्रनिःसृष्टं हिमसंघातकण्टकम् । वायव्यं चास्त्रमतुलं चन्द्रश्चक्रे द्वितीयकम् ॥ १५०.१३५ ॥ वायुना तेन चन्द्रेण संशुष्केण हिमेन च । व्यथिता दानवाः सर्वे शीतोच्छिन्ना विपौरुषाः ॥ १५०.१३६ ॥ न शेकुश्चलितुं पद्भ्यां नास्त्राण्यादातुमेव च । महाहिमनिपातेन शस्त्रैश्चन्द्रप्रचोदितैः ॥ १५०.१३७ ॥ गात्राण्यसुरसैन्यानामदह्यन्त समन्ततः । महिषो निष्प्रयत्नस्तु शीतेनाकम्पिताननः ॥ १५०.१३८ ॥ कक्षावालम्ब्य पाणिभ्यामुपविष्टो ह्यधोमुखः । सर्वे ते निष्प्रतीकारा दैत्याश्चन्द्रमसा जिताः ॥ १५०.१३९ ॥ रणेच्छां दूरतस्त्यक्त्वा तस्थुस्ते जीवितार्थिनः । तत्राब्रवीत्कालनेमिर्दैत्यान्कोपेन दीपितः ॥ १५०.१४० ॥ भो भोः शृङ्गारिणः शराः सर्वे शस्त्रास्त्रपारगाः । एकैकोऽपि जगत्सर्वं शक्तस्तुलयितुं भुजैः ॥ १५०.१४१ ॥ एकैकोऽपि क्षमो ग्रस्तुं जगत्सर्वं चराचरम् । एकैकस्यापि पर्याप्ता न सर्वेऽपि दिवौकसः ॥ १५०.१४२ ॥ कलां पूरयितुं यत्नात्षोडशीमतिविक्रमाः । किं प्रयाताश्च तिष्ठध्वं समरेऽमरनिर्जिताः ॥ १५०.१४३ ॥ न युक्तमेतच्छूराणां विशेषाद्दैत्यजन्मनाम् । राजा चान्तरितोऽस्माकं तारको लोकमारकः ॥ १५०.१४४ ॥ विरतानां रणादस्मात्क्रुद्धः प्राणान्हरिष्यति । शीतेन नष्टश्रुतयो भ्रष्टवाक्पाटवास्तथा ॥ १५०.१४५ ॥ मूकास्तदाभवन्दैत्या रणद्दशनपङ्क्तयः । तान्दृष्ट्वा नष्टचेतस्कान् दैत्याञ्छीतेन सादितान् ॥ १५०.१४६ ॥ मत्वा कालक्षमं कार्यं कालनेमिर्महासुरः । आश्रित्य दानवीं मायां वितत्य स्वं महावपुः ॥ १५०.१४७ ॥ पूरयामास गगनं दिशो विदिश एव च । निर्ममे दानवेन्द्रेशः शरीरे भास्करायुतम् ॥ १५०.१४८ ॥ दिशश्च मायया चण्डैः पूरयामास पावकैः । ततो ज्वालाकुलं सर्वं त्रैलोक्यमभवत्क्षणात् ॥ १५०.१४९ ॥ तेन ज्वालासमूहेन हिमांशुरगमच्छमम् । ततः क्रमेण विभ्रष्टं शीतदुर्दिनमाबभौ ॥ १५०.१५० ॥ तद्बलं दानवेन्द्राणां मायया कालनेमिनः । तद्दृष्ट्वा दानवानीकं लब्धसंज्ञं दिवाकरः । उवाचारुणमुद्भ्रान्तः कोपाल्लोकैकलोचनः ॥ १५०.१५१ ॥ *दिवाकर उवाच नयारुण रथं शीघ्रं कालनेमिरथो यतः । विमर्दस्तत्र विषमो भविता शूरसंक्षयः ॥ १५०.१५२ ॥ जित एष शशाङ्कोऽत्र यद्बलं वयमाश्रिताः । इत्युक्तश्चोदयामास रथं गरुडपूर्वजः ॥ १५०.१५३ ॥ प्रयत्नविधृतैरश्वैः सितचामरमालिभिः । जगद्दीपोऽथ भगवाञ्जग्राह विततं धनुः ॥ १५०.१५४ ॥ शरौ च द्वौ महाभागो दिव्यावाशीविषद्युती । संचारास्त्रेण संधाय बाणमेकं ससर्ज सः ॥ १५०.१५५ ॥ द्वितीयमिन्द्रजालेन योजितं प्रमुमोच ह । संचारास्त्रेण रूपाणां क्षणाच्चक्रे विपर्ययम् ॥ १५०.१५६ ॥ देवानां दानवं रूपं दानवानां च दैविकम् । मत्वा सुरान्स्वकानेव जघ्ने घोरास्त्रलाघवात् ॥ १५०.१५७ ॥ कालनेमी रुषाविष्टः कृतान्त इव संक्षये । कांश्चित्खड्गेन तीक्ष्णेन कांश्चिन्नाराचवृष्टिभिः । कांश्चिद्गदाभिर्घोराभिः कांश्चिद्घोरैः परश्वधैः ॥ १५०.१५८ ॥ शिरांसि केषांचिदपातयच्च भुजान्रथान्सारथींश्चोग्रवेगः । कांश्चित्पिपेषाथ रथस्य वेगात्कांश्चित्क्रुधा चोद्धतमुष्टिपातैः ॥ १५०.१५९ ॥ रणे विनिहतान्दृष्ट्वा नेमिः स्वान्दानवाधिपः । रूपं स्वं तु प्रपद्यन्त ह्यसुराः सुरधर्षिताः ॥ १५०.१६० ॥ कालनेमी रुषाविष्टस्तेषां रूपं न बुद्धवान् । नेमिदैत्यस्तु तान्दृष्ट्वा कालनेमिमुवाच ह ॥ १५०.१६१ ॥ अहं नेमिः सुरो नैव कालनेमे विदस्व माम् । भवता मोहितेनाजौ निहता भूरिविक्रमाः ॥ १५०.१६२ ॥ दैत्यानां दशलक्षाणि दुर्जयानां सुरैरिह । सर्वास्त्रवारणं मुञ्च ब्राह्ममस्त्रं त्वरान्वितः ॥ १५०.१६३ ॥ स तेन बोधितो दैत्यः सम्भ्रमाकुलचेतनः । योजयामास बाणं हि ब्रह्मास्त्रविहितेन तु ॥ १५०.१६४ ॥ मुमोच चापि दैत्येन्द्रः स स्वयं सुरकण्टकः । ततोऽस्त्रतेजसा व्याप्तं त्रैलोक्यं सचराचरम् ॥ १५०.१६५ ॥ देवानां चाभवत्सैन्यं सर्वमेव भयान्वितम् । संचरास्त्रं च संशान्तं स्वयमायोधने बभौ ॥ १५०.१६६ ॥ तस्मिन्प्रतिहते ह्यस्त्रे भ्रष्टतेजा दिवाकरः । महेन्द्रजालमाश्रित्य चक्रे स्वां कोटिशस्तनुम् ॥ १५०.१६७ ॥ विस्फूर्जत्करसम्पातसमाक्रान्तजगत्त्रयम् । तताप दानवानीकं गतमज्जौघशोणितम् ॥ १५०.१६८ ॥ ततश्चावर्षदनलं समन्तादतिसंहतम् । चक्षूंषि दानवेन्द्राणां चकारान्धानि च प्रभुः ॥ १५०.१६९ ॥ गजानामगलन्मेदः पेतुश्चाप्यरवा भुवि । तुरगा निःश्वसन्तश्च घर्मार्ता रथिनोऽपि च ॥ १५०.१७० ॥ इतश्चेतश्च सलिलं प्रार्थयन्तस्तृषातुराः । प्रच्छायविटपांश्चैव गिरीणां गह्वराणि च ॥ १५०.१७१ ॥ तेषां प्रार्थयतां शीतं द्रुमान्तरविसर्पिणाम् । दावाग्निः प्रज्वलंश्चैव घोरार्चिर्दग्धपादपः । तोयार्थिनः पुरो दृष्ट्वा तोयं कल्लोलमालिनम् ॥ १५०.१७२ ॥ पुरःस्थितमपि प्राप्तुं न शेकुरवमर्दिताः । अप्राप्य सलिलं भूमौ व्यात्तास्या गतचेतसः ॥ १५०.१७३ ॥ तत्र तत्र व्यदृश्यन्त मृता दैत्येश्वरा भुवि । रथा गजाश्च पतितास्तुरगाश्च समापिताः ॥ १५०.१७४ ॥ स्थिता वमन्तो धावन्तो गलद्रक्तवसासृजः । दानवानां सहस्राणि व्यदृश्यन्त मृतानि तु ॥ १५०.१७५ ॥ संक्षये दानवेन्द्राणां तस्मिन्महति वर्तिते । प्रकोपोद्भूतताम्राक्षः कालनेमी रुषातुरः ॥ १५०.१७६ ॥ अभवत्कल्पमेघाभः स्फुरद्भूरिशतह्रदः । गम्भीरास्फोटनिर्ह्रादजगद्धृदयघट्टकः ॥ १५०.१७७ ॥ प्रच्छाद्य गगनाभोगं रविमायां व्यनाशयत् । शीतं ववर्ष सलिलं दानवेन्द्रबलं प्रति ॥ १५०.१७८ ॥ दैत्यास्तां वृष्टिमासाद्य समाश्वस्तास्ततः क्रमात् । बीजाङ्कुरा इवाम्लानाः प्राप्य वृष्टिं धरातले ॥ १५०.१७९ ॥ ततः स मेघरूपी तु कालनेमिर्महासुरः । शस्त्रवृष्टिं ववर्षोग्रां देवानीकेषु दुर्जयाम् ॥ १५०.१८० ॥ तया वृष्ट्या बाध्यमाना दैत्येन्द्राणां महौजसाम् । गतिं कां च न पश्यन्तो गावः शीतार्दिता इव ॥ १५०.१८१ ॥ परस्परं व्यलीयन्त पृष्ठेषु व्यस्त्रपाणयः । स्वेषु बाधे व्यलीयन्त गजेषु तुरगेषु च ॥ १५०.१८२ ॥ रथेषु त्वमरास्त्रस्तास्तत्र तत्र निलिल्यिरे । अपरे कुञ्चितैर्गात्रैः स्वहस्तपिहिताननाः ॥ १५०.१८३ ॥ इतश्चेतश्च संभ्रान्ता बभ्रमुर्वै दिशो दश । एवंविधे तु संग्रामे तुमुले देवसंक्षये ॥ १५०.१८४ ॥ दृश्यन्ते पतिता भूमौ शस्त्रभिन्नाङ्गसंधयः । विभुजा भिन्नमूर्धानस्तथा छिन्नोरुजानवः ॥ १५०.१८५ ॥ विपर्यस्तरथासङ्गा निष्पिष्टध्वजपङ्क्तयः । निर्भिन्नाङ्गैस्तुरंगैस्तु गजैश्चाचलसंनिभैः ॥ १५०.१८६ ॥ स्रुतरक्तह्रदैर्भूमिर्विकृताविकृता बभौ । एवमाजौ बली दैत्यः कालनेमिर्महासुरः ॥ १५०.१८७ ॥ जघ्ने मुहूर्तमात्रेण गन्धर्वाणां दशायुतम् । यक्षाणां पञ्च लक्षाणि रक्षसामयुतानि षट् ॥ १५०.१८८ ॥ त्रीणि लक्षाणि जघ्ने स किंनराणां तरस्विनाम् । जघ्ने पिशाचमुख्यानां सप्त लक्षाणि निर्भयः ॥ १५०.१८९ ॥ इतरेषामसंख्याताः सुरजातिनिकायिनाम् । जघ्ने स कोटीः संक्रुद्धश्चित्रास्त्रैरस्त्रकोविदः ॥ १५०.१९० ॥ एवं परिभवे भीमे तदा त्वमरसंक्षये । संक्रुद्धावश्विनौ देवौ चित्रास्त्रकवचोज्ज्वलौ ॥ १५०.१९१ ॥ जघ्नतुः समरे दैत्यं कृतान्तानलसंनिभम् । तमासाद्य रणे घोरमेकैकः षष्टिभिः शरैः ॥ १५०.१९२ ॥ जघ्ने मर्मसु तीक्ष्णाग्रैरसुरं भीमदर्शनम् । ताभ्यां बाणप्रहारैः स किंचिदायस्तचेतनः ॥ १५०.१९३ ॥ जग्राह चक्रमष्टारं तैलधौतं रणान्तकम् । तेन चक्रेण सोऽश्विभ्यां चिछेद रथकूबरम् ॥ १५०.१९४ ॥ जग्राहाथ धनुर्दैत्यः शरांश्चाशीविषोपमान् । ववर्ष भिषजो मूर्ध्नि संछाद्याकाशगोचरम् ॥ १५०.१९५ ॥ तावप्यस्त्रैश्चिछिदतुः शितैस्तैर्दैत्यसायकान् । तच्च कर्म तयोर्दृष्ट्वा विस्मितः कोपमाविशत् ॥ १५०.१९६ ॥ महता स तु कोपेन सर्वायोमयसादनम् । जग्राह मुद्गरं भीमं कालदण्डविभीषणम् ॥ १५०.१९७ ॥ स ततो भ्राम्य वेगेन चिक्षेपाश्विरथं प्रति । तं तु मुद्गरमायान्तमालोक्याम्बरगोचरम् ॥ १५०.१९८ ॥ त्यक्त्वा रथौ तु तौ वेगादाप्लुतौ तरसाश्विनौ । तौ रथौ स तु निष्पिष्य मुद्गरोऽचलसंनिभः ॥ १५०.१९९ ॥ दारयामास धरणीं हेमजालपरिष्कृतः । तस्य कर्माश्विनौ दृष्ट्वा भिषजौ चित्रयोधिनौ ॥ १५०.२०० ॥ वज्रास्त्रं तु प्रकुर्वाते दानवेन्द्रनिवारणम् । ततो वज्रमयं वर्षं प्रावर्तदतिदारुणम् ॥ १५०.२०१ ॥ घोरवज्रप्रहारैस्तु दैत्येन्द्रः स परिष्कृतः । रथो ध्वजो धनुश्चक्रं कवचं चापि काञ्चनम् ॥ १५०.२०२ ॥ क्षणेन तिलशो जातं सर्वसैन्यस्य पश्यतः । तद्दृष्ट्वा दुष्करं कर्म सोऽश्विभ्यां भीमविक्रमः ॥ १५०.२०३ ॥ नारायणास्त्रं बलवान्मुमोच रणमूर्धनि । वज्रास्त्रं शमयामास दानवेन्द्रोऽस्त्रतेजसा ॥ १५०.२०४ ॥ तस्मिन्प्रशान्ते वज्रास्त्रे कालनेमिरनन्तरम् । जीवग्राहं ग्राहयितुमश्विनौ तु प्रचक्रमे ॥ १५०.२०५ ॥ तावश्विनौ रणाद्भीतौ सहस्राक्षरथं प्रति । प्रयातौ वेपमानौ तु पदा शस्त्रविवर्जितौ ॥ १५०.२०६ ॥ तयोरनुगतो दैत्यः कालनेमिर्महाबलः । प्राप्येन्द्रस्य रथं क्रूरो दैत्यानीकपदानुगः ॥ १५०.२०७ ॥ तं दृष्ट्वा सर्वभूतानि वित्रेसुर्विह्वलानि तु । दृष्ट्वा दैत्यस्य तत्क्रौर्यं सर्वभूतानि मेनिरे ॥ १५०.२०८ ॥ पराजयं महेन्द्रस्य सर्वलोकक्षयावहम् । चेलुः शिखरिणो मुख्याः पेतुरुल्का नभस्तलात् ॥ १५०.२०९ ॥ जगर्जुर्जलदा दिक्षु ह्युद्भूताश्च महार्णवाः । तां भूतविकृतिं दृष्ट्वा भगवान्गरुडध्वजः ॥ १५०.२१० ॥ व्यबुध्यताहिपर्यङ्के योगनिद्रां विहाय तु । लक्ष्मीकरयुगाजस्रलालिताङ्घ्रिसरोरुहः ॥ १५०.२११ ॥ शरदम्बरनीलाब्जकान्तदेहछविर्विभुः । कौस्तुभोद्भासितोरस्कः कान्तकेयूरभास्वरः ॥ १५०.२१२ ॥ विमृश्य सुरसंक्षोभं वैनतेयं समाह्वयत् । आहूतेऽवस्थिते तस्मिन्नागावस्थितवर्ष्मणि ॥ १५०.२१३ ॥ दिव्यनानास्त्रतीक्ष्णार्चिरारुह्यागात्सुरान्स्वयम् । तत्रापश्यत देवेन्द्रमभिद्रुतमभिप्लुतैः ॥ १५०.२१४ ॥ दानवेन्द्रैर्नवाम्भोदसच्छायैः पौरुषोत्कटैः । यथा हि पुरुषं घोरैरभाग्यैर्वंशशालिभिः ॥ १५०.२१५ ॥ परित्राणायाशु कृतं सुक्षेत्रे कर्म निर्मलम् । अथापश्यन्त दैतेया वियति ज्योतिर्मण्डलम् ॥ १५०.२१६ ॥ स्फुरन्तमुदयाद्रिस्थं सूर्यमुष्णत्विषा इव । प्रभावं ज्ञातुमिच्छन्तो दानवास्तस्य तेजसः ॥ १५०.२१७ ॥ गरुत्मन्तमपश्यन्तः कल्पान्तानलसंनिभम् । तमास्थितं च मेघौघद्युतिमक्षयमच्युतम् ॥ १५०.२१८ ॥ तमालोक्यासुरेन्द्रास्तु हर्षसम्पूर्णमानसाः । अयं वै देवसर्वस्वं जितेऽस्मिन्निर्जिताः सुराः ॥ १५०.२१९ ॥ अयं स दैत्यचक्राणां कृतान्तः केशवोऽरिहा । एनमाश्रित्य लोकेषु यज्ञभागभुजोऽमराः ॥ १५०.२२० ॥ इत्युक्त्वा दानवाः सर्वे परिवार्य समन्ततः । निजघ्नुर्विविधैरस्त्रैस्ते तमायान्तमाहवे ॥ १५०.२२१ ॥ कालनेमिप्रभृतयो दश दैत्या महारथाः । षष्ट्या विव्याध बाणानां कालनेमिर्जनार्दनम् ॥ १५०.२२२ ॥ निमिः शतेन बाणानां मथनोऽशीतिभिः शरैः । जम्भकश्चैव सप्तत्या शुम्भो दशभिरेव च ॥ १५०.२२३ ॥ शेषा दैत्येश्वराः सर्वे विष्णुमेकैकशः शरैः । दशभिश्चैव यत्तास्ते जघ्नुः सगरुडं रणे ॥ १५०.२२४ ॥ तेषाममृष्य तत्कर्म विष्णुर्दानवसूदनः । एकैकं दानवं जघ्ने षड्भिः षड्भिरजिह्मगैः ॥ १५०.२२५ ॥ आकर्णकृष्टैर्भूयश्च कालनेमिस्त्रिभिः शरैः । विष्णुं विव्याध हृदये क्रोधाद्रक्तविलोचनः ॥ १५०.२२६ ॥ तस्याशोभन्त ते बाणा हृदये तप्तकाञ्चनाः । मयूखानीव दीप्तानि कौस्तुभस्य स्फुटत्विषः ॥ १५०.२२७ ॥ तैर्बाणैः किंचिदायस्तो हरिर्जग्राह मुद्गरम् । सततं भ्राम्य वेगेन दानवाय व्यसर्जयत् ॥ १५०.२२८ ॥ दानवेन्द्रस्तमप्राप्तं वियत्येव शतैः शरैः । चिछेद तिलशः क्रुद्धो दर्शयन्पाणिलाघवम् ॥ १५०.२२९ ॥ ततो विष्णुः प्रकुपितः प्रासं जग्राह भैरवम् । तेन दैत्यस्य हृदयं ताडयामास गाढतः ॥ १५०.२३० ॥ क्षणेन लब्धसंज्ञस्तु कालनेमिर्महासुरः । शक्तिं जग्राह तीक्ष्णाग्रां हेमघण्टाट्टहासिनीम् ॥ १५०.२३१ ॥ तया वामभुजं विष्णोर्बिभेद दितिनन्दनः । भिन्नः शक्त्या भुजस्तस्य स्रुतशोणित आबभौ ॥ १५०.२३२ ॥ पद्मरागमयेनेव केयूरेण विभूषितः । ततो विष्णुः प्रकुपितो जग्राह विपुलं धनुः ॥ १५०.२३३ ॥ सप्तदश च नाराचांस्तीक्ष्णान्मर्मविभेदिनः । दैत्यस्य हृदयं षड्भिर्विव्याध च त्रिभिः शरैः ॥ १५०.२३४ ॥ चतुर्भिः सारथिं चास्य ध्वजं चैकेन पत्त्रिणा । द्वाभ्यां ज्याधनुषी चापि भुजं सव्यं च पत्त्रिणा ॥ १५०.२३५ ॥ स विद्धो हृदये गाढं दैत्यो हरिशिलीमुखैः । स्रुतरक्तारुणप्रांशुः पीडाकुलितमानसः ॥ १५०.२३६ ॥ चकम्पे मारुतेनेव नोदितः किंशुकद्रुमः । तमाकम्पितमालक्ष्य गदां जग्राह केशवः ॥ १५०.२३७ ॥ तां च वेगेन चिक्षेप कालनेमिरथं प्रति । सा पपात शिरस्युग्रा विपुला कालनेमिनः ॥ १५०.२३८ ॥ संचूर्णितोत्तमाङ्गस्तु निष्पिष्टमुकुटोऽसुरः । स्रुतरक्तौघरन्ध्रस्तु स्रुतधातुरिवाचलः ॥ १५०.२३९ ॥ प्रापतत्स्वे रथे भग्ने विसंज्ञः शिष्टजीवितः । पतितस्य रथोपस्थे दानवस्याच्युतोऽरिहा ॥ १५०.२४० ॥ स्मितपूर्वमुवाचेदं वाक्यं चक्रायुधः प्रभुः । गच्छासुर विमुक्तोऽसि साम्प्रतं जीव निर्भयः ॥ १५०.२४१ ॥ ततः स्वल्पेन कालेन अहमेव तवान्तकः । एतच्छ्रुत्वा वचस्तस्य सारथिः कालनेमिनः । अपवाह्य रथं दूरमनयत्कालनेमिनः ॥ १५०.२४२ ॥ ______________________________________________________ मत्स्यपुराण १५१ *सूत उवाच तं दृष्ट्वा दानवाः क्रुद्धाश्चेरुः स्वैः स्वैर्बलैर्वृताः ।* सरघा इव माक्षीकहरणे सर्वतोदिशम् ॥ १५१.१ ॥* कृष्णचामरजालाढ्ये सुधाविरचिताङ्कुरे । चित्रपञ्चपताके तु प्रभिन्नकरटामुखे ॥ १५१.२ ॥ पर्वताभे गजे भीमे मदस्राविणि दुर्धरे । आरुह्याजौ निमिर्दैत्यो हरिं प्रत्युद्ययौ बली ॥ १५१.३ ॥ तस्यासन्दानवा रौद्रा गजस्य पदरक्षिणः । सप्तविंशतिसाहस्राः किरीटकवचोज्ज्वलाः ॥ १५१.४ ॥ अश्वारूढश्च मथनो जम्भकश्चोष्ट्रवाहनः । शुम्भोऽपि विपुलं मेषं समारुह्याव्रजद्रणम् ॥ १५१.५ ॥ अपरे दानवेन्द्रास्तु यत्ता नानास्त्रपाणयः । आजघ्नुः समरे क्रुद्धा विष्णुमक्लिष्टकारिणम् ॥ १५१.६ ॥ परिघेण निमिर्दैत्यो मथनो मुद्गरेण तु । शुम्भः शूलेन तीक्ष्णेन प्रासेन ग्रसनस्तथा ॥ १५१.७ ॥ चक्रेण महिषः क्रुद्धो जम्भः शक्त्या महारणे । जघ्नुर्नारायणं सर्वे शेषास्तीक्ष्णैश्च मार्गणैः ॥ १५१.८ ॥ तान्यस्त्राणि प्रयुक्तानि शरीरं विविशुर्हरेः । गुरूक्तान्युपदिष्टानि सच्छिष्यस्य श्रुताविव ॥ १५१.९ ॥ असम्भ्रान्तो रणे विष्णुरथ जग्राह कार्मुकम् । शरांश्चाशीविषाकारांस्तैलधौतानजिह्मगान् ॥ १५१.१० ॥ ततोऽभिसंध्य दैत्यांस्तानाकर्णाकृष्टकार्मुकः । अभ्यद्रवद्रणे क्रुद्धो दैत्यानीके तु पौरुषात् ॥ १५१.११ ॥ निमिं विव्याध विंशत्या बाणानामग्निवर्चसाम् । मथनं दशभिर्बाणैः शुम्भं पञ्चभिरेव च ॥ १५१.१२ ॥ एकेन महिषं क्रुद्धो विव्याधोरसि पत्त्रिणा । जम्भं द्वादशभिस्तीक्ष्णैः सर्वांश्चैकैकशोऽष्टभिः ॥ १५१.१३ ॥ तस्य तल्लाघवं दृष्ट्वा दानवाः क्रोधमूर्छिताः । नर्दमानाः प्रयत्नेन चक्रुरत्यद्भुतं रणम् ॥ १५१.१४ ॥ चिछेदाथ धनुर्विष्णोर्निमिर्भल्लेन दानवः । संध्यमानं शरं हस्ते चिछेद महिषासुरः ॥ १५१.१५ ॥ पीडयामास गरुडं जम्भस्तीक्ष्णैस्तु सायकैः । भुजं तस्याहनद्गाढं शुम्भो भूधरसंनिभः ॥ १५१.१६ ॥ छिन्ने धनुषि गोविन्दो गदां जग्राह भीषणाम् । तां प्राहिणोत्स वेगेन मथनाय महाहवे ॥ १५१.१७ ॥ तामप्राप्तां निमिर्बाणैश्चिछेद तिलशो रणे । तां नाशमागतां दृष्ट्वा हीनाग्रे प्रार्थनामिव ॥ १५१.१८ ॥ जग्राह मुद्गरं घोरं दिव्यरत्नपरिष्कृतम् । तं मुमोचाथ वेगेन निमिमुद्दिश्य दानवम् ॥ १५१.१९ ॥ तमायान्तं वियत्येव त्रयो दैत्या न्यवारयन् । गदया जम्भदैत्यस्तु ग्रसनः पट्टिशेन तु ॥ १५१.२० ॥ शक्त्या च महिषो दैत्यः स्वपक्षजयकाङ्क्षया । निराकृतं तमालोक्य दुर्जने प्रणयं यथा ॥ १५१.२१ ॥ जग्राह शक्तिमुग्राग्रामष्टघण्टोत्कटस्वनाम् । जम्भाय तां समुद्दिश्य प्राहिणोद्रणभीषणः ॥ १५१.२२ ॥ तामम्बरस्थां जग्राह गजो दानवनन्दनः । गृहीतां तां समालोक्य शिक्षामिव विवेकिभिः ॥ १५१.२३ ॥ दृढं भारसहं सारमन्यदादाय कार्मुकम् । रौद्रास्त्रमभिसंधाय तस्मिन्बाणं मुमोच ह ॥ १५१.२४ ॥ ततोऽस्त्रतेजसा सर्वं व्याप्तं लोकं चराचरम् । ततो बाणमयं सर्वमाकाशं समदृश्यत ॥ १५१.२५ ॥ भूर्दिशो विदिशश्चैव बाणजालमया बभुः । दृष्ट्वा तदस्त्रमाहात्म्यं सेननीर्ग्रसनोऽसुरः ॥ १५१.२६ ॥ ब्राह्ममस्त्रं चकारासौ सर्वास्त्रविनिवारणम् । तेन तत्प्रशमं यातं रौद्रास्त्रं लोकघस्मरम् ॥ १५१.२७ ॥ अस्त्रे प्रतिहते तस्मिन् विष्णुर्दानवसूदनः । कालदण्डास्त्रमकरोत्सर्वलोकभयंकरम् ॥ १५१.२८ ॥ संधीयमाने तस्मिंस्तु मारुतः परुषो ववौ । चकम्पे च मही देवी दैत्या भिन्नधियोऽभवन् ॥ १५१.२९ ॥ तदस्त्रमुग्रं दृष्ट्वा तु दानवा युद्धदुर्मदाः । चक्रुरस्त्राणि दिव्यानि नानारूपाणि संयुगे ॥ १५१.३० ॥ नारायणास्त्रं ग्रसनो गृहीत्वा चक्रं निमिः स्वास्त्रवरं मुमोच । ऐषीकमस्त्रं च चकार जम्भस्तत्कालदण्डास्त्रनिवारणाय ॥ १५१.३१ ॥ यावन्न संध्या न दशां प्रयान्ति दैत्येश्वराश्चास्त्रनिवारणाय । तावत्क्षणेनैव जघान कोटीर्दैत्येश्वराणां सगजान्सहाश्वान् ॥ १५१.३२ ॥ अनन्तरं शान्तमभूत्तदस्त्रं दैत्यास्त्रयोगेण तु कालदण्डम् । शान्तं तदालोक्य हरिः स्वशस्त्रं स्वविक्रमे मन्युपरीतमूर्तिः ॥ १५१.३३ ॥ जग्राह चक्रं तपनायुताभमुग्रारमात्मानमिव द्वितीयम् । चिक्षेप सेनापतयेऽभिसंध्य कण्ठस्थलं वज्रकठोरमुग्रम् ॥ १५१.३४ ॥ चक्रं तदाकाशगतं विलोक्य सर्वात्मना दैत्यवराः स्ववीर्यैः । नाशक्नुवन्वारयितुं प्रचण्डं दैवं यथा कर्म मुधा प्रपन्नम् ॥ १५१.३५ ॥ तमप्रतर्क्यं जनयन्नजय्यं चक्रं पपात ग्रसनस्य कण्ठे । द्विधा तु कृत्वा ग्रसनस्य कण्ठं तद्रक्तधारारुणघोरनाभि । जगाम भूयोऽपि जनार्दनस्य पाणिं प्रवृद्धानलतुल्यदीप्ति ॥ १५१.३६ ॥ ______________________________________________________ मत्स्यपुराण १५२ तस्मिन्विनिहते दैत्ये ग्रसने लोकनायके । निर्मर्यादमयुध्यन्त हरिणा सह दानवाः ॥ १५२.१ ॥ पट्टिशैर्मुशलैः पाशैर्गदाभिः कुणपैरपि । तीक्ष्णाननैश्च नाराचैश्चक्रैः शक्तिभिरेव च ॥ १५२.२ ॥ तानस्त्रान्दानवैर्मुक्तांश्चित्रयोधी जनार्दनः । एकैकं शतशश्चक्रे बाणैरग्निशिखोपमैः ॥ १५२.३ ॥ ततः क्षीणायुधप्राणा दानवा भ्रान्तचेतसः । अस्त्राण्यादातुमभवन्नसमर्था यदा रणे ॥ १५२.४ ॥ तदा मृतैर्गजैरश्वैर्जनार्दनमयोधयन् । समन्तात्कोटिशो दैत्याः सर्वतः प्रत्ययोधयन् ॥ १५२.५ ॥ बहु कृत्वा वपुर्विष्णुः किंचिच्छान्तभुजोऽभवत् । उवाच च गरुत्मन्तं तस्मिन्सुतुमुले रणे ॥ १५२.६ ॥ गरुत्मन्कच्चिदश्रान्तस्त्वमस्मिन्नपि साम्प्रतम् । यद्यश्रान्तोऽसि तद्याहि मथनस्य रथं प्रति ॥ १५२.७ ॥ श्रान्तोऽस्यथ मुहूर्तं त्वं रणादपसृतो भव । इत्युक्तो गरुडस्तेन विष्णुना प्रभविष्णुना ॥ १५२.८ ॥ आससाद रणे दैत्यं मथनं घोरदर्शनम् । दैत्यस्त्वभिमुखं दृष्ट्वा शङ्खचक्रगदाधरम् ॥ १५२.९ ॥ जघान भिन्दिपालेन शितबाणेन वक्षसि । तत्प्रहारमचिन्त्यैव विष्णुस्तस्मिन्महाहवे ॥ १५२.१० ॥ जघान पञ्चभिर्बाणैर्मार्जितैश्च शिलाशितैः । पुनर्दशभिराकृष्टैस्तं तताड स्तनान्तरे ॥ १५२.११ ॥ विद्धो मर्मसु दैत्येन्द्रो हरिबाणैरकम्पत । स मुहूर्तं समाश्वास्य जग्राह परिघं तदा ॥ १५२.१२ ॥ जघ्ने जनार्दनं चापि परिघेणाग्निवर्चसा । विष्णुस्तेन प्रहारेण किंचिदाघूर्णितोऽभवत् ॥ १५२.१३ ॥ ततः क्रोधविवृत्ताक्षो गदां जग्राह माधवः । मथनं सरथं रोषान्निष्पिपेषाथ रोषतः ॥ १५२.१४ ॥ स पपाताथ दैत्येन्द्रः क्षयकालेऽचलो यथा । तस्मिन्निपतिते भूमौ दानवे वीर्यशालिनि ॥ १५२.१५ ॥ अवसादं ययुर्दैत्याः कर्दमे करिणो यथा । ततस्तेषु विपन्नेषु दानवेष्वतिमानिषु ॥ १५२.१६ ॥ प्रकोपाद्रक्तनयनो महिषो दानवेश्वरः । प्रत्युद्ययौ हरिं रौद्रः स्वबाहुबलमास्थितः ॥ १५२.१७ ॥ तीक्ष्णधारेण शूलेन महिषो हरिमर्दयन् । शक्त्या च गरुडं वीरो महिषोऽभ्यहनद्धृदि ॥ १५२.१८ ॥ ततो व्यावृत्य वदनं महाचलगुहानिभम् । ग्रस्तुमैच्छद्रणे दैत्यः स गरुत्मन्तमच्युतम् ॥ १५२.१९ ॥ अथाच्युतोऽपि विज्ञाय दानवस्य चिकीर्षितम् । वदनं पूरयामास दिव्यैरस्त्रैर्महाबलः ॥ १५२.२० ॥ महिषस्याथ ससृजे बाणौघं गरुडध्वजः । पिधाय वदनं दिव्यैर्दिव्यास्त्रपरिमन्त्रितैः ॥ १५२.२१ ॥ स तैर्बाणैरभिहतो महिषोऽचलसंनिभः । परिवर्तितकायोऽधः पपात न ममार च ॥ १५२.२२ ॥ महिषं पतितं दृष्ट्वा भूमौ प्रोवाच केशवः । महिषासुर मत्तस्त्वं वधं नास्त्रैरिहार्हसि ॥ १५२.२३ ॥ योषिद्वध्यः पुरोक्तोऽसि साक्षात्कमलयोनिना । उत्तिष्ठ जीवितं रक्ष गच्छास्मात्संगराद्द्रुतम् ॥ १५२.२४ ॥ तस्मिन्पराङ्मुखे दैत्ये महिषे शुम्भदानवः । संदष्टौष्ठपुटः कोपाद्भ्रुकुटीकुटिलाननः ॥ १५२.२५ ॥ निर्मथ्य पाणिना पाणिं धनुरादाय भैरवम् । सज्यं चकार स धनुः शरांश्चाशीविषोपमान् ॥ १५२.२६ ॥ स चित्रयोधी दृढमुष्टिपातस्ततस्तु विष्णुं गरुडं च दैत्यः । बाणैर्ज्वलद्वह्निशिखानिकाशैः क्षिप्तैरसंख्यैः परिघातहीनैः ॥ १५२.२७ ॥ विष्णुश्च दैत्येन्द्रशराहतोऽपि भुशुण्डिमादाय कृतान्ततुल्याम् । तया भुशुण्ड्या च पिपेष मेषं शुम्भस्य पत्त्रं धरणीधराभम् ॥ १५२.२८ ॥ तस्मादवप्लुत्य हताच्च मेषाद्भूभौ पदातिः स तु दैत्यनाथः । ततो महीस्थस्य हरिः शरौघान्मुमोच कालानलतुल्यभासः ॥ १५२.२९ ॥ शरैस्त्रिभिस्तस्य भुजं बिभेद षड्भिश्च शीर्षं दशभिश्च केतुम् । विष्णुर्विकृष्टैः श्रवणावसानं दैत्यस्य विव्याध विवृत्तनेत्रः ॥ १५२.३० ॥ स तेन विद्धो व्यथितो बभूव दैत्येश्वरो विस्रुतशोणितौघः । ततोऽस्य किंचिच्चलितस्य धैर्यादुवाच शङ्खाम्बुजशार्ङ्गपाणिः ॥ १५२.३१ ॥ कुमारिवध्योऽसि रणं विमुञ्च शुम्भासुर स्वल्पतरैरहोभिः । वधं न मत्तोऽर्हसि चेह मूढ वृथैव किं युद्धसमुत्सुकोऽसि ॥ १५२.३२ ॥ जम्भो वचो विष्णुमुखान्निशम्य निमिश्च निष्पेष्टुमियेष विष्णुम् । गदामथोद्यम्य निमिः प्रचण्डां जघान गाढां गरुडं शिरस्तः ॥ १५२.३३ ॥ शुम्भोऽपि विष्णुं परिघेण मूर्ध्नि प्रमृष्टरत्नौघविचित्रभासा । तौ दानवाभ्यां विषमैः प्रहारैर्निपेतुरुर्व्यां घनपावकाभौ ॥ १५२.३४ ॥ तत्कर्म दृष्ट्वा दितिजास्तु सर्वे जगर्जुरुच्चैः कृतसिंहनादाः । धनूंषि चास्फोट्य सुराभिघातैर्व्यदारयन्भूमिमपि प्रचण्डाः । वासांसि चैवादुधुवुः परे तु दध्मुश्च शङ्खानकगोमुखौघान् ॥ १५२.३५ ॥ अथ संज्ञामवाप्याशु गरुडोऽपि सकेशवः । पराङ्मुखो रणात्तस्मात्पलायत महाजवः ॥ १५२.३६ ॥ ______________________________________________________ मत्स्यपुराण १५३ *सूत उवाच तमालोक्य पलायन्तं विभ्रष्टध्वजकार्मुकम् । हरिं देवः सहस्राक्षो मेने भग्नं दुराहवे ॥ १५३.१ ॥ दैत्यांश्च मुदितान्दृष्ट्वा कर्तव्यं नाध्यगच्छत । अथायान्निकटे विष्णोः सुरेशः पाकशासनः ॥ १५३.२ ॥ उवाच चैनं मधुरं प्रोत्साहपरिबृंहकम् । किमेभिः क्रीडसे देव दानवैर्दुष्टमानसैः ॥ १५३.३ ॥ दुर्जनैर्लब्धरन्ध्रस्य पुरुषस्य कुतः क्रियाः । शक्तेनोपेक्षितो नीचो मन्यते बलमात्मनः ॥ १५३.४ ॥ तस्मान्न नीचं मतिमान् दुर्गहीनं हि संत्यजेत् । अथाग्रेसरसंपत्त्या रथिनो जयमाप्नुयुः ॥ १५३.५ ॥ कस्ते सखाभवच्चाग्रे हिरण्याक्षवधे विभो । हिरण्यकशिपुर्दैत्यो वीर्यशाली मदोद्धतः ॥ १५३.६ ॥ त्वां प्राप्यापश्यदसुरो विषमं स्मृतिविभ्रमम् । पूर्वेऽप्यतिबला ये च दैत्येन्द्राः सुरविद्विषः ॥ १५३.७ ॥ विनाशमागताः प्राप्य शलभा इव पावकम् । युगे युगे च दैत्यानां त्वमेवान्तकरो हरे ॥ १५३.८ ॥ तथैवाद्येह मग्नानां भव विष्णो सुराश्रयः । एवमुक्तस्ततो विष्णुर्व्यवर्धत महाभुजः ॥ १५३.९ ॥ ऋद्ध्या परमया युक्तः सर्वभूताश्रयोऽरिहा । अथोवाच सहस्राक्षं कालक्षममधोक्षजः ॥ १५३.१० ॥ दैत्येन्द्राः स्वैर्वधोपायैः शक्या हन्तुं हि नान्यतः । दुर्जयस्तारको दैत्यो मुक्त्वा सप्तदिनं शिशुम् ॥ १५३.११ ॥ कश्चित्स्त्रीवध्यतां प्राप्तो वधेऽन्यस्य कुमारिका । जम्भस्तु वध्यतां प्राप्तो दानवः क्रूरविक्रमः ॥ १५३.१२ ॥ तस्माद्वीर्येण दिव्येन जहि जम्भं जगद्वरम् । अवध्यः सर्वभूतानां त्वां विना स तु दानवः ॥ १५३.१३ ॥ मया गुप्तो रणे जम्भं जगत्कण्टकमुद्धर । तद्वैकुण्ठवचः श्रुत्वा सहस्राक्षोऽमरारिहा ॥ १५३.१४ ॥ समादिशत्सुरान्सर्वान् सैन्यस्य रचनां प्रति । यत्सारं सर्वलोकेषु वीर्यस्य तपसोऽपि च ॥ १५३.१५ ॥ तदेकादश रुद्रांस्तु चकाराग्रेसरान्हरिः । व्यालभोगाङ्गसंनद्धा बलिनो नीलकंधराः ॥ १५३.१६ ॥ चन्द्रखण्डनृमुण्डालीमण्डितोरुशिखण्डिनः । शूलज्वालावलिप्ताङ्गा भुजमण्डलभैरवाः ॥ १५३.१७ ॥ पिङ्गोत्तुङ्गजटाजूटाः सिंहचर्मानुषङ्गिणः । कपालीशादयो रुद्रा विद्रावितमहासुराः ॥ १५३.१८ ॥ कपाली पिङ्गलो भीमो विरूपाक्षो विलोहितः । अजेशः शासनः शास्ता शंभुश्चण्डो ध्रुवस्तथा ॥ १५३.१९ ॥ एत एकादशानन्तबला रुद्राः प्रभाविणः । पालयन्तो बलस्याग्रे दारयन्तश्च दानवान् ॥ १५३.२० ॥ आप्याययन्तस्त्रिदशान् गर्जन्त इव चाम्बुदाः । हिमाचलाभे महति काञ्चनाम्बुरुहस्रजि ॥ १५३.२१ ॥ प्रचलच्चामरे हेमघण्टासंघातमण्डिते । ऐरावते चतुर्दन्ते मातङ्गेऽचलसंस्थिते ॥ १५३.२२ ॥ महामदजलस्रावे कामरूपे शतक्रतुः । तस्थौ हिमगिरेः शृङ्गे भानुमानिव दीप्तिमान् ॥ १५३.२३ ॥ तस्यारक्षत्पदं सव्यं मारुतोऽमितविक्रमः । जुगोपापरमग्निस्तु ज्वालापूरितदिङ्मुखः ॥ १५३.२४ ॥ पृष्ठरक्षोऽभवद्विष्णुः ससैन्यस्य शतक्रतोः । आदित्या वसवो विश्वे मरुतश्चाश्विनावपि ॥ १५३.२५ ॥ गन्धर्वा राक्षसा यक्षाः सकिंनरमहोरगाः । नानाविधायुधाश्चित्रा दधाना हेमभूषणाः ॥ १५३.२६ ॥ कोटिशः कोटिशः कृत्वा वृन्दं चिह्नोपलक्षितम् । विश्रामयन्तः स्वां कीर्तिं बन्दिवृन्दपुरःसराः । चेरुर्दैत्यवधे हृष्टाः सहेन्द्राः सुरजातयः ॥ १५३.२७ ॥ शतक्रतोरमरनिकायपालिता पताकिनी गजशतवाजिनादिता । सितोन्नतध्वजपटकोटिमण्डिता बभूव सा दितिसुतशोकवर्धिनी ॥ १५३.२८ ॥ आयान्तीमवलोक्याथ सुरसेनां गजासुरः । गजरूपी महाम्भोदसंघातो भाति भैरवः ॥ १५३.२९ ॥ परश्वधायुधो दैत्यो दंशितोष्ठकसंपुटः । ममर्द च रणे देवांश्चिक्षेपान्यान्करेण तु ॥ १५३.३० ॥ परान्परशुना जघ्ने दैत्येन्द्रो रौद्रविक्रमः । तस्य पातयतः सेनां यक्षगन्धर्वकिंनराः ॥ १५३.३१ ॥ मुमुचुः संहताः सर्वे चित्रशस्त्रास्त्रसंहतिम् । पाशान् परश्वधांश्चक्रान् भिन्दिपालान् समुद्गरान् ॥ १५३.३२ ॥ कुन्तान्प्रासानसींस्तीक्ष्णान्मुद्गरांश्चापि दुःसहान् । तान्सर्वान्सोऽग्रसद्दैत्यः कवलानिव यूथपः ॥ १५३.३३ ॥ कोपास्फालितदीर्घाग्रकरास्फोटेन पातयन् । विचचार रणे देवान् दुष्प्रेक्ष्ये गजदानवः ॥ १५३.३४ ॥ यस्मिन्यस्मिन्निपतति सुरवृन्दे गजासुरः । तस्मिंस्तस्मिन्महाशब्दो हाहाकारकृतोऽभवत् ॥ १५३.३५ ॥ अथ विद्रवमाणं तद्बलं प्रेक्ष्य समन्ततः । रुद्राः परस्परं प्रोचुरहंकारोत्थितार्चिषः ॥ १५३.३६ ॥ भो भो गृह्णीत दैत्येन्द्रं मर्दतैनं हताश्रयम् । कर्षतैनं शितैः शूलैर्भञ्जतैनं च मर्मसु ॥ १५३.३७ ॥ कपाली वाक्यमाकर्ण्य शूलं शितशिखामुखम् । संमार्ज्य वामहस्तेन संरम्भविवृतेक्षणः ॥ १५३.३८ ॥ अधावद्भृकुटीवक्रो दैत्येन्द्राभिमुखो रणे । दृढेन मुष्टिबन्धेन शूलं विष्टभ्य निर्मलम् ॥ १५३.३९ ॥ जघान कुम्भदेशे तु कपाली गजदानवम् । ततो दशापि ते रुद्रा निर्मलायोमयै रणे ॥ १५३.४० ॥ जघ्नुः शूलैश्च दैत्येन्द्रं शैलवर्ष्माणमाहवे । स्रुतशोणितरन्ध्रस्तु शितशूलमुखार्दितः ॥ १५३.४१ ॥ बभौ कृष्णच्छविर्दैत्यः शरदीवामलं सरः । प्रोत्फुल्लारुणनीलाब्जसंघातः सर्वतोदिशम् ॥ १५३.४२ ॥ भस्मशुभ्रतनुछायै रुद्रैर्हंसैरिवावृतः । उपस्थितार्तिर्दैत्योऽथ प्रचलत्कर्णपल्लवः ॥ १५३.४३ ॥ शंभुं बिभेद दशनैर्नाभिदेशे गजासुरः । दृष्ट्वा सक्तं तु रुद्राभ्यां नव रुद्रास्ततोऽद्भुतम् ॥ १५३.४४ ॥ ततक्षुर्विविधैः शस्त्रैः शरीरममरद्विषः । निर्भया बलिनो युद्धे रणभूमौ व्यवस्थिताः ॥ १५३.४५ ॥ मृतं महिषमासाद्य वने गोमायवो यथा । कपालिनं परित्यज्य गतश्चासुरपुंगवः ॥ १५३.४६ ॥ वेगेन कुपितो दैत्यो नव रुद्रानुपाद्रवत् । ममर्द चरणाघातैर्दन्तैश्चापि करेण च ॥ १५३.४७ ॥ स तैस्तुमुलयुद्धेन श्रममासादितो यदा । तदा कपाली जग्राह करं तस्यामरद्विषः ॥ १५३.४८ ॥ भ्रामयामास वेगेन ह्यतीव च गजासुरम् । दृष्ट्वा श्रमातुरं दैत्यं किंचित्स्फुरितजीवितम् ॥ १५३.४९ ॥ निरुत्साहं रणे तस्मिन् गतयुद्धोत्सवोद्यमम् । ततः पतत एवास्य चर्म चोत्कृत्य भैरवम् ॥ १५३.५० ॥ स्रवत्सर्वाङ्गरक्तौघं चकाराम्बरमात्मनः । दृष्ट्वा विनिहतं दैत्यं दानवेन्द्रा महाबलाः ॥ १५३.५१ ॥ वित्रेसुर्दुद्रुवुर्जग्मुर्निपेतुश्च सहस्रशः । दृष्ट्वा कपालिनो रूपं गजचर्माम्बरावृतम् ॥ १५३.५२ ॥ दिक्षु भूमौ तमेवोग्रं रुद्रं दैत्या व्यलोकयन् । एवं विलुलिते तस्मिन् दानवेन्द्रे महाबले ॥ १५३.५३ ॥ द्विपाधिरूढो दैत्येन्द्रो हतदुन्दुभिना ततः । कल्पान्ताम्बुधराभेण दुर्धरेणापि दानवः ॥ १५३.५४ ॥ निमिरभ्यपतत्तूर्णं सुरसैन्यानि लोडयन् ॥ १५३.५५ ॥ यां यां निमिगजो याति दिशं तां तां सवाहना । संत्यज्य दुद्रुवुर्देवा भयार्तास्त्यक्तहेतयः । गन्धेन सुरमातङ्गा दुद्रुवुस्तस्य हस्तिनः ॥ १५३.५६ ॥ पलायितेषु सैन्येषु सुराणां पाकशासनः । तस्थौ दिक्पालकैः सार्धमष्टभिः केशवेन च ॥ १५३.५७ ॥ सम्प्राप्तो निमिमातङ्गो यावच्छक्रगजं प्रति । तावच्छक्रगजो यातो मुक्त्वा नादं स भैरवम् ॥ १५३.५८ ॥ ध्रियमाणोऽपि यत्नेन स रणे नैव तिष्ठति । पलायिते गजे तस्मिन्नारूढः पाकशासनः ॥ १५३.५९ ॥ विपरीतमुखोऽयुध्यद्दानवेन्द्रबलं प्रति । शतक्रतुस्तु वज्रेण निमिं वक्षस्यताडयत् ॥ १५३.६० ॥ गदया दन्तिनश्चास्य गण्डदेशेऽहनद्दृढम् । तत्प्रहारमचिन्त्यैव निमिर्निर्भयपौरुषः ॥ १५३.६१ ॥ ऐरावणं कटीदेशे मुद्गरेणाभ्यताडयत् । स हतो मुद्गरेणाथ शक्रकुञ्जर आहवे ॥ १५३.६२ ॥ जगाम पश्चाच्चरणैर्धरणीं भूधराकृतिः । लाघवात्क्षिप्रमुत्थाय ततोऽमरमहागजः ॥ १५३.६३ ॥ रणादपससर्पाशु भीषितो निमिहस्तिना । ततो वायुर्ववौ रूक्षो बहुशर्करपांसुलः ॥ १५३.६४ ॥ संमुखो निमिमातङ्गो जवनाचलकम्पनः । स्रुतरक्तो बभौ शैलो घनधातुह्रदो यथा ॥ १५३.६५ ॥ धनेशोऽपि गदां गुर्वीं तस्य दानवहस्तिनः । चिक्षेप वेगाद्दैत्येन्द्रो निपपातास्य मूर्धनि ॥ १५३.६६ ॥ गजो गदानिपातेन स तेन परिमूर्छितः । दन्तैर्भित्त्वा धरां वेगात्पपाताचलसंनिभः ॥ १५३.६७ ॥ पतिते तु गजे तस्मिन् सिंहनादो महानभूत् । सर्वतः सुरसैन्यानां गजबृंहितबृंहितैः ॥ १५३.६८ ॥ ह्रेषारवेण चाश्वानां गुणास्फोटैश्च धन्विनाम् । गजं तं निहतं दृष्ट्वा निमिं चापि पराङ्मुखम् ॥ १५३.६९ ॥ श्रुत्वा च सिंहनादं च सुराणामतिकोपनः । जम्भो जज्वाल कोपेन पीताज्य इव पावकः ॥ १५३.७० ॥ स सुरान्कोपरक्ताक्षो धनुष्यारोप्य सायकम् । तिष्ठतेत्यब्रवीत्तावत्सारथिं चाप्यचोदयत् ॥ १५३.७१ ॥ वेगेन चलतस्तस्य तद्रथस्याभवद्द्युतिः । यथादित्यसहस्रस्याभुदितस्योदयाचले ॥ १५३.७२ ॥ पताकिना रथेनाजौ किङ्किणीजालमालिना । शशिशुभ्रातपत्रेण स तेन स्यन्दनेन तु ॥ १५३.७३ ॥ घट्टयन्सुरसैन्यानां हृदयं समदृश्यत । तमायान्तमभिप्रेक्ष्य धनुष्याहितसायकः ॥ १५३.७४ ॥ शतक्रतुरदीनात्मा दृढमाधत्त कार्मुकम् । बाणं च तैलधौताग्रमर्धचन्द्रमजिह्मगम् ॥ १५३.७५ ॥ तेनास्य सशरं चापं रणे चिछेद वृत्रहा । क्षिप्रं संत्यज्य तच्चापं जम्भो दानवनन्दनः ॥ १५३.७६ ॥ अन्यत्कार्मुकमादाय वेगवद्भारसाधनम् । शरांश्चाशीविषाकारांस्तैलधौतानजिह्मगान् ॥ १५३.७७ ॥ शक्रं विव्याध दशभिर्जत्रुदेशे तु पत्त्रिभिः । हृदये च त्रिभिश्चापि द्वाभ्यां च स्कन्धयोर्द्वयोः ॥ १५३.७८ ॥ शक्रोऽपि दानवेन्द्राय बाणजालमपीदृशम् । अप्राप्तान्दानवेन्द्रस्तु शराञ्छक्रभुजेरितान् ॥ १५३.७९ ॥ चिछेद दशधाकाशे शरैरग्निशिखोपमैः । ततस्तु शरजालेन देवेन्द्रो दानवेश्वरम् ॥ १५३.८० ॥ आच्छादयत यत्नेन वर्षास्विव घनैर्नभः । दैत्योऽपि बाणजालं तद्व्यधमत्सायकैः शितैः ॥ १५३.८१ ॥ यथा वायुर्घनाटोपं परिवार्य दिशो मुखे । शक्रोऽथ क्रोधसंरम्भान्न विशेषयते यदा ॥ १५३.८२ ॥ दानवेन्द्रं तदा चक्रे गन्धर्वास्त्रं महाद्भुतम् । तदुत्थतेजसा व्याप्तमभूद्गमनगोचरम् ॥ १५३.८३ ॥ गन्धर्वनगरैश्चापि नानाप्राकारतोरणैः । मुञ्चद्भिरद्भुताकारैरस्त्रवृष्टिं समन्ततः ॥ १५३.८४ ॥ अथास्त्रवृष्ट्या दैत्यानां हन्यमाना महाचमूः । जम्भं शरणमागच्छदप्रमेयपराक्रमम् ॥ १५३.८५ ॥ व्याकुलोऽपि स्वयं दैत्यः सहस्राक्षास्त्रपीडितः । स्मरन्साधुसमाचारं भीतत्राणपरोऽभवत् ॥ १५३.८६ ॥ अथास्त्रं मौसलं नाम मुमोच दितिनन्दनः । ततोऽयोमुसलैः सर्वमभवत्पूरितं जगत् ॥ १५३.८७ ॥ एकप्रहारकरणैरप्रधृष्यैः समन्ततः । गन्धर्वनगरं तेषु गन्धर्वास्त्रविनिर्मितम् ॥ १५३.८८ ॥ गान्धर्वमस्त्रं संधाय सुरसैन्येषु चापरम् । एकैकेन प्रहारेण गजानश्वान्महारथान् ॥ १५३.८९ ॥ रथाश्वान्सोऽहनत्क्षिप्रं शतशोऽथ सहस्रशः । ततः सुराधिपस्त्वाष्ट्रमस्त्रं च समुदीरयत् ॥ १५३.९० ॥ संध्यमाने ततस्त्वाष्ट्रे निश्चेरुः पावकार्चिषः । ततो यन्त्रमयान् दिव्यानायुधान्दुष्प्रधर्षिणः ॥ १५३.९१ ॥ तैर्यन्त्रैरभवद्बद्धमन्तरिक्षे वितानकम् । वितानकेन तेनाथ प्रशमं मौसले गते ॥ १५३.९२ ॥ शैलास्त्रं मुमुचे जम्भो यन्त्रसंघातताडनम् । व्यामप्रमाणैरुपलैस्ततो वर्षमवर्तत ॥ १५३.९३ ॥ त्वाष्ट्रस्य निर्मितान्याशु यन्त्राणि तदनन्तरम् । तेनोपलनिपातेन गतानि तिलशस्ततः ॥ १५३.९४ ॥ यन्त्राणि तिलशः कृत्वा शैलास्त्रं परमूर्धसु । निपपातातिवेगेनादारयत्पृथिवीं ततः ॥ १५३.९५ ॥ ततो वज्रास्त्रमकरोत्सहस्राक्षः पुरंदरः । तदोपलमहावर्षं व्यशीर्यत समन्ततः ॥ १५३.९६ ॥ ततः प्रशान्ते शैलास्त्रे जम्भो भूधरसंनिभः । ऐषीकमस्त्रमकरोदभीतोऽतिपराक्रमः ॥ १५३.९७ ॥ ऐषीकेणागमन्नाशं वज्रास्त्रं शक्रवल्लभम् । विजृम्भत्यथ चैषीके परमास्त्रेऽतिदुर्धरे ॥ १५३.९८ ॥ जज्वलुर्देवसैन्यानि सस्यन्दनगजानि तु । दह्यमानेष्वनीकेषु तेजसा सुरसत्तमः ॥ १५३.९९ ॥ आग्नेयमस्त्रमकरोद्बलवान्पाकशासनः । तेनास्त्रेण तदस्त्रं च बभ्रंशे तदनन्तरम् ॥ १५३.१०० ॥ तस्मिन्प्रतिहते चास्त्रे पावकास्त्रं व्यजृम्भत । जज्वाल कायं जम्भस्य सरथं च ससारथिम् ॥ १५३.१०१ ॥ ततः प्रतिहतः सोऽथ दैत्येन्द्रः प्रतिभानवान् । वारुणास्त्रं मुमोचाथ शमनं पावकार्चिषाम् ॥ १५३.१०२ ॥ ततो जलधरैर्व्योम स्फुरद्विद्युल्लताकुलैः । गम्भीरमुरजध्वानैरापूरितमिवाम्बरम् ॥ १५३.१०३ ॥ करीन्द्रकरतुल्याभिर्जलधाराभिरम्बरात् । पतन्तीभिर्जगत्सर्वं क्षणेनापूरितं बभौ ॥ १५३.१०४ ॥ शान्तमाग्नेयमस्त्रं तत्प्रविलोक्य सुराधिपः । वायव्यमस्त्रमकरोन्मेघसंघातनाशनम् ॥ १५३.१०५ ॥ वायव्यास्त्रबलेनाथ निर्धूते मेघमण्डले । बभूव विमलं व्योम नीलोत्पलदलप्रभम् ॥ १५३.१०६ ॥ वायुना चातिघोरेण कम्पितास्ते तु दानवाः । न शेकुस्तत्र ते स्थातुं रणेऽतिबलिनोऽपि ये ॥ १५३.१०७ ॥ तदा जम्भोऽभवच्छैलो दशयोजनविस्तृतः । मारुतप्रतिघातार्थं दानवानां भयापहः ॥ १५३.१०८ ॥ मुक्तनानायुधोदग्रतेजोऽभिज्वलितद्रुमः । ततः प्रशमिते वायौ दैत्येन्द्रे पर्वताकृतौ ॥ १५३.१०९ ॥ महाशनीं वज्रमयीं मुमोचाशु शतक्रतुः । तयाशन्या पतितया दैत्यस्याचलरूपिणः ॥ १५३.११० ॥ कन्दराणि व्यशीर्यन्त समन्तान्निर्झराणि तु । ततः सा दानवेन्द्रस्य शैलमाया न्यवर्तत ॥ १५३.१११ ॥ निवृत्तशैलमायोऽथ दानवेन्द्रो मदोत्कटः । बभूव कुञ्जरो भीमो महाशैलसमाकृतिः ॥ १५३.११२ ॥ स ममर्द सुरानीकं दन्तैश्चाप्यहनत्सुरान् । बभञ्ज पृष्ठतः कांश्चित्करेणावेष्ट्य दानवः ॥ १५३.११३ ॥ ततः क्षपयतस्तस्य सुरसैन्यानि वृत्रहा । अस्त्रं त्रैलोक्यदुर्धर्षं नारसिंहं मुमोच ह ॥ १५३.११४ ॥ ततः सिंहसहस्राणि निश्चेरुर्मन्त्रतेजसा । कृष्णदंष्ट्राट्टहासानि क्रकचाभनखानि च ॥ १५३.११५ ॥ तैर्विपाटितगात्रोऽसौ गजमायां व्यपोथयत् । ततश्चाशीविषो घोरोऽभवत्फणशताकुलः ॥ १५३.११६ ॥ विषनिःश्वासनिर्दग्धं सुरसैन्यं महारथः । ततोऽस्त्रं गारुडं चक्रे शक्रश्चारुभुजस्तदा ॥ १५३.११७ ॥ ततो गरुत्मतस्तस्मात्सहस्राणि विनिर्ययुः । तैर्गरुत्मद्भिरासाद्य जम्भो भुजगरूपवान् । कृतस्तु खण्डशो दैत्यः सास्य माया व्यनश्यत ॥ १५३.११८ ॥ प्रनष्टायां तु मायायां ततो जम्भो महासुरः । चकार रूपमतुलं चन्द्रादित्यपथानुगम् । विवृत्तवदनो ग्रस्तुमियेष सुरपुंगवान् ॥ १५३.११९ ॥ ततोऽस्य विविशुर्वक्त्रं समहारथकुञ्जरा । सुरसेनाविशद्भीमं पातालोत्तानतालुकम् ॥ १५३.१२० ॥ सैन्येषु ग्रस्यमानेषु दानवेन बलीयसा । शक्रो दैन्यं समापन्नः श्रान्तबाहुः सवाहनः ॥ १५३.१२१ ॥ कर्तव्यतां नाध्यगच्छत्प्रोवाचेदं जनार्दनम् । किमनन्तरमत्रास्ति कर्तव्यस्यावशेषितम् ॥ १५३.१२२ ॥ यदाश्रित्य घटामोऽस्य दानवस्य युयुत्सवः । ततो हरिरुवाचेदं वज्रायुधमुदारधीः ॥ १५३.१२३ ॥ न सांप्रतं रणस्त्याज्यस्त्वया कातरभैरवः । वर्धस्वाशु महामायां पुरंदर रिपुं प्रति ॥ १५३.१२४ ॥ मयैष लक्षितो दैत्योऽधिष्ठितः प्राप्तपौरुषः । मा शक्र मोहमागच्छ क्षिप्रमस्त्रं स्मर प्रभो ॥ १५३.१२५ ॥ ततः शक्रः प्रकुपितो दानवं प्रति देवराट् । नारायणास्त्रं प्रयतो मुमोचासुरवक्षसि ॥ १५३.१२६ ॥ एतस्मिन्नन्तरे दैत्यो विवृतास्योऽग्रसत्क्षणात् । त्रीणि लक्षाणि गन्धर्वीकिंनरोरगराक्षसान् ॥ १५३.१२६* ॥ ततो नारायणास्त्रं तत्पपातासुरवक्षसि । महास्त्रभिन्नहृदयः सुस्राव रुधिरं च सः ॥ १५३.१२७ ॥ रणागारमिवोद्गारं तत्याजासुरनन्दनः । तदस्त्रतेजसा तस्य रूपं दैत्यस्य नाशितम् ॥ १५३.१२८ ॥ ततश्चान्तर्दधे दैत्यो वियत्यनुपलक्षितः । गगनस्थः स दैत्येन्द्रः शस्त्रासनमतीन्द्रियम् ॥ १५३.१२९ ॥ मुमोच सुरसैन्यानां संहारे कारणं परम् । प्रासान्परश्वधांश्चक्रान् बाणान्वज्रान्समुद्गरान् ॥ १५३.१३० ॥ कुठारान्सह खड्गैश्च भिन्दिपालानयोगुडान् । ववर्ष दानवो रौद्रो ह्यबन्ध्यानक्षयानपि ॥ १५३.१३१ ॥ तैरस्त्रैर्दानवैर्मुक्तैर्देवानीकेषु भीषणैः । बाहुभिर्धरणिः पूर्णा शिरोभिश्च सकुण्डलैः ॥ १५३.१३२ ॥ ऊरुभिर्गजहस्ताभैः करीन्द्रैर्वाचलोपमैः । भग्नेषादण्डचक्राक्षै रथैः सारथिभिः सह ॥ १५३.१३३ ॥ दुःसंचाराभवत्पृथ्वी मांसशोणितकर्दमा । रुधिरौघह्रदावर्ता शवराशिशिलोच्चयैः ॥ १५३.१३४ ॥ कबन्धनृत्यसंकुले स्रवद्वसास्रकर्दमे जगत्त्रयोपसंहृतौ समे समस्तदेहिनाम् । शृगालगृध्रवायसाः परं प्रमोदमादधुः क्वचिद्विकृष्टलोचनः शवस्य रौति वायसः ॥ १५३.१३५ ॥ विकृष्टपीवरान्त्रकाः प्रयान्ति जम्बुकाः क्वचित्क्वचित्स्थितोऽतिभीषणः श्वचञ्चुचर्वितो बकः । मृतस्य मांसमाहरञ्छ्वजातयश्च संस्थिताः क्वचिद्वृको गजासृजं पपौ निलीयतान्त्रतः ॥ १५३.१३६ ॥ क्वचित्तुरंगमण्डली विकृष्यते श्वजातिभिः क्वचित्पिशाचजातकैः प्रपीतशोणितासवैः । स्वकामिनीयुतैर्द्रुतं प्रमोदमत्तसंभ्रमैर्ममैतदानयाननं खुरोऽयमस्तु मे प्रियः ॥ १५३.१३७ ॥ करोऽयमब्जसंनिभो ममास्तु कर्णपूरकः सरोषमीक्षतेऽपरा वपां विना प्रियं तदा । परा प्रिया ह्यवाप यद्भृतोष्णशोणितासवं विकृष्य शवचर्म तत्प्रबद्धसान्द्रपल्लवम् ॥ १५३.१३८ ॥ चकार यक्षकामिनी तरुं कुठारपाटितं गजस्य दन्तमात्मजं प्रगृह्य कुम्भसंपुटम् । विपाट्य मौक्तिकं परं प्रियप्रसादमिच्छते समांसशोणितासवं पपुश्च यक्षराक्षसाः ॥ १५३.१३९ ॥ मृताश्वकेशवासितं रसं प्रगृह्य पाणिना प्रियाविमुक्तजीवितं समानयासृगासवम् । न पथ्यतां प्रयाति मे गतं श्मशानगोचरं नरस्य तज्जहात्यसौ प्रशस्य किंनराननम् ॥ १५३.१४० ॥ स नाग एष नो भयं दधाति मुक्तजीवितो न दानवस्य शक्यते मया तदेकयाननम् । इति प्रियाय वल्लभा वदन्ति यक्षयोषितः परे कपालपाणयः पिशाचयक्षराक्षसाः ॥ १५३.१४१ ॥ वदन्ति देहि देहि मे ममातिभक्ष्यचारिणः परेऽवतीर्य शोणितापगासु धौतमूर्तया । पितॄन् प्रतर्प्य देवताः समर्चयन्ति चामिषैर्गजोडुपे सुसंस्थितास्तरन्ति शोणितं ह्रदम् ॥ १५३.१४२ ॥ इति प्रगाढसंकटे सुरासुरे सुसंगरे भयं समुझ्य दुर्जया भटाः स्फुटन्ति मानिनः ॥ १५३.१४३ ॥ तत शक्रो धनेशश्च वरुणः पवनोऽनलः । यमोऽपि निरृतिश्चापि दिव्यास्त्राणि महाबलाः ॥ १५३.१४४ ॥ आकाशे मुमुचुः सर्वे दानवानभिसंध्य ते । अस्त्राणि व्यर्थतां जग्मुर्देवानां दानवान्प्रति ॥ १५३.१४५ ॥ संरम्भेणाप्ययुध्यन्त संहतास्तुमुलेन च । गतिं न विविदुश्चापि श्रान्ता दैत्यस्य देवताः ॥ १५३.१४६ ॥ दैत्यास्त्रभिन्नसर्वाङ्गा ह्यकिंचित्करतां गताः । परस्परं व्यलीयन्त गावः शीतार्दिता इव ॥ १५३.१४७ ॥ तदवस्थान्हरिर्दृष्ट्वा देवाञ्छक्रमुवाच ह । ब्रह्मास्त्रं स्मर देवेन्द्र यस्यावध्यो न विद्यते । विष्णुना चोदितः शक्रः सस्मारास्त्रं महौजसम् ॥ १५३.१४८ ॥ सम्पूजितं नित्यमरातिनाशनं समाहितं बाणममित्रघातने । धनुष्यजय्ये विनियोज्य बुद्धिमानभूत्ततो मन्त्रसमाधिमानसः ॥ १५३.१४९ ॥ स मन्त्रमुच्चार्य यतान्तराशयो वधाय दैत्यस्य धियाभिसंध्य तु । विकृष्य कर्णान्तमकुण्ठदीधितिं मुमोच वीक्ष्याम्बरमार्गमुन्मुखः ॥ १५३.१५० ॥ अथासुरः प्रेक्ष्य महास्त्रमाहितं विहाय मायामवनौ व्यतिष्ठत । प्रवेपमानेन मुखेन शुष्यता बलेन गात्रेण च संभ्रमाकुलः ॥ १५३.१५१ ॥ ततस्तु तस्यास्त्रवराभिमन्त्रितः शरोऽर्धचन्द्रप्रतिमो महारणे । पुरंदरस्यासनबन्धुतां गतो नवार्कबिम्बं वपुषा विडम्बयन् ॥ १५३.१५२ ॥ किरीटकोटिस्फुटकान्तिसंकटं सुगन्धिनानाकुसुमाधिवासितम् । प्रकीर्णधूमज्वलनाभमूर्धजं पपात जम्भस्य शिरः सकुण्डलम् ॥ १५३.१५३ ॥ तस्मिन्विनिहते जम्भे दानवेन्द्राः पराङ्मुखाः । ततस्ते भग्नसंकल्पाः प्रययुर्यत्र तारकः ॥ १५३.१५४ ॥ तांस्तु त्रस्तान्समालोक्य श्रुत्वारोषमगात्परम् । स जम्भदानवेन्द्रं तु सुरै रणमुखे हतम् ॥ १५३.१५५ ॥ सावलेपं ससंरम्भं सगर्वं सपराक्रमम् । साविष्कारमनाकारं तारको भावमाविशत् ॥ १५३.१५६ ॥ स जैत्रं रथमास्थाय सहस्रेण गरुत्मताम् । संरम्भाद्दानवेन्द्रस्तु सुरै रणमुखे गतः ॥ १५३.१५७ ॥ सर्वायुधपरिष्कारः सर्वास्त्रपरिरक्षितः । त्रैलोक्यऋद्धिसम्पन्नः सुविस्तृतमहाननः ॥ १५३.१५८ ॥ रणायाभ्यपतत्तूर्णं सैन्येन महता वृतः । जम्भास्त्रक्षतसर्वाङ्गं त्यक्त्वैरावतदन्तिनम् ॥ १५३.१५९ ॥ सज्जं मातलिना गुप्तं रथमिन्द्रस्य तेजसा । तप्तहेमपरिष्कारं महारत्नसमन्वितम् ॥ १५३.१६० ॥ चतुर्योजनविस्तीर्णं सिद्धसंघपरिष्कृतम् । गन्धर्वकिंनरोद्गीतमप्सरोनृत्यसंकुलम् ॥ १५३.१६१ ॥ सर्वायुधमसंबाधं विचित्ररचनोज्ज्वलम् । तं रथं देवराजस्य परिवार्य समन्ततः ॥ १५३.१६२ ॥ दंशिता लोकपालास्तु तस्थुः सगरुडध्वजाः । ततश्चचाल वसुधा ततो रूक्षो मरुद्ववौ ॥ १५३.१६३ ॥ ततोऽम्बुधय उद्भूतास्ततो नष्टा रविप्रभा । ततस्तमः समुद्भूतं नातोऽदृश्यन्त तारकाः ॥ १५३.१६४ ॥ ततो जज्वलुरस्त्राणि ततोऽकम्पत वाहिनी । एकतस्तारको दैत्यः सुरसंघस्तु चैकतः ॥ १५३.१६५ ॥ लोकावसादमेकत्र जगत्पालनमेकतः । चराचराणि भूतानि सुरासुरविभेदतः ॥ १५३.१६६ ॥ तद्द्विधाप्येकतां यातं ददृशुः प्रेक्षका इव । यद्वस्तु किंचिल्लोकेषु त्रिषु सत्तास्वरूपकम् । तत्तत्रादृश्यदखिलं खिलीभूतविभूतिकम् ॥ १५३.१६७ ॥ अस्त्राणि तेजांसि धनानि धैर्यं सेनाबलं वीर्यपराक्रमौ च । सत्त्वौजसां तन्निकरं बभूव सुरासुराणां तपसो बलेन ॥ १५३.१६८ ॥ अथाभिमुखमायान्तं नवभिर्नतपर्वभिः । बाणैरनलकल्पाग्रैर्बिभिदुस्तारकं हृदि ॥ १५३.१६९ ॥ स तानचिन्त्य दैत्येन्द्रः सुरबाणान्गतान्हृदि । नवभिर्नवभिर्बाणैः सुरान्विव्याध दानवः ॥ १५३.१७० ॥ जगद्धरणसम्भूतैः शल्यैरिव पुरःसरैः । ततोऽच्छिन्नं शरव्रातं संग्रामे मुमुचुः सुराः ॥ १५३.१७१ ॥ अनन्तरं च कान्तानामश्रुपातमिवानिशम् । तदप्राप्तं वियत्येव नाशयामास दानवः ॥ १५३.१७२ ॥ शरैर्यथा कुचरितैः प्रख्यातं परमागतम् । सुनिर्मलं क्रमायातं कुपुत्रः स्वं महाकुलम् ॥ १५३.१७३ ॥ ततो निवार्य तद्बाणजालं सुरभुजेरितम् । बाणैर्व्योम दिशः पृथ्वीं पूरयामास दानवः ॥ १५३.१७४ ॥ चिछेद पुङ्खदेशेषु स्वके स्थाने च लाघवात् । बाणजालैः सुतीक्ष्णाग्रैः कङ्कबर्हिणवाजितैः ॥ १५३.१७५ ॥ कर्णान्तकृष्टैर्विमलैः सुवर्णरजतोज्ज्वलैः । शास्त्रार्थैः संशयप्राप्तान् यथार्थान्वै विकल्पितैः ॥ १५३.१७६ ॥ ततः शतेन बाणानां शक्रं विव्याध दानवः । नारायणं च सप्तत्या नवत्या च हुताशनम् ॥ १५३.१७७ ॥ दशभिर्मारुतं मूर्ध्नि यमं दशभिरेव च । धनदं चैव सप्तत्या वरुणं च तथाष्टभिः ॥ १५३.१७८ ॥ विंशत्या निरृतिं दैत्यः पुनश्चाष्टाभिरेव च । विव्याध पुनरेकैकं दशभिर्दशभिः शरैः ॥ १५३.१७९ ॥ तथा च मातलिं दैत्यो विव्याध त्रिभिराशुगैः । गरुडं दशभिश्चैव स विव्याध पतत्रिभिः ॥ १५३.१८० ॥ पुनश्च दैत्यो देवानां तिलशो नतपर्वभिः । चकार वर्मजातानि चिछेद च धनूंषि तु । ततो विकवचा देवा विधनुष्काः शरैः कृताः ॥ १५३.१८१ ॥ अथान्यानि चापानि तस्मिन्सरोषा रणे लोकपाला गृहीत्वा समन्तात् । शरैरक्षयैर्दानवेन्द्रं ततक्षुस्तदा दानवोऽमर्षसंरक्तनेत्रः ॥ १५३.१८२ ॥ शरानग्निकल्पान्ववर्षामराणां ततो बाणमादाय कल्पानलाभम् । जघानोरसि क्षिप्रमिन्द्रं सुबाहुं महेन्द्रो व्यकम्पद्रथोपस्थ एव ॥ १५३.१८३ ॥ विलोक्यान्तरिक्षे सहस्रार्कबिम्बं पुनर्दानवो विष्णुमुद्भूतवीर्यम् । शराभ्यां जघानांसमूले सलीलं ततः केशवस्यापतच्छार्ङ्गमग्रे ॥ १५३.१८४ ॥ ततस्तारकः प्रेतनाथं पृषत्कैर्वसुं तस्य सव्ये स्मरन्क्षुद्रभावम् । शरैरग्निकल्पैर्जलेशस्य कायं रणेऽशोषयद्दुर्जयो दैत्यराजः ॥ १५३.१८५ ॥ शरैरग्निकल्पैश्चकाराशु दैत्यस्तथा राक्षसान्भीतभीतान्दिशासु । पृषत्कैश्च रूक्षैर्विकारप्रयुक्तं चकारानिलं लीलयैवासुरेशः ॥ १५३.१८६ ॥ क्षणाल्लब्धचित्ताः स्वयं विष्णुशक्रानलाद्याः सुसंहत्य तीक्ष्णैः पृषत्कैः ।* प्रचक्रुः प्रचण्डेन दैत्येन सार्धं महासंगरं संगरग्रासकल्पम् ॥ १५३.१८७ ॥* अथानम्य चापं हरिस्तीक्ष्णबाणैर्हनत्सारथिं दैत्यराजस्य हृद्यम् । ध्वजं धूमकेतुः किरीटं महेन्द्रो धनेशो धनुः काञ्चनानद्धपृष्ठम् । यमो बाहुदण्डं रथाङ्गानि वायुर्निशाचारिणामीश्वरस्यापि वर्म ॥ १५३.१८८ ॥ दृष्ट्वा तद्युद्धममरैरकृत्रिमपराक्रमम् । दैत्यनाथः कृतं संख्ये स्वबाहुयुगबान्धवः ॥ १५३.१८९ ॥ मुमोच मुद्गरं भीमं सहस्राक्षाय संगरे । दृष्ट्वा मुद्गरमायान्तमनिवार्यमथाम्बरे ॥ १५३.१९० ॥ रथादाप्लुत्य धरणीमगमत्पाकशासनः । मुद्गरोऽपि रथोपस्थे पपात परुषस्वनः ॥ १५३.१९१ ॥ स रथं चूर्णयामास न ममार च मातलिः । गृहीत्वा पट्टिशं दैत्यो जघानोरसि केशवम् ॥ १५३.१९२ ॥ स्कन्धे गरुत्मतः सोऽपि निषसाद विचेतनः । खड्गेन राक्षसेन्द्रस्य निचकर्त च वाहनम् ॥ १५३.१९३ ॥ यमं च पातयामास भूमौ दैत्यो भुशुण्डिना । वह्निं च भिन्दिपालेन ताडयामास मूर्धनि ॥ १५३.१९४ ॥ वायुं च दोर्भ्यामुत्क्षिप्य पातयामास भूतले । धनेशं च धनुष्कोट्या कुट्टयामास कोपनः ॥ १५३.१९५ ॥ ततो देवनिकायानामेकैकं समरे ततः । जघानास्त्रैरसंख्येयैर्दैत्येन्द्रोऽमितविक्रमः ॥ १५३.१९६ ॥ लब्धसंज्ञः क्षणाद्विष्णुश्चक्रं जग्राह दुर्धरम् । दानवेन्द्रवसासिक्तं पिशिताशनकोन्मुखम् ॥ १५३.१९७ ॥ मुमोच दानवेन्द्रस्य दृढं वक्षसि केशवः । पपात चक्रं दैत्यस्य हृदये भास्करद्युति ॥ १५३.१९८ ॥ व्यशीर्यत ततः काये नीलोत्पलमिवाश्मनि । ततो वज्रं महेन्द्रस्तु प्रमुमोचार्चितं चिरम् ॥ १५३.१९९ ॥ यस्मिञ्जयाशा शक्रस्य दानवेन्द्ररणे त्वभूत् । तारकस्य सुसंप्राप्य शरीरं शौर्यशालिनः ॥ १५३.२०० ॥ व्यशीर्यत विकीर्णार्चिः शतधा खण्डतां गतम् । विनाशमगमन्मुक्तं वायुनासुरवक्षसि ॥ १५३.२०१ ॥ ज्वलितं ज्वलनाभासमङ्कुशं कुलिशं यथा । विनाशमागतं दृष्ट्वा वायुश्चाङ्कुशमाहवे ॥ १५३.२०२ ॥ रुष्टः शैलेन्द्रमुत्पाट्य पुष्पितद्रुमकन्दरम् । चिक्षेप दानवेन्द्राय पञ्चयोजनविस्तृतम् ॥ १५३.२०३ ॥ महीधरं तमायान्तं दैत्यः स्मितमुखस्तदा । जग्राह वामहस्तेन बालकन्दुकलीलया ॥ १५३.२०४ ॥ ततो दण्डं समुद्यम्य कृतान्तः क्रोधमूर्छितः । दैत्येन्द्रं मूर्ध्नि चिक्षेप भ्राम्य वेगेन दुर्जयः ॥ १५३.२०५ ॥ सोऽसुरस्यापतन्मूर्ध्नि दैत्यस्तं च न बुद्धवान् । कल्पान्तदहनालोकामजय्यां ज्वलनस्ततः ॥ १५३.२०६ ॥ शक्तिं चिक्षेप दुर्धर्षां दानवेन्द्राय संयुगे । नवा शिरीषमालेव सास्य वक्षस्यराजत ॥ १५३.२०७ ॥ ततः खड्गं समाकृष्य कोशादाकाशनिर्मलम् । भासितासितदिग्भागं लोकपालोऽपि निरृतिः ॥ १५३.२०८ ॥ चिक्षेप दानवेन्द्राय तस्य मूर्ध्नि पपात च । पतितश्चागमत्खड्गः स शीघ्रं शतखण्डताम् ॥ १५३.२०९ ॥ जलेशस्तूग्रदुर्धर्षं विषपावकभैरवम् । मुमोच पाशं दैत्यस्य भुजबन्धाभिलाषुकः ॥ १५३.२१० ॥ स दैत्यभुजमासाद्य सर्पः सद्यो व्यपद्यत । स्फुटितक्रकचक्रूरदशनालिर्महाहनुः ॥ १५३.२११ ॥ ततोऽश्विनौ समरुतः ससाध्याः समहोरगाः । यक्षराक्षसगन्धर्वा दिव्यनानास्त्रपाणयः ॥ १५३.२१२ ॥ जघ्नुर्दैत्येश्वरं सर्वे सम्भूय सुमहाबलाः । न चास्त्राण्यस्य सजन्ति गात्रे वज्राचलोपमे ॥ १५३.२१३ ॥ ततो रथादवप्लुत्य तारको दानवाधिपः । जघान कोटिशो देवान् करपार्ष्णिभिरेव च ॥ १५३.२१४ ॥ हतशेषाणि सैन्यानि देवानां विप्रदुद्रुवुः । दिशो भीतानि संत्यज्य रणोपकरणानि तु ॥ १५३.२१५ ॥ लोकपालांस्ततो दैत्यो बबन्धेन्द्रमुखान्रणे । सकेशवान्दृढैः पाशैः पशुमारः पशूनिव ॥ १५३.२१६ ॥ स भूयो रथमास्थाय जगाम स्वकमालयम् । सिद्धगन्धर्वसंघुष्टविपुलाचलमस्तकम् ॥ १५३.२१७ ॥ स्तूयमानो दितिसुतैरप्सरोभिर्विनोदितः । त्रैलोक्यलक्ष्मीस्तद्देशे प्राविशत्स्वपुरं यथा ॥ १५३.२१८ ॥ निषसादासने पद्मरागरत्नविनिर्मिते । ततः किंनरगन्धर्वनागनारीविनोदितैः । क्षणं विनोद्यमानस्तु प्रचलन्मणिकुण्डलः ॥ १५३.२१९ ॥ ______________________________________________________ मत्स्यपुराण १५४ *सूत उवाच प्रादुरासीत्प्रतीहारः शुभ्रनीलाम्बुजाम्बरः । स जानुभ्यां महीं गत्वा पिहितास्यः स्वपाणिना ॥ १५४.१ ॥ उवाचानाविलं वाक्यमल्पाक्षरपरिस्फुटम् । दैत्येन्द्रमर्कवृन्दानां बिभ्रतं भास्वरं वपुः ॥ १५४.२ ॥ कालनेमिः सुरान्बद्धांश्चादाय द्वारि तिष्ठति । स विज्ञापयति स्थेयं क्व बन्दिभिरिति प्रभो ॥ १५४.३ ॥ तन्निशम्याब्रवीद्दैत्यः प्रतीहारस्य भाषितम् । यथेष्टं स्थीयतामेभिर्गृहं मे भुवनत्रयम् ॥ १५४.४ ॥ केवलं पाशबन्धेन विमुक्तैरविलम्बितम् । एवं कृते ततो देवा दूयमानेन चेतसा ॥ १५४.५ ॥ जग्मुर्जगद्गुरुं द्रष्टुं शरणं कमलोद्भवम् । निवेदितास्ते शक्राद्याः शिरोभिर्धरणिं गताः । तुष्टुवुः स्पष्टवर्णार्थैर्वचोभिः कमलासनम् ॥ १५४.६ ॥ *देवा ऊचुः त्वमोंकारोऽस्यङ्कुराय प्रसूतो विश्वस्यात्मानन्तभेदस्य पूर्वम् । सम्भूतस्यानन्तरं सत्त्वमूर्ते संहारेच्छोस्ते नमो रुद्रमूर्ते ॥ १५४.७ ॥ व्यक्तिं नीत्वा त्वं वपुः स्वं महिम्ना तस्मादण्डात्साभिधानादचिन्त्यः । द्यावापृथ्व्योरूर्ध्वखण्डावराम्यां ह्यण्डादस्मात्त्वं विभागं करोषि ॥ १५४.८ ॥ व्यक्तं मेरौ यज्जनायुस्तवाभूदेवं विद्मस्त्वत्प्रणीतश्चकास्ति । व्यक्तं देवा जन्मनः शाश्वतस्य द्यौस्ते मूर्धा लोचने चन्द्रसूर्यौ ॥ १५४.९ ॥ व्यालाः केशाः श्रोत्ररन्ध्रा दिशस्ते पादौ भूमिर्नाभिरन्ध्रे समुद्राः । मायाकारः कारणं त्वं प्रसिद्धो वेदैः शान्तो ज्योतिषा त्वं विमुक्तः ॥ १५४.१० ॥ वेदार्थेषु त्वां विवृण्वन्ति बुद्ध्वा हृत्पद्मान्तःसंनिविष्टं पुराणम् । त्वामात्मानं लब्धयोगा गृणन्ति सांख्यैर्यास्ताः सप्त सूक्ष्माः प्रणीताः ॥ १५४.११ ॥ तासां हेतुर्याष्टमी चापि गीता तस्यां तस्यां गीयसे वै त्वमन्तम् । दृष्ट्वा मूर्तिं स्थूलसूक्ष्मां चकार देवैर्भावाः कारणैः कैश्चिदुक्ताः ॥ १५४.१२ ॥ सम्भूतास्ते त्वत्त एवादिसर्गे भूयस्तां तां वासनां तेऽभ्युपेयुः । त्वत्संकल्पेनान्तमायाप्तिगूढः कालो मेयो ध्वस्तसंख्याविकल्पः ॥ १५४.१३ ॥ भावाभावव्यक्तिसंहारहेतुस्त्वं सोऽनन्तस्तस्य कर्तासि चात्मन् । येऽन्ये सूक्ष्माः सन्ति तेभ्योऽभिगीतः स्थूला भावाश्चावृतारश्च तेषाम् ॥ १५४.१४ ॥ तेभ्यः स्थूलैस्तैः पुराणैः प्रतीतो भूतं भव्यं चैवमुद्भूतिभाजाम् । भावे भावे भावितं त्वा युनक्ति युक्तं युक्तं व्यक्तिभावान्निरस्य । इत्थं देवो भक्तिभाजां शरण्यस्त्राता गोप्ता नो भवानन्तमूर्तिः ॥ १५४.१५ ॥ विरेमुरमराः स्तुत्वा ब्रह्माणमविकारिणम् । तस्थुर्मनोभिरिष्टार्थसम्प्राप्तिप्रार्थनास्ततः ॥ १५४.१६ ॥ एवं स्तुतो विरिञ्चिस्तु प्रसादं परमं गतः । अमरान्वरदेनाह वामहस्तेन निर्दिशन् ॥ १५४.१७ ॥ *ब्रह्मोवाच नारी याभर्तृकाकस्मात्तनुस्ते त्यक्तभूषणा । न राजते तथा शक्र म्लानवक्त्रशिरोरुहा ॥ १५४.१८ ॥ हुताशनविमुक्तोऽपि न धूमेन विराजसे । भस्मनेव प्रतिच्छन्नो दग्धदावश्चिरोषितः ॥ १५४.१९ ॥ यमामयमये नैव शरीरे त्वं विराजसे । दण्डस्यालम्बनेनेव ह्यकृच्छ्रस्तु पदे पदे ॥ १५४.२० ॥ रजनीचरनाथोऽपि किं भीत इव भाषसे । राक्षसेन्द्र क्षताराते त्वमरातिक्षतो यथा ॥ १५४.२१ ॥ तनुस्ते वरुणोच्छुष्का परीतस्येव वह्निना । विमुक्तरुधिरं पाशं फणिभिः प्रविलोकयन् ॥ १५४.२२ ॥ वायो भवान् विचेतस्कस्त्वं स्निग्धैरिव निर्जितः । किं त्वं बिभेषि धनद संन्यस्यैव कुबेरताम् ॥ १५४.२३ ॥ रुद्रास्त्रिशूलिनः सन्तो वदध्वं बहुशूलताम् । भवन्तः केन तत्क्षिप्तं तेजस्तु भवतामपि ॥ १५४.२४ ॥ अकिंचित्करतां यातः करस्ते न विभासते । अलं नीलोत्पलाभेन चक्रेण मधुसूदन ॥ १५४.२५ ॥ किं त्वयानुदरालीन भुवनप्रविलोकनम् । क्रियते स्तिमिताक्षेण भवता विश्वतोमुख ॥ १५४.२६ ॥ एवमुक्ताः सुरास्तेन ब्रह्मणा ब्रह्ममूर्तिना । वाचां प्रधानभूतत्वान्मारुतं तमचोदयन् ॥ १५४.२७ ॥ अथ विष्णुमुखैर्देवैः श्वसनः प्रतिबोधितः । चतुर्मुखं तदा प्राह चराचरगुरुं विभुम् ॥ १५४.२८ ॥ न तु वेत्सि चराचरभूतगतं भवभावमतीव महानुच्छ्रितः प्रभवः ।* पुनरर्थिवचोऽभिविस्तृतश्रवणोपमकौतुकभावकृतः ॥ १५४.२९ ॥* त्वमनन्त करोषि जगद्भवतां सचराचरगर्भविभिन्नगुणाम् । अमरासुरमेतदशेषमपि त्वयि तुल्यमहो जनकोऽसि यतः ॥ १५४.३० ॥ पितुरस्ति तथापि मनोविकृतिः सगुणो विगुणो बलवानबलः । भवतो वरलाभनिवृत्तभयः कुलिशाङ्गसुतो दितिजोऽतिबलः ॥ १५४.३१ ॥ सचराचरनिर्मथने किमिति कितवस्तु कृतो विहितो भवता । किल देव त्वया स्थितये जगतां महदद्भुतचित्रविचिगुणाः ॥ १५४.३२ ॥ अपि तुष्टिकृतः श्रुतकामफला विहिता द्विजनायक देवगणाः । अपि नाकमभूत्किल यज्ञभुजां भवतो विनियोगवशात्सततम् ॥ १५४.३३ ॥ अपहृत्य विमानगणं स कृतो दितिजेन महामरुभूमिसमः । कृतवानसि सर्वगुणातिशयं यमशेषमहीधरराजतया ॥ १५४.३४ ॥ सममिङ्गितभावविधिः स गिरिर्गगनेन सदोच्छ्रयतां हि गतः । अधिवासविहारविधावुचितो दितिजने पविक्षतशृङ्गतटः ॥ १५४.३५ ॥ परिलुण्ठितरत्नगुहानिवहो बहुदैत्यसभाश्रयतां गमितः । सुरराज स तस्य भयेन गतं व्यदधादशरीर इतोऽपि वृथा ॥ १५४.३६ ॥ उपयोग्यतया विवृतं सुचिरं विमलद्युतिपूरितदिग्वदनम् । भवतैव विनिर्मितमादियुगे सुरहेतिसमूहमनुत्थमिदम् ॥ १५४.३७ ॥ दितिजस्य शरीरमवाप्य गतं शतधा मतिभेदमिवाल्पमनाः । आसारधूलिध्वस्ताङ्गा द्वारस्थाः स्मः कदर्थिनः । लब्धप्रवेशाः कृच्छ्रेण वयं तस्यामरद्विषः ॥ १५४.३८ ॥ सभायाममरा देव निकृष्टेऽप्युपवेशिताः । वेत्रहस्तैरजल्पन्तस्ततोऽपहसितास्तु तैः ॥ १५४.३९ ॥ महार्थाः सिद्धसर्वार्था भवन्तः स्वल्पभाषिणः । चाटुयुक्तमथो कर्म ह्यमरा बहु भाषत ॥ १५४.४० ॥ समयं दैत्यसिंहस्य सशक्रस्य नु संस्थिताः । वदतेति च दैत्यस्य प्रेष्यैर्विहसिता बहु ॥ १५४.४१ ॥ ऋतवो मूर्तिमन्तस्तमुपासन्ते ह्यहर्निशम् । कृतापराधसंत्रासं न त्यजन्ति कदाचन ॥ १५४.४२ ॥ तन्त्रीत्रयलयोपेतं सिद्धगन्धर्वकिंनरैः । सुरागमुपधा नित्यं गीयते तस्य वेश्मसु ॥ १५४.४३ ॥ हन्ताकृतोपकरणैर्मित्राणि गुरुलाघवैः । शरणागतसंत्यागी त्यक्तसत्यपरिश्रयः ॥ १५४.४४ ॥ इति निःशेषमथवा निःशेषं वै न शक्यते । तस्याविनयमाख्यातुं स्रष्टा तत्र परायणम् ॥ १५४.४५ ॥ इत्युक्तः स्वात्मभूर्देवः सुरैर्दैत्यविचेष्टितम् । सुरानुवाच भगवांस्ततः स्मितमुखाम्बुजः ॥ १५४.४६ ॥ *ब्रह्मोवाच अवध्यस्तारको दैत्यः सर्वैरपि सुरासुरैः । यस्य वध्यः स नाद्यापि जातस्त्रिभुवने पुमान् ॥ १५४.४७ ॥ मया स वरदानेन छन्दयित्वा निवारितः । तपसः सांप्रतं राजा त्रैलोक्यदहनात्मकात् ॥ १५४.४८ ॥ स च वव्रे वधं दैत्यः शिशुतः सप्तवासरात् । स सप्तदिवसो बालः शंकराद्यो भविष्यति ॥ १५४.४९ ॥ तारकस्य निहन्ता स भास्कराभो भविष्यति । सांप्रतं चाप्यपत्नीकः शंकरो भगवान्प्रभुः ॥ १५४.५० ॥ यच्चाहमुक्तवान्यस्या ह्युत्तानकरता सदा । उत्तानो वरदः पाणिरेष देव्याः सदैव तु ॥ १५४.५१ ॥ हिमाचलस्य दुहिता सा तु देवी भविष्यति । तस्याः सकाशाद्यः शर्वस्त्वरण्यां पावको यथा ॥ १५४.५२ ॥ जनयिष्यति तं प्राप्य तारकोऽभिभविष्यति । मयाप्युपायः स कृतो यथैवं हि भविष्यति ॥ १५४.५३ ॥ शेषश्चाप्यस्य विभवो विनश्येत्तदनन्तरम् । स्तोककालं प्रतीक्षध्वं निर्विशङ्केन चेतसा ॥ १५४.५४ ॥ इत्युक्तास्त्रिदशास्तेन साक्षात्कमलजन्मना । जग्मुस्तं प्रणिपत्येशं यथायोगं दिवौकसः ॥ १५४.५५ ॥ ततो गतेषु देवेषु ब्रह्मा लोकपितामहः । निशां सस्मार भगवान् स्वतनोः पूर्वसंभवाम् ॥ १५४.५६ ॥ ततो भगवती रात्रिरुपतस्थे पितामहम् । तां विविक्ते समालोक्य ब्रह्मोवाच विभावरीम् ॥ १५४.५७ ॥ *ब्रह्मोवाच विभावरि महत्कायं विबुधानामुपस्थितम् । तत्कर्तव्यं त्वया देवि शृणु कार्यस्य निश्चयम् ॥ १५४.५८ ॥ तारको नाम दैत्येन्द्रः सुरकेतुरनिर्जितः । तस्याभावाय भगवाञ्जनयिष्यति चेश्वरः ॥ १५४.५९ ॥ सुतं स भविता तस्य तारकस्यान्तकारकः । शंकरस्याभवत्पत्नी सती दक्षसुता तु या ॥ १५४.६० ॥ सा मृता कुपिता देवी कस्मिंश्चित्कारणान्तरे । भविता हिमशैलस्य दुहिता लोकभाविनी ॥ १५४.६१ ॥ विरहेण हरस्तस्या मत्वा शून्यं जगत्त्रयम् । तपस्यन्हिमशैलस्य कन्दरे सिद्धसेविते ॥ १५४.६२ ॥ प्रतीक्षमाणस्तज्जन्म कंचित्कालं निवत्स्यति । तयोः सुतप्ततपसोर्भविता यो महाबलः ॥ १५४.६३ ॥ स भविष्यति दैत्यस्य तारकस्य विनाशकः । जातमात्रा तु सा देवी स्वल्पसंज्ञा च भामिनी ॥ १५४.६४ ॥ विरहोत्कण्ठिता गाढं हरसंगमलालसा । तयोः सुतप्ततपसोः संयोगः स्याच्छुभानने ॥ १५४.६५ ॥ ततस्ताभ्यां तु जनितः स्वल्पो वाक्कलहो भवेत् । ततोऽपि संशयो भूयस्तारकं प्रति दृश्यते ॥ १५४.६६ ॥ तयोः संयुक्तयोस्तस्मात्सुरतासक्तिकारणे । विघ्नस्त्वया विधातव्यो यथा ताभ्यां तथा शृणु ॥ १५४.६७ ॥ गर्भस्थाने च तन्मातुः स्वेन रूपेण रञ्जय । ततो विहाय शर्वस्तां विश्रान्तो नर्मपूर्वकम् ॥ १५४.६८ ॥ भर्त्सयिष्यति तां देवीं ततः सा कुपिता सती । प्रयास्यति तपश्चर्तुं तत्तस्मात्तपसे पुनः ॥ १५४.६९ ॥ जनयिष्यति यं शर्वा दयितद्युतिमण्डितम् । स भविष्यति हन्ता वै सुरारीणामसंशयम् ॥ १५४.७० ॥ त्वयापि दानवा देवि हन्तव्या लोकदुर्जयाः । यावच्च न सती देहसंक्रान्तगुणसंचया ॥ १५४.७१ ॥ तत्संगमेन तावत्त्वं दैत्यान्हन्तुं न शक्ष्यसे । एवं कृते तपस्तप्त्वा सृष्टिसंहारकारिणी ॥ १५४.७२ ॥ समाप्तनियमा देवी यदा चोमा भविष्यति । तदा स्वमेव तद्रूपं शैलजा प्रतिपत्स्यते ॥ १५४.७३ ॥ तनुस्तवापि सहजा सैकानंशा भविष्यति । रूपांशेन तु संयुक्ता त्वमुमायां भविष्यसि ॥ १५४.७४ ॥ एकानंशेति लोकस्त्वां वरदे पूजयिष्यति । भेदैर्बहुविधाकारैः सर्वगा कामसाधिनी ॥ १५४.७५ ॥ ओंकारवक्त्रा गायत्री त्वमिति ब्रह्मवादिभिः । आक्रान्तिरूर्जिताकारा राजभिश्च महाभुजैः ॥ १५४.७६ ॥ त्वं भूरिति विशां माता शूद्रैः शैवीति पूजिता । क्षान्तिर्मुनीनामक्षोभ्या दया नियमिनामिति ॥ १५४.७७ ॥ त्वं महोपायसंदोहा नीतिर्नयविसर्पिणाम् । परिच्छित्तिस्त्वमर्थानां त्वमीहा प्राणिहृच्छया ॥ १५४.७८ ॥ त्वं मुक्तिः सर्वभूतानां त्वं गतिः सर्वदेहिनाम् । त्वं च कीर्तिमतां कीर्तिस्त्वं मूर्तिः सर्वदेहिनाम् ॥ १५४.७९ ॥ रतिस्त्वं रक्तचित्तानां प्रीतिस्त्वं हृष्टदर्शिनाम् । त्वं कान्तिः कृतभूषाणां त्वं शान्तिर्दुःखकर्मणाम् ॥ १५४.८० ॥ त्वं भ्रान्तिः सर्वबोधानां त्वं गतिः क्रतुयाजिनाम् । जलधीनां महावेला त्वं च लीला विलासिनाम् ॥ १५४.८१ ॥ संभूतिस्त्वं पदार्थानां स्थितिस्त्वं लोकपालिनी । त्वं कालरात्रिर्निःशेषभुवनावलिनाशिनी ॥ १५४.८२ ॥ प्रियकण्ठग्रहानन्ददायिनी त्वं विभावरी । इत्यनेकविधैर्देवि रूपैर्लोके त्वमर्चिता ॥ १५४.८३ ॥ ये त्वां स्तोष्यन्ति वरदे पूजयिष्यन्ति वापि ये । ते सर्वकामानाप्स्यन्ति नियता नात्र संशयः ॥ १५४.८४ ॥ इत्युक्ता तु निशा देवी तथेत्युक्त्वा कृताञ्जलिः । जगाम त्वरिता तूर्णं गृहं हिमगिरेः परम् ॥ १५४.८५ ॥ तत्रासीनां महाहर्म्ये रत्नभित्तिसमाश्रयाम् । ददर्श मेनामापाण्डुच्छविवक्त्रसरोरुहाम् ॥ १५४.८६ ॥ किंचिच्छ्याममुखोदग्रस्तनभारावनामिताम् । महौषधिगणाबद्धमन्त्रराजनिषेविताम् ॥ १५४.८७ ॥ उद्वहत्कनकोन्नद्धजीवरक्षामहोरगाम् । मणिदीपगणज्योतिर्महालोकप्रकाशिते ॥ १५४.८८ ॥ प्रकीर्णबहुसिद्धार्थे मनोजपरिवारके । शुचिन्यंशुकसंछन्नभूशय्यास्तरणोज्ज्वले ॥ १५४.८९ ॥ धूपामोदमनोरम्ये सर्जगन्धोपयोगिके । ततः क्रमेण दिवसे गते दूरं विभावरी ॥ १५४.९० ॥ व्यजृम्भत सुखोदर्के ततो मेना महागृहे । प्रसुप्तप्रायपुरुषे निद्राभूतोपचारिके ॥ १५४.९१ ॥ स्फुटालोके शशभृति भ्रान्तिरात्रिविहंगमे । रजनीचरभूतानां संघैरावृतचत्वरे ॥ १५४.९२ ॥ गाढकण्ठग्रहालग्नसुभगेष्टजने ततः । किंचिदाकुलतां प्राप्ते मेनानेत्राम्बुजद्वये ॥ १५४.९३ ॥ आविवेश मुखे रात्रिः सुचिरस्फुटसंगमा । जन्मदाया जगन्मातुः क्रमेण जठरान्तरे ॥ १५४.९४ ॥ आविवेशान्तरं जन्म मन्यमाना क्षपा तु वै । अरञ्जयच्छविं देव्या गुहारण्ये विभावरी ॥ १५४.९५ ॥ ततो जगत्पतिप्राणहेतुर्हिमगिरिप्रिया । ब्राह्मे मुहूर्ते सुभगे व्यसूयत गुहारणिम् ॥ १५४.९६ ॥ तस्यां तु जायमानायां जन्तवः स्थाणुजङ्गमाः । अभवन्सुखिनः सर्वे सर्वलोकनिवासिनः ॥ १५४.९७ ॥ नारकाणामपि तदा सुखं स्वर्गसमं महत् । अभवत्क्रूरसत्त्वानां चेतः शान्तं च देहिनाम् ॥ १५४.९८ ॥ ज्योतिषामपि तेजस्त्वमभवत्सुरतोन्नता । वनाश्रिताश्चौषधयः स्वादुवन्ति फलानि च ॥ १५४.९९ ॥ गन्धवन्ति च माल्यानि विमलं च नभोऽभवत् । मारुतश्च सुखस्पर्शो दिशश्च सुमनोहरा ॥ १५४.१०० ॥ तेन चोद्भूतफलितपरिपाकगुणोज्ज्वलाः । अभवत्पृथिवी देवी शालिमालाकुलापि च ॥ १५४.१०१ ॥ तपांसि दीर्घचीर्णानि मुनीनां भावितात्मनाम् । तस्मिन्गतानि साफल्यं काले निर्मलचेतसाम् ॥ १५४.१०२ ॥ विस्मृतानि च शस्त्राणि प्रादुर्भावं प्रपेदिरे । प्रभावस्तीर्थमुख्यानां तदा पुण्यतमोऽभवत् ॥ १५४.१०३ ॥ अन्तरिक्षे सुराश्चासन् विमानेषु सहस्रशः । समहेन्द्रहरिब्रह्मवायुवह्निपुरोगमाः ॥ १५४.१०४ ॥ पुष्पवृष्टिं प्रमुमुचुस्तस्मिंस्तु हिमभूधरे । जगुर्गन्धर्वमुख्याश्च ननृतुश्चाप्सरोगणाः ॥ १५४.१०५ ॥ मेरुप्रभृतयश्चापि मूर्तिमन्तो महाबलाः । तस्मिन्महोत्सवे प्राप्ते दिव्यप्रभृतपाणयः ॥ १५४.१०६ ॥ सरितः सागराश्चैव समाजग्मुश्च सर्वशः । हिमशैलोऽभवल्लोके तथा सर्वैश्चराचरैः ॥ १५४.१०७ ॥ सेव्यश्चाप्यभिगम्यश्च स श्रेयांश्चाचलोत्तमः । अनुभूयोत्सवं देवा जग्मुः स्वानालयान्मुदा ॥ १५४.१०८ ॥ देवगन्धर्वनागेन्द्रशैलशीलावनीगुणैः । हिमशैलसुता देवी स्वयंपूर्विकया ततः ॥ १५४.१०९ ॥ क्रमेण वृद्धिमानीता लक्ष्मीवानलसैर्बुधैः । क्रमेण रूपसौभाग्यप्रबोधैर्भुवनत्रयम् ॥ १५४.११० ॥ अजयद्भूषयच्चापि निःसाधारैर्नगात्मजा । एतस्मिन्नन्तरे शक्रो नारदं देवसंमतम् ॥ १५४.१११ ॥ देवर्षिमथ सस्मार कार्यसाधनसत्वरम् । स्मृतिं शक्रस्य विज्ञाय जातां तु भगवांस्तदा ॥ १५४.११२ ॥ आजगाम मुदा युक्तो महेन्द्रस्य निवेशनम् । तं स दृष्ट्वा सहस्राक्षः समुत्थाय महासनात् ॥ १५४.११३ ॥ यथार्हेण तु पाद्येन पूजयामास वासवः । शक्रप्रणीतां तां पूजां प्रतिगृह्य यथाविधि ॥ १५४.११४ ॥ नारदः कुशलं देवमपृच्छत्पाकशासनम् । पृष्टे च कुशले शक्रः प्रोवाच वचनं प्रभुः ॥ १५४.११५ ॥ *इन्द्र उवाच कुशलस्याङ्कुरे तावत्सम्भूते भुवनत्रये । तत्फलोद्भवसंपत्तौ त्वं भवातन्द्रितो मुने ॥ १५४.११६ ॥ वेत्सि चैतत्समस्तं त्वं तथापि परिचोदकः । निर्वृतिं परमां याति निवेद्यार्थं सुहृज्जने ॥ १५४.११७ ॥ तद्यथा शैलजा देवी योगं यायात्पिनाकिना । शीघ्रं तदुद्यमः सर्वैरस्मत्पक्षैर्विधीयताम् ॥ १५४.११८ ॥ अवगम्यार्थमखिलं तत आमन्त्र्य नारदः । शक्रं जगाम भगवान् हिमशैलनिवेशनम् ॥ १५४.११९ ॥ तत्र द्वारे स विप्रेन्द्रश्चित्रवेत्रलताकुले । वन्दितो हिमशैलेन निर्गतेन पुरो मुनिः ॥ १५४.१२० ॥ सह प्रविश्य भवनं भुवो भूषणतां गतम् । निवेदिते स्वयं हैमे हिमशैले न विस्तृते ॥ १५४.१२१ ॥ महासने मुनिवरो निषसादातुलद्युतिः । यथार्हं चार्घ्यपाद्यं च शैलस्तस्मै न्यवेदयत् ॥ १५४.१२२ ॥ मुनिस्तु प्रतिजग्राह तमर्घं विधिवत्तदा । गृहीतार्घं मुनिवरमपृच्छच्छ्लक्ष्णया गिरा ॥ १५४.१२३ ॥ कुशलं तपसः शैलः शनैः फुल्लाननाम्बुजः । मुनिरप्यद्रिराजानमपृच्छत्कुशलं तदा ॥ १५४.१२४ ॥ *नारद उवाच अहोऽवतारिताः सर्वे संनिवेशे महागिरे । पृथुत्वं मनसा तुल्यं कन्दराणां तथाचल ॥ १५४.१२५ ॥ गुरुत्वं ते गुणौघानां स्थावरादतिरिच्यते । प्रसन्नता च तोयस्य मनसोऽप्यधिका च ते ॥ १५४.१२६ ॥ न लक्षयामः शैलेन्द्र शिष्यते कन्दरोदरात् । न च लक्ष्मीस्तथा स्वर्गे कुत्राधिकतया स्थिता ॥ १५४.१२७ ॥ नानातपोभिर्मुनिभिर्ज्वलनार्कसमप्रभैः । पावनैः पावितो नित्यं त्वत्कन्दरसमाश्रितैः ॥ १५४.१२८ ॥ अवमत्य विमानानि स्वर्गवासविरागिणः । पितुर्गृह इवासन्ना देवगन्धर्वकिंनराः ॥ १५४.१२९ ॥ अहो धन्योऽसि शैलेन्द्र यस्य ते कन्दरं हरः । अध्यास्ते लोकनाथोऽपि समाधानपरायणः ॥ १५४.१३० ॥ इत्युक्तवति देवर्षौ नारदे सादरं गिरा । हिमशैलस्य महिषी मेना मुनिदिदृक्षया ॥ १५४.१३१ ॥ अनुयाता दुहित्रा तु स्वल्पालिपरिचारिका । लज्जाप्रणयनम्राङ्गी प्रविवेश निवेशनम् ॥ १५४.१३२ ॥ तत्र स्थितो मुनिवरः शैलेन सहितो वशी । दृष्ट्वा तु तेजसो राशिं मुनिं शैलप्रिया तदा ॥ १५४.१३३ ॥ ववन्दे गूढवदना पाणिपद्मकृताञ्जलिः । तां विलोक्य महाभागो महर्षिरमितद्युतिः ॥ १५४.१३४ ॥ आशीर्भिरमृतोद्गाररूपाभिस्तां व्यवर्धयत् । ततो विस्मितचित्ता तु हिमवद्गिरिपुत्रिका ॥ १५४.१३५ ॥ उदैक्षन्नारदं देवी मुनिमद्भुतरूपिणम् । एहि वत्सेति चाप्युक्ता ऋषिणा स्निग्धया गिरा ॥ १५४.१३६ ॥ कण्ठे गृहीत्वा पितरमुत्सङ्गे समुपाविशत् । उवाच माता तां देवीमभिवन्दय पुत्रिके ॥ १५४.१३७ ॥ भगवन्तं ततो धन्यं पतिमाप्स्यसि संमतम् । इत्युक्ता तु ततो मात्रा वस्त्रान्तपिहितानना ॥ १५४.१३८ ॥ किंचित्कम्पितमूर्धा तु वाक्यं नोवाच किंचन । ततः पुनरुवाचेदं वाक्यं माता सुतां तदा ॥ १५४.१३९ ॥ वत्से वन्दय देवर्षिं ततो दास्यामि ते शुभम् । रत्नक्रीडनकं रम्यं स्थापितं यच्चिरं मया ॥ १५४.१४० ॥ इत्युक्ता तु ततो वेगादुद्धृत्य चरणौ तदा । ववन्दे मूर्ध्नि संधाय करपङ्कजकुड्मलम् ॥ १५४.१४१ ॥ कृते तु वन्दने तस्या माता सखीमुखेन तु । चोदयामास शनकैस्तस्याः सौभाग्यशंसिनाम् ॥ १५४.१४२ ॥ शरीरलक्षणानां तु विज्ञानाय तु कौतुकात् । स्त्रीस्वभावाद्यद्दुहितुश्चिन्तां हृदि समुद्वहन् ॥ १५४.१४३ ॥ ज्ञात्वा तदिङ्गितं शैलो महिष्या हृदयेन तु । अनुद्गीर्णोऽक्षतिर्मेने रम्यमेतदुपस्थितम् ॥ १५४.१४४ ॥ चोदितः शैलमहिषीसख्या मुनिवरस्तदा । स्मिताननो महाभागो वाक्यं प्रोवाच नारदः ॥ १५४.१४५ ॥ न जातोऽस्याः पतिर्भद्रे लक्षणैश्च विवर्जिता । उत्तानहस्ता सततं चरणैर्व्यभिचारिभिः । स्वछायया भविष्येयं किमन्यद्बहु भाष्यते ॥ १५४.१४६ ॥ श्रुत्वैतत्संभ्रमाविष्टो ध्वस्तधैर्यो महाबलः । नारदं प्रत्युवाचाथ साश्रुकण्ठो महागिरिः ॥ १५४.१४७ ॥ *हिमवानुवाच संसारस्यातिदोषस्य दुर्विज्ञेया गतिर्यतः । सृष्ट्यां चावश्यभाविन्यां केनाप्यतिशयात्मना ॥ १५४.१४८ ॥ कर्त्रा प्रणीता मर्यादा स्थिता संसारिणामियम् । यो जायते हि यद्बीजो जनितुः स ह्यसार्थकः ॥ १५४.१४९ ॥ जनिता चापि जातस्य न कश्चिदिति यत्स्फुटम् । स्वकर्मणैव जायन्ते विविधा भूतजातयः ॥ १५४.१५० ॥ अण्डजो ह्यण्डजाज्जातः पुनर्जायेत मानवः । मानुषाच्च सरीसृप्यां मनुष्यत्वेन जायते ॥ १५४.१५१ ॥ तत्रापि जातौ श्रेष्ठायां धर्मस्योत्कर्षणेन तु । अपुत्रजन्मिनः शेषाः प्राणिनः समवस्थिताः ॥ १५४.१५२ ॥ मनुजास्तत्र जायन्ते यतो न गृहधर्मिणः । क्रमेणाश्रमसंप्राप्तिर्ब्रह्मचारिव्रतादनु ॥ १५४.१५३ ॥ तस्य कर्तुर्नियोगेन संसारो येन वर्धितः । संसारस्य कुतो वृद्धिः सर्वे स्युर्यदतिग्रहाः ॥ १५४.१५४ ॥ अतः कर्त्रा तु शास्त्रेषु सुतलाभः प्रशंसितः । प्राणिनां मोहनार्थाय नरकत्राणसंश्रयात् ॥ १५४.१५५ ॥ स्त्रिया विरहिता सृष्टिर्जन्तूनां नोपपद्यते । स्त्रीजातिस्तु प्रकृत्यैव कृपणा दैन्यभाषिणी । शास्त्रालोचनसामर्थ्यमुज्झितं तासु वेधसा ॥ १५४.१५६ ॥ शास्त्रेषूक्तमसंदिग्धं बहुवारं महाफलम् । दशपुत्रसमा कन्या या न स्याच्छीलवर्जिता ॥ १५४.१५७ ॥ वाक्यमेतत्फलभ्रष्टं पुंसि ग्लानिकरं परम् । कन्या हि कृपणा शोच्या पितुर्दुःखविवर्धिनी ॥ १५४.१५८ ॥ यापि स्यात्पूर्णसर्वाढ्या पतिपुत्रधनादिभिः । किं पुनर्दुर्भगा हीना पतिपुत्रधनादिभिः ॥ १५४.१५९ ॥ त्वं चोक्तवान्सुताया मे शरीरे दोषसंग्रहम् । अहो मुह्यामि शुष्यामि ग्लामि सीदामि नारद ॥ १५४.१६० ॥ अयुक्तमथ वक्तव्यमप्राप्यमपि सांप्रतम् । अनुग्रहेण मे छिन्द्धि दुःखं कन्याश्रयं मुने ॥ १५४.१६१ ॥ परिच्छिन्नेऽप्यसंदिग्धे मनः परिभवाश्रयम् । तृष्णा मुष्णाति निष्णाता फललोभाश्रयाशुभा ॥ १५४.१६२ ॥ स्त्रीणां हि परमं जन्म कुलानामुभयात्मनाम् । इहामुत्र सुखायोक्तं सत्पतिप्राप्तिसंज्ञितम् ॥ १५४.१६३ ॥ दुर्लभः सत्पतिः स्त्रीणां विगुणोऽपि पतिः किल । न प्राप्यते विना पुण्यैः पतिर्नार्या कदाचन ॥ १५४.१६४ ॥ यतो निःसाधनो धर्मः परिमाणोज्झिता रतिः । धनं जीवितपर्याप्तं पत्यौ नार्याः प्रतिष्ठितम् ॥ १५४.१६५ ॥ निर्धनो दुर्भगो मूर्खः सर्वलक्षणवर्जितः । दैवतं परमं नार्याः पतिरुक्तः सदैव हि ॥ १५४.१६६ ॥ त्वया चोक्तं हि देवर्षे न जातोऽस्याः पतिः किल । एतद्दौर्भाग्यमतुलमसंख्यं गुरु दुःसहम् ॥ १५४.१६७ ॥ चराचरे भूतसर्गे यदद्यापि च नो मुने । न स जात इति ब्रूषे तेन मे व्याकुलं मनः ॥ १५४.१६८ ॥ मनुष्यदेवजातीनां शुभाशुभनिवेदकम् । लक्षणं हस्तपादादौ विहितैर्लक्षणैः किल ॥ १५४.१६९ ॥ सेयमुत्तानहस्तेति त्वयोक्ता मुनिपुंगव । उत्तानहस्तता प्रोक्ता याचतामेव नित्यदा ॥ १५४.१७० ॥ शुभोदयानां धन्यानां न कदाचित्प्रयच्छताम् । स्वछाययास्याश्चरणौ त्वयोक्तौ व्यभिचारिणौ ॥ १५४.१७१ ॥ तत्रापि श्रेयसां ह्याशा मुने न प्रतिभाति नः । शरीरलक्षणाश्चान्ये पृथक्फलनिवेदिनः ॥ १५४.१७२ ॥ सौभाग्यधनपुत्रायुः पतिलाभानुशंसनम् । तैश्च सर्वैर्विहीनेयं त्वमात्थ मुनिपुंगव ॥ १५४.१७३ ॥ त्वं मे सर्वं विजानासि सत्यवागसि चाप्यतः । मुह्यामि मुनिशार्दूल हृदयं दीर्यतीव मे ॥ १५४.१७४ ॥ इत्युक्त्वा विरतः शैलो महादुःखविचारणात् । श्रुत्वैतदखिलं तस्माच्छैलराजमुखाम्बुजात् । स्मितपूर्वमुवाचेदं नारदो देवचोदितः ॥ १५४.१७५ ॥ *नारद उवाच हर्षस्थानेऽपि महति त्वया दुःखं निरूप्यते । अपरिच्छिन्नवाक्यार्थे मोहं यासि महागिरे ॥ १५४.१७६ ॥ इमां शृणु गिरं मत्तो रहस्यपरिनिष्ठिताम् । समाहितो महाशैल मयोक्तस्य विचारणे ॥ १५४.१७७ ॥ न जातोऽस्याः पतिर्देव्या यन्मयोक्तं हिमाचल । न स जातो महादेवो भूतभव्यभवोद्भवः । शरण्यः शाश्वतः शास्ता शंकरः परमेश्वरः ॥ १५४.१७८ ॥ ब्रह्मविष्ण्विन्द्रमुनयो जन्ममृत्युजरार्दिताः । तस्यैते परमेशस्य सर्वे क्रीडनका गिरे ॥ १५४.१७९ ॥ आस्ते ब्रह्मा तदिच्छातः सम्भूतो भुवनप्रभुः । विष्णुर्युगे युगे जातो नानाजातिर्महातनुः ॥ १५४.१८० ॥ मन्यसे मायया जातं विष्णुं चापि युगे युगे । आत्मनो न विनाशोऽस्ति स्थावरान्तेऽपि भूधर ॥ १५४.१८१ ॥ संसारे जायमानस्य भ्रियमाणस्य देहिनः । नश्यते देह एवात्र नात्मनो नाश उच्यते ॥ १५४.१८२ ॥ ब्रह्मादिस्थावरान्तोऽयं संसारो यः प्रकीर्तितः । स जन्ममृत्युदुःखार्तो ह्यवशः परिवर्तते ॥ १५४.१८३ ॥ महादेवोऽचलः स्थाणुर्न जातो जनकोऽजरः । भविष्यति पतिः सोऽस्या जगन्नाथो निरामयः ॥ १५४.१८४ ॥ यदुक्तं च मया देवी लक्षणैर्वर्जिता तव । शृणु तस्यापि वाक्यस्य सम्यक्त्वेन विचारणम् ॥ १५४.१८५ ॥ लक्षणं दैविको ह्यङ्कः शरीरावयवाश्रयः । सर्वायुर्धनसौभाग्यपरिमाणप्रकाशकः ॥ १५४.१८६ ॥ अनन्तस्याप्रमेयस्य सौभाग्यस्यास्य भूधर । नैवाङ्को लक्षणाकारः शरीरे संविधीयते ॥ १५४.१८७ ॥ अतोऽस्या लक्षणं गात्रे शैल नास्ति महामते । यथाहमुक्तवानस्या ह्युत्तानकरतां सदा ॥ १५४.१८८ ॥ उत्तानो वरदः पाणिरेष देव्याः सदैव तु । सुरासुरमुनिव्रातवरदेयं भविष्यति ॥ १५४.१८९ ॥ यथा प्रोक्तं तदा पादौ स्वच्छायाव्यभिचारिणौ । अस्याः शृणु ममात्रापि वाग्युक्तिं शैलसत्तम ॥ १५४.१९० ॥ चरणौ पद्मसंकाशावस्याः स्वच्छनखोज्ज्वलौ । सुरासुराणां नमतां किरीटमणिकान्तिभिः ॥ १५४.१९१ ॥ विचित्रवर्णैर्भासन्तौ स्वच्छायाप्रतिबिम्बितौ । भार्या जगद्गुरोर्ह्येषा वृषाङ्कस्य महीधर ॥ १५४.१९२ ॥ जननी लोकधर्मस्य सम्भूता भूतभावनी । शिवेयं पावनायैव त्वत्क्षेत्रे पावकद्युतिः ॥ १५४.१९३ ॥ तद्यथा शीघ्रमेवैषां योगं यायात्पिनाकिना । तथा विधेयं विधिवत्त्वया शैलेन्द्रसत्तम । अत्यन्तं हि महत्कार्यं देवानां हिमभूधर ॥ १५४.१९४ ॥ *सूत उवाच एवं श्रुत्वा तु शैलेन्द्रो नारदात्सर्वमेव हि । आत्मानं स पुनर्जातं मेने मेनापतिस्तदा ॥ १५४.१९५ ॥ नमस्कृत्य वृषाङ्काय तदा देवाय धीमते । उवाच सोऽपि संहृष्टो नारदं तु हिमाचलः ॥ १५४.१९६ ॥ *हिमवानुवाच दुस्तरान्नरकाद्घोरादुद्धृतोऽस्मि त्वया मुने । पातालादहमुद्धृत्य सप्तलोकाधिपः कृतः ॥ १५४.१९७ ॥ हिमाचलोऽस्मि विख्यातस्त्वया मुनिवराधुना । हिमाचलेऽचलगुणां प्रापितोऽस्मि समुन्नतिम् ॥ १५४.१९८ ॥ आनन्ददिवसाहारि हृदयं मेऽधुना मुने । नाध्यवस्यति कृत्यानां प्रविभागविचारणम् । यदि वाचामधीशः स्यां त्वद्गुणानां विचारणे ॥ १५४.१९९ ॥ भवद्विधानां नियतममोघं दर्शनं मुने । तवास्मान्प्रति चापल्यं व्यक्तं मम महामुने ॥ १५४.२०० ॥ भवद्भिरेव कृत्योऽहं निवासायात्मरूपिणाम् । मुनीनां देवतानां च स्वयंकर्तापि कल्मषम् ॥ १५४.२०१ ॥ तथापि वस्तुन्येकस्मिन्नाज्ञा मे सम्प्रदीयताम् । इत्युक्तवति शैलेन्द्रे स तदा हर्षनिर्भरे ॥ १५४.२०२ ॥ तथा च नारदो वाक्यं कृतं सर्वमिति प्रभो । सुरकार्ये य एवार्थस्तवापि सुमहत्तरः ॥ १५४.२०३ ॥ इत्युक्त्वा नारदः शीघ्रं जगाम त्रिदिवं प्रति । स गत्वा शक्रभवनममरेशं ददर्श ह ॥ १५४.२०४ ॥ ततोऽभिरूपे स मुनिरुपविष्टो महासने । पृष्टः शक्रेण प्रोवाच हिमजासंश्रयां कथाम् ॥ १५४.२०५ ॥ *नारद उवाच समूह्य यत्तु कर्तव्यं तन्मया कृतमेव हि । किं तु पञ्चशरस्यैव समयोऽयमुपस्थितः ॥ १५४.२०६ ॥ इत्युक्तो देवराजस्तु मुनिना कार्यदर्शिना । चूताङ्कुरास्त्रं सस्मार भगवान्पाकशासनः ॥ १५४.२०७ ॥ संस्मृतस्तु तदा क्षिप्रं सहस्राक्षेण धीमता । उपतस्थे रतियुतः सविलासो झषध्वजः । प्रादुर्भूतं तु तं दृष्ट्वा शक्रः प्रोवाच सादरम् ॥ १५४.२०८ ॥ *शक्र उवाच उपदेशेन बहुना किं त्वां प्रति वदे प्रियम् । मनोभवोऽसि तेन त्वं वेत्सि भूतमनोगतम् ॥ १५४.२०९ ॥ तद्यथार्थकमेव त्वं कुरु नाकसदां प्रियम् । शंकरं योजय क्षिप्रं गिरिपुत्र्या मनोभव । संयुतो मधुना चैव ऋतुराजेन दुर्जय ॥ १५४.२१० ॥ इत्युक्तो मदनस्तेन शक्रेण स्वार्थसिद्धये । प्रोवाच पञ्चबाणोऽथ वाक्यं भीतः शतक्रतुम् ॥ १५४.२११ ॥ *काम उवाच अनया देवसामग्र्या मुनिदानवभीमया । दुःसाध्यः शंकरो देवः किं न वेत्सि जगत्प्रभो ॥ १५४.२१२ ॥ तस्य देवस्य वेत्थ त्वं कारणं तु यदव्ययम् । प्रायः प्रसादः कोपोऽपि सर्वो हि महतां महान् ॥ १५४.२१३ ॥ सर्वोपभोगसारा हि सुन्दर्यः स्वर्गसंभवाः । अध्याश्रितं च यत्सौख्यं भवता नष्टचेष्टितम् ॥ १५४.२१४ ॥ प्रमादादथ विभ्रश्येदीशं प्रति विचिन्त्यताम् । प्रागेव चेह दृश्यन्ते भूतानां कार्यसंभवाः ॥ १५४.२१५ ॥ विशेषं काङ्क्षतां शक्र सामान्याद्भ्रंशनं फलम् । श्रुत्वैतद्वचनं शक्रस्तमुवाचामरैर्युतः ॥ १५४.२१६ ॥ *शक्र उवाच वयं प्रमाणास्ते ह्यत्र रतिकान्त न संशयः । संदेशेन विना शक्तिरपकारस्य नेष्यते । कस्यचिच्च क्वचिद्दृष्टं सामर्थ्यं न तु सर्वतः ॥ १५४.२१७ ॥ इत्युक्तः प्रययौ कामः सखायं मधुमाश्रितः । रतियुक्तो जगामाशु प्रस्थं तु हिमभूभृतः ॥ १५४.२१८ ॥ स तु तत्राकरोच्चिन्तां कार्यस्योपायपूर्विकाम् । महार्था ये हि निष्कम्पा मनस्तेषां सुदुर्जयम् ॥ १५४.२१९ ॥ तदादावेव संक्षोभ्य नियतं सुजयो भवेत् । संसिद्धिं प्राप्नुयुश्चैव पूर्वं संशोध्य मानसम् ॥ १५४.२२० ॥ कथं च विविधैर्भावैर्द्वेषानुगमनं विना । क्रोधः क्रूरतरासङ्गाद्भीषणेर्ष्यां महासखीम् ॥ १५४.२२१ ॥ चापल्यमूर्ध्नि विध्वस्तधैर्याधारां महाबलाम् । तामस्य विनियोक्ष्यामि मनसो विकृतिं पराम् ॥ १५४.२२२ ॥ पिधाय धैर्यद्वाराणि संतोषमपकृष्य च । अवगन्तुं हि मां तत्र न कश्चिदतिपण्डितः ॥ १५४.२२३ ॥ विकल्पमात्रावस्थाने वैरूप्यं मनसो भवेत् । पश्चान्मूलक्रियारम्भगम्भीरावर्तदुस्तरः ॥ १५४.२२४ ॥ हरिष्यामि हरस्याहं तपस्तस्य स्थिरात्मनः । इन्द्रियग्राममावृत्य रम्यसाधनसंविधिः ॥ १५४.२२५ ॥ चिन्तयित्वेति मदनो भूतभर्तुस्तदाश्रमम् । जगाम जगतीसारं सरलद्रुमवेदिकम् ॥ १५४.२२६ ॥ शान्तसत्त्वसमाकीर्णमचलप्राणिसंकुलम् । नानापुष्पलताजालं गगनस्थगणेश्वरम् ॥ १५४.२२७ ॥ निर्व्यग्रवृषभाध्युष्टनीलशाद्वलसानुकम् । तत्रापश्यत्त्रिनेत्रस्य रम्यं कंचिद्द्वितीयकम् ॥ १५४.२२८ ॥ वीरकं लोकवीरेशमीशानसदृशद्युतिम् । यक्षकुङ्कुमकिञ्जल्कपुञ्जपिङ्गजटासटम् ॥ १५४.२२९ ॥ वेत्रपाणिनमव्यग्रमुग्रभोगीन्द्रभूषणम् । ततो निमीलितोन्निद्रपद्मपत्राभलोचनम् ॥ १५४.२३० ॥ प्रेक्षमाणमृजुस्थानं नासिकाग्रं सुलोचनैः । श्रवस्तरससिंहेन्द्रचर्मलम्बोत्तरीयकम् ॥ १५४.२३१ ॥ श्रवणाहिफलन्मुक्तनिःश्वासानलपिङ्गलम् । प्रेङ्खत्कपालपर्यन्ततुम्बिलम्बिजटाचयम् ॥ १५४.२३२ ॥ कृतवासुकिपर्यङ्कनाभिमूलनिवेशितम् । ब्रह्माञ्जलिस्थपुच्छाग्रनिबद्धोरगभूषणम् ॥ १५४.२३३ ॥ ददर्श शंकरं कामः क्रमप्राप्तान्तिकं शनैः । ततो भ्रमरझङ्कारमालम्बिद्रुमसानुकम् ॥ १५४.२३४ ॥ प्रविष्टः कर्णरन्ध्रेण भवस्य मदनो मनः । शंकरस्तमथाकर्ण्य मधुरं मदनाश्रयम् ॥ १५४.२३५ ॥ सस्मार दक्षदुहितारं दयितां रक्तमानसः । ततः सा तस्य शनकैस्तिरोभूयातिनिर्मला ॥ १५४.२३६ ॥ समाधिभावना तस्थौ लक्ष्यप्रत्यक्षरूपिणी । ततस्तन्मयतां यातः प्रत्यूहापिहिताशयः ॥ १५४.२३७ ॥ वशित्वेन बुबोधेशो विकृतिं मदनात्मिकाम् । ईषत्कोपसमाविष्टो धैर्यमालम्ब्य धूर्जटिः ॥ १५४.२३८ ॥ निरासे मदनस्थित्या योगमायासमाव्रतः । स तया माययाविष्टो जज्वाल मदनस्ततः ॥ १५४.२३९ ॥ इच्छाशरीरो दुर्जेयो रोषदोषमहाश्रयः । हृदयान्निर्गतः सोऽथ वासनाव्यसनात्मकः ॥ १५४.२४० ॥ बहिःस्थलं समालम्ब्य ह्युपतस्थौ झषध्वजः । अनुयातोऽथ हृद्येन मित्रेण मधुना सह ॥ १५४.२४१ ॥ सहकारतरौ दृष्ट्वा मृदुमारुतनिर्धुतम् । स्तबकं मदनो रम्यं हरवक्षसि सत्वरम् ॥ १५४.२४२ ॥ मुमोच मोहनं नाम मार्गणं मकरध्वजः । शिवस्य हृदये शुद्धे नाशशाली महाशरः ॥ १५४.२४३ ॥ पपात परुषप्रांशुः पुष्पबाणो विमोहनः । ततः करणसंदेहो विद्धस्तु हृदये भवः ॥ १५४.२४४ ॥ बभूव भूधरौपम्यधैर्योऽपि मदनोन्मुखः । ततः प्रभुत्वाद्भावानां नावेशं समपद्यत ॥ १५४.२४५ ॥ बाह्यं बहु समासाद्य प्रत्यूहप्रसवात्मकम् । ततः कोपानलोद्भूतघोरहुङ्कारभीषणे ॥ १५४.२४६ ॥ बभूव वदने नेत्रं तृतीयमनलाकुलम् । रुद्रस्य रौद्रवपुषो जगत्संहारभैरवम् ॥ १५४.२४७ ॥ तदन्तिकस्थे मदने व्यस्फारयत धूर्जटिः । तन्नेत्रविस्फुलिङ्गेन क्रोशतां नाकवासिनाम् ॥ १५४.२४८ ॥ गमितो भस्मसात्तूर्णं कन्दर्पः कामिदर्पकः । स तु तं भस्मसात्कृत्वा हरनेत्रोद्भवोऽनलः ॥ १५४.२४९ ॥ व्यजृम्भत जगद्दग्धुं ज्वालाहुङ्कारघस्मरः । ततो भवो जगद्धेतोर्व्यभवज्जातवेदसम् ॥ १५४.२५० ॥ सहकारे मधौ चन्द्रे सुमनःसु परेष्वपि । भृङ्गेषु कोकिलास्येषु विभागेन स्मरानलम् ॥ १५४.२५१ ॥ स बाह्यान्तरविद्धेन हरेण स्मरमार्गणः । रागस्नेहसमिद्धान्तर्धावंस्तीव्रहुताशनः ॥ १५४.२५२ ॥ विभक्तलोकसंक्षोभकरो दुर्वारजृम्भितः । सम्प्राप्य स्नेहसंपृक्तं कामिनां हृदयं किल ॥ १५४.२५३ ॥ ज्वलत्यहर्निशं भीमो दुश्चिकित्स्यमुखात्मकः । विलोक्य हरहुङ्कारज्वालाभस्मकृतं स्मरम् ॥ १५४.२५४ ॥ विललाप रतिः क्रूरं बन्धुना मधुना सह । ततो विलप्य बहुशो मधुना परिसान्त्विता ॥ १५४.२५५ ॥ जगाम शरणं देवमिन्दुमौलिं त्रिलोचनम् । भृङ्गानुयातां संगृह्य पुष्पितां सहकारजाम् ॥ १५४.२५६ ॥ लतां पवित्रकस्थाने पाणौ परभृतां सखीम् । निर्बध्य तु जटाजूटं कुटिलैरलकै रतिः ॥ १५४.२५७ ॥ उद्ध्वल्य गात्रं शुभ्रेण हृद्येन स्मरभस्मना । जानुभ्यामवनीं गत्वा प्रोवाचेन्दुविभूषणम् ॥ १५४.२५८ ॥ *रतिरुवाच नमः शिवायास्तु निरामयाय नमः शिवायास्तु मनोमयाय । नमः शिवायास्तु सुरार्चिताय तुभ्यं सदा भक्तकृपापराय ॥ १५४.२५९ ॥ नमो भवायास्तु भवोद्भवाय नमोऽस्तु ते ध्वस्तमनोभवाय । नमोऽस्तु ते गूढमहाव्रताय नमोऽस्तु मायागहनाश्रयाय ॥ १५४.२६० ॥ नमोऽस्तु शर्वाय नमः शिवाय नमोऽस्तु सिद्धाय पुरातनाय । नमोऽस्तु कालाय नमः कलाय नमोऽस्तु ते ज्ञानवरप्रदाय ॥ १५४.२६१ ॥ नमोऽस्तु ते कालकलातिगाय नमो निसर्गामलभूषणाय । नमोऽस्त्वमेयान्धकमर्दकाय नमः शरण्याय नमोऽगुणाय ॥ १५४.२६२ ॥ नमोऽस्तु ते भीमगणानुगाय नमोऽस्तु नानाभुवनादिकर्त्रे । नमोऽस्तु नानाजगतां विधात्रे नमोऽस्तु ते चित्रफलप्रयोक्त्रे ॥ १५४.२६३ ॥ सर्वावसाने ह्यविनाशनेत्रे नमोऽस्तु चित्राध्वरभागभोक्त्रे । नमोऽस्तु भक्ताभिमतप्रदात्रे नमः सदा ते भवसङ्गहर्त्रे ॥ १५४.२६४ ॥ अनन्तरूपाय सदैव तुभ्यमसह्यकोपाय नमोऽस्तु तुभ्यम् । शशाङ्कचिह्नाय सदैव तुभ्यममेयमानाय नमः स्तुताय ॥ १५४.२६५ ॥ वृषेन्द्रयानाय पुरान्तकाय नमः प्रसिद्धाय महौषधाय । नमोऽस्तु भक्त्याभिमतप्रदाय नमोऽस्तु सर्वार्तिहराय तुभ्यम् ॥ १५४.२६६ ॥ चराचराचारविचारवर्यमाचार्यमुत्प्रेक्षितभूतसर्गम् । त्वामिन्दुमौलिं शरणं प्रपन्ना प्रियाप्रमेयं महतां महेशम् ॥ १५४.२६७ ॥ प्रयच्छ मे कामयशःसमृद्धिं पुनः प्रभो जीवतु कामदेवः । प्रियं विना त्वां प्रियजीवितेषु त्वत्तोऽपरः को भुवनेष्विहास्ति ॥ १५४.२६८ ॥ प्रभुः प्रियायाः प्रसवः प्रियाणां प्रणीतपर्यायपरापरार्थः । त्वमेवमेको भुवनस्य नाथो दयालुरुन्मूलितभक्तभीतिः ॥ १५४.२६९ ॥ *सूत उवाच इत्थं स्तुतः शंकर ईड्य ईशो वृषाकपिर्मन्मथकान्तया तु । तुतोष दोषाकरखण्डधारी उवाच चैनां मधुरं निरीक्ष्य ॥ १५४.२७० ॥ *शंकर उवाच भवितेति च कामोऽयं कालात्कान्तोऽचिरादपि । अनङ्ग इति लोकेषु स विख्यातिं गमिष्यति ॥ १५४.२७१ ॥ इत्युक्ता शिरसावन्द्य गिरिशं कामवल्लभा । जगामोपवनं रम्यं रतिस्तु हिमभूभृतः ॥ १५४.२७२ ॥ रुरोद चापि बहुशो दीना रम्ये स्थले तु सा । मरणव्यवसायात्तु निवृत्ता सा हराज्ञया ॥ १५४.२७३ ॥ अथ नारदवाक्येन चोदितो हिमभूधरः । कृताभरणसंस्कारां कृतकौतुकमङ्गलाम् ॥ १५४.२७४ ॥ स्वर्गपुष्पकृतापीडां शुभ्रचीनांशुकाम्बराम् । शराभ्यां संयुतां शैलो गृहीत्वा स्वसुतां ततः ॥ १५४.२७५ ॥ जगाम शुभयोगेन तदा सम्पूर्णमानसः । सकाननान्युपाक्रम्य वनान्युपवनानि च ॥ १५४.२७६ ॥ ददर्श रुदतीं नारीमप्रतर्क्यमहौजसम् । रूपेणासदृशीं लोके रम्येषु वनसानुषु ॥ १५४.२७७ ॥ कौतुकेन परामृश्य तां दृष्ट्वा रुदतीं गिरिः । उपसर्प्य ततस्तस्या निकटे सोऽभ्यपृच्छत ॥ १५४.२७८ ॥ *हिमवानुवाच कासि कस्यासि कल्याणि किमर्थं चापि रोदिषि । नैतदल्पमहं मन्ये कारणं लोकसुन्दरि ॥ १५४.२७९ ॥ सा तस्य वचनं श्रुत्वा उवाच मधुना सह । रुदती शोकजननं श्वसती दैन्यवर्धनम् ॥ १५४.२८० ॥ *रतिरुवाच कामस्य दयितां भार्यां रतिं मां विद्धि सुव्रत । गिरावस्मिन्महाभाग गिरिशस्तपसि स्थितः ॥ १५४.२८१ ॥ तेन प्रत्यूहरुष्टेन विस्फार्यालोक्य लोचनम् । दग्धोऽसौ झषकेतुस्तु मम कान्तोऽतिवल्लभः ॥ १५४.२८२ ॥ अहं तु शरणं याता तं देवं भयविह्वला । स्तुतवत्यथ संस्तुत्या ततो मां गिरिशोऽब्रवीत् ॥ १५४.२८३ ॥ तुष्टोऽहं कामदयिते कामोऽयं ते भविष्यति । त्वत्स्तुतिं चाप्यधीयानो नरो भक्त्या मदाश्रयः । लप्स्यते काङ्क्षितं कामं निवर्त्य मरणादितः ॥ १५४.२८४ ॥ प्रतीक्षन्ती च तद्वाक्यमाशावेशादिभिर्ह्यहम् । शरीरं परिरक्षिष्ये कंचित्कालं महाद्युते ॥ १५४.२८५ ॥ इत्युक्तस्तु तदा रत्या शैलः संभ्रमभीषितः । पाणावादाय हि सुतां गन्तुमैच्छत्स्वकं पुरम् ॥ १५४.२८६ ॥ भाविनोऽवश्यभावित्वाद्भवित्री भूतभाविनी । लज्जमाना सखिमुखैरुवाच पितरं गिरिम् ॥ १५४.२८७ ॥ *शैलदुहितोवाच दुर्भाग्येण शरीरेण किं ममानेन कारणम् । कथं च तादृशं प्राप्तं सुखं मे स पतिर्भवेत् ॥ १५४.२८८ ॥ तपोभिः प्राप्यतेऽभीष्टं नासाध्यं हि तपस्यतः । दुर्भगत्वं वृथा लोको वहते सति साधने ॥ १५४.२८९ ॥ जीविताद्दुर्भगाच्छ्रेयो मरणं ह्यतपस्यतः । भविष्यामि न संदेहो नियमैः शोषये तनुम् ॥ १५४.२९० ॥ तपसि भ्रष्टसंदेह उद्यमोऽर्थजिगीषया । साहं तपः करिष्यामि यदहं प्राप्य दुर्लभा ॥ १५४.२९१ ॥ इत्युक्तः शैलराजस्तु दुहित्रा स्नेहविक्लवः । उवाच वाचा शैलेन्द्रः स्नेहगद्गदवर्णया ॥ १५४.२९२ ॥ *हिमवानुवाच उमेति चपले पुत्रि न क्षमं तावकं वपुः । सोढुं क्लेशस्वरूपस्य तपसः सौम्यदर्शने ॥ १५४.२९३ ॥ भावीन्यभिविचार्याणि पदार्थानि सदैव तु । भाविनोऽर्था भवन्त्येव हठेनानिच्छतोऽपि वा ॥ १५४.२९४ ॥ तस्मान्न तपसा तेऽस्ति बाले किंचित्प्रयोजनम् । भवनायैव गच्छामश्चिन्तयिष्यामि तत्र वै ॥ १५४.२९५ ॥ इत्युक्ता तु यदा नैव गुहायाभ्येति शैलजा । ततः स चिन्तयाविष्टो दुहितां प्रशशंस च ॥ १५४.२९६ ॥ ततोऽन्तरिक्षे दिव्या वागभूद्भुवनभूतले । उमेति चपले पुत्रि त्वयोक्ता तनया ततः ॥ १५४.२९७ ॥ उमेति नाम तेनास्या भुवनेषु भविष्यति । सिद्धिं च मूर्तिमत्येषा साधयिष्यति चिन्तिताम् ॥ १५४.२९८ ॥ इति श्रुत्वा तु वचनमाकाशात्काशपाण्डुरः । अनुज्ञाय सुतां शैलो जगामाशु स्वमन्दिरम् ॥ १५४.२९९ ॥ *सूत उवाच शैलजापि ययौ शैलमगम्यमपि दैवतैः । सखीभ्यामनुयाता तु नियता नगराजजा ॥ १५४.३०० ॥ शृङ्गं हिमवतः पुण्यं नानाधातुविभूषितम् । दिव्यपुष्पलताकीर्णं सिद्धगन्धर्वसेवितम् ॥ १५४.३०१ ॥ नानामृगगणाकीर्णं भ्रमरोद्घुष्टपादपम् । दिव्यप्रस्रवणोपेतं दीर्घिकाभिरलंकृतम् ॥ १५४.३०२ ॥ नानापक्षिगणाकीर्णं चक्रवाकोपशोभितम् । जलजस्थलजैः पुष्पैः प्रोत्फुल्लैरुपशोभितम् ॥ १५४.३०३ ॥ चित्रकन्दरसंस्थानं गुहागृहमनोहरम् । विहङ्गसंघसंजुष्टं कल्पपादपसंकटम् ॥ १५४.३०४ ॥ तत्रापश्यन्महाशाखं शाखिनं हरितच्छदम् । सर्वर्तुकुसुमोपेतं मनोरथशतोज्ज्वलम् ॥ १५४.३०५ ॥ नानापुष्पसमाकीर्णं नानाविधफलान्वितम् । नतं सूर्यस्य रुचिभिर्भिन्नसंहृतपल्लवम् ॥ १५४.३०६ ॥ तत्राम्बराणि संत्यज्य भूषणानि च शैलजा । संवीता वल्कलैर्दिव्यैर्दर्भनिर्मितमेखला ॥ १५४.३०७ ॥ त्रिःस्नाता पाटलाहारा बभूव शरदां शतम् । शतमेकेन शीर्णेन पर्णेनावर्तयत्तदा ॥ १५४.३०८ ॥ निराहारा शतं साभूत्समानां तपसां निधिः । तत उद्वेजिताः सर्वे प्राणिनस्तत्तपोऽग्निना ॥ १५४.३०९ ॥ ततः सस्मार भगवान्मुनीन्सप्त शतक्रतुः । ते समागम्य मुनयः सर्वे समुदितास्ततः ॥ १५४.३१० ॥ पूजिताश्च महेन्द्रेण पप्रच्छुस्तं प्रयोजनम् । किमर्थं तु सुरश्रेष्ठ संस्मृतास्तु वयं त्वया ॥ १५४.३११ ॥ शक्रः प्रोवाच शृण्वन्तु भगवन्तः प्रयोजनम् । हिमाचले तपो घोरं तप्यते भूधरात्मजा । तस्या ह्यभिमतं कामं भवन्तः कर्तुमर्हथ ॥ १५४.३१२ ॥ ततः समापतन्देव्या जगदर्थं त्वरान्विताः । तथेत्युक्त्वा तु शैलेन्द्रं सिद्धसंघातसेवितम् ॥ १५४.३१३ ॥ ऊचुरागत्य मुनयस्तामथो मधुराक्षरम् । पुत्रि किं ते व्यवसितः कामः कमललोचने ॥ १५४.३१४ ॥ तानुवाच ततो देवी सलज्जा गौरवान्मुनीन् । तपस्यतो महाभागाः प्राप्य मौने भवादृशान् ॥ १५४.३१५ ॥ वन्दनाय नियुक्ता धीः पावयत्यविकल्पितम् । प्रश्नोन्मुखत्वाद्भवतां युक्तमासनमादितः ॥ १५४.३१६ ॥ उपविष्टाः श्रमोन्मुक्तास्ततः प्रक्ष्यथ मामतः । इत्युक्त्वा सा ततश्चक्रे कृतासनपरिग्रहान् ॥ १५४.३१७ ॥ सा तु तान्विधिवत्पूज्यान् पूजयित्वा विधानतः । उवाचादित्यसंकाशान्मुनीन्सप्त सती शनैः ॥ १५४.३१८ ॥ त्यक्त्वा व्रतात्मकं मौनं मौनं जग्राह ह्रीमयम् । भावं तस्यास्तु मौनान्तं तस्याः सप्तर्षयो यथा ॥ १५४.३१९ ॥ गौरवाधीनतां प्राप्ताः पप्रच्छुस्तां पुनस्तथा । सापि गौरवगर्भेण मनसा चारुहासिनी ॥ १५४.३२० ॥ मुनीञ्शान्तकथालापान् प्रेक्ष्य प्रोवाच वाग्यमम् । भगवन्तो विजानन्ति प्राणिनां मानसं हितम् ॥ १५४.३२१ ॥ मनोगतीभिरत्यर्थं कदर्थन्ते हि देहिनः । केचित्तु निपुणास्तत्र घटन्ते विबुधोद्यमैः ॥ १५४.३२२ ॥ उपायैर्दुर्लभान्भावान् प्राप्नुवन्ति ह्यतन्द्रिताः । अपरे तु परिच्छिन्ना नानाकाराभ्युपक्रमाः ॥ १५४.३२३ ॥ देहान्तरार्थमारम्भमाश्रयन्ति हितप्रदम् । मम त्वाकाशसम्भूतपुष्पदामा विभूषितम् ॥ १५४.३२४ ॥ वन्ध्या सुतं प्राप्तुकामा मनः प्रसरते मुहुः । अहं किल भवं देवं पतिं प्राप्तुं समुद्यता ॥ १५४.३२५ ॥ प्रकृत्यैव दुराधर्षं तपस्यन्तं तु संप्रति । सुरासुरैरनिर्णीतं परमार्थक्रियाश्रयम् ॥ १५४.३२६ ॥ सांप्रतं चापि निर्दग्धमदनं वीतरागिणम् । कथमाराधयेदीशं मादृशी तादृशं शिवम् ॥ १५४.३२७ ॥ इत्युक्ता मुनयस्ते तु स्थिरतां मनसस्ततः । ज्ञातुमस्या वचः प्रोचुः प्रक्रमात्प्रकृतार्थकम् ॥ १५४.३२८ ॥ *मुनय ऊचुः द्विविधं तु सुखं तावत्पुत्रि लोकेषु भाव्यते । शरीरस्यास्य संभोगैश्चेतसश्चापि निर्वृतिः ॥ १५४.३२९ ॥ प्रकृत्या स तु दिग्वासा भीमः पितृवणेशयः । कपाली भिक्षुको नग्नो विरूपाक्षः स्थिरक्रियः ॥ १५४.३३० ॥ प्रमत्तोन्मत्तकाकारो बीभत्सकृतसंग्रहः । यतिना तेन कस्तेऽर्थो मूर्तानर्थेन काङ्क्षितः ॥ १५४.३३१ ॥ यदि ह्यस्य शरीरस्य भोगमिच्छसि सांप्रतम् । तत्कथं ते महादेवाद्भयभाजो जुगुप्सितात् ॥ १५४.३३२ ॥ स्रवद्रक्तवसाभ्यक्तकपालकृतभूषणात् । श्वसदुग्रभुजंगेन्द्रकृतभूषणभीषणात् ॥ १५४.३३३ ॥ श्मशानवासिनो रौद्रप्रमथानुगतात्सति । सुरेन्द्रमुकुटव्रातनिघृष्टचरणोऽरिहा ॥ १५४.३३४ ॥ हरिरस्ति जगद्धाता श्रीकान्तोऽनन्तमूर्तिमान् । नाथो यज्ञभुजामस्ति तथेन्द्रः पाकशासनः ॥ १५४.३३५ ॥ देवतानां निधिश्चास्ति ज्वलनः सर्वकामकृत् । वायुरस्ति जगद्धाता यः प्राणः सर्वदेहिनाम् ॥ १५४.३३६ ॥ तथा वैश्रवणो राजा सर्वार्थमतिमान्विभुः । एभ्य एकतमं कस्मान्न त्वं सम्प्राप्तुमिच्छसि ॥ १५४.३३७ ॥ उतान्यदेहसंप्राप्त्या सुखं ते मनसेप्सितम् । एवमेतत्तवाप्यत्र प्रभवो नाकसंपदाम् । अस्मिन्नेव पराः सर्वाः कल्याणप्राप्तयस्तव ॥ १५४.३३८ ॥ पितुरेवास्ति तत्सर्वं सुरेभ्यो यन्न विद्यते । अतस्तत्प्राप्तये क्लेशः स वाप्यत्राफलस्तव ॥ १५४.३३९ ॥ प्रायेण प्रार्थितो भद्रे सुस्वल्पो ह्यतिदुर्लभः । अस्य ते विधियोगस्य धाता कर्तात्र चैव हि ॥ १५४.३४० ॥ *सूत उवाच इत्युक्ता सा तु कुपिता मुनिवर्येषु शैलजा । उवाच कोपरक्ताक्षी स्फुरद्भिर्दशनच्छदैः ॥ १५४.३४१ ॥ *देव्युवाच असद्ग्रहस्य का प्रीतिर्व्यसनस्य क्व यन्त्रणा । विपरीतार्थबोद्धारः सत्पथे केन योजिताः ॥ १५४.३४२ ॥ एवं मां वेत्थ दुष्प्रज्ञां ह्यस्थानासद्ग्रहप्रियाम् । न मां प्रतिविचारोऽस्ति यत्रेहासद्ग्रहावितौ ॥ १५४.३४३ ॥ प्रजापतिसमाः सर्वे भवन्तः सर्वदर्शिनः । नूनं न वेत्थ तं देवं शाश्वतं जगतः प्रभुम् ॥ १५४.३४४ ॥ अजमीशानमव्यक्तममेयमहिमोदयम् ॥ १५४.३४५ ॥ आस्तां तद्धर्मसद्भावसंबोधस्तावदद्भुतः । विदुर्यं न हरिब्रह्मप्रमुखा हि सुरेश्वराः ॥ १५४.३४६ ॥ यत्तस्य विभवात्स्वोत्थं भुवनेषु विजृम्भितम् । प्रकटं सर्वभूतानां तदप्यत्र न वेत्थ किम् ॥ १५४.३४७ ॥ कस्यैतद्गगनं भूरितः कस्याग्निः कस्य मारुतः । कस्य भूः कस्य वरुणः कश्चन्द्रार्कविलोचनः ॥ १५४.३४८ ॥ कस्यार्चयन्ति लोकेषु लिङ्गं भक्त्या सुरासुराः । यं ब्रुवन्तीश्वरं देवा विधीन्द्राद्या महर्षयः ॥ १५४.३४९ ॥ प्रभावं प्रभवं चैष तेषामपि न वेत्थ किम् । अदितिः कस्य मातेयं कस्माज्जातो जनार्दनः ॥ १५४.३५० ॥ अदितेः कश्यपाज्जाता देवा नारायणादयः । मरीचेः कश्यपः पुत्रो ह्यदितिर्दक्षपुत्रिका ॥ १५४.३५१ ॥ मरीचिश्चापि दक्षश्च पुत्रौ तौ ब्रह्मणः किल । ब्रह्मा हिरण्मयात्त्वण्डाद्दिव्यसिद्धिविभूतिकम् ॥ १५४.३५२ ॥ कस्य प्रादुरभूद्ध्यानात्प्रक्षुब्धाः प्राकृतांशकाः । प्रकृतौ तु तृतीयायां मधुद्विड्जननक्रिया ॥ १५४.३५३ ॥ जाता ससर्ज षड्वर्गान् बुद्धिपूर्वान् स्वकर्मजान् । अजातकोऽभवद्वेधा ब्रह्मणोऽव्यक्तजन्मनः ॥ १५४.३५४ ॥ यः स्वयोगेन संक्षोभ्य प्रकृतिं कृतवानिदम् । ब्रह्मणः सिद्धसर्वार्थमैश्वर्यं लोककर्तृताम् ॥ १५४.३५५ ॥ विदुर्विष्ण्वादयो यच्च स्वमहिम्ना सदैव हि । कृत्वान्यं देहमन्या दृक्तादृक्कृत्वा पुनर्हरिः ॥ १५४.३५६ ॥ कुरुते जगतः कृत्यमुत्तमाधममध्यमम् । एवमेव हि संसारो यो जन्ममरणात्मकः ॥ १५४.३५७ ॥ कर्मणश्च फलं ह्येतन्नानारूपसमुद्भवम् । अथ नारायणो देवः स्वकां छायां समाश्रयत् ॥ १५४.३५८ ॥ तत्प्रेरितः प्रकुरुते जन्म नानाप्रकारकम् । सापि कर्मण एवोक्ता प्रेरणा विवशात्मनाम् ॥ १५४.३५९ ॥ यथोन्मादादिजुष्टस्य मतिरेव हि सा भवेत् । इष्टान्येव यथार्थानि विपरीतानि मन्यते ॥ १५४.३६० ॥ लोकस्य व्यवहारेषु सृष्टेषु सहते सदा । धर्माधर्मफलावाप्तौ विष्णुरेव निबोधितः ॥ १५४.३६१ ॥ अथानादित्वमस्यास्ति सामान्यात्तु तदात्मना । न ह्यस्य जीवितं दीर्घं दृष्टं देहे तु कुत्रचित् ॥ १५४.३६२ ॥ भवद्भिर्यस्य नो दृष्टमन्तरग्रमथापि वा । देहिनां धर्म एवैष क्वचिज्जायेत्कचिन्म्रियेत् ॥ १५४.३६३ ॥ क्वचिद्गर्भगतो नश्येत्क्वचिज्जीवेज्जरामयः । क्वचित्समाः शतं जीवेत्क्वचिद्बाल्ये विपद्यते ॥ १५४.३६४ ॥ शतायुः पुरुषो यस्तु सोऽनन्तः स्वल्पजन्मनः । जीवितो न म्रियत्यग्रे तस्मात्सोऽमर उच्यते ॥ १५४.३६५ ॥ अदृष्टजन्मनिधना ह्येवं विष्ण्वादयो मताः । एतत्संशुद्धमैश्वर्यं संसारे को लभेदिह ॥ १५४.३६६ ॥ तत्र क्षयादियोगात्तु नानाश्चर्यस्वरूपिणि । तस्माद्दिवश्चरान्सर्वान्मलिनान्स्वल्पभूतिकान् ॥ १५४.३६७ ॥ नाहं भद्राः किलेच्छामि ऋते शर्वात्पिनाकिनः । स्थितं च तारतम्येन प्राणिनां परमं त्विदम् ॥ १५४.३६८ ॥ धीबलैश्वर्यकार्यादिप्रमाणं महतां महत् । यस्मान्न किंचिदपरं सर्वं यस्मात्प्रवर्तते ॥ १५४.३६९ ॥ यस्यैश्वर्यमनाद्यन्तं तमहं शरणं गता । एष मे व्यवसायश्च दीर्घोऽतिविपरीतकः ॥ १५४.३७० ॥ यात वा तिष्ठतैवाथ मुनयो मद्विधायकाः । एवं निशम्य वचनं देव्या मुनिवरास्तदा ॥ १५४.३७१ ॥ आनन्दाश्रुपरीताक्षाः सस्वजुस्तां तपस्विनीम् । ऊचुश्च परमप्रीताः शैलजां मधुरं वचः ॥ १५४.३७२ ॥ *ऋषय ऊचुः अत्यद्भुतास्यहो पुत्रि ज्ञानमूर्तिरिवामला । प्रसादयति नो भावं भवभावप्रतिश्रयात् ॥ १५४.३७३ ॥ ननु विद्मो वयं तस्य देवस्यैश्वर्यमद्भुतम् । त्वन्निश्चयस्य दृढतां वेत्तुं वयमिहागताः ॥ १५४.३७४ ॥ अचिरादेव तन्वङ्गि कामस्तेऽयं भविष्यति । क्वादित्यस्य प्रभा याति रत्नेभ्यः क्व द्युतिः पृथक् ॥ १५४.३७५ ॥ कोऽर्थो वर्णालिकाव्यक्तः कथं त्वं गिरिशं विना । यामो नैकाभ्युपायने तमभ्यर्थयितुं वयम् ॥ १५४.३७६ ॥ अस्माकमपि वै सोऽर्थः सुतरां हृदि वर्तते । अतस्त्वमेव सा बुद्धिर्यतो नीतिस्त्वमेव हि ॥ १५४.३७७ ॥ अतो निःसंशयं कायं शंकरोऽपि विधास्यति । इत्युक्त्वा पूजिता याता मुनयो गिरिकन्यया ॥ १५४.३७८ ॥ प्रययुर्गिरिशं द्रष्टुं प्रस्थं हिमवतो महत् । गङ्गाम्बुप्लावितात्मानं पिङ्गबद्धजटासटम् ॥ १५४.३७९ ॥ भृङ्गानुयातपाणिस्थमन्दारकुसुमस्रजम् । गिरेः सम्प्राप्य ते प्रस्थं ददृशुः शंकराश्रमम् ॥ १५४.३८० ॥ प्रशान्ताशेषसत्त्वौघं नवस्तिमितकाननम् । निःशब्दाक्षोभसलिलप्रपातं सर्वतोदिशम् ॥ १५४.३८१ ॥ तत्रापश्यंस्ततो द्वारि वीरकं वेत्रपाणिनम् । सप्त ते मुनयः पूज्या विनीताः कार्यगौरवात् ॥ १५४.३८२ ॥ ऊचुर्मधुरभाषिण्या वाचा ते वाग्मिनां वराः । द्रष्टुं वयमिहायाताः शरण्यं गणनायकम् ॥ १५४.३८३ ॥ त्रिलोचनं विजानीहि सुरकार्यप्रचोदिताः । त्वमेव नो गतिस्तत्त्वं यथा कालानतिक्रमः ॥ १५४.३८४ ॥ सा प्रार्थनैषा प्रायेण प्रतीहारमयः प्रभुः । इत्युक्तो मुनिभिः सोऽथ गौरवात्तानुवाच सः ॥ १५४.३८५ ॥ सवनस्यापरां संध्यां स्नातुं मन्दाकिनीजले । क्षणेन भविता विप्रास्तत्र द्रक्ष्यथ शूलिनम् ॥ १५४.३८६ ॥ इत्युक्ता मुनयस्तस्थुस्ते तत्कालप्रतीक्षिणः । गम्भीराम्बुधरं प्रावृट्तृषिताश्चातका यथा ॥ १५४.३८७ ॥ ततः क्षणेन निष्पन्नसमाधानक्रियाविधिः । वीरासनं बिभेदेशो मृगचर्मनिवासितम् ॥ १५४.३८८ ॥ ततो विनीतो जानुभ्यामवलम्ब्य महीस्थितिम् । उवाच वीरको देवं प्रणामैकसमाश्रयः ॥ १५४.३८९ ॥ सम्प्राप्ता मुनयः सप्त त्वां द्रष्टुं दीप्ततेजसः । विभो समादिश द्रष्टुमवगन्तुमिहार्हसि । तेऽब्रुवन्देवकार्येण तव दर्शनलालसाः ॥ १५४.३९० ॥ इत्युक्तो धूर्जटिस्तेन वीरकेण महात्मना । भूभङ्गसंज्ञया तेषां प्रवेशाज्ञां ददौ तदा ॥ १५४.३९१ ॥ मूर्ध्नः कम्पेन तान्सर्वान् वीरकोऽपि महामुनीन् । आजुहावाविदूरस्थान् दर्शनाय पिनाकिनः ॥ १५४.३९२ ॥ त्वराबद्धार्धचूडास्ते लम्बमानाजिनाम्बराः । विविशुर्वेदिकां सिद्धां गिरिशस्य विभूतिभिः ॥ १५४.३९३ ॥ बद्धपाणिपुटाक्षिप्तनाकपुष्पोत्करास्ततः । पिनाकिपादयुगलं वन्द्यं नाकनिवासिनाम् ॥ १५४.३९४ ॥ ततः स्निग्धेक्षिताः शान्ता मुनयः शूलपाणिना । मन्मथारिं ततो हृष्टाः समं तुष्टुवुरादृताः ॥ १५४.३९५ ॥ *मुनय ऊचुः अहो कृतार्था वयमेव सांप्रतं सुरेश्वरोऽप्यत्र वरो भविष्यति । भवत्प्रसादामलवारिसेकतः फलेन काचित्तपसा नियुज्यते ॥ १५४.३९६ ॥ जयत्यसौ धन्यतरो हिमाचलस्तदाश्रयं यस्य सुता तपस्यति । स दैत्यराजोऽपि महाफलोदयो विमूलिताशेषसुरो हि तारकः ॥ १५४.३९७ ॥ त्वदीयमंशं प्रविलोक्य कल्मषात्स्वकं शरीरं परिमोक्ष्यते हि यः । स धन्यधीर्लोकपिता चतुर्मुखो हरिश्च यत्संभ्रमवह्निदीपितः ॥ १५४.३९८ ॥ त्वदङ्घ्रियुग्मं हृदयेन बिभ्रतो महाभितापप्रशमैकहेतुकम् । त्वमेव चैको विविधाकृतक्रियः किलेति वाचा विधुरैर्विभाष्यते ॥ १५४.३९९ ॥ अथाद्य एकस्त्वमवादि नान्यथा जगत्तथा निर्घृणतां तव स्पृशेत् । न वेत्सि वा दुःखमिदं प्रजात्मकं विहन्यते ते खलु सर्वतः क्रिया ॥ १५४.४०० ॥ उपेक्षसे चेज्जगतामुपद्रवं दयामयत्वं तव केन कथ्यते । स्वयोगमायामहिमागुहाश्रयं न विद्यते निर्मलभूतिगौरवम् ॥ १५४.४०१ ॥ वयं च ते धन्यतराः शरीरिणां यदीदृशं त्वां प्रविलोकयामहे । अदर्शनं तेन मनोरथो यथा प्रयाति साफल्यतया मनोगतम् ॥ १५४.४०२ ॥ जगद्विधानैकविधौ जगन्मुखे करिष्यसेऽतो बलभिच्चरा वयम् । विनेमुरित्थं मुनयो विसृज्य तां गिरं गिरीशश्रुतिभूमिसंनिधौ ॥ १५४.४०३ ॥ उत्कृष्टकेदार इवावनीतले सुबीजमुष्टिं सुफलाय कर्षकाः ॥ १५४.४०४ ॥ तेषां श्रुत्वा तु तां रम्यां प्रक्रमोपक्रमक्रियाम् । वाचं वाचस्पतिस्तुष्टः प्रोवाच स्मितसुन्दरीम् ॥ १५४.४०५ ॥ *शर्व उवाच जाने लोकविधानस्य कन्या सत्कार्यमुत्तमम् । जाता प्रालेयशैलस्य संकेतकनिरूपणाः ॥ १५४.४०६ ॥ सत्यमुत्कण्ठिताः सर्वे देवकार्यार्थमुद्यताः । तेषां त्वरन्ति चेतांसि किंतु कार्यं विवक्षितम् ॥ १५४.४०७ ॥ लोकयात्रानुगन्तव्या विशेषेण विचक्षणैः । सेवन्ते ते यतो धर्मं तत्प्रामाण्यात्परे स्थिताः ॥ १५४.४०८ ॥ इत्युक्ता मुनयो जग्मुस्त्वरितास्तु हिमाचलम् । तत्र ते पूजितास्तेन हिमशैलेन सादरम् । ऊचुर्मुनिवराः प्रीताः स्वल्पवर्णं त्वरान्विताः ॥ १५४.४०९ ॥ *मुनय ऊचुः देवो दुहितरं साक्षात्पिनाकी तव मार्गते । तच्छीघ्रं पावयात्मानमाहुत्येवानलार्पणात् ॥ १५४.४१० ॥ कार्यमेतच्च देवानां सुचिरं परिवर्तते । जगदुद्धरणायैष क्रियतां वै समुद्यमः ॥ १५४.४११ ॥ इत्युक्तस्तैस्तदा शैलो हर्षाविष्टोऽवदन्मुनीन् । असमर्थोऽभवद्वक्तुमुत्तरं प्रार्थयञ्छिवम् ॥ १५४.४१२ ॥ ततो मेना मुनीन्वीक्ष्य प्रोवाच स्नेहविक्लवा । दुहितुस्तान्मुनींश्चैव चरणाश्रयमर्थवित् ॥ १५४.४१३ ॥ *मेनोवाच यदर्थं दुहितुर्जन्म नेच्छन्त्यपि महाफलम् । तदेवोपस्थितं सर्वं प्रक्रमेणैव सांप्रतम् ॥ १५४.४१४ ॥ कुलजन्मवयोरूपविभूत्यृद्धियुतोऽपि यः । वरस्तस्यापि चाहूय सुता देया ह्ययाचतः ॥ १५४.४१५ ॥ तत्समस्ततपोघोरं कथं पुत्री प्रयास्यति । पुत्रीवाक्याद्यदत्रास्ति विधेयं तद्विधीयताम् ॥ १५४.४१६ ॥ इत्युक्ता मुनयस्ते तु प्रियया हिमभूभृतः । ऊचुः पुनरुदारार्थं नारीचित्तप्रसादकम् ॥ १५४.४१७ ॥ *मुनय ऊचुः ऐश्वर्यमवगच्छस्व शंकरस्य सुरासुरैः । आराध्यमानपादाब्जयुगलत्वात्सुनिर्वृतैः ॥ १५४.४१८ ॥ यस्योपयोगि यद्रूपं सा च तत्प्राप्तये चिरम् । घोरं तपस्यते बाला तेन रूपेण निर्वृतिः ॥ १५४.४१९ ॥ यस्तद्व्रतानि दिव्यानि नयिष्यति समापनम् । तत्र सावहिता तावत्तस्मात्सैव भविष्यति ॥ १५४.४२० ॥ इत्युक्त्वा गिरिणा सार्धं ते ययुर्यत्र शैलजा । जितार्कज्वलनज्वाला तपस्तेजोमयी ह्युमा ॥ १५४.४२१ ॥ प्रोचुस्तां मुनयः स्निग्धं संमान्य पथमागतम् । रम्यं प्रियं मनोहारि मा रूपं तपसा दह ॥ १५४.४२२ ॥ प्रातस्ते शंकरः पाणिमेष पुत्रि ग्रहीष्यति । वयमर्थितवन्तस्ते पितरं पूर्वमागताः ॥ १५४.४२३ ॥ पित्रा सह गृहं गच्छ वयं यामः स्वमन्दिरम् ॥ १५४.४२४ ॥ इत्युक्ता तपसः सत्यं फलमस्तीति चिन्त्य सा । त्वरमाणा ययौ वेश्म पितुर्दिव्यार्थशोभितम् ॥ १५४.४२५ ॥ सा तत्र रजनीं मेने वर्षायुतसमां सती । हरदर्शनसंजातमहोत्कण्ठा हिमाद्रिजा ॥ १५४.४२६ ॥ ततो मुहूर्ते ब्राह्मे तु तस्याश्चक्रुः सुरस्त्रियः । नानामङ्गलसंदोहान् यथावत्क्रमपूर्वकम् ॥ १५४.४२७ ॥ दिव्यमण्डनमङ्गानां मन्दिरे बहुमङ्गले । उपासत गिरिं मूर्ता ऋतवः सार्वकामिकाः ॥ १५४.४२८ ॥ वायवो वारिदाश्चासन् संमार्जनविधौ गिरेः । हर्म्येषु श्रीः स्वयं देवी कृतनानाप्रसाधना ॥ १५४.४२९ ॥ कान्तिः सर्वेषु भावेषु ऋद्धिश्चाभवदाकुला । चिन्तामणिप्रभृतयो रत्नाः शैलं समन्ततः ॥ १५४.४३० ॥ उपतस्थुर्नगाश्चापि कल्पकाममहाद्रुमाः । ओषध्यो मूर्तिमत्यश्च दिव्यौषधिसमन्विताः ॥ १५४.४३१ ॥ रसाश्च धातवश्चैव सर्वे शैलस्य किंकराः । किंकरास्तस्य शैलस्य व्यग्राश्चाज्ञानुवर्तिनः ॥ १५४.४३२ ॥ नद्यः समुद्रा निखिलाः स्थावरं जङ्गमं च यत् । तत्सर्वं हिमशैलस्य महिमानमवर्धयत् ॥ १५४.४३३ ॥ अभवन्मुनयो नागा यक्षगन्धर्वकिंनराः । शंकरस्यापि विबुधा गन्धमादनपर्वते ॥ १५४.४३४ ॥ सर्वे मण्डनसंभारास्तस्थुर्निर्मलमूर्तयः । शर्वस्यापि जटाजूटे चन्द्रखण्डं पितामहः ॥ १५४.४३५ ॥ बबन्ध प्रणयोदारविस्फारितविलोचनः । कपालमालां विपुलां चामुण्डा मूर्ध्न्यबन्धयत् ॥ १५४.४३६ ॥ उवाच चापि वचनं पुत्रं जनय शंकर । यो दैत्येन्द्रकुलं हत्वा मां रक्तैस्तर्पयिष्यति ॥ १५४.४३७ ॥ सौरिर्ज्वलच्छिरोरत्नमुकुटं चानलोल्बणम् । भुजगाभरणं गृह्य सज्जं शंभोः पुरोऽभवत् ॥ १५४.४३८ ॥ शक्रो गजाजिनं तस्य वसाभ्यक्ताग्रपल्लवम् । दध्रे सरभसं स्विद्यद्विस्तीर्णमुखपङ्कजम् ॥ १५४.४३९ ॥ वायुश्च विपुलं तीक्ष्णशृङ्गं हिमगिरिप्रभम् । वृषं विभूषयामास हरयानं महौजसम् ॥ १५४.४४० ॥ वितेनुर्नयनान्तःस्थाः शम्भोः सूर्यानलेन्दवः । स्वां द्युतिं लोकनाथस्य जगतः कर्मसाक्षिणः ॥ १५४.४४१ ॥ चिताभस्म समाधाय कपाले रजतप्रभम् । मनुजास्थिमयीं मालामाबबन्ध च पाणिना ॥ १५४.४४२ ॥ प्रेताधिपः पुरो द्वारे सगदः समवर्तत । नानाकारमहारत्नभूषणं धनदाहृतम् ॥ १५४.४४३ ॥ विहायोदग्रसर्पेन्द्रकटकेन स्वपाणिना । कर्णोत्तंसं चकारेशो वासुकिं तक्षकं स्वयम् ॥ १५४.४४४ ॥ जलाधीशाहृतां स्थास्नुप्रसूनावेष्टितां पृथक् । ततस्तु ते गणाधीशा विनयात्तत्र वीरकम् ॥ १५४.४४५ ॥ प्रोचुर्व्यग्राकृते त्वं गां समावेदय शूलिने । निष्पन्नाभरणं देवं प्रसाध्येशं प्रसाधनैः ॥ १५४.४४६ ॥ सप्त वारिधयस्तस्थुः कर्तुं दर्पणविभ्रमम् । ततो विलोकितात्मानं महाम्बुधिजलोदरे ॥ १५४.४४७ ॥ धरामालिङ्ग्य जानुभ्यां स्थाणुं प्रोवाच केशवः । शोभसे देव रूपेण जगदानन्ददायिना ॥ १५४.४४८ ॥ मातरः प्रेरयन् कामवधूं वैधव्यचिह्निताम् । कालोऽयमिति चालक्ष्य प्रकारेङ्गितसंज्ञया ॥ १५४.४४९ ॥ ततस्ताश्चोदिता देवमूचुः प्रहसिताननाः । रतिः पुरस्तव प्राप्ता नाभाति मदनोज्झिता ॥ १५४.४५० ॥ ततस्तां संनिर्वायाह वामहस्ताग्रसंज्ञया । प्रयाणं गिरिजावक्त्रदर्शनोत्सुकमानसः ॥ १५४.४५१ ॥ ततो हरो हिमगिरिकन्दराकृतिं सितं कशामृदुहतिभिः प्रचोदयत् । महावृषं गणतुमुलाहितेक्षणं स भूधरानशनिरिव प्रकम्पयन् ॥ १५४.४५२ ॥ ततो हरिर्द्रुतपदपद्धतिः पुरः पुरःसरान्द्रुमनिकरेषु संश्रितान् । धरारजःशबलितभूषणोऽब्रवीत्प्रयात मा कुरुत पथोऽस्य संकटम् ॥ १५४.४५३ ॥ प्रभोः पुनः प्रथमनियोगमूर्जयन् सुतोऽब्रवीद्भ्रुकुटिमुखोऽपि वीरकः । वियच्चरा वियति किमस्ति कान्तकं प्रयात नो धरणिधराविदूरतः ॥ १५४.४५४ ॥ महार्णवाः कुरुत शिलोपमं पयः सुरद्विषागमनमहातिकर्दमम् । गणेश्वराश्चपलतया न गम्यतां सुरेश्वरैः स्थिरमतिभिर्निरीक्ष्यते ॥ १५४.४५५ ॥ न भृङ्गिणा स्वतनुमवेक्ष्य नीयते पिनाकिनः पृथुमुखमण्डमग्रतः । वृथा यमः प्रकटितदन्तकोटरं त्वमायुधं वहसि विहाय संभ्रमम् ॥ १५४.४५६ ॥ पदं न यद्रथतुरगैः पुरद्विषः प्रमुच्यते बहुतरमातृसंकुलम् । अमी सुराः पृथगनुयायिभिर्वृताः पदातयो द्विगुणपथान् हरप्रियाः ॥ १५४.४५७ ॥ स्ववाहनैः पवनविधूतचामरैश्चलध्वजैर्व्रजत विहारशालिभिः । सुराः स्वकं किमिति सरागमूर्जितं विचार्यते नियतलयत्रयानुगम् ॥ १५४.४५८ ॥ न किंनरैरभिभवितुं हि शक्यते विभूषणचयसमुद्भवो ध्वनिः । अजातिजाः किमिति न षड्जमध्यमपृथुस्वरं बहुतरमत्र वक्ष्यते ॥ १५४.४५९ ॥ नतानतानतनततानतां गताः पृथक्तया समयकृता विभिन्नताम् । विशङ्किता भवदतिभेदशीलिनः प्रयान्त्यमी द्रुतपदमेव गौडकाः ॥ १५४.४६० ॥ विसंहताः किमिति न षाड्गवादयः स्वगीतकैर्ललितपदप्रयोगजैः । प्रभोः पुरो भवति हि यस्य चाक्षतं समुद्गतार्थकमिति तत्प्रतीयते ॥ १५४.४६१ ॥ अमी पृथग्विरचितरम्यरासकं विलासिनो बहुगमकस्वभावकम् । प्रयुञ्जते गिरिशयशोविसारिणं प्रकीर्णकं बहुतरनागजातयः ॥ १५४.४६२ ॥ अमी कथं ककुभि कथाः प्रतिक्षणं ध्वनन्ति ते विविधवधूविमिश्रिताः । न जातयो ध्वनिमुरजासमीरिता न मूर्छिताः किमिति च मूर्छनात्मकाः ॥ १५४.४६३ ॥ श्रुतिप्रियक्रमगतिभेदसाधनं ततादिकं किमिति न तुम्बरेरितम् ।* न हन्यते बहुविधवाद्यडम्बरं प्रकीर्णवीणामुरजादि नाम यत् ॥ १५४.४६४ ॥* इतीरते गिरिमवधानशालिनः सुरासुराः सपदि तु वीरकाज्ञया । नियामिताः प्रययुरतीव हर्षिताश्चराचरं जगदखिलं ह्यपूरयन् ॥ १५४.४६५ ॥ इति स्तनत्ककुभि रसन्महार्णवे स्तनद्घने विदलितशैलकंदरे । जगत्यभूत्तुमुल इवाकुलीकृतः पिनाकिना त्वरितगतेन भूधरः ॥ १५४.४६६ ॥ परिज्वलत्कनकसहस्रतोरणं क्वचिन्मिलन्मरकतवेश्मवेदिकम् । क्वचित्क्वचिद्विमलविदूरवेदिकं क्वचिद्गलज्जलधररम्यनिर्झरम् ॥ १५४.४६७ ॥ चलद्ध्वजप्रवरसहस्रमण्डितं सुरद्रुमस्तबकविकीर्णचत्वरम् । सितासितारुणरुचिधातुवर्णिकं श्रियोज्ज्वलं प्रविततमार्गगोपुरम् ॥ १५४.४६८ ॥ विजृम्भिताप्रतिमध्वनिवारिदं सुगन्धिभिः पुरपवनैर्मनोहरम् ।* हरो महागिरिनगरं समासदत्क्षणादिव प्रवरसुरासुरस्तुतः ॥ १५४.४६९ ॥* तं प्रविशन्तमगात्प्रविलोक्य व्याकुलतां नगरं गिरिभर्तुः । व्यग्रपुरन्ध्रिजनं जययुक्तं धावितमार्गजनाकुलरथ्यम् ॥ १५४.४७० ॥ हर्म्यगवाक्षगतामरनारीलोचननीलसरोरुहमालम् । सुप्रकटा समदृश्यत काचित्स्वाभरणांशुवितानविगूढा ॥ १५४.४७१ ॥ काप्यखिलीकृतमण्डनभूषा त्यक्तसखीप्रणया हरमैक्षत् । काचिदुवाच कलं गतमाना कातरतां सखि मा कुरु मूढे ॥ १५४.४७२ ॥ दग्धमनोभव एव पिनाकी कामयते स्वयमेव विहर्तुम् । काचिदपि स्वयमेव पतन्ती प्राह परां विरहस्खलिताङ्गीम् ॥ १५४.४७३ ॥ मा चपले मदनव्यतिषङ्गं शंकरजं स्खलनेन वद त्वम् । कापि कृतव्यवधानमदृष्ट्वा युक्तिवशाद्गिरिशो ह्ययमूचे ॥ १५४.४७४ ॥ एष स यत्र सहस्रमखाद्या नाकसदामधिपाः स्वयमुक्तैः । नामभिरिन्दुजटं निजसेवाप्राप्तफलाय नतास्तु घटन्ते ॥ १५४.४७५ ॥ एष न चैष स एष यदग्रे चर्मपरीततनुः शशिमौली । धावति वज्रधरोऽमरराजो मार्गममुं विवृतीकरणाय ॥ १५४.४७६ ॥ एष स पद्मभवोऽयमुपेत्य प्रांशुजटामृगचर्मनिगूढः । सप्रणयं करघट्टितवक्त्रः किंचिदुवाच मितं श्रुतिमूले ॥ १५४.४७७ ॥ एवमभूत्सुरनारिकुलानां चित्तविसंष्ठुलता गुरुरागात् । शंकरसंश्रयणाद्गिरिजायाजन्मफलं परमं त्विति चोचुः ॥ १५४.४७८ ॥ ततो हिमगिरेर्वेश्म विश्वकर्मनिवेदितम् । महानीलमयस्तम्भं ज्वलत्काञ्चनकुट्टिमम् ॥ १५४.४७९ ॥ मुक्ताजालपरिष्कारं ज्वलितौषधिदीपितम् । क्रीडोद्यानसहस्राढ्यं काञ्चनाम्बुजदीर्घिकम् ॥ १५४.४८० ॥ महेन्द्रप्रमुखाः सर्वे सुरा दृष्ट्वा तदद्भुतम् । नेत्राणि सफलान्यद्य मनोभिरिति ते दधुः ॥ १५४.४८१ ॥ विमर्दक्षीणकेयूरा हरिणा द्वारि रोधिताः । कथंचित्प्रमुखास्तत्र विविशुर्नाकवासिनः ॥ १५४.४८२ ॥ प्रणतेनाचलेन्द्रेण पूजितोऽथ चतुर्मुखः । चकार विधिना सर्वं विधिमन्त्रपुरःसरम् ॥ १५४.४८३ ॥ शर्वस्य पाणिग्रहणमग्निसाक्षिकमक्षतम् । दाता महीभृतां नाथो होता देवश्चतुर्मुखः ॥ १५४.४८४ ॥ वरः पशुपतिः साक्षात्कन्या विश्वारणिस्तथा । चराचराणि भूतानि सुरासुरवराणि च ॥ १५४.४८५ ॥ तत्राप्येते नियमतो ह्यभवन्व्यग्रमूर्तयः । मुमोचाभिनवान्सर्वान् सस्यशालीन्रसौषधीः ॥ १५४.४८६ ॥ व्यग्रा तु पृथिवी देवी सर्वभावमनोरमा । गृहीत्वा वरुणः सर्वरत्नान्याभरणानि च ॥ १५४.४८७ ॥ पुण्यानि च पवित्राणि नानारत्नमयानि तु । तस्थौ साभरणो देवो हर्षदः सर्वदेहिनाम् ॥ १५४.४८८ ॥ धनदश्चापि दिव्यानि हैमान्याभरणानि च । जातरूपविचित्राणि प्रयतः समुपस्थितः ॥ १५४.४८९ ॥ वायुर्ववौ सुसुरभिः सुखसंस्पर्शनो विभुः । छत्रमिन्दुकरोद्भासि सुसितं च शतक्रतुः ॥ १५४.४९० ॥ जग्राह मुदितः स्रग्वी बाहुभिर्बहुभूषणैः । जगुर्गन्धर्वमुख्याश्च ननृतुश्चाप्सरोगणाः ॥ १५४.४९१ ॥ वादयन्तोऽतिमधुरं जगुर्गन्धर्वकिंनराः । मूर्ताश्च ऋतवस्तत्र जगुश्च ननृतुश्च वै ॥ १५४.४९२ ॥ चपलाश्च गणास्तस्थुर्लोलयन्तो हिमाचलम् । उत्तिष्ठन्क्रमशश्चात्र विश्वभुग्भगनेत्रहा ॥ १५४.४९३ ॥ चकारौद्वाहिकं कृत्यं पत्न्या सह यथोचितम् । दत्तार्घो गिरिराजेन सुरवृन्दैर्विनोदितः ॥ १५४.४९४ ॥ अवसत्तां क्षपां तत्र पत्न्या सह पुरान्तकः । ततो गन्धर्वगीतेन नृत्येनाप्सरसामपि ॥ १५४.४९५ ॥ स्तुतिभिर्देवदैत्यानां विबुद्धो विबुधाधिपः । आमन्त्र्य हिमशैलेन्द्रं प्रभाते चोमया सह । जगाम मन्दरगिरिं वायुवेगेन शृङ्गिणा ॥ १५४.४९६ ॥ ततो गते भगवति नीललोहिते सहोमया रतिमलभन्न भूधरः । सबान्धवो भवति च कस्य नो मनो विह्वलं च जगति हि कन्यकापितुः ॥ १५४.४९७ ॥ ज्वलन्मणिस्फटिकहाटकोत्कटं स्फुटद्युति स्फटिकगोपुरं पुरम् । हरो गिरौ चिरमनुकल्पितं तदा विसर्जितामरनिवहोऽविशत्स्वकम् ॥ १५४.४९८ ॥ तदोमासहितो देवो विजहार भगाक्षिहा । पुरोद्यानेषु रम्येषु विविक्तेषु वनेषु च ॥ १५४.४९९ ॥ सुरक्तहृदयो देव्या मकराङ्कपुरःसरः । ततो बहुतिथे काले सुतकामा गिरेः सुता ॥ १५४.५०० ॥ सखीभिः सहिता क्रीडां चक्रे कृत्रिमपुत्रकैः । कदाचिद्गन्धतैलेन गात्रमभ्यज्य शैलजा ॥ १५४.५०१ ॥ चूर्णैरुद्वर्तयामास मलिनान्तरितां तनुम् । तदुद्वर्तनकं गृह्य नरं चक्रे गजाननम् ॥ १५४.५०२ ॥ पुत्रकं क्रीडती देवी तं चाप्यर्पयदम्भसि । जाह्नव्यास्तु शिवासख्यास्ततः सोऽभूद्बृहद्वपुः ॥ १५४.५०३ ॥ कायेनातिविशालेन जगदापूरयत्तदा । पुत्रेत्युवाच ते देवी पुत्रेत्यूचे च जाह्नवी ॥ १५४.५०४ ॥ गाङ्गेय इति देवैस्तु पूजितोऽभूद्गजाननः । विनायकाधिपत्यं च ददावस्य पितामहः ॥ १५४.५०५ ॥ पुनः सा क्रीडनं चक्रे पुत्रार्थं वरवर्णिनी । मनोज्ञमङ्कुरं रूढमशोकस्य शुभानना ॥ १५४.५०६ ॥ वर्धयामास तं चापि कृतसंस्कारमङ्गला । बृहस्पतिमुखैर्विप्रैर्दिवस्पतिपुरोगमैः ॥ १५४.५०७ ॥ ततो देवैश्च मुनिभिः प्रोक्ता देवी त्विदं वचः । भवानि भवती भव्या सम्भूता लोकभूतये ॥ १५४.५०८ ॥ प्रायः सुतफलो लोकः पुत्रपौत्रैश्च लभ्यते । अपुत्राश्च प्रजाः प्रायो दृश्यन्ते दैवहेतवः ॥ १५४.५०९ ॥ अधुना दर्शिते मार्गे मर्यादां कर्तुमर्हसि । फलं किं भविता देवि कल्पितैस्तरुपुत्रकैः । इत्युक्ता हर्षपूर्णाङ्गी प्रोवाचोमा शुभां गिरम् ॥ १५४.५१० ॥ एवं निरुदके देशे यः कूपं कारयेद्बुधः । बिन्दौ बिन्दौ च तोयस्य वसेत्संवत्सरं दिवि ॥ १५४.५११ ॥ दशकूपसमा वापी दशवापीसमो ह्रदः । दशह्रदसमः पुत्रो दशपुत्रसमो द्रुमः । एषैव मम मर्यादा नियता लोकभाविनी ॥ १५४.५१२ ॥ इत्युक्तास्तु ततो विप्रा बृहस्पतिपुरोगमाः । जग्मुः स्वमन्दिराण्येव भवानीं वन्द्य सादरम् ॥ १५४.५१३ ॥ गतेषु तेषु देवोऽपि शंकरः पर्वतात्मजाम् । पाणिनालम्ब्य वामेन शनैः प्रावेशयच्छुभाम् ॥ १५४.५१४ ॥ चित्तप्रसादजननं प्रासादमनुगोपुरम् । लम्बमौक्तिकदामानं मालिकाकुलवेदिकम् ॥ १५४.५१५ ॥ निर्धौतकलधौतं च क्रीडागुहमनोरमम् । प्रकीर्णकुसुमामोदमत्तालिकुलकूजितम् ॥ १५४.५१६ ॥ किंनरोद्गीतसंगीतगृहान्तरितभित्तिकम् । सुगन्धिधूपसंघातमनःप्रार्थ्यमलक्षितम् ॥ १५४.५१७ ॥ क्रीडन्मयूरनारीभिर्वृतं वै ततवादिभिः । हंससंघातसंघुष्टं स्फटिकस्तम्भवेदिकम् ॥ १५४.५१८ ॥ अनाविलमसंभ्रान्त्या बहुशः किंनराकुलम् । शुकैर्यत्राभिहन्यन्ते पद्मरागविनिर्मिताः ॥ १५४.५१९ ॥ भित्तयो दाडिमभ्रान्त्या प्रतिबिम्बितमौक्तिकाः । तत्राक्षक्रीडया देवी विहर्तुमुपचक्रमे ॥ १५४.५२० ॥ स्वच्छेन्द्रनीलभूभागे क्रीडने यत्र धिष्ठितौ । वपुःसहायतां प्राप्तौ विनोदरसनिर्वृतौ ॥ १५४.५२१ ॥ एवं प्रक्रीडतोस्तत्र देवीशंकरयोस्तदा । प्रादुर्भवन्महाशब्दस्तद्गृहोदरगोचरः ॥ १५४.५२२ ॥ तच्छ्रुत्वा कौतुकाद्देवी किमेतदिति शंकरम् । पप्रच्छ तं शुभतनुर्हरं विस्मयपूर्वकम् ॥ १५४.५२३ ॥ उवाच देवीं नैतत्ते दृष्टपूर्वं सुविस्मिते । एते गणेशाः क्रीडन्ते शैलेऽस्मिन्मत्प्रियाः सदा ॥ १५४.५२४ ॥ तपसा ब्रह्मचर्येण नियमैः क्षेत्रसेवनैः । यैरहं तोषितः पूर्वं त एते मनुजोत्तमाः ॥ १५४.५२५ ॥ मत्समीपमनुप्राप्ता मम हृद्याः शुभानने । कामरूपा महोत्साहा महारूपगुणान्विताः ॥ १५४.५२६ ॥ कर्मभिर्विस्मयं तेषां प्रयामि बलशालिनाम् । चराचरस्य जगतः सृष्टिसंहरणक्षमाः ॥ १५४.५२७ ॥ ब्रह्मविष्ण्विन्द्रगन्धर्वैः सकिंनरमहोरगैः । समावृतोऽप्यहं नित्यं नैभिर्विरहितो रमे ॥ १५४.५२८ ॥ हृद्या मे चारुसर्वाङ्गि त एते क्रीडिता गिरौ । इत्युक्ता तु ततो देवी त्यक्त्वा तद्विस्मयाकुला ॥ १५४.५२९ ॥ गवाक्षान्तरमासाद्य प्रेक्षते विस्मितानना । यावन्तस्ते कृशा दीर्घा ह्रस्वाः स्थूला महोदराः ॥ १५४.५३० ॥ व्याघ्रेभवदनाः केचित्केचिन्मेषाजरूपिणः । अनेकप्राणिरूपाश्च ज्वालास्याः कृष्णपिङ्गलाः ॥ १५४.५३१ ॥ सौम्या भीमाः स्मितमुखाः कृष्णपिङ्गजटासटाः । नानाविहङ्गवदना नानाविधमृगाननाः ॥ १५४.५३२ ॥ कौशेयचर्मवसना नग्नाश्चान्ये विरूपिणः । गोकर्णा गजकर्णाश्च बहुवक्त्रेक्षणोदराः ॥ १५४.५३३ ॥ बहुपादा बहुभुजा दिव्यनानास्त्रपाणयः । अनेककुसुमापीडा नानाव्यालविभूषणाः ॥ १५४.५३४ ॥ वृकाननायुधधरा नानाकवचभूषणाः । विचित्रवाहनारूढा दिव्यरूपा वियच्चराः ॥ १५४.५३५ ॥ वीणावाद्यमुखोद्घुष्टा नानास्थानकनर्तकाः । गणेशांस्तांस्तथा दृष्ट्वा देवी प्रोवाच शंकरम् ॥ १५४.५३६ ॥ *देव्युवाच गणेशाः कतिसंख्याताः किंनामानः किमात्मकाः । एकैकशो मम ब्रूहि धिष्ठिता ये पृथक्पृथक् ॥ १५४.५३७ ॥ *शंकर उवाच कोटिसंख्या ह्यसंख्याता नानाविख्यातपौरुषाः । जगदापूरितं सर्वैरेभिर्भीमैर्महाबलैः ॥ १५४.५३८ ॥ सिद्धक्षेत्रेषु रथ्यासु जीर्णोद्यानेषु वेश्मसु । दानवानां शरीरेषु बालेषून्मत्तकेषु च । एते विशन्ति मुदिता नानाहारविहारिणः ॥ १५४.५३९ ॥ ऊष्मपाः फेनपाश्चैव धूमपा मधुपायिनः । रक्तपाः सर्वभक्षाश्च वायुपा ह्यम्बुभोजनाः ॥ १५४.५४० ॥ गेयनृत्योपहाराश्च नानावाद्यरवप्रियाः । न ह्येषां वै अनन्तत्वाद्गुणान्वक्तुं हि शक्यते ॥ १५४.५४१ ॥ *देव्युवाच मार्गत्वगुत्तरासङ्गशुद्धाङ्गो मुञ्जमेखली । मानशिलेन कल्केन चपलो रञ्जिताननः ॥ १५४.५४२ ॥ पिनद्धोत्पलस्रग्दामा सुकान्तो मधुराकृतिः । पाषाणशकलोत्तानकांस्यतालप्रवर्तकः ॥ १५४.५४३ ॥ असौ गणेश्वरो देवः किंनामा किंनरानुगः । य एष गणगीतेषु दत्तकर्णो मुहुर्मुहुः ॥ १५४.५४४ ॥ स एष वीरको देवि सदा मद्धृदयप्रियः । नानाश्चर्यगुणाधारो गणेश्वरगणार्चितः ॥ १५४.५४५ ॥ *देव्युवाच ईदृशस्य सुतस्यास्ति ममोत्कण्ठा पुरान्तक । कदाहमीदृशं पुत्रं द्रक्ष्याम्यानन्ददायिनम् ॥ १५४.५४६ ॥ *शिव उवाच एष एव सुतस्तेऽस्तु नयनानन्दहेतुकः । त्वया मात्रा कृतार्थोऽस्तु वीरकोऽपि सुमध्यमे ॥ १५४.५४७ ॥ इत्युक्ता प्रेषयामास विजयां हर्षणोत्सुका । वीरकानयनायाशु दुहिता हिमभूभृतः ॥ १५४.५४८ ॥ सावरुह्य त्वरायुक्ता प्रासादादम्बरस्पृशः । विजयोवाच गणपं गणमध्ये प्रवर्तिता ॥ १५४.५४९ ॥ *विजयोवाच एहि वीरक चापल्यात्त्वया देवः प्रकोपितः । किमुत्तरं वदत्यर्थे नृत्यरङ्गे तु शैलजा ॥ १५४.५५० ॥ इत्युक्तस्त्यक्तपाषाणशकलो मार्जिताननः । आहूतस्तु तयोद्भूतमूलप्रस्तावशंसकः ॥ १५४.५५१ ॥ देव्याः समीपमागच्छद्विजयानुगुप्तः शनैः । प्रासादशिखरात्फुल्लरक्ताम्बुजनिभद्युतिः ॥ १५४.५५२ ॥ तं दृष्ट्वा प्रस्रुतानल्पस्वादुक्षीरपयोधरा । गिरिजोवाच सस्नेहं गिरा मधुरवर्णया ॥ १५४.५५३ ॥ *उमोवाच एह्येहि यातोऽसि मे पुत्रतां देवदेवेन दत्तोऽधुना वीरक ॥ १५४.५५४ ॥ इत्येवमङ्के निधायाथ तं पर्यचुम्बत्कपोले कलवादिनम् ॥ १५४.५५५ ॥ मूर्ध्न्युपाघ्राय संमार्ज्य गात्राणि भूषयामास दिव्यैः स्वयं भूषणैः किङ्किणीमेखलानूपुरैर्माणिक्यकेयूरहारोरुमूलगुणैः ॥ १५४.५५६ ॥ कोमलैः पल्लवैश्चित्रितैश्चारुभिर्दिव्यमन्त्रोद्भवैस्तस्य शुभैस्ततो भूरिभिश्चाकरोन्मिश्रसिद्धार्थकैरङ्गरक्षाविधिम् ॥ १५४.५५७ ॥ एवमादाय चोवाच कृत्वा स्रजं मूर्ध्नि गोरोचनापत्रभङ्गोज्ज्वलम् ॥ १५४.५५८ ॥ गच्छ गच्छाधुना क्रीड सार्धं गणैरप्रमत्तो नगे श्वभ्रवर्ज शनैर्व्यालमालाकुलाः शैलसानुद्रुमदन्तिभिर्भिन्नसाराः परे सङ्गिनः ॥ १५४.५५९ ॥ जाह्नवीयं जलं क्षुब्धतोयाकुलं कूलं मा विशेथा बहुव्याघ्रदुष्टे वने ॥ १५४.५६० ॥ वत्सासंख्येषु दुर्गा गणेशेष्वेतस्मिन्वीरके पुत्रभावोपतुष्टान्तःकरणा तिष्ठतु ॥ १५४.५६१ ॥ स्वस्य पितृजनप्रार्थितं भव्यमायातिभाविन्यसौ भव्यता ॥ १५४.५६२ ॥ सोऽपि निर्वर्त्य सर्वान् गणान् सस्मयमाह बालत्वलीलारसाविष्टधीः ॥ १५४.५६३ ॥ एष मात्रा स्वयं मे कृतभूषणोऽत्र एष पटः पाटलैर्बिन्दुभिः सिन्दुवारस्य पुष्पैरियं मालतीमिश्रिता मालिका मे शिरस्याहिता ॥ १५४.५६४ ॥ कोऽयमातोद्यधारी गणस्तस्य दास्यामि हस्तादिदं क्रीडनम् ॥ १५४.५६५ ॥ दक्षिणात्पश्चिमं पश्चिमादुत्तरमुत्तरात्पूर्वमभ्येत्य सख्या युता प्रेक्षती तं गवाक्षान्तराद्वीरकं शैलपुत्री बहिः क्रीडनं यज्जगन्मातुरप्येष चित्तभ्रमः ॥ १५४.५६६ ॥ पुत्रलुब्धो जनस्तत्र को मोहमायाति न स्वल्पचेता जडो मांसविण्मूत्रसंघातदेहः ॥ १५४.५६७ ॥ द्रष्टुमभ्यन्तरे नाकवासेश्वरैरिन्दुमौलिं प्रविष्टेषु कक्षान्तरम् ॥ १५४.५६८ ॥ वाहनात्यावरोहा गणास्तैर्युतो लोकपालास्त्रमूर्तो ह्ययं खड्गो विखड्गकरो निर्ममः कृतान्तः कस्य केनाहतो ब्रूत मौने भवन्तोऽस्त्रदण्डेन किं दुःस्पृहाः ॥ १५४.५६९ ॥ भीममूर्त्याननेनास्ति कृत्यं गिरौ य एषोऽस्त्रज्ञेन किं वध्यते ॥ १५४.५७० ॥ मा वृथा लोकपालानुगचित्तता एवमेवैतदित्यूचुरस्मै तदा देवताः ॥ १५४.५७१ ॥ देवदेवानुगं वीरकं लक्षणा प्राह देवी वनं पर्वता निर्झराण्यग्निदेव्यान्यथो भूतपा निर्झराम्भोनिपातेषु निमज्जत ॥ १५४.५७२ ॥ पुष्पजालावनद्धेषु धामस्वपि प्रोत्तुङ्गनानाद्रिकुञ्जेष्वनुगर्जन्तु हेमारुतास्फोटसंक्षेपणात्कामतः ॥ १५४.५७३ ॥ काञ्चनोत्तुङ्गशृङ्गावरोहक्षितौ हेमरेणूत्करासङ्गद्युतिं खेचराणां वनाधायिनि रम्ये बहुरूपसंपत्प्रकरे गणान्वासितं मन्दरकन्दरे सुन्दरमन्दारपुष्पप्रवालाम्बुजे सिद्धनारीभिरापीतरूपामृतं विस्तृतैर्नेत्रपात्रैरनुन्मेषिभिर्वीरके शैलपुत्री निमेषान्तरादस्मरत्पुत्रगृध्री विनोदार्थिनी ॥ १५४.५७४ ॥ सोऽपि तादृक्क्षणावाप्तपुण्योदयो योऽपि जन्मान्तरस्यात्मजत्वं गतः क्रीडतस्तस्य तृप्तिः कथं जायते योऽपि भाविजगद्वेधसा तेजसः कल्पितः प्रतिक्षणं दिव्यगीतक्षणो नृत्यलोलो गणेशैः प्रणतः ॥ १५४.५७५ ॥ क्षणं सिंहनादाकुले गण्डशैले सृजद्रत्नजाले बृहत्सालताले । क्षणं फुल्लनानातमालालिकाले क्षणं वृक्षमूले विलोलो मराले ॥ १५४.५७६ ॥ क्षणे स्वल्पपङ्के जले पङ्कजाढ्ये क्षणं मातुरङ्के शुभे निष्कलङ्के । परिक्रीडते बाललीलाविहारी गणेशाधिपो देवतानन्दकारी । निकुञ्जेषु विद्याधरैर्गीतशीलः पिनाकीव लीलाविलासैः सलीलः ॥ १५४.५७७ ॥ प्रकाश्य भुवनाभोगी ततो दिनकरे गते । देशान्तरं तदा पश्चाद्दूरमस्तावनीधरम् ॥ १५४.५७८ ॥ उदयास्ते पुरोभावी यो हि चास्तेऽवनीधरः । मित्रत्वमस्य सुदृढं हृदये परिचिन्त्यताम् ॥ १५४.५७९ ॥ नित्यमाराधितः श्रीमान् पृथुमूलः समुन्नतः । नाकरोत्सेवितुं मेरुरुपहारं पतिष्यतः ॥ १५४.५८० ॥ जलेऽप्येषा व्यवस्थेति संशयेताखिलं बुधः । दिनान्तानुगतो भानुः स्वजनत्वमपूरयत् ॥ १५४.५८१ ॥ संध्याबद्धाञ्जलिपुटा मुनयोऽभिमुखा रविम् । याचन्त्यागमनं शीघ्रं निवार्यात्मनि भाविताम् ॥ १५४.५८२ ॥ व्यजृम्भत तथा लोके क्रमाद्वैभावरं तमः । कुटिलस्येव हृदये कालुष्यं दूषयन्मनः ॥ १५४.५८३ ॥ ज्वलत्फणिफणारत्नदीपोद्द्योतितभित्तिके । शयनं शशिसंघातशुभ्रवस्त्रोत्तरच्छदम् ॥ १५४.५८४ ॥ नानारत्नद्युतिलसच्छक्रचापविडम्बकम् । रत्नकिङ्किणिकाजालं लम्बमुक्ताकलापकम् ॥ १५४.५८५ ॥ कमनीयचलल्लोलवितानाच्छादिताम्बरम् । मन्दिरे मन्दसंचारः शनैर्गिरिसुतायुतः ॥ १५४.५८६ ॥ तस्थौ गिरिसुताबाहुलतामीलितकंधरः । शशिमौलिसितज्योत्स्ना शुचिपूरितगोचरः ॥ १५४.५८७ ॥ गिरिजाप्यसितापङ्गी नीलोत्पलदलच्छविः । विभावर्या च संपृक्ता बभूवातितमोमयी । तमुवाच ततो देवः क्रीडाकेलिकलायुतम् ॥ १५४.५८८ ॥ ______________________________________________________ मत्स्यपुराण १५५ *शर्व उवाच शरीरे मम तन्वङ्गि सिते भास्यसितद्युतिः । भुजंगीवासिता शुद्धा संश्लिष्टा चन्दने तरौ ॥ १५५.१ ॥ चन्द्रातपेन संपृक्ता रुचिराम्बरया तथा । रजनीवासिते पक्षे दृष्टिदोषं ददासि मे ॥ १५५.२ ॥ इत्युक्ता गिरिजा तेन मुक्तकण्ठा पिनाकिना । उवाच कोपरक्ताक्षी भ्रुकुटीकुटिलानना ॥ १५५.३ ॥ *देव्युवाच स्वकृतेन जनः सर्वो जाड्येन परिभूयते । अवश्यमर्थी प्राप्नोति खण्डनां जनमण्डले ॥ १५५.४ ॥ तपोभिर्दीर्घचरितैर्यच्च प्रार्थितवत्यहम् । तस्या मे नियतस्त्वेष ह्यवमानः पदे पदे ॥ १५५.५ ॥ नैवास्मि कुटिला शर्व विषमा नैव धूर्जटे । सविषयस्त्वं गतः ख्यातिं व्यक्तदोषाकराश्रयः ॥ १५५.६ ॥ नाहं पूष्णोऽपि दशना नेत्रे चास्मि भगस्य हि । आदित्यश्च विजानाति भगवान्द्वादशात्मकः ॥ १५५.७ ॥ मूर्ध्नि शूलं जनयसि स्वैर्दोषैर्मामधिक्षिपन् । यस्त्वं मामाह कृष्णेति महाकालेति विश्रुतः ॥ १५५.८ ॥ यास्याम्यहं परित्यक्त्वा चात्मानं तपसा गिरिम् । जीवन्त्या नास्ति मे कृत्यं धूर्तेन परिभूतया ॥ १५५.९ ॥ निशम्य तस्या वचनं कोपतीक्ष्णाक्षरं भवः । उवाचाविष्टसंभ्रान्तिप्रणयोन्मिश्रया गिरा ॥ १५५.१० ॥ *शर्व उवाच अनात्मज्ञासि गिरिजे नाहं निन्दापरस्तव । त्वद्भक्तिबुद्ध्या कृतवांस्तवाहं नामसंश्रयम् ॥ १५५.११ ॥ विकल्पः स्वस्थचित्तेऽपि गिरिजे नैव कल्पना । यद्येवं कुपिता भीरु त्वं तवाहं न वै पुनः ॥ १५५.१२ ॥ नर्मवादी भविष्यामि जहि कोपं शुचिस्मिते । शिरसा प्रणतश्चाहं रचितस्ते मयाञ्जलिः ॥ १५५.१३ ॥ स्नेहेनाप्यवमानेन निन्दितेनैति विक्रियाम् । तस्मान्न जातु रुष्टस्य नर्मस्पृष्टो जनः किल ॥ १५५.१४ ॥ अनेकैश्चाटुभिर्देवी देवेन प्रतिबोधिता । कोपं तीव्रं न तत्याज सती मर्मणि घट्टिता ॥ १५५.१५ ॥ अवष्टब्धमथास्फाल्य वासः शंकरपाणिना । विपर्यस्तालका वेगाद्यातुमैच्छत शैलजा ॥ १५५.१६ ॥ तस्या व्रजन्त्याः कोपेन पुनराह पुरान्तकः । सत्यं सर्वैरवयवैः सुतासि सदृशी पितुः ॥ १५५.१७ ॥ हिमाचलस्य शृङ्गैस्तैर्मेघजालाकुलैर्नभः । तथा दुरवगाह्येभ्यो हृदयेभ्यस्तवाशयः ॥ १५५.१८ ॥ काठिन्याङ्कस्त्वमस्मभ्यं वनेभ्यो बहुधा गता । कुटिलत्वं च वर्त्मभ्यो दुःसेव्यत्वं हिमादपि । संक्रान्तिं सर्वदैवेति तन्वङ्गि हिमशैलराट् ॥ १५५.१९ ॥ इत्युक्ता सा पुनः प्राह गिरिशं शैलजा तदा । कोपकम्पितमूर्धा च प्रस्फुरद्दशनच्छदा ॥ १५५.२० ॥ *उमोवाच मा सर्वान्दोषदानेन निन्दान्यान्गुणिनो जनान् । तवापि दुष्टसंपर्कात्संक्रान्तं सर्वमेव हि ॥ १५५.२१ ॥ व्यालेभ्योऽनेकजिह्वत्वं भस्मना स्नेहबन्धनम् । हृत्कालुष्यं शशाङ्कात्तु दुर्बोधित्वं वृषादपि ॥ १५५.२२ ॥ तथा बहु किमुक्तेन अलं वाचा श्रमेण ते । श्मशानवासान्निर्भीस्त्वं नग्नत्वान्न तव त्रपा । निर्घृणत्वं कपालित्वाद्दया ते विगता चिरम् ॥ १५५.२३ ॥ *सूत उवाच इत्युक्त्वा मन्दिरात्तस्मान्निर्जगाम हिमाद्रिजा ॥ १५५.२४ ॥ तस्यां व्रजन्त्यां देवेशगणैः किलकिलो ध्वनिः । क्व मातर्गच्छसि त्यक्त्वा रुदन्तो धाविताः पुनः ॥ १५५.२५ ॥ विष्टभ्य चरणौ देव्या वीरको बाष्पगद्गदम् । प्रोवाच मातः किंत्वेतत्क्व यासि कुपितान्तरा ॥ १५५.२६ ॥ अहं त्वामनुयास्यामि व्रजन्तीं स्नेहवर्जिताम् । नो चेत्पतिष्ये शिखरात्तपोनिष्ठे त्वयोज्झितः ॥ १५५.२७ ॥ उन्नाम्य वदनं देवी दक्षिणेन तु पाणिना । उवाच वीरकं माता शोकं पुत्रक मा कृथाः ॥ १५५.२८ ॥ शैलाग्रात्पतितुं नैव न चागन्तुं मया सह । युक्तं ते पुत्र वक्ष्यामि येन कार्येण तच्छृणु ॥ १५५.२९ ॥ कृष्णेत्युक्त्वा हरेणाहं निन्दिता चाप्यनिन्दिता । सार्हं तपः करिष्यामि येन गौरीत्वमाप्नुयाम् ॥ १५५.३० ॥ एष स्त्रीलम्पटो देवो यातायां मय्यनन्तरम् । द्वाररक्षा त्वया कार्या नित्यं रन्ध्रान्ववेक्षिणा ॥ १५५.३१ ॥ यथा न काचित्प्रविशेद्योषिदत्र हरान्तिकम् । दृष्ट्वा परांस्त्रियं चात्र वदेथा मम पुत्रक ॥ १५५.३२ ॥ शीघ्रमेव करिष्यामि यथायुक्तमनन्तरम् । एवमस्त्विति देवीं स वीरकः प्राह सांप्रतम् ॥ १५५.३३ ॥ मातुराज्ञामृताह्लादप्लाविताङ्गो गतज्वरः । जगाम कक्षां संद्रष्टुं प्रणिपत्य च मातरम् ॥ १५५.३४ ॥ ______________________________________________________ मत्स्यपुराण १५६ *सूत उवाच देवीं सापश्यदायान्तीं सखीं मातुर्विभूषिताम् । कुसुममोदिनीं नाम तस्य शैलस्य देवताम् ॥ १५६.१ ॥ सापि दृष्ट्वा गिरिसुतां स्नेहविक्लवमानसा । क्व पुत्रि गच्छसीत्युच्चैरालिङ्ग्योवाच देवता ॥ १५६.२ ॥ सा चास्यै सर्वमाचख्यौ शंकरात्कोपकारणम् । पुनश्चोवाच गिरिजा देवतां मातृसंमताम् ॥ १५६.३ ॥ *उमोवाच नित्यं शैलाधिराजस्य देवता त्वमनिन्दिते । सर्वतः संनिधानं ते मम चातीव वत्सला ॥ १५६.४ ॥ अतस्तुते प्रवक्ष्यामि यद्विधेयं तदा धिया । अन्यस्त्रीसंप्रवेशस्तु त्वया रक्ष्यः प्रयत्नतः ॥ १५६.५ ॥ रहस्यत्र प्रयत्नेन चेतसा सततं गिरौ । पिनाकिनः प्रविष्टायां वक्तव्यं मे त्वयानघे ॥ १५६.६ ॥ ततोऽहं संविधास्यामि यत्कृत्यं तदनन्तरम् । इत्युक्ता सा तथेत्युक्त्वा जगाम स्वगिरिं शुभम् ॥ १५६.७ ॥ उमापि पितुरुद्यानं जगामाद्रिसुता द्रुतम् । अन्तरिक्षं समाविश्य मेघमालामिव प्रभा ॥ १५६.८ ॥ ततो विभूषणान्यस्य वृक्षवल्कलधारिणी । ग्रीष्मे पञ्चाग्निसंतप्ता वर्षासु च जलोषिता ॥ १५६.९ ॥ शैशिरासु च रात्रीषु शुष्कस्थण्डिलशायिनी । एवं साधयती तत्र तपसा संव्यवस्थिता ॥ १५६.१० ॥ ज्ञात्वा तु तां गिरिसुतां दैत्यस्तत्रान्तरे वशी । अन्धकस्य सुतो दृप्तः पितुर्वधमनुस्मरन् ॥ १५६.११ ॥ देवान्सर्वान्विजित्याजौ बकभ्राता रणोत्कटः । आडिर्नामान्तरप्रेक्षी सततं चन्द्रमौलिनः ॥ १५६.१२ ॥ आजगामामररिपुः पुरं त्रिपुरघातिनः । स तत्रागत्य ददृशे वीरकं द्वार्यवस्थितम् ॥ १५६.१३ ॥ विचिन्त्यासीद्वरं दत्तं स पुरा पद्मजन्मना । हते तदान्धके दैत्ये गिरिशेनामरद्विषि ॥ १५६.१४ ॥ आडिश्चकार विपुलं तपः परमदारुणम् । तमागत्याब्रवीद्ब्रह्मा तपसा परितोषितः ॥ १५६.१५ ॥ किमाडे दानवश्रेष्ठ तपसा प्राप्तुमिच्छसि । ब्रह्माणमाह दैत्यस्तु निर्मृत्युत्वमहं वृणे ॥ १५६.१६ ॥ *ब्रह्मोवाच न कश्चिच्च विना मृत्युं नरो दानव विद्यते । यतस्ततोऽपि दैत्येन्द्र मृत्युः प्राप्यः शरीरिणा ॥ १५६.१७ ॥ इत्युक्तो दैत्यसिंहस्तु प्रोवाचाम्बुजसंभवम् । रूपस्य परिवर्तो मे यदा स्यात्पद्मसंभव ॥ १५६.१८ ॥ तदा मृत्युर्मम भवेदन्यथा त्वमरो ह्यहम् । इत्युक्तस्तु तदोवाच तुष्टः कमलसंभवः ॥ १५६.१९ ॥ यदा द्वितीयो रूपस्य विवर्तस्ते भविष्यति । तदा ते भविता मृत्युरन्यथा न भविष्यति ॥ १५६.२० ॥ इत्युक्तोऽमरतां मेने दैत्यसूनुर्महाबलः । तस्मिन्काले तु संस्मृत्य तद्वधोपायमात्मनः ॥ १५६.२१ ॥ परिहर्तुं दृष्टिपथं वीरकस्याभवत्तदा । भुजंगरूपी रन्ध्रेण प्रविवेश दृशः पथम् ॥ १५६.२२ ॥ परिहृत्य गणेशस्य दानवोऽसौ सुदुर्जयः । अलक्षितो गणेशेन प्रविष्टोऽथ पुरान्तकम् ॥ १५६.२३ ॥ भुजगरूपं संत्यज्य बभूवाथ महासुरः । उमारूपी छलयितुं गिरिशं मूढचेतनः ॥ १५६.२४ ॥ कृत्वा मायां ततो रूपमप्रतर्क्यमनोहरम् । सर्वावयवसम्पूर्णं सर्वाभिज्ञानसंवृतम् ॥ १५६.२५ ॥ कृत्वा मुखान्तरे दन्तान् दैत्यो वज्रोपमान्दृढान् । तीक्ष्णाग्रान् बुद्धिमोहेन गिरिशं हन्तुमुद्यतः ॥ १५६.२६ ॥ कृत्वोमारूपसंस्थानं गतो दैत्यो हरान्तिकम् । पापो रम्याकृतिश्चित्रभूषणाम्बरभूषितः ॥ १५६.२७ ॥ तं दृष्ट्वा गिरिशस्तुष्टस्तदालिङ्ग्य महासुरम् । मन्यमानो गिरिसुतां सर्वैरवयवान्तरैः ॥ १५६.२८ ॥ अपृच्छत्साधु ते भावो गिरिपुत्रि न कृत्रिमः । या त्वं मदाशयं ज्ञात्वा प्राप्तेह वरवर्णिनी ॥ १५६.२९ ॥ त्वया विरहितं शून्यं मन्यमानो जगत्त्रयम् । प्राप्ता प्रसन्नवदना युक्तमेवंविधं त्वयि ॥ १५६.३० ॥ इत्युक्तो दानवेन्द्रस्तु तदाभाषत्स्मयञ्छनैः । न चाबुध्यदभिज्ञानं प्रायस्त्रिपुरघातिनः ॥ १५६.३१ ॥ *देव्युवाच यातास्म्यहं तपश्चर्तुं वाल्लभ्याय तवातुलम् । रतिश्च तत्र मे नाभूत्ततः प्राप्ता त्वदन्तिकम् ॥ १५६.३२ ॥ इत्युक्तः शंकरः शङ्कां कांचित्प्राप्यावधारयत् । हृदयेन समाधाय देवः प्रहसिताननः ॥ १५६.३३ ॥ कुपिता मयि तन्वङ्गी प्रकृत्या च दृढव्रता । अप्राप्तकामा सम्प्राप्ता किमेतत्संशयो मम ॥ १५६.३४ ॥ इति चिन्त्य हरस्तस्या अभिज्ञानं विधारयन् । नापश्यद्वामपार्श्वे तु तदङ्गे पद्मलक्षणम् ॥ १५६.३५ ॥ लोमावर्तं तु रचितं ततो देवः पिनाकधृक् । अबुध्यद्दानवीं मायामाकारं गूहयंस्ततः ॥ १५६.३६ ॥ मेढ्रे वज्रास्त्रमादाय दानवं तमसूदयत् । अबुध्यद्वीरको नैव दानवेन्द्रं निषूदितम् ॥ १५६.३७ ॥ हरेण सूदितं दृष्ट्वा स्त्रीरूपं दानवेश्वरम् । अपरिच्छिन्नतत्त्वार्था शैलपुत्र्यै न्यवेदयत् ॥ १५६.३८ ॥ दूतेन मारुतेनाशुगामिना नगदेवता । श्रुत्वा वायुमुखाद्देवी क्रोधरक्तविलोचना । अशपद्वीरकं पुत्रं हृदयेन विदूयता ॥ १५६.३९ ॥ ______________________________________________________ मत्स्यपुराण १५७ *देव्युवाच मातरं मा परित्यज्य यस्मात्त्वं स्नेहविक्लवाम् । विहितावसरः स्त्रीणां शंकरस्य रहोविधौ ॥ १५७.१ ॥ तस्मात्ते परुषा रूक्षा जडा हृदयवर्जिता । गणेश क्षारसदृशी शिला माता भविष्यति ॥ १५७.२ ॥ निमित्तमेतद्विख्यातं वीरकस्य शिलोदये । सोऽभवत्प्रक्रमेणैव विचित्राख्यानसंश्रयः ॥ १५७.३ ॥ एवमुत्सृष्टशपाया गिरिपुत्र्यास्त्वनन्तरम् । निर्जगाम मुखात्क्रोधः सिंहरूपी महाबलः ॥ १५७.४ ॥ स तु सिंहः करालास्यो जटाजटिलकंधरः । प्रोद्धूतलम्बलाङ्गूलो दंष्ट्रोत्कटमुखातटः ॥ १५७.५ ॥ व्यादितास्यो ललज्जिह्वः क्षामकुक्षिश्चिखादिषुः । तस्याशु वर्तितुं देवी व्यवस्यत सती तदा ॥ १५७.६ ॥ ज्ञात्वा मनोगतं तस्या भगवांश्चतुराननः । आजगामाश्रमपदं संपदामाश्रयं तदा । आगम्योवाच देवेशो गिरिजां स्पष्टया गिरा ॥ १५७.७ ॥ *ब्रह्मोवाच किं पुत्रि प्राप्तुकामासि किमलभ्यं ददामि ते । विरम्यतामतिक्लेशात्तपसोऽस्मान्मदाज्ञया ॥ १५७.८ ॥ तच्छ्रुत्वोवाच गिरिजा गुरोर्गौरत्वगर्भितम् । वाक्यं वाचा चिरोद्गीर्णवर्णनिर्णीतवाञ्छितम् ॥ १५७.९ ॥ *देव्युवाच तपसा दुष्करेणाप्तः पतित्वे शंकरो मया । स मां श्यामलवर्णेति बहुशः प्रोक्तवान्भवः ॥ १५७.१० ॥ स्यामहं काञ्चनाकारा वाल्लभ्येन च संयुता । भर्तुर्भूतपतेरङ्गमेकतो निर्विशेऽङ्गवत् ॥ १५७.११ ॥ तस्यास्तद्भाषितं श्रुत्वा प्रोवाच कमलासनः । एवं भव त्वं भूयश्च भर्तृदेहार्धधारिणी ॥ १५७.१२ ॥ ततस्तत्याज भृङ्गाङ्गं फुल्लनीलोत्पलत्वचम् ॥ १५७.१३ ॥ त्वचा सा चाभवद्दीप्ता घण्टाहस्ता त्रिलोचना । नानाभरणपूर्णाङ्गी पीतकौशेयधारिणी ॥ १५७.१४ ॥ तामब्रवीत्ततो ब्रह्मा देवीं नीलाम्बुजत्विषम् । निशे भूधरजादेहसम्पर्कात्त्वं ममाज्ञया ॥ १५७.१५ ॥ सम्प्राप्ता कृतकृत्यत्वमेकानंशा पुरा ह्यसि । य एष सिंहः प्रोद्भूतो देव्याः क्रोधाद्वरानने ॥ १५७.१६ ॥ स तेऽस्तु वाहनं देवि केतौ चास्तु महाबलः । गच्छ विन्ध्याचलं तत्र सुरकार्यं करिष्यसि ॥ १५७.१७ ॥ पञ्चालो नाम यक्षोऽयं यक्षलक्षपदानुगः । दत्तस्ते किंकरो देवि मया मायाशतैर्युतः ॥ १५७.१८ ॥ इत्युक्ता कौशिकी देवी विन्ध्यशैलं जगाम ह । उमापि प्राप्तसंकल्पा जगाम गिरिशान्तिकम् ॥ १५७.१९ ॥ प्रविशन्तीं तु तां द्वारादपकृष्य समाहितः । रुरोध वीरको देवीं हेमवेत्रलताधरः ॥ १५७.२० ॥ तामुवाच स कोपेन रूपात्तु व्यभिचारिणीम् । प्रयोजनं न तेऽस्तीह गच्छ यावन्न भेत्स्यसे ॥ १५७.२१ ॥ देव्या रूपधरो दैत्यो देवं वञ्चयितुं त्विह । प्रविष्टो न च दृष्टोऽसौ स वै देवेन घातितः ॥ १५७.२२ ॥ घातिते चाहमाज्ञप्तो नीलकण्ठेन कोपिना । द्वारेषु नावधानं ते यस्मात्पश्यामि वै ततः ॥ १५७.२३ ॥ भविष्यसि न मद्द्वाःस्थो वर्षपूगान्यनेकशः । अतस्तेऽत्र न दास्यामि प्रवेशं गम्यतां द्रुतम् ॥ १५७.२४ ॥ ______________________________________________________ मत्स्यपुराण १५८ *वीरक उवाच एवमुक्त्वा गिरिसुता माता मे स्नेहवत्सला । प्रवेशं लभते नान्या नारी कमललोचने ॥ १५८.१ ॥ इत्युक्ता तु तदा देवी चिन्तयामास चेतसा । न सा नारीति दैत्योऽसौ वायुर्मे यामभाषत ॥ १५८.२ ॥ वृथैव वीरकः शप्तो मया क्रोधपरीतया । अकार्यं क्रियते मूढैः प्रायः क्रोधसमीरितैः ॥ १५८.३ ॥ क्रोधेन नश्यते कीर्तिः क्रोधो हन्ति स्थिरां श्रियम् । अपरिच्छिन्नतत्त्वार्था पुत्रं शापितवत्यहम् । विपरीतार्थबुद्धीनां सुलभो विपदोदयः ॥ १५८.४ ॥ संचिन्त्यैवमुवाचेदं वीरकं प्रति शैलजा । लज्जासज्जविकारेण वदनेनाम्बुजत्विषा ॥ १५८.५ ॥ *देव्युवाच अहं वीरक ते माता मा तेऽस्तु मनसो भ्रमः । शंकरस्यास्मि दयिता सुता तुहिनभूभृतः ॥ १५८.६ ॥ मम गात्रच्छविभ्रान्त्या मा शङ्कां पुत्र भावय । तुष्टेन गौरता दत्ता ममेयं पद्मजन्मना ॥ १५८.७ ॥ मया शप्तोऽस्यविदिते वृत्तान्ते दैत्यनिर्मिते । ज्ञात्वा नारीप्रवेशं तु शंकरे रहसि स्थिते ॥ १५८.८ ॥ न निवर्तयितुं शक्यः शापः किं तु ब्रवीमि ते । शीघ्रमेष्यसि मानुष्यात्स त्वं कामसमन्वितः ॥ १५८.९ ॥ *सूत उवाच शिरसा तु ततो वन्द्य मातरं पूर्णमानसः । उवाचोदितपूर्णेन्दुद्युतिं च हिमशैलजाम् ॥ १५८.१० ॥ *वीरक उवाच नतसुरासुरमौलिमिलन्मणिप्रचयकान्तिकरालनखाङ्किते । नगसुते शरणागतवत्सले तव नतोऽस्मि नतार्तिविनाशिनि ॥ १५८.११ ॥ तपनमण्डलमण्डितकंधरे पृथुसुवर्णसुवर्णनगद्युते । विषभुजंगनिषङ्गविभूषिते गिरिसुते भवतीमहमाश्रये ॥ १५८.१२ ॥ जगति कः प्रणताभिमतं ददौ झटिति सिद्धनुते भवती यथा । जगति कां च न वाञ्छति शंकरो भुवनधृत्तनये भवतीं यथा ॥ १५८.१३ ॥ विमलयोगविनिर्मितदुर्जयस्वतनुतुल्यमहेश्वरमण्डले । विदलितान्धकबान्धवसंहतिः सुरवरैः प्रथमं त्वमभिष्टुता ॥ १५८.१४ ॥ सितसटापटलोद्धतकंधराभरमहामृगराजरथस्थिता । विमलशक्तिमुखानलपिङ्गलायतभुजौघविपिष्टमहासुरा ॥ १५८.१५ ॥ निगदिता भुवनैरिति चण्डिका जननि शुम्भनिशुम्भनिषूदनी । प्रणतचिन्तितदानवदानवप्रमथनैकरतिस्तरसा भुवि ॥ १५८.१६ ॥ वियति वायुपथे ज्वलनोज्ज्वलेऽवनितले तव देवि च यद्वपुः । तदजितेऽप्रतिमे प्रणमाम्यहं भुवनभाविनि ते भववल्लभे ॥ १५८.१७ ॥ जलधयो ललितोद्धतवीचयो हुतवहद्युतयश्च चराचरम् । फणसहस्रभृतश्च भुजंगमास्त्वदभिधास्यति मय्यभयंकराः ॥ १५८.१८ ॥ भगवति स्थिरभक्तजनाश्रये प्रतिगतो भवतीचरणाश्रयम् । करणजातमिहास्तु ममाचलं नुतिलवाप्तिफलाशयहेतुतः ॥ १५८.१९ ॥ प्रशममेहि ममात्मजवत्सले तव नमोऽस्तु जगत्त्रयसंश्रये । त्वयि ममास्तु मतिः सततं शिवे शरणगोऽस्मि नतोऽस्मि नमोऽस्तु ते ॥ १५८.१९* ॥ *सूत उवाच प्रसन्ना तु ततो देवी वीरकस्येति संस्तुता । प्रविवेश शुभं भर्तुर्भवनं भूधरात्मजा ॥ १५८.२० ॥ अथ रुद्रो महागौरीं गौरीं दृष्ट्वा तु सुन्दरीम् । चित्तव्यामोहनाकारां करीन्द्रोन्मत्तगामिनीम् ॥ १५८.२१ ॥ पूर्णचन्द्राननां तन्वीं नितम्बोरुघनस्तनीम् । मध्ये क्षामां तथाक्षीणलावण्यामृतवर्षिणीम् ॥ १५८.२२ ॥ सर्वाभरणपूर्वाङ्गीं मदो मन्देन कारिणीम् । सकामः शङ्कितो दीनो रौद्रो वीरो भयानकः ॥ १५८.२३ ॥ करुणाहास्यबीभत्सकिंचित्किंचिद्धरोऽभवत् । जिघांसुर्देववाक्येन भैरवं कृतवान्वपुः ॥ १५८.२४ ॥ सा चापि भैरवी जाता देवस्य प्रतिरूपिणी । तस्या रूपसहस्राणि ददर्श गिरिगोचरः ॥ १५८.२५ ॥ ग्रस्ते सहस्ररूपाणां तारारूपे प्रदर्शिते । पार्वत्या चाथ निःशङ्कः शंकरो वाभवत्ततः ॥ १५८.२६ ॥ दृष्ट्वा जगन्मयीं तां तु रराम सुरतप्रियः । विरहोत्कण्ठितां भार्यां प्राप्य भूयो हिमात्मजाम् ॥ १५८.२७ ॥ यावद्वर्षसहस्रान्तमुभयो रहसिस्थयोः । नानाकरणबद्धोत्था क्रीडासीत्संतता तयोः ॥ १५८.२८ ॥ द्वारस्थो वीरको देवान् हरदर्शनकाङ्क्षिणः । व्यसर्जयत्स्वकान्येव गृहाण्यादरपूर्वकम् ॥ १५८.२९ ॥ नास्त्यत्रावसरो देवा देव्या सह वृषाकपिः । निभृतः क्रीडतीत्युक्ता ययुस्ते च यथागतम् ॥ १५८.३० ॥ गते वर्षसहस्रे तु देवास्त्वरितमानसाः । ज्वलनं चोदयामासुर्ज्ञातुं शंकरचेष्टितम् ॥ १५८.३१ ॥ प्रविश्य जालरन्ध्रेण शुकरूपी हुताशनः । ददृशे शयने शर्वं रतं गिरिजया सह ॥ १५८.३२ ॥ ददृशे तं च देवेशो हुताशं शुकरूपिणम् । तमुवाच महादेवः किंचित्कोपसमन्वितः ॥ १५८.३३ ॥ *शर्व उवाच निषिक्तमर्धं देव्यां मे शुक्रस्य शुकविग्रह । लज्जया विरतिस्थायां त्वमर्धं पिब पावक ॥ १५८.३४ ॥ यस्मात्तु त्वत्कृतो विघ्नस्तस्मात्त्वय्युपपद्यते । इत्युक्तः प्राञ्जलिर्वह्निरपिबद्वीर्यमाहितम् ॥ १५८.३५ ॥ तेनापूर्यत तान्देवांस्तत्तत्कायविभेदतः । विपाट्य जठरं तेषां वीर्यं माहेश्वरं ततः ॥ १५८.३६ ॥ निष्क्रान्ते तप्तहेमाभं विततं शंकराश्रमे । तस्मिन्सरो महज्जातं विमलं बहुयोजनम् ॥ १५८.३७ ॥ प्रोत्फुल्लहेमकमलं नानाविहगनादितम् । तच्छ्रुत्वा तु ततो देवी हेमद्रुममहाजलम् ॥ १५८.३८ ॥ जगाम कौतुकाविष्टा तत्सरः कनकाम्बुजम् । तत्र कृत्वा जलक्रीडां तदब्जकृतशेखरा ॥ १५८.३९ ॥ उपविष्टा ततस्तस्य तीरे देवी सखीयुता । पातुकामा च तत्तोयं स्वादु निर्मलपङ्कजम् ॥ १५८.४० ॥ अपश्यत्कृत्तिकाः स्नाताः षडर्कद्युतिसंनिभाः । पद्मपत्रे तु तद्वारि गृहीत्वोपस्थिता गृहम् ॥ १५८.४१ ॥ हर्षादुवाच पश्यामि पद्मपत्रे स्थितं पयः । ततस्ता ऊचुरखिलं कृत्तिका हिमशैलजाम् ॥ १५८.४२ ॥ *कृत्तिका ऊचुः दास्यामो यदि ते गर्भः सम्भूतो यो भविष्यति । सोऽस्माकमपि पुत्रः स्यादस्मन्नाम्ना च वर्तताम् । भवेल्लोकेषु विख्यातः सर्वेष्वपि शुभानने ॥ १५८.४३ ॥ इत्युक्तोवाच गिरिजा कथं मद्गात्रसंभवः । सर्वैरवयवैर्युक्तो भवतीभ्यः सुतो भवेत् ॥ १५८.४४ ॥ ततस्तां कृत्तिका ऊचुर्विधास्यामोऽस्य वै वयम् । उत्तमान्युत्तमाङ्गानि यद्येवं तु भविष्यति ॥ १५८.४५ ॥ उक्ता वै शैलजा प्राह भवत्वेवमनिन्दिताः । ततस्ता हर्षसम्पूर्णाः पद्मपत्रस्थितं पयः ॥ १५८.४६ ॥ तस्यै ददुस्तया चापि तत्पीतं क्रमशो जलम् । पीते तु सलिले तस्मिंस्ततस्तस्मिन्सरोवरे ॥ १५८.४७ ॥ विपाट्य देव्याश्च ततो दक्षिणां कुक्षिमुद्गतः । निश्चक्रामाद्भुतो बालः सर्वलोकविभासकः ॥ १५८.४८ ॥ प्रभाकरप्रभाकारः प्रकाशकनकप्रभः । गृहीतनिर्मलोदग्रशक्तिशूलः षडाननः ॥ १५८.४९ ॥ दीप्तो मारयितुं दैत्यान् कुत्सितान्कनकच्छविः । एतस्मात्कारणाद्दैवः कुमारश्चापि सोऽभवत् ॥ १५८.५० ॥ ______________________________________________________ मत्स्यपुराण १५९ *सूत उवाच वामं विदार्य निष्क्रान्तः सुतो देव्याः पुनः शिशुः । स्कन्दाच्च वदने वह्नेः शुक्रात्सुवदनोऽरिहा ॥ १५९.१ ॥ कृत्तिकामेलनादेव शाखाभिः सविशेषतः । शाखाभिधाः समाख्याताः षट्सु वक्त्रेषु विस्तृताः ॥ १५९.२ ॥ यतस्ततो विशाखोऽसौ ख्यातो लोकेषु षण्मुखः । स्कन्दो विशाखः षड्वक्त्रः कार्तिकेयश्च विश्रुतः ॥ १५९.३ ॥ चैत्रस्य बहुले पक्षे पञ्चदश्यां महाबलौ । सम्भूतावर्कसदृशौ विशाले शरकानने ॥ १५९.४ ॥ चैत्रस्यैव सिते पक्षे पञ्चम्यां पाकशासनः । बालकाभ्यां चकारैकं मत्वा चामरभूतये ॥ १५९.५ ॥ तस्यामेव ततः षष्ठ्यामभिषिक्तो गुहः प्रभुः । सर्वैरमरसंघातैर्ब्रह्मेन्द्रोपेन्द्रभास्करैः ॥ १५९.६ ॥ गन्धमाल्यैः शुभैर्धूपैस्तथा क्रीडनकैरपि । छत्रैश्चामरजालैश्च भूषणैश्च विलेपनैः ॥ १५९.७ ॥ अभिषिक्तो विधानेन यथावत्षण्मुखः प्रभुः । सुतामस्मै ददौ शक्रो देवसेनेति विश्रुताम् ॥ १५९.८ ॥ पत्न्यर्थं देवदेवस्य ददौ विष्णुस्तदायुधम् । यक्षाणां दशलक्षाणि ददावस्मै धनाधिपः ॥ १५९.९ ॥ ददौ हुताशनस्तेजो ददौ वायुश्च वाहनम् । ददौ क्रीडनकं त्वष्टा कुक्कुटं कामरूपिणम् । एवं सुरास्तु ते सर्वे परिवारमनुत्तमम् ॥ १५९.१० ॥ ददुर्मुदितचेतस्काः स्कन्दायादित्यवर्चसे ॥ १५९.११ ॥ जानुभ्यामवनौ स्थित्वा सुरसंघास्तमस्तुवन् । स्तोत्रेणानेन वरदं षण्मुखं मुख्यशः सुराः ॥ १५९.१२ ॥ *देवा ऊचुः नमः कुमाराय महाप्रभाय स्कन्दाय च स्कन्दितदानवाय । नवार्कविद्युद्द्युतये नमोऽस्तुते नमोऽस्तु ते षण्मुख कामरूप ॥ १५९.१३ ॥ पिनद्धनानाभरणाय भर्त्रे नमो रणे दानवदारणाय । नमोऽस्तु तेऽर्कप्रतिमप्रभाय नमोऽस्तु गुह्याय गुहाय तुभ्यम् ॥ १५९.१४ ॥ नमोऽस्तु त्रैलोक्यभयापहाय नमोऽस्तु ते बाल कृपापराय । नमो विशालामललोचनाय नमो विशाखाय महाव्रताय ॥ १५९.१५ ॥ नमो नमस्तेऽस्तु मनोहराय नमो नमस्तेऽस्तु रणोत्कटाय । नमो मयूरोज्ज्वलवाहनाय नमोऽस्तु केयूरधराय तुभ्यम् ॥ १५९.१६ ॥ नमो धृतोदग्रपताकिने नमस्ते नमः प्रभावप्रणताय तेऽस्तु । नमस्ते नमस्ते वरवीर्यशालिने कृपापरो नो भव भव्यमूर्ते ॥ १५९.१७ ॥ क्रियापरा यज्ञपतिं च स्तुत्वा विनेमुरेवं त्वमराधिपाद्याः । एवं तदा षड्वदनस्तु सेन्द्रानुवाच तुष्टश्च गुहस्ततस्तान् । निरीक्ष्य नेत्रैरमलैः सुरेशाञ्शत्रून्हनिष्यामि गतज्वराः स्थ ॥ १५९.१८ ॥ *कुमार उवाच कं वः कामं प्रयच्छामि देवता ब्रूत निर्वृताः । यद्यप्यसाध्यं हृद्यं वो हृदये चिन्तितं परम् ॥ १५९.१९ ॥ इत्युक्तास्तु सुरास्तेन प्रोचुः प्रणतमौलयः । सर्व एव महात्मानं गुहं तद्गतमानसाः ॥ १५९.२० ॥ दैत्येन्द्रस्तारको नाम सर्वामरकुलान्तकृत् । बलवान्दुर्जयो दुष्टो दुराचारोऽतिकोपनः । तमेव जहि हृद्योऽर्थ एषोऽस्माकं भयापह ॥ १५९.२१ ॥ एवमुक्तस्तथेत्युक्त्वा सर्वामरपदानुगः । जगाम जगतां नाथः स्तूयमानोऽमरेश्वरैः ॥ १५९.२२ ॥ तारकस्य वधार्थाय जगतः कण्टकस्य वै । ततश्च प्रेषयामास शक्रो लब्धसमाश्रयः ॥ १५९.२३ ॥ दूतं दानवसिंहस्य परुषाक्षरवादिनम् । स तु गत्वाब्रवीद्दैत्यं निर्भयो भीमदर्शनः ॥ १५९.२४ ॥ *दूत उवाच शक्रस्त्वामाह देवेशो दैत्यकेतो दिवस्पतिः । तारकासुर तच्छ्रुत्वा घटशक्त्या यथेच्छया ॥ १५९.२५ ॥ यज्जगद्दलनादाप्तं किल्बिषं दानव त्वया । तस्याहं शासकस्तेऽद्य राजास्मि भुवनत्रये ॥ १५९.२६ ॥ श्रुत्वैतद्दूतवचनं कोपसंरक्तलोचनः । उवाच दूतं दुष्टात्मा नष्टप्रायविभूतिकः ॥ १५९.२७ ॥ *तारक उवाच दृष्टं ते पौरुषं शक्र रणेषु शतशो मया । निस्त्रपत्वान्न ते लज्जा विद्यते शक्र दुर्मते ॥ १५९.२८ ॥ एवमुक्ते गते दूते चिन्तयामास दानवः । नालब्धसंश्रयः शक्रो वक्तुमेवं हि चार्हति ॥ १५९.२९ ॥ जितः स शक्रो नाकस्माज्जायते संश्रयाश्रयः । निमित्तानि च दुष्टानि सोऽपश्यद्दुष्टचेष्टितः ॥ १५९.३० ॥ पांशुवर्षमसृक्पातं गगनादवनीतले । भुजनेत्रप्रकम्पं च वक्त्रशोषमनोभ्रमम् ॥ १५९.३१ ॥ स्वकान्तावक्त्रपद्मानां म्लानतां च व्यलोकयत् । दुष्टांश्च प्राणिनो रौद्रान् सोऽपश्यद्दुष्टवेदिनः ॥ १५९.३२ ॥ तदचिन्त्वैव दितिजो न्यस्तचिन्तोऽभवत्क्षणात् । यावद्गजघटाघण्टारणत्काररवोत्कटाम् ॥ १५९.३३ ॥ तद्वत्तुरगसंघातक्षुण्णभूरेणुपिञ्जराम् । चञ्चलस्यन्दनोदग्रध्वजराजिविराजिताम् ॥ १५९.३४ ॥ विमानैश्चाद्भुताकारैश्चलितामरचामरैः । तां भूषणनिबद्धां च किंनरोद्गतिनादिताम् ॥ १५९.३५ ॥ नानानाकतरूत्फुल्लकुसुमापीडधारिणीम् । विकोशास्त्रपरिष्कारां वर्मनिर्मलदर्शनाम् ॥ १५९.३६ ॥ बन्द्युद्घुष्टस्तुतिरवां नानावाद्यनिनादिताम् । सेनां नाकसदां दैत्यः प्रासादस्थो व्यलोकयत् ॥ १५९.३७ ॥ चिन्तयामास स तदा किंचिदुद्भ्रान्तमानसः । अपूर्वः को भवेद्योद्धा यो मया न विनिर्जितः ॥ १५९.३८ ॥ ततश्चिन्ताकुलो दैत्यः शुश्राव कटुकाक्षरम् । सिद्धबन्दिभिरुद्घुष्टमिदं हृदयदारणम् ॥ १५९.३९ ॥ अथ गाथा जयातुलशक्तिदीधितिपिञ्जर भुजदण्डचण्डरणरभस । सुरवदन कुमुदकाननविकासनेन्दो कुमार जय दितिजकुलमहोदधिवडवानल ॥ १५९.४० ॥ षण्मुख मधुररवमयूररथ सुरमुकुटकोटिघट्टितचरणनखाङ्कुरमहासन । जय ललितचूडाकलापनवविमलदलकमलकान्त दैत्यवंशदुःसहदावानल ॥ १५९.४१ ॥ जय विशाख विभो जय सकललोकतारक जय देवसेनानायक । स्कन्द जय गौरीनन्दन घण्टाप्रिय प्रिय विशाख विभो धृतपताकप्रकीर्णपटल । कनकभूषण भासुरदिनकरच्छाय ॥ १५९.४२ ॥ जय जनितसंभ्रम लीलालूनाखिलाराते जय सकललोकतारक दितिजासुरवरतारकान्तक । स्कन्द जय बाल सप्तवासर जय भुवनावलिशोकविनाशन ॥ १५९.४३ ॥ ______________________________________________________ मत्स्यपुराण १६० *सूत उवाच श्रुत्वैतत्तारकः सर्वमुद्घुष्टं देवबन्दिभिः । सस्मार ब्रह्मणो वाक्यं वधं बालादुपस्थितम् ॥ १६०.१ ॥ स्मृत्वा घर्मार्द्रसर्वाङ्गः पदातिरपदानुगः । मन्दिरान्निर्जगामाशु शोकग्रस्तेन चेतसा ॥ १६०.२ ॥ कालनेमिमुखा दैत्याः संरम्भाद्भ्रान्तचेतसः । स्वे स्वे स्वनीकेषु तदा त्वराविस्मितचेतसः । योधा धावत गृहीत योजयध्वं वरूथिनीम् ॥ १६०.३ ॥ कुमारं तारको दृष्ट्वा बभाषे भीषणाकृतिः । किं बाल योद्धुकामोऽसि क्रीड कन्दुकलीलया ॥ १६०.४ ॥ त्वया न दानवा दृष्टा यत्सङ्गरविभीषकाः । बालत्वादथ ते बुद्धिरेवं स्वल्पार्थदर्शिनी ॥ १६०.५ ॥ कुमारोऽपि तमग्रस्थं बभाषे हर्षयन्सुरान् । शृणु तारक शास्त्रार्थस्तव चैव निरूप्यते ॥ १६०.६ ॥ शास्त्रैरर्था न दृश्यन्ते समरे निर्भयैर्भटैः । शिशुत्वं मावमंस्था मे शिशुः कालभुजंगमः ॥ १६०.७ ॥ दुष्प्रेक्ष्यो भास्करो बालस्तथाहं दुर्जयः शिशुः । अल्पाक्षरो न मन्त्रः किं सुस्फुरो दैत्य दृश्यते ॥ १६०.८ ॥ कुमारे प्रोक्तवत्येवं दैत्यश्चिक्षेप मुद्गरम् । कुमारस्तं निरस्याथ वज्रेणामोघवर्चसा ॥ १६०.९ ॥ ततश्चिक्षेप दैत्येन्द्रो भिन्दिपालमयोमयम् । करेण तच्च जग्राह कार्तिकेयोऽमरारिहा ॥ १६०.१० ॥ गदां मुमोच दैत्याय षण्मुखः परमस्वनाम् । तया हतस्ततो दैत्यश्चकम्पेऽचलराडिव ॥ १६०.११ ॥ मेने च दुर्जयं दैत्यस्तदा षड्वदनं रणे । चिन्तयामास बुद्ध्या वै प्राप्तः कालो न संशयः ॥ १६०.१२ ॥ कुपितं तु तमालोक्य कालनेमिपुरोगमाः । सर्वे दैत्येश्वरा जघ्नुः कुमारं रणदारुणम् ॥ १६०.१३ ॥ स तैः प्रहारैरस्पृष्टो वृथाक्लेशैर्महाद्युतिः । रणशौण्डास्तु दैत्येन्द्राः पुनः प्रासैः शिलीमुखैः ॥ १६०.१४ ॥ कुमारं सामरं जघ्नुर्बलिनो देवकण्टकाः । कुमारस्य व्यथा नाभूद्दैत्यास्त्रनिहतस्य तु ॥ १६०.१५ ॥ प्राणान्तकरणो जातो देवानां दानवाहवः । देवान्निपीडितान्दृष्ट्वा कुमारः कोपमाविशत् ॥ १६०.१६ ॥ ततोऽस्त्रैर्वारयामास दानवानामनीकिनीम् । ततस्तैर्निष्प्रतीकरैस्ताडिताः सुरकण्टकाः ॥ १६०.१७ ॥ कालनेमिमुखाः सर्वे रणादासन्पराङ्मुखाः । विद्रुतेष्वथ दैत्येषु हतेषु च समन्ततः ॥ १६०.१८ ॥ ततः क्रुद्धो महादैत्यस्तारकोऽसुरनायकः । जग्राह च गदां दिव्यां हेमजालपरिष्कृताम् ॥ १६०.१९ ॥ जघ्ने कुमारं गदया निष्टप्तकनकाङ्गदः । शरैर्मयूरपत्रैश्च चकार विमुखान्सुरान् ॥ १६०.२० ॥ तथा परैर्महाभल्लैर्मयूरं गुहवाहनम् । बिभेद तारकः क्रुद्धः स सैन्येऽसुरनायकः ॥ १६०.२१ ॥ दृष्ट्वा पराङ्मुखान्देवान्मुक्तरक्तं स्ववाहनम् । जग्राह शक्तिं विमलां रणे कनकभूषणाम् ॥ १६०.२२ ॥ बाहुना हेमकेयूररुचिरेण षडाननः । ततो जवान्महासेनस्तारकं दानवाधिपम् ॥ १६०.२३ ॥ तिष्ठ तिष्ठ सुदुर्बुद्धे जीवलोकं विलोकय । हतोऽस्यद्य मया शक्त्या स्मर शस्त्रं सुशिक्षितम् ॥ १६०.२४ ॥ इत्युक्त्वा च ततः शक्तिं मुमोच दितिजं प्रति । सा कुमारभुजोत्सृष्टा तत्केयूररवानुगा । बिभेद दैत्यहृदयं वज्रशैलेन्द्रकर्कशम् ॥ १६०.२५ ॥ गतासुः स पपातोर्व्यां प्रलये भूधरो यथा । विकीर्णमुकुटोष्णीषो विस्रस्ताखिलभूषणः ॥ १६०.२६ ॥ तस्मिन्विनिहते दैत्ये त्रिदशानां महोत्सवे । नाभूत्कश्चित्तदा दुःखी नरकेष्वपि पापकृत् ॥ १६०.२७ ॥ स्तुवन्तः षण्मुखं देवाः क्रीडन्तश्चाङ्गनायुताः । जग्मुः स्वानेव भवनान् भूरिधामान उत्सुकाः ॥ १६०.२८ ॥ ददुश्चापि वरं सर्वे देवाः स्कन्दमुखं प्रति । तुष्टाः सम्प्राप्तसर्वेच्छाः सह सिद्धैस्तपोधनैः ॥ १६०.२९ ॥ *देवा ऊचुः यः पठेत्स्कन्दसम्बद्धां कथां मर्त्यो महामतिः । शृणुयाच्छ्रावयेद्वापि स भवेत्कीर्तिमान्नरः ॥ १६०.३० ॥ बह्वायुः सुभगः श्रीमान् कान्तिमाञ्छुभदर्शनः । भूतेभ्यो निर्भयश्चापि सर्वदुःखविवर्जितः ॥ १६०.३१ ॥ संध्यामुपास्य यः पूर्वां स्कन्दस्य चरितं पठेत् । स मुक्तः किल्बिषैः सर्वैर्महाधनपतिर्भवेत् ॥ १६०.३२ ॥ बालानां व्याधिजुष्टानां राजद्वारं च सेवताम् । इदं तत्परमं दिव्यं सर्वदा सर्वकामदम् । तनुक्षये च सायुज्यं षण्मुखस्य व्रजेन्नरः ॥ १६०.३३ ॥ ______________________________________________________ मत्स्यपुराण १६१ *ऋषय ऊचुः इदानीं श्रोतुमिच्छामो हिरण्यकशिपोर्वधम् । नरसिंहस्य माहात्म्यं तथा पापविनाशनम् ॥ १६१.१ ॥ *सूत उवाच पुरा कृतयुगे विप्रा हिरण्यकशिपुः प्रभुः । दैत्यानामादिपुरुषश्चकार स महत्तपः ॥ १६१.२ ॥ दश वर्षसहस्राणि दश वर्षशतानि च । जलवासी समभवत्स्नानमौनधृतव्रतः ॥ १६१.३ ॥ ततः शमदमाभ्यां च ब्रह्मचर्येण चैव हि । ब्रह्मा प्रीतोऽभवत्तस्य तपसा नियमेन च ॥ १६१.४ ॥ ततः स्वयंभूर्भगवान् स्वयमागम्य तत्र ह । विमानेनार्कवर्णेन हंसयुक्तेन भास्वता ॥ १६१.५ ॥ आदित्यैर्वसुभिः साध्यैर्मरुद्भिर्दैवतैस्तथा । रुद्रैर्विश्वसहायैश्च यक्षराक्षसपन्नगैः ॥ १६१.६ ॥ दिग्भिश्चैव विदिग्भिश्च नदीभिः सागरैस्तथा । नक्षत्रैश्च मुहूर्तैश्च खेचरैश्च महाग्रहैः ॥ १६१.७ ॥ देवैर्ब्रह्मर्षिभिः सार्धं सिद्धैः सप्तर्षिभिस्तथा । राजर्षिभिः पुण्यकृद्भिर्गन्धर्वाप्सरसां गणैः ॥ १६१.८ ॥ चराचरगुरुः श्रीमान् वृतः सर्वैर्दिवौकसैः । ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत् ॥ १६१.९ ॥ प्रीतोऽस्मि तव भक्तस्य तपसानेन सुव्रत । वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ॥ १६१.१० ॥ *हिरण्यकशिपुरुवाच न देवासुरगन्धर्वा न यक्षोरगराक्षसाः । न मानुषाः पिशाचा वा हन्युर्मां देवसत्तम ॥ १६१.११ ॥ ऋषयो वा न मां शापैः शपेयुः प्रपितामह । यदि मे भगवान्प्रीतो वर एष वृतो मया ॥ १६१.१२ ॥ न चास्त्रेण न शस्त्रेण गिरिणा पादपेन च । न शुष्केण न चार्द्रेण न दिवा न निशाथ वा ॥ १६१.१३ ॥ भवेयमहमेवार्कः सोमो वायुर्हुताशनः । सलिलं चान्तरिक्षं च नक्षत्राणि दिशो दश ॥ १६१.१४ ॥ अहं क्रोधश्च कामश्च वरुणो वासवो यमः । धनदश्च धनाध्यक्षो यक्षः किंपुरुषाधिपः ॥ १६१.१५ ॥ *ब्रह्मोवाच एते दिव्या वरास्तात मया दत्तास्तवाद्भुताः । सर्वान्कामान्सदा वत्स प्राप्स्यसि त्वं न संशयः ॥ १६१.१६ ॥ एवमुक्त्वा स भगवाञ्जगामाकाश एव हि । वैराजं ब्रह्मसदनं ब्रह्मर्षिगणसेवितम् ॥ १६१.१७ ॥ ततो देवाश्च नागाश्च गन्धर्वा ऋषिभिः सह । वरप्रदानं श्रुत्वैव पितामहमुपस्थिताः ॥ १६१.१८ ॥ वरप्रदानाद्भगवन् वधिष्यति स नोऽसुरः । तत्प्रसीदाशु भगवन् वधोऽप्यस्य विचिन्त्यताम् ॥ १६१.१९ ॥ भगवन्सर्वभूतानामादिकर्ता स्वयं प्रभुः । स्रष्टा त्वं हव्यकव्यानामव्यक्तप्रकृतिर्बुधः ॥ १६१.२० ॥ सर्वलोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः । आश्वासयामास सुरान् सुशीतैर्वचनाम्बुभिः ॥ १६१.२१ ॥ अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम् । तपसोऽन्तेऽस्य भगवान् वधं विष्णुः करिष्यति ॥ १६१.२२ ॥ तच्छ्रुत्वा विबुधा वाक्यं सर्वे पङ्कजजन्मनः । स्वानि स्थानानि दिव्यानि विप्रजग्मुर्मुदान्विताः ॥ १६१.२३ ॥ लब्धमात्रे वरे चाथ सर्वाः सोऽबाधत प्रजाः । हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः ॥ १६१.२४ ॥ आश्रमेषु महाभागान् स मुनीञ्छंसितव्रतान् । सत्यधर्मपरान्दान्तान् धर्षयामास दानवः ॥ १६१.२५ ॥ देवांस्त्रिभुवनस्थांश्च पराजित्य महासुरः । त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः ॥ १६१.२६ ॥ यदा वरमदोत्सिक्तश्चोदितः कालधर्मतः । यज्ञियानकरोद्दैत्यानयज्ञियाश्च देवताः ॥ १६१.२७ ॥ तदादित्याश्च साध्याश्च विश्वे च वसवस्तथा । सेन्द्रा देवगणा यक्षाः सिद्धद्विजमहर्षयः ॥ १६१.२८ ॥ शरण्यं शरणं विष्णुमुपतस्थुर्महाबलम् । देवदेवं यज्ञमयं वासुदेवं सनातनम् ॥ १६१.२९ ॥ *देवा ऊचुः नारायण महाभाग देवास्त्वां शरणं गताः । त्रायस्व जहि दैत्येन्द्रं हिरण्यकशिपुं प्रभो ॥ १६१.३० ॥ त्वं हि नः परमो धाता त्वं हि नः परमो गुरुः । त्वं हि नः परमो देवो ब्रह्मादीनां सुरोत्तम ॥ १६१.३१ ॥ *विष्णुरुवाच भयं त्यजध्वममरा अभयं वो ददाम्यहम् । तथैव त्रिदिवं देवाः प्रतिपद्यत मा चिरम् ॥ १६१.३२ ॥ एषोऽहं सगणं दैत्यं वरदानेन दर्पितम् । अवध्यममरेन्द्राणां दानवेन्द्रं निहन्म्यहम् ॥ १६१.३३ ॥ एवमुक्त्वा तु भगवान् विसृज्य त्रिदशेश्वरान् । वधं संकल्पयामास हिरण्यकशिपोः प्रभुः ॥ १६१.३४ ॥ साहाय्यं च महाबाहुरोंकारं गृह्य सत्वरम् । अथौंकारसहायस्तु भगवान्विष्णुरव्ययः ॥ १६१.३५ ॥ हिरण्यकशिपुस्थानं जगाम हरिरीश्वरः । तेजसा भास्कराकारः शशी कान्त्येव चापरः ॥ १६१.३६ ॥ नरस्य कृत्वार्धतनुं सिंहस्यार्धतनुं तथा । नारसिंहेन वपुषा पाणिं संस्पृश्य पाणिना ॥ १६१.३७ ॥ ततोऽपश्यत विस्तीर्णां दिव्यां रम्यां मनोरमाम् । सर्वकामयुतां शुभ्रां हिरण्यकशिपोः सभाम् ॥ १६१.३८ ॥ विस्तीर्णां योजनशतं शतमध्यर्धमायताम् । वैहायसीं कामगमां पञ्चयोजनविस्तृताम् ॥ १६१.३९ ॥ जराशोकक्लमापेतां निष्प्रकम्पां शिवां सुखाम् । वेश्महर्म्यवतीं रम्यां ज्वलन्तीमिव तेजसा ॥ १६१.४० ॥ अन्तःसलिलसंयुक्तां विहितां विश्वकर्मणा । दिव्यरत्नमयैर्वृक्षैः फलपुष्पप्रदैर्युताम् ॥ १६१.४१ ॥ नीलपीतसितश्यामैः कृष्णैर्लोहितकैरपि । अवतानैस्तथा गुल्मैर्मञ्जरीशतधारिभिः ॥ १६१.४२ ॥ सिताभ्रघनसंकाशा प्लवन्तीव व्यदृश्यत । रश्मिवती भास्वरा च दिव्यगन्धमनोरमा ॥ १६१.४३ ॥ सुसुखा न च दुःखा सा न शीता न च घर्मदा । न क्षुत्पिपासे ग्लानिं वा प्राप्य तां प्राप्नुवन्ति ते ॥ १६१.४४ ॥ नानारूपैरुपकृतां विचित्रैरतिभास्वरैः । स्तम्भैर्न विभृता सा वै शाश्वती चाक्षपा सदा ॥ १६१.४५ ॥ अति चन्द्रं च सूर्यं च शिखिनं च स्वयंप्रभा । दीप्यते नाकपृष्ठस्था भासयन्तीव भास्करम् ॥ १६१.४६ ॥ सर्वे च कामाः प्रचुरा ये दिव्या ये च मानुषाः । रसयुक्तं प्रभूतं च भक्ष्यभोज्यमनन्तकम् ॥ १६१.४७ ॥ पुण्यगन्धस्रजश्चात्र नित्यपुष्पफलद्रुमाः । उष्णे शीतानि तोयानि शीते चोष्णानि सन्ति च ॥ १६१.४८ ॥ पुष्पिताग्रा महाशाखाः प्रवालाङ्कुरधारिणः । लतावितानसंछन्ना नदीषु च सरःसु च ॥ १६१.४९ ॥ वृक्षान्बहुविधांस्तत्र मृगेन्द्रो ददृशे प्रभुः । गन्धवन्ति च पुष्पाणि रसवन्ति फलानि च ॥ १६१.५० ॥ नातिशीतानि नोष्णानि तत्र तत्र सरांसि च । अपश्यत्सर्वतीर्थानि सभायां तस्य स प्रभुः ॥ १६१.५१ ॥ नलिनैः पुण्डरीकैश्च शतपत्त्रैः सुगन्धिभिः । रक्तैः कुवलयैर्नीलैः कुमुदैः संवृतानि च ॥ १६१.५२ ॥ सुकान्तैर्धार्तराष्ट्रैश्च राजहंसैश्च सुप्रियैः । कारण्डवैश्चक्रवाकैः सारसैः कुररैरपि ॥ १६१.५३ ॥ विमलैः स्फाटिकाभैश्च पाण्डुरच्छदनैर्द्विजैः । बहुहंसोपगीतानि सारसाभिरुतानि च ॥ १६१.५४ ॥ गन्धवत्यः शुभास्तत्र पुष्टमञ्जरिधारिणीः । दृष्टवान्पर्वताग्रेषु नानापुष्पधरा लताः ॥ १६१.५५ ॥ केतक्यशोकसरलाः पुंनागतिलकार्जुनाः । चूता नीपाः प्रस्थपुष्पाः कदम्बा बकुला धवाः ॥ १६१.५६ ॥ प्रियङ्गुपाटलावृक्षाः शाल्मल्यः सहरिद्रकाः । सालास्तालास्तमालाश्च चम्पकाश्च मनोरमाः ॥ १६१.५७ ॥ तथैवान्ये व्यराजन्त सभायां पुष्पिता द्रुमाः । विद्रुमाश्च द्रुमाश्चैव ज्वलिताग्निसमप्रभाः ॥ १६१.५८ ॥ स्कन्धवन्तः सुशाखाश्च बहुतालसमुच्छ्रयाः । अञ्जनाशोकवर्णाश्च बहवश्चित्रका द्रुमाः ॥ १६१.५९ ॥ वरुणो वत्सनाभश्च पनसाः सह चन्दनैः । नीपाः सुमनसश्चैव निम्बा अश्वत्थतिन्दुकाः ॥ १६१.६० ॥ पारिजाताश्च लोध्राश्च मल्लिका भद्रदारवः । आमलक्यस्तथा जम्बूलकुचाः शैलवालुकाः ॥ १६१.६१ ॥ खर्जूर्यो नारिकेलाश्च हरीतकविभीतकाः । कालीयका द्रुकालाश्च हिङ्गवः पारियात्रकाः ॥ १६१.६२ ॥ मन्दारकुन्दलक्ताश्च पतङ्गाः कुटजास्तथा । रक्ताः कुरण्टकाश्चैव नीलाश्चागरुभिः सह ॥ १६१.६३ ॥ कदम्बाश्चैव भव्याश्च दाडिमा बीजपूरकाः । सप्तपर्णाश्च बिल्वाश्च मधुपैरावृतास्तथा ॥ १६१.६४ ॥ अशोकाश्च तमालाश्च नानागुल्मलतावृताः । मधूकाः सप्तपर्णाश्च बहवः क्षीरका द्रुमाः ॥ १६१.६५ ॥ लताश्च विविधाकाराः पत्रपुष्पफलोपगाः । एते चान्ये च बहवस्तत्र काननजा द्रुमाः ॥ १६१.६६ ॥ नानापुष्पफलोपेता व्यराजन्त समन्ततः । चकोराः शतपत्राश्च मत्तकोकिलसारिकाः ॥ १६१.६७ ॥ पुष्पिताः पुष्पिताग्रैश्च संपतन्ति महाद्रुमाः । रक्तपीतारुणास्तत्र पादपाग्रगताः खगाः ॥ १६१.६८ ॥ परस्परमवेक्षन्ते प्रहृष्टा जीवजीवकाः । तस्यां सभायां दैत्येन्द्रो हिरण्यकशिपुस्तदा ॥ १६१.६९ ॥ स्त्रीसहस्रैः परिवृतो विचित्राभरणाम्बरः । अनर्घ्यमणिवज्रार्चिः शिखाज्वलितकुण्डलः ॥ १६१.७० ॥ आसीनश्चासने चित्रे दशनल्वप्रमाणतः । दिवाकरनिभे दिव्ये दिव्यास्तरणसंस्तृते ॥ १६१.७१ ॥ दिव्यगन्धवहस्तत्र मारुतः सुसुखो ववौ । हिरण्यकशिपुर्दैत्य आस्ते ज्वलितकुण्डलः ॥ १६१.७२ ॥ उपचेरुर्महादैत्यं हिरण्यकशिपुं तदा । दिव्यतानेन गीतानि जगुर्गन्धर्वसत्तमाः ॥ १६१.७३ ॥ विश्वाची सहजन्या च प्रम्लोचेत्यभिविश्रुता । दिव्याथ सौरभेयी च समीची पुञ्जिकस्थली ॥ १६१.७४ ॥ मिश्रकेशी च रम्भा च चित्रलेखा शुचिस्मिता । चारुकेशी घृताची च मेनका चोर्वशी तथा ॥ १६१.७५ ॥ एताः सहस्रशश्चान्या नृत्यगीतविशारदाः । उपतिष्ठन्ति राजानं हिरण्यकशिपुं प्रभुम् ॥ १६१.७६ ॥ तत्रासीनं महाबाहुं हिरण्यकशिपुं प्रभुम् । उपासते दितेः पुत्राः सर्वे लब्धवरास्तथा ॥ १६१.७७ ॥ तमप्रतिमकर्माणं शतशोऽथ सहस्रशः । बलिर्विरोचनस्तत्र नरकः पृथिवीसुतः ॥ १६१.७८ ॥ प्रह्लादो विप्रचित्तिश्च गविष्ठश्च महासुरः । सुरहन्ता सुनामा च प्रमतिः सुमतिर्वरः ॥ १६१.७९ ॥ घटोदरो महापार्श्वः क्रथनः पिठरस्तथा । विश्वरूपः सुरूपश्च स्वबलश्च महाबलः ॥ १६१.८० ॥ दशग्रीवश्च वाली च मेघवासा महासुरः । घटास्योऽकम्पनश्चैव प्रजनश्चेन्द्रतापनः ॥ १६१.८१ ॥ दैत्यदानवसंघास्ते सर्वे ज्वलितकुण्डलाः । स्रग्विणो वाग्मिनः सर्वे सदैव चरितव्रताः ॥ १६१.८२ ॥ सर्वे लब्धवराः शूराः सर्वे विगतमृत्यवः । एते चान्ये च बहवो हिरण्यकशिपुं प्रभुम् ॥ १६१.८३ ॥ उपासन्ति महात्मानं सर्वे दिव्यपरिच्छदाः । विमानैर्विविधाकारैर्भ्राजमानैरिवाग्निभिः ॥ १६१.८४ ॥ महेन्द्रवपुषः सर्वे विचित्राङ्गदबाहवः । भूषिताङ्गा दितेः पुत्रास्तमुपासन्त सर्वशः ॥ १६१.८५ ॥ तस्यां सभायां दिव्यायामसुराः पर्वतोपमाः । हिरण्यवपुषः सर्वे दिवाकरसमप्रभाः ॥ १६१.८६ ॥ न श्रुतं नैव दृष्टं हि हिरण्यकशिपोर्यथा । ऐश्वर्यं दैत्यसिंहस्य यथा तस्य महात्मनः ॥ १६१.८७ ॥ कनकरजतचित्रवेदिकायां परिहृतरत्नविचित्रवीथिकायाम् । स ददर्श मृगाधिपः सभायां सुरचितरत्नगवाक्षशोभितायाम् ॥ १६१.८८ ॥ कनकविमलहारभूषिताङ्गं दितितनयं स मृगाधिपो ददर्श । दिवसकरमहाप्रभाज्वलन्तं दितिजसहस्रशतैर्निषेव्यमाणम् ॥ १६१.८९ ॥ ______________________________________________________ मत्स्यपुराण १६२ *सूत उवाच ततो दृष्ट्वा महात्मानं कालचक्रमिवागतम् । नरसिंहवपुश्छन्नं भस्मच्छन्नमिवानलम् ॥ १६२.१ ॥ हिरण्यकशिपोः पुत्रः प्रह्लादो नाम वीर्यवान् । दिव्येन चक्षुषा सिंहमपश्यद्देवमागतम् ॥ १६२.२ ॥ ते दृष्ट्वा रुक्मशैलाभमपूर्वां तनुमाश्रितम् । विस्मिता दानवाः सर्वे हिरण्यकशिपुश्च सः ॥ १६२.३ ॥ *प्रह्लाद उवाच महाबाहो महाराज दैत्यानामादिसंभव । न श्रुतं न च नो दृष्टं नारसिंहमिदं वपुः ॥ १६२.४ ॥ अव्यक्तप्रभवं दिव्यं किमिदं रूपमागतम् । दैत्यान्तकरणं घोरं संशतीव मनो मम ॥ १६२.५ ॥ अस्य देवाः शरीरस्थाः सागराः सरितश्च याः । हिमवान्पारियात्रश्च ये चान्ये कुलपर्वताः ॥ १६२.६ ॥ चन्द्रमाश्च सनक्षत्रैरादित्यैर्वसुभिः सह । धनदो वरुणश्चैव यमः शक्रः शचीपतिः ॥ १६२.७ ॥ मरुतो देवगन्धर्वा ऋषयश्च तपोधनाः । नागा यक्षाः पिशाचाश्च राक्षसा भीमविक्रमाः ॥ १६२.८ ॥ ब्रह्मा देवः पशुपतिर्ललाटस्था भ्रमन्ति वै । स्थावराणि च सर्वाणि जङ्गमानि तथैव च ॥ १६२.९ ॥ भवांश्च सहितोऽस्माभिः सर्वैर्दैत्यगणैर्वृतः । विमानशतसंकीर्णा तथैव भवतः सभा ॥ १६२.१० ॥ सर्वं त्रिभुवनं राजंल्लोकधर्माश्च शाश्वताः । दृश्यन्ते नारसिंहेऽस्मिंस्तथेदमखिलं जगत् ॥ १६२.११ ॥ प्रजापतिश्चात्र मनुर्महात्मा ग्रहाश्च योगाश्च महीरुहाश्च । उत्पातकालश्च धृतिर्मतिश्च रतिश्च सत्यं च तपो दमश्च ॥ १६२.१२ ॥ सनत्कुमारश्च महानुभावो विश्वे च देवा ऋषयश्च सर्वे । क्रोधश्च कामश्च तथैव हर्षो धर्मश्च मोहः पितरश्च सर्वे ॥ १६२.१३ ॥ प्रह्लादस्य वचः श्रुत्वा हिरण्यकशिपुः प्रभुः । उवाच दानवान्सर्वान् गणांश्च स गणाधिपः ॥ १६२.१४ ॥ मृगेन्द्रो गृह्यतामेष अपूर्वां तनुमास्थितः । यदि वा संशयः कश्चिद्वध्यतां वनगोचरः ॥ १६२.१५ ॥ ते दानवगणा सर्वे मृगेन्द्रं भीमविक्रमम् । परिक्षिपन्तो मुदितास्त्रासयामासुरोजसा ॥ १६२.१६ ॥ सिंहनादं विमुच्याथ नरसिंहो महाबलः । बभञ्ज तां सभां दिव्यां व्यादितास्य इवान्तकः ॥ १६२.१७ ॥ सभायां भज्यमानायां हिरण्यकशिपुः स्वयम् । चिक्षेपास्त्राणि सिंहस्य रोषाद्व्याकुललोचनः ॥ १६२.१८ ॥ सर्वास्त्राणामथ ज्येष्ठं दण्डमन्त्रं सुदारुणम् । कालचक्रं तथाघोरं विष्णुचक्रं तथा परम् ॥ १६२.१९ ॥ पैतामहं तथात्युग्रं त्रैलोक्यदहनं महत् । विचित्रामशनीं चैव शुष्कार्द्रं चाशनिद्वयम् ॥ १६२.२० ॥ रौद्रं तथोग्रं शूलं च कङ्कालं मुसलं तथा । मोहनं शोषणं चैव संतापनविलापनम् ॥ १६२.२१ ॥ वायव्यं मथनं चैव कापालमथ कैङ्करम् । तथाप्रतिहतां शक्तिं क्रौञ्चमस्त्रं तथैव च ॥ १६२.२२ ॥ अस्त्रं ब्रह्मशिरश्चैव सोमास्त्रं शिशिरं तथा । कम्पनं शातनं चैव त्वाष्ट्रं चैव सुभैरवम् ॥ १६२.२३ ॥ कालमुद्गरमक्षोभ्यं तपनं च महाबलम् । संवर्तनं मोहनं च तथा मायाधरं परम् ॥ १६२.२४ ॥ गान्धर्वमस्त्रं दयितमसिरत्नं च नन्दकम् । प्रस्वापनं प्रमथनं वारुणं चास्त्रमुत्तमम् । अस्त्रं पाशुपतं चैव यस्याप्रतिहता गतिः ॥ १६२.२५ ॥ अस्त्रं हयशिरश्चैव ब्राह्ममस्त्रं तथैव च । नारायणास्त्रमैन्द्रं च सार्पमस्त्रं तथाद्भुतम् ॥ १६२.२६ ॥ पैशाचमस्त्रमजितं शोषदं शामनं तथा । महाबलं भावनं च प्रस्थापनविकम्पने ॥ १६२.२७ ॥ एतान्यस्त्राणि दिव्यानि हिरण्यकशिपुस्तदा । असृजन्नरसिंहस्य दीप्तस्याग्नेरिवाहुतिम् ॥ १६२.२८ ॥ अस्त्रैः प्रज्वलितैः सिंहमावृणोदसुरोत्तमः । विवस्वान् घर्मसमये हिमवन्तमिवांशुभिः ॥ १६२.२९ ॥ स ह्यमर्षानिलोद्भूतो दैत्यानां सैन्यसागरः । क्षणेन प्लावयामास मैनाकमिव सागरः ॥ १६२.३० ॥ प्रासैः पाशैश्च खड्गैश्च गदाभिर्मुसलैस्तथा । वज्रैरशनिभिश्चैव साग्निभिश्च महाद्रुमैः ॥ १६२.३१ ॥ मुद्गरैर्भिन्दिपालैश्च शिलोलूखलपर्वतैः । शतघ्नीभिश्च दीप्ताभिर्दण्डैरपि सुदारुणैः ॥ १६२.३२ ॥ ते दानवाः पाशगृहीतहस्ता महेन्द्रतुल्याशनिवज्रवेगाः । समन्ततोऽभ्युद्यतबाहुकायाः स्थितास्त्रिशीर्षा इव नागपाशाः ॥ १६२.३३ ॥ सुवर्णमालाकुलभूषिताङ्गाः पीतांशुकाभोगविभाविताङ्गाः । मुक्तावलीदामसनाथकक्षा हंसा इवाभान्ति विशालपक्षाः ॥ १६२.३४ ॥ तेषां तु वायुप्रतिमौजसां वै केयूरमौलीवलयोत्कटानाम् । तान्युत्तमाङ्गान्यभितो विभान्ति प्रभातसूर्यांशुसमप्रभाणि ॥ १६२.३५ ॥ क्षिपद्भिरुग्रैर्ज्वलितैर्महाबलैर्महास्त्रपूगैः सुसमावृतो बभौ ।* गिरिर्यथा संततवर्षिभिर्घनैः कृतान्धकारान्तरकंदरो द्रुमैः ॥ १६२.३६ ॥* तैर्हन्यमानोऽपि महास्त्रजालैर्महाबलैर्दैत्यगणैः समेतैः ।* नाकम्पताजौ भगवान्प्रतापस्थितः प्रकृत्या हिमवानिवाचलः ॥ १६२.३७ ॥* संत्रासितास्तेन नृसिंहरूपिणा दितेः सुताः पावकतुल्यतेजसा ।* भयाद्विचेलुः पवनोद्धुताङ्गा यथोर्मयः सागरवारिसंभवाः ॥ १६२.३८ ॥* ______________________________________________________ मत्स्यपुराण १६३ *सूत उवाच खराः खरमुखाश्चैव मकराशीविषाननाः । ईहामृगमुखाश्चान्ये वराहमुखसंस्थिताः ॥ १६३.१ ॥ बालसूर्यमुखाश्चान्ये धूमकेतुमुखास्तथा । अर्धचन्द्रार्धवक्त्राश्च अग्निदीप्तमुखास्तथा ॥ १६३.२ ॥ हंसकुक्कुटवक्त्राश्च व्यादितास्या भयावहाः । सिंहास्या लेलिहानाश्च काकगृध्रमुखास्तथा ॥ १६३.३ ॥ द्विजिह्वका वक्रशीर्षास्तथोल्कामुखसंस्थिताः । महाग्राहमुखाश्चान्ये दानवा बलदर्पिताः ॥ १६३.४ ॥ शैलसंवर्ष्मणस्तस्य शरीरे शरवृष्टिभिः । अवध्यस्य मृगेन्द्रस्य न व्यथां चक्रुराहवे ॥ १६३.५ ॥ एवं भूयोऽपरान्घोरानसृजन्दानवेश्वराः । मृगेन्द्रस्योपरि क्रुद्धा निःश्वसन्त इवोरगाः ॥ १६३.६ ॥ ते दानवशरा घोरा दानवेन्द्रसमीरिताः । विलयं जग्मुराकाशे खद्योता इव पर्वते ॥ १६३.७ ॥ ततश्चक्राणि दिव्यानि दैत्याः क्रोधसमन्विताः । मृगेन्द्रायासृजन्नाशु ज्वलितानि समन्ततः ॥ १६३.८ ॥ तैरासीद्गगनं चक्रैः संपतद्भिरितस्ततः । युगान्ते संप्रकाशद्भिश्चन्द्रादित्यग्रहैरिव ॥ १६३.९ ॥ तानि सर्वाणि चक्राणि मृगेन्द्रेण महात्मना । ग्रस्तान्युदीर्णानि तदा पावकार्चिःसमानि वै ॥ १६३.१० ॥ तानि चक्राणि वदने विशमानानि भान्ति वै । मेघोदरदरीष्वेव चन्द्रसूर्यग्रहा इव ॥ १६३.११ ॥ हिरण्यकशिपुर्दैत्यो भूयः प्रासृजदूर्जिताम् । शक्तिं प्रज्वलितां घोरां धौतशस्त्रतडित्प्रभाम् ॥ १६३.१२ ॥ तामापतन्तीं सम्प्रेक्ष्य मृगेन्द्रः शक्तिमुज्ज्वलाम् । हुंकारेणैव रौद्रेण बभञ्ज भगवांस्तदा ॥ १६३.१३ ॥ रराज भग्ना सा शक्तिर्मृगेन्द्रेण महीतले । सविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता ॥ १६३.१४ ॥ नाराचपङ्क्तिः सिंहस्य प्राप्ता रेजेऽविदूरतः । नीलोत्पलपलाशानां मालेवोज्ज्वलदर्शना ॥ १६३.१५ ॥ स गर्जित्वा यथान्यायं विक्रम्य च यथासुखम् । तत्सैन्यमुत्सारितवांस्तृणाग्राणीव मारुतः ॥ १६३.१६ ॥ ततोऽश्मवर्षं दैत्येन्द्रा व्यमृजन्त नभोगताः । नगमात्रैः शिलाखण्डैर्गिरिशृङ्गैर्महाप्रभैः ॥ १६३.१७ ॥ तदश्मवर्षं सिंहस्य महन्मूर्धनि पातितम् । दिशो दश विकीर्णा वै खद्योतप्रकरा इव ॥ १६३.१८ ॥ तदाश्मौघैर्दैत्यगणाः पुनः सिंहमरिंदमम् । छादयांचक्रिरे मेघा धाराभिरिव पर्वतम् ॥ १६३.१९ ॥ न च तं चालयामासुर्दैत्यौघा देवसत्तमम् । भीमवेगोऽचलश्रेष्ठं समुद्र इव मन्दरम् ॥ १६३.२० ॥ ततोऽश्मवर्षे विहते जलवर्षमनन्तरम् । धाराभिरक्षमात्राभिः प्रादुरासीत्समन्ततः ॥ १६३.२१ ॥ नभसः प्रच्युता धारास्तिग्मवेगाः समन्ततः । आवृत्य सर्वतो व्योम दिशश्चोपदिशस्तथा ॥ १६३.२२ ॥ धारा दिवि च सर्वत्र वसुधायां च सर्वशः । न स्पृशन्ति च ता देवं निपतन्त्योऽनिशं भुवि ॥ १६३.२३ ॥ बाह्यतो ववृषुर्वर्षं नोपरिष्टाच्च ववृषुः । मृगेन्द्रप्रतिरूपस्य स्थितस्य युधि मायया ॥ १६३.२४ ॥ हतेऽश्मवर्षे तुमुले जलवर्षे च शोषिते । सोऽसृजद्दानवो मायामग्निवायुसमीरिताम् ॥ १६३.२५ ॥ महेन्द्रस्तोयदैः सार्धं सहस्राक्षो महाद्युतिः । महता तोयवर्षेण शमयामास पावकम् ॥ १६३.२६ ॥ तस्यां प्रतिहतायां तु मायायां युधि दानवः । असृजद्घोरसंकाशं तमस्तीव्रं समन्ततः ॥ १६३.२७ ॥ तमसा संवृते लोके दैत्येष्वात्तायुधेषु च । स्वतेजसा परिवृतो दिवाकर इवाबभौ ॥ १६३.२८ ॥ त्रिशिखां भ्रुकुटीं चास्य ददृशुर्दानवा रणे । ललाटस्थां त्रिशूलाङ्कां गङ्गां त्रिपथगामिव ॥ १६३.२९ ॥ ततः सर्वासु मायासु हतासु दितिनन्दनाः । हिरण्यकशिपुं दैत्यं विवर्णाः शरणं ययुः ॥ १६३.३० ॥ ततः प्रज्वलितः क्रोधात्प्रदहन्निव तेजसा । तस्मिन्क्रुद्धे तु दैत्येन्द्रे तमोभूतमभूज्जगत् ॥ १६३.३१ ॥ आवहः प्रवहश्चैव विवहोऽथ ह्युदावहः । परावहः संवहश्च महाबलपराक्रमाः ॥ १६३.३२ ॥ तथा परिवहः श्रीमानुत्पातभयशंसिनः । इत्येवं क्षुभिताः सप्त मरुतो गगनेचराः ॥ १६३.३३ ॥ ये ग्रहाः सर्वलोकस्य क्षये प्रादुर्भवन्ति वै । ते सर्वे गगने दृष्टा व्यचरन्त यथासुखम् ॥ १६३.३४ ॥ अयोगतश्चाप्यचरन्मार्गं निशि निशाचरः । सग्रहः सह नक्षत्रैराकापतिररिंदमः ॥ १६३.३५ ॥ विवर्णतां च भगवान् गतो दिवि दिवाकरः । कृष्णं कबन्धं च तथा लक्ष्यते सुमहद्दिवि ॥ १६३.३६ ॥ अमुञ्चच्चार्चिषां वृन्दं भूमिवृत्तिर्विभावसुः । गगनस्थश्च भगवानभीक्ष्णं परिदृश्यते ॥ १६३.३७ ॥ सप्त धूम्रनिभा घोराः सूर्या दिवि समुत्थिताः । सोमस्य गगनस्थस्य ग्रहास्तिष्ठन्ति शृङ्गगाः ॥ १६३.३८ ॥ वामे तु दक्षिणे चैव स्थितौ शुक्रबृहस्पती । शनैश्चरो लोहिताङ्गो ज्वलनाङ्गसमद्युतिः ॥ १६३.३९ ॥ समं समधिरोहन्तः सर्वे ते गगनेचराः । शृङ्गाणि शनकैर्घोरा युगान्तावर्तिनो ग्रहाः ॥ १६३.४० ॥ चन्द्रमाश्च सनक्षत्रैर्ग्रहैः सह तमोनुदः । चराचरविनाशाय रोहिणीं नाभ्यनन्दत ॥ १६३.४१ ॥ गृहीतो राहुणा चन्द्र उल्काभिरभिहन्यते । उल्काः प्रज्वलिताश्चन्द्रे विचरन्ति यथासुखम् ॥ १६३.४२ ॥ देवानामपि यो देवः सोऽप्यवर्षत शोणितम् । अपतन्गगनादुल्का विद्युद्रूपा महास्वनाः ॥ १६३.४३ ॥ अकाले च द्रुमाः सर्वे पुष्पन्ति च फलन्ति च । लताश्च सफलाः सर्वा ये चाहुर्दैत्यनाशनम् ॥ १६३.४४ ॥ फलैः फलान्यजायन्त पुष्पैः पुष्पं तथैव च । उन्मीलन्ति निमीलन्ति हसन्ति च रुदन्ति च ॥ १६३.४५ ॥ विक्रोशन्ति च गम्भीरा धूमयन्ति ज्वलन्ति च । प्रतिमाः सर्वदेवानां वेदयन्ति महद्भयम् ॥ १६३.४६ ॥ आरण्यैः सह संसृष्टा ग्राम्याश्च मृगपक्षिणः । चक्रुः सुभैरवं तत्र महायुद्धमुपस्थितम् ॥ १६३.४७ ॥ नद्यश्च प्रतिकूलानि वहन्ति कलुषोदकाः । न प्रकाशन्ति च दिशो रक्तरेणुसमाकुलाः ॥ १६३.४८ ॥ वानस्पत्यो न पूज्यन्ते पूजनार्हाः कथंचन । वायुवेगेन हन्यन्ते भज्यन्ते प्रणमन्ति च ॥ १६३.४९ ॥ यदा च सर्वभूतानां छाया न परिवर्तते । अपराह्णगते सूर्ये लोकानां युगसंक्षये ॥ १६३.५० ॥ तदा हिरण्यकशिपोर्दैत्यस्योपरि वेश्मनः । भाण्डागारायुधागारे निविष्टमभवन्मधु ॥ १६३.५१ ॥ असुराणां विनाशाय सुराणां विजयाय च । दृश्यन्ते विविधोत्पाता घोरा घोरनिदर्शनाः ॥ १६३.५२ ॥ एते चान्ये च बहवो घोरोत्पाताः समुत्थिताः । दैत्येन्द्रस्य विनाशाय दृश्यन्ते कालनिर्मिताः ॥ १६३.५३ ॥ मेदिन्यां कम्पमानायां दैत्येन्द्रेण महात्मना । महीधरा नागगणा निपेतुरमितौजसः ॥ १६३.५४ ॥ विषज्वालाकुलैर्वक्त्रैर्विमुञ्चन्तो हुताशनम् । चतुःशीर्षाः पञ्चशीर्षाः सप्तशीर्षाश्च पन्नगाः ॥ १६३.५५ ॥ वासुकिस्तक्षकश्चैव कर्कोटकधनंजयौ । एलामुखः कालियश्च महापद्मश्च वीर्यवान् ॥ १६३.५६ ॥ सहस्रशीर्षा नागो वै हेमतालध्वजः प्रभुः । शेषोऽनन्तो महाभागो दुष्प्रकम्प्यः प्रकम्पितः ॥ १६३.५७ ॥ दीप्तान्यन्तर्जलस्थानि पृथिवीधरणानि च । तदा क्रुद्धेन महता कम्पितानि समन्ततः ॥ १६३.५८ ॥ नागास्तेजोधराश्चापि पातालतलचारिणः । हिरण्यकशिपुर्दैत्यस्तदा संस्पृष्टवान्महीम् ॥ १६३.५९ ॥ संदष्टौष्ठपुटः क्रोधाद्वाराह इव पूर्वजः । नदी भागीरथी चैव सरयूः कौशिकी तथा ॥ १६३.६० ॥ यमुना त्वथ कावेरी कृष्णवेणा च निम्नगा । सुवेणा च महाभागा नदी गोदावरी तथा ॥ १६३.६१ ॥ चर्मण्वती च सिन्धुश्च तथा नदनदीपतिः । कमलप्रभवश्चैव शोणो मणिनिभोदकः ॥ १६३.६२ ॥ नर्मदा शुभतोया च तथा वेत्रवती नदी । गोमती गोकुलाकीर्णा तथा पूर्वसरस्वती ॥ १६३.६३ ॥ मही कालमही चैव तमसा पुष्पवाहिनी । जम्बूद्वीपं रत्नवटं सर्वरत्नोपशोभितम् ॥ १६३.६४ ॥ सुवर्णप्रकटं चैव सुवर्णाकरमण्डितम् । महानदं च लौहित्यं शैलकाननशोभितम् ॥ १६३.६५ ॥ पत्तनं कोशकरणमृषिवीरजनाकरम् । मागधाश्च महाग्रामा मुण्डाः शुङ्गास्तथैव च ॥ १६३.६६ ॥ सुह्मा मल्ला विदेहाश्च मालवाः काशिकोसलाः । भवनं वैनतेयस्य दैत्येन्द्रेणाभिकम्पितम् ॥ १६३.६७ ॥ कैलासशिखराकारं यत्कृतं विश्वकर्मणा । रक्ततोयो महाभीमो लौहित्यो नाम सागरः ॥ १६३.६८ ॥ उदयश्च महाशैल उच्छ्रितः शतयोजनम् । सुवर्णवेदिकः श्रीमान्मेघपङ्क्तिनिषेवितः ॥ १६३.६९ ॥ भ्राजमानोऽर्कसदृशैर्जातरूपमयैर्द्रुमैः । शालैस्तालैस्तमालैश्च कर्णिकारैश्च पुष्पितैः ॥ १६३.७० ॥ अयोमुखश्च विख्यातः पर्वतो धातुमण्डितः । तमालवनगन्धश्च पर्वतो मलयः शुभः ॥ १६३.७१ ॥ सुराष्ट्राश्च सबाह्लीकाः शूराभीरास्तथैव च । भोजाः पाण्ड्याश्च वङ्गाश्च कलिङ्गास्ताम्रलिप्तकाः ॥ १६३.७२ ॥ तथैवौण्ड्राश्च पौण्ड्राश्च वामचूडाः सकेरलाः । क्षोभितास्तेन दैत्येन सदेवाश्चाप्सरोगणाः ॥ १६३.७३ ॥ अगस्त्यभवनं चैव यदगम्यं कृतं पुरा । सिद्धचारणसंघश्च विप्रकीर्णं मनोहरम् ॥ १६३.७४ ॥ विचित्रनानाविहगं सुपुष्पितमहाद्रुमम् । जातरूपमयैः शृङ्गैरप्सरोगणनादितम् ॥ १६३.७५ ॥ गिरिपुष्पितकश्चैव लक्ष्मीवान्प्रियदर्शनः । उत्थितः सागरं भित्त्वा विश्रामश्चन्द्रसूर्ययोः । रराज सुमहाशृङ्गैर्गगनं विलिखन्निव ॥ १६३.७६ ॥ चन्द्रसूर्यांशुसंकाशैः सागराम्बुसमावृतैः । विद्युत्वान्सर्वतः श्रीमानायतः शतयोजनम् ॥ १६३.७७ ॥ विद्युतां यत्र संपाता निपात्यन्ते नगोत्तमे । ऋषभः पर्वतश्चैव श्रीमान्वृषभसंज्ञितः ॥ १६३.७८ ॥ कुञ्जरः पर्वतः श्रीमान् यत्रागस्त्यगृहं शुभम् । विशालाक्षश्च दुर्धर्षः सर्पाणामालयः पुरी ॥ १६३.७९ ॥ तथा भोगवती चापि दैत्येन्द्रेणाभिकम्पिता । महासेनो गिरिश्चैव पारियात्रश्च पर्वतः ॥ १६३.८० ॥ चक्रवांश्च गिरिश्रेष्ठो वाराहश्चैव पर्वतः । प्राग्ज्यौतिषपुरं चापि जातरूपमयं शुभम् ॥ १६३.८१ ॥ यस्मिन्वसति दुष्टात्मा नरको नाम दानवः । मेघश्च पर्वतश्रेष्ठो मेघगम्भीरनिःस्वनः ॥ १६३.८२ ॥ षष्टिस्तत्र सहस्राणि पर्वतानां द्विजोत्तमाः । तरुणादित्यसंकाशो मेरुस्तत्र महागिरिः ॥ १६३.८३ ॥ यक्षराक्षसगन्धर्वैर्नित्यं सेवितकंदरः । हेमगर्भो महाशैलस्तथा हेमसखो गिरिः ॥ १६३.८४ ॥ कैलासश्चैव शैलेन्द्रो दानवेन्द्रेण कम्पितः । हेमपुष्करसंछन्नं तेन वैखानसं सरः ॥ १६३.८५ ॥ कम्पितं मानसं चैव हंसकारण्डवाकुलम् । त्रिशृङ्गपर्वतश्चैव कुमारी च सरिद्वरा ॥ १६३.८६ ॥ तुषारचयसंछन्नो मन्दरश्चापि पर्वतः । उशीरबिन्दुश्च गिरिश्चन्द्रप्रस्थस्तथाद्रिराट् ॥ १६३.८७ ॥ प्रजापतिगिरिश्चैव तथा पुष्करपर्वतः । देवाभ्रपर्वतश्चैव तथा वै रेणुको गिरिः ॥ १६३.८८ ॥ क्रौञ्चः सप्तर्षिशैलश्च धूम्रवर्णश्च पर्वतः । एते चान्ये च गिरयो देशा जनपदास्तथा ॥ १६३.८९ ॥ नद्यः ससागराः सर्वाः सोऽकम्पयत दानवः । कपिलश्च महीपुत्रो व्याघ्रवांश्चैव कम्पितः ॥ १६३.९० ॥ खेचराश्च सतीपुत्राः पातालतलवासिनः । गणस्तथा परो रौद्रो मेघनामाङ्कुशायुधः ॥ १६३.९१ ॥ ऊर्ध्वगो भीमवेगश्च सर्व एवाभिकम्पिताः । गदी शूली करालश्च हिरण्यकशिपुस्तदा ॥ १६३.९२ ॥ जीमूतघनसंकाशो जीमूतघननिःस्वनः । जीमूतघननिर्घोषो जीमूत इव वेगवान् ॥ १६३.९३ ॥ देवारिर्दितिजो वीरो नृसिंहं समुपाद्रवत् । समुत्पत्य ततस्तीक्ष्णैर्मृगेन्द्रेण महानखैः । तदोंकारसहायेन विदार्य निहतो युधि ॥ १६३.९४ ॥ मही च कालश्च शशी नभश्च ग्रहाश्च सूर्यश्च दिशश्च सर्वाः । नद्यश्च शैलाश्च महार्णवाश्च गताः प्रसादं दितिपुत्रनाशात् ॥ १६३.९५ ॥ ततः प्रमुदिता देवा ऋषयश्च तपोधनाः । तुष्टुवुर्नामभिर्दिव्यैरादिदेवं सनातनम् ॥ १६३.९६ ॥ यत्त्वया विहितं देव नारसिंहमिदं वपुः । एतदेवार्चयिष्यन्ति परावरविदो जनाः ॥ १६३.९७ ॥ *देवा ऊचुः भवान्ब्रह्मा च रुद्रश्च महेन्द्रो देवसत्तमः । भवान्कर्ता विकर्ता च लोकानां प्रभवोऽव्ययः ॥ १६३.९८ ॥ परां च सिद्धिं च परं च देवं परं च मन्त्रं परमं हविश्च । परं च धर्मं परमं च विश्वं त्वामाहुरग्र्यं पुरुषं पुराणम् ॥ १६३.९९ ॥ परं शरीरं परमं च ब्रह्म परं च योगं परमां च वाणीम् । परं रहस्यं परमां गतिं च त्वामाहुरग्र्यं पुरुषं पुराणम् ॥ १६३.१०० ॥ एवं परस्यापि परं पदं यत्परं परस्यापि परं च देवम् । परं परस्यापि परं च भूतं त्वामाहुरग्र्यं पुरुषं पुराणम् ॥ १६३.१०१ ॥ परं परस्यापि परं रहस्यं परं परस्यापि परं महत्त्वम् । परं परस्यापि परं महद्यत्त्वामाहुरग्र्यं पुरुषं पुराणम् ॥ १६३.१०२ ॥ परं परस्यापि परं निधानं परं परस्यापि परं पवित्रम् । परं परस्यापि परं च दान्तं त्वामाहुरग्र्यं पुरुषं पुराणम् ॥ १६३.१०३ ॥ एवमुक्त्वा तु भगवान् सर्वलोकपितामहः । स्तुत्वा नारायणं देवं ब्रह्मलोकं गतः प्रभुः ॥ १६३.१०४ ॥ ततो नदत्सु तूर्येषु नृत्यन्तीष्वप्सरःसु च । क्षीरोदस्योत्तरं कूलं जगाम हरिरीश्वरः ॥ १६३.१०५ ॥ नारसिंहं वपुर्देवः स्थापयित्वा सुदीप्तिमत् । पौराणं रूपमास्थाय प्रययौ गरुडध्वजः ॥ १६३.१०६ ॥ अष्टचक्रेण यानेन भूतयुतेन भास्वता । अव्यक्तप्रकृतिर्देवः स्वस्थानं गतवान्प्रभुः ॥ १६३.१०७ ॥ ______________________________________________________ मत्स्यपुराण १६४ *ऋषय ऊचुः कथितं नरसिंहस्य माहात्म्यं विस्तरेण च । पुनस्तस्यैव माहात्म्यमन्यद्विस्तरतो वद ॥ १६४.१ ॥ पद्मरूपमभूदेतत्कथं हेममयं जगत् । कथं च वैष्णवी सृष्टिः पद्ममध्येऽभवत्पुरा ॥ १६४.२ ॥ *सूत उवाच श्रुत्वा च नरसिंहस्य माहात्म्यं रविनन्दनः । विस्मयोत्फुल्लनयनः पुनः पप्रच्छ केशवम् ॥ १६४.३ ॥ *मनुरुवाच कथं पाद्मे महाकल्पे तव पद्ममयं जगत् । जलार्णवगतस्येह नाभौ जातं जनार्दन ॥ १६४.४ ॥ प्रभावात्पद्मनाभस्य स्वपतः सागराम्भसि । पुष्करे च कथं भूता देवाः सर्षिगणाः पुरा ॥ १६४.५ ॥ एतदाख्याहि निखिलं योगं योगविदां पते । शृण्वतस्तस्य मे कीर्तिं न तृप्तिरुपजायते ॥ १६४.६ ॥ कियता चैव कालेन शेते वै पुरुषोत्तमः । कियन्तं वा स्वपिति च कोऽस्य कालस्य संभवः ॥ १६४.७ ॥ कियता वाथ कालेन ह्युत्तिष्ठति महायशाः । कथं चोत्थाय भगवान् सृजते निखिलं जगत् ॥ १६४.८ ॥ के प्रजापतयस्तावदासन्पूर्वं महामुने । कथं निर्मितवांश्चैव चित्रं लोकं सनातनम् ॥ १६४.९ ॥ कथमेकार्णवे शून्ये नष्टस्थावरजङ्गमे । दग्धे देवासुरनरे प्रनष्टोरगराक्षसे ॥ १६४.१० ॥ नष्टानिलानले लोके नष्टाकाशमहीतले । केवलं गह्वरीभूते महाभूतविपर्यये ॥ १६४.११ ॥ विभुर्महाभूतपतिर्महातेजा महाकृतिः । आस्ते सुरवरश्रेष्ठो विधिमास्थाय योगवित् ॥ १६४.१२ ॥ शृणुयां परया भक्त्या ब्रह्मन्नेतदशेषतः । वक्तुमर्हसि धर्मिष्ठ यशो नारायणात्मकम् ॥ १६४.१३ ॥ श्रद्धया चोपविष्टानां भगवन्वक्तुमर्हसि ॥ १६४.१४ ॥ *मत्स्य उवाच नारायणस्य यशसः श्रवणे या तव स्पृहा । तद्वंश्यान्वयभूतस्य न्याय्यं रविकुलर्षभ ॥ १६४.१५ ॥ शृणुष्वादिपुराणेषु वेदेभ्यश्च यथा श्रुतम् । ब्राह्मणानां च वदतां श्रुत्वा वै सुमहात्मनाम् ॥ १६४.१६ ॥ यथा च तपसा दृष्ट्वा बृहस्पतिसमद्युतिः । पराशरसुतः श्रीमान् गुरुर्द्वैपायनोऽब्रवीत् ॥ १६४.१७ ॥ तत्तेऽहं कथयिष्यामि यथाशक्ति यथाश्रुति । यद्विज्ञातुं मया शक्यमृषिमात्रेण सत्तमाः ॥ १६४.१८ ॥ कः समुत्सहते ज्ञातुं परं नारायणात्मकम् । विश्वायनश्च यद्ब्रह्मा न वेदयति तत्त्वतः ॥ १६४.१९ ॥ तत्कर्म विश्ववेदानां तद्रहस्यं महर्षीणाम् । तमीशं सर्वयज्ञानां तत्तत्त्वं सर्वदर्शिनाम् । तदध्यात्मविदां चिन्त्यं नरकं च विकर्मिणाम् ॥ १६४.२० ॥ अधिदैवं च यद्दैवमधियज्ञं सुसंज्ञितम् । तद्भूतमधिभूतं च तत्परं परमर्षीणाम् ॥ १६४.२१ ॥ स यज्ञो वेदनिर्दिष्टस्तत्तपः कवयो विदुः । यः कर्ता कारको बुद्धिर्मनः क्षेत्रज्ञ एव च ॥ १६४.२२ ॥ प्रणवः पुरुषः शास्ता एकश्चेति विभाव्यते । प्राणः पञ्चविधश्चैव ध्रुव अक्षर एव च ॥ १६४.२३ ॥ कालः पाकश्च पक्ता च द्रष्टा स्वाध्याय एव च । उच्यते विविधैर्देवैः स एवायं न तत्परम् ॥ १६४.२४ ॥ स एव भगवान्सर्वं करोति विकरोति च । सोऽस्मान्कारयते सर्वान् सोऽत्येति व्याकुलीकृतान् ॥ १६४.२५ ॥ यजामहे तमेवाद्यं तमेवेच्छाम निर्वृताः । यो वक्ता यच्च वक्तव्यं यच्चाहं तद्ब्रवीमि वः ॥ १६४.२६ ॥ श्रूयते यच्च वै श्राव्यं यच्चान्यत्परिजल्प्यते । याः कथाश्चैव वर्तन्ते श्रुतयो वाथ तत्पराः । विश्वं विश्वपतिर्यश्च स तु नारायणः स्मृतः ॥ १६४.२७ ॥ यत्सत्यं यदमृतमक्षरं परं यद्यद्भूतं परममिदं च यद्भविष्यत् । यत्किंचिच्चरमचरं यदस्ति चान्यत्तत्सर्वं पुरुषवरः प्रभुः पुराणः ॥ १६४.२८ ॥ ______________________________________________________ मत्स्यपुराण १६५ *मत्स्य उवाच चत्वार्याहुः सहस्राणि वर्षाणां तु कृतं युगम् । तस्य तावच्छती संध्या द्विगुणा रविनन्दन ॥ १६५.१ ॥ यत्र धर्मश्चतुष्पादस्त्वधर्मः पादविग्रहः । स्वधर्मनिरताः सन्तो जायन्ते यत्र मानवाः ॥ १६५.२ ॥ विप्राः स्थिता धर्मपरा राजवृत्तौ स्थिता नृपाः । कृष्यामभिरता वैश्याः शूद्राः शुश्रूषवः स्थिताः ॥ १६५.३ ॥ तदा सत्यं च शौचं च धर्मश्चैव विवर्धते । सद्भिराचरितं कर्म क्रियते ख्यायते च वै ॥ १६५.४ ॥ एतत्कार्तयुगं वृत्तं सर्वेषामपि पार्थिव । प्राणिनां धर्मसङ्गानामपि वै नीचजन्मनाम् ॥ १६५.५ ॥ त्रीणि वर्षसहस्राणि त्रेतायुगमिहोच्यते । तस्य तावच्छती संध्या द्विगुणा परिकीर्त्यते ॥ १६५.६ ॥ द्वाभ्यामधर्मः पादाभ्यां त्रिभिर्धर्मो व्यवस्थितः । यत्र सत्यं च सत्त्वं च त्रेताधर्मो विधीयते ॥ १६५.७ ॥ त्रेतायां विकृतिं यान्ति वर्णास्त्वेते न संशयः । चातुर्वर्ण्यस्य वैकृत्याद्यान्ति दौर्बल्यमाश्रमाः ॥ १६५.८ ॥ एषा त्रेतायुगगतिर्विचित्रा देवनिर्मिता । द्वापरस्य तु या चेष्टा तामपि श्रोतुमर्हसि ॥ १६५.९ ॥ द्वापरं द्वे सहस्रे तु वर्षाणां रविनन्दन । तस्य तावच्छती संध्या द्विगुणा युगमुच्यते ॥ १६५.१० ॥ तत्र चार्थपराः सर्वे प्राणिनो रजसा हताः । सर्वे नैष्कृतिकाः क्षुद्रा जायन्ते रविनन्दन ॥ १६५.११ ॥ द्वाभ्यां धर्मः स्थितः पद्भ्यामधर्मस्त्रिभिरुत्थितः । विपर्ययाच्छनैर्धर्मः क्षयमेति कलौ युगे ॥ १६५.१२ ॥ ब्राह्मण्यभावस्य ततस्तथौत्सुक्यं विशीर्यते । व्रतोपवासास्त्यज्यन्ते द्वापरे युगपर्यये ॥ १६५.१३ ॥ तथा वर्षसहस्रं तु वर्षाणां द्वे शते अपि । संध्यया सह संख्यातं क्रूरं कलियुगं स्मृतम् ॥ १६५.१४ ॥ यत्राधर्मश्चतुष्पादः स्याद्धर्मः पादविग्रहः । कामिनस्तपसा हीना जायन्ते तत्र मानवाः ॥ १६५.१५ ॥ नैवातिसात्त्विकः कश्चिन्न साधुर्न च सत्यवाक् । नास्तिका ब्रह्मभक्ता वा जायन्ते तत्र मानवाः ॥ १६५.१६ ॥ अहंकारगृहीताश्च प्रक्षीणस्नेहबन्धनाः । विप्राः शूद्रसमाचाराः सन्ति सर्वे कलौ युगे ॥ १६५.१७ ॥ आश्रमाणां विपर्यासः कलौ सम्परिवर्तते । वर्णानां चैव संदेहो युगान्ते रविनन्दन ॥ १६५.१८ ॥ विद्याद्द्वादशसाहस्रीं युगाख्यां पूर्वनिर्मिताम् । एवं सहस्रपर्यन्तं तदहर्ब्राह्ममुच्यते ॥ १६५.१९ ॥ ततोऽहनि गते तस्मिन् सर्वेषामेव जीविनाम् । शरीरनिर्वृतिं दृष्ट्वा लोकसंहारबुद्धितः ॥ १६५.२० ॥ देवतानां च सर्वासां ब्रह्मादीनां महीपते । दैत्यानां दानवानां च यक्षराक्षसपक्षिणाम् ॥ १६५.२१ ॥ गन्धर्वाणामप्सरसां भुजंगानां च पार्थिव । पर्वतानां नदीनां च पशूनां चैव सत्तम । तिर्यग्योनिगतानां च सत्त्वानां कृमिणां तथा ॥ १६५.२२ ॥ महाभूतपतिः पञ्च हृत्वा भूतानि भूतकृत् । जगत्संहरणार्थाय कुरुते वैशसं महत् ॥ १६५.२३ ॥ भूत्वा सूर्यश्चक्षुषी चाददानो भूत्वा वायुः प्राणिनां प्राणजालम् । भूत्वा वह्निर्निर्दहन्सर्वलोकान् भूत्वा मेघो भूय उग्रोऽप्यवर्षत् ॥ १६५.२४ ॥ ______________________________________________________ मत्स्यपुराण १६६ *मत्स्य उवाच भूत्वा नारायणो योगी सत्त्वमूर्तिर्विभावसुः । गभस्तिभिः प्रदीप्ताभिः संशोषयति सागरान् ॥ १६६.१ ॥ ततः पीत्वार्णवान् सर्वान्नदीः कूपांश्च सर्वशः । पर्वतानां च सलिलं सर्वमादाय रश्मिभिः ॥ १६६.२ ॥ भित्त्वा गभस्तिभिश्चैव महीं गत्वा रसातलात् । पातालजलमादाय पिबते रसमुत्तमम् ॥ १६६.३ ॥ मूत्रासृक्क्लेदमन्यच्च यदस्ति प्राणिषु ध्रुवम् । तत्सर्वमरविन्दाक्ष आदत्ते पुरुषोत्तमः ॥ १६६.४ ॥ वायुश्च बलवान्भूत्वा विधुन्वानोऽखिलं जगत् । प्राणापानसमानाद्यान् वायूनाकर्षते हरिः ॥ १६६.५ ॥ ततो देवगणाः सर्वे भूतान्येव च यानि तु । गन्धो घ्राणं शरीरं च पृथिवीं संश्रिता गुणाः ॥ १६६.६ ॥ जिह्वा रसश्च स्नेहश्च संश्रिताः सलिले गुणाः । रूपं चक्षुर्विपाकश्च ज्योतिरेवाश्रिता गुणाः ॥ १६६.७ ॥ स्पर्शः प्राणश्च चेष्टा च पवने संश्रिता गुणाः । शब्दः श्रोत्रं च खान्येव गगने संश्रिता गुणाः ॥ १६६.८ ॥ लोकमाया भगवता मुहूर्तेन विनाशिता । मनो बुद्धिश्च सर्वेषां क्षेत्रज्ञश्चेति यः श्रुतः ॥ १६६.९ ॥ तं वरेण्यं परमेष्ठी हृषीकेशमुपाश्रितः । ततो भगवतस्तस्य रश्मिभिः परिवारितः ॥ १६६.१० ॥ वायुनाक्रम्यमाणासु द्रुमशाखासु चाश्रितः । तेषां संघर्षणोद्भूतः पावकः शतधा ज्वलन् ॥ १६६.११ ॥ अदहच्च तदा सर्वं वृतः संवर्तकोऽनलः । सपर्वतद्रुमान्गुल्मांल्लतावल्लीस्तृणानि च ॥ १६६.१२ ॥ विमानानि च दिव्यानि पुराणि विविधानि च । यानि चाश्रयणीयानि तानि सर्वाणि सोऽदहत् ॥ १६६.१२* ॥ भस्मीकृत्य ततः सर्वांल्लोकांल्लोकगुरुर्हरिः । भूयो निर्वापयामास युगान्तेन च कर्मणा ॥ १६६.१३ ॥ सहस्रवृष्टिः शतधा भूत्वा कृष्णो महाबलः । दिव्यतोयेन हविषा तर्पयामास मेदिनीम् ॥ १६६.१४ ॥ ततः क्षीरनिकायेन स्वादुना परमाम्भसा । शिवेन पुण्येन मही निर्वाणमगमत्परम् ॥ १६६.१५ ॥ तेन रोधेन संछन्ना पयसां वर्षतो धरा । एकार्णवजलीभूता सर्वसत्त्वविवर्जिता ॥ १६६.१६ ॥ महासत्त्वान्यपि विभुं प्रविष्टान्यमितौजसम् । नष्टार्कपवनाकाशे सूक्ष्मे जगति संवृते ॥ १६६.१७ ॥ संशोषमात्मना कृत्वा समुद्रानपि देहिनः । दग्ध्वा संप्लाव्य च तथा स्वपित्येकः सनातनः ॥ १६६.१८ ॥ पौराणं रूपमास्थाय स्वपित्यमितविक्रमः । एकार्णवजलव्यापी योगी योगमुपाश्रितः ॥ १६६.१९ ॥ अनेकानि सहस्राणि युगान्येकार्णवाम्भसि । न चैनं कश्चिदव्यक्तं व्यक्तं वेदितुमर्हति ॥ १६६.२० ॥ कश्चैव पुरुषो नाम किंयोगः कश्च योगवान् । असौ कियन्तं कालं च एकार्णवविधिं प्रभुः ॥ १६६.२१ ॥ करिष्यतीति भगवानिति कश्चिन्न बुध्यते ॥ १६६.२२ ॥ न द्रष्टा नैव गमिता न ज्ञाता नैव पार्श्वगः । तस्य न ज्ञायते किंचित्तमृते देवसत्तमम् ॥ १६६.२३ ॥ नभः क्षितिं पवनमपः प्रकाशकं प्रजापतिं भुवनधरं सुरेश्वरम् । पितामहं श्रुतिनिलयं महामुनिं प्रशाम्य भूयः शयनं ह्यरोचयत् ॥ १६६.२४ ॥ ______________________________________________________ मत्स्यपुराण १६७ *मत्स्य उवाच एवमेकार्णवीभूते शेते लोकेमहाद्युतिः । प्रच्छाद्य सलिलेनोर्वीं हंसो नारायणस्तदा ॥ १६७.१ ॥ महतो रजसो मध्ये महार्णवसरःसु वै । विरजस्कं महाबाहुमक्षयं ब्रह्म यद्विदुः ॥ १६७.२ ॥ आत्मरूपप्रकाशेन तमसा संवृतः प्रभुः । मनः सात्त्विकमाधाय यत्र तत्सत्यमासत ॥ १६७.३ ॥ याथातथ्यं परं ज्ञानं भूतं तद्ब्रह्मणा पुरा । रहस्यारण्यकोद्दिष्टं यच्चौपनिषदं स्मृतम् ॥ १६७.४ ॥ पुरुषो यज्ञ इत्येतद्यत्परं परिकीर्तितम् । यश्चान्यः पुरुषाख्यः स्यात्स एष पुरुषोत्तमः ॥ १६७.५ ॥ ये च यज्ञकरा विप्रा ये चर्त्विज इति स्मृताः । अस्मादेव पुरा भूता यज्ञेभ्यः श्रूयतां तथा ॥ १६७.६ ॥ ब्रह्माणं प्रथमं वक्त्रादुद्गातारं च सामगम् । होतारमपि चाध्वर्युं बाहुभ्यामसृजत्प्रभुः ॥ १६७.७ ॥ ब्रह्मणो ब्राह्मणाच्छंसि प्रस्तोतारं च सर्वशः । तौ मित्रावरुणौ पृष्ठात्प्रतिप्रस्तारमेव च ॥ १६७.८ ॥ उदरात्प्रतिहर्तारं पोतारं चैव पार्थिव । अच्छावाकमथोरुभ्यां नेष्टारं चैव पार्थिव ॥ १६७.९ ॥ पाणिभ्यामथ चाग्नीध्रं सुब्रह्मण्यं च जानुतः । ग्रावस्तुतं तु पादाभ्यामुन्नेतारं च याजुषम् ॥ १६७.१० ॥ एवमेवैष भगवान् षोडशैव जगत्पतिः । प्रवक्तॄन्सर्वयज्ञानामृत्विजोऽसृजदुत्तमान् ॥ १६७.११ ॥ तदेष वै वेदमयः पुरुषो यज्ञसंज्ञितः । वेदाश्चैतन्मयाः सर्वे साङ्गोपनिषदक्रियाः ॥ १६७.१२ ॥ स्वपित्येकार्णवे चैव यदाश्चर्यमभूत्पुरा । श्रूयतां तद्यथा विप्रा मार्कण्डेयकुतूहलम् ॥ १६७.१३ ॥ गीर्णो भगवतस्तस्य कुक्षावेव महामुनिः । बहुवर्षसहस्रायुस्तस्यैव वरतेजसा ॥ १६७.१४ ॥ अटंस्तीर्थप्रसङ्गेन पृथिवीं तीर्थगोचराम् । आश्रमाणि च पुण्यानि देवतायतनानि च ॥ १६७.१५ ॥ देशान्राष्ट्राणि चित्राणि पुराणि विविधानि च । जपहोमपरः शान्तस्तपो घोरं समास्थितः ॥ १६७.१६ ॥ मार्कण्डेयस्ततस्तस्य शनैर्वक्त्राद्विनिःसृतः । स निष्क्रामन्न चात्मानं जानीते देवमायया ॥ १६७.१७ ॥ निष्क्रम्याप्यस्य वदनादेकार्णवमथो जगत् । सर्वतस्तमसाच्छन्नं मार्कण्डेयोऽन्ववैक्षत ॥ १६७.१८ ॥ तस्योत्पन्नं भयं तीव्रं संशयश्चात्मजीविते । देवदर्शनसंहृष्टो विस्मयं परमं गतः ॥ १६७.१९ ॥ चिन्तयञ्जलमध्यस्थो मार्कण्डेयो विशङ्कितः । किं नु स्यान्मम चिन्तेयं मोहः स्वप्नोऽनुभूयते ॥ १६७.२० ॥ व्यक्तमन्यतमो भावस्तेषां संभावितो मम । न हीदृशं जगत्क्लेशमयुक्तं सत्यमर्हति ॥ १६७.२१ ॥ नष्टचन्द्रार्कपवने नष्टपर्वतभूतले । कतमः स्यादयं लोक इति चिन्तामवस्थितः ॥ १६७.२२ ॥ ददर्श चापि पुरुषं स्वपन्तं पर्वतोपमम् । सलिलेऽर्धमथो मग्नं जीमूतमिव सागरे ॥ १६७.२३ ॥ ज्वलन्तमिव तेजोभिर्गोयुक्तमिव भास्करम् । शर्वर्यां जाग्रतमिव भासन्तं स्वेन तेजसा ॥ १६७.२४ ॥ देवं द्रष्टुमिहायातः को भवानिति विस्मयात् । तथैव स मुनिः कुक्षिं पुनरेव प्रवेशितः ॥ १६७.२५ ॥ सम्प्रविष्टः पुनः कुक्षिं मार्कण्डेयोऽतिविस्मयः । तथैव तु पुनर्भूयो विजानन्स्वप्नदर्शनम् ॥ १६७.२६ ॥ स तथैव यथापूर्वं यो धरामटते पुरा । पुण्यतीर्थजलोपेतां विविधान्याश्रमाणि च ॥ १६७.२७ ॥ क्रतुभिर्यजमानाश्च समाप्तवरदक्षिणान् । अपश्यद्देवकुक्षिस्थान् याजकाञ्छतशो द्विजान् ॥ १६७.२८ ॥ सद्वृत्तमास्थिताः सर्वे वर्णा ब्राह्मणपूर्वकाः । चत्वारश्चाश्रमाः सम्यग्यथोद्दिष्टा मया तव ॥ १६७.२९ ॥ एवं वर्षशतं साग्रं मार्कण्डेयस्य धीमतः । चरतः पृथिवीं सर्वां न कुक्ष्यन्तः समीक्षितः ॥ १६७.३० ॥ ततः कदाचिदथ वै पुनर्वक्त्राद्विनिःसृतः । सुप्तं न्यग्रोधशाखायां बालमेकं निरैक्षत ॥ १६७.३१ ॥ तथैवैकार्णवजले नीहारेणावृताम्बरे । अव्यग्रः क्रीडते लोके सर्वभूतविवर्जिते ॥ १६७.३२ ॥ स मुनिर्विस्मयाविष्टः कौतूहलसमन्वितः । बालमादित्यसंकाशं नाशक्नोदभिवीक्षितुम् ॥ १६७.३३ ॥ स चिन्तयंस्तथैकान्ते स्थित्वा सलिलसंनिधौ । पूर्वदृष्टमिदं मेने शङ्कितो देवमायया ॥ १६७.३४ ॥ अगाधसलिले तस्मिन्मार्कण्डेयः सविस्मयः । प्लवंस्तथार्तिमगमद्भयात्संत्रस्तलोचनः ॥ १६७.३५ ॥ स तस्मै भगवानाह स्वागतं बालयोगवान् । बभाषे मेघतुल्येन स्वरेण पुरुषोत्तमः ॥ १६७.३६ ॥ मा भैर्वत्स न भेतव्यमिहैवायाहि मेऽन्तिकम् । मार्कण्डेयो मुनिस्त्वाह बालं तं श्रमपीडितः ॥ १६७.३७ ॥ *मार्कण्डेय उवाच को मां नाम्ना कीर्तयति तपः परिभवन्मम । दिव्यं वर्षसहस्राख्यं धर्षयन्निव मे वयः ॥ १६७.३८ ॥ न ह्येष वः समाचारो देवेष्वपि ममोचितः । मां ब्रह्मापि हि देवेशो दीर्घायुरिति भाषते ॥ १६७.३९ ॥ कस्तमो घोरमासाद्य मामद्य त्यक्तजीवितः । मार्कण्डेयेति मामुक्त्वा मृत्युमीक्षितुमर्हति ॥ १६७.४० ॥ *सूत उवाच एवमाभाष्य तं क्रोधान्मार्कण्डेयो महामुनिः । तथैव भगवान्भूयो बभाषे मधुसूदनः ॥ १६७.४१ ॥ *श्रीभगवानुवाच अहं ते जनको वत्स हृषीकेशः पिता गुरुः । आयुष्प्रदाता पौराणः किं मां त्वं नोपसर्पसि ॥ १६७.४२ ॥ मां पुत्रकामः प्रथमं पिता तेऽङ्गिरसो मुनिः । पूर्वमाराधयामास तपस्तीव्रं समाश्रितः ॥ १६७.४३ ॥ ततस्त्वां घोरतपसा प्रावृणोदमितौजसम् । उक्तवानहमात्मस्थं महर्षिममितौजसम् ॥ १६७.४४ ॥ कः समुत्सहते चान्यो यो न भूतात्मकात्मजः । द्रष्टुमेकार्णवगतं क्रीडन्तं योगवर्त्मना ॥ १६७.४५ ॥ ततः प्रहृष्टवदनो विस्मयोत्फुल्ललोचनः । मूर्ध्नि बद्धाञ्जलिपुटो मार्कण्डेयो महातपाः ॥ १६७.४६ ॥ नामगोत्रे ततः प्रोच्य दीर्घायुर्लोकपूजितः । तस्मै भगवते भक्त्या नमस्कारमथाकरोत् ॥ १६७.४७ ॥ *मार्कण्डेय उवाच इच्छेयं तत्त्वतो मायामिमां ज्ञातुं तवानघ । यदेकार्णवमध्यस्थः शेषे त्वं बालरूपवान् ॥ १६७.४८ ॥ किंसंज्ञश्चैव भगवांल्लोके विज्ञायसे प्रभो । तर्कये त्वां महात्मानं को ह्यन्यः स्थातुमर्हति ॥ १६७.४९ ॥ *श्रीभगवानुवाच अहं नारायणो ब्रह्मन् सर्वभूतविनाशनः । अहं सहस्रशीर्षाख्यो यः पदैरभिसंज्ञितः ॥ १६७.५० ॥ आदित्यवर्णः पुरुषो मखे ब्रह्ममयो मखः । अहमग्निर्हव्यवाहो यादसां पतिरव्ययः ॥ १६७.५१ ॥ अहमिन्द्रपदे शक्रो वर्षाणां परिवत्सरः । अहं योगी युगाख्यस्य युगान्तावर्त एव च ॥ १६७.५२ ॥ अहं सर्वाणि सत्त्वानि दैवतान्यखिलानि तु । भुजंगानामहं शेषस्तार्क्ष्यो वै सर्वपक्षिणाम् ॥ १६७.५३ ॥ कृतान्तः सर्वभूतानां विश्वेषां कालसंज्ञितः । अहं धर्मस्तपश्चाहं सर्वाश्रमनिवासिनाम् ॥ १६७.५४ ॥ अहं चैव सरिद्दिव्या क्षीरोदश्च महार्णवः । यत्तत्सत्यं च परममहमेकः प्रजापतिः ॥ १६७.५५ ॥ अहं सांख्यमहं योगोऽप्यहं तत्परमं पदम् । अहमिज्या क्रिया चाहमहं विद्याधिपः स्मृतः ॥ १६७.५६ ॥ अहं ज्योतिरहं वायुरहं भूमिरहं नभः । अहमापः समुद्राश्च नक्षत्राणि दिशो दश ॥ १६७.५७ ॥ अहं वर्षमहं सोमः पर्जन्योऽहमहं रविः । क्षीरोदसागरे चाहं समुद्रे वडवामुखः ॥ १६७.५८ ॥ वह्निः संवर्तको भूत्वा पिबंस्तोयमयं हविः । अहं पुराणः परमं तथैवाहं परायणम् ॥ १६७.५९ ॥ अहं भूतस्य भव्यस्य वर्तमानस्य संभवः । यत्किंचित्पश्यसे विप्र यच्छृणोषि च किंचन ॥ १६७.६० ॥ यल्लोके चानुभवसि तत्सर्वं मामनुस्मर । विश्वं सृष्टं मया पूर्वं सृज्यं चाद्यापि पश्य माम् ॥ १६७.६१ ॥ युगे युगे च स्रक्ष्यामि मार्कण्डेयाखिलं जगत् । तदेतदखिलं सर्वं मार्कण्डेयावधारय ॥ १६७.६२ ॥ शुश्रूषुर्मम धर्मांश्च कुक्षौ चर सुखं मम । मम ब्रह्मा शरीरस्थो देवैश्च ऋषिभिः सह ॥ १६७.६३ ॥ व्यक्तमव्यक्तयोगं मामवगच्छासुरद्विषम् । अहमेकाक्षरो मन्त्रस्त्र्यक्षरश्चैव तारकः ॥ १६७.६४ ॥ परस्त्रिवर्गादोंकारस्त्रिवर्गार्थनिदर्शनः । एवमादिपुराणेशो वदन्नेव महामतिः ॥ १६७.६५ ॥ वक्त्रमाहृतवानाशु मार्कण्डेयं महामुनिम् । ततो भगवतः कुक्षिं प्रविष्टो मुनिसत्तमः ॥ १६७.६६ ॥ स तस्मिन्सुखमेकान्ते शुश्रूषुर्हंसमव्ययम् । योऽहमेव विविधतनुं परिश्रितो महार्णवे व्यपगतचन्द्रभास्करे । शनैश्चरन्प्रभुरपि हंससंज्ञितोऽसृजज्जगद्विहरति कालपर्यये ॥ १६७.६७ ॥ ______________________________________________________ मत्स्यपुराण १६८ *मत्स्य उवाच आपवः स विभुर्भूत्वा चारयामास वै तपः । छादयित्वात्मनो देहं यादसां कुलसंभवम् ॥ १६८.१ ॥ ततो महात्मातिबलो मतिं लोकस्य सर्जने । महतां पञ्चभूतानां विश्वो विश्वमचिन्तयत् ॥ १६८.२ ॥ तस्य चिन्तयमानस्य निर्वाते संस्थितेऽर्णवे । निराकाशे तोयमये सूक्ष्मे जगति गह्वरे ॥ १६८.३ ॥ ईषत्संक्षोभयामास सोऽर्णवं सलिलाश्रयः । अनन्तरोर्मिभिः सूक्ष्ममथ छिद्रमभूत्पुरा ॥ १६८.४ ॥ शब्दं प्रति तदोद्भूतो मारुतश्छिद्रसंभवः । स लब्ध्वान्तरमक्षोभ्यो व्यवर्धत समीरणः ॥ १६८.५ ॥ विवर्धता बलवता वेगाद्विक्षोभितोऽर्णवः । तस्यार्णवस्य क्षुब्धस्य तस्मिन्नम्भसि मन्थिते । कृष्णवर्त्मा समभवत्प्रभुर्वैश्वानरो महान् ॥ १६८.६ ॥ ततः संशोषयामास पावकः सलिलं बहु । क्षयाज्जलनिधेश्छिद्रमभवद्विस्तृतं नभः ॥ १६८.७ ॥ आत्मतेजोद्भवाः पुण्या आपोऽमृतरसोपमाः । आकाशं छिद्रसम्भूतं वायुराकाशसंभवः ॥ १६८.८ ॥ आभ्यां संघर्षणोद्भूतं पावकं वायुसंभवम् । दृष्ट्वा प्रीतो महादेवो महाभूतविभावनः ॥ १६८.९ ॥ दृष्ट्वा भूतानि भगवांल्लोकसृष्ट्यर्थमुत्तमम् । ब्रह्मणो जन्मसहितं बहुरूपो व्यचिन्तयत् ॥ १६८.१० ॥ चतुर्युगाभिसंख्याते सहस्रयुगपर्यये । बहुजन्मा हि विश्वात्मा ब्रह्मणो हविरुच्यते ॥ १६८.११ ॥ यत्पृथिव्यां द्विजेन्द्राणां तपसा भावितात्मनाम् । ज्ञानं वृष्टं तु विश्वार्थे योगिनां याति मुख्यताम् ॥ १६८.१२ ॥ तं योगवन्तं विज्ञाय सम्पूर्णैश्वर्यमुत्तमम् । पदे ब्रह्मणि विश्वेशं न्ययोजयत योगवित् ॥ १६८.१३ ॥ ततस्तस्मिन्महातोये महीशो हरिरच्युतः । जले क्रीडंश्च विधिवन्मोदते सर्वलोककृत् ॥ १६८.१४ ॥ पद्मं नाभ्युद्भवं चैकं समुत्पादितवांस्तदा । सहस्रपर्णं विरजं भास्कराभं हिरण्मयम् ॥ १६८.१५ ॥ हुताशनज्वलितशिखोज्ज्वलत्प्रभमुपस्थितं शरदमलार्कतेजसम् । विराजते कमलमुदारवर्चसं महात्मनस्तनुरुहचारुदर्शनम् ॥ १६८.१६ ॥ ______________________________________________________ मत्स्यपुराण १६९ *मत्स्य उवाच अथ योगवतां श्रेष्ठमसृजद्भूरितेजसम् । स्रष्टारं सर्वलोकानां ब्रह्माणं सर्वतोमुखम् ॥ १६९.१ ॥ यस्मिन्हिरण्मये पद्मे बहुयोजनविस्तृतम् । सर्वतेजोगुणमयं पार्थिवैर्लक्षणैर्वृतम् ॥ १६९.२ ॥ तच्च पद्मं पुराणज्ञाः पृथिवीरूपमुत्तमम् । नारायणसमुद्भूतं प्रवदन्ति महर्षयः ॥ १६९.३ ॥ या पद्मा सा रसा देवी पृथिवी परिचक्ष्यते । ये पद्मसारगुरवस्तान्दिव्यान् पर्वतान्विदुः ॥ १६९.४ ॥ हिमवन्तं च मेरुं च नीलं निषधमेव च । कैलासं मुञ्जवन्तं च तथान्यं गन्धमादनम् ॥ १६९.५ ॥ पुण्यं त्रिशिखरं चैव कान्तं मन्दरमेव च । उदयं पिञ्जरं चैव विन्ध्यवन्तं च पर्वतम् ॥ १६९.६ ॥ एते देवगणानां च सिद्धानां च महात्मनाम् । आश्रयाः पुण्यशीलानां सर्वकामफलप्रदाः ॥ १६९.७ ॥ एतेषामन्तरे देशो जम्बूद्वीप इति स्मृतः । जम्बूद्वीपस्य संस्थानं यज्ञिया यत्र वै क्रियाः ॥ १६९.८ ॥ एभ्यो यत्स्रवते तोयं दिव्यामृतरसोपमम् । दिव्यास्तीर्थशताधाराः सुरम्याः सरितः स्मृताः ॥ १६९.९ ॥ स्मृतानि यानि पद्मस्य केसराणि समन्ततः । असंख्येयाः पृथिव्यास्ते विश्वे वै धातुपर्वताः ॥ १६९.१० ॥ यानि पद्मस्य पर्णानि भूरीणि तु नराधिप । ते दुर्गमाः शैलचिता म्लेच्छदेशा विकल्पिताः ॥ १६९.११ ॥ यान्यधोभागपर्णानि ते निवासास्तु भागशः । दैत्यानामुरगाणां च पतङ्गानां च पार्थिव ॥ १६९.१२ ॥ तेषां महार्णवो यत्र तद्रसेत्यभिसंज्ञितम् । महापातककर्माणो मज्जन्ते यत्र मानवाः ॥ १६९.१३ ॥ पद्मस्यान्तरतो यत्तदेकार्णवगता मही । प्रोक्ताथ दिक्षु सर्वासु चत्वारः सलिलाकराः ॥ १६९.१४ ॥ एवं नारायणस्यार्थे मही पुष्करसंभवा । प्रादुर्भावोऽप्ययं तस्मान्नाम्ना पुष्करसंज्ञितः ॥ १६९.१५ ॥ एतस्मात्कारणात्तज्ज्ञैः पुराणैः परमर्षिभिः । याज्ञिकैर्वेददृष्टान्तैर्यज्ञे पद्मविधिः स्मृतः ॥ १६९.१६ ॥ एवं भगवता तेन विश्वेषां धारणाविधिः । पर्वतानां नदीनां च ह्रदानां चैव निर्मितः ॥ १६९.१७ ॥ विभुस्तथैवाप्रतिमप्रभावः प्रभाकराभो वरुणः सितद्युतिः । शनैः स्वयंभूः शयनं सृजत्तदा जगन्मयं पद्मविधिं महार्णवे ॥ १६९.१८ ॥ ______________________________________________________ मत्स्यपुराण १७० *मत्स्य उवाच विघ्नस्तपसि सम्भूतो मधुर्नाम महासुरः । तेनैव च सहोद्भूतो ह्यसुरो नाम कैटभः ॥ १७०.१ ॥ तौ रजस्तमसौ विष्णोः सम्भूतौ तामसौ गणौ । एकार्णवे जगत्सर्वं क्षोभयन्तौ महाबलौ ॥ १७०.२ ॥ दिव्यरक्ताम्बरधरौ श्वेतदीप्तोग्रदंष्ट्रिणौ । किरीटकुण्डलोदग्रौ केयूरवलयोज्ज्वलौ ॥ १७०.३ ॥ महाविवृतताम्राक्षौ पीनोरस्कौ महाभुजौ । महागिरेः संहननौ जङ्गमाविव पर्वतौ ॥ १७०.४ ॥ नवमेघप्रतीकाशावादित्यसदृशाननौ । विद्युदाभौ गदाग्राभ्यां कराभ्यामतिभीषणौ ॥ १७०.५ ॥ तौ पादयोस्तु विन्यासादुत्क्षिपन्ताविवार्णवम् । कम्पयन्ताविव हरिं शयानं मधुसूदनम् ॥ १७०.६ ॥ तौ तत्र विचरन्तौ स्म पुष्करे विश्वतोमुखम् । योगिनां श्रेष्ठमासाद्य दीप्तं ददृशतुस्तदा ॥ १७०.७ ॥ नारायणसमाज्ञातं सृजन्तमखिलाः प्रजाः । दैवतानि च विश्वानि मानसानसुरानृषीन् ॥ १७०.८ ॥ ततस्तावूचतुस्तत्र ब्रह्माणमसुरोत्तमौ । दीप्तौ मुमूर्षू संक्रुद्धौ रोषव्याकुलितेक्षणौ ॥ १७०.९ ॥ कस्त्वं पुष्करमध्यस्थः सितोष्णीषश्चतुर्भुजः । आधाय नियमं मोहादास्ते त्वं विगतज्वरः ॥ १७०.१० ॥ एह्यागच्छावयोर्युद्धं देहि त्वं कमलोद्भव । आवाभ्यां परमीशाभ्यामशक्तस्त्वमिहार्णवे ॥ १७०.११ ॥ तत्र कश्चोद्भवस्तुभ्यं केन वासि न योजितः । कः स्रष्टा कश्च ते गोप्ता केन नाम्ना विधीयसे ॥ १७०.१२ ॥ *ब्रह्मोवाच एक इत्युच्यते लोकैरविचिन्त्यः सहस्रदृक् । तत्संयोगेन भवतोः कर्म नामावगच्छताम् ॥ १७०.१३ ॥ *मधुकैटभावूचतुः नावयोः परमं लोके किंचिदस्ति महामते । आवाभ्यां छाद्यते विश्वं तमसा रजसाथ वै ॥ १७०.१४ ॥ रजस्तमोमयावावामृषीणामवलङ्घितौ । छाद्यमानौ धर्मशीलौ दुस्तरौ सर्वदेहिनाम् ॥ १७०.१५ ॥ आवाभ्यामुह्यते लोको दुष्कराभ्यां युगे युगे । आवामर्थश्च कामश्च यज्ञः स्वर्गपरिग्रहः ॥ १७०.१६ ॥ सुखं यत्र मुदा युक्तं यत्र श्रीः कीर्तिरेव च । येषां यत्काङ्क्षितं चैव तत्तदावां विचिन्तय ॥ १७०.१७ ॥ *ब्रह्मोवाच यत्नाद्योगवतो दृष्ट्या योगः पूर्वं मयार्जितः । तं समाधाय गुणवत्सत्त्वं चास्मि समाश्रितः ॥ १७०.१८ ॥ यः परो योगमतिमान् योगाख्यः सत्त्वमेव च । रजसस्तमसश्चैव यः स्रष्टा विश्वसंभवः ॥ १७०.१९ ॥ ततो भूतानि जायन्ते सात्त्विकानीतराणि च । स एव हि युवां नांशे वशी देवो हनिष्यति ॥ १७०.२० ॥ स्वपन्नेव ततः श्रीमान् बहुयोजनविस्तृतम् । बाहुं नारायणो ब्रह्मा कृतवानात्ममायया ॥ १७०.२१ ॥ कृष्यमाणौ ततस्तस्य बाहुना बाहुशालिनः । चेरतुस्तौ विगलितौ शकुनाविव पीवरौ ॥ १७०.२२ ॥ ततस्तावाहतुर्गत्वा तदा देवं सनातनम् । पद्मनाभं हृषीकेशं प्रणिपत्य स्थितावुभौ ॥ १७०.२३ ॥ जानीवस्त्वां विश्वयोनिं त्वामेकं पुरुषोत्तमम् । त्वमावां पाहि हेत्वर्थमिदं नौ बुद्धिकारणम् ॥ १७०.२४ ॥ अमोघदर्शनः स त्वं यतस्त्वां विद्वः शाश्वतम् । ततस्त्वामागतावावामभितः प्रसमीक्षितुम् ॥ १७०.२५ ॥ तदिच्छामो वरं देव त्वत्तोऽद्भुतमरिंदम । अमोघदर्शनोऽसि त्वं नमस्ते समितिंजय ॥ १७०.२६ ॥ *श्रीभगवानुवाच किमर्थं हि द्रुतं ब्रूतं वरं ह्यसुरसत्तमौ । दत्तायुष्कौ पुनर्भूयो रहो जीवितुमिच्छथः ॥ १७०.२७ ॥ *मधुकैटभावूचतुः यस्मिन्न कश्चिन्मृतवान् देव तस्मिन्प्रभो वधम् । तमिच्छावो वधश्चैव त्वत्तो नोऽस्तु महाव्रत ॥ १७०.२८ ॥ *श्रीभगवानुवाच बाढं युवां तु प्रवरौ भविष्यत्कालसंभवे । भविष्यतो न संदेहः सत्यमेतद्ब्रवीमि वाम् ॥ १७०.२९ ॥ वरं प्रदायाथ महासुराभ्यां सनातनो विश्ववरः सुरोत्तमः । रजस्तमोवर्गभवायनौ यमौ ममन्थ तावूरुतलेन वै प्रभुः ॥ १७०.३० ॥ ______________________________________________________ मत्स्यपुराण १७१ *मत्स्य उवाच स्थित्वा च तस्मिन्कमले ब्रह्मा ब्रह्मविदां वरः । ऊर्ध्वबाहुर्महातेजास्तपो घोरं समाश्रितः ॥ १७१.१ ॥ प्रज्वलन्निव तेजोभिर्भाभिः स्वाभिस्तमोनुदः । बभासे सर्वधर्मस्थः सहस्रांशुरिवांशुभिः ॥ १७१.२ ॥ अथान्यद्रूपमास्थाय शंभुर्नारायणोऽव्ययः । आजगाम महातेजा योगाचार्यो महायशाः ॥ १७१.३ ॥ सांख्याचार्यो हि मतिमान् कपिलो ब्राह्मणो वरः । उभावपि महात्मानौ स्तुवन्तौ क्षेत्रतत्परौ ॥ १७१.४ ॥ तौ प्राप्तावूचतुस्तत्र ब्रह्माणममितौजसम् । परावरविशेषज्ञौ पूजितौ च महर्षिभिः ॥ १७१.५ ॥ ब्रह्मात्मदृढबन्धश्च विशालो जगदास्थितः । ग्रामणीः सर्वभूतानां ब्रह्मा त्रैलोक्यपूजितः ॥ १७१.६ ॥ तयोस्तद्वचनं श्रुत्वा ब्रह्माभ्याहृतयोगवित् । त्रीनिमान् कृतवांल्लोकान् यथेयं ब्रह्मणः श्रुतिः ॥ १७१.७ ॥ पुत्रं च शंभवे चैकं समुत्पादितवानृषिः । तस्याग्रे वाग्यतस्तस्थौ ब्रह्मा तामसमव्ययम् ॥ १७१.८ ॥ सोत्पन्नमात्रो ब्रह्माणमुक्तवान्मानसः सुतः । किं कुर्मस्तव साहाय्यं ब्रवीतु भगवानृषिः ॥ १७१.९ ॥ *ब्रह्मोवाच य एष कपिलो ब्रह्म नारायणमयस्तथा । वदते भवतस्तत्त्वं तत्कुरुष्व महामते ॥ १७१.१० ॥ ब्रह्मणस्तु तदर्थं तु तदा भूयः समुत्थितः । शुश्रूषुरस्मि युवयोः किं करोमि कृताञ्जलिः ॥ १७१.११ ॥ *श्रीभगवानुवाच यत्सत्यमक्षरं ब्रह्म ह्यष्टादशविधं तु तत् । यत्सत्यं यदृतं तत्तु परं पदमनुस्मर ॥ १७१.१२ ॥ एतद्वचो निशम्यैव ययौ स दिशमुत्तराम् । गत्वा च तत्र ब्रह्मत्वमगमज्ज्ञानतेजसा ॥ १७१.१३ ॥ ततो ब्रह्मा भुवं नाम द्वितीयमसृजत्प्रभुः । संकल्पयित्वा मनसा तमेव च महामनाः ॥ १७१.१४ ॥ ततः सोऽथाब्रवीद्वाक्यं किं करोमि पितामह । पितामहसमाज्ञातो ब्रह्माणं समुपस्थितः ॥ १७१.१५ ॥ ब्रह्माभ्यासं तु कृतवान् भुवश्च पृथिवीं गतः । प्राप्तश्च परमं स्थानं स तयोः पार्श्वमागतः ॥ १७१.१६ ॥ तस्मिन्नपि गते पुत्रे तृतीयमसृजत्प्रभुः । मोक्षप्रवृत्तिकुशलं भूर्भुवं नामतो विभुम् ॥ १७१.१७ ॥ गोपतित्वं समासाद्य तयोरेवागमद्गतिम् । एवं पुत्रास्त्रयोऽप्येत उक्ताः शंभोर्महात्मनः ॥ १७१.१८ ॥ तान्गृहीत्वा सुतांस्तस्य प्रयातः स्वार्जितां गतिम् । नारायणश्च भगवान् कपिलश्च यतीश्वरः ॥ १७१.१९ ॥ यं कालं तौ गतौ मुक्तौ ब्रह्मा तं कालमेव हि । ततो घोरतमं भूयः संश्रितः परमं व्रतम् ॥ १७१.२० ॥ न रेमेऽथ ततो ब्रह्मा प्रभुरेकस्तपश्चरन् । शरीरार्धात्ततो भार्यां समुत्पादितवाञ्छुभाम् ॥ १७१.२१ ॥ तपसा तेजसा चैव वर्चसा नियमेन च । सदृशीमात्मनो देवीं समर्थां लोकसर्जने ॥ १७१.२२ ॥ तया समाहितस्तत्र रेमे ब्रह्मा तपश्चरन् । ततो जगाद त्रिपदां गायत्रीं वेदपूजिताम् ॥ १७१.२३ ॥ सृजन्प्रजानां पतयः सागरांश्चासृजद्विभुः । अपरांश्चैव चतुरो वेदान्गायत्रिसंभवान् ॥ १७१.२४ ॥ आत्मनः सदृशान्पुत्रानसृजद्वै पितामहः । विश्वे प्रजानां पतयो येभ्यो लोका विनिःसृताः ॥ १७१.२५ ॥ विश्वेशं प्रथमं तावन्महातापसमात्मजम् । सर्वमन्त्रहितं पुण्यं नाम्ना धर्मं स सृष्टवान् ॥ १७१.२६ ॥ दक्षं मरीचिमत्रिं च पुलस्त्यं पुलहं क्रतुम् । वसिष्ठं गौतमं चैव भृगुमङ्गिरसं मनुम् ॥ १७१.२७ ॥ अथैवाद्भुतमित्येते ज्ञेयाः पैतामहर्षयः । त्रयोदशगुणं धर्ममालभन्त महर्षयः ॥ १७१.२८ ॥ अदितिर्दितिर्दनुः काला अनायुः सिंहिका मुनिः । ताम्रा क्रोधाथ सुरता विनता कद्रुरेव च ॥ १७१.२९ ॥ दक्षस्यापत्यमेता वै कन्या द्वादश पार्थिव । मरीचेः कश्यपः पुत्रस्तपसा निर्मितः किल ॥ १७१.३० ॥ तस्मै कन्या द्वादशान्या दक्षस्ताः प्रददौ तदा । नक्षत्राणि च सोमाय तदा वै दत्तवानृषिः ॥ १७१.३१ ॥ रोहिण्यादीनि सर्वाणि पुण्यानि रविनन्दन । लक्ष्मीर्मरुत्वती साध्या विश्वेशा च मता शुभा ॥ १७१.३२ ॥ देवी सरस्वती चैव ब्रह्मणा निर्मिताः पुरा । एताः पञ्च वरिष्ठा वै सुरश्रेष्ठाय पार्थिव ॥ १७१.३३ ॥ दत्ता भद्राय धर्माय ब्रह्मणा दृष्टकर्मणा । या तु रूपवती पत्नी ब्रह्मणः कामरूपिणी ॥ १७१.३४ ॥ सुरभिः सा हिता भूत्वा ब्रह्माणं समुपस्थिता । ततस्तामगमद्ब्रह्मा मैथुनं लोकपूजितः ॥ १७१.३५ ॥ लोकसर्जनहेतुज्ञो गवामर्थाय सत्तमः । जज्ञिरे च सुतास्तस्यां विपुला धूमसंनिभाः ॥ १७१.३६ ॥ नक्तसंध्याभ्रसंकाशाः प्रादहंस्तिग्मतेजसः । ते रुदन्तो द्रवन्तश्च गर्हयन्तः पितामहम् ॥ १७१.३७ ॥ रोदनाद्रवणाच्चैव रुद्रा इति ततः स्मृताः । निरृतिश्चैव शंभुर्वै तृतीयश्चापराजितः ॥ १७१.३८ ॥ मृगव्याधः कपर्दी च दहनोऽथेश्वरश्च वै । अहिर्बुध्न्यश्च भगवान् कपाली चापि पिङ्गलः ॥ १७१.३९ ॥ सेनानीश्च महातेजा रुद्रास्त्वेकादश स्मृताः । तस्यामेव सुरभ्यां च गावो यज्ञेश्वराश्च वै ॥ १७१.४० ॥ प्रकृष्टाश्च तथा मायाः सुरभ्याः पशवोऽक्षराः । अजाश्चैव तु हंसाश्च तथैवामृतमुत्तमम् ॥ १७१.४१ ॥ ओषध्यः प्रवरायाश्च सुरस्यास्ताः समुत्थिताः । धर्माल्लक्ष्मीस्तथा कामं साध्या साध्यान्व्यजायत ॥ १७१.४२ ॥ भवं च प्रभवं चैव हीशं चासुरहं तथा । अरुणं चारुणिं चैव विश्वावसुबलध्रुवौ ॥ १७१.४३ ॥ हविष्यं च वितानं च विधानशमितावपि । वत्सरं चैव भूतिं च सर्वासुरनिषूदनम् ॥ १७१.४४ ॥ सुपर्वाणं बृहत्कान्तिः साध्या लोकनमस्कृताः । वासवानुगता देवी जनयामास वै सुरान् ॥ १७१.४५ ॥ वरं वै प्रथमं देवं द्वितीयं ध्रुवमव्ययम् । विश्वावसुं तृतीयं च चतुर्थं सोममीश्वरम् ॥ १७१.४६ ॥ ततोऽनुरूपमायं च यमस्तस्मादनन्तरम् । सप्तमं च तथा वायुमष्टमं निरृतिं वसुम् ॥ १७१.४७ ॥ धर्मस्यापत्यमेतद्वै सुदेव्यां समजायत । विश्वे देवाश्च विश्वायां धर्माज्जाता इति श्रुतिः ॥ १७१.४८ ॥ दक्षश्चैव महाबाहुः पुष्करस्वन एव च । चाक्षुषस्तु मनुश्चैव तथा मधुमहोरगौ ॥ १७१.४९ ॥ विश्रान्तकवपुर्बालो विष्कम्भश्च महायशाः । गरुडश्चातिसत्त्वौजा भास्करप्रतिमद्युतिः ॥ १७१.५० ॥ विश्वान्देवान्देवमाता विश्वेशाजनयत्सुतान् । मरुत्वती मरुत्वतो देवानजनयत्सुतान् ॥ १७१.५१ ॥ अग्निं चक्षुं रविर्ज्योतिः सावित्रं मित्रमेव च । अमरं शरवृष्टिं च सुकर्षं च महाभुजम् ॥ १७१.५२ ॥ विराजं चैव वाचं च विश्वावसुमतिं तथा । अश्वमित्रं चित्ररश्मिं तथा निषधनं नृप ॥ १७१.५३ ॥ हूयन्तं वाडवं चैव चारित्रं मन्दपन्नगम् । बृहन्तं वै बृहद्रूपं तथा वै पूतनानुगम् ॥ १७१.५४ ॥ मरुत्वती पुरा जज्ञ एतान्वै मरुतां गणान् । अदितिः कश्यपाज्जज्ञ आदित्यान्द्वादशैव हि ॥ १७१.५५ ॥ इन्द्रो विष्णुर्भगस्त्वष्टा वरुणो ह्यर्यमा रविः । पूषा मित्रश्च धनदो धाता पर्जन्य एव च ॥ १७१.५६ ॥ इत्येते द्वादशादित्या वरिष्ठास्त्रिदिवौकसः । आदित्यस्य सरस्वत्यां जज्ञाते द्वौ सुतौ वरौ ॥ १७१.५७ ॥ तपःश्रेष्ठौ गुणश्रेष्ठौ त्रिदिवस्यापि संमतौ । दनुस्तु दानवाञ्जज्ञे दितिर्दैत्यान्व्यजायत ॥ १७१.५८ ॥ काला तु वै कालकेयानसुरान्सुरसा तु वै । अनायुषायास्तनया व्याधयः सुमहाबलाः ॥ १७१.५९ ॥ सिंहिका ग्रहमाता वै गन्धर्वजननी मुनिः । ताम्रा त्वप्सरसां माता पुण्यानां भारतोद्भव ॥ १७१.६० ॥ क्रोधायाः सर्वभूतानि पिशाचाश्चैव पार्थिव । जज्ञे यक्षगणांश्चैव राक्षसांश्च विशांपते ॥ १७१.६१ ॥ चतुष्पदानि सत्त्वानि तथा गावस्तु सौरभाः । सुपर्णान्पक्षिणश्चैव विनता च व्यजायत ॥ १७१.६२ ॥ महीधरान्सर्वनागान् देवी कद्रूर्व्यजायत । एवं वृद्धिं समगमन् विश्वे लोकाः परंतप ॥ १७१.६३ ॥ तदा वै पौष्करो राजन् प्रादुर्भावो महात्मनः । प्रादुर्भावः पौष्करस्ते मया द्वैपायनेरितः ॥ १७१.६४ ॥ पुराणः पुरुषश्चैव मया विष्णुर्हरिः प्रभुः । कथितस्तेऽनुपूर्वेण संस्तुतः परमर्षिभिः ॥ १७१.६५ ॥ यश्चेदमग्र्यं शृणुयात्पुराणं सदा नरः पर्वसु गौरवेण । अवाप्य लोकान्स हि वीतरागः परत्र च स्वर्गफलानि भुङ्क्ते ॥ १७१.६६ ॥ चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् । प्रसादयति यः कृष्णं तं कृष्णोऽनुप्रसीदति ॥ १७१.६७ ॥ राजा च लभते राज्यमधनश्चोत्तमं धनम् । क्षीणायुर्लभते चायुः पुत्रकामः सुतं तथा ॥ १७१.६८ ॥ यज्ञा वेदास्तथा कामास्तपांसि विविधानि च । प्राप्नोति विविधं पुण्यं विष्णुभक्तो धनानि च ॥ १७१.६९ ॥ यद्यत्कामयते किंचित्तत्तल्लोकेश्वराद्भवेत् । सर्वं विहाय य इमं पठेत्पौष्करकं हरेः ॥ १७१.७० ॥ प्रादुर्भावं नृपश्रेष्ठ न तस्य ह्यशुभं भवेत् । एष पौष्करको नाम प्रादुर्भावो महात्मनः । कीर्तितस्ते महाभाग व्यासश्रुतिनिदर्शनात् ॥ १७१.७१ ॥ ______________________________________________________ मत्स्यपुराण १७२ *मत्स्य उवाच विष्णुत्वं शृणु विष्णोश्च हरित्वं च कृते युगे । वैकुण्ठत्वं च देवेषु कृष्णत्वं मानुषेषु च ॥ १७२.१ ॥ ईश्वरस्य हि तस्यैषा कर्मणां गहना गतिः । संप्रत्यतीतान्भव्यांश्च शृणु राजन्यथातथम् ॥ १७२.२ ॥ अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान्प्रभुः । नारायणो ह्यनन्तात्मा प्रभवोऽव्यय एव च ॥ १७२.३ ॥ एष नारायणो भूत्वा हरिरासीत्सनातनः । ब्रह्मा वायुश्च सोमश्च धर्मः शक्रो बृहस्पतिः ॥ १७२.४ ॥ अदितेरपि पुत्रत्वमेव याति युगे युगे । एष विष्णुरिति ख्यात इन्द्रस्यावरजो विभुः ॥ १७२.५ ॥ प्रसादजं ह्यस्य विभोरदित्याः पुत्रकारणम् । वधार्थं सुरशत्रूणां दैत्यदानवरक्षसाम् ॥ १७२.६ ॥ प्रधानात्मा पुरा ह्येष ब्रह्माणमसृजत्प्रभुः । सोऽसृजत्पूर्वपुरुषः पुराकल्पे प्रजापतीन् ॥ १७२.७ ॥ असृजन्मानवांस्तत्र ब्रह्मवंशाननुत्तमान् । तेभ्योऽभवन्महात्मभ्यो बहुधा ब्रह्म शाश्वतम् ॥ १७२.८ ॥ एतदाश्चर्यभूतस्य विष्णोः कर्मानुकीर्तनम् । कीर्तनीयस्य लोकेषु कीर्त्यमानं निबोध मे ॥ १७२.९ ॥ वृते वृत्रवधे तत्र वर्तमाने कृते युगे । आसीत्त्रैलोक्यविख्यातः सङ्ग्रामस्तारकामयः ॥ १७२.१० ॥ यत्र ते दानवा घोराः सर्वे सङ्ग्रामदुर्जयाः । घ्नन्ति देवगणान्सर्वान् सयक्षोरगराक्षसान् ॥ १७२.११ ॥ ते वध्यमाना विमुखाः क्षीणप्रहरणा रणे । त्रातारं मनसा जग्मुर्देवं नारायणं प्रभुम् ॥ १७२.१२ ॥ एतस्मिन्नन्तरे मेघा निर्वाणाङ्गारवर्चसः । सार्कचन्द्रग्रहगणं छादयन्तो नभस्तलम् ॥ १७२.१३ ॥ चण्डा विद्युद्गणोपेता घोरनिर्ह्रादकारिणः । अन्योन्यवेगाभिहताः प्रववुः सह मारुताः ॥ १७२.१४ ॥ दीप्ततोयाशनिपनैर्वज्रवेगानलानिलैः । रवैः सुघोरैरुत्पातैर्दह्यमानमिवाम्बरम् ॥ १७२.१५ ॥ तत उल्कासहस्राणि निपेतुः खगतान्यपि । दिव्यानि च विमानानि प्रपतन्त्युत्पतन्ति च ॥ १७२.१६ ॥ चतुर्युगान्तपर्याये लोकानां यद्भयं भवेत् । अरूपवन्ति रूपाणि तस्मिन्नुत्पातलक्षणे ॥ १७२.१७ ॥ जातं च निष्प्रभं सर्वं न प्राज्ञायत किंचन । तिमिरौघपरिक्षिप्ता न रेजुश्च दिशो दश ॥ १७२.१८ ॥ विवेश रूपिणी काली कालमेघावगुण्ठिता । द्यौर्न भात्यभिभूतार्का घोरेण तमसावृता ॥ १७२.१९ ॥ तान्घनौघान्स तिमिरान् दोर्भ्यामाक्षिप्य स प्रभुः । वपुः संदर्शयामास दिव्यं कृष्णवपुर्हरिः ॥ १७२.२० ॥ बलाहकाञ्जननिभं बलाहकतनूरुहम् । तेजसा वपुषा चैव कृष्णं कृष्णमिवाचलम् ॥ १७२.२१ ॥ दीप्तपीताम्बरधरं तप्तकाञ्चनभूषणम् । धूमान्धकारवपुषं युगान्ताग्निमिवोत्थितम् ॥ १७२.२२ ॥ चतुर्द्विगुणपीनांसं किरीटच्छन्नमूर्धजम् । बभौ चामीकरप्रख्यैरायुधैरुपशोभितम् ॥ १७२.२३ ॥ चन्द्रार्ककिरणोद्द्योतं गिरिकूटमिवोच्छ्रितम् । नन्दकानन्दितकरं शराशीविषधारिणम् ॥ १७२.२४ ॥ शक्तिचित्रबलोदग्रं शङ्खचक्रगदाधरम् । विष्णुशैलं क्षमामूलं श्रीवृक्षं शार्ङ्गशृङ्गिणम् ॥ १७२.२५ ॥ त्रिदशोदारफलदं स्वर्गस्त्रीचारुपल्लवम् । सर्वलोकमनःकान्तं सर्वसत्त्वमनोहरम् ॥ १७२.२६ ॥ नानविमानविटपं तोयदाम्बुमधुस्रवम् । विद्याहंकारसाराढ्यं महाभूतप्ररोहणम् ॥ १७२.२७ ॥ विशेषपत्रैर्निचितं ग्रहनक्षत्रपुष्पितम् । दैत्यलोकमहास्कन्धं मर्त्यलोकप्रकाशितम् ॥ १७२.२८ ॥ सागराकारनिर्ह्रादं रसातलमहाश्रयम् । मृगेन्द्रपाशैर्विततं पक्षजन्तुनिषेवितम् ॥ १७२.२९ ॥ शीलार्थचारुगन्धाढ्यं सर्वलोकमहाद्रुमम् । अव्यक्तानन्तसलिलं व्यक्ताहंकारफेनिलम् ॥ १७२.३० ॥ महाभूततरङ्गौघं ग्रहनक्षत्रबुद्बुदम् । विमानविहगव्यातं तोयदाडम्बराकुलम् ॥ १७२.३१ ॥ जन्तुमत्स्यगणाकीर्णं शैलशङ्खकुलैर्युतम् । त्रैगुण्यविषयावर्तं सर्वलोकतिमिङ्गिलम् ॥ १७२.३२ ॥ वीरवृक्षलतागुल्मं भुजगोत्कृष्टशैवलम् । द्वादशार्कमहाद्वीपं रुद्रैकादशपत्तनम् ॥ १७२.३३ ॥ वस्वष्टपर्वतोपेतं त्रैलोक्याम्भोमहोदधिम् । संध्यासंख्योर्मिसलिलं सुपर्णानिलसेवितम् ॥ १७२.३४ ॥ दैत्यरक्षोगणग्राहं यक्षोरगझषाकुलम् । पितामहमहावीर्यं सर्वस्त्रीरत्नशोभितम् ॥ १७२.३५ ॥ श्रीकीर्तिकान्तिलक्ष्मीभिर्नदीभिरुपशोभितम् । कालयोगिमहापर्वप्रलयोत्पत्तिवेगिनम् ॥ १७२.३६ ॥ तं तु योगमहापारं नारायणमहार्णवम् । देवाधिदेवं वरदं भक्तानां भक्तिवत्सलम् ॥ १७२.३७ ॥ अनुग्रहकरं देवं प्रशान्तिकरणं शुभम् । हर्यश्वरथसंयुक्ते सुपर्णध्वजसेविते ॥ १७२.३८ ॥ ग्रहचन्द्रार्करचिते मन्दराक्षवरावृते । अनन्तरश्मिभिर्युक्ते विस्तीर्णे मेरुगह्वरे ॥ १७२.३९ ॥ तारकाचित्रकुसुमे ग्रहनक्षत्रबन्धुरे । भयेष्वभयदं व्योम्नि देवा दैत्यपराजिताः ॥ १७२.४० ॥ ददृशुस्ते स्थितं देवं दिव्ये लोकमये रथे । ते कृताञ्जलयः सर्वे देवाः शक्रपुरोगमाः ॥ १७२.४१ ॥ जयशब्दं पुरस्कृत्य शरण्यं शरणं गताः । स तेषां तां गिरं श्रुत्वा विष्णुर्दैवतदैवतम् ॥ १७२.४२ ॥ मनश्चक्रे विनाशाय दानवानां महामृधे । आकाशे तु स्थितो विष्णुरुत्तमं वपुरास्थितः ॥ १७२.४३ ॥ उवाच देवताः सर्वाः सप्रतिज्ञमिदं वचः । शान्तिं व्रजत भद्रं वो मा भैष्ट मरुतां गणाः ॥ १७२.४४ ॥ जिता मे दानवाः सर्वे त्रैलोक्यं परिगृह्यताम् । ते तस्य सत्यसंधस्य विष्णोर्वाक्येन तोषिताः ॥ १७२.४५ ॥ देवाः प्रीतिं समाजग्मुः प्राश्यामृतमिवोत्तमम् । ततस्तमः संहृतं तद्विनेशुश्च बलाहकाः ॥ १७२.४६ ॥ प्रववुश्च शिवा वाताः प्रशान्ताश्च दिशो दश । शुद्धप्रभाणि ज्योतींषि सोमश्चक्रुः प्रदक्षिणाम् ॥ १७२.४७ ॥ न विग्रहं ग्रहाश्चक्रुः प्रशान्ताश्चापि सिन्धवः । विरजस्काभवन्मार्गा नाकवर्गादयस्त्रयः ॥ १७२.४८ ॥ यथार्थमूहुः सरितो नापि चुक्षुभिरेऽर्णवाः । आसञ्छुभानीन्द्रियाणि नराणामन्तरात्मसु ॥ १७२.४९ ॥ महर्षयो वीतशोका वेदानुच्चैरधीयत । यज्ञेषु च हविः पाकं शिवमाप च पावकः ॥ १७२.५० ॥ प्रवृत्तधर्माः संवृत्ता लोका मुदितमानसाः । विष्णोर्दत्तप्रतिज्ञस्य श्रुत्वारिनिधने गिरम् ॥ १७२.५१ ॥ ______________________________________________________ मत्स्यपुराण १७३ *मत्स्य उवाच ततोऽभयं विष्णुवचः श्रुत्वा दैत्याश्च दानवाः । उद्योगं विपुलं चक्रुर्युद्धाय विजयाय च ॥ १७३.१ ॥ मयस्तु काञ्चनमयं त्रिनल्वायतमक्षयम् । चतुश्चक्रं सुविपुलं सुकल्पितमहायुगम् ॥ १७३.२ ॥ किङ्किणीजालनिर्घोषं द्वीपिचर्मपरिष्कृतम् । रुचिरं रत्नजालैश्च हेमजालैश्च शोभितम् ॥ १७३.३ ॥ ईहामृगगणाकीर्णं पक्षिपङ्क्तिविराजितम् । दिव्यास्त्रतूणीरधरं पयोधरविनादितम् ॥ १७३.४ ॥ स्वक्षं रथवरोदारं सूपस्थं गगनोपमम् । गदापरिघसम्पूर्णं मूर्तिमन्तमिवार्णवम् ॥ १७३.५ ॥ हेमकेयूरवलयं स्वर्णमण्डलकूबरम् । सपताकध्वजोपेतं सादित्यमिव मन्दरम् ॥ १७३.६ ॥ गजेन्द्राभोगवपुषं क्वचित्केसरिवर्चसम् । युक्तमृक्षसहस्रेण समृद्धाम्बुदनादितम् ॥ १७३.७ ॥ दीप्तमाकाशगं दिव्यं रथं पररथारुजम् । अध्यतिष्ठद्रणाकाङ्क्षी मेरुं दीप्त इवांशुमान् ॥ १७३.८ ॥ तारमुत्क्रोशविस्तारं सर्वं हेममयं रथम् । शैलाकारमसंबाधं नीलाञ्जनचयोपमम् ॥ १७३.९ ॥ कार्ष्णायसमयं दिव्यं लोहेषाबद्धकूबरम् । तिमिरोद्गारिकिरणं गर्जन्तमिव तोयदम् ॥ १७३.१० ॥ लोहजालेन महता सगवाक्षेण दंशितम् । आयसैः परिघैः पूर्णं क्षेपणीयैश्च मुद्गरैः ॥ १७३.११ ॥ प्रासैः पाशैश्च विततैरसंयुक्तैश्च कण्टकैः । शोभितं त्रासयानैश्च तोमरैश्च परश्वधैः ॥ १७३.१२ ॥ उद्यन्तं द्विषतां हेतोर्द्वितीयमिव मन्दरम् । युक्तं खरसहस्रेण सोऽध्यारोहद्रथोत्तमम् ॥ १७३.१३ ॥ विरोचनस्तु संक्रुद्धो गदापाणिरवस्थितः । प्रमुखे तस्य सैन्यस्य दीप्तशृङ्ग इवाचलः ॥ १७३.१४ ॥ युक्तं रथसहस्रेण हयग्रीवस्तु दानवः । स्यन्दनं वाहयामास सपत्नानीकमर्दनः ॥ १७३.१५ ॥ व्यायतं किष्कुसाहस्रं धनुर्विस्फारयन्महत् । वराहः प्रमुखे तस्थौ सप्ररोह इवाचलः ॥ १७३.१६ ॥ खरस्तु विक्षरन्दर्पान्नेत्राभ्यां रोषजं जलम् । स्फुरद्दन्तोष्ठनयनः सङ्ग्रामं सोऽभ्यकाङ्क्षत ॥ १७३.१७ ॥ त्वष्टा त्वष्टगजं घोरं यानमास्थाय दानवः । व्यूहितुं दानवव्यूहं परिचक्राम वीर्यवान् ॥ १७३.१८ ॥ विप्रचित्तिसुतः श्वेतः श्वेतकुण्डलभूषणः । श्वेतशैलप्रतीकाशो युद्धायाभिमुखे स्थितः ॥ १७३.१९ ॥ अरिष्टो बलिपुत्रश्च वरिष्ठोऽद्रिशिलायुधः । युद्धायाभिमुखस्तस्थौ धराधरविकम्पनः ॥ १७३.२० ॥ किशोरस्त्वतिसंहर्षात्किशोर इति चोदितः । सबला दानवाश्चैव संनह्यन्ते यथाक्रमम् ॥ १७३.२१ ॥ अभवद्दैत्यसैन्यस्य मध्ये रविरिवोदितः । लम्बस्तु नवमेघाभः प्रलम्बाम्बरभूषणः ॥ १७३.२२ ॥ दैत्यव्यूहगतो भाति सनीहार इवांशुमान् । स्वर्भानुरास्ययोधी तु दशनोष्ठेक्षणायुधः ॥ १७३.२३ ॥ हसंस्तिष्ठति दैत्यानां प्रमुखे स महाग्रहः । अन्ये हयगतास्तत्र गजस्कन्धगताः परे ॥ १७३.२४ ॥ सिंहव्याघ्रगताश्चान्ये वराहर्क्षेषु चापरे । केचित्खरोष्ट्रयातारः केचिच्छ्वापदवाहनाः ॥ १७३.२५ ॥ पत्तिनस्त्वपरे दैत्या भीषणा विकृताननाः । एकपादार्धपादाश्च ननृतुर्युद्धकाङ्क्षिणः ॥ १७३.२६ ॥ आस्फोटयन्तो बहवः क्ष्वेडन्तश्च तथा परे । हृष्टशार्दूलनिर्घोषा नेदुर्दानवपुंगवाः ॥ १७३.२७ ॥ ते गदापरिघैरुग्रैः शिलामुसलपाणयः । बाहुभिः परिघाकारैस्तर्जयन्ति स्म देवताः ॥ १७३.२८ ॥ पाशैः प्रासैश्च परिघैस्तोमराङ्कुशपट्टिशैः । चिक्रीडुस्ते शतघ्नीभिः शतधारैश्च मुद्गरैः ॥ १७३.२९ ॥ गण्डशैलैश्च शैलैश्च परिघैश्चोत्तमायसैः । चक्रैश्च दैत्यप्रवराश्चक्रुरानन्दितं बलम् ॥ १७३.३० ॥ एतद्दानवसैन्यं तत्सर्वं युद्धमदोत्कटम् । देवानभिमुखे तस्थौ मेघानीकमिवोद्धतम् ॥ १७३.३१ ॥ तदद्भुतं दैत्यसहस्रगाढं वाय्वग्निशैलाम्बुदतोयकल्पम् । बलं रणौघाभ्युदयेऽभ्युदीर्णं युयुत्सयोन्मत्तमिवाबभासे ॥ १७३.३२ ॥ ______________________________________________________ मत्स्यपुराण १७४ *मत्स्य उवाच श्रुतस्ते दैत्यसैन्यस्य विस्तारो रविनन्दन । सुराणामपि सैन्यस्य विस्तारं वैष्णवं शृणु ॥ १७४.१ ॥ आदित्या वसवो रुद्रा अश्विनौ च महाबलौ । सबलाः सानुगाश्चैव संनह्यन्त यथाक्रमम् ॥ १७४.२ ॥ पुरुहूतस्तु पुरतो लोकपालः सहस्रदृक् । ग्रामणीः सर्वदेवानामारुरोह सुरद्विपम् ॥ १७४.३ ॥ मध्ये चास्य रथः सर्वपक्षिप्रवरहंसः । सुचारुचक्रचरणो हेमवज्रपरिष्कृतः ॥ १७४.४ ॥ देवगन्धर्वयक्षौघैरनुयातः सहस्रशः । दीप्तिमद्भिः सदस्यैश्च ब्रह्मर्षिभिरभिष्टुतः ॥ १७४.५ ॥ वज्रविस्फूर्जितोद्भूतैर्विद्युदिन्द्रायुधोदितैः । युक्तो बलाहकगणैः पर्वतैरिव कामगैः ॥ १७४.६ ॥ यमारूढः स भगवान् पर्येति सकलं जगत् । हविर्धानेषु गायन्ति विप्रा मखमुखे स्थिताः ॥ १७४.७ ॥ स्वर्गे शक्रानुयातेषु देवतूर्यनिनादिषु । सुन्दर्यः परिनृत्यन्ति शतशोऽप्सरसां गणाः ॥ १७४.८ ॥ केतुना नागराजेन राजमानो यथा रविः । युक्तो हयसहस्रेण मनोमारुतरंहसा ॥ १७४.९ ॥ स स्यन्दनवरो भाति गुप्तो मातलिना तदा । कृत्स्नः परिवृतो मेरुर्भास्करस्येव तेजसा ॥ १७४.१० ॥ यमस्तु दण्डमुद्यम्य कालयुक्तश्च मुद्गरम् । तस्थौ सुरगणानीके दैत्यान्नादेन भीषयन् ॥ १७४.११ ॥ चतुर्भिः सागरैर्युक्तो लेलिहानैश्च पन्नगैः । शङ्खमुक्ताङ्गदधरो बिभ्रत्तोयमयं वपुः ॥ १७४.१२ ॥ कालपाशान्समाविध्यन् हयैः शशिकरोपमैः । वाय्वीरितैर्जलाकारैः कुर्वंल्लीलाः सहस्रशः ॥ १७४.१३ ॥ पाण्डुरोद्धूतवसनः प्रवालरुचिराङ्गदः । मणिश्यामोत्तमवपुर्हरिभारार्पितो वरः ॥ १७४.१४ ॥ वरुणः पाशधृङ्मध्ये देवानीकस्य तस्थिवान् । युद्धवेलामभिलषन् भिन्नवेल इवार्णवः ॥ १७४.१५ ॥ यक्षराक्षससैन्येन गुह्यकानां गणैरपि । युक्तश्च शङ्खपद्माभ्यां निधीनामधिपः प्रभुः ॥ १७४.१६ ॥ राजराजेश्वरः श्रीमान् गदापाणिरदृश्यत । विमानयोधी धनदो विमाने पुष्पके स्थितः ॥ १७४.१७ ॥ स राजराजः शुशुभे युद्धार्थी नरवाहनः । उक्षाणमास्थितः संख्ये साक्षादिव शिवः स्वयम् ॥ १७४.१८ ॥ पूर्वपक्षः सहस्राक्षः पितृराजस्तु दक्षिणः । वरुणः पश्चिमं पक्षमुत्तरं नरवाहनः ॥ १७४.१९ ॥ चतुर्षु युक्ताश्चत्वारो लोकपाला महाबलाः । स्वासु दिक्षु स्वरक्षन्त तस्य देवबलस्य ते ॥ १७४.२० ॥ सूर्यः सप्ताश्वयुक्तेन रथेनामितगामिना । श्रिया जाज्वल्यमानेन दीप्यमानैश्च रश्मिभिः ॥ १७४.२१ ॥ उदयास्तगचक्रेण मेरुपर्वतगामिना । त्रिदिवद्वारचक्रेण तपता लोकमव्ययम् ॥ १७४.२२ ॥ सहस्ररश्मियुक्तेन भ्राजमानेन तेजसा । चचार मध्ये लोकानां द्वादशात्मा दिनेश्वरः ॥ १७४.२३ ॥ सोमः श्वेतहये भाति स्यन्दने शीतरश्मिवान् । हिमवत्तोयपूर्णाभिर्भाभिराह्लादयञ्जगत् ॥ १७४.२४ ॥ तमृक्षपूगानुगतं शिशिरांशुं द्विजेश्वरम् । शशच्छायाङ्किततनुं नैशस्य तमसः क्षयम् ॥ १७४.२५ ॥ ज्योतिषामीश्वरं व्योम्नि रसानां रसदं प्रभुम् । ओषधीनां सहस्राणां निधानममृतस्य च ॥ १७४.२६ ॥ जगतः प्रथमं भागं सौम्यं सत्यमयं रथम् । ददृशुर्दानवाः सोमं हिमप्रहरणं स्थितम् ॥ १७४.२७ ॥ यः प्राणः सर्वभूतानां पञ्चधा भिद्यते नृषु । सप्तधातुगतो लोकांस्त्रीन्दधार चचार च ॥ १७४.२८ ॥ यमाहुरग्निकर्तारं सर्वप्रभवमीश्वरम् । सप्तस्वरगतो यश्च नित्यं गीर्भिरुदीर्यते ॥ १७४.२९ ॥ यं वदन्त्युत्तमं भूतं यं वदन्त्यशरीरिणम् । यमाहुराकाशगमं शीघ्रगं शब्दयोगिनम् ॥ १७४.३० ॥ स वायुः सर्वभूतायुरुद्भूतः स्वेन तेजसा । ववौ प्रव्यथयन्दैत्यान् प्रतिलोमं सतोयदः ॥ १७४.३१ ॥ मरुतो दिव्यगन्धर्वैर्विद्याधरगणैः सह । चिक्रीडुरसिभिः शुभ्रैर्निर्मुक्तैरिव पन्नगैः ॥ १७४.३२ ॥ सृजन्तः सर्पपतयस्तीव्रतोयमयं विषम् । शरभूता दिवीन्द्राणां चेरुर्व्यात्तानना दिवि ॥ १७४.३३ ॥ पर्वतैश्च शिलाशृङ्गैः शतशश्चैव पादपैः । उपतस्थुः सुरगणाः प्रहर्तुं दानवं बलम् ॥ १७४.३४ ॥ यः स देवो हृषीकेशः पद्मनाभस्त्रिविक्रमः । युगान्तकृष्णवर्त्माभो विश्वस्य जगतः प्रभुः ॥ १७४.३५ ॥ सर्वयोनिः स मधुहा हव्यभुक्क्रतुसंस्थितः । भूम्यापोव्योमभूतात्मा श्यामः शान्तिकरोऽरिहा ॥ १७४.३६ ॥ अरिघ्नममरादीनां चक्रं गृह्य गदाधरः । अर्कं नागादिवोद्यन्तमुद्यम्योत्तमतेजसा ॥ १७४.३७ ॥ सव्येनालम्ब्य महतीं सर्वासुरविनाशिनीम् । करेण कालीं वपुषा शत्रुकालप्रदां गदाम् ॥ १७४.३८ ॥ अन्यैर्भुजैः प्रदीप्तानि भुजगारिध्वजः प्रभुः । दधारायुधजातानि शार्ङ्गादीनि महाबलः ॥ १७४.३९ ॥ स कश्यपस्यात्मभुवं द्विजं भुजगभोजनम् । पवनाधिकसंपातं गगनक्षोभणं खगम् ॥ १७४.४० ॥ भुजगेन्द्रेण वदने निविष्टेन विराजितम् । अमृतारम्भनिर्मुक्तं मन्दराद्रिमिवोच्छ्रितम् ॥ १७४.४१ ॥ देवासुरविमर्देषु बहुशो दृष्टविक्रमम् । महेन्द्रेणामृतस्यार्थे वज्रेण कृतलक्षणम् ॥ १७४.४२ ॥ शिखिनं बलिनं चैव तप्तकुण्डलभूषणम् । विचित्रपत्रवसनं धातुमन्तमिवाचलम् ॥ १७४.४३ ॥ स्फीतक्रोडावलम्बेन शीतांशुसमतेजसा । भोगिभोगावसक्तेन मणिरत्नेन भास्वता ॥ १७४.४४ ॥ पक्षाभ्यां चारुपत्राभ्यामावृत्य दिवि लीलया । युगान्ते सेन्द्रचापाभ्यां तोयदाभ्यामिवाम्बरम् ॥ १७४.४५ ॥ नीललोहितपीताभिः पताकाभिरलंकृतम् । केतुवेषप्रतिच्छन्नं महाकायनिकेतनम् ॥ १७४.४६ ॥ अरुणावरजं श्रीमानारुह्य समरे विभुः । सुवर्णवर्णवपुषा सुपर्णं खेचरोत्तमम् ॥ १७४.४७ ॥ तमन्वयुर्देवगणा मुनयश्च समाहिताः । गीर्भिः परममन्त्राभिस्तुष्टुवुश्च जनार्दनम् ॥ १७४.४८ ॥ तद्वैश्रवणसंश्लिष्टं वैवस्वतपुरःसरम् । द्विजराजपरिक्षिप्तं देवराजविराजितम् ॥ १७४.४९ ॥ चन्द्रप्रभाभिर्विपुलं युद्धाय समवर्तत । पवनाविद्धनिर्घोषं संप्रदीप्तहुताशनम् ॥ १७४.५० ॥ विष्णोर्जिष्णोश्च भ्राजिष्णोस्तेजसा तमसावृतम् । बलं बलवदुद्वृत्तं युद्धाय समवर्तत ॥ १७४.५१ ॥ स्वस्त्यस्तु देवेभ्य इति बृहस्पतिरभाषत । स्वस्त्यस्तु दानवानीक उशना वाक्यमाददे ॥ १७४.५२ ॥ ______________________________________________________ मत्स्यपुराण १७५ *मत्स्य उवाच ताभ्यां बलाभ्यां संजज्ञे तुमुलो विग्रहस्तदा । सुराणामसुराणां च परस्परजयैषिणाम् ॥ १७५.१ ॥ दानवा दैवतैः सार्धं नानाप्रहरणोद्यताः । समीयुर्युध्यमाना वै पर्वता इव पर्वतैः ॥ १७५.२ ॥ तत्सुरासुरसंयुक्तं युद्धमत्यद्भुतं बभौ । धर्माधर्मसमायुक्तं दर्पेण विनयेन च ॥ १७५.३ ॥ ततो रथैर्विप्रयुक्तैर्वारणैश्च प्रचोदितैः । उत्पतद्भिश्च गगनमसिहस्तैः समन्ततः ॥ १७५.४ ॥ क्षिप्यमाणैश्च मुसलैः संपतद्भिश्च सायकैः । चापैर्विस्फार्यमाणैश्च पात्यमानैश्च मुद्गरैः ॥ १७५.५ ॥ तद्युद्धमभवद्घोरं देवदानवसंकुलम् । जगतस्त्रासजननं युगसंवर्तकोपमम् ॥ १७५.६ ॥ हस्तमुक्तैश्च परिघैर्विप्रयुक्तैश्च पर्वतैः । दानवाः समरे जघ्नुर्देवानिन्द्रपुरोगमान् ॥ १७५.७ ॥ ते वध्यमाना बलिभिर्दानवैर्जितकाशिभिः । विषण्णवदना देवा जग्मुरार्तिं परां मृधे ॥ १७५.८ ॥ तेऽस्त्रशूलप्रमथिताः परिघैर्भिन्नमस्तकाः । भिन्नोरस्का दितिसुतैर्वेमू रक्तं व्रणैर्बहु ॥ १७५.९ ॥ वेष्टिताः शरजालैश्च निर्यत्नाश्चासुरैः कृताः । प्रविष्टा दानवीं मायां न शेकुस्ते विचेष्टितुम् ॥ १७५.१० ॥ अस्तं गतमिवाभाति निष्प्राणसदृशाकृति । बलं सुराणामसुरैर्निष्प्रयत्नायुधं कृतम् ॥ १७५.११ ॥ दैत्यचापच्युतान् घोरांश्छित्त्वा वज्रेण ताञ्छरान् । शक्रो दैत्यबलं घोरं विवेश बहुलोचनः ॥ १७५.१२ ॥ स दैत्यप्रमुखान्हत्वा तद्दानवबलं महत् । तामसेनास्त्रजालेन तमोभूतमथाकरोत् ॥ १७५.१३ ॥ तेऽन्योन्यं नावबुध्यन्त देवानां वाहनानि च । घोरेण तमसाविष्टाः पुरुहूतस्य तेजसा ॥ १७५.१४ ॥ मायापाशैर्विमुक्तास्तु यत्नवन्तः सुरोत्तमाः । वपूंषि दैत्यसिंहानां तमोभूतान्यपातयन् ॥ १७५.१५ ॥ अपध्वस्ता विसंज्ञाश्च तमसा नीलवर्चसा । पेतुस्ते दानवगणाश्छिन्नपक्षा इवाद्रयः ॥ १७५.१६ ॥ तद्घनीभूतदैत्येन्द्रमन्धकार इवार्णवे । दानवं देवकदनं तमोभूतमिवाभवत् ॥ १७५.१७ ॥ तदासृजन्महामायां मयस्तां तामसीं दहन् । युगान्तोद्योतजननीं सृष्टामौर्वेण वह्निना ॥ १७५.१८ ॥ सा ददाह ततः सर्वान्माया मयविकल्पिता । दैत्याश्चादित्यवपुषः सद्य उत्तस्थुराहवे ॥ १७५.१९ ॥ मायामौर्वीं समासाद्य दह्यमाना दिवौकसः । भेजिरे चन्द्रविषयं शीतांशुसलिलप्रदम् ॥ १७५.२० ॥ ते दह्यमाना ह्यौर्वेण वह्निना नष्टचेतसः । शशंसुर्वज्रिणं देवाः संतप्ताः शरणैषिणः ॥ १७५.२१ ॥ संतते मायया सैन्ये हन्यमाने च दानवैः । चोदितो देवराजेन वरुणो वाक्यमब्रवीत् ॥ १७५.२२ ॥ पुरा ब्रह्मर्षिजः शक्र तपस्तेपे सुदारुणम् । ऊर्वः सपूर्वतेजस्वी सदृशो ब्रह्मणो गुणैः ॥ १७५.२३ ॥ तं तपन्तमिवादित्यं तपसा जगदव्ययम् । उपतस्थुर्मुनिगणा दिव्या देवर्षिभिः सह ॥ १७५.२४ ॥ हिरण्यकशिपुश्चैव दानवो दानवेश्वरः । ऋषिं विज्ञापयामासुः पुरा परमतेजसम् ॥ १७५.२५ ॥ ऊचुर्ब्रह्मर्षयस्तं तु वचनं धर्मसंहितम् । ऋषिवंशेषु भगवंश्छिन्नमूलमिदं पदम् ॥ १७५.२६ ॥ एकस्त्वमनपत्यश्च गोत्रजोऽन्यो न वर्तते । कौमारं व्रतमास्थाय क्लेशमेवानुवर्तसे ॥ १७५.२७ ॥ बहूनि विप्र गोत्राणि मुनीनां भावितात्मनाम् । एकदेहानि तिष्ठन्ति विविक्तानि विना प्रजाः ॥ १७५.२८ ॥ एवमुच्छिन्नमूलैश्च पुत्रैर्नो नास्ति कारणम् । भवांस्तु तपसा श्रेष्ठो प्रजापातसमद्युतिः ॥ १७५.२९ ॥ तत्र वर्तस्व वंशाय वर्धयात्मानमात्मना । त्वया धर्मोऽर्जितस्तेन द्वितीयां कुरु वै तनुम् ॥ १७५.३० ॥ स एवमुक्तो मुनिभिर्मुनिर्मर्मसु ताडितः । जगर्हे तानृषिगणान् वचनं चेदमब्रवीत् ॥ १७५.३१ ॥ यथायं विहितो धरो मुनीनां शाश्वतः पुरा । आर्षं वै सेवतः कर्म वन्यमूलफलाशिनः ॥ १७५.३२ ॥ ब्रह्मयोनौ प्रसूतस्य ब्राह्मणस्यात्मदर्शिनः । ब्रह्मचर्यं सुचरितं ब्रह्माणमपि चालयेत् ॥ १७५.३३ ॥ जनानां वृत्तयस्तिस्रो ये गृहाश्रमवासिनः । अस्माकं तु वरं वृत्तिर्वनाश्रमनिवासिनाम् ॥ १७५.३४ ॥ अब्भक्षा वायुभक्षाश्च दन्तोलूखलिनस्तथा । अश्मकुट्टा ह्यशनकाः पञ्चातपसहाश्च ये ॥ १७५.३५ ॥ एते तपसि तिष्ठन्ति व्रतैरपि सुदुष्करैः । ब्रह्मचर्यं पुरस्कृत्य प्रार्थयन्ति परां गतिम् ॥ १७५.३६ ॥ ब्रह्यचर्याद्ब्राह्मणस्य ब्राह्मणत्वं विधीयते । एवमाहुः परे लोके ब्रह्मचर्यविदो जनाः ॥ १७५.३७ ॥ ब्रह्मचर्ये स्थितं सत्यं ब्रह्मचर्ये स्थितं तपः । ये स्थिता ब्रह्मचर्ये तु ब्राह्मणा दिवि संस्थिताः ॥ १७५.३८ ॥ नास्ति योगं विना सिद्धिर्न वा सिद्धिं विना यशः । नास्ति लोके यशोमूलं ब्रह्मचर्यात्परं तपः ॥ १७५.३९ ॥ यो निगृह्येन्द्रियग्रामं भूतग्रामं च पञ्चकम् । ब्रह्मचर्यं समाधत्ते किमतः परमं तपः ॥ १७५.४० ॥ अयोगे केशधरणमसंकल्पव्रतक्रियां । अब्रह्मचर्ये चर्या च त्रयं स्याद्दम्भसंज्ञकम् ॥ १७५.४१ ॥ क्व दाराः क्व च संयोगः क्व च भावविपर्ययः । नन्वियं ब्रह्मणा सृष्टा मनसा मानसी प्रजा ॥ १७५.४२ ॥ यद्यस्ति तपसो वीर्यं युष्माकं विदितात्मनाम् । सृजध्वं मानसान्पुत्रान् प्राजापत्येन कर्मणा ॥ १७५.४३ ॥ मनसा निर्मिता योनिराधातव्या तपस्विभिः । न दारयोगो बीजं वा व्रतमुक्तं तपस्विनाम् ॥ १७५.४४ ॥ यदिदं लुप्तधर्मार्थं युष्माभिरिह निर्भयैः । व्याहृतं सद्भिरत्यर्थमसद्भिरिव मे मतम् ॥ १७५.४५ ॥ वपुर्दीप्तान्तरात्मानमेतत्कृत्वा मनोमयम् । दारयोगं विना स्रक्ष्ये पुत्रमात्मतनूरुहम् ॥ १७५.४६ ॥ एवमात्मानमात्मा मे द्वितीयं जनयिष्यति । वन्येनानेन विधिना दिधक्षन्तमिव प्रजाः ॥ १७५.४७ ॥ ऊर्वस्तु तपसाविष्टो निवेश्योरुं हुताशने । ममन्थैकेन दर्भेण सुतस्य प्रभवारणिम् ॥ १७५.४८ ॥ तस्योरुं सहसा भित्त्वा ज्वालामाली ह्यनिन्धनः । जगतो दहनाकाङ्क्षी पुत्रोऽग्निः समपद्यत ॥ १७५.४९ ॥ ऊर्वस्योरुं विनिर्भिद्य और्वो नामान्तकोऽनलः । दिधक्षन्निव लोकांस्त्रीञ्जज्ञे परमकोपनः ॥ १७५.५० ॥ उत्पन्नमात्रश्चोवाच पितरं क्षीणया गिरा । क्षुधा मे बाधते तात जगद्भक्ष्ये त्यजस्व माम् ॥ १७५.५१ ॥ त्रिदिवारोहिभिर्ज्वालैर्जृम्भमाणो दिशो दश । निर्दहन्सर्वभूतानि ववृधे सोऽन्तकोऽनलः ॥ १७५.५२ ॥ एतस्मिन्नन्तरे ब्रह्मा मुनिमूर्वं सभाजयन् । उवाच वार्यतां पुत्रो जगतश्च दयां कुरु ॥ १७५.५३ ॥ अस्यापत्यस्य ते विप्र करिष्ये स्थानमुत्तमम् । तथ्यमेतद्वचः पुत्र शृणु त्वं वदतां वर ॥ १७५.५४ ॥ *ऊर्व उवाच धन्योऽस्म्यनुगृहीतोऽस्मि यन्मेऽद्य भगवाञ्छिशोः । मतिमेतां ददातीह परमानुग्रहाय वै ॥ १७५.५५ ॥ प्रभातकाले सम्प्राप्ते काङ्क्षितव्ये समागमे । भगवंस्तर्पितः पुत्रः कैर्हव्यैः प्राप्स्यते सुखम् ॥ १७५.५६ ॥ कुत्र चास्य निवासः स्याद्भोजनं वा किमात्मकम् । विधास्यतीह भगवान् वीर्यतुल्यं महौजसः ॥ १७५.५७ ॥ *ब्रह्मोवाच वडवामुखेऽस्य वसतिः समुद्रे वै भविष्यति । मम योनिर्जलं विप्र तस्य पीतवतः सुखम् ॥ १७५.५८ ॥ यत्राहमास नियतं पिबन्वारिमयं हविः । तद्धविस्तव पुत्रस्य विसृजाम्यालयं च तत् ॥ १७५.५९ ॥ ततो युगान्ते भूतानामेष चाहं च पुत्रक । सहितौ विचरिष्यावो निष्पुत्राणामृणापहः ॥ १७५.६० ॥ एषोऽग्निरन्तकाले तु सलिलाशी मया कृतः । दहनः सर्वभूतानां सदेवासुररक्षसाम् ॥ १७५.६१ ॥ एवमस्त्विति तं सोऽग्निः संवृतज्वालमण्डलः । प्रविवेशार्णवमुखं प्रक्षिप्य पितरि प्रभाम् ॥ १७५.६२ ॥ प्रतियातस्ततो ब्रह्मा ये च सर्वे महर्षयः । और्वस्याग्नेः प्रभां ज्ञात्वा स्वां स्वां गतिमुपाश्रिताः ॥ १७५.६३ ॥ हिरण्यकशिपुर्दृष्ट्वा तदा तन्महदद्भुतम् । उच्चैः प्रणतसर्वाङ्गो वाक्यमेतदुवाच ह ॥ १७५.६४ ॥ भगवन्नद्भुतमिदं संवृत्तं लोकसाक्षिकम् । तपसा ते मुनिश्रेष्ठ परितुष्टः पितामहः ॥ १७५.६५ ॥ अहं तु तव पुत्रस्य तव चैव महाव्रत । भृत्य इत्यवगन्तव्यः साध्यो यदिह कर्मणा ॥ १७५.६६ ॥ तन्मां पश्य समापन्नं तवैवाराधने रतम् । यदि सीदेन्मुनिश्रेष्ठ तवैव स्यात्पराजयः ॥ १७५.६७ ॥ *और्व उवाच धन्योऽस्म्यनुगृहीतोऽस्मि यस्य तेऽहं गुरुः स्थितः । नास्ति मे तपसानेन भयमद्येह सुव्रत ॥ १७५.६८ ॥ तामेव मायां गृह्णीष्व मम पुत्रेण निर्मिताम् । निरिन्धनामग्निमयीं दुर्धर्षां पावकैरपि ॥ १७५.६९ ॥ एषा ते स्वस्य वंशस्य वशगारिविनिग्रहे । संरक्षत्यात्मपक्षं च विपक्षं च प्रधक्ष्यति ॥ १७५.७० ॥ एवमस्त्विति तां गृह्य प्रणम्य मुनिपुंगवम् । जगाम त्रिदिवं हृष्टः कृतार्थो दानवेश्वरः ॥ १७५.७१ ॥ एषा दुर्विषहा माया देवैरपि दुरासदा । और्वेण निर्मिता पूर्वं पावकेनोर्वसूनुना ॥ १७५.७२ ॥ तस्मिंस्तु व्युत्थिते दैत्ये निर्वीर्यैषा न संशयः । शापो ह्यस्याः पुरा दत्तः सृष्टा येनैव तेजसा ॥ १७५.७३ ॥ यद्येषा प्रतिहन्तव्या कर्तव्यो भगवान्सुखी । दीयतां मे सखा शक्र तोययोनिर्निशाकरः ॥ १७५.७४ ॥ तेनाहं सह संगम्य यादोभिश्च समावृतः । मायामेतां हनिष्यामि त्वत्प्रसादान्न संशयः ॥ १७५.७५ ॥ ______________________________________________________ मत्स्यपुराण १७६ *मत्स्य उवाच एवमस्त्विति संहृष्टः शक्रस्त्रिदशवर्धनः । संदिदेशाग्रतः सोमं युद्धाय शिशिरायुधम् ॥ १७६.१ ॥ गच्छ सोम सहायत्वं कुरु पाशधरस्य वै । असुराणां विनाशाय जयार्थं च दिवौकसाम् ॥ १७६.२ ॥ त्वं मत्तः प्रतिवीर्यश्च ज्योतिषां चेश्वरेश्वरः । त्वन्मयं सर्वलोकेषु रसं रसविदो विदुः ॥ १७६.३ ॥ क्षयवृद्धी तव व्यक्ते सागरस्येव मण्डले । परिवर्तस्यहोरात्रं कालं जगति योजयन् ॥ १७६.४ ॥ लोकच्छायामयं लक्ष्म तवाङ्कः शशसंनिभः । न विदुः सोम देवापि ये च नक्षत्रयोनयः ॥ १७६.५ ॥ त्वमादित्यपथादूर्ध्वं ज्योतिषां चोपरि स्थितः । तमः प्रोत्सार्य महसा भासयस्यखिलं जगत् ॥ १७६.६ ॥ श्वेतभानुर्हिमतनुर्ज्योतिषामधिपः शशी । अधिकृत्कालयोगात्मा इष्टो यज्ञरसोऽव्ययः ॥ १७६.७ ॥ ओषधीशः क्रियायोनिर्हरशेखरभाक्तथा । शीतांशुरमृताधारश्चपलः श्वेतवाहनः ॥ १७६.८ ॥ त्वं कान्तिः कान्तिवपुषां त्वं सोमः सोमपायिनाम् । सौम्यस्त्वं सर्वभूतानां तिमिरघ्नस्त्वमृक्षराट् ॥ १७६.९ ॥ तद्गच्छ त्वं महासेन वरुणेन वरूथिना । शमय त्वासुरीं मायां यया दह्याम संयुगे ॥ १७६.१० ॥ *सोम उवाच यन्मां वदसि युद्धार्थे देवराज वरप्रद । एष वर्षामि शिशिरं दैत्यमायापकर्षणम् ॥ १७६.११ ॥ एतान्मच्छीतनिर्दग्धान् पश्य त्वं हिमवेष्टितान् । विमायान्विमदांश्चैव दैत्यसिंहान्महाहवे ॥ १७६.१२ ॥ इत्युक्त्वा तारकाधीशः सजलेशः शिवोदकैः । प्लावयामास सैन्यानि सुराणां शान्तिवृद्धये ॥ १७६.१३ ॥ तेषां हिमकरोत्सृष्टाः सपाशा हिमवृष्टयः । वेष्टयन्ति स्म तान्घोरान् दैत्यान्मेघगणा इव ॥ १७६.१४ ॥