श्रीमन्महर्षिवेदव्यासप्रणीतं श्रीमार्कण्डेयपुराणम् प्रथमोऽध्यायः आरम्भमङ्गलम् यद्योगिभिर्भवभयार्तिविनाशयोग्यम् आसाद्य वन्दितमतीव विवक्तचित्तैः । तद्वः पुनातु हरिपादसरोजयुग्मम् अविर्भवत्क्रमविलङ्घितभूर्भुवः स्वः ॥ म.१ ॥ पायात्स वः सकलकल्मषभेददक्षः क्षीरोदकुक्षिफणिभोगनिविष्टमूर्तिः । श्वासावधूतसलिलोत्कणिकाकरालः सिन्धुः प्रनृत्यमिव यस्य करोति सङ्गात् ॥ म.२ ॥ नारायणं समस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥ म.३ ॥ तपः स्वाध्यायनिरतं मार्कण्डेयं महामुनिम् । व्यासशिष्यो महातेजा जैमिनिः पर्यपृच्छत ॥ १.१ ॥ भगवन् भारताख्यानं व्यासेनोक्तं महात्मना । पूर्णमस्तमलैः शुभ्रैर्नानाशास्त्रसमुच्चयैः ॥ १.२ ॥ जातिशुद्धिसमायुक्तं साधुशब्दोपशोभितम् । पूर्वपक्षोक्तिसिद्धान्तपरिनिष्ठासमन्वितम् ॥ १.३ ॥ त्रिदशानां यथा विष्णुर्द्विपदां ब्राह्मणो यथा । भूषणानाञ्च सर्वेषां यथा चूडामणिर्वरः ॥ १.४ ॥ यथायुधानां कुलिशमिन्द्रियाणां यथा मनः । तथेह सर्वशास्त्रणां महाभारतमुत्तमम् ॥ १.५ ॥ अत्रार्थश्चैव धर्मश्च कामो मोक्षश्च वर्ण्यते । परस्परानुबन्धाश्च सानुबन्धाश्च ते पृथक् ॥ १.६ ॥ धर्मशास्त्रमिदं श्रेष्ठमर्थशास्त्रमिदं परम् । कामशास्त्रमिदं चाग्र्यं मोक्षशास्त्रं तथोत्तमम् ॥ १.७ ॥ चतुराश्रमधर्माणामाचारस्थितिसाधनम् । प्रोक्तमेतन्महाभाग वेदव्यासेन धीमता ॥ १.८ ॥ तथा तात कृतं ह्येतद्व्यासेनोदारकर्मणा । यथा व्याप्तं महाशास्त्रं विरोधैर्नाभिभूयते ॥ १.९ ॥ व्यासवाक्यजलौघेन कुतर्कतरुहारिणा । वेदशैलावतीर्णेन नीरजस्का मही कृता ॥ १.१० ॥ कलशब्दमहाहंसं माख्यानपराम्बुजम् । कथाविस्तीर्णसलिलं कार्ष्ण वेदमहाह्रदम् ॥ १.११ ॥ तदिदं भारताख्यानं बह्विर्थं श्रुतिविस्तरम् । तत्त्वतो ज्ञातुकामोऽहं भगवंस्त्वामुपस्थितः ॥ १.१२ ॥ कस्मान्मानुषतां प्राप्तो निर्गुणोऽपि जनार्दनः । वासुदेवो जगत्सूतिस्थितिसंयमकारणम् ॥ १.१३ ॥ कस्माच्च पाण्डुपुत्त्राणामेका सा द्रुपदात्मजा । पञ्चानां महीषी कृष्णा ह्यत्र नः संशयो महान् ॥ १.१४ ॥ भेषजं ब्रह्महत्याया बलदेवो महाबलः । तीर्थयात्राप्रसङ्गेन कस्माच्चक्रे हलायुधः ॥ १.१५ ॥ कथञ्च द्रौपदेयास्तेऽकृतदारा महारथाः । पाण्डुनाथा महात्मानो वधमापुरनाथवत् ॥ १.१६ ॥ एतत्सर्वं विस्तरशो ममाख्यातुमिहार्हसि । भवन्तो मूढबुद्धीनामवबोधकराः सदा ॥ १.१७ ॥ इति तस्य वचः श्रुत्वा मार्कण्डेयो माहमुनिः । दशाष्टदोषरहितो वक्तुं समुपचक्रमे ॥ १.१८ ॥ मार्कण्डेय उवाच क्रियाकालोऽयमस्माकं समप्राप्तो मुनिसत्तम । विस्तरे चापि वक्तव्ये नैष कालः प्रशस्यते ॥ १.१९ ॥ ये तु वक्ष्यन्ति वक्ष्येऽद्य तानहं जैमिने तव । तथा च नष्टसन्देहं त्वां करिष्यन्ति पक्षिणः ॥ १.२० ॥ पिङ्गाक्षश्च विबोधश्च सुपुत्त्रः सुमुखस्तथा । द्रोणपुत्राः खगश्रेष्ठास्तत्त्वज्ञाः शास्त्रचिन्तकाः ॥ १.२१ ॥ वेदशास्त्रार्थविज्ञाने येषामव्याहता मतिः । विन्ध्यकन्दरमध्यस्थास्तानुपास्य च पृच्छ च ॥ १.२२ ॥ एवमुक्तस्तदा तेन मार्कण्डेयेन धीमता । प्रत्युवाचर्षिशार्दूलो विस्मयोत्फुल्ललोचनः ॥ १.२३ ॥ जैमिनिरुवाच अत्यद्भुतमिदं ब्रह्मन् खगवागिव मानुषी । यत्पक्षिणस्ते विज्ञानमापुरत्यन्तदुर्लभम् ॥ १.२४ ॥ तिर्यग्योन्यां यदि भवस्तेषां ज्ञानं कुतोऽभवत् । कथञ्च द्रोणतनयाः प्रोच्यन्ते ते पतत्रिणः ॥ १.२५ ॥ कश्च द्रोणः प्रविख्यातो यस्य पुत्रचतुष्टयम् । जातं गुणवतां तेषां धर्मज्ञानं महात्मनाम् ॥ १.२६ ॥ मार्कण्डेय उवाच शृणुष्वावहितो भूत्वा यद्वृत्तं नन्दने पुरा । शक्रस्याप्यसरसां चैव नारदस्य च सङ्गमे ॥ १.२७ ॥ नारदो नन्दनेऽपश्यत्पुंश्चलीगणमध्यगम् । शक्रं सुराधिराजानं तन्मुखासक्तलोचनम् ॥ १.२८ ॥ स तेनर्षिवरिष्ठेन दृष्टमात्रः शचीपतिः । समुत्तस्थौ स्वकं चास्मै ददावासनमादरात् ॥ १.२९ ॥ तं दृष्ट्वा बलवृत्रघ्नमुत्थितं त्रिदशाङ्गनाः । प्रणेमुस्ताश्च देवर्षि विनयावनताः स्थिताः ॥ १.३० ॥ ताभिरभ्यर्चितः सोऽथ उपविष्टे शतक्रतौ । यथार्हं कृतसम्भाषः कथाश्चक्रे मनोरमाः ॥ १.३१ ॥ शक्र उवाच ततः कथान्तरे शक्रस्तमुवाच महामुनिम् । देह्याज्ञां नृत्यतामासां तव याभिमतेति वै ॥ १.३२ ॥ रम्भा वा कर्कशा वाथ उर्वश्यथ तिलोत्तमा । घृताची मेनका वापि यत्र वा भवतो रुचिः ॥ १.३३ ॥ एतच्छ्रुत्वा द्विजश्रेष्ठो वचो शक्रस्य नारदः । विचिन्त्याप्सरसः प्राह विनयावनताः स्थिताः ॥ १.३४ ॥ युष्माकमिह सर्वासां रूपौदार्यगुणाधिकम् । आत्मानं मन्यते या तु सा नृत्यतु ममाग्रतः ॥ १.३५ ॥ गुणरूपविहीनायाः सिद्धिर्नाट्यस्य नास्ति वै । चार्वधिष्ठानवन्नृत्यं नृत्यमन्यद्विडम्बनम् ॥ १.३६ ॥ तद्वाक्यसमकालं च एकैकास्ता नतास्ततः । अहं गुणाधिका न त्वं न त्वं चान्याब्रवीदिदम् ॥ १.३७ ॥ मार्कण्डेय उवाच तासां संभ्रममालोक्य भगवान् पाकशासनः । पृच्छ्यतां मुनिरित्याह वक्ता यां वो गुणाधिकाम् ॥ १.३८ ॥ शक्रच्छन्दानुयाताभिः पृष्टस्ताभिः सनारदः । प्रोवाच यत्तदा वाक्यं जैमिने तन्निबोध मे ॥ १.३९ ॥ तपस्यन्तं नगेन्द्रस्थं या वः क्षोभयते बलात् । दुर्वाससं मुनिश्रेष्ठं तां वो मन्ये गुणाधिकाम् ॥ १.४० ॥ मार्कण्डेय उवाच तस्य तद्वचनं श्रुत्वा सर्वा वेपतकन्धराः । अशक्यमेतदस्माकमिति ताश्चक्रिरे कथाः ॥ १.४१ ॥ तत्राप्सरा वपुर्नाम मुनिक्षोभणगर्विता । प्रत्युवाचाद्य यास्यामि यत्रासौ संस्थितो मुनिः ॥ १.४२ ॥ अद्य तं देहयन्तारं प्रयुक्तेन्द्रियवाजिनम् । स्मरशस्त्रगलद्रश्मिं करिष्यामि कुसारथिम् ॥ १.४३ ॥ ब्रह्मा जनार्दनो वापि यदि वा नीललोहितः । तमप्यद्य करिष्यामि कामबाणक्षतान्तरम् ॥ १.४४ ॥ इत्युक्त्वा प्रजगामाथ प्रालेयाद्रिं वपुस्तदा । मुनेस्तपः प्रभावेण प्रशान्तश्वापदाश्रमम् ॥ १.४५ ॥ स पुंस्कोकिलमाधुर्या यत्रास्ते स महामुनिः । क्रोशमात्रं स्थिता तस्मादगायत वराप्सराः ॥ १.४६ ॥ तद्गीतध्वनिमाकर्ण्य मुनिर्विस्मितमानसः । जगाम तत्र यत्रास्ते सा बाला रुचिरानना ॥ १.४७ ॥ तां दृष्ट्वा चारुसर्वाङ्गीं मुनिः संस्तभ्य मानसम् । क्षोभणायागतां ज्ञात्वा कोपामर्षसन्वितः ॥ १.४८ ॥ उवाचेदं ततो वाक्यं महर्षिस्तां महातपाः ॥ १.४९ ॥ यस्माद्दुः खार्जितस्येह तपसो विध्नकारणात् । आगतासि मदोन्मत्ते मम दुः खाय खेचरि ॥ १.५० ॥ तस्मात्सुपर्णगोत्रे त्वं मत्क्रोधकलुषीकृता । जन्म प्राप्स्यसि दुष्प्रज्ञे यावद्वर्षाणि षोडश ॥ १.५१ ॥ निजरूपं परित्यज्य पक्षिणीरूपधारिणी । चत्वारस्ते च तनया जनिष्यन्तेऽधमाप्सराः ॥ १.५२ ॥ अप्राप्य तेषु च प्रीतिं शस्त्रपूता पुनर्दिवि । वासमाप्स्यसि वक्तव्यं नोत्तरं ते कथञ्चन ॥ १.५३ ॥ इति वचनमसह्यं कोपसंरक्तदृष्टिश् चलकलबलयां तां मानिनीं श्रावयित्वा । तरलतरतरङ्गां गां परित्यज्य विप्रः प्रथितगुणगणौघां संप्रयाताः खगङ्गाम् ॥ १.५४ ॥ इति श्रीमार्कण्डेयपुराणे वपुशापो नाम प्रथमोऽध्यायः _____________________________________________________________ द्वितीयोऽध्यायः मार्कण्डेय उवाच अरिष्टनेमिपुत्रोऽभूद्गरुडो नाम पक्षिराट् । गरुडस्याभवत्पुत्रः सम्पातिरिति विश्रुतः ॥ २.१ ॥ तस्याप्यासीत्सुतः शूरः सुपार्श्वो वायुविक्रमः । सुपार्श्वतनयः कुन्तिः कुन्तिपुत्रः प्रलोलुपः ॥ २.२ ॥ तस्यापि तनयावास्तां कङ्कः कन्धर एव च ॥ २.३ ॥ कङ्कः कैलासशिखरे विद्युद्रूपेति विश्रुतम् । ददर्शाम्बुजपत्राक्षं राक्षसं धनदानुगम् ॥ २.४ ॥ आपानासक्तममलस्त्रग्दामाम्बरधारिणम् । भार्यासहायमासीनं शिलापट्टेऽमले शुभे ॥ २.५ ॥ तद्दृष्टमात्रं कङ्केन रक्षः क्रोधसमन्वितम् । प्रोवाच कस्मादायातस्त्वमितो ह्यण्डजाधम ॥ २.६ ॥ स्त्रीसन्निकर्षे तिष्ठन्तं कस्मान्मामुपसर्पसि । नैष धर्मः सुबुद्धीनां मिथोनिष्पाद्यवस्तुषु ॥ २.७ ॥ कङ्क उवाच साधारणोऽयं शैलेन्द्रो यथा तव तथा मम । अन्येषां चैव जन्तूनां ममता भवतोऽत्र का ॥ २.८ ॥ मार्कण्डेय उवाच ब्रुवाणमित्थं खड्गेन कङ्कं चिन्छेद राक्षसः । क्षरत्क्षतजबीभत्सं विस्फुरन्तमचेतनम् ॥ २.९ ॥ कङ्कं विनिहतं श्रुत्वा कन्धरः क्रोधमूर्च्छितः । विद्युद्रूपवधायाशु मनश्चक्रेऽण्डजेश्वरः ॥ २.१० ॥ स गत्वा शैलशिखरं कङ्को यत्र हतः स्थितः । तस्य संकलनं चक्रे भ्रातुर्ज्येष्ठस्य खेचरः । कोपामर्षविवृताक्षो नागेन्द्र इव निः श्वसन् ॥ २.११ ॥ जगामाथ स यत्रास्ते भ्रातृहा तस्य राक्षसः । पक्षवातेन महता चालयन् भूधरान् वरान् ॥ २.१२ ॥ वेगात्पयोदजालानि विक्षिपन् क्षतजेक्षणः । क्षणात्क्षयितशत्रुः स पक्षाभ्यां क्रान्तभूधरः ॥ २.१३ ॥ पानासक्तमतिं तत्र तं ददर्श निशाचरम् । आताम्रवक्त्रनयनं हेमपर्यङ्कमाश्रितम् ॥ २.१४ ॥ स्त्रग्दामापूरितशिखं हरिचन्दनभूषितम् । केतकीगर्भपत्राभैर्दन्तैर्घोरतराननम् ॥ २.१५ ॥ वामोरुमाश्रितां चास्य ददर्शायतलोचनाम् । पत्नीं मदनिकां नाम पुंस्कोकिलकलस्वनाम् ॥ २.१६ ॥ ततो रोषपरीतात्मा कन्धरः कन्दरस्थितम् । तमुवाच सुदुष्टात्मन्नेहि युध्यस्व वै मया ॥ २.१७ ॥ यस्माज्जेष्ठो मम भ्राता विश्रब्धो घाततस्त्वया । तस्मात्त्वां मदसंसक्तं नयिष्ये यमसादनम् ॥ २.१८ ॥ विश्वस्तघातिनां लोका ये च स्त्रीबालघातिनाम् । यास्यसे निरयान् सर्वांस्तांस्त्वमद्य मया हतः ॥ २.१९ ॥ मार्कण्डेय उवाच इत्येवं पतगेन्द्रेण प्रोक्तं स्त्रीसन्निधौ तदा । रक्षः क्रोधसमाविष्टं प्रत्यभाषत पक्षिणम् ॥ २.२० ॥ यदि ते निहतो भ्राता पौरुषं तद्धि दर्शितम् । त्वामप्यद्य हनिष्येऽहं खड्गेनानेन खेचर ॥ २.२१ ॥ तिष्ठ क्षणं नात्र जीवन् पतगाधम यास्यसि । इत्युक्त्वाञ्जनपुञ्जाभं विमलं खड्गमाददे ॥ २.२२ ॥ ततः पतगराजस्य यक्षाधिपभटस्य च । बभूव युद्धमतुलं यथा गरुडशक्रयोः ॥ २.२३ ॥ ततः स राक्षसः क्रोधात्खड्गमाविध्य वेगवत् । चिक्षेप पतगेन्द्राय निर्वाणाङ्गारवर्चसम् ॥ २.२४ ॥ पतगेन्द्रश्च तं खड्गङ्किञ्चिदुत्प्लुत्य भूतलात् । वक्त्रेण जग्राह तदा गरुडः पन्नगं यथा ॥ २.२५ ॥ वक्त्रपादतलैर्भङ्क्त्वा चक्रे क्षोभमथातुलम् । तस्मिन् भग्ने ततः खड्गे बाहुयुद्धमवर्तत ॥ २.२६ ॥ ततः पतगराजेन वक्षस्याक्रम्य राक्षसः । हस्तपादकरैराशु शिरसा च वियोजितः ॥ २.२७ ॥ तस्मिन् विनिहते सा स्त्री खगं शरणमभ्यगात् । किञ्चित्संजातसंत्रासा प्राह भार्या भवामि ते ॥ २.२८ ॥ तामादाय खगश्रेष्ठः स्वकं गृहमगात्पुनः । गत्वा स निष्कृतिं भ्रातुर्विद्युद्रुपनिपातनात् ॥ २.२९ ॥ कन्धरस्य च सा वेश्म प्राप्येच्छारूपधारिणी । मेनकातनया सुभ्रूः सौपर्णं रूपमाददे ॥ २.३० ॥ तस्यां स जनयामास तार्क्षों नाम सुतां तदा । मुनिशापाग्निविप्लुष्टां वपुमप्सरसां वराम् । तस्या नाम तदा चक्रे तार्क्षोमिति विहङ्गमः ॥ २.३१ ॥ मन्दपालसुताश्चासंश्चत्वारोऽमितबुद्धयः । जरितारिप्रभृतयो द्रोणान्ता द्विजसत्तमाः ॥ २.३२ ॥ तेषां जघन्यो धर्मात्मा वेदवेदाङ्गपारगः । उपयेमे स तां तार्क्षों कन्धरानुमते शुभाम् ॥ २.३३ ॥ कस्यचित्त्वथ कालस्य तार्क्षो गर्भमवाप ह । सप्तपक्षाहिते गर्भे कुरुक्षेत्रं जगाम सा ॥ २.३४ ॥ कुरुपाण्डवयोर्युद्धे वर्तमाने सुदारुणे । भावित्वाच्चैव कार्यस्य रणमध्ये विवेश सा ॥ २.३५ ॥ तत्रापश्यत्तदा युद्धं भगदत्तकिरीटिनोः । निरन्तरं शरैरासीदाकाशं शलभैरिव ॥ २.३६ ॥ पार्थकोदण्डनिर्मुक्तमासन्नमतिवेगवत् । तस्या भल्लमहिश्यामं त्वचं चिच्छेद जाठरीम् ॥ २.३७ ॥ भिन्ने कोष्ठे शसाङ्काभं भूमावण्डचतुष्टयम् । आयुषः सावशेषत्वात्तूलराशाविवापतत् ॥ २.३८ ॥ तत्पातसमकालं च सुप्रतीकाद्गजोत्तमात् । पपात महती घष्टा बाणसंछिन्नबन्धना ॥ २.३९ ॥ समं समन्तात्प्राप्ता तु निर्भिन्नधरणीतला । छादयन्ती खगाण्डानि स्थितानि पिशितोपरि ॥ २.४० ॥ हते च तस्मिन्नृपतौ भगदत्ते नरेश्वरे । बहून्यहान्यभूद्युद्धं कुरुपाण्डवसैन्ययोः ॥ २.४१ ॥ वृत्ते युद्धे धर्मपुत्रे गते शान्तनवान्तिकम् । भीष्मस्य गदतोऽशेषान् श्रोतुं धर्मान्महात्मनः ॥ २.४२ ॥ घष्टागतानि तिष्ठन्ति यत्राण्डानि द्विजोत्तम । आजगाम तमुद्देशं शमीको नाम संयमी ॥ २.४३ ॥ स तत्र शब्दमशृणोच्चिचीकुचीति वाशताम् । बाल्यादस्फुटवाक्यानां विज्ञानेऽपि परे सति ॥ २.४४ ॥ अथर्षिः शिष्यसहितो घष्टामुत्पाट्य विस्मितः । अमातृपितृपक्षाणि शिशुकानि ददर्श ह ॥ २.४५ ॥ तानि तत्र तथा भूमौ शमीको भगवान्मुनिः । दृष्ट्वा स विस्मयाविष्टः प्रोवाचानुगतान् द्विजान् ॥ २.४६ ॥ सम्यगुक्तं द्विजाग्य्रेण शुक्रेणोशनसा स्वयम् । पलायनपरं दृष्ट्वा दैत्यसैन्यं सुरार्दितम् ॥ २.४७ ॥ न गन्तव्यं निवर्तध्वं कस्माद्व्रजथ कातराः । उत्सृज्य शौर्ययशसी क्व गता न मरिष्यथ ॥ २.४८ ॥ नश्यतो युध्यतो वापि तावद्भवति जीवितम् । यावद्धातासृजत्पूर्वं न यावन्मनसेप्सितम् ॥ २.४९ ॥ एके म्रियन्ते स्वगृहे पलायन्तोऽपरे जनाः । भुञ्जन्तोऽन्नं तथैवापः पिबन्तो निधनं गताः ॥ २.५० ॥ विलासिनस्तथैवान्ये कामयाना निरामयाः । अविक्षताङ्गाः शस्त्रैश्च प्रेतराजवशङ्गताः ॥ २.५१ ॥ अन्ये तपस्यभिरता नीताः प्रेतनृपानुगैः । योगाभ्यासे रताश्चान्ये नैव प्रापुरमृत्युताम् ॥ २.५२ ॥ शम्बराय पुरा क्षिप्तं वज्रं कुलिशपाणिना । हृदयेऽभिहतस्तेन तथापि न मृतोऽसुरः ॥ २.५३ ॥ तेनैव खलु वज्रेण तेनैनेन्द्रेण दानवाः । प्राप्ते काले हता दैत्यास्तत्क्षणान्निधनं गताः ॥ २.५४ ॥ विदित्वैवं न सन्त्रासः कर्तव्यो विनिवर्तते । ततो निवृत्तास्ते दैत्यास्त्यक्त्वा मरणजं भयम् ॥ २.५५ ॥ इति शुक्रवचः सत्यं कृतमेभिः खगोत्तमैः । ये युद्धेऽपि न सम्प्राप्ताः पञ्चत्वमतिमानुषे ॥ २.५६ ॥ क्वाणाडानां पतनं विप्राः क्व घण्टापतनं समम् । क्व च मांसवसारक्तैर्भूमेरास्तरणक्रियाः ॥ २.५७ ॥ केऽप्येते सर्वथा विप्रा नैते सामान्यपक्षिणः । दैवानुकूलता लोके महाभाग्यप्रदर्शिनी ॥ २.५८ ॥ एवमुक्त्वा स तान् वीक्ष्य पुनर्वचनमब्रवीत् । निवर्तताश्रमं यात गृहीत्वा पक्षिबालकान् ॥ २.५९ ॥ मार्जाराखुभयं यत्र नैषामण्डजजन्मनाम् । श्येनतो नकुलाद्वापि स्थाप्यन्तां तत्र पक्षिणः ॥ २.६० ॥ द्विजाः किं वातियत्नेन मार्यन्ते कर्मभिः स्वकैः । रक्ष्यन्ते चाखिला जीवा यथैते पक्षिबालकाः ॥ २.६१ ॥ तथापि यत्नः कर्तव्यो नरैः सर्वेषु कर्मसु । कुर्वन् पुरुषकारन्तु वाच्यतां याति नो सताम् ॥ २.६२ ॥ इति मुनिवरचोदितास्ततस्ते मुनितनयाः परिगृह्य पक्षिणस्तान् । तरुविटपसमाश्रितालिसङ्घं ययुरथ तापसरम्यमाश्रमं स्वम् ॥ २.६३ ॥ स चापि वन्यं मनसाभिकामितं प्रगृह्य मूलं कुसुमं फलं कुशान् । चकार चक्रायुधरुद्रवेधसां सुरेन्द्रवैवस्वतः जातवेदसाम् ॥ २.६४ ॥ अपाम्पतेर्गोष्पतिवित्तरक्षिणोः समीरणस्यापि तथा द्विजोत्तमाः । धातुर्विधातुस्त्वथ वैश्वदेविकाः श्रुतिप्रयुक्ता विवधास्तु सत्क्रियाः ॥ २.६५ ॥ इति श्रीमार्कण्डेयपुराणे चटकोत्पत्तिर्नाम द्वितीयोऽध्यायः _____________________________________________________________ तृतीयोऽध्यायः मार्कण्डेय उवाच अहन्यहनि विप्रेन्द्र स तेषां मुनिसत्तमः । चकाराहारपयसा तथा गुप्त्या च पोषणम् ॥ ३.१ ॥ मासमात्रेण जग्मुस्ते भानोः स्यन्दनवर्त्मनि । कौतूहलविलोलाक्षैर्दृष्टा मुनिकुमारकैः ॥ ३.२ ॥ दृष्ट्वा महीं सनगरां साम्भोनिधिसरिद्वराम् । रथचक्रप्रमाणां ते पुनराश्रममागताः ॥ ३.३ ॥ श्रमक्लान्तान्तरात्मानो महात्मानो वियोनिजाः । ज्ञानञ्च प्रकटीभूतं तत्र तेषां प्रभावतः ॥ ३.४ ॥ ऋषेः शिष्यानुकम्पार्थं वदतो धर्मनिश्चयम् । कृत्वा प्रदक्षिणं सर्वे चरणावभ्यवादयन् ॥ ३.५ ॥ ऊचुश्च मरणाद्घोरान्मोक्षिताः स्मस्त्वया मुने । आवासभक्ष्यपयसां त्वं नो दाता पिता गुरुः ॥ ३.६ ॥ गर्भस्थानां मृता माता पित्रा नैवापि पालिताः । त्वया नो जीवितं दत्तं शिशवो येन रक्षिताः ॥ ३.७ ॥ क्षितावक्षततेजास्त्वं कृमीणामिव शुष्यताम् । गजघण्टां समुत्पाट्य कृतवान् दुः खरेचनम् ॥ ३.८ ॥ कथं वर्धेयुरबलाः खस्थान् द्रक्ष्याम्यहं कदा । कदा भूमेर्द्रुमं प्राप्तान् द्रक्ष्ये वृक्षान्तरं गतान् ॥ ३.९ ॥ कदा मे सहजा कान्तिः पांशुना नाशमेष्यति । एषां पक्षानिलोत्थेन मत्समीपविचारिणाम् ॥ ३.१० ॥ इति चिन्तयता तात भवता प्रतिपालिताः । ते साम्प्रतं प्रवृद्धाः स्मः प्रबुद्धाः करवाम किम् ॥ ३.११ ॥ इत्यृषिर्वचनं तेषां श्रुत्वा संस्कारवत्स्फुटम् । शिष्यैः परिवृतः सर्वैः सह पुत्रेण शृङ्गिणा ॥ ३.१२ ॥ कौतूहलपरो भूत्वा रोमाञ्चपटसंवृतः । उवाच तत्त्वतो ब्रूत प्रवृत्तेः कारणं गिरः ॥ ३.१३ ॥ कस्य शापादियं प्राप्ता भवद्भिर्विक्रिया परा । रूपस्य वचसश्चैव तन्मे वक्तुमीहार्हथ ॥ ३.१४ ॥ पक्षिण ऊचुः विपुलस्वानिति ख्यातः प्रागासीन्मुनिसत्तमः । तस्य पुत्रद्वयं जज्ञे सुकृषस्तुम्बुरुस्तथा ॥ ३.१५ ॥ सुकृषस्य वयं पुत्राश्चत्वारः संयतात्मनः । तस्यर्षेर्विनयाचारभक्तिनम्राः सदैव हि ॥ ३.१६ ॥ तपश्चरणसक्तस्य शास्यमानेन्द्रियस्य च । यथाभिमतमस्माभिस्तदा तस्योपपादितम् ॥ ३.१७ ॥ समित्पुष्पादिकं सर्वं यच्चैवाभ्यवहारिकम् । एवं तत्राथ वसतां तस्यास्माकञ्च कानने ॥ ३.१८ ॥ आजगाम महावर्ष्मा भग्नपक्षो जरान्वितः । आताम्रनेत्रः स्त्रस्तात्मा पक्षी भूत्वा सुरेश्वरः ॥ ३.१९ ॥ सत्यशौचक्षमाचारमतीवोदारमानसम् । जिज्ञासुस्तमृषिश्रेष्ठमस्मच्छापभवाय च ॥ ३.२० ॥ पक्ष्युवाच द्विजेन्द्र मां क्षुधाविष्टं परित्रातुमिहार्हसि । भक्षणार्थो महाभाग गतिर्भव ममातुला ॥ ३.२१ ॥ विन्ध्यस्य शिखरे तिष्ठन् पत्रिपत्रेरितेन वै । पतितोऽस्मि महाभाग श्वसनेनातिरंहसा ॥ ३.२२ ॥ सोऽहं मोहसमाविष्टो भूमौ सप्ताहमस्मृतिः । स्थितस्तत्राष्टमेनाह्ना चेतनां प्राप्तवानहम् ॥ ३.२३ ॥ प्राप्तचेताः क्षुधाविष्टो भवन्तं शरणं गतः । भक्ष्यार्थो विगतानन्दो दूयमानेन चेतसा ॥ ३.२४ ॥ तत्कुरुष्वामलमते मत्त्राणायाचलां मतिम् । प्रयच्छ भक्ष्यं विप्रर्षे प्राणयात्राक्षमं मम ॥ ३.२५ ॥ स एवमुक्तः प्रोवाच तमिन्द्रं पक्षिरूपिणम् । प्राणसन्धारणार्थाय दास्ये भक्ष्यं तवेप्सितम् ॥ ३.२६ ॥ इत्युक्त्वा पुनरप्येनमपृच्छत्स द्विजोत्तमः । आहारः कस्तवार्थाय उपकल्प्यो भवेन्मया । स चाह नरमांसेन तृप्तिर्भवति मे परा ॥ ३.२७ ॥ ऋषिरुवाच कौमारं ते व्यतिक्रान्तमतीतं यौवनञ्च ते । वयसः परिणामस्ते वर्तते नूनमण्डज ॥ ३.२८ ॥ यस्मिन्नराणां सर्वेषामशेषेच्छा निवर्तते । स कस्माद्वृद्धभावेऽपि सुनृशंसात्मको भवान् ॥ ३.२९ ॥ क्व मानुषस्य पिशितं क्व वयश्चरमं तव । सर्वथा दुष्टभावानां प्रशमो नोपपद्यते ॥ ३.३० ॥ अथवा किं मयैतेन प्रोक्तेनास्ति प्रयोजनम् । प्रतिश्रुत्य सदा देयमिति नो भावितं मनः ॥ ३.३१ ॥ इत्युक्त्वा तं स विप्रेन्द्रस्तथेति कृतनिश्चयः । शीघ्रमस्मान् समाहूय गुणतोऽनुप्रशस्य च ॥ ३.३२ ॥ उवाच क्षुब्धहृदयो मुनिर्वाक्यं सुनिष्ठुरम् । विनयावनतान् सर्वान् भक्तियुक्तान् कृताञ्जलीन् ॥ ३.३३ ॥ कृतात्मानो द्विजश्रेष्ठा ऋणैर्युक्ता मया सह । जातं श्रेष्ठमपत्यं वो यूयं मम यथा द्विजाः ॥ ३.३४ ॥ गुरुः पूज्यो यदि मतो भवतां परमः पिता । ततः कुरुत मे वाक्यं निर्व्यलीकेन चेतसा ॥ ३.३५ ॥ तद्वाक्यसमकालञ्च प्रोक्तमस्माभिरादृतैः । यद्वक्ष्यति भवांस्तद्वै कृतमेवावधार्यताम् ॥ ३.३६ ॥ ऋषिरुवाच मामेष शरणं प्राप्तो विहगः क्षुत्तृषान्वितः । युष्मन्मांसेन येनास्य क्षणं तृप्तिर्भवेत वै ॥ ३.३७ ॥ तृष्णाक्षयञ्च रक्तेन तथा शीघ्नं विधीयताम् । ततो वयं प्रव्यथिताः प्रकम्पोद्भूतसाध्वसाः । कष्टं कष्टमिति प्रोच्य नैतत्कुर्मेति चाब्रुवन् ॥ ३.३८ ॥ कथं परशरीरस्य हेतोर्देहं स्वकं बुधः । विनाशयेद्घातयेद्वा यथा ह्यात्मा तथा सुतः ॥ ३.३९ ॥ पितृदेवमनुष्याणां यान्युक्तानि ऋणानि वै । तान्यपाकुरुते पुत्रो न शरीरप्रदः सुतः ॥ ३.४० ॥ तस्मान्नैतत्करिष्यामो नी चीर्णं यत्पुरातनैः । जीवन् भद्राण्यवाप्नोति जीवन् पुण्यं करोति च ॥ ३.४१ ॥ मृतस्य देहनाशश्च धर्माद्युपरतिस्तथा । आत्मानं सर्वतो रक्ष्यमाहुर्धर्मविदो जनाः ॥ ३.४२ ॥ इत्थं श्रुत्वा वचोऽस्माकं मुनिः क्रोधादिव ज्वलन् । प्रोवाच पुनरप्यस्मान्निर्दहन्निव लोचनैः ॥ ३.४३ ॥ प्रतिज्ञातं वचो मह्यं यस्मान्नैतत्करिष्यथ । तस्मान्मच्छापनिर्दग्धास्तिर्यग्योनौ प्रयास्यथ ॥ ३.४४ ॥ एवमुक्त्वा तदा सोऽस्मास्तं विहङ्गमथाब्रवीत् । अन्त्येष्टिमात्मनः कृत्वा शास्त्रतश्चौर्ध्वदेहिकम् ॥ ३.४५ ॥ भक्षयस्व सुविश्रब्धौ मामत्र द्विजसत्तम । आहारीकृतमेतत्ते मया देहमिहात्मनः ॥ ३.४६ ॥ एतावदेव विप्रस्य ब्राह्मणत्वं प्रचक्ष्यते । यावत्पतगजात्यग्रय स्वसत्यपरिपालनम् ॥ ३.४७ ॥ न यज्ञैर्दक्षिणावद्भिस्तत्पुण्यं प्राप्यते महत् । कर्मणान्येन वा विप्रैर्यत्सत्यपरिपालनात् ॥ ३.४८ ॥ इत्यृषेर्वचनं श्रुत्वा सोऽन्तर्विस्मयनिर्भरः । प्रत्युवाच मुनिं शक्रः पक्षिरूपधरस्तदा ॥ ३.४९ ॥ योगमास्थाय विप्रेन्द्र त्यजेदं स्वं कलेवरम् । जीवज्जन्तुं हि विप्रेन्द्र न भक्षामि कदाचन ॥ ३.५० ॥ तस्मैतद्वचनं श्रुत्वा योगयुक्तोऽभवन्मुनिः । तं तस्य निश्चयं ज्ञात्वा शक्रोऽप्याह स्वदेहभृत् ॥ ३.५१ ॥ भो भो विप्रेन्द्र बुध्यस्व बुद्ध्या बोध्यं बुधात्मक । जिज्ञासार्थं मयायं ते अपराधः कृतोऽनघ ॥ ३.५२ ॥ तत्क्षमस्वामलमते का चेच्छा क्रियतां तव । पालनात्सत्यवाक्यस्य प्रीतिर्मे परमा त्वयि ॥ ३.५३ ॥ अद्यप्रभृति ते ज्ञानमैन्द्रं प्रादुर्भविष्यति । तपस्यथ तथा धर्मे न ते विघ्नो भविष्यति ॥ ३.५४ ॥ इत्युक्त्वा तु गते शक्रे पिता कोपसमन्वितः । प्रणम्य शिरसास्माभिरिदमुक्तो महामुनिः ॥ ३.५५ ॥ बिभ्यतां मरणात्तात त्वमस्माकं महामते । क्षन्तुमर्हसि दीनानां जीवितप्रियता हि नः ॥ ३.५६ ॥ त्वगस्थिमांससङ्घाते पूयशोणितपूरिते । कर्तव्या न रतिर्यत्र तत्रास्माकमियं रतिः ॥ ३.५७ ॥ श्रूयतां च महाभाग यथा लोको विमुह्यति । कामक्रोधादिभिर्देषैरवशः प्रबलारिभिः ॥ ३.५८ ॥ प्रज्ञाप्राकारसंयुक्तमस्थिस्थूणं परं महत् । चर्मभित्तिमहारोधं मांसशोणितलेपनम् ॥ ३.५९ ॥ नवद्वारं महायामं सर्वतः स्नायुवेष्टितम् । नृपश्च पुरुषस्तत्र चेतनावानवस्थितः ॥ ३.६० ॥ मन्त्रिणौ तस्य बुद्धिश्च मनश्चैव विरोधिनौ । यतेते वैरनाशाय तावुभावितरेतरम् ॥ ३.६१ ॥ नृपस्य तस्य चत्वारो नाशमिच्छन्ति विद्विषः । कामः क्रोधस्तथा लोभो मोहश्चान्यस्तथा रिपुः ॥ ३.६२ ॥ यदा तु स नृपस्तानि द्वाराण्यावृत्य तिष्ठति । सदा सुस्थबलश्चैव निरातङ्कश्च जायते ॥ ३.६३ ॥ जातानुरागो भवति शत्रुभिर्नाभिभूयते ॥ ३.६४ ॥ यदा तु सर्वद्वाराणि विवृतानि स मुञ्चति । रागो नाम तदा शत्रुर्नेत्रादिद्वारमृच्छति ॥ ३.६५ ॥ सर्वव्यापी महायामः पञ्चद्वारप्रवेशनः । तस्यानुमार्गं विशति तद्वै घोरं रिपुत्रयम् ॥ ३.६६ ॥ प्रविश्याथ स वै तत्र द्वारैरिन्द्रियसंज्ञकैः । रागः शंश्लेषमायाति मनसा च सहेतरैः ॥ ३.६७ ॥ इन्द्रियाणि मनश्चैव वशे कृत्वा दुरासदः । द्वाराणि च वशे कृत्वा प्राकारं नाशयत्यथ ॥ ३.६८ ॥ मनस्तस्याश्रितं दृष्ट्वा बुद्धिर्नश्यति तत्क्षणात् । अमात्यरहितस्तत्र पौरवर्गोज्झितस्तथा ॥ ३.६९ ॥ रिपुभिर्लब्धविवरः स नृपो नाशमृच्छति । एवं रागस्तथा मोहो लोभः क्रोधस्तथैव च ॥ ३.७० ॥ प्रवर्तन्ते दुरात्मानो मनुष्यस्मृतिनाशकाः । रागात्तु क्रोधः प्रभवति क्रोधाल्लोभोऽभिजायते ॥ ३.७१ ॥ लोभाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः । स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ ३.७२ ॥ एवं प्रणष्टबुद्धीनां रागलोभानुवर्तिनाम् । जीविते च सलोभानां प्रसादं कुरु सत्तम ॥ ३.७३ ॥ योऽयं शापो भगवता दत्तः स न भवेत्तथा । न तामसीं गतिं कष्टां व्रजेम मुनिसत्तम ॥ ३.७४ ॥ यन्मयोक्तं न तन्मिथ्या भविष्यति कदाचन । न मे वागनृतं प्राह यावदद्येति पुत्रकाः ॥ ३.७५ ॥ दैवमत्र परं मन्ये धिक्पौरुषमनर्थकम् । अकार्यं कारितो येन बलादहमचिन्तितम् ॥ ३.७६ ॥ यस्माच्च युष्माभिरहं प्रणिपत्य प्रसादितः । तस्मात्तिर्यक्त्वमापन्नाः परं ज्ञानमवाप्स्यथ ॥ ३.७७ ॥ ज्ञानदर्शितमार्गाश्च निर्धूतक्लेशकल्मषाः । मत्प्रसादादसन्दिग्धाः परां सिद्धिमवाप्स्यथ ॥ ३.७८ ॥ एवं शप्ताः स्म भगवन् पित्रा दैववशात्पुरा । ततः कालेन महता योन्यन्तरमुपागताः ॥ ३.७९ ॥ जाताश्च रणमध्ये वै भवता परिपालिताः । वयमित्थं द्विजश्रेष्ठ खगत्वं समुपागताः । नास्त्यसाविह संसारे यो न दिष्टेन बाध्यते ॥ ३.८० ॥ मार्कण्डेय उवाच इति तेषां वचः श्रुत्वा शमीको भगवान्मुनिः । प्रत्युवाच महाभागः समीपस्थायिनो द्विजान् ॥ ३.८१ ॥ पूर्वमेव मया प्रोक्तं भवतां सन्निधाविदम् । सामान्यपक्षिणो नैते केऽप्येते द्विजसत्तमाः । ये युद्धेऽपि न सम्प्राप्ताः पञ्चत्वमतिमानुषे ॥ ३.८२ ॥ ततः प्रीतिमता तेन तेऽनुज्ञाता महात्मना । जग्मुः शिखरिणां श्रेष्टं विन्ध्यं द्रुमलतायुतम् ॥ ३.८३ ॥ यावदद्य स्थितास्तस्मिन्नचले धर्मपक्षिणः । तपः स्वाध्यायनिरताः समाधौ कृतनिश्चयाः ॥ ३.८४ ॥ इति मुनिवरलब्धसत्क्रियास्ते मुनितनया विहगत्वमभ्युपेताः । गिरिवरगहनेऽतिपुण्यतोये यतमनसो निवसन्ति विन्ध्यपृष्ठे ॥ ३.८५ ॥ इति श्रीमार्कण्डेयपुराणे विन्ध्यप्राप्तिर्नाम तृतीयोऽध्यायः _____________________________________________________________ चतुर्थोऽध्यायः मार्कण्डेय उवाच एवं ते द्रोणतनयाः पक्षिणो ज्ञानिनोऽभवन् । वसन्ति ह्यचले विन्ध्ये तानुपास्व च पृच्छ च ॥ ४.१ ॥ इत्यृषेर्वचनं श्रुत्वा मार्कण्डेयस्य जैमिनिः । जगाम विन्ध्यशिखरं यत्र ते धर्मपक्षिणः ॥ ४.२ ॥ तन्नगासन्नभूतश्च शुश्राठ पठतां ध्वनिम् । श्रुत्वा च विस्मयाविष्टश्चिन्तयामास जैमिनिः ॥ ४.३ ॥ स्थानसौष्ठवसम्पन्नं जितश्वासमविश्रमम् । विस्पष्टमपदोषञ्च पठ्यते द्विजसत्तमैः ॥ ४.४ ॥ वियोनिमपि सम्प्राप्तानेतान्मुनिकुमारकान् । चित्रमेतदहं मन्ये न जहाति सरस्वती ॥ ४.५ ॥ बन्धुवर्गस्तथा मित्रं यच्चेष्टमपरं गृहे । त्यक्त्वा गच्छति तत्सर्वं न जहाति सरस्वती ॥ ४.६ ॥ इति सञ्चिन्तयन्नेव विवेश गिरिकन्दरम् । प्रविश्य च ददर्शासौ शिलापट्टगातान् द्विजान् ॥ ४.७ ॥ पठतस्तान् समालोक्य मुखदोषविवर्जितान् । सोऽथ शोकेन हर्षेण सर्वानेवाभ्यभाषत ॥ ४.८ ॥ स्वस्त्यस्तु वो द्विजश्रेष्ठा जैमिनिं मां निबोधत । व्यासशिष्यमनुप्राप्तं भवतां दर्शनोत्सुकम् ॥ ४.९ ॥ मन्युर्न खलु कर्तव्यो यत्पित्रातीव मन्युना । शप्ताः खगत्वमापन्नाः सर्वथा दिष्टमेव तत् ॥ ४.१० ॥ स्फीतद्रव्ये कुले केचिज्जाताः किल मनस्विनः । द्रव्यनाशे द्विजेन्द्रास्ते शबरेण सुसान्त्विताः ॥ ४.११ ॥ दत्त्वा याचन्ति पुरुषा हत्वा वध्यन्ति चापरे । पातयित्वा च पात्यन्ते त एव तपसः क्षयात् ॥ ४.१२ ॥ एतद्दृष्टं सुबहुशो विपरीतं तथा मया । भावाभावसमुच्छेदैरजस्त्रं व्याकुलं जगत् ॥ ४.१३ ॥ इति सञ्चिन्त्य मनसा न शोकं कर्तुमर्हथ । ज्ञानस्य फलमेतावच्छोकहर्षैरधृष्यता ॥ ४.१४ ॥ ततस्ते जैमिनिं सर्वे पाद्यार्घ्याभ्यामपूजयन् । अनामयञ्च पप्रच्छुः प्रणिपत्य महामुनिम् ॥ ४.१५ ॥ अथोचुः खगमाः सर्वे व्यासशिष्यं तपोनिधिम् । सुखोपविष्टं विश्रान्तं पक्षानिलहतक्लमम् ॥ ४.१६ ॥ पक्षिण ऊचुः अद्य नः सफलं जन्म जीवितञ्च सुजीवितम् । यत्पश्यामः सुरैर्वन्द्यं तव पादाम्बुजद्वयम् ॥ ४.१७ ॥ पितृकोपाग्निरुद्भूतो यो नो देहेषु वर्तते । सोऽद्य शान्तिं गतो विप्र युष्मद्दर्शनवारिणा ॥ ४.१८ ॥ कच्चित्ते कुशलं ब्रह्मन्नाश्रमे मृगपक्षिषु । वृक्षेष्वथ लतागुल्मत्वक्सारतृणजातिषु ॥ ४.१९ ॥ अथवा नैतदुक्तं हि सम्यगस्माभिरादृतैः । भवता सङ्गमो येषां तेषामकुशलं कुतः ॥ ४.२० ॥ प्रसादञ्च कुरुष्वात्र ब्रूह्यागमनकारणम् । देवानामिव संसर्गो भवतोऽभ्युदयो महान् । केनास्मद्भाग्यगुरुण आनीतो दृष्टिगोचरम् ॥ ४.२१ ॥ जैमिनिरुवाच श्रूयतां द्विजशार्दूलाः कारणं येन कन्दरम् । विन्ध्यस्येहागतो रम्यं रेवावारिकणोक्षितम् । सन्देहान् भारते शास्त्रे तान् प्रष्टुं गतवानहम् ॥ ४.२२ ॥ मार्कण्डेयं महात्मानं पूर्वं भृगुकुलोद्वहम् । तमहं पृष्टवान् प्राप्य सन्देहान् भरतं प्रति ॥ ४.२३ ॥ स च पृष्टो मया प्राह सन्ति विन्ध्ये महाचले । द्रोणपुत्रा महात्मानस्ते वक्ष्मन्त्यर्थविस्तरम् ॥ ४.२४ ॥ तद्वाक्ययोदितश्चेममागतोऽहं महागिरिम् । तच्छृणुध्वमशेषेण श्रुत्वा व्याख्यातुमर्हथ ॥ ४.२५ ॥ पक्षिण ऊचुः विषये सति वक्ष्यामो निर्विशङ्कः शृणुष्व तत् । कथं तन्न वदिष्यामो यदस्मद्बुद्धिगोचरम् ॥ ४.२६ ॥ चतुर्ष्वपि हि वेदेषु धर्मशास्त्रेषु चैव हि । समस्तेषु तथाङ्गेषु यच्चान्यद्वेदसंमितम् ॥ ४.२७ ॥ एतेषु गोचरोऽस्माकं बुद्धेर्ब्राह्मणसत्तम । प्रतिज्ञान्तु समारोढुं तथापि नहि शक्नुमः ॥ ४.२८ ॥ तस्माद्वदस्व विश्रब्धं सन्दिग्धं यद्वि भारते । वक्ष्यामस्तव धर्मज्ञ न चेन्मोहो भविष्यति ॥ ४.२९ ॥ जैमिनिरुवाच सन्दिग्धानीह वस्तूनि भारतं प्रति यानि मे । शृणुध्वममलास्तानि श्रुत्वा व्याख्यातुमर्हथ ॥ ४.३० ॥ कस्मान्मानुषतां प्राप्तो निर्गुणोऽपि जनार्दनः । वासुदेवोऽखिलाधारः सर्वकारणकारणम् ॥ ४.३१ ॥ कस्माच्च पाण्डुपुत्राणामेका सा द्रुपदात्मजा । पञ्चानां महिषी कृष्णा सुमाहनत्र संशयः ॥ ४.३२ ॥ भेषजं ब्रह्महत्याया बलदेवो महाबलः । तीर्थयात्राप्रसङ्गेन कस्माच्चक्रे हलायुधः ॥ ४.३३ ॥ कथं च द्रौपदेयास्तेऽकृतदारा महारथाः । पाण्डुनाथा महात्मानो वधमापुरनाथवत् ॥ ४.३४ ॥ एतत्सर्वं कथ्यतां मे सन्दिग्धं भारतं प्रति । कृतार्थोहं सुखं येन गच्छेयं निजमाश्रमम् ॥ ४.३५ ॥ पक्षिण ऊचुः नमस्कृत्य सुरेशाय विष्णवे प्रभविष्णवे । पुरुषायाप्रमेयाय शाश्वतायाव्ययाय च ॥ ४.३६ ॥ चतुर्व्यूहात्मने तस्मै त्रिगुणायागुणाय च । वरिष्ठाय गरिष्ठाय वरेष्यायामृताय च ॥ ४.३७ ॥ यस्मादणुतरं नास्ति यस्मान्नास्ति बृहत्तरम् । येन विश्वमिदं व्याप्तमजेन जगदादिना ॥ ४.३८ ॥ आविर्भावतिरोभावदृष्टादृष्टविलक्षणम् । वदन्ति यद्सृष्टमिदं तथैवान्ते च संहृतम् ॥ ४.३९ ॥ ब्रह्मणे चादिदेवाय नमस्कृत्य समाधिना । ऋक्सामान्युद्गिरन् वक्त्रैर्यः पुनाति जगत्त्रयम् ॥ ४.४० ॥ प्रणिपत्य तथेशानमेकबाणविनिर्जितैः । यस्यासुरगणैर्यज्ञा विलुप्यन्ते न यज्विनाम् ॥ ४.४१ ॥ प्रवक्ष्यामो मतं कृत्स्नं व्यासस्याद्भुतकर्मणः । येन भारतमुद्दिश्य धर्माद्याः प्रकटीकृताः ॥ ४.४२ ॥ आपो नारा इति प्रोक्ता मुनिभिस्तत्त्वदर्शिभिः । अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥ ४.४३ ॥ स देवो भगवान् सर्वं व्याप्य नारायणो विभुः । चतुर्धा संस्थितो ब्रह्मन् सगुणो निर्गुणस्तथा ॥ ४.४४ ॥ एका मूर्तिरनिर्देश्या शुक्लां पश्यन्ति तां बुधाः । ज्वालामालोपरुद्धाङ्गी निष्ठा सा योगिनां परा ॥ ४.४५ ॥ दूरस्था चान्तिकस्था च विज्ञेया सा गुणातिगा । वासुदेवाभिधानासौ निर्ममत्वेन दृश्यते ॥ ४.४६ ॥ रूपवर्णादयस्तस्या न भावाः कल्पनामयाः । अस्त्येव सा सदा शुद्धा सुप्रतिष्ठैकरूपिणी ॥ ४.४७ ॥ द्वितीया पृथिवीं मूद्र्घ्ना शेषाख्या धारयत्यधः । तामसी सा समाख्याता तिर्यक्त्वं समुपाश्रिता ॥ ४.४८ ॥ तृतीया कर्म कुरुते प्रजापालनतत्परा । सत्त्वोद्रिक्ता तु सा ज्ञेया धर्मसंस्थानकारिणी ॥ ४.४९ ॥ चतुर्थो जलमध्यस्था शेते पन्नगतल्पगा । रजस्तस्या गुणः सर्गं सा करोति सदैव हि ॥ ४.५० ॥ या तृतीया हरेर्मूर्तिः प्रजापालनतत्परा । सा तु धर्मव्यवस्थानं करोति नियतं भुवि ॥ ४.५१ ॥ प्रोद्धूतानसुरान् हन्ति धर्मविच्छित्तिकारिणः । पाति देवान् सतश्चान्यान् धर्मरक्षापरायणान् ॥ ४.५२ ॥ यदा यदा हि धर्मस्य ग्लानिर्भवति जैमिने । अभ्युत्थानमधर्मस्य तदात्मानं सृजत्यसौ ॥ ४.५३ ॥ भूत्वा पुरा वराहेण तुण्डेनापो निरस्य च । एकया दंष्ट्रयोत्खाता नलिनीव वसुन्धरा ॥ ४.५४ ॥ कृत्वा नृसिंहरूपञ्च हिरण्यकशिपुर्हतः । विप्रचित्तिमुखाश्चान्ये दानवा विनिपातिताः ॥ ४.५५ ॥ वामनादींस्तथैवान्यान्न संख्यातुमिहोत्सहे । अवताराश्च तस्येह माथुरः साम्प्रतं त्वयम् ॥ ४.५६ ॥ इति सा सात्त्विकी मूर्तिरवतारान् करोति वै । प्रद्युम्नेति च सा ख्याता रक्षाकर्मण्यवस्थिता ॥ ४.५७ ॥ देवत्वेऽथ मनुष्यत्वे तिर्यग्योनौ च संस्थिता । गृह्णाति तत्स्वभावं च वासुदेवेच्छया सदा ॥ ४.५८ ॥ इत्येतत्ते समाख्यातं कृतकृत्योऽपि यत्प्रभुः । मानुषत्वं गतो विष्णुः शृणुष्वास्योत्तरं पुनः ॥ ४.५९ ॥ इति श्रीमार्कण्डेयपुराणे चतुर्व्यूहावतारो नाम द्वितीयोऽध्यायः _____________________________________________________________ पञ्चमोऽध्यायः पक्षिण ऊचुः त्वष्टृपुत्रे हते पूर्वं ब्रह्मन्निन्द्रस्य तेजसः । ब्रह्महत्याभिभूतस्य परा हानिरजायत ॥ ५.१ ॥ तद्धमं प्रविवेशाथ शाक्रतेजोऽपचारतः । निस्तेजाश्चाभवच्छक्रो धर्मे तेजसि निर्गते ॥ ५.२ ॥ ततः पुत्रं हतं श्रुत्वा त्वष्टा क्रुद्धः प्रजापतिः । अवलुञ्च्य जटामेकामिदं वचनमब्रवीत् ॥ ५.३ ॥ अद्य पश्यन्तु मे वीर्यं त्रयो लोकाः सदेवताः । स च पश्यतु दुर्बुद्धिर्ब्रह्महा पाकशासनः ॥ ५.४ ॥ स्वकर्माभिरतो येन मत्सुतो विनपातितः । इत्युक्त्वा कोपरक्ताक्षो जटामग्नौ जुहाव ताम् ॥ ५.५ ॥ ततो वृत्रः समुत्तस्थौ ज्वालामाली महासुरः । महाकायो महादंष्ट्रो भिन्नाञ्जनचयप्रभः ॥ ५.६ ॥ इन्द्रशत्रुरमेयात्मा त्वष्टृतेजोपबृंहितः । अहन्यहनि सोऽवर्धदिषुपातं महाबलः ॥ ५.७ ॥ वधाय चात्मनो दृष्ट्वा वृत्रं शक्रो महासुरम् । प्रेषयामास सप्तर्षोन् सन्धिमिच्छन् भयातुरः ॥ ५.८ ॥ सख्यञ्चक्रुस्ततस्तस्य वृत्रेण समयांस्तथा । ऋषयः प्रीतमनसः सर्वभूतहिते रताः ॥ ५.९ ॥ समयस्थितिमुल्लङ्घ्य यदा शक्रेण घातितः । वृत्रो हत्याभिभूतस्य तदा बलमशीर्यत ॥ ५.१० ॥ तच्छक्रदेहविभ्रष्टं बलं मारुतमाविशत् । सर्वव्यापिनमव्यक्तं बलस्यैवाधिदैवतम् ॥ ५.११ ॥ अहल्याञ्च यदा शक्रो गौतमं रूपमास्थितः । धर्षयामास देवेन्द्रस्तदा रूपमहीयत ॥ ५.१२ ॥ अङ्गप्रत्यङ्गलावण्यं यदतीव मनोरम् । विहाय दुष्टं देवेन्द्रं नासत्यावगमत्ततः ॥ ५.१३ ॥ धर्मेण तेजसा त्यक्तं बलहीनमरूपिणम् । ज्ञात्वा सुरेशं दैतेयास्तज्जये चक्रुरुद्यमम् ॥ ५.१४ ॥ राज्ञामुद्रिक्तवीर्याणां देवेन्द्रं विजिगीषवः । कुलेष्वतिबला दैत्या अजायन्त महामुने ॥ ५.१५ ॥ कस्यचित्त्वथ कालस्य धरणी भारपीडिता । जगाम मेरुशिखरं सदो यत्र दिवौकसाम् ॥ ५.१६ ॥ तेषां सा कथयामास भूरिभारावपीडिता । दनुजात्मजदैत्योत्थं खेदकारणमात्मनः ॥ ५.१७ ॥ एते भवद्भिरसुरा निहताः पृथुलौजसः । ते सर्वे मानुषे लोके जाता गेहेषु भूभृताम् ॥ ५.१८ ॥ अक्षौहिण्यो हि बहुलास्तद्भारार्ता व्रजाम्यधः । तथा कुरुध्वं त्रिदशा यथा शान्तिर्भवेन्मम ॥ ५.१९ ॥ पक्षिण ऊचुः तेजोभागैस्ततो देवा अवतेरुर्दिवो महीम् । प्रजानामुपकारार्थं भूभारहरणाय च ॥ ५.२० ॥ यदिन्द्रदेहजं तेजस्तन्मुमोच स्वयं वृषः । कुन्त्या जातो महातेजास्ततो राजा युधिष्ठिरः ॥ ५.२१ ॥ बलं मुमोच पवनस्ततो भीमो व्यजायत । शक्रवीर्यार्धतश्चैव जज्ञे पार्थो धनञ्जयः ॥ ५.२२ ॥ उत्पन्नौ यमजौ माद्रयां शक्ररूपौ महाद्युती । पञ्चधा भगवानित्थमवतीर्णः शतक्रतुः ॥ ५.२३ ॥ तस्योत्पन्ना महाभागा पत्नी कृष्णा हुताशनात् ॥ ५.२४ ॥ शक्रस्यैकस्य सा पत्नी कृष्णा नान्यस्य कस्यचित् । योगीश्वराः शरीराणि कुर्वन्ति बहुलान्यपि ॥ ५.२५ ॥ पञ्चानामेकपत्नीत्वमित्येतत्कथितं तव । श्रूयतां बलदेवोऽपि यथा यातः सरस्वतीम् ॥ ५.२६ ॥ इति श्रीमार्कण्डेयपुराणे इन्द्रविक्रियानाम पञ्चमोऽध्यायः _____________________________________________________________ षष्ठोऽध्यायः पक्षिण ऊचुः रामः पार्थे परां प्रीतिं ज्ञात्वा कृष्णस्य लाङ्गली । चिन्तयामास बहुधा किं कृतं सुकृतं भवेत् ॥ ६.१ ॥ कृष्णेन हि विना नाहं यास्ये दुर्योधनान्तिकम् । पाण्डवान् वा समाश्रित्य कथं दुर्योधनं नृपम् ॥ ६.२ ॥ जामातरं तथा शिष्यं घातयिष्ये नरेश्वरम् । तस्मान्न पार्थं यास्यामि नापि दुर्योधनं नृपम् ॥ ६.३ ॥ तीर्थेष्वाप्लावयिष्यामि तावदात्मानमात्मना । कुरूणां पाण्डवानां च यावदन्ताय कल्पते ॥ ६.४ ॥ इत्यामन्त्र्य हृषीकेशं पार्थदुर्योधनावपि । जगाम द्वारकां शौरिः स्वसैन्युपरिवारितः ॥ ६.५ ॥ गत्वा द्वारवतीं रामो हृष्टपुष्टजनाकुलाम् । श्वो गन्तव्येषु तीर्थेषु पपौ पानं हलायुधः ॥ ६.६ ॥ पीतपानो जगामाथ रैवतोद्यानमृद्धिमत् । हस्ते गृहीत्वा समदां रेवतीमप्सरोपमाम् ॥ ६.७ ॥ स्त्रीकदम्बकमध्यस्थो ययौ मत्तः पदा स्खलन् । ददर्शच वनं वीरो रमणीयमनुत्तमम् ॥ ६.८ ॥ सर्वर्तुफलपुष्पाढ्यं शाखामृगगणाकुलम् । पुण्यं पद्मवनोपेतं सपल्वलमहावनम् ॥ ६.९ ॥ स शृण्वन् प्रीतिजननान् बहून्मदकलान् शुभान् । श्रोत्ररम्यान् सुमधुरान् शब्दान् खगमुखेरितान् ॥ ६.१० ॥ सर्वर्तुफलभाराढ्यान् सर्वर्तुकुसुमोज्ज्वलान् । अपश्यत्पादपांस्तत्र विहगैरनुनादितान् ॥ ६.११ ॥ आम्रानाम्रातकान् भव्यान्नारिकेलान् सतिन्दुकान् । आविल्वकांस्तथा जीरान् दाडिमान् बीजपूरकान् ॥ ६.१२ ॥ पनसान् लकुचान्मोचान्नीपांश्चातिमनोहरान् । पारावतांश्च कङ्कोलान्नलिनानम्लवेतसान् ॥ ६.१३ ॥ भल्लातकानामलकांस्तिन्दुकांश्च महाफलान् । इङ्गुदान् करमर्दांश्च हरीतकविभीतकान् ॥ ६.१४ ॥ एतानन्यांश्च स तरून् ददर्श यदुनन्दनः । तथैवाशोकपुन्नागकेतकीबकुलानथ ॥ ६.१५ ॥ चम्पकान् सप्तपर्णांश्च कर्णिकारान् समालतीन् । पारिजातान् कोविदारान्मन्दारान् बदरांस्तथा ॥ ६.१६ ॥ पाटलान् पुष्पितान् रम्यान् देवदारुद्रुमांस्तथा । सालांस्तालांस्तमालांश्च किंशौकान् वञ्जुलान् वरान् ॥ ६.१७ ॥ चकोरैः शातपत्रैश्च भृङ्गराजैस्तथा शुकैः । कोकिलैः कलविङ्कैश्च हारीतैर्जोवजीवकैः ॥ ६.१८ ॥ प्रियपुत्रैश्चातकैश्च तथान्यैर्विविधैः खगैः । श्रोत्ररम्यं सुमधुरं कूजद्भिश्चाप्यधिष्ठितम् ॥ ६.१९ ॥ सरांसि च मनोज्ञानि प्रसन्नसलिलानि च । कुमुदैः पुण्डरीकैश्च तथा नीलोत्पलैः शुभैः ॥ ६.२० ॥ कह्लारैः कमलैश्चापि आचितानि समन्ततः । कादम्बैश्चक्रवाकैश्च तथैव जलकुक्कुटैः ॥ ६.२१ ॥ कारण्डवैः प्लवैर्हंसैः कूर्मैर्मद्गुभिरेव च । एभिश्चान्यैश्च कीर्णानि समन्ताज्जलचारिभिः ॥ ६.२२ ॥ क्रमेणेत्थं वनं शौरिर्वोक्षमाणो मनोरमम् । जगामानुगतः स्त्रीभिर्लतागृहमनुत्तमम् ॥ ६.२३ ॥ स ददर्श द्विजांस्तत्र वेदवेदाङ्गपारगान् । कौशिकान् भार्गवांश्चैव भारद्वाजान् सगौतमान् ॥ ६.२४ ॥ विविधेषु च सम्भूतान् वंशेषु द्विजसत्तमान् । कथाश्रवणबद्धोत्कानुपविष्टान्महत्सु च ॥ ६.२५ ॥ कृष्णाजिनोत्तरीयेषु कुशेषु च वृषीषु च । सूतञ्च तेषां मध्यस्थं कथयानं कथाः शुभाः ॥ ६.२६ ॥ पौराणिकीः सुरर्षोणामाद्यानां चरिताश्रयाः । दृष्ट्वा रामं द्विजाः सर्वे मधुपानारुणेक्षणम् ॥ ६.२७ ॥ मत्तोऽयमिति मन्वानाः समुत्तस्थुस्त्वरान्विताः । पूजयन्तो हलधरमृते तं सूतवंशजम् ॥ ६.२८ ॥ ततः क्रोधसमाविष्टो हली सूतं महाबलः । निजघान विवृत्ताक्षः क्षोभिताशेषदानवः ॥ ६.२९ ॥ अध्यास्याति पदं ब्राह्मं तस्मिन् सूते निपातिते । निष्क्रान्तास्ते द्विजाः सर्वे वनात्कृष्णाजिनाम्बराः ॥ ६.३० ॥ अवधूतं तथात्मानं मन्यमानो हलायुधः । चिन्तयामास सुमहन्मया पापमिदं कृतम् ॥ ६.३१ ॥ ब्राह्मं स्थानं गतो ह्येष यद्सूतो विनिपातितः । तथा हीमे द्विजाः सर्वे मामवेक्ष्य विनिर्गताः ॥ ६.३२ ॥ शरीरस्य च मे गन्धो लोहस्येवासुखावहः । आत्मानञ्चावगच्छामि ब्रह्मघ्नमिव कुत्सितम् ॥ ६.३३ ॥ धिगमर्षं तथा मद्यमतिमानमभीरुताम् । यैराविष्टेन सुमहन्मया पापमिदं कृतम् ॥ ६.३४ ॥ तत्क्षयार्थं चरिष्यामि व्रतं द्वादशवार्षिकम् । स्वकर्मख्यापनं कुर्वंन् प्रयश्चित्तमनुत्तमम् ॥ ६.३५ ॥ अथ येयं समारब्धा तीर्थयात्रा मयाधुना । एतामेव प्रयास्यामि प्रतिलोमां सरस्वतीम् ॥ ६.३६ ॥ अतो जगाम रामोऽसौ प्रतिलोमां सरस्वतीम् । ततः परं शृणुष्वेमं पाण्डवेयकथाश्रयम् ॥ ६.३७ ॥ इतिश्री मार्कण्डेयपुराणे बलदेवब्रह्महत्यानाम षष्ठोध्यायः _____________________________________________________________ सप्तमोऽध्यायः धर्मपक्षिण ऊचुः हरिश्चन्द्रेति राजर्षिरासीत्त्रेतायुगे पुरा । धर्मात्मा पृथिवीपालः प्रोल्लसत्कीर्तिरुत्तमः ॥ ७.१ ॥ न दुर्भिक्षं न च व्याधिर्नाकालमरणं नृणाम् । नाधर्मरुचयः पौरास्तस्मिन् शासति पार्थिवे ॥ ७.२ ॥ बभूवुर्न तथोन्मत्ता धनवीर्यतपोमदैः । नाजायन्त स्त्रियश्चैव काश्चिदप्राप्तयौवनाः ॥ ७.३ ॥ स कदाचिन्महाबाहुररण्येऽनुसरन्मृगम् । शुश्राव शब्दमसकृत्त्रायस्वेति च योषिताम् ॥ ७.४ ॥ स विहाय मृगं राजा मा भैषीरित्यभाषत । मयि शासति दुर्मेधाः कोऽयमन्यायवृत्तिमान् ॥ ७.५ ॥ तत्क्रन्दितानुसारी च सर्वारम्भविघातकृत् । एकस्मिन्नन्तरे रौद्रो विघ्नराट्समचिन्तयत् ॥ ७.६ ॥ विश्वामित्रोऽयमतुलं तप आस्थाय वीर्यवान् । प्रागसिद्धाभवादीनां विद्याः साध्यति व्रती ॥ ७.७ ॥ साध्यमानाः क्षमामौनचित्तसंयमिनामुना । ता वै भयार्ताः क्रन्दन्ति कथं कार्यमिदं मया ॥ ७.८ ॥ तेजस्वी कौशिकश्वेष्ठो वयमस्य सुदुर्बलाः । क्रोशन्त्येतास्तथा भीता दुष्पारं प्रतिभाति मे ॥ ७.९ ॥ अथवायं नृपः प्राप्तो मा भैरिति वदन्मुहुः । इममेव प्रविश्याशु साधयिष्ये यथेप्सितम् ॥ ७.१० ॥ इति संचिन्त्य रौद्रेण विघ्नराजेन वै ततः । तेनाविष्टो नृपः कोपादिदं वचनमब्रवीत् ॥ ७.११ ॥ कोऽयं बघ्नाति वस्त्रान्ते पावकं पापकृन्नरः । बलोष्णतेजसा दीप्ते मयि पत्यावुपस्थिते ॥ ७.१२ ॥ सोऽद्य मत्कार्मुकाक्षेपविदीपितदिगन्तरैः । शरैर्विभिन्नसर्वाङ्गो दीर्घनिद्रां प्रवेक्ष्यति ॥ ७.१३ ॥ विश्वामित्रस्ततः क्रुद्धः श्रुत्वा तन्नृपतेर्वचः । क्रुद्धे चर्षिवरे तस्मिन्नेशुर्विद्याः क्षणेन ताः ॥ ७.१४ ॥ स चापि राजा तं दृष्ट्वा विश्वामित्रं तपोनिधिम् । भीतः प्रावेपतात्यर्थं सहसाश्वत्थपर्णवत् ॥ ७.१५ ॥ स दुरात्मन्निति यदा मुनिस्तिष्ठेति चाब्रवीत् । ततः स राजा विनयात्प्रणिपत्याभ्यभाषत ॥ ७.१६ ॥ भगवन्नेष धर्मो मे नापराधो मम प्रभो । न क्रोद्धुमर्हसि मुने निजधर्मरतस्य मे ॥ ७.१७ ॥ दातव्यं रक्षितव्यं च धर्मज्ञेन महीक्षिता । चापं चोद्यम्य योद्धव्यं धर्मशास्त्रानुसारतः ॥ ७.१८ ॥ विश्वामित्र उवाच दातव्यं कस्य के रक्ष्याः कैर्योद्धव्यं च ते नृप । क्षिप्रमेतत्समाचक्ष्व यद्यधर्मभयं तव ॥ ७.१९ ॥ हरिश्चन्द्र उवाच दातव्यं विप्रमुख्येभ्यो ये चान्ये कृशवृत्तयः । रक्ष्या भीताः सदा युद्धं कर्तव्यं परिपन्थिभिः ॥ ७.२० ॥ विश्वामित्र उवाच यदि राजा भवान् सम्यग्राजधर्ममवेक्षते । निर्वेष्टुकामो विप्रोऽहं दीयतामिष्टदक्षिणा ॥ ७.२१ ॥ पक्षिण ऊचुः एतद्राजा वचः श्रुत्वा प्रहृष्टेनान्तरात्मना । पुनर्जातमिवात्मानं मेने प्राह च कौशिकम् ॥ ७.२२ ॥ उच्यतां भगवन् यत्ते दातव्यमविशङ्कितम् । दत्तमित्येव तद्विद्धि यद्यपि स्यात्सुदुर्लभम् ॥ ७.२३ ॥ हिरण्यं वा सुवर्णं वा पुत्रः पत्नी कलेवरम् । प्राणा राज्यं पुरं लक्ष्मीर्यदभिप्रेतमात्मनः ॥ ७.२४ ॥ विश्वामित्र उवाच राजन् प्रतिगृहीतोऽयं यस्ते दत्तः प्रतिग्रहः । प्रयच्छ प्रथमं तावद्दक्षिणां राजसूयिकीम् ॥ ७.२५ ॥ राजोवाच ब्रह्मंस्तामपि दास्यामि दक्षिणां भवतो ह्यहम् । व्रियतां द्विजशार्दूल यस्तवेष्टः प्रतिग्रहः ॥ ७.२६ ॥ विश्वामित्र उवाच ससागरां धरामेतां सभूभृद्ग्रामपत्तनाम् । राज्यं च सकलं वीर रथाश्वगजसङ्कुलम् ॥ ७.२७ ॥ कोष्ठागारं च कोषं च यच्चान्यद्विद्यते तव । विना भार्यां च पुत्रं च शरीरं च तवानघ ॥ ७.२८ ॥ धर्मं च सर्वधर्मज्ञ यो यान्तमनुगच्छति । बहुना वा किमुक्तेन सर्वमेतत्प्रदीयताम् ॥ ७.२९ ॥ पक्षिण ऊचुः प्रहृष्टेनैव मनसा सोऽविकारमुखो नृपः । तस्यर्षेर्वचनं श्रुत्वा तथेत्याह कृताञ्जलिः ॥ ७.३० ॥ विश्वामित्र उवाच सर्वस्वं यदि मे दत्तं राज्यमुर्वो बलं धनम् । प्रभुत्वं कस्य राजर्षे राज्यस्थे तापसे मयि ॥ ७.३१ ॥ हरिश्चन्द्र उवाच यस्मिन्नपि मया काले ब्राह्मन् दत्ता वसुन्धरा । तस्मिन्नपि भवान् स्वामी किमुताद्य महीपतिः ॥ ७.३२ ॥ विश्वामित्र उवाच यदि राजंस्त्वया दत्ता मम सर्वा वसुन्धरा । यत्र मे विषये स्वाम्यं तस्मान्निष्क्रान्तुमर्हसि ॥ ७.३३ ॥ श्रोणीसूत्रादिसकलं मुक्त्वा भूषणसंग्रहम् । तरुवल्कलमाबध्य सह पत्न्या सुतेन च ॥ ७.३४ ॥ पक्षिण ऊचुः तथेति चोक्त्वा कृत्वा च राजा गन्तुं प्रचक्रमे । स्वपत्न्या शैव्यया सार्धं बालकेनात्मजेन च ॥ ७.३५ ॥ व्रजतः स ततो रुद्ध्वा पन्थानं प्राह तं नृपम् । क्व यास्यसीत्यदत्त्वा मे दक्षिणां राजसूयिकीम् ॥ ७.३६ ॥ हरिश्चन्द्र उवाच भगवन् राज्यमेतत्ते दत्तं निहतकण्टकम् । अवशिष्टमिदं ब्रह्मन्नद्य देहत्रयं मम ॥ ७.३७ ॥ विश्वामित्र उवाच तथापि खलु दातव्या त्वया मे यज्ञदक्षिणा । विशेषतो ब्राह्मणानं हन्त्यदत्तं प्रतिश्रुतम् ॥ ७.३८ ॥ यावत्तोषो राजसूये ब्राह्मणानां तभवेन्नृप । तावदेव तु दातव्या दक्षिणा राजसूयिकी ॥ ७.३९ ॥ प्रतिश्रुत्य च दातव्यं योद्धव्यं चाततायिभिः । रक्षितव्यास्तथा चार्तास्त्वयैव प्राक्प्रतिश्रुतम् ॥ ७.४० ॥ हरिश्चन्द्र उवाच भगवन् साम्प्रतं नास्ति दास्ये कालक्रमेण ते । प्रसादं कुरु विप्रर्षे सद्भावमनुचिन्त्य च ॥ ७.४१ ॥ विश्वामित्र उवाच किम्प्रमाणो मया कालः प्रतीक्ष्यस्ते जनाधिप । शीघ्रमाचक्ष्व शापाग्निरन्यथा त्वां प्रधक्ष्यति ॥ ७.४२ ॥ हरिचन्द्र उवाच मासेन तव विप्रर्षे प्रदास्ये दक्षिणाधनम् । साम्प्रतं नास्ति मे वित्तमनुज्ञां दातुमर्हसि ॥ ७.४३ ॥ विश्वामित्र उवाच गच्छ गच्छ नृपश्रेष्ठ स्वधर्ममनुपालय । शिवश्च तेऽध्वा भवतु मा सन्तु परिपन्थिनः ॥ ७.४४ ॥ पक्षिण ऊचुः अनुज्ञातश्च गच्छेति जगाम वसुधाधिपः । पद्भ्यामनुचिता गन्तुमन्वगच्छत तं प्रिया ॥ ७.४५ ॥ तं सभार्यं नृपश्रेष्ठं निर्यान्तं ससुतं पुरात् । दृष्ट्वा प्रचुक्रुशुः पौरा राज्ञश्चैवानुयायिनः ॥ ७.४६ ॥ हानाथ किं जहास्यस्मान्नित्यार्तिपरिपीडितान् । त्वं धर्मतत्परो राजन् पौरानुग्रहकृत्तथा ॥ ७.४७ ॥ नयास्मानपि राजर्षे यदि धर्ममवेक्षसे । मुहूर्तं तिष्ठ राजेन्द्र भवतो मुखपङ्कजम् ॥ ७.४८ ॥ पिबामो नेत्रभ्रमरैः कदा द्रक्ष्यामहे पुनः । यस्य प्रयातस्य पुरो यान्ति पृष्ठे च पार्थिवाः ॥ ७.४९ ॥ तस्यानुयाति भार्येयं गृहीत्वा बालकं सुतम् । यस्य भृत्याः प्रयातस्य यान्तयग्रे कुञ्जचरस्थिताः ॥ ७.५० ॥ स एष पद्भ्यां राजेन्द्रो हरिश्चन्द्रोऽद्य गच्छति । हा राजन् सुकुमारं ते सुभ्रु सुत्वचमुन्नसम् ॥ ७.५१ ॥ पथि पांशुपरिक्लिष्टं मुखं कीदृग्भविष्यति । तिष्ठ तिष्ठ नृपश्रेष्ठ स्वधर्ममनुपालय ॥ ७.५२ ॥ आनृशंस्यं परो धर्मः क्षत्रियाणां विशेषतः । किं दारैः किं सुतैर्नाथ धनैर्धान्यैरथापि वा ॥ ७.५३ ॥ सर्वमेतत्परित्यज्य छायाभूता वयं तव । हानाथ हा महाराज हा स्वामिन् किं जहासि नः ॥ ७.५४ ॥ यत्र त्वं तत्र हि वयं तत्सुखं यत्र वै भवान् । नगरं तद्भवान् यत्र स स्वर्गो यत्र नो नृपः ॥ ७.५५ ॥ इति पौरवचः श्रुत्वा राजा शोकपरिप्लुतः । अतिष्ठत्स तदा मार्गे तेषामेवानुकम्पया ॥ ७.५६ ॥ विश्वामित्रोऽपि तं दृष्ट्वा पौरवाक्याकुलीकृतम् । रोषमर्षविवृत्ताक्षः समागम्य वचोऽब्रवीत् ॥ ७.५७ ॥ धिक्त्वां दुष्टसमाचारमनृतं जिह्मभाषणम् । मम राज्यं च दत्वा यः पुनः प्राक्रष्टुमिच्छसि ॥ ७.५८ ॥ इत्युक्तः परुषं तेन गच्छामीति सवेपथुः । ब्रुवन्नेवं ययौ शीघ्रमाकर्षन् दयितां करे ॥ ७.५९ ॥ कर्षतस्तां ततो भार्यां सुकुमारीं श्रमातुराम् । सहसा दण्डकाष्ठेन ताडयामास कौशिकः ॥ ७.६० ॥ तां तथा ताडितां दृष्ट्वा हरिश्चन्द्रो महीपतिः । गच्छामीत्याह दुः खार्तो नान्यत्किञ्चिदुदाहरत् ॥ ७.६१ ॥ अथ विश्वे तदा देवाः पञ्च प्राहुः कृपालवः । विश्वामित्रः सुपापोऽयं लोकान् कान् समवाप्स्यति ॥ ७.६२ ॥ येनायां यज्वनां श्रेष्ठः स्वराज्यादवरोपितः । कस्य वा श्रद्धया पूतं सुतं सोमं महाध्वरे । पीत्वा वयं प्रयास्यामो मुदं मन्त्रपुरः सरम् ॥ ७.६३ ॥ पक्षिण ऊचुः इति तेषां वचः श्रुत्वा कौशिकोऽतिरुषान्वितः । शशाप तान्मनुष्यत्वं सर्वे यूयमवाप्स्यथ ॥ ७.६४ ॥ प्रसादितश्च तैः प्राह पुनरेव महामुनिः. मानुषत्वेऽपि भवतां भवित्री नैव सन्ततिः ॥ ७.६५ ॥ न दारसंग्रहश्चैव भविता न च मत्सरः । कामक्रोधविनिर्मुक्ता भविष्यथ सुराः पुनः ॥ ७.६६ ॥ ततोऽवतेरुरंशैः स्वैर्देवास्ते कुरुवेश्मनि । द्रौपदीगर्भसम्भूताः पञ्च वै पाण्डुनन्दनाः ॥ ७.६७ ॥ एतस्मात्कारणात्पञ्च पाण्डवेया महारथाः । न दारसंग्रहं प्राप्ताः शापात्तस्य महामुनेः ॥ ७.६८ ॥ एतत्ते सर्वमाख्यातं पाण्डवेयकथाश्रयम् । प्रश्नं चतुष्टयं गीतं किमन्यच्छ्रोतुमिच्छसि ॥ ७.६९ ॥ इति श्रीमार्कण्डेयपुराणे द्रौपदेयोत्पत्तिर्नाम सप्तमोऽध्यायः _____________________________________________________________ अष्टमोऽध्यायः जैमिनिरुवाच भवद्भिरिदमाख्यातं यथाप्रश्नमनुक्रमात् । महत्कौतूहलं मेऽस्ति हरिश्चन्द्र कथां प्रति ॥ ८.१ ॥ अहो महात्मना तेन प्राप्तं कृच्छ्रमनुत्तमम् । कच्चित्सुखमनुप्राप्तं तादृगेव द्विजोत्तमाः ॥ ८.२ ॥ पक्षिण ऊचुः विश्वामित्रवचः श्रुत्वा स राजा प्रययौ शनैः । शैव्ययानुगतो दुः खी भार्यया बलापुत्रया ॥ ८.३ ॥ स गत्वा वसुधापालो दिव्यां वाराणसीं पुरीम् । नैषा मनुष्यभोग्येति शूलपाणेः परिग्रहः ॥ ८.४ ॥ जगाम पद्भ्यां दुः खार्तः सह पत्न्यानुकूलया । पुरीप्रवेशे ददृशे विश्वामित्रमुपस्थितम् ॥ ८.५ ॥ तं दृष्ट्वा समनुप्राप्तं विनयावनतोऽभवत् । प्राह चैवाञ्जलिं कृत्वा हरिश्चन्द्रो महामुनिम् ॥ ८.६ ॥ इमे प्राणाः सुतश्चायमियं पत्नी मुने ! मम । येन ते कृत्यमस्त्याशु तद्गृहाणार्घ्यमुत्तमम् ॥ ८.७ ॥ यद्वान्यत्कार्यमस्माभिस्तदनुज्ञातुमर्हसि ॥ ८.८ ॥ विश्वामित्र उवाच पूर्णः स मासो राजर्षे दीयतां मम दक्षिणा । राजसूयनिमित्तं हि स्मर्यते स्ववचो यदि ॥ ८.९ ॥ हरिश्चन्द्र उवाच ब्राह्मन्नद्यैव सम्पूर्णो मासोऽम्लानतपोधन । तिष्ठत्येतद्दनार्धं यत्तत्प्रतीक्षस्व माचिरम् ॥ ८.१० ॥ विश्वामित्र उवाच एवमस्तु महाराज आगमिष्याम्यहं पुनः । शापं तव प्रदास्यामि न चेदद्य प्रदास्यसि ॥ ८.११ ॥ पक्षिण ऊचुः इत्युक्त्वा प्रययौ विप्रो राजा चाचिन्तयत्तदा । कथमस्मै प्रदास्यामि दक्षिणा या प्रतिश्रुता ॥ ८.१२ ॥ कुतः पुष्टानि मित्राणि कुतोर्ऽथः साम्प्रतं मम । प्रतिग्रहः प्रदुष्टो मे नाहं यायामधः कथम् ॥ ८.१३ ॥ किमु प्राणान् विमुञ्चामि कां दिशं याम्यकिञ्चनः । यदि नाशं गमिष्यामि अप्रदाय प्रतिश्रुतम् ॥ ८.१४ ॥ ब्रह्मस्वहृत्कृमिः पापो भविष्याम्यधमाधमः । अथवा प्रेष्यतां यास्ये वरमेवात्मविक्रयः ॥ ८.१५ ॥ पक्षिण ऊचुः राजानं व्याकुलं दीनं चिन्तयानमधोमुखम् । प्रत्युवाच तदा पत्नी बाष्पगद्गदया गिरा ॥ ८.१६ ॥ त्यज चिन्तां महारजा स्वसत्यमनुपालय । श्मशानवद्वर्जनीयो नरः सत्यबहिष्कृतः ॥ ८.१७ ॥ नातः परतरं धर्मं वदन्ति पुरुषस्य तु । यादृशं पुरुषव्याघ्र स्वसत्यपरिपालनम् ॥ ८.१८ ॥ अग्निहोत्रमधीतं वा दानाद्याश्चाखिलाः क्रियाः । भजन्ते तस्य वैफल्यं यस्य वाक्यमकारणम् ॥ ८.१९ ॥ सत्यमत्यन्तमुदितं धर्मशास्त्रेषु धीमताम् । तारणायानृतं तद्वत्पातनायाकृतात्मनाम् ॥ ८.२० ॥ सप्ताश्वमेधानाहृत्य राजसूयं च पार्थिवः । कृतिर्नाम च्युतः स्वर्गादसत्यवचनात्सकृत् ॥ ८.२१ ॥ राजन् जातमपत्यं मे इत्युक्त्वा प्ररुरोद ह । बाष्पाम्बुप्लुतनेत्रान्तामुवाचेदं महीपतिः ॥ ८.२२ ॥ हरिश्चन्द्र उवाच विमुञ्च भद्रे सन्तापमयं तिष्ठति बालकः । उच्यतां वक्तुकामासि यद्वा त्वं गजगामिनि ॥ ८.२३ ॥ पत्न्युवाच राजन् जातमपत्यं मे सतां पुत्रफलाः स्त्रियः । स मां प्रदाय वित्तेन देहि विप्राय दक्षिणाम् ॥ ८.२४ ॥ पक्षिण ऊचुः एतद्वाक्यमुपश्रुत्य ययौ मोहं महीपतिः । प्रतिलभ्य च संज्ञां स विललापातिदुः खितः ॥ ८.२५ ॥ महद्दुः खमिदं भद्रे यत्त्वमेवं ब्रवीषि माम् । किं तव स्मितसंलापा मम पापस्य विस्मृताः ॥ ८.२६ ॥ हा हा कथं त्वया शक्यं वक्तुमेतत्शुचिस्मिते । दुर्वाच्यमेतद्वचनं कर्तुं शक्नोम्यहं कथम् ॥ ८.२७ ॥ इत्युक्त्वा स नरश्रेष्ठो धिग्धिगित्यसकृद्ब्रुवन् । निपपात महीपृष्ठे मूर्च्छयाभिपरिप्लुतः ॥ ८.२८ ॥ शयानं भुवि तं दृष्ट्वा हरिश्चन्द्रं महीपतिम् । उवाचेदं सकरुणं राजपत्नी सुदुः खिता ॥ ८.२९ ॥ पत्न्युवाच हा महारजा कस्येदमपध्यानमुपस्थितम् । यत्त्वं निपतितो भूमौ राङ्कवास्तरणोचितः ॥ ८.३० ॥ येन कोट्यग्रगोवित्तं विप्राणामपवर्जितम् । स एष पृथिवीनाथो भूमौ स्वपिति मे पतिः ॥ ८.३१ ॥ हा कष्टं किं तवानेन कृतं देव ! महीक्षिता । यदिन्द्रोपेन्द्रतुल्योऽयं नीतः प्रस्वापनीं दशाम् ॥ ८.३२ ॥ इत्युक्त्वा सापि सुश्रोणी मूर्च्छिता निपपात ह । भर्तृदुः खमहाभारेणासह्येन निपीडिता ॥ ८.३३ ॥ तौ तथा पतितौ भूमावनाथौ पितरौ शिशुः । दृष्ट्वात्यन्तं क्षुधाविष्टः प्राह वाक्यं सुदुः खितः ॥ ८.३४ ॥ तात तात ! ददस्वान्नमम्बाम्ब ! भोजनं दद । क्षुन्मे बलवती जाता जिह्वाग्रं शुष्यते तथा ॥ ८.३५ ॥ पक्षिण ऊचुः एतस्मिन्नन्तरे प्राप्तो विश्वामित्रो महातपाः । दृष्ट्वा तु तं हरिश्चन्द्रं पतितं भुवि मूर्च्छितम् ॥ ८.३६ ॥ स वारिणा समभ्युक्ष्य राजानमिदमब्रवीत् । उत्तिष्ठोतिष्ठ राजेन्द्र तां ददस्वेष्टदक्षिणाम् ॥ ८.३७ ॥ ऋणं धारयतो दुः खमहन्यहनि वर्धन्ते । आप्याय्यमानः स तदा हिमशीतेन वारिणा ॥ ८.३८ ॥ अवाप्य चेतनां राजा विश्वामित्रमवेक्ष्य च । पुनर्मोहं समापेदे स च क्रोधं ययौ मुनिः ॥ ८.३९ ॥ स समाश्वास्य राजानं वाक्यमाह द्विजोत्तमः । दीयतां दक्षिणा सा मे यदि धर्ममवेक्षसे ॥ ८.४० ॥ सत्येनार्कः प्रतपति सत्ये तिष्ठति मेदिनी । सत्यं चोक्तं परो धर्मः स्वर्गः सत्ये प्रतिष्ठितः ॥ ८.४१ ॥ अश्वमेधसहस्रं च सत्यं च तुलया धृतम् । अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥ ८.४२ ॥ अथवा किं ममैतेन साम्ना प्रोक्तेन कारणम् । अनार्त्ये पापसङ्कल्पे क्रूरे चानृतवादिनि ॥ ८.४३ ॥ त्वयि राज्ञि प्रभवति सद्भावः श्रूयतामयम् । अद्य मे दक्षिणां राजन्न दास्यति भवान् यदि ॥ ८.४४ ॥ अस्ताचलं प्रयातेर्ऽके शप्स्यामि त्वां ततो ध्रुवम् । इत्युक्त्वा स ययौ विप्रो राजा चासीद्भयातुरः ॥ ८.४५ ॥ कान्दिग्भूतोऽधमो निः स्वो नृशंसधनिनार्दितः । भार्यास्य भूयः प्राहेदं क्रियतां वचनं मम ॥ ८.४६ ॥ मा शापानलनिर्दग्धः पञ्चत्वमुपयास्यसि । स तथा चोद्यमानस्तु राजा पत्न्या पुनः पुनः ॥ ८.४७ ॥ प्राह भद्रे करोम्येष विक्रयं तव निर्घृणः । नृशंसैरपि यद्कर्तुं न शक्यं तत्करोम्यहम् । ४८। यदि मे शक्यते वाणी वक्तुमीदृक्सुदुर्वचः । एवमुक्त्वा ततो भार्यां गत्वा नागरमातुरः । बाष्पापिहितकण्ठाक्षस्ततो वचनमब्रवीत् ॥ ८.४९ ॥ राजोवाच भो भो नागरिकाः सर्वे शृणुध्वं वचनं मम । किं मां पृच्छथ कस्त्वं भो नृशंसोऽहममानुषः ॥ ८.५० ॥ राक्षसो वातिकठिनस्ततः पापतरोऽपि वा । विक्रेतुं दयितां प्राप्तो यो न प्राणांस्त्यजाम्यहम् ॥ ८.५१ ॥ यदि वः कस्यचित्कार्यं दास्या प्राणेष्टया मम । स ब्रीवीतु त्वरायुक्तो यावत्सन्धारयाम्यहम् ॥ ८.५२ ॥ पक्षिण ऊचुः अथ वृद्धो द्विजः कश्चिदागत्याह नराधिपम् । समर्पयस्व मे दासीमहं क्रेता धनप्रदः ॥ ८.५३ ॥ अस्ति मे वित्तमस्तोकं सुकुमारी च मे प्रिया । गृहकर्म न शक्नोति कर्तुमस्मात्प्रयच्छ मे ॥ ८.५४ ॥ कर्मण्यतावयोरूपशीलानां तव योषितः । अनुरूपमिदं वित्तं गृहाणार्पय मेऽबलाम् ॥ ८.५५ ॥ एवमुक्तस्य विप्रेण हरिश्चन्द्रस्य भूपतेः । व्यदीर्यत मनो दुः खान्न चैनं किञ्चिदब्रवीत् ॥ ८.५६ ॥ ततः स विप्रो नृपतेर्वल्कलान्ते दृढं धनम् । बद्ध्वा केशेष्वथादाय नृपपत्नीमकर्षयत् ॥ ८.५७ ॥ रुरोद रोहिताश्वोऽपि दृष्ट्वा कृष्टां तु मातरम् । हस्तेन वस्त्रमाकर्षन् काकपक्षधरः शिशुः ॥ ८.५८ ॥ राजपत्न्युवाच मुञ्चार्य मुञ्च तावन्मां यावत्पश्याम्यहं शिशुम् । दुर्लभं दर्शनं तात पुनरस्य भविष्यति ॥ ८.५९ ॥ पश्यैहि वत्स मामेवं मातरं दास्यतां गताम् । मां मा स्प्रार्क्षो राजपुत्र ! अस्पृश्याहं तवाधुना ॥ ८.६० ॥ ततः स बालः सहसा दृष्ट्वा कृष्टां तु मातरम् । समभ्यधावदम्बेति रुदन् सास्त्राविलेक्षणः ॥ ८.६१ ॥ तमागतं द्विजः क्रोधाद्वालमभ्याहनत्पदा । वदंस्तथापि सोऽम्बेति नैवामुञ्चत मातरम् ॥ ८.६२ ॥ राजपत्न्युवाच प्रसादं कुरु में नाथ क्रीणीष्वेमं च बालकम् । क्रीतापि नाहं भवतो विनैनं कार्यसाधिका ॥ ८.६३ ॥ इत्थं ममाल्पभाग्यायाः प्रसादसुमुखो भव । मां संयोजय बालेन वत्सेनेव पयस्विनीम् ॥ ८.६४ ॥ ब्राह्मण उवाच गृह्यतां वित्तमेतत्ते दीयतां बालको मम । स्त्रीपुंसोर्धर्मशास्त्रज्ञैः कृतमेव हि वेतनम् । शतं सहस्रं लक्षं च कोटिमूल्यं तथा परैः ॥ ८.६५ ॥ पक्षिण ऊचुः तथैव तस्य तद्वित्तं बद्ध्वोत्तरपटे ततः । प्रगृह्य बालकं मात्रा सहैकस्थमबन्धयत् ॥ ८.६६ ॥ नीयमानौ तु तौ दृष्ट्वा भार्यापुत्रौ स पार्थिवः । विललाप सुदुः खार्तो निः श्वस्योष्णं पुनः पुनः ॥ ८.६७ ॥ यां न वायुर्न चादित्यो नेन्दुर्न च पृथग्जनः । दृष्टवन्तः पुरा पत्नीं सेयं दासीत्वमागता ॥ ८.६८ ॥ सूर्यवंशप्रसूतोऽयं सुकुमारकराङ्गुलिः । सम्प्राप्तो विक्रयं बालो धिङ्मामस्तु सुदुर्मतिम् ॥ ८.६९ ॥ हा प्रिये ! हा शिशो ! नत्स ! ममानार्यस्य दुर्नयैः । दैवाधीनां दशां प्राप्तो न मृतोऽस्मि तथापि धिक् ॥ ८.७० ॥ पक्षिण ऊचुः एवं विलपतो राज्ञः स विप्रोऽन्तरधीयत । वृक्षगेहादिभिस्तुङ्गैस्तावादाय त्वरान्वितः ॥ ८.७१ ॥ विश्वामित्रस्ततः प्राप्तो नृपं वित्तमयाचत । तस्मै समर्पयामास हरिश्चन्द्रोऽपि तद्धनम् ॥ ८.७२ ॥ तद्वित्तं स्तोकमालोक्य दारविक्रयसम्भवम् । शोकाभिभूतं राजानं कुपितः कौशिकोऽब्रवीत् ॥ ८.७३ ॥ क्षत्रबन्धो ! ममेमां त्वं सदृशीं यज्ञदक्षिणाम् । मन्यसे यदि तत्क्षिप्रं पश्य त्वं मे बलं परम् ॥ ८.७४ ॥ तपसोऽत्र सुतप्तस्य ब्राह्मण्यस्यामलस्य च । मत्प्रभावस्य चोग्रस्य शुद्धस्याध्ययनस्य च ॥ ८.७५ ॥ अन्यां दास्यामि भगवन् ! कालः कश्चित्प्रतीक्ष्यताम् । साम्प्रतं नास्ति विक्रीता पत्नी पुत्रश्च बालकः ॥ ८.७६ ॥ विश्वामित्र उवाच चतुर्भागः स्थितो योऽयं दिवसस्य नराधिप । एष एव प्रतीक्ष्यो मे वक्तव्यं नोत्तरं त्वया ॥ ८.७७ ॥ पक्षिण ऊचुः तमेवमुक्त्वा राजेन्द्रं निष्ठुरं निर्घृणं वचः । तदादाय धनं तूर्णं कुपितः कौशिको ययौ ॥ ८.७८ ॥ विश्वामित्रे गते राजा भयशोकाब्धिमध्यगः । सर्वाकारं विनिश्चित्य प्रोवाचोच्चैरधोमुखः ॥ ८.७९ ॥ वित्तक्रीतेन यो ह्यर्थो मया प्रेष्येण मानवः । स ब्रवीतु त्वरायुक्तो यावत्तपति भास्करः ॥ ८.८० ॥ अथाजगाम त्वरितो धर्मश्चण्डालरूपधृक् । दुर्गन्धो विकृतो रूक्षः श्मश्रुलो दन्तुरो घृणी ॥ ८.८१ ॥ कृष्णो लम्बोदरः पिङ्गरूक्षाक्षः परुषाक्षरः । गृहीतपक्षिपुञ्जश्च शवमाल्यैरलङ्कृतः ॥ ८.८२ ॥ कपालहस्तो दीर्घास्यो भैरवोऽतिवदन्मुहुः । श्वगणाभिवृतो घोरो यष्टिहस्तो निराकृतिः ॥ ८.८३ ॥ चण्डाल उवाच अहमर्थो त्वया शीघ्रं कथयस्वात्मवेतनम् । स्तोकेन बहुना वापि येन वै लभ्यते भवान् ॥ ८.८४ ॥ पक्षिण ऊचुः तं तादृशमथालक्ष्य क्रूरदृष्टिं सुनिष्ठुरम् । वदन्तमतिदुः शीलं कस्त्वमित्याह पार्थिवः ॥ ८.८५ ॥ चण्डाल उवाच चण्डालोऽहमिहाख्यातः प्रवीरेति पुरोत्तमे । विख्यातो वध्यवधको मृतकम्बलहारकः ॥ ८.८६ ॥ हरिश्चन्द्र उवाच नाहं चण्डालदासत्वमिच्छेयं सुविगर्हितम् । वरं सापाग्निना दग्धो न चण्डालवशं गतः ॥ ८.८७ ॥ पक्षिण ऊचुः तस्यैवं वदतः प्राप्तो विश्वामित्रस्तपोनिधिः । कोपामर्षविवृताक्षः प्राह चेदं नराधैपम् ॥ ८.८८ ॥ विश्वामित्र उवाच चण्डालोऽयमनल्पं ते दातुं वित्तमुपस्थितः । कस्मान्न दीयते मह्यमशेषा यज्ञदक्षिणा ॥ ८.८९ ॥ हरिश्चन्द्र उवाच भगवन् ! सूर्यवंशोत्थमात्मानं वेद्मे कौशिक । कथं चण्डालदासत्वं गमिष्ये वित्तकामुकः ॥ ८.९० ॥ विश्वामित्र उवाच यदि चण्डालवित्तं त्वमात्मविक्रयजं मम । न प्रदास्यसि कालेन शाप्स्यामि त्वामसंशयम् ॥ ८.९१ ॥ पक्षिण ऊचुः हरिश्चन्द्रस्ततो राजा चिन्तावस्थितजीवितः । प्रसीदेति वदन् पादावृषेर्जग्राह विह्वलः ॥ ८.९२ ॥ दासोऽस्म्यार्तोऽस्मि भीतोऽस्मि त्वद्भक्तश्च विशेषतः । कुरु प्रसादं विप्रर्षे कष्टश्चण्डालसङ्करः ॥ ८.९३ ॥ भवेयं वित्तशेषेण सर्वकर्मकरो वशः । तवैव मुनिशार्दूल ! प्रेष्यश्चित्तानुवर्तकः ॥ ८.९४ ॥ विश्वामित्र उवाच यदि प्रेष्यो मम भवान् चण्डालाय ततो मया । दासभावमनुप्राप्तो दत्तो वित्तार्बुदेन वै ॥ ८.९५ ॥ पक्षिण ऊचुः एकमुक्ते तदा तेन श्वपाको हृष्टमानसः । विश्वामित्राय तद्द्रव्यं दत्त्वा बद्ध्वा नरेश्वरम् ॥ ८.९६ ॥ दण्डप्रहारसम्भ्रान्तमतीव व्याकुलेन्द्रियम् । इष्टबन्धुवियोगार्तमनयन्निजपत्तनम् ॥ ८.९७ ॥ हरिश्चन्द्रस्ततो राजा वसंश्चण्डालपत्तने । प्रातर्मध्याह्नसमये सायञ्चैतदगायत ॥ ८.९८ ॥ बाला दीनमुखी दृष्ट्वा बालं दीनमुखं पुरः । मां स्मरत्यसुखाविष्टा मोचयिष्यति नौ नृपः ॥ ८.९९ ॥ उपात्तवित्तो विप्राय दत्त्वा वित्तमतोऽधिकम् । न सा मां मृगशावाक्षी वेत्ति पापतरं कृतम् ॥ ८.१०० ॥ राज्यनाशः सुहृत्त्यागो भर्यातनयविक्रयः । प्राप्ता चण्डालता चेयमहो दुः खपरम्परा ॥ ८.१०१ ॥ एवं स निवसन्नित्यं सस्मार दयितं सुतम् । आर्याञ्चात्मसमाविष्टां हृतसर्वस्व आतुरः ॥ ८.१०२ ॥ कस्यचित्त्वथ कालस्य मृतचेलापहारकः । हरिश्चन्द्रोऽभवद्राजा श्मशाने तद्वशानुगः ॥ ८.१०३ ॥ चण्डालेनानुशिष्टश्व मृतचेलापहारिणा । शवागमनमन्विच्छन्निह तिष्ठ दिवानिशम् ॥ ८.१०४ ॥ इदं राज्ञेऽपि देयञ्च षड्भागन्तु शवं प्रति । त्रयस्तु मम भागाः स्युर्द्वो भागौ तव वेतनम् ॥ ८.१०५ ॥ इति प्रतिसमादिष्टो जगाम शवमन्दिरम् । दिशन्तु दक्षिणां यत्र वाराणस्यां स्थितं तदा ॥ ८.१०६ ॥ श्मशानं घोरसंनादं शिवाशतसमाकुलम् । शवमौलिसमाकीर्णं दुर्गन्धं बहुधूमकम् ॥ ८.१०७ ॥ पिशाचभूतवेतालडाकिनीयक्षसङ्कुलम् । गृध्रगोमायुसङ्कीर्णं श्ववृन्दपरिवारितम् ॥ ८.१०८ ॥ अस्थिसंघातसङ्कीर्णं महादुर्गन्धसंकुलम् । नानामृतसुहृन्नादरौद्रकोलाहलायुतम् ॥ ८.१०९ ॥ हा पुत्र ! मित्र ! हा बन्धो ! भ्रातर्वत्स ! प्रियाद्य मे । हा पते ! भगिनि ! मातर्हा मातुल ! पितामह ॥ ८.११० ॥ मातामह ! पितः ! क्व गतोऽस्येहि बान्धव । इत्येवं वदतां यत्र ध्वनिः संश्रुयते महान् ॥ ८.१११ ॥ ज्वलन्मांसवसामेदच्छमच्छमितसंकुलम् ॥ ८.११२ ॥ अर्धदग्धाः शवाः श्यामा विकसद्दन्तपङ्क्तयः । हसन्तीवाग्निमध्यस्थाः कायस्येयं दशा त्विति ॥ ८.११३ ॥ अग्नेश्चटचटाशब्दो वयसामस्थिपङ्क्तिषु । बान्धवाक्रान्दशब्दश्च पुक्कसेषु प्रहर्षजः ॥ ८.११४ ॥ गायतां भूतवेतालपिशाचगणः रक्षसाम् । श्रूयते सुमहान् घोरः कल्पान्त इव निः स्वनः ॥ ८.११५ ॥ महामहिषकारीषगोशकृद्राशिसङ्कुलम् । तदुत्थभस्मकूटैश्च वृतं सास्थिभिरुन्नतैः ॥ ८.११६ ॥ नानोपहारस्त्रग्दीपकाकविक्षेपकालिकम् । अनेकशब्दबहुलं श्मशानं नरकायते ॥ ८.११७ ॥ सवह्निगर्भैरशिवैः शिवारुतैर् निनादितं भीषणरावगह्वरम् । भयं भयस्याप्युपसञ्जनैर्भृशं श्मशानमाक्रन्दविरावदारुणम् ॥ ८.११८ ॥ स राजा तत्र सम्प्राप्तो दुः खितः शोचनोद्यतः । हा भृत्या मन्त्रिणो विप्राः तद्राज्यं विधे गतम् ॥ ८.११९ ॥ हा शैव्ये पुत्र हा बाल मां त्यक्त्वा मन्दभाग्यकम् । विश्वामित्रस्य दोषेण गताः कुत्रापि ते मम ॥ ८.१२० ॥ इत्येवं चिन्तयंस्तत्र चण्डालोक्तं पुनः पुनः । मलिनो रूक्षसर्वाङ्गः केशवान् गन्धवान् ध्वजी ॥ ८.१२१ ॥ लकुटी कालकल्पश्च धावंश्चापि ततस्ततः । अस्मिन् शव इदं मूल्यं प्राप्तं प्राप्स्यामि चाप्युत ॥ ८.१२२ ॥ इदं मम इदं राज्ञे मुख्यचण्डालके त्विदम् । इति धावन् दिशो राजा जीवन् योन्यन्तरं गतः ॥ ८.१२३ ॥ जीर्णकर्पण्टसुग्रन्थिकृतकन्थापरिग्रहः चिताभस्मरजोलिप्तमुखबाहूदराङिघ्रकः ॥ ८.१२४ ॥ नानामेदोवसामज्जा लिप्तपाण्यङ्गुलिः श्वसन् । नानाशवोदनकृताहारतृप्तिपरायणः ॥ ८.१२५ ॥ तदीयमाल्यसंश्लेषकृतमस्तकमण्डनः । न रात्रौ न दिवा शेते हा हेति प्रवदन्मुहुः ॥ ८.१२६ ॥ एवं द्वादशमासास्तु नीताः शतसमोपमाः । स कदाचिन्नृपश्रेष्ठः श्रान्तो बन्धुवियोगवान् ॥ ८.१२७ ॥ निद्राभिभूतो रूक्षाङ्गो निश्चेष्टः सुप्त एव च । तत्रापि शयनीये स दृष्टवानद्भुतं हमत् ॥ ८.१२८ ॥ श्मशानाभ्यासयोगेन दैवस्य बलवत्तया । अन्यदेहेन दत्त्वा तु गुरवे गुरुदक्षिणाम् ॥ ८.१२९ ॥ तदा द्वादश वर्षाणि दुः खदानात्तु निष्कृतिः । आत्मानं स ददर्शाथ पुक्कसीगर्भसम्भवम् ॥ ८.१३० ॥ तत्रस्थश्चाप्यसौ राजा सोऽचिन्तयदिदं तदा । इतो निष्क्रान्तमात्रो हि दानधर्मं करोम्यहम् ॥ ८.१३१ ॥ अनन्तरं स जातस्तु तदा पुक्कसबालकः । श्मशानमृतसंस्कारकरणेषु सदोद्यतः ॥ ८.१३२ ॥ प्राप्ते तु सप्तमे वर्षे श्मशानेऽथ मृतो द्विजः । आनीतो बन्धुभिर्दृष्टस्तेन तत्राधनो गुणी ॥ ८.१३३ ॥ मूल्यार्थिना तु तेनापि परिभूतास्तु ब्राह्मणाः । ऊचुस्ते ब्राह्मणास्तत्र विश्वामित्रस्य चेष्टितम् ॥ ८.१३४ ॥ पापिष्ठमशुभं कर्म कुरु त्वं पापकारक । हरिश्चन्द्रः पुरा राजा विश्वामित्रेण पुक्कसः ॥ ८.१३५ ॥ कृतः पुण्यविनाशेन ब्राह्मणस्वापनाशनात् । यदा न क्षमते तेषां तैः स शप्तो रुषा तदा ॥ ८.१३६ ॥ गच्छ त्वं नरकं घोरमधुनैव नराधम । इत्युक्तमात्रे वचने स्वप्नस्थः स नृपस्तदा ॥ ८.१३७ ॥ अपश्यद्यमदूतान् वै पाशहस्तान् भयावहान् । तैः संगृहीतमात्मानं नीयमानं तदा बलात् ॥ ८.१३८ ॥ पश्यति स्म भृशं खिन्नो हा मातः पितरद्य मे । एवंवादी स नरके तैलद्रोण्यां निपातितः ॥ ८.१३९ ॥ क्रकचैः पाट्यमानस्तु क्षुरधाराभिरप्यधः । अन्धे तमसि दुः खार्तः पूयशोणितभोजनः ॥ ८.१४० ॥ सप्तवर्षं मृतात्मानं पुक्कसत्वे ददर्श ह । दिनं दिनन्तु नरके दह्यते पच्यतेऽन्यतः ॥ ८.१४१ ॥ खिद्यते क्षोभ्यतेऽन्यत्र मार्यते पाट्यतेऽन्यतः । क्षार्यते दीप्यतेऽन्यत्र शीतवाताहतोऽन्यतः ॥ ८.१४२ ॥ एवं दिनं वर्षशतप्रमाणं नरकेऽभवत् । तथा वर्षशतं तत्र श्रीवितं नरके भटैः ॥ ८.१४३ ॥ ततो निपातितो भूमौ विष्ठाशी श्वा व्यजायत । वान्ताशी शीतदग्धश्च मासमात्रे मृतोऽपि सः ॥ ८.१४४ ॥ अथापश्यत्खरं देहं हस्तिनं वानरं पशुम् । छागं विडालं कङ्कञ्च गामविं पक्षिणं कृमिम् ॥ ८.१४५ ॥ मत्स्यं कूर्मं वराहञ्च श्वाविधं कुक्कुटं शुकम् । शारिकां स्थावरांश्चैव सर्पमन्यांश्व देहिनः ॥ ८.१४६ ॥ दिवसे दिवसे जन्म प्राणिनः प्राणिनस्तदा । अपश्यद्दुः खसन्तप्तो दिनं वर्षशतं तथा ॥ ८.१४७ ॥ एवं वर्षशतं पूर्णं गतं तत्र कुयोनिषु । अपश्यच्च कदाचित्स राजा तत्स्वकुलोद्भवम् ॥ ८.१४८ ॥ तत्र स्थितस्य तस्यापि राज्यं द्यूतेन हारितम् । भार्या हृता च पुत्रश्च स चैकाकी वनं गतः ॥ ८.१४९ ॥ तत्रापश्यत स सिंहं वै व्यादितास्यं भयावहम् । बिभक्षयिषुमायातं शरभेण समन्वितम् ॥ ८.१५० ॥ पुनश्च भक्षितः सोऽपि भार्यां शोचितुमुद्यतः । हा शैव्ये ! क्व गतास्यद्य मामिहापास्य दुः खितम् ॥ ८.१५१ ॥ अपश्यत्पुनरेवापि भार्यां स्वं सहपुत्रकाम् । त्रायस्व त्वं हरिश्चन्द्र किं द्यूतेन तव प्रभो ॥ ८.१५२ ॥ पुत्रस्ते शोच्यतां प्राप्तो भर्यंया शैव्यया सह । स नापश्यत्पुनरपि धावमानः पुनः पुनः ॥ ८.१५३ ॥ अथापश्यत्पुनरपि स्वर्गस्थः स नराधिपः । नीयते मुक्तकेशी सा दीना विवसना बलात् ॥ ८.१५४ ॥ हाहावाक्यं प्रमुञ्चन्ती त्रायस्वेत्यसकृत्स्वना । अथापश्यत्पुनस्तत्र धर्मराजस्य शासनात् ॥ ८.१५५ ॥ आक्रान्दन्त्यन्तरीक्षस्था आगच्छेह नराधिप । विश्वामित्रेण विज्ञप्तो यमो राजंस्तवार्थतः ॥ ८.१५६ ॥ इत्युक्त्वा सर्पपाशैस्तु नीयते बलवद्विभुः । श्राद्धदेवेन कथितं विश्वामित्रस्य चेष्टितम् ॥ ८.१५७ ॥ तत्रापि तस्य विकृतिर्नाधर्मोत्था व्यवर्धत । एताः सर्वा दशास्तस्य याः स्वप्ने सम्प्रदर्शिताः ॥ ८.१५८ ॥ सर्वास्तास्तेन सम्भुक्ता यावद्वर्षाणि द्वादश । अतीते द्वादशे वर्ष नीयमानो भटैर्बलात् ॥ ८.१५९ ॥ यमं सोऽपश्यदाकारादुवाच च नराधिपम् । विश्वामित्रस्य कोपोऽयं दुर्निवार्यो महात्मनः ॥ ८.१६० ॥ पुत्रस्य ते मृत्युमपि प्रदास्यति स कौशिकः । गच्छ त्वं मानुषं लोकं दुः खशेषञ्च भुङ्क्ष्व वै । गतस्य तत्र राजेन्द्र श्रेयस्तव भविष्यति ॥ ८.१६१ ॥ व्यतीते द्वादशे वर्षे दुः खस्यान्ते नराधिपः । अन्तरीक्षाच्च पतितो यमदूतैः प्रणोदितः ॥ ८.१६२ ॥ पतितो यमलोकाच्च विबुद्धो भयसम्भ्रमात् । अहो कष्टमिति ध्यात्वा क्षते क्षारावसेवनम् ॥ ८.१६३ ॥ स्वप्ने दुः खं महद्दृष्टं यस्यान्तो नोपलभ्यते । स्वप्ने दृष्टं मया यत्तु किं नु मे द्वादशाः समाः ॥ ८.१६४ ॥ गतेत्यपृच्छत्तत्रस्थान् पुक्कसांस्तु स सम्भ्रमात् । नेत्युचुः केचित्तत्रस्था एवमेवापरेऽब्रुवन् ॥ ८.१६५ ॥ श्रुत्वा दुः खी तदा राजा देवान् शरणमीयिवान् । स्वस्ति कुर्वन्तु मे देवाः शैव्याया बालकस्य च ॥ ८.१६६ ॥ नमो धर्माय महते नमः कृष्णाय वेधसे । परावराय शुद्धाय पुराणायाव्ययाय च ॥ ८.१६७ ॥ नमो बृहस्पते तुभ्यं नमस्ते वासवाय च । एवमुक्त्वा स राजा तु युक्तः पुक्कसकर्मणि ॥ ८.१६८ ॥ शवानां मूल्यकरणे पुनर्नष्टस्मृतिर्यथा । मलिनो जटिलः कृष्णो लकुटी विह्वलो नृपः ॥ ८.१६९ ॥ नैव पुत्रो न भार्या तु तस्य वै स्मृतिगोचरे । नष्टोत्साहो राज्यनाशात्श्मशाने निवसंस्तदा ॥ ८.१७० ॥ अथाजगाम स्वसुतं मृतमादाय लापिनी । भार्या तस्य नरेन्द्रस्य सर्पदष्टं हि बालकम् ॥ ८.१७१ ॥ हा वत्स ! हा पुत्र ! शिशो ! इत्येवं वदती मुहुः । कृशा विवर्णा विमनाः पांशुध्वस्तशिरोरुहा ॥ ८.१७२ ॥ राजपत्न्युवाच हा राजन्नद्य बालं त्वं पश्य सोमं महीतले । रममाणं पुरा दृष्टं दुष्टाहिना मृतम् ॥ ८.१७३ ॥ तस्या विलापशब्दं तमाकर्ण्य स नराधिपः । जगाम त्वरितोऽत्रेति भविता मृतकम्बलः ॥ ८.१७४ ॥ स तां रोरुदतीं भार्यां नाभ्यजानात्तु पार्थिवः । चिरप्रवाससन्तप्तां पुनर्जातामिवाबलाम् ॥ ८.१७५ ॥ सापि तं चारुकेशान्तं पुरा दृष्ट्वा जटालकम् । नाभ्यजानान्नृपसुता शुष्कवृक्षोपमं नृपम् ॥ ८.१७६ ॥ सोऽपि कृष्णपटे बालं दृष्ट्वाशीविषपीडितम् । नरेन्द्रलक्षणोपेतं चिन्तामाप नरेश्वरः ॥ ८.१७७ ॥ अहो कष्टं नरेन्द्रस्य कस्याप्येष कुले शिशुः । जातो नीतः कृतान्तेन कामप्याशां दुरात्मना ॥ ८.१७८ ॥ एवं दृष्ट्वा हि मे बालं मातुरुत्सङ्गशायिनम् । स्मृतिमभ्यागतो बालो रोहिताश्वोऽब्जलोचनः ॥ ८.१७९ ॥ सोऽप्येतामेव मे वत्सो वयोऽवस्थामुपागतः । नीतो यदि न घोरेण कृतान्तेनात्मनो वशम् ॥ ८.१८० ॥ राजपत्न्युवाच हा वत्स ! कस्य पापस्य अपध्यानादिदं महत् । दुः खमापतितं घोरं यस्यान्तो नोपलभ्यते ॥ ८.१८१ ॥ हा नाथ ! राजन् ! भवता मामनाश्वास्य दुः खिताम् । क्वापि सन्तिष्ठता स्थाने विश्रब्धं स्थीयते कथम् ॥ ८.१८२ ॥ राज्यनाशः सुहृत्त्यागो भार्यातनयविक्रयः । हरिश्चन्द्रस्य राजर्षेः किं विधे ! न कृतं त्वया ॥ ८.१८३ ॥ इति तस्या वचः श्रुत्वा राजा स्वस्थानतश्च्युतः । प्रत्यभिज्ञाय दयितां पुत्रञ्च निधनं गतम् ॥ ८.१८४ ॥ कष्टं शैव्येयमेषा हि स बालोऽयमितीरयन् । रुरोद दुः खसन्तप्तो मूर्च्छामभिजगाम च ॥ ८.१८५ ॥ सा च तं प्रत्यभिज्ञाय तामवस्थामुपागतम् । मूर्च्छिता निपपातार्ता निश्चेष्टा धरणीतले ॥ ८.१८६ ॥ चेतः सम्प्राप्य राजेन्द्रो राजपत्नी च तै समम् । विलेपतुः सुसन्तप्तौ शोकभारावपीडितौ ॥ ८.१८७ ॥ राजोवाच हा वत्स ! सुकुमारं ते स्वक्षिभ्रूनासिकालकम् । पश्यतो मे मुखं दीनं हृदयं किं न दीर्यते ॥ ८.१८८ ॥ तात ! तातेति मधुरं ब्रुवाणं स्वयमागतम् । उपगुह्य वदिष्ये कं वत्स ! वत्सेति सौहृदात् ॥ ८.१८९ ॥ कस्य जानुप्रणीतेन पिङ्गेन क्षितिरेणुना । ममोत्तरीयमुत्सङ्गं तथाङ्गं मलमेष्यति ॥ ८.१९० ॥ अङ्गप्रत्यङ्गसम्भूतो मनोहृदयनन्दनः । मया कुपित्रा हा वत्स ! विक्रीतो येन वस्तुवत् ॥ ८.१९१ ॥ हृत्वा राज्यमशेषं मे ससाधनधनं महत् । दैवाहिना नृशंसेन दष्टो मे तनयस्ततः ॥ ८.१९२ ॥ अहं दैवाहिदष्टस्य पुत्रस्याननपङ्कजम् । निरीक्षन्नपि घोरेण विषेणान्धीकृतोऽधुना ॥ ८.१९३ ॥ एकमुक्त्तवा तमादाय बालकं बाष्पगद्गदः । परिष्वज्य च निश्चेष्टो मूर्च्छया निपपात ह ॥ ८.१९४ ॥ राजपत्न्युवाच अयं स पुरुषव्याघ्रः स्वरेणैवोपलक्ष्यते । विद्वज्जनमनश्चन्द्रो हरिश्चन्द्रो न संशयः ॥ ८.१९५ ॥ तथास्य नासिका तुङ्गा अग्रतोऽधोमुखं गता । दन्ताश्च मुकुलप्रख्याः ख्यातकीर्तेर्महात्मनः ॥ ८.१९६ ॥ श्मशानमागतः कस्मादद्यैष स नरेश्वरः । अपहाय पुत्रशोकं सापश्यत्पतितं पतिम् ॥ ८.१९७ ॥ प्रकृष्टा विस्मिता दीना भर्तृपुत्राधिपीडिता । वीक्षन्ती सा ततोऽपश्यद्भर्तृदण्डं जुगुप्सितम् ॥ ८.१९८ ॥ श्वपाकार्हमतो मोहं जगामायतलोचना । प्राप्य चेतश्च शनकैः सगद्गदमभाषत ॥ ८.१९९ ॥ धिक्त्वां दैवातिकरुणां निर्मर्यादं जुगुप्सितम् । येनायममरप्रख्यो नीतो राजा श्वपाकताम् ॥ ८.२०० ॥ राज्यनाशं सुहृत्त्यागं भार्यातनयविक्रयम् । प्रापयित्वापि नो कुक्तश्चण्डालोऽयं कृतो नृपः ॥ ८.२०१ ॥ हा राजन् ! जातसन्तापामित्थं मां धरणीतलात् । उत्थाप्य नाद्य पर्यङ्कमारोहेति किमुच्यते ॥ ८.२०२ ॥ नाद्य पश्यामि ते छत्रं भृङ्गारमथवा पुनः । चामरं व्यजनञ्चापि कोऽयं विधिविपर्ययः ॥ ८.२०३ ॥ यस्याग्रे व्रजतः पूर्वं राजानो भृत्यतां गताः । स्वोत्तरीयैरकुर्वन्त नीरजस्कं महीतलम् ॥ ८.२०४ ॥ सोऽयं कपालसंलग्नघटीघटनिरन्तरे । मृतनिर्माल्यसूत्रान्तर्गूग्केशे सुदारुणे ॥ ८.२०५ ॥ वसानिस्यन्दसंशुष्कमहीपुटकमण्डिते । भस्माङ्गारार्धदग्धास्थिमज्जासङ्घट्टभीषणे ॥ ८.२०६ ॥ गृध्रगोमायुनादार्तनष्टक्षुद्रविहङ्गमे । चिताधूमाततिरुचा नीलीकृतदिगन्तरे ॥ ८.२०७ ॥ कुणपास्वादनमुदा सम्प्रहृष्टनिशाचरे । चरत्यमेध्ये राजेन्द्रः श्मशाने दुः खपीडितः ॥ ८.२०८ ॥ एवमुक्त्वा समाश्लिष्य कण्ठं राज्ञो नृपात्मजा । कष्टशोकशताधारा विललापार्तया गिरा ॥ ८.२०९ ॥ राजपत्न्युवाच राजन् ! स्वप्नोऽथ तथ्यं वा यदेतन्मन्यते भवान् । तत्कथ्यतां महाभाग मनो वै मुह्यते मम ॥ ८.२१० ॥ यद्येतदेवं धर्मज्ञ नास्ति धर्मे सहायता । तथैव विप्रदेवादिपूजने पालने भुवः ॥ ८.२११ ॥ नास्ति धर्मः कुतः सत्यमार्जवं चानृशंसता । यत्र त्वं धर्मपरमः स्वराज्यादवरोपितः ॥ ८.२१२ ॥ इति तस्या वचः श्रुत्वा निश्वस्योष्णं सगद्गदम् । कथयामास तन्वङ्ग्या यथा प्राप्ता श्वपाकता ॥ ८.२१३ ॥ रुदित्वा सापि सुचिरं निश्वस्योष्णञ्च दुः खिता । स्वपुत्रमरणं भीरुर्यथावृत्तं न्यवेदयत् ॥ ८.२१४ ॥ राजोवाच प्रिये ! न रोचये दीर्घं कालं क्लेशमुपासितुम् । नात्मायत्तश्च तन्वङ्गि पश्य मे मन्दभाग्यताम् ॥ ८.२१५ ॥ चण्डालेनाननुज्ञातः प्रवेक्ष्ये ज्वलनं यदि । चण्डालदासतां यास्ये पुनरप्यन्यजन्मनि ॥ ८.२१६ ॥ नरके च तपिष्यामि कोटकः कृमिभोजनः । वैतरण्यां महापूयवसासृक्स्नायुपिच्छिले ॥ ८.२१७ ॥ असिपत्रवने प्राप्य छेदं प्राप्स्यामि दारुणम् । तापं प्राप्स्यामि वा प्राप्य महारौरवरौरवौ ॥ ८.२१८ ॥ मग्नस्य दुः खजलधौ पारः प्राणवियोजनम् । एकोऽपि बालको योऽयमासीद्वंशकरः सुतः ॥ ८.२१९ ॥ मम दैवाम्बुवेगेन मग्नः सोऽपि बलीयसा । कथं प्राणान् विमुञ्चामि परायत्तोऽस्मि दुर्गतः ॥ ८.२२० ॥ अथवा नार्तिना क्लिष्टो नरः पापमवेक्षते । तिर्यक्त्वे नास्ति तद्दुः शं नासिपत्रवने तथा ॥ ८.२२१ ॥ वैतरण्याङ्कुतस्तादृग्यादृशं पुत्रविप्लवे । सोऽहं सुतशिरीरेण दीप्यमाने हुताशने ॥ ८.२२२ ॥ निपतिष्यामि तन्वङ्गि क्षन्तव्यं कुकृतं मम । अनुज्ञाता च गच्छ त्वं विप्रवेश्म सुछिस्मिते ॥ ८.२२३ ॥ मम वाक्यञ्च तन्वङ्गि निबोधादृतमानसा । यदि दत्तं यदि हुतं गुरवो यदि तोषिताः ॥ ८.२२४ ॥ परत्र सङ्गमो भूयात्पुत्रेण सह च त्वया । इह लोके कुतस्त्वेतद्भविष्यति ममेङ्गितम् ॥ ८.२२५ ॥ त्वया सह मम श्रेयो गमनं पुत्रमार्गणे । यन्मया हसता किञ्चिद्रहस्ये वा शुचिस्मिते ॥ ८.२२६ ॥ अश्लीलमुक्तं तत्सर्वं क्षन्तव्यं मम याचतः । राजपत्नीति गर्वेण नावज्ञेयः स ते द्विजः । सर्वयत्नेन ते तोष्यः स्वामिदैवतवच्छुभे ॥ ८.२२७ ॥ राजपत्न्युवाच अहमप्यत्र राजर्षे दीप्यमाने हुताशने । दुः खभारासहाद्यैव सह यास्यामि वै त्वया ॥ ८.२२८ ॥ पक्षिण ऊचुः ततः कृत्वा चितां राजा आरोप्य तनयं स्वकम् । भार्यया सहितश्चासौ बद्धाञ्जलिपुटस्तदा ॥ ८.२२९ ॥ चिन्तयन् परमात्मानमीशं नारायणं हरिम् । हृत्कोटरगुहासीनं वासुदेवं सुरेश्वरम् । अनादिनिधनं ब्रह्म कृष्णं पीताम्बरं शुभम् ॥ ८.२३० ॥ तस्य चिन्तयमानस्य सर्वे देवाः सवासवाः । धर्मं प्रमुखतः कृत्वा समाजग्मुस्त्वरान्विताः ॥ ८.२३१ ॥ आगत्य सर्वे प्रोचुस्ते भो भो राजन् ! शृणु प्रभो । अयं पितामहः साक्षाद्धर्मश्च भगवान् स्वयम् ॥ ८.२३२ ॥ साध्याश्च विश्वे मरुतो लोकपालाः सवाहनाः । नागाः सिद्धाः सगन्धर्वा रुद्राश्चैव तथाश्विनौ ॥ ८.२३३ ॥ एते चान्ये च बहवो विश्वामित्रस्तथैव च । विश्वत्रयेण यो मित्रं कर्तुं न शकितः पुरा ॥ ८.२३४ ॥ विश्वामित्रस्तु ते मैत्रीमिष्टञ्चाहर्तुमिच्छति । आरुरोह ततः प्राप्तो धर्मः शक्रोऽथ गाधिजः ॥ ८.२३५ ॥ धर्मि उवाच मा राजन् ! साहसं कार्षोर्धर्मोऽहं त्वामुपागतः । तितिक्षादमसत्याद्यैः स्वगुणैः परितोषितः ॥ ८.२३६ ॥ इन्द्र उवाच हरिश्चन्द्र माहभाग ! प्राप्तः शक्रोऽस्मितेऽन्तिकम् । त्वया सभार्यपुत्रेण जिता लोकाः सनातनाः ॥ ८.२३७ ॥ आरोह त्रिदिवं राजन् ! भार्यापुत्रसमन्वितः । सुदुष्प्राप्तं नरैरन्यैर्जितमात्मीयकर्मभिः ॥ ८.२३८ ॥ पक्षिण ऊचुः ततोऽमृतमयं वर्षमपमृत्युविनाशनम् । इन्द्रः प्रासृजदाकाशाच्चितास्थानगतः प्रभुः ॥ ८.२३९ ॥ पुष्पवर्षञ्च सुमहद्देवदुन्दुभिनिस्वनम् । ततस्ततो वर्तमाने समाजे देवसंकुले ॥ ८.२४० ॥ समुत्तस्थौ ततः पुत्रो राज्ञस्तस्य महात्मनः । सुकुमारतनुः सुस्थः प्रसन्नेन्द्रियमानसः ॥ ८.२४१ ॥ ततो राजा हरिश्चन्द्रः परिष्वज्य सुतं क्षणात् । सभार्यः स श्रिया युक्तो दिव्यमाल्याम्बरान्वितः ॥ ८.२४२ ॥ सुस्थः सम्पूर्णहृदयो मुदा परमया युतः । बभूव तत्क्षणादिन्द्रो भूयश्चैनमभाषत ॥ ८.२४३ ॥ सभार्यस्त्वं सपुत्रश्च प्राप्स्यसे सद्गतिं पराम् । समारोह माहभाग निजानां कर्मणां फलैः ॥ ८.२४४ ॥ हरिश्चन्द्र उवाच देवराजाननुज्ञातः स्वामिना श्वपचेन वै । अगत्वा निष्कृतिं तस्य नारोक्ष्येऽहं सुरालयम् ॥ ८.२४५ ॥ धर्म उवाच तवैनं भाविनं क्लेशमवगम्यात्ममायया । आत्मा श्वपाकतां नीतो दर्शितं तच्च चापलम् ॥ ८.२४६ ॥ इन्द्र उवाच प्रार्थ्यते यत्परं स्थानं समस्तैर्मनुजैर्भुवि । तदारोह हरिश्चन्द्र स्थानं पुण्यकृतां नृणाम् ॥ ८.२४७ ॥ हरिश्चन्द्र उवाच देवाराज ! नमस्तुभ्यं वाक्यञ्चैतन्निबोध मे । प्रसादसुमुखं यत्त्वां ब्रवीमि प्रश्रयान्वितः ॥ ८.२४८ ॥ मच्छोकमग्नमनसः कोशलानगरे जनाः । तिष्ठन्ति तानपोह्याद्य कथं यास्याम्यहं दिवम् ॥ ८.२४९ ॥ ब्रह्महत्या गुरोर्घातो गोवधः स्त्रीवधस्तथा । तुल्यमेभिर्महापापं भक्तत्यागेऽप्युदाहृतम् ॥ ८.२५० ॥ भजन्तं भक्तमत्याज्यमदुष्टं त्यजतः सुखम् । नेह नामुत्र पश्यामि तस्माच्छक्र ! दिवं व्रज ॥ ८.२५१ ॥ यदि ते सहिताः स्वर्गं मया यान्ति सुरेश्वर । ततोऽहमपि यास्यामि नरकं वापि तैः सह ॥ ८.२५२ ॥ इन्द्र उवाच बहूनि पुण्यपापानि तेषां भिन्नानि वै पृथक् । कथं सङ्घातभोग्यं त्वं भूयः स्वर्गमवाप्स्यसि ॥ ८.२५३ ॥ हरिश्चन्द्र उवाच शक्र भुङ्क्ते नृपो राज्यं प्रभावेण कुटुम्बिनाम् । यजते च महायज्ञैः कर्म पौर्तं करोति च ॥ ८.२५४ ॥ तच्च तेषां प्रभावेण मया सर्वमनुष्ठितम् । उपकर्तॄन्न सन्त्यक्ष्ये तानहं स्वर्गलिप्सया ॥ ८.२५५ ॥ तस्माद्यन्मम देवेश किञ्चिदस्ति सुचेष्टितम् । दत्तमिष्टमथो जप्तं सामान्यं तैस्तदस्तु नः ॥ ८.२५६ ॥ बहुकालोपभोग्यं हि फलं यन्मम कर्मणः । तदस्तु दिनमप्येकं तैः समं त्वत्प्रसादतः ॥ ८.२५७ ॥ पक्षिण ऊचुः एवं भविष्यतीत्युक्त्वा शक्रस्त्रिभुवनेश्वरः । प्रसन्नचेता धर्मश्च विश्वामित्रश्च गाधिजः ॥ ८.२५८ ॥ विमानकोटिसम्बद्धं स्वर्गलोकान्महीतलम् । गत्वायोध्याजनं प्राह दिवमारुह्यतामिति ॥ ८.२५९ ॥ तदिन्द्रस्य वचः श्रुत्वा प्रीत्या तस्य च भूपतेः । आनीय रोहिताश्चञ्च विश्वामित्रो महातपाः ॥ ८.२६० ॥ अयोध्याख्ये पुरे रम्ये सोऽभ्यसिञ्चन्नृपात्मजम् । देवैश्च मुनिभिः सिद्धैरभिषिच्य नराधिपम् ॥ ८.२६१ ॥ राज्ञा सह तदा सर्वे हृष्टपुष्टसुहृज्जनाः । सपुत्रभृत्यदारास्ते दिवमारुरुहुर्जनाः ॥ ८.२६२ ॥ पदे पदे विमानात्ते विमानमगमन्नराः । तदा सम्भूतहर्षोऽसौ हरिश्चन्द्रश्च पार्थिवः ॥ ८.२६३ ॥ सम्प्राप्य भूतिमतुलां विमानैः स महीपतिः । आसाञ्चक्रे पुराकारे वप्रप्राकारसंवृते ॥ ८.२६४ ॥ ततस्तस्यर्धिमालोक्य श्लोकं तत्रोशना जगौ । दैत्याचार्यो महाभागः सर्वशास्त्रार्थतत्त्ववित् ॥ ८.२६५ ॥ शुक्र उवाच हरिश्चन्द्रसमो राजा न भूतो न भविष्यति । यः शृणोति स्वदुः खार्तः स सुखं महदाप्नुयात् ॥ ८.२६६ ॥ स्वर्गार्थोप्राप्नुयात्स्वर्गं पुत्रार्थो पुत्रमाप्नुयात् । भार्यार्थो प्राप्नुयाद्भार्यां राज्यार्थो राज्यमाप्नुयात् ॥ ८.२६७ ॥ अहो तितिक्षामाहात्म्यमहो दानफलं महत् । यदागतो हरिश्चन्द्रः पुरीञ्चेन्द्रत्वमाप्तवान् ॥ ८.२६८ ॥ पक्षिण ऊचुः एतत्ते सर्वमाख्यातं हरिश्चन्द्रविचेष्टितम् । अतः परं कथाशेषः श्रूयतां मुनिसत्तम ॥ ८.२६९ ॥ विपाको राजसूयस्य पृथिवीक्षयकारणम् । तद्विपाकनिमित्तञ्च युद्धमाडिबकं महत् ॥ ८.२७० ॥ इति श्रीमार्कण्डेयपुराणे हरिश्चन्द्रोपाख्यानं नामाष्टमोऽध्यायः _____________________________________________________________ नवमोऽध्यायः पक्षिण ऊचुः राज्यच्युते हरिश्चन्द्रे गते च त्रिदशालयम् । निश्चक्राम महातेजा जलवासात्पुरोहितः ॥ ९.१ ॥ वशिष्ठो द्वादशाब्दान्ते गङ्गापर्युषितो मुनिः । शुश्राव च समस्तन्तु विश्वामित्रविचेष्चितम् ॥ ९.२ ॥ हरिश्चन्द्रस्य नाशञ्च राज्ञश्चोदारकर्मणः । चण्डालसम्प्रयोगञ्च भार्यातनयविक्रयम् ॥ ९.३ ॥ स श्रुत्वा सुमाहभागः प्रीतिमानवनीपतौ । चकार कोपं तेजस्वी विश्वामित्रमृषिं प्रति ॥ ९.४ ॥ वशिष्ठ उवाच मम पुत्रशतं तेन विश्वामित्रेण घातितम् । तत्रापि नाभवत्क्रोधस्तादृशो यादृशोऽद्य मे ॥ ९.५ ॥ श्रुत्वा नराधिपमिमं स्वराज्यादवरीपितम् । महात्मानं महाभागं देवब्राह्मणपूजकम् ॥ ९.६ ॥ यस्मात्स सत्यवाक्शान्तः शत्रावपि विमत्सरः । अनागाश्चैव धर्मात्मा अप्रमत्तो मदाश्रयः ॥ ९.७ ॥ सपत्नीभृत्यपुत्रस्तु प्रापितोऽन्त्यां दशां नृपः । स राज्याच्च्यावितोऽनेन बहुशश्च खिलीकृतः ॥ ९.८ ॥ तस्माद्दुरात्मा ब्रह्मद्विट्प्राज्ञानामवरोपितः । मच्छापोपहतो मूढः स बकत्वमवाप्स्यति ॥ ९.९ ॥ पक्षिण ऊचुः श्रुत्वा शापं महातेजा विश्वामित्रोऽपि कौशिकः । त्वमप्याडिर्भवस्तेवति प्रतिशापमयच्छत ॥ ९.१० ॥ अन्योऽन्यशापात्तौ प्राप्तौ तिर्यक्त्वं परमद्युती । वशिष्ठः स महातेजा विश्वामित्रश्च कौशिकः ॥ ९.११ ॥ अन्यजातिसमायोगं गतावप्यमितौजसौ । युयुधातेऽतिसंरब्धौ महाबलपराक्रमौ ॥ ९.१२ ॥ योजनानां सहस्रे द्वे प्रमाणेनाडिरुच्छ्रितः । यन्नवत्यधिकं ब्रह्मन् ! सहस्रत्रितयं बकः ॥ ९.१३ ॥ तौ तु पक्षप्रहाराभ्यामन्योन्यस्योरुविक्रमौ । प्रहरन्तौ भयं तीव्रं प्रजानाञ्चक्रतुस्तदा ॥ ९.१४ ॥ विधूय पक्षाणि बको रक्तोद्वृत्ताक्षिराहनत् । आडिं सोऽप्युन्नतग्रीवो बकं पद्भ्यामताडयत् ॥ ९.१५ ॥ तयोः पक्षानिलापास्ताः प्रपेतुर्गिरयो भुवि । गिरिप्रपाताभिहता चकम्पे च वसुन्धरा ॥ ९.१६ ॥ क्ष्मा कम्पमाना जलधीनुद्वृत्ताम्बूंश्चकार च । ननाम चैकपार्श्वेन पातालगमनोन्मुखी ॥ ९.१७ ॥ केचिदिगरिनिपातेन केचिदम्भोधिवारिणा । केचिन्महीसञ्चलनात्प्रययुः प्राणिनः क्षयम् ॥ ९.१८ ॥ इति सर्वं परित्रस्तं हाहाभूतमचेतनम् । जगदासीत्सुसम्भ्रान्तं पर्यस्तक्षितिमण्डलम् ॥ ९.१९ ॥ हा वत्स ! हा कान्त ! शिशो ! प्रयाह्येषोऽस्मि संस्थितः । हा प्रिये ! कान्त ! शैलोऽयं पतत्याशु पलायताम् ॥ ९.२० ॥ इत्याकुलीकृते लोके संत्रासविमुखे तदा । सुरैः परिवृतः सर्वैराजगाम पितामहः ॥ ९.२१ ॥ प्रत्युवाच च विश्वेशास्तावुभावतिकोपितौ । युद्धं वा विरमत्वेतल्लोकाः स्वास्थ्यं व्रजन्तु च ॥ ९.२२ ॥ शृण्वन्तावपि तौ वाक्यं ब्रह्मणोऽव्यक्तजन्मनः । कोपामर्षसमाविष्टो युयुधाते न तस्थतुः ॥ ९.२३ ॥ ततः पितामहो देवस्तं दृष्ट्वा लोकसंक्षयम् । तयोश्च हितमन्विच्छन् तिर्यग्भावमपानुदत् ॥ ९.२४ ॥ ततस्तौ पूर्वदेहस्थौ प्राह देवः प्रजापतिः । व्युदस्ते तामसे भावे वशिष्ठ० औशिकर्षभौ ॥ ९.२५ ॥ जहि वत्स वशिष्ठ त्वं त्वञ्च कौशिक सत्तम । तामसं भावमाश्रित्य ईदृग्युद्धं चिकीर्षितम् ॥ ९.२६ ॥ राजसूयविपाकोऽयं हरिश्चन्द्रस्य भूपतेः । युवयोर्विग्रहश्चायं पृथिवीक्षयकारकः ॥ ९.२७ ॥ न चापि कौशिकश्रेष्ठस्तस्य राज्ञोऽपरध्यते । स्वर्गप्राप्तिकरो ब्रह्मन्नपकारपदे स्थितः ॥ ९.२८ ॥ तपो विघ्नस्य कर्तारौ कामक्रोधवशं गतौ । परित्यजत भद्रं वो ब्रह्म हि प्रचुरं बलम् ॥ ९.२९ ॥ एवमुक्तौ ततस्तेन लज्जितौ तावुभावपि । क्षमयामासतुः प्रीत्या परिष्वज्य परस्परम् ॥ ९.३० ॥ ततः सुरैर्वन्द्यमानो ब्रह्मा लोकं निजं ययौ । वशिष्ठोऽप्यात्मनः स्थानं कौशिकोऽपि स्वामाश्रयम् ॥ ९.३१ ॥ एतदाडिबकं युद्धं हरिश्चन्द्रकथां तथा । कथयिष्यन्ति ये मर्त्याः सम्यक्श्रोष्यन्ति चैव ये ॥ ९.३२ ॥ तेषां पापापनोदन्तु श्रुतं ह्येव करिष्यति । न चैव विघ्नकार्याणि भविष्यन्ति कदाचन ॥ ९.३३ ॥ इति श्रीमार्कण्डेयपुराणे आडिबकयुद्धवर्णनं नाम नवमोऽध्यायः _____________________________________________________________ दशमोऽध्यायः जैमिनिरुवाच संशयं द्विजशार्दूलाः प्रब्रूत मम पृच्छतः । आविर्भावतिरोभावौ भूतानां यत्र संस्थितौ ॥ १०.१ ॥ कथं सञ्जायते जन्तुः कथं वा सविवर्धते । कथं वोदरमध्यस्थस्तिष्ठत्यङ्गनिपीडितः ॥ १०.२ ॥ निष्क्रान्तिमुदरात्प्राप्य कथं वा वृद्धिमृच्छति । उत्क्रान्तिकाले च कथञ्चिद्भावेन वियुज्यते ॥ १०.३ ॥ कृत्स्नो मृतस्तथाश्नाति उभे सुकृतदुष्कृते । कथं ते च तथा तस्य फलं सम्पादयन्त्युत ॥ १०.४ ॥ कथं न जीर्यते तत्र पिण्डीकृत इवाशये । स्त्रीकोष्ठे यत्र जीर्यन्ते भुक्तानि सुगुरूण्यपि । भक्ष्याणि यत्र नो जन्तुर्जोर्यते कथमल्पकः ॥ १०.५ ॥ एतन्मे ब्रूत सकलं सन्देहोक्तिविवर्जितम् । तदेतत्परम गुह्यं यत्र मुह्यन्ति जन्तवः ॥ १०.६ ॥ पक्षिण ऊचुः प्रश्नभारोऽयमतुलस्त्वयास्मासु निवेशितः । दुर्भाव्यः सर्वभूतानां भावाभावसमाश्रितः ॥ १०.७ ॥ तं शृणुष्व महाभाग यथा प्राह पितुः पुरा । पुत्रः परमधर्मात्मा सुमतिर्नाम नामतः ॥ १०.८ ॥ ब्राह्मणो भार्गवः कश्चित्सुतमाह महामतिः । कृतोपनयनं शान्तं सुमतिं जडरूपिणम् ॥ १०.९ ॥ वेदानधीष्व सुमते ! यथानुक्रममादितः । गुरुशुश्रूषणे व्यग्रो भैक्षान्नकृतभोजनः ॥ १०.१० ॥ ततो गार्हस्थ्यमास्थाय चेष्ट्वा यज्ञाननुत्तमान् । इष्टमुत्पादयापत्यमाश्रयेथा वनं ततः ॥ १०.११ ॥ वनस्थश्च ततो वत्स परिव्राड्निष्परिग्रहः । एवमाप्स्यसि तद्ब्रह्म यत्र गत्वा न शोचसि ॥ १०.१२ ॥ पक्षिण ऊचुः इत्येवमुक्तो बहुशो जडत्वान्नाह किञ्चन । पितापि तं सुबहुशः प्राह प्रीत्या पुनः पुनः ॥ १०.१३ ॥ इति पित्रा सुतस्नेहात्प्रलोभि मधुराक्षरम् । स चोद्यमानो बहुशः प्रहस्येदमथाब्रवीत् ॥ १०.१४ ॥ तातैतद्बहुशोऽभ्यस्तं यत्त्वयाद्योपदिश्यते । तथैवान्यानि शास्त्राणि शिल्पानि विविधानि च ॥ १०.१५ ॥ जन्मनामयुतं साग्रं मम स्मृतिपथं गतम् । निर्वेदाः परितोषाश्च क्षयवृद्ध्युदये गताः ॥ १०.१६ ॥ शत्रुमित्रकलत्राणां वियोगाः सङ्गमास्तथा । मातरो विवधा दृष्टाः पितरो विवधास्तथा ॥ १०.१७ ॥ अनुभूतानि सौख्यनि दुः खानि च सहस्रशः । बान्धवा बहवः प्राप्ताः पितरश्च पृथग्विधाः ॥ १०.१८ ॥ विण्मूत्रपिच्छिले स्त्रीणां तथा कोष्ठे मयोषितम् । पीडाश्च सुभृशं प्राप्ता रोगाणाञ्च सहस्रशः ॥ १०.१९ ॥ गर्भदुः खान्यनेकानि बालत्वे यौवने तथा । वृद्धतायां तथाप्तानि तानि सर्वाणि संस्मरे ॥ १०.२० ॥ ब्राह्मणक्षत्रियविशां शूद्राणाञ्चापि योनिषु । पुनश्च पुशुकीटानां मृगाणामथ पक्षिणाम् ॥ १०.२१ ॥ तथैव राजभृत्यानां राज्ञाञ्चाहवशालिनाम् । समुत्पन्नोऽस्मि गेहेषु तथैव तव वेश्मनि ॥ १०.२२ ॥ भृत्यतां दासताञ्चैव गतोऽस्मि बहुशो नृणाम् । स्वामित्वमीश्वरत्वं च दरिद्रत्वं तथा गतः ॥ १०.२३ ॥ हतं मया हतश्चान्यैर्हतं मे घातितं तथा । दत्तं ममान्यैरन्येभ्यो मया दत्तमनेकशाः ॥ १०.२४ ॥ पितृमातृसुहृद्भ्रातृकलत्रादिकृतेन च । तुष्टोऽसकृत्तथा दैन्यमश्रुधौताननो गतः ॥ १०.२५ ॥ एवं संसारचक्रेऽस्मिन् भ्रमता तात सङ्कटे । ज्ञानमेतन्मया प्राप्तं मोक्षसम्प्राप्तिकारकम् ॥ १०.२६ ॥ विज्ञाते यत्र सर्वोऽयमृग्यजुः सामसंज्ञितः । क्रियाकलापो विगुणो न सम्यक्प्रतिभाति मे ॥ १०.२७ ॥ तस्मादुत्पन्नबोधस्य वेदैः किं मे प्रयोजनम् । गुरुविज्ञानतृप्तस्य निरीहस्य सदात्मनः ॥ १०.२८ ॥ षट्प्रकारक्रियादुःखसुखहर्षरसैश्च यत् । गुणैश्च वर्जितं ब्रह्म तत्प्राप्स्यामि परं पदम् ॥ १०.२९ ॥ रसहर्षभयोद्वेगक्रोधामर्षजरातुराम् । विज्ञातां स्वमृगग्राहिसंघपाशशताकुलम् ॥ १०.३० ॥ तस्माद्यास्याम्यहं तात त्यक्त्वेमां दुः खसन्ततिम् । त्रयीधर्ममधर्माढ्यं किं पापफलसन्निभम् ॥ १०.३१ ॥ पक्षिण ऊचुः तस्य तद्वचनं श्रुत्वा हर्षविस्मयगद्गदम् । पिता प्राह महाभागः स्वसुतं हृष्टमानसः ॥ १०.३२ ॥ पितोवाच किमेतद्वदसे वत्स कुतस्ते ज्ञानसम्भवः । केन ते जडता पूर्वमिदानीञ्च प्रबुद्धता ॥ १०.३३ ॥ किन्नु शापविकारोऽयं मुनिदेवकृतस्तव । यत्ते ज्ञानं तिरोभूतमाविर्भावमुपागतम् ॥ १०.३४ ॥ पुत्र उवाच शृणु तात ! यथा वृत्तं ममेदं सुखदुःखदम् । यश्चाहमासमन्यस्मिन् जन्मन्यस्मत्परन्तु यत् ॥ १०.३५ ॥ अहमासं पुरा विप्रो न्यस्तात्मा परमात्मनि । आत्मविद्याविचारेषु परां निष्ठामुपागतः ॥ १०.३६ ॥ सततं योगयुक्तस्य सतताभ्याससङ्गमात् । सत्संयोगात्स्वस्वभावाद्विचारविधिशोधनात् ॥ १०.३७ ॥ तस्मिन्नवे परा प्रीतिर्ममासीद्युञ्जतः सदा । आचार्यताञ्च सम्प्राप्तः शिष्यसन्देहहृत्तमः ॥ १०.३८ ॥ ततः कालेन महता ऐकान्तिकमुपगतः । अज्ञानाकृष्टसद्भावो विपन्नश्च प्रमादतः ॥ १०.३९ ॥ उत्क्रान्तिकालादारभ्य स्मृतिलोपो न मेऽभवत् । यावदब्दं गतं चैव जन्मनां स्मृतिमागतम् ॥ १०.४० ॥ पूर्वाभ्यासेन तेनैव सोऽहं तात ! जितेन्द्रियः । यतिष्यामि तथा कर्तुं न भविष्ये यथा पुनः ॥ १०.४१ ॥ ज्ञानदानफलं ह्येतद्यज्जातिस्मरणं मम । न ह्येतत्प्राप्यते तात त्रयीधर्माश्रितैर्नरैः ॥ १०.४२ ॥ सोऽहं पूर्वाश्रमादेव निष्ठाधर्ममुपाश्रितः । एकान्तित्वमुपागम्य यतिष्याम्यात्ममोक्षणे ॥ १०.४३ ॥ तद्ब्रूहि त्वं महाभाग ! यत्ते संशयिकं हृदि । एतावतापि ते प्रीतिमुत्पाद्यानृण्यमाप्नुयाम् ॥ १०.४४ ॥ पक्षिण ऊचुः पिता प्राह ततः पुत्रं श्रद्दधत्तस्य तद्वचः । भवता यद्वयं पृष्टाः संसारग्रहणाश्रयम् ॥ १०.४५ ॥ पुत्र उवाच शृणु तात ! यथा तत्त्वमनुभूतं मयासकृत् । संसारचक्रमजरं स्थितिर्यस्य न विद्यते ॥ १०.४६ ॥ सोऽहं वदामि ते सर्वं तवैवानुज्ञया पितः । उत्क्रान्तिकालादारभ्य यथा नान्यो वदिष्यति ॥ १०.४७ ॥ ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः । भिनत्ति मर्मस्थानानि दीप्यमानो निरिन्धनः ॥ १०.४८ ॥ उदानो नाम पवनस्ततश्चोर्ध्वं प्रवर्तते । भुक्तानामम्बुभक्ष्याणामधोगतिनिरोधकृत् ॥ १०.४९ ॥ ततो येनाम्बुदानानि कृतान्यन्नरसास्तथा । दत्ताः स तस्य आह्लादमापदि प्रतिपद्यते ॥ १०.५० ॥ अन्नानि येन दत्तानि श्रद्धापूतेन चेतसा । सोऽपि तृप्तिमवाप्नोति विनाप्यन्नेन वै तदा ॥ १०.५१ ॥ येनानृतानि नोक्तानि प्रीतिभेदः कृतो न च । आस्तिकः श्रद्दधानश्च स सुखं मृत्युमृच्छति ॥ १०.५२ ॥ देवब्राह्मणपूजायां ये रता नानसूयवः । शुक्ला वदान्या ह्रीमन्तस्ते नराः सुखमृत्यवः ॥ १०.५३ ॥ यो न कामान्न संरम्भान्न द्वेषाद्धर्ममुत्सृजेत् । यथोक्तकारी सोम्यश्च स सुखं मृत्युमृच्छति ॥ १०.५४ ॥ अवारिदायिनो दाहं क्षुधाञ्चानन्नदायिनः । प्राप्नुवन्ति नराः काले तस्मिन्मृत्यावुपस्थिते ॥ १०.५५ ॥ शीतं जयन्तीन्धनदास्तापं चन्दनदायिनः । प्राणघ्नीं वेदनां कष्टां ये चानुद्वेगकारिणः ॥ १०.५६ ॥ मोहाज्ञानप्रदातारः प्राप्नुवन्ति महद्भयम् । वेदनाभिरुदग्राभिः प्रपीड्यन्तेऽधमा नराः ॥ १०.५७ ॥ कूटसाक्षी मृषावादी यश्चासदनुशास्ति वै । ते मोहमृत्यवः सर्वे तथा वेदविनिन्दकाः ॥ १०.५८ ॥ विभीषणाः पूतिगन्धाः कूटमुद्गरपाणयः । आगच्छन्ति दुरात्मानो यमस्य पुरुषास्तदा ॥ १०.५९ ॥ प्राप्तेषु दृक्पथं तेषु जायते तस्य वेपथुः । क्रान्दत्यविरतं सोऽथ भ्रातृमातृसुतानथ ॥ १०.६० ॥ सास्य वागस्फुटा तात एकवर्णा विभाव्यते । दृष्टिश्च भ्राम्यते त्रासाच्छ्वासाच्छुष्यत्यथाननम् ॥ १०.६१ ॥ ऊर्ध्वश्वासान्वितः सोऽथ दृष्टिभङ्गसमन्वितः । ततः स वेदनाविष्टस्तच्छरीरं विमुञ्चति ॥ १०.६२ ॥ वाय्वग्रसारी तद्रूपं देहमन्यत्प्रपद्यते । तत्कर्मजं यातनार्थं न मातृपितृसम्भवम् । तत्प्रमाणवयोऽवस्थासंस्थानैः प्राग्भवं यथा ॥ १०.६३ ॥ ततो दूतो यमस्याशु पाशैर्बध्नाति दारुणैः । दण्डप्रहारसम्भ्रान्तं कर्षते दक्षिणां दिशम् ॥ १०.६४ ॥ कुशकण्टकवलमीकशङ्कुपाषाणकर्कशे । तथा प्रदीप्तज्वलने क्वचिच्छृभ्रशतोत्कटे ॥ १०.६५ ॥ प्रदीप्तादित्यतप्ते च दह्यमाने तदंशुभिः । कृष्यते यमदूतैश्चाशिवसन्नादभीषणैः ॥ १०.६६ ॥ विकृष्यमाणस्तैर्घोरैर्भक्ष्यमाणः शिवाशतैः । प्रयाति दारुणे मार्गे पापकर्मा यमक्षयम् ॥ १०.६७ ॥ छत्रोपानत्प्रदातारो ये च वस्त्रप्रदा नराः । ये यान्ति मनुजा मार्गं तं सुखेन तथान्नदाः ॥ १०.६८ ॥ एवं क्लेशाननुभवन्नवशः पापपीडितः । नीयते द्वादशाहेन धर्मराजपुरं नरः ॥ १०.६९ ॥ कलेवरे दह्यमाने महान्तं दाहमृच्छति । ताड्यमाने तथैवार्ति छिद्यमाने च दारुणाम् ॥ १०.७० ॥ क्लिद्यमाने चिरतरं जन्तुर्दुःखमवाप्नुते । स्वेन कर्मविपाकेन देहान्तरगतोऽपि सन् ॥ १०.७१ ॥ तत्र यद्वान्धवास्तोयं प्रयच्छन्ति तिलैः सह । यच्च पिण्डं प्रयच्छन्ति नीयमानस्तदश्नुते ॥ १०.७२ ॥ तैलाभ्यङ्गो बान्धवानामङ्गसंवाहनञ्च यत् । तेन चाप्याय्यते जन्तुर्यच्चाश्नन्ति सबान्धवाः ॥ १०.७३ ॥ भूमौ स्वपद्भिर्नात्यन्तं क्लेशमाप्नोति बान्धवैः । दानं ददद्भिश्च तथा जन्तुराप्याय्यते मृतः ॥ १०.७४ ॥ नीयमानः स्वकं गेहं द्वादशाहं स पश्यति । उपभुङ्क्ते तथा दत्तं तोयपिण्डादिकं भुवि ॥ १०.७५ ॥ द्वादशाहात्परं घोरमायसं भीषणाकृतिम् । याम्यं पश्यत्यथो जन्तुः कृष्यमाणः पुरं ततः ॥ १०.७६ ॥ गतमात्रोऽतिरक्ताक्षं भिन्नाञ्जनचयप्रभम् । मृत्युकालान्तकादीनां मध्ये पश्यति वै यमम् ॥ १०.७७ ॥ दंष्ट्राकरालवदनं भ्रकुटीदारुणाकृतिम् । विरूपैर्भोषणैर्वक्त्रैर्वृतं व्याधिशतैः प्रभुम् ॥ १०.७८ ॥ दण्डासक्तं महाबाहुं पाशहस्तं सुभैरवम् । तन्निर्दिष्टां ततो याति गतिं जन्तुः शुभाशुभाम् ॥ १०.७९ ॥ रौरवे कूटसाक्षी तु याति यश्चानृतो नरः । तस्य स्वरूपं गदतो रौरवस्य निशामय ॥ १०.८० ॥ योजनानां सहस्रे द्वे रौरवो हि प्रमाणतः । जानुमात्रप्रमाणश्च ततः श्वभ्रः सुदुस्तरः ॥ १०.८१ ॥ तत्राङ्गारचयोपेतं कृतञ्च धरणीसमम् । जाज्वल्यमानस्तीव्रेण तापिताङ्गारभूमिना ॥ १०.८२ ॥ तन्मध्ये पापकर्माणं विमुञ्चन्ति यमानुगाः । स दह्यमानस्तीव्रेण वह्निना तत्र धावति ॥ १०.८३ ॥ पदे पदे च पादोऽस्य शीर्यते जीर्यते पुनः । अहोरात्रेणोद्धरणं पादन्यासं च गच्छति ॥ १०.८४ ॥ एवं सहस्रमुत्तीर्णो योजनानां विमुच्यते । ततोऽन्यं पापशुद्ध्यर्थं तादृङ्निरयमृच्छति ॥ १०.८५ ॥ ततः सर्वेषु निस्तीर्णः पापी तिर्यकत्वमश्नुते । कृमिकीटपतङ्गेषु श्वापदे मशकादिषु ॥ १०.८६ ॥ गत्वा गजद्रुमाद्येषु गोष्वश्वेषु तथैव च । अन्यासु चैव पापासु दुः खदासु च योनिषु ॥ १०.८७ ॥ मानुषं प्राप्य कुब्जो वा कुत्सितो वामनोऽपि वा । चण्डालपुक्कसाद्यासु नरो योनिषु जायते ॥ १०.८८ ॥ अवशिष्टेन पापेन पुण्येन च समन्वितः । ततश्चारोहणीं जातिं शूद्रवैश्यनृपादिकाम् ॥ १०.८९ ॥ विप्रदेवेन्द्रतां चापि कदाचिदवरोहणीम् । एवन्तु पापकर्माणे नरकेषु पतन्त्यधः ॥ १०.९० ॥ यथा पुण्यकृतो यान्ति तन्मे निगतदः शृणु । ते यमेन विनिर्दिष्टां यान्ति पुण्यां गतिं नराः ॥ १०.९१ ॥ प्रगीतगन्धर्वगणाः प्रवृत्ताप्सरसाङ्गणाः । हारनूपुरमादुर्यशोभितान्युत्तमानि च ॥ १०.९२ ॥ प्रयान्त्याशु विमानानि नानादिव्यस्त्रगुज्ज्वलाः । तस्माच्च प्रच्युता राज्ञामन्येषां च महात्मनाम् ॥ १०.९३ ॥ जायन्ते च कुले तत्र सद्वृत्तपरिपालकाः । भोगान् सम्प्राप्नुवन्त्युग्रांस्ततो यान्त्यूर्ध्वमन्यथा ॥ १०.९४ ॥ अवरोहणीं च सम्प्राप्य पूर्ववद्यान्ति मानवाः । एतत्ते सर्वमाख्यातं यथा जन्तुर्विपद्यते । अतः शृणुष्व विप्रर्षे यथा गर्भं प्रपद्यते ॥ १०.९५ ॥ इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादो नाम दशमोऽध्यायः _____________________________________________________________ एकादशोऽध्यायः पुत्र उवाच निषेकं मानवं स्त्रीणां बीजं प्राप्तं रजस्यथ । विमुक्तमात्रो नरकात्स्वर्गाद्वापि प्रपद्यते ॥ ११.१ ॥ तेनाभिभूतं तत्स्थैर्यं याति बीजद्वयं पितः । कललत्वं बुद्बुदत्वं ततः पेषित्वमेव च ॥ ११.२ ॥ पेष्यां यथाणुबीजं स्यादह्कुरस्तद्वदुच्यते । अङ्गानां च तथोत्पत्तिः पञ्चानामनुभागशः ॥ ११.३ ॥ उपाङ्गान्यङ्गुलीनेत्रनासास्यश्रवणानि च । प्ररोहं यान्ति चाङ्गेभ्यस्तद्वत्तेभ्यो नखादिकम् ॥ ११.४ ॥ त्वचि रोमाणि जायन्ते केशाश्चैव ततः परम् । समं समृद्धिमायाति तेनैवोद्भवकोषकम् ॥ ११.५ ॥ नारिकेलफलं यद्वत्सकोषं वृद्धिमृच्छति । तद्वत्प्रयात्यसौ वृद्धिं सकोषोऽधोमुखः स्थितः ॥ ११.६ ॥ तले तु जानुपार्श्वाभ्यां करौ न्यस्य स वर्धते । अङ्गुष्ठो चोपरि न्यस्तौ जान्वोरग्रे तथाङ्गुली ॥ ११.७ ॥ जानुपृष्ठे तथा नेत्रे जानुमध्ये च नासिका । स्फिचौ पार्ष्णिद्वयस्थे च बाहुजङ्घे बहिः स्थिते ॥ ११.८ ॥ एवं वृद्धिं क्रमाद्याति जन्तुः स्त्रीगर्भसंस्थितः । अन्यसत्त्वोदरे जन्तोर्यथा रूपं तथा स्थितिः ॥ ११.९ ॥ काठिन्यमग्निना याति भुक्तपीतेन जीवति । पुण्यापुण्याश्रयमयी स्थितिर्जन्तोस्तथोदरे ॥ ११.१० ॥ नाडी चाप्यायनी नाम नाभ्यां तस्य निबध्यते । स्त्रीणां तथान्त्रसुषिरे सा निबद्धोपजायते ॥ ११.११ ॥ क्रामन्ति भुक्तपीतानि स्त्रीणां गर्भोदरे यथा । तैराप्यायितदेहोऽसौ जन्तुर्वृद्धिमुपैति वै ॥ ११.१२ ॥ स्मृतीस्तस्य प्रयान्त्यस्य बह्व्यः संसारभूमयः । ततो निर्वेदमायाति पीड्यमान इतस्ततः ॥ ११.१३ ॥ पुनर्नैवं करिष्यामि मुक्तमात्र इहोदरात् । तथा तथा यतिष्यामि गर्भं नाप्स्याम्यहं यथा ॥ ११.१४ ॥ इति चिन्तयते स्मृत्वा जन्मदुः खशतानि वै । यानि पूर्वानुभूतानि दैवभूतानि यानि वै ॥ ११.१५ ॥ ततः कालक्रमाज्जन्तुः परिवर्तत्यधोमुखः । नवमे दशमे वापि मासि सज्जयते यतः ॥ ११.१६ ॥ निष्क्रम्यमाणो वातेन प्राजापत्येन पीड्यते । निष्क्राम्यते च विलपन् हृदि दुः खनिपीडितः ॥ ११.१७ ॥ निष्क्रान्तश्चोदरान्मूर्च्छामसह्यां प्रतिपद्यते । प्राप्नोति चेतनां चासौ वायुस्पर्शसमन्वितः ॥ ११.१८ ॥ ततस्तं वैष्णवी माया समास्कन्दति मोहिनी । तया विमोहितात्मासौ ज्ञानभ्रंशमवाप्नुते ॥ ११.१९ ॥ भ्रष्टज्ञानो बालभावं ततो जन्तुः प्रपद्यते । ततः कौमारकावस्थां यौवनं वृद्धतामपि ॥ ११.२० ॥ पुनश्च मरणं तद्वज्जन्म चाप्नोति मानवः । ततः संसारचक्रेऽस्मिन् भ्राम्यते घटियन्त्रवत् ॥ ११.२१ ॥ कदाचित्स्वर्गमाप्नोति कदाचिन्निरयं नरः । नरकं चैव स्वर्गं च कदाचिच्च मृतोऽश्नुते ॥ ११.२२ ॥ कदाचिदत्रैव पुनर्जातः स्वं कर्म सोऽश्नुते । कदाचिद्भुक्तकर्मा च मृतः स्वल्पेन गच्छति ॥ ११.२३ ॥ कदाचिदल्पैश्च ततो जायतेऽत्र शुभाशुभैः । स्वर्लोके नरके चैव भुक्तप्रायो द्विजोत्तम ॥ ११.२४ ॥ नरकेषु महद्दुः खमेतद्यत्स्वर्गवासिनः । दृश्यन्ते तात मोदन्ते पात्यमानाश्च नारकाः ॥ ११.२५ ॥ स्वर्गेऽपि दुः खमतुलं यदारोहणकालतः । प्रभृत्यहं पतिष्यामीत्येतन्मनसि वर्तते ॥ ११.२६ ॥ नारकांश्चैव संप्रेक्ष्य महद्दुः खमवाप्यते । एतां गतिमहं गन्तेत्यहर्निशमनिर्वृतः ॥ ११.२७ ॥ गर्भवासे महद्दुः खं जायमानस्य योनितः । जातस्य बलाभावे च वृद्धत्वे दुः खमेव च ॥ ११.२८ ॥ कामेर्ष्याक्रोधसम्बन्धं यौवने चातिदुः सहम् । दुः खप्राया वृद्धता च मरणे दुः खमुत्तमम् ॥ ११.२९ ॥ कृष्णमाणस्य याम्यैश्च नरकेषु च पात्यतः । पुनश्च गर्भो जन्माथ मरणं नरकस्तथा ॥ ११.३० ॥ एवं संसारचक्रेऽस्मिन् जन्तवो घटियन्त्रवत् । भ्राम्यन्ते प्राकृतैर्बन्धैर्बद्ध्वा बाध्यन्ति चासकृत् ॥ ११.३१ ॥ नास्ति तात ! सुखं किञ्चिदत्र दुः खशताकुले । तस्मान्मोक्षाय यतता कथं सेव्या मया त्रयी ॥ ११.३२ ॥ इति श्रीमार्कण्डेयपुराणेठपित्रापुत्रसंवादोऽ नाम एकादशोऽध्यायः _____________________________________________________________ द्वादशोऽध्यायः पितोवाच साधु वत्स ! त्वयाख्यातं संसारगहनं परम् । ज्ञानप्रदानसम्भूतं समाश्रित्य महाफलम् ॥ १२.१ ॥ तत्र ते नरकाः सर्वे यथा वै रौरवस्तथा । वर्णितास्तान् समाचक्ष्व विस्तरेण महामते ॥ १२.२ ॥ पुत्र उवाच रौरवस्ते समाख्यातः प्रथमं नरको मया । महारौरवसंज्ञं तु शृणुष्व नरकं पितः ॥ १२.३ ॥ योजनानां सहस्राणि सप्त पञ्च समन्ततः । तत्र ताम्रमयी भूमिरधस्तस्य हुताशनः ॥ १२.४ ॥ तत्तापतप्ता सर्वाशा प्रोद्यदिन्दुसमप्रभा । विभात्यतिमहारौद्रा दर्शनस्पर्शनादिषु ॥ १२.५ ॥ तस्यां बद्धः कराभ्याञ्च पद्भ्याञ्चैव यमानुगैः । मुच्यते पापकृन्मध्ये लुठमानः स गच्छति ॥ १२.६ ॥ काकैर्वकैर्वृकोलूकैर्वृश्चिकैर्मशकैस्तथा । भक्ष्यमाणस्तथा गृध्रैर्द्रुतं मार्गे विकृष्यते ॥ १२.७ ॥ दह्यमानः पितर्मातर्भ्रातस्तातेति चाकुलः । वदत्यसकृदुद्विग्नो न शान्तिमधिगच्छति ॥ १२.८ ॥ एवं तस्मान्नरैमर्मोक्षो ह्यतिक्रान्तैरवाप्यते । वर्षायुतायुतैः पापं यैः कृतं दुष्टबुद्धिभिः ॥ १२.९ ॥ तथान्यस्तु तमो नाम सोऽतिशीतः स्वभावतः । महारौरववद्दीर्घस्तथा स तमसा वृतः ॥ १२.१० ॥ शीतार्तास्तत्र धावन्तो नरास्तमसि दारुणे । परस्परं समासाद्य परिरभ्याश्रयन्ति च ॥ १२.११ ॥ दन्तास्तेषाञ्च भज्यन्ते शीतार्तिपरिकम्पिताः । क्षुत्तृष्णाप्रबलास्तत्र तथैवान्येऽप्युपद्रवाः ॥ १२.१२ ॥ हिमखण्डवहो वायुर्भिनत्त्यस्थीनि दारुणः । मज्जासृग्गलितं तस्मादश्नुवन्ति क्षुधान्विताः ॥ १२.१३ ॥ लेलिह्यमाना भ्राम्यन्ते परस्परसमागमे । एवं तत्रापि सुमहान् क्लेशस्तमसि मानवैः ॥ १२.१४ ॥ प्राप्यते ब्राह्मणश्रेष्ठ यावद्दुष्कृतसंक्षयः । निकृन्तन इति ख्यातस्ततोऽन्यो नरकोत्तमः ॥ १२.१५ ॥ तस्मिन् कुलालचक्राणि भ्राम्यन्त्यविरतं पितः । तेष्वारोप्य निकृत्यन्ते कालसूत्रेण मानवाः ॥ १२.१६ ॥ यमानुगाङ्गुलिस्थेन आपादतलमस्तकम् । न चैषां जीवितभ्रंशो जायते द्विजसत्तम ॥ १२.१७ ॥ छिन्नानि तेषां शतशः खण्डान्यैक्यं व्रजन्ति च । एवं वर्षसहस्राणि छिद्यन्ते पापकर्मिणः ॥ १२.१८ ॥ तावद्यावदशेषं वै तत्पापं हि क्षयं गतम् । अप्रतिष्ठञ्च नरकं शृणुष्व गदतो मम ॥ १२.१९ ॥ अत्रस्थैर्नारकैर्दुः खमसह्यमनुभूयते । तान्येव यत्र चक्राणि घटीयन्त्राणि चान्यतः ॥ १२.२० ॥ दुः खस्य हेतुभूतानि पापकर्मकृतां नृणाम् । चक्रेष्वारोपिताः केचिद्भ्राम्यन्ते तत्र मानवाः ॥ १२.२१ ॥ यावद्वर्षसहस्राणि न तेषां स्थितिरन्तरा । घटीयन्त्रेषु चैवान्यो बद्धस्तोये यथा घटी ॥ १२.२२ ॥ भ्राम्यन्ते मानवा रक्तमुदिगरन्तः पुनः पुनः । अस्त्रैर्मुखविनिष्क्रान्तैः नेत्रैरश्रुविलम्बिभिः ॥ १२.२३ ॥ दुः खानि ते प्राप्नुवन्ति यान्यसह्यानि जन्तुभिः । असिपत्रवनं नाम नरकं शृणु चापरम् ॥ १२.२४ ॥ योजनानां सहस्रं यो ज्वलदग्न्यास्तृतावनिः । तप्ताः सूर्यकरैश्चण्डैर्यत्रातीव सुदारुणैः ॥ १२.२५ ॥ प्रपतन्ति सदा तत्र प्राणिनो नरकौकसः । तन्मध्ये च वनं रम्यं स्निग्धपत्रं विभाव्यते ॥ १२.२६ ॥ पत्राणि तत्र खङ्गानां फलानि द्विजसत्तमम् । श्वानश्च तत्र सबलाः स्वनन्त्ययुतशोभिताः ॥ १२.२७ ॥ महावक्त्रा महादंष्ट्रा व्याघ्रा इव भयानकाः । ततस्तद्वनमालोक्य शिशिरच्छायमग्रतः ॥ १२.२८ ॥ प्रयान्ति प्राणिनस्तत्र तीव्रतृट्परिपीडिताः । हा मातर्हा तात ! इति क्रान्दन्तोऽतीव दुः खिता ॥ १२.२९ ॥ दह्यमानाङ्घ्रयुगला धरणीस्थेन वह्निना । तेषां गतानां तत्रासिपत्रपाती समीरणः ॥ १२.३० ॥ प्रवाति तेन पात्यन्ते तेषां खड्गान्यथोपरि । ततः पतन्ति ते भूमौ ज्वलत्पवकसञ्चये ॥ १२.३१ ॥ लेलिह्यमाने चान्यत्र व्याप्ताशेषमहीतले । सारमेयास्ततः शीघ्रं शातयन्ति शरीरतः ॥ १२.३२ ॥ तेषामङ्गानि रुदतामनेकान्यतिभीषणाः । असिपत्रवनं तात ! मयैतत्कीर्तितं तव ॥ १२.३३ ॥ अतः परं भीमतरं तप्तकुम्भं निबोध मे । समन्ततस्तप्तकुम्भा वह्निज्वालासमावृताः ॥ १२.३४ ॥ ज्वलदग्निचयोद्वृत्ततैलायश्चूर्णपूरिताः । तेषु दुष्कृतकर्माणो याम्यैः क्षिप्ता ह्यधोमुखाः ॥ १२.३५ ॥ क्वाथ्यन्ते विस्फुटद्गात्रगलन्मज्जजलाविलाः । स्फुरत्कपालनेत्रास्थिच्छिद्यमाना विभीषणैः ॥ १२.३६ ॥ गृध्रैरुत्पाट्य मुच्यन्ते पुनस्तेष्वेव वेगितैः । पुनः सिमसिमायन्ते तैलेनैक्यं व्रजन्ति च ॥ १२.३७ ॥ द्रवीभूतैः शिरोगात्रस्नायुमांसत्वगस्थिभिः । ततो याम्यैर्नरैराशु दर्व्या घट्टनघट्टिताः ॥ १२.३८ ॥ कृतावर्ते महातैले मथ्यन्ते पापकर्मिणः । एष ते विस्तरेणोक्तस्तप्तकुम्भो मया पितः ॥ १२.३९ ॥ इति श्रीमार्कण्डेयपुराणे पिताः पुत्रसंवादे महारौरवादिनरकाख्यानं नाम द्वादशोऽध्यायः _____________________________________________________________ त्रयोदशोऽध्यायः पुत्र उवाच अहं वैश्यकुले जातो जन्मन्यस्मात्तु सप्तमे । समतीते गवां रोधं निपाने कृतवान् पुरा ॥ १३.१ ॥ विपाकात्कर्मणस्तस्य नरकं भृशदारुणम् । सम्प्राप्तोऽग्निशिखाघोरमयोमुखखगाकुलम् ॥ १३.२ ॥ यन्त्रपीडनगात्रासृक्प्रवाहोद्भूतकर्दमम् । विशस्यमानदुष्कर्मितन्निपातरवाकुलम् ॥ १३.३ ॥ पात्यमानस्य मे तत्र साग्रं वर्षशतं गतम् । महातापार्तितप्तस्य तृष्णादाहान्वितस्य च ॥ १३.४ ॥ तत्राह्लादकरः सद्यः पवनः सुखशीतलः । करम्भबालुकाकुम्भमध्यस्थो मे समागतः ॥ १३.५ ॥ तत्सम्पर्कादशेषाणां नाभवद्यातना नृणाम् । मम चापि यथा स्वर्गे स्वर्गिणां निर्वृतिः परा ॥ १३.६ ॥ किमेतदिति चाह्लादविस्तारस्तिमितेक्षणैः । दृष्टमस्माभिरासन्नं नररत्नमनत्तमम् ॥ १३.७ ॥ याम्यश्च पुरुषो घोरो दण्डहस्तोऽशनिप्रभः । पुरतो दर्शयन्मार्गमिति एहीति वगथ ॥ १३.८ ॥ पुरुषः स तदा दृष्ट्वा यातनाशतसंकुलम् । नरकं प्राह तं याम्यं किङ्करं कृपयान्वितः ॥ १३.९ ॥ पुरुष उवाच भो याम्यपुरुषाचक्ष्व किं मया दुष्कृतं कृतम् । येनेदं यातनाभीं प्राप्तोऽस्मि नरकं परम् ॥ १३.१० ॥ विपश्चिदिति विख्यातो जनकानामहं कुले । जातो विदेहविषये सम्यङ्मनुजपालकः ॥ १३.११ ॥ यज्ञैर्मयेष्टं बहुभिर्धर्मतः पालिता मही । नोत्सृष्टश्चैव संग्रामो नातिथिर्विमुखो गतः ॥ १३.१२ ॥ पितृदेवर्षिभृत्याश्च न चापचरिता मया । कृता स्पृहा च न मया परस्त्रीविभवादिषु ॥ १३.१३ ॥ पर्वकालेषु पितरस्तिथिकालेषु देवताः । पुरुषं स्वयमायान्ति निपानमिव धेनवः ॥ १३.१४ ॥ यतस्ते विमुखा यान्ति निश्वस्य गृहमेधिनः । तस्मादिष्टश्च पूर्तश्च धमौ द्वावपि नश्यतः ॥ १३.१५ ॥ पितृनिश्वासविध्वस्तं सप्तजन्मार्जितं शुभम् । त्रिजन्मप्रभवं दैवो निश्वासो हन्त्यसंशयम् ॥ १३.१६ ॥ तस्माद्दैवे च पित्र्ये च नित्यमेवोद्यतोऽभवम् । सोऽहं कथमिमं प्राप्तो नरङ्क भृशदारुणम् ॥ १३.१७ ॥ इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादो नाम त्रयोदशोऽध्यायः _____________________________________________________________ चतुर्दशोऽध्यायः पुत्र उवाच इति पृष्टस्तदा तेन शृण्वतां नो महात्मना । उवाच पुरुषो याम्यो घोरोऽपि प्रसृतं वचः ॥ १४.१ ॥ यमकिङ्कर उवाच महाराज ! यथात्थ त्वं तथैतन्नात्र संशयः । किन्तु स्वल्पं कृतं पापं भवता स्मारयामि तत् ॥ १४.२ ॥ वैदर्भो तव या पत्नी पीवरी नाम नामतः । ऋतुमत्या ऋतुर्वन्ध्यस्त्वया तस्याः कृतः पुरा ॥ १४.३ ॥ शुशोभनायां कैकेय्यामासक्तेन ततो भवान् । ऋतुव्यतिक्रमात्प्राप्तो नरकं घोरमीदृशम् ॥ १४.४ ॥ होमकाले यथा वह्निराज्यपातमवेक्षते । ऋतौ प्रजापतिस्तद्वद्बीजपातमवेक्षते ॥ १४.५ ॥ यस्तमुल्लङ्घ्य धर्मात्मा कामेष्वासक्तिमान् भवेत् । स तु पित्र्यादृणात्पापमवाप्य नरकं पतेत् ॥ १४.६ ॥ एतावदेव ते पापं नान्यत्किञ्चन विद्यते । तदेहि गच्छ पुण्यानामुपभोगाय पार्थिव ॥ १४.७ ॥ राजोवाच यास्यामि देवानुचर यत्र त्वं मां नयिष्यसि । किञ्चित्पृच्छामि तन्मे त्वं यथावद्वक्तुमर्हसि ॥ १४.८ ॥ वज्रतुण्डास्त्वमी काकाः पुंसां नयनहारिणः । पुनः पुनश्च नेत्राणि तद्वदेषां भवन्ति हि ॥ १४.९ ॥ किं कर्म कृतवन्तश्च कथयैतज्जुगुप्सितम् । हरन्त्येषां तथा जिह्वां जायमानां पुनर्नवाम् ॥ १४.१० ॥ परपत्रेण पाट्यन्ते कस्मादेतेऽतिदुः खिताः । करम्भवालुकास्वेते पच्यन्ते तैलगोचराः ॥ १४.११ ॥ अयोमुखैः खगैश्चैते कृष्यन्ते किंविधा वद । विश्र्लिष्टदेहबन्धार्तिमहारावविराविणः ॥ १४.१२ ॥ अयश्चञ्चुनिपातेन सर्वाङ्गक्षतदुः खिताः । किमेतेऽनिष्टकर्तारस्तुद्यन्तेऽहर्निशं नराः ॥ १४.१३ ॥ एताश्चान्याश्च दृश्यन्ते यातनाः पापकर्मिणाम् । येन कर्मविपाकेण तन्ममाशेषतो वद ॥ १४.१४ ॥ यमकिङ्कर उवाच यन्मां पृच्छसि भूपाल ! पापकर्मफलोदयम् । तत्तेऽहं सम्प्रवक्ष्यामि संक्षेपेण यथातथम् ॥ १४.१५ ॥ पुण्यापुण्ये हि पुरुषः पर्यायेण समश्नते । भुञ्जतश्च क्षयं याति पापं पुण्यमथापि वा ॥ १४.१६ ॥ न तु भोगादृते पुण्यं किञ्चिद्वा कर्म मानवम् । पापकं वा पुनात्याशु क्षयो भोगात्प्रजायते ॥ १४.१७ ॥ परित्यजति भोगाच्च पुण्यापुण्ये निबोध मे । दुर्भिक्षादेव दुर्भिक्षं क्लेशात्क्लेशं भयाद्भयम् ॥ १४.१८ ॥ मृतेभ्यः प्रमृता यान्ति दरिद्राः पापकर्मिणः । गतिं नानाविधां यान्ति जन्तवः कर्मबन्धनात् ॥ १४.१९ ॥ उत्सवादुत्सवं यान्ति स्वर्गात्स्वर्गं सुखात्सुखम् । श्रद्धधानाश्च शान्ताश्च धनदाः शुभकारिणः ॥ १४.२० ॥ व्यालकुञ्जरदुर्गाणि सर्पचौरभयानि तु । हताः पापेन गच्छन्ति पापिनः किमतः परम् ॥ १४.२१ ॥ अनेकशतसाहस्त्रजन्मसंचयसञ्चितम् । पुण्यापुण्यं नृणां तद्वत्सुखदुः खाङ्कुरोद्भवम् ॥ १४.२३ ॥ यथा बीजं हि भूपाल ! पयांसि समवेक्षते । पुण्यापुण्ये तथा कालदेशान्यकर्मकारकम् ॥ १४.२४ ॥ स्वल्पं पापं कृतं पुंसा देशकालोपपादितम् । पादन्यासकृतं दुः खं कण्टकोत्थं प्रयच्छति ॥ १४.२५ ॥ तत्प्रभूततरं स्थूलं शूलकीलकसम्भवम् । दुः खं यच्छति तद्वच्च शिरोरोगादि दुः सहम् ॥ १४.२६ ॥ अपथ्याशनशीतोष्णश्रमतापादिकारकम् । तथान्योऽन्यमपेक्षन्ते पापानि फलसङ्गमे ॥ १४.२७ ॥ एवं महान्ति पापानि दीर्घरोगादिविक्रियाम् । तद्वच्छस्त्राग्निकृच्छ्रार्तिबन्धनादिफलाय वै ॥ १४.२८ ॥ स्वल्पं पुण्यं शुभं गन्धं हेलया सम्प्रयच्छिति । स्पर्श वाप्यथवा शब्दं रसं रूपमथापि वा ॥ १४.२९ ॥ चिराद्गुरुतरं तद्वन्महान्तमपि कालजम् । एवञ्च सुखदुः खानि पुण्यापुण्योद्भवानि वै ॥ १४.३० ॥ भुञ्जानोऽनेकसंसारसम्भवानीह तिष्ठति । जाति देशावरुद्धानि ज्ञानाज्ञानफलानि च ॥ १४.३१ ॥ तिष्णन्ति तत्र युक्तानि लिङ्गमात्रेण चात्मनि । वपुषा मनसा वाचा न कदाचित्क्वचिन्नरः ॥ १४.३२ ॥ अकुर्वन् पापकं कर्म पुण्यं वाप्यवतिष्ठते । यद्यत्प्राप्नोति पुरुषो दुः खं सुखमथापि वा ॥ १४.३३ ॥ प्रभूतमथवा स्वल्पं विक्रियाकारि चेतसः । तावता तस्य पुण्यं वा पापं वाप्यथ चेतरत् ॥ १४.३४ ॥ उपभोगात्क्षयं याति भुज्यमानमिवाशनम् । एवमेते महापापं यातनाभिरहर्निशम् ॥ १४.३५ ॥ क्षपयन्ति नरा घोरं नरकान्तर्विवर्तिनः । तथैव राजन् ! पुण्यानि स्वर्गलोकेऽमरैः सह ॥ १४.३६ ॥ गन्धर्वसिद्धाप्सरसां गीताद्यैरुपभुञ्जते । देवत्वे मानुषत्वे च तिर्यक्त्वे च शुभाशुभम् ॥ १४.३७ ॥ पुण्यपापोद्भवं भुङ्क्ते सुखदुः खोपलक्षणम् । यद्त्वं पृच्छसि मां राजन् ! यातनाः पापकर्मिणाम् । केन केनेति पापेन तत्ते वक्ष्याम्यशेषतः ॥ १४.३८ ॥ दुष्टेन चक्षुषा दृष्टाः परदारा नराधमैः । मानसेन च दुष्टेन परद्रव्यञ्च सस्पृहैः ॥ १४.३९ ॥ वज्रतुण्डाः खगास्तेषां हरन्त्येते विलोचने । पुनः पुनश्च सम्भूतिरक्ष्णोरेषां भवत्यथ ॥ १४.४० ॥ यावतोऽक्षिनिमेषांस्तु पापमेभिर्नृभिः कृतम् । तावद्वर्षसहस्राणि नेत्रात्ति प्राप्नुवन्त्युत ॥ १४.४१ ॥ असच्छास्त्रोपदेशास्तु यैर्दत्ता यैश्च मन्त्रिताः । सम्यग्दृष्टेर्विनाशाय रिपूणामपि मानवैः ॥ १४.४२ ॥ यैः शास्त्रमन्यथा प्रोक्तं यैरसद्वागुदाहृता । वेददेवद्विजातीनां गुरोर्निन्दा च यैः कृता ॥ १४.४३ ॥ हरन्ति तेषां जिह्वाश्च जायमानाः पुनः पुनः । तावतो वत्सरानेते वज्रतुण्डाः सदारुणाः ॥ १४.४४ ॥ मित्रभेदं तथा पित्रा पुत्रस्य स्वजनस्य च । याज्योपाध्याययोर्मात्रा सुतस्य सहचारिणः ॥ १४.४५ ॥ भार्यापत्योश्च ये केचिद्भेदं चक्रुर्नराधमाः । त हमे पश्य पाट्यन्ते करपत्रेण पार्थिव ॥ १४.४६ ॥ परोपतापका ये च ये चाह्लादनिषेधकाः । तालवृन्तानिलस्थानचन्दनोशीरहारिणः ॥ १४.४७ ॥ प्राणान्तिकं ददुस्तापमदुष्टानाञ्च येऽधमाः । करम्भवालुकासंस्थास्त इमे पापभागिनः ॥ १४.४८ ॥ भुङ्क्ते श्राद्धन्तु योऽन्यस्य नरोऽन्येन निमन्त्रितः । दैवे वाप्यथवा पित्र्ये स द्विधा कृष्यते खगैः ॥ १४.४९ ॥ मर्माणि यस्तु साधूनामसद्वाग्भिर्निकृन्तति । तमिमे तुदमानास्तु खगास्तिष्ठन्त्यवारिता ॥ १४.५० ॥ यः करोति च पैशुन्यमन्यवागन्यथामतिः । पाट्यते हि द्विधा जिह्वा तस्येत्थं निशितैः क्षुरैः ॥ १४.५१ ॥ मातापित्रोर्गुरूणाञ्च येऽवज्ञां चक्रुरुद्धताः । त इमे पूयविण्मूत्रगर्ते मज्जन्त्यधोमुखाः ॥ १४.५२ ॥ देवतातिथिभूतेषु भृत्येष्वभ्यागतेषु च । अभुक्तवत्सु येऽश्नन्ति तद्वत्पित्रग्निपक्षिषु ॥ १४.५३ ॥ दुष्टास्ते पूयनिर्यासभुजः सूचीमुखास्तु ते । जायन्ते गिरिवर्ष्माणः पश्यैते यादृशा नराः ॥ १४.५४ ॥ एकपङ्क्त्या तु ये विप्रमथवेतरवर्णजम् । विषमं बोजयन्तीह विड्भुजस्त इमे यथा ॥ १४.५५ ॥ एकसार्थप्रयातं ये निः स्वमर्थार्थिनं नरम् । अपास्य स्वान्नमश्नन्ति त इमे श्लेष्मभोजिनः ॥ १४.५६ ॥ गोबाह्मणाग्नयः स्पृष्टा यैरुच्छिष्टैर्नरेश्वर । तेषामेतेऽग्निकुम्भेषु लेलिह्यन्त्याहिताः कराः ॥ १४.५७ ॥ सूर्येन्दुतारका दृष्टा यैरुच्छिष्टैस्तु कामतः । तेषां याम्यैर्नरैर्नेत्रे न्यस्तो वह्निः समेध्यते ॥ १४.५८ ॥ गावोऽग्निर्जननी विप्रोज्येष्ठभ्राता पिता स्वसा । जामयो गुरवो वृद्धा यैः स्पृष्टास्तु पदा नृभिः ॥ १४.५९ ॥ बद्धाङ्घ्रयस्ते निगडैलौहैरग्निप्रतापितैः । अङ्गारराशिमध्यस्थास्तिष्ठन्त्याजानुदाहिनः ॥ १४.६० ॥ पायसं कृशरं छागो देवान्नानि च यानि वै । भुक्तानि यैरसंस्कृत्य तेषां नेत्राणि पापिनाम् ॥ १४.६१ ॥ निपातितानां भूपृष्ठे उद्वृत्ताक्षि निरीक्षताम् । सन्दंशैः पश्य कृष्यन्ते नरैर्याम्यैर्मुखात्ततः ॥ १४.६२ ॥ गुरुदेवद्विजातीनां वेदानाञ्च नराधमैः । निन्दा निशामिता यैश्च पापानामभिनन्दताम् ॥ १४.६३ ॥ तेषामयोमयान् कीलानग्निवर्षान् पुनः पुनः । कर्णेषु प्रेरयन्त्येते याम्या विलपतामपि ॥ १४.६४ ॥ यैः प्रपादेवविप्रौकोदेवालयसभाः शुभाः । भङ्क्त्वा विध्वंसमानीताः क्रोधलोभानुवर्तिभिः ॥ १४.६५ ॥ तेषामेतैः शितैः शस्त्रैर्मुहुर्विलपतां त्वचः । पृथक्कुर्वन्ति वै याम्याः शरीरादतिदारुणाः ॥ १४.६६ ॥ गोब्राह्मणार्कमार्गेषु येऽवमेहन्ति मानवाः । तेषामेतानि कृष्यन्ते गुदेनान्त्राणि वायसैः ॥ १४.६७ ॥ दत्त्वा कन्यां च एकस्मै द्वितीयाय प्रयच्छति । स त्वेवं नैकधाच्छिन्नः क्षारनद्यां प्रवाह्यते ॥ १४.६८ ॥ स्वपोषणपरो यस्तु परित्यजति मानवः । पुत्रभृत्यकलत्रादिबन्धुवर्गमकिञ्चिनम् ॥ १४.६९ ॥ दुर्भिक्षे सम्भ्रमे वापि सोऽप्येवं यमकिङ्करैः । उत्कृत्य दत्तानि मुखे स्वमांसान्यश्नुते क्षुधा ॥ १४.७० ॥ शरणागतान् यस्त्यजति लोभाद्वृत्त्युपजीविनः । सोऽप्येवं यन्त्रपीडाभिः पीड्यते यमकिङ्करैः ॥ १४.७१ ॥ सुकृतं ये प्रयच्छन्ति यावज्जन्म कृतं नराः । ते पिष्यन्ते शिलापेषैर्यथैते पापकर्मिणः ॥ १४.७२ ॥ न्यासापहारिणो बद्धाः सर्वगात्रेषु बन्धनैः । कृमिवृश्चिककाकोलैर्भुज्यन्तेऽहर्निशं नराः ॥ १४.७३ ॥ क्षुत्क्षामास्तृट्पतज्जिह्वातालवो वेदनातुराः । दिवामैथुनिनः पापाः परदारभुजश्च ये ॥ १४.७४ ॥ तथैव कण्टकैर्देर्घैरायसैः पश्य शाल्मलिम् । आरोपिता विभिन्नाङ्गाः प्रभूतासृक्स्त्रवाविलाः ॥ १४.७५ ॥ मूषायामपि पश्यैतान्नाश्यमानान् यमानुगैः । पुरुषैः पुरुषाव्याघ्र ! परदारावमर्षिणः ॥ १४.७६ ॥ उपाद्यायमधः कृत्वा स्तब्धो योऽध्ययनं नरः । गृह्णाति शिल्पमथवा सोऽप्येवं शिरसा शिलाम् ॥ १४.७७ ॥ बिभ्रत्क्लेशमवाप्नोति जनमार्गेऽतिपीडितः । क्षुत्क्षामोऽहर्निशं भारपीडाव्यथितमस्तकः ॥ १४.७८ ॥ मूत्रश्लेष्मपूरीषाणि यैरुत्सृष्टानि वारिणि । त इमे श्लेष्मविण्मूत्रदुर्गन्धं नरकं गताः ॥ १४.७९ ॥ परस्परञ्च मांसानि भक्ष्यन्ति क्षुधान्विताः । भुक्तं नातिथ्यविधिना पूर्वमेभैः परस्परम् ॥ १४.८० ॥ अपविद्धास्तु यैर्वेदा वहनयश्चाहिताग्निभिः । त इमे शालशृङ्गाग्रात्पात्यन्तेऽधः पुनः पुनः ॥ १४.८१ ॥ पुनर्भूपतयो जीर्णा यावज्जीवन्ति ये नराः । इमे कृमित्वमापन्ना भक्ष्यन्तेऽत्र पिपीलिकैः ॥ १४.८२ ॥ पतितप्रतिग्रहादानाद्यजनान्नित्यसेवनात् । पाषाणमध्यकीटत्वं नरः सततमश्नुते ॥ १४.८३ ॥ पश्यतो भृत्यवर्गस्य मित्राणामतिथेस्तथा । एको मिष्टान्नभुग्भुङ्क्ते ज्वलदङ्गारसञ्चयम् ॥ १४.८४ ॥ वृकैर्भयङ्करैः पृष्ठं नित्यमस्योपभुज्यते । पृष्ठमांसं नृपैतेन यतो लोकस्य भक्षितम् ॥ १४.८५ ॥ अन्धोऽथ बधिरो मूको भ्राम्यतेऽयं क्षुधातुरः । अकृतज्ञोऽधमः पुंसामुपकारेषु वर्तताम् ॥ १४.८६ ॥ अयं कृतघ्रो मित्राणामपकारी सुदुर्मतिः । तत्पकुम्भे निपतति ततो यास्यति पेषणम् ॥ १४.८७ ॥ करम्भवालुकां तस्मात्ततो यन्त्रानपीडनम् । असिपत्रवनं तस्मात्करपत्रेण पाटनम् ॥ १४.८८ ॥ कालसूत्रे तथा छेदमनेकाश्चैव यातनाः । प्राप्य निष्कृतिमेतस्मान्न वेद्मि कथमेष्यति ॥ १४.८९ ॥ श्राद्धसङ्गतिनो विप्राः समुत्पत्य परस्परम् । दुष्टा हि निः सृतं फेनं सर्वाङ्गेभ्यः पिबन्ति वै ॥ १४.९० ॥ सुवर्णस्तेयी विप्रघ्रः सुरापी गुरुतल्पगः । अधश्चोर्ध्वञ्च दीप्ताग्नौ दह्यमानाः समन्ततः ॥ १४.९१ ॥ तिष्ठन्त्यब्दसहस्राणि सुबहूनि ततः पुनः । जायन्ते मानवाः कुष्ठक्षयरोगादिचिह्नताः ॥ १४.९२ ॥ मृताः पुनश्च नरकं पुनर्जाताश्च तादृशम् । व्याधिमृच्छन्ति कल्पान्तपरिमाणं नराधिप ॥ १४.९३ ॥ गोघ्रो न्यूरतरं याति नरकेऽथ त्रिजन्मनि । तथोपपातकानाञ्च सर्वेषामिति निश्चयः ॥ १४.९४ ॥ नरकप्रच्युता यानि यैर्यैर्विहितपातकैः । प्रयान्ति योनिजातानि तन्मे निगदतः शृणु ॥ १४.९५ ॥ इति श्रीमार्कण्डेयपुराणे जडोपाख्याने यमकिङ्करसंवादो नाम चतुर्दशोऽध्यायः _____________________________________________________________ पञ्चदशोऽध्यायः यमकिङ्कर उवाच पतितात्प्रतिगृह्यार्थं खरयोनिं व्रजेद्द्विजः । नरकात्प्रतिमुक्तस्तु कृमिः पतितयाजकः ॥ १५.१ ॥ उपाध्यायव्यलीकन्तु कृत्वा श्वा भवति द्विजः । तज्जायां मनसावाञ्छन् तद्द्रव्यञ्चाप्यसंशयम् ॥ १५.२ ॥ गर्दभो जायते जन्तुः पित्रोश्चाप्यवमानकः । मातापितरावाक्रुश्य शारिका सम्प्रजायते ॥ १५.३ ॥ भ्रातुः पत्न्यवमन्ता च कपोतत्वं प्रपद्यते । तामेव पीडयित्वा तु कच्छपत्वं प्रपद्यते ॥ १५.४ ॥ भर्तृपिण्डमुपाश्नन् यस्तदिष्टं न निषेवते । सोऽपि मोहसमापन्नो जायते वानरो मृतः ॥ १५.५ ॥ न्यासापहर्ता नरकाद्विमुक्तो जायते कृमिः । असूयकश्च नरकान्मुक्तो भवति राक्षसः ॥ १५.६ ॥ विश्वासहन्ता च नरो मीनयोनौ प्रजायते । धान्यं यवांस्तिलान्माषान् कुलत्थान् सर्षपांश्चणान् ॥ १५.७ ॥ कलायान कलमान्मुद्गान् गोधूमानतसीस्तथा । शस्यान्यन्यानि वा हृत्वा मोहाज्जन्तुरचेतनः ॥ १५.८ ॥ सञ्जायते महावक्त्रो मूषिको बभ्रुसन्निभः । परदाराभिमर्षात्तु वृको घोरोऽभिजायते ॥ १५.९ ॥ श्वा शृगालो वको गृध्रो व्याडः कङ्कस्तथा क्रमात् । भ्रातृभार्याञ्च दुर्बुद्धिर्यो धर्षयति पापकृत् ॥ १५.१० ॥ पुंस्कोकिलत्वमाप्नोति स चापि नरकाच्च्युतः । सखिभार्यां गुरोर्भार्यां राजभार्याञ्च पापकृत् ॥ १५.११ ॥ प्रधर्षयित्वा कामात्मा शूकरो जायते नरः । यज्ञदानविवाहानां विघ्रकर्ता भवेत्कृमिः ॥ १५.१२ ॥ पुनर्दात्च कन्यायाः कृमिरेवोपजायते । देवतापितृविप्राणामदत्वा योऽन्नमश्नुते ॥ १५.१३ ॥ प्रमुक्तो नरकात्सोऽपि वायसः सम्प्रजायते । ज्येष्ठं पितृसमं वापि भ्रातरं योऽवमन्यते ॥ १५.१४ ॥ नरकात्सोऽपि विभ्रष्टः क्रौञ्चयोनौ प्रजायते । शूद्रश्च ब्राह्मणरिं गत्वा कृमियोनौ प्रजायते ॥ १५.१५ ॥ तस्यामपत्यमुत्पाद्य काष्ठान्तः कीटको भवेत् । शूकरः कृमिको मद्गुश्चण्डालश्च प्रजायते ॥ १५.१६ ॥ अकृतज्ञोऽधमः पुंसां विमुक्तो नरकान्नरः । कृतघ्रः कृमिकः कीटः पतङ्गो वृश्चिकस्तथा ॥ १५.१७ ॥ मत्स्यस्तु वायसः कूर्मः पुक्कसो जायते ततः । अशस्त्रं पुरुषं हत्वा नरः सञ्जायते खरः ॥ १५.१८ ॥ कृमिः स्त्रीवधकर्ता च बालहन्ता च जायते । भोजनं चोरयित्वा तु मक्षिका जायते नरः ॥ १५.१९ ॥ तत्राप्यस्ति विशेषो वै भोजनस्य शृणुष्व तत् । ह्त्वान्नन्तु स मार्जारो जायते नरकाच्च्युतः ॥ १५.२० ॥ तिलपिण्याकसंमिश्रमन्नं हृत्वा तु मूषिकः । घृतं हृत्वा च नकुलः काको मद्गुरजामिषम् ॥ १५.२१ ॥ मत्स्यमांसापहृत्काकः श्येनो मार्गामिषापहृत् । वीचीकाकस्त्वपहृते लवणे दधनि कृमिः ॥ १५.२२ ॥ चोरयित्वा पयश्चापि बलाका सम्प्रजायते । यस्तु चोरयते तैलं तैलपायी स जायते ॥ १५.२३ ॥ मधु हृत्वा नरो दंशः पूपं हृत्वा पिपीलिकः । चोरयित्वा तु निष्पावान् जायते गृहगोलकः ॥ १५.२४ ॥ आसवं चोरयित्वा तु तित्तिरित्वमवाप्नुयात् । अयो हृत्वा तु पापात्मा वायसः सम्प्रजायते ॥ १५.२५ ॥ हृते कांस्ये च हारीतः कपोतो रुप्यभाजने । हृत्वा तु काञ्चनं भाण्डं कृमियोनौ प्रजायते ॥ १५.२६ ॥ पत्रोर्णं चोरयित्वा तु क्रकरत्वञ्च गच्छति । कोषकारश्च कौषेये हृते वस्त्रेऽभिजायते ॥ १५.२७ ॥ दुकूले शार्ङ्गकः पापो हृते चैवांशुके शुकः । तथैवाजाविकं हृत्वा वस्त्रं क्षौमं च जायते ॥ १५.२८ ॥ कार्पासिके हृते क्रौञ्चो वाल्कहर्ता बकस्तथा । मयूरो वर्णकान् हृत्वा शाकपत्रं च जायते ॥ १५.२९ ॥ जीवज्जीवकतां याति रक्तवस्त्रापहृन्नरः । छुच्छुन्दरिः शुभान् गन्धान् वासो हृत्वा शशो भवेत् ॥ १५.३० ॥ षण्ढः फलापहरणात्काष्ठस्य घुणकीटकः । पुष्पापहृद्दरिद्रश्च पङ्गुर्यानापहृन्नरः ॥ १५.३१ ॥ शाकहर्ता च हारीतस्तोयहर्ता च चातकः । भूहर्ता नरकान् गत्वा रौरवादीन् सुदारुणान् ॥ १५.३२ ॥ तृणगुल्मलतावल्लित्वक्सारतरुतां क्रमात् । प्राप्य क्षीणाल्पपापस्तु नरो भवति वै ततः ॥ १५.३३ ॥ कृमिः कीटः पतङ्गोऽथ पक्षी तोय चरो मृगः । गोत्वं प्राप्य च चण्डालपुक्कसादि जुगुप्सितम् ॥ १५.३४ ॥ पङ्ग्वन्धो वधिरः कुष्ठी यक्ष्मणा च प्रपीडितः । मुखरोगाक्षिरोगैश्च गुदरोगैश्च बाध्यते ॥ १५.३५ ॥ अपस्मारी च भवति शूद्रत्वं च स गच्छति । एष एव क्रमो दृष्टो गोसुवर्णापहारिणाम् ॥ १५.३६ ॥ विद्यापहारिणश्चोग्रा निष्क्रयभ्रंशिनो गुरोः । जायामन्यस्य पुरुषः पारख्यां प्रतिपादयन् ॥ १५.३७ ॥ प्राप्नोति षण्ढतां मूढो यातनाभ्यः परिच्युतः । यः करोति नरो होममसमिद्धे विभावसौ ॥ १५.३८ ॥ सोऽजिर्णव्याधिदुः खार्तो मन्दाग्निः संप्रजायते । परनिन्दा कृतघ्रत्वं परमर्मावघट्टनम् ॥ १५.३९ ॥ नैष्ठुर्यं निर्घृणत्वञ्च परदारोपसेवनम् । परस्वहरणाशौचं देवतानाञ्च कुत्सनम् ॥ १५.४० ॥ निकृत्या कञ्चनं नृणां कार्पण्यं च नृणां वधः । यानि च प्रतिषिद्धानि तत्प्रवृत्तिश्च सन्तता ॥ १५.४१ ॥ उपलक्ष्याणि जानीयान्मुक्तानां नरकादनु । दया भूतेषु संवादः परलोकप्रतिक्रिया ॥ १५.४२ ॥ सत्यं भूतहितार्थोक्तिर्वेदप्रामाण्यदर्शनम् । गुरुदेवर्षिसिद्धर्षिपूजनं साधुसङ्गमः ॥ १५.४३ ॥ सत्क्रियाभायसनं मैत्रीमिति बुध्यते पण्डितः । अन्यानि चैव सद्धर्मङ्क्रियाभूतानि यानि च ॥ १५.४४ ॥ स्वर्गच्युतानां लिङ्गानि पुरुषाणामपापिनाम् । एतदुद्देशतो राजन् भवतः कथितं मया ॥ १५.४५ ॥ स्वकर्मफलभोक्तॄणां पुण्यानां पापिनां तथा । तदेह्यन्यत्र गच्छामो दृष्टं सर्वं त्वयाधुना । त्वया दृष्टो हि नरकस्तदेह्यन्यत्र गम्यताम् ॥ १५.४६ ॥ पुत्र उवाच ततस्तमग्रतः कृत्वा स राजा गन्तुमुद्यतः । ततश्च सर्वैरुत्क्रुष्टं यातनास्थायिभिर्नृभिः ॥ १५.४७ ॥ प्रसादं कुरु भूपेति तिष्ठ तावन्मुहूर्तकम् । त्वदङ्गसङ्गी पवनो मनो ह्लादयते हि नः ॥ १५.४८ ॥ परितापञ्च गात्रेभ्यः पीडाबाधाश्च कृत्स्नशः । अपहन्ति नरव्याघ्र यदां कुर महीपते ॥ १५.४९ ॥ एतच्छ्रुत्वा वचस्तेषां तं याम्यपुरुषं नृपः । पप्रच्छ कथमेतेषामाह्लादो मयि तिष्ठति ॥ १५.५० ॥ किं मया कर्म तत्पुण्यं मर्त्यलोके महत्कृतम् । आह्लाददायिनी व्युष्टिर्येनेयं तदुदीरय ॥ १५.५१ ॥ यमपुरुष उवाच पितृदेवातिथिप्रैष्यशिष्टेनान्नेन ते तनुः । पुष्टिमभ्यागता यस्मात्तद्गतं च मनो यतः ॥ १५.५२ ॥ ततस्त्वद्गात्रसंसर्गो पवनो ह्लाददायकः । पापकर्मकृतो राजन् यातना न प्रबाधते ॥ १५.५३ ॥ अश्वमेधादयो यज्ञास्त्वयेष्टा विधिवद्यतः । ततस्त्वद्दर्शनाद्याम्या यन्त्रशस्त्राग्निवायसाः ॥ १५.५४ ॥ पीडनच्छेददाहादिमहादुः खस्य हेतवः । मृदुत्वमागता राजन् तेजसापहतास्तव ॥ १५.५५ ॥ राजोवाच न स्वर्गे ब्रह्मलोके वा तत्सुखं प्राप्यते नरैः । यदार्तजन्तुनिर्वाणदानोत्थमिति मे मतिः ॥ १५.५६ ॥ यदि मत्सन्निधावेतान् यातना न प्रबाधते । ततो भद्रमुखात्राहं स्थास्ये स्थाणुरिवाचलः ॥ १५.५७ ॥ यमपुरुष उवाच एहि राजन् प्रगच्छामो निजपुण्यसमर्जितान् । भुङ्क्ष्व भोगानपास्येह यातनाः पापकर्मणाम् ॥ १५.५८ ॥ राजोवाच तस्मान्न तावद्यास्यामि यावदेते सुदुः खिताः । मत्सन्निधानात्सुखिनो भवन्ति नरकौकसः ॥ १५.५९ ॥ धिक्तस्य जीवनं पुंसः शरणार्थिनमातुरम् । यो नार्तमनुगृह्णाति वैरिपक्षमपि ध्रुवम् ॥ १५.६० ॥ यज्ञदानतपांसीह परत्र च न भूतये । भवन्ति तस्य यस्यार्तपरित्राणे न मानसम् ॥ १५.६१ ॥ नरस्य यस्य कठिनं मनो बालातुरादिषु । वृद्धेषु च न तं मन्ये मानुषं राक्षसो हि सः ॥ १५.६२ ॥ एतेषां सन्निकर्षात्तु यद्यग्निपरितापजम् । तथोग्रगन्धजं वापि दुः खं नरकसम्भवम् ॥ १५.६३ ॥ क्षुत्पिपासाभवं दुः खं यच्च मूर्च्छाप्रदं महत् । एतेषां त्राणदानन्तु मन्ये स्वर्गसुखात्परम् ॥ १५.६४ ॥ प्राप्स्यन्त्यार्ता यदि सुखं बहवो दुः खिते मयि । किन्नु प्राप्तं मया न स्यात्तस्मात्त्वं व्रज माचिरम् ॥ १५.६५ ॥ यमपुरुष उवाच एष धर्मश्च शक्रश्च त्वां नेतुं समुपागतौ । अवश्यमस्माद्गन्तव्यं तस्मात्पार्थिव ! गम्यताम् ॥ १५.६६ ॥ धर्म उवाच नयामि त्वामहं स्वर्गं त्वया सम्यगुपासितः । विमानमेतदारुह्य मा विलम्बस्व गम्यताम् ॥ १५.६७ ॥ राजोवाच नरके मानवा धर्म पीड्यन्तेऽत्र सहस्रशः । त्राहीति चार्ताः क्रन्दन्ति मामतो न व्रजाम्यहम् ॥ १५.६८ ॥ इन्द्र उवाच कर्मणा नरकप्राप्तिरेतेषां पापकर्मिणाम् । स्वर्गस्त्वयापि गन्तव्यो नृप ! पुण्येन कर्मणा ॥ १५.६९ ॥ राजोवाच यदि जानासि धर्म ! त्वं त्वं वा शक्र ! शचीपते । मम यावत्प्रमाणन्तु शुभं तद्वक्तुमर्हथः ॥ १५.७० ॥ धर्म उवाच अब्बिन्दवो यथाम्भोधौ यथा वा दिवि तारकाः । यथा वा वर्षता धारा गड्गायां सिकता यथा ॥ १५.७१ ॥ असंख्येया महाराज यथा बिन्द्वादयो ह्यपाम् । तथा तवापि पुण्यस्य संख्या नैवोपपद्यते ॥ १५.७२ ॥ अनुकम्पामिमामद्य नारकेष्विह कुर्वतः । तदेव शतसाहस्त्रं संख्यामुपगतं तव ॥ १५.७३ ॥ तद्गच्छ त्वं नृपश्रेष्ठ तद्भाक्तुममरालयम् । एतेऽपि पापं नरके क्षपयन्तु स्वकर्मजम् ॥ १५.७४ ॥ राजोवाच कथं स्पृहां करिष्यन्ति मत्सम्पर्केषु मानवाः । यदि सत्सन्निधावेषामुकत्कर्षो नोपजायते ॥ १५.७५ ॥ तस्माद्यत्सुकृतं किञ्चिन्ममास्ति त्रिदशाधिप । तेन मुच्यन्तु नरकात्पापिनो यातनां गताः ॥ १५.७६ ॥ इन्द्र उवाच एवमूर्ध्वतरं स्थानं त्वयावाप्तं महीपते । एतांश्च नरकात्पश्य विमुक्तान् पापकारिणः ॥ १५.७७ ॥ पुत्र उवाच ततोऽपतत्पुष्पवृष्टिस्तस्योपरि महीपतेः । विमानञ्चाधिरोप्यैनं स्वर्लोकमनयद्धरिः ॥ १५.७८ ॥ अहञ्चान्ये च ये तत्र यातनाभ्यः परिच्युताः । स्वकर्मफलनिर्दिष्टं ततो जात्यन्तरं गताः ॥ १५.७९ ॥ एवमेते समाख्याता नरका द्विजसत्तम । येन येन च पापेन यां यां योनिमुपैति वै ॥ १५.८० ॥ तत्तत्सर्वं समाख्यातं यथा दृष्टं मया पुरा । पुरानुभवजं ज्ञानमवाप्यावितथं तव । अतः परं महाभाग किमन्यत्कथयामि ते ॥ १५.८१ ॥ इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादो नाम पञ्चदशोऽध्यायः _____________________________________________________________ षोडशोऽध्यायः पितावाच कथितं मे त्वया वत्स संसारस्य व्यवस्थितम् । स्वरूपमतिहेयस्य घटीयन्त्रवदव्ययम् ॥ १६.१ ॥ तदेवमेतदखिलं मयावगतमीदृशम् । किं मया वद कर्तव्यमेवस्मिन् व्यवस्थिते ॥ १६.२ ॥ पुत्र उवाच यदि मद्वचनं तात श्रद्दधास्यविशङ्कितः । तत्परित्यज्य गार्हस्थ्यं वानप्रस्थपरो भव ॥ १६.३ ॥ तमनुष्ठाय विधिवद्विहायाग्निपरिग्रहम् । आत्मन्यात्मानमाधया निर्द्वन्द्वो निष्परिग्रहः ॥ १६.४ ॥ एकान्तराशी वश्यात्मा भव भिक्षुरतन्द्रितः । तत्र योगापरो भूत्वा बाह्यस्पर्शविवर्जितः ॥ १६.५ ॥ ततः प्राप्स्यति तं योगं दुः शसंयोगभेषजम् । मुक्तिहेतुमनौपम्यमनाख्येयमसङ्गिनम् । यत्संयोगान्न ते योगो भूयो भूतैर्भविष्यति ॥ १६.६ ॥ पितावाच वत्स योगं ममाचक्ष्व मुक्तिहेतुमतः परम् । येन भूतैः पुनर्भूतो नेदृगः खमवाप्नुयाम् ॥ १६.७ ॥ यत्रासक्तिपरस्यात्मा मम संसारबन्धनैः । नैति योगमयोगोऽपि तं योगमधुना वद ॥ १६.८ ॥ संसारादित्यतापार्तिविप्लुष्यद्देहमानसम् । ब्रह्मज्ञानाम्बुशीतेन सिञ्च मां वाक्यवारिणा ॥ १६.९ ॥ अविद्याकृष्णसर्पेण दष्टं तद्विषपीडितम् । स्ववाक्यामृतपानेन मां जीवय पुनर्मृतम् ॥ १६.१० ॥ पुत्रदारगृहक्षेत्रममत्वनिगजडार्दितम् । मां मोचयेष्टसद्भावविज्ञानोद्घाटनैस्त्वरन् ॥ १६.११ ॥ पुत्र उवाच शृणु तात ! यथा योगो दत्तात्रेयेण धीमता । अलर्काय पुरा प्रोक्तः सम्यक्पृष्टेन विस्तरात् ॥ १६.१२ ॥ पितोवाच दत्तात्रेयः सुतः कस्य कथं वा योगमुक्तवान् । कश्चालर्को महाभागो यो यौगं परिपृष्टवान् ॥ १६.१३ ॥ पुत्र उवाच कौशिको ब्राह्मणः कश्चित्प्रतिष्ठानेऽभवत्पुरे । सोऽन्यजन्मकृतैः पापैः कुष्ठरोगातुरोऽभवत् ॥ १६.१४ ॥ तं तथा व्याधितं भार्या पतिं देवमिवार्च्चयत् । पादाभ्यङ्गाङ्गसंवाहस्त्रानाच्छादनभोजनैः ॥ १६.१५ ॥ श्लेष्ममूत्रपुरीषासृक्प्रवाहक्षालनेन च । रहश्चैवोपचारेण प्रियसम्भाषणेन च ॥ १६.१६ ॥ स तया पूज्यमानोऽपि सदातीव विनीतया । अतीव तीव्रकोपत्वान्निर्भर्त्सयति निष्ठुरः ॥ १६.१७ ॥ तथापि प्रणता भार्या तममन्यत दैवतम् । तं तथाप्यतिबीभत्सं सर्वश्रेष्ठममन्यत ॥ १६.१८ ॥ अचङ्क्रमणशोलोऽपि स कदाचिद्द्विजोत्तमः । प्राह भार्यां नयस्वेति त्वं मां तस्या निवेशनम् ॥ १६.१९ ॥ या सा वेश्या मया दृष्टा राजमार्गे गृहोषिता । तां मां प्रापय धर्मज्ञे ! सैव मे हृदि वर्तते ॥ १६.२० ॥ दृष्टा सूर्योदये बाला रात्रिश्चेयमुपागता । दर्शनानन्तरं सा मे हृदयान्नापसर्पति ॥ १६.२१ ॥ यदि सा चारुसर्वाङ्गी पीनश्रोणिपयोधरा । नोपगूहति तन्वङ्गी तन्मां द्रक्ष्यसि वै मृतम् ॥ १६.२२ ॥ वामः कामो मनुष्याणां बहुभिः प्रार्थ्यते च सा । ममाशक्तिश्च गमने सङ्कुलं प्रतिभाति मे ॥ १६.२३ ॥ तत्तदा वचनं श्रुत्वा भर्तुः कामातुरस्य सा । तत्पत्नी सत्कुलोत्पन्ना महाभागा पतिव्रता ॥ १६.२४ ॥ गाग्ं परिकरं बद्ध्वा शुल्कमादाय चाधिकम् । स्कन्धे भर्तारमादाय जगाम मृदुगामिनी ॥ १६.२५ ॥ निशि मेघास्तृते व्योम्नि चलद्विद्युत्प्रदर्शिते । राजमार्गे प्रियं भर्तुश्चिकीर्षन्ती द्विजाङ्गना ॥ १६.२६ ॥ पथि शूले तथा प्रोतमचौरं यौरशङ्कया । माण्डव्यमतिदुः खार्तमन्धकारेऽथ स द्विजः ॥ १६.२७ ॥ पत्नीस्कन्धे समारूढश्चालयामास कौशिकः । पादावमर्षणात्क्रुद्धो माण्डव्यस्तमुवाच ह ॥ १६.२८ ॥ येनाहमेवमत्यर्थं दुः खितश्चालितः पदा । दशां कष्टामनुप्राप्तः स पापात्मा नराधमः ॥ १६.२९ ॥ सूर्योदयेऽवशः प्राणैर्विमोक्ष्यति न संशयः । भास्करालोकनादेव स विनाशमवाप्स्यति ॥ १६.३० ॥ तस्य भार्याततः श्रुत्वा तं शापमतिदारुणम् । प्रोवाच व्यथिता सूर्यो नैवोदयमुपैष्यति ॥ १६.३१ ॥ ततः सूर्योदयाभावादभवत्सन्तता निशा । बहून्यहः प्रमाणानि ततो देवा भयं ययुः ॥ १६.३२ ॥ निः स्वाध्यायवषट्कारस्वधास्वाहाविवर्जितम् । कथं नु खल्विदं सर्वं न गच्छेत्संक्षयं जगत् ॥ १६.३३ ॥ अहोरात्रव्यवस्थाया विना मासर्तुसंक्षयः । तत्संक्षयान्न त्वयने ज्ञायेते दक्षिणोत्तरे ॥ १६.३४ ॥ विना चायनविज्ञानात्कालः संवत्सरः कुतः । संवत्सरं विना नान्यत्कालज्ञानं प्रवर्तते ॥ १६.३५ ॥ पतिव्रताया वचसा नोद्गच्छति दिवाकरः । सूर्योदयं विना नैव स्त्रानदानादिकाः क्रियाः ॥ १६.३६ ॥ नाग्नेर्विहरणञ्चैव क्रात्वभावश्च लक्ष्यते । नैवाप्ययनमस्माकं विना होमेन जायते ॥ १६.३७ ॥ वयमाप्यायिता मर्त्यैर्यज्ञभागैर्यथोचितैः । वृष्ट्या ताननुगृह्णीमो मर्त्यान् शस्यादिसिद्धये ॥ १६.३८ ॥ निष्पादितास्वोषधीषु मर्त्या यज्ञैर्यजन्ति नः । तेषां वयं प्रयच्छामः कामान् यज्ञादिपूजिताः ॥ १६.३९ ॥ अधो हि वर्षाम वयं मर्त्याश्चोर्ध्वप्रवर्षिणः । तोयवर्षेण हि वयं हविर्वर्षेण मानवाः ॥ १६.४० ॥ ये नास्माकं प्रयच्छन्ति नित्यनैमित्तकीः क्रियाः । क्रतुभागं दुरात्मानः स्वयञ्चाश्नन्ति लोलुपाः ॥ १६.४१ ॥ विनाशाय वयं तेषां तोयसूर्याग्निमारुतान् । क्षितिञ्च सन्दूषयामः पापानामपकारिणाम् ॥ १६.४२ ॥ दुष्टतोयादिभोगेन तेषां दुष्कृतकर्मिणाम् । उपसर्गाः प्रवर्तन्ते मरणाय सुदारुणाः ॥ १६.४३ ॥ ये त्वस्मान् प्रीणयित्वा तु भुञ्जते शेषमात्मना । तेषां पुण्यान् वयं योकान् विदधाम महात्मनाम् ॥ १६.४४ ॥ तन्नास्ति सर्वमेवैतद्विनैषां व्युष्टिसंस्थैतम् । कथं नु दिनसर्गः स्यादन्योऽन्यमवदन् सुराः ॥ १६.४५ ॥ तेषामेव समेतानां यज्ञव्युच्छित्तिशङ्किनाम् । देवानां वचनं श्रुत्वा प्राह देवः प्रजापतिः ॥ १६.४६ ॥ तेजः परं तेजसैव तपसा च तपस्तथा । प्रशाम्यतेऽमरास्तस्माच्छृणुध्वं वचनं मम ॥ १६.४७ ॥ पतिव्रताया माहात्म्यान्नोद्गच्छति दिवाकरः । तस्य चानुदयाद्धानिर्मर्त्यानां भवतां तथा ॥ १६.४८ ॥ तस्मात्पतिव्रतामत्रेरनुभूयां तपस्विनीम् । प्रसादयत वै पत्नीं भानोरुदयकाम्यया ॥ १६.४९ ॥ पुत्र उवाच तैः सा प्रसादिता गत्वा प्रोहेष्टं व्रियतामिति । अयाचन्त दिनं देवा भवत्विति यथा पुरा ॥ १६.५० ॥ अनसूयोवाच पतिव्रताया माहात्म्यं न हीयेत कथन्त्विति । संमान्य तस्मात्तां साध्वीमहः स्त्रक्ष्याम्यहं सुराः ॥ १६.५१ ॥ यथा पुनरहोरात्रसंस्थानमुपजायते । यथा च तस्याः स्वपतिर्न साध्व्या नाशमेष्यति ॥ १६.५२ ॥ पुत्र उवाच एवमुक्त्वा सुरांस्तस्या गत्वा सा मन्दिरं शुभा । उवाच कुशलं पृष्टा धर्मं भर्तुस्तथात्मनः ॥ १६.५३ ॥ अनसूयोवाच कच्चिन्नन्दसि कल्याणि स्वभर्तुर्मुखदर्शनात् । कच्चिच्चाखिलदेवेभ्यो मन्यसेऽभ्यधिकं पतिम् ॥ १६.५४ ॥ भर्तृशुश्रूषणादेव मया प्राप्तं महत्फलम् । सर्वकामफलावाप्त्या प्रत्यूहाः परिवर्तिताः ॥ १६.५५ ॥ पञ्चर्णानि मनुष्येण साध्वि ! देयानि सर्वदा । तथात्मवर्णधर्मेण कर्तव्यो धनसंचयः ॥ १६.५६ ॥ प्राप्तश्चार्थस्ततः पात्रे विनियोज्यो विधानतः । सत्यार्जवतपोदानैर्दयायुक्तो भवेत्सदा ॥ १६.५७ ॥ क्रियाश्च शास्त्रनिर्दिष्टा रागद्वेषविवर्जिताः । कर्तव्या अन्वहं श्रद्धापुरस्कारेण शक्तितः ॥ १६.५८ ॥ स्वजातिविहितानेव लोकानाप्नोति मानवः । क्लेशेन महता साध्वि ! प्राजापत्यादिकान् क्रमात् ॥ १६.५९ ॥ स्त्रियस्त्वेवं समस्तस्य नरैर्दुः खार्जितस्य वै । पुण्यस्यार्धापहारिण्यः पतिशुश्रूषयैव हि ॥ १६.६० ॥ नास्ति स्त्रीणां पृथग्यज्ञो न श्राद्धं नाप्युपोषितम् । भर्तृशुश्रूषयैवैतान् लोकानिष्टान् व्रजन्ति हि ॥ १६.६१ ॥ तस्मात्साध्वि ! महाभागे ! पतिशुश्रूषणं प्रति । त्वया मतिः सदा कार्या यतो भर्ता परा गतिः ॥ १६.६२ ॥ यद्देवेभ्यो यच्च पित्रागतेभ्यः कुर्याद्भर्ताभ्यर्च्चनं सत्क्रियातः । तस्याप्यर्धं केवलानन्यचित्ता नारी भुङ्क्ते भर्तृशुश्रूषयैव ॥ १६.६३ ॥ पुत्र उवाच तस्यास्तद्वचनं श्रुत्वा प्रतिपूज्य तथादरात् । प्रत्युवाचात्रिपत्नीं तामनसूयामिदं वचः ॥ १६.६४ ॥ धन्यास्म्यनुगृहीतास्मि देवैश्चाप्यवलोकिता । यन्मे प्रकृतिकल्याणि ! श्रद्धां वर्धयसे पुनः ॥ १६.६५ ॥ जानाम्येतन्न नारीणां काचित्पतिसमा गतिः । तत्प्रीतिश्चोपकाराय इह लोके परत्र च ॥ १६.६६ ॥ पतिप्रसादादिह च प्रेत्य चैव यशस्विनि । नारी सुखमवाप्नोति नार्या भर्ता हि देवता ॥ १६.६७ ॥ सा त्वं ब्रूहि महाभागे ! प्राप्ताया मम मन्दिरम् । आर्याया यन्मया कार्यं तथार्येणापि वा शुभे ॥ १६.६८ ॥ अनसूयोवाच एते देवाः सहेन्द्रेण मामुपागम्य दुः खिताः । त्वद्वाख्यापास्तसत्कर्मदिननक्तनिरूपणाः ॥ १६.६९ ॥ याचन्तेऽहर्निशासंस्थां यथावदविखण्डिताम् । अहं तदर्थमायाता शृणु चैतद्वचो मम ॥ १६.७० ॥ दिनाभावात्समस्तानामभावो यागकर्मणाम् । तदभावात्सुराः पुष्टिं नोपयान्ति तपस्विनि ॥ १६.७१ ॥ अह्नश्चैव समुच्छेदादुच्छेदः सर्वकर्मणाम् । तदुच्छेदादनावृष्ट्या जगदुच्छेदमेष्यति ॥ १६.७२ ॥ तत्त्वमिच्छसि चेदेतत्जगदुद्धर्तुमापदः । प्रसीद साध्वि ! लोकानां पूर्ववद्धर्ततां रविः ॥ १६.७३ ॥ ब्राह्मण्युवाच माण्डव्येन महाभागे ! शप्तो भर्ता ममेश्वरः । सूर्योदये विनाशं त्वं प्राप्स्यसीत्यतिमन्युना ॥ १६.७४ ॥ अनसूयोवाच यदि वा रोचते भद्रे ! ततस्त्वद्वचनादहम् । करोमि पूर्ववद्देहं भर्तारञ्च नवं तव ॥ १६.७५ ॥ मया हि सर्वथा स्त्रीणां माहात्म्यं वरवर्णिनि । पतिव्रतानामाराध्यमिति संमानयामि ते ॥ १६.७६ ॥ पुत्र उवाच तथेत्युक्ते तया सूर्यमाजुहाव तपस्विनी । अनसूयार्घ्यमुद्यम्य दशरात्रे तदा निशि ॥ १६.७७ ॥ ततो विवस्वान् भगवान् फुल्लपद्मारुणाकृतिः । शैलराजानमुदयमारुरोहोरुमण्डलः ॥ १६.७८ ॥ समनन्तरमेवास्या भर्ता प्राणैर्व्ययुज्यत । पपत च महीपृष्ठे पतन्तं जगृहे च सा ॥ १६.७९ ॥ अनसूयोवाच न विषादस्त्वया भद्रे ! कर्तव्यः पश्य मे बलम् । पतिशुश्रूषयावाप्तं तपसः किं चिरेण ते ॥ १६.८० ॥ यथा भर्तृसमं नान्यमपश्यं पुरुषं क्वचित् । रूपतः शीलतो बुद्ध्या वाङ्माधुर्ंय्यादिभूषणैः ॥ १६.८१ ॥ तेन सत्येन विप्रोऽयं व्याधिमुक्तः पुनर्युवा । प्राप्नोतु जीवितं भार्यासहायः शरदां शतम् ॥ १६.८२ ॥ यथा भर्तृसमं नान्यमहं पश्यामि दैवतम् । तेन सत्येन विप्रोऽयं पुनर्जोवत्वनामयः ॥ १६.८३ ॥ कर्मणा मनसा वाचा भर्तुराराधनं प्रति । यथा ममोद्यमो नित्यं तथायं जीवतां द्विजः ॥ १६.८४ ॥ पुत्र उवाच ततो विप्रः समुत्तस्थौ व्याधिमुक्तः पुनर्युवा । स्वभाभिर्भासयन् वेश्म वृन्दारक इवाजरः ॥ १६.८५ ॥ ततोऽपतत्पुष्पवृष्टिर्देववाद्यादिनिस्वनः । लेभिरे च मुदं देवा अनसूयामथाब्रुवन् ॥ १६.८६ ॥ देवा ऊचुः वरं वृणीष्व कल्याणि देवकार्यं महत्कृतम् । त्वया यस्मात्ततो देवा वरदास्ते तपस्विनि ॥ १६.८७ ॥ अनसूयोवाच यदि देवाः प्रसन्ना मे पितामहपुरोगमाः । वरदा वरयोग्या च यद्यहं भवतां मता ॥ १६.८८ ॥ तद्यान्तु मम पुत्रत्वं ब्रह्मविष्णुमहेश्वराः । योगञ्च प्राप्नुयां भर्तृसहिता क्लेशमुक्तये ॥ १६.८९ ॥ एवमस्त्विति तां देवा ब्रह्मविष्णुशिवादयः । प्रोक्त्वा जग्मुर्यथान्यायमनुमान्य तपस्विनीम् ॥ १६.९० ॥ इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादे अनसूयावरप्राप्तिर्नाम षोडशोऽध्यायः _____________________________________________________________ सप्तदशोऽध्यायः पुत्र उवाच ततः काले बहुतिथे द्वितीयो ब्रह्मणः सुतः । स्वभार्यां भगवानत्रिरनसूयामपश्यत ॥ १७.१ ॥ ऋतुस्नातां सुचार्वङ्गीं लोभनीयोत्तमाकृतिम् । सकामो मनसा भेजे स मुनिस्तामनिन्दिताम् ॥ १७.२ ॥ तस्याभिध्यायतस्तान्तु विकारो योऽन्वजायत । तमेवोवाह पवनस्तिरश्चोर्ध्वञ्च वेगवान् ॥ १७.३ ॥ ब्रह्मरूपञ्च शुक्लाभं पतमानं समन्ततः । सोमरूपं रजोपेतं दिशस्तं जगृहुर्दश ॥ १७.४ ॥ स सोमो मानसो जज्ञे तस्यामत्रेः प्रजापतेः । पुत्रः समस्तसत्त्वानामायुराधार एव च ॥ १७.५ ॥ तुष्टेन विष्णुना जज्ञे दत्तात्रेयो महात्मना । स्वशरीरात्समुत्पाद्य सत्त्वोद्रिक्तो द्विजात्तमः ॥ १७.६ ॥ दत्तात्रेय इति ख्यातः सोऽनसूयास्तनं पपौ । विष्णुरेवावतीर्णोऽसौ द्वितीयोऽत्रेः सुतोऽभवत् ॥ १७.७ ॥ सप्ताहात्प्रच्युतो मातुरुदरात्कुपितो यतः । हैहयेन्द्रमुपावृत्तमपराध्यन्तमुद्धतम् ॥ १७.८ ॥ दृष्ट्वात्रौ कुपितः सद्यो दग्धुकामः स हैहयम् । गर्भवासमहायासदुः खामर्षसमन्वितः ॥ १७.९ ॥ दुर्वासास्तमसोद्रिक्तो रुद्रांशः समजायत । इति पुत्रत्रयं तस्या जज्ञे ब्रह्मेशवैष्णवम् ॥ १७.१० ॥ सोमो ब्रह्मभवद्विष्णुर्दत्तात्रेयो व्यजायत । दुर्वासाः शङ्करो जज्ञे वरदानाद्दिवौकसाम् ॥ १७.११ ॥ सोमः स्वरश्मिभैः शीतैर्वोरुधौषधिमानवान् । आप्याययन् सदा स्वर्गे वर्तते स प्रजापतिः ॥ १७.१२ ॥ दत्तात्रेयः प्रजां पाति दुष्टदैत्यनिबर्हणात् । शिष्टानुग्रहकृच्चेति ज्ञेयश्चांशः स वैष्णवः ॥ १७.१३ ॥ निर्दहत्यवमन्तारं दुर्वासा भगवानजः । रौद्रं समाश्रित्य वपुर्दृङ्मनोवाग्भिरुद्धतः ॥ १७.१४ ॥ सोमत्वं भगवानत्रैः पुनश्चक्रे प्रजापतिः । दत्तात्रेयोऽपि विषयान् योगास्थो बुभुजे हरिः ॥ १७.१५ ॥ दुर्वासाः पितरं हित्वा मातरञ्चोत्तम व्रतम् । उन्मत्ताख्यं समाश्रित्य परिबभ्राम मेदिनीम् ॥ १७.१६ ॥ मुनिपुत्रवृतो योगी दत्तात्रेयोऽप्यसङ्गिताम् । अभीप्स्यमानः सरसि निममज्ज चिरं प्रभुः ॥ १७.१७ ॥ तथापि तं महात्मानमतीव प्रियदर्शनम् । तत्यजुर्न कुमारास्ते सरसस्तीरमाश्रिताः ॥ १७.१८ ॥ दिव्ये वर्षशते पूर्णे यदा ते न त्यजन्ति तम् । तत्प्रीत्या सरसस्तीरं सर्वे मुनिकुमारकाः ॥ १७.१९ ॥ ततो दिव्याम्बरधरां चारुपीननितम्बिनीम् । नारीमादाय कल्याणीमुत्तितार जलान्मुनिः ॥ १७.२० ॥ स्त्रीसन्निकर्षाद्यद्येते परित्यक्ष्यन्ति मामिति । मुनिपुत्रास्ततोऽसङ्गी स्थास्यामीति विचिन्तयन् ॥ १७.२१ ॥ तथापि तं मुनिसुता न त्यजन्ति यदा मुनिम् । ततः सह तया नार्या मद्यपानमथापिबत् ॥ १७.२२ ॥ सुरापानरतं ते न सभार्यं तत्यजुस्ततः । गीतवाद्यादिवनिताभोगसंसर्गदूषितम् ॥ १७.२३ ॥ मन्यमाना महात्मानं पीतासवसविक्रियम् । नावाप दोषं योगीशो वारुणीं स पिबन्नपि ॥ १७.२४ ॥ अन्तावसायिवेश्मान्तर्मातरिश्वा वसन्निव । सुरां पिबन् सपत्नीकस्तपस्तेपे स योगवित् । योगीश्वारश्चिन्त्यमानो योगिभिर्मुक्तिकाङ्क्षिभिः ॥ १७.२५ ॥ इति श्रीमार्कण्डेपुराणे पितापुत्रसंवादे दत्तात्रेयोत्पत्तिर्नाम सप्तदशोऽध्यायः _____________________________________________________________ अष्टादशोऽध्यायः पुत्र उवाच कस्यचित्त्वथ कालस्य कृतवीर्यात्मजोर्ऽजुनः । कृतवीर्ये दिवं याते मन्त्रिभिः सपुरोहितैः ॥ १८.१ ॥ पौरैश्चात्माभिषेकार्थं समाहूतोऽब्रवीदिदम् । नाहं राज्यं करिष्यामि मन्त्रिणो नरकोत्तरम् ॥ १८.२ ॥ यदर्थं गृह्यते शुल्कं तदनिष्पादयन् वृथा । पण्यानां द्वादशं भागं भूपालाय वणिग्जनः ॥ १८.३ ॥ दत्त्वार्थरक्षिभिर्मार्गे रक्षितो याति दस्युतः । गोपाश्च घृततक्रादेः षड्भागञ्च कृषीबलाः ॥ १८.४ ॥ दत्त्वान्यद्भूभुजे दद्युर्यदि भागं ततोऽधिकम् । पण्यादीनामशेषाणां वणिजो गृह्णतस्ततः ॥ १८.५ ॥ इष्टापूर्तविनाशाय तद्राज्ञश्चौरधर्मिणः । यद्यन्यैः पाल्यते लोकस्तद्वृत्तयन्तरसंश्रितैः ॥ १८.६ ॥ गृह्णतो बलिषड्भागं नृपतेर्नरको ध्रुवम् । निरूपितमिदं राज्ञः पूर्वै रक्षणवेतनम् ॥ १८.७ ॥ अरक्षंश्चौरतश्चौर्यं तदेनो नृपतेर्भवेत् । तस्माद्यदि तपस्तप्त्वा प्राप्तो योगित्वमीप्सितम् ॥ १८.८ ॥ भुवः पालनसामर्थ्ययुक्त एको महीपतिः । पृथिव्यां शस्त्रधृङ्मान्यस्त्वहमेवर्धिसंयुतः । ततो भविष्ये नात्मानं करिष्ये पापभागिनम् ॥ १८.९ ॥ पुत्र उवाच तस्य तन्निश्चयं ज्ञात्वा मन्त्रिमध्यस्थितोऽब्रवीत् । गर्गो नाम महाबुद्धिर्मुनिश्रेष्ठो वयोऽतिगः ॥ १८.१० ॥ यद्येवं कर्तुकामस्त्वं राज्यं सम्यक्प्रशासितुम् । ततो शृणुष्व मे वाक्यं कुरुष्व च नृपात्मज ॥ १८.११ ॥ दत्तात्रेयं महाभागं सह्यद्रोणीकृताश्रयम् । तमाराधय भूपाल ! पाति यो भुवनत्रयम् ॥ १८.१२ ॥ योगयुक्तं महाभागं सर्वत्र समदर्शिनम् । विष्णोरंशं जगद्धातुरवतीर्णं महीतले ॥ १८.१३ ॥ यमाराध्य सहस्राक्षः प्राप्तवान् पदमात्मनः । हृतं दुरात्मभिर्दैत्यैर्जघान च दितेः सुतान् ॥ १८.१४ ॥ अर्जुन उवाच कथमाराधितो देवैर्दत्तात्रेयः प्रतापवान् । कथञ्चापहृतं दैत्यैरिन्द्रत्वं प्राप वासवः ॥ १८.१५ ॥ गर्ग उवाच देवानां दानवानाञ्च युद्धमासीत्सुदारुणम् । दैत्यानामीश्वरो जम्भो देवानाञ्च शचीपतिः ॥ १८.१६ ॥ तेषाञ्च युध्यमानानां दिव्यः संवत्सरो गतः । ततो देवाः पराभूता दैत्या विजयिनोऽभवन् ॥ १८.१७ ॥ विप्रचित्तिमुखैर्देवा दानवैस्ते पराजिताः । पलायनकृतोत्साहा निरुत्साहा द्विषज्जये ॥ १८.१८ ॥ बृहस्पतिमुपागम्य दैत्यसैन्यवधेप्सवः । अमन्त्रयन्त सहिता बालखिल्यैस्तथर्षिभिः ॥ १८.१९ ॥ बृहस्पतिरुवाच दत्तात्रेयं महात्मानमत्रेः पुत्रं तपोधनम् । विकृताचरणं भक्त्या सन्तोषयितुमर्हथ ॥ १८.२० ॥ स वो दैत्यविनाशाय वरदो दास्यते वरम् । ततो हनिष्यथ सुरा सहिता दैत्यदानवान् ॥ १८.२१ ॥ गर्ग उवाच इत्युक्तास्ते तदा जग्मुर्दत्तात्रेयाश्रमं सुराः । ददृशुश्च महात्मानं तं ते लक्ष्म्या समन्वितम् ॥ १८.२२ ॥ उद्गीयमानं गन्धर्वैः सुरापानरतं मुनिम् । ते तस्य गत्वा प्रणतिमवदन् साध्यसाधनम् ॥ १८.२३ ॥ चक्रुः स्तवञ्चोपजह्रुर्भक्ष्यभोज्यस्त्रगादिकम् । तिष्ठन्तमनुतिष्ठन्ति यान्तं यान्ति दिवौकसः ॥ १८.२४ ॥ आराधयामासुरधः स्थितास्तिष्ठन्तमासने । स प्राह प्रणतान् देवान् दत्तात्रेयः किमिष्यते । मत्तो भवद्भिर्येनेयं शुश्रूषा क्रियते मम ॥ १८.२५ ॥ देवा ऊचुः दानवैर्मुनिशार्दूल ! जम्भाद्यैर्भूर्भुवादिकम् । हृतं तैलोक्यमाक्रम्य क्रतुभागाश्च कृत्स्नशः ॥ १८.२६ ॥ तद्वधे कुरु बुद्धिं त्वं परित्राणाय नोऽनघ । त्वत्प्रसादादभीप्सामः पुनः प्राप्तं त्रिविष्टपम् ॥ १८.२७ ॥ दत्तात्रेय उवाच मद्यासक्तोऽहमुच्छिष्टो न चैवाहं जितेन्द्रियः । कथमिच्छथ मत्तोऽपि देवाः शत्रुपराभवम् ॥ १८.२८ ॥ देवा ऊचुः अनघस्त्वं जगन्नाथ न लेपस्तव विद्यते । विद्याक्षालनशुद्धान्तर्निविष्टज्ञानदीधिते ! ॥ १८.२९ ॥ दत्तात्रेय उवाच सत्यमेतत्सुरा विद्या ममास्ति समदर्शिनः । अस्यास्तु योषितः सङ्गादहमुच्छिष्टतां गतः ॥ १८.३० ॥ स्त्रीसम्भोगो हि दोषाय सातत्येनोपसेवितः । एवमुक्तास्ततो देवाः पुनर्वचनमब्रुवन् ॥ १८.३१ ॥ देवा ऊचुः अनघेयं द्विजश्रेष्ठ जगन्माता न दुष्यते । यथांशुमाला सूर्यस्य द्विजचाण्डालसङ्गिनी ॥ १८.३२ ॥ गर्ग उवाच एवमुक्तस्ततो देवैर्दत्तात्रेयोऽब्रवीदिदम् । प्रहस्य त्रिदशान् सर्वान् यद्येतद्भवतां मतम् ॥ १८.३३ ॥ तदाहूयासुरान् सर्वान् युद्धाय सुरसत्तमाः । इहानयत मद्दृष्टिगोचरं मा विलम्बतः ॥ १८.३४ ॥ मद्दृष्टिपातहुतभुक्प्रक्षीणबलतेजसः । येन नाशमशेषास्ते प्रयान्ति मम दर्शनात् ॥ १८.३५ ॥ गर्ग उवाच तस्य तद्वचनं श्रुत्वा देवैर्दैत्या महाबलाः । आहवाय समाहूता जग्मुर्देवगणान् रुषा ॥ १८.३६ ॥ ते हन्यमाना दैतेयैर्देवा शीघ्रं भयातुराः । दत्तात्रेयाश्रमं जग्मुः समेताः शरणार्थिनः ॥ १८.३७ ॥ तमेव विविशुर्दैत्याः कालयन्तो दिवौकसः । ददृशुश्च महात्मानं दत्तात्रेयं महाबलम् ॥ १८.३८ ॥ वामपार्श्वस्थितामिष्टामशेषजगतां शुभाम् । भार्याञ्चास्य सुचार्वङ्गीं लक्ष्मीमिन्दुनिभाननाम् ॥ १८.३९ ॥ नीलोत्पलाभनयनां पीनश्रोणिपयोधराम् । गदन्तीं मधुरां भाषां सर्वैर्योषिद्गुणैर्युताम् ॥ १८.४० ॥ ते तां दृष्ट्वाग्रतो दैत्याः साभिलाषा मनोभवम् । न शेसुरुद्धतं धैर्यान्मनसा वोढुमातुराः ॥ १८.४१ ॥ त्यक्त्वा देवान् स्त्रियं तां तु हर्तुकामा हतौजसः । तेन पापेन मुह्यन्तः संशक्तास्ते ततोऽब्रुवन् ॥ १८.४२ ॥ स्त्रोरत्नमेतत्त्रैलोक्ये सारं नो यदि वै भवेत् । कृतकृत्यास्ततः सर्व इति नो भावितं मनः ॥ १८.४३ ॥ तस्मात्सर्वे समुत्क्षिप्य शिविकायां सुरार्दनाः । आरोप्य स्वमधिष्ठानं नयाम इति निश्चिताः ॥ १८.४४ ॥ गर्ग उवाच सानुरागास्ततस्ते तु प्रोक्ताश्चेत्त्थं परस्परम् । तस्य तां योषितं साध्वीं समुत्क्षिप्य स्मरार्दिताः ॥ १८.४५ ॥ शिविकायां समारोप्य सहिता दैत्यदानवाः । शिरः सु शिविकां कृत्वा स्वस्थानाभिमुखं ययुः ॥ १८.४६ ॥ दत्तात्रेयस्ततो देवान् विहस्येदमथाब्रवीत् । दिष्ट्या वर्धथ दैत्यानामेषा लक्ष्मीः शिरोगता । सप्त सथानान्यतिक्रान्ता नवमन्यमुपैष्यति ॥ १८.४७ ॥ देवा ऊचुः कथयस्व जगन्नाथ ! केषु स्थानेष्वस्थिता । पुरुषस्य फलं किं वा प्रयच्छत्यथ नश्यति ॥ १८.४८ ॥ दत्तात्रेय उवाच नृणां पदे स्थिता लक्ष्मीर्निलयं सम्प्रयच्छति । सक्थ्न्योश्च संस्थिता वस्त्रं तथा नानाविधं वसु ॥ १८.४९ ॥ कलात्रञ्च गुह्यसंस्था क्रोडस्थापत्यदायिनी । मनोरथान् पूरयति पुरुषाणां हृदि स्थिता ॥ १८.५० ॥ लक्ष्मीर्लक्ष्मीवतां श्रेष्ठा कण्ठस्था कण्ठभूषणम् । अभीष्टबन्धुदारैश्च तथाश्लेषं प्रवासिभिः ॥ १८.५१ ॥ सृष्टानुवाक्यलावण्यमाज्ञामवितथां तथा । मुखसंस्था कवित्वञ्च यच्छत्युदधिसम्भवा ॥ १८.५२ ॥ शिरोगता सन्त्यजति ततोऽन्यं याति चाश्रयम् । सेयं शिरोगता चैतान् परित्यक्ष्यति साम्प्रतम् ॥ १८.५३ ॥ प्रगृह्यास्त्राणि बध्यन्तां तस्मादेते सुरारयः । न भेतव्यं भृशञ्चैते मया निस्तेजसः कृताः । परदारावमर्षाच्च दग्धपुण्या हतौजसः ॥ १८.५४ ॥ ततस्ते विविधैरस्त्रैर्वध्यमानाः सुरारयः । मूध्नि लक्ष्म्या समाक्रान्ता विनेशुरिति नः श्रुतम् ॥ १८.५५ ॥ लक्ष्मीश्चीत्पत्य सम्प्राप्ता दत्तात्रेयं महामुनिम् । स्तूयमाना सुरैः सर्वैर्दैत्यनाशान्मुदान्वितैः ॥ १८.५६ ॥ प्रणिपत्य ततो देवा दत्तात्रेयं मनीषिणम् । नाकपृष्ठमनुप्राप्ता यथापूर्वं गतज्वराः ॥ १८.५७ ॥ तथा त्वमपि रोजेन्द्र ! यदीच्छसि यथेप्सितम् । प्राप्तुमैश्वर्यमतुलं तूर्णमाराधयस्व ताम् ॥ १८.५८ ॥ इति श्रीमार्कण्डेयपुराणेठगर्गवाक्यम्ऽ नामाष्टादशोऽध्यायः _____________________________________________________________ एकोनविंशोऽध्यायः पुत्र उवाच इत्यृषेर्वचनं श्रुत्वा कार्तवीर्यो नरेश्वरः । दत्तात्रेयाश्रमं गत्त्वा तं भक्त्या समपूजयत् ॥ १९.१ ॥ पादसंवाहनाद्येन मध्वाद्याहरणेन च । स्त्रक्चन्दनादिगन्धाम्बुफलाद्यनयनेन च ॥ १९.२ ॥ तथान्नसाधनैस्तस्य उच्छिष्टापोहनेन च । परितुष्टो मुनिर्भूतं तमुवाच तथैव सः ॥ १९.३ ॥ यथैवोक्ताः पुरा देवा मद्यभोगादिकुत्सनम् । स्त्री चेयं मम पार्श्वस्थेत्येतद्भोगाच्च कुत्सितम् ॥ १९.४ ॥ सदैवाहं न मामेवमुपरोद्धुं त्वमर्हसि । अशक्तमुपकाराय शक्तमाराधयस्व भोः ॥ १९.५ ॥ जड उवाच तेनैवमुक्तो मुनिना स्मृत्वा गर्गवचश्च तत् । प्रत्युवाच प्रणम्यैनं सार्तवीर्यार्जुनस्तदा ॥ १९.६ ॥ अर्जुन उवाच किं मां मोहयसे देव ! स्वां मायां समुपाश्रितः । अनघस्त्वं तथैवेयं देवी सर्वभवारणिः ॥ १९.७ ॥ इत्युक्तः प्रीतिमान् देवस्ततस्तं प्रत्युवाच ह । कार्तवीर्यं महाभागं वशीकृतमहीतलम् ॥ १९.८ ॥ वरं वृणीष्व गुह्यं मे यत्त्वया समुदीरितम् । तेन तुष्टिः परा जाता त्वय्यद्य मम पार्थिव ॥ १९.९ ॥ ये च मां पूजयिष्यन्ति गन्धमाल्यादिभिर्नराः । मांसमद्योपहारैश्च मिष्टान्नैश्चाज्यसंयुतैः ॥ १९.१० ॥ लक्ष्मीसमेतं गीतैश्च ब्राह्मणानां तथार्च्चनैः । वाद्यैर्मनोरमैर्वोणावेणुशङ्कादिभिस्तथा ॥ १९.११ ॥ तेषामहं परां तुष्टिं पुत्रदारधनादिकम् । प्रदास्याम्यवघातञ्च हनिष्याम्यवमन्यताम् ॥ १९.१२ ॥ स त्वं वरय भद्रं ते वरं यन्मसेप्सितम् । प्रसादसुमुखस्तेऽहं गुह्यनामप्रकीर्तनात् ॥ १९.१३ ॥ कार्तवीर्य उवाच यदि देव प्रसन्नस्त्वं तत्प्रयच्छर्धिमुत्तमाम् । यया प्रजाः पालयेऽहं न चाधर्ममवाप्नुयाम् ॥ १९.१४ ॥ परानुसरणे ज्ञानमप्रतिद्वन्द्वतां रणे । सहस्रमाप्तुमिच्छामि बाहूनां लघुतागुणम् ॥ १९.१५ ॥ असङ्गा गतयः सन्तु शैलाकाशाम्बुभूमिषु । पातालेषु च सर्वेषु वधश्चाप्यधिकान्नरात् ॥ १९.१६ ॥ तथोन्मार्गप्रवृत्तस्य चास्तु सन्मार्गदेशकः । सन्तु मेऽतिथयः श्लाघ्या वित्तदाने तथाक्षये ॥ १९.१७ ॥ अनष्टद्रव्यता राष्ट्रे ममानुस्मरणेन च । त्वयि भक्तिर्ममैवास्तु नित्यमव्यभिचारिणी ॥ १९.१८ ॥ दत्तात्रेय उवाच यत्र ते कीर्तिताः सर्वे तान् वरान् समवाप्स्यसि । मत्प्रसादाच्च भविता चक्रवर्तो त्वमीश्वरः ॥ १९.१९ ॥ जड उवाच प्रणिपत्य ततस्तस्मै दत्तात्रेयाय सोऽर्जुनः । आनाय्य प्रकृतीः सम्यगभिषेकमगृह्णत ॥ १९.२० ॥ आघोषयामास तदा स्थितो राज्ये स हैहयः । दत्तात्रेयात्परामृद्धिमवाप्यातिबलान्वितः ॥ १९.२१ ॥ अद्यप्रभृति यः शस्त्रं मामृतेऽन्यो ग्रहीष्यति । हन्तव्यः स मया दस्युः परिहंसारतोऽपि वा ॥ १९.२२ ॥ इत्याज्ञप्तेन तद्राष्ट्रे कश्चिदायुधधृङ्नरः । तमृते पुरुषव्याघ्रं बभूवोरुपराक्रमः ॥ १९.२३ ॥ स एव ग्रामपालोऽभूत्पशुपालः स एव च । क्षेत्रपालः स एवासीद्द्विजातीनाञ्च रक्षिता ॥ १९.२४ ॥ तपस्विनां पालयिता सार्थपालस्तु सोऽभवत् । द्स्युव्यालाग्रिशस्त्रादिभयेष्वब्धौ निमज्जताम् ॥ १९.२५ ॥ अन्यासु चैव मग्रानामापत्सु परवीरहा । स एव संस्मृतः सद्यः समुद्धर्ताभवन्नृणाम् ॥ १९.२६ ॥ अनष्टद्रव्यता चासीत्तस्मिन् शासति पार्थिवे । तेनेष्टं बहुभिर्यज्ञैः समाप्तवरदक्षिणैः ॥ १९.२७ ॥ तेनैव च तपस्तप्तं संग्रामेष्वभिचेष्टितम् । तस्यार्धिमतिमानञ्च दृष्ट्वा प्राहाङ्गिरा मुनिः ॥ १९.२८ ॥ न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः । यज्ञैर्दानैस्तपोभिर्वा संग्रामे चातिचेष्चितैः ॥ १९.२९ ॥ दत्तात्रेयाद्दिन् यस्मिन् स प्रापर्धि नरेश्वरः । तस्मिंस्तस्मिन् दिने यागं दत्तात्रेयस्य सोऽकरोत् ॥ १९.३० ॥ तत्रैव च प्रजाः सर्वास्तस्मिन्नहनि भूपतेः । तस्यर्धि परमां दृष्ट्वा यागं चक्रुः समाधिना ॥ १९.३१ ॥ इत्येतत्तस्य माहात्म्यं दत्तात्रेयस्य धीमतः । विष्णोश्चराचरगुरोरनन्तस्य महात्मनः ॥ १९.३२ ॥ प्रादुर्भावाः पुराणेषु कथ्यन्ते शार्ड्गधन्विनः । अनन्तस्याप्रमेयस्य शङ्खचक्रगदाभृतः ॥ १९.३३ ॥ एतस्य परमं रूपं यश्चिन्तयति मानवः । स सुखी स च संसारात्समुत्तीर्णोऽचिराद्भवेत् ॥ १९.३४ ॥ सदैव वैष्णवानाञ्च भक्त्याहं सुलभोऽस्मि भोः । इत्येवं यस्य वै वाचस्तं कथं नाश्रयेज्जनः ॥ १९.३५ ॥ अधर्मस्य विनाशाय धर्माचारार्थमेव च । अनादिनिधनो देवः करोति स्थितिपालनम् ॥ १९.३६ ॥ तथैव जन्म चाख्यातमलर्कं कथयामि ते । तथा च योगः कथितो दत्तात्रेयेण तस्य वै । पितृभक्तस्य राजर्षेरलर्कस्य महात्मनः ॥ १९.३७ ॥ इति श्रीमार्कण्डेयपुराणे दत्तात्रेयीये ऊनविंशोऽध्यायः _____________________________________________________________ विंशोऽध्यायः जड उवाच प्राग्बभूव महावीर्यः शत्रुजिन्नाम पार्थिवः । तुतोष यस्य यज्ञेषु सोमावाप्त्या पुरन्दरः ॥ २०.१ ॥ तस्यात्मजो महावीर्यो बभूवारिविदारणः । बुद्धिविक्रमलावण्यैर्गुरुशक्राश्विभिः समः ॥ २०.२ ॥ स समानवयोबुद्धिसत्त्वविक्रमचेष्टितैः । नृपपुत्रो नृपसुतैर्नित्यमास्ते समावृतः ॥ २०.३ ॥ कदाचिच्छास्त्रसम्भारविवेककृतनिश्चयः । कदाचित्काव्यसंलापगीतनाटकसम्भवैः ॥ २०.४ ॥ तथैवाक्षविनोदैश्च शस्त्रास्त्रविनयेषु च । योग्यानि युद्धनागाश्वस्यन्दनाभ्यासतत्परः ॥ २०.५ ॥ रेमे नरेन्द्रपुत्रोऽसौ नरेन्द्रतनयैः सह । यथैव हि दिवा तद्वद्रात्रवपि मुदा युतः ॥ २०.६ ॥ तेषां तु क्रीडतां तत्र द्विजभूपविशां सुताः । समानवयसः प्रीत्या रन्तुमायान्त्यनेकशः ॥ २०.७ ॥ कस्यचित्त्वथ कालस्य नागलोकान्महीतलम् । कुमारावागतौ नागौ पुत्रावश्वतरस्य तु ॥ २०.८ ॥ ब्रह्मरूपप्रतिच्छन्नौ तरुणौ प्रियदर्शनौ । तौ तैर्नृपसुतैः सार्धं तथैवान्यैर्द्विजन्मभिः ॥ २०.९ ॥ विनोदैर्विविधैस्तत्र तस्थतुः प्रीतिसंयुतौ । सर्व च ते नृपसुतास्ते च ब्रह्मविशां सुताः ॥ २०.१० ॥ नागराजात्मजौ तौ च स्त्रानसंवाहनादिकम् । वस्त्रगन्धानुसयुक्तां चक्रुर्भागभुजिक्रियाम् ॥ २०.११ ॥ अहन्यहन्यनुप्राप्ते तौ च नागकुमारकौ । आजग्मतुर्मुदा युक्तौ प्रीत्या सूनोर्महीपतेः ॥ २०.१२ ॥ स च ताभ्यां नृपसुतः परं निर्वाणमाप्तवान् । विनोदैर्विविधैर्हास्यसंलापादिभिरेव च ॥ २०.१३ ॥ विना ताभ्यां न बुभुजे न सस्त्रौ न पपौ मधु । न रराम न जग्राह शास्त्राण्यात्मगुणर्धये ॥ २०.१४ ॥ रसातले च तौ रात्रिं विना तेन महात्मना । निश्वासपरमौ नीत्वा जग्मतुस्तं दिने दिने ॥ २०.१५ ॥ मर्त्यलोके परा प्रीतिर्भवतोः केन पुत्रकौ । सहेति पप्रच्छ पिता तावुभौ नागदारकौ ॥ २०.१६ ॥ दृष्टयोरत्र पाताले बहूनि दिवसानि मे । दिवा रजन्यामेवोभौ पश्यामि प्रियदर्शनौ ॥ २०.१७ ॥ जड उवाच इति पित्रा स्वयं पृष्टौ प्रणिपत्य कृताञ्जली । प्रत्यूचतुर्महाभागावुरगाधिपतेः सुतौ ॥ २०.१८ ॥ पुत्रावूचतुः पुत्रः शत्रुजितस्तात नाम्ना ख्यात ऋतध्वजः । रूपवानार्जवोपेतः शूरो मानी प्रियंवदः ॥ २०.१९ ॥ अनापृष्टकथो वाग्ग्मी विद्वान्मैत्रो गुणाकरः । मान्यमानयिता धीमान् ह्रीमान् विनयभूषणः ॥ २०.२० ॥ तस्योपचारसम्प्रीतिसम्बोगापहृतं मनः । नागलोके भुवर्लोके न रतिं विन्दते पितः ॥ २०.२१ ॥ तद्वियोगेन नस्तात ! न पातालञ्च शीतलम् । परितापाय तत्सङ्गादाह्लादाय रविर्दिवा ॥ २०.२२ ॥ पितोवाच पुत्रः पुण्यवतो धन्यः स यस्यैवं भविद्विधैः । परोक्षस्यापि गुणिभैः क्रियते गुणकीर्तनम् ॥ २०.२३ ॥ सन्ति शास्त्रविदोऽशीलाः सन्ति मूर्खाः सुशीलिनः । शास्त्रशीले समं मन्ये पुत्रौ धन्यतरन्तु तम् ॥ २०.२४ ॥ तस्य मित्रगुणान्मित्राण्यमित्राश्च पराक्रमम् । कथयन्ति सदा सत्सु पुत्रवांस्तेन वै पिता ॥ २०.२५ ॥ तस्योपकारिणः कच्चिद्भवद्भ्यामभिवाञ्छितम् । किञ्चिन्निष्पादितं वत्सौ परितोषाय चेतसः ॥ २०.२६ ॥ स धन्यो जीवितं तस्य तस्य जन्म सुजन्मनः । यस्यार्थिनो न विमुखा मित्रार्थो न च दुर्बलः ॥ २०.२७ ॥ मद्गृहे यद्सुवर्णादि रत्नं वाहनमासनम् । यच्चान्यत्प्रीतये तस्य तद्देयमविशङ्कया ॥ २०.२८ ॥ धिक्तस्य जीवितं पुंसो मित्राणामुपकारिणाम् । प्रतिरूपमकुर्वन् यो जीवामीत्यवगच्छति ॥ २०.२९ ॥ उपकारं सुहृद्वर्गे योऽपकारञ्च शत्रुषु । नृमेघो वर्षति प्राज्ञास्तस्येच्छन्ति सदोन्नतिम् ॥ २०.३० ॥ पुत्रावूचतुः किं तस्य कृतकृत्यस्य कर्तुं शक्येत केनचित् । यस्य सर्वार्थिनो गेहे सर्वकामैः सदार्च्चिताः ॥ २०.३१ ॥ यानि रत्नानि तद्गेहे पाताले तानि नः कुतः । वाहनासनयानानि भूषणान्यम्बराणि च ॥ २०.३२ ॥ विज्ञानं तत्र यच्चास्ति तदन्यत्र न विद्यते । प्राज्ञानामप्यसौ तात सर्वसन्देहहृत्तमः ॥ २०.३३ ॥ एकं तस्यास्ति कर्तव्यमसाध्यं तच्च नौ मतम् । हिरण्यगर्भगोविन्दशर्वादीनीश्वरादृते ॥ २०.३४ ॥ पितोवाच पथापि श्रोतुमिच्छामि तस्य यद्कार्यमुत्तमम् । असाध्यमथवा साध्यं किं वासाध्यं विपश्चिताम् ॥ २०.३५ ॥ देवत्वममरेशत्वं तत्पूज्यत्वञ्च मानवाः । प्रयान्ति वाञ्छितं वान्यद्दृढं ये व्यवसायिनः ॥ २०.३६ ॥ नाविज्ञातं न चागम्यं नाप्राप्यं दिवि चेह वा । उद्यतानां मनुष्याणां यतचित्तेन्द्रियात्मनाम् ॥ २०.३७ ॥ योजनानां सहस्राणि व्रजन् याति पितीलिकः । अगच्छन् वैनतेयोऽपि पादमेकं न गच्छति ॥ २०.३८ ॥ क्व भूतलं क्व च ध्रौव्यं स्थानं यत्प्राप्तवान् ध्रुवः । उत्तानपादनृपतेः पुत्रः सन् भूमिगोचरः ॥ २०.३९ ॥ तत्कथ्यतां महाभाग कार्यवान् येन पुत्रकौ । स भूपालसुतः साधुर्येनानृण्यं भवेत वाम् ॥ २०.४० ॥ पुत्रावूचतुः तेनाख्यातमिदं तात पूर्ववृतं महात्मना । कौमारके यथा तस्य वृतं सद्वृत्तशालिनः ॥ २०.४१ ॥ तन्तु शत्रुजितं तात पूर्वं कश्चिदिद्वजोत्तमः । गालवोऽभ्यागमद्धीमान् गृहीत्वा तुरगोत्तमम् ॥ २०.४२ ॥ प्रत्युवाच च राजानं समुपेत्याश्रमं मम । कोऽपि दैत्याधमो राजन् विध्वंसयति पापकृत् ॥ २०.४३ ॥ तत्तद्रूपं समास्थाय सिंहेभवनचारिणाम् । अन्येषाञ्चाल्पकायानामहर्निशमकारणात् ॥ २०.४४ ॥ समाधिध्यानयुक्तस्य मौनव्रतरतस्य च । तथा करोति विघ्रानि यथा चलति मे मनः ॥ २०.४५ ॥ दग्धं कोपाग्निना सद्यः समर्थस्त्वं वयं न तु । दुः खार्जितस्य तपसो व्ययमिच्छामि पार्थिव ॥ २०.४६ ॥ एकदा तु मया राजन्नतिनिर्विण्णचेतसा । तत्क्लेशितेन निश्वासो निरीक्ष्यासुरमुज्झितः ॥ २०.४७ ॥ ततोऽम्बरतलात्सद्यः पतितोऽयं तुरङ्गमः । वाक्चाशरीरिणी प्राह नरनाथ शृणुष्व ताम् ॥ २०.४८ ॥ अश्रान्तः सकलं भूमेर्वलयं तुरगोत्तमः । समर्थः क्रान्तुमर्केण तवायं प्रतिपादितः ॥ २०.४९ ॥ पातालाम्बरतोयेषु न चास्य विहता गतिः । समस्तदिक्षु व्रजतो न भङ्गः पर्वतेष्वपि ॥ २०.५० ॥ यतो भूवलयं सर्वमश्रान्तोऽयं चरिष्यति । अतः कुवलयो नाम्ना ख्यातिं लोके प्रयास्यति ॥ २०.५१ ॥ क्लिश्यत्यहर्निशं पापो यश्च त्वां दानवाधमः । तमप्येनं समारुह्य द्विजश्रेष्ठ हनिष्यति ॥ २०.५२ ॥ शत्रुजिन्नाम भूपालस्तस्य पुत्र ऋतध्वजः । प्राप्यैतदश्वरत्नञ्च ख्यातिमेतेन यास्यति ॥ २०.५३ ॥ सोऽहं त्वां समनुप्राप्तस्तपसो विघ्रकारिणम् । तं निवारय भूपाल भागभाङ्नृपतिर्यतः ॥ २०.५४ ॥ तदेतश्वरत्नं ते मया भूप निवेदितम् । पुत्रमाज्ञापय तथा यथा धर्मो न लुप्यते ॥ २०.५५ ॥ स तस्य वचनाद्राजा तं वै पुत्रमृतध्वजम् । तमश्वरत्नमारोप्य कृतकौतुकमङ्गलम् ॥ २०.५६ ॥ अप्रेषयत धर्मात्मा गालवेन समं तदा । स्वमाश्रमपदं सोऽपि तमादाय ययौ मुनिः ॥ २०.५७ ॥ इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादेठकुवलयाश्वीयोऽ नाम विंशोऽध्यायः _____________________________________________________________ एकविंशोऽध्यायः पितोवाच गालवेन समं गत्वा नृपपुत्रेण तेन यत् । कृतं तत्कथ्यतां पुत्रौ विचित्रा युवयोः कथा ॥ २१.१ ॥ पुत्रावूचतुः स गालवाश्रमे रम्ये तिष्ठन् भूपालनन्दनः । सर्वविघ्रोपशमनं चकार ब्रह्मवादिनाम् ॥ २१.२ ॥ वीरं कुवलयाश्वं तं वसन्तं गालवाश्रमे । मदावलेपोपहतो नाजानाद्दानवाधमः ॥ २१.३ ॥ ततस्तं गालवं विप्रं सन्ध्योपासनतत्परम् । शौकरं रूपमास्थाय प्रधर्षयितुमागतम् ॥ २१.४ ॥ मुनिशिष्यैरथोत्क्रुष्टे शीघ्रमारुह्य तं हयम् । अन्वधावद्वराहं तं नृपपुत्रः शरासनी ॥ २१.५ ॥ आजघान च बाणेन चन्द्रार्धाकारवर्चसा । आकृष्य बलवच्चापं चारुचित्रोपशोभितम् ॥ २१.६ ॥ नाराचाभिहतः शीघ्रमात्मत्राणपरो मृगः । गिरिपादपसम्बाधां सोऽन्वक्रामन्महाटवीम् ॥ २१.७ ॥ तमन्वधावद्वेगेन तुरगोऽसौ मनोजवः । चोदितो राजपुत्रेण पितुरादेशकारिणा ॥ २१.८ ॥ अतिक्रम्याथ वेगेन योजनानि सहस्रशः । धरण्यां विवृते गर्ते निपपात लघुक्रमः ॥ २१.९ ॥ तस्यानन्तरमेवाशु सोऽप्यश्वी नृपतेः सुतः । निपपात महागर्ते तिमिरौघसमावृते ॥ २१.१० ॥ ततो नादृश्यत मृगः स तस्मिन् राजसूनुना । प्रकाशञ्च स पातालमपश्यत्तत्र नापि नम् ॥ २१.११ ॥ ततोऽपश्यत्स सौवर्णप्रासादशतसंकुलम् । पुरन्दरपुरप्रख्यं पुरं प्राकारशोभितम् ॥ २१.१२ ॥ तत्प्रविश्य स नापश्यत्तत्र कञ्चिन्नरं पुरे । भ्रमता च ततो दृष्टा तत्र योषित्त्वरान्विता ॥ २१.१३ ॥ सा पृष्टा तेन तन्वङ्गी प्रस्थिता केन कस्य वा । नोवाच किञ्चित्प्रासादमारुरोह च भामिनी ॥ २१.१४ ॥ सोऽप्यश्वमेकतो बद्ध्वा तामेवानुससार वै । विस्मयोत्फुल्लनयनो निः शङ्को नृपतेः सुतः ॥ २१.१५ ॥ ततोऽपश्यत्सुविस्तीर्णे पर्यङ्के सर्वकाञ्चने । निषण्णां कन्यकामेकां कामयुक्तां रतीमिव ॥ २१.१६ ॥ विस्पष्टेन्दुमुखीं सुभ्रूं पीनश्रोणिपयोधराम् । बिम्बाधरोष्ठीं नन्वङ्गीं नीलोत्पलविलोचनाम् ॥ २१.१७ ॥ रक्ततुङ्गनखीं श्यामां मृद्वीं ताम्रकराङ्घ्रिकाम् । करभोरुं सुदशनां नीलसूक्ष्मस्थिरालकाम् ॥ २१.१८ ॥ तां दृष्ट्वा चारुसर्वाङ्गीमनङ्गाङ्गलतामिव । सोऽमन्यत्पार्थिवसुतस्तां रसातलदेवताम् ॥ २१.१९ ॥ सा च दृष्ट्वैव तं बाला नीलकुञ्चितमूर्धजम् । पीनोरुस्कन्धबाहुं तममंस्त मदनं शुभा ॥ २१.२० ॥ उत्तस्थौ च महाभागा चित्तक्षोभमवाप्य सा । लज्जाविस्मयदैन्यानां सद्यस्तन्वी वशं गता ॥ २१.२१ ॥ कोऽयं देवो नु यक्षो वा गन्धर्वो वोरगोऽपि वा । विद्याधरो वा सम्प्राप्तः कृतपुण्यरतिर्नरः ॥ २१.२२ ॥ एवं विचिन्त्य वहुधा निश्वस्य च महीतले । उपविश्य ततो भेजे सा मूर्च्छां मदिरक्षणा ॥ २१.२३ ॥ सोऽपि कामशराघातमवाप्य नृपतेः सुतः । तां समाश्वासयामास न भेतव्यमिति ब्रुवन् ॥ २१.२४ ॥ सा च स्त्री या तदा दृष्टा पूर्वं तेन महात्मना । तालवृन्तमुपादाय पर्यवीजयदाकुला ॥ २१.२५ ॥ समाश्वास्य तदा पृष्टा तेन संमोहकारणम् । किञ्चिल्लज्जान्विता बाला तस्याः सख्युर्न्यवेदयत् ॥ २१.२६ ॥ सा चास्मै कथयामास नृपपुत्राय विस्तरात् । मोहस्य कारणं सर्वं तद्दर्शनसमुद्भवम् । यथा तया समाख्यातं तद्वृत्तान्तञ्च भामिनी ॥ २१.२७ ॥ स्त्र्युवाच विश्वावसुरिति ख्यातो दिवि गन्धर्वराट्प्रभो । तस्येयमात्मजा सुभ्रूर्नाम्नरा ख्याता मदालसा ॥ २१.२८ ॥ वज्रकेतोः सुतश्चोग्रो दानवोऽरिविदारणः । पातालकेतुर्विख्यातः पातालान्तरसंश्रयः ॥ २१.२९ ॥ तेनेयमुद्यानगता कृत्वा मायां तमोमयीम् । अपहृत्य मयां हीना बाला नीता दुरात्मना ॥ २१.३० ॥ आगामिन्यां त्रयोदश्यामुद्वक्ष्यति किलासुरः । स तु नार्हति चार्वङ्गीं शूद्रो वेदश्रुतीमिव ॥ २१.३१ ॥ अतीते च दिने बालामात्मव्यापदनोद्यताम् । सुरभिः प्राह नायं त्वं प्राप्स्यते दानवाधमः ॥ २१.३२ ॥ मर्त्यलोकमनुप्राप्तं य एनं छेत्स्यते शरैः । सते भर्ता महाभागे अचिरेण भविष्यति ॥ २१.३३ ॥ अहं चास्याः सखी नाम्नरा कुण्डलेति मनस्विनी । सुता विन्ध्यवतः पत्नी वीरपुष्करमालिनः ॥ २१.३४ ॥ हते भर्तरि शुम्भेन तीर्थात्तीर्थमनुव्रता । चरामि दिव्यया गत्या परलोकार्थमुद्यता ॥ २१.३५ ॥ पातालकेतुर्दुष्टात्मा वाराहं वपुरास्थितः । केनापि विद्धो बाणेन मुनीनां त्राणकारणात् ॥ २१.३६ ॥ तञ्चाहं तत्त्वतोऽन्विष्य त्वरिता समुपागता । सत्यमेव स केनापि ताडितो दानवाधमः ॥ २१.३७ ॥ इयञ्च मूर्च्छामगमत्कारणं यत्शृणुष्व तत् । त्वयि प्रीतिमती बाला दर्शनादेव मानद ॥ २१.३८ ॥ देवपुत्रोपमे चारुवाक्यादिगुणशालिनि । भर्या चान्यस्य विहिता येन विद्धः स दानवः ॥ २१.३९ ॥ एतस्मात्कारणान्मोहं महान्तमियमागता । यावज्जीवं च तन्वङ्गी दुः खमेवोपभोक्ष्यते ॥ २१.४० ॥ त्वय्यस्या हृदयं रागि भर्ता चान्यो भविष्यति । यावज्जीवमतो दुः खं सुरभ्या नान्यथा वचः ॥ २१.४१ ॥ अहं त्वस्याः प्रभी प्रीत्या दुः खितात्र समागता । यतो विशेषो नैवास्ति स्वसखीनिजदेहयोः ॥ २१.४२ ॥ यद्येषाभिमतं वीरं पतिमाप्नोति शोभना । ततस्तपस्त्वहं कुर्यां निर्व्यलीकेन चेतसा ॥ २१.४३ ॥ त्वन्तु को वा किमर्थं वा सम्प्राप्तोऽत्र महामते । देवो दैत्यो नु गन्धर्वः पन्नगः किन्नरोऽपि वा ॥ २१.४४ ॥ न ह्यत्र मानुषगतिर्न चेदृङ्मानुषं वपुः । तत्त्वमाख्याहि कथितं यथैवावितथं मया ॥ २१.४५ ॥ कुवलयाश्व उवाच यन्मां पृच्छसि धर्मज्ञे कस्त्वं किं वा समागतः । तच्छृणुष्वामलप्रज्ञे कथयाम्यादितस्तव ॥ २१.४६ ॥ राज्ञः शत्रुजितः पुत्रः पित्रा सम्प्रेषितः शुभे । मुनिरक्षणमुद्दिश्य गालवाश्रममागतः ॥ २१.४७ ॥ कुर्वतो मम रक्षाञ्च मुनीनां धर्मचारिणाम् । विघ्नार्थमागतः कोषऽपि शौकरं रूपमास्थितः ॥ २१.४८ ॥ मया स विद्धो बाणेन चन्द्रार्धाकारवर्च्चसा । अपक्रान्तोऽतिवेगेन तमस्म्यनुगतो हयी ॥ २१.४९ ॥ पपात सहसा गर्ते सक्रीडोऽश्वश्च मामकः । सोऽहमश्वं समारूढस्तमस्येकः परिभ्रमन् ॥ २१.५० ॥ प्रकाशमासादितवान् दृष्टा च भवती मया । पृष्टया च न मे किञ्चिद्भवत्या दत्तमुत्तरम् ॥ २१.५१ ॥ त्वाञ्चैवानुप्रविष्टोऽहमिमं प्रासादमुत्तमम् । इत्येतत्कथितं सत्यं न देवोऽहं न दानवः ॥ २१.५२ ॥ न पन्नगो न गन्धर्वः किन्नरो वा शुचिस्मिते । समस्ता पूज्यपक्षो वै देवाद्या मम कुण्डले । मनुष्योऽस्मि विशङ्का ते न कर्तव्यात्र कर्हिचित् ॥ २१.५३ ॥ पुत्रावूचतुः ततः प्रहृष्टा सा कन्या सखीवदनमुत्तमम् । लज्जाजडं वीक्षमाणा किञ्चिन्नोवाच भामिनी ॥ २१.५४ ॥ सा सखी पुनरप्येनां प्रहृष्टा प्रत्युवाच ह । यथावत्कथितं तेन सुरभ्या वचनानुगे ॥ २१.५५ ॥ कुण्डलोवाच वीर सत्यमसन्दिग्धं भवताभिहितं वचः । नान्यत्र हृदयन्त्वस्या दृष्ट्वा स्थैर्यं प्रयास्यति ॥ २१.५६ ॥ चन्द्रमेवाधिका कान्तिः समुपैति रविं प्रभा । भूतिर्धन्यं धृतिर्धोरं क्षान्तिरभ्येति चोत्तमम् ॥ २१.५७ ॥ त्वयैव विद्धोऽसन्दिग्धं स पापो दानवाधमः । सुरभिः सा गवां माता कथं मिथ्या वदिष्यति ॥ २१.५८ ॥ तद्धन्येयं सभाग्या च त्वत्सम्बन्धं समेत्य वै । कुरुष्व वीर यत्कार्यं विधिनैव समाहितम् ॥ २१.५९ ॥ पुत्रावूचतुः परवानहमित्याह राजपुत्रः सतां पितुः । सा च तं चिन्तयामास तुम्बुरुं तत्कुले गुरुम् ॥ २१.६० ॥ स चापि तत्क्षणात्प्राप्तः प्रगृहीतसमित्कुशः । मदालसायाः सम्प्रीत्या कुण्डलागौरवेण च ॥ २१.६१ ॥ प्रज्वाल्य पावकं हुत्वा मन्त्रवित्कृतमङ्गलाम् । वैवाहिकविधिं कन्यां प्रतिपाद्य यथागतम् ॥ २१.६२ ॥ जगाम तपसे धीमान् स्वाश्रमपदं तदा । सा चाह तां सखीं बालां कृतार्थास्मि वरानने ॥ २१.६३ ॥ संयुक्ताममुना दृष्ट्वा त्वामहं रूपशालिनीम् । तमस्तप्स्येऽहमतुलं निर्व्यलीकेन चेतसा ॥ २१.६४ ॥ तीर्थाम्बुधूतपापा च भवित्री नेदृशी यथा । तञ्चाह राजपुत्रं सा प्रश्रयावनता तदा । गन्तुकामा निजसखीस्नेहविक्लवभाषिणी ॥ २१.६५ ॥ कुण्डलोवाच पुंभिरप्यमितप्रज्ञ नोपदेशो भवद्विधे । दातव्यः किमुत स्त्रीभिरतो नोपदिशामि ते ॥ २१.६६ ॥ किन्त्वस्यास्तनुमध्यायाः स्नेहाकृष्टेन चेतसा । त्वया विश्रम्भिता चास्मि स्मारयाम्यरिसूदन ॥ २१.६७ ॥ भर्तव्या रक्षितव्या च भार्या हि पतिना सदा । धर्मार्थकामसंसिद्ध्यै भार्या भर्तृसहायिनी ॥ २१.६८ ॥ यदा भार्या च भर्ता च परस्परवशानुगौ । तदा धर्मार्थकामानां त्रयाणामपि सङ्गतम् ॥ २१.६९ ॥ कथं भार्यामृते धर्ममर्थं वा पुरुषः प्रभो । प्राप्नोति काममथवा तस्यां त्रितयमाहितम् ॥ २१.७० ॥ तथैव भर्तारमृते भार्या धर्मादिसाधने । न समर्था त्रिवर्गोऽयं दाम्पत्यं समुपाश्रितः ॥ २१.७१ ॥ देवातापितृभृत्यानामतिथीनाञ्च पूजनम् । न पुंभिः शक्यते कर्तुमृते भार्यां नृपात्मज ॥ २१.७२ ॥ प्राप्तोऽपि चार्थो मनुजैरानीतोऽपी निजं गृहम् । क्षयमेति विना भार्यां कुभार्यासंश्रयेऽपि वा ॥ २१.७३ ॥ कामस्तु तस्य नैवास्ति प्रत्यक्षेणोपलक्ष्यते । दम्पत्योः सहधर्मेण त्रयीधर्ममवाप्नुयात् ॥ २१.७४ ॥ पितॄन् पुत्रैस्तथैवान्नसाधनैरतिथीन्नरः । पूजाभिरमरांस्तद्वत्साध्वीं भार्यां नरोऽवति ॥ २१.७५ ॥ स्त्रियाश्चापि विना भर्त्रा धर्मकामार्थसन्ततिः । नैव तस्मात्त्रिवर्गोऽयं दाम्पत्यमधिगच्छति ॥ २१.७६ ॥ एतन्मयोक्तं युवयोर्गच्छामि च यथेप्सितम् । वर्ध त्वमनया सार्धं धनपुत्रसुखायुषा ॥ २१.७७ ॥ पुत्रावूचतुः इत्युक्त्वा सा परिष्वज्य स्वसखीं तं नमस्य च । जगाम दिव्यया गत्या यथाभिप्रेतमात्मनः ॥ २१.७८ ॥ सोऽपि शत्रुजितः पुत्रस्तामारोप्य तुरङ्गमम् । निर्गन्तुकामः पातालाद्विज्ञातो दनुसम्भवैः ॥ २१.७९ ॥ ततस्तैः सहसोत्क्रुष्टं ह्रियते ह्रियतेऽति वै । कन्यारत्नं यदानीतं दिवः पातालकेतुना ॥ २१.८० ॥ ततः परिघनिस्त्रिंशगदाशूलशरायुधम् । दानवानां बलं प्राप्तं सह पातालकेतुना ॥ २१.८१ ॥ तिष्ठ तिष्ठेति जल्पन्तस्ते तदा दानवोत्तमाः । शरवर्षैस्तथा शूलैर्ववर्षुर्नृपनन्दनम् ॥ २१.८२ ॥ स च शत्रुजितः पुत्रस्तदस्त्राण्यतिवीर्यवान् । चिच्छेद शरजालेन प्रहसन्निव लीलया ॥ २१.८३ ॥ क्षणेन पातालतलमसिखक्त्यृष्टिशायकैः । छिन्नैः सञ्छन्नमभवदृतध्वजशरोत्करैः ॥ २१.८४ ॥ ततोऽस्त्रं त्वाष्ट्रमादाय चिक्षेप प्रति दानवान् । तेन ते दानवाः सर्वे सह पातालकेतुना ॥ २१.८५ ॥ ज्वालामालातितीव्रेण स्फुटदस्थिचयाः कृताः । निर्दग्धाः कापिलं तेजः समासाद्येव सागराः ॥ २१.८६ ॥ ततः स राजपुत्रोऽश्वी निहत्यासुरसत्तमान् । स्त्रीरत्नेन समं तेन समागच्छत्पितुः पुरम् ॥ २१.८७ ॥ प्रणिपत्य च तत्सर्वं स तु पित्रे न्यवेदयत् । पातालगमनञ्चैव कुण्डलायाश्च दर्शनम् ॥ २१.८८ ॥ तद्वन्मदालसाप्राप्तिं दानवैश्चापि सङ्गरम् । वधञ्च तेषामस्त्रेण पुनरागमनं तथा ॥ २१.८९ ॥ इति श्रुत्वा पिता तस्य चरितं चारुचेतसः । प्रीतिमानभवच्चेदं परिष्वज्याह चात्मजम् ॥ २१.९० ॥ सत्पात्रेण त्वया पुत्र तारितोऽहं महात्मना । भयेभ्यो मुनयस्त्राता येन सद्धर्मचारिणः ॥ २१.९१ ॥ मत्पूर्वैः ख्यातिमानीतं मया विस्तारितं पुनः । पराक्रमवता वीर त्वया तद्वहुलीकृतम् ॥ २१.९२ ॥ यदुपात्तं यशः पित्रा धनं वीर्यमथापि वा । तन्न हापयते यस्तु स नरो मध्यमः स्मृतः ॥ २१.९३ ॥ तद्वीर्यादधिकं यस्तु पुनरन्यत्स्वशक्तितः । निष्पादयति तं प्राज्ञाः प्रवदन्ति नरोत्तमम् ॥ २१.९४ ॥ यः पिता समुपात्तानि धनवीर्ययशांसि वै । न्यूनतां नयति प्राज्ञास्तमाहुः पुरुषाधमम् ॥ २१.९५ ॥ तन्मया ब्राह्मणत्राणं कृतमासीद्यथा त्वया । पातालगमनं यच्च यच्चासुरविनाशनम् ॥ २१.९६ ॥ एतदप्यधिकं वत्स तेन त्वं पुरुषोत्तमः । तद्धन्योऽस्म्य बाल त्वमहमेव गुणाधिकम् ॥ २१.९७ ॥ त्वां पुत्रमीदृशं प्राप्य श्लाघ्यः पुण्यवतामपि । न स पुत्रकृतां प्रीतिं मन्ये प्राप्नोति मानवः ॥ २१.९८ ॥ पुत्रेण नातिशयितो यः प्रज्ञादानविक्रमैः । धिग्जन्म तस्य यः पित्रा लोके विज्ञायते नरः ॥ २१.९९ ॥ यः पुत्रात्ख्यातिमभ्येति तस्य जन्म सुजन्मनः । आत्मना ज्ञायते धन्यो मध्यः पितृपितामहैः ॥ २१.१०० ॥ मातृपक्षेण मात्रा च ख्यातिमेति नराधमः । तत्पुत्र धनवीर्यैस्त्वं विवर्धस्व सुखेन च ॥ २१.१०१ ॥ घन्धर्वतनया चेयं मा त्वया वै वियुज्यताम् । इति पित्रा बहुविधं प्रियमुक्तः पुनः पुनः ॥ २१.१०२ ॥ परिष्वज्य स्वमावासं सभार्यः स विसर्जितः । स तया भार्याया सार्धं रेमे तत्र पितुः पुरे ॥ २१.१०३ ॥ अन्येषु च तथोद्यानवनपर्वतसानुषु । श्वश्रूश्वसुरयोः पादौ प्रणिपत्य च सा शुभा । प्रातः प्रातस्ततस्तेन सह रेमे सुमध्यमा ॥ २१.१०४ ॥ इति श्रीमार्कण्डेयपुराणे कुवलयाश्वीये मदालसापरिणयनं नामैकविंशोऽध्यायः _____________________________________________________________ द्वाविंशोऽध्यायः पुत्रावूचतुः ततः काले वहुतिथे गते राजा पुनः सुतम् । प्राह गच्छाशु विप्राणां त्राणाय चर मेदिनीम् ॥ २२.१ ॥ अश्वमेनं समारुह्य प्रातः प्रातर्दिने दिने । अबाधा द्विजमुख्यानामन्वेष्टव्या सदैव हि ॥ २२.२ ॥ दुर्वृत्ताः सन्ति शतशो दानवाः पापयोनयः । तेभ्यो न स्याद्यथा बाधा मुनीनां त्वं तथा कुरु ॥ २२.३ ॥ स यथोक्तस्ततः पित्रा तथा चक्रे नृपात्मजः । परिक्रम्य महीं सर्वां ववन्दे चरणौ पितुः ॥ २२.४ ॥ अहन्यहन्यनुप्राप्ते पूर्वाह्ने नृपनन्दनः । ततश्च शेषं दिवसं तया रेमे सुमध्यया ॥ २२.५ ॥ एकदा तु चारन् सोऽथ ददर्श यमुनातटे । पातालकेतोरनुजं तालकेतुं कृताश्रमम् ॥ २२.६ ॥ मायावी दानवः सोऽथ मुनिरूपं समास्थितः । स प्राह राजपुत्रं तं पूर्ववैरमनुस्मरन् ॥ २२.७ ॥ राजपुत्र ब्रीवीमि त्वां तत्कुरुष्व यदीच्छसि । न च ते प्रार्थनाभङ्गः कार्यः सत्यप्रतिश्रव ॥ २२.८ ॥ यक्ष्ये यज्ञेन धर्माय कर्तव्याश्च तथेष्टयः । चितयस्तत्र कर्तव्या नास्ति मे दक्षैणा यतः ॥ २२.९ ॥ अतः प्रयच्छ मे वीर हिरण्यार्थं स्वभूषणम् । यदेतत्कण्ठलग्नं ते रक्ष चेमं माश्रमम् ॥ २२.१० ॥ यावदन्तर्जले देवं वरुणं यादसां पतिम् । वैदिकैर्वारुणैर्मन्त्रैः प्रजानां पुष्टिहेतुकैः ॥ २२.११ ॥ अभिष्टूय त्वरायुक्तः समभ्येमीति वादिनम् । तं प्रणम्य ततः प्रादात्स तस्मै कण्ठभूषणम् ॥ २२.१२ ॥ प्राह यैनं भवान् यातु निर्व्यलीकेन चेतसा । स्थास्यामि तावदत्रैव तवाश्रमसमीपतः ॥ २२.१३ ॥ तवादेशान्महाभाग यावदागमनं तव । न तेऽत्र कश्चिदाबाधां करिष्यति मयि स्थिते । विश्रब्धश्चात्वरन् ब्रह्मन् कुरुष्व त्वं मनोगतम् ॥ २२.१४ ॥ पुत्रावूचतुः एकमुक्तस्ततस्तेन स ममज्ज नदीजले । ररक्ष सोऽपि तस्यैव मायाविहितमाश्रमम् ॥ २२.१५ ॥ गत्वा जलाशयात्तस्मात्तालकेतुश्च तत्परम् । मदालसायाः प्रत्यक्षमन्येषाञ्चैतदुक्तवान् ॥ २२.१६ ॥ तालकेतुरुवाच वीरः कुवलयाश्वोऽसौ ममाश्रमसमीपतः । केनापि दुष्टदैत्येन कुर्वन् रक्षां तपस्विनाम् ॥ २२.१७ ॥ युध्यमानो यथाशक्ति निघ्नन् ब्रह्मद्विषो युधि । मायामाश्रित्य पापेन भिन्नः शूलेन वक्षसी ॥ २२.१८ ॥ म्रियमाणेन तेनेदं दत्तं मे कण्ठभूषणम् । प्रापितश्चाग्निसंयोगं स वने शूद्रतापसैः ॥ २२.१९ ॥ कृतार्तह्रेषाशब्दो वै त्रस्तः साश्रुविलोचनः । नीतः सोऽश्वश्च तेनैव दानवेन दुरात्मना ॥ २२.२० ॥ एतन्मया नृशंसेन दृष्टं दुष्कृतकारिणा । यदत्रानन्तरं कृत्यं क्रियतां तदकालिकम् ॥ २२.२१ ॥ हृदयाश्वासनञ्चैतद्गृह्यतां कण्ठभूषणम् । नास्माकं हि सुवर्णेन कृत्यमस्ति तपस्विनाम् ॥ २२.२२ ॥ पुत्रावूचतुः इत्युक्त्वोत्सृज्य दत्भूमौ स जगाम यथागतम् । निपपात जनः सोऽथ शोकार्तो मूर्च्छयाऽतुरः ॥ २२.२३ ॥ तत्क्षणात्चेतनां प्राप्य सर्वास्ता नृपयोषितः । राजपत्न्यश्च राजा च विलेपुरतिदुः खिताः ॥ २२.२४ ॥ मदालसा तु द्दृष्ट्वा तदीयं कण्ठभूषणम् । तत्याजाशु प्रियान् प्राणान् श्रुत्वा च निहन्त पतिम् ॥ २२.२५ ॥ ततस्तथा महाक्रन्दः पौराणां भवनेष्वभूत् । यथैव तस्य नृपतेः स्वगेहे समवर्तत ॥ २२.२६ ॥ राजा च तां मृतां दृष्ट्वा विना भर्त्रा मदालसाम् । प्रत्युवाच जनं सर्वं विमृश्य सुस्थमानसः ॥ २२.२७ ॥ न रोदितव्यं पश्यामि भवतामात्मनस्तथा । सर्वेषामेव संचिन्त्य सम्बन्धानामनित्यताम् ॥ २२.२८ ॥ किन्नु शोचामि तनयं किन्नु शोचाम्यहं स्नुषाम् । विमृश्य कृतकृत्यत्वाम्नम्येऽशोच्यावुभावपि ॥ २२.२९ ॥ मच्छ्रु श्रुपुर्मद्वचनाद्द्विजरक्षणतत्परः । प्राप्तो मे यः सुतो मृत्युं कथं शोच्यः स धीमताम् ॥ २२.३० ॥ अवश्यं याति यद्देहं तद्द्विजानां कृते यदि । मम पुत्रेण संत्यक्तं नन्वभ्युदयकारि तत् ॥ २२.३१ ॥ इयञ्च सत्कुलोत्पन्ना भर्तर्येवमनुव्रतां । कथन्नु शोच्या नारीणां भर्तुरन्यन्न दैवतम् ॥ २२.३२ ॥ अस्माकं बान्धवानाञ्च तथान्येषां दयावताम् । शोच्या ह्येषा भवेदेवं यदि भर्त्रा वियोगिनी ॥ २२.३३ ॥ या तु भर्तुर्वधं श्रुत्वा तत्क्षणादेव भामिनी । भर्तारमनुयातेयं न शोच्यातो विपश्चिताम् ॥ २२.३४ ॥ ताः शोच्या या वियोगिन्यो न शोच्या या मृताः सह । भर्त्रा वियोगस्त्वनया नानुभूतः कृतज्ञया ॥ २२.३५ ॥ दातारं सर्वसौख्यानामिह चामुत्र चोभयोः । लोकयोः का हि भर्तारं नारी मन्येत मानुषम् ॥ २२.३६ ॥ नासौ शोच्यो न चैवेयं नाहं तज्जननी न च । त्यजता ब्राह्मणार्थाय प्राणान् सर्वे स्म तारिताः ॥ २२.३७ ॥ विप्राणं मम धर्मस्य गतः स हि महामतिः । आनृण्यमर्धभुक्तस्य त्यागाद्देहस्य मे सुतः ॥ २२.३८ ॥ मातुः सतीत्वं मद्वंशवैमल्यं शौर्यमात्मनः । संग्रामे संत्यजन् प्राणान्नात्यजद्द्विजरक्षणम् ॥ २२.३९ ॥ पुत्रावूचतुः ततः कुवलयाश्वस्य माता भर्तुरनन्तरम् । श्रुत्वा पुत्रवधं तादृक्प्राह दृष्ट्वा तु तं पतिम् ॥ २२.४० ॥ मातोवाच न मे मात्रा न मे स्वस्त्रा प्राप्ता प्रीतिर्नृपेदृशी । श्रुत्वा मुनिपरित्राणे हतं पुत्रं यथा मया ॥ २२.४१ ॥ शोचतां बान्धवानां ये निः श्वसन्तोऽतिदुः खिताः । म्रियन्ते व्याधिना क्लिष्टास्तेषां माता वृथाप्रजा ॥ २२.४२ ॥ संग्रामे युध्यमाना येऽभीता गोद्विजरक्षणे । क्षुण्णाः शस्त्रैर्विपद्यन्ते त एव भुवि मानवाः ॥ २२.४३ ॥ अर्थिनां मित्रवर्गस्य विद्विषाञ्च पराङ्मुखः । यो न याति पिता तेन पुत्री माता च वीरसूः ॥ २२.४४ ॥ गर्भक्लेशः स्त्रियो मन्ये साफल्यं भजते तदा । यदारिविजयी वा स्यात्संग्रामे वा हतः सुतः ॥ २२.४५ ॥ पुत्रावूचतुः ततः स राजा संस्कारं पुत्रपत्नीमलम्भयत् । निर्गम्य च बहिः स्नातो ददौ पुत्राय चोदकम् ॥ २२.४६ ॥ तालकेतुश्च निर्गम्य तथैव यमुनाजलात् । राजपुत्रमुवाचेदं प्रणयान्मधुरं वचः ॥ २२.४७ ॥ गच्छ भूपालपुत्र ! त्वं कृतार्थोऽहं कृतस्त्वया । कार्यं चिराभिलषितं त्वय्यत्राविचले स्थिते ॥ २२.४८ ॥ वारुणं यज्ञकार्यञ्च जलेशस्य महात्मनः । तन्मया साधितं सर्वं यन्ममासीदभीप्सितम् ॥ २२.४९ ॥ प्रणिपत्य स तं प्रायाद्राजपुत्रः पुरं पितुः । समारुह्य तमेवाश्वं सुपर्णानिलविक्रमम् ॥ २२.५० ॥ इति श्रीमार्कण्डेयपुराणे कुवलयाश्वीये मदालसावियोगो नाम द्वाविंशोऽध्यायः _____________________________________________________________ त्रयोविंशोऽध्यायः पुत्रावूचतुः स राजपुत्रः संप्राप्य वेगादात्मपुरं ततः । पित्रोर्ववन्दिषुः पादौ दिदृक्षुश्च मदालसाम् ॥ २३.१ ॥ ददर्श जनमुद्विग्नमप्रहृष्टमुखं पुरः । पुनश्च विस्मिताकारं प्रहृष्टवदनं ततः ॥ २३.२ ॥ अन्यमुत्फुल्लनयनं दिष्ट्या दिष्ट्येतिवादिनम् । परिष्वजन्तमन्योन्यमतिकौतूहलान्वितम् ॥ २३.३ ॥ चिरं जीवोरुकल्याण ! हतास्ते परिपन्थिनः । पित्रोः प्रह्लादय मनस्तथास्माकमकण्टकम् ॥ २३.४ ॥ पुत्रावूचतुः इत्येवं वादिभिः पौरैः पुरः पृष्ठे च संवृतः । तत्क्षणप्रभवानन्दः प्रविवेश पितुर्गृहम् ॥ २३.५ ॥ पिता च तं परिष्वज्य माता चान्ये च बान्धवाः । चिरं जीवेति कल्याणीर्ददुस्तस्मै तदाशिषः ॥ २३.६ ॥ प्रणिपत्य ततः सोऽथ किमेतदिति विस्मितः । पप्रच्छ पितरं तात ! सोऽस्मै सम्यक्तदुक्तवान् ॥ २३.७ ॥ स भार्यां तां मृतां श्रुत्वा हृदयेष्टां मदालसाम् । पितरौ च पुरो दृष्ट्वा लज्जाशोकाब्धिमध्यगः ॥ २३.८ ॥ चिन्तयामास सा बाला मां श्रुत्वा निधनं गतम् । तत्याज जीवितं साध्वी धिङ्मां निष्ठुरमानसम् ॥ २३.९ ॥ नृशंसोऽहमनार्योऽहं विना तां मृगलोचनाम् । मत्कृते निधनं प्राप्तां यज्जीवाम्यतिनिर्घृणः ॥ २३.१० ॥ पुनः स चिन्तयामास परिसंस्तभ्य मानसम् । मोहोद्गममपास्याशु निः श्वस्योच्छवस्य चातरः ॥ २३.११ ॥ मृतेति सा मन्नमित्तं त्यजामि यदि जीवितम् । किं मयोपकृतं तस्याः श्लाघ्यमेतत्तु योषिताम् ॥ २३.१२ ॥ यदि रोदिमि वा दीनो हा प्रियेति ! वदन्मुहुः । तथाप्यश्लाघ्यमेतन्नो वयं हि पुरुषाः किल ॥ २३.१३ ॥ अथ शोकजडो दीनो स्त्रजा हीनो मलान्वितः । विपक्षस्य भविष्यामि ततः परिभवास्पदम् ॥ २३.१४ ॥ मयारिशातनं कार्यं राज्ञः शुश्रुषणं पितुः । जीवितं तस्य चायत्तं सन्त्याज्यं तत्कथं मया ॥ २३.१५ ॥ किन्त्वत्र मन्ये कर्तव्यस्त्यागो भागस्य योषितः । स चापि नोपकाराय तन्वङ्ग्याः किन्तु सर्वथा ॥ २३.१६ ॥ मया नृशंस्यं कर्तव्यं नोपकार्यपकारि च । या मदर्थेऽत्यजत्प्राणांस्तदर्थेऽल्पमिदं मम ॥ २३.१७ ॥ पुत्रावूचतुः इति कृत्वा मतिं सोऽथ निष्पाद्योदकदानिकम् । क्रियाश्चानन्तरं कृत्वा प्रत्युवाच ऋतध्वजः ॥ २३.१८ ॥ ऋतध्वज उवाच यदि सा मम तन्वङ्गी न स्याद्भार्या मदालसा । अस्मिन् जन्मनि नान्या मे भवित्री सहचारिणी ॥ २३.१९ ॥ तामृते मृगशावाक्षीं गन्धर्वतनयामहम् । न भोक्ष्ये योषितं काञ्चिदिति सत्यं मयोदितम् ॥ २३.२० ॥ सद्धर्मचारिणीं पत्नीं तां मुक्त्वा गजगामिनीम्,। काञ्चिन्नाङ्गीकरिष्यामीत्येतत्सत्यं मयोदितम् ॥ २३.२१ ॥ पुत्रावूचतुः परित्यज्य च स्त्रीभोगान् तात ! सर्वंस्तया विना । क्रीडन्नास्ते समं तुल्यैर्वयस्यैः शीलसम्पदा ॥ २३.२२ ॥ एतत्तस्य परं कार्यं तात ! तत्केन शक्यते । कर्तुमत्यर्थदुष्प्राप्यमीश्वरैः किमुतेतरैः ॥ २३.२३ ॥ जड उवाच इति वाक्यं तयोः श्रुत्वा विमर्शमगमत्पिता । विमृश्य चाह तौ पुत्रौ नागराट्प्रहसन्निव ॥ २३.२४ ॥ नागराडश्वतर उवाच यद्यशक्यमिति ज्ञात्वा न करिष्यन्ति मानवाः । कर्मण्युद्यममुद्योगहान्या हानिस्ततः परम् ॥ २३.२५ ॥ आरभेत नरः कर्म स्वपौरुषमहापयन् । निष्पत्तिः कर्मणो दैवे पौरुषे च व्यवसथिता ॥ २३.२६ ॥ तस्मादहं तथा यत्नं करिष्ये पुत्रकावितः । तपश्चर्यां समास्थाय यथैतत्साध्यतेऽचिरात् ॥ २३.२७ ॥ जड उवाच एवमुक्त्वा स नागेन्द्रः प्लक्षावतरणं गिरेः । तीर्थं हिमवतो गत्वा तपस्तेपे सुदुश्चरम् ॥ २३.२८ ॥ तुष्टाव गीर्भिश्च ततस्तत्र देवीं सरस्वतीम् । तन्मना नियताहारो भूत्वा त्रिषवणाप्लुतः ॥ २३.२९ ॥ अश्वतर उवाच जगद्धात्रीमहं देवीमारिराधयिषुः शुभाम् । स्तोष्ये प्रणम्य शिरसा ब्रह्मयोनिं सरस्वतीम् ॥ २३.३० ॥ सदसद्देवि ! सय्किञ्चिन्मोक्षवच्चार्थवत्पदम् । तत्सर्वं त्वय्यसंयोगं योगवद्देवि ! संस्थितम् ॥ २३.३१ ॥ त्वमक्षरं परं देवि ! यत्र सर्वं प्रतिष्ठितम् । अक्षरं परमं देवि ! संस्थितं परमाणुवत् ॥ २३.३२ ॥ अक्षरं परमं ब्रह्म विश्वञ्चैतत्क्षरात्मकम् । दारुण्यवस्थितो वह्निर्भौमाश्च परमाणवः ॥ २३.३३ ॥ तथा त्वयि स्थितं ब्रह्म जगच्चेदमशेषतः । ओङ्काराक्षरसंस्थानं यत्तु देवि ! स्थिरास्थिरम् ॥ २३.३४ ॥ तत्र मात्रात्रयं सर्वमस्ति यद्देवि नास्ति च । त्रयो लोकास्त्रयो वेदास्त्रैविद्यं पावकत्रयम् ॥ २३.३५ ॥ त्रीणि ज्योतींषि वर्णाश्च त्रयो धर्मागमास्तथा । त्रयो गुणास्त्रयः शब्दस्त्रयो वेदास्तथाश्रमाः ॥ २३.३६ ॥ त्रयः कालास्तथावस्थाः पितरोऽहर्निशादयः । एतन्मात्रात्रयं देवि ! तव रूपं सरस्वति ॥ २३.३७ ॥ विभिन्नदर्शिनामाद्या ब्रह्मणो हि सनातनाः । सोमसंस्था हविः संस्थाः पाकसंस्थाश्च सप्त याः ॥ २३.३८ ॥ तास्त्वदुच्चारणाद्देवि ! क्रियन्ते ब्रह्मवादिभिः । अनिर्देश्यं तथा चान्यदर्धमात्रान्वितं परम् ॥ २३.३९ ॥ अविकार्यक्षयं दिव्यं परिणामविवर्जितम् । तवैतत्परमं रूपं यन्न शक्यं मयोदितुम् ॥ २३.४० ॥ न चास्ये न च तज्जिह्वा ताम्रोष्ठादिभिरुच्यते । इन्द्रोऽपि वसवो ब्रह्मा चन्द्राकौ ज्योतिरेव च ॥ २३.४१ ॥ विश्वावासं विश्वरूपं विश्वेशं परमेश्वरम् । सांख्यवेदान्तवादोक्तं बहुशाखास्थिरीकृतम् ॥ २३.४२ ॥ अनादिमध्यनिधनं सदसन्न सदेव यत् । एकन्त्वनेकं नाप्येकं भवभेदसमाश्रैतम् ॥ २३.४३ ॥ अनाख्यं षड्गुणाख्यञ्च वर्गाख्यं त्रिगुणाश्रयम् । नानाशक्तिमतामेकं शक्तिवैभविकं परम् ॥ २३.४४ ॥ सुखासुखं महासौख्यरूपं त्वयि विभाव्यते । एवं देवि ! त्वया व्याप्तं सकलं निष्कलञ्च यत् । अद्वैतावस्थितं ब्रह्म यच्च द्वैते व्यवस्थितम् ॥ २३.४५ ॥ येर्ऽथा नित्या ये विनश्यन्ति चान्ये ये वा स्थूला ये च सूक्ष्मातिसूक्ष्माः । ये वा भूमौ येऽन्तरीक्षेऽन्यतो वा तेषां तेषां त्वत्त एवोपलब्धिः ॥ २३.४६ ॥ यच्चामूर्तं यच्च मूर्तं समस्तं यद्वा भूतेष्वेकमेकञ्च किञ्चित् । यद्दिव्यस्ति क्ष्मातले खेऽन्यतो वा त्वत्सम्बद्धं त्वत्स्वरैर्व्यञ्जनैश्च ॥ २३.४७ ॥ जड उवाच एवं स्तुता तदा देवी विष्णोर्जिह्वा सरस्वती । प्रत्युवाच महात्मानं नागमश्वतरं ततः ॥ २३.४८ ॥ सरस्वत्युवाच वरं ते कम्बलभ्रातः प्रयच्छाम्युरगाधिप ! । तदुच्यतां प्रदास्यामि यत्ते मनसि वर्तते ॥ २३.४९ ॥ अश्वतर उवाच सहायं देहि देवि ! त्वं पूर्वं कम्बलमेव मे । समस्तस्वरसम्बन्धमुभयोः संप्रयच्छ च ॥ २३.५० ॥ सरस्वत्युवाच सप्त स्वरा ग्रामरागाः सप्त पन्नगसत्तम ! । कीतकानि च सप्तैव तावतीश्चापि मूर्च्छनाः ॥ २३.५१ ॥ तालाश्चैकोनपञ्चाशत्तथा ग्रामत्रयञ्च यत् । एतत्सर्वं भवान् गाता कम्बलश्च तथानघ ! ॥ २३.५२ ॥ ज्ञास्यसे मत्प्रसादेन भुजगेन्द्रापरं तथा । चतुर्विधं पदं तालं त्रिः प्रकारं लयत्रयम् ॥ २३.५३ ॥ यदित्रयं तथाऽतोद्यं मया दत्तं चतुर्विधम् । एतद्भवान्मत्प्रसादात्पन्नगेन्द्रापरञ्च यत् ॥ २३.५४ ॥ अस्यान्तर्गतमायत्तं स्वरव्यञ्जनसंमितम् । तदशेषं मया दत्तं भवतः कम्बलस्य च ॥ २३.५५ ॥ तथा नान्यस्य भूर्लोके पाताले चापि पन्नग । प्रणेतारौ भवन्तौ च सर्वस्यास्य भविष्यतः । पाताले देवलोके च भूर्लोके चैव पन्नगौ ॥ २३.५६ ॥ जड उवाच इत्युक्त्वा सा तदा देवी सर्वजिह्वा सरस्वती । जगामादर्शनं सद्यो नागस्य कमलेक्षणा ॥ २३.५७ ॥ तयोश्च तद्यथावृत्तं भ्रात्रोः सर्वमजायत । विज्ञानमुभयोरग्र्यं पदतालस्वरादिकम् ॥ २३.५८ ॥ ततः कैलासशैलेन्द्रशिखरस्थितमीश्वरम् । गीतकैः स्प्तभिर्नागौ तन्त्रीलयसमन्वितौ ॥ २३.५९ ॥ आरिराधयिषू देवमनङ्गाङ्गहरं हरम् । प्रचक्रतुः परं यत्नमुभौ संहतवाक्कलौ ॥ २३.६० ॥ प्रातर्निशायां मध्याह्ने सन्ध्ययोश्चापि तत्परौ । तयोः कालेन महता स्तूयमानो वृषध्वजः ॥ २३.६१ ॥ तुतोष गीतकैस्तौ च प्राहेशो गृह्यतां वरः । ततः प्रणम्याश्वतरः कम्बलेन समं तदा ॥ २३.६२ ॥ व्यज्ञापयन्महादेवं शितिकण्ठमुमापतिम् । यदि नौ भगवान् प्रीतो देवदेवस्त्रिलोचनः ॥ २३.६३ ॥ ततो यथाभिलषितं वरमेनं प्रयच्छ नौ । मृता कुवलयाश्वस्य पत्नी देव ! मदालसा ॥ २३.६४ ॥ तेनैव वयसा सद्यो दुहितृत्वं प्रयातु मे । जातिस्मरा यथा पूर्वं तद्वत्कान्तिसमन्विता । योगिनी योगमाता च मद्गेहे जायतां भव ॥ २३.६५ ॥ महादेव उवाच यथोक्तं पन्नगश्रेष्ठ ! सर्वेमेतद्भविष्यति । मत्प्रसादादसन्दिग्धं श्रुणु चेदं भुजङ्गम ॥ २३.६६ ॥ श्राद्धे तु समनुप्राप्ते मध्यमं पिण्डमात्मना । भक्षयेथाः फणिश्रेष्ठ ! शुचिः प्रयतमानसः ॥ २३.६७ ॥ भक्षिते तु ततस्तस्मिन् भवतो मध्यमात्फणात् । समुत्पत्स्यति कल्याणी तथारूपा यथामृता ॥ २३.६८ ॥ कामञ्चेममभिध्याय कुरु त्वं पितृतर्पणम् । तत्क्षणादेव सा सुभ्रूः श्वसतो मध्यमात्फणात् ॥ २३.६९ ॥ समुत्पत्स्यति कल्याणी तथारूपा यथामृता । एतच्छ्रुत्वा ततस्तौ तु प्रणिपत्य महेश्वरम् ॥ २३.७० ॥ रसातलं पुनः प्राप्तौ परितोषसमन्वितौ । तथा च कृतवान् श्राद्धं स नागः कम्बलानुजः ॥ २३.७१ ॥ पिण्डञ्च मध्यमं तद्वद्यथावदुपभुक्तवान् । तञ्चापि ध्यायः कामं ततः सा तनुमध्यमा ॥ २३.७२ ॥ जज्ञे निश्वसतः सद्यस्तद्रूपा मध्यमात्फणात् । न चापि कथयामास कंस्यचित्स भुजङ्गमः ॥ २३.७३ ॥ अन्तर्गृहे तां सुदतीं स्त्रीभिर्गुप्तामधारयत् । तौ चानुदिनमागम्य पुत्रौ नागपतेः सुखम् ॥ २३.७४ ॥ ऋतध्वजेन सहितौ चिक्रीडातेऽमराविव । एकदा तु सुतौ प्राह नागराजौ मुदान्वितः ॥ २३.७५ ॥ यन्मया पूर्वमुक्तन्तु क्रियते किं न तत्तथा । स राजपुत्रो युवयोरुपकारी ममान्तिकम् ॥ २३.७६ ॥ कस्मान्नानीयते वत्सावुपकाराय मानदः । एवमुक्तौ ततस्तेन पित्रा स्नेहवता तु तौ ॥ २३.७७ ॥ गत्वा तस्य पुरं सख्यू रेमाते तेन धीमता । ततः कुवलयाश्वं तौ कृत्वा किञ्चित्कथान्तरम् ॥ २३.७८ ॥ अब्रूतां प्रणयोपेतं स्वगेहगमनं प्रति । तावाह नृपपुत्रोऽसौ नन्विदं भवतोर्गृहम् ॥ २३.७९ ॥ धनवाहनवस्त्रादि यन्मदीयं तदेव वाम् । यत्तु वां वाञ्छितं दातुं धनं रत्नमथापि वा ॥ २३.८० ॥ तद्दोयतां द्विजसुतौ यदि वां प्रणयो मयि । एतावताहं दैवेन वञ्चितोऽस्मि दुरात्मना ॥ २३.८१ ॥ यद्भवद्भ्यां ममत्वं नो मदीये क्रियते गृहे । यदि वां मत्प्रियं कार्यमनुग्राह्योऽस्मि वां यदि ॥ २३.८२ ॥ तद्धने मम गेहे च ममत्वमनुकल्प्यताम् । युवयोर्यन्मदीयं तन्मामकं युवयोः स्वकम् ॥ २३.८३ ॥ एतत्सत्यं विजानीतं युवां प्राणा बहिश्चराः । पुनर्नैवं विभिन्नार्थं वक्तव्यं द्विजसत्तमौ ॥ २३.८४ ॥ मत्प्रसादपरौ प्रीत्या शापितौ हृदयेन मे । ततः स्नेहार्द्रवदनौ तावुभौ नागनन्दनौ ॥ २३.८५ ॥ ऊचतुर्नृपतेः पुत्रं किञ्चित्प्रणयकोपितौ । ऋतध्वज ! न सन्देहो यथैवाह भवानिदम् ॥ २३.८६ ॥ तथैव चास्मन्मनसि नात्र चिन्त्यमतोऽन्यथा । किन्त्वावयोः स्वयं पित्रा प्रोक्तमेतन्महात्मना ॥ २३.८७ ॥ द्रष्टुं कुवलयाश्वं तमिच्छामीति पुनः पुनः । ततः कुवलयाश्वोऽसौ समुत्थाय वरासनात् । यथाह तातेति वदन् प्रणाममकरोद्भुवि ॥ २३.८८ ॥ कुवलयाश्व उवाच धन्योऽहमतिपुण्योऽहं कोऽन्योऽस्ति सदृशो मया । यत्तातो मामभिद्रष्टुं करोति प्रवणं मनः ॥ २३.८९ ॥ तदुत्तिष्ठत गच्छामस्ताताज्ञां क्षणमप्यहम् । नातिक्रान्तुमिहेच्छामि पदेभ्यां तस्य शपाम्यहम् ॥ २३.९० ॥ जड उवाच एवमुक्त्वा ययौ सोऽथ सह ताभ्यां नृपात्मजः । प्राप्तश्च गोमतीं पुण्यां निर्गम्य नगराद्वहिः ॥ २३.९१ ॥ तन्मध्येन ययुस्ते वे नागेन्द्रनृपनन्दनाः । मेने च राजपुत्रोऽसौ पारे तस्यास्तयोर्गृहम् ॥ २३.९२ ॥ ततश्चाकृष्य पातालं ताभ्यां नीतो नृपात्मजः । पाताले ददृशे चोभौ स पन्नगकुमारकौ ॥ २३.९३ ॥ फणामणिकृतोद्योतौ व्यक्तस्वस्तिकलक्षणौ । विलोक्य तौ सुरूपाङ्गौ विस्मयोत्फुल्ललोचनः ॥ २३.९४ ॥ विहस्य चाब्रवीत्प्रेम्णा साधु भो द्विजसत्तमौ । कथयामासतुस्तौ च पितरं पन्नगेश्वरम् ॥ २३.९५ ॥ शान्तमश्वतरं नाम माननीयं दिवौकसाम् । रमणीयं ततोऽपस्यत्पातालं स नृपात्मजः ॥ २३.९६ ॥ कुमारैस्तरुणैर्वृद्धैरुरगैरुपशोभितम् । तथैव नागकन्याभिः क्रीडन्तीभिरितस्ततः ॥ २३.९७ ॥ चारुकुण्डलहाराभिस्ताराभिर्गगनं यथा । गीतशब्दैस्तथान्यत्र वीणावेणुस्वनानुगैः ॥ २३.९८ ॥ मृदङ्गपणवातोद्यं हारिवेश्मशताकुलम् । वीक्षमाणः स पातालं ययौ शत्रुजितः सुतः ॥ २३.९९ ॥ सह ताभ्यामभीष्टाभ्यां पन्नगाभ्यामरिन्दमः । ततः प्रविश्य ते सर्वे नागराजनिवेशनम् ॥ २३.१०० ॥ ददृशुस्ते महात्मानमुरगाधिपतिं स्थितम् । दिव्यमाल्याम्बरधरं मणिकुण्डलभूषणम् ॥ २३.१०१ ॥ स्वच्छमुक्ताफललताहारिहारोपशोभितम् । केयूरिणं महाभागमासने सर्वकाञ्चने ॥ २३.१०२ ॥ मणिविद्रुमवैदूर्यजालान्तरितरूपके । स ताभ्यां दर्शितस्तस्य तातोऽस्माकमसाविति ॥ २३.१०३ ॥ वीरः कुवलयाश्वोऽयं पित्रे चासौ निवेदितः । ततो ननाम चरणौ नागेन्द्रस्य ऋतध्वजः ॥ २३.१०४ ॥ तमुत्थाप्य बलाद्गाढं नागेन्द्रः परीषस्वजे । मूर्ध्नि चैनमुपाघ्राय चिरं जीवेत्युवाच सः ॥ २३.१०५ ॥ निहतामित्रवर्गश्च पित्रोः सुश्रूषणं कुरु । वत्स ! धन्यस्य कथ्यन्ते परोक्षस्यापि ते गुणाः ॥ २३.१०६ ॥ भवतो मम पुत्राभ्यामसामान्या निवेदिताः । त्वमेवानेन वर्धेथा मनोवाक्कायचेष्टितैः ॥ २३.१०७ ॥ जीवितं गुणिनः श्लाघ्यं जीवन्नेव मृतोऽगुणः । गुणवान्निर्वृतिं पित्रोः शत्रुणां हृदयज्वरम् ॥ २३.१०८ ॥ करोत्यात्महितं कुर्वन् विश्वासञ्च महाजने । देवताः पितरो विप्रा मित्रार्थिविकलादयः ॥ २३.१०९ ॥ बान्धवाश्च तथेच्छन्ति जीवितं गुणिनश्चिरम् । परिवादनिवृत्तानां दुर्गतेषु दयावताम् । गुणिनां सफलं जन्म संश्रितानां विपद्गतैः ॥ २३.११० ॥ जड उवाच एवमुक्त्वा स तं वीरं पुत्राविदमथाब्रवीत् । पूजां कुवलयाश्वस्य कर्तुकामो भुजङ्गमः ॥ २३.१११ ॥ स्नानादिकक्रमं कृत्वा सर्वमेव यथाक्रमम् । मधुपानादिसम्भोगमाहारञ्च यथेप्सितम् ॥ २३.११२ ॥ ततः कुवलयाश्वेन हृदयोत्सवभूतया । कथया स्वल्पकं कालं स्थास्यामो हृष्टचेतसः ॥ २३.११३ ॥ अनुमेन च तन्मौनो वचः शत्रुजितः सुतः । तथा चकार नृपतिः पन्नगानामुदारधीः ॥ २३.११४ ॥ समेत्य तैरात्मजभूपनन्दनैर् महोरगाणामधिपः स सत्यवाक् । मुदान्वितोऽन्नानि मधूनि चात्मवान् यथोपयोगं बुभुजे स भोगभुक् ॥ २३.११५ ॥ इति श्रीमार्कण्डेयपुराणे मदालसोपाख्याने कुवलयाश्वपातालगमनं नाम त्रयोविंसोऽध्यायः _____________________________________________________________ चतुर्विशोऽध्यायः जड उवाच कृताहारं महात्मनामधिपं पवनाशिनाम् । उपासाञ्चक्रिरे पुत्रौ भूपालतनयस्तथा ॥ २४.१ ॥ कथाभिरनुरूपाभिः स महात्मा भुजङ्गमः । प्रीतिं सञ्जनयामास पुत्रसख्युरुवाच च ॥ २४.२ ॥ तव भद्र ! सुखं ब्रूहि गेहमभ्यागतस्य यत् । कर्तव्यमुत्सृजाशङ्कां पितरीव सुतो मयि ॥ २४.३ ॥ रजतं वा सुवर्णं वा वस्त्रं वाहनमासनम् । यद्वाभिमतमत्यर्थं दुर्लभं तद्वृणुष्व माम् ॥ २४.४ ॥ कुवलयाश्व उवाच तव प्रसादाद्भगवन् ! सुवर्णादि गृहे मम । पितुरस्ति ममाद्यापिन किञ्चित्कार्यमीदृशम् ॥ २४.५ ॥ ताते वर्षसहस्राणि शासतीमां वसुन्धराम् । तथैव त्वयि पातालं न मे याञ्चोन्मुकं मनः ॥ २४.६ ॥ ते स्वर्ग्याश्च सुपुण्याश्च येषां पितरि जीवति । तृणकोटिसमं वित्तं तारुण्याद्वित्तकोटिषु ॥ २४.७ ॥ मित्राणि तुल्यशिष्टानि तद्वद्देहमनामयम् । जनिता ध्रियते वित्तं यौवनं किन्नु नास्ति मे ॥ २४.८ ॥ असत्यर्थे नृणां याञ्चाप्रवणं जायते मनः । सत्यशेषे कथं याञ्चां मम जिह्वा करिष्यति ॥ २४.९ ॥ यैर्न चिन्त्यं धनं किञ्चिन्मम गेहेऽस्ति नास्ति वा । पितृबाहुतरुच्छायां संश्रिताः सुखिनो हि ते ॥ २४.१० ॥ ये तु बाल्यात्प्रभृत्येव विना पित्रा कुटुम्बिनः । ते सुखास्वादविभ्रंशान्मन्ये धात्रैव वञ्चिताः ॥ २४.११ ॥ तद्वयं त्वत्प्रसादेन धनरत्नादिसञ्चयान् । पितृमुक्तान् प्रयच्छामः कामतो नित्यमर्थिनाम् ॥ २४.१२ ॥ तत्सर्वमिह संप्राप्तं यदङ्घ्रियुगलं तव । मच्चूडामणिना स्पृष्टं यच्चाङ्गस्पर्शमाप्तवान् ॥ २४.१३ ॥ जड उवाच इत्येवं प्रसृतं वाक्यमुक्तः पन्नगसत्तमः । प्राह राजसुतं प्रीत्या पुत्रयोरुपकारिणम् ॥ २४.१४ ॥ नाग उवाच यदि रत्नसुवर्णादि मत्तोऽवाप्तुं न ते मनः । यदन्यन्मनसः प्रीत्यै तद्ब्रूहि त्वं ददाम्यहम् ॥ २४.१५ ॥ कुवलयाश्व उवाच भगवंस्त्वत्प्रसादेन प्रार्थितस्य गृहे मम । सर्वमस्ति विशेषेण सम्प्राप्तं तव दर्शनात् ॥ २४.१६ ॥ कृतकृत्योऽस्मि चैतेन सफलं जीवितञ्च मे । यदङ्गसंश्लेषमितस्तव देवस्य मानुषः ॥ २४.१७ ॥ ममोत्तमाङ्गे त्वत्पादरजसा यदिहास्पदम् । कृतं तेनैव न प्राप्तं किं मया पन्नगेश्वर ॥ २४.१८ ॥ यदि त्ववश्यं दातव्यो वरो मम यथेप्सितः । तत्पुण्यकर्मसंस्कारो हृदयान्मा व्यपैतु मे ॥ २४.१९ ॥ सुवर्णमणिरत्नादि वाहनं गृहमासनम् । स्त्रियोऽन्नपानं पुत्राश्च चारुमाल्यानुलेपन् ॥ २४.२० ॥ एते च विविधाः कामा गीतवाद्यादिकञ्च यत् । सर्वमेतन्मम मतं फलं पुण्यवनस्पतेः ॥ २४.२१ ॥ तस्मान्नरेण तन्मुलः कार्यो यत्नः कृतात्मना । कर्तव्यः पुण्यसक्तानां न किञ्चिद्भुवि दुर्लभम् ॥ २४.२२ ॥ अश्वतर उवाच एवं भविष्यति प्राज्ञ ! तव धर्माश्रिता मतिः । सत्यञ्चैतत्फलं सर्वं धर्मस्योक्तं यथा त्वया ॥ २४.२३ ॥ तथाप्यवश्यं मद्गेहमागतेन त्वयाधुना । ग्राह्यं यन्मानुषे लोके दुष्प्राप्तं भवतो मतम् ॥ २४.२४ ॥ जड उवाच तस्यैतद्वचनं श्रुत्वा स तदा नृपनन्दनः । मुकावलोकनञ्चक्रे पन्नगेश्वरपुत्रयोः ॥ २४.२५ ॥ ततस्तौ प्रणिपत्योभौ राजपुत्रस्य यन्मतम् । तत्पितुः सकलं वीरौ कथयामासतुः स्फुटम् ॥ २४.२६ ॥ पुत्रापूचतुः ततोऽस्य पत्नी दयिता श्रुत्वेमं विनिपातितम् । अत्यजद्दयितान् प्राणान् विप्रलब्धा दुरात्मना ॥ २४.२७ ॥ केनापि कृतवैरेण दानवेन कुबुद्धिना । गन्धर्वराजस्य सुता नाम्ना ख्याता मदालसा ॥ २४.२८ ॥ कुतज्ञोऽयं ततस्तात ! प्रतिज्ञां कृतवानिमाम् । नान्या भार्या भवित्रीति वर्जयित्वा मदालसाम् ॥ २४.२९ ॥ द्रष्टुं तां चारुसर्वाङ्गीमयं वीर ! ऋतध्वजः । तात ! वाञ्छति यद्येतत्क्रियते तत्कृतं भवेत् ॥ २४.३० ॥ अश्वतर उवाच भूतैर्वियोगिनो योगस्तादृशैरेव तादृशः । कथमेतद्विना स्वप्नं मायां वा शम्बरोदिताम् ॥ २४.३१ ॥ जड उवाच प्रणिपत्य भुजङ्गेशं पुत्रः शत्रुजितस्ततः । प्रत्युवाच महात्मानं प्रेमलज्जासमन्वितः ॥ २४.३२ ॥ मायामयीमप्यधुना मम तात ! मदालसाम् । यदि दर्शयते मन्ये परं कृतमनुग्रहम् ॥ २४.३३ ॥ अश्वतर उवाच तस्मात्पश्येह वत्स ! त्वं मायाञ्चेद्द्रष्टुमिच्छसि । अनुग्राह्यो भवान् गेहं बालोऽप्यभ्यागतो गुरुः ॥ २४.३४ ॥ जड उवाच आनयामास नागेन्द्रो गृहगुप्तां मदालसाम् । तेषां संमोहनार्थाय ज्जल्प च ततः स्फुटम् ॥ २४.३५ ॥ दर्शयामास च तदा राजपुत्राय तां शुभाम् । सेयं न वेति ते भार्या राजपुत्र ! मदालसा ॥ २४.३६ ॥ जड उवाच स दृष्ट्वा तां तदा तन्वीं तत्क्षणात्विगतत्रपः । प्रियेति तामभिमुखं ययौ वाचमुदीरयन् । निवारयामास च तं नागः सोऽश्वतरस्त्वरन् ॥ २४.३७ ॥ अश्वतर उवाच मायेयं पुत्र ! मा स्प्राक्षीः प्रागेव कथितं तव । अन्तर्धानमुपैत्याशु माया संस्पर्शनादिभिः ॥ २४.३८ ॥ ततः पपात मेदिन्यां स तु मूर्च्छापरिप्लुतः । हा प्रियेति वदन् सोऽथ चिन्तयामास भामिनीम् ॥ २४.३९ ॥ अहो स्नेहोऽस्य नृपतेर्ममोपर्यचलं मनः । येनायं पातनोऽरीणां विना शस्त्रेण पातितः ॥ २४.४० ॥ मायेति दर्शिता तेन मिथ्या मायेति यत्स्फुटम् । वाय्वम्बुतेजसां भुमेराकाशस्य च चेष्टया ॥ २४.४१ ॥ जड उवाच ततः कुवलयाश्वं तं समाश्वास्य भुजङ्गमः । कथयामास तत्सर्वं मृतसञ्जीवनादिकम् ॥ २४.४२ ॥ ततः प्रहृष्टः प्रतिलभ्य कान्तां प्रणम्य नागं निजगाम सोऽथ । सुशोभमानः स्वपुरं तमश्वम् आरुह्य संचिन्तितमभ्युपतेम् ॥ २४.४३ ॥ इति श्रीमार्कण्डेयपुराणे मदालसाप्राप्तिर्नाम चतुर्विशोऽध्यायः _____________________________________________________________ पञ्चविंशोऽध्यायः जड उवाच आगम्य स्वपुरं सोऽथ पित्रोः सर्वमशेषतः । कथयामास तन्वङ्गी यथा प्राप्ता पुनर्मृता ॥ २५.१ ॥ ननाम सा च चरणौ श्वश्रूश्वशुरयोः शुभा । स्वजनञ्च यथापूर्वं वन्दनाश्लेषणादिभिः ॥ २५.२ ॥ पूजयामास तन्वङ्गी यथान्यायं यथावयः । ततो महोत्सवो जज्ञे पौराणां तत्र वै पुरे ॥ २५.३ ॥ ऋतध्वजश्च सुचिरं तया रेमे सुमध्यया । निर्झरेषु च शैलानां निम्नगापुलिनेषु च ॥ २५.४ ॥ काननेषु च रम्येषु तथैवोपवनेषु च । पुण्यक्षयं वाञ्छमाना सापि कामोपबोगतः ॥ २५.५ ॥ सह तेनातिकान्तेन रेमे रम्यासु भूमिषु । ततः कालेन महता शत्रुजित्स नराधिपः ॥ २५.६ ॥ सम्यक्प्रशास्य वसुधां कालधर्ममुपेयिवान् । ततः पौरा महात्मानं पुत्रं तस्य ऋतध्वजम् ॥ २५.७ ॥ अभ्यषिञ्चन्त राजानमुदाराचारचेष्टितम् । सम्यक्पालयतस्तस्य प्रजाः पुत्रानिवौरसान् ॥ २५.८ ॥ मदालसायाः सञ्जज्ञे पुत्रः प्रथमजस्ततः । तस्य चक्रे पिता नाम विक्रान्त इति धीमतः ॥ २५.९ ॥ तुतुषुस्तेन वै भृत्या जहास च मदालसा । सा वै मदालसा पुत्रं बालमुत्तानशायिनम् । उल्लापनच्छलेनाह रुदमानमविस्वरम् ॥ २५.१० ॥ शुद्धोऽसि रे तात ! न तेऽस्ति नाम कृतं हि ते कल्पनयाधुनैव । पञ्चात्मकं देहमिदं तवैतन् नैवास्य त्वं रोदिषि कस्य हेतोः ॥ २५.११ ॥ न वा भवान् रोदिति वै स्वजन्मा शब्दोऽयमासाद्य महीशशूनुम् । विकल्प्यमाना विविधा गुणास्ते ऽगुणाश्च भौताः सकलेन्द्रियेषु ॥ २५.१२ ॥ भूतानि भूतैः परिदुर्बलानि वृद्धिं समायान्ति यथेह पुंसः । अन्नाम्बुपानादिभिरेव कस्य न तेऽस्ति वृद्धिर्न च तेऽस्ति हानिः ॥ २५.१३ ॥ त्वं कञ्चुके शीर्यमाणे निजेऽस्मिंस् तस्मिंश्च देहे मूढतां मा व्रजेथाः । शुभाशुभैः कर्मभिर्देहमेतन् मदादिमूढैः सञ्चुकस्तेऽपिनद्धः ॥ २५.१४ ॥ तातेति किञ्चित्तनयेति किञ्चिद् अम्बेति किञ्चिद्दयितेति किञ्चित् । ममेति किञ्चिन्न ममेति किञ्चित् त्वं भूतसङ्घं बहुमानयेथाः ॥ २५.१५ ॥ दुः खानि दुः खोपगमाय भोगान् सुखाय जानाति विमूढचेताः । तान्येव दुः खानि पुनः सुखानि जानात्यविद्वान सुविमूढयेताः ॥ २५.१६ ॥ हासोऽस्थिसन्दर्शनमक्षियुग्मम् अत्युज्ज्वलं तर्जनमङ्गनायाः । कुचादिपीनं पिशितं घनं तत् स्थानं रतेः किं नरकं न योषित् ॥ २५.१७ ॥ यानं क्षितौ यानगतञ्च देहं देहेऽपि चान्यः पुरुषो निविष्टः । ममत्वबुद्धिर्न तथा यथा स्वे देहेऽतिमात्रं बत मूढतैषा ॥ २५.१८ ॥ इति श्रीमार्कण्डेयपुराणे मदालसोपाख्याने पञ्चविंशोऽध्यायः _____________________________________________________________ षड्विंशोऽध्यायः जड उवाच वर्धमानं सुतं सा तु राजपत्नी दिने दिने । तमुल्लापादिना बोधमनयन्निर्ममात्मकम् ॥ २६.१ ॥ यथायथं बलं लेभे यथा लेभे मतिं पितुः । तथा तथात्मबोधञ्च सोऽवापन्मातृभाषितैः ॥ २६.२ ॥ इत्थं तया स तनयो जन्मप्रभृति बोधितः । चकार न मतिं प्राज्ञो गार्हस्थ्यं प्रति निर्ममः ॥ २६.३ ॥ द्वितीयोऽस्याः सुतो जज्ञे तस्य नामाकरोत्पिता । सुबाहुरयमित्युक्ते सा जाहस मदालसा ॥ २६.४ ॥ तमप्येवं यथापूर्वं बालमुल्लापनादिना । प्राह बाल्यात्स च प्राप तथा बोधं माहमतिः ॥ २६.५ ॥ तृतीयं तनयं जातं स राजा शत्रुमर्दनम् । यदाह तेन सा सुभ्रुर्जहासातिचिरं पुनः ॥ २६.६ ॥ तथैव सोऽपि तन्वङ्ग्या बालत्वादवबोधितः । क्रियाश्चकार निष्कामो न किञ्चिदुपकारकम् ॥ २६.७ ॥ चतुर्थस्य सुतस्याथ चिकीर्षुर्नाम भूमिपः । ददर्श तां शुभाचारामीषद्धासां मदालसाम् । तामाह राजा हसतीं किञ्चित्कौतूहलान्वितः ॥ २६.८ ॥ राजोवाच क्रियमाणेऽसकृन्नाम्नि कथ्यतां हास्यकारणम् । विक्रान्तश्च सुबाहुश्च तथान्यः शत्रुमर्दनः ॥ २६.९ ॥ शोभनानीति नामानि मया मन्ये कृतानि वै । योग्यानि क्षत्रबन्धूनां शौर्याटोपयुतानि च ॥ २६.१० ॥ असन्त्येतानि चेद्भद्रे ! यदि ते मनसि स्थितम् । तदस्य क्रियतां नाम चतुर्थस्य सुतस्य मे ॥ २६.११ ॥ मदालसौवाच मयाज्ञा भवतः कार्या महाराज ! यथात्थ माम् । तथा नाम करिष्यामि चतुर्थस्य सुतस्य ते ॥ २६.१२ ॥ अलर्क इति धर्मज्ञः ख्यातिं लोके प्रयास्यति । कनीयानेष ते पुत्रो मतिमांश्च भविष्यति ॥ २६.१३ ॥ तच्छ्रुत्वा नाम पुत्रस्य कृतं मात्रा महीपतिः । अलर्क इत्यसम्बद्धं प्रहस्येदमथाब्रवीत् ॥ २६.१४ ॥ राजोवाच भवत्या यदिदं नाम मत्पुत्रस्य कृतं शुभे । किमीदृशमसम्बद्धमर्थः कोऽस्य मदालसे ॥ २६.१५ ॥ मदालसोवाच कल्पनेयं महाराज ! कृता सा व्यावहारिको । त्वत्कृतानां तथा नाम्नां शृणु भूप ! निरर्थताम् ॥ २६.१६ ॥ वदन्ति पुरुषाः प्राज्ञा व्यापिनं पुरुषं यतः । क्रान्तिश्च गतिरुद्दिष्टा देशाद्देशान्तरन्तु या ॥ २६.१७ ॥ सर्वगो न प्रयातीति व्यापी देहेश्वरो यतः । ततो विक्रान्तसंज्ञेयं मता मम निरर्थिका ॥ २६.१८ ॥ सुबाहुरिति या संज्ञा कृतान्यस्य सुतस्य ते । निरर्था साप्यमूर्तत्वात्पुरुषस्य महीपते ॥ २६.१९ ॥ पुत्रस्य यद्कृतं नाम तृतीयस्यारिमर्दनः । मन्ये तदप्यसम्बद्धं शृणु चाप्यत्र कारणम् ॥ २६.२० ॥ एक एव शरीरेषु सर्वेषु पुरुषो यदा । तदास्य राजन् ! क शत्रुः को वा मित्रमिहेष्यते ॥ २६.२१ ॥ भूतैर्भूतानि मृद्यन्ते अमूर्तो मृद्यते कथम् । क्रोधादीनां पृथग्भावात्कल्पनेयं निरर्थिका ॥ २६.२२ ॥ यदि संव्यवहारार्थमसन्नाम प्रकल्प्यते । नाम्नि कस्मादलर्काख्ये नैरर्थ्यं भवतो मतम् ॥ २६.२३ ॥ जड उवाच एवमुक्तस्तया साधु महीष्या स महीपतिः । तथेत्याह महाबुद्धिर्दयितां तथ्यवादिनीम् ॥ २६.२४ ॥ तञ्चापि सा सुतं सुभ्रूर्यथा पूर्वसुतांस्तथा । प्रोवाच बोधजननं तामुवाच स पार्थिवः ॥ २६.२५ ॥ करोषि किमिदं मूढे ! ममाभावाय सन्ततेः । दुष्टावबोधदानेन यथापूर्वं सुतेषु मे ॥ २६.२६ ॥ यदि ते मत्प्रियं कार्यं यदि ग्राह्यं वचो मम । तदेनं तनयं मार्गे प्रवृत्तेः सन्नियोजय ॥ २६.२७ ॥ कर्ममार्गः समुच्छेदं नैवं देवि ! गमिष्यति । पितृपिण्डनिवृत्तिश्च नैवं साध्वि ! भविष्यति ॥ २६.२८ ॥ पितरो देवलोकस्थास्तथा तिर्यक्त्वमागताः । तद्वन्मनुष्यतां याता भूतवर्गे च संस्थिताः ॥ २६.२९ ॥ सपुण्यानसपुण्यांश्च क्षुत्क्षामान् तृट्परिप्लुतान् । पिण्डोदकप्रदानेन नरः कर्मण्यवस्थितः ॥ २६.३० ॥ सदाप्यायते सुभ्रु ! तद्वद्देवातिथोनपि । देवैर्मनुष्यैः पितृभिः प्रेतैर्भूतैः सगुह्यकैः ॥ २६.३१ ॥ वयोभिः कृमिकीटैश्च नर एवोपजीव्यते । तस्मात्तन्वड्गि ! पुत्रं यत्कार्यं क्षत्रयोनिभिः ॥ २६.३२ ॥ ऐहिकामुष्मिकफलं तत्सम्यक्प्रतिपादय ॥ २६.३३ ॥ जड उवाच तेनैवमुक्ता सा भर्त्रा वरनारी मदालसा । अलर्कं नाम तनयमुवाचोल्लापवादिनी ॥ २६.३४ ॥ पुत्र वर्धस्व मद्भर्तुर्मनो नन्दय कर्मभिः । मित्राणामुपकाराय दुर्हृदां नाशनाय च ॥ २६.३५ ॥ धन्योऽसि रे यो वसुधामशत्रुर् एकश्चिरं पालयितासि पुत्र । तत्पालनादस्तु सुखोपभोगो धर्मात्फलं प्राप्स्यसि चामरत्वम् ॥ २६.३६ ॥ धरामरान् पर्वसु तर्पयेथाः समीहितं बन्धुषु पूरयेथाः । हितं परस्मै हृदि चिन्तयेथाः मनः परस्त्रीषु निवर्तयेथाः ॥ २६.३७ ॥ यज्ञौरनेकैर्विबुधानजस्त्रम् अर्थैर्द्विजान् प्रीणय संश्रितांश्च । स्त्रियश्च कामैरतुलैश्चिराय युद्धैश्चारींस्तोषयितासि वीर ॥ २६.३८ ॥ बालो मनो नन्दय बान्धवानां गुरोस्तथाज्ञानकरणैः कुमारः । स्त्रीणां युवा सत्कुलभूषणानां वृद्धो वने वत्स ! वनेचराणाम् ॥ २६.३९ ॥ राज्यं कुर्वन् सुहृदो नन्दयेथाः साधून् रक्षंस्तात ! यज्ञैर्यजेथाः । दुष्टान्निघ्रन् वैरिणश्चाजिमध्ये गोविप्रार्थे वत्स ! मृत्युं व्रजेथाः ॥ २६.४० ॥ इति श्रीमार्कण्डेयपुराणे पुत्रानुशासनं नाम षड्विंशोऽध्यायः _____________________________________________________________ सप्तविंशोऽध्यायः जड उवाच एवमुल्लाप्यमानस्तु स तु मात्रा दिने दिने । ववृधे वयसा बालो बुद्ध्या चालर्कसंज्ञितः ॥ २७.१ ॥ स कौमारकमासाद्य ऋतध्वजसुतस्ततः । कृतोपनयनः प्राज्ञः प्रणिपत्याह मातरम् ॥ २७.२ ॥ मया यदत्र कर्तव्यमैहिकामुष्मिकाय वै । सुखाय वद तत्सर्वं प्रश्रयावनतस्य मे ॥ २७.३ ॥ मदालसोवाच वत्स ! राज्येऽभिषिक्तेन प्रजारञ्जनमादितः । कर्तव्यमविरोधेन स्वधर्मस्य महीभृता ॥ २७.४ ॥ व्यसनानि परित्यज्य सप्त मूलहराणि वै । आत्मा रिपुभ्यः संरक्ष्यो बहिर्मन्त्रविनिर्गमात् ॥ २७.५ ॥ अष्टधा नाशमाप्नोति सुचक्रात्स्यन्दनाद्यथा । तथा राजाप्यसन्दिग्धं बहिर्मन्त्रविनिर्गमात् ॥ २७.६ ॥ दुष्टादुष्टांश्च जानीयादमात्यानरिदोषतः । चरैश्चरास्तथा शत्रोरन्वेष्टव्याः प्रयत्नतः ॥ २७.७ ॥ विश्वासो न तु कर्तव्यो राज्ञा मित्राप्तबन्धुषु । कार्ययोगादमित्रेऽपि विश्वसीत नराधिपः ॥ २७.८ ॥ स्थानवृद्धिक्षयज्ञेन षाड्गुण्यगुणितात्माना । भवितव्यं नरेन्द्रेण न कामवशवर्तिना ॥ २७.९ ॥ प्रागात्मा मन्त्रिणश्चैव ततो भृत्या महीभृता । जेयाश्चानन्तरं पौरा विरुध्येत ततोऽरिभिः ॥ २७.१० ॥ यस्त्वेतानविजित्यैव वैरिणो विजिगीषते । सोऽजितात्मा जितामात्यः शत्रुवर्गेण बाध्यते ॥ २७.११ ॥ तस्मात्कामादयः पूर्वं जेयाः पुत्र ! महीभुजा । तज्जये हि जयोऽवश्यं राजा नश्यति तैर्जितः ॥ २७.१२ ॥ कामः क्रोधश्च लोभश्च मदो मानस्तथैव च । हर्षश्च शत्रवो ह्येते विनाशाय महीभृताम् ॥ २७.१३ ॥ कामप्रसक्तमात्मानं स्मृत्वा पाण्डुं निपातितम् । निवर्तयेत्तथा क्रोधादनुह्रादं हतात्मजम् ॥ २७.१४ ॥ हतमैलं तथा लोभान्मदाद्वेनं द्विजैर्हतम् । मानादनायुषापुत्रं बलिं हर्षात्पुरञ्जयम् ॥ २७.१५ ॥ एभिर्जितैर्जितं सर्वं मरुत्तेन महात्मना । स्मृत्वा विवर्जयेदेतान् दोषान् स्वीयान्महीपतिः ॥ २७.१६ ॥ काककोकिलभृङ्गाणां मृगव्यालशिखण्डिनाम् । हंसकुक्कुटलोहानां शिक्षेत चरित नृपः ॥ २७.१७ ॥ कीटकस्य क्रियां कुर्यात्विपक्षे मनुजेश्वरः । चेष्टां पिपीलिकानाञ्च काले भूपः प्रदर्शयेत् ॥ २७.१८ ॥ ज्ञेयाग्निविस्फुलिङ्गानां बीजचेष्टा च शाल्मलेः । चन्द्रसूर्यस्वरूपेण नीत्यर्थे पृथिवीक्षिता ॥ २७.१९ ॥ बन्धकीपद्मशरभशूलिकागुर्विणीस्तनात् । प्रज्ञा नृपेण चादेया तथा गोपालयोषितः ॥ २७.२० ॥ शक्रार्कयमसोमानां तद्वद्वायोर्महीपतिः । रूपाणि पञ्च कुर्वोत महीपालनकर्मणि ॥ २७.२१ ॥ यथेन्द्रश्चतुरो मासान् तोयोत्सर्गेण भूगतम् । आप्याययेत्तथा लोकं परिहारैर्महीपतिः ॥ २७.२२ ॥ मासानष्टौ यथा सूर्यस्तोयं हरति रश्मिभिः । सूक्ष्मेणैवाभ्युपायेन तथा शुल्कादिकं नृपः ॥ २७.२३ ॥ यथा यमः प्रियद्वेष्ये प्राप्तकाले नियच्छति । तथा प्रियाप्रिये राजा दुष्टादुष्टे समो भवेत् ॥ २७.२४ ॥ पूर्णेन्दुमालोक्य यथा प्रीतिमान् जायते नरः । एवं यत्र प्रजाः सर्वा निर्वत्तास्तच्छशिव्रतम् ॥ २७.२५ ॥ मारुतः सर्वभूतेषु निगूढश्चरते यथा । एवं नृपश्चरेच्चारैः पौरामात्यादिबन्धुषु ॥ २७.२६ ॥ न लोभाद्वा न कामाद्वा नार्थाद्वा यस्य मानसम् । यथान्यैः कृष्यते वत्स ! स राजा स्वर्गमृच्छति ॥ २७.२७ ॥ उत्पथग्राहिणो मूढान् स्वधर्माच्चलतो नरान् । यः करोति निजे धर्मे स राजा स्वर्गमृच्छति ॥ २७.२८ ॥ वर्णधर्मा न सीदन्ति यस्य राज्ये तथाश्रमाः । वत्स ! तस्य सुखं प्रेत्य परत्रेह च शाश्वतम् ॥ २७.२९ ॥ एतद्राज्ञः परं कृत्यं तथैतत्सिद्धिकारकम् । स्वधर्मस्थापनं नृणां चाल्यन्ते ये कुबुद्धिभिः ॥ २७.३० ॥ पालनेनैव भूतानां कृतकृत्यो महीपतिः । सम्यक्पालयिता भागं धर्मस्याप्नोति यत्नतः ॥ २७.३१ ॥ इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादे आत्मविवेको नाम सप्तविंशोऽध्यायः _____________________________________________________________ अष्टाविंशोऽध्यायः जड उवाच तन्मातुर्वचनं श्रुत्वा सोऽलर्को मातरं पुनः । पप्रच्छ वर्णधर्मांश्च धर्मा ये चाश्रमेषु च ॥ २८.१ ॥ अलर्क उवाच कथितोऽयं महाभागे ! राज्यतन्त्राश्रितस्त्वया । धर्मं तमहमिच्छामि श्रोतुं वर्णाश्रमात्मकम् ॥ २८.२ ॥ मदालसोवाच दानमध्ययनं यज्ञो ब्राह्मणस्य त्रिधा मतः । नान्यश्चतुर्थो धर्मोऽस्ति धर्मस्तस्यापदं विना ॥ २८.३ ॥ याजनाध्यापने शुद्धे तथा पूतप्रतिग्रहः । एषा सम्यक्समाख्यता त्रिविधा चास्य जीविका ॥ २८.४ ॥ दानमध्ययनं यज्ञः क्षत्रियस्याप्ययं त्रिधा । धर्मः प्रोक्तः क्षिते रक्षा शस्त्राजीवञ्च जीविका ॥ २८.५ ॥ दानमध्ययनं यज्ञो वैश्यस्यापि त्रिधैव सः । वाणिज्यं पाशुपाल्यञ्च कृषिश्चैवास्य जीविका ॥ २८.६ ॥ दानं यज्ञोऽथ शुश्रूषा द्विजातीनां त्रिधा मया । व्याख्यातः शूद्रधर्मोऽपि जीविका कारुकर्म च ॥ २८.७ ॥ तद्वद्द्विजातिशुश्रूषा पोषणं क्रयविक्रयौ । वर्णधर्मास्त्विमे प्रोक्ताः श्रूयन्तां चाश्रमाश्रयाः ॥ २८.८ ॥ स्ववर्णधर्मात्संसिद्धिं नरः प्राप्नोति न च्युतः । प्रयाति नरकं प्रेत्य प्रतिषिद्धनिषेवणात् ॥ २८.९ ॥ यावत्तु नोपनयनं क्रियते वै द्विजन्मनः । कामचेष्टोक्तिभक्ष्यश्च तावद्भवति पुत्रक ॥ २८.१० ॥ कृतोपनयनः सम्यग्ब्रह्मचारी गुरुर्गृहे । वसेत्तत्र च धर्मोऽस्य कथ्यते तं निबोध मे ॥ २८.११ ॥ स्वाध्यायोऽथाग्रिशुश्रूषा स्नानं भिक्षाटनं तथा । गुरोर्निवेद्य तच्चान्नमनुज्ञातेन सर्वदा ॥ २८.१२ ॥ गुरोः कर्मणि सोद्योगः सम्यक्प्रीत्युपपादनम् । तेनाहूतः पठेच्चैव तत्परो नान्यमानसः ॥ २८.१३ ॥ एकं द्वौ सकलान् वापि वेदान् प्राप्य गुरोर्मुखात् । अनुज्ञातोऽथ वन्दित्वा दक्षिणां गुरवे ततः ॥ २८.१४ ॥ गार्हस्थ्याश्रमकामस्तु गृहस्थाश्रममावसेत् । वानप्रस्थाश्रमं वापि चतुर्थं चेच्छयात्मनः ॥ २८.१५ ॥ तत्रैव वा गुरोर्गेहे द्विजो निष्ठामवाप्नुयात् । गुरोरभावे तत्पुत्रे तच्छिष्ये तत्सुतं विना ॥ २८.१६ ॥ शुश्रूषुर्निरभिमानो ब्रह्मचार्याश्रमं वसेत् । उपावृत्तस्ततस्तस्मात्गृहस्थाश्रमकाम्यया ॥ २८.१७ ॥ ततोऽसमानर्षिकुलां तुल्यां भार्यामरोगिणीम् । उद्वहेन्न्यायतोऽव्यङ्गां गृहस्थाश्रमकारणात् ॥ २८.१८ ॥ स्वकर्मणा धनं लब्ध्वा पितृदेवातिथींस्तथा । सम्यक्सम्प्रीणयन् भक्त्या पोषयेच्चाश्रितांस्तथा ॥ २८.१९ ॥ भृत्यात्मजान् जामयोऽथ दीनान्धपतितानपि । यथाशक्त्यान्नदानेन वयांसि पशवस्तथा ॥ २८.२० ॥ एष धर्मो गृहस्थस्य ऋतावभिगमस्तथा । पञ्चयज्ञविधानन्तु यथाशक्त्या न हापयेत् ॥ २८.२१ ॥ पितृदेवातिथिज्ञातिभुक्तशेषं स्वयं नरः । भुञ्जीत च समं भृत्यैर्यथाविभवमादृतः ॥ २८.२२ ॥ एष तूद्देशतः प्रोक्तो गृहस्थस्याश्रमो मया । वानप्रस्थस्य धर्मं ते कथयाम्यवधार्यताम् ॥ २८.२३ ॥ अपत्यसन्ततिं दृष्ट्वा प्राज्ञो चानतिम् । वानप्रस्थाश्रमं गच्छेदात्मनः शुद्धिकारणात् ॥ २८.२४ ॥ तत्रारण्योपभोगश्च तपोभिश्चानुकर्षणम् । भूमौ शय्या ब्रह्मचर्यं पितृदेवातिथिक्रिया ॥ २८.२५ ॥ होमस्त्रिषवणस्त्रानं जटावल्कलधारणम् । योगाभ्यासः सदा चैव वन्यस्नेहनिषेवणम् ॥ २८.२६ ॥ इत्येष पापशुद्ध्यर्थमात्मनश्चोपकारकः । वानप्रस्थाश्रमस्तस्माद्भिक्षोस्तु चरमोऽपरः ॥ २८.२७ ॥ चतुर्थस्य स्वरूपं तु श्रुयतामाश्रमस्य मे । यः स्वधर्मोऽस्य धर्मज्ञैः प्रोक्तस्तात ! महात्मभिः ॥ २८.२८ ॥ सर्वसङ्गपरित्यागो ब्रह्मचर्यमकोपिता । यतेन्द्रियत्वमावासे नैकस्मिन् वसतिश्चिरम् ॥ २८.२९ ॥ अनारम्भस्तथाहारो भैक्षान्नेनैककालिना । आत्मज्ञानावबोधेच्छा तथा चात्मावलोकनम् ॥ २८.३० ॥ चतुर्थे त्वाश्रमे धर्मो मयायं ते निवेदितः । सामान्यमन्यवर्णानामाश्रमाणाञ्च मे शृणु ॥ २८.३१ ॥ सत्यं शौचमहिंसा च अनसूया तथा क्षमा । आनृशंस्यमकार्पण्यं सन्तोषश्चाष्टमो गुणः ॥ २८.३२ ॥ एते संक्षेपतः प्रोक्ता धर्मा वर्णाश्रमेषु ते । एतेषु च स्वधर्मेषु स्वेषु तिष्ठेत्समन्ततः ॥ २८.३३ ॥ यश्चोल्लङ्घ्य स्वकं धर्मं स्ववर्णाश्रमसंज्ञितम् । नरोऽन्यथा प्रवर्तेत स दण्ड्यो भूभृतो भवेत् ॥ २८.३४ ॥ ये च स्वधर्मसन्त्यागात्पापं कुर्वन्ति मानवाः । उपेक्षतस्तान्नृपतेरिष्टापूर्तं प्रणश्यति ॥ २८.३५ ॥ तस्माद्राज्ञा प्रयत्नेन सर्वे वर्णाः स्वधर्मतः । प्रवर्तन्तोऽन्यथा दण्ड्याः स्थाप्याश्चैव स्वकर्मसु ॥ २८.३६ ॥ इति श्रीमार्कण्डेयपुराणे पुत्रानुशासने मदालसावाक्यं नामाष्टाविंशोऽध्यायः _____________________________________________________________ ॰१ ऊनत्रिंशोऽध्यायः अलर्क उवाच यत्कार्यं पुरुषाणाञ्च गार्हस्थ्यमनुवर्तताम् । बन्धश्च स्यादकरणे क्रियाया यस्य चोच्छ्रितिः ॥ २९.१ ॥ उपकाराय यन्नृणां यच्च वर्ज्यं गृहे सता । यथा च क्रियते तन्मे यथावत्पृच्छतो वद ॥ २९.२ ॥ मदालसोवाच वत्स ! गार्हस्थ्यमादाय नरः सर्वमिदं जगत् । पुष्णाति तेन लोकांश्च स जयत्यभिवाञ्छितान् ॥ २९.३ ॥ पितरो मुनयो देवा भूतानि मनुजास्तथा । कृमिकीटपतङ्गाश्च वयांसि पशवोऽसुराः ॥ २९.४ ॥ गृहस्थमुपजीवन्ति ततस्तृप्तिं प्रयान्ति च । मुखं चास्य निरीक्षन्ते अपि नो दास्यतीति वै ॥ २९.५ ॥ सर्वस्याधारभूतेयं वत्स ! धेनुस्त्रयीमयी । यस्यां प्रतिष्ठितं विश्वं विश्वहेतुश्च या मता ॥ २९.६ ॥ ऋक्पृष्ठासौ यजुर्मध्या सामवक्त्रशिरोधरा । इष्टापूर्तविषाणा च साधुसूक्ततनूरुहा ॥ २९.७ ॥ शान्तिपुष्टिशकृन्मूत्रा वर्णपादप्रतिष्ठिता । आजीव्यमाना जगतां साक्षया नापचीयते ॥ २९.८ ॥ स्वाहाकारस्वधाकारौ वषट्कारश्च पुत्रक ! । हन्तकारस्तथा चान्यस्तस्याःस्तनचतुष्टयम् ॥ २९.९ ॥ स्वाहाकारं स्तनं देवाः पितरश्च स्वधामयम् । मुनयश्च वषट्कारं देवभूतसुरेतराः ॥ २९.१० ॥ हन्तकारं मनुष्याश्च पिबन्ति सततं स्तनम् । एवमाप्याययत्येषा वत्स ! धेनुस्त्रयीमयी ॥ २९.११ ॥ तेषामुच्छेदकर्ता च यो नरोऽत्यन्तपापकृत् । स तमस्यान्धतामिस्त्रे तामिस्त्रे च निमज्जति ॥ २९.१२ ॥ यश्चेमां मानवो धेनुं स्वैर्वत्सैरमरादिभिः । पाययत्युचिते काले स स्वर्गायोपपद्यते ॥ २९.१३ ॥ तस्मात्पुत्र ! मनुष्येण देवर्षिपितृमानवाः । भूतानि चानुदिवसं पोष्याणि स्वतनुर्यथा ॥ २९.१४ ॥ तस्मात्स्त्रातः शुचिर्भूत्वा देवर्षिपितृतर्पणम् । प्रजापतेस्तथैवादिभः काले कुर्यात्समाहितः ॥ २९.१५ ॥ सुमनोगन्धपुष्पैश्च देवानभ्यर्च्य मानवः । ततोऽग्नेस्तर्पणं कुर्याद्देयाश्च बलयस्तथा ॥ २९.१६ ॥ ब्रह्मणे गृहमध्ये तु विश्वेदेवेभ्य एव च । धन्वन्तरिं समुद्दिश्य प्रागुदीच्यां बलिं क्षिपेत् ॥ २९.१७ ॥ प्राच्यां शक्राय याम्यायां यमाय बलिमाहरेत् । प्रतीच्यां वरुणायाथ सोमायोत्तरतो बलिम् ॥ २९.१८ ॥ दद्याद्धात्रे विधात्रे बलिं द्वारे गृहस्य तु । अर्यम्णेऽथ बहिर्दद्याद्गृहेभ्यश्च समन्ततः ॥ २९.१९ ॥ नक्तञ्चरेभ्यो भूतेभ्यो बलिमाकाशतो हरेत् । पितॄणां निर्वपेच्चैव दक्षिणाभिमुखस्थितः ॥ २९.२० ॥ गृहस्थस्तत्परो भूत्वा सुसमाहितमानसः । ततस्तोयमुपादाय तेष्वेवाचमनाय वै ॥ २९.२१ ॥ स्थानेषु निक्षिपेत्प्राज्ञस्तास्ता उद्दिश्य देवताः । एवं गृहबलिं कृत्वा गृहे हृहपतिः शुचिः ॥ २९.२२ ॥ आप्यायनाय भूतानां कुर्यादुत्सर्गमादरात् । श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि ॥ २९.२३ ॥ वैश्वदेवं हि नामैतत्सायं प्रातरुदाहृतम् । आचम्य च ततः कुर्यात्प्राज्ञो द्वारावलोकनम् ॥ २९.२४ ॥ मुहूर्तस्याष्टमं भागमुदीक्ष्योऽप्यतिथिर्भवेत् । अतिथिं तत्र सम्प्राप्तमन्नाद्येनोदकेन च ॥ २९.२५ ॥ सम्पूजयेद्यथाशक्ति गन्धपुष्पादिभिस्तथा । न मित्रमतिथिं कुर्यान्नैकग्रामनिवासिनम् ॥ २९.२६ ॥ अज्ञातकुलनामानं तत्कालसमुपस्थितम् । बुभुक्षुमागतं श्रान्तं याचमानमकिञ्चनम् ॥ २९.२७ ॥ ब्राह्मणं प्राहुरतिथिं स पूज्यः शक्तितो बुधैः । न पृच्छेद्गोत्रचरणं स्वाध्यायञ्चापि पण्डितः ॥ २९.२८ ॥ शोभनाशोभनाकारं तं मन्येत प्रजापतिम् । अनित्यं हि स्थितो यस्मात्तस्मादतिथिरुच्यते ॥ २९.२९ ॥ तस्मिंस्तृप्ते नृयज्ञोत्थादृणान्मुच्येद्गृहाश्रमी । तस्माददत्त्वा यो भुङ्क्ते स्वयं किल्विषभुङ्नरः ॥ २९.३० ॥ स पापं केवलं भुङ्क्ते पुरीषञ्चान्यजन्मनि । अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ॥ २९.३१ ॥ स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति । अप्यम्बुशाकदानेन यद्वाप्यश्नाति स स्वयम् ॥ २९.३२ ॥ पूजयेत्तु नरः शक्त्या तेनैवातिथिमादरात् । कुर्याच्चाहरहः श्राद्धमन्नाद्येनोदकेन च ॥ २९.३३ ॥ पितॄनुद्दिश्य विप्रांश्च भोजयेद्विप्रमेव वा । अन्नस्याग्रं तदुद्धृत्य ब्राह्मणायोपपादयेत् ॥ २९.३४ ॥ भिक्षाञ्च याचतां दद्यात्परिव्राड्ब्रह्मचारिणाम् । ग्रासप्रमाणा भिक्षा स्यादग्रं ग्रासचतुष्टयम् ॥ २९.३५ ॥ अग्रं चतुर्गुणं प्राहुर्हन्तकारं द्विजोत्तमाः । भोजनं हन्तकारं वा अग्रं भिक्षामथापि वा ॥ २९.३६ ॥ अदत्त्वा तु न भोक्तव्यं यथाविभवमात्मनः । पूजयित्वातिथीनिष्टान् ज्ञातीन् बन्धूंस्तथार्थिनः ॥ २९.३७ ॥ विकलान् बालवृद्धांश्च भोजयेच्चातुरांस्तथा । वाञ्छते क्षुत्परीतात्मा यच्चान्योऽन्नमकिञ्चनः ॥ २९.३८ ॥ कुटुम्बिना भोजनीयः समर्थे विभवे सति । श्रीमन्तं ज्ञातिमासाद्य यो ज्ञातिरवसीदति ॥ २९.३९ ॥ सीदता यद्कृतं तेन तत्पापं स समश्नुते । सायं चैव विधिः कार्यः सूर्योढं तत्र चातिथिम् ॥ २९.४० ॥ पूजयीत यथाशक्ति शयनासनभोजनैः । एवमुद्दवहतस्तात ! गार्हस्थ्यं भारमाहितम् ॥ २९.४१ ॥ स्कन्धे विधाता देवाश्च पितरश्च महर्षयः । श्रेयोऽभिवर्षिणः सर्वे तथैवातिथिबान्धवाः ॥ २९.४२ ॥ पशुपक्षिगणास्तृप्ता ये चान्ये सूक्ष्मकीटकाः । गाथाश्चात्र महाभाग ! स्वयमत्रिरगायत ॥ २९.४३ ॥ ता शृणुष्व महाभाग ! गृहस्थाश्रमसंस्थिताः । देवान् पितॄंश्चातिथींश्च तद्वत्सम्पूज्य बान्धवान् ॥ २९.४४ ॥ जामयश्च गुरुञ्चैव गृहस्थो विभवे सति । श्वभ्यश्च श्वपचेभ्यश्च वयोभ्यश्चावपेद्भुवि ॥ २९.४५ ॥ वैश्वदेवं हि नामैतत्कुर्यात्सायं तथा दिने । मांसमन्नं तथा शाकं गृहे यच्चोपसाधितम् । न च तत्स्वयमश्नीयाद्विधिवद्यन्न निर्वपेत् ॥ २९.४६ ॥ इति श्रीमार्कण्डेयपुराणे मदालसोपदेशो नामोनत्रिंशोऽध्यायः _____________________________________________________________ त्रिंशोऽध्यायः मदालसोवाच नित्यं नैमित्तकञ्चैव नित्यनैमित्तिकं तथा । गृहस्थस्य तु यत्कर्म तन्निशामय पुत्रक ! ॥ ३०.१ ॥ पञ्चयज्ञाश्रितं नित्यं यदेतत्कथितं तव । नैमित्तिकं तथैवान्यत्पुत्रजन्मक्रियादिकम् ॥ ३०.२ ॥ नित्यनैमित्तिकं ज्ञेयं पर्वश्राद्धादि पण्डितैः । तत्र नैमित्तिकं वक्ष्ये श्राद्धमभ्युदयं तव ॥ ३०.३ ॥ पुत्रजन्मनि यत्कार्यं जातकर्मसमं नरैः । विवाहादौ च कर्तव्यं सर्वं सम्यक्क्रिमोदितम् ॥ ३०.४ ॥ पितरश्चात्र सम्पूज्याः ख्याता नान्दीमुखास्तु ये । पिण्डांश्च दधिसंमिश्रान् दद्याद्यवसमन्वितान् ॥ ३०.५ ॥ उदङ्मुखः प्राङ्मुखो वा यजमानः समाहितः । वैश्वदेवविहीनं तत्केचिदिच्छन्ति मानवाः ॥ ३०.६ ॥ युग्माश्चात्र द्विजाः कार्यास्ते च पूज्याः प्रदक्षिणम् । एतन्नैमित्तिकं वृद्धौ तथान्यच्चौर्ध्वदेहिकम् ॥ ३०.७ ॥ मृताहनि च कर्तव्यमेकोद्दिष्टं शृणुष्व तत् । दैवहीनं तथा कार्यं तथैवैकपवित्रकम् ॥ ३०.८ ॥ आवाहनं न कर्तव्यमग्नौकरणवर्जितम् । प्रेतस्य पिण्डमेकञ्च दद्यादुच्छिष्टसन्निधौ ॥ ३०.९ ॥ तिलोदकं चापसव्यं तन्नामस्मरणान्वितम् । अक्षय्यममुकस्येति स्थाने विप्रविसर्जने ॥ ३०.१० ॥ अभिरण्यतामिति ब्रूयाद्ब्रूयुस्तेऽभिरताः स्म ह । प्रतिमासं भवेदेतत्कार्यमा वत्सरं नरैः ॥ ३०.११ ॥ अथ संवत्सरे पूर्णे यदा वा क्रियते नरैः । सपिण्डीकरणं कार्यं तस्यापि विधिरुच्यते ॥ ३०.१२ ॥ तच्चापि दैवरहितमेकार्घ्यैकपवित्रकम् । नैवाग्नौकरणं तत्र तच्चावाहनवर्जितम् ॥ ३०.१३ ॥ अपसव्यञ्च तत्रापि भोजयेदयुजो द्विजान् । विशेषस्तत्र चान्योऽस्ति प्रतिमासं क्रियाधिकः ॥ ३०.१४ ॥ तं कथ्यमानमेकाग्रो वदन्त्या मे निशामय । तिलगन्धोदकैर्युक्तं तत्र पात्रचतुष्टयम् ॥ ३०.१५ ॥ कुर्यात्पितॄणां त्रितयमेकं प्रेतस्य पुत्रक । पात्रत्रये प्रेतपात्रमर्घ्यञ्चैव प्रसेचयेत् ॥ ३०.१६ ॥ ये समाना इति जपन् पूर्ववच्छेषमाचरेत् । स्त्रीणामप्येवमेवैतदेकीद्दिष्टमुदाहृतम् ॥ ३०.१७ ॥ सपिण्डीकरणं तासां पुत्राभावे न विद्यते । प्रतिसंवत्सरं कार्यमेकोद्दिष्टं नरैः स्त्रियाः ॥ ३०.१८ ॥ मृताहनि यथान्यायं नृणां यद्वदिहोदितम् । पुत्राभावे सपिण्डास्तु तदभावे सहोदकाः ॥ ३०.१९ ॥ मातुः सपिण्डा ये च स्युर्ये च मातुः सहोदकाः । कुर्युरेनं विधिं सम्यगपुत्रस्य सुतासुतः ॥ ३०.२० ॥ कुर्युर्मातामहायैवं पुत्रिकास्तनयास्तथा । द्व्यामुष्यायणसंज्ञास्तु मातामहपितामहान् ॥ ३०.२१ ॥ पूजयेयुर्यथान्यायं श्राद्धैर्नैमित्तिकैरपि । सर्वाभावे स्त्रियः कुर्युः स्वभर्तॄणाममन्त्रकम् ॥ ३०.२२ ॥ तदभावे च नृपतिः कारयेत्स्वकुटुम्बिना । तज्जातीयैर्नरैः सम्याग्दाहाद्याः सकलाः क्रियाः ॥ ३०.२३ ॥ सर्वेषामेव वर्णानां बान्धवो नृपतिर्यतः । एतास्ते कथिता वत्स ! नित्यनैमित्तकास्तथा ॥ ३०.२४ ॥ क्रियां श्राद्धाश्रयामन्यां नित्यनैमित्तिकीं शृणु । दर्शस्तत्र निमित्तं वै कालश्चन्द्रक्षयात्मकः । नित्यातां नियतः कालस्तस्याः संसूचयत्यथ ॥ ३०.२५ ॥ इति श्रीमार्कण्डेयपुराणे अलर्कानुशासने नैमित्तिकादिश्राद्धकल्पो नाम त्रिंशोऽध्यायः _____________________________________________________________ एकत्रिंशोऽध्यायः मदालसोवाच सपिण्डीकरणादूर्ध्वं पितुर्यः प्रपितामहः । स तु लेपभुजो याति प्रलुप्तः पितृपिण्डतः ॥ ३१.१ ॥ तेषामन्यश्चतुर्थो यः पुत्रलेपभुजान्नभुक् । सोऽपि सम्बन्धतो हीनमुपभोगं प्रपद्यते ॥ ३१.२ ॥ पिता पितामहश्चैव तथैव प्रपितामहः । पिण्डसम्बन्धिनो ह्येते विज्ञेयाः पुरुषास्त्रयः ॥ ३१.३ ॥ तेपसम्बन्धिनश्चान्ये पितामहपितामहात् । प्रभृत्युक्तास्त्रयस्तेषां यजमानश्च सप्तमः ॥ ३१.४ ॥ इत्येष मु नभिः प्रोक्तः सम्बन्धः साप्तपौरुषः । यजमानात्प्रभृत्यूर्ध्वमनुलेपभुजस्तथा ॥ ३१.५ ॥ ततोऽन्ये पूर्वजाः सर्वे ये चान्ये नरकौकसः । ये च तिर्यक्त्वमापन्ना ये च भूतादिसंस्थिताः ॥ ३१.६ ॥ तान् सर्वान् यजमानो वै श्राद्धं कुर्वन् यथाविधि । समाप्याययते वत्स ! येन येन शृणुष्व तत् ॥ ३१.७ ॥ अन्नप्रकिरणं यत्तु मनुष्यैः क्रियते भुवि । तेन तृत्पिमुपायान्ति ये पिशाचत्वमागताः ॥ ३१.८ ॥ यदम्बु स्त्रानवस्त्रोत्थं भूमौ पतति पुत्रक ! । तेन ये तरुतां प्राप्तास्तेषां तृप्तिः प्रजायते ॥ ३१.९ ॥ यास्तु गात्राम्बुकणिकाः पतन्ति धरणीतले । ताभिराप्यायनं तेषां ये देवत्वं कुले गताः ॥ ३१.१० ॥ उद्धृतेष्वथ पिण्डेषु याश्चान्नकणिका भुवि । ताभिराप्यायनं प्राप्ता ये तिर्यकत्वं कुले गताः ॥ ३१.११ ॥ ये वादग्धाः कुले बालाः क्रियायोग्या ह्यसंस्कृताः । विपन्नास्तेऽन्नविकिरसंमार्जनजलाशिनः ॥ ३१.१२ ॥ भुक्त्वा चाचामतां यच्च जलं यच्चाङ्घ्रिसेचने । ब्राह्मणानां तथैवान्ये तेन तृप्तिं प्रयान्ति वै ॥ ३१.१३ ॥ एवं यो यजमानस्य यश्च तेषां द्विजन्मनाम् । कश्चिज्जलान्नविक्षेपः शुचिरुच्छिष्ट एव वा ॥ ३१.१४ ॥ तेनान्ये तत्कुले तत्र तत्तद्योन्यन्तरं गताः । प्रयान्त्याप्यायनं वत्स ! सम्यक्श्राद्धक्रियावताम् ॥ ३१.१५ ॥ अन्यायोपार्जितैरर्थैर्यच्छ्राद्धं क्रियते नरैः । तृप्यन्ते तेन चाण्डालपुक्कसाद्यासु योनिषु ॥ ३१.१६ ॥ एवमाप्यायनं वत्स ! बहूनामिह बान्धवैः । श्राद्धं कुर्वदिभरन्नाम्बुबिन्दुक्षेपेण जायते ॥ ३१.१७ ॥ तस्माच्छ्राद्धं नरो भक्त्या शाकैरपि यथाविधि । कुर्वोत कुर्वतः श्राद्धं कुले कश्चिन्न सीदति ॥ ३१.१८ ॥ तस्य कालानहं वक्ष्ये नित्यनैमित्तिकात्मकान् । विधिना येन च नरैः क्रियते तन्निबोध मे ॥ ३१.१९ ॥ कार्यं श्राद्धममावास्यां मासि मास्युडुपक्षये । तथाष्टकास्वप्यवश्यमिच्छाकालं निबोध मे ॥ ३१.२० ॥ विशिष्टब्राह्मणप्राप्तौ सूर्येन्दुग्रहणेऽयने । विषुवे रविसंक्रान्तौ व्यतिपाते च पुत्रक ॥ ३१.२१ ॥ श्राद्धार्हद्रव्यसम्प्राप्तौ तथा दुःस्वप्नदर्शने । जन्मर्क्षग्रहपीडासु श्राद्धं कुर्वोत चेच्छया ॥ ३१.२२ ॥ विशिष्टः श्रोत्रियो योगी वेदविज्ज्येष्ठसामगः । त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णः षडङ्गवित् ॥ ३१.२३ ॥ दौहित्रऋत्विग्जामातृस्वस्त्रीयाः श्वशुरस्तथा । पञ्चाग्निकर्मनिष्ठश्च तपोनिष्ठोऽथ मातुलः ॥ ३१.२४ ॥ मातापितृपराश्चैव शिष्यसम्बन्धिबान्धवाः । एते द्विजोत्तमाः श्राद्धे समस्ताः केतनक्षमाः ॥ ३१.२५ ॥ अवकीर्णो तथा रोगी न्यूने चाङ्गे तथाधिके । पौनर्भवस्तथा काणः कुण्डो गोलोऽथ पुत्रक ॥ ३१.२६ ॥ मित्रध्रुक्कुनखी क्लीबः श्यावदन्तो निराकृतिः । अबिशस्तस्तु तातेन पिशुनः सोमविक्रयी ॥ ३१.२७ ॥ कन्यादूषयिता वैद्यो गुरुपित्रोस्तथोज्झकः । भृतकाध्यापकोऽमित्रः परपूर्वापतिस्तथा ॥ ३१.२८ ॥ वेदोज्झोऽथाग्निसन्त्यागी वृषलीपतिदूषितः । तथान्ये च विकर्मस्था वर्ज्याः पित्र्येषु वै द्विजाः ॥ ३१.२९ ॥ निमन्त्रयेत पूर्वेद्युः पूर्वोक्तान् द्विजसत्तमान् । दैवे नियोगे पित्र्ये च तांस्तथैवोपकल्पयेत् ॥ ३१.३० ॥ तैश्च संयतिभिर्भाव्यं यश्च श्राद्धं करिष्यति । श्राद्धं दत्त्वा च भुक्त्वा च मैथुनं योऽनुगच्छति ॥ ३१.३१ ॥ पितरस्तु तयोर्मासं तस्मिन रेतसि शेरते । गत्वा च योषितं श्राद्धे यो भुङ्क्ते यश्च गच्छति ॥ ३१.३२ ॥ रेतोमूत्रकृताहारास्तन्मासं पितरस्तयोः । तस्मात्तु प्रथमं कार्यं प्राज्ञेनोपनिमन्त्रणम् ॥ ३१.३३ ॥ अप्राप्तौ तद्दिने चापि वर्ज्या योषित्प्रसङ्गिनः । भिक्षार्थमागतान् वापि काले संयमिनो यतीन् ॥ ३१.३४ ॥ भोजयेत्प्रणिपाताद्यैः प्रासाद्य यतमानसः । यथैव शुक्लपक्षाद्वै पितॄणामसितः प्रियः ॥ ३१.३५ ॥ तथापराह्नः पूर्वाह्नात्पितॄणामतिरित्यते । संपूज्य स्वागतेनैतानभ्युपेतान् गृहे द्विजान् ॥ ३१.३६ ॥ पवित्रपाणिराचान्तानासनेषूपवेशयेत् । पितॄणामयुजः कामं युग्मान् दैवे द्विजोत्तमान् ॥ ३१.३७ ॥ एकैकं वा पितॄणाञ्च देवानाञ्च स्वशक्तितः । तथा मातामहानाञ्च तुल्यं वा वैश्वदेविकम् ॥ ३१.३८ ॥ पृथक्तयोस्तथा चान्ये केचिदिच्छन्ति मानवाः । प्राङ्मुखान्दैवसङ्कल्पान् पैत्र्यान् कुर्यादुदङ्मुखान् ॥ ३१.३९ ॥ तथैव मातामहानां विधिरुक्तो मनीषिभिः । विष्टरार्थे कुशान् दत्त्वा पूज्य चार्घ्यादिना बुधः ॥ ३१.४० ॥ पवित्रकादि वै दत्त्वा तेभ्योऽनुज्ञामवाप्य च । कुर्यादावाहनं प्राज्ञो देवानां मन्त्रतो द्विजः ॥ ३१.४१ ॥ यवाम्भोभिस्तथा चार्घ्यं दत्त्वा वै वैश्वदेविकम् । गन्धमाल्याम्बुधूपञ्च दत्त्वा सम्यक्सदिपकम् ॥ ३१.४२ ॥ अपसव्यं पितॄणाञ्च सर्वमेवोपकल्पयेत् । दर्भांश्च द्विगुणान् दत्त्वा तेभ्योऽनुज्ञामवाप्य च ॥ ३१.४३ ॥ मन्त्रपूर्वं पितॄणाञ्च कुर्यादावाहनं बुधः । अपसव्यं तथा चार्घ्यं यवार्थञ्च तथा तिलैः ॥ ३१.४४ ॥ निष्पादयेन्महाभाग ! पितॄणं प्रीणने रतः । अग्नौ कार्यमनुज्ञातः कुरुष्वेति ततो द्विजैः ॥ ३१.४५ ॥ जुहुयाद्व्यञ्जनक्षारवर्ज्यमन्नं यथाविधि । अग्नये कव्यवाहाय स्वहेति प्रथमाहुतिः ॥ ३१.४६ ॥ सोमाय वै पितृमते स्वाहेत्यन्या तथा भवेत् । यमाय प्रेतपतये स्वाहेति त्रितयाहुतिः ॥ ३१.४७ ॥ हुतावशिष्टं दद्याच्च भाजनेषु द्विजन्मनाम् । भाजनालम्भनं कृत्वा दद्याच्चान्नं यथाविधि ॥ ३१.४८ ॥ यथा सुखं जुषध्वं भो इति वाच्यमनिष्ठुरम् । भुञ्जीरंश्च ततस्तेऽपि तच्चित्ता मौनिनः सुखम् ॥ ३१.४९ ॥ यद्यदिष्टचतमं तेषां तत्तदन्नमसत्वरम् । अक्रुध्यंश्च नरो दद्यात्सम्भवेन प्रलोभयन् ॥ ३१.५० ॥ रक्षोघ्रांश्च जपेन्मन्त्रांस्तिलैश्च विकिरेन्महीम् । सिद्धार्थकैश्च रक्षार्थं श्राद्धं हि प्रचुरच्छलम् ॥ ३१.५१ ॥ पृष्टैस्तृप्तैश्च तृप्ताः स्थ तृप्ताः स्म इति वादिभिः । अनुज्ञातो नरस्त्वन्नं प्रकिरेत्भुवि सर्वतः ॥ ३१.५२ ॥ तद्वदाचमनार्थाय दद्यादापः सकृत्सकृत् । अनुज्ञाञ्च ततः प्राप्य यतवाक्कायमानसः ॥ ३१.५३ ॥ सतिलेन ततोऽन्नेन पिण्डान् सव्येन पुत्रक ! । पितनुद्दिश्य दर्भेषु दद्यादुच्छिष्टसन्निधौ ॥ ३१.५४ ॥ पितृतीर्थेन तोयञ्च दद्यात्तेभ्यः समाहितः । पितॄनिद्दिश्य यद्भक्त्या यजमानो नृपात्मज ॥ ३१.५५ ॥ तद्वन्मातामहानाञ्च दत्त्वा पिण्डान् यथाविधि । गन्धमाल्यादिसंयुक्तं दद्यादाचमनं ततः ॥ ३१.५६ ॥ दत्त्वा च तक्षिणां शक्त्या सुस्वधास्त्विति तान् वदेत् । तैश्च तुष्टैस्तथेत्युक्त्वा वाचयेद्वैश्वदेविकान् ॥ ३१.५७ ॥ प्रीयन्तामिति भद्रं वो विश्वेदेवा इतीरयेन् । तथेति चोक्ते तैर्विप्रैः प्रार्थनीयास्तदाशिषः ॥ ३१.५८ ॥ विसर्जयेत्प्रियाण्युक्त्वा प्रणिपत्य च भक्तितः । आद्वारमनुगच्छेच्चागच्छेच्चानुप्रमोदितः ॥ ३१.५९ ॥ ततो नित्यक्रियां कुर्याद्भोजयेच्च तथातिथीन् । नित्यक्रियां पितॄणाञ्च केचिदिच्छन्ति सत्तमाः ॥ ३१.६० ॥ न पितॄणान्तथैवान्ये शेषं पूर्ववदाचरेत् । पृथक्पाकेन नेत्यन्ये केचित्पूर्वञ्च पूर्ववत् ॥ ३१.६१ ॥ ततस्तदन्नं भुञ्जीत सह भृत्यादिभिर्नरः । एवं कुर्वोत धर्मज्ञः श्राद्धं पित्र्यं समाहितः ॥ ३१.६२ ॥ यथा वा द्विजमुख्यानां परितोषोऽभिजायते । त्रीणि श्राद्धे पवित्राणि दौहित्रं कुतपस्तिलाः ॥ ३१.६३ ॥ वर्ज्यानि चाहुर्विप्रेन्द्र ! कोपोऽध्वगमनं त्वरा । राजतञ्च तथा पात्रं शस्तं श्राद्धेषु पुत्रक ! ॥ ३१.६४ ॥ रजतस्य तथा कार्यं दर्शनं दानमेव वा । राजते हि स्वधा दुग्धा पितृभिः श्रूयते मही । तस्मात्पितॄणां रजतमभीष्टं प्रीतिवर्धनम् ॥ ३१.६५ ॥ इति श्रीमार्कण्डेयपुराणेऽलर्कानुशासने पार्वणश्राद्धकल्पोनाम एकत्रिंशोऽध्यायः _____________________________________________________________ द्वात्रिंशोऽध्यायः मदालसोवाच अतः परं शृणुष्वेमं पुत्र ! भक्त्या यदाहृतम् । पितॄणां प्रीतये यद्वा वर्ज्यं वा प्रीतिकारकम् ॥ ३२.१ ॥ मासं पितॄणां तृप्तिश्च हविष्यान्नेन जायते । मासद्वयं मत्स्यमांसैस्तृप्तिं यान्ति पितामहाः ॥ ३२.२ ॥ त्रीन्मासान् हारिणां मांसं विज्ञेयं पितृतृप्तये । चतुर्मासांस्तु पुष्णाति शशस्य पिशितं पितॄन् ॥ ३२.३ ॥ शाकुनं पञ्च वै मासान् षण्मासान् शूकरामिषम् । छागलं सप्त वै मासानैणेयञ्चाष्टमासिकीम् ॥ ३२.४ ॥ करोति तृप्तिं नव वै रुरोर्मांसं न संशयः । गवयस्यामिषं तृप्तिं करोति दशमासिकीम् ॥ ३२.५ ॥ तथैकादशमासंस्तु औरभ्रं पितृतृप्तिदम् । संवत्सरं तथा गव्यं पयः पायसमेव वा ॥ ३२.६ ॥ वाध्रीणसामिषं लौहं कालशाकन्तथा मधु । दौहित्रामिषमन्यच्च यच्चान्यत्स्वकुलोद्भवैः ॥ ३२.७ ॥ अनन्तां वै प्रयच्छन्ति तृप्तिं गौरीसुतस्तथा । पितॄणां नात्र सन्देहो गायाश्राद्धञ्च पुत्रक ॥ ३२.८ ॥ श्यामाकराजश्यामाकौ तद्वच्चैव प्रसातिकाः । नीवाराः पौष्कलाश्चैव धान्यानां पितृतृप्तये ॥ ३२.९ ॥ यवव्रीहिसगोधूमतिला मुद्गाः ससर्षपाः । प्रियङ्गवः कोविदारा निष्पावाश्चातिशोभनाः ॥ ३२.१० ॥ वर्ज्या मर्कटकाः श्राद्धे राजमाषास्तथाणवः । विप्राषिका मसूराश्च श्राद्धकर्मणि गर्हिताः ॥ ३२.११ ॥ लशुनं गृञ्जनञ्चैव पलाण्डं,पिण्डमूलकम् । करम्भं यानि चान्यानि हीनानि रसवर्णतः ॥ ३२.१२ ॥ गान्धारिकामलाबूनि लवणान्यूषराणि च । आरक्ता ये च निर्यासाः प्रत्यक्षलवणानि च ॥ ३२.१३ ॥ वर्ज्यान्येतानि वै श्राद्धे यच्च वाचा न शस्यते । यच्चोत्कोचादिना प्राप्तं पतिताद्यदुपार्जितम् ॥ ३२.१४ ॥ अन्यायकन्याशुल्कोत्थं द्रव्यञ्चात्र विगर्हितम् । दुर्गन्धि फेनिलञ्चाम्बु तथैवाल्पतरोदकम् ॥ ३२.१५ ॥ न लभेद्यत्र गौस्तृप्तिं नक्तं यच्चाप्युपाहृतम् । यन्न सर्वापचोत्सृष्टं यच्चाभोज्यं निपानजम् ॥ ३२.१६ ॥ तद्वर्ज्यं सलिलं तात ! सदैव पितृकर्मणि । मार्गमाविकमौष्ट्रञ्च सर्वमैकशफञ्च यत् ॥ ३२.१७ ॥ माहिषञ्चामरञ्चैव धेन्वा गोश्चाप्यनिर्दशम् । पित्रर्थं मे प्रयच्छस्वेत्युक्त्वा यच्चाप्युपाहृतम् ॥ ३२.१८ ॥ वर्जनीयं सदा सदिभस्तत्पयः श्राद्धकर्मणि । वर्ज्या जन्तुमती रूक्षा क्षितिः प्लुष्टा तथाग्निना ॥ ३२.१९ ॥ अनिष्टदुष्टशब्दोग्रदुर्गन्धा चात्र कर्मणि । कुलापमानकाः श्राद्धे व्यायुज्य कुलहिंसकाः ॥ ३२.२० ॥ नग्नाः पातकिनश्चैव हन्युर्दृष्ट्या पितृक्रियाम् । अपुमानपविद्धश्च कुक्कुटो ग्रामशूकरः ॥ ३२.२१ ॥ श्वा चैव हन्ति श्राद्धानि यातुधानाश्च दर्शनात् । तस्मात्सुसंवृतो दद्यात्तिलैश्चावकिरन्महीम् ॥ ३२.२२ ॥ एवं रक्षा भवेच्छ्राद्धे कृता तातोभयोरपि । शावसूतकसंस्पृष्टं दीर्घरोगिभिरेव च ॥ ३२.२३ ॥ पतितैर्मलिनैश्चैव न पुष्णाति पितामहान् । वर्जनीयं तथा श्राद्धे तथोदक्याश्च दर्शनम् ॥ ३२.२४ ॥ मुण्डशौण्डसमाभ्यासो यजमानेन यादरात् । केशकीटावपन्नञ्च तथाश्वभिरवेक्षितम् ॥ ३२.२५ ॥ पूति पर्युषितञ्चैव वार्ताक्यभिषवांस्तथा । वर्जनीयानि वै श्राद्धे यच्च वस्त्रानिलाहतम् ॥ ३२.२६ ॥ श्रद्धया परया दत्तं पितॄणां नामगोत्रतः । यदाहारास्तु ते जातास्तदाहारत्वमेति तत् ॥ ३२.२७ ॥ तस्मात्श्रद्धावता पात्रे यच्छस्तं पितृकर्मणि । यथावच्चैव दातव्यं पितॄणां तृप्तिमिच्छता ॥ ३२.२८ ॥ योगिनश्च सदा श्राद्धे भोजनीया विपश्चिता । योगाधारा हि पिररस्तस्मात्तान् पूजयेत्सदा ॥ ३२.२९ ॥ ब्राह्मणानां सहस्रेभ्यो योगी त्वग्राशनी यदि । यजमानञ्च भोक्तॄंश्च नौरिवाम्भसि तारयेत् ॥ ३२.३० ॥ पितृगाथास्तथवात्र गीयन्ते ब्रह्मवादिभिः । या गीताः पितृभिः पूर्वमैलस्यासीन्महीपतेः ॥ ३२.३१ ॥ कदा नः सन्ततावग्र्यः कस्यचिद्भविता सुतः । यो योगिभुक्तशोषान्नो भुवि पिण्डं प्रदास्यति ॥ ३२.३२ ॥ गयायामथवा पिण्डं खड्गमांसं महाहविः । कालशाकं तिलाढ्यं वा कृसरं मासतृप्तये ॥ ३२.३३ ॥ वैश्वदेवञ्च सौम्यञ्च खड्गमांसं परं हविः । विषाणवर्ज्यखड्गाप्त्या आसूर्यञ्चाश्नुवामहे ॥ ३२.३४ ॥ दद्यात्श्राद्धं त्रयोदश्यां मघासु च यथाविधि । मधुसर्पिः समायुक्तं पायसं दक्षिणायने ॥ ३२.३५ ॥ तस्मात्सम्पूजयेत्भक्त्या स्वपितॄन् पुत्र मानवः । कामानभीप्सन् सकलान् पापाच्चात्मविमोचनम् ॥ ३२.३६ ॥ वसून् रुद्रांस्तथादित्यान्नक्षत्रग्रहतारकाः । प्रीणयन्ति मनुष्याणां पितरः श्राद्धतर्पिताः ॥ ३२.३७ ॥ आयुः प्रज्ञां धनं विद्यां स्वर्गं मोक्षं सुखानि च । प्रयच्छन्ति तथा राज्यं पितरः श्राद्धतर्पिताः ॥ ३२.३८ ॥ एतत्ते पुत्र ! कथितं श्राद्धकर्म यथोदितम् । काम्यानां श्रूयतां वत्स ! श्राद्धानां तिथिकीर्तनम् ॥ ३२.३९ ॥ इति श्रीमार्कण्डेयपुराणे श्राद्धकल्पो नाम द्वात्रिंशोऽध्यायः _____________________________________________________________ त्रयस्त्रिंशोऽध्यायः मदालसोवाच प्रतिपद्धनलाभाय द्वितीया द्विपदप्रदा । वरार्थिनी तृतीया तु चतुर्थो शत्रुनाशिनी ॥ ३३.१ ॥ श्रियं प्राप्रोति पञ्चम्यां षष्ठ्यां पूज्यो भवेन्नरः । गणाधिपत्यं सप्तम्यामष्टम्यां वृद्धिमुत्तमाम् ॥ ३३.२ ॥ स्त्रियो नवम्यां प्राप्रोति दशम्यां पूर्णकामताम् । वेदांस्तथाप्नुयात्सर्वानेकादश्यां क्रियापरः ॥ ३३.३ ॥ द्वादश्यां जयलाभञ्च प्राप्रोति पितृपूजकः । प्रजां मेधां पशुं वृद्धिं स्वतन्त्र्यं पुष्टमुत्तमाम् ॥ ३३.४ ॥ दीर्घमायुरथैश्वर्यं कुर्वाणस्तु त्रयोदशीम् । अवाप्रोति न सन्देहः श्राद्धं श्रद्धापरो नरः ॥ ३३.५ ॥ यथासम्भावितान्नेन श्राद्धसम्पत्समन्वितः । युवानः पितरो यस्य मृताः शस्त्रेण वा हताः ॥ ३३.६ ॥ तेन कार्यं चतुर्दश्यां तेषां प्रीतिमभीप्सता । श्राद्धं कुर्वन्नमावास्यां यत्नेन पुरुषः शुचिः ॥ ३३.७ ॥ सर्वान् कामानवाप्रोति स्वर्गञ्चानन्तमश्नुते । कुत्तिकासु पितॄनर्च्य स्वर्गमाप्रोति मानवः ॥ ३३.८ ॥ अपत्यकामो रोहिण्यां सौम्ये चौजस्वितां लभेत् । शौर्यमार्द्रासु चाप्रोति क्षेत्रादि च पुनर्वसौ ॥ ३३.९ ॥ पुष्टिं पुष्ये सदाभ्यर्च्य आश्लेषासु वरान् सुतान् । मघासु स्वजनश्रैष्ठ्यं सौभाग्यं फाल्गुनीषु च ॥ ३३.१० ॥ प्रदानशीलो भवति सापत्यश्चोत्तरासु च । प्रयाति श्रेष्ठतां सत्यं हस्ते श्राद्धप्रदो नरः ॥ ३३.११ ॥ रूपयुक्तश्च चित्रासु तथापत्यान्यवाप्नुयात् । वाणिज्यलाभदा स्वातिर्विशाखा पुत्रकामदा ॥ ३३.१२ ॥ कुर्वन्तश्चानुराधासु लभन्ते चक्रावर्तिताम् । आधिपत्यञ्च ज्येष्ठासु मूले चारोग्यमुत्तमम् ॥ ३३.१३ ॥ आषाढासु यशः प्राप्तिरुत्तरासु विशोकता । श्रवणे च शुभान् लोकान् धनिष्ठासु धनं महत् ॥ ३३.१४ ॥ वेदवित्त्वमभिजिति भिषक्सिद्धन्तु वारुणे । अजाविकं प्रौष्ठपदे विन्देद्गास्तु तथोत्तरे ॥ ३३.१५ ॥ रेवतीषु तथा कुप्यमश्विनीषु तुरङ्गमान् । श्राद्धं कुर्वंस्तथाप्रोति भरणीष्वायुरुत्तमम् । तस्मात्काम्यानि कुर्वोत ऋक्षेष्वेतेषु तत्त्ववित् ॥ ३३.१६ ॥ इति श्रीमार्कण्डेयपुराणे काम्यश्राद्धफलकथनं नाम त्रयस्त्रिंशोऽध्यायः _____________________________________________________________ चतुस्त्रिंशोऽध्यायः मदालसोवाच एवं पुत्र ! गृहस्थेन देवताः पितरस्तथा । संपूज्या हव्यकव्याभ्यामन्नेनातिथिबान्धवाः ॥ ३४.१ ॥ भूतानि भृत्याः सकलाः पशुपक्षिपिपीलिकाः । भिक्षवो याचमानाश्च ये चान्ये वसता गृहे ॥ ३४.२ ॥ सदाचारवता तात ! साधुना गृहमेधिना । पापं भुङ्क्ते समुल्लङ्घ्य नित्यनैमित्तिकीः क्रियाः ॥ ३४.३ ॥ अलर्क उवाच कथितं मे त्वया मातर्नित्य नैमित्तिकञ्च यत् । नित्यनैमित्तिकञ्चैव त्रिविधं कर्म पौरुषम् ॥ ३४.४ ॥ सदाचारमहं श्रोतुमिच्छामि कुलनन्दिनि । यत्कुर्वन् सुखमाप्रोति परत्रेह च मानवः ॥ ३४.५ ॥ मदालसोवाच गृहस्थेन सदा कार्यमाचारपरिपालनम् । न ह्याचारविहीनस्य सुखमत्र परत्र वा ॥ ३४.६ ॥ यज्ञदानतपांसीह पुरुषस्य च भूतये । भवन्ति यः सदाचारं समुल्लङ्घ्य प्रवर्तते ॥ ३४.७ ॥ दुराचारो हि पुरुषो नेहायुर्विन्दते महत् । कार्यो यत्नः सदाचारे आचारो हन्त्यलक्षणम् ॥ ३४.८ ॥ तस्य स्वरूपं वक्ष्यामि सदाचारस्य पुत्रक । तन्ममैकमनाः श्रुत्वा तथैव परिपालय ॥ ३४.९ ॥ त्रिवर्गसाधने यत्नः कर्तव्यो गृहमेधिना । तत्संसिद्धो गृहस्थस्य सिद्धिरत्र परत्र च ॥ ३४.१० ॥ पादेनार्थस्य पारत्र्यं कुर्यात्सञ्चयमात्मवान् । अर्धेन चात्मभरणन्नित्यनैमित्तिकान्वितम् ॥ ३४.११ ॥ पादञ्चात्मार्थमायस्य मूलभूतं विवर्धयेत् । एवमाचरतः पुत्र ! अर्थः साफल्यमर्हति ॥ ३४.१२ ॥ तद्वत्पापनिषेधार्थं धर्मः कार्यो विपश्चिता । परत्रार्थं तथैवान्यः काम्योऽत्रैव फलप्रदः ॥ ३४.१३ ॥ प्रत्यवायभयात्काम्यस्तथान्यश्चाविरोधवान् । द्विधा कामोऽपि गदितस्त्रिवर्गस्याविरोधतः ॥ ३४.१४ ॥ परम्परानुबन्धांश्च धर्मादींस्तान् शृणुष्व मे ॥ ३४.१५ ॥ धर्मो धर्मानुबन्धार्थो धर्मो नात्मार्थबाधकः । उभाभ्याञ्च द्विधा कामस्तेन तौ च द्विधा पुनः ॥ ३४.१६ ॥ बाह्मे मुहूर्ते बुध्येत धर्मार्थौ चापि चिन्तयेत् । समुत्थाय तथाचम्य प्राङ्मुखो नियतः शुचिः ॥ ३४.१७ ॥ पूर्वां सन्ध्यां सनक्षत्रां पश्चिमां सदिवाकराम् । उपासीत यथान्यायं नैनां जह्यादनापदि ॥ ३४.१८ ॥ असत्प्रलापमनृतं वाक्पारुष्यञ्च वर्जयेत् । असच्छास्त्रमसद्वादमसत्सेवाञ्च पुत्रक ! ॥ ३४.१९ ॥ सायं प्रापतस्तथा होमं कुर्वोत नियतात्मवान् । नोदयास्तमने बिम्बमुदीक्षेत विवस्वतः ॥ ३४.२० ॥ केशप्रसाधनादर्शदर्शनं दन्तधावनम् । पूर्वाह्न एव कार्याणि देवतानाञ्च तर्पणम् ॥ ३४.२१ ॥ ग्रामावसथतीर्थानां क्षेत्राणाञ्चैव वर्त्मनि । विण्मूत्रं नानुतिष्ठेत न कृष्टे न च गोव्रजे ॥ ३४.२२ ॥ नग्नां परस्त्रियं नेक्षेन्न पश्येदात्मनः सकृत् । उदक्या दर्शनां स्पर्शो वर्ज्यं सम्भाषणन्तथा ॥ ३४.२३ ॥ नाप्सु मूत्रं पुरीषं वा मैथुनं वा समाचरेत् । नाधितिष्ठेच्छकृन्मूत्रकेशभस्मकपालिकाः ॥ ३४.२४ ॥ तुषाङ्गारास्थिशीर्णानि रज्जुवस्त्रादिकानि च । नाधितिष्ठेत्तथा प्राज्ञः पथि चैवन्तथा भुवि ॥ ३४.२५ ॥ पितृदेवमनुष्याणां भूतानाञ्च तथार्च्चनम् । कृत्वा विभवतः पश्चाद्गृहस्थो भोक्तुमर्हति ॥ ३४.२६ ॥ प्राङ्मुखोदङ्मुखो वापि स्वाचान्तो वाग्यतः शुचिः । भुञ्जीतान्नञ्च तच्चित्तो ह्यन्तर्जानुः सदा नरः ॥ ३४.२७ ॥ उपगातादृते दोषं नान्यस्योदीरयेद्बुधः । प्रत्यक्षलवणं वर्ज्यमन्नमत्युष्णमेव च ॥ ३४.२८ ॥ न गच्छन्न च तिष्ठन् वै विण्मूत्रोत्सर्गमात्मवान् । कुर्वोत नैव चाचामन् यत्किञ्चिदपि भक्षयेत् ॥ ३४.२९ ॥ उच्छिष्टो नालपेत्किञ्चित्स्वाध्यायञ्च विवर्जयेत् । गां ब्राह्मणं तथा चाग्निं स्वमूर्धानञ्च न स्पृशेत् ॥ ३४.३० ॥ न च पश्येद्रविं नेन्दुं न नक्षत्राणि कामतः । भिन्नासनं तथा शय्यां भाजनञ्च विवर्जयेत् ॥ ३४.३१ ॥ गुरूणामासनं देयमभ्युत्थानादिसत्कृतम् । अनुकूलं तथालापमभिवादनपूर्वकम् ॥ ३४.३२ ॥ तथानुगमनं कुर्यात्प्रतिकूलं न संजयेत् । नैकवस्त्रश्च भुञ्जीत न कुर्याद्देवतार्चनम् ॥ ३४.३३ ॥ न वाहयेद्द्विजान्नाग्नौ मेहं कुर्वोत्बुद्धिमान् । स्नायीत न नरो नग्नो न शयीत कदाचन ॥ ३४.३४ ॥ न पाणिभ्यामुभाभ्याञ्च कण्डूयेत शिरस्तथा । न चाभीक्ष्णं शिरः स्त्रानं कार्यं निष्कारणं नरैः ॥ ३४.३५ ॥ शिरः स्त्रातश्च तैलेन नाङ्गं किञ्चिदपि स्पृशेत् । अनध्यायेषु सर्वेषु स्वाध्यायञ्च विवर्जयेत् ॥ ३४.३६ ॥ ब्राह्मणानिलगोसूर्यान्न मेहेत कदाचन । उदङ्मुखो दिवा रात्रावुत्सर्गं दक्षिणामुखः ॥ ३४.३७ ॥ आबाधाषु यथाकामं कुर्यान्मूत्रपुरीषयोः । दुष्कृतं न गुरोर्ब्रूयात्क्रुद्धं चैनं प्रसादयेत् ॥ ३४.३८ ॥ परिवादं न शृणुयादन्येषामपि कुर्वताम् । पन्था देयो ब्राह्मणानां राज्ञो दुः खातुरस्य च ॥ ३४.३९ ॥ विद्याधिकस्य गुर्विण्या भारार्तस्य यवीयसः । मूकान्धबधिराणाञ्च मत्तस्योन्मत्तकस्य च ॥ ३४.४० ॥ पुंश्चल्याः कृतवैरस्य बालस्य पतितस्य च । देवालकं चैत्यतरुं तथैव च चतुष्पथम् ॥ ३४.४१ ॥ विद्याधिकं गुरुं देवं बुधः कुर्यात्प्रदक्षिणम् । उपानद्वस्त्रमाल्यादि धृतमन्यैर्न धारयेत् ॥ ३४.४२ ॥ उपवीतमलङ्कारं करकञ्चैव वर्जयेत् । चतुर्दश्यान्तथाष्टम्यां पञ्चदश्याञ्च पर्वसु ॥ ३४.४३ ॥ तैलाभ्यङ्गं तथा भोगं योषितश्च विवर्जयेत् । न क्षिप्तपादजङ्घश्च प्राज्ञस्तिष्ठेत्कदाचन ॥ ३४.४४ ॥ न चापि विक्षिपेत्पादौ पादं पादेन नाक्रमेत् । मर्माभिघातमाक्रोशं पैशुन्यञ्च विवर्जयेत् ॥ ३४.४५ ॥ दम्भाभिमानतीक्ष्णानि न कुर्वोत विचक्षणः । मूर्खोन्मत्तव्यसनिनो विरूपान्मायिनस्तथा ॥ ३४.४६ ॥ न्यूनाङ्गांश्चाधिकाङ्गांश्च नोपहासैर्विदूषयेत् । परस्य दण्डं नोद्यच्छेच्छिक्षार्थं पुत्रशिष्ययोः ॥ ३४.४७ ॥ तद्वन्नोपविशेत्प्राज्ञः पादेनाक्रम्य चासनम् । संयावं कृषरं मांसं नात्मार्थमुपसाधयेत् ॥ ३४.४८ ॥ सायं प्रातश्च भोक्तव्यं कृत्वा चातिथिपूजनम् । प्राङ्मुखोदङ्मुको वापि वाग्यतो दन्तधावनम् ॥ ३४.४९ ॥ कुर्वोत सततं वत्स ! वर्जयेद्वर्ज्यवीरुधः । नोदक्शिराः स्वपेज्जातु न चप्रत्यक्शिरा नरः ॥ ३४.५० ॥ शिरस्यगस्त्यमास्थाय शयीताथ पुरन्दरम् । न तु गन्धवतीष्वप्सु स्नायीत न तथा निशि ॥ ३४.५१ ॥ उपरागे परं स्नानमृते दिनमुदाहृतम् । अपमृज्यान्न चास्नातो गात्राण्यम्बरपाणिभिः ॥ ३४.५२ ॥ न चापि धूनयेत्केशान् वाससी न च धूनयेत् । नानुलेपनमादद्यादस्नातः कर्हिचिद्बुधः ॥ ३४.५३ ॥ न चापि रक्तवासाः स्याच्चित्रासितधरोऽपि वा । न च कुर्याद्विपर्यासं वाससोर्नापि भूषणे ॥ ३४.५४ ॥ वर्ज्यञ्च विदशं वस्त्रमत्यन्तोपहतञ्च यत् । केशकीटावपन्नञ्च क्षुण्णं श्वभिरवेक्षितम् ॥ ३४.५५ ॥ अवलीढावपन्नञ्च सारोद्धरणदूषितम् । पृष्ठमांसं वृथामांसं वर्ज्यमांसञ्च पुत्रक ! ॥ ३४.५६ ॥ न भक्षयीत सततं प्रत्यक्षलवणानि च । वर्ज्यं चिरोषितं पुत्र ! भक्तं पर्युषितञ्च यत् ॥ ३४.५७ ॥ पिष्टशाकेक्षुपयसां विकारान्नृपनन्दन! । तथा मांसविकारांश्च ते च वर्ज्याश्चिरोषिताः ॥ ३४.५८ ॥ उदयास्तमने भानोः शयनञ्च विवर्जयेत् । नास्नातो नैव संविष्टो न चैवान्यमना नरः ॥ ३४.५९ ॥ न चैव शयने नोर्व्यामुपविष्टो न शब्दवत् । न चैकवस्त्रो न वदन् प्रेक्षतामप्रदाय च ॥ ३४.६० ॥ भुञ्जीत पुरुषः स्नातः सायं प्रातर्यथाविधि । परदारा न गन्तव्याः पुरुषेण विपश्चिता ॥ ३४.६१ ॥ इष्टापूर्तायुषां हन्त्री परदारगतिर्नृणाम् । न हीदृशमनायुष्यं लोके किञ्चन विद्यते ॥ ३४.६२ ॥ यादृशं पुरुषस्येह परदाराभिमर्षणम् । देवार्चनाग्निकार्याण तथा गुर्वभिवादनम् ॥ ३४.६३ ॥ कुर्वोत सम्यगाचम्य तद्वदन्नभुजिक्रियाम् । अफेनाभिरगन्धाभिरद्भरच्छाभिरादरात् ॥ ३४.६४ ॥ आचामेत्पुत्र ! पुण्याभिः प्राङ्मुखोदङ्मुखोऽपि वा । अन्तर्जलादावसथाद्वल्मीकान्मूषिकस्थलात् ॥ ३४.६५ ॥ कृतशौचावशिष्टाश्च वर्जयेत्पञ्च वै मृदः । प्रक्षाल्य हस्तौ पादौ च समभ्युक्ष्य समाहितः ॥ ३४.६६ ॥ अन्तर्जानुस्तथाऽचामेत्त्रिश्चतुर्वा पिबेदपः । परिमृज्य द्विरास्यान्तं खानि मूर्धानमेव च ॥ ३४.६७ ॥ सम्यगाचम्य तोयेन क्रियां कुर्वोत वै शुचिः । देवतानामृषीणाञ्च पितॄणाञ्चैव यत्नतः ॥ ३४.६८ ॥ समाहितमना भूत्वा कुर्वोत सततं नरः । क्षुत्त्वा निष्ठीव्य वासश्च परिधायाचमेद्बुधः ॥ ३४.६९ ॥ क्षुतेऽवलीढे वान्ते च तथा निष्ठीवनादिषु । कुर्यादाचमनं स्पर्शं गोपृष्ठस्यार्कदर्शनम् ॥ ३४.७० ॥ कुर्वोतालम्बनं चापि दक्षिणश्रवणस्य वै । यथाविभवतो ह्येतत्पूर्वाभावे ततः परम् ॥ ३४.७१ ॥ अविद्यमाने पूर्वोक्ते उत्तरप्राप्तिरिष्यते । न कुर्याद्दन्तसङ्घर्षं नात्मनो देहताडनम् ॥ ३४.७२ ॥ स्वप्नाध्ययनभोज्यानि सन्ध्ययोश्च विवर्जयेत् । सन्ध्यायां मैथुनञ्चापि तथा प्रस्थानमेव च ॥ ३४.७३ ॥ पूर्वाह्ने तात ! देवानां मनुष्याणाञ्च मध्यमे । भक्त्या तथापराह्ने च कुर्वोत पितृपूजनम् ॥ ३४.७४ ॥ शिरः स्नातश्च कुर्वोत दैवं पैत्र्यमथापि वा । प्राङ्मुखोदङ्मुखो वापि श्मश्रुकर्म च कारयेत् ॥ ३४.७५ ॥ व्यङ्गिनीं वर्जयेत्कन्यां कुलजामपि रोगिणीम् । विकृतां पिङ्गलाञ्चैव वाचाटां सर्वदूषिताम् ॥ ३४.७६ ॥ अव्यङ्गीं सौम्यनासाञ्च स्रवलक्षणलक्षिताम् । तादृशीमुद्वहेत्कन्यां श्रेयः कामो नरः सदा ॥ ३४.७७ ॥ उद्वहेत्पितृमात्रोश्च सप्तमीं पञ्चमीन्तथा । रक्षेद्दारान् त्यजेदीर्ष्यां दिवा च स्वप्नमैथुने ॥ ३४.७८ ॥ परोपतापकं कर्म जन्तुपीडाञ्च वर्जयेत् । उदक्या सर्ववर्णानां वर्ज्या रात्रिचतुष्टयम् ॥ ३४.७९ ॥ स्त्रीजन्मपरिहारार्थं पञ्चमीमपि वर्जयेत् । ततः षष्ठ्यां व्रजेद्रात्र्यां श्रेष्ठा युगमासु पुत्रक ॥ ३४.८० ॥ युग्मासु पुत्रा जायन्ते स्त्रियोऽयुग्मासु रात्रिषु । तस्माद्युग्मासु पुत्रार्थो संविशेत सदा नरः ॥ ३४.८१ ॥ विधर्मिणोऽह्नि पूर्वाख्ये सन्ध्याकाले च षण्डकाः । क्षुरकर्मणि वान्ते च स्त्रीसम्भोगे च पुत्रक ॥ ३४.८२ ॥ स्नायीत चेलवान् प्राज्ञः कटभूमिमुपेत्य च । देववेदद्विजातीनां साधुसत्यमहात्मनाम् ॥ ३४.८३ ॥ गुरोः पतिव्रतानाञ्च तया यज्वितपस्विनाम् । परिवादं न कुर्वोत परिहासञ्च पुत्रक ॥ ३४.८४ ॥ कुर्वतामविनीतानां न श्रोतव्यं कथञ्चन । नोत्कृष्टशय्यासनयोर्नापकृष्टस्य चारुहेत् ॥ ३४.८५ ॥ न चामङ्गल्यवेशः स्यान्न चामङ्गल्यवाग्भवेत् । धवलाम्भरसंवीतः सितपुष्पविभूषितः ॥ ३४.८६ ॥ नोद्धूतोन्मत्तमूढैश्च नाविनीतैश्च पण्डितः । गच्छेन्मैत्रीं न चाशीलैर्न च चौर्यादिदूषितैः ॥ ३४.८७ ॥ न चातिव्ययशीलैश्च न लुब्धैर्नापि वैरिभिः । न बन्धकीभिर्न न्यूनैर्बन्धकीपतिभिस्तथा ॥ ३४.८८ ॥ सार्धं न बलिभिः कुर्यान्न च न्यूनैर्न निन्दितैः । न सर्वशङ्किभिर्नित्यं न च दैवपरैर्नरैः ॥ ३४.८९ ॥ कुर्वोत साधुभिर्मैत्रीं सदाचारावलम्बिभिः । प्राज्ञैरपिशुनैः शक्तैः कर्मण्युद्योगभागिभिः ॥ ३४.९० ॥ सुहृद्दीक्षितभूपालस्नातकश्वशुरैः सह । ऋत्विगादीन् षडर्घार्हानर्चयेच्च गृहागतान् ॥ ३४.९१ ॥ यथाविभवतः पुत्र ! द्विजान् संवत्सरोषितान् । अर्चयेन्मधुपर्केण यथाकालमतन्द्रितः ॥ ३४.९२ ॥ तिष्ठेच्च शासने तेषां श्रेयस्कामो द्विजोत्तमः । न च तान् विवदेद्वीमानाक्रुष्टश्चापि तैः सदा ॥ ३४.९३ ॥ सम्यग्गृहार्चनं कृत्वा यथास्थानमनुक्रमात् । संपूजयेत्ततो वह्निं दद्याच्चैवाहुतीः क्रमात् ॥ ३४.९४ ॥ प्रथमां ब्रह्मणे दद्यात्प्रजानांपतये ततः । तृतीयाञ्चैव गुह्येभ्यः कश्यपाय तथापराम् ॥ ३४.९५ ॥ ततोऽनुमतये दत्त्वा दद्याद्गृहबलिन्ततः । पूर्वाख्यातं मया यत्ते नित्यकर्मक्रियाविधौ ॥ ३४.९६ ॥ वैश्वदेवन्ततः कुर्याद्धलयस्तत्र मे शृणु । यथास्थानविभागन्तु देवानुद्दिश्य वै पृथके ॥ ३४.९७ ॥ पर्जन्याय धरित्रीणां दद्याच्च माणके त्रयम् । वायवे च प्रतिदिशं दिग्भ्यः प्राच्यादितः क्रमात् ॥ ३४.९८ ॥ ब्रह्मणे चान्तरीक्षाय सूर्याय च यथाक्रमम । विश्वेभ्यश्चैव देवेभ्यो विश्वबूतभ्य एव च ॥ ३४.९९ ॥ उषसे भूतपतये दद्याच्चोत्तरतस्ततः । स्वधा नम इतीत्युक्त्वा पितृभ्यश्चापि दक्षिणे ॥ ३४.१०० ॥ कृत्वापसव्यं वायव्यां यक्ष्मैतत्तेति भाजनात् । अन्नावशेषमिच्छन् वै तोयं दद्याद्यथाविधि ॥ ३४.१०१ ॥ ततोऽन्नाग्रं समुद्धृत्य हन्तकारोपकल्पनम् । यथाविधि यथान्यायं ब्राह्मणायोपपादयेत् ॥ ३४.१०२ ॥ कुर्यात्कर्माणि तीर्थेन स्वेन स्वेन यथाविधि । देवादीनान्तथा कुर्याद्ब्राह्मेणाचमनक्रियाम् ॥ ३४.१०३ ॥ अङ्गुष्ठोत्तरतो रेखा पाणेर्या दक्षिणस्य तु । एतद्ब्राह्ममिति ख्यातं तीर्थमाचमनाय वै ॥ ३४.१०४ ॥ तर्जन्यङ्गुष्ठयोरन्तः पैत्र्यं तीर्थमुदाहृतम् । पितॄणां तेन तोयादि दद्यान्नान्दीमुखादृते ॥ ३४.१०५ ॥ अङ्गुल्यग्रे तथा दैवं तेन दिव्यक्रियाविधिः । तीर्थ कनिष्ठिकामूले कायं तेन प्रजापतेः ॥ ३४.१०६ ॥ एवमेभिः सदा तीर्थैर्देवानां पितृभिः सह । सदा कार्याणि कुर्वोत नान्यतीर्थेन कर्हिचित् ॥ ३४.१०७ ॥ ब्राह्मेणाचमनं शस्तं पित्र्यं पैत्र्येण सर्वदा । देवतीर्थेन देवानां प्राजापत्यं निजेन च ॥ ३४.१०८ ॥ नान्दीमुखानां कुर्वोत प्राज्ञः पिण्डोदकक्रियाम् । प्राजापत्येन तीर्थेन यच्च किञ्चित्प्रजापतेः ॥ ३४.१०९ ॥ युगपज्जलमग्निञ्च बिभृयान्न विचक्षणः । गुरुदेवान् प्रति तथा न च पादौ प्रसारयेत् ॥ ३४.११० ॥ नाचक्षीत धयन्तीं गां जलं नाञ्जलिना पिबेत् । शौचकालेषु सर्वेषु गुरुष्वल्पेषु वा पुनः ॥ ३४.१११ ॥ न विलम्बेत शौचार्थं न मुखेनानलं धमेत् । तत्र पुत्र ! न वस्तव्यं यत्र नास्ति चतुष्टयम् ॥ ३४.११२ ॥ ऋणप्रदाता वैद्यश्च श्रोत्रियः सजला नदी । जितामित्रो नृपो यत्र बलवान् धर्मतत्परः ॥ ३४.११३ ॥ तत्र नित्यं वसेत्प्राज्ञः कुतः कुनृपतौ सुखम् । यत्राप्रधृष्यो नृपतिर्यत्र शस्यवती मही ॥ ३४.११४ ॥ पौराः सुसंयता यत्र सततं न्यायवर्तिनः । यत्रामत्सरिणो लोकास्तत्र वासः सुखोदयः ॥ ३४.११५ ॥ यस्मिन् कृषीबला राष्ट्रे प्रायशो नातिभोगिनः । यत्रौषधन्यशेषाणि वसेत्तत्र विचक्षणः ॥ ३४.११६ ॥ तत्र पुत्र न ! वस्तव्यं यत्रैतत्त्रितयं सदा । जिगीषुः पूर्ववैरश्च जनश्च सततोत्सवः ॥ ३४.११७ ॥ वसेन्नित्यं सुशीलेषु सहवासिषु पण्डितः । इत्येतत्कथितं पुत्र ! मया ते हितकाम्यया ॥ ३४.११८ ॥ इति श्रीमार्कण्डेयपुराणे अलर्कानुशासने सदाचारकथनं नाम चतुस्त्रिं शोऽध्यायः _____________________________________________________________ पञ्चत्रिंशोऽध्यायः मदालसोवाच अतः परं शृणुष्व त्वं वर्ज्यावर्ज्यप्रतिक्रियाम् । भोज्यमन्नं पर्युषितं स्नेहाक्तं चिरसंभृतम् ॥ ३५.१ ॥ अस्नेहाश्चापि गोधूमयवगोरसविक्रियाः । शशकः कच्छपो गोधा श्वावित्खड्गोऽथ पुत्रक ॥ ३५.२ ॥ भक्ष्या ह्येते तथा वर्ज्यौ ग्रामशूकरकुक्कुटौ । पितृदेवादिशेषश्च श्राद्धे ब्राह्मणकाम्यया ॥ ३५.३ ॥ प्रोक्षितञ्चौषधार्थञ्च खादन्मांसं न दुष्यति । शङ्खाश्मस्वर्णरूप्याणां रज्जूनामथ वाससाम् ॥ ३५.४ ॥ शाकमूलफलानाञ्च तथा विदलचर्मणाम् । मणिवज्रप्रवालानान्तथा मुक्ताफलस्य च ॥ ३५.५ ॥ गात्राणाञ्च मनुष्याणामम्बुना शौचमिष्यते । यथायसानां तोयेन ग्राव्णः सङ्घर्षणेन च ॥ ३५.६ ॥ सस्त्रेहानाञ्च भाण्डानां शुद्धिरुष्णेन वारिणा । शूर्पधान्याजिनानाञ्च मुषलोलूखलस्य च ॥ ३५.७ ॥ संहतानाञ्च वस्त्राणां प्रोक्षणात्सञ्चयस्य च । वल्कलानामशेषाणामम्बुमृच्छौचमिष्यते ॥ ३५.८ ॥ तृणकाष्ठौषधीनाञ्च प्रोक्षणात्शुद्धिरिष्यते । आविकानां समस्तानां केशानाञ्चापि मेध्यता ॥ ३५.९ ॥ सिद्धार्थकानां कल्केन तिलकल्केन वा पुनः । साम्बुना तात ! भवति उपघातवतां सदा ॥ ३५.१० ॥ तथा कार्पासिकानाञ्च विशुद्धिर्जलभस्मना । दारुदन्तास्थिशृङ्गाणां तक्षणाच्छुद्धिरिष्यते ॥ ३५.११ ॥ पुनः पाकेन भाण्डानां पार्थिवानाञ्च मेध्यता । शुचिर्भैक्षं कारुहस्तः पण्यं योषिन्मुखं तथा ॥ ३५.१२ ॥ रथ्यागतमविज्ञातं दासवर्गादिनाहृतम् । वाक्रप्रशास्तं चिरातीतमनेकान्तरितं लघु ॥ ३५.१३ ॥ अतिप्रभूतं बालञ्च वृद्धातुरविचेष्टितम् । कर्मान्ताङ्गाराशालाश्च स्तनन्धयसुताः स्त्रियः ॥ ३५.१४ ॥ शुचिन्यश्च तथैवापः स्त्रन्त्योऽगन्धबुद्बुदाः । भूमिर्विशुध्यते कालाद्दाहमार्जनगोक्रमैः ॥ ३५.१५ ॥ लेपादुल्लेखनात्सेकाद्वेश्मसंमार्जनार्चनात् । केशकीटावपन्ने च गोघ्राते मक्षिकान्विते ॥ ३५.१६ ॥ मृदम्बुभस्मना तात ! प्रोक्षितव्यं विशुद्धये । औदुम्बराणामम्लेन क्षारेण त्रपुसीसयोः ॥ ३५.१७ ॥ भस्माम्बुभिश्च कांस्यानां शुद्धिः प्लावाद्द्रवस्य च । अमेध्याक्तस्य मृत्तोयैर्गन्धापहरणेन च ॥ ३५.१८ ॥ अन्येषाञ्चैव तद्द्रव्यैर्वर्णगन्धापहारतः । शुचि गोतृप्तिकृत्तोयं प्रकृतिस्थं महीगतम् ॥ ३५.१९ ॥ तथा मांसञ्च चण्डालक्राव्यादादिनिपातितम् । रथ्यागतञ्च चेलादि तात ! वातात्शुचि स्मृतम् ॥ ३५.२० ॥ रजोऽग्निरश्वो गौश्छाया रश्मयः पवनो मही । विप्रुषो मक्षिकाद्याश्च दुष्टसङ्गाददोषिणः ॥ ३५.२१ ॥ अजाश्वौ मुखतो मेध्यौ न गोर्वत्सस्य चाननम् । मातुः प्रस्त्रवणं मेध्यं शकुनिः फलपातने ॥ ३५.२२ ॥ आसनं शयनं यानं नावः पथि तृणानि च । सोमसूर्यांशुपवनैः शुध्यन्ते तानि पण्यवत् ॥ ३५.२३ ॥ रथ्यावसर्पणस्त्रानक्षुत्पानम्लानकर्मसु । आचामेत यथान्यायं वासो विपरिधाय च ॥ ३५.२४ ॥ स्पृष्टानामप्यसंसर्गैर्विरथ्याकर्दमाम्भसाम् । पक्वेष्टरचितानाञ्च मेध्यता वायुसङ्गमात् ॥ ३५.२५ ॥ प्रभूतोपहतादन्नादग्रमुद्धृत्य सन्त्यजेत् । शेषस्य प्रोक्षणं कुर्यादाचम्यादिभस्तथा मृदा ॥ ३५.२६ ॥ उपवासस्त्रिरात्रन्तु दुष्टभक्ताशिनो भवेत् । अज्ञाते ज्ञानपूर्वन्तु तद्दोषोपशमेन तु ॥ ३५.२७ ॥ उदक्याश्वशृगालादीन् सूतिकान्त्यावसायिनः । स्पृष्ट्वा स्नायीत शौचार्थं तथैव मृतहारिणः ॥ ३५.२८ ॥ नारं स्पृष्ट्वास्थि सस्त्रेहं स्त्रातः शुध्यति मानवः । आचम्यैव तु निः स्त्रेहं गामालभ्यार्कमीक्ष्य वा ॥ ३५.२९ ॥ न लङ्घयेत्तथैवासृक्ष्ठीवनोद्वर्तनानि च । नोद्यानादौ विकालेषु प्राज्ञस्तिष्ठेत्कदाचन ॥ ३५.३० ॥ न चालपेज्जनद्विष्टां वीरहीनान्तथा स्त्रियम् । गृहादुच्छिष्टविण्मूत्रपादाम्भांसि क्षिपेद्वहिः ॥ ३५.३१ ॥ पञ्च पिण्डाननुधृत्य न स्त्रायात्परवारिणि । स्त्रायीत देवखातेषु गङ्गाह्रदृसरित्सु च ॥ ३५.३२ ॥ देवतापितृसच्छास्त्रयज्ञमन्त्रादिनिन्दकैः । कृत्वा तु स्पर्शनालापं शुध्येतार्कावलोकनात् ॥ ३५.३३ ॥ अवलोक्य तथोदक्यामन्त्यजं पतितं शवम् । विधर्मिसूतिकाषण्डविवस्त्रान्त्यावसायिनः ॥ ३५.३४ ॥ सूतनिर्यातकांश्चैव परदाररताश्च ये । एतदेव हि कर्तव्यं प्राज्ञैः शोधनमात्मनः ॥ ३५.३५ ॥ अभोज्यं सूतिकाषण्डमार्जाराखुश्वकुक्कुटान् । पतिताविद्धचण्डालमृतहारांश्च धर्मवित् ॥ ३५.३६ ॥ संस्पृश्य शुध्यते स्त्रानादुदक्या ग्रामशूकरौ । तद्वच्च सूतिकाशौचदूषितौ पुरुषावपि ॥ ३५.३७ ॥ यस्य चानुदिनं हानिर्गृहे नित्यस्य कर्मणः । यश्च ब्राह्मणसन्त्यक्तः किल्विषी स नराधमः ॥ ३५.३८ ॥ नित्यस्य कर्मणो हानिं न कुर्वोत कदाचन । तस्य त्वकरणे बन्धः केवलं मृतजन्मसु ॥ ३५.३९ ॥ दशाहं ब्राह्मणस्तिष्ठेद्दानहोमादिवर्जितः । क्षत्रियो द्वादशाहञ्च वैश्यो मासार्धमेव च ॥ ३५.४० ॥ शूद्रस्तु मासमासीत निजकर्मविवर्जितः । ततः परं निजं कर्म कुर्युः सर्वे यथोदितम् ॥ ३५.४१ ॥ प्रोताय सलिलं देयं बहिर्दग्ध्वा तु गोत्रिकैः । प्रथमेऽह्नि चतुर्थे च सप्तमे नवमे तथा ॥ ३५.४२ ॥ भस्मास्थिचयनं कार्यं चतुर्थे गोत्रिकैर्दिने । उर्ध्वं संचयनात्तेषामङ्गस्पर्शो विधीयते ॥ ३५.४३ ॥ सोदकैस्तु क्रियाः सर्वाः कार्याः संचयनात्परम् । स्पर्श एव सपिण्डानां मृताहनि तथोभयोः ॥ ३५.४४ ॥ अन्वेकमृक्षमाशस्त्रतोयोद्बन्धनवह्निषु । विषप्रपातादिमृते प्रायोनाशकयोरपि ॥ ३५.४५ ॥ बाले देशान्तरस्थे च तथा प्रव्रजिते मृते । सद्यः शौचमथान्यैश्च त्र्यहमुक्तमशौचकम् ॥ ३५.४६ ॥ सपिण्डानां सपिण्डस्तु मृतेऽन्यस्मिन्मृतो यदि । पूर्वाशौचसमाख्यातैः कार्यास्त्वत्र दिनैः क्रियाः ॥ ३५.४७ ॥ एष एव विधिर्दृष्टो जन्मन्यपि हि सूतके । सपिण्डानां सपिण्डेषु यथावत्सोदकेषु च ॥ ३५.४८ ॥ जाते पुत्रे पितुः स्त्रानं सचेलन्तु विधीयते । तत्रापि यदि चान्यस्मिन् जाते जायेत चापरः ॥ ३५.४९ ॥ तत्रापि शुद्धिरुद्दिष्टा पूर्वजन्मवतो दिनैः । दशद्वादशमासार्धमाससंख्यैर्दिनैर्गतैः ॥ ३५.५० ॥ स्वाः स्वाः कर्मक्रियाः कुर्युः सर्वे वर्णा यथाविधि । प्रेतमुद्दिश्य कर्तव्यमेकोद्दिष्टं ततः परम् ॥ ३५.५१ ॥ दाननि चैव देयानि ब्राह्मणेभ्यो मनीषिभिः । यद्यदिष्टतमं लोके यच्चापि ययितं गृहे ॥ ३५.५२ ॥ तत्तद्गुणवते देयं तदेवाक्षयमिच्छता । पूर्णैस्तु दिवसैः स्पृष्ट्वा सलिलं वाहनायुधम् ॥ ३५.५३ ॥ प्रतोददण्डौ च तथा सम्यग्वर्णाः कृतक्रियाः । स्ववर्णधर्मनिर्दिष्टमुपादानं तथा क्रियाः ॥ ३५.५४ ॥ कुर्युः समस्ताः शुचिनः परत्रेह च भूतिदाः । अध्येतव्या त्रयी नित्यं भवितव्यं विपश्चिता ॥ ३५.५५ ॥ धर्मतो धनमाहार्यं यष्टव्यञ्चापि यत्नतः । यच्चापि कुर्वतो नात्मा जुगुप्सामेति पुत्रक ! ॥ ३५.५६ ॥ तत्कर्तव्यमशङ्केन यन्न गोप्यं महाजने । एवमाचरतो वत्स ! पुरुषस्य गृहे सतः । धर्मार्थकामसंप्राप्त्या परत्रेह च शोभनम् ॥ ३५.५७ ॥ इति श्रीमार्कण्डेयपुराणेऽलर्कानुशासने वर्ज्यावर्ज्यनामा पञ्चत्रिंशोऽध्यायः _____________________________________________________________ षट्त्रिंशोऽध्यायः जड उवाच स एवमनुशिष्टः सन्मात्रा संप्राप्य यौवनम् । ऋतध्वजसुतश्चक्रे सम्यग्दारपरिग्रहम् ॥ ३६.१ ॥ पुत्रांश्चोत्पादयामास यज्ञैश्चाप्ययजद्विभुः । पितुश्च सर्वकालेषु चकाराज्ञानुपालनम् ॥ ३६.२ ॥ ततः कालेन महता संप्राप्य चरमं वयः । चक्रेऽभिषेकं पुत्रस्य तस्य रज्ये ऋतध्वजः ॥ ३६.३ ॥ भार्यया सह धर्मात्मा यियासुस्तपसे वनम् । अवतीर्णो महारक्षो महाभागो महीपतिः ॥ ३६.४ ॥ मदालसा च तनयं प्राहेदं पश्चिमं वच । कामोपभोगसंसर्गप्रहाणाय सुतस्य वै ॥ ३६.५ ॥ मदालसोवाच यदा दुः खमसह्यं ते प्रियबन्धुवियोगजम् । शत्रुबाधोद्भवं वापि वित्तनाशात्मसम्भवम् ॥ ३६.६ ॥ भवेत्तत्कुर्वतो राज्यं गृहधर्मावलम्बिनः । दुः खायतनभूतो हि ममत्वालम्बनो गृही ॥ ३६.७ ॥ तदास्मात्पुत्र ! निष्कृष्य मद्दत्तादङ्गुलीयकात् । वाच्यं ते शासनं पट्टे सूक्ष्माक्षरनिवेशितम् ॥ ३६.८ ॥ जड उवाच इत्युक्त्वा प्रददौ तस्मै सौवर्णं साङ्गुलीयकम् । आशिषश्चापि या योग्याः परुषस्य गृहे सतः ॥ ३६.९ ॥ ततः कुबलयाश्वोऽसौ सा च देवी मदालसा । पुत्राय दत्त्वा तद्राज्यं तपसे काननं गतौ ॥ ३६.१० ॥ _____________________________________________________________ सप्तत्रिंशोऽध्यायः जड उवाच सोऽप्यलर्को यथान्यायं पुत्रवन्मुदिताः प्रजाः । पालयामास धर्मात्मा स्वे स्वे कर्मण्यवस्थिताः ॥ ३७.१ ॥ दुष्टैषु दण्डं शिष्टेषु सम्यक्च परिपालनम् । कुर्वन् परां मुदं लेभे इयाज च महामखैः ॥ ३७.२ ॥ अजायन्त सुताश्चास्य महाबलपराक्रमाः । धर्मात्मानो माहत्मानो विमार्गपरिपन्थिनः ॥ ३७.३ ॥ चकार सोर्ऽथं धर्मेण धर्ममर्थेन वा पुनः । तयोश्चैवाविरोधेन बुभुजे विषयानपि ॥ ३७.४ ॥ एवं बहूनि वर्षाणि तस्य पालयतो महीम् । धर्मार्थकामसक्तस्य जग्मुरेकमहर्यथा ॥ ३७.५ ॥ वैराग्यं नास्य सञ्जज्ञे भुञ्जतो विषयान् प्रियान् । न चाप्यलमभूत्तस्य धर्मार्थोपार्जनं प्रति ॥ ३७.६ ॥ तं तथा भोगसंसर्गप्रमत्तमजितेन्द्रियम् । सुबाहुर्नाम शुश्राव भ्राता तस्य वनेचरः ॥ ३७.७ ॥ तं बुबोधयिषुः सोऽथ चिरं ध्यात्वा महीपतिः । तद्वैरिसंश्रयं तस्य श्रेयोऽमन्यत भूपतेः ॥ ३७.८ ॥ ततः स काशिभूपालमुदीर्णबलवाहनम् । स्वराज्यं प्राप्तुमागच्छद्बहुशः शरणं कृती ॥ ३७.९ ॥ सोऽपि चक्रे बलोद्योगमलर्कं प्रति पार्थिवः । दूतञ्च प्रेषयामास राज्यमस्मै प्रदीयताम् ॥ ३७.१० ॥ सोऽपि नैच्छत्तदा दातुमाज्ञापूर्वं स्वधर्मवित् । प्रत्युवाच च तं दूतमलर्कः काशिभूभृतः ॥ ३७.११ ॥ मामेवाभ्येत्य हार्देन याचतां राज्यमग्रजः । नाक्रान्त्या संप्रदास्यामि भयेनाल्पामपि क्षितिम् ॥ ३७.१२ ॥ सुबाहुरपि नो याञ्चां चकार मतिमांस्तदा । न धर्मः क्षत्रियस्येति याञ्चा वीर्यधनो हि सः ॥ ३७.१३ ॥ ततः समस्तसैन्येन काशीशः परिवारितः । आक्रान्तुमभ्यगाद्राष्ट्रमलर्कस्य महीपतेः ॥ ३७.१४ ॥ अनन्तरैश्च संश्लेषमभ्येत्य तदनन्तरम् । तेषामन्यतमैर्भृत्यैः समाक्रम्यानयद्वशम् ॥ ३७.१५ ॥ अपीडयंश्च सामान्तांस्तस्य राष्ट्रोपरोधनैः । तथा दुर्गानुपालांश्च चक्रे चाटविकान् वशे ॥ ३७.१६ ॥ कांश्चिच्चोपप्रदानेन कांश्चिद्भेदेन पार्थिवान् । साम्नैवान्यान् वशं निन्ये निभृतास्तस्य येऽभवन् ॥ ३७.१७ ॥ ततः सोऽल्पबलो राजा परचक्रावपीजितः । कोषक्षयमवापोच्चैः पुरञ्चारुध्यतारिणा ॥ ३७.१८ ॥ इत्थं सम्पीड्यमानस्तु क्षीणकोषो दिने दिने । विषादमागात्परमं व्याकुलत्वञ्च चेतसः ॥ ३७.१९ ॥ आर्ति स परमां प्राप्य तत्सस्माराङ्गुलीयकम् । यदुद्दिश्य पुरा प्राह माता तस्य मदालसा ॥ ३७.२० ॥ ततः स्त्रातः शुचिर्भूत्वा वाचयित्वा द्विजोत्तमान् । निष्कृष्य शासनं तस्माद्ददृशे प्रस्फुटाक्षरम् ॥ ३७.२१ ॥ तत्रैव लिखितं मात्रा वाचयामास पार्थिवः । प्रकाशपुलकाङ्गोऽसौ प्रहर्षोत्फुल्ललोचनः ॥ ३७.२२ ॥ सङ्गः सर्वात्मना त्याज्यः स चेत्त्यक्तुं न शक्यते । स सदिभः सह कर्तव्यः सतां सङ्गो हि भेषजम् ॥ ३७.२३ ॥ कामः सर्वात्मना हेयो हातुञ्चेच्छक्यते न सः । मुमुक्षां प्रति तत्कार्यं सैव तस्यापि भेषजम् ॥ ३७.२४ ॥ वाचयित्वा तु बहुशो नृणां श्रेयः कथं त्विति । मुमुक्षयेति निश्चित्य सा च तत्सङ्गतो यतः ॥ ३७.२५ ॥ ततः स साधुसम्पर्कं चिन्तयन् पृथिवीपतिः । दत्तात्रेयं महाभागमगच्छत्परमार्तिमान् ॥ ३७.२६ ॥ तं समेत्य महात्मानमकल्पषमसङ्गिनम् । प्रणिपत्याभिसम्पूज्य यथान्यायमभाषत ॥ ३७.२७ ॥ ब्रह्मन् ! कुरु प्रसादं मे शरणं शरणार्थिनाम् । दुः खापहारं कुरु मे दुः खार्तस्यातिकामिनः ॥ ३७.२८ ॥ दुः खापहारमद्यैव करोमि तव पार्थिव ! । सत्यं ब्रूहि किमर्थं ते दुः खं तत्पृथिवीपते ॥ ३७.२९ ॥ जड उवाच इत्युक्तश्चिन्तयामास स राजा तेन धीमता । त्रिविधस्यापि दुः खस्य स्थानमात्मानमेव च ॥ ३७.३० ॥ स विमृष्य चिरं राजा पुनः पुनरुदारधीः । आत्मानमात्मना धीरः प्रहस्येदमथाब्रावीत् ॥ ३७.३१ ॥ नाहमुर्वो न सलिलं न ज्योतिरनिलो न च । नाकाशं किन्तु शारीरं समेत्य सुखमिष्यते ॥ ३७.३२ ॥ न्यूनातिरिक्ततां याति पञ्चकेऽस्मिन् सुखासुखम् । यदि स्यान्म किन्न स्यादन्यस्थेऽपि हि तन्मयि ॥ ३७.३३ ॥ नित्यप्रभूतसद्भावे न्यूनाधिक्यान्नतोन्नते । तथा च ममतात्यक्ते विशेषो नोपलभ्यते ॥ ३७.३४ ॥ तन्मात्रावस्थिते सूक्ष्मे तृतीयांशे च पश्यतः । तथैव भूतसद्भावं शरीरं किं सुखासुखम् ॥ ३७.३५ ॥ मनस्यवस्थितं दुःखं सुखं वा मानसञ्च यत् । यतस्ततो न मे दुः खं सुखं वा नह्यहं मनः ॥ ३७.३६ ॥ नाहङ्कारो न च मनो बुद्धिर्नाहं यतस्ततः । अन्तः करणजं दुः खं पारख्यं मम तत्कथम् ॥ ३७.३७ ॥ नाहं शरीरं न मनो यतोऽहं पृथक्शरीरान्मनसस्तथाहम् । तत्सन्तु चेतस्यथवापि देहे सुखानि दुः खानि च किं ममात्र ॥ ३७.३८ ॥ राज्यस्य वाञ्छां सुरुतेऽग्रजोऽस्य देहस्य चेत्पञ्चमयः स राशिः । गुणप्रवृत्त्या मम किन्नु तत्र तत्स्थः स चाहञ्च शरीरतोऽन्यः ॥ ३७.३९ ॥ न यस्य हस्तादिकमप्यशेषं मांसं न चास्थीनि खिराविभागः । कस्तस्य नागाश्वरथादिकोषैः स्वल्पोऽपि सम्बन्ध इहास्ति पुंसः ॥ ३७.४० ॥ तस्मान्न मेऽरिर्न च मेऽस्ति दुः खं न मे सुखं नापि पुरं न कोषम् । न चाश्वनागादि बलं न तस्य नान्यस्य वा कस्यचिद्वा ममास्ति ॥ ३७.४१ ॥ यथा घटीकुम्भकमण्डलुस्थम् आकाशमेकं बहुधा हि दृष्टम् । तथा सुबाहुः स च काशिपोऽहं मल्ये च देहेषु शरीरभेदैः ॥ ३७.४२ ॥ इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादे आत्मविवेको नाम सप्तत्रिंशोऽध्यायः _____________________________________________________________ अष्टत्रिंशोऽध्यायः जड उवाच दत्तात्रेयं ततो विप्रं प्रणिपत्य स पार्थिवः । प्रत्युवाच महात्मानं प्रश्रयावनतो वचः ॥ ३८.१ ॥ सम्यक्प्रपश्यतो ब्रह्मन् ! मम दुः खं न किञ्चन । असम्यग्दर्शिना मग्नाः सर्वदैवासुखार्णवे ॥ ३८.२ ॥ यस्मिन् यस्मिन्ममासक्ता बुद्धिः पुंसः प्रजायते । ततस्ततः समादाय दुः खान्येव प्रयच्छति ॥ ३८.३ ॥ मार्जारभक्षिते दुः खं यादृशं गृहकुक्कुटे । न तादृङ्ममताशून्ये कलविङ्केऽथ मूषिके ॥ ३८.४ ॥ सोऽहं न दुः खी न सुखी यतोऽहं प्रकृतेः परः । यो भूताभिभवो भूतैः सुखदुः खात्मको हि सः ॥ ३८.५ ॥ दत्तात्रेय उवाच एवमेतन्नरव्याघ्र ! यथैतद्व्याहृतं त्वया । ममेति मूलं दुः कस्य न ममेति च निर्वृतेः ॥ ३८.६ ॥ मत्प्रश्नादेव ते ज्ञानमुत्पन्नमिदमुत्तमम् । ममेति प्रत्ययो येन क्षिप्तः शाल्मलितूलवत् ॥ ३८.७ ॥ अहमित्यङ्कुरोत्पन्नो ममेति स्कन्धवान्महान् । गृहक्षेत्रोच्चशाखश्च पुत्रदारादिपल्लवः ॥ ३८.८ ॥ धनधान्यमहापत्रो नैककालप्रवर्धितः । पुण्यापुण्याग्रपुष्पश्च सुखदुः खमहाफलः ॥ ३८.९ ॥ तत्र मुक्तिपथव्यापि मूढसम्पर्कसेचनः । विधित्साभृङ्गमालाढ्यो कृत्यज्ञानमहातरुः ॥ ३८.१० ॥ संसाराध्वपरिश्रान्ता ये तच्छायां समाश्रिताः । भ्रान्तिज्ञानसुखाधीनास्तेषामात्यन्तिकं कुतः ॥ ३८.११ ॥ यैस्तु सत्सङ्गपाषाणशितेन ममतातरुः । छिन्नो विद्याकुठारेण ते गतास्तेन वर्त्मना ॥ ३८.१२ ॥ प्राप्य ब्रह्मवनं शीतं नीरजस्कमकण्टकम् । प्राप्नुवन्ति परां प्राज्ञा निर्वृतिं वृत्तिवर्जिताः ॥ ३८.१३ ॥ भूतेन्द्रियमयं स्थूलं न त्वं राजन्न चाप्यहम् । न तन्मात्रमयावावां नैवान्तः करणात्मकौ ॥ ३८.१४ ॥ कं वा पश्यामि राजेन्द्र ! प्रधानमिदमावयोः । यतः परो हि क्षेत्रज्ञः सङ्घातो हि गुणात्मकः ॥ ३८.१५ ॥ मशकोडुम्बरेषीकामुञ्जमत्स्याम्भसां यथा । एकत्वेऽपि पृथग्भावस्तथा क्षेत्रात्मनोर्नृप ! ॥ ३८.१६ ॥ अलर्क उवाच भगवंस्त्वत्प्रसादेन ममाविर्भूतमुत्तमम् । ज्ञानं प्रधानचिच्छक्तिविवेककरमीदृशम् ॥ ३८.१७ ॥ किन्त्वत्र विषयाक्रान्ते स्थैर्यवत्त्वं न चेतसि । न चापि वेद्मि मुच्येयं कथं प्रकृतिबन्धनात् ॥ ३८.१८ ॥ कथं न भूयां भूयश्च कथं निर्गुणतामियाम् । कथञ्च ब्रह्मणैकत्वं व्रजेयं शाश्वतेन वै ॥ ३८.१९ ॥ तन्मे योगन्तथा ब्रह्मन् ! प्रणतायाभियाचते । सम्यग्ब्रूहि महाप्राज्ञ ! सत्सङ्गो ह्युपकृन्नृणाम् ॥ ३८.२० ॥ इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादे प्रश्नाध्यायो नामाष्टत्रिंशोऽध्यायः _____________________________________________________________ ‚†áञ् । युञ्जतश्च सदा योगं यादृग्विहितमासनम् ॥ ३९.२७ ॥ पद्ममर्धासनञ्चापि तथा स्वस्तिकमासनम् । आस्थाय योगं युञ्जीत कृत्वा च प्रणवं हृदि ॥ ३९.२८ ॥ समः समासनो भूत्वा संहृत्य चरणावुभौ । संवृतास्यस्तथैवोरू सम्यग्विष्टभ्य चाग्रतः ॥ ३९.२९ ॥ पार्ष्णिभ्यां लिङ्गवृषणावस्पृशन् प्रयतः स्थितः । किञ्चिदुन्नामितशिरा दन्तैर्दन्तान्न संस्पृशेत् ॥ ३९.३० ॥ सम्पश्यन्नासिकाग्रं स्वं दिशश्चानवलोकयन् । रजसा तमसो वृत्तिं सत्त्वेन रजसस्तथा ॥ ३९.३१ ॥ सञ्छाद्य निर्मले सत्त्वे स्थितो युञ्जीत योगवित् । इन्द्रियाणीन्द्रियार्थेभ्यः प्राणादीन्मन एव च ॥ ३९.३२ ॥ निगृह्य समवायेन प्रत्याहारमुपक्रमेत् । यस्तु प्रत्याहरेत्कामान सर्वाङ्गानीव कच्छपः ॥ ३९.३३ ॥ सदात्मरतिरेकस्थः वश्यत्यात्मानमात्मनि । स बाह्याभ्यन्तरं शौचं निष्पाद्याकण्ठनाभितः ॥ ३९.३४ ॥ पूरयित्वा बुधो देहं प्रत्याहारमुपक्रमेत् । प्राणायामा दश द्वौ च धारणा साभिधीयते ॥ ३९.३५ ॥ द्वे धारणे स्मृते योगे योगिभिस्तत्त्वदृष्टिभिः । तथा वै योगयुक्तस्य योगिनो नियतात्मनः ॥ ३९.३६ ॥ सर्वे दोषाः प्रणश्यन्ति स्वस्थश्चैवोपजायते । वीक्षते च परं ब्रह्म प्राकृतांश्च गुणान् पृथक् ॥ ३९.३७ ॥ व्योमादिपरमाणूंश्च तथात्मानमकल्मषम् । इत्थं योगी यताहारः प्राणायामपरायणः ॥ ३९.३८ ॥ जितां जितां शनैर्भूमिमारोहेत यथा गृहम् । दोषान् व्याधींस्तथा मोहमाक्रान्ता भूरनिर्जिता ॥ ३९.३९ ॥ विवर्धयति नारोहेत्तस्माद्भूमिमनिर्जिताम् । प्राणानामुपसंरोधात्प्राणायाम इति स्मृतः ॥ ३९.४० ॥ धारणेत्युच्यते चेयं धार्यते यन्मनो यथा । शब्दादिभ्यः प्रवृत्तानि यदक्षाणि यतात्मभिः ॥ ३९.४१ ॥ प्रत्याह्रियन्ते योगेन प्रत्याहारस्ततः स्मृतः । उपायश्चात्र कथितो योगिभिः परमर्षिभिः ॥ ३९.४२ ॥ येन व्याध्यादयो दोषा न जायन्ते हि योगिनः । यथा तोयार्थिनस्तोयं यन्त्रनालादिभिः शनैः ॥ ३९.४३ ॥ आपिबेयुस्तथा वायुं पिबेद्योगी जितश्रमः । प्राङ्नाभ्यां हृदये चात्र तृतीये च तथोरसि ॥ ३९.४४ ॥ कण्ठे मुखे नासिकाग्रे नेत्रभ्रूमध्यमूर्धसु । किञ्च तस्मात्परस्मिंश्च धारणा परमा स्मृता ॥ ३९.४५ ॥ दशैता धारणा प्राप्य प्राप्रोत्यक्षरसाम्यताम् । नाध्मातः क्षुधितः श्रान्तो न च व्याकुलचेतनः ॥ ३९.४६ ॥ युञ्जीत योगं राजेन्द्र ! योगी सिद्ध्यर्थमादृतः । नातिशीते न चोष्णे वै न द्वन्द्वे नानिलात्मके ॥ ३९.४७ ॥ कालेष्वेतेषु युञ्जीत न योगं ध्यानतत्परः । सशब्दाग्निजालभ्यासे जीर्णगोष्ठे चतुष्पथे ॥ ३९.४८ ॥ शुष्कपर्णचये नद्यां श्मशाने ससरीसृपे । सभये कूपतीरे वा चैत्यवल्मीकसञ्चये ॥ ३९.४९ ॥ देशेष्वेतेषु तत्त्वज्ञो योगाभ्यासं विवर्जयेत् । सत्त्वस्यानुपपत्तौ च देशकालं विवर्जयेत् ॥ ३९.५० ॥ नासतो दर्शनं योगे तस्मात्तत्परिवर्जयेत् । देशानेताननादृत्य मूढत्वाद्यो युनक्ति वै ॥ ३९.५१ ॥ विघ्राय तस्य वै दोषा जायन्ते तन्निबोध मे । बाधिर्यं जडता लोपः स्मृतेर्मूकत्वमन्धता ॥ ३९.५२ ॥ ज्वरश्च जायते सद्यस्तत्तदज्ञानयोगिनः । प्रमादाद्योगिनो दोषा यद्येते स्युश्चिकित्सितम् ॥ ३९.५३ ॥ तेषां नाशाय कर्तव्यं योगिनां तन्निबोध मे । स्त्रिग्धां यवागूमत्युष्णां भुक्त्वा तत्रैव धारयेत् ॥ ३९.५४ ॥ वातगुल्मप्रशान्त्यर्थमुदावर्ते तथोदरे । यवागूं वापि पवनं वायुग्रन्थिं प्रतिक्षिपेत् ॥ ३९.५५ ॥ तद्वत्कम्पे महाशैलं स्थिरं मनसि धारयेत् । विघाते वचसो वाचं बाधिर्ये श्रवणेन्द्रियम् ॥ ३९.५६ ॥ यथैवाम्रफलं ध्यायेत्तृष्णार्तो रसनेन्द्रिये । यस्मिन् यस्मिन् रुजा देहे तस्मिंस्तदुपकारिणीम् ॥ ३९.५७ ॥ धारयेद्धारणामुष्णे शीतां शीते च दाहिनीम् । कीलं शिरसि संस्थाप्य काष्ठं काष्ठेन ताडयेत् ॥ ३९.५८ ॥ लुप्तस्मृतेः स्मृतिः सद्यो योगिनस्तेन जायते । द्यावापृथिव्यौ वाय्वग्री व्यापिनावपि धारयेत् ॥ ३९.५९ ॥ अमानुषात्सत्त्वजाद्वा बाधास्त्वेताश्चिकित्सिताः । अमानुषं सत्त्वमन्तर्योगिनं प्रविशेद्यदि ॥ ३९.६० ॥ वाय्वग्रीधारणेनैनं देहसंस्थं विनिर्दहेत् । एवं सर्वात्मना रक्षा कार्या योगविदा नृप ! ॥ ३९.६१ ॥ धर्मार्थकाममोक्षाणां शरीरं साधनं यतः । प्रवृत्तिलक्षणाख्यानाद्योगिनो विस्मयात्तथा । विज्ञानं विलयं याति तस्माद्गोप्याः प्रवृत्तयः ॥ ३९.६२ ॥ आलोल्यमारोग्यमनिष्ठुरत्वं गन्धः शुभो मूत्रपुरीषमल्पम् । कान्तिः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि चिह्नम् ॥ ३९.६३ ॥ अनुरागी जनो याति परोक्षे गुणकीर्तनम् । न बभ्यति च सत्त्वानि सिद्धेर्लक्षणमुत्तमम् ॥ ३९.६४ ॥ शीतोष्णादिभिरत्युग्रैर्यस्य बाधा न विद्यते । न भीतिमेति चान्येभ्यस्तस्य सिद्धिरुपस्थिता ॥ ३९.६५ ॥ इति श्रीमार्कण्डेयपुराणे जडोपाख्याने योगाध्यायो नामैकोनचत्वारिंशोऽध्यायः _____________________________________________________________ चत्वारिंशोऽध्यायः दत्तात्रेय उवाच उपसर्गाः प्रवर्तन्ते दृष्टे ह्यात्मनि योगिनः । ये तांस्ते संप्रवक्ष्यामि समासेन निबोध मे ॥ ४०.१ ॥ काम्याः क्रियास्तथा कामान्मानुषानभिवाञ्छति । स्त्रियो दानफलं विद्यां मायां कुप्यं धनं दिवम् ॥ ४०.२ ॥ देवत्वममरेशत्वं रसायनचयाः क्रियाः । मरुत्प्रपतनं यज्ञं जलग्न्यावेशनन्तथा ॥ ४०.३ ॥ श्राद्धानां सर्वदानानां फलानि नियमांस्तथा । तथोपवासात्पूर्ताच्च देवताभ्यर्च्चनादपि ॥ ४०.४ ॥ तेभ्यस्तेभ्यश्च कर्मभ्य उपसृष्टोऽभिवाञ्छति । चित्तमित्थं वर्तमानं यत्नाद्योगी निवर्तयेत् ॥ ४०.५ ॥ ब्रह्मसङ्गिमनः कुर्वन्नुपसर्गात्प्रमुच्यते । उपसर्गैर्जितैरेभिरुपसर्गास्ततः पुनः ॥ ४०.६ ॥ योगिनः संप्रवर्तन्ते सात्त्वराजसतामसाः । प्रातिभिः श्रावणो दैवो भ्रमावत्तौ तथापरौ ॥ ४०.७ ॥ पञ्चैते योगिनां योगविघ्राय कटुकोदयाः । वेदार्थाः काव्यशास्त्रार्था विद्याशिल्पान्यशेषतः ॥ ४०.८ ॥ प्रतिभान्ति यदस्येति प्रातिभः स तु योगिनः । शब्दार्थानाखिलान् वेत्ति शब्दं गृह्णाति चैव यत् ॥ ४०.९ ॥ योजनानां सहस्रेभ्यः श्रावणः सोऽभिधीयते । ममन्ताद्वीक्षते चाष्टौ स यदा देवतोपमः ॥ ४०.१० ॥ उपसर्गन्तमप्याहुर्दैवमुन्मत्तवद्बुधाः । भ्राम्यते यन्निरालम्बं मनो दोषेण योगिनः ॥ ४०.११ ॥ समस्ताचारविभ्रांशाद्भ्रमः स परिकीर्तितः । आवर्त इव तोयस्य ज्ञानावर्तो यदाकुलः ॥ ४०.१२ ॥ नाशयेच्चित्तमावर्त उपसर्गः स उच्यते । एतैर्नाशितयोगास्तु सकला देवयोनयः ॥ ४०.१३ ॥ उपसर्गैर्महाघोरैरावर्तन्ते पुनः पुनः । प्रावृत्य कम्बलं शुक्लं योगी तस्मान्मनोमयम् ॥ ४०.१४ ॥ चिन्तयेत्परमं ब्रह्म कृत्वा तत्प्रवणं मनः । योगयुक्तः सदा योगी लघ्वाहारो जितेन्द्रियः ॥ ४०.१५ ॥ सूक्ष्मास्तु धारणाः सप्त भूराद्या मूर्घ्नि धारयेत् । धरित्रीं धारयेद्योगी तत्सौक्ष्म्यं प्रतिपद्यते ॥ ४०.१६ ॥ आत्मानं मन्यते चोर्वों तद्गन्धञ्च जहाति सः । यथैवाप्सु रसं सूक्ष्मं तद्वद्रूपञ्च तेजसि ॥ ४०.१७ ॥ स्पर्शं वायो तथा तद्वद्विभ्रतस्तस्य धारणाम् । व्योम्रः सूक्ष्मां प्रवृत्तिञ्च शब्दं तद्वज्जहाति सः ॥ ४०.१८ ॥ मनसा सर्वभूतानां मनस्याविशते यदा । मानसीं धारणां बिभ्रन्मनः सूक्ष्मञ्च जायते ॥ ४०.१९ ॥ तद्वद्बुद्धिमशेषाणां सत्त्वानामेत्य योगवित् । परित्यजति सम्प्राप्य बुद्धिसौक्ष्म्यमनुत्तमम् ॥ ४०.२० ॥ परित्यजति सूक्ष्माणि सप्त त्वेतानि योगवित् । सम्यग्विज्ञाय योऽलर्क ! तस्यावृत्तिर्न विद्यते ॥ ४०.२१ ॥ एतासां धारणानान्तु सप्तानां सौक्ष्म्यमात्मवान् । दृष्ट्वा दृष्ट्वा ततः सिद्धिं त्यक्त्वा त्यक्त्वा परां व्रजेत् ॥ ४०.२२ ॥ यस्मिन् यस्मिंश्च कुरुते भूते रागं महीपते । तस्मिंस्तस्मिन् समासक्तिं संप्राप्य स विनश्यति ॥ ४०.२३ ॥ तस्माद्विदित्वा सूक्ष्माणि संसक्तानि परस्परम् । परित्यजति यो देही स परं प्राप्नुयात्पदम् ॥ ४०.२४ ॥ एतान्येव तु सन्धाय सप्त सूक्ष्माणि पार्थिव ! । भूतादीनां विरागोऽत्र सद्भावज्ञस्य मुक्तये ॥ ४०.२५ ॥ गन्धादिषु समासक्तिं सम्प्राप्य स विनश्यति । पुनरावर्तते भूप ! स ब्रह्मापरमानुषम् ॥ ४०.२६ ॥ सप्तैता धारणा योगी समतीत्य यदिच्छति । तस्मिंस्तस्मिंल्लयं सूक्ष्मे भूते याति नरेश्वर ! ॥ ४०.२७ ॥ देवानामसुराणां वा गन्धर्वोरगरक्षसाम् । देहेषु लयमायाति सङ्गं नाप्रोति च क्वचित् ॥ ४०.२८ ॥ अणिमा लघिमा चैव महिमा प्राप्तिरेव च । प्राकाम्यं च तथेशित्वं वशित्वञ्च तथापरम् ॥ ४०.२९ ॥ यत्रकामावसायित्वं गुणानेतांस्तथैश्वरान् । प्राप्नोत्यष्टौ नरव्याघ्र ! परं निर्वाणसूचकान् ॥ ४०.३० ॥ सूक्ष्मात्सूक्ष्मतमोऽणीयान् शीघ्रत्वं लघिमा गुणः । महिमाशेषपूज्यत्वात्प्राप्तिर्नाप्राप्यमस्य यत् ॥ ४०.३१ ॥ प्राकाम्यमस्य व्यापित्वादीशित्वञ्चेश्वरो यतः । वखित्वाद्वशिमा नाम योगिनः सप्तमो गुणः ॥ ४०.३२ ॥ यत्रेच्छास्थानमप्युक्तं यत्रकामावसायिता । ऐश्वर्यकारणैरेभिर्योगिनः प्रोक्तमष्टधा ॥ ४०.३३ ॥ मुक्तिसंसूचकं भूप ! परं निर्वाणमात्मनः । ततो न जायते नैव वर्धते न विनश्यति ॥ ४०.३४ ॥ नापि क्षयमवाप्रोति परिणामं न गच्छति । छेदं क्लेदं तथा दाहं शोषं भूरादितो न च ॥ ४०.३५ ॥ भूतवर्गादवाप्नोति शब्दाद्यैः ह्रियते न च । न चास्य सन्ति शब्दाद्यास्तद्भोक्ता तैर्न युज्यते ॥ ४०.३६ ॥ यथाहि कनकं खण्डमपद्रव्यवदग्निना । दग्धदोषं द्वितीयेन खण्डेनैक्यं व्रजेन्नृप ॥ ४०.३७ ॥ न विशेषमवाप्रोति तद्वद्योगाग्निना यतिः । निर्दग्धदोषस्तेनैक्यं प्रयाति ब्रह्मणा सह ॥ ४०.३८ ॥ यथाग्निरग्नौ संक्षिप्तः समानत्वमनुव्रजेत् । तदाख्यस्तन्मयो भूतो न गृह्येत विशेषतः ॥ ४०.३९ ॥ परेण ब्रह्मणा तद्वत्प्राप्यैक्यं दग्धकिल्विषः । योगी याति पृथग्भावं न कदाचिन्महीपते ! ॥ ४०.४० ॥ यथा जलं जलेनैक्यं निक्षिप्तमुपगच्छति । तथात्मा साम्यमभ्येति योगिनः परमात्मनि ॥ ४०.४१ ॥ इति श्रीमार्कण्डेयपुराणे योगसिद्धिर्नाम चत्वारिंशोऽध्यायः _____________________________________________________________ एकचत्वारिशोऽध्यायः अलर्क उवाच भगवन् ! योगिनश्चर्यां श्रोतुमिच्छामि तत्त्वतः । ब्रह्मवर्त्मन्यनुसरन् यथा योगी न सीदति ॥ ४१.१ ॥ दत्तात्रेय उवाच मानापमानौ यावेतौ प्रत्युद्वेगकरौ नृणाम् । तावेव विपरीतार्थौ योगिनः सिद्धिकारकौ ॥ ४१.२ ॥ मानापमानौ यावेतौ तावेवाहुर्विषामृते । अपमानोऽमृतं तत्र मानस्तु विषमं विषम् ॥ ४१.३ ॥ चक्षुः पूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् । सत्यपूतां वदेद्वाणीं बुद्धिपूतञ्च चिन्तयेत् ॥ ४१.४ ॥ आतिथ्यश्राद्धयज्ञेषु देवयात्रोत्सवेषु च । महाजनञ्च सिद्ध्यर्थं न गच्छेद्योगवित्क्वचित् ॥ ४१.५ ॥ व्यस्ते विधूमे व्यङ्गारे सर्वस्मिन् भुक्तवज्जने । अटेत योगविद्भैक्ष्यं न तु त्रिष्वेव नित्यशः ॥ ४१.६ ॥ यथैवमवमन्यन्ते जनाः परिभवन्ति च । तथा युक्तश्चरेद्योगी सतां वर्त्म न दूषयन् ॥ ४१.७ ॥ भैक्ष्यञ्चरेद्गृहस्थेषु यायावरगृहेषु च । श्रेष्ठा तु प्रथमा चेति वृत्तिरस्योपदिश्यते ॥ ४१.८ ॥ अथ नित्यं गृहस्थेषु शालीनेषु चरेद्यतिः । श्रद्दधानेषु दान्तेषु श्रोत्रियेषु महात्मसु ॥ ४१.९ ॥ अत ऊर्ध्वं पुश्चापि अदुष्टापतितेषु च । भैक्ष्यचर्या विवर्णेषु जघन्या वृत्तिरिष्यते ॥ ४१.१० ॥ भैक्ष्यं यवागूं तक्रं वा पयो यावकमेव वा । फलं मूलं प्रियङ्गुं वा कणपिण्याकसक्तवः ॥ ४१.११ ॥ इत्येते च शुभाहारा योगिनः सिद्धिकारकाः । तत्प्रयुञ्ज्यान्मुनिर्भक्त्या परमेण समाधिना ॥ ४१.१२ ॥ अपः पूर्वं सकृत्प्राश्य तूष्णीं भूत्वा समाहितः । प्राणायेति ततस्तस्य प्रथमा ह्याहुतिः स्मृता ॥ ४१.१३ ॥ अपानाय द्वितीया तु समानायते चापरा । उदानाय चतुर्थो स्याद्व्यानायेति च पञ्चमी ॥ ४१.१४ ॥ प्राणायामैः पृथक्कृत्वा शेषं भुञ्जीत कामतः । अपः पुनः सकृत्प्रश्य आचम्य हृदयं स्पृशेत् ॥ ४१.१५ ॥ अस्तेयं ब्रह्मचर्यञ्च त्यागोऽलोभस्तथैव च । व्रतानि पञ्च भिक्षूणामहिंसापरमाणि वै ॥ ४१.१६ ॥ अक्रोधो गुरुशुश्रूषा शौचमाहारलाघवम् । नित्यस्वाध्याय इत्येते नियमाः पञ्च कीर्तिताः ॥ ४१.१७ ॥ सारभूतमुपासीत ज्ञानं यत्कार्यसाधकम् । ज्ञानानां बहुता येयं योगविघ्रकरा हि सा ॥ ४१.१८ ॥ इदं ज्ञेयमिदं ज्ञेयमिति यस्तृषितश्चरेत् । अपि कल्पसहस्रेषु नैव ज्ञेयमवाप्नुयात् ॥ ४१.१९ ॥ त्यक्तसङ्गो जितक्रोधो लघ्वाहारो जितेन्द्रियः । पिधाय बुद्ध्या द्वाराणि मनो ध्याने निवेशयेत् ॥ ४१.२० ॥ शून्येष्वेवावकाशेषु गुहासु च वनेषु च । नित्ययुक्तः सदा योगी ध्यानं सम्यगुपक्रमेत् ॥ ४१.२१ ॥ वाग्दण्डः कर्मदण्डश्च मनोदण्डश्च ते त्रयः । यस्यैते नियता दण्डाः स त्रिदण्डी महायतिः ॥ ४१.२२ ॥ सर्वमात्ममयं यस्य सदसज्जगदीदृशम् । गुणागुणमयन्तस्य कः प्रियः को नृपाप्रियः ॥ ४१.२३ ॥ विसुद्धबुद्धिः समलोष्टकाञ्चनः समस्तभूतेषु च तत्समाहितः । स्थानं परं शाश्वतमव्ययञ्च परं हि मत्वा न पुनः प्रजायते ॥ ४१.२४ ॥ वेदाच्छ्रेष्ठाः सर्वयज्ञक्रियाश्च यज्ञाज्जप्यं ज्ञानमार्गश्च जप्यात् । ज्ञानाद्ध्यानं सङ्गरागव्यपेतं तस्मिन् प्राप्ते शाश्वतस्योपलब्धिः ॥ ४१.२५ ॥ समाहितो ब्रह्मपरोऽप्रमादी सुचिस्तथैकान्तरतिर्यतेन्द्रियः । समाप्नुयाद्योगमिमं महात्मा विमुक्तिमाप्रोति ततः स्वयोगतः ॥ ४१.२६ ॥ इति श्रीमार्कण्डेयपुराणे योगिचर्यानामैकचत्वारिंशोऽध्यायः _____________________________________________________________ द्विचत्वारिंशोऽध्यायः दत्तात्रेय उवाच एवं यो वर्तते योगी सम्यग्योगव्यवस्थितः । न स व्यावर्तितुं शक्यो जन्मान्तरशतैरपि ॥ ४२.१ ॥ दृष्ट्वा च परमात्मानं प्रत्यक्षं विश्वरूपिणम् । विश्वपादशिरोग्रीवं विश्वेशं विश्वभावनम् ॥ ४२.२ ॥ तत्प्राप्तये महत्पुण्यमोमित्येकाक्षरं जपेत् । तदेवाध्ययनं तस्य स्वरूपं शृण्वतः परम् ॥ ४२.३ ॥ अकारश्च तथोकारो मकारश्चाक्षरत्रयम् । एता एव त्रयो मात्राः सात्त्वराजसतामसाः ॥ ४२.४ ॥ निर्गुणा योगिगम्यान्या चार्धमात्रोर्ध्वसंस्थिता । गान्धारीति च विज्ञेया गान्धारस्वरसंश्रया ॥ ४२.५ ॥ पिपीलिकागतिस्पर्शा प्रयुक्ता मूर्ध्नि लक्ष्यते । यथा प्रयुक्त ओङ्गारः प्रतिनिर्याति मूर्धनि ॥ ४२.६ ॥ तथोङ्कारमयो योगी त्वक्षरे त्वक्षरो भवेत् । प्राणो धनुः शरो ह्यात्मा ब्रह्म वेध्यमनुत्तमम् ॥ ४२.७ ॥ अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् । ओमित्येतत्त्रयो वेदास्त्रयो लोकास्त्रयोऽग्नयः ॥ ४२.८ ॥ विष्णुर्ब्रह्माहरश्चैव ऋक्सामानि यजूंषि च । मात्राः सार्धाश्च तिस्त्रश्च विज्ञेयाः परमार्थतः ॥ ४२.९ ॥ तत्र युक्तस्तु यो योगी स तल्लयमवाप्नुयात् । अकारस्त्वथ भूर्लोक उकारश्चोच्यते भुवः ॥ ४२.१० ॥ सव्यञ्जनो मकारश्च स्वर्लोकः परिकल्प्यते । व्यक्ता तु प्रथमा मात्रा द्वितीयाव्यक्तसंज्ञिता ॥ ४२.११ ॥ मात्रा तृतीया चिच्छक्तिरर्धमात्रा परं पदम् । अनेनैव क्रमेणैता विज्ञेया योगभूमयः ॥ ४२.१२ ॥ ओमित्युच्चारणात्सर्वं गृहीतं सदसद्भवेत् । ह्रस्वा तु प्रथमा मात्रा द्वितीया दैर्घ्यसंयुता ॥ ४२.१३ ॥ तृतीया च प्लुतार्धाख्या वचसः सा न गोचरा । इत्येतदक्षरं ब्रह्म परमोङ्कारसंज्ञितम् ॥ ४२.१४ ॥ यस्तु वेद नरः सम्यक्तथा ध्यायति वा पुनः । संसारचक्रमुत्सृज्य त्यक्तत्रिविधबन्धनः ॥ ४२.१५ ॥ प्राप्रोति ब्रह्मणि लयं परमे परमात्मनि । अक्षीणकर्मबन्धश्च ज्ञात्वा मृत्युमरिष्टतः ॥ ४२.१६ ॥ उत्क्रान्तिकाले संस्मृत्य पुनर्योगित्वमृच्छति । तस्मादसिद्धयोगेन सिद्धयोगेन वा पुनः । ज्ञेयन्यरिष्टानि सदा येनोत्क्रान्तौ न सीदति ॥ ४२.१७ ॥ इति श्रीमार्कणाडेयपुराणे योगधर्मे ओङ्कारध्यायो नाम द्विचत्वारिंशोऽध्यायः _____________________________________________________________ त्रिचत्वारिंशोऽध्यायः दत्तात्रेय उवाच अरिष्टानि महाराज ! शृणु वक्ष्यामि तानि ते । येषामालोकनान्मृत्युं निजं जानाति योगवित् ॥ ४३.१ ॥ देवमार्गं ध्रुवं शुक्रं सोमच्छायामरुन्धतीम् । यो न पश्येन्न जीवेत्स नरः संवत्सरात्परम् ॥ ४३.२ ॥ अरश्मिबिम्बं सूर्यस्य वह्निं चैवांशुमालिनम् । दृष्ट्वै कादशमासात्तु नरो नोर्धन्तु जीवति ॥ ४३.३ ॥ वान्ते मूत्रपूरीषे च यः स्वर्णं रजतं तथा । प्रत्यक्षं कुरुते स्वप्ने जीवेत्स दशमासिकम् ॥ ४३.४ ॥ दृष्ट्वा प्रेतपिशाचादीन् गन्धर्वनगराणि च । सुवर्णवर्णान् वृक्षांश्च नव मासान् स जीवति ॥ ४३.५ ॥ स्थूलः कृशः कृशः स्थूलो योऽकस्मादेव जायते । प्रकृतेश्च निवर्तेत तस्यायुश्चाष्टमासिकम् ॥ ४३.६ ॥ खण्डं यस्य पदं पार्ष्णयां पादस्याग्रे च वा भवेत् । पांशुकर्दमयोर्मध्ये सप्त मासान् स जीवति ॥ ४३.७ ॥ गृध्रः कपोतः काकालो वायसो वापि मूर्धनि । क्रव्यादो वा खगो नीलः षण्मासायुः प्रदर्शकः ॥ ४३.८ ॥ हन्यते काकपङ्क्तीभिः पांशुवर्षेण वा नरः । स्वां च्छायामन्यथा दृष्ट्वा चतुः पञ्च स जीवति ॥ ४३.९ ॥ अनभ्रे विद्युतं दृष्ट्वा दक्षिणां दिशमाश्रिताम् । रात्राविन्द्रधनुश्चापि जीवितं द्वित्रिमासिकम् ॥ ४३.१० ॥ घृते तैले तथादर्शे तोये वा नात्मनस्तनुम् । यः पश्येदशिरस्कां वा मासादूर्ध्वं न जीवति ॥ ४३.११ ॥ यस्य वस्तसमो गन्धो गात्रे शवसमोऽपि वा । तस्यार्धमासिकं ज्ञेयं योगिनो नृप ! जीवितम् ॥ ४३.१२ ॥ यस्य वै स्त्रमात्रस्य हृत्पादमवशुष्यते । पिबतश्च जलं शोषो दशाहं सोऽपि जीवति ॥ ४३.१३ ॥ सम्भिन्नो मारुतो यस्य मर्मस्थानानि कृन्तति । हृष्यते नाम्बुसंस्पर्शात्तस्य मृत्युरुपस्थितः ॥ ४३.१४ ॥ ऋक्षवानरयानस्थो गायन् यो दक्षिणां दिशम् । स्वप्ने प्रयाति तस्यापि न मृत्युः कालमिच्छति ॥ ४३.१५ ॥ रक्तकृष्णाम्बरधरा गायन्ती हसती च यम् । दक्षिणाशान्नयेन्नारी स्वप्ने सोऽपि न जीवति ॥ ४३.१६ ॥ नग्नं क्षपणकं स्वप्ने हसमानं महाबलम् । एकं संवीक्ष्य वल्गन्तं विद्यान्मृत्युमुपस्थितम् ॥ ४३.१७ ॥ आमस्तकतलाद्यस्तु निमग्नं पङ्कसागरे । स्वप्ने पश्यत्यथात्मानं स सद्यो म्रियते नरः ॥ ४३.१८ ॥ केशाङ्गारांस्तथा भस्म भुजङ्गान्निर्जलां नदीम् । दृष्ट्वा स्वप्ने दशाहात्तु मृत्युरेकादशे दिने ॥ ४३.१९ ॥ करालैर्विकटैः कृष्णैः पुरुषैरुद्यतायुधैः । पाषाणैस्ताडितः स्वप्ने सद्यो मृत्युं लभेन्नरः ॥ ४३.२० ॥ सूर्योदये यस्य शिवा क्रोशन्ती याति संमुखम् । विपरीतं परीतं वा स सद्यो मृत्युमृच्छति ॥ ४३.२१ ॥ यस्य वै भुक्तमात्रस्य हृदयं बाधते क्षुधा । जायते दन्तघर्षश्च स गतायुर्न संशयम् ॥ ४३.२२ ॥ दीपगन्धं न यो वेत्ति त्रस्यत्यह्नि तथा निशि । नात्मानं परनेत्रस्थं वीक्षते न स जीवति ॥ ४३.२३ ॥ शक्रायुधं चार्धरात्रे दिवा ग्रहगणन्तथा । दृष्ट्वा मन्येत संक्षीणमात्मजीवितमात्मवित् ॥ ४३.२४ ॥ नासिका वक्रतामेति कर्णयोर्नमनोन्नती । नेत्रञ्च वामं स्त्रवति यस्य तस्यायुरुद्गतम् ॥ ४३.२५ ॥ आरक्ततामेति मुखं जिह्वा वा श्यामतां यदा । तदा प्राज्ञो विजानीयान्मृत्युमासन्नमात्मनः ॥ ४३.२६ ॥ उष्ट्ररासभयानेन यः स्वप्ने दक्षिणां दिशम् । प्रयाति तञ्च जानीयात्सद्योमृत्युं न संशयः ॥ ४३.२७ ॥ पिधाय कर्णौ निर्घोषं न शृणोत्यात्मसम्भवम् । नश्यते चक्षुषोर्ज्योतिर्यस्य सोऽपि न जीवति ॥ ४३.२८ ॥ पततो यस्य वै गर्ते स्वप्ने द्वारं पिधीयते । न चोत्तिष्ठति यः श्वभ्रात्तदन्तं तस्य जीवितम् ॥ ४३.२९ ॥ ऊर्ध्वा च दृष्टिर्न च संप्रतिष्ठा रक्ता पुनः संपरिवर्तमाना । मुखस्य चोष्मा शुषिरञ्च नाभेः शंसन्ति पुंसामपरं शरीरम् ॥ ४३.३० ॥ स्वप्नेऽग्निं प्रविशेद्यस्तु न च निष्क्रमते पुनः । जलप्रवेशादपि वा तदन्तं तस्य जीवितम् ॥ ४३.३१ ॥ यश्चाभिहन्यते दुष्टैर्भूतै रात्रावथो दिवा । स मृत्युं सप्तरात्र्यन्ते नरः प्राप्रोत्यसंशयम् ॥ ४३.३२ ॥ स्ववस्त्रममलं शुक्लं रक्तं पश्यत्यथासितम् । यः पुमान्मृत्युमासन्नं तस्यापि हि विनिर्दिशेत् ॥ ४३.३३ ॥ स्वभाववैपरीत्यन्तु प्रकृतेश्च विपर्ययः । कथयन्ति मनुष्याणां सदासन्नौ यमान्तकौ ॥ ४३.३४ ॥ येषां विनीतः सततं येऽस्य पूज्यतमा मताः । तानेव चावजानाति तानेव च विनिन्दति ॥ ४३.३५ ॥ देवान्नार्चयते वृद्धान् गुरून् विप्रांश्च निन्दति । मातापित्रोर्न सत्कारं जामातॄणां करोति च ॥ ४३.३६ ॥ योगिनां ज्ञानविदुषामन्येषाञ्च महात्मनाम् । प्राप्ते तु काले पुरुषस्तद्विज्ञेयं विचक्षणैः ॥ ४३.३७ ॥ योगिनां सततं यत्नादरिष्टान्यवनीपते । संवत्सरान्ते तज्ज्ञेयं फलदानि दिवानिशम् ॥ ४३.३८ ॥ विलोक्या विशदा चैषां फलपङ्क्तिः सुभीषणा । विज्ञाय कार्यो मनसि स च कालो नरेश्वर ॥ ४३.३९ ॥ ज्ञात्व कालञ्च तं सम्यगभयस्थानमाश्रितः । युञ्जीत योगी कालोऽसौ यथा नास्याफलो भवेत् ॥ ४३.४० ॥ दृष्ट्वारिष्टं तथा योगी त्यक्त्वा मरणजं भयम् । तत्स्वभावं तदालोक्य काले यावत्युपागतम् ॥ ४३.४१ ॥ तस्य भागे तथैवाह्नो योगं युञ्जीत योगवित् । पूर्वाह्ने चापराह्ने च मध्याह्ने चापि तद्दिने ॥ ४३.४२ ॥ यत्र वा रजनीभागे तदरिष्टं निरीक्षितम् । तत्रैव तावद्युञ्जीत यावत्प्राप्तं हि तद्दिनम् ॥ ४३.४३ ॥ ततस्त्यक्त्वा भयं सर्वं जित्वा तं कालमात्मवान् । तत्रैवावसथे स्थित्वा यत्र वा स्थैर्यमात्मनः ॥ ४३.४४ ॥ युञ्जीत योगं निर्जित्य त्रीन् गुणान् परमात्मनि । तन्मयश्चात्मना भूत्वा चिद्वृत्तिमपि सन्त्यजेत् ॥ ४३.४५ ॥ ततः परमनिर्वाणमतीन्द्रियमगोचरम् । यद्बुद्धेर्यन्न चाख्यातुं शक्यते तत्समश्नुते ॥ ४३.४६ ॥ एतत्सर्वं समाख्यातं तवालर्क ! यथार्थवत् । प्राप्स्यसे येन तद्ब्रह्म संक्षेपात्तन्निबोध मे ॥ ४३.४७ ॥ शशाङ्करश्मिसंयोगाच्छन्द्रकान्तमणिः पयः । समुत्सृजति नायुक्तः सोपमा योगिनः स्मृता ॥ ४३.४८ ॥ यच्चार्करश्मिसंयोगादर्ककान्तो हुताशनम् । आविष्करोति नैकः सन्नुपमा सापि योगिनः ॥ ४३.४९ ॥ पिपीलिकाखुनकुलगृहगोधाकपिञ्जलाः । वसन्ति स्वामिवद्गेहे ध्वस्ते यान्ति ततोऽन्यतः ॥ ४३.५० ॥ दुः खन्तु स्वामिनो ध्वंसे तस्य तेषां न किञ्चन । वेश्मनो यत्र राजेन्द्र ! सोपमा योगसिद्धये ॥ ४३.५१ ॥ मृद्वाहिकाल्पदेहापि मुखाग्रेणाप्यणीयसा । करोति मृद्भारचयमुपदेशः स योगिनः ॥ ४३.५२ ॥ पशुपक्षिमनुष्याद्यैः पत्रपुष्पफलान्वितम् । वृक्षं विलुप्यमानन्तु दृष्ट्वा सिध्यन्ति योगिनः ॥ ४३.५३ ॥ रुरुशावविषाणाग्रमालक्ष्य तिलकाकृतिम् । सह तेन विवर्धन्तं योगी सिद्धिमवाप्नुयात् ॥ ४३.५४ ॥ द्रवपूर्णमुपादाय पात्रमारोहतो भुवः । तुङ्गमार्गं विलोक्योच्चैर्विज्ञातं किं न योगिना ॥ ४३.५५ ॥ सर्वस्वे जीवनायालं निखाते पुरुषस्य या । चेष्टा तां तत्त्वतो ज्ञात्वा योगिनः कृतकृत्यता ॥ ४३.५६ ॥ तद्गृहं यत्र वसतिः तद्भोज्यं येन जीवति । येन सम्पद्यते चार्थस्तत्सुखं ममतात्र का ॥ ४३.५७ ॥ अभ्यर्थितोऽपि तैः कार्यं करोति करणैर्यथा । तथा बुध्यादिभिर्योगी पारक्यैः साधयेत्परम् ॥ ४३.५८ ॥ जड उवाच ततः प्रणम्यात्रिपुत्रमलर्कः स महीपतिः । प्रश्रयावनतो वाक्यमुवाचातिमुदान्वितः ॥ ४३.५९ ॥ अलर्क उवाच दिष्ट्यादेवैरिदं ब्रह्मन् ! पराभिभवसम्भवम् । उपपादितमत्युग्रं प्राणसन्देहदं भयम् ॥ ४३.६० ॥ दिष्ट्या काशिपतेर्भूरिबलसम्पत्पराक्रमः । यदुच्छेदादिहायातः स युष्मत्सङ्गदो मम ॥ ४३.६१ ॥ दिष्ट्या मन्दबलश्चाहं दिष्ट्या भृत्याश्च मे हताः । दिष्ट्या कोषः क्षयं योतो दिष्ट्याहं भीतिमागतः ॥ ४३.६२ ॥ दिष्ट्या त्वत्पादयुगलं मम स्मृतिपथं गतम् । दिष्ट्या त्वदुक्तयः सर्वा मम चेतसि संस्थितः ॥ ४३.६३ ॥ दिष्ट्या ज्ञानं ममोत्पन्नं भवतश्च समागमात् । भवता चैव कारुण्यं दिष्ट्या ब्रह्मन् ! कृतं मम ॥ ४३.६४ ॥ अनर्थोऽप्यर्थतां याति पुरुषस्य शुभोदये । यथेदमुपकाराय व्यसनं सङ्गमात्तव ॥ ४३.६५ ॥ सुबाहुरुपकारी मे स च काशिपतिः प्रभो । ययोः कृतेऽहं संप्राप्तो योगीश ! भवतोऽन्तिकम् ॥ ४३.६६ ॥ सोऽहन्तव प्रसादाग्निनिर्दग्धाज्ञानकिल्विषः । तथा यतिष्ये येनेदृङ्न भूयां दुः खभाजनम् ॥ ४३.६७ ॥ परित्यजिष्ये गार्हस्थ्यमार्तिपादपकाननम् । त्वत्तोऽनुज्ञां समासाद्य ज्ञानदातुर्महात्मनः ॥ ४३.६८ ॥ दत्तात्रेय उवाच गच्छ राजेन्द्र ! भद्रं ते यथा ते कथितं मया । निर्ममो निरहङ्कारस्तथा चर विमुक्तये ॥ ४३.६९ ॥ जड उवाच एवमुक्तः प्रणम्यैनमाजगाम त्वरान्वितः । यत्र काशिपतिर्भ्राता सुबाहुश्चास्य सोऽग्रजः ॥ ४३.७० ॥ समुत्पत्य महाबहुं सोऽलर्कः काशिभूपतिम् । सुबाहोरग्रतो वीरमुवाच प्रहसन्निव ॥ ४३.७१ ॥ राज्यकामुक काशीश ! भुज्यतां राज्यमूर्जितम् । तथा च रोचते तद्वत्सुबाहोः संप्रयच्छ वा ॥ ४३.७२ ॥ काशिराज उवाच किमलर्क ! परित्यक्तं राज्यं ते संयुगं विना । क्षत्रियस्य न धर्मोऽयं भवांश्च क्षत्रधर्मवित् ॥ ४३.७३ ॥ निर्जितामात्यवर्गस्तु त्यक्त्वा मरणजं भयम् । सन्दधीत शरं राजा लक्ष्यमुद्दिश्य वैरिणम् ॥ ४३.७४ ॥ तं जित्वा नृपतिर्भोगान् यथाभिलषितान् वरान् । भुञ्जीत परमं सिद्ध्यै यजेत च महामखैः ॥ ४३.७५ ॥ अलर्क उवाच एवमीदृशकं वीर ! ममाप्यासीन्मनः पुरा । साम्प्रतं विपरीतार्थं शृणु चाप्यत्र कारणम् ॥ ४३.७६ ॥ यथायं भौतिकः सङ्घस्तथान्तः करणं नृणाम् । गुणास्तु सकलास्तद्वदशेषेष्वेव जन्तुषु ॥ ४३.७७ ॥ चिच्छक्तिरेक एवायं यदा नान्योऽस्ति कश्चन । तदा का नृपते ज्ञानान्मित्रारिप्रभुभृत्यता ॥ ४३.७८ ॥ तन्मया दुः खमासाद्य त्वद्भयोद्भवमुत्तमम् । दत्तात्रेयप्रसादेन ज्ञानं प्राप्तं नरेश्वर ॥ ४३.७९ ॥ निर्जितेन्द्रियवर्गस्तु त्यक्त्वा सङ्गमशेषतः । मनो ब्रह्मणि सन्धाय तज्जये परमो जयः ॥ ४३.८० ॥ संसाध्यमन्यत्तत्सिद्ध्यै यतः किञ्चिन्न विद्यते । इन्द्रियाणि च संयम्य ततः सिद्धिं नियच्छति ॥ ४३.८१ ॥ सोऽहं न तेऽरिर्न ममासि शत्रुः सुबाहुरेषो न ममापकारी । दृष्टं मया सर्वमिदं यथात्मा अन्विष्यतां भूप ! रिपुस्त्वयान्यः ॥ ४३.८२ ॥ इत्थं स तेनाभिहितो नरेन्द्रो हृष्टः समुत्थाय ततः सुबाहुः । दिष्ट्येति तं भ्रातरमाभिनन्द्य काशीश्वरं वाक्यमिदं बभाषे ॥ ४३.८३ ॥ इति श्रीमार्कण्डेयपुराणे अरिष्टकथनं नाम त्रिचत्वारिंशोऽध्यायः _____________________________________________________________ चतुश्चत्वारिंशोऽध्यायः सुबाहुरुवाच यदर्थं नृपशार्दूल ! त्वामहं शरणं गतः । तन्मया सकलं प्राप्तं यास्यामि त्वं सुखी भव ॥ ४४.१ ॥ काखिराज उवाच किं निमित्तं भवान् प्राप्तो निष्पन्नोर्ऽथश्च कस्तव । सुबाहो ! तन्ममाचक्ष्व परं कौतूहलं हि मे ॥ ४४.२ ॥ समाक्रान्तमलर्केण पितृपैतामहं महत् । राज्यं देहीति निर्जित्य त्वयाहमभिचोदितः ॥ ४४.३ ॥ ततो मया समाक्रम्य राज्यमस्यानुजस्य ते । एतत्ते बलमानीतं तद्भुङ्क्ष्वस्वकुलोचितम् ॥ ४४.४ ॥ सुबाहुरुवाच काशिराज ! निबोध त्वं यदर्थमयमुद्यमः । कृतो मया भवांश्चैव कारितोऽत्यन्तमुद्यमम् ॥ ४४.५ ॥ भ्राता ममायं ग्राम्येषु सक्तो भोगेषु तत्त्ववित् । विमूढौ बोधवन्तौ च भ्रातरावग्रजौ मम ॥ ४४.६ ॥ तयोर्मम च यन्मात्रा बाल्ये स्तन्यं यथा मुखे । तथावबोधो विन्यस्तः कर्णयोरवनीपते ॥ ४४.७ ॥ तयोर्मम च विज्ञेयाः पदार्था ये मता नृभिः । प्राकाश्यं मनसो नीतास्ते मात्रा नास्य पार्थिव ॥ ४४.८ ॥ यथैकमर्थे यातानामेकस्मिन्नवसीदति । दुः खं भवति साधूनां ततास्माकं महीपते ॥ ४४.९ ॥ गार्हस्थ्यमोहमापन्ने सीदत्यस्मिन्नरेश्वर । सम्बन्धिन्यस्य देहस्य बिभ्रति भ्रातृकल्पनाम् ॥ ४४.१० ॥ ततो मया विनिश्चित्य दुः खाद्वैराग्यभावना । भविष्यतीत्यस्य भवानित्युद्योगाय संश्रितः ॥ ४४.११ ॥ तदस्य दुः खाद्वैराग्यं संबोधादवनीपते । समुद्भूतं कृतं कार्यं भद्रं तेऽस्तु व्रजाम्यहम् ॥ ४४.१२ ॥ उष्ट्वा मदालसागर्भे पीत्वा सत्सास्तथा स्तनम् । नान्यनारीसुतैर्यातं वर्त्म यात्विति पार्थिव ॥ ४४.१३ ॥ विचार्य तन्मया सर्वं युष्मत्संश्रयपूर्वकम् । कृतं तच्चापि निष्पन्नं प्रयास्ये सिद्धये पुनः ॥ ४४.१४ ॥ उपेक्ष्यते सीदमानः स्वजनो बान्धवः सुहृत् । यैर्नरेन्द्र ! न तान्मन्ये सेन्द्रिया विकला हि ते ॥ ४४.१५ ॥ सुहृदि स्वजने बन्धौ समर्थे योऽवसीदति । धर्मार्थकाममोक्षेभ्यो वाच्यास्ते तत्र न त्वसौ ॥ ४४.१६ ॥ एतत्त्वत्सङ्गमाद्भूप ! मया कार्यं महत्कृतम् । स्वस्ति तेऽस्तु गमिष्यामि ज्ञानभाग्भव सत्तम ॥ ४४.१७ ॥ काशिराज उवाच उपकारस्त्वया साधोरलर्कस्य कृतो महान् । ममोपकाराय कथं न करोषि स्वमानसम् ॥ ४४.१८ ॥ फलदायी सतां सदिभः सङ्गमो नाफलो यतः । तस्मात्तवत्संश्रयाद्युक्ता मया प्राप्ता समुन्नतिः ॥ ४४.१९ ॥ सुबाहुरुवाच धर्मार्थकाममोक्षाख्यं पुरुषार्थचतुष्टयम् । तत्र धर्मार्थकामास्ते सकला हीयतेऽपरः ॥ ४४.२० ॥ तत्ते संक्षेपतो वक्ष्ये तदिहैकमनाः शृणु । श्रुत्वा च सम्यगालोच्य यतेथाः श्रेयसे नृप ॥ ४४.२१ ॥ ममेतिप्रत्ययो भूप ! न कार्योऽहमिति त्वया । सम्यगालोच्य धर्मो हि धर्माभावे निराश्रयः ॥ ४४.२२ ॥ कस्याहमिति संज्ञेयमित्यालोच्य त्वयात्मना । बाह्यन्तर्गतमालोच्यमालोच्यापररात्रिषु ॥ ४४.२३ ॥ अव्यक्तादिविशेषन्तमविकारमचेतनम् । व्यक्ताव्यक्तं त्वया ज्ञेयं ज्ञाता कश्चाहमित्युत ॥ ४४.२४ ॥ एतस्मिन्नेव विज्ञाने विज्ञातमखिलं त्वया । अनात्मन्यात्मविज्ञानमखे खमिति मूढता ॥ ४४.२५ ॥ सोऽहं सर्वगतो भूप ! लोकसंव्यवहारतः । मयेदमुच्यते सर्वं त्वया पृष्टो व्रजाम्यहम् ॥ ४४.२६ ॥ एवमुक्त्वा ययौ धीमान् ! सुबाहुः काशिभूमिपम् । काशिराजोऽपि संपूज्य सोऽलर्कं स्वपुरं ययौ ॥ ४४.२७ ॥ अलर्कोऽपि सुतं ज्येष्ठमभिषिच्य नराधिपम् । वनं जगाम सन्त्यक्तसर्वसङ्गः स्वसिद्धये ॥ ४४.२८ ॥ ततः कालेन महाता निर्द्वन्द्वो निष्परिग्रहः । प्राप्य योगर्धिमतुलां परं निर्वाणमाप्तवान् ॥ ४४.२९ ॥ पश्यन् जगदिदं सर्वं सदेवासुरमानुषम् । पाशैर्गुणमयैर्बद्धं बध्यमानञ्च नित्यशः ॥ ४४.३० ॥ पुत्रादिभ्रातृपुत्रादिस्वपारक्यादिभावितैः । आकृष्यमाणं करणैर्दुःखार्तं भिन्नदर्शनम् ॥ ४४.३१ ॥ अज्ञानपङ्कगर्भस्थमनुद्धारं महामतिः । आत्मानञ्च समुत्तीर्णं गाथामेतामगायत ॥ ४४.३२ ॥ अहो कष्टं यदस्माभैः पूर्वं राज्यमनुष्ठितम् । इति पश्चान्मया ज्ञातं योगान्नास्ति परं सुखम् ॥ ४४.३३ ॥ जड उवाच तातैनं त्वं समातिष्ठ मुक्तये योगमुत्तमम् । प्राप्स्यसे येन तद्ब्रह्म यत्र गत्वा न शोचसि ॥ ४४.३४ ॥ ततोऽहमपि यास्यामि किं यज्ञैः किं जपेन मे । कृतकृत्यस्य करणं ब्रह्मभावाय कल्पते ॥ ४४.३५ ॥ त्वत्तोऽनुज्ञामवाप्याहं निर्द्वन्द्वो निष्परिग्रहः । प्रयतिष्ये तथा मुक्तौ यथा यास्यामि निर्वृतिम् ॥ ४४.३६ ॥ पक्षिण ऊचुः एवमुक्त्वा स पितरं प्राप्यानुज्ञां ततश्च सः । ब्रह्मन् ! जगाम मेधावी परित्यक्तपरिग्रहः ॥ ४४.३७ ॥ सोऽपि तस्य पिता तद्वत्क्रमेण सुमहामतिः । वानप्रस्थं समास्थाय चतुर्थाश्रममभ्यगात् ॥ ४४.३८ ॥ तत्रात्मजं समासाद्य हित्वा बन्धं गुणादिकम् । प्राप सिद्धिं परां प्राज्ञस्तत्कालोपात्तसंमतिः ॥ ४४.३९ ॥ एतत्ते कथितं ब्रह्मन् ! यत्पृष्टा भवता वयम् । सुविस्तरं यथावच्च किमन्यच्छ्रोतुमिच्छसि ॥ ४४.४० ॥ इति श्रीमार्कण्डेयपुराणे पितापुत्रसंवादे जडोपाख्यानं नाम चतुश्चत्वारिंशोऽध्यायः _____________________________________________________________ पञ्चचत्वारिंभोऽध्यायः जैमिनिरुवाच सम्यगेतन्ममाख्यातं भवदिभर्द्विजसत्तमाः । प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ॥ ४५.१ ॥ अहो पितृप्रसादेन भवतां ज्ञानमीदृशम् । येन तिर्यक्त्वमप्येतत्प्राप्य मोहस्तिरस्कृतः ॥ ४५.२ ॥ धन्या भवन्तः संसिद्ध्यै प्रागवस्थास्थितं यतः । भवतां विषयोद्भूतैर्न मोहैश्चाल्यते मनः ॥ ४५.३ ॥ दिष्ट्या भगवता तेन मार्कण्डेयेन धीमता । भवन्तो वै समाख्याताः सर्वसन्देहहृत्तमाः ॥ ४५.४ ॥ संसारेऽस्मिन्मनुष्याणां भ्रमतामतिसङ्कटे । भवद्विधैः समं सङ्गो जायते नातपस्विनाम् ॥ ४५.५ ॥ यद्यहं सङ्गमासाद्य भवदिभर्ज्ञानदृष्टिभिः । न स्यां कृतार्थस्तन्नूनं न मेऽन्यत्र कृतार्थता ॥ ४५.६ ॥ प्रवृते च निवृत्ते च भवतां ज्ञानकर्मणि । मतिमस्तमलां मन्ये यथा नान्यस्य कस्यचित् ॥ ४५.७ ॥ यदि त्वनुग्रहवती मयी बुद्धिर्द्विजोत्तमाः । भवतां तत्समाख्यातुमर्हतेदमशेषतः ॥ ४५.८ ॥ कथमेतत्समुद्भूतं जगत्स्थावरजङ्गमम् । कथञ्च प्रलयङ्काले पुनर्यास्यति सत्तमाः ॥ ४५.९ ॥ कथञ्च वंशाः देवर्षिपितृभूतादिसम्भवाः । मन्वन्तराणि च कथं वंशानुचरितञ्च यत् ॥ ४५.१० ॥ यावत्यः सृष्टयश्चैव यावन्तः प्रलयास्तथा । यथा कल्पविभागश्च या च मन्वन्तरस्थितिः ॥ ४५.११ ॥ यथा च क्षितिसंस्थानं यत्प्रमाणञ्च वै भुवः । यथास्थिति समुद्राद्रिनिम्नगाः काननानि च ॥ ४५.१२ ॥ भूर्लोकादिस्वर्लोकानां गणः पातालसंश्रयः । गतिस्तथार्कसोमादिग्रहर्क्षज्योतिषामपि ॥ ४५.१३ ॥ श्रोतुमिच्छाम्यहं सर्वमेतदाहूतसंप्लवम् । उपसंहृते च यच्छेषं जगत्यस्मिन् भविष्यति ॥ ४५.१४ ॥ पक्षिण ऊचुः प्रश्नभारोऽयमतुलो यस्त्वया मुनिसत्तम । पृष्टस्तं ते प्रवक्ष्यामस्तत्शृणुष्वेह जैमिने ॥ ४५.१५ ॥ मार्कण्डेयेन कथितं पुरा क्रौष्टुकये यथा । द्विजपुत्राय शान्ताय व्रतस्त्राताय धीमते ॥ ४५.१६ ॥ मार्कण्डेयं महात्मानमुपासीनं द्विजोत्तमैः । क्रौष्टुकिः परिपप्रच्छ यदेतत्पृष्टवान् प्रभो ॥ ४५.१७ ॥ तस्य चाकथयत्प्रीत्या यन्मुनिर्भृगुनन्दनः । तत्ते प्रकथयिष्यामः शृणु त्वं द्विजसत्तम ॥ ४५.१८ ॥ प्रणिपत्य जगन्नाथं पद्मयोनिं पितामहम् । जगद्योनिं स्थितं सृष्टौ स्थितौ विष्णुस्वरूपिणम् । प्रलये चान्तकर्तारं रौद्रं रुद्रस्वरूपिणम् ॥ ४५.१९ ॥ मार्कण्डेय उवाच उत्पन्नमात्रस्य पुरा ब्रह्मणोऽव्यक्तजन्मनः । पुराणमेतद्वेदाश्च मुखेभ्योऽनुविनिः सृताः ॥ ४५.२० ॥ पुराणसंहिताश्चक्रुर्बहुलाः परमर्षयः । वेदानां प्रविभागश्च कृतस्तैस्तु सहस्रशः ॥ ४५.२१ ॥ धर्मज्ञानञ्च वैराग्यमैश्वर्यञ्च महात्मनः । तस्योपदेशेन विना न हि सिद्धं चतुष्टयम् ॥ ४५.२२ ॥ वेदान् सप्तर्षयस्तस्माज्जगृहुस्तस्य मानसाः । पुराणं जगृहुश्चाद्या मुनयस्तस्य मानसाः ॥ ४५.२३ ॥ भृगोः सकाशाच्च्यवनस्तेनोक्तञ्च द्विजन्मनाम् । ऋषिभिश्चापि दक्षाय प्रोक्तमेतन्महात्मभिः ॥ ४५.२४ ॥ दक्षेण चापि कथितमिदमासीत्तदा मम । तत्तुभ्यं कथयाम्यद्य कलिकल्मषनाशनम् ॥ ४५.२५ ॥ सर्वमेतन्महाभग ! श्रूयतां मे समाधिना । यथाश्रुतं मया पूर्वं दक्षस्य गदतो मुने ॥ ४५.२६ ॥ प्रणिपत्य जगद्योनिमजमव्ययमाश्रयम् । चराचरस्य जगतोधातारं परमं पदम् ॥ ४५.२७ ॥ ब्रह्माणमादिपुरुषमुत्पत्तिस्थितिसंयमे । यत्कारणमनौपम्यं यत्र सर्वं प्रतिष्ठितम् ॥ ४५.२८ ॥ तस्मै हिरण्यगर्भाय लोकतन्त्राय धीमते । प्रणम्य सम्यग्वक्ष्यामि भूतवर्गमनुत्तमम् ॥ ४५.२९ ॥ महदाद्यं विशेषान्तं सवैरुप्यं सलक्षणम् । प्रमाणैः पञ्चभिर्गम्यं स्त्रोतोभिः षड्भिरन्वितम् ॥ ४५.३० ॥ पुरुषाधिष्ठितं नित्यमनित्यमिव च स्थितम् । तच्छ्रूयतां महाभाग ! परमेण समाधिना ॥ ४५.३१ ॥ प्रधानं कारणं यत्तदव्यक्ताख्यं महर्षयः । यदाहुः प्रकृतिं सूक्ष्मां नित्यां सदसदात्मिकाम् ॥ ४५.३२ ॥ ध्रुवमक्षय्यमजरममेयं नान्यसंश्रयम् । गन्धरूपरसैर्हेनं शब्दस्पर्शविवर्जितम् ॥ ४५.३३ ॥ अनाद्यन्तं जगद्योनि त्रिगुणप्रभवाप्ययम् । असाम्प्रतमविज्ञेयं ब्रह्माग्रे समवर्तत ॥ ४५.३४ ॥ प्रलयस्यानु तेनेदं व्याप्तमासीदशेषतः । गुणसाम्यात्ततस्तस्मात्क्षेत्रज्ञाधिष्ठितान्मुने ॥ ४५.३५ ॥ गुणभावात्सृज्यमानात्सर्गकाले ततः पुनः । प्रधानं तत्त्वमुद्भूतं महान्तं तत्समावृणोत् ॥ ४५.३६ ॥ यथा बीजं त्वचा तद्वदव्यक्तेनावृतो महान् । सात्त्विको राजसश्चैव तामसश्च त्रिधोदितः ॥ ४५.३७ ॥ ततस्तस्मादहङ्कारस्त्रिविधो वै व्यजायत । वैकारिकस्तैजसश्च भूतादिश्च सतामसः ॥ ४५.३८ ॥ महता चावृतः सोऽपि यथाव्यरक्तेन वै महान् । भूतादिस्तु विकुर्वाणः शब्दतन्मात्रकन्ततः ॥ ४५.३९ ॥ ससर्ज शब्दतन्मात्रादाकाशं शब्दलक्षणम् । आकाशं शब्दमात्रन्तु भूतादिश्चावृणोत्ततः ॥ ४५.४० ॥ स्पर्शतन्मात्रमेवेह जायते नात्र संशयः । बलवान् जायते वायुस्तस्य स्पर्शगुणो मतः ॥ ४५.४१ ॥ वायुश्चापि विकुर्वाणो रुपमात्रं ससर्ज ह । ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते ॥ ४५.४२ ॥ स्पर्शमात्रस्तु वै वायूरूपमात्रं समावृणोत् । ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह ॥ ४५.४३ ॥ सम्भवन्ति ततो ह्यापश्चासन् वै ता रसात्मिकाः । रसमात्रन्तु ताह्यापो रूपमात्रं समावृणोत् ॥ ४५.४४ ॥ आपश्चापि विकुर्वत्यो गन्धमात्रं ससर्जिरे । सङ्घातो जायते तस्मात्तस्य गन्धो गुणो मतः ॥ ४५.४५ ॥ तस्मिंस्तस्मिंस्तु तन्मात्रं तेन तन्मात्रता स्मृता । अविशेषवाचकत्वादविशेषास्ततश्च ते ॥ ४५.४६ ॥ न शान्ता नापि घोरास्ते न मूढाश्चाविशेषतः । भूततन्मात्रसर्गोऽयमहङ्कारात्तु तामसात् ॥ ४५.४७ ॥ वैकारिकादहङ्कारात्सत्त्वोद्रिक्तात्तु सात्त्विकात् । वैकारिकः स सर्गस्तु युगपत्सम्प्रवर्तते ॥ ४५.४८ ॥ बुद्धीन्द्रियाणि पञ्चैव पञ्च कर्मेन्द्रियाणि च । तैजसानीन्द्रियाण्याहुर्देवा वैकारिका दश ॥ ४५.४९ ॥ एकादशं मनस्तत्र देवा वैकारिकाः स्मृताः । श्रोतं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी ॥ ४५.५० ॥ शब्दादीनामवाप्त्यर्थं बुद्धियुक्तानि वक्ष्यते । पादौ पायुरुपस्थश्च हस्तौ वाक्पञ्चमी भवेत् ॥ ४५.५१ ॥ गतिर्विसर्गो ह्यानन्दः शिल्पं वाक्यञ्च कर्म तत् । आकाशं शब्दमात्रन्तु स्पर्शमात्रं समाविशत् ॥ ४५.५२ ॥ द्विगुणो जायते वायुस्तस्य स्पर्शो गुणो मतः । रूपन्तथैवाविशतः शब्दस्पर्शगुणावुभौ ॥ ४५.५३ ॥ द्विगुणस्तु ततश्चाग्निः स शब्दस्पर्शरूपवान् । शब्दः स्पर्शश्च रूपञ्च रसमात्रं समाविशत् ॥ ४५.५४ ॥ तस्माच्चतुर्गुणा ह्यापो विज्ञेयास्ता रसात्मिकाः । शब्दः स्पर्शश्च रूपञ्च रसो गन्धं समाविशत् ॥ ४५.५५ ॥ संहता गन्धमात्रेण आवृण्वंस्ते महीमिमाम् । तस्मात्पञ्चगुणा भूमिः स्थूला भूतेषु दृश्यते ॥ ४५.५६ ॥ शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः । परस्परानुप्रवेशाद्धारयन्ति परस्परम् ॥ ४५.५७ ॥ भूमेरन्तस्त्विदं सर्वं लोकालोकं घनावृतम् । विशेषाश्चेन्द्रियग्राह्या नियतत्वाच्च ते स्मृताः ॥ ४५.५८ ॥ गुणं पूर्वस्य पूर्वस्य प्राप्नुवन्त्युत्तरोत्तरम् । नानावीर्याः पृथग्भूताः सप्तैते संहतिं विना ॥ ४५.५९ ॥ नाशक्नुवन् प्रजाः स्त्रष्टुमसमागम्य कृत्स्नशः । समेत्यान्योन्यसंयोगमन्योन्याश्रयिणश्च ते ॥ ४५.६० ॥ एकसङ्घातचिह्नाश्च संप्राप्यैक्यमशेषतः । पुरुषाधिष्ठितत्वाच्च अव्यक्तानुग्रहेण च ॥ ४५.६१ ॥ महदाद्या विशेषान्ता ह्यण्डमुत्पादयन्ति ते । जलबुद्बुदवत्तत्र क्रमाद्वै वृद्धिमागतम् ॥ ४५.६२ ॥ भूतेभ्योऽण्डं महाबुद्धे ! वृहत्तदुदकेशयम् । प्राकृतेऽण्डे विवृद्धः सन् क्षेत्रज्ञो ब्रह्मसंज्ञितः ॥ ४५.६३ ॥ स वै शरीरी प्रथमः स वै पुरुष उच्यते । आदिकर्ता च भूतानां ब्रह्माग्रे समवर्तत ॥ ४५.६४ ॥ तेन सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् । मेरुस्तस्यानुसम्भूतो जरायुश्चापि पर्वताः ॥ ४५.६५ ॥ समुदा गर्भसलिलं तस्याण्डस्य महात्मनः । तस्मिन्नण्डे जगत्सर्वं सदेवासुरमानुषम् ॥ ४५.६६ ॥ दीपाद्यद्रिसमुद्राश्च राज्योतिर्लोकसंग्रहः । जलानिलानलाकाशैस्ततो भूतादिना बहिः ॥ ४५.६७ ॥ वृतमण्डं दशगुणैरेकेकैकत्वेन तैः पुनः । महता तत्प्रमाणेन सहैवानेन वेष्टितः ॥ ४५.६८ ॥ महांस्तैः सहितः सर्वैरव्यक्तेन समावृतः । एभिरावरणैरण्डं सप्तभैः प्राकृतैर्वृतम् ॥ ४५.६९ ॥ अन्योन्यमावृत्य च ता अष्टौ प्रकृतयः स्थिताः । एषा सा प्रकृतिर्नित्या यदन्तः पुरुषश्च सः ॥ ४५.७० ॥ ब्रह्माख्यः कथितो यस्ते समासात्श्रू यतां पुनः । यथा मग्नो जले कश्चिदुन्मज्जन् जलसम्भवः ॥ ४५.७१ ॥ जलञ्च क्षिपति ब्रह्मा स तथा प्रकृतिर्विभु । अव्यक्तं क्षेत्रमुदिष्टं ब्रह्मा क्षेत्रज्ञ उच्यते ॥ ४५.७२ ॥ एतत्समस्तं जानीयात्क्षेत्रक्षेत्रज्ञलक्षणम् । इत्येष प्राकृतः सर्गः क्षेत्रज्ञाधिष्ठितस्तु सः । अबुद्धिपूर्वः प्रथमः प्रादुर्भूतस्तडिद्यथा ॥ ४५.७३ ॥ इति श्रीमार्कण्डेयपुराणे ब्रह्मोत्पतिर्नाम पञ्चचत्वारिंशोऽध्यायः _____________________________________________________________ श्रीमन्महर्षिवेदव्यासप्रणीतं श्रीमार्कण्डेयपुराणम् । (द्वितीयो भागः ) षट्चत्वारिंशोऽध्यायः क्रौष्टुकिरुवाच भगवंस्त्वण्डसम्भूतिर्यथावत्कथिता मम । ब्रह्माण्डे ब्रह्मणो जन्म तथा चोक्तं महात्मनः ॥ ४६.१ ॥ एतदिच्छाम्यहं श्रोतुं त्वत्तो भृगुकुलोद्भव । यदान सृष्टिर्भूतानामस्ति किन्नु न चास्ति वा । काले वै प्रलयस्यान्ते सर्वस्मिन्नुपसंहृते ॥ ४६.२ ॥ मार्कण्डेय उवाच यदा तु प्रकृतौ याति लयं विश्वमिदं जगत् । तदोच्यते प्राकृतोऽयं विद्वद्भिः प्रतिसञ्चरः ॥ ४६.३ ॥ स्वात्मन्यवस्थितेव्यक्ते विकारे प्रतिसंहृते । प्रकृतिः पुरुषश्चैव साधर्म्येणावतिष्ठतः ॥ ४६.४ ॥ तदा तमश्च सत्त्वञ्च समत्वेन व्यवस्थितौ । अनुद्रिक्तावनूनौ च तत्प्रोतौ च परस्परम् ॥ ४६.५ ॥ तिलेषु वा यथा तैलं घृतं पयसि वा स्थितम् । तथा तमसि सत्त्वे च रजोऽप्यनुसृतं स्थितम् ॥ ४६.६ ॥ उत्पत्तिर्ब्रह्मणो यावदायुषो द्विपरार्धिकम् । तावद्दिनं परेशस्य तत्समा संयमे निशा ॥ ४६.७ ॥ अहर्मुखे प्रबुद्धस्तु जगदादिरनादिमान् । सर्वहेतुरचिन्त्यात्मा परः कोऽप्यपरक्रियः ॥ ४६.८ ॥ प्रकृतिं पुरुषञ्चैव प्राविश्याशु जगत्पतिः । क्षोभयामास योगेन परेण परमेश्वरः ॥ ४६.९ ॥ यथा मदो नवस्त्रीणां यथा वा माधवानिलः । अनुप्रविष्टः क्षोभाय तथासौ योगमूर्तिमान् ॥ ४६.१० ॥ प्रधाने क्षोभ्यमाने तु स देवो ब्रह्मसंज्ञितः । समुत्पन्नोऽण्डकोषस्थो यथा ते कथितं मया ॥ ४६.११ ॥ स एव क्षोभकः पूर्वं स क्षोभ्यः प्रकृतेः पतिः । स सङ्कोचविकाशाभ्यां प्रधानत्वेऽपि च स्थितः ॥ ४६.१२ ॥ अत्पन्नः स जगद्योनिरगुणोऽपि रजोगुणम् । भुञ्जन् प्रवर्तते सर्गे ब्रह्मत्वं समुपाश्रितः ॥ ४६.१३ ॥ ब्रह्मत्वे स प्रजाः सृष्ट्वा ततः सत्त्वातिरेकवान् । विष्णुत्वमेत्य धर्मेण कुरुते परिपालनम् ॥ ४६.१४ ॥ ततस्तमोगुणोद्रिक्तो रुद्रत्वे चाखिलं जगत् । उपसंहृत्य वै शेते त्रैलोक्यं त्रिगुणोऽगुणः ॥ ४६.१५ ॥ यथा प्राग्व्यापकः क्षेत्री पालको लावकस्तथा । यथा स संज्ञामायाति ब्रह्मविष्ण्वीशकारिणीम् ॥ ४६.१६ ॥ ब्रह्मत्वे सृजते लोकान् रुद्रत्वे संहरत्यपि । विष्णुत्वे चाप्युदासीनस्तिस्त्रोऽवस्थाः स्वयम्भुवः ॥ ४६.१७ ॥ रजो ब्रह्मा तमो रुद्रो विष्णुः सत्त्वं जगत्पतिः । एत एव त्रयो देवा एत एव त्रयो गुणाः ॥ ४६.१८ ॥ अन्योन्यमिथुना ह्येते अन्योन्याश्रयिणस्तथा । क्षणं वियोगो नह्येषां न त्यजन्ति परस्परम् ॥ ४६.१९ ॥ एवं ब्रह्मा जगत्पूर्वो देवदेवश्चतुर्मुखः । रजोगुणं समाश्रित्य स्त्रष्ट्टत्वे स व्यवस्थितः ॥ ४६.२० ॥ हिरण्यगर्भो देवादिरनादिरुपचारतः । भूपद्मकर्णिकासंस्थो ब्रह्माग्रे समजायत ॥ ४६.२१ ॥ तस्य वर्षशतं त्वेकं परमायुर्महात्मनः । ब्रह्म्येणैव हि मानेन तस्य संख्यां निबोध मे ॥ ४६.२२ ॥ निमेषैर्दशभिः काष्ठा तथा पञ्चभिरुच्यते । कलास्त्रिंशच्च वै काष्ठा मुहूर्तं त्रिंशत्ताः कलाः ॥ ४६.२३ ॥ अहोरात्रं मुहूर्तानां नृणां त्रिंशत्तु वै स्मृतम् । अहोरात्रैश्च त्रिंशद्भिः पक्षौ द्वौ मास उच्यते ॥ ४६.२४ ॥ तैः षड्भिरयनं वर्षं द्वेऽयने दक्षिणोत्तरे । तद्देवानामहोरात्रं दिनं तत्रोत्तरायणम् ॥ ४६.२५ ॥ दिव्यैर्वर्षसहस्रैस्तु कृतत्रेतादिसंज्ञितम् । चतुर्युगं द्वादशभिस्तद्विभागं शृणुष्व मे ॥ ४६.२६ ॥ चत्वारि तु सहस्राणि वर्षाणां कृतमुच्यते । शतानि सन्ध्या चत्वारि सन्ध्यांशश्च तथाविधः ॥ ४६.२७ ॥ त्रेता त्रीणि सहस्राणि दिव्याब्दानां शतत्रयम् । तत्सन्ध्या तत्समा चैव सन्ध्यांशश्च तथाविधः ॥ ४६.२८ ॥ द्वापरं द्वे सहस्रे तु वर्षाणां द्वे शते तथा । तस्य सन्ध्या समाख्याता द्वे शताब्दे तदंशकः ॥ ४६.२९ ॥ कलिः सहस्रं दिव्यानामब्दानां द्विजसत्तम । सन्ध्या सन्ध्यांशकश्चैव शतकौ समुदाहृतौ ॥ ४६.३० ॥ एषा द्वाधशसाहस्त्री युगाख्या कविभिः कृता । एतत्सहस्रगुणितमो ब्राह्म्यमुदाहृतम् ॥ ४६.३१ ॥ ब्रह्मणो दिवसे ब्रह्मन्मनवः स्युश्चतुर्दश । भवन्ति भागशस्तेषां सहस्रं तद्विभज्यते ॥ ४६.३२ ॥ देवाः सप्तर्षयः सेन्द्रा मनुस्तत्सूनवो नृपाः । मनुना सह सृज्यन्ते संह्रियन्ते च पूर्ववत् ॥ ४६.३३ ॥ चतुर्युगानां संख्याता साधिका ह्ये कसप्ततिः । मन्वन्तरं तस्य संख्यां मानुषाब्दैर्निबोध मे ॥ ४६.३४ ॥ त्रिंशत्कोट्यस्तु संपूर्णाः संख्याताः संख्यया द्विज । सत्पषष्टिस्तथान्यानि नियुतानि च संख्यया ॥ ४६.३५ ॥ विंशतिश्च सहस्राणि कालोऽयं साधिकं विना । एतन्मन्वन्तरं प्रोक्तं दिव्यैर्वर्षैर्निबोध मे ॥ ४६.३६ ॥ अष्टौ वर्षसहस्राणि दिव्यया संख्यया युतम् । द्विपञ्चाशत्तथान्यानि सहस्राण्यधिकानि तु ॥ ४६.३७ ॥ चतुर्दशगुणो ह्येष कालो ब्रह्म्यमहः स्मृतम् । तस्यान्ते प्रलयः प्रोक्तो ब्रह्मन्नैमित्तिको बुधैः ॥ ४६.३८ ॥ भूर्लोकोऽथ भुवर्लोकः स्वर्लोकश्च विनाशिनः । तथा विनाशमायान्ति महर्लोकश्च तिष्ठति ॥ ४६.३९ ॥ तद्वासिनोऽपि तापेन जनलोकं प्रयान्ति वै । एकार्णवे च त्रैलोक्ये ब्रह्मा स्वपिति वै निशि ॥ ४६.४० ॥ तत्प्रमाणैव सा रात्रिस्तदन्ते सृज्यते पुनः । एवन्तु ब्रह्मणो वर्षमेकं वर्षशतन्तु तत् ॥ ४६.४१ ॥ शतं हि तस्य वर्षाणां परमित्यभिधीयते । पञ्चाशद्भिस्तथा वर्षैः परार्धमिति कीर्त्यते ॥ ४६.४२ ॥ एवमस्य परार्धन्तु व्यतीतं द्विजसत्तम । यस्यान्तेऽभून्महाकल्पः पाद्म इत्यभिविश्रुतः ॥ ४६.४३ ॥ द्वितीयस्य परार्धस्य वर्तमानस्य वै द्विज । वाराह इति कल्पोऽयं प्रथमः परिकल्पितः ॥ ४६.४४ ॥ इति श्रीमार्कण्डेयपुराणे ब्रह्मायुप्रमाणो नाम षट्टत्वारिंशोऽध्यायः _____________________________________________________________ सप्तचत्वारिशोऽध्यायः ४७ क्रौष्टुकिरुवाच यथा ससर्ज वै ब्रह्मा भगवानादिकृत्प्रजाः । प्रजापतिः पतिर्देवस्तन्मे विस्तरतो वद ॥ ४७.१ ॥ मार्कण्डेय उवाच कथयाम्येष ते ब्रह्मन् ससर्ज भगवान् यथा । लोककृच्छाश्वतः कृत्स्नं जगत्स्थावरजङ्गमम् ॥ ४७.२ ॥ पद्मावसाने प्रलये निशासुत्पोत्थितः प्रभुः । सत्त्वोद्रिक्तस्तदा ब्रह्मा शून्यं लोकमवैक्षत ॥ ४७.३ ॥ इमञ्चोदाहरन्त्यत्र श्लोकं नारायणं प्रति । ब्रह्मस्वरूपिणं देवं जगतः प्रभवाप्ययम् ॥ ४७.४ ॥ आपो नारा वै तनव इत्यपां नाम शुश्रुम । तासु शेते स यस्माच्च तेन नारायणः स्मृतः ॥ ४७.५ ॥ विबुद्धः सलिले तस्मिन् विज्ञायान्तर्गतां महीम् । अनुमानात्समुद्धारं कर्तुकामस्तदा क्षिते ॥ ४७.६ ॥ अकरोत्स तनूरन्याः कल्पादिषु यथा पुरा । मत्स्यकूर्मादिकास्तद्वद्वाराहं वपुरास्थितः ॥ ४७.७ ॥ वेदयज्ञमयं दिव्यं वेदयज्ञमयो विभुः । रूपं कृत्वा विवेशाप्सु सर्वगः सर्वसम्भवः ॥ ४७.८ ॥ समुद्धृकत्य च पातालान्मुमोच सलिले भुवम् । जनलोकस्थितैः सिद्धैश्चिन्त्यमानो जगत्पतिः ॥ ४७.९ ॥ तस्योपरि जलौघस्य महती नैरिव स्थिता । विततत्वात्तु देहस्य न मही याति संप्लवम् ॥ ४७.१० ॥ ततः क्षितिं समीकृत्य पृथिव्यां सोऽसृजद्गिरीन् । प्राक्सर्गे दह्यमाने तु तदा संवर्तकाग्निना ॥ ४७.११ ॥ तेनाग्निना विशीर्णास्ते पर्वता भुवि सर्वशः । शैला एकार्णवे मग्ना वायुनापस्तु संहताः ॥ ४७.१२ ॥ निषक्ता यत्र यत्रासंस्तत्र तत्राचलाभवन् । भूविभागन्ततः कृत्वा सप्तद्वीपोपशोभितम् ॥ ४७.१३ ॥ भूराद्यांश्चतुरो लोकान् पूर्वंवत्समकल्पयत् । सृष्टिञ्चिन्तयतस्तस्य कल्पादिषु यथा पुरा ॥ ४७.१४ ॥ अबुद्धिपूर्वकस्तस्मात्प्रादुर्भूतस्तमोमयः । तमो मोहो महामोहस्तामिस्त्रो ह्यन्धसंज्ञितः ॥ ४७.१५ ॥ अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः । पञ्चधावस्थितः सर्गो ध्यायतोऽप्रतिबोधवान् ॥ ४७.१६ ॥ बहिरन्तश्चाप्रकाशः संवृतात्मा नगात्मकः । मुख्या नगा यतश्चोक्ता मुख्यसर्गस्ततस्त्वयम् ॥ ४७.१७ ॥ तं दृष्ट्वासाधकं सर्गममन्यदपरं पुनः । तस्याभिध्यायतः सर्गं तिर्यक्स्त्रोतो ह्यवर्तत ॥ ४७.१८ ॥ यस्मात्तिर्यक्प्रवृत्तिः सा तिर्यक्स्त्रोतस्ततः स्मृतः । पश्वादयस्ते विख्यातास्तमः प्रायो ह्यवेदिनः ॥ ४७.१९ ॥ अत्पथग्राहिनश्चैव तेऽज्ञाने ज्ञानमानिनः । अहङ्कृता अहंमाना अष्टाविशशद्विधात्मकाः ॥ ४७.२० ॥ अन्तः प्रकाशास्ते सर्वे आवृतास्तु परस्परम् । तमप्यसाधकं मत्वा ध्यायतोऽन्यस्ततोऽभवत् ॥ ४७.२१ ॥ ऊर्ध्वस्त्रोतस्तृतीयस्तु सात्त्विकः समवर्तत । ते सुखप्रीतिबहुला बहिरन्तस्त्वनावृताः ॥ ४७.२२ ॥ प्रकाशा बहिरन्तश्च ऊर्ध्वस्त्रोतः समुद्भवाः । तुष्टात्मकस्तृतीयस्तु देवसर्गो हि स स्मृतः ॥ ४७.२३ ॥ तस्मिन् सर्गेऽभवत्प्रीतिर्निष्पन्ने ब्रह्मणस्तदा । ततोऽन्यं स तदा दध्यौ साधकं सर्गमुत्तमम् ॥ ४७.२४ ॥ तथाभिध्यायतस्तस्य सत्याभिध्यायिनस्ततः । प्रादुर्बभौ तदाव्यक्तादर्वाक्स्त्रोतस्तु साधकः ॥ ४७.२५ ॥ यस्मादर्वाग्व्यवर्तन्त ततोर्ऽवाक्स्त्रोतसस्तु ते । ते च प्रकाशबहुलास्तमोद्रिक्ता रजोऽधिकाः ॥ ४७.२६ ॥ तस्मात्ते दुः खबहुला भूयोभूयश्च कारिणः । प्रकाशा बहिरन्तश्च मनुष्याः साधकाश्च ते ॥ ४७.२७ ॥ पञ्चमोऽनुग्रहः सर्गः स चतुर्धा व्यवस्थितः । विपर्ययेण सिद्ध्या च शान्त्या तुष्ट्या तथैव च ॥ ४७.२८ ॥ निर्वृत्तं वर्तमानञ्च तेर्ऽथं जानन्ति वै पुनः । भूतादिकानां भूतानां षष्ठः सर्ग स उच्यते ॥ ४७.२९ ॥ ते परिग्राहिणः सर्वे संविभागरतास्तथा । चोदनाश्चाप्यशीलाश्च ज्ञेया भूतादिकाश्च ते ॥ ४७.३० ॥ प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस्तु सः । तन्मात्राणां द्वितीयस्तु भूतसर्गः स उच्यते ॥ ४७.३१ ॥ वैकारिकस्तृतीयस्तु सर्गश्चैन्द्रियकः स्मृतः । इत्येष प्राकृतः सर्गः संभूतो बुद्धैपूर्वकः ॥ ४७.३२ ॥ मुख्यः सर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः । तिर्यक्स्त्रोतस्तु यः प्रोक्तस्तिर्यग्योन्यः स पञ्चमः ॥ ४७.३३ ॥ तथोर्ध्वस्त्रोतसां षष्ठो देवसर्गस्तु स स्मृतः । ततोर्ऽवाक्स्त्रोतसां सर्गः सप्तमः स तु मानुषः ॥ ४७.३४ ॥ अष्टमोऽनुग्रहः सर्गः सात्त्विकस्तामसश्च सः । पञ्चैते वैकृताः सर्गाः प्राकृतास्तु त्रयः स्मृताः ॥ ४७.३५ ॥ प्राकृतो वैकृतश्चैव कौमारो नवमः स्मृतः । इत्येते वै समाख्याता नव सर्गाः प्रजापतेः ॥ ४७.३६ ॥ इति श्री मार्कण्डेयपुराणे प्राकृतवैकृतसर्गो नाम सप्तचात्वारिंशोऽध्यायः _____________________________________________________________ अष्टचत्वारिंशोऽध्यायः ४८ क्रौष्टुकिरुवाच समासात्कथिता सृष्टिः सम्यग्भगवता मम । देवादीनां भवं ब्रह्मन् विस्तरात्तु ब्रवीहि मे ॥ ४८.१ ॥ मार्कण्डेय उवाच कुशलाकुशलैर्ब्रह्मन् ! भाविता पूर्वकमर्मभिः । ख्याता तथा ह्यनिर्मुक्ताः प्रलये ह्यु पसंहृताः ॥ ४८.२ ॥ देवाद्याः स्थावरान्ताश्च प्रजा ब्रह्मंश्चतुर्विधाः । ब्रह्मणः कुर्वतः सृष्टिं जज्ञिरे मानसास्तदा ॥ ४८.३ ॥ ततो देवासुरान् पितॄन्मानुषांश्च चतुष्टयम् । सिसृक्षुरम्भांस्येतानि स्वमात्मानमयूयुजत् ॥ ४८.४ ॥ युक्तात्मनस्तमोमात्रा उद्रिक्ताभूत्प्रजापतेः । सिसृक्षोर्जघनात्पूर्वमसुरा जज्ञिरे ततः ॥ ४८.५ ॥ उत्ससर्ज ततस्तान्तु तमोमात्रात्मिकां तनुम् । सापविद्धा तनुस्तेन सद्यो रात्रिरजायत ॥ ४८.६ ॥ अन्यां तनुमुपादाय सिसृक्षुः प्रीतिमाप सः । सत्त्वोद्रेकास्ततो देवा मुखतस्तस्य जज्ञिरे ॥ ४८.७ ॥ उत्ससर्ज च भूतेशस्तनुं तामप्यसौ विभुः । सा चापविद्धा दिवसं सत्त्वप्रायमजायत् ॥ ४८.८ ॥ सत्त्वमात्रात्मिकामेव ततोऽन्यां जगृहे तनुम् । पितृवन्मन्यमानस्य पितरस्तस्य जज्ञिरे ॥ ४८.९ ॥ सृष्ट्वा पितॄनुत्ससर्ज तनुं तामपि स प्रभुः । सा चोत्सृष्टाभवत्सन्ध्या दिवननक्तान्तरस्थिता ॥ ४८.१० ॥ रजोमात्रात्मिकामन्यां तनुं भेजेऽथ स प्रभुः । ततो मनुष्याः सम्भूता रजोमात्रासमुद्भवाः ॥ ४८.११ ॥ सृष्ट्वा मनुष्यान् स विभुरुत्ससर्ज तनुं ततः । ज्योत्स्ना समभवत्सा च नक्तान्तेऽहर्मुखे च या ॥ ४८.१२ ॥ इत्येतास्तनवस्तस्य देवदेवस्य धीमतः । ख्याता रात्र्यहनी चैव सन्ध्या ज्योत्स्ना च वै द्विज ॥ ४८.१३ ॥ ज्योत्स्तना सन्ध्या तथैवाहसत्त्वमात्रात्मकं त्रयम् । तमोमात्रात्मिका रात्रिः सा वै तस्मात्त्रियामिका ॥ ४८.१४ ॥ तस्माद्देवा दिवा रात्रावसुरास्तु बलान्विताः । ज्योत्स्नागमे च मनुजाः सन्ध्यायां पितरस्तथा ॥ ४८.१५ ॥ भवन्ति बलिनोऽधृष्या विपक्षाणां न संशयः । तद्विपर्ययमासाद्य प्रयान्ति च विपर्ययम् ॥ ४८.१६ ॥ ज्योत्स्नो रात्र्यहनी सन्ध्या चत्वार्येतानि वै प्रभोः । ब्रह्मणस्तु शरीराणि त्रिगुणोपश्रितानि तु ॥ ४८.१७ ॥ चत्वार्येतान्यथोत्पाद्य तनुमन्यां प्रजापतिः । रजस्तमोमयीं रात्रौ जगृहे क्षुत्तृडन्वितः ॥ ४८.१८ ॥ तदन्धकारे क्षुत्क्षामानसृजद्भगवानजः । विरूपान् श्मश्रुलानत्तुमारब्धास्ते च तां तनुम् ॥ ४८.१९ ॥ रक्षाम इति तेभ्योऽन्ये य ऊचुस्ते तु राक्षसाः । खादाम इति ये चोचुस्ते यक्षा यक्षणात्द्विज ॥ ४८.२० ॥ तान् दृष्ट्वा ह्यप्रियेणास्य केशाः शीर्यन्त वेधसः । समारोहणहीनाश्च शिरसो ब्रह्मणस्तु ते ॥ ४८.२१ ॥ सर्पणात्तेऽभवन् सर्पा हीनत्वादहयः स्मृताः । सर्पान् दृष्ट्वा ततः क्रोधात्क्रोधात्मानो विनिर्ममे ॥ ४८.२२ ॥ वर्णेन कपिलेनोग्रास्ते भूताः पिशिताशनाः । ध्यायतो गां ततस्तस्य गन्धर्वा जज्ञिरे सुताः ॥ ४८.२३ ॥ जज्ञिरे पिबतो वाचं गन्धर्वास्तेन ते स्मृताः । अष्टास्वेतासु सृष्टासु देवयोनिषु स प्रभुः ॥ ४८.२४ ॥ ततः स्वदेहतोऽन्यानि वयांसि पशवोऽसृजत् । मुखतोऽजाः ससर्जाथ वक्षसश्चावयोऽसृजत् ॥ ४८.२५ ॥ गावश्चैवोदराद्ब्रह्मा पार्श्वाभ्याञ्च विनिर्ममे । पद्भ्याञ्चाश्वान् स मातङ्गान् रासबान् शशकान्मृगान् ॥ ४८.२६ ॥ उष्ट्रानश्वतरांश्चैव नानारूपाश्च जातयः । ओषध्यः फलमूलिन्यो रोमभ्यस्तस्य जज्ञिरे ॥ ४८.२७ ॥ एवं पश्वोषधीः सृष्ट्वा ह्ययजच्चाध्वरे विभुः । तस्मादादौ तु कल्पस्य त्रेतायुगमुखे तदा ॥ ४८.२८ ॥ गौरजः पुरुषो मेषो अश्वाश्वतरगर्दभाः । एतान् ग्राम्यान् पशूनाहुरारण्यांश्च निबोध मे ॥ ४८.२९ ॥ श्वापदं द्विखुरं हस्ती वानराः पक्षिपञ्चमाः । औदकाः पशवः षष्ठाः सप्तमास्तु सरीसृपाः ॥ ४८.३० ॥ गायत्रीञ्च ऋचञ्चैव त्रिवृत्सोमं रथन्तरम् । अग्निष्टोमञ्च यज्ञानां निर्ममे प्रथमान्मुखात् ॥ ४८.३१ ॥ यजूंषि त्रैष्टुभं धन्दः स्तोमं पञ्चदशन्तथा । बृहत्साम तथोकथञ्च दक्षिणादसृजन्मुखात् ॥ ४८.३२ ॥ सामानि जगतीच्छन्दः स्तोमं पञ्चदशन्तथा । वैरूपमतिरात्रञ्च निर्ममे पश्चिमान्मुखात् ॥ ४८.३३ ॥ एकविशमथर्वाणमाप्तोर्यामाणमेव च । अनुष्टुभं सवैराजमुत्तरादसृजन्मुखात् ॥ ४८.३४ ॥ विद्युतोऽशनिमेघाश्च रोहितेन्द्रधनूंषि च । वयांसि च ससर्जादौ कल्पस्य भगवान् विभुः ॥ ४८.३५ ॥ उच्चावचानि भूतानि गात्रेभ्यस्तलस्य जज्ञिरे । सृष्ट्वा चतुष्टयं पूर्वं देवासुरपितॄन् प्रजाः ॥ ४८.३६ ॥ ततोऽसृजत्स भूतानि स्थावराणि चराणि च । यक्षान् पिशाचान् गन्धर्वांस्तथैवाप्सरसाङ्गणान् ॥ ४८.३७ ॥ नरकिन्नररक्षांसि वयः पशुमृगोरगान् । अव्ययञ्च व्ययञ्चैव यदिदं स्थाणुजङ्गमम् ॥ ४८.३८ ॥ तेषां ये यानि कर्माणि प्राक्सृष्टेः प्रतिपेदिरे । तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः ॥ ४८.३९ ॥ हिंस्त्राहिंस्त्रे मृदुक्रूरे धर्माधर्मावृतानृते । तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥ ४८.४० ॥ इन्द्रियार्थेषु भूतेषु शरीरेषु च स प्रभुः । नानात्वं विनियोगञ्च धातैव व्यदधात्स्वयम् ॥ ४८.४१ ॥ नाम रूपञ्च भूतानां कृत्यानाञ्च प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनाञ्चकार सः ॥ ४८.४२ ॥ ऋषीणां नामधेयानि याश्च देवेषु सृष्टयः । शर्वर्यन्ते प्रसूतानामन्येषाञ्च ददाति सः ॥ ४८.४३ ॥ यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ ४८.४४ ॥ एवंविधाः सृष्टयस्तु ब्रह्मणोऽव्यक्तजन्मनः । शर्वर्यन्ते प्रबुद्धस्य कल्पे कल्पे भवन्ति वै ॥ ४८.४५ ॥ इति श्रीमार्कण्डेयपुराणे सृष्टिप्रकारणनामाष्टचत्वारिंशोऽध्यायः _____________________________________________________________ ऊनपञ्चाशोऽध्यायः ४९ क्रौष्टुकिरुवाच अर्वाक्स्त्रोतस्तु कथितो भवता यस्तु मानुषः । ब्रह्मन् ! विस्तरतो ब्रूहि ब्रह्मा समसृजद्यथा ॥ ४९.१ ॥ यथा च वर्णानसृजद्यद्गुणाश्च महामते । यच्च येषां स्मृतं कर्म विप्रादीनां वदस्व तत् ॥ ४९.२ ॥ मार्कण्डेय उवाच ब्रह्मणः सृजतः पूर्वं सत्याभिध्यायिनस्तथा । मिथुनानां सहस्रन्तु मुखात्सोऽथासृजन्मुने ॥ ४९.३ ॥ जातास्ते ह्यु पपद्यन्ते सत्त्वोद्रिक्ताः स्वतेजसः । सहस्रमन्यद्वक्षस्तो मिथुनानां ससर्ज ह ॥ ४९.४ ॥ ते सर्वे रजसोद्रिक्ताः शुष्मिणश्चाप्यमर्षिणः । ससर्जान्यते सहस्रन्तु द्वन्द्वानामूरुतः पुनः ॥ ४९.५ ॥ रजस्तमोभ्यामुद्रिक्ता ईहाशीलास्तु ते स्मृताः । पद्भ्यां सहस्रमन्यच्च मिथुनानां ससर्ज ह ॥ ४९.६ ॥ उद्रिक्तास्तमसा सर्वे निः श्रीका ह्यल्पचेतसः । ततः संहर्षमाणास्ते द्वन्द्वोत्पन्नास्तु प्राणिनः ॥ ४९.७ ॥ अन्योन्यहृर्च्छ्याविष्टा मैथुनायोपचक्रमुः । ततः प्रभृति कल्पेऽस्मिन्मिथुनानां हि सम्भवः ॥ ४९.८ ॥ मासि मास्यार्तवं यत्तु न तदासीत्तु योषिताम् । तस्मात्तदा न सुषुवुः सेवितैरपि मैथुनैः ॥ ४९.९ ॥ आयुषोऽन्ते प्रसूयन्ते मिथुनान्येव ताः सकृत् । ततः प्रभृति कल्पेऽस्मिन्मिथुनानां हि सम्भवः ॥ ४९.१० ॥ ध्यानेन मनसा तासां प्रजानां जायते सकृत् । शब्दादिर्विषयः शुद्धः प्रत्येकं पञ्चलक्षणः ॥ ४९.११ ॥ इत्येषा मानुषी सृष्टिर्या पूर्वं वै प्रजापतेः । तस्यान्ववायसम्भूता यैरिदं पूरितं जगत् ॥ ४९.१२ ॥ सरित्सरः समुद्रांश्च सेवन्ते पर्वतानपि । तास्तदा ह्यल्पशीतोष्णा युगे तस्मिंश्चरन्ति वै ॥ ४९.१३ ॥ तृप्तिं स्वाभाविकीं प्राप्ता विषयेषु महामते । न तासां प्रतिघातोऽस्ति न द्वेषो नापि मत्सरः ॥ ४९.१४ ॥ पर्वतोदधिसेविन्यो ह्यनिकेतास्तु सर्वशः । ता वै निष्कामचारिण्यो नित्यं मुदितमानसाः ॥ ४९.१५ ॥ पिशाचोरगरक्षांसि तथा मत्सरिणो जनाः । पशवः पक्षिणश्चैव नक्रा मत्स्याः सरीसृपाः ॥ ४९.१६ ॥ अवारका ह्यण्डजा वा ते ह्यधर्मप्रसूतयः । न मूलफलपुष्पाणि नार्तवा वत्सराणि च ॥ ४९.१७ ॥ सर्वकालसुखः कालो नात्यर्थं घर्मशीतता । कालेन गच्छता तेषां चित्रा सिद्धिरजायत ॥ ४९.१८ ॥ ततश्च तेषां पूर्वाह्ने मध्याह्ने च वितृप्तता । पुनस्तथेच्छतां तृप्तिरनायासेन साभवत् ॥ ४९.१९ ॥ इच्छताञ्च तथायासो मनसः समजायत । अपां सौक्ष्म्यं ततस्तासां सिद्धिर्नानारसोल्लसा ॥ ४९.२० ॥ समजायत चैवान्या सर्वकामप्रदायिनी । असंस्कार्यैः शरीरैश्च प्रजास्ताः स्थिरयौवनाः ॥ ४९.२१ ॥ तासां विना तु संकल्पं जायन्ते मिथुनाः प्रजाः । समं जन्म च रूपञ्च म्रियन्ते चैव ताः समम् ॥ ४९.२२ ॥ अनिच्छाद्वेषसंयुक्ता वर्तन्ते तु परस्परम् । तुल्यरूपायुषः सर्वा अधमोत्तमतां विना ॥ ४९.२३ ॥ तत्वारि तु सहस्राणि वर्षाणां मानुषाणि तु । आयुः प्रमाणं जीवन्ति न च क्लेशाद्विपत्तयः ॥ ४९.२४ ॥ क्वचित्क्वचित्पुनः साभूत्क्षितिर्भाग्येन सर्वशः । कालेन गच्छता नाशमुपयान्ति यथा प्रजाः ॥ ४९.२५ ॥ तथा ताः क्रमशो नाशं जग्मुः सर्वत्र सिद्धयः । तासु सर्वासु नष्टासु नभसः प्रच्युता नराः ॥ ४९.२६ ॥ प्रायशः कल्पवृक्षास्ते संभूता गृहसंज्ञिताः । सर्वे प्रत्युपभोगाश्च तासं तेभ्यः प्रजायते ॥ ४९.२७ ॥ वर्तयन्ति स्म तेभ्यस्तास्त्रेतायुगमुखे तदा । ततः कालेन वै रागस्तासामाकस्मिकोऽभवत् ॥ ४९.२८ ॥ मासि मास्यार्तवोत्पत्त्या गर्भोत्पत्तिः पुनः पुनः । रागोत्पत्त्या ततस्तासां वृक्षास्ते गृहसंज्ञिताः ॥ ४९.२९ ॥ ब्रह्मन्नन्वपरेषान्तु पेतुः शाखा महीरुहाम् । वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च ॥ ४९.३० ॥ तेष्वेव जायते तेषां गन्धवर्णरसान्वितम् । अमाक्षिकं माहवीर्यं पुटके पुटके मधु ॥ ४९.३१ ॥ तेन वा वर्तयन्ति स्म मुखे त्रेयायुगस्य वै । ततः कालान्तरेणैव पुनर्लोभान्वितास्तु ताः ॥ ४९.३२ ॥ वृक्षांस्ताः पर्यगृह्णन्त ममत्वाविष्टचेतसः । नेशुस्तेनापचारेण तेऽपि तासां महीरुहाः ॥ ४९.३३ ॥ ततो द्वन्द्वान्यजायन्ते शीतोष्णक्षुन्मुखानि वै । तास्तद्द्वन्द्वोपघातार्थं चक्रुः पूर्वं पुराणि तु ॥ ४९.३४ ॥ मरुधन्वषु दुर्गेषु पर्वतेषु दरीषु च । संश्रयन्ति च दुर्गाणि वार्क्षं पार्वतमौदकम् ॥ ४९.३५ ॥ कृत्रिमञ्च तथा दुर्गं मित्वा मित्वात्मनो।ङ्गुलैः । मानार्थानि प्रमाणानि तास्तु पूर्वं प्रचक्रिरे ॥ ४९.३६ ॥ परमाणुः परं सूक्ष्मं त्रषरेणुर्महीरजः । बालाग्रञ्चैव लिक्षां च यूकां चाथ यवोदरम् ॥ ४९.३७ ॥ क्रमादष्टगुणान्याहुर्यवानष्टौ तथाङ्गुलम् । षडङ्गुलं पदं तच्च वितस्तिर्द्विगुणं स्मृतम् ॥ ४९.३८ ॥ द्वे वितस्ती तथा हस्तो ब्राह्म्यतीर्थादिवेष्टनः । चतुर्हस्तं धनुर्दण्डो नाडिकार्युगमेव च ॥ ४९.३९ ॥ धनुषां द्वे सहस्रे तु गव्यूतिस्तच्चतुर्गुणम् । प्रोक्तञ्च योजवनं प्राज्ञैः संख्यानार्थमिदं परम् ॥ ४९.४० ॥ चतुर्णामथ दुर्गाणां स्वसमुत्थानि त्रीणि तु । चतुर्थं कृत्रिमं दुर्गं ते चक्रुर्यत्नतस्तु वै ॥ ४९.४१ ॥ पुरञ्च खेटकञ्चैव तद्वद्द्रोणीमुखं द्विज । शाखानगरकञ्चापि तथा कर्वटकं द्रमी ॥ ४९.४२ ॥ ग्रामं सघोषविन्यासं तेषु चावसथान् पृथक् । सोत्सेधवप्रकारञ्च सर्वतः परिखावृतम् ॥ ४९.४३ ॥ योजनार्धार्धविष्कम्भमष्टभागायतं पुरम् । प्रागुदक्प्रवणं शस्तं शुद्धवंशबहिर्गमम् ॥ ४९.४४ ॥ तदर्धेन तथा खेटं तत्पादेन च कर्वटम् । न्यूनं द्रोणीमुखं तस्मादन्तभागेन चोच्यते ॥ ४९.४५ ॥ प्राकारपरिखाहीनां पुरं खर्वटमुच्यते । शाखानगरकञ्चान्यन्मन्त्रिसामन्तभुक्तिमत् ॥ ४९.४६ ॥ तथा शूद्रजनप्रायाः स्वसमृद्धिकृषीबलाः । क्षेत्रोपभोग्यभूमध्ये वसतिर्ग्रामसंज्ञिता ॥ ४९.४७ ॥ अन्यस्मान्नगरादेर्या कार्यमुद्दिश्य मानवैः । क्रियते वसतिः सा वै विज्ञेया वसतिर्नरैः ॥ ४९.४८ ॥ दुष्टप्रायो विना क्षेत्रैः परभूमिचरो बली । ग्राम एव द्रमीसंज्ञो राजवल्लभसंश्रयः ॥ ४९.४९ ॥ शकटारूढभाण्डैश्च गोपालैर्विपणं विना । गोसमूहैस्तथा घोषो यत्रेच्छाभूमिकेतनः ॥ ४९.५० ॥ त एवं नगरादींस्तु कृत्वा वासार्थमात्मनः । निकेतनानि द्वन्द्वानां चक्रुरावसथाय वै ॥ ४९.५१ ॥ गृहाकारा यथा पूर्वं तेषामासन्नहीरुहाः । तथा संस्मृत्य तत्सर्वं चक्रुर्वेश्मानि ताः प्रजाः ॥ ४९.५२ ॥ वृक्षस्यैवङ्गताः शाखास्तथैवञ्चापरी गताः । नताश्चैवोन्नताश्चैव तद्वच्छाखाः प्रचक्रिरे ॥ ४९.५३ ॥ याः शाखाः कल्पवृक्षाणां पूर्वमासन् द्विजोत्तम । ता एव शाखा गेहानां शालात्वं तेन तासु तत् ॥ ४९.५४ ॥ कृत्वा द्वन्द्वोपघातन्ते वार्तोपायमचिन्तयन् । नष्टेषु मधुना सार्धं कल्पवृक्षेष्वशेषतः ॥ ४९.५५ ॥ विषादव्याकुलास्ता वै प्रजास्तृष्णाक्षुधार्दिताः । ततः प्रादुर्बभौ तासां सिद्धिस्त्रेतामुखे तदा ॥ ४९.५६ ॥ वार्तास्वसाधिता ह्यन्या वृष्टिस्तासां निकामतः । तासां वृष्ट्युदकानीह यानि निम्नगतानि वै ॥ ४९.५७ ॥ वृष्ट्यावरुद्धैरभवत्स्त्रोतः खातानि निम्नगाः । ये पुरस्तादपां स्तोका आपन्नाः पृथिवीतले ॥ ४९.५८ ॥ ततो भूमेश्च संयोगादोषध्यस्तास्तदा भवन् । अफालकृष्टाश्चानुप्ता ग्राम्यारण्याश्चतुर्दश ॥ ४९.५९ ॥ ऋतुपुष्पफलाश्चैव वृक्षा गुल्माश्च जज्ञिरे । प्रादुर्भावस्तु त्रेतायामाद्योऽयमौषधस्य तु ॥ ४९.६० ॥ तेनौषधेन वर्तन्ते प्रजास्त्रेतायुगे मुने । रागलोभौ समासाद्य प्रजाश्चाकस्मिकौ तदा ॥ ४९.६१ ॥ ततस्ताः पर्यग्वह्णन्त नदीक्षेत्राणि पर्वतान् । वृक्षगुल्मौषधीश्चैवमात्मन्यायाद्यथाबलम् ॥ ४९.६२ ॥ तेन दोषेण ता नेशुरौषध्यो मिषतां द्विज । अग्रसद्भूर्युगपत्तास्तदौषध्यो महामते ॥ ४९.६३ ॥ पुनस्तासु प्रणष्टासु विभ्रान्तास्ताः पुनः प्रजाः । ब्रह्माणं शरणं जग्मुः क्षुधार्ताः परमेष्ठिनम् ॥ ४९.६४ ॥ स चापि तत्त्वतो ज्ञात्वा तदा ग्रस्तां वसुन्धराम् । वत्सं कृत्वा सुमेरुन्तु दुदोह भगवान् विभुः ॥ ४९.६५ ॥ दुग्धेयं गौस्तदा तेन शस्यानि पृथिवीतले । जज्ञिरे तानि बीजानि ग्राम्यारण्यास्तु ताः पुनः ॥ ४९.६६ ॥ ओषध्यः फलपाकान्ता गणाः सप्तदशा स्मृताः । व्रीहयश्च यवाश्चैव गोधूमा अणवस्तिलाः ॥ ४९.६७ ॥ प्रियङ्गवो ह्युदाराश्च कोरदूषाः सचीनकाः । माषा मुद्गा मसूराश्च निष्पावाः सकुलत्थकाः ॥ ४९.६८ ॥ आढकाश्चणकाश्चैव गणाः सप्तदश स्मृताः । इत्येता ओषधीनान्तु ग्राम्याणां जातयः पुरा ॥ ४९.६९ ॥ ओषध्यो जज्ञियाश्चैव ग्राम्यारण्याश्चतुर्दश । व्रीहयश्च यवाश्चैव गोधूमा अणवस्तिलाः ॥ ४९.७० ॥ प्रियङ्गुसप्तमा ह्येते अष्टमास्तु कुलत्थकाः । श्यामाकास्त्वथ नीवारा यत्तिला सगवेधुकाः ॥ ४९.७१ ॥ कुरुविन्दा मर्कटकास्तथा वेणुयवाश्च ये । ग्राम्यारण्याः स्मृता ह्येता ओषध्यश्च चतुर्दश ॥ ४९.७२ ॥ यदा प्रसृष्टा ओषध्यो न प्ररोहन्ति ताः पुनः । ततः स तासां वृद्ध्यर्थं वार्तोपायञ्चकार ह ॥ ४९.७३ ॥ ब्रह्मा स्वयम्भूर्भगवान् हस्तसिद्धिञ्च कर्मजाम् । ततः प्रभृत्यथौषध्यः कृष्टपच्यास्तु जज्ञिरे ॥ ४९.७४ ॥ संसिद्धायान्तु वार्तायां ततस्तासां स्वयं प्रभुः । मर्यादां स्थापयामास यथान्यायं यथागुणम् ॥ ४९.७५ ॥ वर्णानामाश्रमाणाञ्च धर्मान् धर्मभृतांवर । लोकानां सर्ववर्णानां सम्यग्धर्मार्थपालिनाम् ॥ ४९.७६ ॥ प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् । स्थानमैन्द्रं क्षत्रियाणां संग्रामेष्वपलायिनाम् ॥ ४९.७७ ॥ वैश्यानां मारुतं स्थानं स्वधर्ममनुवर्तताम् । गान्धर्वं शूद्रजातीनां परिचर्यानुवर्तताम् ॥ ४९.७८ ॥ अष्टाशीतिसहस्राणामृषीणामूर्ध्वरेतसाम् । स्मृतं तेषान्तु यत्स्थानं तदेव गुरुवासिनाम् ॥ ४९.७९ ॥ सप्तर्षोणान्तु यत्स्थानं स्मृतं तद्वै वनौकसाम् । प्राजापत्यं गृहस्थानां न्यासिनां ब्रह्मणः क्षयम् । योगिनाममृतं स्थानमिति वै स्थानकल्पना ॥ ४९.८० ॥ इति श्रीमार्कण्डेयपुराणे सृष्टिप्रकरणे एकोनपञ्चाशदध्यायः _____________________________________________________________ पञ्याशोऽध्यायः ५० मार्कण्डेय उवाच ततोऽभिद्यायतस्तस्य जज्ञिरे मानसीः प्रजाः । तच्छरीरसमुत्पन्नैः कार्यैस्तैः कारणैः सह ॥ ५०.१ ॥ क्षेत्रज्ञाः समवर्तन्त गात्रेब्यस्तस्य धीमतः । ते सर्वे समवर्तन्त ये मया प्रगुदाहृताः ॥ ५०.२ ॥ देवाद्याः स्थावरान्ताश्च त्रैगुण्यविषयाः स्मृताः । एवंभूतानि सृष्टानि स्थावराणि चराणि च ॥ ५०.३ ॥ यदास्य ताः प्रजाः सर्वा न व्यवर्धन्त धीमतः । अथान्यान्मानसान् पुत्रानु सदृशानात्मनोऽसृजत् ॥ ५०.४ ॥ भृगुं पुलस्त्यं पुलहं क्रतुमङ्गिरसन्तथा । मरीचिं दक्षमत्रिञ्च वसिष्टञ्चैव मानसम् ॥ ५०.५ ॥ नव ब्रह्माण इत्येते पुराणे निश्चयङ्गताः । ततोऽसृजत्पुनर्ब्रह्मा रुद्रं क्रोधात्मसम्भवम् ॥ ५०.६ ॥ सङ्कल्पञ्चैव धर्मञ्च पूर्वेषामपि पूर्वजम् । सनन्दनादयो ये च पूर्वं सृष्टाः स्वयंभुवा ॥ ५०.७ ॥ न ते लोकेषु सज्जन्तो निरपेक्षाः समाहिताः । सर्वे तेऽनागतज्ञाना वीतरागा विमत्सराः ॥ ५०.८ ॥ तेष्वेवं निरपेक्षेषु लोकसृष्टौ महात्मनः । ब्रह्मणोऽबून्महाक्रोधस्तत्रोत्पन्नोर्ऽकसन्निभः ॥ ५०.९ ॥ अर्धनारीनरवपुः पुरुषोऽतिशरीरवान् । विभजात्मानमित्युक्त्वा स तदान्तर्दधे ततः ॥ ५०.१० ॥ स चोक्तो वै पृथक्स्त्रीत्वं पुरुषत्वं तथाकरोत् । बिभेद पुरुषत्वञ्च दशधा चैकधा तु सः ॥ ५०.११ ॥ सौम्यासौम्यैस्तथा शान्तैः पुंस्त्वं स्त्रीत्वञ्च स प्रभुः । बिभेद बहुधा देवः पुरुषैरसितैः सितैः ॥ ५०.१२ ॥ ततो ब्रह्मात्मसम्भूतं पूर्वं स्वायम्भुवं प्रभुः । आत्मनः सदृशं कृत्वा प्रजापालो मनुं द्विज ॥ ५०.१३ ॥ शतरूपाञ्च तां नारीं तपोनिर्धूतकल्मषाम् । स्वायम्भुवो मनुर्देवः पत्नीत्वे जगृहे विभुः ॥ ५०.१४ ॥ तस्माच्च पुरुषात्पुत्रौ शतरूपा व्यजायत । प्रियव्रतोत्तानपादौ प्रख्यातावात्मकर्मभिः ॥ ५०.१५ ॥ कन्ये द्वे च तथा ऋद्धिं प्रसूतिञ्च ततः पिता । ददौ पुर्सूतिं दक्षाय तथा ऋद्धिं रुचेः पुरा ॥ ५०.१६ ॥ प्रजापतिः स जग्राह तयोर्यज्ञः सदक्षिणः । पुत्रो जज्ञे महाभाग ! दम्पतीमिथुनं ततः ॥ ५०.१७ ॥ यज्ञस्य दक्षिणायान्तु पुत्रा द्वादश जज्ञिरे । यामा इति समाख्याता देवाः स्वायम्भुवोऽन्तरे ॥ ५०.१८ ॥ तस्य पुत्रास्तु यज्ञस्य दक्षिणायां सभास्वराः । प्रसूत्याञ्च तथा दक्षश्चतस्त्रो विंशतिस्तथा ॥ ५०.१९ ॥ ससर्ज कन्यास्तासाञ्च सम्यङ्नामानि मे शृणु । श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा ॥ ५०.२० ॥ बुद्धिर्लज्जा वपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदशी । पत्न्यर्थे प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः ॥ ५०.२१ ॥ ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः । ख्यातिः सत्यथ सम्भूतिः स्मृतिः प्रीतिस्तथा क्षमा ॥ ५०.२२ ॥ सन्ततिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा । भृगुर्भवो मरीचिश्च तथा चैवाङ्गिरा मुनिः ॥ ५०.२३ ॥ पुलस्त्यः पुलहश्चैव क्रतुश्च ऋषयस्तथा । वसिष्ठोऽत्रिस्तथा वह्निः पितरश्च यथाक्रमम् ॥ ५०.२४ ॥ ख्यात्याद्या जगृहुः कन्या मुनयो मुनिसत्तमाः । श्रद्धा कामं श्रीश्च दर्पं नियमं धृतिरात्मजम् ॥ ५०.२५ ॥ सन्तोषञ्च तथा तुष्टिर्लोभं पुष्टिरजायत । मेधा श्रुतं क्रिया दण्डं नयं विनयमेव च ॥ ५०.२६ ॥ बोधं बुद्धिस्तथा लज्जा विनयं वपुरात्मजम् । व्यवसायं प्रजज्ञे वै क्षेमं शान्तिरसूयत ॥ ५०.२७ ॥ सुखं सिद्धिर्यशः कीर्तिरित्येते धर्मयोनयः । कामादतिमुदं हर्षं धर्मपौत्रमसूयत ॥ ५०.२८ ॥ हिंसा भार्या त्वधर्मस्य तस्यां जज्ञे तथानृतम् । कन्या च निरृतिस्तस्यां सुतौ द्वौ नरकं भयम् ॥ ५०.२९ ॥ माया च वेदना चैव मिथुनं द्वयमेतयोः । तयोर्जज्ञेऽथ वै माया मृत्युं भूतापहारिणम् ॥ ५०.३० ॥ वेदनात्मसुतञ्चापि दुःखं जज्ञेऽथ रौरवात् । मृत्योर्व्याधिजराशोकतृष्णाक्रोधाश्च जज्ञिरे ॥ ५०.३१ ॥ दुः खोद्भवाः स्मृता ह्येते सर्वे वाधर्मलक्षणाः । नैषां भार्यास्ति पुत्रो वा सर्वे ते ह्यूर्ध्वरेतसः ॥ ५०. ३२ ॥ निरृतिश्च तथा चान्या मृत्योर्भार्याभवन्मुने । अलक्ष्मीर्नाम तस्याञ्च मृत्योः पुत्राश्चतुर्दश ॥ ५०.३३ ॥ अलक्ष्मीपुत्रका ह्येते मृत्योरादेशकारिणः । विनाशकालेषु नरान् भजन्त्येते शृणुष्व तान् ॥ ५०.३४ ॥ इन्द्रियेषु दशस्वेते तथा मनसि च स्थिताः । स्वे स्वे नरं स्त्रियं वापि विषये योजयन्ति हि ॥ ५०.३५ ॥ अथेन्द्रियाणि चाक्रम्य रागक्रोधादिभिर्नरान् । योजयन्ति यथा हानिं यान्त्यधर्मादिभिर्द्विज ॥ ५०.३६ ॥ अहङ्कारगतश्चान्यस्तथान्यो बुद्धिसंस्थितः । विनाशाय नराः स्त्रीणां यतन्ते महोसंश्रिताः ॥ ५०.३७ ॥ तथैवान्यो गृहे पुंसां दुः सहो नाम विश्रुतः । क्षुत्क्षामोऽधोमुखो नग्रश्चीरी काकसमस्वनः ॥ ५०.३८ ॥ स सर्वान् खादितुं सृष्टो ब्रह्मणा तमसो निधिः । दंष्ट्राकरालमत्यर्थं विवृतास्यं सुभैरवम् ॥ ५०.३९ ॥ तमत्तुकाममाहेदं ब्रह्मा लोकपितामहः । सर्वब्रह्ममयः शुद्धः कारणं जगतोऽव्ययः ॥ ५०.४० ॥ ब्रह्मोवाच नात्तव्यन्ते जगदिदं जहि कोपं शमं व्रज । त्यजैनान्तामसी वृत्तिमपास्य रजसः कलाम् ॥ ५०.४१ ॥ दुः सह उवाच क्षुत्क्षामोऽस्मि जगन्नाथ ! पिपासुश्चापि दुर्बलः । कथं तृप्तिमियान्नाथ ! भवेयं बलवान् कथम् । कश्चाश्रयो ममाक्याहि वर्तेयं यत्र निर्वृतः ॥ ५०.४२ ॥ ब्रह्मोवाच तवाश्रयो गृहं पुंसां जनश्चाधार्मिको बलम् । पुष्टिं नित्यक्रियाहान्या भवान् वत्स ! गमिष्यति ॥ ५०.४३ ॥ वृथास्फोटाश्च ते वस्त्रमाहारञ्च ददामि ते । क्षतं कीटावपन्नञ्च तथा श्वबिरवेक्षितम् ॥ ५०.४४ ॥ भग्नभाणागतन्तद्वन्मुखवातोपशामितम् । उच्छिष्टापक्वमास्विन्नमवलीढमसंस्कृतम् ॥ ५०.४५ ॥ भग्नासनस्थितैर्भुक्तमासन्नागतमेव च । विदिङ्मुखं सन्ध्ययोश्च नृत्यवाद्यस्वनाकुलम् ॥ ५०.४६ ॥ उदक्योपहतं भुक्तमुदक्या दृष्टमेव च । यच्चोपघातवत्किञ्चिद्भक्ष्यं पेयमथापि वा ॥ ५०.४७ ॥ एतानि तव पुष्ट्यर्थमन्यच्चापि ददामि ते । अश्रद्धया हुतं दत्तमस्नातैर्यदवज्ञया ॥ ५०.४८ ॥ यन्नाम्बुपूर्वकं क्षिप्तमनर्थोकृतमेव च । त्यक्तुमाविष्कृतं यत्तु दत्तं चैवातिविस्मयात् ॥ ५०.४९ ॥ दुष्टं क्रुद्धार्तदत्तञ्च यक्ष तद्भागि तत्फलम् । यच्च पौनर्भवः किञ्चित्करोत्यामुष्मिकं क्रमम् ॥ ५०.५० ॥ यच्च पौनर्भवा योषित्तद्यक्ष ! तव तृप्तये । कन्याशुल्कोपधानाय समुपास्ते धनक्रियाः ॥ ५०.५१ ॥ तथैव यक्ष ! पुष्ट्यर्थमसच्छास्त्रक्रियाश्च याः । यच्चार्थनिर्वृतं किञ्चिदधीतं यन्न सत्यतः ॥ ५०.५२ ॥ तत सर्वं तव कालांश्च ददामि तव सिद्धये । गुर्विण्यभिगमे सन्ध्यानित्यकार्यव्यतिक्रमे ॥ ५०.५३ ॥ असच्छास्त्रक्रियालापदूषितेषु च दुः सह । तवाभिभवसामर्थ्यं भविष्यति सदा नृषु ॥ ५०.५४ ॥ पङ्क्तिभेदे वृथापाके पाकभेदे तथा क्रिया । नित्यञ्च गेहकलहे भविता वसतिस्तव ॥ ५०.५५ ॥ अपोष्यमाणे च तथा भृत्ये गोवाहनादिके । असन्ध्याभ्युक्षितागारे काले त्वत्तो भयं नृणाम् ॥ ५०.५६ ॥ नक्षत्रग्रहपीडासु त्रिविधोत्पातदर्शने । अशान्तिकपरान् यक्ष ! नरानभिभविष्यसि ॥ ५०.५७ ॥ वृथोपवासिनो मर्त्या द्यूतस्त्रीषु सदा रताः । त्वद्भाषणोपकर्तारो वैडालव्रतिकाश्च ये ॥ ५०.५८ ॥ अब्रह्मचारिणाधीतमिज्या चाविदुषा कृता । तपोवने ग्राम्यभुजां तथैवानिर्वजितात्मनाम् ॥ ५०.५९ ॥ ब्राह्मणक्षत्रियविशां शूद्राणाञ्च स्वकर्मतः । परिच्युतानां या चेष्टा परलोकार्थमीप्सताम् ॥ ५०.६० ॥ तस्याश्च यत्फलं सर्वं तत्ते यक्ष ! भविष्यति । अन्यच्च ते प्रयच्छामि पुष्ट्यर्थं सन्निबोध तत् ॥ ५०.६१ ॥ भवतो वैश्वदेवान्ते नामोच्चारणपूर्वकम् । एतत्तवेति दास्यन्ति भवतो बलिमूर्जितम् ॥ ५०.६२ ॥ यः संस्कृताशी विधिवच्छुचिरन्तस्तथा बहिः । अलोलुपो जितस्त्रीकस्तद्गेहमपवर्जय ॥ ५०.६३ ॥ पूज्यन्ते हव्यकव्याभ्यां देवताः पितरस्तथा । यामयोऽतिथयश्चापि तद्गेहं यक्ष ! वर्जय ॥ ५०.६४ ॥ यत्र मैत्री गृहे बालवृद्धयोषिन्नरेषु च । तथा स्वजनवर्गेषु गृहं तच्चापि वर्जय ॥ ५०.६५ ॥ योषितोऽबिरता यत्र न वहिर्गमनोत्सुकाः । लज्जान्विताः सदा गेहं यक्ष ! तत्परिवर्जय ॥ ५०.६६ ॥ वयः सम्बन्धयोग्यानि शयनान्यशनानि च । यत्र गेहे त्वया यक्ष ! तद्वर्ज्यं वचनान्मम ॥ ५०.६७ ॥ यत्र कारुणिका नित्यं साधुकर्मण्यवस्थिताः । सामान्योपस्करैर्युक्तास्त्यजेथा यक्ष ! तद्गृहम् ॥ ५०.६८ ॥ यत्रासनस्थास्तिष्ठत्सु गुरुवृद्धद्विजातिषु । न तिष्ठन्ति गृहं तच्च वर्ज्यं यक्ष ! त्वया सदा ॥ ५०.६९ ॥ तरुगुल्मादिभिर्धारं न विद्धं यस्य वेश्मनः । मर्मभेदोऽथवा पुंसस्तच्छ्रेयो भवनं न ते ॥ ५०.७० ॥ देवतापितृभृत्त्यानामतिथीनाञ्च वर्तनम् । य्सायवशिष्टेनान्नेन पुंसस्तस्य गृहं त्यज ॥ ५०. ७१ ॥ सत्यवाक्यान् क्षमाशीलानहिंस्त्रान्नानुतापिनः । पुरुषानीदृशान् यक्ष ! त्यजेथाश्चानसूयकान् ॥ ५०.७२ ॥ भर्तृशुश्रूषणे युक्तामसत्स्त्रीसङ्गवर्जिताम् । कुटुम्बभर्तृशेषान्नपुष्टाञ्च त्यज योषितम् ॥ ५०.७३ ॥ यजनाध्ययनाभ्यासदानासक्तमतिं सदा । याजनाध्यापनादानकृतवृत्तिं द्विजं त्यज ॥ ५०.७४ ॥ दानाध्ययनयज्ञेषु सदोद्युक्तञ्च दुः सह । क्षत्रियं त्यज सच्छुल्कशस्त्राजीवात्तवेतनम् ॥ ५०.७५ ॥ त्रिभिः पूर्वगुणैर्युक्तं पाशुपाल्यवणिज्ययोः । कृषेश्चावाप्तवृत्तिञ्च त्यज वैश्यमकल्मषम् ॥ ५०.७६ ॥ दानेझ्याद्विजशुश्रूषातत्परं यक्ष ! सन्त्यज । शूद्रञ्च ब्राह्मणादीनांशुश्रूषावृत्तिपोषकम् ॥ ५०.७७ ॥ श्रुतिस्मृत्यविरोधेन कृतवृत्तिर्गृहे गृही । यत्र तत्र च तत्पत्नि तस्यैवानुगतात्मिका ॥ ५०.७८ ॥ यत्र पुत्रो गुरोः पूजां देवानाञ्च तथा पितुः । पत्नी च भर्तुः कुरुते तत्रालक्ष्मीभयं कुतः ॥ ५०.७९ ॥ सदानुलिप्तं सन्ध्यासु गृहमम्बुसमुक्षितम् । कृतपुष्पबलिं यक्ष ! न त्वं शक्नोषि वीक्षितुम् ॥ ५०.८० ॥ भास्करादृष्टशय्यानि नित्याग्निसलिलानि च । सूर्यावलोकदीपानि लक्ष्म्या गेहानि भाजनम् ॥ ५०.८१ ॥ यत्रोक्षा चन्दनं वीणा आदर्शो मधुसर्पिषी । विषाज्यताम्रपात्राणि तद्गृहं न तवाश्रयः ॥ ५०.८२ ॥ यत्र कष्टकिनो वृक्षा यत्र निष्पाववल्लरी । भार्या पुनर्भूर्वल्मीकस्तद्यक्ष ! तव मन्दिरम् ॥ ५०.८३ ॥ यस्मिन् गृहे नराः पञ्च स्त्रीत्रयं तावतीश्च गाः । अन्धकारेन्धनाग्निश्च तद्गृहं वसतिस्तव ॥ ५०.८४ ॥ एकच्छागं द्विवालेयं त्रिगवं पञ्चमाहिषम् । षडश्वं सप्तमातङ्गं गृहं यक्षाशु शोषय ॥ ५०.८५ ॥ कुद्दालदात्रपिटकं तद्वत्स्थाल्यादिभाजनम् । यत्र तत्रैव क्षिप्तानि तव दद्युः प्रतिश्रयम् ॥ ५०.८६ ॥ मुसलोलूखले स्त्रीणामास्या तद्वदुदुम्बरे । अवस्करे मन्त्रणञ्च यक्षैतदुपकृत्तव ॥ ५०.८७ ॥ लङ्घ्यन्ते यत्र धान्यानि पक्वापक्वानि वेश्मनि । तद्वच्छास्त्राणि तत्र त्वं यथेष्टं चर दुः सह ॥ ५०.८८ ॥ स्थालीपिधाने यत्राग्निर्दत्तो दर्वोफलेन वा । गृहे तत्र दुरिष्टानामशेषाणां समाश्रयः ॥ ५०.८९ ॥ मानुषास्थि गृहे यत्र दिवारात्रं मृतस्थितिः । तत्र यक्ष ! तवावासस्तथान्येषाञ्च रक्षसाम् ॥ ५०.९० ॥ अदत्त्वा भुञ्जते ये वै बन्धोः पिण्डं तथोदकम् । सपिण्डान् सोदकांश्चैव तत्काले तान्नरान् भज ॥ ५०.९१ ॥ यत्र पद्मपहापद्मौ सुरभिर्मोकाशिनी । वृषभैरावतौ यत्र कल्प्यन्ते तद्गृहं त्यज ॥ ५०.९२ ॥ अशस्त्रा देवता यत्र सशस्त्राश्चाहवं विना । कल्प्यन्ते मनुजैरर्च्यास्तत्परित्यज मन्दिरम् ॥ ५०.९३ ॥ पौरजानपदैर्यत्र प्राक्प्रसिद्धमहोत्सवाः । क्रियन्ते पूर्ववद्गेहे न त्वं तत्र गृहे चर ॥ ५०.९४ ॥ शूर्पवातघटाम्भोभिः स्त्रानं वस्त्राम्बुविप्रुषैः । नखाग्रसलिलैश्चैव तान् याहि हतलक्षणान् ॥ ५०.९५ ॥ देशाचारान् समयान् ज्ञातिधर्मं जपं होपं मङ्गलं देवतेष्टिम् । सम्यक्शौचं विधिवल्लोकवादान् पुंसस्त्वया कुर्वतो मास्तु सङ्गः ॥ ५०.९६ ॥ मार्कण्डेय उवाच इत्युक्त्वा दुः सहं ब्रह्मा तत्रैवान्तरधीयत । चकार शासनं सोऽपि तथा पङ्कजजन्मनः ॥ ५०.९७ ॥ इति श्रीमार्कण्डेयपुराणे यक्षानुशासनो नाम पञ्चाशोऽध्यायः _____________________________________________________________ एकपञ्चाशोऽध्यायः ५१ मार्कण्डेय उवाच दुः सहस्याभवद्भार्या निर्माष्टिर्नाम नामतः । जाता कलेस्तु भार्यायामृतौ चाण्डालदर्शनात् ॥ ५१.१ ॥ तयोरपत्यान्यभवने जगद्व्यापीनि षोडश । अष्टौ कुमाराः कन्याश्च तथाष्टावतिभीषणाः ॥ ५१.२ ॥ तन्ताकृष्टिस्तथोक्तिश्च परिवर्तस्तथापरः । अङ्गध्रुक्शकुनिश्चैव गण्डप्रान्तरतिस्तथा ॥ ५१.३ ॥ गर्भहा सस्यहा चान्यः कुमारास्तनयास्तयोः । कन्याश्चान्यास्तथैवाष्टौ तासां नामानि मे शृणु ॥ ५१.४ ॥ नियोजिका वै प्रथमा तथैवान्या विरोधिनी । स्वयंहारकरी चैव भ्रामणी ऋतुहारिका ॥ ५१.५ ॥ स्मृतिबीजहरे चान्ये तयोः कन्येऽतिदारुणे । विद्वेषण्यष्टमी नाम कन्या लोकभयावहा ॥ ५१.६ ॥ एतासां कर्म वक्ष्यामि दोषप्रशमनञ्च यत् । अष्टानाञ्च कुमाराणां श्रुयतां द्विजसत्तम ॥ ५१.७ ॥ दन्ताकृष्टिः प्रसुप्तानां बालानां दशनस्थितः । करोति दन्तसंघर्षं चिकीर्षुर्दुः सहागमम् ॥ ५१.८ ॥ तस्योपशमनं कार्यं सुप्तस्य सितसर्षपैः । शयनस्योपरि क्षिप्तैर्मानुषैर्दशनोपरि ॥ ५१.९ ॥ सुवार्च्चलौषधीस्नानात्तथा सच्छास्त्रकीर्तनात् । उष्ट्रकण्टकखड्गास्थिक्षौमवस्त्रविधारणात् ॥ ५१.१० ॥ तिष्ठत्यन्यकुमारस्तु तथास्त्त्वित्यसकृद्ब्रुवन् । शुभाशुभे नृणां युङ्क्ते तथोक्तिस्तच्च नान्यथा ॥ ५१.११ ॥ तस्माददुष्टं मङ्गल्यं वक्तव्यं पण्डितैः सदा । दुष्टे श्रुते तथैवोक्ते कीर्तनीयो जनार्दनः ॥ ५१.१२ ॥ चराचरगुरुर्ब्रह्मा या यस्य कुलदेवता । अन्यगर्भे परान् गर्भान् सदैव परिवर्तयन् ॥ ५१.१३ ॥ रतिमाप्नोति वाक्यञ्च विवक्षोरन्यदेव यत् । परिवर्तकसंज्ञोऽयं तस्यापि सितसर्षपैः ॥ ५१.१४ ॥ रक्षोघ्नमन्त्रजप्यैश्च रक्षां कुर्वोत तत्त्ववित् । अन्यश्चानिलवन्नृणामङ्गेषु स्फुरणोदितम् ॥ ५१.१५ ॥ शुभाशुभं समाचष्टे कुशैस्तस्याङ्गताडनम् । काकादिपक्षिसंस्थोऽन्यः श्वादेरङ्गगतोऽपि वा ॥ ५१.१६ ॥ शुभाशुभञ्च शकुनिः कुमारोऽन्यो ब्रवीति वै । तत्रापि दुष्टे व्याक्षेपः प्रारम्भत्याग एव च ॥ ५१.१७ ॥ शुभे द्रुततरं कार्यमिति प्राह प्रजापतिः । गण्डान्तेषु स्थितश्चान्यो मुहूर्तार्धं द्विजोत्तम ॥ ५१.१८ ॥ सर्वारम्भान् कुमारोऽत्ति शस्ताताञ्चानसूयताम् । विप्रोक्त्या देवतास्तुत्या मूलोत्खातेन च द्विज ॥ ५१.१९ ॥ गोमूत्रसर्षपस्त्रानैस्तदृक्षग्रहपूजनैः । पुनश्च धर्मोपनिषत्करणैः शास्त्रदर्शनैः ॥ ५१.२० ॥ अनज्ञया जन्मनश्च प्रशमं याति गण्डवान् । गर्भे स्त्रीणां तथान्यस्तु फलनाशी सुदारुणः ॥ ५१.२१ ॥ तस्य रक्षा सदा कार्या नित्यं शौचनिषेवणात् । प्रसिद्धमन्त्रलिखनाच्छस्तमाल्यादिधारणात् ॥ ५१.२२ ॥ विशुद्धगेहावसथादनायासाच्च वै द्विज । तथैव सस्यहा चान्यः सस्यर्धिमुपहन्ति यः ॥ ५१.२३ ॥ तस्यापि रक्षां कुर्वोत जीर्णोपानद्विधारणात् । तथापसव्यगमनाच्छाण्डालस्य प्रवेशनात् ॥ ५१.२४ ॥ बहिर्बलिप्रदानाच्च सोमाम्बुपरिकीर्तनात् । परदारपहद्रव्यहरणादिषु मानवान् ॥ ५१.२५ ॥ नियोजयति चैवान्यान् कन्या सा च नियोजिका । तस्याः पवित्रपठनात्क्रोधलोभादिवर्जनात् ॥ ५१.२६ ॥ नियोजयति मामिष्टविरोधाच्च विवर्जनम् । आक्रुष्टोऽन्येन मन्येत ताडितो वा नियोजिका ॥ ५१.२७ ॥ नियोजयत्येनमिति न गच्छेत्तद्वशं बुधः । परदारादिसंसर्गे चित्तमात्मानमेव च ॥ ५१.२८ ॥ नियोजयत्यत्र सा मामिति प्राज्ञो विचिन्तयेत् । विरोधं कुरुते चान्या दम्पत्योः प्रीयमाणयोः ॥ ५१.२९ ॥ बन्धूनां सुहृदां पित्रोः पुत्रैः सावर्णिकैश्च या । विरोधिनी सा तद्रक्षां कुर्वोत बलिकर्मणा ॥ ५१.३० ॥ तथातिवादसहनाच्छास्त्राचारनिषेवणात् । धान्यं खलाद्गृहाद्गोभ्यः पयः सर्पिस्तथापरा ॥ ५१.३१ ॥ समृद्धिमृद्धिमद्द्रव्यादपहिन्ति च कन्यका । सा स्वयंहारिकेत्युक्ता सदान्तर्धानतत्परा ॥ ५१.३२ ॥ महानसादर्धसिद्धमन्नागारस्थितं तथा । परिविश्यमाणञ्च सदा सार्धं भुङ्क्ते च भुञ्जता ॥ ५१.३३ ॥ उच्छेषणं मनुष्याणां हरत्यन्नञ्च दुर्हरा । कर्मान्तागारशालाभ्यः सिद्धर्धि हरति द्विज ॥ ५१.३४ ॥ गोस्त्रीस्तनेभ्यश्च पयः क्षीरहारी सदैव सा । दध्नो घृतं तिलात्तैलं सुरागारात्तथा सुराम् ॥ ५१.३५ ॥ रागं कुसुम्भकादीनां कार्पासात्सूत्रमेव च । सा स्वयंहारिका नाम हरत्यविरतं द्विज ॥ ५१.३६ ॥ कुर्याच्छिखण्डिनोर्द्वन्द्वं रक्षार्थं कुत्रिमां स्त्रियम् । रक्षाश्चैव गृहे लेख्या वर्ज्याचो च्छिष्टता तथा ॥ ५१.३७ ॥ होमाग्निदेवताधूपभस्मना च परिष्क्रिया । कार्या क्षीरादिभाण्डानामेवं तद्रक्षणं स्मृतम् ॥ ५१.३८ ॥ उद्वेगं जनयत्यन्या एकस्थाननिवासिनः । पुरुषस्य तु या प्रोक्ता भ्रामणी सा तु कन्यका ॥ ५१.३९ ॥ तस्याथ रक्षां कुर्वोत विक्षिप्तैः सितसर्षपैः । आसने शयने चोर्व्यां यत्रास्ते स तु मानवः ॥ ५१.४० ॥ चिन्तयेच्च नरः पापा मामेषा दुष्टचेतना । भ्रामयत्यसकृज्जप्यं भुवः सूक्तं समाधिना ॥ ५१.४१ ॥ स्त्रीणां पुष्पं हरत्यन्या प्रवृत्तं सा तु कन्यका । तथाप्रवृत्तं सा ज्ञेया दौः सहा ऋतहारिका ॥ ५१.४२ ॥ कुर्वोत तीर्थदेवौकश्चैत्यपर्वतसानुषु । नदीसङ्गमखातेषु स्त्रपनं तत्प्रशान्यते ॥ ५१.४३ ॥ मन्त्रवित्कृततत्त्वज्ञः पर्वसूषसि च द्विज । चिकित्साज्ञश्च वै वैद्यः संप्रयुक्तैर्वरौषधैः ॥ ५१.४४ ॥ स्मृतिञ्चापहरत्यन्या स्त्रीणां सा स्मृतिहारिका । विविक्तदेशसेवित्वात्तस्याश्चोपशमो भवेत् ॥ ५१.४५ ॥ बीजापहारिणी चान्या स्त्रीपुंसोरतिभीषणा । मेध्यान्नभोजनैः स्नानैस्तस्याश्चोपशमो भवेत ॥ ५१.४६ ॥ अष्टमी द्वेषणी नाम कन्या लोकभयावहा । या करोति जनद्विष्टं नरं नारीमथापि वा ॥ ५१.४७ ॥ मधुक्षीरघृताक्तांस्तु शान्त्यर्थं होमयेत्तिलान् । कुर्वोत मित्रविन्दाञ्च तथेष्टिन्तत्प्रशान्यते ॥ ५१.४८ ॥ एतेषान्तु कुमाराणां कन्यानां द्विजसत्तम । अष्टत्रिंशदपत्यानि तेषां नामानि मे शृणु ॥ ५१.४९ ॥ दन्ताकृष्टेरभूत्कन्या विजल्पा कलहा तथा । अवज्ञानृतदुष्टोक्तिर्विजल्पा तत्प्रशान्तये ॥ ५१.५० ॥ तामेव चिन्तयेत्प्राज्ञः प्रयतश्च गृही भवेत् । कलहा कलहं गेहे करोत्यविरतं नृणाम् ॥ ५१.५१ ॥ कुटुम्बनाशहेतुः सा तत्प्रशान्तिं निशामय । दूर्वाङ्कुरान्मधुघृतक्षीराक्तान् बलिकर्मणि ॥ ५१.५२ ॥ विक्षिपेज्जुहुयाच्चैवानलं मित्रञ्च कीर्तयेत् । भूतानां मातृभिः सार्धं बालकानान्तु शान्तये ॥ ५१.५३ ॥ विद्यानां तपसाञ्चैव संयमस्य यमस्य च । कृष्यां वाणिज्यलाभे च शान्तिं कुर्वन्तु मे सदा ॥ ५१.५४ ॥ पूजिताश्च यथान्यायं तुष्टिं गच्छन्तु सर्वशः । कुष्माण्डा यातुधानाश्च ये चान्ये गणसंज्ञिताः ॥ ५१.५५ ॥ महादेवप्रसादेन महेश्वरमतेन च । सर्व एते नृणां नित्यं तुष्टिमाशु व्रजन्तु ते ॥ ५१.५६ ॥ तुष्टाः सर्वं निरस्यन्तु दुष्कृतं दुरनुष्ठितम् । महापताकजं सर्वं यच्चान्यद्विघ्नकारणम् ॥ ५१.५७ ॥ तेषामेव प्रसादेन विघ्ना नश्यन्तु सर्वशः । उद्वाहेषु च सर्वेषु वृद्धिकर्मंसु चैव हि ॥ ५१.५८ ॥ पुण्यानुष्ठानयोगेषु गुरुदेवार्चनेषु च । जपयज्ञविधानेषु यात्रासु च चतुर्दश ॥ ५१.५९ ॥ शरीरारोग्यभोग्येषु सुखदानधनेषु च । वृद्धबालातुरेष्वेव शान्तिं कुर्वन्तु मे सदा ॥ ५१.६० ॥ सोमाम्बुपौ तथाम्भोधिः सविता चानिलानलौ । तथोक्तेः कालजिह्वोऽभूत्पुत्रस्तालनिकेतनः ॥ ५१.६१ ॥ स येषां रसनासंस्थास्तानसाधून् विबाधते । परिवर्तसुतौ द्वौ तु विरूपविकृतौ द्विज ॥ ५१.६२ ॥ तौ तु वृक्षाग्रपरिखाप्राकाराम्भोधिसंश्रयौ । गुर्विण्याः परिवर्तन्तौ कुरुतः पादपाणिषु ॥ ५१.६३ ॥ क्रौष्टुके परिवर्तःस्यात्गर्भस्यान्योदरात्ततः । न वृक्षं चैव नैवाद्रिं न प्राकारं महोदधिम् ॥ ५१.६४ ॥ परिखां वा समाक्रामेदबला गर्भधारिणी । अङ्गध्रुक्तनयं लेभे पिशुनं नाम नामतः ॥ ५१.६५ ॥ सोऽस्थिमज्जागतः पुंसां बलमत्त्यजितात्मनाम् । श्येनकाककपोतांश्च गृध्रोलूकैश्च वै सुतान् ॥ ५१.६६ ॥ अवाप शकुनिः पञ्च जगृहुस्तान् सुरासुराः । श्येनं जग्राह मृत्युश्च काकं कालो गृहीतवान् ॥ ५१.६७ ॥ उलूकं निरृतिश्चैव जग्राहातिभयावहम् । गृध्रं व्याधिस्तदीशोऽथ कपोतं च स्वयं यमः ॥ ५१.६८ ॥ एतेषामेव चैवोक्ता भूताः पापोपपादने । तस्माच्छ्येनादयो यस्य निलीयेयुः शिरस्यथ ॥ ५१.६९ ॥ तेनात्मरक्षणायालं शान्तिं कुर्याद्विजोत्तम । गेहे प्रसूतिरेतेषां तद्वन्नीडनिवेशनम् ॥ ५१.७० ॥ नरस्तं वर्जयेद्गेहं कपोताक्रान्तमस्तकम् । श्येनः कपोतो गृध्रश्च काकोलूकौ गृहे द्विज ॥ ५१.७१ ॥ प्रविष्टः कथयेदन्तं वसतां तत्र वेश्मनि । ईदृक्परित्यजेद्गेहं शान्तिं कुर्याच्च पण्डितः ॥ ५१.७२ ॥ स्वप्नेऽपि हि कपोतस्य दर्शनं न प्रशस्यते । षडपत्यानि कथ्यन्ते गण्डप्रान्तरतेस्तथा ॥ ५१.७३ ॥ स्त्रीणां रजस्यवस्थानं तेषां कालांश्च मे शृणु । चत्वार्यहानि पूर्वाणि तथैवान्यत्त्रयोदश ॥ ५१.७४ ॥ एकादश तथैवान्यदपत्यं तस्य वै दिने । अन्यद्दिनाभिगमने श्राद्धदाने तथापरे ॥ ५१.७५ ॥ पर्वस्वथान्यत्तस्मात्तु वर्ज्यान्येतानि पण्डितैः । गर्भहन्तुः सुतो निघ्नो मोहनी चापि कन्यका ॥ ५१.७६ ॥ प्रविश्य गर्भमत्त्येको भुक्त्वा मोहयतेऽपरा । जायन्ते मोहनात्तस्याः सर्पमण्डूककच्छपाः ॥ ५१.७७ ॥ सरीसृपाणि चान्यानि पुरीषमथवा पुनः । षण्मासान् गुर्विणीं मांसमश्नुवानामसंयताम् ॥ ५१.७८ ॥ वृक्षच्छायाश्रयां रात्रावथवा त्रिचतुष्पथे । श्मशानकटभूमिष्ठामुत्तरीयविवर्जिताम् ॥ ५१.७९ ॥ रुदमानां निशीथेऽथ आविशेत्तामसौ स्त्रियम् । शस्यहन्तुस्तथैवैकः क्षुद्रको नाम नामतः ॥ ५१.८० ॥ शस्यर्धिं स सदा हन्ति लब्ध्वा रन्ध्रं शृणुष्व तत् । अमङ्गल्यदिनारम्भे अतृप्तो वपते च यः ॥ ५१.८१ ॥ क्षेत्रेष्वनुप्रवेशं वै करोत्यन्तोपसङ्गिषु । तस्मात्कल्पः सुप्रशस्ते दिनेऽभ्यर्च्य निशाकरम् ॥ ५१.८२ ॥ कुर्यादारम्भमुप्तिञ्च हृष्टस्तुष्टः सहायवान् । नियोजिकेति या कन्या दुः सहस्य मयोदिता ॥ ५१. ८३ ॥ जातं प्रचोदिकासंज्ञं तस्याः कन्याचतुष्टयम् । मत्तोन्मत्तप्रमत्तास्तु नरान्नारीस्तु ताः सदा ॥ ५१.८४ ॥ समाविशन्ति नाशाय चोदयन्तीह दारुणम् । अधर्मं धर्मरूपेण कामञ्चाकामरूपिणम् ॥ ५१.८५ ॥ अनर्थञ्चार्थरूपेण मोक्षञ्चामोक्षरूपिणम् । दुर्विनीता विना शौचं दर्शयन्ति पृथङ्नरान् ॥ ५१.८६ ॥ भ्रश्यन्त्याभिः प्रविष्टाभिः पुरुषार्थात्पृथङ्नराः । तासां प्रवेशश्च गृहे संध्यारक्ते ह्यथाम्बरे ॥ ५१.८७ ॥ धाताविधात्रोश्च बलिर्यत्र काले न दीयते । भुञ्जतां पिबतां वापि सङ्गिभिर्जलविप्रुषैः ॥ ५१.८८ ॥ नवनारीषु संक्रान्तिस्तासामाश्वभिजायते । विरोधिन्यास्त्रयः पुत्राश्चोदको ग्राहकस्तथा ॥ ५१.८९ ॥ तमः प्रच्छादकश्चान्यस्तत्स्वरूपं शृणुष्व मे । प्रदीपदैलसंसर्गदूषिते लङ्घिते खले ॥ ५१.९० ॥ मुषलोलूखले यत्र पादुके वासने स्त्रियः । शूर्पदात्रादिकं यत्र पदाकृष्य तथासनम् ॥ ५१.९१ ॥ यत्रोपलिप्तञ्चानर्च्य विहारः क्रियते गृह् दर्वोमुखेन यत्राग्निराहृतोऽन्यत्र नीयते ॥ ५१.९२ ॥ विरोधिनीसुतास्तत्र विजृम्भन्ते प्रचोदिताः । एको जिह्वागतः पुंसां स्त्रीणाञ्चालीकसत्यवान् ॥ ५१.९३ ॥ चोदको नाम स प्रोक्तः पैशुन्यं कुरुते गृहे । अवधानगतश्चान्यः श्रवणस्थोऽतिदुर्मतिः ॥ ५१.९४ ॥ करोति ग्रहणन्तेषां वचसां ग्राहकस्तु सः । आक्रम्यान्यो मनो नॄणां तमसाच्छाद्य दुर्मतिः ॥ ५१.९५ ॥ क्रोधं जनयते यस्तु तमः प्रच्छादकस्तु सः । स्वयंहार्यास्तु चौर्येण जनितन्तनयत्रयम् ॥ ५१.९६ ॥ सर्वहार्यर्धहारी च वीर्यहारी तथैव च । अनाचान्तगृहेष्वेते मन्दाचारगृहेषु च ॥ ५१.९७ ॥ अप्रक्षालितपादेषु प्रविशत्सु महानसम् । खलेषु गोष्ठेषु च वै द्रोहो येषु गृहेषु वै ॥ ५१.९८ ॥ तेषु सर्वे यथान्यायं विहरन्ति रमन्ति च । भ्रामण्यास्तनयस्त्वेकः काकजङ्घ इति स्मृतः ॥ ५१.९९ ॥ तेनाविष्टो रतिं सर्वो नैव प्राप्नोति वै पुरे । भुञ्जन् यो गायते मैत्रे गायते हसते च यः ॥ ५१.१०० ॥ सन्ध्यामैथुनिनञ्चैव नरमाविशति द्विज । कन्यात्रयं प्रसूता सा या कन्या ऋतुहारिणी ॥ ५१.१०१ ॥ एका कुचहरा कन्या अन्या व्यञ्जनहारिका । तृतीया तु समाख्याता कन्यका जातहारिणी ॥ ५१.१०२ ॥ यस्या न क्रियते सर्वः सम्यग्वैवाहिको विधिः । कालातीतोऽथवा तस्या हरत्येका कुचद्वयम् ॥ ५१.१०३ ॥ सम्यक्श्राद्धमदत्त्वा च तथानर्च्य च मातरम् । विवाहितायाः कन्याया हरति व्यञ्जनं तथा ॥ ५१.१०४ ॥ अग्न्यम्बुशून्ये च तथा विधूपे सूतिकागृहे । अदीपशस्त्रमुसले भूतिसर्षपवर्जिते ॥ ५१.१०५ ॥ अनुप्रविश्य सा जातमपहृत्यात्मसम्भवम् । क्षणप्रसविनी बालं तत्रैवोत्सृजते द्विज ॥ ५१.१०६ ॥ सा जातहारिणी नाम सुघोरा पिशिताशना । तस्मात्संरक्षणं कार्यं यत्नतः सूतिकागृहे ॥ ५१.१०७ ॥ स्मृतिञ्चाप्रयतानाञ्च शून्यागारनिषेवणात् । अपहन्ति सुतस्तस्याः प्रचण्डो नाम नामतः ॥ ५१.१०८ ॥ पौत्रेभ्यस्तस्य संभूता लीकाः शतसहस्रशः । चण्डालयोनयश्चाष्टौ दण्डपाशातिभीषणाः ॥ ५१.१०९ ॥ क्षुधाविष्टास्ततो लीकास्ताश्च चण्डालयोनयः । अभ्यधावन्त चान्योन्यमत्तुकामाः परस्परम् ॥ ५१.११० ॥ प्रचण्डो वारियित्वा तु तास्ताश्चण्डालयोनयः । समये स्थापयामास यादृशे तादृशं शृणु ॥ ५१.१११ ॥ अद्यप्रभृति लीकानामावासं यो हि दास्यति । दण्डं तस्याहमतुलं पातयिष्ये न संशयः ॥ ५१.११२ ॥ चण्डालयोन्योऽवसथे लीका या प्रसविष्यति । तस्याश्च सन्तिः पूर्वा सा च सद्यो नशिष्यति ॥ ५१.११३ ॥ प्रसूते कन्यके द्वे तु स्त्रीपुंसोर्बोजहारिणी । वातरूपामरूपाञ्च तस्याः प्रहरणन्तु ते ॥ ५१.११४ ॥ वातरूपा निषेकान्ते सा यस्मै क्षिपते सुतम् । स पुमान् वातशुक्रत्वं प्रयाति वनितापि वा ॥ ५१.११५ ॥ तथैव गच्छतः सद्यो निर्बोजत्वमरूपया । अस्नाताशी नरो यो वै तथैव पिशिताशनः ॥ ५१.११६ ॥ विद्वेषिणी तु या कन्या भृकुटीकुटिलानना । तस्या द्वौ तनयौ पुंसामपकारप्रकाशकौ ॥ ५१.११७ ॥ निर्बोजत्वं नरो याति नारी वा शौचवर्जिता । पैशुन्याभिरतं लोलमसज्जननिषेवणम् ॥ ५१.११८ ॥ पुरुषद्वेषिणञ्चैतौ नारमाक्रम्य तिष्ठतः । मात्रा भ्रात्रा तथा मित्रैरभीष्टैः स्वजनैः परैः ॥ ५१.११९ ॥ विद्विष्टो नाशमायाति पुरुषो धर्मतोर्ऽथतः । एकस्तु स्वगुणांल्लोके प्रकाशयति पापकृत् ॥ ५१.१२० ॥ द्वितीयस्तु गुणान्मैत्रीं लोकस्थामपकर्षति । इत्येते दौः सहाः सर्वे यक्ष्मणः सन्ततावथ । पापाचाराः समाख्याता यैर्व्याप्तमखिलं जगत् ॥ ५१.१२१ ॥ इति श्रीमार्कण्डेयपुराणे दुः सहोत्पतिसमापनं नामैकपञ्चाशौऽध्यायः _____________________________________________________________ द्विपञ्चाशोऽध्यायः ५२ मार्कण्डेय उवाच इत्येष तामसः सर्गो ब्रह्मणोऽव्यक्तजन्मनः । रुद्रसर्गं प्रवक्ष्यामि तन्मे निगदतः शृणु ॥ ५२.१ ॥ तनयाश्च तथैवाष्टौ पत्न्यः पुत्राश्च ते तथा । कल्पादावात्मनस्तुल्यं सुतं प्रध्यायतः प्रभोः ॥ ५२.२ ॥ प्रादुरासीदथाङ्केऽस्य कुमारो नीललोहितः । रुरोद सुस्वरं सोऽथ द्रवंश्च द्विजसत्तम ॥ ५२.३ ॥ किं रोदिषीति तं ब्रह्मा रुदन्तं प्रत्युवाच ह । नाम देहीति तं सोऽथ प्रत्युवाच जगत्पतिम् ॥ ५२.४ ॥ रुद्रस्त्वं देव ! नाम्नासि मा रोदीर्धैर्यमावह । एवमुक्तस्ततः सोऽथ सप्तकृत्वो रुरोद ह ॥ ५२.५ ॥ ततोऽन्यानि ददौ तस्मै सप्त नामानि वै प्रभुः । स्थानानि चैषामष्टानां पत्नीः पुत्रांश्च वै द्विज ॥ ५२.६ ॥ भवं शर्वं तथेशानं तथा पशुपतिं प्रभुः । भीममुग्रं महादेवमुवाच स पितामहः ॥ ५२.७ ॥ चक्रे नामान्यथैतानि स्थानान्येषाञ्चकार ह । सूर्यो जलं मही वह्निर्वायुराकाशमेव च ॥ ५२.८ ॥ दीक्षितो ब्राह्मणः सोम इत्येतास्तनवः क्रमात् । सुवर्चला तथैवोमा विकेशी चापरा स्वधा ॥ ५२.९ ॥ स्वाहा दिशस्तथा दीक्षा रोहिणी च यथाक्रमम् । सूर्यादीनां द्विजश्रेष्ठ ! रुद्राद्यैर्नामभिः सह ॥ ५२.१० ॥ शनैश्चरस्तथा शुक्रो लोहिताङ्गो मनोजवः । स्कन्दः सर्गोऽथ सन्तानो बुधश्चानुक्रमात्सुतः ॥ ५२.११ ॥ एवम्प्रकारो रुद्रोऽसौ सतीं भार्यामविन्दत । दक्षकोपाच्च तत्याज सा सती स्वं कलेवरम् ॥ ५२.१२ ॥ हिमवद्दुहिता साभून्मेनायां द्विजसत्तम । तस्या भ्राता तु मैनाकः सखाम्भोधेरनुत्तमः ॥ ५२.१३ ॥ उपयेमे पुनश्चैनामनन्यां भगवान् भवः । देवौ धाताविधातारौ भृगोः ख्यातिरसूयत ॥ ५२.१४ ॥ श्रियञ्च देवदेवस्य पत्नी नारायणास्य या । आयातिर्नियतिश्चैव मेरोः कन्ये महात्मनः ॥ ५२.१५ ॥ धाताविधात्रोस्ते भार्ये तयोर्जातौ सुतावुभौ । प्राणश्चैव मृकण्डुश्च पिता मम महायशाः ॥ ५२.१६ ॥ मनस्विन्यामहं तस्मात्पुत्रो वेदशिरा मम । धूम्रवत्यां समभवत्प्राणस्यापि निबोध मे ॥ ५२.१७ ॥ प्राणस्य द्युतिमान् पुत्र उत्पन्नस्तस्य चात्मजः । अजराश्च तयोः पुत्राः पौत्राश्च बहवोऽभवन् ॥ ५२.१८ ॥ पत्नी मरीचेः सम्भूतिः पौर्णमासमसूयत । विरजाः पर्वतश्चैव तस्य पुत्रौ महात्मनः ॥ ५२.१९ ॥ तयोः पुत्रांस्तु वक्ष्येऽहं वंशसंकीर्तने द्विज । स्मृतिश्चाङ्गिरसः पत्नी प्रसूता कन्यकास्तथा ॥ ५२.२० ॥ सिनीवाली कुहूश्चैव राका भानुमती तथा । अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्पषान् ॥ ५२.२१ ॥ सोमं दुर्वाससञ्चैव दत्तात्रेयञ्च योगिनम् । प्रीत्यां पुलस्त्यभार्यायां दत्तोऽन्यस्तत्सुतोऽभवत् ॥ ५२.२२ ॥ पूर्वजन्मनि सोऽगस्त्यः स्मृतः स्वायम्भुवेऽन्तरे । कर्दमश्चार्ववीरश्च सहिष्णुश्च सुतत्रयम् ॥ ५२.२३ ॥ क्षमा तु सुषुवे भार्या पुलहस्य प्रजापतेः । क्रतोस्तु सन्नतिर्भार्या बालखिल्यानसूयत ॥ ५२.२४ ॥ षष्टिर्यानि सहस्राणि ऋषीणामूर्ध्वरेतसाम् । ऊर्जायान्तु वसिष्ठस्य सप्ताजायन्त वै सुताः ॥ ५२.२५ ॥ रजोगात्रोर्ध्वबाहुश्च सबलश्चानघस्तथा । सुतपाः शुक्ल इत्येते सर्वे सप्तर्षयः स्मृताः ॥ ५२.२६ ॥ योऽसावग्निरभीमानी ब्रह्मणस्तनयोऽग्रजः । तस्मात्स्वाहा सुतान् लेभे त्रीनुदारौजसो द्विज ॥ ५२.२७ ॥ पावकं पवमानञ्च शुचिञ्चापि जलाशिनम् । तेषान्तु सन्तातावन्ये चत्वारिंशच्च पञ्च च ॥ ५२.२८ ॥ कथ्यन्ते बहुशश्चैते पिता पुत्रत्रयञ्च यत् । एवमेकोनपञ्चाशद्दुर्जयाः परिकीर्तिताः ॥ ५२.२९ ॥ पितरो ब्रह्मणा सृष्टा ये व्याख्याता मया तव । अग्निष्वात्ता बर्हिषदोऽनग्नयः साग्नयश्च ये ॥ ५२.३० ॥ तेभ्यः स्वधा सुते जज्ञे मेनां वै धारिणीं तथा । ते उभे ब्रह्मवादिन्यौ योगिन्यौ चाप्युभे द्विज ॥ ५२.३१ ॥ उत्तमज्ञानसंपन्ने सर्वैः समुदिते गुणैः । इत्येषा दक्षकन्यानां कथितापत्यसंततिः । श्रद्धावान् संस्मरन्नित्यं प्रजावानभिजायते ॥ ५२.३२ ॥ इति श्रीमार्कण्डेयपुराणे रुद्रसर्गाभिधानो नाम द्विपञ्चाशोऽध्यायः _____________________________________________________________ त्रिपञ्चाशोऽध्यायः ५३ क्रौष्टुकिरुवाच स्वायम्भुवं त्वयाख्यातमेतन्मन्वन्तरञ्च यत् । तदहं भगवन् ! सम्यक्श्रोतुमिच्छामि कथ्यताम् ॥ ५३.१ ॥ मन्वन्तरप्रमाणञ्च देवा देवर्षयस्तथा । ये च क्षितीशा भगवन् ! देवेन्द्रश्चैव यस्तथा ॥ ५३.२ ॥ मार्कण्डेय उवाच मन्वन्तराणां संख्याता साधिका ह्येकसप्ततिः । मानुषेण प्रमाणेन शृणु मन्वन्तरञ्च मे ॥ ५३.३ ॥ त्रिंशत्कोट्यस्तु संख्याताः सहस्राणि च विंशतिः । सप्तषष्टिस्तथान्यानि नियुतानि च संख्यया ॥ ५३.४ ॥ मन्वन्तरप्रमाणञ्च इत्येतत्साधिकं विना । अष्टौ शतसहस्राणि दिव्यया संख्यया स्मृतम् ॥ ५३.५ ॥ द्विपञ्चाशत्तथान्यानि सहस्राण्यधिकानि च । स्वायम्भुवो मनुः पूर्वं मनुः स्वारोचिषस्तथा ॥ ५३.६ ॥ औत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा । षडेते मनवोऽतीतास्तथा वैवस्वतोऽधुना ॥ ५३.७ ॥ सावर्णिः पञ्च रौच्याश्च भौत्याश्चागामिनस्त्वमी । एतेषां विस्तरं भूयो मन्वन्तरपरिग्रहे ॥ ५३.८ ॥ वक्ष्ये देवानृषींश्चैव यक्षेन्द्राः पितरश्च ये । उत्पत्तिं संग्रहं ब्रह्मन् ! श्रूयतामस्य सन्ततिः ॥ ५३.९ ॥ यच्च तेषामभूत्क्षेत्रं तत्पुत्राणां महात्मनाम् । मनोः स्वायम्भुवस्यासन् दश पुत्रास्तु तत्समाः ॥ ५३.१० ॥ यैरियं पृथिवी सर्वा सप्तद्वीपा सपर्वता । ससमुद्राकरवती प्रतिवर्षं निवेशिता ॥ ५३.११ ॥ ससमुद्राकरवती प्रतिवर्षं त्रेतायुगे तथा । प्रियव्रतस्य पुत्रैस्तैः पौत्रैः स्वायम्भुवस्य च ॥ ५३.१२ ॥ प्रियव्रतात्प्रजावत्यां वीरात्कन्या व्यजायत । कन्या सा तु महाभागा कर्दमस्य प्रजापते ॥ ५३.१३ ॥ कन्ये द्वे दश पुत्रांश्च सम्राट्कुक्षी च ते उभे । तयोर्वै भ्रातरः शूराः प्रजापतिसमा दश ॥ ५३.१४ ॥ आग्नीध्रो मेधातिथिश्च वपुष्मांश्च तथापरः । ज्योतिष्मान्द्युतिमान् भव्यः सवनः सप्त एव ते ॥ ५३.१५ ॥ प्रियव्रतोऽभ्यषिञ्चत्तान् सप्त सप्तसु पार्थिवान् । द्वीपेषु तेन धर्मेण द्वीपांश्चैव निबोध मे ॥ ५३.१६ ॥ जम्बुद्वीपे तथाग्नीध्रं राजानं कृतवान् पिता । प्लक्षद्वीपेश्वरश्चापि तेन मेधातिथिः कृतः ॥ ५३.१७ ॥ शाल्मलेस्तु वपुष्मन्तं ज्योतिष्मन्तं कुशाह्वये । क्रौञ्चद्वीपे द्युतिमन्तं भव्यं शाकाह्वयेश्वरम् ॥ ५३.१८ ॥ पुष्कराधिपतिञ्चापि सवनं कृतवान् सुतम् । महावीतो धातकिश्च पुष्कराधिपतेः सुतौ ॥ ५३.१९ ॥ द्विधा कृत्वा तयोर्वर्षं पुष्करे संन्यवेशयत् । भव्यस्य पुत्राः सप्तासन्नामतस्तान्निबोध मे ॥ ५३.२० ॥ जलदश्च कुमारश्च सुकुमारो मनीवकः । कुशोत्तरोऽथ मेधावी सप्तमस्तु महाद्रुमः ॥ ५३.२१ ॥ तन्नामकानि वर्षाणि शाकद्वीपे चकार सः । तथा द्युतिमतः सप्त पुत्रास्तांश्च निबोध मे ॥ ५३.२२ ॥ कुशलो मनुगश्चोष्णः प्राकरश्चार्थकारकः । मुनिश्च दुन्दुभिश्चैव सप्तमः परिकीर्तितः ॥ ५३.२३ ॥ तेषां स्वनामधेयानि क्रौञ्चद्वीपे तथाभवन् । ज्योतिष्मतः कुशद्वीपे पुत्रनामाङ्कितानि वै ॥ ५३.२४ ॥ तत्रापि सप्त वर्षापि तेषां नामानि मे शृणु । उद्भिदं वैष्णवञ्चैव सुरथं लम्बनं तथा ॥ ५३.२५ ॥ धृतिमत्प्राकरञ्चैव कापिलं चापि सप्तमम् । वपुष्मतः सुताः सप्त शाल्मलेशस्य चाभवन् ॥ ५३.२६ ॥ श्वेतश्च हरितश्चैव जीमूतो रोहितस्तथा । वैद्युतो मानसश्चैव केतुमान् सप्तमस्तथा ॥ ५३.२७ ॥ तथैव शाल्मलेस्तेषां समनामानि सप्त वै । सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरस्य वै ॥ ५३.२८ ॥ येषां नामाङ्गितैर्वर्षैः प्लक्षद्वीपस्तु सप्तधा । पूर्वं शाकभवं वर्षं शिशिरन्तु सुखोदयम् ॥ ५३.२९ ॥ आनन्दञ्च शिवञ्चैव क्षेमकञ्च ध्रुवन्तथा । प्लक्षद्वीपादिभूतेषु शाकद्वीपान्तिमेषु वै ॥ ५३.३० ॥ ज्ञेयः पञ्चसु धर्मश्च वर्णाश्रमविभागजः । नित्यः स्वाभाविकश्चैव अहिंसाविधिवर्धितः ॥ ५३.३१ ॥ पञ्चस्वेतेषु वर्षेषु सर्वसाधारणः स्मृतः । अग्नीध्राय पिता पूर्वं जम्बुद्वीपं ददौ द्विज ॥ ५३.३२ ॥ तस्य पुत्रा बभूवुर्हि प्रजापतिसमा नव । ज्येष्ठो नाबिरिति ख्यातस्तस्य किंपुरुषोऽनुजः ॥ ५३.३३ ॥ हरिवर्षस्तृतीयस्तु चतुर्थोऽभूदिलावृतः । वश्यश्च पञ्चमः पुत्रो हिरण्यः षष्ठ उच्यते ॥ ५३.३४ ॥ कुरुस्तु सप्तमस्तेषां भद्राश्वश्चाष्टमः स्मृतः । नवमः केतुमालश्च तन्नाम्ना वर्षसंस्थितिः ॥ ५३.३५ ॥ यानि किपुरुषाद्यानि वर्जयित्वा हिमाह्वयम् । तेषां स्वबावतः सिद्धिः सुखप्राया ह्यत्नतः ॥ ५३.३६ ॥ विपर्ययो न तेष्वस्ति जरामृत्युभयं न च । धर्माधर्मौ न तेष्वास्तां नोत्तमाधममध्यमाः ॥ ५३.३७ ॥ न वै चतुर्युगावस्था नार्तवा ऋतवो न च । आग्नीध्रसूनोर्नाभेस्तु ऋषभोऽभूत्सुतो द्विज ॥ ५३.३८ ॥ ऋषभाद्भरतो जज्ञे वीरः पुत्रशताद्वरः । सोऽभिषिच्यर्षभः पुत्रं महाप्रव्राज्यमास्थितः ॥ ५३.३९ ॥ तपस्तेपे महाभागः पुलहाश्रमसंश्रयः । हिमाह्विं दक्षिणं वर्षं भरताय पिता ददौ ॥ ५३.४० ॥ तस्मात्तु भारतं वर्षं तस्य नान्मा महात्मनः । भतस्याप्यभूत्पुत्रः सुमतिर्नाम धार्मिकः ॥ ५३.४१ ॥ तस्मिन् राज्यं समावेश्य भरतोऽपि वनं ययौ । एतेषां पुत्रपौत्रैस्तु सप्तद्वीपा वसुन्धरा ॥ ५३.४२ ॥ प्रियव्रतस्य पुत्रैस्तु भुक्त्वा स्वायम्भुवेऽन्तरे । एष स्वायम्भुवः सर्गः कथितस्ते द्विजोत्तम ॥ ५३.४३ ॥ पूर्वमन्वन्तरे सम्यक्किमन्यत्कथयामि ते ॥ ५३.४४ ॥ इति श्रीमार्कण्डेयपुराणेठमन्वन्तरकथनंऽ नाम त्रिपञ्चाशोऽध्यायः _____________________________________________________________ चतुःपञ्चाशोऽध्यायः ५४ क्रौष्टुकिरुवाच कतिद्वीपाः समुद्रा वा पर्वता वा कति द्विज । कियन्ति चैव वर्षाणि तेषां नद्यश्च का मुने ॥ ५४.१ ॥ महाभूतप्रमाणञ्च लोकालोकन्तथैव च । पर्यासं परिमाणञ्च गतिञ्चन्द्रार्कयोरपि ॥ ५४.२ ॥ एतत्प्रब्रूहि मे सर्वं विस्तरेण महामुने ॥ ५४.३ ॥ मार्कण्डेय उवाच शतार्धकोटिविस्तारा पृथिवी कृत्स्त्रशो द्विज । तस्या हि स्थानमखिलं कथयामि शृणुष्व तत् ॥ ५४.४ ॥ ये ते द्वीपा मया प्रोक्ता जम्बुद्वीपादयो द्विज । पुष्करान्ता महाभाग ! शृण्वेषां विस्तरं पुनः ॥ ५४.५ ॥ द्वीपात्तु द्विगुणो द्वीपो जम्बुः प्लक्षोऽथ शाल्मलः । कुशः क्रौञ्चस्तथा शाकः पुष्करद्वीप एव च ॥ ५४.६ ॥ लवणेक्षुसुरासर्पिर्दधिदुग्धःजलाब्धिभिः । द्विगुणैर्द्विगुणैर्वृद्ध्या सर्वतः परिवेष्टिताः ॥ ५४.७ ॥ जम्बुद्वीपस्य संस्थानं प्रवक्ष्येऽहं निबोध मे । लक्षमेकं योजनानां वृत्तौ विस्तारदैर्घ्यतः ॥ ५४.८ ॥ हिमवान् हेमकूटश्च ऋषभो मेरुरेव च । नीलः श्वेतस्तथा शृङ्गी सप्तास्मिन् वर्षपर्वताः ॥ ५४.९ ॥ द्वौ लक्षयोजनायामौ मध्ये तत्र महाचलौ । तयोर्दक्षिणतो यौ तु यौ तथोत्तरतो गिरी ॥ ५४.१० ॥ दशभिर्दशभिर्न्यूनैः सहस्रैस्तैः परस्परम् । द्विसाहस्त्रोच्छ्रयाः सर्वे तावद्विस्तारिणश्च ते ॥ ५४.११ ॥ समुद्रान्तः प्रविष्टाश्च षडस्मिन् वर्षपर्वताः । दक्षिणोत्तरतो निम्ना मध्ये तुङ्गायता क्षितिः ॥ ५४.१२ ॥ वेद्यर्धे दक्षिमे त्रीणि त्रीणि वर्षाणि चोत्तरे । इलावृतं तयोर्मध्ये चन्द्रार्धाकारवत्स्थितम् ॥ ५४.१३ ॥ ततः पूर्वेण भद्राश्वं केतुमालञ्च पश्चिमे । इलावृतस्य मध्ये तु मेरुः कनकपर्वतः ॥ ५४.१४ ॥ चतुरशीतिसाहस्त्रस्तस्योच्छ्रायो महागिरेः । प्रविष्टः षोडशाधस्ताद्विस्तीर्णः षोडशैव तु ॥ ५४.१५ ॥ शरावसंस्थितत्वाच्च द्वात्रिंशन्मूर्ध्नि विस्तृतः । शुक्लः पीतोऽसितो रक्तः प्राच्यादिषु यथाक्रमम् ॥ ५४.१६ ॥ विप्रो वैश्यस्तथा शूद्रः क्षत्रियश्च स्ववर्णतः । तस्योपरि तथैवाष्टौ पुर्यो दिक्षु यथाक्रमम् ॥ ५४.१७ ॥ इन्द्रादिलोकपालानां तन्मध्ये ब्रह्मणः सभा । योजनानां सहस्राणि चतुर्दश समुच्छ्रिता ॥ ५४.१८ ॥ अयुतोच्छ्रायास्तस्याधस्तथा विषकम्भवर्वताः । प्राच्यादिषु क्रमेणैव मन्दरो गन्धमादनः ॥ ५४.१९ ॥ विपुलश्च सुपार्श्वश्च केतुपादपशोभिताः । कदम्बो मन्दरे केतुर्जम्बुव गन्धमादने ॥ ५४.२० ॥ विपुले च तथाश्वत्थः सुपार्श्वे च वटो महान् । एकादशशतायामा योजनानामिमे नगाः ॥ ५४.२१ ॥ जठरो देवकूटश्च पूर्वस्यां दिशि पर्वतौ । आनीलनिषधौ प्राप्तौ परस्परनिरन्तरौ ॥ ५४.२२ ॥ निषधः पारियात्रश्च मेरोः पार्श्वे तु पश्चिमे । यथा पूर्वौ तथा चैतावानीलनिषधायतौ ॥ ५४.२३ ॥ कैलासो हिमवांश्चैव दक्षिणेन महाचलौ । पूर्वपश्चायतावेतावर्णवान्तर्व्यवस्थितौ ॥ ५४.२४ ॥ शृङ्गवान् जारुधिश्चैव तथैवोत्तरपर्वतौ । यतैव दक्षिणे तद्वदर्णप्वान्तर्व्यवस्थितौ ॥ ५४.२५ ॥ मर्यादापर्वता ह्येते कथ्यन्तेऽष्टौ द्विजोत्तम । हिमवद्धेमकूटादिपर्वतानां परस्परम् ॥ ५४.२६ ॥ नवयोजनसाहस्त्रं प्रागुदग्दक्षिणोत्तरम् । मेरोरिलावृते तद्वदन्तरे वै चतुर्दिशम् ॥ ५४.२७ ॥ फलानि यानि वै जम्ब्वाः गन्धमादनपर्वते । गजदेहप्रमाणानि पतन्ति गिरिमूर्धनि ॥ ५४.२८ ॥ तेषां स्त्रावात्प्रभवति ख्याता जम्बूनदीति वै । यत्र जाम्बूनदं नाम कनकं सम्प्रजायते ॥ ५४.२९ ॥ सा परिक्रम्य वै मेरुं जम्बूमूलं पुनर्नदी । विशति द्विजशार्दूल ! पीयमाना जनैश्च तैः ॥ ५४.३० ॥ भद्राश्वेऽश्वशिरा विष्णुर्भारते कूर्मसंस्थितिः । वराहः केतुमाले च मत्स्यरूपस्तथोत्तरे ॥ ५४.३१ ॥ तेषु नक्षत्रविन्यासाद्विषयाः समवस्थिताः । चतुर्ष्वपि द्विजश्रेष्ठ ! ग्रहाभिभवपाठकाः ॥ ५४.३२ ॥ इति श्रीमार्कण्डेयपुराणे भुवनकोशठजम्बूद्वीपवर्णनंऽ नाम चतुः पञ्चाशोऽध्याय _____________________________________________________________ पञ्चपञ्चाशोऽध्यायः ५५ मार्कण्डेय उवाच शैलेषु मन्दाराद्येषु चतुर्ष्वपि द्विजोत्तम । वाननि यानि चत्वारि सरांसि च निबोध मे ॥ ५५.१ ॥ पूर्वं चैत्ररथं नाम दक्षिणे नन्दनं वनम् । वैभ्राजं पश्चिमे शैले सावित्रं चोत्तराचले ॥ ५५.२ ॥ अरुणोदं सरः पूर्वं मानसं दक्षिणे तथा । शीतोदं पश्चिमे मेरोर्महाभद्रं तथोत्तरे ॥ ५५.३ ॥ शीतार्तश्चक्रमुञ्जश्च कुलीरोऽथ सुकङ्कवान् । मणिशैलोऽथ वृषवान्महानीलो भवाचलः ॥ ५५.४ ॥ सूबिन्दुर्मन्दरो वेणुस्तामसो निषधस्तथा । देवशैलश्च पूर्वेण मन्दरस्य महाचलः ॥ ५५.५ ॥ त्रिकटशिखराद्रिश्च कलिङ्गोऽथ पतङ्गकः । रुचकः सानुमांश्चाद्रिस्ताम्रकोऽथ विशाखवान् ॥ ५५.६ ॥ श्वेतोदरः समूलश्च वसुधारश्च रत्नवान् । एकशृङ्गो महाशैलो राजशालः पिपाठकः ॥ ५५.७ ॥ पञ्चशैलोऽथ कैलासो हिमवांश्चाचलोत्तमः । इत्येते दक्षिणे पार्श्वे मेरोः प्रोक्ता महाचलाः ॥ ५५.८ ॥ सुरक्षः शिशिराक्षश्च वैदुर्यः कपिलस्तथा । पिञ्जरोऽथ महाभद्रः सुरसः पिङ्गलो मधुः ॥ ५५.९ ॥ अञ्जनः कुक्कुटः कृष्णः पाण्डरश्चालोत्तमः । सहस्रशिखरश्चाद्रिः पारियात्रः सशृङ्गवान् ॥ ५५.१० ॥ पश्चिमेन तथा मेरोर्विस्कम्भात्पश्चिमाद्वहिः । एतेऽचलाः समाख्याताः शृणुष्वन्यांस्तथोत्तरान् ॥ ५५.११ ॥ शङ्खकूटोऽथ वृषभो हंसनाभस्तथाचलः । कपिलेन्द्रस्तथा शैलः सानुमान्नील एव च ॥ ५५.१२ ॥ स्वर्णशृङ्गी शातशृङ्गी पुष्पको मेघपर्वतः । विरजाक्षो वराहाद्रिर्मयूरो जारुधिस्तथा ॥ ५५.१३ ॥ इत्येते कथिता ब्रह्मन् ! मेरोरुत्तरतो नगाः । एतेषां पर्वतानान्तु द्रौण्योऽतीव मनोहराः ॥ ५५.१४ ॥ वनैरमलपानीयैः सरोभिरुपशोभिताः । तासु पुण्यकृतां जन्म मनुष्याणां द्विजोत्तम ॥ ५५.१५ ॥ एते भौमा द्विजश्रेष्ठ ! स्वर्गाः स्वर्गगुणाधिकाः । न तासु पुण्यपापानामपूर्वाणामुपार्जनम् ॥ ५५.१६ ॥ पुण्योपभोगा एवोक्ता देवानामपि तास्वपि । शीतान्ताद्येषु चैतषु शैलेषु द्विजसत्तम ॥ ५५.१७ ॥ विद्याधराणां यक्षाणां किन्नरोरगरक्षसाम् । देवानाञ्च महावासा गन्धर्वाणां च शोभनाः ॥ ५५.१८ ॥ महापुण्या मनोज्ञैश्च सदैवोपवनैर्युताः । सरांसि च मनोज्ञानि सर्वर्तुसुखदोऽनिलः ॥ ५५.१९ ॥ न चैतेषु मनुष्याणां वैमनस्यानि कुत्रचित् । तदेवं पार्थिवं पद्मं चतुष्पत्रं मयोदितम् ॥ ५५.२० ॥ भद्राश्चभारताद्यानि पत्राण्यस्य चतुर्दिशम् । भारतं नाम यद्वर्षं दक्षिणेन मयोदितम् ॥ ५५.२१ ॥ तत्कर्मभूमिर्नान्यत्र संप्राप्तिः पुण्यपापयोः । एतत्प्रधानं विज्ञेयं यत्र सर्वं प्रतिष्ठितम् ॥ ५५.२२ ॥ तस्मात्स्वर्गापवर्गौ च मानुष्यनारकावपि । तिर्यक्त्वमथवाप्यन्यत्नरः प्राप्नोति वै द्विज ॥ ५५.२३ ॥ इति श्रीमार्कण्डेयपुराणे भुवनकोशे पञ्चपञ्चाशोऽध्यायः _____________________________________________________________ षट्पञ्चाशोऽध्यायः ५६ मार्कण्डेय उवाच धराधरां जगद्योनेः पदं नारायणस्य च । ततः प्रवृत्ता या देवी गङ्गा त्रिपथगामिनी ॥ ५६.१ ॥ सा प्रविश्य सुधायोनिं सोममाधारमम्भसाम् । ततः सम्बध्यमानार्करश्मिसङ्गतिपावनी ॥ ५६.२ ॥ पपात मेरुपृष्ठे च सा चतुर्धा ततो ययौ । मेरुकूटतटान्तेभ्यो निपतन्ती ववर्तिता ॥ ५६.३ ॥ विकीर्यमाणसलिला निरालम्बा पपात सा । मन्दराद्येषु पादेषु प्रविभक्तोदका समम् ॥ ५६.४ ॥ चतुर्ष्वपि पपाताम्बुविभिन्नाङ्घ्रिशिलोच्चया । पूर्वा सीतेऽति विख्याता ययौ चैत्ररथं वनम् ॥ ५६.५ ॥ तत्प्लावयित्वा च ययौ वरुणोदं सरोवनम् । शीतान्तञ्च गिरिं तस्मात्ततश्चान्यान् गिरीन् क्रमात् ॥ ५६.६ ॥ गत्वा भुवं समासाद्य भद्राश्वाज्जलधिं गता । तथैवालकनन्दाख्या दक्षिणे गन्धमादने ॥ ५६.७ ॥ मेरुपादवनं गत्वा नन्दनं देवनन्दनम् । मानसञ्च महावेगात्प्लापयित्वा सरोवरम् ॥ ५६.८ ॥ आसाद्य शैलराजानं रम्यं हि शिखरन्तथा । तस्माच्च पर्वतान् सर्वान् दक्षिणोपक्रमोदितान् ॥ ५६.९ ॥ तान् प्लावयित्वा संप्राप्ता हिमवन्तं महागिरिम् । दधार तत्र तां शम्भुर्न मुमोच वृषध्वजः ॥ ५६.१० ॥ भघीरथेनोपवासैः स्तुत्या चाराधितो विभुः । तत्र मुक्ता च शर्वेण सप्तधा दक्षिणोदधिम् ॥ ५६.११ ॥ प्रविवेश त्रिधा प्राच्यां प्लावयन्ती महानदी । भगीरथरथस्यानु स्त्रोतसैकेन दक्षिणाम् ॥ ५६.१२ ॥ तथैव पश्चिमे पादे विपुले सा महानदी । सुचक्षुरिति विख्याता वैभ्राजं साचलं ययौ । ५६.१३। शीतोदञ्च सरस्तस्मात्प्लावयन्ती महानदी । सुचक्षुः पर्वतं प्राप्ता ततश्च त्रिशिखं गता ॥ ५६.१४ ॥ तस्मात्क्रमेण चाद्रीणां शिखरेषु निपत्य सा । केतुमालं समासाद्य प्रविष्टा लवणोदधिम् ॥ ५६.१५ ॥ सुपार्श्वन्तु तथैवाद्रिं मेरुपादं हि सा गता । (भद्रसोमेति) तत्र सोमेति विख्याता सा ययौ सवितुर्वनम् ॥ ५६.१६ ॥ तत्पावयन्ती संप्राप्ता महाभद्रं सरोवरम् । ततश्च शङ्खकूटं सा प्रयाता वै महानदी ॥ ५६.१७ ॥ तस्माच्च वृषभादीन् सा क्रमात्प्राप्य शिलोच्चयान् । महार्णवमनुप्राप्ता प्लावयित्वोत्तरान् कुरून् ॥ ५६.१८ ॥ एवमेषा मया गङ्गां कथिता ते द्विजर्षभ । जम्बुद्वीपनिवेशश्च वर्षाणि च यथातथम् ॥ ५६.१९ ॥ वसन्ति तेषु सर्वेषु प्रजाः किंपुरुषादिषु । सुखप्राया निरातङ्का न्यूनतोत्कर्षवर्जिताः ॥ ५६.२० ॥ नवस्वपि च वर्षेषु सप्त सप्त कुलाचलाः । एकैकस्मिंस्तथा देशे नद्यश्चाद्रिविनिः सृताः ॥ ५६.२१ ॥ यानि किंपुरुषाद्यानि वर्षाण्यष्टौ द्विजोत्तम । तेषूद्भिज्जानि तोयानि मेघवार्यत्र भारते ॥ ५६.२२ ॥ वार्क्षो स्वाभाविकी देश्या तोयोत्था मानसी तथा । कर्मजा च नृणां सिद्धर्वर्षेष्वेतेषु चाष्टसु ॥ ५६.२३ ॥ कामप्रदेभ्यो वृक्षेभ्यो वार्क्षो सिद्धिः स्वभावजा । स्वाभाविकी समाख्याता तृप्तिर्देश्या च दैशिकी ॥ ५६.२४ ॥ अपां शौक्ष्म्याच्च तोयोत्था ध्यानोपेता च मानसी । उपासनादिकार्यात्तु धर्मजा साप्युदाहृता ॥ ५६.२५ ॥ न चैतेषु युगावस्था नाध्यो व्याधयो न च । पुण्यापुण्यसमारम्भो नैव तेषु द्विजोत्तम ॥ ५६.२६ ॥ इति श्रीमार्कण्डेयपुराणे गङ्गावतारो नाम षट्पञ्चाशोऽध्यायः _____________________________________________________________ सप्तपञ्चाशोऽध्यायः ५७ क्रौष्टुकिरुवाच भगवन् ! कथितन्त्वेतज्जम्बूद्वीपं समासतः । यदेतद्भवता प्रोक्तं कर्म नान्यत्र पुण्यदम् ॥ ५७.१ ॥ पापाय वा महाभाग ! वर्जयित्वा तु भारतम् । इतः स्वर्गश्च मोक्षश्च मध्यञ्चान्तञ्च गम्यते ॥ ५७.२ ॥ न खल्वन्यत्र मर्त्यानां भूमौ कर्म विधीयते । तस्माद्विस्तरशो ब्रह्मन् ! ममैतद्भारतं वद ॥ ५७.३ ॥ ये चास्य भेदा यावन्तो यथावत्स्थितिरेव च । वर्षोऽयं द्विजशार्दूल ! ये चास्मिन् देशपर्वताः ॥ ५७.४ ॥ मार्कण्डेय उवाच भारतस्यास्य वर्षस्य नव भेदान्निबोध मे । समुद्रान्तरिता ज्ञेयास्ते त्वगम्याः परस्परम् ॥ ५७.५ ॥ इन्द्रद्वीपः कशेरुमांस्ताम्रवर्णो गभस्तिमान् । नागद्वीपस्तथा सौम्यो गान्धर्वो वारुणस्तथा ॥ ५७.६ ॥ अयन्तु नवमस्तेषां द्वीपः सागरसंवृतः । योजनानां हसस्त्रं वै द्वीपोऽयं दक्षिणोत्तरात् ॥ ५७.७ ॥ पूर्वे किराता यस्यान्ते पश्चिमे यवनास्तथा । ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्तः स्थिता द्विज ॥ ५७.८ ॥ इज्याध्यायवणिज्याद्यैः कर्मभिः कृतपावनाः । तेषां संव्यवहारश्च एभिः कर्मभिरिष्यते ॥ ५७.९ ॥ स्वर्गापवर्गप्राप्तिश्च पुण्यं पापञ्च वै तदा । महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ॥ ५७.१० ॥ विन्ध्यश्च पारियात्रश्च सप्तैवात्र कुलाचलाः । तेषां सहस्रशश्चान्ये भूधरा ये समीपगाः ॥ ५७.११ ॥ विस्तारोच्छ्रयिणो रम्या विपुलाश्चात्र सानवः । कोलाहलः सवैभ्राजो मन्दरो दर्दुराचलः ॥ ५७.१२ ॥ वातस्वनो वैद्युतश्च मैनाकः स्वरसस्तथा । तुङ्गप्रस्थो नागगिरी रोचनः पाण्डराचलः ॥ ५७.१३ ॥ पुष्पो गिरिर्दुर्जयन्तो रैवतोर्ऽबुद एव च । ऋष्यमूकः सगोमन्तः कूटशैलः कृतस्मरः ॥ ५७.१४ ॥ श्रीपर्वतश्चकोरश्च शतशोऽन्ये च पर्वताः । तैर्विमिश्रा जनपदा म्लेच्छाश्चार्याश्च भागशः ॥ ५७.१५ ॥ तैः पीयन्ते सरित्श्रेष्ठा यास्ताः सम्यङ्निबोध मे । गङ्गा सरस्वती सिन्धुश्चन्द्रभागा तथापरा ॥ ५७.१६ ॥ यमुना च शतद्रुश्च वितस्तेरावती कुहुः । गोमती धूतपापा च बाहुदा सदृशद्वती ॥ ५७.१७ ॥ विपाशा देविका रङ्क्षुर्निश्चीरा गण्डकी तथा । कौशिकी चापगा विप्र ! हिमवत्पादनिः सृताः ॥ ५७.१८ ॥ वेदस्मृतिर्वेदवती वृत्रघ्री सिन्धुरेव च । वेण्वा सानन्दनी चैव सदानीरा मही तथा ॥ ५७.१९ ॥ पारा चर्मण्वती नूपी विदिशा वेत्रवत्यपि । शिप्रा ह्यवर्णो च तथा पारियात्राश्रयाः स्मृताः ॥ ५७.२० ॥ शोणो महानदश्चैव नर्मदा सुरथाद्रिजा । मन्दाकिनी दशार्णा च चित्रकूटा तथापरा ॥ ५७.२१ ॥ चित्रोत्पला सतमसा करमोदा पिशाचिका । तथान्या पिप्पलिश्रोणिर्विपाशा वञ्जुला नदी ॥ ५७.२२ ॥ सुमेरुजा शुक्तिमती शकुली त्रिदिवाक्रमुः । (विन्ध्य) (स्कन्ध) पादप्रसूता वै तथान्या वेगवाहिनी ॥ ५७.२३ ॥ शिप्रा पयोष्णी निर्विन्ध्या तापी सनिषधावती । वेण्या वैतरणी चैव सिनीवाली कुमुद्वती ॥ ५७.२४ ॥ करतोया महागौरी दुर्गा चान्तः शिरा तथा । (ऋक्ष) (विन्ध्य) पादप्रसूतास्ता नद्यः पुण्यजलाः शुभाः ॥ ५७.२५ ॥ गोदावरी भीमरथा कृष्णा वेण्या तथापरा । तुङ्गभद्रा सुप्रयोगा वाह्या कावेर्यथापगा ॥ ५७.२६ ॥ (सह्य) (विन्ध्य) पादविनिष्क्रान्ता इत्येताः सरिदुत्तमाः । कृतमाला ताम्रपर्णो पुष्पजा सूत्पलावती ॥ ५७.२७ ॥ मलयाद्रिसमुद्भूता नद्यः शीतजलास्त्विमाः । पितृसोमर्षिकुल्या च इक्षुका त्रिदिवा च या ॥ ५७.२८ ॥ लाङ्गूलिनी वंशकरा महेन्द्रप्रभवाः स्मृताः । ऋषिकुल्या कुमारी च मन्दगा मन्दवाहिनी ॥ ५७.२९ ॥ कृपा पलाशिनी चैव शुक्तिमत्प्रभवाः स्मृताः । सर्वाः पुण्याः सरस्वत्यः सर्वा गङ्गाः समुद्रगाः ॥ ५७.३० ॥ विश्वस्य मातरः सर्वाः सर्वपापहराः स्मृताः । अन्याः सहस्रशश्चोक्ताः क्षुद्रनद्यो द्विजोत्तम ॥ ५७. ३१ ॥ प्रावृट्कालवहाः सन्ति सदाकालवहाश्च याः । मत्स्याश्वकूटाः कुल्याश्च कुन्तलाः काशिकोशलाः ॥ ५७.३२ ॥ अथर्वाश्चार्कलिङ्गाश्च मलकाश्च वृकैः सह । मध्यदेश्या जनपदाः प्रायशोऽमी प्रकीर्तिताः ॥ ५७.३३ ॥ सह्यस्य चोत्तरे या तु यत्र गोदावरी नदी । पृथिव्यामपि कृतस्त्रायां स प्रदेशो मनोरमः ॥ ५७.३४ ॥ गोवर्धनं पुरं रम्यं भार्गवस्य महात्मनः । वाह्लीका वाटधानाश्च आभीराः कालतोयकाः ॥ ५७.३५ ॥ अपरान्ताश्च शूद्राश्च पल्लवाश्चर्मखण्डिकाः । गान्धारा गबलाश्चैव सिन्धुसौवीरमद्रकाः ॥ ५७.३६ ॥ शतद्रुजाः कलिङ्गाश्च पारदा हालमूषिकाः । माठरा बहुभद्राश्च कैकेया दशमालिकाः ॥ ५७.३७ ॥ क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च । काम्बोजा दरदाश्चैव वर्वरा हर्षवर्धनाः ॥ ५७.३८ ॥ चीनाश्चैव तुखाराश्च बहुला बाह्यतोनराः । आत्रेयाश्च भरद्वाजाः पुष्कलाश्च कशेरुकाः ॥ ५७.३९ ॥ लम्पाकाः शूलकाराश्च चूलिका जागुडैः सह । औषधाश्चानिमद्राश्च किरातानाञ्च जातयः ॥ ५७.४० ॥ तामसा हंसमार्गाश्च काश्मीरास्तुङ्गनास्तथा । शूलिकाः कुहकाश्चैव ऊर्णा दर्वास्तथैव च ॥ ५७.४१ ॥ एते देशा ह्युदीच्यास्तु प्राच्यान्देशान्निबोध मे । अध्रारका मुदकरा अन्तर्गिर्या बहिर्गिराः ॥ ५७.४२ ॥ यथा प्रवङ्गा रङ्गेया मानदा मानवर्तिकाः । ब्राह्मोत्तराः प्रविजया भार्गवा ज्ञेयमल्लकाः ॥ ५७.४३ ॥ प्राग्ज्योतिषाश्च मद्राश्च विदेहास्ताम्रलिप्तकाः । मल्ला मगधगोमन्ताः प्राच्या जनपदाः स्मृताः ॥ ५७.४४ ॥ अथापरे जनपदा दक्षिणापथवासिनः । पुण्ड्राश्च केवलाश्चैव गोलाङ्गूलास्तथैव च ॥ ५७.४५ ॥ शैलूषा मूषिकाश्चैव कुसुमा नामवासकाः । महाराष्ट्रा माहिषका कलिङ्गाश्चैव सर्वशः ॥ ५७.४६ ॥ आभीराः सह वैशिक्या आढक्याः शबराश्च ये । पुलिन्दा विन्ध्यमौलेया वैदर्भा दण्डकैः सह ॥ ५७.४७ ॥ पौरिका मौलिकाश्चैव अश्मका भोगवर्धनाः । नैषिकाः कुन्तला अन्धा उदिभदा वनदारकाः ॥ ५७.४८ ॥ दाक्षिणात्यास्त्वमी देशा अपरान्तान्निबोध मे । सूर्पारकाः कालिबला दुर्गाश्चानीकटैः सह ॥ ५७.४९ ॥ पुलिन्दाश्च सुमीनाश्च रूपपाः स्वापदैः सह । तथा कुरुमिनश्चैव सर्वे चैव कठाक्षराः ॥ ५७.५० ॥ नासिक्यावाश्च ये चान्ये ये चैवोत्तरनर्मदाः । भीरुकच्छाः समाहेयाः सह सारस्वतैरपि ॥ ५७.५१ ॥ काश्मीराश्च सुराष्ट्राश्च अवन्त्याश्चार्बुदैः सह । इत्येते ह्यपरान्ताश्च शृणु विन्ध्यनिवासिनः ॥ ५७.५२ ॥ सरजाश्च करूषाश्च केरलाश्चोत्कलैः सह । उत्तमर्णा दशार्णाश्च भोज्याः किष्किन्धकैः सह ॥ ५७.५३ ॥ तोशलाः कोशलाश्चैव त्रैपुरा वैदिशास्तथा । तुम्बुरास्तुम्बुलाश्चैव पटवो नैषधेः सह ॥ ५७.५४ ॥ अन्नजास्तुष्टिकाराश्च वीरहोत्रा ह्यवन्तयः । एते जनपदाः सर्वे विन्ध्यपृष्ठनिवासिनः ॥ ५७.५५ ॥ अतो देशान् प्रवक्ष्यामि पर्वताश्रयिणश्च ये । नीहारा हंसमार्गाश्च कुरवो गुर्गणाः खसाः ॥ ५७.५६ ॥ कुन्तप्रावरणाश्चैव ऊर्णा दार्वाः सकृत्रकाः । त्रिगर्ता गालवाश्चैव किरातास्तामसैः सह ॥ ५७.५७ ॥ कृतत्रेतादिकश्चात्र चतुर्युगकृतो विधिः । एतत्तु भारतं वर्षं चतुः संस्थानसंस्थितम् ॥ ५७.५८ ॥ दक्षिणापरतो ह्यस्य पूर्वेण च महोदधिः । हिमवानुत्तरेणास्य कार्मुकस्य यथा गुणः ॥ ५७.५९ ॥ तदेतद्भारतं वर्षं सर्वबीजं द्विजोत्तम । ब्रह्मत्वममरेशत्वं देवत्वं मरुतस्तथा ॥ ५७.६० ॥ मृगपश्वप्सरोयोनिस्तद्वत्सर्वे सरीसृपाः । स्थावराणाञ्च सर्वेषामितो ब्रह्मन् ! शुभाशुभैः ॥ ५७.६१ ॥ प्रयाति कर्मभूर्ब्रह्मन् ! नान्या लोकेषु विद्यते । देवानामपि विप्रर्षे ! सदा एष मनोरथः ॥ ५७.६२ ॥ अपि मानुष्यमाप्स्यामो देवत्वात्प्रच्युताः क्षितौ । मनुष्यः कुरुते तत्तु यन्न शक्यं सुरासुरैः ॥ ५७.६३ ॥ तत्कर्मनिगडग्रस्तैः स्वकर्मख्यापनोत्सुकः । न किञ्चित्क्रियते कर्म सुखलेशोपबृंहितैः ॥ ५७.६४ ॥ इति श्रीमार्कण्डेयपुराणेठनद्यादिवर्णनऽ नाम सप्तपञ्चाशोऽध्यायः _____________________________________________________________ अष्टपञ्चाशोऽध्यायः ५८ क्रौष्टुकिरुवाच भगवन् ! कथितं सम्यक्भवता भारतं मम । सरितः पर्वता देशा ये च तत्र वसन्ति वै ॥ ५८.१ ॥ किन्तु कूर्मस्त्वया पूर्वं भारते भगवान् हरिः । कथितस्तस्य संस्थानं श्रोतुमिच्छाम्यशेषतः ॥ ५८.२ ॥ कथं स संस्थितो देवः कूर्मरूपी जनार्दनः । शुभाशुभं मनुष्याणां व्यज्यते च ततः कथम् । यथामुखं यथापादन्तस्य तद्ब्रूह्यशेषतः ॥ ५८.३ ॥ मार्कण्डेय उवाच प्राङ्मुखो भगवान् ! देवः कूर्मरूपी व्यवस्थितः । आक्रम्य भारतं वर्षं नवभेदमिदं द्विज ॥ ५८.४ ॥ नवधा संस्थितान्यस्य नक्षत्राणि समन्ततः । विषयाश्च द्विजश्रेष्ठ ! ये सम्यक्तान्निबोध मे ॥ ५८.५ ॥ वेदमन्त्रा विमाण्डव्याः शाल्वनीपास्तथा शकाः । उज्जिहानास्तथा वत्स ! घोषसंख्यास्तथा खसाः ॥ ५८.६ ॥ मध्ये सारस्वता मत्स्याः शूरसेनाः समाथुराः । धर्मारण्या ज्योतिषिका गौरग्रीवा गुडाश्मकाः ॥ ५८.७ ॥ कालकोटिसपाषण्डाः पारियात्रनिवासिनः । कापिङ्गलाः कुरुर्बाह्यस्तथैवोडुम्बरा जनाः ॥ ५८.८ ॥ वैदेहकाः सपाञ्चालाः संकेताः कङ्कमारुताः । गजाह्वयाश्च कूर्मस्य जलमध्यनिवासिनः ॥ ५८.९ ॥ कृत्तिका रोहिणी सौम्या एतेषां मध्यवासिनाम् । नक्षत्रत्रितयं विप्र ! शुभाशुभविपाकदम् ॥ ५८.१० ॥ वृषध्वजोऽञ्जनश्चैव जम्ब्वाख्यो मानवाचलः । शूर्पकर्णो व्याघ्रमुखः खर्मकः कर्वटाशनः ॥ ५८.११ ॥ तथा चन्द्रेश्वराश्चैव खशाश्च मगधास्तथा । गिरयो मैथिलाः शुभ्रास्तथा वदनदन्तुराः ॥ ५८.१२ ॥ प्राग्ज्योतिषाः सलौहित्याः सामुद्राः पुरुषादकाः । पुर्णोत्कटो भद्रगौरस्तथोदयगिरिर्द्विज ! ॥ ५८.१३ ॥ कशाया मेखलामुष्टास्ताम्रलिप्तैकपादपाः । वर्धमाना कोशलाश्च मुखे कूर्मस्य संश्थिताः ॥ ५८.१४ ॥ रौद्रः पुनर्वसुः पुष्यो नक्षत्रत्रितयं मुखे । पादे तु दक्षिणे देशाः क्रौष्टुके वदतः शृणु ॥ ५८.१५ ॥ कलिङ्गवङ्गजठराः कोशला मूषिकास्तथा । चेदयश्चोर्ध्वकर्णाश्च मत्स्याद्या विन्ध्यवासिनः ॥ ५८.१६ ॥ विदर्भा नारिकेलाश्च धर्मद्वीपास्तथैलिकाः । व्याघ्रग्रीवा महाग्रीवास्त्रैपुराः श्मश्रुधारिणः ॥ ५८.१७ ॥ कैष्किन्ध्या हैमकूटाश्च निषधाः कटकस्थलाः । दशार्णाहारिका नग्ना निषादाः काकुलालकाः ॥ ५८.१८ ॥ तथैव पर्णशबराः पादे वै पूर्वदक्षिणे । आश्लेषर्क्षं तथा पैत्र्यं फाल्गुण्यः प्रथदमास्तथा ॥ ५८.१९ ॥ नक्षत्रत्रितयं पादमाश्रितं पूर्वदक्षिणम् । लङ्का कालाजिनाश्चैव शैलिका निकटास्तथा ॥ ५८.२० ॥ महेन्द्रमलयाद्रौ च दुर्दुरे च वसन्ति ये । कर्कोटकवने ये च भृगुकच्छाः सकोङ्कणा ॥ ५८.२१ ॥ सर्वाश्चैव तथाभीरा वेण्यास्तीरनिवासिनः । अवन्तयो दासपुरास्तथैवाकणिनो जनाः ॥ ५८.२२ ॥ महाराष्ट्राः सकर्णाटा गोनर्दाश्चित्रकूटकाः । चोलाः कोलगिराश्चैव क्रौञ्चद्वीपजटाधराः ॥ ५८.२३ ॥ कावेरी ऋष्यमूकस्था नासिक्याश्चैव ये जनाः । शङ्खशुक्त्यादिवैदूर्यशैलप्रान्तचराश्च ये ॥ ५८.२४ ॥ तथा वारिचराः कोलाः चर्मपट्टनिवासिनः । गणबाह्याः पराः कृष्णा द्वीपवासनिवासिनः ॥ ५८.२५ ॥ सूर्याद्रौ कुमुदाद्रौ च ते वसन्ति तथा जनाः । औखावनाः सपिशिकास्तथा ये कर्मनायकाः ॥ ५८.२६ ॥ तक्षिणाः कौरुषा ये च ऋषिकास्तापसाश्रमाः । ऋषभाः सिहलाश्चैव तथा काञ्चीनिवासिनः ॥ ५८.२७ ॥ तिलङ्गा कुञ्जारदरीकच्छवासाश्च ये जनाः । ताम्रपर्णो तथा कुक्षिरिति कूर्मस्य दक्षिणः ॥ ५८.२८ ॥ फाल्गुन्यश्चोत्तरा हस्ता चित्रा चर्क्षत्रयं द्विज । कूर्मस्य दक्षिणे कुक्षौ बाह्यपादस्तथापरम् ॥ ५८.२९ ॥ काम्बोजाः पह्लवाश्चैव तथैव वहवामुखाः । तथा च सिन्दुसौवीराः सानर्ता वनितामुखाः ॥ ५८.३० ॥ द्रावणाः मार्गिकाः शूद्रा कर्णप्राधेयवर्वराः । किराताः पारदाः पाण्ड्यास्तथा पारशवाः कलाः ॥ ५८.३१ ॥ धूर्तका हैमगिरिकाः सिन्धुकालकवैरताः । सौराष्ट्रा दरदाश्चैव द्राविडाश्च महार्णवाः ॥ ५८.३२ ॥ एते जनपदाः पादे स्थिता वै दक्षिणेऽपरे । स्वात्यो विशाखा मैत्रञ्च नक्षत्रत्रयमेव च ॥ ५८.३३ ॥ मणिमेघः क्षुराद्रिश्च खञ्जनोऽस्तगिरिस्तथा । अपरान्तिका हैहयाश्च शान्तिका विप्रशस्तकाः ॥ ५८.३४ ॥ कौङ्कणाः पञ्चनदका वामना ह्यवरास्तथा । तारक्षुरा ह्यङ्गतकाः कर्कराः शाल्मवेश्मकाः ॥ ५८.३५ ॥ गुरुस्विराः फल्गुणका वेणुमत्याञ्च ये जनाः । तथा फल्गुलुका घोरा गुरुहाश्च कलास्तथा ॥ ५८.३६ ॥ एकेक्षणा वाजिकेशा दीर्घग्रीवाः सचूलिकाः । अश्वकेशास्तथा पुच्छे जनाः कूर्मस्य संस्थिताः ॥ ५८.३७ ॥ ऐन्द्रं मूलन्तथाषाग नक्षत्रत्रयमेव च । माण्डव्याश्चण्डखाराश्च अश्वकालनतास्तथा ॥ ५८.३८ ॥ कुन्यतालडहाश्चैव स्त्रीबाह्या बालिक्रास्तथा । नृसिंहा वेणुमत्याञ्च बलावस्थास्तथापरे ॥ ५८.३९ ॥ धर्मबद्धास्तथालूका उरुकर्मस्थिता जनाः । वामपादे जनाः पार्श्वे स्थिताः कूर्मस्य भागुरे ॥ ५८.४० ॥ आषाढाश्रवणे चैव धनिष्ठा यत्र संस्थिता । कैलासो हिमवांश्चैव धनुष्मान् वसुमांस्तथा ॥ ५८.४१ ॥ क्रौञ्चाः कुरुवकाश्चैव क्षुद्रवीणाश्च ये जनाः । रसालया सकैकेया भोगप्रस्थाः सयामुनाः ॥ ५८.४२ ॥ अन्तर्द्वोपास्त्रिगर्ताश्च अग्नीज्याः सार्दना जनाः । तथैवाश्वमुखाः प्राप्ताश्चिविडाः केशधारिणः ॥ ५८.४३ ॥ दासेरका वाटधानाः शवधानास्तथैव च । पुष्कलाधमकैरातास्तथा तक्षशिलाश्रयाः ॥ ५८.४४ ॥ अम्बाला मालवा मद्रा वेणुकाः सवदन्तिकाः । पिङ्गला मानकलहा हूणाः कोहलकास्तथा ॥ ५८.४५ ॥ माण्डव्या भूतियुवकाः शातका हेमतारकाः । यशोमत्याः सगान्धाराः खरसागरराशयः ॥ ५८.४६ ॥ यौधेया दासमेयाश्च राजन्याः श्यामकास्तथा । क्षेमधूर्ताश्च कूर्मस्य वामकुक्षिमुपाश्रिताः ॥ ५८.४७ ॥ वारुणञ्चात्र नक्षत्रं तत्र प्रौष्ठपदाद्वयम् । येन किन्नरराज्यञ्च पुशुपालं सकीचकम् ॥ ५८.४८ ॥ काश्मीरकं तथा राष्ट्रमभिसारजनस्तथा । दवदास्त्वङ्गनाश्चैव कुलटा वनराष्ट्रकाः ॥ ५८.४९ ॥ सैरिष्ठा ब्रह्मपुरकास्तथैव वनवाह्यकाः । किरातकौशिका नन्दा जनाः पह्णवलोलनाः ॥ ५८.५० ॥ दार्वादा मरकाश्चैव कुरटाश्चान्नदारकाः । एकपादा खशा घोषाः स्वर्गभौमानवद्यकाः ॥ ५८.५१ ॥ तथा सयवना हिङ्गाश्चीरप्रावरणाश्च ये । त्रिनेत्राः पौरवाश्चैव गन्धर्वाश्च द्विजात्तम ॥ ५८.५२ ॥ पूर्वोत्तरन्तु कूर्मस्य पदामेते समाश्रिताः । रेवत्यश्चाश्विदैवत्यं याम्यञ्चर्क्षमिति त्रयम् ॥ ५८.५३ ॥ तत्र पादे समाख्यातं पाकाय मुनिसत्तम । देशेष्वेतेषु चैतानि नक्षत्राण्यपि वै द्विज ॥ ५८.५४ ॥ एतत्पीडा अमी देशाः पीड्यन्ते ये क्रमोदिताः । यान्ति चाभ्युदयं विप्र ! ग्रहैः सम्यगवस्थितैः ॥ ५८.५५ ॥ यस्यर्क्षस्य पतिर्यो वै ग्रहस्तद्भावितो भयम् । तद्देशस्य मुनिश्रेष्ठ ! तदुत्कर्षे शुभागमः ॥ ५८.५६ ॥ प्रत्येकं देशसामान्यं नक्षत्रग्रहसम्भवम् । भयं लोकस्य भवति शोभनं वा द्विजोत्तम ॥ ५८.५७ ॥ स्वर्क्षैरशोभनैर्जन्तोः सामान्यमिति भीतिदम् । ग्रहैर्भवति पीडोत्थमल्पायासमशोभनम् ॥ ५८.५८ ॥ तथैव शोभनः पाको दुः स्थितैश्च तथा ग्रहैः । अल्पोपकाराय नृणां देशज्ञैश्चात्मनो बुधैः ॥ ५८.५९ ॥ द्रव्ये गोष्ठेऽथ भृत्येषु सुहृत्सु तनयेषु वा । भार्यायाञ्च ग्रहे दुस्थे भयं पुण्यवतां नृणाम् ॥ ५८.६० ॥ आत्मन्यथाल्पपुण्यानां सर्वत्रैवातिपापिनाम् । नैकत्रापि ह्यपापानां भयमस्ति कदाचन ॥ ५८.६१ ॥ दिग्देशजनसामान्यं नृपसामान्यमात्मजम् । नक्षत्रग्रहसामान्यं नरो भुङ्क्ते शुभाशुभम् ॥ ५८.६२ ॥ परस्पराभिरक्षा च ग्रहादौस्थ्येन जायते । एतेभ्य एव विप्रेन्द्र ! शुभहानिस्तथाशुभैः ॥ ५८.६३ ॥ यदेतत्कूर्मसंस्थानं नक्षत्रेषु मयोदितम् । एतत्तु देशसामान्यमशुभं शुभमेव च ॥ ५८.६४ ॥ तस्माद्विज्ञाय देशर्क्षं ग्रहपीडान्तथात्मनः । कुर्वोत शान्तिं मेधावी लोकवादांश्च सत्तम ॥ ५८.६५ ॥ आकाशाद्देवतानाञ्च दैत्यादीनाञ्च दौर्हृदाः । पृथ्व्यां पतन्ति ते लोके लोकवादा इति श्रुताः ॥ ५८.६६ ॥ तां तथैव बुधः कुर्यात्लोकवादान्न हापयेत् । तेषान्तत्करणान्नॄणां युक्तो दुष्टागमक्षयः ॥ ५८.६७ ॥ शुभोदयं प्रहानिञ्च पापानां द्विजसत्तम । प्रज्ञाहानिं प्रकुर्युस्ते द्रव्यादीनाञ्च कुर्वते ॥ ५८.६८ ॥ तस्माच्छान्तिपरः प्राज्ञो लोकवादरतस्तथा । लोकवादांश्च शान्तीश्च ग्रहपीडासु कारयेत् ॥ ५८.६९ ॥ अद्रोहानुपवासांश्च शस्तं चैत्यादिवन्दनम् । जपं होमं तथा दानं स्त्रानं क्रोधादिवर्जनम् ॥ ५८.७० ॥ अद्रोहः सर्वभूतेषु मैत्रीं कुर्याच्च पण्डितः । वर्जयेदसतीं वाचमतिवादांस्तथैव च ॥ ५८.७१ ॥ ग्रहपूजाञ्च कुर्वोत सर्वपीडासु मानवः । एवं शाम्यन्त्यशेषाणि घोराणि द्विजसत्तम ॥ ५८.७२ ॥ प्रयतानां मनुष्याणां ग्रहर्क्षोत्थान्यशेषतः । एष कूर्मो मया ख्यातो भारते भगवान् विभुः ॥ ५८.७३ ॥ नारायणो ह्यचिन्त्यात्मा यत्र सर्वं प्रतिष्ठितम् । तत्र देवाः स्थिताः सर्वे प्रतिनक्षत्रसंश्रयाः ॥ ५८.७४ ॥ तथा मध्ये हुतवहः पृथ्वी सोमश्च वै द्विज । मेषादयस्त्रयो मध्ये मुखे द्वौ मिथुनादिकौ ॥ ५८.७५ ॥ प्राग्दक्षिणे तथा पादे कर्कसिंहौ व्यवस्थितौ । सिंहकन्यातुलाश्चैव कुक्षौ राशैत्रयं स्थितम् ॥ ५८.७६ ॥ तुलाथ वृश्चिकाश्चोभौ पादे दक्षिणपश्चिमे । पृष्ठे च वृश्चिकेनैव सह धन्वी व्यवस्थितः ॥ ५८.७७ ॥ वायव्ये चास्य वै पादे धनुर्ग्राहादिकं त्रयम् । कुम्भमीनौ तथैवास्य उत्तरां कुक्षिमाश्रितौ ॥ ५८.७८ ॥ मीनमेषौ द्विजश्रेष्ठ ! पादे पूर्वोत्तरे स्थितौ । कूर्मे देशास्तथर्क्षाणि देशेष्वेतेषु वै द्विज ॥ ५८.७९ ॥ राशयश्च तथर्क्षेषु ग्रहराशिष्ववस्थिताः । तस्माद्ग्रहर्क्षपीडासु देशपीडां विनिर्दिशेत् ॥ ५८.८० ॥ तत्र स्त्रात्वा प्रकुर्वोत दानहोमादिकं विधिम् । स एष वैष्णवः पादो ब्रह्मा मध्ये ग्रहस्य यः । नारायणाख्योऽचिन्त्यात्मा कारणं जगतः प्रभुः ॥ ५८.८१ ॥ इति श्रीमार्कण्डेयपुराणे कूर्मनिवेशो नामाष्टपञ्चाशोऽध्यायः _____________________________________________________________ ऊनषष्टितमोऽध्यायः ५९ मार्कण्डेय उवाच एवन्तु भारतं वर्षं यथावत्कथितं मुने । कृतं त्रेता द्वापरञ्च तथाथिष्यं चतुष्टयम् ॥ ५९.१ ॥ अत्रैवैतद्युगानान्तु चातुर्वर्ण्योऽत्र वै द्विज । चत्वारि त्रीणि द्वे चैव तथैकञ्च शरच्छतम् ॥ ५९.२ ॥ जीवन्त्यत्र नरा ब्रह्मन् ! कृतत्रेतादिके क्रमात् । देवकूटस्य पूर्वस्य शैलेन्द्रस्य महात्मनः ॥ ५९.३ ॥ पूर्वेण यत्स्थितं वर्षं भद्राश्वं तन्निबोध मे । श्वेतपर्णश्च नीलश्च शैवालश्चाचलोत्तमः ॥ ५९.४ ॥ कौरञ्जः पर्णशालाग्रः पञ्चैते तु कुलाचलाः । तेषां प्रसूतिरन्ये ये बहवः क्षुद्रपर्वताः ॥ ५९.५ ॥ तैर्विशिष्टा जनपदा नानारूपाः सहस्रशः । ततः कुमुदसंकाशाः शुद्धसानुसुमङ्गलाः ॥ ५९.६ ॥ इत्येवमादयोऽन्येऽपि शतशोऽथ सहस्रशः । सीता शङ्खावती भद्रा चक्रावर्तादिकास्तथा ॥ ५९.७ ॥ नद्योऽथ बह्व्यो विस्तीर्णाः शीततोयौघवाहिकाः । अत्र वर्षे नराः शङ्खशुद्धहेमसमप्रभाः ॥ ५९.८ ॥ दिव्यसङ्गमिनः पुण्या दशवर्षशतायुषः । मन्दोत्तमौ न तेषु स्तः सर्वे ते समदर्शनाः ॥ ५९.९ ॥ तितिक्षादिभिरष्टाभैः प्रकृत्या ते गुणैर्युताः । तत्राप्यश्वशिरा देवश्चतुर्बाहुर्जनार्दनः ॥ ५९.१० ॥ शिरोहृदयोमेढ्राङ्घ्रिहस्तैश्चाक्षित्रयान्वितः । तस्याप्यथैवं विषया विज्ञेया जगतः प्रभोः ॥ ५९.११ ॥ केतुमालमतो वर्षं निबोध मम पश्चिमम् । विशालः कम्बलः कृष्णो जयन्तो हरिपर्वतः ॥ ५९.१२ ॥ विशोको वर्धमानश्च सप्तैते कुलपर्वताः । अन्ये सहस्रशः शैला येषु लोकगणः स्थितः ॥ ५९.१३ ॥ मौलयस्ते महाकायाः शाकपोतकम्भकाः । अङ्गुलप्रमुखाश्चापि वसन्ति शतशो जनाः ॥ ५९.१४ ॥ ये पिबन्ति महानद्यो वङ्क्षुं श्यामां सकम्बलाम् । अमोघां कामिनीं श्यामां तथैवान्याः सहस्रशः ॥ ५९.१५ ॥ अत्राप्यायुः समं पूर्वैरत्रापि भगवान् हरिः । वराहरूपी पादास्यहृत्पृष्ठपार्श्वतस्तथा ॥ ५९.१६ ॥ त्रिनक्षत्रयुते देशे नक्षत्राणि शुभानि च । इत्येतत्केतुमालन्ते कथितं मुनिसत्तम ॥ ५९.१७ ॥ अतः परं कुरून् वक्ष्ये निबोधेह ममोत्तरान् । तत्र वृक्षा मधुफला नित्यपुष्पफलोपगाः ॥ ५९.१८ ॥ वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च । सर्वकामप्रदास्ते हि सर्वकामफलप्रदाः ॥ ५९.१९ ॥ भूमिर्मणिमयी वायुः सुगन्धः सर्वदा सुखः । जायन्ते मानवास्तत्र देवलोकपरिच्युताः ॥ ५९.२० ॥ मिथुनानि प्रसूयन्ते समकालस्थितानि वै । अन्योन्यमनुरक्तानि चक्रवाकोपमानि च ॥ ५९.२१ ॥ चतुर्दशसहस्राणि तेषां सार्धानि वै स्थितिः । चन्द्रकान्तश्च शैलेन्द्रः सूर्यकान्तस्तथापरः ॥ ५९.२२ ॥ तस्मिन् कुलाचलौ वर्षे तन्मध्ये च महानदी । भद्रसोमा प्रयात्युर्व्यां पुण्यामलजलौघिनी ॥ ५९.२३ ॥ सहस्रशस्तथैवान्या नद्यो वर्षेऽपि चोत्तरे । तथान्याः क्षीरवाहिन्यो घृतवाहिन्य एव च ॥ ५९.२४ ॥ दध्नो ह्रदास्तथा तत्र तथान्ये चानुपर्वताः । अमृतास्वादकल्पानि फलानि विविधानि च ॥ ५९.२५ ॥ वनेषु तेषु वर्षेषु शतशोऽथ सहस्रशः । तत्रापि भगवान् विष्णुः प्राक्शिरा मत्स्यरूपवान् ॥ ५९.२६ ॥ विभक्तो नवधा विप्र ! नक्षत्राणां त्रयं त्रयम् । दिशस्तथापि नवधा विभक्ता मुनिसत्तम ॥ ५९.२७ ॥ चन्द्रद्वीपः समुद्रे च भद्रद्वीपस्तथापरः । तत्रापि पुण्यो विख्यातः समुद्रान्तर्महामुने ॥ ५९.२८ ॥ इत्येतत्कथितं ब्रह्मन् ! कुरुवर्षं मयोत्तरम् । शृणु किंपुरुषादीनि वर्षाणि गदतो मम ॥ ५९.२९ ॥ इति श्रीमार्कण्डेयपुराणेठौत्तरकुरुकथनंऽ नामैकोनषष्टितमोऽध्यायः _____________________________________________________________ षष्टितमोऽध्यायः ६० मार्कण्डेय उवाच यत्तु किम्पुरुषं वर्षं तत्प्रवक्ष्याम्यहं द्विज । यत्रायुर्दशसाहस्त्रं पुरुषाणां वपुष्मताम् ॥ ६०.१ ॥ अनामया ह्यशोकाश्च नरा यत्र तथा स्त्रियः । प्लक्षः षण्डश्च तत्रोक्तः सुमहान्नन्दनोपमः ॥ ६०.२ ॥ तस्य ते वै फलरसं पिबन्तः पुरुषाः सदा । स्थिरयौवननिष्पन्नाः स्त्रियश्चोत्पलगन्धिकाः ॥ ६०.३ ॥ अतः परं किंपुरुषाद्धरिवर्षं प्रचक्ष्यते । महारजतसङ्काशा जायन्ते तत्र मानवाः ॥ ६०.४ ॥ देवलोकच्युताः सर्वे देवरूपाश्च सर्वशः । हरिवर्षे नराः सर्वे पिबन्तीक्षुरसं शुभम् ॥ ६०.५ ॥ न जरा बाधते तत्र न जीर्यन्ते च कर्हिचित् । तावन्तमेव ते कालं जीवन्त्यथ निरामयाः ॥ ६०.६ ॥ मेरुवर्षं मया प्रोक्तं मध्यमं यदिलावृतम् । न तत्र सूर्यस्तपति न ते जीर्यन्ति मानवाः ॥ ६०.७ ॥ लभन्ते नात्मलाभञ्च रश्मयश्चन्द्रसूर्ययोः । नक्षत्राणां ग्रहाणाञ्च मेरोस्तत्र परा द्युतिः ॥ ६०.८ ॥ पद्मप्रभाः पद्मगन्धा जम्बूफलरसाशिनः । पद्मपत्रायताक्षास्तु जायन्ते तत्र मानवाः ॥ ६०.९ ॥ वर्षाणान्तु सहस्राणि तत्राप्यायुस्त्रयोदश । सरावाकारसंस्तारो मेरुमध्ये इलावृते ॥ ६०.१० ॥ मेरुस्तत्र महाशैलस्तदाख्यातमिलावृतम् । रम्यकं वर्षमस्माच्च कथयिष्ये निबोध तत् ॥ ६०.११ ॥ वृक्षस्तत्रापि चोत्तुङ्गो न्यग्रोधो हरितच्छदः । तस्यापि ते फलरसं पिबन्तो वर्तयन्ति वै ॥ ६०.१२ ॥ वर्षायुतायुषस्तत्र नरास्तत्फलभोगिनः । रतिप्रधानविमला जरादौर्गन्ध्यवर्जिताः ॥ ६०.१३ ॥ तस्मादथोत्तरं वर्षं नाम्ना ख्यातं हिरण्मयम् । हिरण्वती नदी यत्र प्रभूतकमलोज्ज्वला ॥ ६०.१४ ॥ महाबलाः सतेजस्का जायन्ते तत्र मानवाः । महाकाया महासत्त्वा धनिनः प्रियदर्शनाः ॥ ६०.१५ ॥ इति श्रीमार्कण्डेयपुराणेठकिंपुरुषादिवर्षवर्णनम्ऽ नाम षष्टितमोऽध्यायः _____________________________________________________________ एकषष्टितमोऽध्यायः ६१ क्रौष्टुकिरुवाच कथितं भवता सम्यग्यत्पृष्टोऽसि महामुने । भूसमुद्रादिसंस्थानं प्रमाणानि तथा ग्रहाः ॥ ६१.१ ॥ तेषाञ्चैव प्रमाणञ्च नक्षत्राणाञ्च संस्थितिः । भूरादयस्तथा लोकाः पातालान्यखिलान्यपि ॥ ६१.२ ॥ स्वायम्भुवं तथा ख्यातं मुने ! मन्वन्तरं मम । तदन्तराण्यहं श्रोतुमिच्छे मन्वन्तराणि वै । मन्वन्तराधिपान् देवानृषींस्तत्तनयान्नृपान् ॥ ६१.३ ॥ मार्कण्डेय उवाच मन्वन्तरं मयाख्यातं तव स्वायम्भुवं च यत् । स्वारोचिषाख्यमन्यत्तु शृणु तस्मादनन्तरम् ॥ ६१.४ ॥ कश्चिद्द्विजातिप्रवरः पुरेऽभूदरुणास्पदे । वरुणायास्तटे विप्रो रूपेणात्यश्विनावपि ॥ ६१.५ ॥ मृदुस्वभावः सद्वृत्तो वेदवेदाङ्गपारगः । सदातिथिप्रियो रात्रावागतानां समाश्रयः ॥ ६१.६ ॥ तस्य बुद्धिरियं त्वासीदहं पश्ये वसुन्धराम् । अतिरम्यवनोद्यानां नानानगरशोभिताम् ॥ ६१.७ ॥ अथागतो।ञतिथिः कश्चित्कदाचित्तस्य वेश्मनि । नानौषधिप्रभावज्ञो मन्त्रविद्याविशारदः ॥ ६१.८ ॥ अभ्यर्थितस्तु तेनासौ श्रद्धापूतेन चेतसा । तस्याचख्यौ स देशांश्च रम्याणि नगराणि च ॥ ६१.९ ॥ वनानि नद्यः शैलांश्च पुण्यान्यायतनानि च । स ततो विस्मयाविष्टः प्राह तं द्विजसत्तमम् ॥ ६१.१० ॥ अनेकदेशदर्शित्वेनातिश्रमसमन्वितः । त्वं नातिवृद्धो वयसा नातिवृत्तश्च यौवनात् । कथमल्पेन कालेन पृथिवीमटसि द्विज ॥ ६१.११ ॥ ब्राह्मण उवाच मन्त्रौषधिप्रभावेण विप्राप्रतिहता गतिः । योजनानां सहस्रं हि दिनार्धेन व्रजाम्यम् ॥ ६१.१२ ॥ मार्कण्डेय उवाच ततः स विप्रस्तं भूयः प्रत्युवाचेदमादरात् । श्रद्धधानो वचस्तस्य ब्राह्मणस्य विपश्चितः ॥ ६१.१३ ॥ मम प्रसादं भगवन् ! कुरु मन्त्रप्रभावजम् । द्रष्टुमेतां मम महीमतीवेच्छा प्रवर्तते ॥ ६१.१४ ॥ प्रादात्स ब्राह्मणश्चास्मै पादलेपमुदारधीः । अभिमन्त्रयामास दिशं तेनाख्याताञ्च यत्नतः ॥ ६१.१५ ॥ तेनानुलिप्तपादोऽथ स द्विजो द्विजसत्तम । हिमवन्तमगाद्द्रष्टुं नानाप्रस्त्रवणान्वितम् ॥ ६१.१६ ॥ सहस्रं योजनानां हि दिनार्धेन व्रजामि यत् । आयास्यामीति सञ्चिन्त्य तदर्धेनापरेण हि ॥ ६१.१७ ॥ सम्प्राप्तो हिमवत्पृष्ठं नातिश्रान्ततनुर्द्विज । विचचार ततस्तत्र तुहिनाचलभूतले ॥ ६१.१८ ॥ पादाक्रान्तेन तस्याथ तुहिनेन विलीयता । प्रक्षालितः पादलेपः परमौषधिसम्भः ॥ ६१.१९ ॥ ततो जडगतिः सोऽथ इतश्चेतश्च पर्यटन् । ददर्शातिमनोज्ञानि सानूनि हिमभूभृतः ॥ ६१.२० ॥ सिद्धगन्धर्वजुष्टानि किन्नराभिरतानि च । क्रीडाविहाररम्याणि देवादीनामितस्ततः ॥ ६१.२१ ॥ दिव्याप्सरोगणशतैराकीर्णान्यवलोकयन् । नातृप्यत द्विजश्रेष्ठः प्रोद्भूतपुलको मुने ॥ ६१.२२ ॥ क्वचित्प्रस्त्रवणाद्भ्रष्टजलपातमनोरमम् । प्रनृत्यच्छिखिकेकाभिरन्यतश्च निनादितम् ॥ ६१.२३ ॥ दात्यूहकोयष्टिकाद्यैः क्वचिच्चातिमनोहरैः । पुंस्कोकिलकलालापैः श्रुतिहारिभिरन्वितम् ॥ ६१.२४ ॥ प्रफुल्लतरुगन्धेन वासितानिलवीजितम् । मुदा युक्तः स ददृशे हिमवन्तं महागिरिम् ॥ ६१.२५ ॥ दृष्ट्वा चैतं द्विजसुतो हिमवन्तं महाचलम् । श्वो द्रक्ष्यामीति संचिन्त्य मतिञ्चक्रे गृहं प्रति ॥ ६१.२६ ॥ विभ्रष्टपादलेपोऽथ चिरेण जडितक्रमः । चिन्तयामास किमिदं मयाज्ञानादनुष्ठितम् ॥ ६१.२७ ॥ यदि प्रलेपो नष्टो मे विलीनो हिमवारिणा । शैलोऽतिदुर्गमश्चायं दूरञ्चाहमिहागतः ॥ ६१.२८ ॥ प्रयास्यामि क्रियाहानिमग्निशुश्रूषणादिकम् । कथमत्र करिष्यामि सङ्कटं महदागतम् ॥ ६१.२९ ॥ इदं रम्यमिदं रम्यमित्यस्मिन् वरपर्वते । शक्तदृष्टिरहं तृप्तिं न यास्येऽब्दशतैरपि ॥ ६१.३० ॥ किन्नराणां कलालापाः समन्ताच्छ्रोत्रहारिणः । प्रफुल्लतरुगन्धांश्च घ्राणमत्यन्तमृच्छति ॥ ६१.३१ ॥ सुखस्पर्शस्तथा वायुः फलानि रसवन्ति च । हरन्ति प्रसभं चेतो मनोज्ञानि सरांसि च ॥ ६१.३२ ॥ एवं गते तु पश्येयं यदि कञ्चित्तपोनिधिम् । स ममोपदिशेन्मार्गं गमनाय गृहं प्रति ॥ ६१.३३ ॥ मार्कण्डेय उवाच स एवं चिन्तयन् विप्रो बभ्राम च हिमाचले । भ्रष्टपादौषधिबलो वैक्लवं परमं गतः ॥ ६१.३४ ॥ तं ददर्श भ्रमन्तञ्च मुनिश्रेष्ठं वरूथिनी । वराप्सरा महाभागा मौलेया रूपशालिनी ॥ ६१.३५ ॥ तस्मिन् दृष्टे ततः साभूद्द्विजवर्ये वरूथिनी । मदनाकृष्टहृदया सानुरागा हि तत्क्षणात् ॥ ६१.३६ ॥ चिन्तयामास को न्वेष रमणीयतमाकृतिः । सफलं मे भवेज्जन्म यदि मां नावमन्यते ॥ ६१.३७ ॥ अहोऽस्य रूपमाधुर्यमहोऽस्य ललिता गतिः । अहो गम्भीरता दृष्टेः कुतोऽस्य सदृशो भुवि ॥ ६१.३८ ॥ दृष्टा देवास्तथा दैत्याः सिद्धगन्धर्वपन्नगाः । कथमेकोऽपि नास्त्यस्य तुल्यरूपो महात्मनः ॥ ६१.३९ ॥ यथाहमस्मिन्मय्येष सानुरागस्तथा यदि । भवेदत्र मया कार्यस्तत्कृतः पुण्यसञ्चयः ॥ ६१.४० ॥ यद्येष मयि सुस्त्रिग्धां दृष्टिमद्य निपातयेत् । कृतपुण्या न मत्तोऽन्या त्रैलोक्ये वनिता ततः ॥ ६१.४१ ॥ मार्कण्डेय उवाच एवं सञ्चिन्तयन्ती सा दिव्ययोषित्स्मरातुरा । आत्मानं दर्शयामास कमनीयतराकृतिम् ॥ ६१.४२ ॥ तान्तु दृष्ट्वा द्विजसुतश्चारुरूपां वरूथिनीम् । सोपचारं समागम्य वाक्यमेतदुवाच ह ॥ ६१.४३ ॥ का त्वं कमलगर्भाभे कस्य किं वानुतिष्ठसि । ब्राह्मणोऽहमिहायातो नगरादरुणास्पदात् ॥ ६१.४४ ॥ पादलेपोऽत्र मे ध्वस्तो विलीनो हिमवारिणा । यस्यानुभावादत्राहमागतो मदिरेक्षणे ॥ ६१.४५ ॥ वरूथिन्युवाच मौलेयाहं महाभागा नाम्ना ख्याता वरूथिनी । विचरामि सदैवात्र रमणीये महाचले ॥ ६१.४६ ॥ साहं त्वद्दर्शनाद्विप्र ! कामवक्तव्यताङ्गता । प्रशाधि यन्मया कार्यं त्वदधीनास्मि साम्प्रतम् ॥ ६१.४७ ॥ ब्राह्मण उवाच येनोपायेन गच्छेयं निजगेहं शुचिस्मिते । तन्ममाचक्ष्व कल्याणि हानिर्नोऽखिलकर्मणाम् ॥ ६१.४८ ॥ नित्यनैमित्तिकानान्तु महाहानिर्द्विजन्मनः । भवत्यतस्त्वं हे भद्रे ! मामुद्धर हिमालयात् ॥ ६१.४९ ॥ प्रशस्यते न प्रवासो ब्राह्मणानां कदाचम । अपराद्धं न मे भीरु देशदर्शनकौतुकम् ॥ ६१.५० ॥ सतो गृहे द्विजाग्र्यस्य निष्पत्तिः सर्वकर्मणाम् । नित्यनैमित्तिकानाञ्च हानिरेवं प्रवासिनः ॥ ६१.५१ ॥ सा त्वं किं बहुनोक्तेन तथा कुरु यशस्विनि । यथा नास्तं गेत सूर्ये पश्यामि निजमालयम् ॥ ६१.५२ ॥ वरूथिन्युवाच मैवं ब्रूहि महाभाग ! मा भूत्स दिवसो मम । मां परित्यज्य यत्र त्वं निजगेहमुपैष्यसि ॥ ६१.५३ ॥ अहो रम्यतरः स्वर्गो न यतो द्विजनन्दन । अतो वयं परित्यज्य तिष्ठामोऽत्र सुरालयम् ॥ ६१.५४ ॥ स त्वं सह मया कान्त ! कान्तेऽत्र तुहिनाचले । रममाणो न मर्त्यानां बान्धवानां स्मरिष्यसि ॥ ६१.५५ ॥ स्त्रजो वस्त्राण्यलङ्कारान् भोगभोज्यानुलेपनम् । दास्याम्यत्र तथाहन्ते स्मरेण वशगा हृता ॥ ६१.५६ ॥ वीणावेणुस्वनं गीतं किन्नराणां मनोरमम् । अङ्गाह्लादकरो वायुरुष्णान्नमुदकं शुचि ॥ ६१.५७ ॥ मनोभिलषिता शय्या सुगन्धमनुलेपनम् । इहासतो महाभाग गृहे किन्ते निजेऽधिकम् ॥ ६१.५८ ॥ इहासतो नैव जरा कदाचित्ते भविष्यति । त्रिदशानामियं भूमिर्यौवनोपचयप्रदा ॥ ६१.५९ ॥ इत्युक्त्वा सानुरागा सा सहसा कमलेक्षणा । आलिलिङ्ग प्रसीदेति वदन्ती कलमुन्मनाः ॥ ६१.६० ॥ ब्राह्मण उवाच मा मां स्प्राक्षीर्व्रजान्यत्र दुष्टे यः सदृशस्तव । मयान्यथा याचिता त्वमन्यथैवाप्युपैषि माम् ॥ ६१.६१ ॥ सायं प्रातर्हुतं हव्यं लोकान् यच्छति शाश्वतान् । त्रैलोक्यमेतदखिलं मूढे इव्ये प्रतिष्ठितम् ॥ ६१.६२ ॥ वरूथिन्युवाच किं ते नाहं प्रिया विप्र ! रमणीयो न किं गिरिः । गन्धर्वान् किन्नरादींश्च त्यक्त्वाभीष्टो हि कस्तव ॥ ६१.६३ ॥ निजमालयमप्यस्माद्भवान् यास्यत्यसंशयम् । स्वल्पकालं मया सार्धं भुङ्क्षव भोगान् सुदुर्लभान् ॥ ६१.६४ ॥ ब्राह्मण उवाच अष्टावात्मगुणा ये हि तेषामादौ दया द्विज । तां करोषि कथं न त्वं मयि सद्धर्मपालक ॥ ६१.६६ ॥ त्वद्विमुक्ता न जीवामि तथा प्रीतिमती त्वयि । नैतद्वदाम्यहं मिथ्या प्रसीद कुलनन्दन ॥ ६१.६७ ॥ ब्राह्मण उवाच यदि प्रीतिमती सत्यं नोपचाराद्ब्रवीषि माम् । तदुपायं समाचक्ष्व येन यामि स्वमालयम् ॥ ६१.६८ ॥ वरूथिन्युवाच निजमालयमप्यस्माद्भवान् यास्यत्यसंशयम् । स्वल्पकालं मया सार्धं भुङ्क्ष्व भोगान् सुदुर्लभान् ॥ ६१.६९ ॥ ब्राह्मण उवाच न भोगार्थाय विप्राणां शस्यते हि वरूथिनी । इह क्लेशाय विप्राणां चेष्टा प्रेत्याफलप्रदा ॥ ६१.७० ॥ वरूथिन्युवाच सन्त्राणं म्रियमाणाया मम कृत्वा परत्र ते । पुण्यस्यैव फलं भावि भोगाश्चान्यत्र जन्मनि ॥ ६१.७१ ॥ एवं च द्वयमप्यत्र तवोपचयकारणम् । प्रत्याख्यानादहं मृत्युं त्वञ्च पापमवाप्स्यसि ॥ ६१.७२ ॥ ब्राह्मण उवाच परस्त्रियं नाभिलषेदित्युचुर्गुरवो मम । तेन त्वां नाभिवाञ्छामि कामं विलप शुष्य वा ॥ ६१.७३ ॥ मार्कण्डेय उवाच इत्युक्त्वा स महाभागः स्पृष्ट्वापः प्रयतः शुचिः । प्राहेदं प्रणिपत्याग्निं गार्हपत्यमुपांशुना ॥ ६१.७४ ॥ भगवन् ! गार्हपत्याग्ने योनिस्त्वं सर्वकर्मणाम् । त्वत्त आहवनीयोऽग्निर्दक्षिणाग्निश्च नान्यतः ॥ ६१.७५ ॥ युष्मदाप्यायनाद्देवा वृष्टिशस्यादिहेतवः । भवन्ति शस्यादखिलं जगद्भवति नान्यतः ॥ ६१.७६ ॥ एवं त्वत्तो भवत्येतद्येन सत्येन वै जगत् । तथाहमद्य स्वं गेहं पश्येयं सति भास्करे ॥ ६१.७७ ॥ यथा वै वैदिकं कर्म स्वकाले नोज्झितं मया । तेन सत्येन पश्येयं गृहस्थोऽद्य दिवाकरम् ॥ ६१.७८ ॥ यथा च न परद्रव्ये परदारे च मे मतिः । कदाचित्साभिलाषाभूत्तथैतत्सिद्धिमेतु मे ॥ ६१.७९ ॥ इति श्रीमार्कण्डेयपुराणेठब्राह्मणवाक्यम्ऽ नामैकषष्टितमोऽध्यायः _____________________________________________________________ द्विषष्टितमोऽध्यायः ६२ मार्कण्डेय उवाच एवन्तु वदतस्तस्य द्विजपुत्रस्य पावकः । गार्हपत्यः शरीरे तु सन्निधानमथाकरोत् ॥ ६२.१ ॥ तेन चाधिष्ठितः सोऽथ प्रभामण्डलमध्यगः । व्यदीपयत तं देशं मूर्तिमानिव हव्यवाट् ॥ ६२.२ ॥ तस्यास्तु सुतरां तत्र तादृग्रूपे द्विजन्मनि । अनुरागोऽभवद्विप्रं पश्यन्त्या देवयोषितः ॥ ६२.३ ॥ ततः सोऽधिष्ठितस्तेन हव्यवाहेन तत्क्षणात् । यथापूर्वं तथा गन्तुं प्रवृत्तो द्विजनन्दनः ॥ ६२.४ ॥ जगाम च त्वरायुक्तस्तया देव्या निरीक्षितः । आदृष्टिपातात्तन्वङ्ग्या निश्वासोत्कम्पिकन्धरम् ॥ ६२.५ ॥ ततः क्षणेनैव तदा निजगेहमवाप्य सः । यथाप्रोक्तं द्विजश्रेष्ठश्चकार सकलाः क्रियाः ॥ ६२.६ ॥ अथ सा चारुसर्वाङ्गी तत्रासक्तात्ममानसा । निश्वासपरमा निन्ये दिनशेषं तथा निशाम् ॥ ६२.७ ॥ निश्वसन्त्यनवद्याङ्गी हाहेति रुदती मुहुः । मन्दभाग्येति चात्मानं निनिन्द मदिरेक्षणा ॥ ६२.८ ॥ न विहारे न चाहारे रमणीये न वा वने । न कन्दरेषु रम्येषु सा बबन्ध तदा रतिम् ॥ ६२.९ ॥ चकार रममाणे च चक्रवाकयुगे स्पृहाम् । मुक्ता तेन वरारोहा निनिन्द निजयौवनम् ॥ ६२.१० ॥ क्वागताहमिमं शैलं दुष्टदैवबलात्कृता । क्व च प्राप्तः स मे दृष्टेर्गोचरं तादृशो नरः ॥ ६२.११ ॥ यद्यद्य स महाभागो न मे सङ्गमुपैष्यति । तत्कामाग्निरवश्यं मां क्षपयिष्यति दुः सहः ॥ ६२.१२ ॥ रमणीयमभूद्यत्तत्पुंस्कोकिलनिनादितम् । तेन हीनन्तदेवैतद्दहतीवाद्य मामलम् ॥ ६२.१३ ॥ मार्कण्डेय उवाच इत्थं सा मदनाविष्टा जगाम मुनिसत्तम । ववृधे च तदा रागस्तस्यास्तस्मिन् प्रतिक्षणम् ॥ ६२.१४ ॥ कलिर्नाम्ना तु गन्धर्वः सानुरागो निराकृतः । तया पूर्वमभूत्सोऽथ तदवस्थां ददर्श ताम् ॥ ६२.१५ ॥ स चिन्तयामास तदा किं न्वेषा गजगामिनी । निश्वासपवनम्लाना गिरावत्र वरूथिनी ॥ ६२.१६ ॥ मुनिशापक्षता किंनु केनचित्किं विमानिता । वाष्पवारिपरिक्लिन्नमियन्धत्ते यतो मुखम् ॥ ६२.१७ ॥ ततः स दध्यौ सुचिरं तमर्थं कौतुकात्कलिः । ज्ञातवांश्च प्रभावेण समाधेः स यथातथम् ॥ ६२.१८ ॥ पुनः स चिन्तयामास तद्विज्ञाय मुनेः कलिः । ममोपपादितं साधु भाग्यैरेतत्पुराकृतैः ॥ ६२.१९ ॥ मयैषा सानुरागेण बहुशः प्रार्थिता सती । निराकृतवती सेयमद्य प्राप्या भविष्यति ॥ ६२.२० ॥ मानुषे सानुरागेयं तत्र तद्रूपधारिणि । रंस्यते मय्यसन्दिग्धं किं कालेन करोमि तत् ॥ ६२.२१ ॥ मार्कण्डेय उवाच आत्मप्रभावेण ततस्तस्य रूपं द्विजन्मनः । कृत्वा चचार यत्रास्ते निषण्णा सा वरूथिनी ॥ ६२.२२ ॥ सा तं दृष्ट्वा वरारोहा किञ्चिदुत्फुल्ललोचना । समेत्य प्राह तन्वङ्गी प्रसीदेति पुनः पुनः ॥ ६२.२३ ॥ त्वया त्यक्ता न सन्देहः परित्यक्ष्यामि जीवितम् । तत्राधर्मः कष्टतरः क्रियालोपो भविष्यति ॥ ६२.२४ ॥ मया समेत्य रम्येऽस्मिन्महाकन्दरकन्दरे । मत्परित्राणजं धर्ममवश्यं प्रतिपत्स्यसे ॥ ६२.२५ ॥ आयुषः सावशेषं मे नृनमस्ति महामते । निवृत्तस्तेन नूनं त्वं हृदयाह्लादकारकः ॥ ६२.२६ ॥ कलिरुवाच किं करोमि क्रियाहानिर्भवत्यत्र सतो मम । त्वमप्येवंविधं वाक्यं ब्रवीषि तनुमध्यमे ॥ ६२.२७ ॥ तदहं सङ्कटं प्राप्तो यद्ब्रवीमि करोषि तत् । यदि स्यात्सङ्गमो मेऽद्य भवत्या सह नान्यथा ॥ ६२.२८ ॥ वरूथिनी उवाच प्रसीद यद्ब्रवीषि त्वं तत्करोमि न ते मृषा । ब्रवीम्येतदनाशङ्कं यत्ते कार्यं मयाधुना ॥ ६२.२९ ॥ कलिरुवाच नाद्य संभोगसमये द्रष्टव्योऽहं त्वया वने । निमीलिताक्ष्याः संसर्गस्तव सुभ्रु मया सह ॥ ६२.३० ॥ वरूथिन्युवाच एवं भवतु भद्रन्ते यथेच्छसि तथास्तु तत् । मया सर्वप्रकारं हि वशे स्थेयं तवाधुना ॥ ६२.३१ ॥ इति श्रीमार्कण्डेयपुराणे स्वारोचिषे मन्वन्तरे द्विषष्टितमोऽध्यायः । _____________________________________________________________ त्रिषष्टितमोऽध्यायः ६३ मार्कण्डेय उवाच ततः सह तथा सोऽथ रराम गिरिसानुषु । फुल्लकाननहृद्येषु मनोज्ञेषु सरः सु च ॥ ६३.१ ॥ कन्दरेषु च रम्येषु निम्नगापुलिनेषु च । मनोज्ञेषु तथान्येषु देशेषु मुदितो द्विज ॥ ६३.२ ॥ वह्निनाधिष्ठितस्यासीद्यद्रूपन्तस्य तेजसा । अचिन्तयद्भोगकाले निमीलितविलोचना ॥ ६३.३ ॥ ततः कालेन सा गर्भमवाप मुनिसत्तम । गन्धर्ववीर्यतो रूपचिन्तनाच्च द्विजन्मनः ॥ ६३.४ ॥ तां गर्भधारिणीं सोऽथ सान्त्वयित्वा वरूथिनीम् । विप्ररूपधरो यातस्तया प्रीत्या विसर्जितः ॥ ६३.५ ॥ जज्ञे स बालो द्युतिमान ज्वलन्निव विभावसुः । स्वरोचिभैर्यथा सूर्यो भासयन् सकला दिशः ॥ ६३.६ ॥ स्वरोचिभिर्यतो भाति भास्वानिव स बालकः । ततः स्वरोचिरित्येवं नाम्ना ख्यातो बभूत सः ॥ ६३.७ ॥ ववृधे च महाभागो वयसानुदिनन्तथा । गुणौघैश्च यथा बालः कलाभिः शशलाञ्छनः ॥ ६३.८ ॥ स जग्राह धनुर्वेदं वेदांश्चैव यथाक्रमम् । विद्याश्चैव महाभागस्तदा यौवनगोचरः ॥ ६३.९ ॥ मन्दराद्रौ कदाचित्स विचरंश्चारुचेष्टितः । ददर्शैकां तदा कन्यां गिरिप्रस्थे भयातुराम् ॥ ६३.१० ॥ त्रायस्वेति निरीक्ष्यैनं सा तदा वाक्यमब्रवीत् । मा भैषीरिति स प्राह भयविप्लुतलोचनाम् ॥ ६३.११ ॥ किमेतदिति तेनोक्ते वीरवाक्ये महात्मना । ततः सा कथयामास श्वासाक्षेपप्लुताक्षरम् ॥ ६३.१२ ॥ कन्योवाच अहमिन्दीवराख्यस्य सुता विद्याधरस्य वै । नाम्ना मनोरमा जाता सुतायां मरुधन्वनः ॥ ६३.१३ ॥ मन्दारविद्याधरजा सखी मम विभावरी । कलावती चाप्यपरा सुता पारस्य वै मुनेः ॥ ६३.१४ ॥ ताभ्यां सह मया यातं कैलासतटमुत्तमम् । तत्र दृष्टो मुनिः कश्चित्तपसातिकृशाकृतिः ॥ ६३.१५ ॥ क्षुत्क्षामकण्ठो निस्तेजा दूरपाताक्षितारकः । मयावहसितः क्रुद्धः स तदा मां शशाप ह ॥ ६३.१६ ॥ क्षामक्षामस्वरः किञ्चित्कल्पिताधरपल्लवः । त्वयावहसितो यस्मादनार्ये दुष्टतापसि ॥ ६३.१७ ॥ तस्मात्त्वामचिरेणैव राक्षसोऽभिभविष्यसि । दत्ते शापे मत्सखीभ्यां स तु निर्भत्सितो मुनिः ॥ ६३.१८ ॥ धिक्ते ब्राह्मण्यमक्षान्त्या हृतन्ते निखिलन्तपः । अमर्षणैर्धर्षितोऽसि तपसा नातिकर्षितः ॥ ६३.१९ ॥ क्षान्त्यास्पदं वै ब्राह्मण्यं क्रोधसंयमनन्तपः । एतच्छ्रुत्वा ददौ शापं तयोरप्यमितद्युतिः ॥ ६३.२० ॥ एकस्याः कुष्ठमङ्गेषु भाव्यन्यस्यास्तथा क्षयः । तयोस्तथैव तज्जातं यथोक्तं तेन तत्क्षणात् ॥ ६३.२१ ॥ ममाप्येवं महद्रक्षः समुपैति पदानुगम् । न शृणोषि महानादं तस्यादूरेऽपि गर्जतः ॥ ६३.२२ ॥ तृतीयमद्य दिवसं यन्मे पृष्ठन्न मुञ्चति । अस्त्रग्रामस्य सर्वस्य हृदज्ञाहमद्य ते ॥ ६३.२३ ॥ ते प्रयच्छामि मां रक्ष रक्षसोऽस्मान्महामते । प्रादात्स्वायम्भुवस्यादौ स्वयं रुद्रः पिनाकधृक् ॥ ६३.२४ ॥ स्वायम्भुवो वसिष्ठाय सिद्धवर्याय दत्तवान् । तेनापि दत्तं मन्मातुः पित्रे चित्रायुधाय वै ॥ ६३.२५ ॥ प्रादादौद्वाहिकं सोऽपि मत्पित्रे श्वशुरः स्वयम् । मयापि शिक्षितं वीर ! सकाशाद्बालया पितुः ॥ ६३.२६ ॥ हृदयं सकलास्त्राणामशेषरिपुनाशनम् । तदिदं गृह्यतां शीघ्रमशेषास्त्रपरायणम् ॥ ६३.२७ ॥ ततो जहि दुरात्मानमेनं राक्षसमागतम् ॥ ६३.२८ ॥ मार्कण्डेय उवाच तथैत्युक्ते ततस्तेन वार्युपस्पृश्य तस्य तत् । अस्त्राणां हृदयं प्रादात्सरहस्यनिवर्तनम् ॥ ६३.२९ ॥ एतस्मिन्नन्तरे रक्षस्तत्तदा भीषणाकृति । नर्दमानं महानादमाजगाम त्वरान्वितम् ॥ ६३.३० ॥ मयाभिभूता किं त्राणमुपैषि द्रुतमेहि मे । भक्षामि किञ्चिरेणेति ब्रुवाणं तं ददर्श सः ॥ ६३.३१ ॥ स्वरोचिश्चिन्तयामास दृष्ट्वा तं समुपागतम् । गृह्णात्वेष वचः सत्यं तस्यास्त्विति महामुनेः ॥ ६३.३२ ॥ जग्राह समुपेत्यैनां त्वरया सोऽपि राक्षसः । त्राहि त्राहीति करुणं विलपन्तीं सुमध्यमाम् ॥ ६३.३३ ॥ ततः स्वरोचिः संक्रुद्धश्चण्डास्त्रमतिभैरवम् । दृष्ट्यां निवेश्य तद्रक्षो ददर्शानिमिषेक्षणः ॥ ६३.३४ ॥ तदाभिभूतः स तदा तामुत्सृज्य निशाचरः । प्रसीद शाम्यतामस्त्रं श्रूयताञ्चेत्यभाषत ॥ ६३.३५ ॥ मोक्षितोषऽहं त्वया शापादतिघोरान्महाद्युते । प्रदत्तादतितीव्रेण ब्रह्ममित्रेण धीमता ॥ ६३.३६ ॥ उपकारी न मे त्वत्तो महाभागाधिकोऽपरः । येनाहं सुमहाकष्टान्महाशापाद्विमोक्षितः ॥ ६३.३७ ॥ स्वरोचिरुवाच ब्रह्ममित्रेण मुनिना किन्निमित्तं महात्मना । शप्तस्त्वं कीदृशश्चैव शापो दत्तोऽभवत्पुरा ॥ ६३.३८ ॥ राक्षसा उवाच ब्रह्ममित्रोऽष्टधा भिन्नमायुर्वेदमधीतवान् । त्रयोदशाधिकारञ्च प्रगृह्याथर्वणो द्विजः ॥ ६३.३९ ॥ अहञ्चेन्दीवराख्येति ख्यातोऽस्या जनकोऽभवम् । विद्याधरपतेः पुत्रो नलनाभस्य खङ्गिनः ॥ ६३.४० ॥ मया च याचितः पुर्वं ब्रह्ममित्रोऽभवन्मुनिः । आयुर्वेदमशेषं मे भगवन् ! दातुमर्हसि ॥ ६३.४१ ॥ यदा तु बहुशो वीर ! प्रश्रयावनतस्य मे । न प्रादाद्याचितो विद्यामायुर्वेदात्मिकां मम ॥ ६३.४२ ॥ शिष्येभ्यो ददतस्तस्य मयान्तर्धानगेन हि । आयुर्वेदात्मिका विद्या गृहीताभूत्तदानघ ॥ ६३.४३ ॥ गृहीतायान्तु विद्यायां मासैरष्टाभिरन्तरात् । ममातिहर्षादभवद्धासोऽतीव पुनः पुनः ॥ ६३.४४ ॥ प्रत्यभिज्ञाय मां हासान्मुनिः कोपसमन्वितः । विकम्पिकन्धरः प्राह मामिदं परुषाक्षरम् ॥ ६३.४५ ॥ राक्षसेनैव यस्मान्मे त्वयादृश्येन दुर्मते । हृता विद्यावहासश्च मामवज्ञाय वै कृतः ॥ ६३.४६ ॥ तस्मात्त्वं राक्षसः पाप ! मच्छापेन निराकृतः । भविष्यसि न सन्देहः सप्तरात्रेण दारुणः ॥ ६३.४७ ॥ इत्युक्ते प्रणिपाताद्यैरुपचारैः प्रसादितः । स मामाह पुनर्विप्रस्तत्क्षणान्मृदुमानसः ॥ ६३.४८ ॥ यन्मयोक्तमवश्यन्तद्भावि गन्धर्व ! नान्यथा । किन्तु त्वं राक्षसो भूत्वा पुनः स्वं प्राप्स्यसे वपुः ॥ ६३.४९ ॥ नष्टस्मृतिर्यदा क्रुद्धः स्वमपत्यञ्चिखादिषुः । निशाचरत्वं गन्तासि तदस्त्रानलतापितः ॥ ६३.५० ॥ पुनः संज्ञामवाप्य स्वामवाप्स्यसि निजं वपुः । तथैव स्वमधिष्ठानं लोके गन्धर्वसंज्ञिते ॥ ६३.५१ ॥ सोऽहं त्वया महाभाग ! मोक्षितोऽस्मान्महाभयात् । निशाचरत्वाद्यद्वीर ! तेन मे प्रार्थनां कुरु ॥ ६३.५२ ॥ इमान्ते तनयां भार्यां प्रयच्छामि प्रतीच्छ ताम् । आयुर्वेदश्च सकलस्त्वष्टाङ्गो यो मया ततः । मुनेः सकाशात्संप्राप्तस्तं गृह्णीष्व महामते ॥ ६३.५३ ॥ मार्कण्डेय उवाच इत्युक्त्वा प्रददौ विद्यां स च दिव्याम्बरोज्जवलः । स्त्रग्भूषणधरो दिव्यं पुराणं वपुरास्थितः ॥ ६३.५४ ॥ दत्त्वा विद्यां ततः कन्यां स दातुमुपचक्रमे । तमाह सा तदा कन्या जनितारं स्वरूपिणम् ॥ ६३.५५ ॥ अनुरागो ममाप्यत्र तातातीव महात्मनि । दर्शनादेव संजातो विशेषेणोपकारिणि ॥ ६३.५६ ॥ किन्त्वेषा मे सखी सा च मत्कृते दुः खपीडिते । अतो नाभिलषे भोगान् भोक्तुमेतेन वै समम् ॥ ६३.५७ ॥ पुरुषैरपि नो शक्या कर्तुमित्थं नृशंसता । स्वभावरुचिरैर्मादृक्कथं योषित्करिष्यति ॥ ६३.५८ ॥ साहं यथा ते दुः खार्ते मत्कृते कन्यके पितः । तथा स्थास्यामि तद्दुः खे तच्छोकानलतापिता ॥ ६३.५९ ॥ स्वरोचिरुवाच आयुर्वेदप्रसादेन ते करिष्ये पुनर्नवे । सख्यौ तव महाशोकं समुत्सृज सुमध्यमे ॥ ६३.६० ॥ मार्कण्डेय उवाच ततः पित्रा स्वयं दत्तां तां कन्यां स विधानतः । उपयेमे गिरौ तस्मिन् स्वरोचिश्चारुलोचवनाम् ॥ ६३.६१ ॥ दत्तान्तु तां तदा कन्यामभिशान्त्य च भामिनीम् । जगाम दिव्यया गत्यागन्धर्वः स्वपुरन्ततः ॥ ६३.६२ ॥ स चापि सहितस्तन्व्या सदुद्यानन्तदा ययौ । कन्यकायुगलं यत्र तच्छापोत्थगदातुरम् ॥ ६३.६३ ॥ ततस्तयोः स तत्त्वज्ञो रोगघ्नैरौषधै रसैः । चकार नीरुजौ देहौ स्वरोचिरपराजितः ॥ ६३.६४ ॥ ततोऽतिशोभने कन्ये विमुक्ते व्याधितः शुभे । स्वकान्त्योद्योति दिग्भागं चक्राते तन्महीधरम् ॥ ६३.६५ ॥ इति श्रीमार्कण्डेयपुराणे स्वारोचिषे मन्वन्तरे त्रिषष्टितमोऽध्यायः _____________________________________________________________ चतुः षष्टितमोऽध्यायः ६४ मार्कण्डेय उवाच एवं विमुक्तरोगा तु कन्यका तं मुदान्विता । स्वरोचिषमुवाचेदं शृणुष्व वचनं प्रभो ॥ ६४.१ ॥ मन्दारविद्याधरजा नाम्ना ख्याता विभावरी । उपकारिन् ! स्वमात्मानं प्रयच्छामि प्रतीच्छ माम् ॥ ६४.२ ॥ विद्याञ्च तुभ्यं दास्यामि सर्वबूतरुतानि ते । ययाभिव्यक्तिमेष्यन्ति प्रसादपुरगो भव ॥ ६४.३ ॥ मार्कण्डेय उवाच एवमस्त्विति तेनोक्ते धर्मज्ञेन स्वरोचिषा । द्वितीया तु तदा कन्या इदं वचनमब्रवीत् ॥ ६४.४ ॥ कुमारब्रह्मचार्यासीत्पारो नाम पिता मम । ब्रह्मर्षिः सुमहाभागो वेदवेदाङ्गपारगः ॥ ६४.५ ॥ तस्य पुंस्कोकिलालापरमणीये मधौ पुरा । आजगामाप्सराभ्यासं प्रख्याता पुञ्जिकास्तना ॥ ६४.६ ॥ कामवक्तव्यतां नीतः स तदा मुनिपुङ्गवः । तत्संयोगेऽहमुत्पन्ना तस्यामत्र महाचले ॥ ६४.७ ॥ विहाय मां गता सा च मातास्मिन्निर्जने वने । बालामेकां महीपृष्ठे व्यालश्वापदसंकुले ॥ ६४.८ ॥ ततः कलाभिः सोमस्य वर्धन्तीभिरहः क्षये । आप्याय्यमानाहरहो वृद्धिं यातास्मि सत्तम ॥ ६४.९ ॥ ततः कलावतीत्येतन्मम नाम महात्मना । गृहीतायः कृतं पित्रा गन्धर्वेण शुभानना ॥ ६४.१० ॥ न दत्ताहं तदा तेन याचितेन महात्मना । देवारिणालिना सुप्तस्ततो मे घातितः पिता ॥ ६४.११ ॥ ततोऽहमतिनिर्वेदादात्मव्यापादनोद्यता । निवारिता शम्भुपत्न्या सत्या सत्यप्रतिश्रवा ॥ ६४.१२ ॥ मा शुचः सुभ्रु ! भर्ता ते महाभागो भविष्यति । स्वरोचिर्नाम पुत्रश्च मनुस्तस्य भविष्यति ॥ ६४.१३ ॥ आज्ञाञ्च निधयः सर्वे करिष्यन्ति तवादृताः । यथाभिलषितं वित्तं प्रदास्यन्ति च ते शुभे ॥ ६४.१४ ॥ यस्या वत्से प्रभावेण विद्यायास्तां गृहाण मे । पद्मिनी नाम विद्येयं महापद्माभिपूजिता ॥ ६४.१५ ॥ इत्याह मां दक्षसुता सती सत्यपरायणा । स्वरोचिस्त्वं ध्रुवं देवी नान्यथा सा वदिष्यति ॥ ६४.१६ ॥ साहं प्राणप्रदायाद्य तां विद्यां स्वं तथा वपुः । प्रयच्छामि प्रतीच्छ त्वं प्रसादसुमुखो मम ॥ ६४.१७ ॥ मार्कण्डेय उवाच एवमस्त्विति तामाह स तु कन्यां कलावतीम् । विभावर्याः कलावत्याः स्निग्धदृष्ट्यानुमोदितः ॥ ६४.१८ ॥ जग्राह च ततः पाणी स तयोरमरद्युतिः । नदत्सु देवतूर्येषु नृत्यन्तीष्वप्सरः सु च ॥ ६४.१९ ॥ इति श्रीमार्कण्जडेयपुराणेठस्वारोचिषे मन्वन्तरेऽ चतुः षष्टितमोऽध्यायः _____________________________________________________________ पञ्चषष्टितमोऽध्यायः ६५ मार्कण्डेय उवाच ततः स ताभिः सहितः पत्नीभिरमरद्युतिः । रराम तस्मिन् शैलेन्द्रे रम्यकानननिर्झरे ॥ ६५.१ ॥ सर्वोपभोगरत्नानि मधूनि मधुराणि च । निधयः समुपाजह्रुः पद्मिन्या वशवर्तिनः ॥ ६५.२ ॥ स्त्रजो वस्त्राण्यलङ्कारान् गन्धाढ्यमनुलेपनम् । आसनान्यतिशुभ्राणि काञ्चनानि यथेच्छया ॥ ६५.३ ॥ सौवर्णानि महाभाग ! करकान् भाजनानि च । तथा शय्याश्च विविधा दिव्यैरास्तरणैर्युताः ॥ ६५.४ ॥ एवं स ताभिः सहितो दिव्यगन्धाधिवासिते । रराम स्वरुचिर्भाभिर्भासिते वरपर्वते ॥ ६५.५ ॥ ताश्चापि सह तेनेति लेभिरे मुदमुत्तमाम् । रममाणा यथा स्वर्गे तथा तत्र शिलोच्चये ॥ ६५.६ ॥ कलहंसी जगादैकां चक्रवाकीं जले सतीम् । तस्य तासाञ्च ललिते सम्बन्धे च स्पृहावती ॥ ६५.७ ॥ धन्योऽयमतिपुण्योऽयं योऽय यौवनगोचरः । दयिताभिः सहैताभिर्भुङ्क्ते भोगानभीप्सितान् ॥ ६५.८ ॥ सन्ति यौवनिनः श्लाघ्यास्तत्पत्न्यो नातिशोभनाः । जगत्यामल्पकाः पत्न्यः पतयश्चातिशोभनाः ॥ ६५.९ ॥ अभीष्टा कस्यचित्कान्ता कान्तः कस्याश्चिदीप्सितः । परस्परानुरागाढ्यं दाम्पत्यमतिदुर्लभम् ॥ ६५.१० ॥ धन्योऽयं दयिताभीष्टो ह्येताश्चास्यातिवल्लभाः । परस्परानुरागो हि धन्यानामेव जायते ॥ ६५.११ ॥ एतन्निशम्यवचनं कलहंसीसमीरितम् । उवाच चक्रवाकी तां नातिविस्मितमानसा ॥ ६५.१२ ॥ नायं धन्यो यतो लज्जा नान्यस्त्रीसन्निकर्षतः । अन्यां स्त्रियमयं भुङ्क्ते न सर्वास्वस्य मानसम् ॥ ६५.१३ ॥ चित्तानुराग एकस्मिन्नधिष्ठाने यतः सखि । ततो हि प्रीतिमानेष भार्यासु भविता कथम् ॥ ६५.१४ ॥ एता न दयिताः पत्युर्नैतासां दयितः पतिः । विनोदमात्रमेवैता यथा परिजनोऽपरः ॥ ६५.१५ ॥ एतासाञ्च यदिष्टोऽयं तत्किं प्राणान्न मुञ्चति । आलिङ्गत्यपरां कान्तां ध्यातो वै कान्तयान्यया ॥ ६५.१६ ॥ विद्याप्रदानमूल्येन विक्रीतो ह्येष भृत्यवत् । प्रवर्तते न हि प्रेम समं बह्वीषु तिष्ठति ॥ ६५.१७ ॥ कलहंसि ! पतिर्धन्यो मम धन्याहमेव च । यस्यैकस्याञ्चिरं चित्तं यस्याश्चैकत्र संस्थितम् ॥ ६५.१८ ॥ सर्वसत्त्वरुतज्ञोऽसौ स्वरोचिरपराजितः । निशम्य लज्जितो दध्यौ सत्यमेव हि नानृतम् ॥ ६५.१९ ॥ ततो वर्षशते याते रममाणो महागिरौ । रममाणः समं ताभिर्ददर्श पुरतो मृगम् ॥ ६५.२० ॥ सुस्निग्धपीनावयवं मृगयूथविहारिणम् । वासिताभिः सुरूपाभिर्मृगीभिः परिवारितम् ॥ ६५.२१ ॥ आकृष्टघ्राणपुटका जिघ्रन्तीस्तास्ततो मृगीः । उवाच स मृगो रामा लज्जात्यागेन गम्यताम् ॥ ६५.२२ ॥ नाहं स्वरोचिस्तच्छीलो न चैवाहं सुलोचनाः । निर्लज्जा बहवः सन्ति तादृशास्तत्र गच्छतः ॥ ६५.२३ ॥ एका त्वनेकानुगता यथा हासास्पदं जने । अनेकाभिस्तथैवैको बोगदृष्ट्या निरीक्षितः ॥ ६५.२४ ॥ तस्य धर्मक्रियाहानिरहन्यहनि जायते । सक्तोऽन्यभार्यया चान्यकामासक्तः सदैव सः ॥ ६५.२५ ॥ यस्तादृशोऽन्यस्तच्छीलः परलोकपराङ्मुखः । तं कामयत भद्रं वो नाहं तुल्यः स्वरोचिषा ॥ ६५.२६ ॥ इति श्रीमार्कण्डेयपुराणे स्वारोचिषे मन्वन्तरे पञ्चषष्टितमोऽध्यायः _____________________________________________________________ ’ञ्ःƒ†>£†áञादादनागतम् । यथाहं समतीतञ्च वर्तमानञ्च सर्वतः ॥ ६९.५३ ॥ आलोच्याज्ञापयेत्युक्ते ततो ज्ञातं मयापि तत् । ततो न दत्तवानर्घमहं तुभ्यं विधानतः ॥ ६९.५४ ॥ सत्यं राजन् ! त्वमर्घार्हः कुले स्वायम्भुवस्य च । तथापि नार्घयोग्यं त्वां मन्यामो वयमुत्तमम् ॥ ६९.५५ ॥ राजोवाच किं कृतं हि मया ब्रह्मन् ! ज्ञानादज्ञानतोऽपि वा । येन त्वत्तोर्ऽघमर्हामि नाहमभ्यागतश्चिरात् ॥ ६९.५६ ॥ ऋषिरुवाच किं विस्मृतन्ते यत्पत्नी त्वया त्यक्ता च कानने । परित्यक्तस्तया सार्धं त्वया धर्मो नृपाखिलः ॥ ६९.५७ ॥ पक्षेण कर्मणो हान्या प्रयात्यस्पर्शतां नरः । विण्मूत्रैर्वार्षिकी यस्य हानिस्ते नित्यकर्मणः ॥ ६९.५८ ॥ पत्न्यानुकूलया भाव्यं यथाशीलेऽपि भर्तरि । दुः शीलापि तथा भार्या पोषणीया नरेश्वर ॥ ६९.५९ ॥ प्रतिकूला हि सा पत्नी तस्य विप्रस्य या हृता । तथापि धर्मकामोऽसौ त्वामुद्योतितवान्नृप ॥ ६९.६० ॥ चलतः स्थापयस्यन्यान् स्वधर्मेषु महीपते । त्वां स्वधर्माद्विचलितं कोऽपरः स्थापयिष्यति ॥ ६९.६१ ॥ मार्कण्डेय उवाच विलक्ष्यः स महीपाल इत्युक्तस्तेन धीमता । तथेत्युक्त्वा च पप्रच्छ हृतां पत्नीं द्विजन्मनः ॥ ६९.६२ ॥ भगवन् ! केन नीता सा पत्नी विप्रस्य कुत्र वा । अतीतानागतं वेत्ति जगत्यवितथं भवान् ॥ ६९.६३ ॥ ऋषिरुवाच तां जहाराद्रितनयो बलाको नाम राक्षसः । द्रक्ष्यसे चाद्य तां भूप ! उत्पलावतके वने ॥ ६९.६४ ॥ गच्छ संयोजयाशु त्वं भार्यया हि द्विजात्तमम् । मा पापास्पदतां यातु त्वमिवासौ दिने दिने ॥ ६९.६५ ॥ इति श्रीमार्कण्डेयपुराणे औत्तममन्वन्तरे एकोनसप्ततितमोऽध्यायः _____________________________________________________________ सप्ततितमोऽध्यायः ७० मार्कण्डेय उवाच अथारुरोह स्वरथं प्रणिपत्य महामुनिम् । तेनाख्यातं वनन्तच्च प्रययावुत्पलावतम् ॥ ७०.१ ॥ यथाख्यातस्वरूपाञ्च भार्यां भर्त्रा द्विजस्य ताम् । भक्षयन्तीं ददार्शाथ श्रीफलानि नरेश्वरः ॥ ७०.२ ॥ पप्रच्छ च कथं भद्रे ! त्वमेतद्वनमागता । स्फुटं ब्रवीहि वैशालेरपि भार्या सुशर्मणः ॥ ७०.३ ॥ ब्राह्मण्युवाच सुताहमतिरात्रस्य द्विजस्य वनवासिनः । पत्नी विशालपुत्रस्य यस्य नाम त्वयोदितम् ॥ ७०.४ ॥ साहं हृता बलाकेन राक्षसेन दुरात्मना । प्रसुप्ता भवनस्यान्ते भ्रातृमातृवियोजिता ॥ ७०.५ ॥ भस्मीभवतु तद्रक्षो येनास्म्येवं वियोजिता । मात्रा भ्रातृभिरन्यैश्च तिष्टाम्यत्र सुदुः खिता ॥ ७०.६ ॥ अस्मिन् वनेऽतिगहने तेनानीयाहमुज्झिता । न वेद्मि कारणं कि तन्नोपभुङ्क्ते न खादति ॥ ७०.७ ॥ राजोवाच अपि तज्ज्ञायते रक्षस्त्वामुत्सृज्य क्व वै गतम् । अहं भर्त्रा तवैवात्र प्रेषितो द्विजनन्दिनि ॥ ७०.८ ॥ ब्राह्मण्युवाच अस्यैव काननस्यान्ते स तिष्ठति निशाचरः । प्रविश्य पश्यतु भवान्न बिभेति ततो यदि ॥ ७०.९ ॥ मार्कण्डेय उवाच प्रविवेश ततः सोऽथ तया वर्त्मनि दर्शिते । ददृशे परिवारेण समवेतञ्च राक्षसम् ॥ ७०.१० ॥ दृष्टमात्रे ततस्तस्मिन् त्वरमाणः स राक्षसः । दूरादेव महीं मूर्ध्ना स्पृशन् पादान्तिकं ययौ ॥ ७०.११ ॥ राक्षस उवाच ममात्रागच्छता गेहं प्रसादस्ते महान् कृतः । प्रशाधि किं करोम्येष वसामि विषये तव ॥ ७०.१२ ॥ अर्घञ्चेमं प्रतीच्छ त्वं स्थीयताञ्चेदमासनम् । वयं भृत्या भवान् स्वामी दृढमाज्ञापयस्व माम् ॥ ७०.१३ ॥ राजोवाच कृतमेव त्वया सर्वं सर्वामेवातिथिक्रियाम् । किमर्थं ब्राह्मणवधूस्त्वयानीता निशाचर ॥ ७०.१४ ॥ नेयं सुरूपा सन्त्यन्या भार्यार्थञ्चेधृता त्वया । भक्ष्यार्थं चेत्कथं नात्ता त्वयैतत्कथ्यतां मम ॥ ७०.१५ ॥ राक्षस उवाच न वयं मानुषाहारा अन्ये ते नृप ! राक्षसाः । सुकृतस्य फलं यत्तु तदश्नीमो वयं नृप ॥ ७०.१६ ॥ स्वभावञ्च मनुष्याणां योषिताञ्च विमानिताः । मानिताश्च समश्नीमो न वयं जन्तुखादकाः ॥ ७०.१७ ॥ यदस्माभिर्नृणां क्षान्तिर्भुक्ता क्रुध्यन्ति ते तदा । भुक्ते दुष्टे स्वभावे च गुणवन्तो भवन्ति च ॥ ७०.१८ ॥ सन्ति नः प्रमदा भूप ! रूपेणाप्सरसां समाः । राक्षस्यस्तासु तिष्ठत्सु मानुषीषु रतिः कथम् ॥ ७०.१९ ॥ राजोवाच यद्येषा नोपभोगाय नाहाराय निशाचर । गृहं प्रविश्य विप्रस्य तत्किमेषा हृता त्वया ॥ ७०.२० ॥ राक्षस उवाच मन्त्रवित्स द्विजश्रेष्ठो यज्ञे यज्ञे गतस्य मे । रक्षोघ्नमन्त्रपठनात्करोत्युच्चाटनं नृप ॥ ७०.२१ ॥ वयं बुभुक्षितास्तस्य मन्त्रोच्चाटनकर्मणा । क्व यामः सर्वयज्ञेषु स ऋत्विग्भवति द्विजः ॥ ७०.२२ ॥ ततोऽस्माभिरिदन्तस्य वैकल्यमुपपादितम् । पत्न्या विना पुमानिज्याकर्मयोग्यो न जायते ॥ ७०.२३ ॥ मार्कण्डेय उवाच वैकल्योच्चारणात्तस्य ब्राह्मणस्य महामतेः । ततः स राजातिभृशं विषण्णः समजायत ॥ ७०.२४ ॥ वैकल्यमेवं विप्रस्य वदन्मामेव निन्दति । अनर्हमर्घस्य च मां सोऽप्याह मुनिसत्तमः ॥ ७०.२५ ॥ वैकल्यं तस्य विप्रस्य राक्षसोऽप्याह मे यथा । अपत्नीकतया सोऽहं सङ्कटं महदास्थितः ॥ ७०.२६ ॥ मार्कण्डेय उवाच एवं चिन्तयतस्तस्य पुनरप्याह राक्षसः । प्रणामनम्रो राजानं बद्धाञ्जलिपुटो मुने ॥ ७०.२७ ॥ नरेन्द्राज्ञाप्रदानेन प्रसादः क्रियतां मम । भृत्यस्य प्रणतस्य त्वं युष्मद्विषयवासिनः ॥ ७०.२८ ॥ राजोवाच स्वभावं वयमश्नीमस्त्वयोक्तं यन्निशाचर । तदर्थिनो वयं येन कार्येण शृणु तन्मम ॥ ७०.२९ ॥ अस्यास्त्वयाद्य ब्राह्मण्या दौः शील्यमुपभुज्यताम् । येन त्वयात्तदौः शील्या तद्विनीता भवेदियम् ॥ ७०.३० ॥ नीयतां यस्य भार्येयं तस्य वेश्म निशाचर । अस्मिन् कृते कृतं सर्वं गृहमभ्यागतस्य मे ॥ ७०.३१ ॥ मार्कण्डेय उवाच ततः स राक्षसस्तस्याः प्रविश्यान्तः स्वमायया । भक्षयामास दौः शील्यं निजशक्त्या नृपाज्ञया ॥ ७०.३२ ॥ दौः शील्येनातिरौद्रेण पत्नी तस्य द्विजन्मनः । तेन सा संपरित्यक्ता तमाह जगतीपतिम् ॥ ७०.३३ ॥ स्वकर्मफलपाकेन भर्तुस्तस्य महात्मनः । वियोजिताहं तद्धेतुरयमासीन्निशाचरः ॥ ७०.३४ ॥ नास्य दोषो न वा तस्य मम भर्तुर्महात्मनः । ममैव दोषो नान्यस्य सुकृतं ह्युपभुज्यते ॥ ७०.३५ ॥ अन्यजन्मनि कस्यापि विप्रयोगः कृतो मया । सोऽयं ममाप्युपगतः को दोषोऽस्य महात्मनः ॥ ७०.३६ ॥ राक्षस उवाच प्रापयामि तवादेशादिमां भर्तृगृहं प्रभो । यदन्यत्करणीयन्ते तदाज्ञापय पार्थिव ॥ ७०.३७ ॥ राजोवाच अस्मिन् कृते कृतं सर्वं त्वया मे रजनीचर । आगन्तव्यञ्च ते वीर ! कार्यकाले स्मृतेन मे ॥ ७०.३८ ॥ मार्कण्डेय उवाच नथेत्युक्त्वा तु तद्रक्षस्तामादाय द्विजाङ्गनाम् । निन्ये भर्तृगृहं शुद्धां दौः शोल्यापगमात्तदा ॥ ७०.३९ ॥ इति श्रीमार्कण्डेयपुराणे औत्तममन्वन्तरे सप्ततितमोऽध्यायः _____________________________________________________________ एकसप्ततितमोऽध्यायः ७१ मार्कण्डेय उवाच तां प्रेषयित्वा राजापि स्वभर्तृगृहमङ्गनाम् । चिन्तयामास निः श्वस्य किमत्र सुकतं भवेत् ॥ ७१.१ ॥ अनर्घयोग्यता कष्टं स मामाह महामनाः । वैकल्यं विप्रमुद्दिश्य तथाहायं निशाचरः ॥ ७१.२ ॥ सोऽहं कथं करिष्यामि त्यक्ता पत्नी मया हि सा । अथवा ज्ञानदृष्टिं तं पृच्छामि मुनिसत्तमम् ॥ ७१.३ ॥ सञ्चिन्त्येत्थं स भूपालः समारुह्य च तं रथम् । ययौ यत्र स धर्मात्मा त्रिकालज्ञो महामिनिः ॥ ७१.४ ॥ अवरुह्य रथात्सोऽथ तं समेत्य प्रणम्य च । यथावृत्तं समाचख्यौ राक्षसेन समागमम् ॥ ७१.५ ॥ ब्राह्मण्या दर्शनञ्चैव दौः शील्यापगमं तथा । प्रेषणं भर्तृगेहे च कार्यमागमने च यत् ॥ ७१.६ ॥ ऋषिरुवाच ज्ञातमेतन्मया पूर्वं यत्कृतन्ते नराधिप । कार्यमागमने चैव मत्समीपे तवाखिलम् ॥ ७१.७ ॥ पृच्छ मामिह किं कार्यं मयेत्युद्विग्नमानसः । त्वय्यागते महीपाल ! शृणु कार्यञ्च यत्त्वया ॥ ७१.८ ॥ पत्नी धर्मार्थकामानां कारणं प्रबलं नृणाम् । विशेषतश्च धर्मस्य सन्त्यक्तस्त्यजता हि ताम् ॥ ७१.९ ॥ अपत्नीको नरो भूप ! न योग्यो निजकर्मणाम् । ब्राह्मणः क्षत्रियो वापि वैश्यः शूद्रोऽपि वा नृप ॥ ७१.१० ॥ त्यजता भवता पत्नीं न शोभनमनुष्ठितम् । अत्याज्यो हि यथा भर्ता स्त्रीणां भर्या तथा नृणाम् ॥ ७१.११ ॥ राजोवाच भगवन् ! किं करोम्येष विपाको मम कर्मणाम् । नानुकूलानुकूलस्य यस्मात्त्यक्ता ततो मया ॥ ७१.१२ ॥ यद्यत्करोति तत्क्षान्तं दह्यमानेन चेतसा । भगवंस्तद्वियोगार्तिबिभीतेनान्तरात्मना ॥ ७१.१३ ॥ साम्प्रतं तु वने त्यक्ता न वेद्मि क्व नु सा गता । भक्षिता वापि विपिने सिंहव्याघ्रनिशाचरैः ॥ ७१.१४ ॥ ऋषीरुवाच न भक्षिता सा भूपाल ! सिहव्याघ्रनिशाचरैः । सा त्वविप्लुतचारित्रा साम्प्रतन्तु रसातले ॥ ७१.१५ ॥ राजोवाच सा नीता केन पातालमास्ते सादूषिता कथम् । अत्यद्भुतमिदं ब्रह्मन् ! यथावद्वक्तुमर्हसि ॥ ७१.१६ ॥ ऋषिरुवाच पाताले नागराजोऽस्ति प्रख्यातश्च कपोतकः । तेन दृष्टा त्वया त्यक्ता भ्रममाणा महावने ॥ ७१.१७ ॥ सा रूपशालिनी तेन सानुरागेण पार्थिव । वेदितार्थेन पातालं नीता सा युवती तदा ॥ ७१.१८ ॥ ततस्तस्य सुता सुभ्रूर्नन्दा नाम महीपते । भार्या मनोरमा चास्य नागराजस्य धीमतः ॥ ७१.१९ ॥ तया मातुः सपत्नीयं सा भवित्रीति शोभना । दृष्टा स्वगेहं सा नीता गुप्ता चान्तः पुरे शुभा ॥ ७१.२० ॥ यदा तु याचिता नन्दा न ददाति नृपोत्तरम् । मूका भविष्यसीत्याह तदा तां तनयां पिता ॥ ७१.२१ ॥ एवं शप्ता सुता तेन सा चास्ते तत्र भूपते । नीता तेनोरगेन्द्रेण धृता तत्सुतया सती ॥ ७१.२२ ॥ मार्कण्डेय उवाच ततो राजा परं हर्षमवाप्य तमपृच्छत । द्विजवर्यं स्वदौर्भाग्यकारणं दयितां प्रति ॥ ७१.२३ ॥ राजोवाच भगवन् ! सर्वलोकस्य मयि प्रीतिरनुत्तमा । किन्नु तत्कारणं येन स्वपत्नी नातिवत्सला ॥ ७१.२४ ॥ मम चासावतीवेष्टा प्राणेभ्योऽपि महामुने । सा च मां प्रति दुः शीला ब्रूहि यत्कारणं द्विज ॥ ७१.२५ ॥ ऋषीरुवाच पाणिग्रहणकाले त्वं सूर्यभौमशनैश्चरैः । शुक्रवाचस्पतिभ्याञ्च तव भार्यावलोकिता ॥ ७१.२६ ॥ तन्मुहूर्तेऽभवच्चन्द्रस्तस्याः सोमसुतस्तथा । परस्परविपक्षौ तौ ततः पार्थिव ! ते भृशम् ॥ ७१.२७ ॥ तद्गच्छ त्वं स्वधर्मेण परिपालय मेदिनीम् । पत्नीसहायः सर्वाश्च कुरु धर्मवतीः क्रियाः ॥ ७१.२८ ॥ मार्कण्डेय उवाच इत्युक्ते प्रणिपत्यैनमारुह्य स्यन्दनं ततः । उत्तमः पृथिवीपाल आजगाम निजं पुरम् ॥ ७१.२९ ॥ इति श्रीमार्कण्डेयपुराणे औत्तममन्वन्तरे एकसप्ततितमोऽध्यायः _____________________________________________________________ द्विसप्ततितमोऽध्यायः ७२ मार्कण्डेय उवाच ततः स्वनगरं प्राप्य तं ददर्श द्विजं नृपः । समेतं भार्यया चैव शीलवत्या मुदान्वितम् ॥ ७२.१ ॥ ब्राह्मण उवाच राजवर्य ! कृतार्थोऽस्मि यतो धर्मो हि रक्षितः । धर्मज्ञनेह भवता भार्यामानयता मम ॥ ७२.२ ॥ राजोवाच कृतार्थस्त्वं द्विजश्रेष्ठ ! निजधर्मानुपालनात् । वयं सङ्कटिनो विप्र ! येषां पत्नी न वेश्मनि ॥ ७२.३ ॥ ब्राह्मण उवाच नरेन्द्र ! सा हि विपिने भक्षिता श्वनापदैर्यदि । अलन्तया किमन्यस्या न पाणिर्गृह्यते त्वया । क्रोधस्य वशमागम्य धर्मो न रक्षितस्त्वया ॥ ७२.४ ॥ राजोवाच न भक्षिता मे दयिता श्वापदैः सा हि जीवति । अविदूषितचारित्रा कथमेतत्करोम्यहम् ॥ ७२.५ ॥ ब्राह्मण उवाच यदि जीवति ते भार्या न चैव व्यभिचारिणी । तदपत्नीकताजन्म किं पापं क्रियते त्वया ॥ ७२.६ ॥ राजोवाच आनीतापि हि सा विप्र ! प्रतिकूला सदैव मे । दुः खाय न सुखायालं तस्या मैत्री न वै मयि । तथा त्वं कुरु यत्नं मे यथा सा वशगामिनी ॥ ७२.७ ॥ ब्राह्मण उवाच तव संप्रीतये तस्या वरेष्टिरुपकारिणी । क्रियते मित्रकामैर्या मित्रविन्दां करोमि ताम् ॥ ७२.८ ॥ अप्रीतयोः प्रीतिकरो सा हि संजननी परम् । भार्यापत्योर्मनुष्येन्द्र ! तान्तवेष्टिं करोम्यहम् ॥ ७२.९ ॥ यत्र तिष्ठति सा सुभ्रूस्तव भार्या महीपते । तस्मादानोयतां सा ते परां प्रीतिमुपैष्यति ॥ ७२.१० ॥ मार्कण्डेय उवाच इत्युक्तः स तु सम्भारानशेषानवनीपतिः । आनिनाय चकारेष्टिं स च तां द्विजसत्तमः ॥ ७२.११ ॥ सप्तकृत्वः स तु तदा चकारेष्टिं पुनः पुनः । तस्य राज्ञो द्विजश्रेष्ठो भार्यासम्पादनाय वै ॥ ७२.१२ ॥ यदारोपितमैत्रीन्ताममन्यत महामुनिः । स्वभर्तरि तदा विप्रस्तमुवाच नराधिपम् ॥ ७२.१३ ॥ आनीयतां नरश्रेष्ठ ! या तवेष्टात्मनोऽन्तिकम् । भुङ्क्ष्व भोगांस्तया सार्धं यज यज्ञांस्तथादृतः ॥ ७२.१४ ॥ मार्कण्डेय उवाच इत्युक्तस्तेन विप्रेण भूपालो विस्मितस्तदा । सस्मार तं महावीर्यं सत्यसन्धं निशाचरम् ॥ ७२.१५ ॥ स्मृतस्तेन तदा सद्यः समुपेत्य नराधिपम् । किं करोमीति सोऽप्याह प्रणिपत्य महामुने ॥ ७२.१६ ॥ ततस्तेन नरेन्द्रेण विस्तरेण निवेदिते । गत्वा पातालमादाय राजपत्नीमुपाययौ ॥ ७२.१७ ॥ आनीता चातिहार्देन सा ददर्श तदा पतिम् । उवाच च प्रसीदेति भूयोभूयो मुदान्विता ॥ ७२.१८ ॥ ततः स राजा रभसा परिष्वज्याह मानिनीम् । प्रिये ! प्रसन्न एवाहं भूयोऽप्येवं ब्रवीषि किम् ॥ ७२.१९ ॥ पत्न्युवाच यदि प्रिसादप्रवणं नरेन्द्र ! मयि ते मनः । तदेतदभियाचे त्वां तत्कुरुष्व ममार्हणम् ॥ ७२.२० ॥ राजोवाच निः शङ्कं ब्रूहि मत्तो यद्भवात्या किञ्चिदीप्सितम् । तदलभ्यं न ते भीरु ! तवायत्तोऽस्मि नान्यथा ॥ ७२.२१ ॥ पत्न्युवाच मदर्थं तेन नागेन सुता शप्ता सखी मम । मूका भविष्यसीत्याह सा च मूकत्वमागता ॥ ७२.२२ ॥ तस्याः प्रतिक्रियां प्रीत्या मम शक्नोति चेद्भवान् । वाग्विघातप्रशान्त्यर्थं ततः किं न कृतं मम ॥ ७२.२३ ॥ मार्कण्डेय उवाच ततः स राजा तं विप्रमाहास्मिन् कीदृशी क्रिया । तन्मूकतापनोदाय स च तं प्राह पार्थिवम् ॥ ७२.२४ ॥ ब्राह्मण उवाच भूप ! सारस्वतीमिष्टिं करोमि वचनात्तव । पत्नी तवेयमानृण्यं यातु तद्वाक्प्रवर्तनात् ॥ ७२.२५ ॥ मार्कण्डेय उवाच इष्टिं सारस्वतीं चक्रे तदर्थं स द्विजोत्तमः । सारस्वतानि सूक्तानि जजाप च समाहितः ॥ ७२.२६ ॥ ततः प्रवृत्तवाक्यान्तां गर्गः प्राह रसातले । उपकारः सखीभर्त्रा कृतोऽयमतिदुष्करः ॥ ७२.२७ ॥ इत्थं ज्ञानं समासाद्य नन्दा शीघ्रगतिः पुरम् । ततो राज्ञीं परिष्वज्य स्वसखीमुरगात्मजा ॥ ७२.२८ ॥ तञ्च संस्तूय भूपालं कल्याणोक्त्या पुनः पुनः । उवाच मधुरं नागी कृतासनपरिग्रहा ॥ ७२.२९ ॥ उपकारः कृतो वीर ! भवता यो ममाधुना । तेनास्म्याकृष्टहृदया यद्ब्रवीमि शृणुष्व तत् ॥ ७२.३० ॥ तव पुत्रो महावीर्यो भविष्यति नराधिप । तस्माप्रतिहतं चक्रमस्यां भुवि भविष्यति ॥ ७२.३१ ॥ सर्वार्थशास्त्रतत्त्वज्ञो धर्मानुष्ठानतत्परः । मन्वन्तरेश्वरो धीमान् ! भविष्यति स वै मनुः ॥ ७२.३२ ॥ मार्कण्डेय उवाच इति दत्वा वरं तस्मै नागराजसुता ततः । सखीं तां संपरिष्वज्य पातालमगमन्मुने ॥ ७२.३३ ॥ तत्र तस्य तया सार्धं रमतः पृथिवीपतेः । जगाम कालः सुमहान् प्रजाः पालयतस्तथा ॥ ७२.३४ ॥ ततः स तस्यान्तनयो जज्ञे राज्ञो महात्मनः । पौर्णमास्यां यथा कान्तश्चन्द्रः संपूर्णमण्डलः ॥ ७२.३५ ॥ तस्मिन् जाते मुदं प्रापुः प्रजाः सर्वा महात्मनि । देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात च ॥ ७२.३६ ॥ तस्य दृष्ट्वा वपुः कान्तं भविष्यं शीलमेव च । औत्तमश्चेति मुनयो नाम चक्रुः समागताः ॥ ७२.३७ ॥ जातोऽयमुत्तमे वंशे तत्र काले तथोत्तमे । उत्तमावयवस्तेन औत्तमोऽयं भविष्यति ॥ ७२.३८ ॥ मार्कण्डेय उवाच उत्तमस्य सुतः सोऽथ नाम्ना ख्यातस्तथौत्तमः । मनुरासीत्तत्प्रभावो भागुरे श्रूयतां मम ॥ ७२.३९ ॥ उत्तमाख्यानमखिलं जन्म चैवोत्तमस्य च । नित्यं शृणोति विद्वेषं स कदाचिन्न गच्छति ॥ ७२.४० ॥ इष्टैर्दारैस्तथा पुत्रैर्बन्धुभिर्वा कदाचन । वियोगो नास्य भविता शृण्वतः पठतोऽपि वा ॥ ७२.४१ ॥ तस्य मन्वन्तरं ब्रह्मन् ! वदतो मे निशामय । श्रूयतां तत्र यश्चेन्द्रो ये च देवास्तथर्षयः ॥ ७२.४२ ॥ इति श्रीमार्कण्डेयपुराणे औत्तममन्वन्तरे द्विसप्ततितमोऽध्यायः _____________________________________________________________ त्रिसप्ततितमोऽध्यायः ७३ मार्कण्डेय उवाच मन्वन्तरे तृतीयेऽस्मिनौत्तमस्य प्रजापतेः । देवानिन्द्रमृषीन् भूपान्निबोध गदतो मम ॥ ७३.१ ॥ स्वधामानस्तथा देवा यथानामानुकारिणः । सत्याख्यश्च द्वितीयोऽन्यस्त्रिदशानां तथा गणः ॥ ७३.२ ॥ तृतीये तु गणे देवाः शिवाख्या मुनिसत्तम । शिवाः स्वरूपतस्ते तु श्रुताः पापप्रणाशनाः ॥ ७३.३ ॥ प्रतर्दनाख्यश्च गणो देवानां मुनिसत्तम । चतुर्थस्तत्र कथित औत्तमस्यान्तरे मनोः ॥ ७३.४ ॥ वशवर्तिनः पञ्चमेऽपि देवास्तत्र गणे द्विज । यथाख्यातस्वरूपास्तु सर्व एव महामुने ॥ ७३.५ ॥ एते देवगणाः पञ्च स्मृता यज्ञभुजस्तथा । मन्वन्तरे मनुश्रेष्ठे सर्वे द्वादशका गणाः ॥ ७३.६ ॥ तेषामिन्द्रो महाभागस्त्रैलोक्ये स गुरुर्भवेत् । शतं क्रतूनामाहृत्य सुशान्तिर्नाम नामतः ॥ ७३.७ ॥ यस्योपसर्गनाशाय नामाक्षरविभूषिता । अद्यापि मानवैर्गाथा गीयते तु महीतले ॥ ७३.८ ॥ शुशान्तिर्देवराट्कान्तः शुशान्तिं स प्रयच्छति । सहितः शिवसत्याद्यैस्तथैव वशवर्तिभिः ॥ ७३.९ ॥ अजः परशुचिर्दिव्यो महाबलपराक्रमः । पुत्रस्तस्य मनोरासन् विख्यातास्त्रिदशोपमाः ॥ ७३.१० ॥ तत्सूतिसम्भवैर्भूमिः पालिताभून्नरेश्वरैः । यावन्मन्वन्तर तस्य मनोरुत्तमतेजसः ॥ ७३.११ ॥ चतुर्युगानां संख्याता साधिका ह्येकसप्ततिः । कृतत्रेतादिसंज्ञानां यान्युक्तानि युगे मया ॥ ७३.१२ ॥ स्वतेजसा हि तपसो वरिष्ठस्य महात्मनः । तनयाश्चान्तरे तस्मिन् सप्त सप्तर्षयोऽभवन् ॥ ७३.१३ ॥ तृतीयमेतत्कथितं तव मन्वन्तरं मया । तामसस्य चतुर्थन्तु मनोरन्तरमुच्यते ॥ ७३.१४ ॥ वियोनिजन्मनो यस्य यशसा द्योतितं जगत् । जन्म तस्य मनोर्ब्रह्मन् ! श्रुयतां गदतो मम ॥ ७३.१५ ॥ अतीन्द्रियमशेषाणां मनूनाञ्चरितन्तथा । तथा जन्मापि विज्ञेयं प्रभावश्च महात्मनाम् ॥ ७३.१६ ॥ इति श्रीमार्कण्डेयपुराणे औत्तममन्वन्तरे त्रिसप्ततितमोऽध्यायः _____________________________________________________________ चतुः सप्ततितमोऽध्यायः ७४ मार्कण्डेय उवाच राजाभूद्विख्यातः स्वराष्ट्रो नाम वीर्यवान् । अनेकयज्ञकृत्प्राज्ञः संग्रामेष्वपराजितः ॥ ७४.१ ॥ तस्यायुः सुमहत्प्रादात्मन्त्रिणाराधितो रविः । पत्नीनाञ्च शतन्तस्य धन्यानामभवद्द्विज ॥ ७४.२ ॥ तस्य दीर्घायुषः पत्न्यो नातिदीर्घायुषो मुने । कालेन जग्मुर्निधनं भृत्यमन्त्रिजनास्तथा ॥ ७४.३ ॥ स भार्याभिस्तथायुक्तो भृत्यैश्च सहजन्मभिः । उद्विग्नचेताः संप्राप वीर्यहानिमहर्निशम् ॥ ७४.४ ॥ तं वीर्यहीनं निभृतैर्भृत्यैस्त्यक्तं सुदुः खितम् । अनन्तरो विमर्दाख्यो राज्याच्च्यावितवांस्तदा ॥ ७४.५ ॥ राज्याच्च्युतः सोऽपि वनं गत्वा निर्विण्णमानसः । तपस्तेपे महाभागे वितस्तापुलिने स्थितः ॥ ७४.६ ॥ ग्रीष्मे पञ्चतमा भूत्वा वर्षास्वभ्रावकाशिकः । जलशायी च शिशिरे निराहारो यतव्रतः ॥ ७४.७ ॥ ततस्तपस्यतस्तस्य प्रावृट्काले महाप्लवः । बभूवानुदिनं मेघैर्वर्षद्भिरनुसन्ततम् ॥ ७४.८ ॥ न दिग्विज्ञायते पूर्वा दक्षिणा वा न पश्चिमा । नोत्तरा तमसा सर्वमनुलिप्तमिवाभवत् ॥ ७४.९ ॥ ततोऽतिपूरेण नृपः स नद्याः प्रेरितस्तटम् । प्रार्थयन्नापि नावाप ह्रियमाणो महीपतिः ॥ ७४.१० ॥ अथ दूरे जलौघेन ह्रियमाणो महीपतिः । आससाद जले रौहीं स पुच्छे जगृहे च ताम् ॥ ७४.११ ॥ तेन प्लवेन स ययावूह्यमानो महीतले । इतश्चेतश्चान्धकारे आससाद तटन्ततः ॥ ७४.१२ ॥ विस्तारि पङ्कमत्यर्थं दुस्तरं स नृपस्तरन् । तथैव कृष्यमाणोऽन्यद्रम्यं वनमवाप सः ॥ ७४.१३ ॥ तत्रान्धकारे सा रौही चकर्ष वसुधाधिपम् । पुच्छे लग्नं महाभागं कृशं धमनिसन्ततौ ॥ ७४.१४ ॥ तस्याश्च स्पर्शसंभूतामवापमुदमुत्तमाम् । सोऽन्धकारे भ्रमन् भूयो मदनाकृष्टमानसः ॥ ७४.१५ ॥ विज्ञाय सानुरागं तं पृष्ठस्पर्शनतत्परम् । नरेन्द्रं तद्वनस्यान्तः सा मृगी तमुवाच ह ॥ ७४.१६ ॥ किं पृष्ठं वेपथुमता करेण स्पृशसे मम । अन्यथैवास्य कार्यस्य सञ्जाता नृपते गतिः ॥ ७४.१७ ॥ नास्थाने वो मनो यातं नागम्याहं तवेश्वर । किन्तु त्वत्सङ्गमे विघ्नमेष लोलः करोति मे ॥ ७४.१८ ॥ मार्कण्डेय उवाच इति श्रुत्वा वचस्तस्या मृग्याश्च जगतीपतिः । जातकौतूहलो रौहीमिदं वचनमब्रवीत् ॥ ७४.१९ ॥ का त्वं ब्रूहि मृगी वाक्यं कथं मानुषवद्वदेत् । कश्चैव लोलो यो विघ्नं त्वत्सङ्गे कुरुते मम ॥ ७४.२० ॥ मृग्युवाच अहन्ते दयिता भूप ! प्रागासमुत्पलावती । भर्या शताग्रमहिषी दुहिता दृढधन्वनः ॥ ७४.२१ ॥ राजोवाच किन्तु यावत्कृतं कर्म येनेमां योनिमागता । पतिव्रता धर्मपरा सा चेत्थं सथमीदृशी ॥ ७४.२२ ॥ मृग्युवाच अहं पितृगृहे बाला सखीभिः सहिता वनम् । रन्तुं गता ददर्शैकं मृगं मृग्या समागतम् ॥ ७४.२३ ॥ ततः समीपवर्तिन्या मया सा ताडिता मृगी । मया त्रस्ता गतान्यत्र क्रुद्धः प्राह ततो मृगः ॥ ७४.२४ ॥ मूढे किमेवं मत्तासि धिक्ते दौः शील्यमीदृशम् । आधानकालो येनायं त्वया मे विफलीकृतः ॥ ७४.२५ ॥ वाचं श्रुत्वा ततस्तस्य मानुषस्येव भाषतः । भीता तमब्रुवं कोऽसीत्येतां योनिमुपागतः ॥ ७४.२६ ॥ ततः स प्राह पुत्रोऽहमृषेर्निर्वृतिचक्षुषः । सुतपा नाम मृग्यान्तु साभिलाषो मृगोऽभवम् ॥ ७४.२७ ॥ इमाञ्चानुगतः प्रेम्णा वाञ्छितश्चानया वने । त्वया वियोजिता दुष्टे तस्माच्छापं ददामि ते ॥ ७४.२८ ॥ मया चोक्तं तवाज्ञानादपराधः कृतो मुने । प्रसादं कुरु शापं मे न भवान् दातुमर्हति ॥ ७४.२९ ॥ इत्युक्तः प्राह मां सोऽपि मुनिरित्थं महीपते । न प्रयच्छामि शापं ते यद्यात्मानं ददासि मे ॥ ७४.३० ॥ मया चोक्तं मृगी नाहं मृगरूपधरा वने । लप्स्यसेऽन्यां मृगीन्तावन्मयि भावो निवर्त्यताम् ॥ ७४.३१ ॥ इत्युक्तः कोपरक्ताक्षः स प्राह स्फुरिताधरः । नाहं मृगी त्वयेत्युक्तं मृगी मूढे भविष्यसि ॥ ७४.३२ ॥ ततो भृशं प्रव्यथिता प्रणम्य मुनिमब्रुवम् । स्वरूपस्थमतिक्रुद्धं प्रसीदेति पुनः पुनः ॥ ७४.३३ ॥ बालानभैज्ञा वाक्यानां ततः प्रोक्तमिदं मया । पितर्यसति नारीभिर्व्रियते हि पतिः स्वयम् ॥ ७४.३४ ॥ सति ताते कथञ्चाहं वृणोमि मुनिसत्तम । सापराधाथवा पादौ प्रसीदेश नमाम्यहम् ॥ ७४.३५ ॥ प्रसीदेति प्रसीदेति प्रणताया महामते । इत्थं लालप्यमानायाः स प्राह मुनिपुङ्गवः ॥ ७४.३६ ॥ न भवत्यन्यथा प्रोक्तं मम वाक्यं कदाचन । मृगी भविष्यसि मृता वनेऽस्मिन्नेव जन्मनि ॥ ७४.३७ ॥ मृगत्वे च महाबाहुस्तव गर्भमुपैष्यति । लोलो नाम मुनेः पुत्रः सिद्धवीर्यस्य भामिनि ॥ ७४.३८ ॥ जीतिस्मरा भवित्री त्वं तस्मिन् गर्भमुपागते । स्मृतिं प्राप्य तथा वाचं मानुषीमीरयिष्यसि ॥ ७४.३९ ॥ त्समिन् जाते मृगीत्वात्त्वं विमुक्ता पतिनार्चिता । लोकानवाप्स्यसि प्राप्या ये न दुष्कृतकर्मभिः ॥ ७४.४० ॥ सोऽपि लोलो महावीर्यः पितृशत्रून्निपात्य वै । जित्वा वसुन्दरां कृत्स्त्रां भविष्यति ततो मनुः ॥ ७४.४१ ॥ एवं शापमहं लब्ध्वा मृता तिर्यक्त्वमागता । त्वत्संस्पर्शाच्च गर्भोऽसौ संभूतो जठरे मम ॥ ७४.४२ ॥ अतो ब्रवीमि नास्थाने तव यातं मनो मयि । न चाप्यगम्या गर्भस्थो लोलो विघ्नं करोत्यसौ ॥ ७४.४३ ॥ मार्कण्डेय उवाच एवमुक्तस्ततः सोऽपि राजा प्राप्य परां मुदम् । पुत्रो ममारीञ्जित्वेति पृथिव्यां भविता मनुः ॥ ७४.४४ ॥ ततस्तं सुषुवे पुत्रं सा मृगी लक्षणान्वितम् । तस्मिन् जाते च भूतानि सर्वाणि प्रययुर्मुदम् ॥ ७४.४५ ॥ विशेषतश्च राजासौ पुत्रे जाते महाबले । सा विमुक्ता मृगी शापात्प्राप लोकाननुत्तमान् ॥ ७४.४६ ॥ ततस्तस्यर्षयः सर्वे समेत्य मुनिसत्तम । अवेक्ष्य भाविनीमृद्धिं नाम चक्रुर्महात्मनः ॥ ७४.४७ ॥ तामसीं भजमानायां योनिं मातर्यजायत । तमसा चावृते लोके तामसोऽयं भविष्यति ॥ ७४.४८ ॥ ततः स तामसस्तेन पित्रा संवर्धितो वने । जातबुद्धिरुवाचेदं पितरं मुनिसत्तम ॥ ७४.४९ ॥ कस्त्वं तात कथं वाहं पुत्रो माता च का मम । किमर्थमागतश्च त्वमेतत्सत्यं ब्रवीहि मे ॥ ७४.५० ॥ मार्कण्डेय उवाच ततः पिता यथावृत्तं स्वराज्यच्यावनादिकम् । तस्याचष्टे महाबहुः पुत्रस्य जगतीपतिः ॥ ७४.५१ ॥ श्रुत्वा तत्सकलं सोऽपि समाराध्य च भारस्करम् । अवाच दिव्यान्यस्त्राणि ससंहाराण्यशेषतः ॥ ७४.५२ ॥ कृतास्त्रस्तानरीन् जित्वा पितुरानीय चान्तिकम् । अनुज्ञातान्मुनोचाथ तेन स्वं धर्ममास्थितः ॥ ७४.५३ ॥ पितापि तस्य स्वान् लोकांस्तपोयज्ञसमार्जितान् । विसृष्टदेहः संप्राप्तो दृष्ट्वा पुत्रमुखं सुखम् ॥ ७४.५४ ॥ जित्वा समस्तां पृथिवीं तामसाख्यः स पार्थिवः । तामसाख्यो मनुरभुत्तस्य मन्वन्तरं शृणु ॥ ७४.५५ ॥ ये देवा यत्पतिर्यश्च देवेन्द्रो ये तथर्षयः । ये पुत्राश्च मनोस्तस्य पृथिवीपरिपालकाः ॥ ७४.५६ ॥ सत्यास्तथान्ये सुधियः सुरूपा हरयस्तथा । एते देवगणास्तत्र सप्तविंशतिका मुने ॥ ७४.५७ ॥ महाबलो महावीर्यः शतयज्ञोपलक्षितः । शिखिरिन्द्रस्तथा तेषां देवानामभवद्विभुः ॥ ७४.५८ ॥ ज्योतिर्धर्मा पृथुः काव्यश्चैत्रोऽग्निर्वलकस्तथा । पीवरश्च तथा ब्रह्मन् ! सप्त गप्तर्षयोऽभवन् ॥ ७४.५९ ॥ नरः क्षान्तिः शान्तदान्तजानुजङ्घादयस्तथा । पुत्रास्तु तामसस्यासन् राजानः सुमहाबलाः ॥ ७४.६० ॥ इत्येतत्तामसं विप्र मन्वन्तरमुदाहृतम् । यः पठेत्शृणुयाद्वापि तमसा सन बाध्यते ॥ ७४.६१ ॥ इति श्रीमार्कण्डेयपुराणेठतामसमन्वन्तरेऽ चतुः सप्ततितमोऽध्यायः. _____________________________________________________________ पञ्चसप्ततितमोऽध्यायः ७५ मार्कण्डेय उवाच पञ्चमोऽपि मनुर्ब्रह्मन् रैवतो नाम विश्रुतः । तस्योत्पत्तिं विस्तरशः शृणुष्व कथयामि ते ॥ ७५.१ ॥ ऋषिरासीन्महाभाग ऋतवागिति विश्रुतः । तस्यापुत्रस्य पुत्रोऽभूद्रेवत्यन्ते महात्मनः ॥ ७५.२ ॥ स तस्य विधिवच्चक्रे जातकर्मादिकाः क्रियाः । तथोपनयनादींश्च स चाशीलोऽभवन्मुने ॥ ७५.३ ॥ यतः प्रभृति जातोऽसौ ततः प्रभृति सोऽप्यृषिः । दीर्घरोगपरामर्शमवाप मुनिपुङ्गवः ॥ ७५.४ ॥ माता तस्य परामार्ति कुष्ठरोगादिपीडिता । जगाम स पिता चास्य चिन्तयामास दुः खितः ॥ ७५.५ ॥ किमेतदिति सोऽप्यस्य पुत्रोऽप्यत्यन्तदुर्मतिः । जग्राह भार्यामन्यस्य मुनिपुत्रस्य संमुखीम् ॥ ७५.६ ॥ ततो विषण्णमनसा ऋतवागिदमुक्तवान् । अपुत्रता मनुष्याणां श्रेयसे न कुपुत्रता ॥ ७५.७ ॥ कुपुत्रो हृदयायासं सर्वदा कुरुते पितुः । मातुश्च स्वर्गसंस्थांश्च स्वपितॄन् पातयत्यधः ॥ ७५.८ ॥ सुहृदां नोपकाराय पितॄणाञ्च न तृप्तये । पित्रोर्दुः खाय धिग्जन्म तस्य दुष्कृतकर्मणः ॥ ७५.९ ॥ धन्यास्ते तनया येषां सर्वलोकाभिसंमताः । परोपकारिणः शान्ताः साधुकर्मण्यनुव्रताः ॥ ७५.१० ॥ अनिर्वृतं तथा मन्दं परलोकपराङ्मुखम् । नरकाय न सद्गत्यै कुपुत्रालम्बि जन्मनः ॥ ७५.११ ॥ करोति सुहृदां दैन्यमहितानां तथा मुदम् । अकाले च जरां पित्रोः कुपुत्रः कुरुते ध्रुवम् ॥ ७५.१२ ॥ मार्कण्डेय उवाच एवं सोऽत्यन्तदुष्टस्य पुत्रस्य चरितैर्मुनिः । दह्यमानमनोवृत्तिर्वृत्तं गर्गमपृच्छत ॥ ७५.१३ ॥ ऋतवागुवाच सुव्रतेन पुरा वेदा गृहीता विधिवन्मया । समप्य वेदान् विधिवत्कृतो दारपरिग्रहः ॥ ७५.१४ ॥ सदारेण क्रियाः कार्याः श्रौताः स्मार्ता वषट्क्रियाः । न मे न्यूनाः कृताः काश्चिद्यावदद्य महामुने ॥ ७५.१५ ॥ गर्भाधानविधानेन न काममनुरुध्यता । पुत्रार्थं जनितश्चायं पुन्नाम्नो बिभ्यता मुने ॥ ७५.१६ ॥ सोऽयं किमात्मदोषेण मम दोषण वा मुने । अस्मद्दुः खवहो जातो दौः शील्याद्बन्धुशोकदः ॥ ७५.१७ ॥ रेवत्यन्ते मुनिश्रेष्ठ ! जातोऽयं तनयस्तव । तेन दुः खाय ते दुष्टे काले यस्मादजायत ॥ ७५.१८ ॥ न तेऽपचारो नैवास्य मातुर्नायं कुलस्य ते । तस्य दौः शील्यहेतुस्तु रेवत्यन्तमुपागतम् ॥ ७५.१९ ॥ ऋतवागुवाच यस्मान्ममैकपुत्रस्य रेवत्यन्तसमुद्भवम् । दौः शील्यमेतत्सा तस्मात्पततामाशु रेवती ॥ ७५.२० ॥ मार्कण्डेय उवाच तेनैवं व्याहृते शापे रेवत्यृक्षं पपात ह । पश्यतः सर्वलोकस्य विस्मयाविष्टचेतसः ॥ ७५.२१ ॥ रेवत्यृक्षञ्च पतितं कुमुदाद्रौ समन्ततः । भावयामास सहसा वनकन्दरनिर्झरम् ॥ ७५.२२ ॥ कुमुदाद्रिश्च तत्पातात्ख्यातो रैवतकोऽभवत् । अतीव रम्यः सर्वस्यां पृथिव्यां पृथिवीधरः ॥ ७५.२३ ॥ तस्यर्क्षस्य तु या कान्तिर्जाता पङ्कजिनी सरः । ततो जज्ञे तदा कन्या रूपेणातीव शोभना ॥ ७५.२४ ॥ रेवतीकान्तिसम्भूतां तां दृष्ट्वा प्रमुचो मुनिः । तस्या नाम चकारेत्थं रेवती नाम भागुरे ॥ ७५.२५ ॥ पोषयामास चैवैतां स्वाश्रमाभ्याससम्भवाम् । प्रमुचः स महाभागस्तस्मिन्नेव महाचले ॥ ७५.२६ ॥ तान्तु यौवनिनीं दृष्ट्वा कान्यकां रूपशालिनीम् । स मुनिश्चिन्तमामास कोऽस्या भर्ता भवेदिति ॥ ७५.२७ ॥ एवं चिन्तयतस्तस्य ययौ कालो महान्मुने । न चाससाद सदृशं वरं तस्या महामुनिः ॥ ७५.२८ ॥ ततस्तस्या वरं प्रष्टुमग्निं स प्रमुचो मुनिः । विवेश वह्निशालां वै प्रष्टारं प्राह हव्यभुक् ॥ ७५.२९ ॥ महाबलो महावीर्यः प्रियवाग्धर्मवत्सलः । दुर्गमो नाम भविता भर्ता ह्यस्य महीपतिः ॥ ७५.३० ॥ मार्कण्डेय उवाच अनन्तरञ्च मृगयाप्रसङ्गेनागतो मुने । तस्याश्रमपदं धीमान् दुर्गमः स नराधिपः ॥ ७५.३१ ॥ प्रियव्रतान्वयभवो महाबलपराक्रमः । पुत्रो विक्रमशीलस्य कालिन्दीजठरोद्भवः ॥ ७५.३२ ॥ स प्रविश्याश्रमपदं तां तन्वीं जगतीपतिः । अपश्यमानस्तमृषिं प्रियेत्यामन्त्र्य पृष्टवान् ॥ ७५.३३ ॥ राजोवाच क्व गतो भगवानस्मादाश्रमान्मुनिपुङ्गवः । तं प्रणेतुमिहेच्छामि तत्त्वं प्रब्रूहि शोभने ॥ ७५.३४ ॥ मार्कण्डेय उवाच अग्निसालां गतो विप्रस्तच्छ्रुत्वा तस्य भाषितम् । प्रियेत्यामन्त्रणञ्चैव निश्चक्राम त्वरान्वितः ॥ ७५.३५ ॥ स ददर्श महात्मानं राजानं दुर्गमं मुनिः । नरेन्द्रचिह्नसहितं प्रश्रयावनतं पुरः ॥ ७५.३६ ॥ तस्मिन् दृष्टे ततः शिष्यमुवाच स तु गौतमम् । गौतमानीयतां शीघ्रमर्घोऽस्य जगतीपतेः ॥ ७५.३७ ॥ एकस्तावदयं भूपश्चिरकालादुपागतः. जामाता च विशेषेण योग्योर्ऽघस्य मतो मम ॥ ७५.३८ ॥ मार्कण्डेय उवाच ततः स चिन्तयामास राजा जामातृकारणम् । विवेद च न तन्मौनी जगृहेर्ऽघञ्च तं नृपः ॥ ७५.३९ ॥ तमासनगतं विप्रो गृहीतार्घं महामुनिः । स्वागतं प्राह राजेन्द्रमपि ते कुशलं गृहे ॥ ७५.४० ॥ कोषे बलेऽथ मित्रेषु भृत्यामात्ये नरेश्वर । तथात्मनि महाबाहो यत्र सर्वं प्रतिष्ठितम् ॥ ७५.४१ ॥ पत्नी च ते कुशलिनी यत एवानुतिष्ठति । पृच्छाम्यस्यास्ततो नाहं कुशलिन्योऽपरास्तव ॥ ७५.४२ ॥ राजोवाच त्वत्प्रसादादकुशलं न क्वचिन्मम सुव्रत । जातकौतूहलश्चास्मि मम भार्यात्र का मुने ॥ ७५.४३ ॥ ऋषिरुवाच रेवती सुमहाभागा त्रैलोक्यस्यापि सुन्दरी । तव भर्या वरारोहा तां त्वं राजन्न वेत्सि किम् ॥ ७५.४४ ॥ राजोवाच सुभद्रां शान्ततनयां कावेरीतनयां विभो । सुराष्ट्रजां सुजाताञ्च कदम्बाञ्च वरूथजाम् ॥ ७५.४५ ॥ विपाठां नन्दिनीञ्चैव वेद्मि भार्यां गृहे द्विज । तिष्ठन्ति मे न भगवन् रेवतीं वेद्मि कान्वियम् ॥ ७५.४६ ॥ ऋषिरुवाच प्रियेति साम्प्रतं येयं त्वयोक्ता वरवर्णिनी । किं विस्मृतन्ते भूपाल ! श्लाघ्येयं गृहिणी तव ॥ ७५.४७ ॥ राजोवाच सत्यमुक्तं मया किन्तु भावो दुष्टो न मे मुने । नात्र कोपं भवान् कर्तुमर्हत्यस्मासु याचितः ॥ ७५.४८ ॥ ऋषिरुवाच तत्त्वं ब्रवीषि भूपाल ! न भावस्तव दूषितः । व्याजहार भवानेतद्वह्निना नृप चोदितः ॥ ७५.४९ ॥ मया पृष्टो हुतवहः कोऽस्या भर्तेति पार्थिव । भविता तेन चाप्युक्तो भवानेवाद्य वै वरः ॥ ७५.५० ॥ तद्गृह्यतां मया दत्ता तुभ्यं कन्या नराधिप । प्रियेत्यामन्त्रिता चेयं विचारं कुरुषे कथम् ॥ ७५.५१ ॥ मार्कण्डेय उवाच ततोऽसावभवन्मौनी तेनोक्तः पृथिवीपतिः । ऋषिस्तथोद्यतः कर्तुं तस्या वैवाहिकं विधिम् ॥ ७५.५२ ॥ तमुद्यतं सा पितरं विवाहाय महामुने । उवाच कन्या यत्किञ्चित्प्रश्रयावनतानना ॥ ७५.५३ ॥ यदि मे प्रीतिमांस्तात प्रिसादं कर्तुमर्हसि । रेवत्यृक्षे विवाहं मे तत्करोतु प्रसादितः ॥ ७५.५४ ॥ ऋषिरुवाच रेवत्यृक्षं न वै भद्रे चन्द्रयोगि व्यवस्थितम् । अन्यानि सन्ति ऋक्षाणि सुभ्रु वैवाहिकानि ते ॥ ७५.५५ ॥ कन्योवाच तात तेन विना कालो विफलः प्रतिभाति मे । विवाहो विफले काले मद्विधायाः कथं भवेत् ॥ ७५.५६ ॥ ऋषिरुवाच ऋतवागिति विख्यातस्तपस्वी रेवतीं प्रति । चकार कोपं क्रुद्धेन तेनर्क्षं विनिपातितम् ॥ ७५.५७ ॥ मया चास्मै प्रतिज्ञाता भर्येति मदिरेक्षणा । न चेच्छसि विवाहं त्वं सङ्कटं नः समागतम् ॥ ७५.५८ ॥ कन्योवाच ऋतवाक्स मुनिस्तात किमेवं तप्तवांस्तपः । न त्वया मम तातेन ब्रह्मबन्धोः सुतास्मि किम् ॥ ७५.५९ ॥ ऋषिरुवाच ब्रह्मबन्धोः सुता न त्वं बाले नैव तपस्विनः । सुता त्वं मम यो देवान् कर्तुमन्यान् समुत्सहे ॥ ७५.६० ॥ कन्योवाच तपस्वी यदि मे तातस्तत्किमृक्षमिदं दिवि । समारोप्य विवाहो मे तदृक्षे क्रियते न तु ॥ ७५.६१ ॥ ऋषिरुवाच एवं भवतु भद्रन्ते भद्रे प्रीतिमती भव । आरोपयामीन्दुमार्गे रेवत्यृक्षं कृते तव ॥ ७५.६२ ॥ मार्कण्डेय उवाच ततस्तपः प्रभावेण रेवत्यृक्षं महामुनिः । यथापूर्वन्तथा चक्रे सोमयोगि द्विजोत्तम ॥ ७५.६३ ॥ विवाहञ्चैव दुहितुर्विधिवद्मन्त्रयोगिनम् । निष्पाद्य प्रीतिमान् भूयो जामातारमथाब्रवीत् ॥ ७५.६४ ॥ औद्वाहिकन्ते भूपाल कथ्यतां किं ददाम्यहम् । दुर्लभ्यमपि दास्यामि ममाप्रतिहतन्तपः ॥ ७५.६५ ॥ राजोवाच मनोः स्वयम्भुवस्याहमुत्पन्नः सन्ततौ मुने । मन्वन्तराधिपं पुत्रं त्वत्प्रसादाद्वृणोम्यहम् ॥ ७५.६६ ॥ ऋषिरुवाच भविष्यत्येष ते कामो मनुस्त्वत्तनयो महीम् । सकलां भोक्ष्यते भूप धर्मविच्च भविष्यति ॥ ७५.६७ ॥ मार्कण्डेय उवाच तामादाय ततो भूपः स्वमेव नगरं ययौ । तस्मादजायत सुतो रेवत्या रैवतो मनुः ॥ ७५.६८ ॥ समेतः सकलैर्धर्मैर्मानवैरपराजितः । विज्ञाताखिलशास्त्रार्थो वेदविद्यार्थशास्त्रवित् ॥ ७५.६९ ॥ तस्य मन्वन्तरे देवान्मुनिदेवेन्द्रपार्थिवान् । कथ्यमानान्मया ब्रह्मन्निबोध सुसमाहितः ॥ ७५.७० ॥ सुमेधसस्तत्र देवास्तथा भूपतयो द्विज । वैकुण्ठश्चामिताभश्च चतुर्दश चतुर्दश ॥ ७५.७१ ॥ तेषां देवगणानान्तु चतुर्णामपि चेश्चरः । नाम्ना विभुरभूदिन्द्रः शतयज्ञोपलक्षकः ॥ ७५.७२ ॥ हिरण्यलोमा वेदश्रीरूर्ध्वबाहुस्तथापरः । वेदबाहुः सुधामा च पर्जन्यश्च महामुनिः ॥ ७५.७३ ॥ वसिष्ठश्च महाभागो वेदवेदान्तपारगः । एते सप्तर्षयश्चासन् रैवतस्यान्तरे मनोः ॥ ७५.७४ ॥ बलबन्धुर्महावीर्यः सुयष्टव्यस्तथापरः । सत्यकाद्यास्तथैवासन् रैवतस्य मनोः सुताः ॥ ७५.७५ ॥ रैवतान्तास्तु मनवः कथिता ये मया तव । स्वायम्भुवाश्रया ह्येते स्वारोचिषमृते मनुम् ॥ ७५.७६ ॥ (य एषां शृणुयान्नित्यं पठेदाख्यानमुत्तमम् । विमुक्तः सर्वपापेभ्यो लोकं प्राप्नोत्यभीप्सितम् ॥ ७५.७७ ॥ इति श्रीमार्कण्डेयपुराणे रैवतमन्वन्तरे पञ्चसप्ततितमोऽध्यायः _____________________________________________________________ षट्सप्ततितमोऽध्यायः ७६ मार्कण्डेय उवाच इत्येतत्कथितं तुभ्यं पञ्च मन्वन्तरं तव । चाक्षुषस्य मनोः षष्ठं श्रूयतामिदमन्तरम् ॥ ७६.१ ॥ अन्यजन्मनि जातोऽसौ चक्षुषः परमेष्ठिनः । चाक्षुषत्वमतस्तस्य जन्मन्यस्मिन्नपि द्विज ॥ ७६.२ ॥ जातं माता निजोत्सङ्गे स्थितमुल्लाप्य तं पुनः । परिष्वजति हार्देन पुनरुल्लापयत्यथ ॥ ७६.३ ॥ जातिस्मरः स जातो वै मातुरुत्सङ्गमास्थितः । जहास तं तदा माता संक्रुद्धा वाक्यमब्रवीत् ॥ ७६.४ ॥ भीतास्मि किमिदं वत्स ! हासो यद्वदने तव । अकालबोधः सञ्जातः कच्चित्पश्यसि शोभनम् ॥ ७६.५ ॥ पुत्र उवाच मामत्तुमिच्छति पुरो मार्जारी किम न पश्यसि । अन्तर्धानगता चेयं द्वितीया जातहारिणी ॥ ७६.६ ॥ पुत्रप्रीत्या च भवती सहार्दा मामवेक्षती । उल्लाप्योल्लाप्य बहुशः परिष्वजति मां यतः ॥ ७६.७ ॥ उद्भूतपुलका स्नेहसम्भवास्त्राविलेक्षणा । ततो ममागतो हासः शृणु चाप्यत्र कारणम् ॥ ७६.८ ॥ स्वार्थे प्रसक्ता मार्जारी प्रसक्तं मामवेक्षते । तथान्तर्धानगा चैव द्वितीया जातहारिणी ॥ ७६.९ ॥ स्वार्थाय स्निग्धहृदया यथैवैते ममोपरि । प्रवृत्ते स्वार्थमास्थाय तथैव प्रतिभासि मे ॥ ७६.१० ॥ किन्तु मदुपभोगाय मार्जारी जातहारिणी । त्वन्तु क्रमेणोपभोग्यं मत्तः फलमभीप्ससि ॥ ७६.११ ॥ न मां जानासि कोऽप्येष न चैवापकृतं मया । सङ्गतं नातिकालीनं पञ्चसप्तदिनात्मकम् ॥ ७६.१२ ॥ तथापि स्त्रिह्यसे सास्त्रा परिष्वजसि चाप्यति । तातेति वत्स ! भद्रेति निर्व्यलीकं ब्रवीषि माम् ॥ ७६.१३ ॥ मातोवाच न त्वाहमुपकारार्थं वत्स ! प्रीत्या परिष्वजे । न चेदेतद्भवत्प्रीत्यै परित्यक्तास्म्यहं त्वया ॥ ७६.१४ ॥ स्वार्थो मया परित्यक्तो यस्त्वत्तो मे भविष्यति । इत्युक्त्वा सा तमुत्सृज्य निष्क्रान्ता सूतिकागृहात् ॥ ७६.१५ ॥ जडाङ्गबाह्यकरणं शुद्धान्तः करणात्मकम् । जहार तं परित्यक्तं सा तदा जातहारिणी ॥ ७६.१६ ॥ सा हृत्वा तं तदा बालं विक्रान्तस्य महीभृतः । प्रसूतपत्नीशयने न्यस्य तस्याददे सुतम् ॥ ७६.१७ ॥ तमप्यन्यगृहे नीत्वा गृहीत्वा तस्य चात्मजम् । तृतीयं भक्षयामास सा क्रमाज्जातहारिणी ॥ ७६.१८ ॥ हृत्वा हृत्वा तृतीयन्तु भक्षयत्यतिनिर्घृणा । करोत्यनुदिनं सा नु परिवर्तन्तथान्ययोः ॥ ७६.१९ ॥ विक्रान्तोऽपि ततस्तस्य सुतस्यैव महीपतिः । कारयामास संस्कारान् राजन्यस्य भवन्ति ये ॥ ७६.२० ॥ आनन्देति च नामास्य पिता चक्रे विधानतः । मुदा परमया युक्तो विक्रान्तः स नराधिपः ॥ ७६.२१ ॥ कृतोपनयनं तन्तु गुरुराह कुमारकम् । जनन्याः प्रागुपस्थानं क्रियताञ्चाभिवादनम् ॥ ७६.२२ ॥ स गुरोस्तद्वचः श्रुत्वा विहस्यैवमथाब्रवीत् । वन्द्या मे कतमा माता जननी पालनी नु किम् ॥ ७६.२३ ॥ गुरुरुवाच न त्वियं ते महाभाग ! जनयित्री रुथात्मजा । विक्रान्तस्याग्रमहिषी हैमिनी नाम नामतः ॥ ७६.२४ ॥ आनन्द उवाच इयं जनित्री चैत्रस्य विशालग्रमवासिनः । विप्राग्र्यबोधपुत्रस्य योऽस्यां जातोऽन्यतो वचम् ॥ ७६.२५ ॥ गुरुरुवाच कुतस्त्वं कथयानन्द ! चैत्रः को वा त्वयोच्यते । सङ्कटं महदाभाति क्व जातोऽत्र ब्रवीषि किम् ॥ ७६.२६ ॥ आनन्द उवाच जातोऽहमवनीन्द्रस्य क्षत्रियस्य गृहे द्विज । तत्पत्न्यां गिरिभद्रायामाददे जातहारिणी ॥ ७६.२७ ॥ तयात्र मुक्तो हैमिन्या गृहीत्वा च सुतञ्च सा । बोधस्य द्विजमुख्यस्य गृहे नीतवती पुनः ॥ ७६.२८ ॥ भक्षयामास च सुतं तस्य बोधद्विजन्मनः । स तत्र द्विजसंस्कारैः संस्कृतो हैमिनीसुतः ॥ ७६.२९ ॥ वयमत्र महाभाग ! संस्कृता गुरुणा त्वया । मया तव वचः कार्यमुपैमि कतमां गुरो ॥ ७६.३० ॥ गुरुरुवाच अतीव गहनं वत्स ! सङ्कटं महदागतम् । न वेद्मि किञ्चिन्मोहेन भ्रमन्तीव हि बुद्धयः ॥ ७६.३१ ॥ आनन्द उवाच मोहस्यावसरः कोऽत्र जगत्येवं व्यवस्थिते । कः कस्य पुत्रो विप्रर्षे ! को वा कस्य नु बान्धवः ॥ ७६.३२ ॥ आरभ्य जन्मनो नॄणां सम्बन्धित्वमुपैति यः । अन्ये सम्बन्धिनो विप्र ! मृत्युना सन्निवर्तिताः ॥ ७६.३३ ॥ अत्रापि जातस्य सतः सम्बन्धोयोऽस्य बान्धवैः । सोऽप्यस्तङ्गते देहे प्रयात्येषोऽखिलक्रमः ॥ ७६.३४ ॥ अतो ब्रवीमि संसारे वसतः को न बान्धवः । को वापि सततं बन्धुः किं वो विभ्राम्यते मतिः ॥ ७६.३५ ॥ पितृद्वयं मया प्राप्तमस्मिन्नेव हि जन्मनि । मातृद्वयञ्च किञ्चित्रं यदन्यद्देहसम्भवे ॥ ७६.३६ ॥ सोऽहं तपः करिष्यामि त्वया यो ह्यस्य भूपतेः । विशालग्रामतः पुत्रश्चैत्र आनीयतामिह ॥ ७६.३७ ॥ मार्कण्डेय उवाच ततः स विस्मितो राजा सभार्यः सह बन्धुभिः । तस्मान्निवर्त्य ममतामनुमेने वनाय तम् ॥ ७६.३८ ॥ चैत्रमानीय तनयं राज्ययोग्यं चकार सः । संमान्य ब्राह्मणं येन पुत्रबुद्ध्या स पालितः ॥ ७६.३९ ॥ सोऽप्यानन्दस्तपस्तेपे बाल एव महावने । कर्मणां क्षुपणार्थाय विमुक्तेः परिपन्थिनाम् ॥ ७६.४० ॥ तपस्यन्तं ततस्तञ्च प्राह देवः प्रजापतिः । किमर्थं तप्यसे वत्स ! तपस्तीव्रं वदस्व तत् ॥ ७६.४१ ॥ आनन्द उवाच आत्मनः शुद्धिकामोऽहं करोमि भगवंस्तपः । बन्धाय मम कर्माणि यानि तत्क्षपणोन्मुखः ॥ ७६.४२ ॥ ब्रह्मोवाच क्षीणाधिकारो भवति मुक्तियोग्यो न कर्मवान् । सत्त्वाधिकारवान्मुक्तिमवाप्स्यति ततो भवान् ॥ ७६.४३ ॥ भवता मनुना भाव्यं षष्ठेन व्रज तत्कुरु । अलन्ते तपसा तस्मिन् कृते मुक्तिमवाप्स्यसि ॥ ७६.४४ ॥ मार्कण्डेय उवाच इत्युक्तो ब्रह्मणा सोऽपि तथेत्युक्त्वा महामतिः । तत्कर्माभिमुखो यातस्तपसो विरराम ह ॥ ७६.४५ ॥ चाक्षुषेत्याह तं ब्रह्मा तपसो विनिवर्तयन् । पूर्वनाम्ना बभूवाथ प्रख्यातश्चाक्षुषो मनुः ॥ ७६.४६ ॥ उपयेमे विदर्भां स सुतामुग्रस्य भूभृतः । तस्याञ्चोत्पादयामास पुत्रान् प्रख्यातविक्रमान् ॥ ७६.४७ ॥ तस्य मन्वन्तरेशस्य येऽन्तरे त्रिदशा द्विज । ये चर्षयस्तथैवेन्द्रो ये सुताश्चास्य तान् शृणु ॥ ७६.४८ ॥ आप्या नाम सुरास्तत्र तेषामेकोऽष्टको गणः । प्रख्यातकर्मणां विप्र ! यज्ञे हव्यभुजामयम् ॥ ७६.४९ ॥ प्रख्यातबलवीर्याणां प्रभामण्डलदुर्दृशाम् । द्वितीयश्च प्रसूताख्यो देवानामष्टको गणः ॥ ७६.५० ॥ तथैवाष्टक एवान्यो भव्याख्यो देवतागणः । चतुर्थश्च गणस्तत्र यूथगाख्यस्तथाष्टकः ॥ ७६.५१ ॥ लेखसंज्ञास्तथैवान्ये तत्र मन्वन्तरे द्विज । पञ्चमे च गणे देवास्तत्संज्ञा ह्यमृताशिनः ॥ ७६.५२ ॥ शतं क्रतूनामाहृत्य यस्तेषामधिपोऽभवत् । मनोजवस्तथैवेन्द्रः संख्यातो यज्ञभागभुक् ॥ ७६.५३ ॥ सुमेधा विरजाश्चैव हविष्मानुन्नतो मधुः । अतिनामा सहिष्णुश्च सप्तासन्निति चर्षयः ॥ ७६.५४ ॥ ऊरुपुरुशतद्युम्नप्रमुखाः सुमहाबलाः । चाक्षुषस्य मनोः पुत्राः पृथिवीपतयोऽभवन् ॥ ७६.५५ ॥ एतत्ते कथितं षष्ठं मया मन्वन्तरं द्विज । चाक्षुषस्य तथा जन्म चरितञ्च महात्मनः ॥ ७६.५६ ॥ साम्प्रतं वर्तते योऽयं नाम्ना वैवस्वतो मनुः । सप्तमीयेऽन्तरे तस्य देवाद्यास्तान् शृणुष्व मे ॥ ७६.५७ ॥ य इदं कीर्तयेद्धीमान् चाक्षुषस्यान्तरं भुवि । शृणुते च लभेत्पुत्रानारोग्यसुखसम्पदम् ॥ ७६.५८ ॥ इति श्रीमार्कण्डेयपुराणे षष्ठं मन्वन्तरं समाप्तम्,अध्यायः षट्सप्ततितमः _____________________________________________________________ सप्तसप्ततितमोऽध्यायः ७७ मार्कण्डेय उवाच मार्तण्ड रस्यवेर्भार्या तनया विश्वकर्मणः । संज्ञा नाम महाभाग तस्यां भानुरजीजनत् ॥ ७७.१ ॥ मनुं प्रख्यातयशसमनेकज्ञानपारगम् । विवस्वतः सुतो यस्मात्तस्माद्वैवस्वतस्तु सः ॥ ७७.२ ॥ संज्ञा च रविणा दृष्टा निमीलयति लोचने । यतस्ततः सरोषोर्ऽकः संज्ञां निष्ठुरमब्रवीत् ॥ ७७.३ ॥ मयि दृष्टे सदा यस्मात्कुरुषे नेत्रसंयमम् । तस्माज्जनिष्यसे मूढे प्रजासंयमनं यमम् ॥ ७७.४ ॥ मार्कण्डेय उवाच ततः सा चपलां दृष्टिं देवी चक्रे भयाकुला । विलोलितदृशं दृष्ट्वा पुनराह च तां रविः ॥ ७७.५ ॥ यस्माद्विलोलिता दृष्टिर्मयि दृष्टे त्वयाधुना । तस्माद्विलोलां तनयां नदीं त्वं प्रसविष्यसि ॥ ७७.६ ॥ मार्कण्डेय उवाच ततस्तस्यान्तु संजज्ञे भर्तृशापेन तेन वै । यमश्च यमुना चेयं प्रख्याता सुमहानदी ॥ ७७.७ ॥ सापि संज्ञा रवेस्तेजः सेहे दुः खेन भामिनी । असहन्ती च सा तेजश्चिन्तयामास वै तदा ॥ ७७.८ ॥ किङ्करोमि क्व गच्छामि क्व गतायाश्च निर्वृतिः । भवेन्मम कथं भर्ता कोपमर्कश्च नैष्यति ॥ ७७.९ ॥ इति संचिन्त्य बहुधा प्रजापतिसुता तदा । बहु मेने महाभागा पितृसंश्रयमेव सा ॥ ७७.१० ॥ ततः पितृगृहे गन्तुं कृतबुद्धिर्यशस्विनी । छायामयीमात्मतनुं निर्ममे दयितां रवेः ॥ ७७.११ ॥ ताञ्चोवाच त्वया वेश्मन्यत्र भानोर्यथा मया । तथा सम्यगपत्येषु वर्तितव्यं यथा रवौ ॥ ७७.१२ ॥ पृष्टयापि न वाच्यन्ते तथैतद्गमनं मम । सैवास्मि नाम संज्ञेति वाच्यमेतत्सदा वचः ॥ ७७.१३ ॥ छायसंज्ञोवाच आकेशग्रहणाद्देवि ! आशापाच्च वचस्तव । करिष्ये कथयिष्यामि वृत्तन्तु शापकर्षणात् ॥ ७७.१४ ॥ इत्युक्ता सा तदा देवी जगाम भवनं पितुः । ददर्श तत्र त्वष्टारं तपसा धूतकल्मषम् ॥ ७७.१५ ॥ बहुमानाच्च तेनापि पूजिता विश्वकर्मणा । तस्थौ पितृगृहे सा तु कञ्चित्कालमनिन्दिता ॥ ७७.१६ ॥ ततस्तां प्राह चार्वङ्गी पिता नातिचिरोषिताम् । स्तुत्वा च तनयां प्रेमबहुमानपुरः सरम् ॥ ७७.१७ ॥ त्वान्तु मे पश्यतो वत्से दिनानि सुबहून्यपि । मुहूर्तार्धसमानि स्युः किन्तु धर्मो विलुप्यते ॥ ७७.१८ ॥ बान्धवेषु चिरं वासो नारीणां न यशस्करः । मनोरथो बान्धवानां नार्या भर्तृगृहे स्थितिः ॥ ७७.१९ ॥ सा त्वं त्रैलोक्यनाथेन भर्त्रा सूर्येण सङ्गता । पितृगेहे चिरं कालं वस्तुं नार्हसि पुत्रिके ॥ ७७.२० ॥ सा त्वं भर्तृगृहं गच्छ तुष्टोऽहं पूजितासि मे । पुनरागमनं कार्यं दर्शनाय शुभे मम ॥ ७७.२१ ॥ मार्कण्डेय उवाच इत्युक्ता सा तदा पित्रा तथेत्युक्त्वा च सा मुने । संपूजयित्वा पितरं जगामाथोत्तरान् कुरून् ॥ ७७.२२ ॥ सूर्यतापमनिच्छन्ती तेजसस्तस्य बिभ्यती । तपश्चचार तत्रापि वडवारूपधारिणी ॥ ७७.२३ ॥ संज्ञेयमिति मन्वानो द्वितीयायामहस्पतिः । जनयामास तनयौ कन्याञ्चैकां मनोरमाम् ॥ ७७.२४ ॥ छायासंज्ञा त्वपत्येषु यथा स्वेष्वतिवत्सला । तथा न संज्ञाकन्यायां पुत्रयोश्चान्ववर्तत ॥ ७७.२५ ॥ लालनाद्युपभोगेषु विशेषमनुवासरम् । मनुस्तत्क्षान्तवानस्य यमस्तस्या न चक्षमे ॥ ७७.२६ ॥ ताडनाय च वै कोपात्पादस्तेन समुद्यतः । तस्याः पुनः क्षान्तिमता न तु देहे निपातितः ॥ ७७.२७ ॥ ततः शशाप तं कोपाच्छायासंज्ञा यमं द्विज । किञ्चित्प्रस्फुरमाणौष्ठी विचलत्पाणिपल्लवा ॥ ७७.२८ ॥ पितुः पत्नीममर्यादं यन्मां तर्जयसे पदा । भुवि तस्मादयं पदास्तवाद्यैव पतिष्यति ॥ ७७.२९ ॥ मार्कण्डेय उवाच इत्याकर्ण्य यमः शापं मात्रा दत्तं भयातुरः । अभ्येत्य पितरं प्राह प्रणिपातपुरः सरम् ॥ ७७.३० ॥ यम उवाच तातैतन्महदाश्चर्यं न दृष्टमिति केनचित् । माता वात्सल्यमुत्सृज्य शापं पुत्रे प्रयच्छति ॥ ७७.३१ ॥ यथा मनुर्ममाचष्टे नेयं मता तथा मम । विगुणेष्वपि पुत्रेषु न माता विगुणा भवेत् ॥ ७७.३२ ॥ मार्कण्डेय उवाच यमस्यैतद्वचः श्रुत्वा भगवांस्तिमिरापहः । छायासंज्ञां समाहूय पप्रच्छ क्व गतेति सा ॥ ७७.३३ ॥ सा चाह तनया त्वष्टुरहं संज्ञा विभावसो । पत्नी तव त्वयापत्यान्येतानि जनितानि मे ॥ ७७.३४ ॥ इत्थं विवस्वतः सा तु बहुशः पृच्छतो यदा । नाचचक्षे ततः क्रुद्धो भास्वांस्तां शप्तुमुद्यतः ॥ ७७.३५ ॥ ततः सा कथयामास यथावृत्तं विवस्वतः । विदितार्थश्च भगवान् जगाम त्वष्टुरालयम् ॥ ७७.३६ ॥ ततः स पूजयामास तदा त्रैलोक्यपूजितम् । भास्वन्तं परया भक्त्या निजगेहमुपागतम् ॥ ७७.३७ ॥ संज्ञां पृष्टस्तदा तस्मै कथयामास विश्वकृत् । आगतैवेह मे वेश्म भवतः प्रेषितेति वै ॥ ७७.३८ ॥ दिवाकरः समाधिस्थो वडवारूपधारिणीम् । तपश्चरन्तीं ददृशे उत्तरेषु कुरुष्वथ ॥ ७७.३९ ॥ सौम्यमूर्तिः शुभाकारो मम भर्ता भवेदिति । अभिसन्धिञ्च तपसो बुबुधेऽस्या दिवाकरः ॥ ७७.४० ॥ शातनं तेजसो मेऽद्य क्रियतामिति भास्करः । तञ्चाह विश्वकर्माणं संज्ञायाः पितरं द्विज ॥ ७७.४१ ॥ संवत्सरभ्रमेस्तस्य विश्वकर्मा करवेस्ततः । तेजसः शातनञ्चक्रे स्तूयमानश्च दैवतैः ॥ ७७.४२ ॥ इति श्रीमार्कण्डेयपुराणे वैवस्वतमन्वन्तरे सप्तसप्ततितमोऽध्यायः _____________________________________________________________ अष्टसप्ततितमोऽध्यायः ७८ मार्कण्डेय उवाच ततस्तं तुष्टुवुर्देवास्तथा देवर्षयो रविम् । वाग्भिरोड्यमशेषस्य त्रैलोक्यस्य समागताः ॥ ७८.१ ॥ देवा ऊचुः नमस्ते ऋक्स्वरूपाय सामरूपाय ते नमः । यजुः स्वरूपरूपाय साम्नान्धामवते नमः ॥ ७८.२ ॥ ज्ञानैकधामभूताय निर्धूततमसे नमः । शुद्धज्योतिः स्वरूपाय विशुद्धायामलात्मने ॥ ७८.३ ॥ वरिष्ठाय वरेण्याय परस्मै परमात्मने । नमोऽखिलजगद्व्यापिस्वरूपायात्ममूर्तये ॥ ७८.४ ॥ इदं स्तोत्रवरं रम्यं श्रोतव्यं श्रद्धया नरैः । शिष्यो भूत्वा समाधिस्थो दत्त्वा देयं गुरोरपि ॥ ७८.५ ॥ न शून्यभूतैः श्रोतव्यमेतत्तु सफलं भवेत् । सर्वकारणभूताय निष्ठायै ज्ञानचेतसाम् ॥ ७८.६ ॥ नमः सूर्यस्वरूपाय प्रकाशात्मस्वरूपिणे । भास्कराय नमस्तुभ्यं तथा दिनकृते नमः ॥ ७८.७ ॥ शर्वरीहेतवे चैव सन्ध्याज्योत्स्नाकृते नमः । त्वं सर्वमेतद्भगवन् जगदुद्भ्रमता त्वया ॥ ७८.८ ॥ भ्रमत्याविद्धमखिलं ब्रह्माण्डं सचराचरम् । त्वदंशुभिरिदं स्पृष्टं सर्वं सञ्जायते शुचि ॥ ७८.९ ॥ क्रियते त्वत्करैः स्पर्शाज्जलादीनां पवित्रता । होमदानादिको धर्मो नोपकाराय जायते ॥ ७८.१० ॥ तावद्यावन्न संयोगि जगदेतत्त्वदंशुभिः । ऋचस्ते सकला ह्येता यजूंष्येतानि चान्यतः ॥ ७८.११ ॥ सकलानि च सामानि निपतन्ति त्वदड्गतः । ऋङ्मयस्त्वं जगन्नाथ ! त्वमेव च यजुर्मयः ॥ ७८.१२ ॥ यतः साममयश्चैव ततो नाथ ! त्रयीमयः । त्वमेव ब्रह्मणो रूपं परञ्चापरमेव च ॥ ७८.१३ ॥ मूर्तामूर्तस्तथा सूक्ष्मः स्थूलरूपस्तथा स्थितः । निमेषकाष्ठादिमयः कालरूपः क्षयात्मकः । प्रसीद स्वेच्छया रूपं स्वतेजः शमनं कुरु ॥ ७८.१४ ॥ मार्कण्डेय उवाच एवं संस्तूयमानस्तु देवैर्देवर्षिभिस्तथा । मुमोच स्वं तदा तेजस्तेजसां राशिरव्ययः ॥ ७८.१५ ॥ यत्तस्य ऋङ्मयं तेजो भविता तेन मेदिनी । यजुर्मयेनापि दिवं स्वर्गः साममयं रवेः ॥ ७८.१६ ॥ शातितास्तेजसो भागा ये त्वष्ट्रा दश पञ्च च । त्वष्ट्रैव तेन शर्वस्य कृतं शूलं महात्मना ॥ ७८.१७ ॥ चक्रं विष्णोर्वसूनाञ्च शङ्कवोऽथ सुदारुणाः । पावकस्य तथा शक्तिः शिबिका धनदस्य च ॥ ७८.१८ ॥ अन्येषामसुरारीणामस्त्राण्युग्राणि यानि वै । यक्षविद्याधराणाञ्च तानि चक्रे स विश्वकृत् ॥ ७८.१९ ॥ ततश्च षोडशं भागं बिभर्ति भगवान् विभुः । तत्तेजः पञ्चदशधा शातितं विश्वकर्मणा ॥ ७८.२० ॥ ततोऽश्वरूपधृग्भानुरुत्तरानगमत्कुरून् । तदृशे तत्र संज्ञाञ्च वडवारूपधारिणीम् ॥ ७८.२१ ॥ सा च दृष्ट्वा तमायान्तं परपुंसो विशङ्कया । जगाम संमुखं तस्य पृष्ठरक्षणतत्परा ॥ ७८.२२ ॥ ततश्च नासिकायोगं तयोस्तत्र समेतयोः । नासत्यदस्त्रौ तनयावश्वीवक्त्रविनिर्गतौ ॥ ७८.२३ ॥ रेतसोऽन्ते च रेवन्तः खड्गी चर्मो तनुत्रधृक् । अश्वारूढः समुद्भूतो बाणतूणसमन्वितः ॥ ७८.२४ ॥ ततः स्वरूपमतुलं दर्शयामास भानुमान् । तस्यैषा च समालोक्य स्वरूपं मुदमाददे ॥ ७८.२५ ॥ स्वरूपधारिणीञ्चैमामानिनाय निजाश्रयम् । संज्ञां भार्यां प्रीतिमतीं भास्करो वारितस्करः ॥ ७८.२६ ॥ ततः पूर्वसुतो योऽस्याः सोऽभूद्वैवस्वतो मनुः । द्वितीयश्च यमः शापाद्धर्मदृष्टिरभूत्सुतः ॥ ७८.२७ ॥ कृमयो मांसमादाय पादतोऽस्य महीतले । पतिष्यन्तीति शापान्तं तस्य चक्रे पिता स्वयम् ॥ ७८.२८ ॥ धर्मदृष्टिर्यतश्चासौ समो मित्रे तथाहिते । ततो नियोगं तं याम्ये चकार तिमिरापहः ॥ ७८.२९ ॥ यमुना च नदी जज्ञे कलिन्दान्तरवाहिनी । अश्विनौ देवभिषजौ कृतौ पित्रा महात्मना ॥ ७८.३० ॥ गुह्यकाधिपतित्वे च रेवन्तोऽपि नियोजितः । च्छायासंज्ञासुतानाञ्च नियोगः श्रुयतां मम ॥ ७८.३१ ॥ पूर्वजस्य मनोस्तुल्यश्छायासंज्ञासुतोऽग्रजः । ततः सावर्णिकीं संज्ञामवाप तनयो रवेः ॥ ७८.३२ ॥ भविष्यति मनुः सोऽपि बलिरिन्द्रो यदा तदा । शनैश्चरो ग्रहाणाञ्च मध्ये पित्रा नियोजितः ॥ ७८.३३ ॥ तयोस्तृतीया या कन्या तपती नाम सा कुरुम् । नृपात्संवरणात्पुत्रमवाप मनुजेश्वरम् ॥ ७८.३४ ॥ तस्य वैवस्वतस्याहं मनोः सप्तममन्तरम् । कथयामि सुतान् भूपानृषीन् देवान् सुराधिपम् ॥ ७८.३५ ॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे वैवस्वतोत्पत्तिर्नामाष्टसप्ततितमोऽध्यायः _____________________________________________________________ ऊनाशीतितमोऽध्यायः ७९ मार्कण्डेय उवाच आदित्या वसवो रुद्राः साध्या विश्वे मरुद्गणाः । भृगवोऽङ्गिरसश्चाष्टौ यत्र देवगणाः स्मृताः ॥ ७९.१ ॥ आदित्या वसवो रुद्रा विज्ञेयाः कश्यपात्मजाः । साध्याश्च मरुतो विश्वे धर्मपुत्रगणास्त्रयः ॥ ७९.२ ॥ भृगोस्तु भृगवो देवाः पुत्रा ह्यङ्गिरसः सुताः । एष सर्गश्च मारीचो विज्ञेयः साम्प्रताधिपः ॥ ७९.३ ॥ ऊर्जस्वी नाम चैवेन्द्रो महात्मा यज्ञभागभुक् । अतीतानागता ये च वर्तन्ते साम्प्रतञ्च ये ॥ ७९.४ ॥ सर्वे ते त्रिदशेन्द्रास्तु विज्ञेयास्तुल्यलक्षणाः । सहस्राक्षाः कुलिशिनः सर्व एव पुरन्दराः ॥ ७९.५ ॥ मघवन्तो वृषाः सर्वे शृङ्गिणो गजगामिनः । ते शतक्रतवः सर्वे भूताभिभवतेजसः ॥ ७९.६ ॥ धर्माद्यैः कारणैः सुद्धैराधिपत्यगुणान्विताः । भूतभव्यभवन्नाथाः शृणु चैतत्त्रयं द्विज ॥ ७९.७ ॥ भूर्लोकोऽयं स्मृता भूमिरन्तरिक्षं दिवः स्मृतम् । दिव्याख्याश्च तथा स्वर्गस्त्रैलोक्यमिति गद्यते ॥ ७९.८ ॥ अत्रिश्चैव वसिष्ठश्च काश्यपश्च महानृषिः । गौतमश्च भरद्वाजौ विश्वामित्रोऽथ कौशिकः ॥ ७९.९ ॥ तथैव पुत्रो भगवानृचीकस्य महात्मनः । जमदग्निस्तु सप्तैते मुनयोऽत्र नथान्तरे ॥ ७९.१० ॥ इक्ष्वाकुर्नाभगश्चैव धृष्टः शर्यातिरेव च । नरिष्यन्तश्च विख्यातो नाभागारिष्ट एव च ॥ ७९.११ ॥ करूषश्च पृषध्रश्च वसुमान् लोकविश्रुतः । मनोर्वैवस्वतस्यैते नव पुत्राः प्रकीर्तिताः ॥ ७९.१२ ॥ वैवस्वतमिदं ब्रह्मन् ! कथितन्ते मयान्तरम् । अस्मिन् श्रुते नरः सद्यः पठिते चैव सत्तम । मुच्यते पातकैः सर्वैः पुण्यञ्च महदश्नते ॥ ७९.१३ ॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे वैवस्वतकीर्तनं नामैकोनाशीतितमोऽध्यायः _____________________________________________________________ अशीतितमोऽध्यायः ८० क्रौष्टुकिरुवाच स्वायम्भुवाद्याः कथिताः सप्तैते मनवो मम । तदन्तरेषु ये देवा राजानो मुनयस्तथा ॥ ८०.१ ॥ अस्मिन् कल्पे सप्त येऽन्ये भविष्यन्ति महामुने । मनवस्तान् समाचक्ष्व ये च देवादयश्च ये ॥ ८०.२ ॥ मार्कण्डेय उवाच कथितस्तव सावर्णिश्छायासंज्ञासुतश्च यः । पूर्वजस्य मनोस्तुल्यः स मनुर्भविताष्टमः ॥ ८०.३ ॥ रामो व्यासो गालवश्च दीप्तिमान् कृप एव च । ऋष्यशृङ्गस्तथा द्रोणस्तत्र सप्तर्षयोऽभवन् ॥ ८०.४ ॥ सुतपाश्चामिताभाश्च मुख्याश्चैव त्रिधा सुराः । विंशकः कथिताश्चैषां त्रयाणां त्रिगुणो गणः ॥ ८०.५ ॥ तपस्तप्तश्च शक्रश्च द्युतिर्ज्योतिः प्रभाकरः । प्रभासो दयितो धर्मस्तेजोरश्मिश्चिरक्रतुः ॥ ८०.६ ॥ इत्यादिकस्तु सुतपा देवानां विंशको गणः । प्रभुर्विभुर्विभासाद्यस्तथान्यो विंशको गणः ॥ ८०.७ ॥ सुराणाममिताभानां तृतीयमपि मे शृणु । दमो दान्तो ऋतः सोमो वित्ताद्याश्चैव विंशतिः ॥ ८०.८ ॥ मुख्या ह्येते समाख्याता देवा मन्वन्तराधिपाः । मारीचस्यैव ते पुत्राः कश्यपस्य प्रजापतेः ॥ ८०.९ ॥ भविष्याश्च भविष्यन्ति सावर्णस्यान्तरे मनोः । तेषामिन्द्रो भविष्यस्तु बलिर्वैरोचनिर्मुने ॥ ८०.१० ॥ पाताल आस्ते योऽद्यापि दैत्यः समयबन्धनः । विरजाश्चार्ववीरश्च निर्मोहः सत्यवाक्कृतिः । विष्ण्वाद्याश्चैव तनयाः सावर्णस्य मनोर्नृपाः ॥ ८०.११ ॥ इति श्रीमार्कण्डेयपुराणेऽशीतितमोऽध्यायः _____________________________________________________________ एकाशीतितमोऽध्यायः ८१। मार्कण्डेय उवाच सावर्णिः सूर्यतनयो यो मनुः कथ्यतेऽष्टमः । निशामय तदुत्पत्तिं विस्तराद्गदतो मम ॥ ८१.१ ॥ महामायानुभावेन यथा मन्वन्तराधिपः । स बभूव महाभागः सावर्णिस्तनयो रवेः ॥ ८१.२ ॥ स्वारोचिषेऽन्तरे पूर्वं चैत्रवंशसमुद्भवः । सुरथो नाम राजाभूत्समस्ते क्षितिमण्डले ॥ ८१.३ ॥ तस्य पालयतः सम्यक्प्रजाः पुत्रानिवौरसान् । बभूवुः शत्रवो भूपाः कोलाविध्वंसिनस्तथा ॥ ८१.४ ॥ तस्य तैरभवद्युद्धमतिप्रबलदण्डिनः । न्यूनैरपि स तैर्युद्धे कोलाविध्वंसिभिर्जितः ॥ ८१.५ ॥ ततः स्वपुरमायातो निजदेशाधिपोऽभवत् । आक्रान्तः स महाभागस्तैस्तदा प्रबलारिभिः ॥ ८१.६ ॥ अमात्यैर्बलिभिर्दुष्टैर्दुर्बलस्य दुरात्मभिः । कोषो बलञ्चापहृतं तत्रापि स्वपुरे ततः ॥ ८१.७ ॥ ततो मृगयाव्याजेन हृतस्वाम्यः स भुपतिः । एकाकी हयमारुह्य जगाम गहनं वनम् ॥ ८१.८ ॥ स तत्राश्रममद्राक्षीद्द्विजवर्यस्य मेधसः । प्रशान्तश्वापदाकीर्णं मुनिश्ष्योपशोभितम् ॥ ८१.९ ॥ तस्थौ कञ्चित्स कालञ्च मुनिना तेन सत्कृतः । इतश्चैतश्च विचरंस्तस्मिन्मुनिवराश्रमे ॥ ८१.१० ॥ सोऽचिन्तयत्तदा तत्र ममत्वाकृष्टचेतनः । मत्पूर्वैः पालितं पूर्वं मया हीनं पुरं हि तत् । मद्भृत्यैस्तैरसद्वृत्तैर्धर्मतः पाल्यते न वा ॥ ८१.११ ॥ न जाने स प्रधानो मे शूरहस्ती सदामदः । मम वैरिवशं यातः कान् भोगानुपलप्स्यते ॥ ८१.१२ ॥ ये ममानुगता नित्यं प्रसादधनभोजनैः । अनुवृत्तिं ध्रुवं तेऽद्य कुर्वन्त्यन्यमहीभृताम् ॥ ८१.१३ ॥ असम्यग्व्ययशीलैस्तैः कुर्वद्भिः सततं व्ययम् । संचितः सोऽतिदुः खेन क्षयं कोशो गमिष्यति ॥ ८१.१४ ॥ एतच्चान्यच्च सततं चिन्तयामास पार्थिवः । तत्र विप्राश्रमाभ्यासे वैश्यमेकं ददर्श सः ॥ ८१.१५ ॥ स पृष्टस्तेन कस्त्वं भोः हेतुश्चागमनेऽत्र कः । सशोक इव कस्मात्त्वं दुर्मना इव लक्ष्यसे ॥ ८१.१६ ॥ इत्याकर्ण्य वचस्तस्य भूपतेः प्रणयोदितम् । प्रत्युवाच स तं वैश्यः प्रश्रयावनतो नृपम् ॥ ८१.१७ ॥ वैश्य उवाच समाधिर्नाम वैश्योऽहमुत्पन्नो धनिनां कुले । पुत्रदारैर्निरस्तश्च धनलोभादसाधुभिः ॥ ८१.१८ ॥ विहीनश्च धनैर्दारैः पुत्रैरादाय मे धनम् । वनमभ्यागतो दुः खी निरस्तश्चाप्तबन्धुभैः ॥ ८१.१९ ॥ सोऽहं न वेद्मि पुत्राणां कुशलाकुशलात्मिकाम् । प्रवृत्तिं स्वजनानाञ्च दाराणाञ्चात्र संस्थितः ॥ ८१.२० ॥ किं नु तेषां गृहे क्षेममक्षेमं किं नु साम्प्रतम् । कथं ते किं नु सद्वृत्ताः दुर्वृत्ताः किं नु मे सुताः ॥ ८१.२१ ॥ राजोवाच यैर्निरस्तो भवांल्लुब्धैः पुत्रदारादिभिर्धनैः । तेषु किं भवतः स्नेहमनुबध्नाति मानसम् ॥ ८१.२२ ॥ वैश्च उवाच एवमेतद्यथा प्राह भवानस्मद्गतं वचः । किं करोमि न बध्नाति मम निष्ठुरतां मनः ॥ ८१.२३ ॥ यैः सन्त्यज्य पितृस्नेहं धनलुब्धैर्निराकृतः । पतिस्वजनहार्दं च हार्दि तेष्वेव मे मनः ॥ ८१.२४ ॥ किमेतन्नाभिजानामि जानन्नपि महामते । यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुषु ॥ ८१.२५ ॥ तेषां कृते मे निः श्वासो दौर्मनस्यं च जायते । करोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम् ॥ ८१.२६ ॥ मार्कण्डेय उवाच ततस्तौ सहितौ विप्र तं मुनिं समुपस्थितौ । समाधिर्नाम वैश्योऽसौ स च पार्थिवसत्तमः ॥ ८१.२७ ॥ कृत्वा तु तौ यथान्यायं यथार्हं तेन संविदम् । उपविष्टौ कथाः काश्चिच्चक्रतुर्वैश्यपार्थिवौ ॥ ८१.२८ ॥ राजौवाच भगवंस्त्वामहं प्रष्टुमिच्चाम्येकं वदस्व तत् । दुः खाय यन्मे मनसः स्वचित्तायत्ततां विना ॥ ८१.२९ ॥ ममत्वं गतराज्यस्य राज्याङ्गेष्वखिलेष्वपि । जानतोऽपि यथाज्ञस्य किमेतन्मुनिसत्तम ॥ ८१.३० ॥ अयं च निकृतः पुत्रैर्दारैर्भृत्यैस्तथोज्झितः । स्वजनेन च सन्त्यक्तस्तेषु हार्दे तथाप्यति ॥ ८१.३१ ॥ एवमेष तथाहं च द्वावप्यत्यन्तदुः खितौ । दृष्टदोषेऽपि विषये ममत्वाकृष्टमानसौ ॥ ८१.३२ ॥ तत्किमेतन्महाभाग यन्मोहो ज्ञानिनोरपि । ममास्य च भवत्येषा विवेकान्धस्य मूढता ॥ ८१.३३ ॥ ऋषिरुवाच ज्ञानमस्ति समस्तस्य जन्तोर्विषयगोचरे । विषयश्च महाभाग याति चैवं पृथक्पृथक् ॥ ८१.३४ ॥ दिवान्धाः प्राणिनः केचिद्रात्रावन्धास्तथापरे । केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः ॥ ८१.३५ ॥ ज्ञानिनो मनुजाः सत्यं किन्तु ते न हि केवलम् । यतो हि ज्ञानिनः सर्वे पशुपक्षिमृगादयः ॥ ८१.३६ ॥ ज्ञानं च तन्मनुष्याणां यत्तेषां मृगृपक्षिणाम् । मनुष्याणां च यत्तेषां तुल्यमन्यत्तथोभयोः ॥ ८१.३७ ॥ ज्ञानेऽपि सति पश्यैतान् पतङ्गाञ्छावचञ्चुषु । कणमोक्षादृतान्मोहात्पीड्यमानानपि क्षुधा ॥ ८१.३८ ॥ मानुषा मनुजव्याघ्र साभिलाषाः सुतान् प्रति । लोभात्प्रत्युपकाराय नन्वेतान् किं न पश्यसि ॥ ८१.३९ ॥ तथापि ममतावर्ते मोहगर्ते निपातिताः । महामायाप्रभावेण संसारस्थितिकारिणा ॥ ८१.४० ॥ तन्नात्र विस्मयः कार्यो योगनिद्रा जगत्पतेः । महामाया हरेश्चैतत्तथा संमोह्यते जगत् ॥ ८१.४१ ॥ ज्ञानिनामपि चेतांसि देवी भगवती हि सा । बलादाकृष्य मोहाय महामाया प्रयच्छति ॥ ८१.४२ ॥ तया विसृज्यते विश्वं जगदेतच्चराचरम् । सैषा प्रसन्ना वरदा नृणां भवति मुक्तये ॥ ८१.४३ ॥ सा विद्या परमा मुक्तेर्हेतुभूता सनातनी । संसारबन्धहेतुश्च सैव सर्वेश्वरेश्वरी ॥ ८१.४४ ॥ रोजोवाच भगवन् ! का हि सा देवी महामायेति यां भवान् । ब्रवीति कथमुत्पन्ना सा कर्मास्याश्च किं द्विज ॥ ८१.४५ ॥ यत्स्वभावा च सा देवी यत्स्वरूपा यदुद्भवा । तत्सर्वं श्रोतुमिच्छामि त्वत्तो ब्रह्मविदां वर ॥ ८१.४६ ॥ ऋषिरुवाच नित्यैव सा जगन्मूर्तिस्तया सर्वमिदं ततम् । तथापि तत्समुत्पत्तिर्बहुधा श्रुयतां मम ॥ ८१.४७ ॥ देवानां कार्यसिद्ध्यर्थमाविर्भवति सा यदा । उत्पन्नेति तदा लोके सा नित्याप्यभिधीयते ॥ ८१.४८ ॥ योगनिद्रां यदा विष्णुर्जगत्येकार्णवीकृते । आस्तीर्य शेषमभजत्कल्पान्ते भगवान् प्रभुः ॥ ८१.४९ ॥ तदा द्वावसुरौ घोरौ विख्यातौ मधुकैटभौ । विष्णुकर्णमलोद्भूतौ हन्तुं ब्रह्माणमुद्यतौ ॥ ८१.५० ॥ स नाभिकमले विष्णोः स्थितो ब्रह्मा प्रजापतिः । दृष्ट्वा तावसुरौ चोग्रौ प्रसुप्तं च जनार्दनम् ॥ ८१.५१ ॥ तुष्टाव योगनिद्रां तामेकाग्रहृदयस्थितः । विबोधनार्थाय हरेर्हरिनेत्रकृतालयाम् ॥ ८१.५२ ॥ ब्रह्मोवाच विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम् । निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ॥ ८१.५३ ॥ त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका । सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ॥ ८१.५४ ॥ अर्धमात्रा स्थिता नित्या यानुच्चार्या विशेषतः । त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा ॥ ८१.५५ ॥ त्वयैव धार्यते सर्वं त्वयैतत्सृज्यते जगत् । त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा ॥ ८१.५६ ॥ विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने । तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये ॥ ८१.५७ ॥ महाविद्या महामाया महामेधा महास्मृतिः । महामोहा च भवती महादेवी महेश्वरी ॥ ८१.५८ ॥ प्रकृतिस्त्वञ्च सर्वस्य गुणत्रयविभाविनी । कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा ॥ ८१.५९ ॥ त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा । लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च ॥ ८१.६० ॥ खडिगनी शूलिनी घोरा गदिनी चक्रिणी तथा । शङ्खिनी चापिनी बाणभुशुण्डी परिघायुधा ॥ ८१.६१ ॥ सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी । परापराणां परमा त्वमेव परमेश्वरी ॥ ८१.६२ ॥ यच्च किञ्चित्क्वचिद्वस्तु सदसद्वाखिलात्मिके । तस्य सर्वस्य या शिक्तिः सा त्वं किं स्तूयते तदा ॥ ८१.६३ ॥ यया त्वया जगत्स्त्रष्टा जगत्पात्यत्ति यो जगत् । सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः ॥ ८१.६४ ॥ विष्णुः शरीरग्रहणमहामीशान एव च । कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् ॥ ८१.६५ ॥ सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता । मोहयैतौ दुराधर्षावसुरो मधुकैटभौ ॥ ८१.६६ ॥ प्रबोधञ्च जगत्स्वामी नीयतामच्युतो लघु । बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ॥ ८१.६७ ॥ ऋषिरुवाच एवं स्तुता तदा देवी तामसी तत्र वेधसा । विष्णोः प्रबोधनार्थाय निहन्तुं मधुकैटभौ ॥ ८१.६८ ॥ नेत्रास्यनासिकाबाहुहृदयेभ्यस्तथोरसः । निर्गम्य दर्शने तस्थौ ब्रह्मणोऽव्यक्तजन्मनः ॥ ८१.६९ ॥ उत्तस्थौ च जगन्नाथस्तया मुक्तो जनार्दनः । एकार्णवेऽहिशयनात्ततः स ददृशे च तौ ॥ ८१.७० ॥ मधुकैटभौ दुरात्मानावतिवीर्यपराक्रमौ । क्रोधरक्तेक्षणावत्तुं ब्रह्माणं जनितोद्यमौ ॥ ८१.७१ ॥ समुत्थाय ततस्ताभ्यां युयुधे भगवान् हरिः । पञ्चवर्षसहस्राणि बाहुप्रहरणो विभुः ॥ ८१.७२ ॥ तावप्यतिबलोन्मत्तौ महामायाविमोहितौ । उक्तवन्तौ वरोऽस्मत्तो व्रियतामिति केशवम् ॥ ८१.७३ ॥ भगवानुवाच भवनेतामद्य मे तुष्टौ मम वध्यावुभावपि । किमन्येन वरेणात्र एतावद्धि वृतं मम ॥ ८१.७४ ॥ ऋषिरुवाच वञ्चिताभ्यामिति तदा सर्वमापोमयं जगत् । विलोक्य ताभ्यां गदितो भगवान् कमलेक्षणः ॥ ८१.७५ ॥ आवां जहि न यत्रोर्वो सलिलेन परिप्लुता । प्रीतौ स्वस्तव युद्धेन श्लाघ्यस्त्वं मृत्युरावयोः ॥ ८१.७६ ॥ ऋषिरुवाच तथेत्युक्त्वा भगवता शङ्खचक्रगदाभृता । कृत्वा चक्रेण वै च्छिन्ने जघने शिरसी तयोः ॥ ८१.७७ ॥ एवमेषा समुत्पन्ना ब्रह्मणा संस्तुता स्वयम् । प्रभावमस्या देव्यास्तु भूयः शृणु वदामि ते ॥ ८१.७८ ॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये मधुकैटभवधो नाम एकाशीतितमोऽध्यायः _____________________________________________________________ द्व्यशीतितमोऽध्यायः ८२ ऋषिरुवाच देवासुरमभूद्युद्धं पूर्णमब्दशतं पुरा । महिषेऽसुराणामधिपे देवानां च पुरन्दरे ॥ ८२.१ ॥ तत्रासुरैर्महावीर्यैर्देवसैन्यं पराजितम् । जित्वा च सकलान् देवानिन्द्रोऽबून्महिषासुरः ॥ ८२.२ ॥ ततः पराजिता देवाः पद्मयोनिं प्रजापतिम् । पुरस्कृत्य गतास्तत्र यत्रेशगरुडध्वजौ ॥ ८२.३ ॥ यथावृत्तं तयोस्तद्वन्महिषासुरचेष्टितम् । त्रिदशाः कथयामासुर्देवाभिभवविस्तरम् ॥ ८२.४ ॥ सूर्येन्द्रग्न्यनिलेन्दूनां यमस्य वरुणस्य च । अन्येषां चाधिकारान् स स्वयमेवाधितिष्ठिति ॥ ८२.५ ॥ स्वर्गान्निराकृताः सर्वे तेन देवगणा भुवि । विचरन्ति यथा मर्त्या महिषेण दुरात्मना ॥ ८२.६ ॥ एतद्वः कथितं सर्वममरारिविचेष्टितम् । शरणं वः प्रपन्नाः स्मो वधस्तस्य विचिन्त्यताम् ॥ ८२.७ ॥ ऋषिरुवाच इत्थं निशम्य देवानां वचांसि मधुसूदनः । चकार कोपं शम्भुश्च भ्रुकुटीकुटिलाननौ ॥ ८२.८ ॥ ततोऽतिकोपपूर्णस्य चक्रिणो वदनात्ततः । निश्चक्राम महत्तेजो ब्रह्मणः शङ्करस्य च ॥ ८२.९ ॥ अन्येषाञ्चैव देवानां शक्रादीनां शरीरतः । निर्गतं सुमहत्तेजस्तच्चैक्यं समगच्छत ॥ ८२.१० ॥ अतीव तेजसः कूटं ज्वलन्तमिव पर्वतम् । ददृशुस्ते सुरास्तत्र ज्वालाव्याप्तदिगन्तरम् ॥ ८२.११ ॥ अतुलं तत्र तत्तेजः सर्वदेवशरीरजम् । एकस्थं तदभून्नारी व्याप्तलोकत्रयं त्विषा ॥ ८२.१२ ॥ यदभूच्छाम्भवं तेजस्तेनाजायत तन्मुखम् । याम्येन चाभवन् केशा बहवो विष्णुतेजसा ॥ ८२.१३ ॥ सौम्येन स्तनयोर्युग्मं मध्यं चैन्द्रेण चाभवत् । वारुणेन च जङ्घोरू नितम्बस्तेजसा भुवः ॥ ८२.१४ ॥ ब्रह्मणस्तेजसा पादौ तदङ्गुल्योर्ऽकतेजसा । वसूनाञ्च कराङ्गुल्यः कौबेरेण च नासिका ॥ ८२.१५ ॥ तस्यास्तु दन्ताः सम्भूताः प्राजापत्येन तेजसा । नयनत्रितयं जज्ञे तथा पावकतेजसा ॥ ८२.१६ ॥ भ्रुवौ च सन्ध्ययोस्तेजः श्रवणावनिलस्य च । अन्येषां चैव देवानां सम्भवस्तेजसां शिवा ॥ ८२.१७ ॥ ततः समस्तदेवानां तेजोराशिसमुद्भवाम् । तां विलोक्य मुदं प्रापुरमरा महिषार्दिताः ॥ ८२.१८ ॥ ततो देवा ददुस्तस्यै स्वानि स्वान्यायुधानि च । ऊचुर्जयजयेत्युच्चैर्जयन्तीं ते जयैषिणः ॥ ८२.१९ ॥ शूलं शूलाद्विनिष्कृष्य ददौ तस्यै पिनाकधृक् । चक्रं च दत्तवान् कृष्णः समुत्पाद्य स्वचक्रतः ॥ ८२.२० ॥ शङ्खञ्च वरुणः शक्तिं ददौ तस्यै हुताशनः । मारुतो दत्तवांश्चापं बाणपूर्णे तथेषुधी ॥ ८२.२१ ॥ वज्रमिन्द्रः समुत्पाद्य कुलिशादमराधिपः । ददौ तस्यै सहस्राक्षो घण्टामैरावताद्गजात् ॥ ८२.२२ ॥ कालदण्डाद्यमो दण्डं माशं चाम्बुपतिर्ददौ । प्रजापतिश्चाक्षमालां ददौ ब्रह्मा कमण्डलुम् ॥ ८२.२३ ॥ समस्तरोमकूपेषु निजरश्मीन् दिवाकरः । कालख्च दत्तवान् खड्गं तस्याश्चर्म च निर्मलम् ॥ ८२.२४ ॥ क्षीरोदश्चामलं हारमजरे च तथाम्बरे । चूडामणिं तथा दिव्यं कुण्डले कटकानि च ॥ ८२.२५ ॥ अर्धचन्द्रं तथा शुभ्रं केयूरान् सर्वबाहुषु । नूपुरौ विमलौ तद्वद्ग्रैवेयकमनुत्तमम् । अङ्गुलीयकरत्नानि समस्तास्वङ्गुलीषु च ॥ ८२.२६ ॥ विश्वकर्मा ददौ तस्यै परशुञ्चातिनिर्मलम् । अस्त्राण्यनेकरूपाणि तथाभेद्यं च दंशनम् ॥ ८२.२७ ॥ अम्लानपङ्कजां मालां शिरस्युरसि चापराम् । अददज्जलधिस्तस्यै पङ्कजं चातिशोभनम् ॥ ८२.२८ ॥ हिमवान् वाहनं सिंहं रत्नानि विविधानि च । ददावशून्यं सुरया पानपात्रं धनाधिपः ॥ ८२.२९ ॥ शेषश्च सर्वनागेशो महामणिविभूषितम् । नागहारं ददौ तस्यै धत्ते यः पृथिवीमिमाम् ॥ ८२.३० ॥ अन्यैरपि सुरैर्देवी भूषणैरायुधैस्तथा । संमानिता ननादोच्चैः साट्टहासं मुहुर्मुहुः ॥ ८२.३१ ॥ तस्या नादेन घोरेण कृत्स्त्रमापूरितं नभः । अमायतातिमहता प्रतिशब्दो महानभूत् ॥ ८२.३२ ॥ चुक्षुभुः सकला लोकाः समुद्राश्च चकम्पिरे । चचाल वसुधा चेलुः सकलाश्च महीधराः ॥ ८२.३३ ॥ जयेति देवाश्च मुदा तामूचुः सिंहवाहिनीम् । तुष्टुवुर्मुनयश्चैनां भक्तिनम्रात्ममूर्तयः ॥ ८२.३४ ॥ दृष्ट्वा समस्तं संक्षुब्धं त्रैलोक्यममरारयः । सन्नद्धाखिलसैन्यास्ते समुत्तस्थुरुदायुधाः ॥ ८२.३५ ॥ आः किमेतदिति क्रोधादाभाष्य महिषासुरः । अभ्यधावत तं शब्दमशेषैरसुरैर्वृतः ॥ ८२.३६ ॥ स ददर्श ततो देवीं व्याप्तलोकत्रयां त्विषा । पादाक्रान्त्या नतभुवं किरीटोल्लिखिताम्बराम् ॥ ८२.३७ ॥ क्षोभिताशेषपातालां धनुर्ज्यानिः स्वनेन ताम् । दिशो भुजसहस्रेण समन्ताद्व्याप्य संस्थिताम् ॥ ८२.३८ ॥ ततः प्रववृते युद्धं तया देव्या सुरद्विषाम् । शस्त्रास्त्रैर्बहुधा मुक्तैरादीपितदिगन्तरम् ॥ ८२.३९ ॥ महिषासुरसेनानीश्चिक्षुराख्यो महासुरः । युयुधे चामरश्चान्यैश्चतुरङ्गबलान्वितः ॥ ८२.४० ॥ रथानामयुतैः षड्भिरुदग्राख्यो महासुरः । अयुध्यतायुतानाञ्च सहस्रेण महाहनुः ॥ ८२.४१ ॥ पञ्चाशद्भिश्च नियुतैरसिलोमा महासुरः । अयुतानां शतैः षड्भिर्वाष्कलो युयुधे रणे ॥ ८२.४२ ॥ गजवाजिसहस्रौघैरनेकैरुग्रदर्शनः । वृतो रथानां कोट्या च युद्धे तस्मिन्नयुध्यत ॥ ८२.४३ ॥ बिडालाक्षोऽयुतानाञ्च पञ्चाशद्भिरथायुतैः । युयुधे संयुगे तत्र रथानां परिवारितः ॥ ८२.४४ ॥ वृतः कालो रथानाञ्च रणे पञ्चाशतायुतैः । युयुधे संयुगे तत्र तावद्भिः परिवारितः ॥ ८२.४५ ॥ अन्ये च तत्रायुतशो रथनागहयैर्वृताः । युयुधुः संयुगे देव्या सह तत्र महासुराः ॥ ८२.४६ ॥ कोटिकोटिसहस्रैस्तु रथानां दन्तिनां तथा । हयानाञ्च वृतो युद्धे तत्राभून्महिषासुरः ॥ ८२.४७ ॥ तोमरैर्भिन्दिपालैश्च शक्तिभिर्मुसलैस्तथा । युयुधुः संयुगे देव्या खड्गैः परशुपट्टिशैः ॥ ८२.४८ ॥ केचिच्च चिक्षिपुः शक्तीः केचित्पाशांस्तथापरे । देवीं खड्गप्रहारैस्तु ते तां हन्तुं प्रचक्रमुः ॥ ८२.४९ ॥ सापि देवी ततस्तानि शस्त्राण्यस्त्राणि चण्डिका । लीलयैव प्रचिच्छेद निजशस्त्रास्त्रवर्षिणी ॥ ८२.५० ॥ अनायस्तानना देवी स्तूयमाना सुरर्षिभिः । मुमोचासुरदेहेषु शस्त्राण्यस्त्राणि चेश्वरी ॥ ८२.५१ ॥ सोऽपि क्रुद्धो धुतसटो देव्या वाहनकेशरी । चचारासुरसैन्येषु वनेष्विव हुताशनः ॥ ८२.५२ ॥ निश्वसान्मुमुचे यांश्च युध्यमाना रणेऽम्बिका । त एव सद्यः सम्भूता गणाः शतसहस्रशः ॥ ८२.५३ ॥ युयुधुस्ते परशुभिर्भिन्दिपालासिपट्टिशैः । नाशयन्तोऽसुरगणान् देवीशक्त्युपबृंहिताः ॥ ८२.५४ ॥ अवादयन्त पटहान् गणाः शङ्खांस्तथापरे । मृदङ्गांश्च तथैवान्ये तस्मिन् युद्धमहोत्सवे ॥ ८२.५५ ॥ ततो देवी त्रिशूलेन गदया शक्तिवृष्टिभिः । शड्गादिभिश्च शतशो निजघान महासुरान् ॥ ८२.५६ ॥ पातयामास चैवान्यान् घण्टास्वनविमोहितान् । असुरान् भुवि पाशेन बद्ध्वा चान्यानकर्षयत् ॥ ८२.५७ ॥ केचिद्द्विधा कृतास्तीक्ष्णैः खड्गपातैस्तथापरे । विपोथिता निपातेन गदया भुवि शेरते ॥ ८२.५८ ॥ वेमुश्च केचिद्रुधिरं मुसले भृशं हताः । केचिन्नपातिता भूमौ भिन्नाः शूलेन वक्षसि ॥ ८२.५९ ॥ निरन्तराः शरौघेण कृताः केचिद्रणाजिरे । शैलानुकारिणः प्राणान्मुमुचुस्त्रिदशार्दनाः ॥ ८२.६० ॥ केषाञ्चिद्वाहवश्छिन्नाश्छिन्नग्रीवास्तथापरे । शिरांसि पेतुरन्येषामन्ये मध्ये विदारिताः ॥ ८२.६१ ॥ विच्छिन्नजङ्घास्त्वपरे पेतुरुर्व्यां महासुराः । एकबाह्वक्षिचरणाः केचिद्देव्या द्विधा कृताः ॥ ८२.६२ ॥ छिन्नेऽपि चान्ये शिरसि पतिताः पुनरुत्थिताः । कबन्धा युयुधुर्देव्या गृहीतपरमायुधाः ॥ ८२.६३ ॥ ननृतुश्चापरे तत्र युद्धे तूर्यलयाश्रिताः । कबन्धाश्छिन्नखिरसः खड्गशक्त्यृष्टिपाणयः ॥ ८२.६४ ॥ तिष्ठ तिष्ठेति भाषन्तो देवीमन्ये महासुराः। रुधिरौघविलुप्ताङ्गाः संग्रामे लोमहर्षणे ॥ ८२.६५ ॥ पातितै रथनागाश्वैरसुरैश्च वसुन्धरा । अगम्या साभवत्तत्र यत्राभूत्स महारणः ॥ ८२.६६ ॥ शोणितौघा महानद्यः सद्यस्तत्र विसुस्त्रुवुः । मध्ये चासुरसैन्यस्य वारणासुरवाजिनाम् ॥ ८२.६७ ॥ क्षणेन तन्महासैन्यमसुराणां तथाम्बिका । निन्ये क्षयं यथा वह्निस्तृणदारुमहाचयम् ॥ ८२.६८ ॥ स च सिंहो महानादमुत्सृजन् धुतकेसरः । शरीरेभ्योऽमरारीणामसूनिव विचिन्वति ॥ ८२.६९ ॥ देव्या गणैश्च तैस्तत्र कृतं युद्धं तथासुरैः । यथैषां तुतुषुर्देवाः पुष्पवृष्टिमुचो दिवि ॥ ८२.७० ॥ इति श्रीमार्कण्डेयमहापुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये महिषासुरसैन्यवधो नाम द्व्यशीतितमोऽध्यायः _____________________________________________________________ त्र्यशीतितमोऽध्यायः ८३ ऋषिरुवाच निहन्यमानं तत्सैन्यमवलाक्य महासुरः । सेनानीश्चिक्षुरः कोपाद्ययौ योद्धुमथाम्बिकाम् ॥ ८३.१ ॥ स देवीं शरवर्षेण ववर्ष समरेऽसुरः । यथा मेरुगिरेः शृङ्गं तोयवर्षेण तोयदः ॥ ८३.२ ॥ तस्य च्छित्त्वा ततो देवी लीलयैव शरोत्करान् । जघान तुरगान् बाणैर्यन्तारं चैव वाजिनाम् ॥ ८३.३ ॥ चिच्छेद च धनुः सद्यो ध्वजं चातिसमुच्छ्रितम् । विव्याध चैव गात्रेषु च्छिन्नधन्वानमाशुगैः ॥ ८३.४ ॥ स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः । अभ्यधावत तां देवीं खड्गचर्मधरोऽसुरः ॥ ८३.५ ॥ सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि । आजघान भुजे सव्ये देवीमप्यतिवेगवान् ॥ ८३.६ ॥ तस्याः खड्गो भुजं प्राप्य पफाल नृपनन्दन । ततो जग्राह शूलं स कोपादरुणलोचनः ॥ ८३.७ ॥ चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः । जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात् ॥ ८३.८ ॥ दृष्ट्वा तदापतच्छूलं देवी शूलममुञ्चत । तच्छूलं शतधा तेन नीतं स च महासुरः ॥ ८३.९ ॥ हते तस्मिन्महावीर्ये महिषस्य चमूपतौ । आजगाम गजारूढश्चामरस्त्रिदशार्दनः ॥ ८३.१० ॥ सोऽपि शक्तिं मुमोचाथ देव्यास्तामम्बिका द्रुतम् । हुङ्काराभिहतां भूमौ पातयामास निष्प्रभाम् ॥ ८३.११ ॥ भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः । चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् ॥ ८३.१२ ॥ ततः सिंहः समुत्पत्य गजकुम्भान्तरे स्थितः । बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा ॥ ८३.१३ ॥ युधायमानो ततस्तौ तु तस्मान्नागान्महीं गतौ । युयुधातेऽतिसंरब्धौ प्रहारैरतिदारुणैः ॥ ८३.१४ ॥ ततो वेगात्खमुत्पत्य निपत्य च मृगारिणा । करप्रहारेण शिरश्चामरस्य पृथक्कृतम् ॥ ८३.१५ ॥ उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः । दन्तमुष्टितलैश्चैव करालश्च निपातितः ॥ ८३.१६ ॥ देवी क्रुद्धा गदापातैश्चूर्णयामास चोद्धतम् । वाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम् ॥ ८३.१७ ॥ उग्रास्यमुग्रवीर्यञ्च तथैव च महाहनुम् । त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी ॥ ८३.१८ ॥ बिडालस्यासिना कायात्पातयामास वै शिरः । दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम् । कालं च कालदण्डेन कालरात्रिरपातयत् ॥ ८३.१९ ॥ अग्रदर्शनमत्युग्रैः खड्गपातैरताडयत् । असिनैवासिलोमानमच्छिदत्सा रणोत्सवे । गणैः सिंहेन देव्या च जयक्ष्वेडाकृतोत्सवैः ॥ ८३.२० ॥ एवं संक्षीयमाणे तु स्वसैन्ये महिषासुरः । माहिषेण स्वरूपेण त्रासयामास तान् गणान् ॥ ८३.२१ ॥ कांश्चित्तुण्डप्रिहारेण खुरक्षेपैस्तथापरान् । लाङ्गूलताडितांश्चान्यान् शृङ्गाभ्याञ्च विदारितान् ॥ ८३.२२ ॥ वेगेन कांश्चिदपरान्नादेन भ्रमणेन च । निश्वासपवनेनान्यान् पातयामास भूतले ॥ ८३.२३ ॥ निपात्य प्रमथानीकमभ्यधावत सोऽसुरः । सिंहं हन्तुं महादेव्याः कोपं चक्रे ततोऽम्बिका ॥ ८३.२४ ॥ सोऽपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः । शृङ्गाभ्यां पर्वतानुच्चैश्चिक्षेप च ननाद च ॥ ८३.२५ ॥ वेगभ्रमणविक्षुण्णा मही तस्य व्यशीर्यत । लाङ्गूलेनाहतश्चाब्धिः प्लावयामास सर्वतः ॥ ८३.२६ ॥ धुतशृङ्गविभिन्नाश्च खण्डं खण्डं ययुर्घना । श्वासानिलास्ताः शतशो निपेतुर्नभसोऽचलाः ॥ ८३.२७ ॥ इति क्रोधसमाध्मातमापतान्तं महासुरम् । दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदाकरोत् ॥ ८३.२८ ॥ सा क्षिप्त्वा तस्य वै पाशं तं बबन्ध महासुरम् । तत्याज माहिषं रूपं सोऽपि बद्धो महामृधे ॥ ८३.२९ ॥ ततः सिंहोऽभवत्सद्यो यावत्तस्याम्बिका शिरः । छिनत्ति तावत्पुरुषः खड्गपाणिरदृश्यत ॥ ८३.३० ॥ तत एवाशु पुरुषं देवी चिच्छेद सायकैः । तं खड्गचर्मणा सार्धं ततः सोऽभून्महागजः ॥ ८३.३१ ॥ करेण च महासिंहं तं चकर्ष जगर्ज च । कर्षतस्तु करं देवी खड्गेन निरकृन्तत ॥ ८३.३२ ॥ ततो महासुरो भूयो माहिषं वपुरास्थितः । तथैव क्षोभयामास त्रैलोक्यं सचराचरम् ॥ ८३.३३ ॥ ततः क्रुद्धा जगन्माता चण्डिका पानमुत्तमम् । पपौ पुनः पुनश्चैव जहासारुणलोचना ॥ ८३.३४ ॥ ननर्द चासुरः सोऽपि बलवीर्यमदोद्धतः । विषाणाब्याञ्च चिक्षेप चण्डिकां प्रति भूधरान् ॥ ८३.३५ ॥ सा च तान् प्रहितांस्तेन चूर्णयन्ती शरोत्करैः । उवाच तं मदोद्धूतमुखरागाकुलाक्षरम् ॥ ८३.३६ ॥ देव्युवाच गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम् । मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः ॥ ८३.३७ ॥ ऋषिरुवाच एवमुक्त्वा समुत्पत्य सारूढा तं महासुरम् । पादेनाक्रम्य कण्ठे च शूलेनैनमताडयत् ॥ ८३.३८ ॥ ततः सोऽपि पदाक्रान्तस्तया निजमुखात्ततः । अर्धनिष्क्रान्त एवासीद्देव्या वीर्येण संवृतः ॥ ८३.३९ ॥ अर्धनिष्क्रान्त एवासौ युध्यमानो महासुरः । तया महासिना देव्या शिरश्छित्त्वा निपातितः ॥ ८३.४० ॥ एवं स महिषो नाम ससैन्यः ससुहृद्गणः । त्रैलोक्यं मोहयित्वा तु तया देव्या विनाशितः ॥ ८३.४१ ॥ त्रैलोक्यस्थैस्तदा भूतैर्महिषे विनिपातिते । जयेत्युक्तं ततः सर्वैः सदेवासुरमानवैः ॥ ८३.४२ ॥ ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत् । प्रहर्षञ्च परं जग्मुः सकला देवतागणाः ॥ ८३.४३ ॥ तुष्टुवुस्तां सुरा देवीं सह दिव्यैर्महर्षिभिः । जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥ ८३.४४ ॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये महिषासुरवधो नाम त्र्यशीतितमोऽध्यायः _____________________________________________________________ चतुरशीतितमोऽध्यायः ८४ ऋषिरुवाच ततः सुरगणाः सर्वे देव्या हन्द्रपुरोगमाः । स्तुतिमारेभिरे कर्तुं निहते महिषासुरे ॥ ८४.१ ॥ शक्रादयः सुरगणा निहतेऽतिवीर्ये तस्मिन् दुरात्मनि सुरारिबले च देव्या । तां तुष्टुबुः प्रणतिनम्रशिरोधरांसा वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः ॥ ८४.२ ॥ देवा ऊचुः देव्या यया ततमिदं जगदात्मशक्त्या निः शेषदेवगणशक्तिसमूहमूर्त्या । तामम्बिकामखिलदेवमर्षिपूज्यां भक्त्या नताः स्म विदधातु शुभानि सा नः ॥ ८४.३ ॥ यस्याः प्रभावमतुलं भगवाननन्तो ब्रह्मा हरश्च नहि वक्तुमलं बलं च । सा चण्डिकाखिलजगत्परिपालनाय नाशाय चाशुभयस्य मतिं करोतु ॥ ८४.४ ॥ या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हृदयेषु बुद्धिः । श्रद्धां सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वम् ॥ ८४.५ ॥ किं वर्णयाम तव रूपमचिन्त्यमेतत् किं चातिवीर्यमसुरक्षयकारि भूरि । किं चाहवेषु चरितानि तवाद्भुतानि सर्वेषु देव्यसुरदेवगणादिकेषु ॥ ८४.६ ॥ हेतुः समस्तजगतां त्रिगुणापि दोषैर् न ज्ञायसे हरिहरादिभिरप्यपारा । सर्वाश्रयाखिलमिदं जगदंशभूतम् अव्याकृता हि परमा प्रकृतिस्त्वमाद्या ॥ ८४.७ ॥ यस्याः समस्तसुरता समुदीरणेन तृप्तिं प्रियाति सकलेषु मखेषु देवि । स्वाहासि वै पितृगणस्य च तृप्तिहेतुर् उच्चार्यसे त्वमत एव जनैः स्वधा च ॥ ८४.८ ॥ या मुक्तिहेतुरविचिन्त्यमहाव्रता त्वम् अभ्यस्यसे सुनियतेन्द्रियतत्त्वसारैः । मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषैर् विद्यासि सा भगवती परमा हि देवि ॥ ८४.९ ॥ शब्दात्मिका सुविमलर्ग्यजुषां निधानम् उद्गीथरम्यपदपाठवतां च साम्नाम् । देवी त्रयी भगवती भवभावनाय वार्ता च सर्वजगतां परमार्तिहन्त्री ॥ ८४.१० ॥ मेधासि देवि विदिताखिलशास्त्रसारा दुर्गासि दुर्गभवसागरनौरसङ्गा । श्रीः कैटभारिहृदयैककृताधिवासा गौरी त्वमेव शशिमौलिकृतप्रतिष्ठा ॥ ८४.११ ॥ ईषत्सहासममलं परिपूर्णचन्द्र बिम्बानुकारि कनकोत्तमकान्तिकान्तम् । अत्यद्भुतं प्रहृतमात्तरुषा तथापि वक्त्रं विलोक्य सहसा महिषासुरेण ॥ ८४.१२ ॥ दृष्ट्वा तु देवि कुपितं भ्रुकुटीकरालम् उद्यच्छशाङ्कसदृशच्छवि यन्न सद्यः । प्राणान्मुमोच महीषस्तदतीव चित्रं कैर्जोव्यते हि कुपितान्तकदर्शनेन ॥ ८४.१३ ॥ देवि प्रसीद परमा भवती भवाय सद्यो विनाशयसि कोपवती कुलानि । विज्ञातमेतदधुनैव यदस्तमेतन् नीतं बलं सुविपुलं महिषासुरस्य ॥ ८४.१४ ॥ ते संमता जनपदेषु धनानि तेषां तेषां यशांसि न च सीदति धर्मवर्गः । धन्यास्त एव निभृतात्मजभृत्यदारा येषां सदाभ्युदयदा भवती प्रसन्ना ॥ ८४.१५ ॥ धर्म्याणि देवि सकलानि सदैव कर्माण्य् अत्यादृतः प्रतिदिनं सुकृती करोति । स्वर्गं प्रयाति च ततो भवतीप्रसादाल् लोकत्रयेऽपि फलदा ननु देवि तेन ॥ ८४.१६ ॥ दुर्गे स्मृता हरसि भीतिमशेषजन्तोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि । दारिद्रयदुः खभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदार्ऽऽद्रचित्ता ॥ ८४.१७ ॥ एभिर्हतैर्जगदुपैति सुखं तथैते कुर्वन्तु नाम नरकाय चिराय पापम् । संग्राममृत्युमधिगम्य दिवं प्रयान्तु मत्वेति नूनमहितान् विनिहंसि देवि ॥ ८४.१८ ॥ दृष्ट्वैव किं न भवती प्रकरोति भस्म सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् । लोकान् प्रयान्तु रिपवोऽपि हि शस्त्रपूता इत्थं मतिर्भवति तेष्वपि तेऽतिसाध्वी ॥ ८४.१९ ॥ खड्गप्रभानिकरविस्फुरणैस्तथोग्रैः शूलाग्रकान्तिनिवहेन दृशोऽसुराणाम् । यन्नागता विलयमंशुमदिन्दुखण्ड योग्याननं तव विलोकयतां तदेतत् ॥ ८४.२० ॥ दुर्वृत्तवृत्तशमनं तव देवि शीलं रूपं तथैतदविचिन्त्यमतुल्यमन्यैः । वीर्यं च हन्तृ हृतदेवपराक्रमाणां वैरिष्वपि प्रकटितैव दया त्वयेत्थम् ॥ ८४.२१ ॥ केनोपमा भवतु तेऽस्य पराक्रमस्य रूपं च शत्रुभयकार्यतिहारि कुत्र । चित्ते कृपा समरनिष्ठुरता च दृष्टा त्वय्येव देवि वरदे भुवनत्रयेऽपि ॥ ८४.२२ ॥ त्रैलोक्यमेतदखिलं रिपुनाशनेन त्रातं त्वया समरमूर्धनि तेऽपि हत्वा । नीता दिवं रिपुगणा भयमप्यपास्तम् अस्माकमुन्मदसुरारिभवं नमस्ते ॥ ८४.२३ ॥ शूलेन पाहि नो देवि पाहि खड्गेन चाम्बिके । घण्टास्वनेन नः पाहि चापज्यानिः स्वनेन च ॥ ८४.२४ ॥ प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे । भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ॥ ८४.२५ ॥ सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते । यानि चात्यर्थघोराणि तै रक्षास्मांस्तथा भुवम् ॥ ८४.२६ ॥ खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके । करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः ॥ ८४.२७ ॥ ऋषीरुवाच एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नन्दनोद्भवैः । अर्चिता जगतां धात्री तथा गन्धानुलेपनैः ॥ ८४.२८ ॥ भक्त्या समस्तैस्त्रिदशार्दिव्यैर्धूपैस्तु धूपिता । प्राह प्रसादसुमुखी समस्तान् प्रणतान् सुरान् ॥ ८४.२९ ॥ देव्युवाच व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छितम् । ददाम्यहमतिप्रीत्या स्तवैरेभिः सुपूजिता ॥ ८४.३० ॥ कर्तव्यमपरं यच्च दुष्करं तन्न विद्महे । इत्याकर्ण्ये वचो देव्याः प्रत्यूचुस्ते दिवौकसः ॥ ८४.३१ ॥ देवा ऊचुः भगवत्या कृतं सर्वं न किञ्चिदवशिष्यते । यदयं निहतः शत्रुरस्माकं महिषासुरः ॥ ८४.३२ ॥ यदि चापि वरो देयस्त्वयास्माकं महेश्वरि । संस्मृता संस्मृता त्वं नो हिंसेथाः परमापदः ॥ ८४.३३ ॥ यश्च मर्त्यः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने । तस्य वित्तर्धिविभवैर्धनदारादिसम्पदाम् । वृद्धयेऽस्मात्प्रसन्ना त्वं भवेथाः सर्वदाम्बिके ॥ ८४.३४ ॥ ऋषिरुवाच इति प्रसादिता देवैर्जगतोर्ऽथे तथाऽत्मनः । तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप ॥ ८४.३५ ॥ इत्येतत्कथितं भूप सम्भूता सा यथा पुरा । देवी देवशरीरेभ्यो जगत्त्रयहितैषिणी ॥ ८४.३६ ॥ पुनश्च गौरीदेहात्सा समुद्भूता यथाभवत् । वधाय दुष्टदैत्यानां तथा शुम्भनिशुम्भयोः ॥ ८४.३७ ॥ रक्षणाय च लोकानां देवानामुपकारिणी । तच्छृणुष्व मयाऽख्यातं यथावत्कथयामि ते ॥ ८४.३८ ॥ इति श्रीमार्कण्डेयमहापुराणे सावर्णिके मन्वन्तरे देवीमाहत्म्ये चतुरशीतितमोऽद्यायः _____________________________________________________________ पञ्चाशीतितमोऽध्यायः ८५ ऋषिरुवाच पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपतेः । त्रैलोक्यं यज्ञभागाश्च हृता मदबलाश्रयात् ॥ ८५.१ ॥ तावेव सूर्यतां तद्वदधिकारं तथैन्दवम् । कौबेरमथ याम्यं च चक्राते वरुणस्य च ॥ ८५.२ ॥ तावेव पवनर्धि च चक्रतुर्वह्निकर्म च । अन्येषाञ्चाधिकारान् स स्वयमेवाधितिष्ठति । ततो देवा विनिर्धूता भ्रष्टराज्याः पराजिताः ॥ ८५.३ ॥ हृताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृताः । महासुराभ्यां तां देवीं संस्मरन्त्यपराजिताम् ॥ ८५.४ ॥ तयास्माकं वरो दत्तो यथाऽपत्सु स्मृताखिलाः । भवतां नाशयिष्यामि तत्क्षणात्परमापदः ॥ ८५.५ ॥ इति कृत्वा मतिं देवा हिमवन्तं नगेश्वरम् । जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवुः ॥ ८५.६ ॥ देवा ऊचुः नमो देव्यै महादेव्यै शिवायै सततं नमः । नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥ ८५.७ ॥ रौद्रायै नमो नित्यायौ गौर्यै धात्र्यै नमो नमः । नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥ ८५.८ ॥ द्योत्स्त्रायै चेन्दुरूपिण्यै सुखायै सततं नमः । कल्याण्यै प्रणतां वृद्ध्यै सिद्ध्यै कुर्मो नमो नमः ॥ ८५.९ ॥ नैरृत्यै भूभृतां लक्ष्म्यै शर्वाण्यै ते नमो नमः । दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै । ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥ ८५.१० ॥ अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नमः । मनो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नमः ॥ ८५.११ ॥ या देवी सर्वभूतेषु विष्णुमायेति शब्दिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ८५.१२ ॥ या देवी सर्वभूतेषु चेतनेत्यभिधीयते । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ८५.१३ ॥ या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ८५.१४ ॥ या देवी सर्वभूतेषु निद्रारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै मनो नमः ॥ ८५.१५ ॥ या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ८५.१६ ॥ या देवी सर्वभूतेषु च्छायारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ८५.१७ ॥ या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ८५.१८ ॥ या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ८५.१९ ॥ या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ८५.२० ॥ या देवी सर्वभूतेषु जातिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ८५.२१ ॥ या देवी सर्वभूतेषु लज्जारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ८५.२२ ॥ या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ८५.२३ ॥ या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ८५.२४ ॥ या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ८५.२५ ॥ या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ८५.२६ ॥ या देवी सर्वभूतेषु धृतिरूपेण संस्थिता । तमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ८५.२७ ॥ या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ८५.२८ ॥ या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ८५.२९ ॥ या देवी सर्वभूतेषु दयारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ८५.३० ॥ या देवी सर्वभूतेषु नीतिरूपेणं संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ८५.३१ ॥ या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ८५.३२ ॥ या देवी सर्वभूतेषु पुष्टिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ८५.३३ ॥ या देवी सर्वभूतेषु मातृरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ८५.३४ ॥ या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ८५.३५ ॥ इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या । भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः ॥ ८५.३६ ॥ चितिरूपेण या कृत्स्त्रमेतद्व्याप्य स्थिता जगत् । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ॥ ८५.३७ ॥ स्तु ता सुरैः पूर्वमभीष्टसंश्रयात् तथासुरेन्द्रेण दिनेषु सेविता । करोतु सा नः शुभहेतुरीश्वरी शुभानि भद्राण्यभिहन्तु चापदः ॥ ८५.३८ ॥ या साम्प्रतं चोद्धतदैत्यतापितैर् अस्माभिरीशा च सुरैर्नमस्यते । या च स्मृता तत्क्षणमेव हन्ति नः सर्वापदो भक्तिविनम्कमूर्तिभिः ॥ ८५.३९ ॥ ऋषिरूवाच एवं स्तवादियुक्तानां देवानां तत्र पार्वती । स्त्रातुमभ्याययौ तोये जाह्नव्या नृपनन्दन ॥ ८५.४० ॥ साब्रवीत्तान् सुरान् सुभ्रूर्भवद्भिः स्तूयतेऽत्र का । शरीरकोशतश्चास्याः समुद्भूताब्रवीच्छिवा ॥ ८५.४१ ॥ स्तोत्रं ममैतत्क्रियते शुम्भदैत्यनिराकृतैः । देवैः समेतैः समरे निशुम्भेन पराजितैः ॥ ८५.४२ ॥ शरीरकोशाद्यत्तस्याः पार्वत्या निः सृताम्बिका । कौशिकीति समस्तेषु ततो लोकेषु गीयते ॥ ८५.४३ ॥ तस्यां विनिर्गतायां तु कृष्णाभूत्सापि पार्वती । कालिकेति समाख्याता हिमाचलकृताश्रया ॥ ८५.४४ ॥ ततोऽम्बिकां परं रूपं बिभ्राणां सुमनोहरम् । ददर्श चण्डो मुण्डश्च भृत्यौ शुम्भनिशुम्भयोः ॥ ८५.४५ ॥ ताभ्यां शुम्भाय चाख्याता अतीव सुमनोहरा । काप्यास्ते स्त्री महाराज भासयन्ती हिमाचलम् ॥ ८५.४६ ॥ नैव तादृक्क्वचिद्रूपं दृष्टं केनचिदुत्तमम् । ज्ञायतां काप्यसौ देवी गृह्यतां चासुरेश्वर ॥ ८५.४७ ॥ स्त्रीरत्नमतिचार्वङ्गी द्योतयन्ती दिशस्त्विषा । सा तु तिष्ठति दैत्येन्द्र तां भवान् द्रष्टुमर्हति ॥ ८५.४८ ॥ यानि रत्नानि मणयो गजाश्वादीनि वै प्रभो । त्रैलोक्ये तु समस्तानि साम्प्रतं भान्ति ते गृहे ॥ ८५.४९ ॥ ऐरावतः समानीतो गजरत्नं पुरन्दरात् । पारिजाततरुश्चायं तथैवोच्चैः श्रवा हयः ॥ ८५.५० ॥ विमानं हंससंयुक्तमेतत्तिष्ठति तेऽङ्गणे । रत्नभूतमिहानीतं यदासीद्वेधसोऽद्भुतम् ॥ ८५.५१ ॥ निधिरेष महापद्मः समानीतो धनेश्वरात् । किञ्जल्किनीं ददौ चाब्धिर्मालामम्लानपङ्कजाम् ॥ ८५.५२ ॥ छत्रं ते वारुणं गेहे काञ्चनस्त्रावि तिष्ठति । तथायं स्यन्तनवरो यः पुरासीत्प्रजापतेः ॥ ८५.५३ ॥ मृत्योरुत्क्रान्तिदा नाम शक्तिरीश त्वया हृता । पाशः सलिलराजस्य भ्रातुस्तव परिग्रहे ॥ ८५.५४ ॥ निशुम्भस्याब्धिजाताश्च समस्ता रत्नजातयः । वह्निरपि ददौ तुभ्यमग्निशौचे च वाससी ॥ ८५.५५ ॥ एवं दैत्येन्द्र रत्नानि समस्तान्याहृतानि ते । स्त्रीरत्नमेषा कल्याणी त्वया कस्मान्न गृह्यते ॥ ८५.५६ ॥ ऋषिरुवाच निशम्येति वचः शुम्भः स तदा चण्डमुण्डयोः । प्रेषयामास सुग्रीवं दूतं देव्या महासुरः ॥ ८५.५७ ॥ शुम्भ उवाच इति चेति च वक्तव्या सा गत्वा वचनान्मम । यथा चाभ्येति संप्रीत्या तथा कार्यं त्वया लघु ॥ ८५.५८ ॥ स तत्र गत्वा यत्रास्ते शैलोद्देशेऽतिशोभने । तां च देवीं ततः प्राह श्लक्ष्णं मधुरया गिरा ॥ ८५.५९ ॥ दूत उवाच देवि दैत्येश्वरः शुम्भस्त्रैलोक्ये परमेश्वरः । दूतोऽहं प्रेषितस्तेन त्वत्सकाशमिहागतः ॥ ८५.६० ॥ अव्याहताज्ञः सर्वासु यः सदा देवयोनिषु । निर्जिताखिलदैत्यारिः स यदाह शृणुष्व तत् ॥ ८५.६१ ॥ मम त्रैलोक्यमखिलं मम देवा वशानुगाः । यज्ञभागानहं सर्वानुपाश्नामि पृथक्पृथक् ॥ ८५.६२ ॥ त्रैलोक्ये वररत्नानि मम वश्यान्यशेषतः । तथैव गजरत्नं च हृत्वा देवेन्द्रवाहनम् ॥ ८५.६३ ॥ क्षीरोदमथनोद्भूतमश्वरत्नं ममामरैः । उच्चैः श्रवससंज्ञं तत्प्रणिपत्य समर्पितम् ॥ ८५.६४ ॥ यानि चान्यानि देवेषु गन्धर्वेषूरगेषु च । रत्नभूतानि भूतानि तानि मय्येव शोभने ॥ ८५.६५ ॥ स्त्रीरत्नभूतां त्वां देवि लोके मन्यामहे वयम् । सा त्वमस्मानुपागच्छ यतो रत्नभुजो वयम् ॥ ८५.६६ ॥ मां वा ममानुजं वापि निशुम्भमुरुविक्रमम् । भज त्वं चञ्चलापाङ्गि रत्नभूतासि वै यतः ॥ ८५.६७ ॥ परमैश्वर्यमतुलं प्राप्स्यसे मत्परिग्रहात् । एतद्बुद्ध्या समालोच्य मत्परिग्रहतां व्रज ॥ ८५.६८ ॥ ऋषिरुवाच इत्युक्ता सा तदा देवी गम्भीरान्तः स्मिता जगौ । दुर्गा भगवती भद्रा ययेदं धार्यते जगत् ॥ ८५.६९ ॥ देव्युवाच सत्यमुक्तत्वया नात्र मिथ्या किञ्चित्त्वयोदितम् । त्रैलोक्याधिपतिः सुम्भो निशुम्भश्चापि तादृशः ॥ ८५.७० ॥ किं त्वत्र यत्प्रतिज्ञातं मिथ्या तत्क्रियते कथम् । श्रूयतामल्पबुद्धित्वात्प्रतिज्ञा या कृता पुरा ॥ ८५.७१ ॥ यो मां जयति संग्रामे यो मे दर्पं व्यपोहति । यो मे प्रतिबलो लोके स मे भर्ता भविष्यति ॥ ८५.७२ ॥ तदागच्छतु शुम्भोऽत्र निशुम्भो वा महासुरः । मां जित्वा किं चिरेणात्र पाणि गृह्णातु मे लघु ॥ ८५.७३ ॥ दूत उवाच अवलिप्तासि मैवं त्वं देवि ब्रूहि ममाग्रतः । त्रैलोक्ये कः पुमांस्तिष्ठेदग्रे शुम्भनिशुम्भयोः ॥ ८५.७४ ॥ अन्येषामपि दैत्यानां सर्वे देवा न वै युधि । तिष्ठन्ति संमुखे देवि किं पुनः स्त्री त्वमेकिका ॥ ८५.७५ ॥ इन्द्राद्याः सकला देवास्तस्थुर्येषां न संयुगे । शुम्भादीनां कथं तेषां स्त्री प्रयास्यसि संमुखम् ॥ ८५.७६ ॥ सा त्वं गच्छ मयैवोक्ता पार्श्वं शुम्भनिशुम्भयोः । केशाकर्षणनिर्धूतगौरवा मा गमिष्यसि ॥ ८५.७७ ॥ देव्युवाच एवमेतद्बली शुम्भो निशुम्भश्चातिवीर्यवान् । किं करोमि प्रतिज्ञा मे यदनालोचिता पुरा ॥ ८५.७८ ॥ स त्वं गच्छ मयोक्तं ते यदेतत्सर्वमादृतः । तदाचक्ष्वासुरेन्द्राय स च युक्तं करोतु तत् ॥ ८५.७९ ॥ इति श्रीमार्कण्डेयपुराणेठसावर्णिके मन्वन्तरेऽ देवीमाहात्म्ये पञ्चाशोतितमोऽध्यायः _____________________________________________________________ षडशीतितमोऽध्यायः ८६ ऋषिरुवाच इत्याकर्ण्य वचो देव्याः स दूतोऽमर्षपूरितः । समाचष्ट समागम्य दैत्यराजाय विस्तरात् ॥ ८६.१ ॥ तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट्ततः । सक्रोधः प्राह दैत्यानामधिपं धूम्रलोचनम् ॥ ८६.२ ॥ हे धूम्रलोचनाशु त्वं स्वसैन्यपरिवारितः । तामानय बलाद्दुष्टां केशाकर्षणविह्वलाम् ॥ ८६.३ ॥ तत्परित्राणदः कश्चिद्यदि वोत्तिष्ठतेऽपरः । स हन्तव्योऽमरो वापि यक्षो गन्धर्व एव वा ॥ ८६.४ ॥ ऋषिरुवाच तेनाज्ञप्तस्ततः शीघ्रं स दैत्यो धूम्रलोचनः । वृतः पष्ट्या सहस्राणामसुराणां द्रुतं ययो ॥ ८६.५ ॥ स दृष्ट्वा तां ततो देवीं तुहिनाचलसंस्थिताम् । जगादोच्चैः प्रयाहीति मूलं शुम्भनिशुम्भयोः ॥ ८६. ६ ॥ न चेत्प्रीत्याद्य भवती मद्भर्तारमुपैष्यति । ततो बलान्नयाम्येष केशाकर्षणविह्वलाम् ॥ ८६.७ ॥ श्रीदेव्युवाच दैत्येश्वरेण प्रहितो बलवान् बलसंवृतः । बलान्नयसि मामेवं ततः किं ते करोम्यहम् ॥ ८६.८ ॥ ऋषिरुवाच इत्युक्तः सोऽभ्यधावत्तामसुरो धूम्रलोचनः । हुङ्कारेणैव तं भस्म सा चकाराम्बिका ततः ॥ ८६.९ ॥ अथ क्रुद्धं महासैन्यमसुराणां तथाम्बिका । ववर्ष सायकैस्तीक्ष्णैस्तथा शक्तिपरश्वधैः ॥ ८६.१० ॥ ततो धुतसटः कोपात्कृत्वा नादं सुभैरवम् । पपातासुरसेनायां सिंहो देव्याः स्ववाहनः ॥ ८६.११ ॥ कांश्चित्करप्रहारेण दैत्यानास्येन चापरान् । आक्रम्य चाधरेणान्यान् स जघान महासुरान् ॥ ८६.१२ ॥ केषाञ्चित्पाटयामास नखैः कोष्ठानि केसरी । तथा तलप्रिहारेण शिरांसि कृतवान् पृथक् ॥ ८६.१३ ॥ विच्छिन्नबाहुशिरसः सृतास्तेन तथापरे । पपौ च रुधिरं कोष्ठादन्येषां धुतकेसरः ॥ ८६.१४ ॥ क्षणेन तद्बलं सर्वं क्षयं नीतं महात्मना । तेन केसरिणा देव्या वाहनेनातिकोपिना ॥ ८६.१५ ॥ श्रुत्वा तमसुरं देव्या निहतं धूम्रलोचनम् । बलं च क्षयितं कृत्स्त्रं देवीकेसरिणा ततः ॥ ८६.१६ ॥ चुकोप दैत्याधिपतिः शुम्भः प्रस्फुरिताधरः । आज्ञापयामास च तौ चण्डमुण्डौ महासुरौ ॥ ८६.१७ ॥ हे चण्ड हे मुण्ड बलैर्बहुभिः परिवारितौ । तत्र गच्छत गत्वा च सा समानीयतां लघु ॥ ८६.१८ ॥ केशेष्वाकृष्य बद्ध्वा वा यदि वः संशयो युधि । तदाशेषायुधैः सर्वैरसुरैर्विनिहन्यताम् ॥ ८६.१९ ॥ तस्यां हतायां दुष्टायां सिंहे च विनिपातिते । शीघ्रमागम्यतां बद्ध्वा गृहीत्वा तामथाम्बिकाम् ॥ ८६.२० ॥ इति श्रीमार्कण्डेयमहापुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये धूम्रलोचनवधो नाम षडशीतितमोऽध्यायः _____________________________________________________________ सप्तशीतितमाध्यायः ८७ ऋषिरुवाच आज्ञप्तास्ते ततो दैत्याश्चण्डमुण्डपुरोगमाः । चतुरङ्गबलोपेता ययुरभ्युद्यतायुधाः ॥ ८७.१ ॥ ददृशुस्ते ततो देवीमीषद्धासां व्यवस्थिताम् । सिंहस्योपरि शैलेन्द्रशृङ्गे महति काञ्चने ॥ ८७.२ ॥ ते दृष्ट्वा तां समादातुमुद्यमं चक्रुरुद्यताः । आकृष्टचापासिधरास्तथान्ये सत्समीपगाः ॥ ८७.३ ॥ ततः कोपं चकारोच्चैरम्बिका तानरीन् प्रति । कोपेन चास्या वदनं मषीवर्णमभूत्तदा ॥ ८७.४ ॥ भ्रुकुटीकुटिलात्तस्या ललाटफलकाद्द्रुतम् । काली करालवदना विनिष्क्रान्तासिपाशिनी ॥ ८७.५ ॥ विचित्रखट्वाङ्गधरा नरमालाविभूषणा । द्वीपिचर्मपरीधाना शुष्कमांसातिभैरवा ॥ ८७.६ ॥ अतिविस्तारवदना जिह्वाललनभीषणा । निमग्नारक्तनयना नादापूरितदिङ्मुखा ॥ ८७.७ ॥ सा वेगेनाभिपतिता घतयन्ती महासुरान् । सैन्ये तत्र सुरारीणामभक्षयत तद्वलम् ॥ ८७.८ ॥ पार्ष्णिग्राहाङ्कुशग्राहियोधघण्टासमन्वितान् । समादायैकहस्तेन मुखे चिक्षेप वारणान् ॥ ८७.९ ॥ तथैव योधं तुरगै रथं सारथिना सह । निक्षिप्य वक्त्रे दशनैश्चर्वयन्त्यतिभैरवम् ॥ ८७.१० ॥ एकं जग्राह केशेषु ग्रीवायामथ चापरम् । पादेनाक्रम्य चैवान्यमुरसान्यमपोथयत् ॥ ८७.११ ॥ तैर्मुक्तानि च शस्त्रणि महास्त्राणि तथासुरैः । मुखेन जग्राह रुषा दशनैर्मथितान्यपि ॥ ८७.१२ ॥ बलिनां तद्बलं सर्वमसुराणां दुरात्मनाम् । ममर्दाभक्षयच्चान्यानन्यांश्चाताडयत्तथा ॥ ८७.१३ ॥ असिना निहताः केचित्केचित्खट्वाङ्गताडिताः । जग्मुर्विनाशमसुरा दन्ताग्राभिहता रणे ॥ ८७.१४ ॥ क्षणेन तन्महासैन्यमसुराणां निपातितम् । दृष्ट्वा चण्डोऽभिमैर्भोमाक्षीं तां महासुरः ॥ ८७.१५ ॥ शरवर्षैर्महाभीमैर्भोमाक्षीं तां महासुरः । छादयामास चक्रैश्च मुण्डः क्षिप्तैः सहस्रशः ॥ ८७.१६ ॥ तानि चक्राण्यनेकानि विशमानानि तन्मुखम् । बभुर्यथार्कबिम्बानि सुबहूनि घनोदरम् ॥ ८७.१७ ॥ ततो जहासातिरुषा भीमं भैरवनादिनी । काली करालवक्त्रान्तर्दुर्दर्शदशनोज्ज्वला ॥ ८७.१८ ॥ उत्थाय च महासिंहं देवी चण्डमधावत । गृहीत्वा चास्य केशेषु शिरस्तेनासिनाच्छिनत् ॥ ८७.१९ ॥ छिन्ने शिरसि दैत्येन्द्रश्चक्रे नादं सुभैरवम् । तेन नादेन महता त्रासितं भुवनत्रयम् ॥ ८७.२० ॥ अथ मुण्डोऽभ्यधावत्तां दृष्ट्वा चण्डं निपातितम् । तमप्यपातयद्भूमौ सा खड्गाभिहतं रुषा ॥ ८७.२१ ॥ हतशेषं ततः सैन्यं दृष्ट्वा चण्डं निपातितम् । मुण्डं च सुमहावीर्यं दिशो भेजे भयातुरम् ॥ ८७.२२ ॥ शिरञ्चण्डस्य काली च गृहीत्वा मुण्डमेव च । प्राह प्रचण्डाट्टहासमिश्रमभ्येत्य चण्डिकाम् ॥ ८७.२३ ॥ मया तवात्रोपहृतौ चण्डमुण्डौ महापशू । युद्धयज्ञे स्वयं शुम्भं निशुम्भं च हनिष्यसि ॥ ८७.२४ ॥ ऋषिरुवाच तावानीतौ ततो दृष्ट्वा चणाडमुण्डौ महासुरौ । उवाच कालीं कल्याणी ललितं चण्डिका वचः ॥ ८७.२५ ॥ श्रीदेव्युवाच यस्माच्चण्डं च मुण्डं च गृहीत्वा त्वमुपागता । चामुण्डेति ततो लोके ख्याता देवि भविष्यसि ॥ ८७.२६ ॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये चण्डमुण्डवधोनाम सप्ताशीतितमोऽध्यायः _____________________________________________________________ अष्टाशीतितमोऽध्यायः ८८ ऋषिरुवाच चण्डे च निहते दैत्ये मुण्डे च विनिपातिते । बहुलेषु च सैन्येषु क्षयितेष्वसुरेश्वरः ॥ ८८.१ ॥ ततः कोपपराधीनचेताः शुम्भः प्रतापवान् । उद्योगं सर्वसैन्यानां दैत्यानामादिदेश ह ॥ ८८.२ ॥ अद्य सर्वबलैर्दैत्याः षडशीतिरुदायुधाः । कम्बूनां चतुरशीतिर्निर्यान्तु स्वबलैर्वृताः ॥ ८८.३ ॥ कोटिवीर्याणि पञ्चाशदसुराणां कुलानि वै । शतं कुलानि धौम्राणां निर्गच्छन्तु ममाज्ञया ॥ ८८.४ ॥ कालका दौर्हृदा मौर्याः कालकेयास्तथासुराः । युद्धाय सज्जा निर्यान्तु आज्ञया त्वरिता मम ॥ ८८.५ ॥ इत्याज्ञाप्यासुरपतिः शुम्भो भैरवशासनः । निर्जगाम महासैन्यसहस्रैर्बहुभिर्वृतः ॥ ८८.६ ॥ आयान्तं चण्डिका दृष्ट्वा तत्सैन्यमतिभिषणम् । ज्यास्वनैः पूरयामास धरणीगगनान्तरम् ॥ ८८.७ ॥ स च सिंहो महानादमतीव कृतवान्नृप । घण्टास्वनेन तन्नादमम्बिका चाप्यबृंहयत् ॥ ८८.८ ॥ धनुर्ज्यासिंहघण्टानां नादापूरितदिङ्मुखा । निनादैर्भोषणैः काली जिग्ये विस्तारितानना ॥ ८८.९ ॥ तं निनादमुपश्रुत्य दैत्यसैन्यैश्चतुर्दिशम् । देवी सिंहस्तथा काली सरोषैः परिवारिताः ॥ ८८.१० ॥ एतस्मिन्नन्तरे भूप विनाशाय सुरद्विषाम् । भवायामरसिंहानामतिवीर्यबलान्विताः ॥ ८८.११ ॥ ब्रह्मेशगुहविष्णूनां तथेन्द्रस्य च शक्तयः । शरीरेभ्यो विनिष्क्रम्य तद्रूपैश्चण्डिकां ययुः ॥ ८८.१२ ॥ यस्य देवस्य यद्रूपं यथाभूषणवाहनम् । तद्वदेव हि तच्छक्तिरसुरान् योद्धुमाययौ ॥ ८८.१३ ॥ हंसयुक्तविमानाग्रे साक्षसूत्रकमण्डलुः । आयाता ब्रह्मणः शक्तिर्ब्रह्माणी साभिधीयते ॥ ८८.१४ ॥ माहेश्वरी वृषारूढा त्रिशूलवरधीरिणी । महाहिवलया प्राप्ता चन्द्रलेखाविभूषणा ॥ ८८.१५ ॥ कौमारी शक्तिहस्ता च मयूरवरवाहना । योद्धुमभ्याययौ दैत्यानम्बिका गुहरूपिणी ॥ ८८.१६ ॥ तथैव वैष्णावी शक्तिर्गरुडोपरि संस्थिता । शङ्खचक्रगदाशार्ङ्गखड्गहस्ताभ्युपाययौ ॥ ८८.१७ ॥ जज्ञे वाराहमतुलं रूपं या बिभ्रती हरेः । शक्तिः साप्यायौ तत्र वाराहीं बिभ्रती तनुम् ॥ ८८.१८ ॥ नारसिंही नृसिंहस्य बिभ्रती सदृशं वपुः । प्राप्ता तत्र सटाक्षेपक्षिप्तनक्षत्रसंहतिः ॥ ८८.१९ ॥ वज्रहस्ता तथैवैन्द्री गजराजोपरि स्थिता । प्राप्ता सहस्रनयना यथा शक्रस्तथैव सा ॥ ८८.२० ॥ ततः परिवृतस्ताभिरीशानो देवशक्तिभिः । हन्यन्तामसुराः शीघ्रं मम प्रीत्याऽह चण्डिकाम् ॥ ८८.२१ ॥ ततो देवोशरीरात्तु विनिष्क्रान्तातिभीषणा । चण्डिकाशक्तिरत्युग्रा शिवाशतनिनादिनी ॥ ८८.२२ ॥ सा चाह धूम्रजटिलमीशानमपराजिता । दूत त्वं गच्छ भगवन् पार्श्वं शुम्भनिशुम्भयोः ॥ ८८.२३ ॥ ब्रूहि शुम्भं निशुम्भं च दानवावतिगर्वितौ । ये चान्ये दानवास्तत्र युद्धाय समुपस्थिताः ॥ ८८.२४ ॥ त्रैलोक्यमिन्द्रो लभतां देवाः सन्तु हविर्भुजः । यूयं प्रयात पातालं यदि जीवितुमिच्छथ ॥ ८८.२५ ॥ बलावलेपादथ चेद्भवन्तो युद्धकाङ्क्षिणः । तदागच्छत तृप्यन्तु मच्छिवाः पिशितेन वः ॥ ८८.२६ ॥ यतो नियुक्तो दौत्येन तया देव्या शिवः स्वयम् । शिवदूतीति लोकेऽस्मिंमस्ततः सा ख्यातिमागता ॥ ८८.२७ ॥ तेऽपि श्रुत्वा वचो देव्याः शर्वाख्यातं महासुराः । अमर्षापूरिता जग्मुर्यत्र कात्यायनी स्थिता ॥ ८८.२८ ॥ ततः प्रथममेवाग्रे शरशक्त्यृष्टिवृष्टिभिः । ववर्षुरुद्धतामर्षास्तां देवीममरारयः ॥ ८८.२९ ॥ सा च तान् प्रहितान् बाणाञ्छूलशक्तिपरश्वधान् । चिच्छेद लीलयाऽध्मातधनुर्मुक्तैर्महेषुभिः ॥ ८८.३० ॥ तस्याग्रतस्तथा काली शूलपातविदारितान् । खट्वाङ्गपोथितांश्चारीन् कुर्वती व्यचरत्तदा ॥ ८८.३१ ॥ कमण्डलुजलाक्षेपहतवीर्यान् हतौजसः । ब्रह्माणी चाकरोच्छत्रून् येन येन स्म धावति ॥ ८८.३२ ॥ माहेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी । दैत्याञ्जघान कौमारी तथा शक्त्यातिकोपना ॥ ८८.३३ ॥ ऐन्द्रीकुलिशपातेन शतशो दैत्यदानवाः । पेतुर्विदारिताः पृथ्व्यां रुधिरौघप्रवर्षिणः ॥ ८८.३४ ॥ तुण्डप्रहारविध्वस्ता दंष्ट्राग्रक्षतवक्षसः । वाराहमूर्त्या न्यपतंश्चक्रेण च विदारिताः ॥ ८८.३५ ॥ नखैर्विदारितांश्चान्यान् भक्षयन्ती महासुरान् । नारसिंही चचाराजौ नादापूर्णदिगन्तरा ॥ ८८.३६ ॥ चण्डाट्टहासैरसुराः शिवदूत्यभिदूषिताः । पेतुः पृथिव्यां पतितांस्तांश्चखादाथ सा तदा ॥ ८८.३७ ॥ इति मातृगणं क्रुद्धं मर्दयन्तं महासुरान् । दृष्ट्वाभ्युपायैर्विविधैर्नेशुर्देवारिसैनिकाः ॥ ८८.३८ ॥ पलायनपरान् दृष्ट्वा दैत्यान्मातृगणार्दितान् । योद्धुमभ्याययौ क्रुद्धो रक्तबीजो महासुरः ॥ ८८.३९ ॥ रक्तबिन्दुर्यदा भूमौ पतत्यस्य शरीरतः । समुत्पतति मेदिन्यां तत्प्रमाणो महासुरः ॥ ८८.४० ॥ युयुधे स गदापाणिपरिन्द्रशक्त्या महासुरः । ततश्चैन्द्री स्ववज्रेण रक्तबीजमताडयत् ॥ ८८.४१ ॥ कुलिशेनाहतस्याशु बहु सुस्त्राव शोणितम् । समुत्तस्थुस्ततो योधास्तद्रूपास्तत्पराक्रमाः ॥ ८८.४२ ॥ यावन्तः पतितास्तस्य शरीराद्रक्तबिन्दवः । तावन्तः पुरुषा जातास्तद्वीर्यबलविक्रमाः ॥ ८८.४३ ॥ ते चापि युयुधुस्तत्र पुरुषा रक्तसम्भवाः । समं मातृबिरत्युग्रशस्त्रपातातिभीषणम् ॥ ८८.४४ ॥ पुनश्च वज्रपातेन क्षतमस्य शिरो यदा । ववाह रक्तं पुरुषास्ततो जाताः सहस्रशः ॥ ८८.४५ ॥ वैष्णवी समरे चैनं चक्रेणाभिजघान ह । गदया दाडयामास ऐन्द्री तमसुरेश्वरम् ॥ ८८.४६ ॥ वेष्णावीचक्रभिन्नस्य रुधिरस्त्रावसम्भवैः । सहस्रशौ जगद्व्याप्तं तत्प्रमाणैर्महासुरैः ॥ ८८.४७ ॥ शक्त्या जघान कौमारो वाराही च तथासिना । माहेश्वरी त्रिशूलेन रक्तबीजं महासुरम् ॥ ८८.४८ ॥ स चापि गदया दैत्यः सर्वा एवाहनत्पृथक् । मातः कोपसमाविष्टो रक्तबीजो महासुरः ॥ ८८.४९ ॥ तस्याहतस्य बहुधा शक्तिशूलादिभिर्बुवि । पपात यो वै रक्तौघस्तेनासञ्छतशोऽसुराः ॥ ८८.५० ॥ तैश्चासुरासृक्सम्भूतैरसुरैः सकलं जगत् । व्याप्तमासीत्ततो देवा भयमाजग्मुरुत्तमम् ॥ ८८.५१ ॥ तान् विषण्णान् सुरान् दृष्ट्वा चण्डिका प्राह सत्वरा । उवाच कालीं चामुण्डे विस्तीर्णं वदनं कुरु ॥ ८८.५२ ॥ मच्छस्त्रपातसम्भूतान् रक्तबिन्दून्महासुरान् । रक्तबिन्दोः प्रतीच्छ त्वं वक्त्रेणानेन वेगिना ॥ ८८.५३ ॥ भक्षयन्ती चर रणे तदुत्पन्नान्महासुरान् । एवमेष क्षयं दैत्यः क्षीणरक्तो गमिष्यति । भक्ष्यमाणास्त्वया चोग्रा न चोत्पत्स्यन्ति चापरे ॥ ८८.५४ ॥ ऋषिरुवाच इत्युक्त्वा तां ततो देवी शूलेनाभिजघान तम् । मुखेन काली जगृहे रक्तबीजस्य सोणितम् ॥ ८८.५५ ॥ ततोऽसावाजघानाथ गदया तत्र चण्डिकाम् । न चास्या वेदनां चक्रे गदापातोऽल्पिकामपि ॥ ८८.५६ ॥ तस्याहतस्य देहात्तु बहु सुस्त्राव शोणितम् । यतस्ततः स्ववक्त्रेण वामुण्डा सम्प्रतीच्छति ॥ ८८.५७ ॥ मुखे समुद्गता येऽस्या रक्तपातान्महासुराः । तांश्चखादाथ चामुण्डा पपौ तस्य च शोणितम् ॥ ८८.५८ ॥ देवी शूलेन चक्रेण बाणैरसिभिरृष्टिभिः । जघान रक्तबीजं तं चामुण्डापीतशोणितम् ॥ ८८.५९ ॥ स पपात महीपृष्ठे शस्त्रसंहतितो हतः । नीरक्तश्च महीपाल रक्तबीजो महासुरः ॥ ८८.६० ॥ ततस्ते हर्षमतुलमवापुस्त्रिदशा नृप । तेषां मातृगणो जातो ननर्तासृङ्मदोद्धतः ॥ ८८.६१ ॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये रक्तबीजवधोनामाष्टाशीतितमोऽध्यायः _____________________________________________________________ एकोननवतितमोऽध्यायः ८९ राजोवाच विचित्रमिदमाख्यातं भगवन् भवता मम । देव्याश्चरितमाहात्म्यं रक्तबीजवधाश्रितम् ॥ ८९.१ ॥ भूयश्चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते । चका शुम्भो यत्कर्म निशुम्भश्चातिकोपनः ॥ ८९.२ ॥ ऋषिरुवाच चकार कोपमतुलं रक्तबीजे निपातिते । शुम्भासुरो निशुम्भश्च हतेष्वन्येषु चाहवे ॥ ८९.३ ॥ हन्यमानं महासैन्यं विलोक्यामर्षमुद्वहन् । अभ्यधावन्निशुम्भोऽथ मुख्ययासुरसेनया ॥ ८९.४ ॥ तस्याग्रतस्तथा पृष्ठे पार्श्वयोश्च महासुराः । संदष्टौष्ठपुटाः क्रुद्धा हन्तुं देवीमुपाययुः ॥ ८९.५ ॥ आजगाम महावीर्यः शुम्भोऽपि स्वबलैर्वृतः । निहन्तुं चण्डिकां कोपात्कृताव युद्धं तु मातृभिः ॥ ८९.६ ॥ ततो युद्धमतीवासीद्देव्या शुम्भनिशुम्भयोः । शरवर्षमतीवोग्रं मेघयोरिव वर्षतोः ॥ ८९.७ ॥ चिच्छेदास्ताञ्छरांस्ताभ्यां चण्डिका स्वशरोत्करैः । ताडयामास चाङ्गेषु शस्त्रौघैरसुरेश्वरौ ॥ ८९.८ ॥ निशुम्भो निशितं खड्गं चर्म चादाय सुप्रभम् । अताडयन्मूर्ध्नि सिंहं देव्या वाहनमुत्तमम् ॥ ८९.९ ॥ निशुम्भो निशितं खड्गं चर्म चादाय सुप्रभम् । अताडयन्मूर्ध्नि सिंहं देव्या वाहनमुत्तमम् ॥ ८९.१० ॥ छिन्ने चर्मणि खड्गे च शक्तिं चिक्षेप सोऽसुरः । तामप्यस्य द्विधा चक्रे चक्रेणाभिमुखागताम् ॥ ८९.११ ॥ कोपाध्मातो निशुम्भोऽथ शूलं जग्राह दानवः । आयातं मुष्टिपातेन देवी तच्चाप्यचूर्णयत् ॥ ८९.१२ ॥ अथादाय गदां सोऽपि चिक्षेप चण्डिकां प्रति । सापि देव्या त्रिशूलेन भिन्ना भस्मत्वमागता ॥ ८९.१३ ॥ ततः परशुहस्तं तमायान्त दैत्यपुङ्गवम् । आहत्य देवी बाणौघैरपातयत भूतले ॥ ८९.१४ ॥ तस्मिन्निपतिते भूमौ निशुम्भे भीमविक्रमे । भ्रातर्यतीव संक्रुद्धः प्रययौ हन्तुमम्बिकाम् ॥ ८९.१५ ॥ स रथस्थस्तथात्युच्चैर्गृहीतपरमायुधैः । भुजैरष्टाभिरतुलैर्व्याप्याशेषं बभौ नभः ॥ ८९.१६ ॥ तमायान्तं समालोक्य देवी शङ्घमवादयत् । ज्याशब्दं चापि धनुषश्चकारातीव दुः सहम् ॥ ८९.१७ ॥ पूरयामास ककुभो निजघण्टास्वनेन च । समस्तदैत्यसैन्यानां तेजोवधविधायिना ॥ ८९.१८ ॥ ततः सिंहो महानादैस्त्याजितेभमहामदैः । पूरयामास गगनं गां तथैव दिशो दश ॥ ८९.१९ ॥ ततः काली समुत्पत्य गगनं क्ष्मामताडयत् । कराभ्यां तन्निनादेन प्राक्स्वनास्ते तिरोहिताः ॥ ८९.२० ॥ अट्टाट्टहासमशिवं शिवदूती चकार ह । तैः शब्दैरसुरास्त्रेसुः शुम्भः कोपं परं ययौ ॥ ८९.२१ ॥ दुरात्मंस्तिष्ठ तिष्ठेति व्याजहाराम्बिका यदा । तदा जयेत्यभिहितं देवैराकाशसंस्थितैः ॥ ८९.२२ ॥ शुम्भेनागत्य या शक्तिर्मुक्ता ज्वालातिभीषणा । आयान्ती वह्निकूटाभा सा निरस्ता महोल्कया ॥ ८९.२३ ॥ सिंहनादेन शुम्भस्य व्याप्तं लोकत्रयान्तरम् । निर्घातनिः स्वनो घोरो जितवानवनीपते ॥ ८९.२४ ॥ शुम्भमुक्ताञ्छरान्देवी शुम्भस्तत्प्रहिताञ्छरान् । चिच्छेद स्वशरैरुग्रैः शतशोऽथ सहस्रशः ॥ ८९.२५ ॥ ततः सा चण्डिका क्रुद्धा शूलेनाभिजघान तम् । स तदाभिहतो भूमौ मूर्च्छितो निपपात ह ॥ ८९.२६ ॥ ततो निशुम्भः सम्प्राप्य चेतनामात्तकार्मुकः । आजघान शरैर्देवीं कालीं केसरिणं तथा ॥ ८९.२७ ॥ पुनश्च कृत्वा बाहूनामयुतं दनुजेश्वरः । चक्रायुधेन दितिजश्छादयामास चण्डिकाम् ॥ ८९.२८ ॥ ततो भगवती क्रुद्धा दुर्गा दुर्गार्तिनाशिनी । चिच्छेद तानि चक्राणि स्वशरैः सायकांश्च तान् ॥ ८९.२९ ॥ ततो निशुम्भो वेगेन गदामादाय चण्डिकाम् । अभ्यधावत वै हन्तुं दैत्यसेनासमावृतः ॥ ८९.३० ॥ तस्यापतत एवाशु गदां चिच्छेद चण्डिका । खड्गेन शितधारेण स च शूलं समाददे ॥ ८९.३१ ॥ शूलहस्तं समायान्तं निशुम्भममरार्दनम् । हृदि विव्याध शूलेन वेगाविद्धेन चण्डिका ॥ ८९.३२ ॥ भिन्नस्य तस्य शूलेन हृदयान्निः सृतोऽपरः । महाबलो महावीर्यस्तिष्ठेति पुरुषो वदन् ॥ ८९.३३ ॥ तस्य निष्क्रामतो देवी प्रहस्य स्वनवत्ततः । शिरश्चिच्छेद खड्गेन ततोऽसावपतद्भुवि ॥ ८९.३४ ॥ ततः सिंहश्चखादोग्रं दंष्ट्राक्षुण्णशिरोधरान् । असुरांस्तांस्तथा काली शिवदूती तथापरान् ॥ ८९.३५ ॥ कौमारीशक्तिनिर्भिन्नाः केचिन्नेशुर्महासुराः । ब्रह्माणीमन्त्रपूतेन तोयेनान्ये निराकृताः ॥ ८९.३६ ॥ माहेश्वरीत्रिशूलेन भिन्नाः पेतुस्तथापरे । वाराहीतुण्डघातेन केचिच्चूर्णोकृता भुवि ॥ ८९.३७ ॥ खण्डं खण्डं च चक्रेण वैष्णव्या दानवाः कृताः । वज्रेण चैन्द्रीहस्ताग्रविमुक्तेन तथापरे ॥ ८९.३८ ॥ केचिद्विनेशुरसुराः केचिन्नष्टा महाहवात् । भक्षिताश्चापरे कालीशिवदूतीमृगाधिपैः ॥ ८९.३९ ॥ इति श्रीमार्कण्डेयमहापुराणे सावर्णिके मन्वन्तरे देवीमाहत्म्ये निशुम्भवधोनाम एकोननवतितमोऽध्यायः _____________________________________________________________ नवतितमोऽध्यायः ९० ऋषिरुवाच निशुम्भं निहतं दृष्ट्वा भ्रातरं प्राणसंमितम् । हन्यमानं बलं चैव शुम्भः क्रुद्धोऽब्रवीद्वचः ॥ ९०.१ ॥ बलावलेपाद्दुष्टे त्वं मा दुर्गे गर्वमावह । अन्यासां बलमाश्रित्य युध्यसे यातिमानिनी ॥ ९०.२ ॥ श्रीदेव्युवाच एकैवाहं जगत्यत्र द्वितीया का ममापरा । पश्यैता दुष्ट मय्येव विशन्त्यो मद्विभूतयः ॥ ९०.३ ॥ ऋषिरुवाच ततः समस्तास्ता देव्यो ब्रह्माणीप्रमुखा लयम् । तस्या देव्यास्तनौ जग्मुरेकावासीत्तदाम्बिका ॥ ९०.४ ॥ श्रीदेव्युवाच अहं विभूत्या बहुभिरिह रूपैर्यदास्थिता । सत्संहृतं मयैकैव तिष्ठाम्याजौ स्थिरो भव ॥ ९०.५ ॥ ऋषिरुवाच ततः प्रववृते युद्धं देव्याः शुम्भस्य चोभयोः । पश्यतां सर्वदेवानामसुराणां च दारुणम् ॥ ९०.६ ॥ शरवर्षैः शितैः शस्त्रैस्तथा चास्त्रैः सुदारुणैः । तयोर्युद्धमभूद्भूयः सर्वलोकभयङ्करम् ॥ ९०.७ ॥ दिव्यान्यस्त्राणि शतशो मुमुचे यान्यथाम्बिका । बभञ्ज तानि दैत्येन्द्रस्तत्प्रतीघातकर्तृभिः ॥ ९०.८ ॥ मुक्तानि तेन चास्त्राणि दिव्यानि परमेश्वरी । बभञ्ज लीलयैवोग्रहुङ्कारोच्चारणादिभिः ॥ ९०.९ ॥ ततः शरशतैर्देवीमाच्छादयत सोऽसुरः । सा च तत्कुपिता देवी धनुश्चिच्छेद चेषुभिः ॥ ९०.१० ॥ छिन्ने धनुषि दैत्येन्द्रस्तथा शक्तिमथाददे । चिच्छेद देवी चक्रेण तामप्यस्य करे स्थिताम् ॥ ९०.११ ॥ ततः खड्गमुपादाय शतचन्द्रं च भानुमत् । अभ्यधावत्तदा देवीं दैत्यानामधिपेश्वरः ॥ ९०.१२ ॥ तस्यापतत एवाशु खड्गं चिच्छेद चण्डिका । धनुर्मुक्तैः शितैर्बाणैश्चर्म चार्ककरामलम् ॥ ९०.१३ ॥ अश्वांश्च पातयामास रथं सारथिना सह । हताश्वः स तदा दैत्यश्छिन्नधान्वा विसारथिः । जग्राह मुद्गरं घोरमम्बिकानिधनोद्यतः ॥ ९०.१४ ॥ चिच्छेदापततस्तस्य मुद्गरं निशितैः शरैः । तथापि सोऽभ्यधावत्तां मुष्टिमुद्यम्य वेगवान् ॥ ९०.१५ ॥ स मुष्टिं पातयामास हृदये दैत्यपुङ्गवः । देव्यास्तं चापि सा देवी तलेनोरस्यताडयत् ॥ ९०.१६ ॥ तलप्रहाराभिहतो निपपात महीतले । स दैत्यराजः सहसा पुनरेव तथोत्थितः ॥ ९०.१७ ॥ उत्पत्य च प्रगृह्योच्चैर्देवीं गगनमास्थितः । तत्रापि सा निराधारा युयुधे तेन चण्डिका ॥ ९०.१८ ॥ नियुद्धं खे तदा दैत्यश्चण्डिका च परस्परम् । चक्रतुः प्रथमं सिद्धमुनिविस्मयकारकम् ॥ ९०.१९ ॥ ततो नियुद्धं सुचिरं कृत्वा तेनाम्बिका सह । उत्पात्य भ्रामयामास चिक्षेप धरणीतले ॥ ९०.२० ॥ स क्षिप्तो धरणीं प्राप्य मुष्टिमुद्यम्य वेगितः । अभ्यधावत दुष्टात्मा चण्डिकानिधनेच्छया ॥ ९०.२१ ॥ तमायान्तं ततो देवी सर्वदैत्यजनेश्वरम् । जगत्यां पातयामास भित्त्वा शूलेन वक्षसि ॥ ९०.२२ ॥ स गतासुः पपातोर्व्यां देवीशूलाग्रविक्षतः । चालयन् सकलां पृथ्वीं साब्धिद्वीपां सपर्वताम् ॥ ९०.२३ ॥ ततः प्रसन्नमखिलं हते तस्मिन् दुरात्मनि । जगत्स्वास्थ्यमतीवाप निर्मलं चाभवन्नभः ॥ ९०.२४ ॥ उत्पातमेघाः सोल्का ये प्रागासंस्ते शमं ययुः । सरितो मार्गवाहिन्यस्तथासंस्तत्र पातिते ॥ ९०.२५ ॥ ततो देवगणाः सर्वे हर्षनिर्भमानसाः । बभूवुर्निहते तस्मिन् गन्धर्वा ललितं जगुः ॥ ९०.२६ ॥ अवादयंस्तथैवान्ये ननृतुश्चाप्सरोगणाः । ववुः पुण्यास्तथा वाताः सुप्रभोऽभूद्दिवाकरः ॥ ९०.२७ ॥ जज्वलुश्चाग्नयः शान्ताः शान्ता दिग्जनितस्वनाः । इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये शुम्भवधोनाम नवतितमोऽध्यायः _____________________________________________________________ एकनवतितमोऽध्यायः ९१ ऋषिरुवाच देव्या हते तत्र महासुरेन्द्रे सेन्द्राः सुरा वह्निपुरोगमास्ताम् । कात्यायनीं तुष्टुवुरिष्टलाभाद् विकाशिवक्त्राब्जविकाशिताशाः ॥ ९१.१ ॥ देवा ऊचुः देवि प्रपन्नार्तिहरे प्रसीद प्रसीद मातर्जगतोऽखिलस्य । प्रसीद विश्वेश्वरि पाहि विश्वं त्वमीश्वरी देवि चराचरस्य ॥ ९१.२ ॥ आधारभूता जगतस्त्वमेका महीस्वरूपेण यतः स्थितासि । अपां स्वरूपस्थितया त्वयैतद् आप्याय्यते कृत्स्त्रमलङ्घ्यवीर्ये ॥ ९१.३ ॥ त्वं वैष्णवी शक्तिरनन्तवीर्या विश्वस्य बीजं परमासि माया । संमोहितं देवि समस्तमेतत् तेवं वै प्रसन्ना भुवि मुक्तिहेतुः ॥ ९१.४ ॥ विद्याः समस्तास्तव देवि भेदाः स्त्रियः समस्ताः सकला जगत्सु । त्वयैकया पूरितमम्बयैतत् का ते स्तुतिः स्तव्यपरा परोक्तिः ॥ ९१.५ ॥ सर्वभूता यदा देवी स्वर्गमुक्तिप्रदायिनी । त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः ॥ ९१.६ ॥ सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते । स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते ॥ ९१.७ ॥ कलाकाष्ठादिरूपेण परिणामप्रदायिनी । विश्वस्योपरतौ शक्ते नारायणि नमोऽस्तु ते ॥ ९१.८ ॥ सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते ॥ ९१.९ ॥ सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि । गुणाश्रये गुणमये नारायणि नमोऽस्तु ते ॥ ९१.१० ॥ शरणागतदीनार्तपरित्राणपरायणे । सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते ॥ ९१.११ ॥ हंसयुक्तविमानस्थे ब्रह्माणीरूपधारिणि । कौशाम्भः क्षरिके देवि नारायणि नमोऽस्तु ते ॥ ९१.१२ ॥ त्रिशूलचन्द्राहिधरे महावृषभवाहिनि । माहेश्वरीस्वरूपेण नारायणि नमोऽस्तु ते ॥ ९१.१३ ॥ मयूरकुक्कुटवृते महाशक्तिधरेऽमघे । कौमारीरूपसंस्थाने नारायणि नमोऽस्तु ते ॥ ९१.१४ ॥ शङ्खचक्रगदाशार्ङ्गगृहीतपरमायुधे । प्रसीद वैष्णवीरूपे नारायणि नमोऽस्तु ते ॥ ९१.१५ ॥ गृहीतोग्रमहाचक्रे दंष्ट्रोद्धृतवसुन्धरे । वराहरूपिणि शिवे नारायणि नमोऽस्तु ते ॥ ९१.१६ ॥ नृसिंहरूपेणोग्रेण हन्तुं दैत्यान् कृतोद्यमे । त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तु ते ॥ ९१.१७ ॥ किरीटिनि महावज्रे सहस्रनयनोज्ज्वले । वृत्रप्राणहरे चैन्द्रि नारायणि नमोऽस्तु ते ॥ ९१.१८ ॥ शिवदूतीस्वरूपेण हतदैत्यमहाबले । घोररूपे महारावे नारायणि नमोऽस्तु ते ॥ ९१.१९ ॥ दंष्ट्राकरालवदने शिरोमालाविभूषणे । चामुण्डे मुण्डमथने नारायणि नमोऽस्तु ते ॥ ९१.२० ॥ लक्ष्मि लज्जे महाविद्ये श्रद्धे पुष्टे स्वधे ध्रुवे । महारात्रे महामाये नारायणि नमोऽस्तु ते ॥ ९१.२१ ॥ मेधे सरस्वति वरे भूति बाभ्रवि तामसि । नियते त्वं प्रसीदेशे नारायणि नमोऽस्तु ते ॥ ९१.२२ ॥ सर्वतः पाणिपादान्ते सर्वतोऽक्षिशिरोमुखे । सर्वतः श्रवणघ्राणे नारायणि नमोऽस्तु ते ॥ ९१.२३ ॥ सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते । भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते ॥ ९१.२४ ॥ एतत्ते वदनं सौम्यं लोचनत्रयभूषितम् । पातु नः सर्वभीतिभ्यः कात्यायनि नमोऽस्तु ते ॥ ९१.२५ ॥ ज्वालाकरालमत्युग्रमशेषासुरशूदनम् । त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तुते ॥ ९१.२६ ॥ हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत् । सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव ॥ ९१.२७ ॥ असुरासृग्वसापङ्कचर्चितस्ते करोज्ज्वलः । शुभाय खड्गो भवतु चण्डिके त्वां नता वयम् ॥ ९१.२८ ॥ रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलानभीष्टान् । त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥ ९१.२९ ॥ एतत्कृतं यत्कदनं त्वयाद्य धर्मद्विषां देवि महासुराणाम् । रूपैरनेकैर्बहुधाऽत्ममूर्ति कृत्वाम्बिके तत्प्रकरोति कान्या ॥ ९१.३० ॥ विद्यासु शास्त्रेषु विवेकदीपेष्व् आद्येषु वाक्येषु च का त्वदन्या । ममत्वगर्तेऽतिमहान्धकारे विभ्रामयत्येतदतीव विश्वम् ॥ ९१.३१ ॥ रक्षांसि यत्रोग्रविषाश्च नागा यत्रारयो दस्युबलानि यत्र । दावानलो यत्र तथाब्धिमध्ये तत्र स्थिता त्वं परिपासि विश्वम् ॥ ९१.३२ ॥ विश्वेश्वरि त्वं परिपासि विश्वं विश्वात्मिका धारयसीति विश्वम् । विश्वेशवन्द्या भवती भवन्ति विश्वाश्रया ये त्वयि भक्तिनम्राः ॥ ९१.३३ ॥ देवि प्रसीद परिपालय नोऽपरिभीतेर् नित्यं यथासुरवधादधुनैव सद्यः । पापानि सर्वजगतां प्रशमं नयाशु उत्पातपाकजनितांश्च महोपसर्गान् ॥ ९१.३४ ॥ प्रणतानां प्रसीद त्वं देवि विश्वार्तिहारिणी । त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव ॥ ९१.३५ ॥ श्रीदेव्युवाच वरदाहं सुरगण वरं यन्मनसेच्छथ । तं वृणुध्वं प्रयच्छामि जगतामुपकारकम् ॥ ९१.३६ ॥ देवा ऊचुः सर्वबाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि । एवमेव त्वया कार्यमस्मद्वैरिविनाशनम् ॥ ९१.३७ ॥ श्रीदेव्युवाच वैवस्वतेऽन्तरे प्राप्ते अष्टाविंशतिमे युगे । शुम्भो निशुम्भश्चैवान्यावुत्पत्स्येते महासुरौ ॥ ९१.३८ ॥ नन्दगोपगृहे जाता यशोदागर्भसम्भवा । ततस्तौ नाशयिष्यामि विन्ध्याचलनिवासिनी ॥ ९१.३९ ॥ पुनरप्यतिरौद्रेण रूपेण पृथिवीतले । अवतीर्य हनिष्यामि वैप्रचित्तांस्तु दानवान् ॥ ९१.४० ॥ भक्षयन्त्याश्च तानुग्रान् वैप्रचित्तान् सुदानवान् । रक्ता दन्ता भविष्यन्ति दाडिमीकुसुमोपमाः ॥ ९१.४१ ॥ ततो मां देवताः स्वर्गे मर्त्यलोके च मानवाः । स्तुवन्तो व्याहरिष्यन्ति सततं रक्तदन्तिकाम् ॥ ९१.४२ ॥ भुयश्च शतवार्षिक्यामनावृष्ट्यामनम्भसि । मुनिभिः संस्तुता भूमौ संभविष्याम्ययोनिजा ॥ ९१.४३ ॥ ततः शतेन नेत्राणां निरीक्षिष्यामि यन्मुनीन् । कीर्तयिष्यन्ति मनुजाः शताक्षीमिति मां ततः ॥ ९१.४४ ॥ ततोऽहमखिलं लोकमात्मदेहसमुद्भवैः । भरिष्यामि सुराः शाकैरावृष्टेः प्राणधारकैः ॥ ९१.४५ ॥ शाकम्भरीति विख्यातिं तदा यास्याम्यहं भुवि । तत्रैव च वधिष्यामि दुर्गमाख्यं महासुरम् । दुर्गा देवीति विख्यातं तन्मे नाम भविष्यति ॥ ९१.४६ ॥ पुनश्चाहं यदा भीमं रूप कृत्वा हिमाचले । रक्षांसि भक्षयिष्यामि पुनीनां त्राणकारणात् ॥ ९१.४७ ॥ तदा मां मुनयः सर्वे स्तोष्यन्त्यानम्रमूर्तयः । भीमा देवीति विख्यातं तन्मे नाम भविष्यति ॥ ९१.४८ ॥ यदारुणाख्यस्त्रैलोक्ये महाबाधां करिष्यति । तदाहं भ्रामरं रूपं कृत्वासंख्येयषट्पदम् ॥ ९१.४९ ॥ त्रैलोक्यस्य हितार्थाय वधिष्यामि महासुरम् । भ्रामरीति च मां चोकास्तदा स्तोष्यन्ति सर्वतः ॥ ९१.५० ॥ इत्थं यदा यदा बाधा दानवोत्था भविष्यति । तदा तदावतीर्याहं करिष्याम्यरिसंक्षयम् ॥ ९१.५१ ॥ इति श्रीमार्कण्डेयमहापुराणे सावर्णिके मन्वन्तरे देवीमाहत्म्ये देवैः कृता नारायणो स्तुतिर्नामैकनवतितमोऽध्यायः _____________________________________________________________ द्विनवतितमोऽध्यायः ९२ देव्युवाच एभिः स्तवैश्च मां नित्यं स्तोष्यते यः समाहितः । तस्याहं सकलां बाधां नाशयिष्याम्यसंशयम् ॥ ९२.१ ॥ मधुकैटभानाशं च महिषासुरघातनम् । कीर्तयिष्यिन्ति ये तद्वद्वधं शुम्भनिशुम्भयोः ॥ ९२.२ ॥ अष्टम्यां च चतुर्दश्यां नवम्यां चैकचेतसः । स्तोष्यन्ति चैव ये भक्त्या मम माहात्म्यमुत्तमम् ॥ ९२.३ ॥ न तेषां दुष्कृतं किञ्चिद्दुष्कृतोत्था न चापदः । भविष्यति न दारिद्रयं न चैवेष्टवियोजनम् ॥ ९२.४ ॥ शत्रुतो न भयं तस्य दस्युतो वा न राजतः । न शस्त्रानलतोयौघात्कदाचित्सम्भविष्यति ॥ ९२.५ ॥ तस्मान्ममैतन्माहात्म्यं पठितव्यं सहाहितैः । श्रोतव्यं च सदा भक्त्या परं स्वस्त्ययनं महत् ॥ ९२.६ ॥ उपसर्गानशेषांस्तु महामारीसमुद्भवान् । तथा त्रिविधमुत्पातं माहात्म्यं शमयेन्मम ॥ ९२.७ ॥ यत्रैतत्पठ्यते सम्यङ्नित्यमायतने मम । सदा न तद्विमोक्ष्यामि सांनिध्यं तत्र मे स्थितम् ॥ ९२.८ ॥ बलिप्रदाने पूजायामग्निकार्ये महोत्सवे । सर्वं ममैतच्चरितमुच्चार्यं श्राव्यमेव च ॥ ९२.९ ॥ जानताजानता वापि बलिपूजां तथा कृताम् । प्रतीच्छिष्याम्यहं प्रीत्या वह्निहोमं तथा कृतम् ॥ ९२.१० ॥ शरत्काले महापूजा क्रियते या च वार्षिकी । तस्यां ममैतन्माहात्म्यं श्रुत्वा भक्तिसमन्वितः ॥ ९२.११ ॥ सर्वबाधाविनिर्मृक्तो धनधान्यसमन्वितः । मनुष्यो मत्प्रसादेन भविष्यति न संशयः ॥ ९२.१२ ॥ श्रुत्वा ममैतन्माहात्म्यं तथोत्पत्तीः पृथक्शुभाः । पराक्रमं च युद्धेषु जायते निर्भयः पुमान् ॥ ९२.१३ ॥ रिपवः संक्षयं यान्ति कल्याणं चोपपद्यते । नन्दते च कुलं पुंसां माहात्म्यं मम शृण्वताम् ॥ ९२.१४ ॥ शान्तिकर्मणि सर्वत्र तथा दुः स्वप्नदर्शने । ग्रहपीडासु चोग्रासु माहात्म्यं शृणुयान्मम ॥ ९२.१५ ॥ उपसर्गाः शमं यान्ति ग्रहपीडाश्च दारुणाः । दुः स्वप्नं च नृभिर्दृष्टं सुस्वप्नमुपजायते ॥ ९२.१६ ॥ बालग्रहाभिभूतानां बालानां शान्तिकारकम् । संघातभेदे च नृणां मैत्रीकरणमुत्तमम् ॥ ९२.१७ ॥ दुर्वृत्तानामशेषाणां बलहानिकरं परम् । रक्षोभूतपिशाचानां पठनादेव नाशनम् ॥ ९२.१८ ॥ सर्वं ममैतन्माहात्म्यं मम सन्निधिकारकम् ॥ ९२.१९ ॥ पशुपुष्पार्घ्यधूपैश्च गन्धदीपैस्तथोत्तमैः । विप्राणां भोजनैर्हेमैः प्रोक्षणीयैरहर्निशम् ॥ ९२.२० ॥ अन्यैश्च विविधैर्भोगैः प्रदानैर्वत्सरेण या । प्रीतिर्मे क्रियते सास्मिन् सकृत्सुचरिते श्रुते ॥ ९२.२१ ॥ श्रुतं हरति पापानि तथाऽरोग्यं प्रयच्छति । रक्षां करोति भूतेभ्यो जन्मनां कीर्तनं मम ॥ ९२.२२ ॥ युद्धेषु चरितं यन्मे दुष्टदैत्यनिबर्हणम् । तस्मिन् श्रुते वैरिकृतं भयं पुंसां न जायते ॥ ९२.२३ ॥ युष्माभिः स्तुतयो याश्च याश्च ब्रह्मर्षिभिः कृताः । ब्रह्मणा च कृतास्तास्तु प्रयच्छन्ति शुभां गतिम् ॥ ९२.२४ ॥ अरण्ये प्रान्तरे वापि दावाग्निपरिवारितः । दस्युभिर्वा वृतः शून्ये गृहीतो वापि शत्रुभिः ॥ ९२.२५ ॥ सिंहव्याघ्रानुयातो वा वने वा वनहस्तिभिः । राज्ञा क्रुद्धेन चाज्ञप्तो वध्यो बन्धगतोऽपि वा ॥ ९२.२६ ॥ आघूर्णितो वा वातेन स्थितः पोते महार्णवे । पतत्सु चापि शस्त्रेषु संग्रामे भृशदारुणे ॥ ९२.२७ ॥ सर्वाबाधासु घोरासु वेदनाभ्यर्दितोऽपि वा । स्मरन्ममैतच्छरितं नरो मुच्येत सङ्कटात् ॥ ९२.२८ ॥ मम प्रभावात्सिंहाद्या दस्यवो वैरिणस्तथा । दूरादेव पलायन्ते स्मरतश्चरितं मम ॥ ९२.२९ ॥ ऋषिरुवाच इत्युक्त्वा सा भगवती चण्डिका चण्डविक्रमा । पश्यतामेव देवानां तत्रैवान्तरधीयत ॥ ९२.३० ॥ तेऽपि देव्या निरातङ्का स्वाधिकारान् यथा पुरा । यज्ञभागभुजः सर्वे चक्रुर्विनिहतारयः ॥ ९२.३१ ॥ दैत्याश्च देव्या निहते शुम्भे देवरिपौ युधि । जगद्विध्वंसके तस्मिन्महोग्रेऽतुलविक्रमे । निशुम्भे च महावीर्ये शेषाः पातालमाययुः ॥ ९२.३२ ॥ एवं भगवती देवी सा नित्यापि पुनः पुनः । सम्भूय कुरुते भूप जगतः परिपालनम् ॥ ९२.३३ ॥ तयैतन्मोह्यते विश्वं सैव विश्वं प्रसूयते । सा याचिता च विज्ञानं तुष्टा ऋद्धिं प्रयच्छति ॥ ९२.३४ ॥ व्याप्तं तयैतत्सकलं ब्रह्माण्डं मनुजेश्वर । महाकाल्या महाकाले महाकारीस्वरूपया ॥ ९२.३५ ॥ सैव काले महामारी सैव सृष्टिर्भवत्यजा । स्थितिं करोति भूतानां सैव काले सनातनी ॥ ९२.३६ ॥ भवकाले नृणां सैव लक्ष्मीर्वृद्धिप्रदा गृहे । सैवाभावे तथालक्ष्मीर्विनाशायोपजायते ॥ ९२.३७ ॥ स्तुता सम्पूजिता पुष्पैर्धूपगन्धादिबिस्तथा । ददाति वित्तं पुत्रांश्च मतिं धर्मे गतिं शुभाम् ॥ ९२.३८ ॥ इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये देवीवाक्यं नाम द्विनवतितमोऽध्यायः _____________________________________________________________ त्रिनवतितमोऽध्यायः ९३ ऋषिरुवाच एतत्ते कथितं भूप देवीमाहात्म्यमुत्तमम् । एवंप्रभावा सा देवी ययेदं धार्यते जगत् ॥ ९३.१ ॥ विद्या तथैव क्रियते भगवद्विष्णुमायया । तथा त्वमेष वैश्यश्च तथैवान्ये विवेकिनः । मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे ॥ ९३.२ ॥ तामुपैहि महाराज शरणं परमेश्वरीम् । आराधिता सैव नृणां भोगस्वर्गापवर्गदा ॥ ९३.३ ॥ मार्कण्डेय उवाच इति तस्य वचः श्रुत्वा सुरथः स नराधिपः । प्रणिपत्य महाभागं तमृषिं शंसितव्रतम् ॥ ९३.४ ॥ निर्विण्णोऽतिममत्वेन राज्यापहरणेन च । जगम सद्यस्तपसे स च वैश्यो महामुने ॥ ९३.५ ॥ संदर्शनार्थमम्बाया नदीपुलिनसंस्थितः । स च वैश्यस्तपस्तेपे देवीसूक्तं परं जपन् ॥ ९३.६ ॥ तौ तस्मिन् पिलिने देव्याः कृत्वा मूर्ति महीमयीम् । अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः ॥ ९३.७ ॥ निराहारौ यतात्मानौ तन्मनस्कौ समाहितौ । ददतुस्तौ बलिं चैव निजगात्रासृगुक्षितम् ॥ ९३.८ ॥ एवं समाराधयतोस्त्रिभिर्वर्षैर्यतात्मनोः । परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका ॥ ९३.९ ॥ श्रीदेव्युवाच यत्प्रार्थ्यते त्वया भूप त्वया च कुलनन्दन । मत्तस्तत्प्राप्यतां सर्वं परितुष्टा ददामि तत् ॥ ९३.१० ॥ मार्कण्डेय उवाच ततो वव्रे नृपो राज्यमविभ्रंश्यन्यजन्मनि । अत्रैव च निजं राज्यं हतशत्रुबलं बलात् ॥ ९३.११ ॥ सोऽपि वैश्यस्ततो ज्ञानं वव्रे निर्विण्णमानसः । ममेत्यहमिति प्राज्ञः सङ्गविच्युतिकारकम् ॥ ९३.१२ ॥ श्रीदेव्युवाच स्वल्पैरहोभिर्नृपते स्वं राज्यं प्राप्स्यते भवान् । हत्वा रिपूनस्खलितं तव तत्र भविष्यति ॥ ९३.१३ ॥ मृतश्च भूयः सम्प्राप्य जन्म देवाद्विवस्वतः । सावर्णिको नाम मनुर्भवान् भुवि भविष्यति ॥ ९३.१४ ॥ वैश्यवर्य त्वया यश्च वरोऽस्मत्तोऽभिवाञ्छतः । तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति ॥ ९३.१५ ॥ मार्कण्डेय उवाच इति दत्त्वा तयोर्देवी यथाभिलषितं वरम् । बभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता ॥ ९३.१६ ॥ एवं देव्या वरं लब्ध्वा सुरथः क्षत्रियर्षभः । सूर्याज्जन्म समासाद्य सावर्णिर्भविता मनुः ॥ ९३.१७ ॥ इति श्रीमार्कण्डेयमहापुराणे सावर्णिके मन्वन्तरे देवीमाहात्म्ये वरप्रदानं नाम त्रिनवतितमोऽध्यायः