कूर्मपुराणम्१ अथ श्रीकूर्मपुराणम् पूर्वविभागः नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥ १,म.१ ॥ नमस्कृत्वाप्रमेयाय विष्णवे कूर्मरूपिणे । पुराणं संप्रवक्ष्यामि यदुक्तं विश्वयोनिना ॥ १,१.१ ॥ सत्रान्ते सूतमनघं नैमिषीया महर्षयः । पुराणसंहितां पुण्यां पप्रच्छू रोमहर्षणम् ॥ १,१.२ ॥ त्वया सूत महाबुद्धे भगवान् ब्रह्मवित्तमः । इतिहासपुराणार्थं व्यासः सम्यगुपासितः ॥ १,१.३ ॥ तस्य ते सर्वरोमाणि वचसा हृषितानि यत् । द्वैपायनस्य भगवांस्ततो वै रोमहर्षणः ॥ १,१.४ ॥ भवन्तमेव भगवान् व्याजहार स्वयं प्रभुः । मुनीनां संहितां वक्तुं व्यासः पौराणिकीं पुरा ॥ १,१.५ ॥ त्वं हि स्वायंभुवे यज्ञे सुत्याहे वितते हरिः । संभूतः संहितां वक्तुं स्वांशेन पुरुषोत्तमः ॥ १,१.६ ॥ तस्माद्भवन्तं पृच्छामः पुराणं कौर्ममुत्तमम् । वक्तुमर्हसि चास्माकं पुराणार्थविशारद ॥ १,१.७ ॥ मुनीनां वचनं श्रुत्वा सूतः पौराणिकोत्तमः । प्रणम्य मनसा प्राह गुरुं सत्यवतीसुतम् ॥ १,१.८ ॥ रोमहर्षण उवाच नमस्कृत्वा जगद्योनिं कूर्मरूपधरं हरिम् । वक्ष्ये पौराणिकीं दिव्यां कथां पापप्रणाशिनीम् ॥ १,१.९ ॥ यां श्रुत्वा पापकर्मापि गच्छेत परमां गतिम् । न नास्तिके कथां पुण्यामिमां ब्रूयात्कदाचन ॥ १,१.१० ॥ श्रद्दधानाय शान्ताय धार्मिकाय द्विजातये । इमां कथामनुब्रूयात्साक्षान्नारायणेरिताम् ॥ १,१.११ ॥ सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥ १,१.१२ ॥ ब्राह्मं पुराणं प्रथमं पाद्मं वैष्णवमेव च । शैवं भागवतं चैव भविष्यं नारदीयकम् ॥ १,१.१३ ॥ मार्कण्डेयमथाग्नेयं ब्रह्मवैवर्तमेव च । लैङ्गं तथा च वाराहं स्कान्दं वामनमेव च ॥ १,१.१४ ॥ कौर्मं मात्स्यं गारुडं च वायवीयमनन्तरम् । अष्टादशं समुद्दिष्टं ब्रह्मण्डमिति संज्ञितम् ॥ १,१.१५ ॥ अन्यान्युपराणानि मुनिभिः कथितानि तु । अष्टादशपुराणानि श्रुत्वा संक्षेपतो द्विजाः ॥ १,१.१६ ॥ आद्यं सनत्कुमारोक्तं नारसिहमतः परम् । तृतीयं स्कान्दमुद्दिष्टं कुमारेण तु भाषितम् ॥ १,१.१७ ॥ चतुर्थं शिवधर्माख्यं साक्षान्नन्दीशभाषितम् । दुर्वाससोक्तमाश्चर्यं नारदोक्तमतः परम् ॥ १,१.१८ ॥ कापिलं मानवं चैव तथैवोशनसेरितम् । ब्रह्माण्डं वारुणं चाथ कालिकाह्वयमेव च ॥ १,१.१९ ॥ माहेश्वरं तथा साम्बं सौरं सर्वार्थसंचयम् । पराशरोक्तमपरं मारीचं भार्गवाह्वयम् ॥ १,१.२० ॥ इदं तु पञ्चदशमं पुराणं कौर्ममुत्तमम् । चतुर्धा संस्थितं पुण्यं संहितानां प्रभेदतः ॥ १,१.२१ ॥ ब्राह्मी भगवती सौरी वैष्णवी च प्रकीर्तिताः । चतस्त्रः संहिताः पुण्या धर्मकामार्थमोक्षदाः ॥ १,१.२२ ॥ इयं तु संहिता ब्राह्मी चतुर्वेदैस्तु सम्मिता । भवन्ति षट्सहस्त्राणि श्लोकानामत्र संख्यया ॥ १,१.२३ ॥ यत्र धर्मार्थकामानां मोक्षस्य च मुनीश्वराः । माहात्म्यमखिलं ब्रह्म ज्ञायते परमेश्वरः ॥ १,१.२४ ॥ सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं दिव्याः पुण्याः प्रासङ्गिकीः कथाः ॥ १,१.२५ ॥ ब्राह्मणाद्यैरियं धार्या धार्मिकैः शान्तमानसैः । तामहं वर्तयिष्यामि व्यासेन कथितां पुरा ॥ १,१.२६ ॥ पुरामृतार्थं दैतेयदानवैः सह देवताः । मन्थानं मन्दरं कृत्वा ममन्थुः क्षीरसागरम् ॥ १,१.२७ ॥ मथ्यमाने तदा तस्मिन् कूर्मरूपी जनार्दनः । बभार मन्दरं देवो देवानां हितकाम्यया ॥ १,१.२८ ॥ देवाश्च तुष्टुवुर्देवं नारदाद्या महर्षयः । कूर्मरूपधरं दृष्ट्वा साक्षिणं विष्णुमव्ययम् ॥ १,१.२९ ॥ तदन्तरेऽभवद्देवी श्रीर्नारायणवल्लभा । जग्राह भगवान् विष्णुस्तामेव पुरुषोत्तमः ॥ १,१.३० ॥ तेजसा विष्णुमव्यक्तं नारदाद्या महर्षयः । मोहिताः सह शक्रेण श्रियो वचनमब्रुवन् ॥ १,१.३१ ॥ भगवन् देवदेवेश नारायण जगन्मय । कैषा देवी विशालाक्षी यथावद्ब्रूहि पृच्छताम् ॥ १,१.३२ ॥ श्रुत्वा तेषां तदा वाक्यं विष्णुर्दानवमर्दनः । प्रोवाच देवीं संप्रेक्ष्य नारदादीनकल्मषान् ॥ १,१.३३ ॥ इयं सा परमा शक्तिर्मन्मयी ब्रह्मरूपिणी । माया मम प्रियानन्ता ययेदं मोहितं जगत् ॥ १,१.३४ ॥ अनयैव जगत्सर्वं सदेवासुरमानुषम् । मोहयामि द्विजश्रेष्ठा ग्रसामि विसृजामि च ॥ १,१.३५ ॥ उत्पत्तिं प्रलयं चैव भूतनामागतिं गतिम् । विज्ञायान्वीक्ष्य चात्मानं तरन्ति विपुलामिमाम् ॥ १,१.३६ ॥ अस्यास्त्वंशानधिष्ठाय शक्तिमन्तोऽभवन् द्विजाः । ब्रह्मेशानादयो देवाः सर्वशक्तिरियं मम ॥ १,१.३७ ॥ सैषा सर्वजगत्सूतिः प्रकृतिस्त्रिगुणात्मिका । प्रागेव मत्तः संजाता श्रीकल्पे पद्मवासिनी ॥ १,१.३८ ॥ चतुर्भुजा शङ्खचक्रपद्महस्ता शुभान्विता । कोटिसूर्यप्रतीकाशा मोहिनी सर्वदेहिनाम् ॥ १,१.३९ ॥ नालं देवा न पितरो मानवा वसवोऽपि च । मायामेतां समुत्तर्तुं ये चान्ये भुवि देहिनः ॥ १,१.४० ॥ इत्युक्तो वासुदेवेन मुनयो विष्णुमब्रुवन् । ब्रूहि त्वं पुण्डरीकाक्ष यदि कालत्रयेऽपि च । को वा तरति तां मायां दुर्जयां देवनिर्मिताम् ॥ १,१.४१ ॥ अथोवाच हृषीकेशो मुनीन्मुनिगणार्चितः । अस्ति द्विजातिप्रवर इन्द्रद्युम्न इति श्रुतः ॥ १,१.४२ ॥ पूर्वजन्मनि राजासावधृष्यः शङ्करादिभिः । दृष्ट्वा मां कूर्मसंस्थानं श्रुत्वा पौराणिकीं स्वयम् । संहितां मन्मुखाद्दिव्यां पुरस्कृत्य मुनीश्वरान् ॥ १,१.४३ ॥ ब्रह्माणं च महादेवं देवांश्चान्यान् स्वशक्तिभिः । मच्छक्तौ संस्थितान् बुद्ध्वा मामेव शरणं गतः ॥ १,१.४४ ॥ संभाषितो मया चाथ विप्रयोनिं गमिष्यसि । इन्द्रद्युम्न इति ख्यातो जातिं स्मरसि पौर्विकीम् ॥ १,१.४५ ॥ सर्वेषामेव भूतानां देवानामप्यगोचरम् । वक्तव्यं यद्गुह्यतमं दास्ये ज्ञानं तवानघ । लब्ध्वा तन्मामकं ज्ञानं मामेवान्ते प्रवेक्ष्यसि ॥ १,१.४६ ॥ अंशान्तरेण भूम्यां त्वं तत्र तिष्ठ सुनिर्दृतः । वैवस्वतेऽन्तरेऽतिते कार्यार्थं मां प्रवेक्ष्यसि ॥ १,१.४७ ॥ मां प्रणम्य पुरीं गत्वा पालयामास मेदिनीम् । कालधर्मं गतः कालाच्छ्वेतद्वीपे मया सह ॥ १,१.४८ ॥ भुक्त्वा तान् वैष्णवान् भोगान् योगिनामप्यगोचरान् । मदाज्ञया मुनिश्रेष्ठा जज्ञे विप्रकुले पुनः ॥ १,१.४९ ॥ ज्ञात्वा मां वासुदेवाख्यं यत्र द्वे निहितेऽक्षरे । विद्याविद्ये गूढरूपे यत्तद्ब्रह्म परं विदुः ॥ १,१.५० ॥ सोर्ऽचयामास भूतानामाश्रयं परमेश्वरम् । व्रतोपवासनियमैर्हेमैर्ब्राह्मणतर्पणैः ॥ १,१.५१ ॥ तदाशीस्तन्नमस्कारस्तन्निष्ठस्तत्परायणः । आराधयन्महादेवं योगिनां हृदि संस्थितम् ॥ १,१.५२ ॥ तस्यैवं वर्तमानस्य कदाचित्परमा कला । स्वरूपं दर्शयामास दिव्यं विष्णुसमुद्भवम् ॥ १,१.५३ ॥ दृष्ट्वा प्रणम्य शिरसा विष्णोर्भगवतः प्रियाम् । संस्तूय विविधैः स्तोत्रैः कृताञ्जलिरभाषत ॥ १,१.५४ ॥ इर्न्द्दयुम्न उवाच का त्वं देविविशालाक्षि विष्णुचिह्नङ्किते शुभे । याथातथ्येन वै भावं तवेदानीं ब्रवीहि मे ॥ १,१.५५ ॥ तस्य तद्वाक्यमाकर्ण्य सुप्रसन्ना सुमङ्गला । हसन्ती संस्मरन् विष्णुं प्रियं ब्राह्मणमब्रवीत् ॥ १,१.५६ ॥ न मां पश्यन्ति मुनयो देवाः शक्रपुरोगमाः । नारायणात्मिका चैका मायाहं तन्मया परा ॥ १,१.५७ ॥ न मे नारायणाद्भेदो विद्यते हि विचारतः । तन्मयाहं परं ब्रह्म स विष्णुः परमेश्वरः ॥ १,१.५८ ॥ येर्ऽचयन्तीह भूतानामाश्रयं परमेश्वरम् । ज्ञानेन कर्मयोगेन न तेषां प्रभवाम्यहम् ॥ १,१.५९ ॥ तस्मादनादिनिधनं कर्मयोगपरायणः । ज्ञानेनाराधयानन्तं ततो मोक्षमवाप्स्यसि ॥ १,१.६० ॥ इत्युक्तः स मुनिश्रेष्ठ इन्द्रद्युम्नो महामतिः । प्रणम्य शिरसा देवीं प्राञ्जलिः पुनरब्रवीत् ॥ १,१.६१ ॥ कथं स भगवानीशः शाश्वतो निष्कलोऽच्युतः । ज्ञातुं हि शक्यते देवि ब्रूहि मे परमेश्वरि ॥ १,१.६२ ॥ एकमुक्ताथ विप्रेण देवी कमलवासिनी । साक्षान्नारायणो ज्ञानं दास्यतीत्याह तं मुनिम् ॥ १,१.६३ ॥ उभाभ्यामथ हस्ताभ्यां संस्पृश्य प्रणतं मुनिम् । स्मृत्वा परात्परं विष्णुं तत्रैवान्तरधीयत ॥ १,१.६४ ॥ सोऽपि नारायणं द्रष्टुं परमेण समाधिना । आराधयद्धृषीकेशं प्रणतार्तिप्रभञ्जनम् ॥ १,१.६५ ॥ ततो बहुतिथे काले गते नारायणः स्वयम् । प्रादुरासीन्महायोगी पीतवासा जगन्मयः ॥ १,१.६६ ॥ दृष्ट्वा देवं समायान्तं विष्णुमात्मानमव्ययम् । जानुभ्यामवनिं गत्वा तुष्टाव गरुडध्वजम् ॥ १,१.६७ ॥ इन्द्रद्युम्न उवाच यज्ञेशाच्युत गोविन्द माधवानन्त केशव । कुष्ण विष्णो हृषीकेश तुभ्यं विश्वात्मने नमः ॥ १,१.६८ ॥ नमोऽस्तु ते पुराणाय हरये विश्वमूर्तये । सर्गस्थितिविनाशानां हेतवेऽनन्तशक्ये ॥ १,१.६९ ॥ निर्गुणाय नमस्तुभ्यं निष्कलायामलात्मने । पुरुषाय नमस्तुभ्यं विश्वरूपाय ते नमः ॥ १,१.७० ॥ नमस्ते वासुदेवाय विष्णवे विश्वयोनये । आदिमध्यान्तहीनाय ज्ञानगम्याय ते नमः ॥ १,१.७१ ॥ नमस्ते निर्विकाराय निष्प्रपञ्चाय ते नमः । भेदाभेदविहीनाय नमोऽस्त्वानन्दरूपिणे ॥ १,१.७२ ॥ नमस्ताराय शान्ताय नमोऽप्रतिहतात्मने । अनन्तमूर्तये तुभ्यममूर्ताय नमो नमः ॥ १,१.७३ ॥ नमस्ते परमार्थाय मायातीताय ते नमः । नमस्ते परमेशाय ब्रह्मणे परमात्मने ॥ १,१.७४ ॥ नमोऽस्तु ते सुसूक्ष्माय महादेवाय ते नमः । नमः शिवाय शुद्धाय नमस्ते परमेष्ठिने ॥ १,१.७५ ॥ त्वयैव सृष्टमखिलं त्वमेव परमा गतिः । त्वं पिता सर्वभूतानां त्वं माता पुरुषोत्तम ॥ १,१.७६ ॥ त्वमक्षरं परं धाम चिन्मात्रं व्योम निष्कलम् । सर्वस्याधारमव्यक्तमनन्तं तमसः परम् ॥ १,१.७७ ॥ प्रपश्यन्ति परात्मानं ज्ञानदीपेन केवलम् । प्रपद्ये भवतो रूपं तद्विष्णोः परमं पदम् ॥ १,१.७८ ॥ एवं स्तुवन्तं भगवान् भूतात्मा भूतभावनः । उभाभ्यामथ हस्ताभ्यां पस्पर्श प्रहसन्निव ॥ १,१.७९ ॥ स्पृष्टमात्रो भगवता विष्णुना मुनिपुङ्गवः । यथावत्परमं तत्त्वं ज्ञातवांस्तत्प्रसादतः ॥ १,१.८० ॥ ततः प्रहृष्टमनसा प्रणिपत्य जनार्दनम् । प्रोवाचोन्निद्रपद्माक्षं पीतवाससमच्युतम् ॥ १,१.८१ ॥ त्वत्प्रसादादसंदिग्धमुत्पन्नं पुरुषोत्तम । ज्ञानं ब्रह्मैकविषयं परमानन्दसिद्धिदम् ॥ १,१.८२ ॥ नमो भगवते तुभ्यं वासुदेवाय वेधसे । किं करिष्यामि योगेश तन्मे वद जगन्मय ॥ १,१.८३ ॥ श्रुत्वा नारायणो वाक्यमिन्द्रद्युम्नस्य माधवः । उवाच सस्मितं वाक्यमशेषजगतो हितम् ॥ १,१.८४ ॥ श्रीभगवानुवाच वर्णाश्रमाचारवतां पुंसां देवो महेश्वरः । ज्ञानेन भक्तियोगेन पूजनीयो न चान्यथा ॥ १,१.८५ ॥ विज्ञाय तत्परं तत्त्वं विभूतिं कार्यकारणम् । प्रवृतिं चापि मे ज्ञात्वा मोक्षार्थोश्वरमर्चयेत् ॥ १,१.८६ ॥ सर्वसङ्गान् परित्यज्य ज्ञात्वा मायामयं जगत् । अद्वैतं भावयात्मानं द्रक्ष्यसे परमेश्वरम् ॥ १,१.८७ ॥ त्रिविधा भावना ब्रह्मन् प्रोच्यमाना निबोध मे । एका मद्विषया तत्र द्वितीया व्यक्तसंश्रया । अन्या च भावना ब्राह्मी विज्ञेया सा गुणातिगा ॥ १,१.८८ ॥ आसामन्यतमां चाथ भावनां भावयेद्बुधः । अशक्तः संश्रयेदाद्यामित्येषा वैदिकी श्रुतिः ॥ १,१.८९ ॥ तस्मात्सर्वप्रयत्नेन तन्निष्ठस्तत्परायणः । समाराधय विश्वेशं ततो मोक्षमवाप्स्यसि ॥ १,१.९० ॥ इन्द्रद्युम्न उवाच किं तत्परतरं तत्त्वं का विभूतिर्जनार्दन । किं कार्यं कारणं कस्त्वं प्रवृत्तिश्चापि का तव ॥ १,१.९१ ॥ परात्परतरं तत्त्वं परं ब्रह्मैकमव्ययम् । नित्यानन्दं स्वयञ्ज्योतिरक्षरं तमसः परम् ॥ १,१.९२ ॥ ऐश्वर्यं तस्य यन्नित्यं विभूतिरिति गीयते । कार्यं जगदथाव्यक्तं कारणं शुद्धमक्षरम् ॥ १,१.९३ ॥ अहं हि सर्वभूतानामन्तर्यामीश्वरः परः । सर्गस्थित्यन्तकर्तृत्वं प्रवृत्तिर्मम गीयते ॥ १,१.९४ ॥ एतद्विज्ञाय भावेन यथावदखिलं द्विज । ततस्त्वं कर्मयोगेन शाश्वतं सम्यगर्चय ॥ १,१.९५ ॥ इन्द्रद्युम्न उवाच के ते वर्णाश्रमाचारा यैः समाराध्यते परः । ज्ञानं च कीदृशं दिव्यं भावनात्रयसंस्थितम् ॥ १,१.९६ ॥ कथं सृष्टमिदं पूर्वं कथं संह्रियते पुनः । कियत्यः सृष्टयो लोके वंशा मन्वन्तराणि च । कानि तेषां प्रमाणानि पावनानि व्रतानि च ॥ १,१.९७ ॥ तीर्थान्यर्कादिसंस्थानं पृथिव्यायामविस्तरे । कति द्वीपाः समुद्राश्च पर्वताश्च नदीनदाः । ब्रूहि मे पुण्डरीकाक्ष यथावदधुनाखिलम् ॥ १,१.९८ ॥ श्रीकूर्म उवाच एवमुक्तोऽथ तेनाहं भक्तानुग्रहकाम्यया । यथावदखिलं सर्वमवोचं मुनिपुङ्गवाः ॥ १,१.९९ ॥ व्याख्यायाशेषमेवेदं यत्पृष्टोऽहं द्विजेन तु । अनुगृह्य च तं विप्रं तत्रैवान्तर्हितोऽभवम् ॥ १,१.१०० ॥ सोऽपि तेन विधानेन मदुक्तेन द्विजोत्तमः । आराधयामास परं भावपूतः समाहितः ॥ १,१.१०१ ॥ त्यक्त्वा पुत्रादिषु स्नेहं निर्द्वन्द्वो निष्परिग्रहः । संन्यस्य सर्वकर्माणि परं वैराग्यमाश्रितः ॥ १,१.१०२ ॥ आत्मन्यात्मानमन्वीक्ष्य स्वात्मन्येवाखिलं जगत् । संप्राप्य भावनामन्त्यां ब्राह्मीमक्षरपूर्विकाम् ॥ १,१.१०३ ॥ अवाप परमं योगं येनैकं परिपश्यति । यं विनिद्रा जितश्वासाः काङ्क्षन्ते मोक्षकाङ्क्षिणः ॥ १,१.१०४ ॥ ततः कदाचिद्योगीन्द्रो ब्रह्माणं द्रष्टुमव्ययम् । जगामादित्यनिर्देशान्मानसोत्तरपर्वतम् । आकाशेनैव विप्रेन्द्रो योगैश्वर्यप्रभावतः ॥ १,१.१०५ ॥ विमानं सूर्यसंकाशं प्राधुर्भूतमनुत्तमम् । अन्वगच्छन् देवगणा गन्धर्वाप्सरसां गणाः । दृष्ट्वान्ये पथि योगीन्द्रं सिद्धा ब्रह्मर्षयो ययुः ॥ १,१.१०६ ॥ ततः स गत्वा तु गिरिं विवेश सुरवन्दितम् । स्थानं तद्योगिभिर्जुष्टं यत्रास्ते परमः पुमान् ॥ १,१.१०७ ॥ संप्राप्य परमं स्थानं सूर्यायुतसमप्रभम् । विवेश चान्तर्भवनं देवानां च दुरासदम् ॥ १,१.१०८ ॥ विचिन्तयामास परं शरण्यं सर्वदेहिनाम् । अनादिनिधनं देवं देवदेवं पितामहम् ॥ १,१.१०९ ॥ ततः प्रादुरभूत्तस्मिन् प्रकाशः परमात्मनः । तन्मध्ये पुरुषं पूर्वमपश्यत्परमं पदम् ॥ १,१.११० ॥ महान्तं तेजसो राशिमगम्यं ब्रह्मविद्विषाम् । चतुर्मुखमुदाराङ्गमर्चिभिरुपशोभितम् ॥ १,१.१११ ॥ सोऽपि योगिनमन्वीक्ष्य प्रणमन्तमुपस्थितम् । प्रत्युद्गम्य स्वयं देवो विश्वात्मा परिषस्वजे ॥ १,१.११२ ॥ परिष्वक्तस्य देवेन द्विजेन्द्रस्याथ देहतः । निर्गत्य महती ज्योत्स्ना विवेशादित्यमण्डलम् । ऋग्यजुः सामसंज्ञं तत्पवित्रममलं पदम् ॥ १,१.११३ ॥ हिरण्यगर्भो भगवान् यत्रास्ते हव्यकव्यभुक् । द्वारं तद्योगिनामाद्यं वेदान्तेषु प्रतिष्ठितम् । ब्रह्मतेजोमयं श्रीमन्निष्ठा चैव मनीषिणाम् ॥ १,१.११४ ॥ दृष्टमात्रो भगवतात ब्रह्मणार्चिर्मयो मुनिः । अपश्यदैश्वरं तेजः शान्तं सर्वत्रगं शिवम् ॥ १,१.११५ ॥ स्वात्मानमक्षरं व्योमतद्विष्णोः परमं पदम् । आनन्दमचलं ब्रह्म स्थानं तत्पारमेश्वरम् ॥ १,१.११६ ॥ सर्वभूतात्मभूतः स परमैश्वर्यमास्थितः । प्राप्तवानात्मनो धाम यत्तन्मोक्षाख्यमव्ययम् ॥ १,१.११७ ॥ तस्मात्सर्वप्रयत्नेन वर्णाश्रमविधौ स्थितः । समाश्रित्यान्तिमं भावं मायां लक्ष्मीं तरेद्बुधः ॥ १,१.११८ ॥ सूत उवाच व्याहृता हरिणा त्वेवं नारादाद्या महर्षयः । शक्रेण सहिताः सर्वे पप्रच्छुर्गरुडध्वजम् ॥ १,१.११९ ॥ ऋषय ऊचुः देवदेव हृषीकेश नाथ नारायणामल । तद्वदाशेषमस्माकं यदुक्तं भवता पुरा ॥ १,१.१२० ॥ इन्द्रद्युम्नाय विप्रया ज्ञानं धर्मादिगोचरम् । शुश्रूषुश्चाप्ययं शक्रः सखा तव जगन्मय ॥ १,१.१२१ ॥ ततः स भगवान् विष्णुः कूर्मरूपी जनार्दनः । रसातलगतो देवो नारदाद्यैर्महर्षिभिः ॥ १,१.१२२ ॥ पृष्टः प्रोवाच सकलं पुराणं कौर्ममुत्तमम् । सन्निधौ देवराजस्य तद्वक्ष्ये भवतामहम् ॥ १,१.१२३ ॥ धन्यं यशस्यामायुष्यं पुण्यं मोक्षप्रदं नृणाम् । पुराणश्रवणं विप्राः कथनं च विशेषतः ॥ १,१.१२४ ॥ श्रुत्वा चाध्यायमेवैकं सर्वपापैः प्रमुच्यते । उपाख्यानमथैकं वा ब्रह्मलोके महीयते ॥ १,१.१२५ ॥ इदं पुराणं परमं कौर्मं कूर्मस्वरूपिणा । उक्तं देवाधिदेवेन श्रद्धातव्यं द्विजातिभिः ॥ १,१.१२६ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे प्रथमोऽध्यायः _____________________________________________________________ श्रीकूर्म उवाच शृणुध्वमृषयः सर्वे यत्पृष्टोऽहं जगद्धितम् । वक्ष्यमाणं मया सर्वमिन्द्रद्युम्नाय भाषितम् ॥ १,२.१ ॥ भूतैर्भव्यैर्भविष्यद्भिश्चरितैरुपबृंहितम् । पुराणं पुण्यदं नृणां मोक्षधर्मानुकीर्तनम् ॥ १,२.२ ॥ अहं नारायणो देवः पूर्वमासं न मे परम् । उपास्य विपुलां निद्रां भोगिशय्यां समाश्रितः ॥ १,२.३ ॥ चिन्तयामि पुनः सृष्टिं निशान्ते प्रतिबुध्य तु । ततो मे सहसोत्पन्नः प्रसादो मुनिपुङ्गवा ॥ १,२.४ ॥ चतुर्मुखस्ततो जातो ब्रह्मा लोकपितामहः । तदन्तरेऽभवत्क्रोधः कस्माच्चित्कारणात्तदा ॥ १,२.५ ॥ आत्मनो मुनिशार्दूलास्तत्र देवो महेश्वरः । रुद्रः क्रोधात्मजो जज्ञे शूलपाणिस्त्रिलोचनः । तेजसा सूर्यसंकाशस्त्रैलोक्यं संहरन्निव ॥ १,२.६ ॥ ततः श्रीरभवद्देवि कमलायतलोचना । सुरूपा सौम्यवदना मोहिनी सर्वदेहिनाम् ॥ १,२.७ ॥ शुचिस्मिता सुप्रसन्ना मङ्गला महिमास्पदा । दिव्यकान्तिसमायुक्ता दिव्यमाल्योपशोभिता ॥ १,२.८ ॥ नारायणी महामाया मूलप्रकृतिरव्यया । स्वधाम्ना पूरयन्तीदं मत्पार्श्वं समुपाविशत् ॥ १,२.९ ॥ तां दृष्टवा भगवान् ब्रह्मा मामुवाच जगत्पतिः । मोहायाशेषभूतानां नियोजय सुरूपिणीम् । येनेयं विपुला सृष्टिर्वर्धते मम माधव ॥ १,२.१० ॥ तथोक्तोऽहं श्रियं देवीमब्रुवं प्रहसन्निव । देवीदमखिलं विश्वं सदेवासुरमानुषम् । मोहयित्वा ममादेशात्संसारे विनिपातय ॥ १,२.११ ॥ ज्ञानयोगरतान् दान्तान् ब्रह्मिष्ठान् ब्रह्मवादिनः । अक्रोधनान् सत्यपरान् दूरतः परिवर्जय ॥ १,२.१२ ॥ ध्यायिनो निर्ममान् शान्तान् धार्मिकान् वेदपारगान् । जापिनस्तापसान् विप्रान् दूरतः परिवर्जय ॥ १,२.१३ ॥ वेदवेदान्तविज्ञानसंछिन्नाशेषसंशयान् । महायज्ञपरान् विप्रान् दूरतः परिवर्जय ॥ १,२.१४ ॥ ये यजन्ति जपैर्हेमैर्देवदेवं महेश्वरम् । स्वाध्यायेनेज्यया दूरात्तान् प्रयत्नेन वर्जय ॥ १,२.१५ ॥ भक्तियोगसमायुक्तानीश्वरार्पितमानसान् । प्राणायामादिषु रतान् दूरात्परिहरामलान् ॥ १,२.१६ ॥ प्रणवासक्तमनसो रुद्रजप्यपरायणान् । अथर्वशिरसोऽध्येतृन् धर्मज्ञान् परिवर्जय ॥ १,२.१७ ॥ बहुनात्र किमुक्तेन स्वधर्मपरिपालकान् । ईश्वराराधनरतान्मन्नियोगान्न मोहय ॥ १,२.१८ ॥ एवं मया महामाया प्रेरिता हरिवल्लभा । यथादेशं चकारासौ तस्माल्लक्ष्मीं समर्चयेत् ॥ १,२.१९ ॥ श्रियं ददाति विपुलां पुष्टिं मेधां यशो बलम् । अर्चिता भगवत्पत्नी तस्माल्लक्ष्मीं समर्चयेत् ॥ १,२.२० ॥ ततोऽसृजत्स भगवान् ब्रह्मा लोकपितामहः । चराचराणि भूतानि यथापूर्वं ममाज्ञया ॥ १,२.२१ ॥ परीचिभृग्वङ्गिरसः पुलस्त्यं पुलहं क्रतुम् । दक्षमत्रिं वसिष्ठं च सोऽसृजद्योगविद्यया ॥ १,२.२२ ॥ नवैते ब्रह्मणः पुत्रा ब्रह्माणो ब्राह्मणोत्तमाः । ब्रह्मवादिन एवैते मरीच्याद्यास्तु साधकाः ॥ १,२.२३ ॥ ससर्ज ब्राह्मणान् वक्त्रात्क्षत्रियांश्च भुजाद्विभुः । वैश्यानूरुद्वयाद्देवः पादार्छूद्रान् पितामहः ॥ १,२.२४ ॥ यज्ञनिष्पत्तये ब्रह्मा शूद्रवर्जं ससर्ज ह । गुप्तये सर्ववेदानां तेभ्यो यज्ञो हि निर्बभौ ॥ १,२.२५ ॥ ऋचो यजूंषि सामानि तथैवाथर्वणानि च । ब्रह्मणः सहजं रूपं नित्यैषा शक्तिरव्यया ॥ १,२.२६ ॥ अनादिनिधना दिव्या वागुत्सृष्टा स्वयंभुवा । आदौ वेदमयी भूता यतः सर्वाः प्रवृत्तयः ॥ १,२.२७ ॥ अतोऽन्यानितु शास्त्राणिपृथिव्यांयानिकानिचित् । न तेषु रमते धीरः पाषण्डी तेन जायते ॥ १,२.२८ ॥ वेदार्थवित्तमैः कार्यं यत्स्मृतं मुनिभिः पुरा । स ज्ञेयः परमो धर्मो नान्यशास्त्रेषु संस्थितः ॥ १,२.२९ ॥ या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः । सर्वास्ता निष्फलाः प्रेत्यतमोनिष्ठाहिताः स्मृताः ॥ १,२.३० ॥ पूर्वकल्पे प्रजा जाताः सर्वबादाविवर्जिताः । शुद्धान्तः करणाः सर्वाः स्वधर्मनिरताः सदा ॥ १,२.३१ ॥ ततः कालवशात्तासां रागद्वेषादिकोऽभवत् । अधर्मो मुनिशार्दूलाः स्वधर्मप्रतिबन्धकः ॥ १,२.३२ ॥ ततः सा सहजा सिद्धिस्तासां नातीव जायते । रजोमात्रात्मिकास्तासां सिद्धयोऽन्यास्तदाभवन् ॥ १,२.३३ ॥ तासु क्षीणास्वशेषासु कालयोगेन ताः पुनः । वार्तोपायं पुनश्चक्रुर्हस्तसिद्धिं च कर्मजाम् । ततस्तासां विभुर्ब्रह्मा कर्माजीवमकल्पयत् ॥ १,२.३४ ॥ स्वायंभुवो मनुः पूर्वं धर्मान् प्रोवाच धर्मदृक् । साक्षात्प्रजापतेर्मूर्तिर्निसृष्टा ब्रह्मणा द्विजाः । भृग्वादयस्तद्वदनाच्छ्रुत्वा धर्मानथोचिरे ॥ १,२.३५ ॥ यजनं याजनं दानं ब्राह्मणस्य प्रतिग्रहम् । अध्यापनं चाध्ययनं षट्कर्माणि द्विजोत्तमाः ॥ १,२.३६ ॥ दानमध्ययनं यज्ञो धर्मः क्षत्रियवैश्ययोः । दण्डो युद्धं क्षत्रियस्य कृषिर्वैश्यस्य शस्यते ॥ १,२.३७ ॥ शुश्रूषैव द्विजातीनां शूद्राणां धर्मसाधनम् । कारुकर्म तथाजीवः पाकयज्ञोऽपि धर्मतः ॥ १,२.३८ ॥ ततः स्थितेषु वर्णेषु स्थापयामास चाश्रमान् । गृहस्थं च वनस्थं च भिक्षुकं ब्रह्मचारिणम् ॥ १,२.३९ ॥ अग्नयोऽतिथिशुश्रूषा यज्ञो दानं सुरार्चनम् । गृहस्थस्य समासेन धर्मोऽयं मुनिपुङ्गवाः ॥ १,२.४० ॥ होमो मूलफलाशित्वं स्वाध्यायस्तप एव च । संविभागो यथान्यायं धर्मोऽयं वनवासिनाम् ॥ १,२.४१ ॥ भैक्षाशनं च मौनित्वं तपो ध्यानं विशेषतः । सम्यग्ज्ञानं च वैराग्यं धर्मोऽयं भिक्षुके मतः ॥ १,२.४२ ॥ भिक्षाचर्या च शुश्रूषा गुरोः स्वाध्याय एव च । सन्ध्याकर्माग्निकार्यं च धर्मोऽयं ब्रह्मचारिणाम् ॥ १,२.४३ ॥ ब्रह्मचारिवनस्थानां भिक्षुकाणां द्विजोत्तमाः । साधारणं ब्रह्मचर्यं प्रोवाच कमलोद्भवः ॥ १,२.४४ ॥ ऋतुकालाभिगामित्वं स्वदारेषु न चान्यतः । पर्ववर्जं गृहस्थस्य ब्रह्मचर्यमुदाहृतम् ॥ १,२.४५ ॥ आगर्भसंभवादाद्यात्कार्यं तेनाप्रमादतः । अकुर्वाणस्तु विप्रेन्द्रा भ्रूणहा तु प्रजायते ॥ १,२.४६ ॥ वेदाभ्यासोऽन्वहं शक्त्या श्राद्धं चातिथिपूजनम् । गृहस्थस्य परो धर्मो देवताभ्यर्चनं तथा ॥ १,२.४७ ॥ वैवाह्ममग्निमिन्धीत सायं प्रातर्यथाविधि । देशान्तरगतो वाथ मृतपत्नीक एव वा ॥ १,२.४८ ॥ त्रयाणामाश्रमाणां तु गृहस्थो योनिरुच्यते । अन्ये तमुपजीवन्ति तस्माच्छ्रेयान् गृहाश्रमी ॥ १,२.४९ ॥ ऐकाश्रम्यं गृहस्थस्य त्रयाणां श्रुतिदर्शनात् । तस्माद्गार्हस्थ्यमेवैकं विज्ञेयं धर्मसाधनम् ॥ १,२.५० ॥ परित्यजेदर्थकामौ यौ स्यातां धर्मवर्जितौ । सर्वलोकविरुद्धं च धर्ममप्याचरेन्न तु ॥ १,२.५१ ॥ धर्मात्संजायते ह्यर्थो धर्मात्कामोऽभिजायते । धर्म एवापवर्गाय तस्माद्धर्मं समाश्रयेत् ॥ १,२.५२ ॥ धर्मश्चार्थश्च कामश्च त्रिवर्गस्त्रिगुणो मतः । सत्त्वं रजस्तमश्चेति तस्माद्धर्मं समाश्रयेत् ॥ १,२.५३ ॥ ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः । जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ॥ १,२.५४ ॥ यस्मिन् धर्मसमायुक्तावर्थकामौ व्यवस्थितौ । इह लोके सुखी भूत्वा प्रेत्यानन्त्याय कल्पते ॥ १,२.५५ ॥ धर्मात्संजायते मोक्षो ह्यर्थात्कामोऽभिजायते । एवं साधनसाध्यत्वं चातुर्विध्ये प्रदर्शितम् ॥ १,२.५६ ॥ य एवं वेद धर्मार्थकाममोक्षस्य मानवः । माहात्म्यं चानुतिष्ठेत स चानन्त्याय कल्पते ॥ १,२.५७ ॥ तस्मादर्थं च कामं च त्यक्त्वा धर्मं समाश्रयेत् । धर्मात्संजायते सर्वमित्याहुर्ब्रह्मवादिनः ॥ १,२.५८ ॥ धर्मेण धार्यते सर्वं जगत्स्थावरजङ्गमम् । अनादिनिधना शक्तिः सैषा ब्राह्मी द्विजोत्तमाः ॥ १,२.५९ ॥ कर्मणा प्राप्यते धर्मो ज्ञानेन च न संशयः । तस्माज्ज्ञानेन सहितं कर्मयोगं समाचरेत् ॥ १,२.६० ॥ प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् । ज्ञानपूर्वं निवृत्तं स्यात्प्रवृत्तं यदतोऽन्यथा ॥ १,२.६१ ॥ निवृत्तं सेवमानस्तु याति तत्परमं पदम् । तस्मान्निवृत्तं संसेव्यमन्यथा संसरेत्पुनः ॥ १,२.६२ ॥ क्षमा दमो दया दानमलोभस्त्याग एव च । आर्जवं चानसूया च तीर्थानुसरणं तथा ॥ १,२.६३ ॥ सत्यं सन्तोष आस्तिक्यं श्रद्धा चेन्द्रियनिग्रहः । देवताभ्यर्चनं पूजा ब्राह्मणानां विशेषतः ॥ १,२.६४ ॥ आहिंसा प्रियवादित्वमपैशुन्यमकल्कता । सामासिकमिमं धर्मं चातुर्वर्ण्येऽब्रवीन्मनुः ॥ १,२.६५ ॥ प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् । स्थानमैन्द्रं क्षत्रियाणां संग्रामेष्वपलायिनाम् ॥ १,२.६६ ॥ वैश्यानां मारुतं स्थानं स्वधर्ममनुवर्तताम् । गान्धर्वं शूद्रजातीनां परिचारेण वर्तताम् ॥ १,२.६७ ॥ अष्टाशीतिसहस्त्राणामृषीणामूर्ध्वरेतसाम् । स्मृतं तेषां तु यत्स्थानं तदेव गुरुवासिनाम् ॥ १,२.६८ ॥ सप्तर्षोणां तु यत्स्थानं स्मृतं तद्वै वनौकसाम् । प्राजापत्यं गृहस्थानां स्थानमुक्तं स्वयंभुवा ॥ १,२.६९ ॥ यतीनां यतचित्तानां न्यासिनामूर्ध्वरेतसाम् । हैरण्यगर्भं तत्स्थानं यस्मान्नावर्तते पुनः ॥ १,२.७० ॥ योगिनाममृतं स्थानं व्योमाख्यं परमाक्षरम् । आनन्दमैश्वरं धाम सा काष्ठा सा परागतिः ॥ १,२.७१ ॥ ऋषच ऊचुः भगवन् देवतारिघ्न हिरण्याक्षनिषूदन । चत्वारो ह्याश्रमाः प्रोक्ता योगिनामेक उच्यते ॥ १,२.७२ ॥ श्रीकूर्म ऊवाच सर्वकर्माणि संन्यस्य समाधिमचलं श्रितः । य आस्ते निश्चलो योगी स संन्यासी न पञ्चमः ॥ १,२.७३ ॥ सर्वेषामाश्रमाणां तु द्वैविध्यं श्रुतदर्शितम् । ब्रह्मचार्युपकुर्वाणो नैष्ठिको ब्रह्मतत्परः ॥ १,२.७४ ॥ योऽधीत्यविधिवद्वेदान् गृहस्थाश्रममाव्रजेत् । उपकुर्वाणको ज्ञेयो नैष्ठिको मरणान्तिकः ॥ १,२.७५ ॥ उदासीनः साधकश्च गृहस्थो द्विविधो भवेत् । कुटुम्बभरणे यत्तः साधकोऽसौ गृही भवेत् ॥ १,२.७६ ॥ ऋणानित्रीण्यपाकृत्यत्यक्त्वा भार्याधनादिकम् । एकाकी यस्तु विचरेदुदासीनः स मौक्षिकः ॥ १,२.७७ ॥ तपस्तप्यति योऽरण्ये यजेद्देवान् जुहोति च । स्वाध्याये चैव निरतो वनस्थस्तापसो मतः ॥ १,२.७८ ॥ तपसा कर्षितोऽत्यर्थं यस्तु ध्यानपरो भवेत् । सांन्यासिकः स विज्ञेयो वानप्रस्थाश्रमे स्थितः ॥ १,२.७९ ॥ योगाभ्यासरतो नित्यमारुरुक्षुर्जितेन्द्रियः । ज्ञानाय वर्तते भिक्षुः प्रोच्यते पारमेष्ठिकः ॥ १,२.८० ॥ यस्त्वात्मरतिरेव स्यान्नित्यतृप्तो महामुनिः । सम्यग्दर्शनसंपन्नः स योगी भिक्षुरुच्यते ॥ १,२.८१ ॥ ज्ञानसंन्यासिनः केचिद्वेदसंन्यासिनोऽपरे । कर्मसन्यासिनः केचित्त्रिविधाः परामेष्ठिकाः ॥ १,२.८२ ॥ योगी च त्रिविधो ज्ञेयो भौतिकः सांख्य एव च । तृतीयोत्याश्रमी प्रोक्ती योगमुत्तममास्थितः ॥ १,२.८३ ॥ प्रथमा भावना पूर्वे सांख्ये त्वक्षरभावना । तृतीये चान्तिमा प्रोक्ता भावना पारमेश्वरी ॥ १,२.८४ ॥ तस्मादेतद्विजानीध्वमाश्रमाणां चतुष्टयम् । सर्वेषु वेदशास्त्रेषु पञ्चमो नोपपद्यते ॥ १,२.८५ ॥ एवं वर्णाश्रमान् सृष्ट्वा देवदेवो निरञ्जनः । दक्षादीन् प्राह विश्वात्मा सृजध्वं विविधाः प्रजाः ॥ १,२.८६ ॥ ब्रह्मणो वचनात्पुत्रा दक्षाद्या मुनिसत्तमाः । असृजन्त प्रजाः सर्वा देवमानुषपूर्विकाः ॥ १,२.८७ ॥ इत्येष भगवान् ब्रह्मा स्त्रष्ट्वत्वे स व्यवस्थितः । अहं वै पालयामीदं संहरिष्यति शूलभृत् ॥ १,२.८८ ॥ तिस्त्रस्तु मूर्तयः प्रोक्ता ब्रह्मविष्णुमहेश्वराः । रजः सत्त्वतमोयोगात्परस्य परमात्मनः ॥ १,२.८९ ॥ अनोयन्यमनुरक्तास्ते ह्यन्योन्यमुपजीविनः । अन्योन्यं प्रणताश्चैव लीलया परमेश्वराः ॥ १,२.९० ॥ ब्राह्मी माहेश्वरी चैव तथैवाक्षरभावना । तिस्त्रस्तु भावना रुद्रे वर्तन्ते सततं द्विजाः ॥ १,२.९१ ॥ प्रवर्तते मय्यजस्त्रमाद्या चाक्षरभावना । द्वितीया ब्रह्मणः प्रोक्ता देवस्याक्षरभावना ॥ १,२.९२ ॥ अहं चैव महादेवो न भिन्नौ परमार्थतः । विभज्यस्वेच्छयात्मानं सोऽन्यर्यामीश्वरः स्थितः ॥ १,२.९३ ॥ त्रैलोक्यमखिलं स्त्रष्टुं सदेवासुरमानुषम् । पुरुषः परतोऽव्यक्ताद्ब्रह्मत्वं समुपागमत् ॥ १,२.९४ ॥ तस्माद्ब्रह्मा महादेवो विष्णुर्विश्वेश्वरः परः । एकस्यैव स्मृतास्तिस्त्रस्तनूः कार्यवशात्प्रभोः ॥ १,२.९५ ॥ तस्मात्सर्वप्रयत्नेन वन्द्याः पूज्याः प्रयत्नतः । यदीच्छेदचिरात्स्थानं यत्तन्मोक्षाख्यमव्ययम् ॥ १,२.९६ ॥ वर्णाश्रमप्रयुक्तेन धर्मेण प्रीतिसंयुतः । पूजयेद्भावयुक्तेन यावज्जीवं प्रतिज्ञया ॥ १,२.९७ ॥ चतुर्णामाश्रमाणां तु प्रोक्तोऽयं विधिवद्द्विजाः । आश्रमो वैष्णवो ब्राह्मो हराश्रम इति त्रयः ॥ १,२.९८ ॥ तल्लिङ्गधारी सततं तद्भक्तजनवत्सलः । ध्यायेदथार्चयेदेतान् ब्रह्मविद्यापरायणः ॥ १,२.९९ ॥ सर्वेषामेव भक्तानां शंभोर्लिङ्गमनुत्तमम् । सितेन भस्मना कार्यं ललाटे तु त्रिपुण्ड्रकम् ॥ १,२.१०० ॥ यस्तु नारायणं देवं प्रपन्नः परमं पदम् । धारयेत्सर्वदा शूलं ललाटे गन्धवारिभिः ॥ १,२.१०१ ॥ प्रपन्ना ये जगद्बीजं ब्रह्माणं परमेष्ठिनम् । तेषां ललाटे तिलकं धारणीयं तु सर्वदा ॥ १,२.१०२ ॥ योऽसावनादिर्भूतादिः कालात्मासौ धृतो भवेत् । उपर्यधो भावयोगात्त्रिपुण्ड्रस्य तु धारणात् ॥ १,२.१०३ ॥ यत्तत्प्रधानं त्रिगुणं ब्रह्मविष्णुशिवात्मकम् । धृतं त्रिशूलधरणाद्भवत्येव न संशयः ॥ १,२.१०४ ॥ ब्रह्मतेजोमयं शुक्लं यदेतन्मण्डलं रवेः । भवत्येव धृतं स्थानमैश्वरं तिलके कृते ॥ १,२.१०५ ॥ तस्मात्कार्यं त्रिशूलाङ्कं तथा च तिलकं शुभम् । त्रियायुषं च भक्तानां त्रयाणां विधिपूर्वकम् ॥ १,२.१०६ ॥ यजेत जुहुयादग्नौ जपेद्दद्याज्जितेन्द्रियः । शान्तो दान्तो जितक्रोधो वर्णाश्रमविधानवित् ॥ १,२.१०७ ॥ एवं परिचरेद्देवान् यावज्जीवं समाहितः । तेषां संस्थानमचलं सोऽचिरादधिगच्छति ॥ १,२.१०८ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे द्वितीयोऽध्यायः _____________________________________________________________ ऋषय ऊचुः वर्णा भगवतोद्दिष्टाश्चत्वारोऽप्याश्रमास्तथा । इदानीं क्रममस्माकमाश्रमाणां वद प्रभो ॥ १,३.१ ॥ श्रीकूर्म उवाच ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा । क्रमेणैवाश्रमाः प्रोक्ताः कारणादन्यथा भवेत् ॥ १,३.२ ॥ उत्पन्नज्ञानविज्ञानो वैराग्यं परमं गतः । प्रव्रजेद्ब्रह्मचर्यात्तु यदिच्छेत्परमां गतिम् ॥ १,३.३ ॥ दारानाहृत्य विधिवदन्यथा विविधैर्मखैः । यजेदुत्पादयेत्पुत्रान् विरक्तो यदि संन्यसेत् ॥ १,३.४ ॥ अनिष्ट्वा विधिवद्यज्ञैरनुत्पाद्य तथात्मजम् । नगार्हस्थ्यं गृहीत्यक्त्वा संन्यसेद्बुद्धिमान् द्विजः ॥ १,३.५ ॥ अथ वैराग्यवेगेन स्थातुं नोत्सहते गृहे । तत्रैव संन्यसेद्विद्वाननिष्ट्वापि द्विजोत्तमः ॥ १,३.६ ॥ अन्यथा विविधैर्यज्ञैरिष्ट्वा वनमथाक्षयेत् । तपस्तप्त्वा तपोयोगाद्विरक्तः संन्यसेद्यदि ॥ १,३.७ ॥ वानप्रस्थाश्रमं गत्वा न गृहं प्रविशेत्पुनः । न संन्यासी वनं चाथ ब्रह्माचर्यं न साधकः ॥ १,३.८ ॥ प्राजापत्यां निरूप्येष्टिमाग्नेयीमथवा द्विजः । प्रव्रजेत गृही विद्वान् वनाद्वा श्रुतिचोदनात् ॥ १,३.९ ॥ प्रकर्तुमसमर्थोऽपि जुहोतियजतिक्रियाः । अन्धः पङ्गुर्दरिद्रो वा विरक्तः संन्यसेद्द्विजः ॥ १,३.१० ॥ सर्वेषामेव वैराग्यं संन्यासाय विधीयते । पतत्येवाविरक्तो यः संन्यासं कर्तुमिच्छति ॥ १,३.११ ॥ एकस्मिन्नथवा सम्यग्वर्तेतामरणं द्विजः । श्रद्धावनाश्रमे युक्तः सोऽमृतत्वाय कल्पते ॥ १,३.१२ ॥ न्यायागतधनः शान्तो ब्रह्मविद्यापरायणः । स्वधर्मपालको नित्यं सोऽमृतत्वाय कल्पते ॥ १,३.१३ ॥ ब्रह्मण्याधाय क्रमाणि निःसङ्गः कामवर्जितः । प्रसन्नेनैव मनसा कुर्वाणो याति तत्पदम् ॥ १,३.१४ ॥ ब्रह्मणा दीयते देयं ब्रह्मणे संप्रदीयते । ब्रह्मैव दीयते चेति ब्रह्मार्पणमिदं परम् ॥ १,३.१५ ॥ नाहं कर्ता सर्वमेतद्ब्रह्मैव कुरुते तथा । एतद्ब्रह्मार्पणं प्रोक्तमृषिभिः तत्त्वदर्शिभिः ॥ १,३.१६ ॥ प्रीणातु भगवानीशः कर्मणानेन शाश्वतः । करोति सततं बुद्ध्या ब्रह्मार्पणमिदं परम् ॥ १,३.१७ ॥ यद्वा फलानां संन्यासं प्रकुर्यात्परमेश्वरे । कर्मणामेतदप्याहुः ब्रह्मार्पणमनुत्तमम् ॥ १,३.१८ ॥ कार्यमित्येव यत्कर्म नियतं सङ्गवर्जितम् । क्रियते विदुषा कर्म तद्भवेदपि मोक्षदम् ॥ १,३.१९ ॥ अन्यथा यदि कर्माणि कुर्यान्नित्यमपि द्विजः । अकृत्वा फलसंन्यासं बध्यते तत्फलेन तु ॥ १,३.२० ॥ तस्मात्सर्वप्रयत्नेन त्यक्त्वा कर्माश्रितं फलम् । अविद्वानपि कुर्वोत कर्माप्नोत्यचिरात्पदम् ॥ १,३.२१ ॥ कर्मणा क्षीयते पापमैहिकं पौर्विकं तथा । मनः प्रसादमन्वेति ब्रह्म विज्ञायते ततः ॥ १,३.२२ ॥ कर्मणा सहिताज्ज्ञानात्सम्यग्योगोऽबिजायते । ज्ञानं च कर्मसहितं जायते दोषवर्जितम् ॥ १,३.२३ ॥ तस्मात्सर्वप्रयत्नेन तत्र तत्राश्रमे रतः । कर्माणीश्वरतुष्ट्यर्थं कुर्यान्नैष्कर्म्यमाप्नुयात् ॥ १,३.२४ ॥ संप्राप्य परमं ज्ञानं नैष्कर्म्यं तत्प्रसादतः । एकाकी निर्ममः शान्तो जीवन्नेव विमुच्यते ॥ १,३.२५ ॥ वीक्षते परमात्मानं परं ब्रह्म महेश्वरम् । नित्यानन्दं निराभासं तस्मिन्नेव लयं व्रजेत् ॥ १,३.२६ ॥ तस्मात्सेवेत सततं कर्मयोगं प्रसन्नधीः । तृप्तये परमेशस्य तत्पदं याति शाश्वतम् ॥ १,३.२७ ॥ एतद्वः सथितं सर्वं चातुराश्रम्यमुत्तमम् । न ह्येतत्समतिक्रम्य सिद्धिं विन्दति मानवः ॥ १,३.२८ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे तृतीयोऽध्यायः _____________________________________________________________ सूत उवाच श्रुत्वाऽश्रमविधिं कृत्सनमृषयो हृष्टमानसाः । नमस्कृत्य हृषीकेशं पुनर्वचनमब्रुवन् ॥ १,४.१ ॥ मुनय ऊचुः भाषितं भवता सर्वं चातुराश्रम्यमुत्तमम् । इदानीं श्रोतुमिच्छामो यथा संभवते जगत् ॥ १,४.२ ॥ कुतः सर्वमिदं जातं कस्मिंश्च लयमेष्यति । नियन्ता कश्च सर्वेषां वदस्व पुरुषोत्तम ॥ १,४.३ ॥ श्रुत्वा नारायणो वाक्यमृषीणां कूर्मरूपधृक् । प्राह गम्भीरया वाचा भूतानां प्रभवाप्ययौ ॥ १,४.४ ॥ श्रीकूर्म उवाच महेश्वरः परोऽव्यक्तश्चतुर्व्यूहः सनातनः । अनन्तश्चाप्रमेयश्च नियन्ता विश्वतोमुखः ॥ १,४.५ ॥ अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम् । प्रधानं प्रकृतिश्चेति यदाहुस्तत्त्वचिन्तकाः ॥ १,४.६ ॥ गन्धवर्णरसैर्हेनं शब्दस्पर्शविवर्जितम् । अजरं ध्रुवमक्षय्यं नित्यं स्वात्मन्यवस्थितम् ॥ १,४.७ ॥ जगद्योनिर्महाभूतं परं ब्रह्म सनातनम् । विग्रहः सर्वभूतानामात्मनाधिष्ठितं महत् ॥ १,४.८ ॥ अनाद्यन्तमजं सूक्ष्मं त्रिगुणं प्रभवाप्ययम् । असांप्रतमविज्ञेयं ब्रह्माग्रे समवर्तत ॥ १,४.९ ॥ गुणसाम्ये तदा तस्मिन् पुरुषे चात्मनि स्थिते । प्राकृतः प्रलयो ज्ञेयो यावद्विश्वसमुद्भवः ॥ १,४.१० ॥ ब्राह्मी रात्रिरियं प्रोक्ता अहः सृष्टिरुदाहृता । अहर्न विद्यते तस्य न रात्रिर्ह्युपचारतः ॥ १,४.११ ॥ निशान्ते प्रतिबुद्धोऽसौ जगदादिरनादिमान् । सर्वभूतमयोऽव्यक्तो ह्यन्तर्यामीश्वरः परः ॥ १,४.१२ ॥ प्रकृतिं पुरुषं चैव प्रविश्याशु महेश्वरः । क्षोभयामास योगेन परेण परमेश्वरः ॥ १,४.१३ ॥ यथा मदो नरस्त्रीणां यथा वा माधवोऽनिलः । अनुप्रविष्टः क्षोभाय तथासौ योगमूर्तिमान् ॥ १,४.१४ ॥ स एव क्षोभको विप्राः क्षोभ्यश्च परमेश्वरः । स संकोचविकासाभ्यां प्रधानत्वेऽपि च स्थितः ॥ १,४.१५ ॥ प्रधानात्क्षोभ्यमाणाच्च तथा पुंसः पुरातनात् । प्रादुरासीन्महद्बीजं प्रधानपुरुषात्मकम् ॥ १,४.१६ ॥ महानात्मा मतिर्ब्रह्मा प्रबुद्धिः ख्यातिरीश्वरः । प्रज्ञाधृतिः स्मृतिः संविदेतस्मादिति तत्स्मृतम् ॥ १,४.१७ ॥ वैकारिकस्तैजसश्च भूतादिश्चैव तामसः । त्रिविधोऽयमहङ्कारो महतः संबभूव ह ॥ १,४.१८ ॥ अहङ्कारोऽबिमानश्च कर्ता मन्ता च स स्मृतः । आत्मा च पुद्गलो जीवो यतः सर्वाः प्रवृत्तयः ॥ १,४.१९ ॥ पञ्चभूतान्यहङ्कारात्तन्मात्राणि च जज्ञिरे । इन्द्रियाणि तथा देवाः सर्वं तस्यात्मजं जगत् ॥ १,४.२० ॥ मनस्त्वव्यक्तजं प्रोक्तं विकारः प्रथमः स्मृतः । येनासौ जायते कर्ता भूतादींश्चानुपश्यति ॥ १,४.२१ ॥ वैकारिकादहङ्कारात्सर्गो वैकारिकोऽभवत् । तैजसानीन्द्रियाणि स्युर्देवा वैकारिका दश ॥ १,४.२२ ॥ एकादशं मनस्तत्र स्वगुणेनोभयात्मकम् । भूततन्मात्रसर्गोऽयं भूतादेरभवन् प्रजाः ॥ १,४.२३ ॥ भूतादिस्तु विकुर्वाणः शब्दमात्रं ससर्ज ह । आकाशं शुषिरं तस्मादुत्पन्नं शब्दलक्षणम् ॥ १,४.२४ ॥ आकाशस्तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह । वायुरुत्पद्यते तस्मात्तस्य स्पर्शो गुणो मतः ॥ १,४.२५ ॥ वायुश्चापि विकुर्वाणो रूपमात्रं ससर्ज ह । ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते ॥ १,४.२६ ॥ ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्ज ह । संभवन्ति ततोऽम्भांसि रसाधाराणि तानि तु ॥ १,४.२७ ॥ आपश्चापि विकुर्वन्त्यो गन्धमात्रं ससर्जिरे । संघातो जायते तस्मात्तस्य गन्धो गुणो मतः ॥ १,४.२८ ॥ आकाशं शब्दमात्रं यत्स्पर्शमात्रं समावृणोत् । द्विगुणस्तु ततो वायुः शब्दस्पर्शात्मकोऽभवत् ॥ १,४.२९ ॥ रूपं तथैवाविशतः शब्दस्पर्शौ गुणावुभौ । त्रिगुणः स्यात्ततो वह्निः स शब्दस्पर्शरूपवान् ॥ १,४.३० ॥ शब्द स्पर्शश्च रूपं च रसमात्रं समाविशन् । तस्माच्चतुर्गुणा आपो विज्ञेयास्तु रसात्मिकाः ॥ १,४.३१ ॥ शब्दः स्पर्शश्च रूपं च रसो गन्धं समाविशन् । तसमात्पञ्चगुणा भूमिः स्थूला भूतेषु शब्द्यते ॥ १,४.३२ ॥ शान्ता घोराश्च मूढाश्च विशेषास्तेन ते स्मृताः । परस्परानुप्रवेशाद्धारयन्ति परस्परम् ॥ १,४.३३ ॥ एते सप्त महात्मानो ह्यन्योन्यस्य समाश्रयात् । नाशक्नुवन् प्रजाः स्त्रष्टुमसमागम्य कृत्स्नशः ॥ १,४.३४ ॥ पुरुषाधिष्ठितात्वाच्च अव्यक्तानुग्रहेण च । महादादयो विशेषान्ता ह्मण्डमुत्पादयन्ति ते ॥ १,४.३५ ॥ एककालसमुत्पन्नं जलबुद्बुदवच्च तत् । विशेषेभ्योऽण्डमभवद्बृहत्तदुदकेशयम् ॥ १,४.३६ ॥ तस्मिन् कार्यस्य करणं संसिद्धिः परमेष्ठिनः । प्राकृतेऽण्डे विवृत्तः स क्षेत्रज्ञो ब्रह्मसंज्ञितः ॥ १,४.३७ ॥ स वै शरीरी प्रथमः स वै पुरुष उच्यते । आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत ॥ १,४.३८ ॥ यमाहुः पुरुषं हंसं प्रधानात्परतः स्थितम् । हिरण्यगर्भं कपिलं छन्दोमूर्ति सनातनम् ॥ १,४.३९ ॥ मेरुरुल्बमभूत्तस्य जरायुश्चापि पर्वताः । गर्भोदकं समुद्राश्च तस्यासन् परमात्मनः ॥ १,४.४० ॥ तस्मिन्नण्डेऽभवद्विश्वं सदेवासुरमानुषम् । चन्द्रादित्यौ सनक्षत्रौ सग्रहौ सह वायुना ॥ १,४.४१ ॥ अद्भिर्दशगुणाभिश्च बाह्यतोऽण्डं समावृतम् । आपो दशगुणेनैव तेजसा बाह्यतो वृताः ॥ १,४.४२ ॥ तेजो दशगुणेनैव बाह्यतो वायुनावृतम् । आकाशेनावृतो वायुः खं तु भूतादिनावृतम् ॥ १,४.४३ ॥ भूतादिर्महता तद्वदव्यक्तेनावृतो महान् । एते लोका महात्मनः सर्वतत्त्वाभिमानिनः ॥ १,४.४४ ॥ वसन्ति तत्र पुरुषास्तदात्मानो व्यवस्थिताः । ईश्वरा योगधर्माणो ये चान्ये तत्त्वचिन्तकाः ॥ १,४.४५ ॥ सर्वज्ञाः शान्तरजसो नित्यं मुदितमानसाः । एतैरावरणैरण्डं सप्तभिः प्राकृतैर्वृतम् ॥ १,४.४६ ॥ एतावच्छक्यते वक्तुं मायैषा गहना द्विजाः । एतत्प्राधानिकं कार्यं यन्मया बीजमीरितम् । प्रजापतेः परा मूर्तिरितीयं वैदिकी श्रुतिः ॥ १,४.४७ ॥ ब्रह्माण्डमेतत्सकलं सप्तलोकतलान्वितम् । द्वितीयं तस्य देवस्य शरीरं परमेष्ठिनः ॥ १,४.४८ ॥ हिरण्यगर्भो भगवान् ब्रह्मा वै कनकाण्डजः । तृतीयं भगवद्रूपं प्राहुर्वेदार्थवेदिनः ॥ १,४.४९ ॥ रजोगुणमयं चान्यद्रूपं तस्यैव धीमतः । चतुर्मुखः स भगवान् जगत्सृष्टौ प्रवर्तते ॥ १,४.५० ॥ सृष्टं च पाति सकलं विश्वात्मा विश्वतोमुखः । सत्त्वं गुणमुपाश्रित्य विष्णुर्विश्वेश्वरः स्वयम् ॥ १,४.५१ ॥ अन्तकाले स्वयं देवः सर्वात्मा परमेश्वरः । तमोगुणं समाश्रित्य रुद्रः संहरते जगत् ॥ १,४.५२ ॥ एकोऽपि सन्महादेवस्त्रिधासौ समवस्थितः । सर्गरक्षालयगुणैर्निर्गुणोऽपि निरञ्जनः । एकधा स द्विधा चैव त्रिधा च बहुधा पुनः ॥ १,४.५३ ॥ योगेश्वरः शरीराणि करोति विकरोति च । नानाकृतिक्रियारूपनामवन्ति स्वलीलया ॥ १,४.५४ ॥ हिताय चैव भक्तानां स एव ग्रसते पुनः । त्रिधा विभज्य चात्मानं त्रैकाल्ये संप्रवर्तते । सृजते ग्रसते चैव वीक्षते च विशेषतः ॥ १,४.५५ ॥ यस्मात्सृष्ट्वानुगृह्णाति ग्रसते च पुनः प्रजाः । गुणात्मकत्वात्त्रैकाल्ये तस्मादेकः स उच्यते ॥ १,४.५६ ॥ अग्रे हिरण्यगर्भः स प्रादुर्भूतः सनातनः । आदित्वादादिदेवोऽसौ अजातत्वादजः स्मृतः ॥ १,४.५७ ॥ पातियस्मात्प्रजाः सर्वाः प्रजापतिरिति स्मृतः । देवेषु च महादेवो माहदेव इति स्मृतः ॥ १,४.५८ ॥ बृहत्त्वाच्च स्मृतो ब्रह्मा परत्वात्परमेश्वरः । वशित्वादप्यवश्यत्वादीश्वरः परिभाषितः ॥ १,४.५९ ॥ ऋषिः सर्वत्रगत्वेन हरिः सर्वहरो यतः । अनुत्पादाच्च पूर्वत्वात्स्वयंभूरिति स स्मृतः ॥ १,४.६० ॥ नराणामयनो यस्मात्तेन नारायणः स्मृतः । हरः संसारहरणाद्विभुत्वाद्विष्णुरुच्यते ॥ १,४.६१ ॥ भगवान् सर्वविज्ञानादवनादोमिति स्मृतः । सर्वज्ञः सर्वविज्ञानात्सर्वः सर्वमयो यतः ॥ १,४.६२ ॥ शिवः स निर्मलो यस्माद्विभुः सर्वगतो यतः । तारणात्सर्वदुः खानां तारकः परिगीयते ॥ १,४.६३ ॥ बहुनात्र किमुक्तेन सर्वं ब्रह्ममयं जगत् । अनेकभेदभिन्नस्तु क्रीडते परमेश्वरः ॥ १,४.६४ ॥ इत्येष प्राकृतः सर्गः संक्षेपात्कथितो मया । अबुद्धिपूर्वको विप्रा ब्राह्मीं सृष्टिं निबोधत ॥ १,४.६५ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वंविभागे चतुर्थोऽध्यायः _____________________________________________________________ श्रीकूर्म उवाच स्वयंभुवो विवृत्तस्य कालसंख्या द्विजोत्तमाः । न शक्यते समाख्यातुं बहुवर्षैरपि स्वयम् ॥ १,५.१ ॥ कालसंख्या समासेन परार्धद्वयकल्पिता । स एव स्यात्परः कालः तदन्ते प्रतिसृज्यते ॥ १,५.२ ॥ निजेन तस्य मानेन आयुर्वर्षशतं स्मृतम् । तत्पराख्यं तदर्धं च परार्धमभिदीयते ॥ १,५.३ ॥ काष्ठा पञ्चदश ख्याता निमेषा द्विजसत्तमाः । काष्ठास्त्रिंशत्कला त्रिंशत्कला मौहूर्तिकी गतिः ॥ १,५.४ ॥ तावत्संख्यैरहोरात्रं मुहूर्तैर्मानुषं स्मृतम् । अहोरात्राणि तावन्ति मासः पक्षद्वयात्मकः ॥ १,५.५ ॥ तैः षड्भिरयनं वर्षं द्वेऽयने दक्षिणोत्तरे । अयनं दक्षिणं रात्रिर्देवानामुत्तरं दिनम् ॥ १,५.६ ॥ दिव्यैर्वर्षसहस्त्रैस्तु कृतत्रेतादिसंज्ञितम् । चतुर्युगं द्वादशभिः तद्विभागं निबोधत ॥ १,५.७ ॥ चत्वार्याहुः सहस्त्राणि वर्षाणां तत्कृतं युगम् । तस्य तावच्छती सन्ध्या सन्ध्यांशश्च कृतस्य तु ॥ १,५.८ ॥ त्रिशती द्विशती सन्ध्या तथा चैकशती क्रमात् । अंशकं षट्शतं तस्मात्कृसन्ध्यांशकं विना ॥ १,५.९ ॥ त्रिद्व्येकसाहस्त्रमतो विना सन्ध्यांशकेन तु । त्रेताद्वापरतिष्याणां कालज्ञाने प्रकीर्तितम् ॥ १,५.१० ॥ एतद्द्वादशसाहस्त्रं साधिकं परिकल्पितम् । तदेकसप्ततिगुणं मनोरन्तरमुच्यते ॥ १,५.११ ॥ ब्रह्मणो दिवसे विप्रा मनवः स्युश्चतुर्दश । स्वायंभुवादयः सर्वे ततः सावर्णिकादयः ॥ १,५.१२ ॥ तैरियं पृथिवी सर्वा सप्तद्वीपा सपर्वता । पूर्णं युगसहस्त्रं वै परिपाल्या नरेश्वरैः ॥ १,५.१३ ॥ मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि वै । व्याख्यातानि न संदेहः कल्पं कल्पेन चैव हि ॥ १,५.१४ ॥ ब्राह्ममेकमहः कल्पस्तावती रात्रिरिष्यते । चतुर्युगसहस्त्रं तु कल्पमाहुर्मनीषिणः ॥ १,५.१५ ॥ त्रीणि कल्पशतानि स्युः तथा षष्टिर्द्विजोत्तमाः । ब्रह्मणः कथितं वर्षं पराख्यं तच्छतं विदुः ॥ १,५.१६ ॥ तस्यान्ते सर्वतत्त्वानां स्वहेतौ प्रकृतौ लयः । तेनायं प्रोच्यते सद्भिः प्राकृतः प्रतिसंचरः ॥ १,५.१७ ॥ ब्रह्मनारायणेशानां त्रयाणां प्रकृतौ लयः । प्रोच्यते कालयोगेन पुनरेव च संभवः ॥ १,५.१८ ॥ एवं ब्रह्मा च भूतानि वासुदेवोऽपि शङ्करः । कालेनैव तु सृज्यन्ते स एव ग्रसते पुनः ॥ १,५.१९ ॥ अनादिरेष भगवान् कालोऽनन्तोऽजरोऽमरः । सर्वगत्वात्स्वतन्त्रत्वात्सर्वात्मासौ महेश्वरः ॥ १,५.२० ॥ ब्रह्माणो बहवो रुद्रा ह्यन्ये नारायणादयः । एको हि भगवानीशः कालः कविरिति श्रुति ॥ १,५.२१ ॥ एकमत्र व्यतीतं तु परार्धं ब्रह्मणो द्विजाः । सांप्रतं वर्तते तद्वत्तस्य कल्पोऽयमष्टमः ॥ १,५.२२ ॥ योऽतीतः सप्तमः कल्पः पाद्म इत्युच्यते बुधैः । वाराहो वर्तते कल्पः तस्य वक्ष्यामि विस्तरम् ॥ १,५.२३ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे पञ्चमोऽध्यायः _____________________________________________________________ श्रीकूर्म उवाच आसीदेकार्णवं घोरमविभागं तमोमयम् । शान्तवातादिकं सर्वं न प्रज्ञायत किञ्चन ॥ १,६.१ ॥ एकार्णवे तदा तस्मिन्नष्टे स्थावरजङ्गमे । तदा समभवद्ब्रह्मा सहस्त्राक्षः सहस्त्रपात् ॥ १,६.२ ॥ सहस्त्रशीर्षा पुरुषो रुक्मवर्णस्त्वतीन्द्रियः । ब्रह्मा नारायणाख्यस्तु सुष्वाप सलिले तदा ॥ १,६.३ ॥ इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति । ब्रह्मस्वरूपिणं देवं जगतः प्रभवाप्ययम् ॥ १,६.४ ॥ आपो नारा इति प्रोक्ता नाम्ना पूर्वमिति श्रुतिः । अयनं तस्य ता यस्मात्तेन नारायणः स्मृतः ॥ १,६.५ ॥ तुल्यं युगसहस्त्रस्य नैशं कालमुपास्य सः । शर्वर्यन्ते प्रकुरुते ब्रह्मत्वं सर्गकारणात् ॥ १,६.६ ॥ ततस्तु सलिले तस्मिन् विज्ञायान्तर्गतां महीम् । अनुमानात्तदुद्धारं कर्तुकामः प्रजापतिः ॥ १,६.७ ॥ जलक्रीडासु रुचिरं वाराहं रुपमास्थितः । अधृष्यं मनसाप्यन्यैर्वाङ्मयं ब्रह्मसंज्ञितम् ॥ १,६.८ ॥ पृथिव्युद्धरणार्थाय प्रविश्य च रसातलम् । दंष्ट्रयाभ्युज्जहारैनामात्माधारो धराधरः ॥ १,६.९ ॥ दृष्ट्वा दंष्ट्राग्रविन्यस्तां पृथिवीं प्रथितपौरुषम् । अस्तुवञ्जनलोकस्थाः सिद्धा ब्रह्मर्षयो हरिम् ॥ १,६.१० ॥ ऋषय ऊचुः नमस्ते देवदेवाय ब्रह्मणे परमेष्ठिने । पुरुषाय पुराणाय शाश्वताय जयाय च ॥ १,६.११ ॥ नमः स्वयंभुवे तुभ्यं स्त्रष्ट्रे सर्वार्थवेदिने । नमो हिरण्यगर्भाय वेधसे परमात्मने ॥ १,६.१२ ॥ नमस्ते वासुदेवाय विष्णवे विश्वयोनये । नारायणाय देवाय देवानां हितकारिणे ॥ १,६.१३ ॥ नमोऽस्तु ते चतुर्वक्त्रे शार्ङ्गचक्रासिधारिणे । सर्वभूतात्मभूताय कूटस्थाय नमो नमः ॥ १,६.१४ ॥ नमो वेदरहस्याय नमस्ते वेदयोनये । नमो बुद्धाय शुद्धाय नमस्ते ज्ञानरूपिणे ॥ १,६.१५ ॥ नमोऽस्त्वानन्दरूपाय साक्षिणे जगतां नमः । अनन्तायाप्रमेयाय कार्याय करणाय च ॥ १,६.१६ ॥ नमस्ते पञ्चबूताय पञ्चभूतात्मने नमः । नमो मूलप्रकृतये मायारूपाय ते नमः ॥ १,६.१७ ॥ नमोऽस्तु ते वराहाय नमस्ते मत्स्यरूपिणे । नमो योगाधिगम्याय नमः सकर्षणाय ते ॥ १,६.१८ ॥ नमस्त्रिमूर्तये तुभ्यं त्रिधाम्ने दिव्यतेजसे । नमः सिद्धाय पूज्याय गुणत्रयविभाविने ॥ १,६.१९ ॥ तमोऽस्त्वादित्यवर्णाय नमस्ते पद्मयोनये । नमोऽमूर्ताय मूर्ताय माधवाय नमो नमः ॥ १,६.२० ॥ त्वयैव सृष्टमखिलं त्वय्येव लयमेष्यति । पालयैतज्जगत्सर्वं त्राता त्वं शरणं गति ॥ १,६.२१ ॥ इत्थं स भगवान् विष्णुः सनकाद्यैरभिष्टुतः । प्रसादमकरोत्तेषां वराहवपुरीश्वरः ॥ १,६.२२ ॥ ततः संस्थानमानीय पृथिवीं पृथिवीपतिः । मुमोच रूपं मनसा धारयित्वा प्रिजापतिः ॥ १,६.२३ ॥ तस्योपरि जलौघस्य महती नौरिव स्थिता । विततत्वाच्च देहस्य न मही याति संप्लवम् ॥ १,६.२४ ॥ पृथिवीं तु समीकृत्य पृथिव्यां सोऽचिनोद्गिरीन् । प्राक्सर्गदग्धानखिलांस्ततः सर्गेऽदधन्मनः ॥ १,६.२५ ॥ इति श्रीकूर्मपुराणे षटसाहस्त्र्यां संहितायां पूर्वविभागे षष्ठोऽध्यायः _____________________________________________________________ श्रीकूर्म उवाच सृष्टिं चिन्तयतस्तस्य कल्पादिषु यथा पुरा । अबुद्धिपूर्वकः सर्गः प्रादुर्भूतस्तमोमयः ॥ १,७.१ ॥ तमो मोहो महामोहस्तामिस्त्रश्चान्धसंज्ञितः । अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ॥ १,७.२ ॥ पञ्चधावस्थितः सर्गो ध्यायतः सोऽभिमानिनः । संवृतस्तमसा चैव बीजकम्भुवनावृतः ॥ १,७.३ ॥ वर्हिरन्तश्चाप्रकाशः स्तब्धो निः संज्ञ एव च । मुक्या नगा इति प्रोक्ता मुख्यसर्गस्तु स स्मृतः ॥ १,७.४ ॥ तं दृष्ट्वासाधकं सर्गममन्यदपरं प्रभुः । तस्याभिध्यायतः सर्गस्तिर्यक्स्त्रोतोऽभ्यवर्तत ॥ १,७.५ ॥ यस्मात्तिर्यक्प्रवृत्तः स तिर्यक्स्त्रोतस्ततः स्मृतः । पश्वादयस्ते विख्याता उत्पथग्राहिणो द्विजाः ॥ १,७.६ ॥ तमप्यसाधकं ज्ञात्वा सर्गमन्यं ससर्ज ह । ऊर्ध्वस्त्रोत इति प्रोक्तो देवसर्गस्तु सात्त्विकः ॥ १,७.७ ॥ ते सुखप्रतिबहुला बहिरन्तश्च नावृताः । प्रकाशा बहिरन्तश्च स्वभावाद्देवसंज्ञिताः ॥ १,७.८ ॥ ततोऽबिधायायतस्तस्य सत्याभिध्यायिनस्तदा । प्रादुरासीत्तदाव्यक्तादर्वाक्स्त्रोतस्तु साधकः ॥ १,७.९ ॥ ते च प्रकाशबहुलास्तमोद्रिक्ता रजोधिकाः । दुः खोत्कटाः सत्त्वयुता मनुष्याः परिकीर्तिता ॥ १,७.१० ॥ तं दृष्ट्वा चापरं सर्गममन्यद्भगवानजः । तस्याभिध्यायतः सर्गं सर्गो भूतादिकोऽभवत् ॥ १,७.११ ॥ तेऽपरिग्राहिणः सर्वे संविभागरताः पुनः । खादनाश्चाप्यशीलाश्च भूताद्याः परिकीर्तिताः । इत्येते पञ्च कथिताः सर्गा वै द्विजपुङ्गवाः ॥ १,७.१२ ॥ प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस्तु सः । तन्मात्राणां द्वितीयस्तु भूतसर्गो हि स स्मृतः ॥ १,७.१३ ॥ वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः । इत्येष प्राकृतः सर्गः संभूतोऽबुद्धिपूर्वकः ॥ १,७.१४ ॥ मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः । तिर्यक्स्त्रोतस्तु यः प्रोक्तस्तिर्यग्योन्यः स पञ्चमः ॥ १,७.१५ ॥ तथोर्ध्वस्त्रोतसां षष्ठो देवसर्गस्तु स स्मृतः । ततोर्ऽवाक्स्त्रोतसां सर्गः सप्तमः स तु मानुषः ॥ १,७.१६ ॥ अष्टमो भौतिकः सर्गो भूतादीनां प्रकीर्तितः । नवमश्चैव कौमारः प्राकृता वैकृतास्त्विमे ॥ १,७.१७ ॥ प्राकृतास्तु त्रयः पूर्वे सर्गास्तेऽबुद्धिपूर्वकाः । बुद्धिपूर्वं प्रवर्तन्ते मुख्याद्या मुनिपुङ्गवाः ॥ १,७.१८ ॥ अग्रे ससर्ज वै ब्रह्मा मानसानात्मनः समान् । सनकं सनातनं चैव तथैव च सनन्दनम् । ऋभुं सनात्कुमारं च पूर्वमेव प्रजापतिः ॥ १,७.१९ ॥ पञ्चैते योगिनो विप्राः परं वैराग्यमास्थिताः । ईश्वरासक्तमनसो न सृष्टौ दधिरे मतिम् ॥ १,७.२० ॥ तेष्वेवं निरपेक्षेषु लोकसृष्टौ प्रजापतिः । मुमोह मायया सद्यो मायिनः परमेष्ठिनः ॥ १,७.२१ ॥ तं बोधयामास सुतं जगन्मायो महामुनिः । नारायणो महायोगी योगिचित्तानुरञ्जनः ॥ १,७.२२ ॥ बोधितस्तेन विश्वात्मा तताप परमं तपः । स तप्यमानो भगवान्न किञ्चित्प्रतिपद्यत ॥ १,७.२३ ॥ ततो दीर्घेण कालेन दुखात्क्रोधो व्यजायत । क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रु बिन्दवः ॥ १,७.२४ ॥ भ्रुकुटीकुटिलात्तस्य ललाटात्परमेश्वरः । समुत्पन्नो महादेवः शरण्यो नीललोहितः ॥ १,७.२५ ॥ स एव भगवानीशस्तेजोराशिः सनातनः । यं प्रपश्यन्ति विद्वांसः स्वात्मस्थं परमेश्वरम् ॥ १,७.२६ ॥ ओङ्कारं समनुस्मृत्य प्रणम्य च कृताञ्जलिः । ताम भगवान् ब्रह्मा सृजेमा विविधाः प्रजाः ॥ १,७.२७ ॥ निशम्य भगवान् वाक्यं शङ्करो धर्मवाहनः । स्वात्मना सद्शान् रुद्रान् ससर्ज मनसा शिवः । कपर्दिनो निरातङ्कांस्त्रिनेत्रान्नीललोहितान् ॥ १,७.२८ ॥ तं प्राह भगवान् ब्रह्मा जन्ममृत्युयुताः प्रजाः । सृजेति सोऽब्रवीदीशो नाहं मृत्युजरान्विताः । प्रजाः स्त्रक्ष्ये जगन्नाथ सृज त्वमशुभाः प्रजाः ॥ १,७.२९ ॥ निवार्य च तदा रुद्रं ससर्ज कमलोद्भवः । स्थानाभिमानिनः सर्वान् गदतस्तान्निबोधत ॥ १,७.३० ॥ अपोऽग्निरन्तरिक्षं च द्यौर्वायुः पृथिवी तथा । नद्यः समुद्राः शैलाश्च वृक्षा वीरुध एव च ॥ १,७.३१ ॥ लवाः काष्ठाः कलाश्चैव मुहूर्ता दिवसाः क्षपाः । अर्धमासाश्च मासाश्च अयनाब्दयुगादयः ॥ १,७.३२ ॥ स्थानाबिमानिनः सृष्ट्वा साधकानसृजत्पुनः । मरीचिभृग्वङ्गिरसं पुलस्त्यं पुलहं क्रतुम् । दक्षमत्रिं वसिष्ठं च धर्मं संकल्पमेव च ॥ १,७.३३ ॥ प्राणाद्ब्रह्मासृजद्दक्षं चक्षुषश्च मरीचिनम् । शिरसोऽङ्गिरसं देवो हृदयाद्भृगुमेव च ॥ १,७.३४ ॥ श्रोत्राभ्यामत्रिनामानं धर्मं च व्यवसायतः । संकल्पं चैव संकल्पात्सर्वलोकपितामहः ॥ १,७.३५ ॥ पुलस्त्यं च तथोदानाद्व्यनाच्च पुलहं मुनिम् । अपानात्क्रतुमव्यग्रं समानाच्च वसिष्ठकम् ॥ १,७.३६ ॥ इत्येते ब्रह्मणा सृष्टाः साधका गृहमेधिनः । आस्थाय मानवं रूपं धर्मस्तैः संप्रवर्तितः ॥ १,७.३७ ॥ ततो देवासुरपितृन्मनुष्यांश्च चतुष्टयम् । सिसृक्षुरम्भांस्येतानि स्वमात्मानमयूयुजत् ॥ १,७.३८ ॥ युक्तात्मनस्तमोमात्रा उद्रिक्ताभूत्प्रजापतेः । ततोऽस्य जघनात्पूर्वमसुरा जज्ञिरे सुताः ॥ १,७.३९ ॥ उत्ससर्जासुरान् सृष्ट्वा तां तनुं पुरुषोत्तमः । सा चोत्सृष्टा तनुस्तेन सद्यो रात्रिरजायत । सा तमोबहुला यस्मात्प्रजास्तस्यांस्वपन्त्यतः ॥ १,७.४० ॥ सत्त्वमात्रत्मिकां देवस्तनुमन्यामगृह्णत । ततोऽस्य मुखतो देवा दीव्यतः संप्रजज्ञिरे ॥ १,७.४१ ॥ त्यक्ता सापि तनुस्तेन सत्त्वप्रायमभूद्दिनम् । तस्मादहो धर्मयुक्ता देवताः समुपासते ॥ १,७.४२ ॥ सत्त्वमात्रात्मिकामेव ततोऽन्यां जगृहे तनुम् । पितृवन्मन्यमानस्य पितरः संप्रजज्ञिरे ॥ १,७.४३ ॥ उत्ससर्ज पितृन् सृष्ट्वा ततस्तामपि विश्वसृक् । सापविद्धा तनुस्तेन सद्यः सन्ध्या व्यजायत ॥ १,७.४४ ॥ तस्मादहर्देवतानां रात्रिः स्याद्देवविद्विषाम् । तयोर्मध्ये पितॄणां तु मूर्तिः सन्ध्या गरीयसी ॥ १,७.४५ ॥ तस्माद्देवासुराः सर्वे मनवो मानवास्तथा । उपासते तदा युक्ता रात्र्यह्नोर्मध्यमां तनुम् ॥ १,७.४६ ॥ रजोमात्रात्मिकां ब्रह्मा तनुमन्यामगृह्णत । ततोऽस्य जज्ञिरे पुत्रा मनुष्या रजसावृताः ॥ १,७.४७ ॥ तामप्याशु स तत्याज तनुं सद्यः प्रजापतिः । ज्योत्स्त्रा सा चाभवद्विप्राः प्राक्सन्ध्या याबिधीयते ॥ १,७.४८ ॥ ततः स भगवान् ब्रह्मा संप्राप्य द्विजपुङ्गवाः । मूर्ति तमोरजः प्रायां पुनरेवाभ्ययूयुजत् ॥ १,७.४९ ॥ अन्धकारे क्षुधाविष्टा राक्षसास्तस्य जज्ञिरे । पुत्रास्तमोरजः प्राया बलिनस्ते निशाचराः ॥ १,७.५० ॥ सर्पा यक्षास्तथा बूता गन्धर्वाः संप्रजज्ञिरे । रजस्तमोभ्यामाविष्टांस्ततोऽन्यानसृजत्प्रभुः ॥ १,७.५१ ॥ वयांसि वयसः सृष्ट्वा अवयो वक्षसोऽसृजत् । मुखतोऽजान् ससर्जान्यानुदराद्गाश्चनिर्ममे ॥ १,७.५२ ॥ पद्भ्याञ्चाश्वान् समातङ्गान् रासभान् गवयान्मृगान् । उष्ट्रानश्वतरांश्चैव न्यङ्कूनन्यांश्व जातयः । औपध्यः फलमूलिन्यो रोमभ्यस्तस्य जज्ञिरे ॥ १,७.५३ ॥ गायत्रं च ऋचं चैव त्रिवृत्साम रथन्तरम् । अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् ॥ १,७.५४ ॥ यजूंषि त्रैष्टुभं छन्दः स्तोमं पञ्चदशं तथा । बृहत्साम तथोक्थं च दक्षिणादसृजन्मुखात् ॥ १,७.५५ ॥ सामानि जागतं छन्दस्तोमं सप्तदशं तथा । वैरूपमतिरात्रं च पश्चिमादसृजन्मुखात् ॥ १,७.५६ ॥ एकविशमथर्वाणमाप्तोर्यामाणमेव च । अनुष्टुभं सवैराजमुत्तरादसृजन्मुखात् ॥ १,७.५७ ॥ उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे । ब्रह्मणो हि प्रजासर्गं सृजतस्तु प्रजापतेः ॥ १,७.५८ ॥ सृष्ट्वा चतुष्टयं सर्गं देवर्षिपितृमानुषम् । ततोऽसृजच्च भूतानि स्थावराणि चराणि च ॥ १,७.५९ ॥ यक्षान् पिशाचान् गन्धर्वांस्तथैवाप्सरसः शुभाः । नरकिन्नररक्षांसि वयः पुशुमृगोरगान् । अव्ययं च व्ययं चैव द्वयं स्थावरजङ्गमम् ॥ १,७.६० ॥ तेषां ये यानि कर्माणि प्राक्सृष्टौ प्रतिपेदिरे । तान्येव ते प्रपद्यन्ते सृज्यमानाः पुनः पुनः ॥ १,७.६१ ॥ हिंस्त्राहिंस्त्रे मृदुक्रूरे धर्माधर्मावृतानृते । तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥ १,७.६२ ॥ महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्तिषु । विनियोगं च भूतानां धातैव विदधात्स्वयम् ॥ १,७.६३ ॥ नामरूपं च भूतानां कृत्यानां च प्रपञ्चनम् । वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः ॥ १,७.६४ ॥ आर्षाणि चैव नामानि याश्च वेदेषु दृष्टयः । शर्वर्यन्ते प्रसूतानां तान्येवैभ्यो ददात्यजः ॥ १,७.६५ ॥ यथर्तावृतुलिङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ १,७.६६ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे सप्तमोऽध्यायः _____________________________________________________________ श्रीकूर्म उवाच एवं भूतानि सृष्टानि स्थावराणि चराणि च । यदा चास्य प्रजाः सृष्टा न व्यवर्धन्त धीमतः ॥ १,८.१ ॥ तमोमात्रावृतो ब्रह्मा तदाशोचत दुः खितः । ततः स विदधे बुद्धिमर्थनिश्चयगामिनीम् ॥ १,८.२ ॥ अथात्मनि समद्राक्षीत्तमोमात्रां नियामिकाम् । रजः सत्त्वं च संवृत्य वर्तमानां स्वधर्मतः ॥ १,८.३ ॥ तमस्तद्व्यनुदत्पश्चात्रजः सत्त्वेन संयुतः । तत्तमः प्रतिनुन्नं वै मिथुनं समजायत ॥ १,८.४ ॥ अधर्माचरणो विप्रा हिंसा चाशुभलक्षणा । स्वां तनुं स ततो ब्रह्मा तामपोहत भास्वराम् ॥ १,८.५ ॥ द्विधाकरोत्पुनर्देहमर्धेन पुरुषोऽभवत् । अर्धेन नारी पुरुषो विराजमसृजत्प्रभुः ॥ १,८.६ ॥ नारीं च शतरूपाख्यां योगिनीं ससृजे शुभाम् । सा दिवं पृथिवीं चैव महम्ना व्याप्य संस्थिता ॥ १,८.७ ॥ योगैश्वर्यबलोपेता ज्ञानविज्ञानसंयुता । योऽभवत्पुरुषात्पुत्रो विराडव्यक्तजन्मनः ॥ १,८.८ ॥ स्वायंभुवो मनुर्देवः सोऽभवत्पुरुषो मुनिः । सा देवी शतरूपाख्या तपः कृत्वा सुदुश्चरम् ॥ १,८.९ ॥ भर्तारं ब्रह्मणः पुत्रं मनुमेवानुपद्यत । तस्माच्च शतरूपा सा पुत्रद्वयमसूयत ॥ १,८.१० ॥ प्रियव्रतोत्तानपादौ कन्याद्वयमनुत्तमम् । तयोः प्रसूतिं दक्षाय मनुः कन्यां ददौ पुनः ॥ १,८.११ ॥ प्रजापतिरथाकूतिं मानसो जगृहे रुचिः । आकूत्यां मिथुनं जज्ञे मानसस्य रुचेः शुभम् । यज्ञश्च दक्षिणा चैव याभ्यां संवर्धितं जगत् ॥ १,८.१२ ॥ यज्ञस्य दक्षिणायां तु पुत्रा द्वादश जज्ञिरे । यामा इति समाक्यता देवाः स्वायंभुवेऽन्तरे ॥ १,८.१३ ॥ प्रसूत्यां च तथा दक्षश्चतस्त्रो विंशतिं तथा । ससर्ज कन्या नामानि तासां सम्यं निबोधत ॥ १,८.१४ ॥ श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा क्रिया तथा । बुद्धिर्लज्जावपुः शान्तिः सिद्धिः कीर्तिस्त्रयोदशी ॥ १,८.१५ ॥ पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः शुभाः । ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः ॥ १,८.१६ ॥ ख्यातिः सत्यथ संभूतिः स्मृतिः प्रीतिः क्षमा तथा । संततिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा ॥ १,८.१७ ॥ भृगुर्भवो मरीचिश्च तथा चैवाङ्गिरा मुनिः । पुलस्त्यः पुलहश्चैव क्रतुः परमधर्मवित् ॥ १,८.१८ ॥ अत्रिर्वसिष्ठो वह्निश्च पितरश्च यथाक्रमम् । ख्यात्याद्या जगृहुः कन्या मुनयो मुनिसत्तमाः ॥ १,८.१९ ॥ श्रद्धाया आत्मजः कामो दर्पो लक्ष्मीसुतः स्मृतः । धृत्यास्तु नियमः पुत्रस्तुष्ट्याः संतोष उच्यते ॥ १,८.२० ॥ पुष्ट्या लाभः सुतश्चापि मेधापुत्रः श्रुतस्तथा । क्रियायाश्चाभवत्पुत्रो दण्डः समय एव च ॥ १,८.२१ ॥ बुद्ध्या बोधः सुतस्तद्वदप्रमादो व्यजायत । लज्जाया विनयः पुत्रो वपुषो व्यवसायकः ॥ १,८.२२ ॥ क्षेमः शान्तिसुतश्चापि सुखं सिद्धिरजायत । यशः कीर्तिसुतस्तद्वदित्येते धर्मसूनवः ॥ १,८.२३ ॥ कामस्य हर्षः पुत्रोऽभूद्देवानन्दो व्यजायत । इत्येष वै सुखोदर्कः सर्गो धर्मस्य कीर्तितः ॥ १,८.२४ ॥ जज्ञे हिंसा त्वधर्माद्वै निकृतिं चानृतं सुतम् । निकृत्यनृतयोर्जज्ञे भयं नरक एव च ॥ १,८.२५ ॥ माया च वेदना चैव मिथुनं त्विदमेतयोः । भयाज्जज्ञेऽथ वै माया मृत्युं भूतापहारिणम् ॥ १,८.२६ ॥ वेदना च सुतं चापि दुः खं जज्ञेऽथ रौरवात् । मृत्योर्व्याधिजराशोकतृष्णाक्रोधाश्च जज्ञिरे ॥ १,८.२७ ॥ दुः खोत्तराः स्मृता ह्येते सर्वे चाधर्मलक्षणाः । नैषां भार्यास्ति पुत्रो वा सर्वे ते ह्यूर्ध्वरेतसः ॥ १,८.२८ ॥ इत्येष तामसः सर्गो जज्ञे धर्मनियामकः । संक्षेपेण मया प्रोक्ता विसृष्टिर्मुनिपुङ्गवा ॥ १,८.२९ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागेऽष्टमोऽध्यायः _____________________________________________________________ सूत उवाच एतच्छ्रुत्वा तु वचनं नारदाद्या महर्षयः । प्रणम्य वरदं विष्णुं पप्रच्छुः संशयान्विता ॥ १,९.१ ॥ ऋषय ऊचुः कथितो भवता सर्गो मुख्यादीनां जनार्दन । इदानीं संशयं चेममस्माकं छेत्तुमर्हसि ॥ १,९.२ ॥ कथं स भगवानीशः पूर्वजोऽपि पिनाकधृक् । पुत्रत्वमगच्छंभुर्ब्रह्मणोऽव्यक्तजन्मनः ॥ १,९.३ ॥ कथं च भगवाञ्जज्ञे ब्रह्मा लोकपितामहः । अण्डजो जगतामीशस्तन्नो वक्तुमिहार्हसि ॥ १,९.४ ॥ श्रीकूर्म उवाच शृणुध्वमृषयः सर्वे शङ्करस्यामितौजसः । पुत्रत्वं ब्रह्मणस्तस्य पद्मयोनित्वमेव च ॥ १,९.५ ॥ अतीतकल्पावसाने तमोभूतं जगत्त्रयम् । आसीदेकार्णवं सर्वं न देवाद्या न चर्षयः ॥ १,९.६ ॥ तत्र नारायणो देवो निर्जने निरुपप्लवे । आश्रित्य शेषशयनं सुष्वाप पुरुषोत्तमः ॥ १,९.७ ॥ सहस्त्रशीर्षा भूत्वा स सहस्त्राक्षः सहस्त्रपात् । सहस्त्रबाहुः सर्वज्ञश्चिन्त्यमानो मनीषिभिः ॥ १,९.८ ॥ पीतवासा विशालाक्षो नीलजिमूतसन्निभः । महाविभूतिर्योगात्मा योगिनां हृदयालयः ॥ १,९.९ ॥ कदाचित्तस्य सुप्तस्य लीलार्थं दिव्यमद्भुतम् । त्रैलोक्यसारं विमलं नाभ्यां पङ्कजमुद्वभौ ॥ १,९.१० ॥ शतयोजनविस्तीर्णं तरुणादित्यसन्निभम् । दिव्यगन्धमयं पुण्यं कर्णिकाकेसरान्वितम् ॥ १,९.११ ॥ तस्यैवं सुचिरं कालं वर्तमानस्य शार्ङ्गिणः । हिरण्यगर्भो भगवांस्तं देशमुपचक्रमे ॥ १,९.१२ ॥ स तं करेण विश्वात्मा समुत्थाप्य सनातनम् । प्रोवाच मधुरं वाक्यं मायया तस्य मोहितः ॥ १,९.१३ ॥ अस्मिन्नेकार्णवे घोरे निर्जने तमसावृते । एकाकी को भवाञ्छेते ब्रूहि मे पुरुषर्षभ ॥ १,९.१४ ॥ तस्य तद्वचनं श्रुत्वा विहस्य गरुडध्वजः । उवाच देवं ब्रह्माणं मेघगम्भीरनिः स्वनः ॥ १,९.१५ ॥ भो भो नारायणं देवं लोकानां प्रभवाप्ययम् । महायोगेश्वरं मां त्वं जानीहि पुरुषोत्तमम् ॥ १,९.१६ ॥ मयि पश्य जगत्कृत्स्नं त्वां च लोकपितामहम् । सपर्वतमहाद्वीपं समुद्रैः सप्तभिर्वृतम् ॥ १,९.१७ ॥ एवमाभाष्य विश्चात्मा प्रोवाच पुरुषं हरिः । जानन्नपि महायोगी को भवानिति वेधसम् ॥ १,९.१८ ॥ ततः प्रहस्य भगवान् ब्रह्मा वेदनिधिः प्रभुः । प्रत्युवाचाम्बुजाभाक्षं सस्मितं श्लक्ष्णया गिरा ॥ १,९.१९ ॥ अहं धाता विधाता च स्वयंभूः प्रपितामहः । मय्येव संस्थितं विश्वं ब्रह्माहं विश्वतोमुखः ॥ १,९.२० ॥ श्रुत्वा वाचं स भगवान् विष्णुः सत्यपराक्रमः । अनुज्ञाप्याथ योगेन प्रविष्टो ब्रह्मणस्तनुम् ॥ १,९.२१ ॥ त्रलोक्यमेतत्सकलं सदेवासुरमानुषम् । उदरे तस्य देवस्य दृष्ट्वा विस्मयमागतः ॥ १,९.२२ ॥ तदास्य वक्त्रान्निष्क्रम्य पन्नगेन्द्रनिकेतनः । अजातशत्रुर्भगवान् पितामहमथाब्रवीत् ॥ १,९.२३ ॥ भवानप्येवमेवाद्य शाश्वतं हि ममोहरम् । प्रविश्य लोकान् पश्यैतान् विचित्रान् पुरुषर्षभ ॥ १,९.२४ ॥ ततः प्रह्लादनीं वाणी श्रुत्वा तस्याभिनन्द्य च । श्रीपतेरुदरं भूयः प्रविवेश कुशध्वजः ॥ १,९.२५ ॥ तानेव लोकान् गर्भस्थानपश्यत्सत्यविक्रमः । पर्यटित्वा तु देवस्य ददृशेऽन्तं न वै हरेः ॥ १,९.२६ ॥ ततो द्वाराणि सर्वाणि पिहितानि महात्मना । जनार्दनेन ब्रह्मासौ नाभ्यां द्वारमविन्दत ॥ १,९.२७ ॥ तत्र योगबलेनासौ प्रविश्य कनकाण्डजः । उज्जहारात्मनो रूपं पुष्कराच्चतुराननः ॥ १,९.२८ ॥ विरराजारविन्दस्थः पद्मगर्भसमद्युतिः । ब्रह्मा स्वयंभूर्भगवान् जगद्योनिः पितामहः ॥ १,९.२९ ॥ समन्यमानो विश्वेशमात्मानं परमं पदम् । प्रोवाच पुरुषं विष्णुं मेघगम्भीरया गिरा ॥ १,९.३० ॥ किं कृतं भवतेदानीमात्मनो जयकाङ्क्षया । एकोऽहं प्रबलो नान्यो मां वै कोऽबिभविष्यति ॥ १,९.३१ ॥ श्रुत्वा नारायणो वाक्यं ब्रह्मणो लोकतन्त्रिणः । सान्त्वपूर्वमिदं वाक्यं बभाषे मधुरं हरिः ॥ १,९.३२ ॥ भवान् धाता विधाता च स्वयंभूः प्रपितामहः । न मात्सर्याभियोगेन द्वाराणि पिहितानि मे ॥ १,९.३३ ॥ किन्तु लीलार्थमेवैतन्न त्वां बाधितुमिच्छया । को हि बाधितुमन्विच्छेद्देवदेवं पितामहम् ॥ १,९.३४ ॥ न तेऽन्यथावगन्तव्यं मान्यो मे सर्वथा भवान् । सर्वमन्वय कल्याणं यन्मयापहृतं तव ॥ १,९.३५ ॥ अस्माच्च कारणाद्ब्रह्मन् पुत्रो भवतु मे भवान् । पद्मयोनिरिति ख्यातो मत्प्रियार्थं जगन्मय ॥ १,९.३६ ॥ ततः स भगवान् देवो वरं दत्त्वा किरीटिने । प्रहर्षमतुलं गत्वा पुनर्विष्णुमभाषत ॥ १,९.३७ ॥ भवान् सर्वात्मकोऽनन्तः सर्वेषां परमेश्वरः । सर्वभूतान्तरात्मा वै परं बह्म सनातनम् ॥ १,९.३८ ॥ अहं वै सर्वलोकानामात्मा लोकमहेश्वरः । मन्मयं सर्वमेवेदं ब्रह्माहं पुरुषः परः ॥ १,९.३९ ॥ नावाभ्यां विद्यते ह्यन्यो लोकानां परमेश्वरः । एका मूर्तिर्द्विधा भिन्ना नारायणपितामहौ ॥ १,९.४० ॥ तेनैवमुक्तो ब्रह्माणं वासुदेवोऽब्रवीदिदम् । इयं प्रतिज्ञा भवतो विनाशाय भविष्यति ॥ १,९.४१ ॥ किं न पश्यसि योगेशं ब्रह्माधिपतिमव्ययम् । प्रधानपुरुषेशानं वेदाहं परमेश्वरम् ॥ १,९.४२ ॥ यं न पश्यन्ति योगीन्द्राः सांख्या अपि महेश्वरम् । अनादिनिधनं ब्रह्म तमेव शरणं व्रज ॥ १,९.४३ ॥ ततः क्रुद्धोऽम्बुजाभाक्षं ब्रह्मा प्रोवाच केशवम् । भवान्न नूनमात्मानं वेत्ति तत्परमक्षरम् ॥ १,९.४४ ॥ ब्रह्माणं जगतामेकमात्मानं परमं पदम् । नावाभ्यां विद्यते ह्यन्यो लोकानां परमेश्वरः ॥ १,९.४५ ॥ संत्यज्य निद्रां विपुलां स्वमात्मानं विलोकय । तस्य तत्क्रोधजं वाक्यं श्रुत्वा विष्णुरभाषत ॥ १,९.४६ ॥ मा मैवं वद कल्याण परिवादं महात्मनः । न मेऽस्त्यविदितं ब्रह्मन्नान्यथाहं वदामिते ॥ १,९.४७ ॥ किन्तु मोहयति ब्रह्मन् भवन्तं पारमेश्वरी । मायाशेषविशेषाणां हेतुरात्मसमुद्भावा ॥ १,९.४८ ॥ एतावदुक्त्वा भगवान् विष्णुस्तूष्णीं बभूव ह । ज्ञात्वा तत्परमं तत्त्वं स्वमात्मानं महेश्वरम् ॥ १,९.४९ ॥ कुतोऽप्यपरिमेयात्मा भूतानां परमेश्वरः । प्रसादं ब्रह्मणे कर्तुं प्रादुरासीत्ततो हरः ॥ १,९.५० ॥ ललाटनयनोऽनन्तो जटामण्डलमण्डितः । त्रिशूलपाणिर्भगवांस्तेजसां परमो निधिः ॥ १,९.५१ ॥ दिव्यां विशालां ग्रथितां ग्रहैः सार्केन्दुतारकैः । मालामत्यद्भुताकारां धारयन् पादलम्बिनीम् ॥ १,९.५२ ॥ तं दृष्ट्वा देवमीशानं ब्रह्मा लोकपितामहः । मोहितो माययात्यर्थं पीतवाससमब्वीत् ॥ १,९.५३ ॥ क एष पुरुषोऽनन्तः शूलपाणिस्त्रिलोचनः । तेजोराशिरमेयात्मा समायाति जनार्दन ॥ १,९.५४ ॥ तस्य तद्वचनं श्रुत्वा विष्णुर्दानवमर्दनः । अपश्यदीश्वरं देवं ज्वलन्तं विमलेऽम्भसि ॥ १,९.५५ ॥ ज्ञात्वा तत्परमं भावमैश्वरं ब्रह्मभावनम् । प्रोवाचोत्थाय भगवान् देवदेवं पितामहम् ॥ १,९.५६ ॥ अयं देवो महादेवः स्वयञ्ज्योतिः सनातनः । अनादिनिधनोऽचिन्त्यो लोकानामीश्वरो महान् ॥ १,९.५७ ॥ शङ्करः शंभुरीशानः सर्वात्मा परमेश्वरः । भूतानामधिपो योगी महेशो विमलः शिवः ॥ १,९.५८ ॥ एष धाता विधाता च प्रधानपुरुषेश्वरः । यं प्रपश्यन्ति यतयो ब्रह्मभावेन भाविताः ॥ १,९.५९ ॥ सृजत्येष जगत्कृत्स्नं पाति संहरते तथा । कालो भूत्वा महादेवः केवलो निष्कलः शिवः ॥ १,९.६० ॥ ब्रह्माणं विदधे पूर्वं भवन्तं यः सनातनः । वेदांश्च प्रददौ तुभ्यं सोऽयमायाति शङ्करः ॥ १,९.६१ ॥ अस्यैव चापरां मूर्ति विश्वयोनिं सनातनीम् । वासुदेवाभिधानां मामवेहि प्रपितामह ॥ १,९.६२ ॥ किं न पश्यसि योगेशं ब्रह्माधिपतिमव्ययम् । दिव्यं भवतु ते चक्षुर्येन द्रक्ष्यसि तत्परम् ॥ १,९.६३ ॥ लब्ध्वा शैवं तदा चक्षुर्विष्णोर्लोकपितामहः । बुबुधे परमेशानं पुरतः समवस्थितम् ॥ १,९.६४ ॥ स लब्ध्वा परमं ज्ञानमैश्वरं प्रपितामहः । प्रपेदे शरणं देवं तमेव पितरं शिवम् ॥ १,९.६५ ॥ ओङ्कारं समनुस्मृत्य संस्तभ्यात्मानमात्मना । अथर्वशिरसा देवं तुष्टाव च कृताञ्जलिः ॥ १,९.६६ ॥ संस्तुतस्तेन भगवान् ब्रह्मणा परमेश्वरः । अवाप परमां प्रीतिं व्याजहार स्मयन्निव ॥ १,९.६७ ॥ मत्समस्त्वं न संदेहो मद्भक्तश्च यतो भवान् । मयैवोत्पादितः पूर्वं लोकसृष्ट्यर्थमव्ययम् ॥ १,९.६८ ॥ त्वमात्मा ह्यादिपुरुषो मम देहसमुद्भवः । वरं वरय विश्वात्मन् वरदोऽहं तवानघ ॥ १,९.६९ ॥ स देवदेववचनं निशम्य कमलोद्भवः । निरीक्ष्य विष्णुं पुरुषं प्रणम्याह वृषध्वजम् ॥ १,९.७० ॥ भगवन् भूतभव्येश महादेवाम्बिकापते । त्वामेव पुत्रमिच्छामि त्वया वा सदृशं सतम् ॥ १,९.७१ ॥ मोहितोऽस्मि महादेव मायया सूक्ष्मया त्वया । न जाने परमं भावं याथातथ्येन ते शिव ॥ १,९.७२ ॥ त्वमेव देव भक्तानां भ्राता माता पिता सुहृत् । प्रसीद तव पादाब्जं नमामि शरणं गतः ॥ १,९.७३ ॥ स तस्य वचनं श्रुत्वा जगन्नाथो वृषध्वजः । व्याजहार तदा पुत्रं समालोक्य जनार्दनम् ॥ १,९.७४ ॥ यदर्थितं भगवता तत्करिष्यामि पुत्रक । विज्ञानमैश्वरं दिव्यमुत्पत्स्यति तवानघ ॥ १,९.७५ ॥ त्वमेव सर्वभूतानामादिकर्ता नियोजितः । तथा कुरुष्व देवेश मया लोकपितामह ॥ १,९.७६ ॥ एष नारायणोऽनन्तो ममैव परमा तनुः । भविष्यति तवेशानो योगक्षेमवहो हरिः ॥ १,९.७७ ॥ एवं व्याहृत्य हस्ताभ्यां प्रीतात्मा परमेश्वरः । संस्पृश्य देवं ब्रह्माणं हरिं वचनमब्रवीत् ॥ १,९.७८ ॥ तृष्टोऽस्मि सर्वथाहन्ते भक्त्या तव जगन्मय । वरं वृणीष्वं नह्यावां विभिन्नौ परमार्थतः ॥ १,९.७९ ॥ श्रुत्वाथ देववचनं विष्णुर्विश्वजगन्मयः । प्राह प्रसन्नया वाचा समालोक्य चतुर्मुखम् ॥ १,९.८० ॥ एष एव वरः श्लोघ्यो यदहं परमेश्वरम् । पश्यामि परमात्मानं भक्तिर्भवतु मे त्वयि ॥ १,९.८१ ॥ तथेत्युक्त्वा महादेवः पुनर्विष्णुमभाषत । भवान् सर्वस्य कार्यस्य कर्ताहऽमधिदैवतम् ॥ १,९.८२ ॥ मन्मयं त्वन्मयं चैव सर्वमेतन्न संशयः । भवान् सोमस्त्वहं सूर्यो भवान् रात्रिरहं दिनम् ॥ १,९.८३ ॥ भवान् प्रकृतिरव्यक्तमहं पुरुष एव च । भवान् ज्ञानमहं ज्ञाता भवान्मायाहमीश्वरः ॥ १,९.८४ ॥ भवान् विद्यात्मिका शक्तिः शक्तिमानहमीश्वरः । योऽहं सुनिष्कलो देवः सोऽपि नारायणः परः ॥ १,९.८५ ॥ एकीभावेन पश्यन्ति योगिनो ब्रह्मवादिनः । त्वामनाश्रित्य विश्वात्मन्न योगी मामुपैष्यति । पालयैतज्जगत्कृत्स्नं सदेवासुरमानुषम् ॥ १,९.८६ ॥ इतीदमुक्त्वा भगवाननादिः स्वमायया मोहितभूतभेदः । जगाम जन्मर्धिविनाशहीनं धामैकमव्यक्तमनन्तशक्तिः ॥ १,९.८७ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे नवमोऽध्यायः _____________________________________________________________ श्रीकूर्म उवाच गते महेश्वरे देवे स्वाधिवासं पितामहः । तदेव सुमहत्पद्मं भेजे नाभिसमुत्थितम् ॥ १,१०.१ ॥ अथ दीर्घेण कालेन तत्राप्रतिमपौरुषौ । महासुरौ समायातौ भ्रातरौ मधुकैटभौ ॥ १,१०.२ ॥ क्रोधेन महताविष्टौ महापर्वतविग्रहौ । कर्णान्तरसमुद्भूतौ देवदेवस्य शार्ङ्गिणः ॥ १,१०.३ ॥ तावागतौ समीक्ष्याह नारायणमजो विभुः । त्रैलोक्यकण्टकावेतावसुरौ हन्तुमर्हसि ॥ १,१०.४ ॥ तस्य तद्वचनं श्रुत्वा हरिर्नारायणः प्रभुः । आज्ञापयामास तयोर्वधार्थं पुरुषावुभौ ॥ १,१०.५ ॥ तदाज्ञया महद्युद्धं तयोस्ताभ्यामभूद्द्विजाः । व्यनयत्कैटभं विष्णुर्जिष्णुश्च व्यनयन्मधुम् ॥ १,१०.६ ॥ ततः पद्मासनासीनं जगन्नाथं पितामहम् । बभाषे मधुरं वाक्यं स्नेहाविष्टमना हरिः ॥ १,१०.७ ॥ अस्मान्मयोच्यमानस्त्वं पद्मादवतर प्रभो । नाहं भवन्तं शक्नोमि वोढुं तेजामयं गुरुम् ॥ १,१०.८ ॥ ततोऽवतीर्य विश्वात्मा देहमाविश्य चक्रिणः । अवाच वैष्णवीं निद्रामेकीभूयाथ विष्णुना ॥ १,१०.९ ॥ सहस्त्रशीर्षनयनः शङ्खचक्रगदाधरः । ब्रह्मा नारायणाख्योऽसौ सुष्वाप सलिले तदा ॥ १,१०.१० ॥ सोऽनुभूय चिरं कालमानन्दं परमात्मनः । अनाद्यनन्तमद्वैतं स्वात्मानं ब्रह्मसंज्ञितम् ॥ १,१०.११ ॥ ततः प्रभाते योगात्मा भूत्वा देवश्चतुर्मुखः । ससर्ज सृष्टिं तद्रूपां वैष्णवं भावमाश्रितः ॥ १,१०.१२ ॥ पुरस्तादसृजद्देवः सनन्दं सनकं तथा । ऋभुं सनत्कुमारं च पुर्वजं तं सनातनम् ॥ १,१०.१३ ॥ ते द्वन्द्वमोहनिर्मुक्ताः परं वैराग्यमास्थिताः । विदित्वा परमं भावं न सृष्टौ दधिरे मतिम् ॥ १,१०.१४ ॥ तेष्वेवं निरपेक्षेषु लोकसृष्टौ पितामहः । बभूव नष्टचेता वै मायया परमेष्ठिनः ॥ १,१०.१५ ॥ ततः पुराणपुरुषो जगन्मूर्तिर्जनार्दनः । व्याजहारात्मनः पुत्रं मोहनाशाय पद्मजम् ॥ १,१०.१६ ॥ विष्णुरुवाच कच्चिन्न विस्मृतो देवः शूलपाणिः सनातनः । यदुक्तवानात्मनोऽसौ पुत्रत्वे तव शङ्करः ॥ १,१०.१७ ॥ अवाप्य संज्ञां गोविन्दात्पद्मयोनिः पितामहः । प्रजाः स्त्रष्टुमनास्तेपे तपः परमदुश्चरम् ॥ १,१०.१८ ॥ तस्यैवं तप्यमानस्य न किञ्चित्समवर्तत । ततो दीर्घेण कालेन दुः खात्क्रोधोऽभ्यजायत ॥ १,१०.१९ ॥ क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः । ततस्तेभ्योऽश्रुबिन्दुभ्यो भूताः प्रेतास्तथाभवन् ॥ १,१०.२० ॥ सर्वांस्तानश्रुजान् दृष्ट्वा ब्रह्मात्मानमनिन्दन । जहौ प्राणांश्च भगवान् क्रोधाविष्टः प्रजापतिः ॥ १,१०.२१ ॥ तदा प्राणमयो रुद्रः प्रादुरसीत्प्रभीर्मुखात् । सहस्त्रादित्यसंकाशो युगान्तदहनोपमः ॥ १,१०.२२ ॥ रुरोद सुस्वरं घोरं देवदेवः स्वयं शिवः । रोदमानं ततो ब्रह्मा मा रोदीरित्यभाषत । रोदनाद्रुद्र इत्येवं लोके ख्यातिं गमिष्यसि ॥ १,१०.२३ ॥ अन्यानि सप्त नामानि पत्नीः पुत्रांश्चशाश्वतान् । स्थानानि चैषामष्टानां ददौ लोकपितामहः ॥ १,१०.२४ ॥ भवः शर्वस्तथेशानः पशूनां पतिरेव च । भीमश्चोग्रो महादेवस्तानि नामानि सप्त वै ॥ १,१०.२५ ॥ सूर्यो जलं मही वह्निर्वायुराकाशमेव च । दीक्षितो ब्राह्मणश्चन्द्र इत्येता अष्टमूर्तयः ॥ १,१०.२६ ॥ स्थानेष्वेतेषु ये रुद्रं ध्यायन्ति प्रणमन्ति च । तेषामष्टतनुर्देवो ददाति परमं पदम् ॥ १,१०.२७ ॥ सुवर्चला तथैवोमा विकेशी च तथा शिवा । स्वाहा दिशश्च दीक्षा च रोहिणी चेति पत्नयः ॥ १,१०.२८ ॥ शनैश्चरस्तथा शुक्रो लोहिताङ्गो मनोजवः । स्कन्दः सर्गोऽथ सन्तानो बुधश्चैषां सुताः स्मृताः ॥ १,१०.२९ ॥ एवंप्रकारो भगवान् देवदेवो महेश्वरः । प्रजाधर्मं च काम च त्यक्त्वा वैराग्यमाश्रितः ॥ १,१०.३० ॥ आत्मन्याध्य चात्मानमैश्वरं भावमास्थितः । पीत्वा तदक्षरं ब्रह्म शाश्वतं परमामृतम् ॥ १,१०.३१ ॥ प्रजाः सृजेति चादिष्टो ब्रह्मणा नीललोहितः । स्वात्मना सदृशान् रुद्रान् ससर्ज मनसा शिवः ॥ १,१०.३२ ॥ कपर्दिनो निरातङ्कान्नीलकण्ठान् पिनाकिनः । त्रिशूलहस्तानृष्टिघ्नान्महानन्दांस्त्रिलोचनान् ॥ १,१०.३३ ॥ जरामरणनिर्मुक्तान्महावृषभवाहनान् । वीतरागांश्च सर्वज्ञान् कोटिकोटिशतान् प्रभुः ॥ १,१०.३४ ॥ तान् दृष्ट्वा विविधान् रुद्रान निर्मलान्नीललोहितान् । जरामरणनिर्मुक्तान् व्याजहरा हरं गुरुः ॥ १,१०.३५ ॥ मा स्त्राक्षीरीदृशीर्देव प्रजा मृत्युविवर्जिताः । अन्याः सृजस्व भूतेश जन्ममृत्युसमन्विताः ॥ १,१०.३६ ॥ ततस्तमाह भगवान् कपर्दे कामशासनः । नास्ति मे तादृशः सर्गः सृज त्वमशुभाः प्रजाः ॥ १,१०.३७ ॥ ततः प्रभृति देवोऽसौ न प्रसूतेऽशुभाः प्रजाः । स्वात्मजैरेव तै रुद्रैर्निवृत्तात्मा ह्यतिष्ठत । स्थाणुत्वं तेन तस्यासीद्देवदेवस्य शूलिनः ॥ १,१०.३८ ॥ ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः । स्त्रष्टृत्वमात्मसंबोधो ह्यधिष्ठातृत्वमेव च ॥ १,१०.३९ ॥ अव्ययानि दशैतानि नित्यं तिष्ठन्ति शङ्करे । स एव शङ्करः साक्षात्पिनाकी परमेश्वरः ॥ १,१०.४० ॥ ततः स भगवान् ब्रह्मा वीक्ष्य देवं त्रिलोचनम् । सहैव मानसैः पुत्रैः प्रीतिविस्फारिलोचनः ॥ १,१०.४१ ॥ ज्ञात्वा परतरं भावमैश्वरं ज्ञानचक्षुषा । तुष्टाव जगतामेकं कृत्वा शिरसि चाञ्जलिम् ॥ १,१०.४२ ॥ ब्रह्मोवाच नमस्तेऽस्तु महादेव नमस्ते परमेश्वर । नमः शिवाय देवाय नमस्ते ब्रह्मरूपिणे ॥ १,१०.४३ ॥ नमोऽस्तु ते महेशाय नमः शान्ताय हेतवे । प्रधानपुरुषेशाय योगाधिपतये नमः ॥ १,१०.४४ ॥ नमः कालाय रुद्राय महाग्रासाय शूलिने । नमः पिनाकहस्ताय त्रिनेत्राय नमो नमः ॥ १,१०.४५ ॥ नमस्त्रिमूर्तये तुभ्यं ब्रह्मणो जनकाय ते । ब्रह्मविद्याधिपतये ब्रह्मविद्याप्रदायिने ॥ १,१०.४६ ॥ नमो वेदरहस्याय कालकालाय ते नमः । वेदान्तसारसाराय नमो वेदात्ममूर्तये ॥ १,१०.४७ ॥ नमो बुद्धाय शुद्धाय योगिनां गुरवे नमः । प्रहीणशोकैर्विविधैर्भूतैः वरिवृताय ते ॥ १,१०.४८ ॥ नमो ब्रह्मण्यदेवाय ब्रह्माधिपतये नमः । त्रियम्बकाय देवाय नमस्ते परमेष्ठिने ॥ १,१०.४९ ॥ नमो दिग्वाससे तुभ्यं नमो मुण्डाया दण्डिने । अनादिमलहीनाय ज्ञानगम्याय ते नमः ॥ १,१०.५० ॥ नमस्ताराय तीर्थाय नमो योगर्धिहेतवे । नमो धर्माधिगम्याय योगगम्याय ते नमः ॥ १,१०.५१ ॥ नमस्ते निष्प्रपञ्चाय निराभासाय ते नमः । ब्रह्मणे विश्वरूपाय नमस्ते परमात्मने ॥ १,१०.५२ ॥ त्वयैव सृष्टमखिलं त्वय्येव सकलं स्थितम् । त्वया संह्रियते विश्वं प्रधानाद्यं जगन्मय ॥ १,१०.५३ ॥ त्वमीश्वरो महादेवः परं ब्रह्म महेश्वरः । परमेष्ठी शिवः शान्तः पुरुषो निष्कलो हरः ॥ १,१०.५४ ॥ त्वमक्षरं परं ज्योतिस्त्वं कालः परमेश्वरः । त्वमेव पुरुषोऽनन्तः प्रधानं प्रकृतिस्तथा ॥ १,१०.५५ ॥ भूमिरापोऽनलो वायुर्व्योमाहङ्कार एव च । यस्य रूपं नमस्यामि भवन्तं ब्रह्मसंज्ञितम् ॥ १,१०.५६ ॥ यस्य द्यौरभवन्मूर्धा पादौ पृथ्वी दिशो भुजाः । आकाशमुदरं तस्मै विराजे प्रणमाम्यहम् ॥ १,१०.५७ ॥ संतापयति यो विश्वं स्वभाभिर्भासयन् दिशः । ब्रह्मतेजोमयं नित्यं तस्मै सूर्यात्मने नमः ॥ १,१०.५८ ॥ हव्यं वहति यो नित्यं रौद्री तेजोमयो तनुः । कव्यं पितृगणानां च तस्मै वह्न्यात्मने नमः ॥ १,१०.५९ ॥ आप्यायति यो नित्यं स्वधाम्ना सकलं जगत् । पीयते देवतासङ्घैस्तस्मै सोमात्मने नमः ॥ १,१०.६० ॥ विभर्त्यशेषभूतानि योऽन्तश्चरति सर्वदा । शक्तिर्माहेश्चरी तुभ्यं तस्मै वाय्वात्मने नमः ॥ १,१०.६१ ॥ सृजत्यशेषमेवेदं यः स्वकर्मानुरूपतः । स्वात्मन्यवस्थितस्तस्मै चतुर्वक्त्रात्मने नमः ॥ १,१०.६२ ॥ यः शेषशयने शेते विश्वमावृत्य मायया । स्वात्मानुभूतियोगेन तस्मै विश्वात्मने नमः ॥ १,१०.६३ ॥ विभर्ति शिरसा नित्यं द्विसप्तभुवनात्मकम् । ब्रह्माण्डं योऽखिलाधारस्तस्मै शेषात्मने नमः ॥ १,१०.६४ ॥ यः परान्ते परानन्दं पीत्वा दिव्यैकसाक्षिकम् । नृत्यत्यनन्तमहिमा तस्मै रुद्रात्मने नमः ॥ १,१०.६५ ॥ योऽन्तरा सर्वभूतानां नियन्ता तिष्ठतीश्वरः । तं सर्वसाक्षिणं देवं नमस्ये भवतस्तनुम् ॥ १,१०.६६ ॥ यं विनिन्द्रा जितश्वासाः संतुष्टाः समदर्शिनः । ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥ १,१०.६७ ॥ यया संतरते मायां योगी संक्षीणकल्मषः । अपारतरपर्यन्तां तस्मै विद्यात्मने नमः ॥ १,१०.६८ ॥ यस्य भासा विभातीदमद्वयं तमसः परम् । प्रपद्ये तत्परं तत्त्वं तद्रूपं परमेश्वरम् ॥ १,१०.६९ ॥ नित्यानन्दं निराधारं निष्कलं परमं शिवम् । प्रपद्ये परमात्मानं भवन्तं परमेश्वरम् ॥ १,१०.७० ॥ एवं स्तुत्वा महादेवं ब्रह्मा तद्भावभावितः । प्राञ्जलिः प्रणतस्तस्थौ गृणन् ब्रह्म सनातनम् ॥ १,१०.७१ ॥ ततस्तस्मै महादेवो दिव्यं योगमनुत्तमम् । ऐश्वर्यं ब्रह्मसद्भावं वैराग्यं च ददौ हरः ॥ १,१०.७२ ॥ कराभ्यां सुशुभाभ्यां च संस्पृश्य प्रणतार्तिहा । व्याजहरा स्वयं देवः सोऽनुगृह्य पितामहम् ॥ १,१०.७३ ॥ यत्त्वयाभ्यर्थितं ब्रह्मन् पुत्रत्वे भवतो मम । कृतं मया तत्सकलं सृजस्व विविधं जगत् ॥ १,१०.७४ ॥ त्रिधा भिन्नोऽस्म्यहं ब्रह्मन् ब्रह्मविष्णुहराख्यया । सर्गरक्षालयगुणैर्निष्कलः परमेश्वरः ॥ १,१०.७५ ॥ स त्वं ममाग्रजः पुत्रः सृष्टिहेतोर्विनिर्मितः । ममैव दक्षिणादङ्गाद्वामाङ्गात्पुरुषोत्तमः ॥ १,१०.७६ ॥ तस्य देवादिदेवस्य शंभोर्हृदयदेशतः । संबभूवाथ रुद्रोऽसावहं तस्यापरा तनुः ॥ १,१०.७७ ॥ ब्रह्मविष्णुशिवा ब्रह्मन् सर्गस्थित्यन्तहेतवः । विभज्यात्मानमेकोऽपि स्वेच्छया शङ्करः स्थितः ॥ १,१०.७८ ॥ तथान्यानि च रूपाणि मम मायाकृतानि तु । निरूपः केवलः स्वच्छो महादेवः स्वभावतः ॥ १,१०.७९ ॥ एभ्यः परतरो देवस्त्रिमूर्तिः परमा तनुः । माहेश्वरी त्रिनयना योगिनां शान्तिदा सदा ॥ १,१०.८० ॥ तस्या एव परां मूर्ति मामवेहि पितामह । शाश्वतैश्वर्यविज्ञानतेजोयोगसमन्विताम् ॥ १,१०.८१ ॥ सोऽहं ग्रसामि सकलमधिष्ठाय तमोगुणम् । कालो भूत्वा न तमसा मामन्योऽभिभविष्यति ॥ १,१०.८२ ॥ यदा यदा हि मां नित्यं विचिन्तयसि पद्मज । तदा तदा मे सान्निध्यं भविष्यति तवानघ ॥ १,१०.८३ ॥ एतावदुक्त्वा ब्रह्माणं सोऽभिवन्द्य गुरुं हरः । सहैव मानसैः पुत्रैः क्षणादन्तरधीयत ॥ १,१०.८४ ॥ सोऽपि योगं समास्थाय ससर्ज विविधं जगत् । नारायणाख्यो भगवान् यथापूर्वं प्रिजापतिः ॥ १,१०.८५ ॥ मरीचिभृग्वङ्गिरसं पुलस्त्यं पुलहं क्रतुम् । दक्षमत्रिं वसिष्ठं च सोऽसृजद्योगविद्यया ॥ १,१०.८६ ॥ नव ब्रह्माण इत्येते पुराणे निश्चयं गताः । सर्वे ते ब्रह्मणा तुल्याः साधका ब्रह्मवादिनः ॥ १,१०.८७ ॥ संकल्पं चैव धर्मं च युगधर्मांश्च शाश्वतान् । स्थानाभिमानिनः सर्वान् यथा ते कथितं पुरा ॥ १,१०.८८ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे देशमोऽध्यायः _____________________________________________________________ श्रीकूर्म उवाच एवं सृष्ट्वा परीच्यादीन् देवदेवः पितामहः । सहैव मानसैः पुत्रैस्तताप परमं तपः ॥ १,११.१ ॥ तस्यैवं तपतो वक्त्राद्रुद्रः कालाग्निसन्निभः । त्रिशूलपाणिरीशानः प्रदुरासीत्त्रिलोचनः ॥ १,११.२ ॥ अर्धनारीनरवपुः दुष्प्रेक्ष्योऽतिभयङ्करः । विभजात्मानमित्युक्त्वा ब्रह्मा चान्तर्दधे भयात् ॥ १,११.३ ॥ तथोक्तोऽसौ द्विधा स्त्रीत्वं पुरुषत्वमथाकरोत् । बिभेद पुरुषत्वं च दशधा चैकधा पुनः ॥ १,११.४ ॥ एकादशैते कथिता रुद्रास्त्रिभुवनेश्वराः । कपालोशादयो विप्रा देवकार्ये नियोजिताः ॥ १,११.५ ॥ सौम्यासौम्यैस्तथा शान्ताशान्तैः स्त्रीत्वं च स प्रभुः । बिभेद बहुधा देवः स्वरूपैरसितैः सितैः ॥ १,११.६ ॥ ता वै विभूतयो विप्रा विश्रुताः शक्तयो भुवि । लक्ष्म्यादयो याभिरीशा विश्वंव्याप्नोति शाङ्करी ॥ १,११.७ ॥ विभज्य पुररीशानी स्वात्मानं शङ्कराद्विभोः । महादेवनियोगेन पितामहमुपस्थिता ॥ १,११.८ ॥ तामाह भगवान् ब्रह्मा दक्षस्य दुहिता भव । सापि तस्य नियोगेन प्रादुरासीत्प्रजापतेः ॥ १,११.९ ॥ नियोगाद्ब्रह्मणो देवीं ददौ रुद्राय तां सतीम् । दक्षाद्रुद्रोऽपि जग्राह स्वकीयामेव शूलभृत् ॥ १,११.१० ॥ प्रजापतिं विनिन्द्यैषा कालेन परमेश्वरी । मेनायामभवत्पुत्री तदा हिमवतः सती ॥ १,११.११ ॥ स चापि पर्वतवरो ददौ रुद्राय पार्वतीम् । हिताय सर्वदेवानां त्रिलोकस्यात्मनोऽपि च ॥ १,११.१२ ॥ सैषा माहेश्वरी देवी शङ्करार्धशरीरिणी । शिवा सती हैमवती सुरासुरनमस्कृता ॥ १,११.१३ ॥ तस्याः प्रभावमतुलं सर्वे देवाः सवासवाः । विन्दन्ति मुनयो वेत्ति शङ्करो वा स्वयं हरिः ॥ १,११.१४ ॥ एतद्वः कथितं विप्राः पुत्रत्वं परमेष्ठिनः । ब्रह्मणः पद्मयोनित्वं शङ्करस्यामितौजसः ॥ १,११.१५ ॥ सूत उवाच इत्याकर्ण्याथ मुनयः कूर्मरूपेण भाषितम् । विष्णुना पुनरेवैनं प्रणता हरिम् ॥ १,११.१६ ॥ ऋषय ऊचुः कैषा भगवती देवी शङ्करार्धशरीरिणी । शिवा सती हैमवती यथावद्ब्रूहि पृच्छताम् ॥ १,११.१७ ॥ तेषां तद्वचनं श्रुत्वा मुनीनां पुरुषोत्तमः । प्रत्युवाच महायोगी ध्यात्वा स्वं परमं पदम् ॥ १,११.१८ ॥ श्रीकूर्म उवाच पुरा पितामहेनोक्तं मेरुपृष्ठे सुशोभनम् । रहस्यमेतद्विज्ञानं गोपनीयं विशेषतः ॥ १,११.१९ ॥ सांख्यानां परमं सांख्यं ब्रह्मविज्ञानमुत्तमम् । संसारार्णवमग्नानां जन्तूनामेकमोचनम् ॥ १,११.२० ॥ या सा माहेश्वरी शक्तिर्ज्ञानरूपातिलालसा । व्योमसंज्ञा परा काष्ठा सेयं हैमवती मता ॥ १,११.२१ ॥ शिवा सर्वगतानान्ता गुणातीता सुनिष्कला । एकानेकविभागस्था ज्ञानरूपातिलालसा ॥ १,११.२२ ॥ अनन्या निष्कले तत्त्वे संस्थिता तस्य तेजसा । स्वाभाविकी च तन्मूला प्रभा भानोरिवामला ॥ १,११.२३ ॥ एका माहेश्वरी शक्तिरनेकोपाधियोगतः । परावरेण रूपेण क्रीडते तस्य सन्निधौ ॥ १,११.२४ ॥ सेयं करोति सकलं तस्याः कार्यमिदं जगत् । न कार्यं नापि करणमीश्वरस्येति सूरयः ॥ १,११.२५ ॥ चतस्त्रः शक्तयो देव्याः स्वरूपत्वेन संस्थिताः । अधिष्ठानवशात्तस्याः शृणुध्वं मुनिपुङ्गवाः ॥ १,११.२६ ॥ शान्तिर्विद्या प्रतिष्ठा च निवृत्तिश्चेतिताः स्मृतः । चतुर्व्यूहस्ततो देवः प्रोच्यते परमेश्वरः ॥ १,११.२७ ॥ अनया परया देवः स्वात्मानन्दं समश्नुते । चतुर्ष्वपि च वेदेषु चतुर्मूर्तिर्महेश्वरः ॥ १,११.२८ ॥ अस्यास्त्वनादिसंसिद्धमैश्वर्यमतुलं महत् । तत्सम्बन्धादनन्ताया रुद्रेण परमात्मना ॥ १,११.२९ ॥ सैषा सर्वेश्वरी देवी सर्वभूतप्रवर्तिका । प्रोच्यते भगवान् कालो हरिः प्राणो महेश्वरः ॥ १,११.३० ॥ तत्र सर्वमिदं प्रोतमोतं चैवाखिलं जगत् । स कालोऽग्निर्हरो रुद्रो गीयते वेदवादिभिः ॥ १,११.३१ ॥ कालः सृजति भूतानि कालः संहरते प्रजाः । सर्वे कालस्य वशगा न कालः कस्यचिद्वशे ॥ १,११.३२ ॥ प्रधानं पुरुषस्तत्त्वं महानात्मा त्वहङ्कृतिः । कालेनान्यानि तत्त्वानि समाविष्टानि योगिना ॥ १,११.३३ ॥ तस्य सर्वजगत्सूतिः शक्तिर्मायेति विश्रुता । तयेदं भ्रामयेदीशो मायावी पुरुषोत्तमः ॥ १,११.३४ ॥ सैषा मायात्मिका शक्तिः सर्वाकारा सनातनी । वैश्वरूप्यं महेशस्य सर्वदा संप्रकाशयेत् ॥ १,११.३५ ॥ अन्याश्च शक्तयो मुख्यास्तस्य देवस्य निर्मिताः । ज्ञानशक्तिः क्रियाशक्तिः प्राणशक्तिरिति त्रयम् ॥ १,११.३६ ॥ सर्वासामेव शक्तीनां शक्तिमन्तो विनिर्मिताः । माययैवाथ विप्रेन्द्राः सा चानादिरनन्तया ॥ १,११.३७ ॥ सर्वशक्त्यात्मिका माया दुर्निवारा दुरत्यया । मायावी सर्वशक्तीशः कालः कालकारः प्रभुः ॥ १,११.३८ ॥ करोति कालः सकलं संहरेत्काल एव हि । कालः स्थापयते विश्वं कालाधीनमिदं जगत् ॥ १,११.३९ ॥ लब्ध्वा देवाधिदेवस्य सन्निधिं परमेष्ठिनः । अनन्तस्याखिलेशस्य शंभोः कालात्मनः प्रभोः ॥ १,११.४० ॥ प्रधानं पुरुषो माया माया चैवं प्रपद्यते । एका सर्वगतानन्ता केवला निष्कला शिवा ॥ १,११.४१ ॥ एका शक्तिः शिवैकोऽपि शक्तिमानुच्यते शिवः । शक्तयः शक्तिमन्तोऽन्ये सर्वशक्तिसमुद्भवाः ॥ १,११.४२ ॥ शक्तिशक्तिमतोर्भेदं वदन्ति परमार्थतः । अभेदं चानुपश्यन्ति योगिनस्तत्त्वचिन्तकाः ॥ १,११.४३ ॥ शक्तयो गिरजा देवी शक्तिमन्तोऽथ शङ्करः । विशेषः कथ्यते चायं पुराणे ब्रह्मवादिभिः ॥ १,११.४४ ॥ भोग्या विश्वेश्वरी देवी महेश्वरपतिव्रता । प्रोच्यते भगवान् भोक्ता कपर्दे नीललोहितः ॥ १,११.४५ ॥ मन्ता विश्वेश्वरो देवः शङ्करो मन्मथान्तकः । प्रोच्यते मतिरीशानी मन्तव्या च विचारतः ॥ १,११.४६ ॥ इत्येतदखिलं विप्राः शक्तिशक्तिमदुद्भवम् । प्रोच्यते सर्ववेदेषु मुनिभिस्तत्त्वदर्शिभिः ॥ १,११.४७ ॥ एतत्प्रदर्शितं दिव्यं देव्या माहात्म्यमुत्तमम् । सर्ववेदान्तवेदेषु निश्चितं ब्रह्मवादिभिः ॥ १,११.४८ ॥ एकं सर्वगतं सूक्ष्मं कूटस्थमचलं ध्रुवम् । योगिनस्तत्प्रपश्यन्ति महादेव्याः परं पदम् ॥ १,११.४९ ॥ आनन्दमक्षरं ब्रह्म केवलं निष्कलं परम् । योगिनस्तत्प्रपश्यन्ति महादेव्याः परं पदम् ॥ १,११.५० ॥ परात्परतरं तत्त्वं शाश्वतं शिवमच्युतम् । अनन्तप्रकृतौ लीनं देव्यास्तत्परमं पदम् ॥ १,११.५१ ॥ शुभं निरञ्जनं शुद्धं निर्गुणं द्वैतवर्जितम् । आत्मोपलब्धिविषयं देव्यास्तत्परमं पदम् ॥ १,११.५२ ॥ सैषा धात्री विधात्री च परमानन्दमिच्छताम् । संसारतापानखिलान्निहन्तीश्वरसंश्रया ॥ १,११.५३ ॥ तस्माद्विमुक्तिमन्विच्छन् पार्वतीं परमेश्वरीम् । आश्रयेत्सर्वभावानामात्मभूतां शिवात्मिकाम् ॥ १,११.५४ ॥ लब्ध्वा च पुत्रीं शर्वाणीं तपस्तप्त्वा सुदुश्चरम् । सभार्यः शरं यातः पार्वतीं परमेश्वरीम् ॥ १,११.५५ ॥ तां दृष्ट्वा जायमानां च स्वेच्छयैव वराननाम् । मेना हिमवतः पत्नी प्राहेदं पर्वतेश्वरम् ॥ १,११.५६ ॥ मेनोवाच पश्य बालामिमां राजन् राजीवसदृशाननाम् । हिताय सर्वभूतानां जाता च तपसावयोः ॥ १,११.५७ ॥ सोऽपि दृष्ट्वा ततः पुत्रीं तरुणादित्यसन्निभाम् । कपर्दिनीं चतुर्वक्त्रां त्रिनेत्रामतिलालसाम् ॥ १,११.५८ ॥ अष्टहस्तां विशालाक्षीं चन्द्रावयवभूषणाम् । निर्गुणां सगुणां साक्षात्सदसद्व्यक्तिवर्जिताम् ॥ १,११.५९ ॥ प्रणम्य शिरसा भूमौ तेजसा चातिविह्वलः । भीतः कृताञ्जलिस्तस्याः प्रोवाच परमेश्वरीम् ॥ १,११.६० ॥ हीमवानुवाच का त्वं देवि विशालाक्षि शशाङ्कावयवाङ्किते । न जाने त्वामहं वत्से यथावद्ब्रूहि पृच्छते ॥ १,११.६१ ॥ गिरीन्द्रवचनं श्रुत्वा ततः सा परमेश्वरी । व्याजहार महाशैलं योगिनामभयप्रदा ॥ १,११.६२ ॥ देव्युवाच मां विद्ध परमां शक्तिं परमेश्वरसमाश्रयाम् । अनन्यामव्ययामेकां यां पश्यन्ति मुमुक्षवः ॥ १,११.६३ ॥ अहं वै सर्वभावानात्मा सर्वान्तरा शिवा । शाश्वतैश्वर्यविज्ञानमूर्तिः सर्वप्रवर्तिका ॥ १,११.६४ ॥ अनन्तानन्तमहिमा संसारार्णवतारिणी । दिव्यं ददामि ते चक्षुः पश्य मे रूपमैश्वरम् ॥ १,११.६५ ॥ एतावदुक्त्वा विज्ञानं दत्त्वा हिमवते स्वयम् । स्वं रूपं दर्शयामास दिव्यं तत्पारमेश्वरम् ॥ १,११.६६ ॥ कोटिसूर्यप्रितीकाशं तेजोबिम्बं निराकुलम् । ज्वालामालासहस्त्राढ्यं कालानलशतोपमम् ॥ १,११.६७ ॥ दंष्ट्राकरालं दुर्धर्ष जटामण्डलमण्डितम् । त्रिशूलवरहस्तं च घोररूपं भयानकम् ॥ १,११.६८ ॥ प्रशान्तं सौम्यवदनमनन्ताश्चर्यसंयुतम् । चन्द्रावयवलक्ष्माणं चन्द्रकोटिसमप्रभम् ॥ १,११.६९ ॥ किरीटिनं गदाहस्तं नूपुरैरुपशोभितम् । दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ॥ १,११.७० ॥ शङ्खचक्रधरं काम्यं त्रिनेत्रं कृत्तिवाससम् । अण्डस्थं चाण्डबाह्यस्थं बाह्यमाभ्यन्तरं परम् ॥ १,११.७१ ॥ सर्वशक्तिमयं शुभ्रं सर्वाकारं सनातनम् । ब्रह्मोन्द्रोपेन्द्रयोगीन्द्रैर्वन्द्यमानपदाम्बुजम् ॥ १,११.७२ ॥ सर्वतः पाणिपादान्तं सर्वतोऽक्षिशिरोमुखम् । सर्वमावृत्य तिष्ठन्तं ददर्श परमेश्वरम् ॥ १,११.७३ ॥ दृष्ट्वा तदीदृशं रूपं देव्या माहेश्वरं परम् । भयेन च समाविष्टः स राजा हृष्टमानसः ॥ १,११.७४ ॥ आत्मन्याधाय चात्मानमोङ्कारं समनुस्मरन् । नाम्नामष्टसहस्त्रेण तुष्टाव परमेश्वरीम् ॥ १,११.७५ ॥ हीमवानुवाच शिवोमा परमा शक्तिरनन्ता निष्कलामला । शान्ता माहेश्वरी नित्या शाश्वती परमाक्षरा ॥ १,११.७६ ॥ अचिन्त्या केवलानन्त्या शिवात्मा परमात्मिका । अनादिरव्यया शुद्धा देवात्मा सर्वगाचला ॥ १,११.७७ ॥ एकानेकविभागस्था मायातीता सुनिर्मला । महामाहेश्वरी सत्या महादेवी निरञ्जना ॥ १,११.७८ ॥ काष्ठा सर्वान्तरस्था च चिच्छक्तिरतिलालसा । नन्दा सर्वात्मिका विद्या ज्योतीरूपामृताक्षरा ॥ १,११.७९ ॥ शान्तिः प्रतिष्ठा सर्वेषां निवृत्तिरमृतप्रदा । व्योममूर्तिर्व्योमलया व्योमाधाराच्युतामरा ॥ १,११.८० ॥ अनादिनिधनामोघा कारणात्मा कलाकला । क्रतुः प्रथमजा नाभिरमृतस्यात्मसंश्रया ॥ १,११.८१ ॥ प्राणेश्वरप्रिया माता महामहिषघातिनी । प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी ॥ १,११.८२ ॥ सर्वशक्तिकलाकारा ज्योत्स्ना द्योर्महिमास्पदा । सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी ॥ १,११.८३ ॥ अनादिरव्यक्तगुहा महानन्दा सनातनी । आकाशयोनिर्योगस्था महायोगेश्वरेश्वरी ॥ १,११.८४ ॥ महामाया सुदुष्पूरा मूलप्रकृतिरीश्वरी । संसारयोनिः सकला सर्वशक्तिसमुद्भवा ॥ १,११.८५ ॥ संसारपारा दुर्वारा दुर्निरोक्ष्या दुरासदा । प्राणशक्तिः प्रणविद्या योगिनी परमा कला ॥ १,११.८६ ॥ महाविभूतिर्दुर्धर्षा मूलप्रकृतिसंभवा । अनाद्यनन्तविभवा परार्था पुरुषारणिः ॥ १,११.८७ ॥ सर्गस्थित्यन्तकरणी सुदुर्वाच्या दुरत्यया । शब्दयोनिः शब्दमयी नादाख्या नादविग्रहा ॥ १,११.८८ ॥ प्रधानपुरुषातीता प्रधानपुरुषात्मिका । पुराणी चिन्मयी पुंसामादिः पुरुषरूपिणी ॥ १,११.८९ ॥ भूतान्तरात्मा कूटस्था महापुरुषसंज्ञिता । जन्ममृत्युजरातीता सर्वशक्तिसमन्विता ॥ १,११.९० ॥ व्यापिनी चानवच्छिन्ना प्रधानानुप्रवेशिनी । क्षेत्रज्ञशक्तिरव्यक्तलक्षणा मलवर्जिता ॥ १,११.९१ ॥ अनादिमायसंभिन्ना त्रितत्त्वा प्रकृतिर्गुहा । महामायासमुत्पन्ना तामसी पौरुषी ध्रुवा ॥ १,११.९२ ॥ व्यक्ताव्यक्तात्मिकाकृष्णा रक्ताशुक्ला प्रसूतिका । अकार्या कार्यजननी नित्यं प्रसवधर्मिणी ॥ १,११.९३ ॥ सर्गप्रलयनिर्मुक्ता सृष्टिस्थित्यन्तधर्मिणी । ब्रह्मगर्भा चतुर्विशा पद्मनाभाच्युतात्मिका ॥ १,११.९४ ॥ वैद्युती शाश्वती योनिर्जगन्मातेश्वरप्रिया । सर्वाधारा महारूपा सर्वैश्वर्यसमन्विता ॥ १,११.९५ ॥ विश्वरूपा महागर्भा विश्वेशेच्छानुवर्तिनी । महीयसी ब्रह्मयोनिर्महालक्ष्मीसमुद्भावा ॥ १,११.९६ ॥ महाविमानमध्यस्था महानिद्रात्महेतुका । सर्वसाधारणी सूक्ष्मा ह्यविद्या पारमार्थिका ॥ १,११.९७ ॥ अनन्तरूपानन्तस्था देवी पुरुषमोहिनी । अनेकाकारसंस्थाना कालत्रयविवर्जिता ॥ १,११.९८ ॥ ब्रह्मजन्मा हरेर्मूर्तिर्ब्रह्मविष्णुशिवात्मिका । ब्रह्मेशविष्णुजननी ब्रह्माख्या ब्रह्मसंश्रया ॥ १,११.९९ ॥ व्यक्ता प्रथमजा ब्राह्मी महती ज्ञानरूपिणी । वैराग्यैश्वर्यधर्मात्मा ब्रह्ममूर्तिर्हृदिस्थिता । अपांयोनिः स्वयंभूतिर्मानसी तत्त्वसंभवा ॥ १,११.१०० ॥ ईश्वराणी च शर्वाणी शङ्करार्धशरीरिणी । भवानी चैव रुद्राणी महालक्ष्मीरथाम्बिका ॥ १,११.१०१ ॥ महेश्वरसमुत्पन्ना भुक्तिमुक्तिफलप्रदा । सर्वेश्वरी सर्ववन्द्या नित्यं मुदितमानसा ॥ १,११.१०२ ॥ ब्रह्मेन्द्रोपेन्द्रनमिता शङ्करेच्छानुवर्तिनी । ईश्वरार्धासनगता महेश्वरपतिव्रता ॥ १,११.१०३ ॥ सकृद्विभाविता सर्वा समुद्रपरिशोषिणी । पार्वती हिमवत्पुत्री परमानन्ददायिनी ॥ १,११.१०४ ॥ गुणाढ्या योगजा योग्या ज्ञानमूर्तिर्विकासिनी । सावित्रीकमला लक्ष्मीः श्रीरनन्तोरसि स्थिता ॥ १,११.१०५ ॥ सरोजनिलया मुद्रा योगनिद्रा सुरार्दिना । सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला ॥ १,११.१०६ ॥ वाग्देवी वरदा वाच्या कीर्तिः सर्वार्थसाधिका । योगीश्वरी ब्रह्मविद्या महाविद्या सुशोभना ॥ १,११.१०७ ॥ गुह्यविद्यात्मविद्या च धर्मविद्यात्मभाविता । स्वाहा विश्वंभरा सिद्धिः स्वधा मेधा धृतिः श्रुतिः ॥ १,११.१०८ ॥ नीतिः सुनीतिः सुकृतिर्माधवी नरवाहिनी । अजा विभावरी सौम्या भोगिनी भोगदायिनी ॥ १,११.१०९ ॥ शोभा वंशकरी लोला मालिनी परमेष्ठिनी । त्रैलोक्यसुन्दरी रम्या सुन्दरी कामचारिणी ॥ १,११.११० ॥ महानुभावा सत्त्वस्था महामहिषमर्दनी । पद्ममाला पापहरा विचित्रा मुकुटानना ॥ १,११.१११ ॥ निर्यन्त्रा यन्त्रवाहस्था नन्दिनी भद्रकालिका । आदित्यवर्णा कौमारी मयूरवरवाहिनी ॥ १,११.११२ ॥ निर्यन्त्रा यन्त्रवाहस्था नन्दिनी भद्रकालिका । आदित्यवर्णा कौमारी मयूरवरवाहिनी ॥ १,११.११३ ॥ वृषासनगता गौरो महाकाली सुरार्चिता । अदितिर्नियता रौद्री पद्मगर्भा विवाहना ॥ १,११.११४ ॥ विरूपाक्षी लेलिहाना महापुरनिवासिनी । महाफलानवद्याङ्गी कामपूरा विभावरी ॥ १,११.११५ ॥ विचित्ररत्नमुकुटा प्रणतार्तिप्रभञ्जनी । कौशिकी कर्षणी रात्रिस्त्रिदशार्तिविनाशिनी ॥ १,११.११६ ॥ बहुरूपा सुरूपा च विरूपा रूपवर्जिता । भक्तार्तिशमनी भव्या भवभावविनाशनी ॥ १,११.११७ ॥ निर्गुणा नित्यविभवा निः सारा निरपत्रपा । यशस्विनी सामगीतिर्भवाङ्गनिलयालया ॥ १,११.११८ ॥ दीक्षा विद्याधरी दीप्ता महेन्द्रविनिपातिनी । सर्वातिशायिनी विद्या सर्वसिद्धिप्रदायिनी ॥ १,११.११९ ॥ सर्वेश्वरप्रिया तार्क्ष्या समुद्रान्तरवासिनी । अकलङ्का निराधारा नित्यसिद्धा निरामया ॥ १,११.१२० ॥ कामधेनुर्बृहद्गर्भा धीमती मोहनाशिनी । निः सङ्कल्पा निरातङ्का विनया विनयप्रदा ॥ १,११.१२१ ॥ ज्वालामालासहस्त्राढ्या देवदेवी मनोन्मनी । महाभगवती दुर्गा वासुदेवसमुद्भवा ॥ १,११.१२२ ॥ महेन्द्रोपेन्द्रभगिनी भक्तिगम्या परावरा । ज्ञानज्ञेया जरातीता वेदान्तविषया गतिः ॥ १,११.१२३ ॥ दक्षिणा दहना दाह्या सर्वभूतनमस्कृता । योगमाया विभावज्ञा महामाया महीयसी ॥ १,११.१२४ ॥ संध्या सर्वसमुद्भूतिर्ब्रह्मवृक्षाश्रयानतिः । बीजाङ्कुरसमुद्भूतिर्महाशक्तिर्महामतिः ॥ १,११.१२५ ॥ ख्यातिः प्रज्ञा चितिः संवित्महाभोगीन्द्रशायिनी । विकृतिः शांसरी शास्त्री गणगन्धर्वसेविता ॥ १,११.१२६ ॥ वैश्वानरी महाशाला देवसेना गुहप्रिया । महारात्रिः शिवानन्दा शची दुः स्वप्ननाशिनी ॥ १,११.१२७ ॥ इज्या पूज्या जगद्धात्री दुर्विज्ञेया सुरूपिणी । गुहाम्बिका गुणोत्पत्तिर्महापीठा मरुत्सुता ॥ १,११.१२८ ॥ हव्यवाहान्तरागादिः हव्यवाहसमुद्भवा । जगद्योनिर्जगन्माता जन्ममृत्युजरातिगा ॥ १,११.१२९ ॥ बुद्धिमाता बुद्धिमती पुरुषान्तरवासिनी । तरस्विनी समाधिस्था त्रिनेत्रा दिविसंस्थिता ॥ १,११.१३० ॥ सर्वेन्द्रियमनोमाता सर्वभूतहृदि स्थिता । संसारतारिणी विद्या ब्रह्मवादिमनोलया ॥ १,११.१३१ ॥ ब्रह्माणी बृहती ब्राह्मी ब्रह्मभूता भवारणिः । हिरण्मयी महारात्रिः संसारपरिवर्तिका ॥ १,११.१३२ ॥ सुमालिनी सुरूपा च भाविनी तारिणी प्रभा । उन्मीलनी सर्वसहा सर्वप्रत्ययसाक्षिणी ॥ १,११.१३३ ॥ सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा । सत्त्वशुद्धिकरी शुद्धिर्मलत्रयविनाशिनी ॥ १,११.१३४ ॥ जगत्प्रिया जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया । निराश्रया निराहारा निरङ्कुरवनोद्भवा ॥ १,११.१३५ ॥ चन्द्रहस्ता विचित्राङ्गी स्त्रग्विणी पद्मधारिणी । परावरविधानज्ञा महापुरुषपूर्वजा ॥ १,११.१३६ ॥ विद्येश्वरप्रिया विद्या विद्युज्जिह्वा जितश्रमा । विद्यामयी सहस्त्राक्षी सहस्त्रवदनात्मजा ॥ १,११.१३७ ॥ सहस्त्ररश्मिः सत्त्वस्था महेश्वरपदाश्रया । क्षालिनी सन्मयी व्याप्ता तैजसी पद्मबोधिका ॥ १,११.१३८ ॥ महामायाश्रया मान्या महादेवमनोरमा । व्योमलक्ष्मीः सिहरथा चेकितानामितप्रभा ॥ १,११.१३९ ॥ वीरेश्वरी विमानस्था विशोकाशोकनाशिनी । अनाहता कुण्डलिना नलिनी पद्मवासिनी ॥ १,११.१४० ॥ सदानन्दा सदाकीर्तिः सर्वभूताश्रयस्थिता । वाग्देवता ब्रह्मकला कलातीता कलारणिः ॥ १,११.१४१ ॥ ब्रह्मश्रीर्ब्रह्महृदया ब्रह्मविष्णुशिवप्रिया । व्योमशक्तिः क्रियाशक्तिर्ज्ञानशक्तिः परागतिः ॥ १,११.१४२ ॥ क्षोभिका बन्धिका भेद्या भेदाभेदविवर्जिता । अभिन्नाभिन्नसंस्थाना वंशिनी वंशहारिणी ॥ १,११.१४३ ॥ गुह्यशक्तिर्गुणातीता सर्वदा सर्वतोमुखी । भगिनी भगवत्पत्नी सकला कालकारिणी ॥ १,११.१४४ ॥ सर्ववित्सर्वतोभद्रा गुह्यातीता गुहारणिः । प्रक्रिया योगमाता च गङ्गा विश्वेश्वरेश्वरी ॥ १,११.१४५ ॥ कपिला कापिला कान्ताकनकाभाकलान्तरा । पुण्या पुष्करिणी भोक्त्री पुरन्दरपुरस्सरा ॥ १,११.१४६ ॥ पोषणी परमैश्वर्यभूतिदा भूतिभूषणा । पञ्चब्रह्मसमुत्पत्तिः परमार्थार्थविग्रहा ॥ १,११.१४७ ॥ धर्मोदया भानुमती योगिज्ञेय मनोजवा । मनोहरा मनोरक्षा तापसी वेदरूपिणी ॥ १,११.१४८ ॥ वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी । योगेश्वरेश्वरी माता महाशक्तिर्मनोमयी ॥ १,११.१४९ ॥ विश्वावस्था वियन्मूर्तिर्विद्युन्माला विहायसी । किंनरी सुरभी वन्द्या नन्दिनी नन्दिवल्लभा ॥ १,११.१५० ॥ भारती परमानन्दा परापरविभेदिका । सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी ॥ १,११.१५१ ॥ अचिन्त्याचिन्त्यविभवा हृल्लेखा कनकप्रभा । कूष्माण्डी धनरत्नाढ्या सुगन्धा गन्धायिनी ॥ १,११.१५२ ॥ त्रिविक्रमपदोद्भूता धनुष्पाणिः शिवोदया । सुदुर्लभा धनाद्यक्षा धन्या पिङ्गललोचना ॥ १,११.१५३ ॥ शान्तिः प्रभावती दीप्तिः पङ्कजायतलोचना । आद्या हृत्कमलोद्भूता गवां मता रणप्रिया ॥ १,११.१५४ ॥ सत्क्रिया गिरिजा शुद्धा नित्यपुष्टा निरन्तरा । दुर्गाकात्यायनीचण्डी चर्चिका शान्तविग्रहा ॥ १,११.१५५ ॥ हिरण्यवर्णा रजनी जगद्यन्त्रप्रवर्तिका । मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी ॥ १,११.१५६ ॥ रत्नमाला रत्नगर्भा पृथ्वी विश्वप्रमाथिनी । पद्मानना पद्मनिभा नित्यतुष्टामृतोद्भवा ॥ १,११.१५७ ॥ धुन्वती दुः प्रकम्प्या च सूर्यमाता दृषद्वती । महेन्द्रभगिनी मान्या वरेण्या वरदर्पिता ॥ १,११.१५८ ॥ कल्याणी कमला रामा पञ्चभूता वरप्रदा । वाच्या वरेश्वरी वन्द्या दुर्जया दुरतिक्रमा ॥ १,११.१५९ ॥ कालरात्रिर्महावेगा वीरभद्रप्रिया हिता । भद्रकाली जगन्माता भक्तानां भद्रदायिनी ॥ १,११.१६० ॥ कराला पिङ्गलाकारा नामभेदामहामदा । यशस्विनी यशोदा च षडध्वपरिवर्तिका ॥ १,११.१६१ ॥ शङ्खिनी पद्मिनी सांख्या सांख्ययोगप्रवर्तिका । चैत्रा संवत्सरारूढा जगत्संपूरणीन्द्रजा ॥ १,११.१६२ ॥ शुम्भारिः खेचरीस्वस्था कम्बुग्रीवा कलिप्रिया । खगध्वजी खगारूढा परार्घ्या परमालिनी ॥ १,११.१६३ ॥ ऐश्वर्यवर्त्मनिलया विरक्ता गरुडासना । जयन्ती हृद्गुहा रम्या गह्विरेष्ठा गणाग्रणीः ॥ १,११.१६४ ॥ संकल्पसिद्धा साम्यस्था सर्वविज्ञानदायिनी । कलिकल्पषहन्त्री च गुह्योपनिषदुत्तमा ॥ १,११.१६५ ॥ निष्ठा दृष्टिः स्मृतिर्व्याप्तिः पुष्टिस्तुष्टिः क्रियावती । विश्वामरेश्वरेशाना भुक्तिर्मुक्तीः शिवामृता ॥ १,११.१६६ ॥ लोहिता सर्पमाला च भीषणी वनमालिनी । अनन्तशयनानन्या नरनारायणोद्भवा ॥ १,११.१६७ ॥ नृसिंही दैत्यमथनी शङ्खचक्रगदाधरा । संकर्षणसमुत्पत्तिरम्बिकापादसंश्रया ॥ १,११.१६८ ॥ महाज्वाला महामूर्तिः सुमूर्तिः सर्वकामधुक् । सुप्रभा सुस्तना गौरी धर्मकामार्थमोक्षदा ॥ १,११.१६९ ॥ भ्रूमध्यनिलया पूर्वा पुराणपुरुषारणिः । महाविभूतिदा मध्या सरोजनयना समा ॥ १,११.१७० ॥ अष्टादशभुजानाद्या नीलोत्पलदलप्रभा । सर्वशक्त्यासनारूढा धर्माधर्मार्थवर्जिता ॥ १,११.१७१ ॥ वैराग्यज्ञाननिरता निरालोका निरिन्द्रिया । विचित्रगहनाधारा शाश्वतस्थानवासिनी ॥ १,११.१७२ ॥ स्थानेश्वरी निरानन्दा त्रिशूलवरधारिणी । अशेषदेवतामूर्तिर्देवता वरदेवता । गणाम्बिका गिरेः पुत्री निशुम्भविनिपातिनी ॥ १,११.१७३ ॥ अवर्ण वर्णरहिता निवर्णा बीजसंभवा । अनन्तवर्णानन्यस्था शङ्करी शान्तमानसा ॥ १,११.१७४ ॥ अगोत्रा गोमती गोप्त्री गुह्यरूपा गुणोत्तरा । गौर्गोर्गव्यप्रिया गौणी गणेश्वरनमस्कृता ॥ १,११.१७५ ॥ सत्यमात्रा सत्यसंधा त्रिसंध्या संधिवर्जिता । सर्ववादाश्रया संख्या संख्ययोगसमुद्भवा ॥ १,११.१७६ ॥ असंख्येयाप्रमेयाख्या शून्या शुद्धकुलोद्भवा । बिन्दुनादसमुत्पत्तिः शंभुवामा शशिप्रभा ॥ १,११.१७७ ॥ विसङ्गा भेदरहिता मनोज्ञा मधुसूदनी । महाश्रीः श्रीसमुत्पत्तिस्तमः पारे प्रतिष्ठिता ॥ १,११.१७८ ॥ त्रितत्त्वमाता त्रिविधा सुसूक्ष्मपदसंश्रया । शान्त्यतीता मलातीता निर्विकारा निराश्रया ॥ १,११.१७९ ॥ शिवाख्या चित्तनिलया शिवज्ञानस्वरूपिणी । दैत्यदानवनिर्मात्री काश्यपी कालकल्पिका ॥ १,११.१८० ॥ शास्त्रयोनिः क्रियामूर्तिश्चतुर्वर्गप्रदर्शिका । नारायणी नरोद्भूतिः कौमुदी लिङ्गधारिणी ॥ १,११.१८१ ॥ कामुकी ललिता भावा परापरविभूतिदा । परान्तजातमहिमा बडवा वामलोचना ॥ १,११.१८२ ॥ सुभद्रा देवकी सीता वेदवेदाङ्गपारगा । मनस्विनी मन्युमाता महामन्युसमुद्भवा ॥ १,११.१८३ ॥ अमृत्युरमृता स्वाहा पुरुहूता पुरुष्टुता । अशोच्या भिन्नविषया हिरण्यरजतप्रिया ॥ १,११.१८४ ॥ हिरण्या राजती हैमी हेमाभरणभूषिता । विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ॥ १,११.१८५ ॥ महानिद्रासमुद्भूतिरनिद्रा सत्यदेवता । दीर्घाककुद्मिनी हृद्या शान्तिदा शान्तिवर्धिनी ॥ १,११.१८६ ॥ लक्ष्म्यादिशक्तिजननी शक्तिचक्रप्रवर्तिका । त्रिशक्तिजननी जन्या षडूर्मिपरिर्जिता ॥ १,११.१८७ ॥ सुधामा कर्मकरणी युगान्तदहनात्मिका । संकर्षणी जगद्धात्री कामयोनिः किरीटिनी ॥ १,११.१८८ ॥ ऐन्द्री त्रैलोक्यनमिता वैष्णवी परमेश्वरी । प्रद्युम्नदयिता दान्ता युग्मदृष्टिस्त्रिलोचना ॥ १,११.१८९ ॥ मदोत्कटा हंसगतिः प्रचण्डा चण्डविक्रमा । वृषावेशा वियन्माता विन्ध्यपर्वतवासिनी ॥ १,११.१९० ॥ हिमवन्मेरुनिलया कैलासगिरिवासिनी । चाणूरहन्तृतनया नीतिज्ञा कामरूपिणी ॥ १,११.१९१ ॥ वेदविद्याव्रतस्नाता धर्मशीलानिलाशना । वीरभद्रप्रिया वीरा महाकालसमुद्भवा ॥ १,११.१९२ ॥ विद्याधरप्रिया सिद्धा विद्याधरनिराकृतिः । आप्यायनी हरन्ती च पावनी पोषणी खिला ॥ १,११.१९३ ॥ मातृका मन्मथोद्भूता वारिजा वाहनप्रिया । करीषिणी सुधावाणी वीणावादनतत्परा ॥ १,११.१९४ ॥ सेविता सेविका सेव्या सिनीवाली गरुत्मती । अरुन्धती हिरण्याक्षी मृगाङ्का मानदायिनी ॥ १,११.१९५ ॥ वसुप्रदा वसुमती वसोर्धारा वसुंधरा । धाराधरा वरारोहा वरावरसहस्त्रदा ॥ १,११.१९६ ॥ श्रीफला श्रीमती श्रीशा श्रीनिवासा शिवप्रिया । श्रीधरा श्रीकरी कल्या श्रीधरार्धशरीरिणी ॥ १,११.१९७ ॥ अनन्तदृष्टिरक्षुद्रा धात्रीशा धनदप्रिया । निहन्त्री दैत्यसङ्घानां सिहिका सिहवाहना ॥ १,११.१९८ ॥ सुषेणा चन्द्रनिलया सुकीर्तिश्छिन्नसंशया । रसज्ञा रसदा रामा लेलिहानामृतस्त्रवा ॥ १,११.१९९ ॥ नित्योदिता स्वयञ्ज्योतिरुत्सुका मृतजीवनी । वज्रदण्डा वज्रजिह्वा वैदेवी वज्रविग्रहा ॥ १,११.२०० ॥ मङ्गल्या मङ्गला माला मलिना मलहारिणी । गान्धर्वो गारुडी चान्द्री कम्बलाश्वतरप्रिया ॥ १,११.२०१ ॥ सौदामिनी जनानन्दा भ्रुकुटीकुटिलानना । कर्णिकारकरा कक्ष्या कंसप्राणापहारिणी ॥ १,११.२०२ ॥ युगन्धरा युगावर्ता त्रिसंध्या हर्षवर्धनी । प्रत्यक्षदेवता दिव्या दिव्यगन्धा दिवापरा ॥ १,११.२०३ ॥ शक्रासनगता शाक्री साध्वी नारी शवासना । इष्टा विशिष्टा शिष्टेष्टा शिष्टाशिष्टप्रपूजिता ॥ १,११.२०४ ॥ शतरूपा शतावर्ता विनता सुरभिः सुरा । सुरेन्द्रमाता सुद्युम्ना सुषुम्ना सूर्यसंस्थिता ॥ १,११.२०५ ॥ समीक्ष्या सत्प्रतिष्ठा च निवृत्तिर्ज्ञानपारगा । धर्मशास्त्रार्थकुशला धर्मज्ञा धर्मवाहना ॥ १,११.२०६ ॥ धर्माधर्मविनिर्मात्री धार्मिकाणां शिवप्रदा । धर्मशक्तिर्धर्ममयी विधर्मा विश्वधर्मिणी ॥ १,११.२०७ ॥ धर्मान्तरा धर्ममेघा धर्मपूर्वा धनावहा । धर्मोपदेष्ट्री धर्मत्मा धर्मगम्या धराधरा ॥ १,११.२०८ ॥ कापाली शाकला मूर्तिः कला कलितविग्रहा । सर्वशक्तिविनिर्मुक्ता सर्वशक्त्याश्रयाश्रया ॥ १,११.२०९ ॥ सर्वा सर्वेश्वरी सूक्ष्मा सुसूक्ष्मा ज्ञानरूपिणी । प्रधानपुरुषेशेशा महादेवैकसाक्षिणी । सदाशिवा वियन्मूर्तिर्विश्वमूर्तिरमूर्तिका ॥ १,११.२१० ॥ एवं नाम्नां सहस्त्रेण स्तुत्वासौ हिमवान् गिरिः । भूयः प्रणम्य भीतात्मा प्रोवाचेदं कृताञ्जलिः ॥ १,११.२११ ॥ यदेतदैश्वरं रूपं घोरं ते परमेश्वरि । भीतोऽस्मि साम्प्रतं दृष्ट्वा रूपमन्यत्प्रदर्शय ॥ १,११.२१२ ॥ एवमुक्ताथ सा देवी तेन शैलेन पार्वती । संहृत्य दर्शयामास स्वरूपमपरं पुनः ॥ १,११.२१३ ॥ नीलोत्पलदलप्रख्यं नीलोत्पलसुगन्धिकम् । द्विनेत्रं द्विभुजं सौम्यं नीलालकविभूषितम् ॥ १,११.२१४ ॥ रक्तपादाम्बुजतलं सुरक्तकरपल्लवम् । श्रीमद्विशालसंवृत्तललाटतिलकोज्ज्वलम् ॥ १,११.२१५ ॥ भूषितं चारुसर्वाङ्गं भूषणैरतिकोमलम् । दधानमुरसा मालां विशालां हेमनिर्मिताम् ॥ १,११.२१६ ॥ ईषत्स्मितं सुविम्बोष्ठं नूपुरारावसंयुतम् । प्रसन्नवदनं दिव्यमनन्तमहिमास्पदम् ॥ १,११.२१७ ॥ तदीदृशं समालोक्य स्वरूपं शैलसत्तमः । भीतिं संत्यज्य हृष्टात्मा बभाषे परमेश्वरीम् ॥ १,११.२१८ ॥ हिमवानुवाच अद्य मे सफलं जन्म अद्य मे सफलं तपः । यन्मे साक्षात्त्वमव्यक्ताप्रसन्ना दृष्टिगोचरा ॥ १,११.२१९ ॥ त्वया सृष्टं जगत्सर्वं प्रधानाद्यन्त्वयि स्थितम् । त्वय्येव लीयते देवि त्वमेव च परा गतिः ॥ १,११.२२० ॥ वदन्ति केचित्त्वामेव प्रकृतिं प्रकृतेः पराम् । अपरे परमार्थज्ञाः शिवेति शिवसंश्रये ॥ १,११.२२१ ॥ त्वयि प्रधानं पुरुषो महान् ब्रह्मा तथेश्वरः । अविद्या नियतिर्माया कलाद्याः शतशोऽभवन् ॥ १,११.२२२ ॥ त्वं हि सा परमा शक्तिरनन्ता परमेष्ठिनी । सर्वभेदविनिर्मुक्ता सर्वेभेदाश्रया निजा ॥ १,११.२२३ ॥ त्वामधिष्ठाय योगेशि महादेवो महेश्वरः । प्रधानाद्यं जगत्कृत्स्नं करोति विकरोति च ॥ १,११.२२४ ॥ त्वयैव संगतो देवः स्वमानन्दं समश्नुते । त्वमेव परमानन्दस्त्वमेवानन्ददायिनी ॥ १,११.२२५ ॥ त्वमक्षरं परं व्योम महज्ज्योतिर्निरञ्जनम् । शिवं सर्वगतं सूक्ष्मं परं ब्रह्मा सनातनम् ॥ १,११.२२६ ॥ त्वं शक्रः सर्वदेवानां ब्रह्मा ब्रह्मविदामसि । वायुर्बलवतां देवि योगिनां त्वं कुमारकः ॥ १,११.२२७ ॥ ऋषीणां च वसिष्ठस्त्वं व्यासो वेदविदामसि । सांख्यानां कपिलो देवो रुद्राणामसि शङ्करः ॥ १,११.२२८ ॥ आदित्यानामुपेन्द्रस्त्वं वसूनां चैव पावकः । वेदानां सामवेदस्त्वं गायत्री छन्दसामसि ॥ १,११.२२९ ॥ अध्यात्मविद्या विद्यानां गतीनां परं गतिः । माया त्वं सर्वशक्तीनां कालः कलयतामसि ॥ १,११.२३० ॥ ओङ्कारः सर्वगुह्यानां वर्णानां च द्विजात्तमः । आश्रमाणां च गार्हस्थ्यमीश्वराणां महेश्वरः ॥ १,११.२३१ ॥ पुंसां त्वमेकः पुरुषः सर्वभूतहृदि स्थितः । सर्वोपनिषदां देवि गुह्योपनिषदुच्यते ॥ १,११.२३२ ॥ ईशानश्चासि कल्पानां युगानां कृतमेव च । आदित्यः सर्वमार्गाणां वाचां देवि सरस्वती ॥ १,११.२३३ ॥ त्वं लक्ष्मीश्चारुरूपाणां विष्णुर्मायाविनामसि । अरुन्धती सतीनां त्वं सुपर्णः पततामसि ॥ १,११.२३४ ॥ सूक्तानां पौरुषं सूक्तं ज्येष्ठसाम च सामसु । सावित्री चासि जप्यानां यजुषां शतरुद्रियम् ॥ १,११.२३५ ॥ पर्वतानां महामेरुरनन्तो भोगिनामसि । सर्वेषां त्वं परं ब्रह्म त्वन्मयं सर्वमेव हि ॥ १,११.२३६ ॥ रूपं तवोशेषकलाविहीन मगोचरं निर्मलमेकरूपम् । अनादिमध्यान्तमनन्तामाद्यं नमामि सत्यं तमसः परस्तात् ॥ १,११.२३७ ॥ यदेव पश्यन्ति जगत्प्रसूतिं वेदान्तविज्ञानविनिश्चितार्थाः । आनन्दमात्रं प्रणवाभिधानं तदेव रूपं शरणं प्रपद्ये ॥ १,११.२३८ ॥ अशेषभूतान्तरसन्निविष्टं प्रधानपुंयोगवियोगहेतुम् । तेजोमयं जन्मविनाशहीनं प्राणाभिधानं प्रणतोऽस्मि रूपम् ॥ १,११.२३९ ॥ आद्यन्तहीनं जगदात्मभूतं विभिन्नसंस्थं प्रकृतेः परस्तात् । कूटस्थमव्यक्तवपुस्तवैव नमामि रूपं पुरुषाभिधानम् ॥ १,११.२४० ॥ सर्वाश्रयं सर्वजगद्विधानं सर्वत्रगं जन्मविनाशहीनम् । सूक्ष्मं विचित्रं त्रिगुणं प्रधानं नतोऽस्मि ते रूपमलुप्तभेदम् ॥ १,११.२४१ ॥ आद्यं महत्ते पुरुषात्मरूपं प्रकृत्यवस्थं त्रिगुणात्मबीजम् । ऐश्वर्यविज्ञानविरागधर्मैः समन्वितं देवि नतोऽस्मि रूपम् ॥ १,११.२४२ ॥ द्विसप्तलोकात्मकमम्बुसंस्थं विचित्रभेदं पुरुषैकनाथम् । अनन्तभूतैरधिवासितं ते नतोऽस्मि रूपं जगदण्डसंज्ञम् ॥ १,११.२४३ ॥ अशेषवेदात्मकमेकमाद्यं स्वतेजसा पूरितलोकभेदम् । त्रिकालहेतुं रपमेष्ठिसंज्ञं नमामि रूपं रविमण्डलस्थम् ॥ १,११.२४४ ॥ सहस्त्रमूर्धानमनन्तशक्तिं सहस्त्रबाहुं पुरुषं पुराणम् । शयानमन्तः सलिले तथैव नारायणाख्यं प्रणतोऽस्मि रूपम् ॥ १,११.२४५ ॥ दंष्ट्राकरालं त्रिदशाभिवन्द्यं युगान्तकालानलकल्परूपम् । अशेषभूताण्डविनाशहेतुं नमामि रूपं तव कालसंज्ञम् ॥ १,११.२४६ ॥ फणासहस्त्रेण विराजमानं भोगीन्द्रमुख्यैरभिपूज्यमानम् । जनार्दनारूढतनुं प्रसुप्तं नतोऽस्मि रूपं तव शेषसंज्ञम् ॥ १,११.२४७ ॥ अव्याहतैश्वर्यमयुग्मनेत्रं ब्रह्मामृतानन्दरसज्ञमेकम् । युगान्तशेषं दिवि नृत्यमानं नतोऽस्मि रूपं तव रुद्रसंज्ञम् ॥ १,११.२४८ ॥ प्रहीणशोकं विमलं पवित्रं सुरासुरैरर्चितापादपद्मम् । सुकोमलं देवि विशालशुम्रं नमामि ते रूपमिदं नमासि ॥ १,११.२४९ ॥ ओं नमस्ते महादेवि नमस्ते परमेश्वरि । नमो भगवतीशानि शिवायै ते नमो नमः ॥ १,११.२५० ॥ त्वन्मयोऽहं त्वदाधारस्त्वमेव च गतिर्मम । त्वामेव शरणं यास्ये प्रसीद परमेश्वरि ॥ १,११.२५१ ॥ मया नास्ति समो लोके देवो वादानवोऽपि वा । जगन्मातैव मत्पुत्री संभूता तपसा यतः ॥ १,११.२५२ ॥ एषा तवाम्बिका देवि किलाभूत पितृकन्यका । मेनाशेषजगन्मातुरहो वुण्यस्य गौरवम् ॥ १,११.२५३ ॥ पाहि माममरेशानि मेनया सह सर्वदा । नमामि तव पादाब्जं व्रजामि शरणं शिवाम् ॥ १,११.२५४ ॥ अहो मे सुमहद्भाग्यं महादेवीसमागमात् । आज्ञापय महादेवि किं करिष्यामि शङ्करि ॥ १,११.२५५ ॥ एतावदुक्त्वा वचनं तदा हिमगिरीश्वरः । संप्रेक्षणमाणो गिरिजां प्राञ्जलिः पार्श्वतोऽभवत् ॥ १,११.२५६ ॥ अथ सा तस्य वचनं निशम्य जगतोऽरणिः । सस्मितं प्राह पितरं स्मृत्वा पशुपतिं पतिम् ॥ १,११.२५७ ॥ देव्युवाच शृणुष्व चैतत्परमं गुह्यमीश्वरगोचरम् । उपदेशं गिरिश्रेष्ठ सेवितं ब्रह्मवादिभिः ॥ १,११.२५८ ॥ यन्मे साक्षात्परं रूपमैश्वरं दृष्टमद्भुतम् । सर्वशक्तिसमायुक्तमनन्तं प्रेरकं परम् ॥ १,११.२५९ ॥ शान्तः समाहितमना दम्भाहङ्कारवर्जितः । तन्निष्ठस्तत्परो भूत्वा तदेव शरणं व्रज ॥ १,११.२६० ॥ भक्त्या त्वनन्यया तात पद्भावं परमाश्रितः । सर्वयज्ञतपोदानैस्तदेवार्चय सर्वदा ॥ १,११.२६१ ॥ तदेव मनसा पश्य तद्ध्यायस्व जपस्व च । ममोपदेशात्संसारं नाशयामि तवानघ ॥ १,११.२६२ ॥ अहं वै मत्परान् भक्तानैश्वरं योगमास्थितान् । संसारसागरादस्मादुद्धराम्यचिरेण तु ॥ १,११.२६३ ॥ ध्यानेन कर्मयोगेन भक्त्या ज्ञानेन चैव हि । प्राप्याहं ते गिरिश्रेष्ठ नान्यथा कर्मकोटिभिः ॥ १,११.२६४ ॥ श्रुतिस्मृत्युदितं सम्यक्कर्म वर्णाश्रमात्मकम् । अध्यात्मज्ञानसहितं मुक्तये सततं कुरु ॥ १,११.२६५ ॥ धर्मात्संजायते भक्तिर्भक्त्या संप्राप्यते परम् । श्रुतिस्मृतिभ्यामुदितो धर्मो यज्ञादिको मतः ॥ १,११.२६६ ॥ नान्यतो जायते धर्मो वेदाद्धर्मो हि निर्बभौ । तस्मान्मुमुक्षुर्धर्मार्थो मद्रूपं वेदमाश्रयेत् ॥ १,११.२६७ ॥ ममैवैषा परा शक्तिर्वेदसंज्ञा पुरातनी । ऋग्यजुः सामरूपेण सर्गादौ संप्रवर्तते ॥ १,११.२६८ ॥ तेषामेव च गुप्त्यर्थं वेदानां भगवानजः । ब्राह्मणादीन् ससर्जाथ स्वे स्वे कर्मण्ययोजयत् ॥ १,११.२६९ ॥ ये न कुर्वन्ति तद्धर्मं तदर्थं ब्रह्मनिर्मितम् । तेषामधस्ताद्नरकांस्तामिस्त्रादीनकल्पयत् ॥ १,११.२७० ॥ न च वेदादृते किञ्चिच्छास्त्रधर्माभिधायकम् । योऽन्यत्ररमतेसोऽसौनसंभाष्यो द्विजातिभिः ॥ १,११.२७१ ॥ यानि शास्त्राणि दृश्यन्ते लोकेऽस्मिन् विविधानितु । श्रुतिस्मृतिविरुद्धानि निष्ठा तेषां हि तामसी ॥ १,११.२७२ ॥ कापालं पञ्चरात्रं च यामलं वाममार्हतम् । एवंविधानि चान्यानि मोहनार्थानि तानि तु ॥ १,११.२७३ ॥ ये कुशास्त्राभियोगेन मोहयन्तीह मानवान् । मया सृष्टानि शास्त्राणि मोहायैषां भवान्तरे ॥ १,११.२७४ ॥ वेदार्थवित्तमैः कार्यं यत्स्मृतं कर्म वैदिकम् । तत्प्रयत्नेन कुर्वन्ति मत्प्रियास्ते हि ये नराः ॥ १,११.२७५ ॥ वर्णानामनुकम्पार्थं मन्नियोगाद्विराट्स्वयम् । स्वायंभुवो मनुर्धार्मान्मुनीनां पूर्वमुक्तवाना ॥ १,११.२७६ ॥ श्रुत्वा चान्येऽपि मुनयस्तन्मुखाद्धर्ममुत्तमम् । चक्रुर्धर्मप्रतिष्ठार्थं धर्मशास्त्राणि चैव हि ॥ १,११.२७७ ॥ तेषु चान्तर्हितेष्वेवं युगान्तेषु महर्षयः । ब्रह्मणो वचनात्तानि करिष्यन्ति युगे युगे ॥ १,११.२७८ ॥ अष्टादश पुराणानि व्यासेन कथितानि तु । नियोगाद्ब्रह्मणो राजंस्तेषु धर्मः प्रतिष्ठितः ॥ १,११.२७९ ॥ अन्यान्युपपुराणानि तच्छिष्यैः कथितानि तु । युगे युगेऽत्र सर्वेषां कर्ता वै धर्मशास्त्रवित् ॥ १,११.२८० ॥ शिक्षा कल्पो व्याकरणं निरुक्तं छन्द एव च । ज्योतिः शास्त्रं न्यायविद्या मीमांसा चोपबृंहणम् ॥ १,११.२८१ ॥ एवं चतुर्दशैतानि विद्यास्थानानि सत्तम । चतुर्वेदैः सहोक्तानि धर्मो नान्यत्र विद्यते ॥ १,११.२८२ ॥ एवं पैतामहं धर्मं मनुव्यासादयः परम् । स्थापयन्ति ममादेशाद्यावदाभूतसंप्लवम् ॥ १,११.२८३ ॥ ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसंचरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥ १,११.२८४ ॥ तस्मात्सर्वप्रयत्नेन धर्मार्थं वेदमाश्रयेत् । धर्मेण सहितं ज्ञानं परं ब्रह्म प्रकाशयेत् ॥ १,११.२८५ ॥ ये तु सङ्गान् परित्यज्य मामेव शरणं गताः । उपासते सदा भक्त्या योगमैश्वरमास्थिताः ॥ १,११.२८६ ॥ सर्वभूतदयावन्तः शान्ता दान्ता विमत्सराः । अमानिनो बुद्धिमन्तस्तापसाः शंसितव्रताः ॥ १,११.२८७ ॥ मच्चित्ता मद्गतप्राणा मज्ज्ञानकथने रताः । संन्यासिनो गृहस्थाश्च वनस्था ब्रह्मचारिणः ॥ १,११.२८८ ॥ तेषां नित्याभियुक्तानां मायातत्त्वसमुत्थितम् । नाशयामि तमः कृत्स्नं ज्ञानदीपने मा चिरात् ॥ १,११.२८९ ॥ ते सुनिर्धूततमसो ज्ञानेनैकेन मन्मयाः । सदानन्दास्तु संसारे न जायन्ते पुनः पुनः ॥ १,११.२९० ॥ तस्मात्सर्वप्रकारेण मद्भक्तो मत्परायणः । मामेवार्चय सर्वत्र मेनया सह संगतः ॥ १,११.२९१ ॥ अशक्तो यदि मे ध्यातुमैश्वरं रूपमव्ययम् । ततो मे सकलं रूपं कालाद्यं शरणं व्रज ॥ १,११.२९२ ॥ यद्यत्स्वरूपं मे तात मनसो गोचरं भवेत् । तन्निष्ठस्तत्परो भूत्वा तदर्चनपरो भव ॥ १,११.२९३ ॥ यत्तु मे निष्कलं रूपं चिन्मात्रं केवलं शिवम् । सर्वोपाधिविनिर्मुक्तमनन्तममृतं परम् ॥ १,११.२९४ ॥ ज्ञानेनैकेन तल्लभ्यं क्लेशेन परमं पदम् । ज्ञानमेव प्रपश्यन्तो मामेव प्रविशन्ति ते ॥ १,११.२९५ ॥ तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः । गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ॥ १,११.२९६ ॥ मामनाश्रित्य परमं निर्वाणममलं पदम् । प्राप्यते न हि राजेन्द्र ततो मां शरणं व्रज ॥ १,११.२९७ ॥ एकत्वेन पृथक्त्वेन तथा चोभयतोऽपि वा । मामुपास्य महाराज ततो यास्यासि तत्पदम् ॥ १,११.२९८ ॥ मामनाश्रित्य तत्तत्त्वं स्वभावविमलं शिवम् । ज्ञायते न हि राजेन्द्र ततो मां शरणं व्रज ॥ १,११.२९९ ॥ तस्मात्त्वमक्षरं रूपं नित्यं चारूपमैश्वरम् । आराधय प्रयत्नेन ततो बन्धं प्रहास्यसि ॥ १,११.३०० ॥ कर्मणा मनसा वाचा शिवं सर्वत्र सर्वदा । समाराधय भावेन ततो यास्यसि तत्पदम् ॥ १,११.३०१ ॥ न वै पश्यन्ति तत्तत्त्वं मोहिता मम मायया । अनाद्यनन्तं परमं महेश्वरमजं शिवम् ॥ १,११.३०२ ॥ सर्वभूतात्मभूतस्थं सर्वाधारं निरञ्जनम् । नित्यानन्दं निराभासं निर्गुणं तमसः परम् ॥ १,११.३०३ ॥ अद्वैतमचलं ब्रह्म निष्कलं निष्प्रपञ्चकम् । स्वसंवेद्यमवेद्यं तत्परे व्योम्नि व्यवस्थितम् ॥ १,११.३०४ ॥ सूक्ष्मेण तमसा नित्यं वेष्टिता मम मायया । संसारसागरे घोरे जायन्ते च पुनः पुनः ॥ १,११.३०५ ॥ भक्त्या त्वनन्यया राजन् सम्यग्ज्ञानेन चैव हि । अन्वेष्टव्यं हि तद्ब्रह्म जन्मबन्धनिवृत्तये ॥ १,११.३०६ ॥ अहङ्कारं च मात्सर्यं कामं क्रोधं परिग्रहम् । अधर्माभिनिवेशं च त्यक्त्वा वैराग्यमास्थितः ॥ १,११.३०७ ॥ सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । अन्वीक्ष्य चात्मनात्मानं ब्रह्मभूयाय कल्पते ॥ १,११.३०८ ॥ ब्रह्मभूतः प्रसन्नात्मा सर्वभूताभयप्रदः । ऐश्वरीं परमां भक्तिं विन्देतानन्यगामिनीम् ॥ १,११.३०९ ॥ वीक्षते तत्परं तत्त्वमैश्वरं ब्रह्मनिष्कलम् । सर्वसंसारनिर्मुक्तो ब्रह्मणेयवावतिष्ठते ॥ १,११.३१० ॥ ब्रह्मणो हि प्रतिष्ठायं परस्य परमः शिवः । अनन्तस्याव्ययस्यैकः स्वात्माधारो महेश्वरः ॥ १,११.३११ ॥ ज्ञानेन कर्मयोगेन भक्तियोगेन वा नृप । सर्वसंसारमुक्त्यर्थमीश्वरं सततं श्रय ॥ १,११.३१२ ॥ एष गुह्योपदेशस्ते मया दत्तो गिरीश्वर । अन्वीक्ष्य चैतदखिलं यथेष्टं कर्तुमर्हसि ॥ १,११.३१३ ॥ अहं वै याचिता देवैः संजाता परमेश्वरात् । विनिन्द्य दक्षं पितरं महेश्वरविनिन्दकम् ॥ १,११.३१४ ॥ धर्मसंस्थापनार्थाय तवाराधनकारणात् । मेनादेहसमुत्पन्ना त्वामेव पितरं श्रिता ॥ १,११.३१५ ॥ स त्वं नियोगाद्देवस्य ब्रह्मणः परमात्मनः । प्रिदास्यसे मां रुद्राय स्वयंवरसमागमे ॥ १,११.३१६ ॥ तत्संबन्धाच्च ते राजन् सर्वे देवाः सवासवाः । त्वां नमस्यन्ति वै तात प्रसीदति च शङ्करः ॥ १,११.३१७ ॥ तस्मात्सर्वप्रयत्नेन मां विद्धीश्वरगोचराम् । संपूज्य देवमीशानं शरण्यं शरणं व्रज ॥ १,११.३१८ ॥ स एवमुक्तो भगवान् देवदेव्या गिरीश्वरः । प्रणम्य शिरसा देवीं प्राञ्जलिः पुनरब्रवीत् ॥ १,११.३१९ ॥ विस्तरेण महेशानि योगं माहेश्वरं परम् । ज्ञानं चैवात्मनो योगं साधनानि प्रचक्ष्व मे ॥ १,११.३२० ॥ तस्यैतत्परमं ज्ञानमात्मयोगमनुत्तमम् । यथावद्व्याजहारेशासाधनानिच विस्तरात् ॥ १,११.३२१ ॥ निशम्य वदनाम्भोजाद्गिरीन्द्रो लोकपूजितः । लोकमातुः परं ज्ञानं योगासक्तोऽभवत्पुनः ॥ १,११.३२२ ॥ प्रददौ च महेशाय पार्वतीं भाग्यगौरवात् । नियोगाद्ब्रह्मणः साध्वीं देवानां चैव संनिधौ ॥ १,११.३२३ ॥ य इमं पठतेऽध्यायं देव्या माहात्म्यकीर्तनम् । शिवस्य संनिधौ भक्त्या सुचिस्तद्भावभावितः ॥ १,११.३२४ ॥ सर्वपापविनिर्मुक्तो दिव्ययोगसमन्वितः । उल्लङ्घ्य ब्रह्मणो लोकन्देव्याः स्थानमवाप्नुयात् ॥ १,११.३२५ ॥ यश्चैतत्पठते स्तोत्रं ब्राह्मणानां समीपतः । देव्याः समाहितमनाः सर्वपापैः प्रमुच्यते ॥ १,११.३२६ ॥ नाम्नामष्टसहस्त्रं तु देव्या यत्समुदीरितम् । ज्ञात्वार्ऽकमण्डलगतां संभाव्य परमेश्वरीम् ॥ १,११.३२७ ॥ अभ्यर्च्य गन्धपुष्पाद्यैर्भक्तियोगसमन्वितः । संस्मरन् परमं भावं देव्या माहेश्वरं परम् ॥ १,११.३२८ ॥ अनन्यमानसो नित्यं जपेदामरणाद्द्विजः । सोऽन्तकाले स्मृतिं लब्ध्वापरं ब्रह्माधिगच्छति ॥ १,११.३२९ ॥ अथवा जायते विप्रो ब्राह्मणानां कुले शुचौ । पूर्वसंस्कारमाहात्म्याद्ब्रह्मविद्यामवाप्य सः ॥ १,११.३३० ॥ संप्राप्य योगं परमं दिव्यं तत्पारमेश्वरम् । शान्तः सर्वगातो भूत्वा शिवसायुज्यमानप्नुयात् ॥ १,११.३३१ ॥ प्रत्येकं चाथ नामानि जुहुयात्सवनत्रयम् । पूतनादिकृतैर्देषैर्ग्रहदोषैश्च मुच्यते ॥ १,११.३३२ ॥ जपेद्वाहरहर्नित्यं संवत्सरमतन्द्रितः । श्रीकामः पार्वतीं देवीं पूजयित्वा विधानतः ॥ १,११.३३३ ॥ संपूज्य पार्श्वतः शंभुं त्रिनेत्रं भक्तिसंयुतः । लभते महतीं लक्ष्मीं महादेवप्रसादतः ॥ १,११.३३४ ॥ तस्मात्सर्वप्रयत्नेन जप्तव्यं हि द्विजातिभिः । सर्वपापानोदार्थं देव्या नाम सहस्त्रकम् ॥ १,११.३३५ ॥ प्रसङ्गात्कथितं विप्रा देव्या माहात्म्यमुत्तमम् । अतः परं प्रजासर्गं भृग्वादीनां निबोधत ॥ १,११.३३६ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे एकादशोऽध्यायः _____________________________________________________________ सूत उवाच भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर्नारायणप्रिया । देवौ धाताविधातारौ मेरोर्जामातरौ तथा ॥ १,१२.१ ॥ आयतिर्नियतिर्मेरोः कन्ये चैव महात्मनः । धाताविधात्रोस्ते भार्ये तयोर्जातौ सुतावुभौ ॥ १,१२.२ ॥ प्राणश्चैव मृकण्डुश्च मार्कण्डेयो मृकण्डुतः । तथा वेदशिरा नाम प्राणस्य द्युतिमान् सुतः ॥ १,१२.३ ॥ मरीचेरपि संभूतिः पौर्णमासमसूयत । कन्याचतुष्टयं चैव सर्वलक्षणसंयुतम् ॥ १,१२.४ ॥ तुष्टिर्ज्येष्ठा तथा वृष्टिः कृष्टिश्चापचितिस्तथा । विरजाः पर्वश्चैव पौर्णमासस्य तौ सुतौ ॥ १,१२.५ ॥ क्षमा तु सुषुवे पुत्रान् पुलहस्य प्रजापतेः । कर्दमं च वरीयांसं सहिष्णुं मुनिसत्तमम् ॥ १,१२.६ ॥ तथैव च कनीयासं तपोनिर्धूतकल्पषम् । अनसूया तथैवात्रेर्जज्ञे पुत्रानकल्पषान् ॥ १,१२.७ ॥ सोमं दुर्वाससं चैव दत्तात्रेयं च योगिनम् । स्मृतिश्चाङ्गिरसः पुत्रीर्जज्ञे लक्षणसंयुताः ॥ १,१२.८ ॥ सिनीवालीं कुहूं चैव राकामनुमतिं तथा । प्रीत्यां पुलस्त्यो भगवान् दत्तात्रिमसृजत्प्रभुः ॥ १,१२.९ ॥ पूर्वजन्मनि सोऽगस्त्यः स्मृतः स्वायंभुवेऽन्तरे । वेदबाहुं तथा कन्यां सन्नतिं नाम नामतः ॥ १,१२.१० ॥ पुत्राणां षष्टिसाहस्त्रं संततिः सुषुवे क्रतोः । ते चोर्ध्वरेतसः सर्वे बालखिल्या इति स्मृताः ॥ १,१२.११ ॥ वसिष्ठश्च तथोर्जायां सप्तपुत्रानजीजनत् । कन्यां च पुण्डरीकाक्षां सर्वेशोभासमन्विताम् ॥ १,१२.१२ ॥ रजोहश्चोर्ध्वबाहुश्च सवनश्चानघस्तथा । सुतपाः शुक्र इत्येते सप्त पुत्रा महौजसः ॥ १,१२.१३ ॥ योऽसौ रुद्रात्मको वह्निर्ब्रह्मणस्तनयो द्विजाः । स्वाहा तस्मात्सुतान् लेभे त्रीनुदारान्महौजसः ॥ १,१२.१४ ॥ पावकः पवमानश्च शुचिरग्निश्च ते त्रयः । निर्मथ्यः पवमानः स्याद्वैद्युतः पावकः स्मृतः ॥ १,१२.१५ ॥ यश्चासौ तपते सूर्यः शुचिरग्निस्त्वसौ स्मृतः । तेषां तु संततावन्ये चत्वारिंश्च पञ्च च ॥ १,१२.१६ ॥ पावकः पवमानश्च शुचिस्तेषां पिता च यः । एते चैकोनपञ्चाशद्वह्नयः परिकीर्तितः ॥ १,१२.१७ ॥ सर्वे तपस्विनः प्रोक्ताः सर्वे यज्ञेषु भागिनः । रुद्रात्मकाः स्मृताः सर्वे त्रिपुण्ड्राङ्कितमस्तकाः ॥ १,१२.१८ ॥ अयज्वानश्च यज्वानः पितरो ब्रह्मणः स्मृताः । अग्निष्वात्ता बर्हिषदो द्विधा तेषां व्यवस्थितिः ॥ १,१२.१९ ॥ तेभ्यः स्वधा सुतां जज्ञे मेनां वैतरणीं तथा । ते उभे ब्रह्मवादिन्यौ योगिन्यौ मुनिसत्तमाः ॥ १,१२.२० ॥ असूत मेना मैनाकं क्रौञ्चं तस्यानुजं तथा । गङ्गा हिमवतो जज्ञे सर्वलोकैकपावनी ॥ १,१२.२१ ॥ स्वयोगाग्निबलाद्देवीं लेभे पुत्रीं महेश्वरीं । यथावत्कथितं पूर्वं देव्या माहात्म्यमुत्तमम् ॥ १,१२.२२ ॥ एषा दक्षस्य कन्यानां मयापत्यानुसंततिः । व्याख्याता भवतामद्य मनोः सृष्टिं निबोधत ॥ १,१२.२३ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे द्वादशोऽध्यायः _____________________________________________________________ सूत उवाच प्रियव्रतोत्तानपादौ मनोः स्वायंभुवस्य तु । धर्मज्ञौ सुमहावीर्यौ शतरूपा व्यजीजनत् ॥ १,१३.१ ॥ ततस्तूत्तानपादस्य ध्रुवो नाम सुतोऽभवत् । भक्तो नारायणे देवे प्राप्तवान् स्थानमुत्तमम् ॥ १,१३.२ ॥ ध्रुवात्श्लिष्टिञ्च भव्यं च भार्या शम्भुर्व्यजायत । श्लिष्टेराधत्त सुच्छाया पञ्च पुत्रानकल्पषान् ॥ १,१३.३ ॥ वसिष्ठवचनाद्देवी तपस्तप्त्वा सुदुश्चरम् । आराध्य पुरुषं विष्णुं शालग्रामे जनार्दनम् ॥ १,१३.४ ॥ रिपुं रिपुञ्जयं विप्रं वृकलं वृषतेजसम् । नारायणपरान् शुद्धान् स्वधर्मपरिपालकान् ॥ १,१३.५ ॥ रिपोराधत्त बृहती चक्षुषं सर्वतेजसम् । सोऽजीजनत्पुष्करिण्यां वैरण्यां चाक्षुषं मनुम् । प्रजापतेरात्मजायां वीरणस्य महात्मनः ॥ १,१३.६ ॥ मनोरजायन्त दश नड्वलायां महौजसः । कन्यायां सुमहावीर्या वैराजस्य प्रजापतेः ॥ १,१३.७ ॥ ऊरुः पूरुः शतद्युम्नस्तपस्वी सत्यवाक्शुचिः । अग्निष्टुदतिरात्रश्च सुद्युम्नश्चाभिमन्युकः ॥ १,१३.८ ॥ ऊरोरजनयत्पुत्रान् षडाग्नेयी महाबलान् । अङ्गं सुमनसं स्वातिं क्रतुमङ्गिरसं शिवम् ॥ १,१३.९ ॥ अङ्गाद्वेनोऽभवत्पश्चाद्बैन्यो वेनादजायत । योऽसौ पृथुरिति ख्यातः प्रजापालो महाबलः ॥ १,१३.१० ॥ येन दुग्धा मही पूर्वं प्राजानां हितकारणात् । नियोगाद्ब्रह्मणः सार्धं देवेन्द्रेण महौजसा ॥ १,१३.११ ॥ वेनपुत्रस्य वितते पुरा पैतामहे मखे । सूतः पौराणिको जज्ञे मायारूपः स्वयं हरिः ॥ १,१३.१२ ॥ प्रवक्ता सर्वशास्त्राणां धर्मज्ञो गुणवत्सलः । तं मां नित्त मुनिश्रेष्ठाः पूर्वोद्भूतं सनातनम् ॥ १,१३.१३ ॥ अस्मिन्मन्वन्तरे व्यासः कृष्णद्वैपायनः स्वयम् । श्रावयामास मां प्रीत्या पुराणं पुरुषो हरिः ॥ १,१३.१४ ॥ मदन्वये तु ये सूताः संभूता वेदवर्जिताः । तेषां पुराणवक्तृत्वं वृत्तिरासीदजाज्ञया ॥ १,१३.१५ ॥ स तु वैन्यः पृथुर्धोमान् सत्यसंधो जितेन्द्रियः । सार्वभौमो महातेजाः स्वधर्मपरिपालकः ॥ १,१३.१६ ॥ तस्य बाल्यात्प्रभृत्येव भक्तिर्नारायणेऽभवत् । गोवर्धनगिरिं प्राप्य तपस्तेपे जितेन्द्रियः ॥ १,१३.१७ ॥ तपसा भगवान् प्रीतः शङ्खचक्रगदाधरः । आगत्य देवो राजानं प्राह दामोदरः स्वयम् ॥ १,१३.१८ ॥ ध्रमिकौ रूपसंपन्नौ सर्वशस्त्रभृतां वरौ । मत्प्रसादादसंदिग्धं पुत्रौ तव भविष्यतः । एकमुक्त्वा हृषीकेशः स्वकीयां प्रकृतिं गतः ॥ १,१३.१९ ॥ वैन्योऽपि वेदविधिना निश्चलां भक्तिमुद्वहन् । अपालयत्स्वकं राज्यं न्यायेन मधुसूदने ॥ १,१३.२० ॥ अचिरादेव तन्वङ्गो भार्या तस्य सुचिस्मिता । खिखण्डनं हविर्धानमन्तर्धाना व्यजायत ॥ १,१३.२१ ॥ शिखण्डनोऽभवत्पुत्रः सुशील इति विश्रुतः । धार्मिको रूपसंपन्नो वेदवेदाङ्गपारगः ॥ १,१३.२२ ॥ सोऽधीत्य विधिवद्वेदान् धर्मेण तपसि स्थितः । मतिं चक्रे भाग्ययोगात्संन्यां प्रति धर्मवित् ॥ १,१३.२३ ॥ स कृत्वा तीर्थसंसेवां स्वाध्याये तपसि स्थितः । जगाम हिमवत्पृष्ठं कदाचित्सिद्धसेवितम् ॥ १,१३.२४ ॥ तत्र धर्मपदं नाम धर्मसिद्धिप्रदं वनम् । अपश्यद्योगिनां गम्यमगम्यं ब्रह्मविद्विषाम् ॥ १,१३.२५ ॥ तत्र मन्दाकिनी नाम सुपुण्या विमला नदी । पद्मोत्पलवनोपेता सिद्धाश्रमविभूषिता ॥ १,१३.२६ ॥ स तस्या दक्षिणे तीरे मुनीन्द्रैर्योगिभिर्वृतम् । सुपुण्यमाश्रमं रम्यमपश्यत्प्रीतिसंयुतः ॥ १,१३.२७ ॥ मन्दाकिनीजले स्त्रात्वा संतर्प्य पितृदेवताः । अर्चयित्वा महादेवं पुष्पैः पद्मोत्पलादिभिः ॥ १,१३.२८ ॥ ध्यात्वार्कंसंस्थमीशानं शिरस्याधाय चाञ्जलिम् । संप्रेक्षमाणो भास्वन्तं तुष्टाव परमेश्वरम् ॥ १,१३.२९ ॥ रुद्राध्यायेन गिरिशं रुद्रस्य चरितेन च । अन्यैश्च विविधैः स्तोत्रैः शांभवैर्वेदसंभवैः ॥ १,१३.३० ॥ अथास्मिन्नन्तरेऽपश्यत्तमायान्तं महामुनिम् । श्वेताश्वतरनामानं महापाशुपतोत्तमम् ॥ १,१३.३१ ॥ भस्मसंदिग्धसवाङ्गं कौपीनाच्छादनान्वितम् । तपसा कर्षितात्मानं शुक्लयज्ञोपवीतिनम् ॥ १,१३.३२ ॥ समाप्य संस्तवं शंभोरानन्दास्त्राविलेक्षणः । ववन्दे शिरसा पादौ प्राञ्जलिर्वाक्यमब्रवीत् ॥ १,१३.३३ ॥ धन्योऽस्म्यनुगृहीतोऽस्मि यन्मे साक्षान्मुनीश्वरः । योगीश्वरोऽद्य भगवान् दृष्टो योगविदां वरः ॥ १,१३.३४ ॥ अहो मे सुमहद्भाग्यं तपांसि सफलानि मे । किं करिष्यामि शिष्योऽहं तव मां पालयानघ ॥ १,१३.३५ ॥ सोऽनुगृह्याथ राजानं सुशीलं शीलसंयुतम् । शिष्यत्वे परिजग्राह तपसा क्षीणकल्पषम् ॥ १,१३.३६ ॥ सांन्यासिकं विधिं कृत्स्नं कारयित्वा विचक्षणः । ददौ तदैश्वरं ज्ञानं स्वशाखाविहितं व्रतम् ॥ १,१३.३७ ॥ अशेषवेदसारं तत्पशुपाशविमोचनम् । अन्त्याश्रममिति ख्यातं ब्रह्मादिभिरनुष्ठितम् ॥ १,१३.३८ ॥ उवाच शिष्यान् संप्रेक्ष्य ये तदाश्रमवासिनः । ब्राह्मणान् क्षत्रियान् वैश्यान् ब्रह्मचर्यपरायणान् ॥ १,१३.३९ ॥ मया प्रवर्तितां शाखामधीत्यैवेह योगिनः । समासते महादेवं ध्यायन्तो निष्कलं शिवम् ॥ १,१३.४० ॥ इह देवो महादेवो रममाणः सहोमया । अध्यास्ते भगवानीशो भक्तानामनुकम्पया ॥ १,१३.४१ ॥ इहाशेषजगद्धाता पुरा नारायणः स्वयम् । आराधयन्महादेवं लोकानां हितकाम्यया ॥ १,१३.४२ ॥ इहैव देवमीशानं देवानामपि दैवतम् । आराध्य महतीं सिद्धिं लेभिरे देवदानवाः ॥ १,१३.४३ ॥ इहैव मुनयः पूर्वं मरीच्याद्या महेश्वरम् । दृष्ट्वा तपोबलाज्ज्ञानं लेभिरे सार्वकालिकम् ॥ १,१३.४४ ॥ तस्मात्त्वमपि राजेन्द्र तपोयोगसमन्वितः । तिष्ठ नित्यं मया सार्धं ततः सिद्धिमवाप्स्यसि ॥ १,१३.४५ ॥ एवमाभाष्य विप्रेन्द्रो देवं ध्यात्वा पिनाकिनम् । आचचक्षे महामन्त्रं यथावत्स्वार्थसिद्धये ॥ १,१३.४६ ॥ सर्वपापोपशमनं वेदसारं विमुक्तिदम् । अग्निरित्यादिकं पुण्यमृषिभिः संप्रवर्तितम् ॥ १,१३.४७ ॥ सोऽपि तद्वचनाद्राजा सुशीलः श्रद्धयान्वितः । साक्षात्पाशुपतो भूत्वा वेदाभ्यासरतोऽभवत् ॥ १,१३.४८ ॥ भस्मोद्धूलितसर्वाङ्गः कन्दमूलफलाशनः । शान्तो दान्तो जितक्रोधः संन्यासविधिमाश्रितः ॥ १,१३.४९ ॥ हविर्धानस्तथाग्नेय्यां जनयामास सत्सुतम् । प्राचीनबर्हिषं नाम्ना धनुर्वेदस्य पारगम् ॥ १,१३.५० ॥ प्राचीनबर्हिर्भागवान् सर्वशस्त्रभृतां वरः । समुद्रतनयायां वै दश पुत्रानजीजनत् ॥ १,१३.५१ ॥ प्रचेतसस्ते विख्याता राजानः प्रथितैजसः । अधीतवन्तः स्वं वेदं नारायणपरायणाः ॥ १,१३.५२ ॥ दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः । दक्षो जज्ञे महाभागो यः पूर्वं ब्रह्मणः सुतः ॥ १,१३.५३ ॥ स तु दक्षो महेशेन रुद्रेण सह धीमता । कृत्वा विवादं रुद्रेण शप्तः प्राचेतसोऽभवत् ॥ १,१३.५४ ॥ समायान्तं महादेवो दक्षं देव्या गृहं हरः । दृष्ट्वा यथोचितां पूजां दक्षाय प्रददौ स्वयम् ॥ १,१३.५५ ॥ तदा वै तमसाविष्टः सोऽदिकां ब्रह्मणः सुतः । पूजामनर्हामन्विच्छन् जगाम कुपितो गृहम् ॥ १,१३.५६ ॥ कदाचित्स्वगृहं प्राप्तां सतीं दक्षः सुदुर्मनाः । भर्त्रा सह विनिन्द्यैनां भर्त्सयामसा वै रुषा ॥ १,१३.५७ ॥ अन्ये जामातरः श्रेष्ठा भर्तुस्तव पिनाकिनः । त्वमप्यसत्सुतास्माकं गृहाद्गच्छ यथागतम् ॥ १,१३.५८ ॥ तस्य तद्वाक्यमाकर्ण्य सा देवी शङ्करप्रिया । विनिन्द्य पितरं दक्षं ददाहात्मानमात्मना ॥ १,१३.५९ ॥ प्रणम्य पशुभर्तारं भर्तारं कृत्तिवाससम् । हिमवद्दुहिता साभूत्तपसा तस्य तोषिता ॥ १,१३.६० ॥ ज्ञात्वा तद्भागवान् रुद्रः प्रपन्नार्तिहरो हरः । शशाप दक्षं कुपितः समागत्याथ तद्गृहम् ॥ १,१३.६१ ॥ त्यक्त्वा देहमिमं ब्रह्मन् क्षत्रियाणां कुलोद्भवः । स्वस्यां सुतायां मूढात्मा पुत्रमुत्पादयिष्यसि ॥ १,१३.६२ ॥ एवमुक्त्वा महादेवो ययौ कालासपर्वतम् । स्वायंभुवोऽपि कालेन दक्षः प्राचेतसोऽभवत् ॥ १,१३.६३ ॥ एतद्वः कथितं सर्वं मनोः स्वायंभुवस्य तु । विसर्गं दक्षपर्यन्तं शृण्वतां पापनाशनम् ॥ १,१३.६४ ॥ इति श्रीकूर्मपुराणे षट्माहस्त्र्यां संहितायां पूर्वविभागे त्रयोदशोऽध्यायः _____________________________________________________________ नैमिषीया ऊचुः देवानां दानवानां च गन्धर्वोरगरक्षसाम् । उत्पत्तिं विस्तरात्सूत ब्रूहि वैवस्वतेऽन्तरे ॥ १,१४.१ ॥ स शप्तः शंभुना पूर्वं दक्षः प्राचेतसो नृपः । किमकार्षोन्महाबुद्धे श्रोतुमिच्छाम सांप्रतम् ॥ १,१४.२ ॥ सूत उवाच वक्ष्ये नारायणेनोक्तं पूर्वकल्पानुषङ्गिकम् । त्रिकालबद्धं पापघ्नं प्रजासर्गस्य विस्तरम् ॥ १,१४.३ ॥ स शप्तः शंभुना पूर्वं दक्षः प्राचेतसो नृपः । विनिन्द्य पूर्ववैरेण गङ्गाद्वरेऽयजद्भवम् ॥ १,१४.४ ॥ देवाश्च सर्वे भागार्थमाहूता विष्णुना सह । सहैव मुनिभिः सर्वैरागता मुनिपुङ्गवाः ॥ १,१४.५ ॥ दृष्ट्वा देवकुलं कृत्स्नं शङ्करेण विनागतम् । दधीचो नाम विप्रर्षिः प्राचेतसमथाब्रवीत् ॥ १,१४.६ ॥ दधीच उवाच ब्रह्मादयः पिशाचान्ता यस्याज्ञानुविधायिनः । स देवः सांप्रतं रुद्रो विधिना किं न पूज्यते ॥ १,१४.७ ॥ दक्ष उवाच सर्वेष्वेव हि यज्ञेषु न भागः परिकल्पितः । न मन्त्रा भार्यया सार्धं शङ्करस्येति नेज्यते ॥ १,१४.८ ॥ विहस्य दक्षं कुपितो वचः प्राह महामुनिः । शृण्वतां सर्वदेवानां सर्वज्ञानमयः स्वयम् ॥ १,१४.९ ॥ दधीच उवाच यतः प्रवृत्तिर्विश्वेषां यश्चास्य परमेश्वरः । संपूज्यते सर्वयज्ञैर्विदित्वा किल शङ्करः ॥ १,१४.१० ॥ न ह्यं शङ्करो रुद्रः संहर्ता तामसो हरः । नग्नः कपाली विकृतो विश्वात्मा नोपपद्यते ॥ १,१४.११ ॥ ईश्वरो हि जगत्स्त्रष्टा प्रभुर्नारायणः स्वराट् । सत्त्वात्मकोऽसौ भगवानिज्यते सर्वकर्मसु ॥ १,१४.१२ ॥ दधीच उवाच किं त्वया भगवानेष सहस्त्रांशुर्न दृश्यते । सर्वलोकैकसंहर्ता कालात्मा परमेश्वरः ॥ १,१४.१३ ॥ यं गृणन्तीह विद्वांसो धार्मिका ब्रह्मवादिनः । सोऽयं साक्षी तीव्ररोचिः कालात्मा शाङ्करीतनुः ॥ १,१४.१४ ॥ एष रुद्रो महादेवः कपर्दे च घृणी हरः । आदित्यो भगवान् सूर्यो नीलग्रीवो विलोहितः ॥ १,१४.१५ ॥ संस्तूयते सहस्त्रांशुः सामगाध्वर्युहोतृभिः । पश्यैनं विश्वकर्माणं रुद्रमूर्ति त्रयीमयम् ॥ १,१४.१६ ॥ दक्ष उवाच य एते द्वादशादित्या आगता यज्ञभागिनः । सर्वे सूर्या इति ज्ञेया न ह्यान्यो विद्यते रविः ॥ १,१४.१७ ॥ एवमुक्ते तु मुनयः समायाता दिदृक्षवः । बाढमित्यब्रुवन् वाक्यं तस्य साहाय्यकारिणः ॥ १,१४.१८ ॥ तमसाविष्टमनसो न पश्यन्ति वृषध्वजम् । सहस्त्रशोऽथ शतशो भूय एव विनिन्द्यते ॥ १,१४.१९ ॥ निन्दन्तो वैदिकान्मन्त्रान् सर्वभूतपतिं हरम् । अपूजयन् दक्षवाक्यं मोहिता विष्णुमायया ॥ १,१४.२० ॥ देवाश्च सर्वे भागार्थमागता वासवादयः । नापश्यन् देवमीशानमृते नारायणं हरिम् ॥ १,१४.२१ ॥ हिरण्यगर्भो भगवान् ब्रह्मा ब्रह्मविदां वरः । पश्यतामेव सर्वेषां क्षणादन्तरधीयत ॥ १,१४.२२ ॥ अन्तर्हिते भगवति दक्षो नारायणं हरिम् । रक्षकं जगतां देवं जगाम शरणं स्वयम् ॥ १,१४.२३ ॥ प्रवर्तयामास च तं यज्ञं दक्षोऽथ निर्भयः । रक्षते भगवान् विष्णुः शरणागतरक्षकः ॥ १,१४.२४ ॥ पुनः प्राह च तं दक्षं दधीचो भगवानृषिः । संप्रेक्ष्यर्षिगणान् देवान् सर्वान् वै ब्रह्मविद्विषः ॥ १,१४.२५ ॥ अपूज्यपूजने चैव पूज्यानां चाप्यपूजने । नरः पापमवाप्नोति महद्वै नात्र संशयः ॥ १,१४.२६ ॥ असतां प्रग्रहो यत्र सतां चैव विमानना । दण्डो देवकृतस्तत्र सद्यः पतति दारुणः ॥ १,१४.२७ ॥ एवमुक्त्वा तु विप्रर्षिः शशापेश्वरविद्विषः । समागतान् ब्राह्मणांस्तान् दक्षसाहाय्यकारिणः ॥ १,१४.२८ ॥ यस्माद्बहिष्कृता वेदा भवद्भिः परमेश्वरः । विनिन्दितो महादेवः शङ्करो लोकवन्दितः ॥ १,१४.२९ ॥ भविष्यध्वं त्रयीबाह्याः सर्वेऽपीश्वरविद्विषः । निन्दन्तो ह्यैश्वरं मार्गं कुशास्त्रासक्तमानसाः ॥ १,१४.३० ॥ मिथ्याधीतसमाचारा मिथ्याज्ञानप्रलापिनः । प्राप्य घोरं कलियुगं कलिजैः किल पीडिताः ॥ १,१४.३१ ॥ त्यक्त्वा तपोबलं कृत्स्नं गच्छध्वं नरकान् पुनः । भविष्यति हृषीकेशः स्वाश्रितोऽपि पराङ्मुखः ॥ १,१४.३२ ॥ एवमुक्त्वा तु विप्रर्षिर्विरराम तपोनिधिः । जगाम मनसा रुद्रमशेषाघविनाशनम् ॥ १,१४.३३ ॥ एतस्मिन्नन्तरे देवी महादेवं महेश्वरम् । पतिं पशुपतिं देवं ज्ञात्वैतत्प्राह सर्वदृक् ॥ १,१४.३४ ॥ देव्युवाच दक्षो यज्ञेन यजते पिता मे पूर्वजन्मनि । विनिन्द्य भवतो भावमात्मानं चापि शङ्कर ॥ १,१४.३५ ॥ देवाः सहर्षिभिश्चासंस्तत्र साहाय्यकारिणः । विनाशयाशु तं यज्ञं वरमेकं वृणोम्यहम् ॥ १,१४.३६ ॥ एवं विज्ञापितो देव्या देवो देववरः प्रभुः । ससर्ज सहसा रुद्रं दक्षयज्ञजिघांसया ॥ १,१४.३७ ॥ सहस्त्रशीर्षपादं च सहस्त्राक्षं महाभुजम् । सहस्त्रपाणिं दुर्धर्षं युगान्तानलसन्निभम् ॥ १,१४.३८ ॥ दंष्ट्राकरालं दुष्प्रेक्ष्यं शङ्खचक्रगदाधरम् । दण्डहस्तं महानादं शार्ङ्गिणं भूतिभूषणम् ॥ १,१४.३९ ॥ वीरभद्र इति ख्यातं देवदेवसमन्वितम् । स जातमात्रो देवेशमुपतस्थे कृताञ्जलिः ॥ १,१४.४० ॥ तमाह दक्षस्य मखं विनाशय शिवोस्त्विति । विनिन्द्य मां स यजते गङ्गाद्वारे गणेश्वर ॥ १,१४.४१ ॥ ततो बन्धुप्रयुक्तेन सिंहेनैकेन लीलया । वीरभद्रेण दक्षस्य विनाशमगमत्क्रतुः ॥ १,१४.४२ ॥ मन्युना चोमया सृष्टा भद्रकाली महेश्वरी । तया च सार्धं वृषभं समारुह्य ययौ गणः ॥ १,१४.४३ ॥ अन्ये सहस्त्रशो रुद्रा निसृष्टास्तेन धीमता । रोमजा इति विख्यातास्तस्य साहाय्यकारिणः ॥ १,१४.४४ ॥ शूलशक्तिगदाहस्ताष्टङ्कोपलकरास्तथा । कालाग्निरुद्रसंकाशा नादयन्तो दिशो दश ॥ १,१४.४५ ॥ सर्वे वृषासनारूढाः सभार्याश्चातिभीषणाः । समावृत्य गणश्रेष्ठं ययुर्दक्षमखं प्रति ॥ १,१४.४६ ॥ सर्वे शंप्राप्य तं देशं गङ्गाद्वारमिति श्रुतम् । ददृशुर्यज्ञदेशं तं दक्षस्यामिततेजसः ॥ १,१४.४७ ॥ देवाङ्गनासहस्त्राढ्यमप्सरोगीतनादितम् । वीणावेणुनिनादाढ्यं वेदवादाभिनादितम् ॥ १,१४.४८ ॥ दृष्ट्वा सहर्षिभिर्देवैः समासीनं प्रजापतिम् । उवाच भद्रया रुद्रैर्वोरभद्रः स्मयन्निव ॥ १,१४.४९ ॥ वयं ह्यनुचराः सर्वे शर्वस्यामिततेजसः । भागाभिलप्सया प्राप्ता भागान् यच्छध्वमीप्सितान् ॥ १,१४.५० ॥ अथ चेत्कस्यचिदियमाज्ञा मुनिसुरोत्तमाः । भागो भवद्भ्यो देयस्तु नास्मभ्यमिति कथ्यताम् । तं ब्रूताज्ञापयति यो वेत्स्यामो हि वयं ततः ॥ १,१४.५१ ॥ एवमुक्ता गणेशेन प्रजापतिपुरः सराः । देवा ऊचुर्यज्ञभागे न च मन्त्रा इति प्रभुम् ॥ १,१४.५२ ॥ मन्त्रा ऊचुः सुरान् यूयं तमोपहतचेतसः । ये नाध्वरस्य राजानं पूजयध्वं महेश्वरम् ॥ १,१४.५३ ॥ ईश्वरः सर्वभूतानां सर्वभूततनुर्हरः । पूज्यते सर्वयज्ञेषु सर्वाभ्युदसिद्धिदः ॥ १,१४.५४ ॥ एवमुक्ता अपीशानं मायया नष्टचेतसः । न मेनिरे ययुर्मन्त्रा देवान्मुक्त्वा स्वमालयम् ॥ १,१४.५५ ॥ ततः स रुद्रो भगवान् सभार्यः सगणेश्वरः । स्पृशन् कराभ्यां ब्रह्मर्षि दधीचं प्राह देवताः ॥ १,१४.५६ ॥ मन्त्राः प्रमाणं न कृता युष्माभिर्बलगर्वितैः । यस्मात्प्रसह्य तस्माद्वो नाशयाम्यद्य गर्वितम् ॥ १,१४.५७ ॥ इत्युक्त्वा यज्ञशालां तां ददाह गणपुङ्गवः । गणेश्वराश्च संक्रुद्धा यूपानुत्पाट्य चिक्षिपुः ॥ १,१४.५८ ॥ प्रस्तोत्रा सह होत्रा च अश्वं चैव गणेश्वराः । गृहीत्वा भीषणाः सर्वे गङ्गास्त्रोतसि चिक्षिपुः ॥ १,१४.५९ ॥ वीरभद्रोऽपि दीप्तात्मा शक्रस्योद्यच्छतः करम् । व्यष्टम्भयददीनात्मा तथान्येषां दिवौकसाम् ॥ १,१४.६० ॥ भगस्य नेत्रे चोत्पाट्य करजाग्रेण लीलया । निहत्य मुष्टिना दन्तान् पूष्णश्चैवमपातयत् ॥ १,१४.६१ ॥ तथा चन्द्रमसं देवं पादाङ्गुष्ठेन लीलया । धर्षयामास बलवान् स्मयमानो गणेश्वरः ॥ १,१४.६२ ॥ वह्नेर्हस्तद्वयं छित्त्वा जिह्वामुत्पाट्य लीलया । जघान मूर्ध्नि पादेन मुनीनपि मुनीश्वराः ॥ १,१४.६३ ॥ तथा विष्णुं सहरुडं समायान्तं महाबलः । विव्याध निशेतैर्बाणैः स्तम्भयित्वा सुदर्शनम् ॥ १,१४.६४ ॥ समालोक्य महाबाहुरागत्य गरुडो गणम् । जघान पक्षैः सहसा ननादाम्बुनिधिर्यथा ॥ १,१४.६५ ॥ ततः सहस्त्रशो भद्रः ससर्ज गरुडान् स्वयम् । वैनतेयादभ्यधिकान् गरुडं ते प्रदुद्रुवुः ॥ १,१४.६६ ॥ तान् दृष्ट्वा गरुडो धीमान् पलायत महाजवः । विसृज्य माधवं वेगात्तदद्भुतमिवाभवत् ॥ १,१४.६७ ॥ अन्तर्हिते वैनतेये भगवान् पद्मसंभवः । आगत्य वारयामास वीरभद्रं च केशवम् ॥ १,१४.६८ ॥ प्रसादयामास च तं गौरवात्परमेष्ठिनः । संस्तूय भगवानीशः साम्बस्तत्रागमत्स्वयम् ॥ १,१४.६९ ॥ वीक्ष्य देवाधिदेवं तं साम्बं सर्वगणैर्वृतम् । तुष्टाव भगवान् ब्रह्मा दक्षः सर्वे दिवौकसः ॥ १,१४.७० ॥ विशेषात्पार्वतीं देवीमीश्वरार्धशरीरिणीम् । स्तोत्रैर्नानाविधैर्दक्षः प्रणम्य च कृताञ्जलिः ॥ १,१४.७१ ॥ ततो भगवती देवी प्रहसन्ती महेश्वरम् । प्रसन्नमानसा रुद्रं वचः प्राह घृणानिधिः ॥ १,१४.७२ ॥ त्वमेव जगतः स्त्रष्टा शासिता चैव रक्षकः । अनुग्राह्यो भगवता दक्षश्चापि दिवौकसः ॥ १,१४.७३ ॥ ततः प्रहस्य भगवान् कपर्दे नीललोहितः । उवाच प्रणतान् देवान् प्राचेतसमथो हरः ॥ १,१४.७४ ॥ गच्छध्वं देवताः सर्वाः प्रसन्नो भवतामहम् । संपूज्यः सर्वयज्ञेषु न निन्द्योऽहं विशेषतः ॥ १,१४.७५ ॥ त्वं चापि शृणु मे दक्ष वचनं सर्वरक्षणम् । त्यक्त्वा लोकैषणामेतां मद्भक्तो भव यत्नतः ॥ १,१४.७६ ॥ भविष्यसि गणेशानः कल्पान्तेऽनुग्रहान्मम । तावत्तिष्ठ ममादेशात्स्वाधिकारेषु निर्वृतः ॥ १,१४.७७ ॥ एवमुक्त्वा स भगवान् सपत्नीकः सहानुगः । अदर्शनमनुप्राप्तो दक्षस्यामिततेजसः ॥ १,१४.७८ ॥ अन्तर्हिते महादेवे शङ्करे पद्मसंभवः । व्याजहार स्वयं दक्षमशेषजगतो हितम् ॥ १,१४.७९ ॥ ब्रह्मोवाच किं तवापगतो मोहः प्रसन्ने वृषभध्वजे । यदाचष्ट स्वयं देवः पालयैतदतन्द्रितः ॥ १,१४.८० ॥ सर्वेषामेव भूतानां हृद्येष वसतीश्वरः । पश्यन्त्येनं ब्रह्मभूता विद्वांसो वेदवादिनः ॥ १,१४.८१ ॥ स आत्मा सर्वभूतानां स बीजं परमा गतिः । स्तूयते वैदिकैर्मन्त्रैर्देवदेवो महेश्वरः ॥ १,१४.८२ ॥ तमर्चयति यो रुद्रं स्वात्मन्येकं सनातनम् । चेतसा भावयुक्तेन स याति परमं पदम् ॥ १,१४.८३ ॥ तस्मादनादिमध्यान्तं विज्ञाय परमेश्वरम् । कर्मणा मनसा वाचा समाराधय यत्नतः ॥ १,१४.८४ ॥ यत्नात्परिहरेशस्य निन्दामात्मविनाशनीम् । भवन्ति सर्वदोषाय निन्दकस्य क्रिया यतः ॥ १,१४.८५ ॥ यस्तवैष महायोगी रक्षको विष्णुरव्ययः । स देवदेवो भगवान्महादेवो न संशयः ॥ १,१४.८६ ॥ मन्यन्ते ये जगद्योनिं विभिन्नं विष्णुमीश्वरात् । मोहादवेदनिष्ठत्वात्ते यान्ति नरकं नराः ॥ १,१४.८७ ॥ वेदानुवर्तिनो रुद्रं देवं नारायणं तथा । एकीभावेन पश्यन्ति मुक्तिभाजो भवन्ति ते ॥ १,१४.८८ ॥ यो विष्णुः स स्वयं रुद्रो यो रुद्रः स जनार्दनः । इति मत्वा यजेद्देवं स याति परमां गतिम् ॥ १,१४.८९ ॥ सृजत्येतज्जगत्सर्वं विष्णुस्तत्पश्यतीश्वरः । इत्थं जगत्सर्वमिदं रुद्रनारायणोद्भवम् ॥ १,१४.९० ॥ तस्मात्त्यक्त्वा हरेर्निन्दां विष्णावपि समाहितः । समाश्रयेन्महादेवं शरण्यं ब्रह्मवादिनाम् ॥ १,१४.९१ ॥ उपश्रुत्याथ वचनं विरिञ्चस्य प्रजापतिः । जगाम शरणं देवं गोपतिं कृत्तिवाससम् ॥ १,१४.९२ ॥ येऽन्ये शापाग्निनिर्दग्धा दधीचस्य महर्षयः । द्विषन्तो मोहिता देवं संबभूवुः कलिष्वथ ॥ १,१४.९३ ॥ त्यक्त्वा तपोबलं कृत्स्नं विप्राणां कुलसंभवाः । पूर्वसंस्कारमहात्म्याद्ब्रह्मणो वचनादिह ॥ १,१४.९४ ॥ मुक्तशापास्ततः सर्वे कल्पान्ते रौरवादिषु । निपात्यमानाः कालेन संप्राप्यादित्यवर्चसम् । ब्रह्माणं जगतामीशमनुज्ञाताः स्वयंभुवा ॥ १,१४.९५ ॥ समाराध्य तपोयोगादीशानं त्रिदशाधिपम् । भविष्यन्ति यथा पूर्वं शङ्करस्य प्रसादतः ॥ १,१४.९६ ॥ एतद्वः कथितं सर्वं दक्षयज्ञनिषूदनम् । शृणुध्वं दक्षपुत्रीणां सर्वासां चैव संततिम् ॥ १,१४.९७ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे चतुर्दशोऽध्यायः _____________________________________________________________ सूत उवाच प्रजाः सृजेति व्यादिष्टः पूर्वं दक्षः स्वयंभुवा । ससर्ज देवान् गन्धर्वानृषींश्चैवासुरोरगान् ॥ १,१५.१ ॥ यदास्य सृजमानस्य न व्यवर्धन्त ताः प्रजाः । तदा ससर्ज भूतानि मैथुनेनैव धर्मतः ॥ १,१५.२ ॥ असिक्न्यां जनयामास वीरणस्य प्रजापतेः । सुतायां धर्मयुक्तायां पुत्राणां तु सहस्त्रकम् ॥ १,१५.३ ॥ तेषु पुत्रेषु नष्टेषु मायया नारदस्य सः । षष्टिं दक्षोऽसृजत्कन्या वैरण्यां वै प्रजापतिः ॥ १,१५.४ ॥ ददौ स दश धर्माय कश्यपाय त्रयोदश । विंशत्सप्त च सोमाय चतस्त्रोऽरिष्टनेमिने ॥ १,१५.५ ॥ द्वे चैव बहुपुत्राय द्वे कृशाश्वाय धीमते । द्वे चैवाङ्गिरसे तद्वत्तासां वक्ष्येऽथ निस्तरम् ॥ १,१५.६ ॥ अरुन्धती वसुर्जामी लम्बा भानुर्मरुत्वती । संकल्पा च मुहूर्ता च साध्या विश्वा च भामिनी ॥ १,१५.७ ॥ धर्मपत्न्यो दश त्वेतास्तासां पुत्रान्निबोधत । विश्वाया विश्वदेवास्तु साध्या साध्यानजीजनत् ॥ १,१५.८ ॥ मरुत्वन्तो मरुत्वत्यां वसवोऽष्टौ वसोः सुताः । भानोस्तु भानवश्चैव मुहूर्ता वै मुहूर्तजाः ॥ १,१५.९ ॥ लम्बायाश्चाथ घोषो वै नागवीथी तु जामिजा । पृथिवीविषयं सर्वमरुन्दत्यामजायत । संकल्पायास्तु संकल्पो धर्मपुत्रा दश स्मृताः ॥ १,१५.१० ॥ आपो ध्रुवश्च सोमश्च धरश्चैवानिलोऽनलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥ १,१५.११ ॥ आपस्य पुत्रो वैतण्ड्यः श्रमः श्रान्तो धुनिस्तथा । ध्रुवस्य पुत्रो भगवान् कालो लोकप्रकालनः ॥ १,१५.१२ ॥ सोमस्य भगवान् वर्चा धरस्य द्रविणः सुतः । पुरोजवोऽनिलस्य स्यादविज्ञातगतिस्तथा ॥ १,१५.१३ ॥ कुमारो ह्यनलस्यासीत्सेनापतिरिति स्मृतः । देवलो भगवान् योगी प्रत्यूषस्याभवत्सुतः । विश्वकर्मा प्रभासस्य शिल्पकर्ता प्रजापतिः ॥ १,१५.१४ ॥ अदितिर्दितिर्दनुस्तद्वदरिष्टा सुरसा तथा । सुरभिर्विनता चैव ताम्र क्रोधवशा इरा । कद्रुर्मुनिश्च धर्मज्ञा तत्पुत्रान् वै निबोधत ॥ १,१५.१५ ॥ अंशो धाता भगस्त्वष्टा मित्रोऽथ वरुणोर्ऽयमा । विवस्वान् सविता पूषा ह्यंशुमान् विष्णुरेव च ॥ १,१५.१६ ॥ तुषिता नाम ते पूर्वं चाक्षुषस्यान्तरे मनोः । वैवस्वतेऽन्तरे प्रोक्ता आदित्याश्चादितेः सुताः ॥ १,१५.१७ ॥ दितिः पुत्रद्वयं लेभे कश्यपाद्बलसंयुतम् । हिरण्यकशिपुं ज्येष्ठं हिरण्याक्षं तथापरम् ॥ १,१५.१८ ॥ हिरण्यकशिपुर्दैत्यो महाबलपराक्रमः । आराध्य तपसा देवं ब्रह्माणं परमेष्ठिनम् । दृष्ट्वालेभेवरान् दिव्यान् स्तुत्वासौ विविधैः स्तवै ॥ १,१५.१९ ॥ अथ तस्य बलाद्देवाः सर्व एव सुरर्षयः । बाधितास्ताडिता जग्मुर्देवदेवं पितामहम् ॥ १,१५.२० ॥ शरण्यं शरणं देवं शंभुं सर्वजगन्मयम् । ब्रह्माणं लोककर्तारं त्रातारं पुरुषं परम् । कूटस्थं जगतामेकं पुराणं पुरुषोत्तमम् ॥ १,१५.२१ ॥ स याचितो देववरैर्मुनिभिश्च मुनीश्वराः । सर्वदेवहितार्थाय जगाम कमलासनः ॥ १,१५.२२ ॥ संस्तूयमानः प्रणतैर्मुनीन्द्रैरमरैरपि । क्षीरोदस्योत्तरं कूलं यत्रास्ते हरिरीश्वरः ॥ १,१५.२३ ॥ दृष्ट्वा देवं जगद्योनिं विष्णुं विश्वगुरुं शिवम् । ववन्दे चरणौ मूर्ध्ना कृताञ्जलिरभाषत ॥ १,१५.२४ ॥ ब्रह्मोवाच त्वं गतिः सर्वभूतानामनन्तोऽस्यखिलात्मकः । व्यापी सर्वामरवपुर्महायोगी सनातनः ॥ १,१५.२५ ॥ त्वमात्मा सर्वभूतानां प्रधानं प्रकृतिः परा । वैराग्यैश्वर्यनिरतो रागातीतो निरञ्जनः ॥ १,१५.२६ ॥ त्वं कर्ता चैव भर्ता च निहन्ता सुरविद्विषाम् । त्रातुमर्हस्यनन्तेश त्राता हि परमेश्वरः ॥ १,१५.२७ ॥ इत्थं स विष्णुर्भगवान् ब्रह्मणा संप्रबोधितः । प्रोवाचोन्निद्रपद्माक्षः पीतवासासुरद्विषः ॥ १,१५.२८ ॥ किमर्थं सुमहावीर्याः सप्रजापतिकाः सुराः । इमं देशमनुप्राप्ताः किं वा कार्यं करोमि वः ॥ १,१५.२९ ॥ देवा ऊचुः हिरण्यकशिपुर्नाम ब्रह्मणो वरदर्पितः । बाधते भगवन् दैत्यो देवान् सर्वान् सहर्षिभिः ॥ १,१५.३० ॥ अवध्यः सर्वभूतानां त्वामृते पुरुषोत्तम । हन्तुमर्हसि सर्वेषां त्वं त्रातासि जगन्मय ॥ १,१५.३१ ॥ श्रुत्वा तद्दैवतैरुक्तं स विष्णुर्लोकभावनः । वधाय दैत्यमुख्यस्य सोऽसृजत्पुरुषं स्वयम् ॥ १,१५.३२ ॥ मेरुपर्वतवर्ष्माणं घोररूपं भयानकम् । शङ्खचक्रगदापाणिं तं प्राह गरुडध्वजः ॥ १,१५.३३ ॥ हत्वा तं दैत्यराजं त्वं हिरण्यकशिपुं पुनः । इमं देशं समागन्तुं क्षिप्रमर्हसि पौरुषात् ॥ १,१५.३४ ॥ निशम्य वैष्णवं वाक्यं प्रणम्य पुरुषोत्तमम् । महापुरुषमव्यक्तं ययौ दैत्यमहापुरम् ॥ १,१५.३५ ॥ विमुञ्चन् भैरवं नादं शङ्खचक्रगदाधरः । आरुह्य गरुडं देवो महामेरुरिवापरः ॥ १,१५.३६ ॥ आकर्ण्य दैत्यप्रवरा महामेघरवोपमम् । समाचचक्षिरे नादं तदा दैत्यपतेर्भयात् ॥ १,१५.३७ ॥ असुरा ऊचुः कश्चिदागच्छति महान् पुरुषो देवचोदितः । विमुञ्चन् भैरवं नादं तं जानीमोऽमरार्दन ॥ १,१५.३८ ॥ ततः सहासुरवरैर्हिरण्यकशिपुः स्वयम् । संनद्धैः सायुधैः पुत्रैः प्रह्रादाद्यैस्तदा ययौ ॥ १,१५.३९ ॥ दृष्ट्वा तं गरुडासीनं सूर्यकोटिसमप्रभम् । पुरुषं पर्वताकारं नारायणमिवापरम् ॥ १,१५.४० ॥ दुद्रुवुः केचिदन्योन्ममूचुः संभ्रान्तलोचनाः । अयं स देवो देवानां गोप्ता नारायणो रिपुः ॥ १,१५.४१ ॥ अस्माकमव्ययो नूनं तत्सुतो वा समागतः । इत्युक्त्वा शस्त्रवर्षाणि ससृजुः पुरुषाय ते । तानि चाशेषतो देवो नाशयामास लीलया ॥ १,१५.४२ ॥ तदा हिरण्यकशिपोश्चत्वारः प्रथितौजसः । पुत्रा नारायणोद्भूतं युयुधुर्मेघनिः स्वनाः । प्रह्रादश्चाप्यनुह्रादः संह्रादो ह्राद एव च ॥ १,१५.४३ ॥ प्रह्रादः प्राहिणोद्ब्राह्ममनुह्रादोऽथ वैष्णवम् । संह्रादश्चापि कौमारमाग्नेयं ह्राद एव च ॥ १,१५.४४ ॥ तानि तं पुरुषं प्राप्य चत्वार्यस्त्राणि वैष्णवम् । न शेकुर्बाधितुं विष्णुं वासुदेवं यथा तथा ॥ १,१५.४५ ॥ अथासौ चतुरः पुत्रान्महाबाहुर्महाबलः । प्रगृह्य पादेषु करैः संचिक्षेप ननाद च ॥ १,१५.४६ ॥ विमुक्तेष्वथ पुत्रेषु हिरण्यकशिपुः स्वयम् । पादेन ताडयामास वेगेनोरसि तं बली ॥ १,१५.४७ ॥ स तेन पीडितोऽत्यर्थं गरुडेन तथाऽशुगः । अदृश्यः प्रययौ तूर्णं यत्र नारायणः प्रभुः । गत्वा विज्ञापयामास प्रवृत्तमखिलं तथा ॥ १,१५.४८ ॥ संचिन्त्य मनसा देवः सर्वज्ञानमयोऽमलः । नरस्यार्धतनुं कृत्वा सिंहस्यार्धतनुं तथा ॥ १,१५.४९ ॥ नृसिंहवपुरव्यक्तो हिरण्यकशिपोः पुरे । आविर्बभूव सहसा मोहयन् दैत्यपुङ्गवान् ॥ १,१५.५० ॥ दंष्ट्राकरालो योगात्मा युगान्तदहनोपमः । समारुह्यात्मनः शक्तिं सर्वसंहारकारिकाम् । भाति नारायणोऽनन्तो यथा मध्यन्दिने रविः ॥ १,१५.५१ ॥ दृष्ट्वा नृसिंहवपुषं प्रह्रादं ज्येष्ठपुत्रकम् । वधाय प्रेरयामास नरसिहस्य सोऽसुरः ॥ १,१५.५२ ॥ इमं नृसिंहवपुषं पूर्वस्माद्बहुशक्तिकम् । सहैव त्वनुजैः सर्वैर्नाशयाशु मयेरितः ॥ १,१५.५३ ॥ तत्संनियोगादसुरः प्रह्रादो विष्णुमव्ययम् । युयुधे सर्वयत्नेन नरसिंहेन निर्जितः ॥ १,१५.५४ ॥ ततः संचोदितो दैत्यो हिरण्याक्षस्तदानुजः । ध्यात्वा पशुपतेरस्त्रं ससर्ज च ननाद च ॥ १,१५.५५ ॥ तस्य देवादिदेवस्य विष्णोरमिततेजसः । न हानिमकरोदस्त्रं यथा देवस्य शूलिनः ॥ १,१५.५६ ॥ दृष्ट्वा पराहतं त्वस्त्रं प्रह्रादो भाग्यगौरवात् । मेने सर्वात्मकं देवं वासुदेवं सनातनम् ॥ १,१५.५७ ॥ संत्यज्य सर्वशस्त्राणि सत्त्वयुक्तेन चेतसा । ननाम शिरसा देवं योगिनां हृदयेशयम् ॥ १,१५.५८ ॥ स्तुत्वा नारायणैः स्तोत्रैः ऋग्यजुः सामसंभवैः । निवार्य पितरं भ्रातृन् हिरण्याक्षं तदाब्रवीत् ॥ १,१५.५९ ॥ अयं नारायणोऽनन्तः शाश्वतो भगवानजः । पुराणपुरुषो देवो महायोगी जगन्मयः ॥ १,१५.६० ॥ अयं धाता विधाता च स्वयञ्ज्योतिर्निरञ्जनः । प्रधानपुरुषस्तत्त्वं मूलप्रकृतिरव्ययः ॥ १,१५.६१ ॥ ईश्वरः सर्वभूतानामन्तर्यामी गुणातिगः । गच्छध्वमेनं शरणं विष्णुमव्यक्तमव्ययम् ॥ १,१५.६२ ॥ एवमुक्ते सुदुर्बुद्धिर्हिरण्यकशिपुः स्वयम् । प्रोवाच पुत्रमत्यर्थं मोहितो विष्णुमायया ॥ १,१५.६३ ॥ अयं सर्वात्मना वध्यो नृसिंहोऽल्पपराक्रमः । समागतोऽस्मद्भवनमिदानीं कालचोदितः ॥ १,१५.६४ ॥ विहस्य पितरं पुत्रो वचः प्राह महामतिः । मा निन्दस्वैनमीशानं भूतानामेकमव्ययम् ॥ १,१५.६५ ॥ कथं देवो महादेवः शाश्वतः कालवर्जितः । कालेन हन्यते विष्णुः कालात्मा कालरूपधृक् ॥ १,१५.६६ ॥ ततः सुवर्णकशिपुर्दुरात्मा विधिचोदितः । निवारितोऽपि पुत्रेण युयोध हरिमव्ययम् ॥ १,१५.६७ ॥ संरक्तनयनोऽन्तो हिरण्यनयनाग्रजम् । नखैर्विदारयामास प्रह्रादस्यैव पश्यतः ॥ १,१५.६८ ॥ हते हिरण्यकशिपौ हिरण्याक्षो महाबलः । विसृज्य पुत्रं प्रह्रादं दुद्रुवे भयविह्वलः ॥ १,१५.६९ ॥ अनुह्रादादयः पुत्रा अन्ये च शतशोऽसुराः । नृसिंहदेहसंभूतैः सिंहैर्नोता यमालयम् ॥ १,१५.७० ॥ ततः संहृत्य तद्रूपं हरिर्नारायणः प्रभुः । स्वमेव परमं रूपं ययौ नारायणाह्वयम् ॥ १,१५.७१ ॥ गते नारायणे दैत्यः प्रह्रादोऽसुरसत्तमः । अभिषेकेण युक्तेन हिरण्याक्षमयोजयत् ॥ १,१५.७२ ॥ स बाधयामास सुरान् रणे जित्वा मुनीनपि । लब्ध्वान्धकं महापुत्रं तपसाराध्य शङ्करम् ॥ १,१५.७३ ॥ देवाञ्जित्वा सदेवेन्द्रान् बध्वाच धरणीमिमाम् । नीत्वा रसातलं चक्रे वन्दीमिन्दीवरप्रभाम् ॥ १,१५.७४ ॥ ततः सब्रह्मका देवाः परिम्लानमुखश्रियः । गत्वा विज्ञापयामासुर्विष्णवे हरिमन्दिरम् ॥ १,१५.७५ ॥ स चिन्तयित्वा विश्वात्मा तद्वधोपायमव्ययः । सर्वेदेवमयं शुभ्रं वाराहं वपुरादधे ॥ १,१५.७६ ॥ गत्वा हिरण्यनयनं हत्वा तं पुरुषोत्तमः । दंष्ट्रयोद्धारयामास कल्पादौ धरणीमिमाम् ॥ १,१५.७७ ॥ त्यक्त्वा वराहसंस्थानं संस्थाप्य च सुरद्विजान् स्वामेव प्रकृतिं दिव्यां ययौ विष्णुः परं पदम् ॥ १,१५.७८ ॥ तस्मिन् हतेऽमररिपौ प्रह्रादौ विष्णुतत्परः । अपालयत्स्वकंराज्यं भावं त्यक्त्वा तदाऽसुरम् ॥ १,१५.७९ ॥ इयाज विधिवद्देवान् विष्णोराराधने रतः । निः सपत्नं तदा राज्यं तस्यासीद्विष्णुवैभवात् ॥ १,१५.८० ॥ ततः कदाचिदसुरो ब्राह्मणं गृहमागतम् । तापसं नार्चयामास देवानां चैव मायया ॥ १,१५.८१ ॥ स तेन तापसोऽत्यर्थं मोहितेनावमानितः । शशापासुरराजानं क्रोधसंरक्तलोचनः ॥ १,१५.८२ ॥ यत्तद्वलं समाश्रित्य ब्राह्मणानवमन्यसे । सा भक्तिर्वैष्णवी दिव्या विनाशं ते गमिष्यति ॥ १,१५.८३ ॥ इत्युक्त्वा प्रययौ तूर्णं प्रह्रादस्य गृहाद्द्विजः । मुमोह राज्यसंसक्तः सोऽपि शापबलात्ततः ॥ १,१५.८४ ॥ बाधयामास विप्रेन्द्रान्न विवेद जनार्दनम् । पितुर्वधमनुस्मृत्य क्रोधं चक्रे हरिं प्रति ॥ १,१५.८५ ॥ तयोः समभवद्युद्धं सुघोरं रोमहर्षणम् । नारायणस्य देवस्य प्रह्रादस्यामरद्विषः ॥ १,१५.८६ ॥ कृत्वा तु सुमहद्युद्धं विष्णुना तेन निर्जितः । पुर्वसंस्कारमाहात्म्यात्परस्मिन् पुरुषे हरौ । संजातं तस्य विज्ञानं शरण्यं शरणं ययौ ॥ १,१५.८७ ॥ ततः प्रभृति दैत्येन्द्रो ह्यनन्यां भक्तिमुद्वहन् । नारायणे महायोगमवाप पुरुषोत्तमे ॥ १,१५.८८ ॥ हिरण्यकशिपोः पुत्रे योगसंसक्तचेतसि । अवाप तन्महद्राज्यमन्धकोऽसुरपुङ्गवः ॥ १,१५.८९ ॥ हिरण्यनेत्रतनयः शंभोर्देहसमुद्भवः । मन्दरस्थामुमां देवीं चकमे पर्वतात्मजाम् ॥ १,१५.९० ॥ पुरा दारुवने पुण्ये मुनयो गृहमेधिनः । ईश्वराराधनार्थाय तपश्चेरुः सहस्त्रशः ॥ १,१५.९१ ॥ ततः कदाचिन्महति कालयोगेन दुस्तरा । अनावृष्टिरतीवोग्रा ह्यासीद्भूतविनाशिनी ॥ १,१५.९२ ॥ समेत्य सर्वे मुनयो गौतमं तपसां निधिम् । अयाचन्त क्षुधाविष्टा आहारं प्राणधारणम् ॥ १,१५.९३ ॥ स तेभ्यः प्रददावन्नं मृष्टं बहुतरं बुधः । सर्वे बुबुजिरे विप्रा निर्विशङ्केन चेतसा ॥ १,१५.९४ ॥ गते तु द्वादशे वर्षे कल्पान्त इव शङ्करी । बभूव वृष्टिर्महती यथापूर्वमभूज्जगत् ॥ १,१५.९५ ॥ ततः सर्वे मुनिवराः समामन्त्र्य परस्परम् । महर्षि गौतमं प्रोचुर्गच्छाम इति वेगतः ॥ १,१५.९६ ॥ निवारयामास च तान् कञ्चित्कालं यथासुखम् । उषित्वा मद्गृहेऽवश्यं गच्छध्वमिति पण्डिताः ॥ १,१५.९७ ॥ ततो मायामयीं सृष्ट्वा कृशां गां सर्व एव ते । समीपं प्रापयामासुगौतमस्य महात्मनः ॥ १,१५.९८ ॥ सोऽनुवीक्ष्य कृपाविष्टस्तस्याः संरक्षणोत्सुकः । गोष्ठे तां बन्धयामास स्पृष्टमात्रा ममार सा ॥ १,१५.९९ ॥ स शोकेनाभिसंतप्तः कार्याकार्यं महामुनिः । न पश्यति स्म सहसा तादृशं मुनयोऽब्रुवन् ॥ १,१५.१०० ॥ गोवध्येयं द्विजश्रेष्ठ यावत्तव शरीरगा । तावत्तेऽन्नं न भोक्तव्यं गच्छामो वयमेव हि ॥ १,१५.१०१ ॥ तेन ते मुदिताः सन्तो देवदारुवनं शुभम् । जग्मुः पापवशं नीतास्तपश्चर्तुं यथा पुरा ॥ १,१५.१०२ ॥ स तेषां मायया जातां गोवध्यां गौतमो मुनिः । केनापि हेतुना ज्ञात्वा शशापातीवकोपनः ॥ १,१५.१०३ ॥ भविष्यन्ति त्रयीबाह्या महापातकिभिः समाः । बभूवुस्ते तथा शापाज्जायमानाः पुनः पुनः ॥ १,१५.१०४ ॥ सर्वे संप्राप्य देवेशं शङ्करं विष्णुमव्ययम् । अस्तुवन् लौकिकैः स्तोत्रैरुच्छिष्टा इव सर्वगौ ॥ १,१५.१०५ ॥ देवदेवौ महादेवौ भक्तानामार्तिनाशनौ । कामवृत्त्या महायोगौ पापान्नस्त्रातुमर्हथः ॥ १,१५.१०६ ॥ तदा पार्श्वस्थितं विष्णुं संप्रेक्ष्य वृषभध्वजः । किमेतेषां भवेत्कार्यं प्राह पुण्यैषिणामिति ॥ १,१५.१०७ ॥ ततः स भगवान् विष्णुः शरण्यो भक्तवत्सलः । गोपतिं प्राह विप्रेन्द्रानालोक्य प्रणतान् हरिः ॥ १,१५.१०८ ॥ न वेदबाह्ये पुरुषे पुण्यलेशोऽपि शङ्कर । संगच्छते महादेव धर्मो वेदाद्विनिर्बभौ ॥ १,१५.१०९ ॥ तथापि भक्तवात्सल्याद्रक्षितव्या महेश्वर । अस्माभिः सर्व एवेमे गन्तारो नरकानपि ॥ १,१५.११० ॥ तस्माद्वै वेदबाह्यानां रक्षणार्थाय पापिनाम् । विमोहनाय शास्त्राणि करिष्यामो वृषध्वज ॥ १,१५.१११ ॥ एवं संबोधितो रुद्रो माधवेन मुरारिणा । चकार मोहशास्त्राणि केशवोऽपि शिवेरितः ॥ १,१५.११२ ॥ कापालं नाकुलं वामं भैरवं पूर्वपश्चिमम् । पञ्चरात्रं पाशुपतं तथान्यानि सहस्त्रशः ॥ १,१५.११३ ॥ सृष्ट्वा तानूचतुर्देवौ कुर्वाणाः शास्त्रचोदितम् । पतन्तो निरये घोरे बहून् कल्पान् पुनः पुनः ॥ १,१५.११४ ॥ जायन्तो मानुषे लोके क्षीणपापचयास्ततः । ईश्वराराधनबलाद्गच्छध्वं सुकृतां गतिम् । वर्तध्वं मत्प्रसादेन नान्यथा निष्कृतिर्हि वः ॥ १,१५.११५ ॥ एवमीश्वरविष्णुभ्यां चोदितास्ते महर्षयः । आदेशं प्रत्यपद्यन्त शिरसासुरविद्विषोः ॥ १,१५.११६ ॥ चक्रुस्तेऽन्यानि शास्त्राणि तत्र तत्र रताः पुनः । शिष्यानध्यापयामासुर्दर्शयित्वा फलानि तु ॥ १,१५.११७ ॥ मोहयन्त इमं लोकमवतीर्य महीतले । चकार शङ्करो भिक्षां हितायैषां द्विजैः सह ॥ १,१५.११८ ॥ कपालमालाभरणः प्रेतभस्मावगुण्ठितः । विमोहयंल्लोकमिमं जटामण्डलमण्डितः ॥ १,१५.११९ ॥ निक्षिप्य पार्वतीं देवीं विष्णावमिततेजसि । नियोज्याङ्गभवं रुद्रं भैरवं दुष्टनिग्रहे ॥ १,१५.१२० ॥ दत्त्वा नारायणे देवीं नन्दिनं कुलनन्दिनम् । संस्थाप्य तत्र गणपान् देवानिन्द्रपुरोगमान् ॥ १,१५.१२१ ॥ प्रस्थितेऽथ महादेवे विष्णुर्विश्वतनुः स्वयम् । स्त्रीरूपधारी नियतं सेवते स्म महेश्वरीम् ॥ १,१५.१२२ ॥ ब्रह्मा हुताशनः शक्रो यमोऽन्ये सुरपुङ्गवाः । सिषेविरे महादेवीं स्त्रीवेशं शोभनं गताः ॥ १,१५.१२३ ॥ नन्दीश्वरश्च भगवान् शंभोरत्यन्तवल्लभः । द्वारदेशे गणाध्यक्षो यथापूर्वमतिष्ठत ॥ १,१५.१२४ ॥ एतस्मिन्नन्तरे दैत्यो ह्यन्धको नाम दुर्मतिः । आहर्तुकामो गिरिजामाजगामाथ मन्दरम् ॥ १,१५.१२५ ॥ संप्राप्तमन्धकं दृष्ट्वा शङ्करः कालभैरवः । न्यषेधयदमेयात्मा कालरूपधरो हरः ॥ १,१५.१२६ ॥ तयोः समभवद्युद्धं सुघोरं रोमहर्षणम् । शूलेनोरसि तं दैत्यमाजघान वृषध्वजः ॥ १,१५.१२७ ॥ ततः सहस्त्रशो दैत्यः ससर्जान्धकसंज्ञितान् । नन्दिषेणादयो दैत्यैरन्धकैरभिनिर्जिताः ॥ १,१५.१२८ ॥ घण्टाकर्णो मेघनादश्चण्डेशश्चण्डतापनः । विनायको मेघवाहः सोमनन्दी च वैद्युतः ॥ १,१५.१२९ ॥ सर्वेऽन्धकं दैत्यवरं संप्राप्यातिबलान्विताः । युयुधुः शूलशक्त्यृष्टिगिरिकूटपरश्वधैः ॥ १,१५.१३० ॥ भ्रामयित्वाथ हस्ताभ्यां गृहीतचरणद्वयाः । दैत्येन्द्रेणातिबलिना क्षिप्तास्ते शतयोजनम् ॥ १,१५.१३१ ॥ ततोऽन्धकनिसृष्टास्ते शतशोऽथ सहस्त्रशः । कालसूर्यप्रतीकाशा भैरवं त्वभिदुद्रुवुः ॥ १,१५.१३२ ॥ हा हेति शब्दः सुमहान् बभूवातिभयङ्करः । युयोध भैरवो रुद्रः शूलमादाय भीषणम् ॥ १,१५.१३३ ॥ दृष्ट्वान्धकानां सुबलं दुर्जयं तर्जितो हरः । जगाम शरणं देवं वासुदेवमजं विभुम् ॥ १,१५.१३४ ॥ सोऽसृजद्भगवान् विष्णुर्देवीनां शतमुत्तमम् । देवीपार्श्वस्थितो देवो विनाशायामरद्विषाम् ॥ १,१५.१३५ ॥ तथान्धकसहस्त्रं तु देवीभिर्यमसादनम् । नीतं केशवमाहात्म्याल्लीलयैव रणाजिरे ॥ १,१५.१३६ ॥ दृष्ट्वा पराहतं सैन्यमन्धकोऽपि महासुरः । पराङ्मुखोरणात्तस्मात्पलायत महाजवः ॥ १,१५.१३७ ॥ ततः क्रीडां महादेवः कृत्वा द्वादशवार्षिकीम् । हिताय लोके भक्तानामाजगामाथ मन्दरम् ॥ १,१५.१३८ ॥ संप्राप्तमीश्वरं ज्ञात्वा सर्व एव गणेश्वराः । समागम्योपतस्थुस्तं भानुमन्तमिव द्विजाः ॥ १,१५.१३९ ॥ प्रविश्य भवनं पुण्यमयुक्तानां दुरासदम् । ददर्श नन्दिनं देवं भैरवं केशवं शिवः ॥ १,१५.१४० ॥ प्रणामप्रवणं देवं सोऽनुगृह्याथ नन्दिनम् । आघ्राय मूर्धनीशानः केशवं परिषस्वजे ॥ १,१५.१४१ ॥ दृष्ट्वा देवी महादेवं प्रीतिविस्फारितेक्षणा । ननाम शिरसा तस्य पादयोरीश्वरस्य सा ॥ १,१५.१४२ ॥ निवेद्य विजयं तस्मै शङ्करायाथ शङ्करी । भैरवो विष्णुमाहात्म्यं प्रणतः पार्श्वगोऽवदत् ॥ १,१५.१४३ ॥ श्रुत्वा तद्विजयं शंभुर्विक्रमं केशवस्य च । समास्ते भगवानीशो देव्या सह वरासने ॥ १,१५.१४४ ॥ ततो देवगणाः सर्वे मरीचिप्रमुखा द्विजाः । आजग्मुर्मन्दरं द्रुष्टं देवदेवं त्रिलोचनम् ॥ १,१५.१४५ ॥ येन तद्विजितं पूर्वं देवीनां शतमुत्तमम् । समागतं दैत्यसैन्यमीश्दर्शनवाञ्छया ॥ १,१५.१४६ ॥ दृष्ट्वा वरासनासीनं देव्या चन्द्रविभूषणम् । प्रणेमुरादराद्देव्यो गायन्ति स्मातिलालसाः ॥ १,१५.१४७ ॥ प्रणेमुर्गिरिजां देवीं वामपार्श्वे पिनाकिनः । देवासनगतं देवं नारायणमनामयम् ॥ १,१५.१४८ ॥ दृष्ट्वा सिंहासनासीनं देव्या नारायणेन च । प्रणम्य देवमीशानं पृष्टवत्यो वराङ्गनाः ॥ १,१५.१४९ ॥ कन्या ऊचुः कस्त्वं विभ्राजसे कान्त्या केयं बालरविप्रभा । कोऽन्वयं भ्ति वपुषा पङ्कजायतलोचनः ॥ १,१५.१५० ॥ निशम्य तासां वचनं वृषेन्द्रवरवाहनः । व्याजहार महायोगी भूताधिपतिरव्ययः ॥ १,१५.१५१ ॥ अहं नारायणो गौरी जगन्माता सनातनी । विभज्य संस्थितो देवः स्वात्मानं बहुधेश्वरः ॥ १,१५.१५२ ॥ न मे विदुः परं तत्त्वं देवाद्या न महर्षयः । एकोऽयं वेद विश्वात्मा भवानी विष्णुरेव च ॥ १,१५.१५३ ॥ अहं हि निष्क्रियः शान्तः केवलो निष्परिग्रहः । मामेव केशवं देवमाहुर्देवीमथाम्बिकाम् ॥ १,१५.१५४ ॥ एष धाता विधाता च कारणं कार्यमेव च । कर्ता कारयिता विष्णुर्भुक्तिमुक्तिफलप्रदः ॥ १,१५.१५५ ॥ भोक्ता पुमानप्रमेयः संहर्ता कालरूपधृक् । स्त्रष्टा पाता वासुदेवो विश्वात्मा विश्वतोमुखः ॥ १,१५.१५६ ॥ कृटस्थो ह्यक्षरो व्यापी योगी नारायणः स्वयम् । तारकः पुरुषो ह्यात्मा केवलं परमं पदम् ॥ १,१५.१५७ ॥ सैषा माहेश्वरी गौरी मम शक्तिर्निरञ्जना । सान्ता सत्या सदानन्दा परं पदमिति श्रुतिः ॥ १,१५.१५८ ॥ अस्याः सर्वमिदं जातमत्रैव लयमेष्यति । एषैव सर्वभूतानां गतीनामुत्तमा गतिः ॥ १,१५.१५९ ॥ तयाहं संगतो देव्या केवलो निष्कलः परः । पश्याम्यशेषमेवेदं यस्तद्वेद स मुच्यते ॥ १,१५.१६० ॥ तस्मादनादिमद्वैतं विष्णुमात्मानमीश्वरम् । एकमेव विजानीध्वं ततो यास्यथ निर्वृतिम् ॥ १,१५.१६१ ॥ मन्यन्ते विष्णुमव्यक्तमात्मानं श्रद्धयान्विताः । ये भिन्नदृष्ट्यापीशानं पूजयन्तो न मे प्रियाः ॥ १,१५.१६२ ॥ द्विषन्ति ये जगत्सूतिं मोहिता रौरवादिषु । पच्यमाना न मुच्यन्ते कल्पकोटिशतैरपि ॥ १,१५.१६३ ॥ तसमादशेषभूतानां रक्षको विष्णुरव्ययः । यथावदिह विज्ञाय ध्येयः सर्वापदि प्रभुः ॥ १,१५.१६४ ॥ श्रुत्वा भगवतो वाक्यं देव्यः सर्वगणेश्वराः । नेमुर्नारायणं देवं देवीं च हिमशैलजाम् ॥ १,१५.१६५ ॥ प्रार्थयामासुरीशाने भक्तिं भक्तजनप्रिये । भवानीपादयुगले नारायणपदाम्बुजे ॥ १,१५.१६६ ॥ ततो नारायणं देवं गणेशा मातरोऽपि च । न पश्यन्ति जगत्सूतिं तद्भुतमिवाभवत् ॥ १,१५.१६७ ॥ तदन्तरे महादैत्यो ह्यन्धको मन्मथार्दितः । मोहितो गिरिजां देवीमाहर्तुं गिरिमाययौ ॥ १,१५.१६८ ॥ अथानन्तवपुः श्रीमान् योगी नारायणोऽमलः । तत्रैवाविरभूद्दैत्यैर्युद्धाय पुरुषोत्तमः ॥ १,१५.१६९ ॥ कृत्वाथ पार्श्वे भगवन्तमीशो युद्धाय विष्णुं गणदेवमुख्यैः । शिलादपुत्रेण च मातृकाभिः स कालरुद्रोऽभिजगाम देवः ॥ १,१५.१७० ॥ त्रिशूलमादाय कृशानुकल्पं स देवदेवः प्रययौ पुरस्तात् । तमन्वयुस्ते गणराजवर्या जगाम देवोऽपि सहस्त्रबाहुः ॥ १,१५.१७१ ॥ रराज मध्ये भगवान् सुराणां विवाहनो वारिदवर्णवर्णः । तदा सुमेरोः शिखराधिरूढ स्त्रिलोकदृष्टिर्भगवानिवार्कः ॥ १,१५.१७२ ॥ जगत्यनादिर्भगवानमेयो हरः सहस्त्राकृतिराविरासीत् । त्रिशूलपाणिर्गगने सुघोषः पपात देवोपरि पुष्पवृष्टिः ॥ १,१५.१७३ ॥ समागतं वीक्ष्य गणेशराजं समावृतं देवरिपुर्गणेशैः । युयोध शक्रेण समातृकाभि र् गणैरशेषैरमपप्रधानैः ॥ १,१५.१७४ ॥ विजित्य सर्वानपि बाहुवीर्यात् स संयुगे शंभुमनन्तधाम । समाययौ यत्र स कालरुद्रो विमानमारुह्य विहीनसत्त्वः ॥ १,१५.१७५ ॥ दृष्ट्वान्धकं समयान्तं भगवान् गरुडध्वजः । व्याजहार महादेवं भैरवं भूतिभूषणम् ॥ १,१५.१७६ ॥ हन्तुमर्हसि दैत्येशमन्धकं लोककण्टकम् । त्वामृते भगवान् शक्तो हन्ता नान्योऽस्य विद्यते ॥ १,१५.१७७ ॥ त्वं हर्ता सर्वलोकानां कालात्मा ह्यैश्वरी तनुः । स्तूयते विविधैर्मन्त्रर्वेदविद्भिर्विचक्षणैः ॥ १,१५.१७८ ॥ स वासुदेवस्य वचो निशम्य भगवान् हरः । निरीक्ष्य विष्णुं हनने दैत्यन्द्रस्य मतिं दधौ ॥ १,१५.१७९ ॥ जगाम देवतानीकं गणानां हर्षमुत्तमम् । स्तुवन्ति भैरवं देवमन्तरिक्षचरा जनाः ॥ १,१५.१८० ॥ जयानन्त महादेव कालमूर्ते सनातन । त्वमग्निः सर्वभूतानामन्तश्चरसि नित्यशः ॥ १,१५.१८१ ॥ त्वं यत्रज्ञस्त्वं वषट्कारस्त्वं धाता हरिरव्ययः । त्वं ब्रह्मा त्वं महादेवस्त्वं धाम परमं पदम् ॥ १,१५.१८२ ॥ ओङ्कारमूर्तिर्योगात्मा त्रयीनेत्रस्त्रिलोचनः । महाविभूतिर्देवेशो जयाशेषजगत्पते ॥ १,१५.१८३ ॥ ततः कालाग्निरुद्रोऽसौ गृहीत्वान्धकमीश्वरः । त्रिशूलाग्रेषु विन्यस्य प्रननर्त सतां गतिः ॥ १,१५.१८४ ॥ दृष्ट्वान्धकं देवगणाः शूलप्रोतं पितामहः । प्रणेमुरीश्वरं देवं भैरवं भवमोचकम् ॥ १,१५.१८५ ॥ अस्तुवन्मुनयः सिद्धा जगुर्गन्धर्विकिंनराः । अन्तरिक्षेऽप्सरः सङ्घा नृत्यन्तिस्म मनोरमाः ॥ १,१५.१८६ ॥ संस्थापितोऽथशूलाग्रे सोऽन्धको दग्धकिल्बिषः । उत्पन्नाखिलविज्ञानस्तुष्टाव परमेश्वरम् ॥ १,१५.१८७ ॥ अन्धक उवाच नमामि मूर्ध्ना भगवन्तमेकं समाहिता यं विदुरीशतत्त्वम् । पुरातनं पुण्यमनन्तरूपं कालं कविं योगवियोगहेतुम् ॥ १,१५.१८८ ॥ दंष्ट्राकरालं दिवि नृत्यमानं हुताशवक्त्रं ज्वलनार्करूपम् । सहस्त्रपादाक्षिशिरोभियुक्तं भवन्तमेकं प्रणमामि रुद्रम् ॥ १,१५.१८९ ॥ जयादिदेवामरपूजिताङ्घ्रे विभागहीनामलतत्त्वरूप । त्वमग्निरेको बहुधाभिपूज्यसे वाय्वादिभेदैरखिलात्मरूप ॥ १,१५.१९० ॥ त्वामेकमाहुः पुरुषं पुराणम् आदित्यवर्णं तमसः परस्तात् । त्वं पश्यसीदं परिपास्यजस्त्रं त्वमन्तको योगिगणाभिजुष्टः ॥ १,१५.१९१ ॥ एकोऽन्तरात्मा बहुधा निविष्टो देहेषु देहादिविशेषहीनः । त्वमात्मशब्दं परमात्मतत्त्वं भवन्तमाहुः शिवमेव केचित् ॥ १,१५.१९२ ॥ त्वमक्षरं ब्रह्म परं पवित्र मानन्दरूपं प्रणवाभिधानम् । त्वमीश्वरो वेदपदेषु सिद्धः स्वयं प्रभोऽशेषविशेषहीनः ॥ १,१५.१९३ ॥ त्वमिन्द्ररूपो वरुणाग्निरूपो हंसः प्राणो मृत्युरन्तासि यज्ञः । प्रजापतिर्भगवानेकरुद्रो नीलग्रीवः स्तूयसे वेदविद्भिः ॥ १,१५.१९४ ॥ नारायणस्त्वं जगतामथादिः पितामहस्त्वं प्रपितामहश्च । वेदान्तगुह्योपनिषत्सु गीतः सदाशिवस्त्वं परमेश्वरोऽसि ॥ १,१५.१९५ ॥ नमः परस्तात्तमसः परस्मै परात्मने पञ्चपदान्तराय । त्रिशक्त्यतीताय निरञ्जनाय सहस्त्रशक्त्यासनसंस्थिताय ॥ १,१५.१९६ ॥ त्रिमूर्तयेऽनन्दपदात्ममूर्ते जगन्निवासाय जगन्मयाय । नमो ललाटार्पितलोचनाय नमो जनानां हृदि संस्थिताय ॥ १,१५.१९७ ॥ फणीन्द्रहाराय नमोऽस्तु तुभ्यं मुनीन्द्रसिद्धार्चितपादयुग्म । ऐश्वर्यधर्मासनसंस्थिताय नमः परान्ताय भवोद्भवाय ॥ १,१५.१९८ ॥ सहस्त्रचन्द्रार्कविलोचनाय नमोऽस्तु ते सोम सुमध्यमाय । नमोऽस्तु ते देव हिरण्यबाहो नमोऽम्बिकायाः पतये मृडाय ॥ १,१५.१९९ ॥ नमोऽतिगुह्याय गुहान्तराय वेदान्तविज्ञानसुनिश्चिताय । त्रिकालहीनामलधामधाम्ने नमो महेशाय नमः शिवाय ॥ १,१५.२०० ॥ एवं स्तुवन्तं भगवान् शूलाग्रादवरोप्य तम् । तुष्टः प्रोवाच हस्ताभ्यां स्पृष्ट्वाथ परमेश्वरः ॥ १,१५.२०१ ॥ प्रीतोऽहं सर्वथा दैत्य स्तवेनानेन सांप्रतम् । संप्राप्य गाणपत्यं मे सन्निधाने वसामरः ॥ १,१५.२०२ ॥ अरोगश्छिन्नसंदेहो देवैरपि सुपूजितः । नन्दीश्वरस्यानुचरः सर्वदुः खविवर्जितः ॥ १,१५.२०३ ॥ एवं व्याहृतमात्रे तु देवदेवेन देवताः । गणेश्वरा महादेवमन्धकं देवसन्निधौ ॥ १,१५.२०४ ॥ सहस्त्रसूर्यसंकाशं त्रिनेत्रं चन्द्रचिह्नितम् । नीलकण्ठं जटामौलिं शूलासक्तमहाकरम् ॥ १,१५.२०५ ॥ दृष्ट्वा तं तुष्टुवुर्दैत्यमाश्चर्यं परमं गताः । उवाच भगवान् विष्णुर्देवदेवं स्मयन्निव ॥ १,१५.२०६ ॥ स्थाने तव महादेव प्रभावः पुरुषो महान् । नेक्षतेऽज्ञानजान् दोषान् गृह्णाति च गुणानपि ॥ १,१५.२०७ ॥ इतीरितोऽथ भैरवो गणेशदेवपुङ्गवैः । सकेशवः सहान्धको जगाम शङ्करान्तिकम् ॥ १,१५.२०८ ॥ निरीक्ष्य देवमागतं सशङ्करः सहान्धकम् । समाधवं समातृकं जगाम निर्वृतिं हरः ॥ १,१५.२०९ ॥ प्रगृह्य पाणिनेश्वरो हिरण्यलोचनात्मजम् । जगाम यत्र शैलजा विमानमीशवल्लभा ॥ १,१५.२१० ॥ विलोक्य सा समागतं भवं भवार्तिहारिणम् । अवाप सान्धकं सुखं प्रसादमन्धकं प्रति ॥ १,१५.२११ ॥ अथान्धको महेश्वरीं ददर्श देवपार्श्वगाम् । पपात दण्डवत्क्षितौ ननाम पादपद्मयोः ॥ १,१५.२१२ ॥ नमामि देववल्लभामनादिमद्रिजामिमाम् । यतः प्रधानपूरुषौ निहन्ति याखिलं जगत् ॥ १,१५.२१३ ॥ विभाति या शिवासने शिवेन साकमव्यया । हिरण्मयेऽतिनिर्मले नमामि तामिमामजाम् ॥ १,१५.२१४ ॥ यदन्तराखिलं जगज्जगन्ति यान्ति संक्षयम् । नमामि यत्र तामुमामशेषबेदवर्जिताम् ॥ १,१५.२१५ ॥ न जायते नहीयते न वर्धते च तामुमाम् । नमामि या गुणातिगा गिरीशपुत्रिकामिमाम् ॥ १,१५.२१६ ॥ क्षमस्व देवि शैलजे कृतं मया विमाहतः । सुरासुरैर्यदर्चितं नमामि ते पदाम्बुजम् ॥ १,१५.२१७ ॥ इत्थं भगवती गौरी भक्तिनम्रेण पार्वती । संस्तुता दैत्यपतिना पुत्रत्वे जगृहेऽन्धकम् ॥ १,१५.२१८ ॥ ततः स मातृभिः सार्धं भैरवो रुद्रसंभवः । जगामानुज्ञया शंभोः पातालं परमेश्वरः ॥ १,१५.२१९ ॥ यत्र सा तामसी विष्णोर्मूर्तिः संहारकारिका । समास्ते हरिरव्यक्तो नृसिंहाकृतिरीश्वरः ॥ १,१५.२२० ॥ ततोऽनन्ताकृतिः शंभुः शेषेणापि सुपूजितः । कालाग्निरुद्रो भगवान् युयोजात्मानमात्मनि ॥ १,१५.२२१ ॥ युञ्जतस्तस्य देवस्य सर्वा एवाथ मातरः । बुभुक्षिता महादेवं प्रणम्याहुस्त्रिशूलिनम् ॥ १,१५.२२२ ॥ मातर ऊचुः बुभुक्षिता महादेव अनुज्ञा दीयतां त्वया । त्रैलोक्यं भक्षयिष्यामो नान्यथा तृप्तिरस्तिनः ॥ १,१५.२२३ ॥ एतावदुक्त्वा वचनं मातरो विष्णुसंभवाः । भक्षयाञ्चक्रिरे सर्वं त्रैलोक्यं सचराचरम् ॥ १,१५.२२४ ॥ ततः स भैरवो देवो नृसिंहवपुषं हरिम् । दध्यौ नारायणं देवं क्षणात्प्रादुरभूद्धरिः ॥ १,१५.२२५ ॥ विज्ञापयामास च तं भक्षयन्तीह मातरः । निवारयाशु त्रैलोक्यं त्वदीया भगवन्निति ॥ १,१५.२२६ ॥ संस्मृता विष्णुना देव्यो नृसिंहवपुषा पुनः । उपतस्थुर्महादेवं नरसिंहाकृतिं च तम् ॥ १,१५.२२७ ॥ संप्राप्य सन्निधिं विष्णोः सर्वाः संहारकारिकाः । प्रददुः शंभवे शक्तिं भैरवायातितेजसे ॥ १,१५.२२८ ॥ अपश्यंस्ता जगत्सूतिं नृसिंहमथ भैरवम् । क्षणादेकत्वमापन्नं शेषाहिं चापि मातरः ॥ १,१५.२२९ ॥ व्याजहार हृषीकेशो ये भक्ताः शूलपाणिनः । ये च मां संस्मरन्तीह पालनीयाः प्रयत्नतः ॥ १,१५.२३० ॥ ममैव मूर्तिरतुला सर्वसंहारकारिका । महेश्वरांशसंभूता भुक्तिमुक्तिप्रदा त्वियम् ॥ १,१५.२३१ ॥ अनन्तो भगवान् कालो द्विधावस्था ममैव तु । तामसी राजसी मूर्तिर्देवदेवश्चतुर्मुखः ॥ १,१५.२३२ ॥ सोऽयं देवो दुराधर्षः कालो लोकप्रकालनः । भक्षयिष्यति कल्पान्ते रुद्रात्मा निखिलं जगत् ॥ १,१५.२३३ ॥ या सा विमोहिका मूर्तिर्मम नारायणाह्वया । सत्त्वोद्रिक्ताजगत्कृत्स्नं संस्थापयति नित्यदा ॥ १,१५.२३४ ॥ स हि विष्णुः परं ब्रह्म परमात्मा परा गतिः । मूलप्रकृतिरव्यक्ता सदानन्देति कथ्यते ॥ १,१५.२३५ ॥ इत्येवं बोधिता देव्यो विष्णुना विश्वमातरः । प्रपेदिरे महादेवं तमेव शरणं हरिम् ॥ १,१५.२३६ ॥ एतद्वः कथितं सर्वं मयान्धकनिबर्हणम् । माहात्म्यं देवदेवस्य भैरवस्यामितौजसः ॥ १,१५.२३७ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे पञ्चदशोऽध्यायः _____________________________________________________________ श्रीकूर्म उवाच अन्दके निगृहीते वै प्रह्लादस्य महात्मनः । विरोचनो नाम सुतो बभूव नृपतिः पुरा ॥ १,१६.१ ॥ देवाञ्जित्वा सदेवेन्द्रान बहून् वर्षान्महासुरः । पालयामास धर्मेण त्रैलोक्यं सचराचरम् ॥ १,१६.२ ॥ तस्यैवं वर्तमानस्य कदाचिद्विष्णुचोदितः । सनत्कुमारो भगवान् पुरं प्राप महामुनिः ॥ १,१६.३ ॥ दृष्ट्वा सिहासनगतो ब्रह्मपुत्रं महासुरः । ननामोत्थाय शिरसा प्राञ्जलिर्वाक्यमब्रवीत् ॥ १,१६.४ ॥ धन्योऽस्म्यनुगृहीतोऽस्मि संप्राप्तो मे पुरातनः । योगीश्वरोऽद्य भगवान् यतोऽसौ ब्रह्मवित्स्वयम् ॥ १,१६.५ ॥ किमर्थमागतो ब्रह्मन् स्वयं देवः पितामहः । ब्रूहि मे ब्रह्मणः पुत्र किं कार्यं करवाण्यहम् ॥ १,१६.६ ॥ सोऽब्रवीद्भगवान् देवो धर्मयुक्तं महासुरम् । द्रष्टुमभ्यागतोऽहं वै भवन्तं भाग्यवानसि ॥ १,१६.७ ॥ सुदुर्लभा नीतिरेषा दैत्यानां दैत्यसत्तम । त्रिलोके धार्मिको नूनं त्वादृशोऽन्यो न विद्यते ॥ १,१६.८ ॥ इत्युक्तोऽसुरराजस्तं पुनः प्राह महामुनिम् । धर्माणां परमं धर्मं ब्रूहि मे ब्रह्मवित्तम ॥ १,१६.९ ॥ सोऽब्रवीद्भगवान् योगी दैत्येन्द्राय महात्मने । सर्वगुह्यतमं धर्ममात्मज्ञानमनुत्तमम् ॥ १,१६.१० ॥ स लब्ध्वा परमं ज्ञानं दत्त्वा च गुरुदक्षिणाम् । निधाय पुत्रे तद्राज्यं योगाभ्यासरतोऽभवत् ॥ १,१६.११ ॥ स तस्य पुत्रो मतिमान् बलिर्नाम महासुरः । ब्रह्मण्यो धार्मिकोऽत्यर्थं विजिग्येऽथ पुरन्दरम् ॥ १,१६.१२ ॥ कृत्वा तेन महद्युद्धं शक्रः सर्वामरैर्वृतः । जगाम निर्जितो विष्णुं देवं शरणमच्युतम् ॥ १,१६.१३ ॥ तदन्तरेऽदितिर्देवी देवमाता सुदुः खिता । दैत्येन्द्राणां वधार्थाय पुत्रो मे स्यादिति स्वयम् ॥ १,१६.१४ ॥ तताप सुमहद्घोरं तपोराशिस्तपः परम् । प्रपन्ना विष्णुमव्यक्तं शरण्यं शरणं हरिम् ॥ १,१६.१५ ॥ कृत्वा हृत्पद्मकिञ्जल्के निष्कलं परमं पदम् । वासुदेवमनाद्यन्तमानन्दं व्योम केवलम् ॥ १,१६.१६ ॥ प्रसन्नो भगवान् विष्णुः शङ्खचक्रगदाधरः । आविर्बभूव योगात्मा देवमातुः पुरो हरिः ॥ १,१६.१७ ॥ दृष्ट्वा समागतं विष्णुमदितिर्भक्तिसंयुता । मेने कृतार्थमात्मानं तोषयामास केशवम् ॥ १,१६.१८ ॥ अदितिरुवाच जयाशेषदुः खौघनाशैकहेतो जयानन्तमाहात्म्ययोगाभियुक्त । जयानादिमध्यान्तविज्ञानमूर्ते जयाशेषकल्पामलानन्दरूप ॥ १,१६.१९ ॥ नमो विष्णवे कालरूपाय तुभ्यं नमो नारसिंहाय शेषाय तुभ्यम् । नमः कालरुद्राय संहारकर्त्रे नमो वासुदेवाय तुभ्यं नमस्ते ॥ १,१६.२० ॥ नमो विश्वमायाविधानाय तुभ्यं नमो योगगम्याय सत्याय तुभ्यम् । नमो धर्मविज्ञाननिष्ठाय तुभ्यं नमस्ते वराहाय भूयो नमस्ते ॥ १,१६.२१ ॥ नमस्ते सहस्त्रार्कचन्द्राभमूर्ते नमो वेदविज्ञानधर्माभिगम्य । नमो देवदेवादिदेवादिदेव प्रभो विश्वयोनेऽथ भूयो नमस्ते ॥ १,१६.२२ ॥ नमः शंभवे सत्यनिष्ठाय तुभ्यं नमो हेतवे विश्वरूपाय तुभ्यम् । नमो योगपीठान्तरस्थाय तुभ्यं शिवायैकरूपाय भूयो नमस्ते ॥ १,१६.२३ ॥ एवं स भगवान् कृष्णो देवमात्रा जगन्मयः । तोषितश्छन्दयामास वरेण प्रहसन्निव ॥ १,१६.२४ ॥ प्रणम्य शिरसा भूमौ सा वब्रे वरमुत्तमम् । त्वामेव पुत्रं देवानां हिताय वरये वरम् ॥ १,१६.२५ ॥ तथास्त्वित्याह भगवान् प्रपन्नजनवत्सलः । दत्त्वा वरानप्रमेयस्तत्रैवान्तरधीयत ॥ १,१६.२६ ॥ ततो बहुतिथे काले भगवन्तं जनार्दनम् । दधार गर्भं देवानां माता नारायणं स्वयम् ॥ १,१६.२७ ॥ समाविष्टे हृषीकेशे देवमातुरथोदरम् । उत्पाता जज्ञिरे घोरा बलेर्वैरोचनेः पुरे ॥ १,१६.२८ ॥ निरीक्ष्य सर्वानुत्पातान् दैत्येन्द्रो भयविह्वलः । प्रह्लादमसुरं वृद्धं प्रणम्याह पितामहम् ॥ १,१६.२९ ॥ बलिरुवाच पितामह महाप्राज्ञ जायन्तेऽस्मत्पुरेऽधुना । किमुत्पाता भवेत्कार्यमस्माकं किंनिमित्तकाः ॥ १,१६.३० ॥ निशम्य तस्य वचनं चिरं ध्यात्वा महासुरः । नमस्कृत्य हृषीकेशमिदं वचनमब्रवीत् ॥ १,१६.३१ ॥ प्रह्लाद उवाच यो यज्ञैरिज्यते विष्णुर्यस्य सर्वमिदं जगत् । दधारासुरनाशार्थं माता तं त्रिदिवौकसाम् ॥ १,१६.३२ ॥ यस्मादभिन्नं सकलं भिद्यते योऽखिलादपि । स वासुदेवो देवानां मातुर्देहं समाविशत् ॥ १,१६.३३ ॥ न यस्य देवा जानन्ति स्वरूपं परमार्थतः । स विष्णुरदितेर्देहं स्वेच्छयाद्य समाविशत् ॥ १,१६.३४ ॥ यस्माद्भवन्ति भूतानि यत्र संयान्ति संक्षयम् । सोऽवतीर्णो महायोगी पुराणपुरुषो हरिः ॥ १,१६.३५ ॥ न यत्र विद्यते नामजात्यादिपरिकल्पना । सत्तामात्रात्मरूपोऽसौ विष्णुरंशेन जायते ॥ १,१६.३६ ॥ यस्य सा जगतां माता शक्तिस्तद्धर्मधारिणी । माया भगवती लक्ष्मीः सोऽवतीर्णो जनार्दनः ॥ १,१६.३७ ॥ यस्य सा तामसी मूर्तिः शङ्करो राजसी तनुः । ब्रह्मा संजायते विष्णुरंशेनैकेन सत्त्वभृत् ॥ १,१६.३८ ॥ इत्थं विचिन्त्य गोविन्दं भक्तिनम्रेण चेतसा । तमेव गच्छ शरणं ततो यास्यसि निर्वृतिम् ॥ १,१६.३९ ॥ ततः प्रह्लादवचनाद्बलिर्वैरोचनिर्हरिम् । जगाम शरणं विश्वं पालयामास धर्मतः ॥ १,१६.४० ॥ काले प्राप्ते महाविष्णुं देवानां हर्षवर्धनम् । असूत कश्यपाच्चैनं देवमातादितिः स्वयम् ॥ १,१६.४१ ॥ चतुर्भुजं विशालाक्षं श्रीवत्साङ्कितवक्षसम् । नीलमेघप्रतीकाशं भ्राजमानं श्रियावृतम् ॥ १,१६.४२ ॥ उपतस्थुः सुराः सर्वे सिद्धाः साध्याश्च चारणाः । उपेन्द्रमिन्द्रप्रमुखा ब्रह्मा चर्षिगमैर्वृतः ॥ १,१६.४३ ॥ कृतोपनयनो वेदानध्यैष्ट भगवान् हरिः । समाचारं भरद्वाजात्त्रिलोकाय प्रदर्शयन् ॥ १,१६.४४ ॥ एवं हि लौकिकं मार्गं प्रदर्शयति स प्रभुः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ १,१६.४५ ॥ ततः कालेन मतिमान् बलिर्वैरोचनिः स्वयम् । यज्ञैर्यज्ञेश्वरं विष्णुमर्चयामास सर्वगम् ॥ १,१६.४६ ॥ ब्राह्मणान् पूजयामास दत्त्वा बहुतरं धनम् । ब्रह्मर्षयः समाजग्मुर्यज्ञवाटं महात्मनः ॥ १,१६.४७ ॥ विज्ञाय विष्णुर्भगवान् भरद्वाजप्रचोदितः । आस्थाय वामनं रूपं यज्ञदेशमथागमत् ॥ १,१६.४८ ॥ कृष्णाजिनोपवीताङ्ग आषाढेन विराजितः । ब्राह्मणो जटिलो वेदानुद्गिरन् भस्ममण्डितः ॥ १,१६.४९ ॥ संप्राप्यासुरराजस्य समीपं भिक्षुको हरिः । स्वपादैर्विमितं देशमयाचत बलिं त्रिभिः ॥ १,१६.५० ॥ प्रक्षाल्य चरणौ विष्णोर्बलिर्भासमन्वितः । आचामयित्वा भृङ्गारमादाय स्वर्णनिर्मितम् ॥ १,१६.५१ ॥ दास्ये तवेदं भवते पदत्रयं प्रीणातु देवो हरिरव्ययाकृतिः । विचिन्त्य देवस्य कराग्रपल्लवे निपातयामास जलं सुशीतलम् ॥ १,१६.५२ ॥ विचक्रमे पृथिवीमेष एता मथान्तरिक्षं दिवमादिदेवः । व्यपेतरागं दितिजेश्वरं तं प्रकर्तुकामः शरणं प्रपन्नम् ॥ १,१६.५३ ॥ आक्रम्य लोकत्रयमीशपादः प्राजापत्याद्ब्रह्मलोकं जगाम । प्रणेमुरादित्यसहस्त्रकल्पं ये तत्र लोके निवसन्ति सिद्धाः ॥ १,१६.५४ ॥ अथोपतस्थे भगवाननादिः पितामहास्तोषयामास विष्णुम् । भित्त्वा तदण्डस्य कपालमूर्ध्वं जगाम दिव्यावरणानि भूयः ॥ १,१६.५५ ॥ अथाण्डभेदान्निपपात शीतलं महाजलं तत्पुण्यकृद्भिश्चजुष्टम् । प्रवर्तते चापि सरिद्वरा तदा गङ्गेत्युक्ता ब्रह्मणा व्योमसंस्था ॥ १,१६.५६ ॥ गत्वा महान्तं प्रकृतिं प्रधानं ब्रह्माणमेकं पुरुषं स्वबीजम् । अतिष्ठदीशस्य पदं तदव्ययं दृष्ट्वा देवास्तत्र तत्र स्तुवन्ति ॥ १,१६.५७ ॥ आलोक्य तं पुरुषं विश्वकायं महान् बलिर्भक्तियोगेन विष्णुम् । ननाम नारायणमेकमव्ययं स्वचेतसा यं प्रणमन्ति देवाः ॥ १,१६.५८ ॥ तमब्रवीद्भगवानादिकर्ता भूत्वा पुनर्वामनो वासुदेवः । ममैव दैत्याधिपतेऽधुनेदं लोकत्रयं भवता भावदत्तम् ॥ १,१६.५९ ॥ प्रणम्य मूर्ध्ना पुनरेव दैत्यो निपातयामास जलं कराग्रे । दास्ये तवात्मानमनन्तधाम्ने त्रिविक्रमायामितविक्रमाय ॥ १,१६.६० ॥ प्रगृह्य सूनोरपि संप्रदत्तं प्रह्लादसूनोरथ शङ्खपाणिः । जगाद दैत्यं जगदन्तरात्मा पातालमूलं प्रविशेति भूयः ॥ १,१६.६१ ॥ समास्यतां भवता तत्र नित्यं भुक्त्वा भोगान् देवतानामलभ्यान् । ध्यायस्व मां सततं भक्तियोगात् प्रवेक्ष्यसे कल्पदाहे पुनर्माम् ॥ १,१६.६२ ॥ उक्त्वैवं दैत्यसिंहं तं विष्णुः सत्यपराक्रमः । पुरन्दराय त्रैलोक्यं ददौ विष्णुरुरुक्रमः ॥ १,१६.६३ ॥ संस्तुवन्ति महायोगं सिद्धा देवर्षिकिन्नराः । ब्रह्मा शक्रोऽथ भगवान् रुद्रादित्यमरुद्गणाः ॥ १,१६.६४ ॥ कृत्वैतदद्भुतं कर्म विष्णुर्वामनरूपधृक् । पश्यतामेव सर्वेषां तत्रैवान्तरधीयत ॥ १,१६.६५ ॥ सोऽपि दैत्यवरः श्रीमान् पातालं प्राप चोदितः । प्रह्लादेनासुरवरैर्विष्णुना विष्णुतत्परः ॥ १,१६.६६ ॥ अपृच्छद्विष्णुमाहात्मयं भक्तियोगमनुत्तमम् । पूजाविधानं प्रह्लादं तदाहासौ चकार सः ॥ १,१६.६७ ॥ अथ रथचरणासिशङ्खपाणिं सरसिजोलचनमीशमप्रमेयम् । शरणमुपपयौ स भावयोगात् प्रणतगतिं प्रणिधाय कर्मयोगम् ॥ १,१६.६८ ॥ एष वः कथितो विप्रा वामनस्य पराक्रमः । स देवकार्याणि सदा करोति पुरुषोत्तमः ॥ १,१६.६९ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे षोडशोऽध्याय _____________________________________________________________ बलेः पुत्रशतं त्वासीन्महाबलपराक्रमम् । तेषां प्रधानो द्युतिमान् बाणो नाम महाबलः ॥ १,१७.१ ॥ सोऽतीव शङ्करे भक्तो राजा राज्यमपालयत् । त्रैलोक्यं वशमानीय बाधयामास वासवम् ॥ १,१७.२ ॥ ततः शक्रादयो देवा गत्वोचुः कृत्तिवाससम् । त्वदीयो बाधते ह्यस्मान् बाणो नाम महासुरः ॥ १,१७.३ ॥ व्याहृतो दैवदैः सर्वैर्देवदेवो महेश्वरः । ददाह बाणस्य पुरं शरेणैकेन लीलया ॥ १,१७.४ ॥ दह्यमाने पुरे तस्मिन् बाणो रुद्रं त्रिशूलिनम् । ययौ शरणमीशानं गोपतिं नीललोहितम् ॥ १,१७.५ ॥ मूर्धन्याधाय तल्लिङ्गं शांभवं भीतवर्जितः । निर्गत्य तु पुरात्तस्मात्तुष्टाव परमेश्वरम् ॥ १,१७.६ ॥ संस्तुतो भगवानीशः शङ्करो नीललोहितः । गाणपत्येन बाणं तं योजयामास भावतः ॥ १,१७.७ ॥ अथाभवन् दनोः पुत्रास्ताराद्या ह्यतिभीषणाः । तारस्तथा शम्बरश्च कपिलः शङ्करस्तथा । स्वर्भानुर्वृषपर्वा च प्राधान्येन प्रकीर्तिताः ॥ १,१७.८ ॥ सुरसायाः सहस्त्रं तु सर्पाणामभवद्द्विजाः । अनेकशिरसां तद्वत्खेचराणां महात्मनाम् ॥ १,१७.९ ॥ अरिष्टा जनयामास गन्धर्वाणां सहस्त्रकम् । अनन्ताद्या महानागाः काद्रवेयाः प्रकीर्तिताः ॥ १,१७.१० ॥ ताम्रा च जनयामास षट्कन्या द्विजपुङ्गवाः । शुकीं श्येनीं च भासीं च सुग्रीवाङ्गृध्रिकां शुचिम् ॥ १,१७.११ ॥ गास्तथा जनयामास सुरभिर्महिषीस्तथा । इरा वृक्षलतावल्लीस्तृणजातीश्च सर्वशः ॥ १,१७.१२ ॥ खसा वै यक्षरक्षांसि मुनिरप्सरसस्तथा । रक्षोगणं क्रोधवशा जनयामास सत्तमाः ॥ १,१७.१३ ॥ विनतायाश्च पुत्रौ द्वौ प्रख्यातौ गरुडारुणौ । तयोश्च गरुडो धीमान् तपस्तप्त्वा सुदुश्चरम् । प्रसादाच्छूनिलः प्राप्तो वाहनत्वं हरेः स्वयम् ॥ १,१७.१४ ॥ आराध्य तपसा रुद्रं मह्देवं तथारुणः । सारथ्ये कल्पितः पूर्वं प्रीतेनार्कस्य शंभुना ॥ १,१७.१५ ॥ एते कश्यपदायादाः कीर्तिताः स्थाणुजङ्गमाः । वैवस्वतेऽन्ते ह्यस्मिञ्छृण्वतां पापनाशनाः ॥ १,१७.१६ ॥ सप्तविंशत्सुताः प्रोक्ताः सोमपत्न्यश्च सुव्रताः । अरिष्टनेमिपत्नीनामपत्यानीह षोडश ॥ १,१७.१७ ॥ बहुपुत्रस्य विदुषश्चतस्त्रो विद्युतः स्मृताः । तद्वदङ्गिरसः पुत्रा ऋषयो ब्रह्मसत्कृताः ॥ १,१७.१८ ॥ कुशाश्वस्य तु देवर्षेर्देवप्रहरणाः सुताः । एते युगसहस्त्रान्ते जायन्ते पुनरेव हि । मन्वन्तरेषु नियतं तुल्यैः कार्यैः स्वनामभिः ॥ १,१७.१९ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे सप्तदशोऽध्यायः _____________________________________________________________ सूत उवाच एतानुत्पाद्य पुत्रांस्तु प्रजासंतानकारणात् । कश्यपो गोत्रकामस्तु चचार सुमहत्तपः ॥ १,१८.१ ॥ तस्य वै तपतोऽत्यर्थं प्रादुर्भूतौ सुताविमौ । वत्सरश्चासितश्चैव तावुभौ ब्रह्मवादिनौ ॥ १,१८.२ ॥ वत्सरान्नैध्रुवो जज्ञे रैभ्यश्च सुमहायशाः । रैभ्यस्य जज्ञिरे रैभ्याः पुत्रा द्युतिमतां वराः ॥ १,१८.३ ॥ च्यवनस्य सुता पत्नी नैध्रुवस्य महात्मनः । सुमेधा जनयामास पुत्रान् वै कुण्डपायिनः ॥ १,१८.४ ॥ असितस्यैकपर्णायां ब्रह्मिष्ठः समपद्यत । नाम्ना वै देवलः पुत्रो योगाचार्यो महातपाः ॥ १,१८.५ ॥ शाण्डिल्यानां परः श्रीमान् सर्वतत्त्वार्थवित्सुधीः । प्रसादात्पार्वतीशस्य योगमुत्तममाप्तवान् ॥ १,१८.६ ॥ शाण्डिल्या नैध्रु वारैभ्यास्त्रयः पक्षास्तु काश्यपाः । नरप्रकृतयो विप्राः पुलस्त्यस्य वदामि वः ॥ १,१८.७ ॥ तृणबिन्दोः सुता विप्रा नाम्ना त्विलविला स्मृता । पुलस्त्याय स राजर्षिस्तां कन्यां प्रत्यपादयत् ॥ १,१८.८ ॥ ऋषिस्त्वैलविलिस्तस्यां विश्रवाः समपद्यत । तस्य पत्न्यश्चतस्त्रस्तु पौलस्त्यकुलवर्धिकाः ॥ १,१८.९ ॥ पुष्पोत्कटा च राका च कैकसी देववर्णिनी । रूपलावण्यसंपन्नास्तासां वै शृणुत प्रजाः ॥ १,१८.१० ॥ ज्येष्ठं वैश्रवणं तस्य सुषुवे देवरूपिणी । कैकसी जनयत्पुत्रं रावणं राक्षसाधिपम् ॥ १,१८.११ ॥ कुम्भकर्णं शूर्पणखां तथैव च विभीषणम् । पुष्पोत्कटा व्यजनयत्पुत्रान् विश्रवसः शुभान् ॥ १,१८.१२ ॥ महोदरं प्रहस्तं च महापार्श्वं खरं तथा । कुम्भीनसीं तथा कन्यां राकायां शृणुत प्रजाः ॥ १,१८.१३ ॥ त्रिशिरा दूषणश्चैव विद्युज्जिह्वो महाबलः । इत्येते क्रूरकर्माणः पौलस्त्या राक्षसा दश । सर्वे तपोबलोत्कृष्टा रुद्रभक्ताः सुभीषणाः ॥ १,१८.१४ ॥ पुलहस्य मृगाः पुत्राः सर्वे व्यालाश्च दंष्ट्रिणः । भूताः पिशाचाः सर्पाश्च शूकरा हस्तिनस्तथा ॥ १,१८.१५ ॥ अनपत्यः क्रतुस्तस्मिन् स्मृतो वैवस्वतेऽन्तरे । मरीचेः कश्यपः पुत्रः स्वयमेव प्रजापतिः ॥ १,१८.१६ ॥ भृगोरप्यभवच्छुक्रो दैत्याचार्यो महातपाः । स्वाध्याययोगनिरतो हरभक्तो महाद्युतिः ॥ १,१८.१७ ॥ अत्रेः पत्न्योऽभवन् बह्व्यः सोदर्यास्ताः पतिव्रताः । कृशाश्वस्य तु विप्रेन्द्रा घृताच्यामिति मे श्रुतम् ॥ १,१८.१८ ॥ स तासु जनयामास स्वस्त्यात्रेयान्महौजसः । वेदवेदाङ्गनिरतांस्तपसा हतकिल्बिषान् ॥ १,१८.१९ ॥ नारदस्तु वसिष्ठाय ददौ देवीमरुन्धतीम् । ऊर्ध्वरेतास्तत्र मुनिः शापाद्दक्षस्य नारदः ॥ १,१८.२० ॥ हर्यश्वेषु तु नष्टेषु मायया नारदस्य तु । शशाप नारदं दक्षः क्रोधसंरक्तलोचनः ॥ १,१८.२१ ॥ यस्मान्मम सुताः सर्वे भवतो मायया द्विज । क्षयं नीतास्त्वशेषेण निरपत्यो भविष्यति ॥ १,१८.२२ ॥ अरुन्धत्यां वसिष्ठस्तु शक्तिमुत्पादयत्सुतम् । शक्तेः पराशरः श्रीमान् सर्वज्ञस्तपतां वरः ॥ १,१८.२३ ॥ आराध्य देवदेवेशमीशानं त्रिपुरान्तकम् । लेभे त्वप्रतिमं पुत्रं कृष्णाद्वैपायनं प्रभुम् ॥ १,१८.२४ ॥ द्वैपायनाच्छ्रको जज्ञे भगवानेव शङ्करः । अंशांशेनावतीर्योर्व्यां स्वं प्राप परमं पदम् ॥ १,१८.२५ ॥ शुकस्याप्यभवन् पुत्राः पञ्चात्यन्ततपस्विनः । भूरिश्रवाः प्रभुः शंभुः कृष्णो गौरश्च पञ्चमः । कन्या कीर्तिमती चैव योगमाता धृतव्रता ॥ १,१८.२६ ॥ एतेऽत्र वंश्याः कथिता ब्राह्मणा ब्रह्मवादिनाम् । अत ऊर्ध्वं निबोधध्वं कश्यपाद्राजसंततिम् ॥ १,१८.२७ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे अष्टादशोऽध्यायः _____________________________________________________________ सूत उवाच अदितिः सुषुवे पुत्रमादित्यं कश्यपात्प्रभुम् । तस्यादित्यस्य चैवसीद्भार्याणां तु चतुष्टयम् । संज्ञा राज्ञी प्रभा छाया पुत्रांस्तासां निबोधत ॥ १,१९.१ ॥ संज्ञा त्वाष्ट्री च सुषुवे सूर्यान्मनुमनुत्तमम् । यमं च यमुनां चैव राज्ञी रैवतमेव च ॥ १,१९.२ ॥ प्रभा प्रभातमादित्याच्छाया सावर्णमात्मजम् । शनिं च तपतीं चैव विष्टिं चैव यथाक्रमम् ॥ १,१९.३ ॥ मनोस्तु प्रथमस्यासन्नव पुत्रास्तु संयमाः । इक्ष्वाकुर्नभगश्चैव धृष्टः शर्यातिरेव च ॥ १,१९.४ ॥ नरिष्यन्तश्च नाभागो ह्यरिष्टः कारुषकस्तथा । पृषध्रश्च महातेजा नवैते शक्रसन्निभाः ॥ १,१९.५ ॥ इला ज्येष्ठा वरिष्ठा च सोमवंशविवृद्धये । बुधस्य गत्वा भवनं सोमपुत्रेण संगता ॥ १,१९.६ ॥ असूत सौम्यजं देवी पुरूरवसमुत्तमम् । पितॄणां तृप्तिकर्तारं बुधादिति हि नः श्रुतम् ॥ १,१९.७ ॥ संप्राप्य पुंस्त्वममलं सुद्युम्न इति विश्रुतः । इला पुत्रत्रयं लेभे पुनः स्त्रीत्वमविन्दत ॥ १,१९.८ ॥ उत्कलश्च गयश्चैव विनताश्वस्तथैव च । सर्वे तेऽप्रतिमप्रख्याः प्रपन्नाः कमलोद्भवम् ॥ १,१९.९ ॥ इक्ष्वाकोश्चाभवद्वीरो विकुक्षिर्नाम पार्थिवः । ज्येष्ठः पुत्रशतस्यापि दश पञ्च च तत्सुताः ॥ १,१९.१० ॥ तेषाञ्ज्येष्ठः ककुत्स्थोऽभूत्काकुत्स्थो हि सुयोधनः । सुयोधनात्पृथुः श्रीमान् विश्वकश्च पृथोः सुतः ॥ १,१९.११ ॥ विश्वकादार्द्रको धीमान् युवनाश्वस्तु तत्सुतः । स गोकर्णमनुप्राप्य युवनाश्वः प्रतापवान् ॥ १,१९.१२ ॥ दृष्ट्वा तु गौतमं विप्रं तपन्तमनलप्रभम् । प्रणम्य दण्डवद्भूमौ पुत्रकामो महीपतिः । अपृच्छत्कर्मणा केन धार्मिकं प्राप्नुयात्सुतम् ॥ १,१९.१३ ॥ गौतम उवाच आराध्य पूर्वपुरुषं नारायणमनामयम् । अनादिनिधनं देवं धार्मिकं प्राप्नुयात्सुतम् ॥ १,१९.१४ ॥ यस्य पुत्रः स्वयं ब्रह्मा पौत्रः स्यान्नीललोहितः । तमादिकृष्णमीशानमाराध्याप्नोति सत्सुतम् ॥ १,१९.१५ ॥ न यस्य भगवान् ब्रह्मा प्रभावं वेत्ति तत्त्वतः । तमाराध्य हृषीकेशं प्राप्नुयाद्धार्मिकं सुतम् ॥ १,१९.१६ ॥ स गौतमवचः श्रुत्वा युवनाश्वो महीपतिः । आराधयन्महायोगं वासुदेवं सनातनम् ॥ १,१९.१७ ॥ तस्य पुत्रोऽभवद्वीरः श्रावस्तिरिति विश्रुतः । निर्मिता येन श्रावस्तिर्गौडदेशे महापुरी ॥ १,१९.१८ ॥ तस्माच्च बृहदश्वोऽभूत्तस्मात्कुवलयाश्वकः । धुन्धुमारत्वमगमद्धुन्धुं हत्वा महासुरम् ॥ १,१९.१९ ॥ धुन्धुमारस्य तनयास्त्रयः प्रोक्ता द्विजोत्तमाः । दृढाश्वश्चैव दण्डाश्वः कपिलाश्वस्तथैव च ॥ १,१९.२० ॥ दृढाश्वस्य प्रमोदस्तु हर्यश्वस्तस्य चात्मजः । हर्यश्वस्य निकुम्भस्तु निकुम्भात्संहताश्वकः ॥ १,१९.२१ ॥ कृशाश्वश्च रणाश्वश्च संहताश्वस्य वै सुतौ । युवनाश्वो रणाश्वस्य शक्रतुल्यबलो युधि ॥ १,१९.२२ ॥ कृत्वा तु वारुणीमिष्टिमृषीणां वै प्रसादतः । लेभे त्वप्रतिमं पुत्रं विष्णुभक्तमनुत्तमम् । मान्धातारं महाप्राज्ञं सर्वशस्त्रभृतां वरम् ॥ १,१९.२३ ॥ मान्धातुः पुरुकुत्सोऽभूदम्बरीषश्च वीर्यवान् । मुचुकुन्दश्च पुण्यात्मा सर्वे शक्रसमा युधि ॥ १,१९.२४ ॥ अम्बरीषस्य दायादो युवनाश्वोऽपरः स्मृतः । हरितो युवनाश्वस्य हारितस्तत्सुतोऽभवत् ॥ १,१९.२५ ॥ पुरुकुत्सस्य दायादस्त्रसदस्युर्महायशाः । नर्मदायां समुत्पन्नः संभूतिस्तत्सुतोऽभवत् ॥ १,१९.२६ ॥ विष्णुवृद्धः सुतस्तस्य त्वनरण्योऽभवत्परः । बृहदशवोऽनरण्यस्य हर्यश्वस्तत्सुतोऽभवत् ॥ १,१९.२७ ॥ सोऽतीव धार्मिको राजा कर्दमस्य प्रजापतेः । प्रसादाद्धार्मिकं पुत्रं लेभे सूर्यपरायणम् ॥ १,१९.२८ ॥ स तु सूर्यं समभ्यर्च्य राजा वसुमनाः शुभम् । लेभे त्वप्रतिमं पुत्रं त्रिधन्वानमरिन्दमम् ॥ १,१९.२९ ॥ अयजच्चाश्वमेधेन शत्रून् जित्वा द्विजोत्तमाः । स्वाध्यायवान् दानशीलस्तितिक्षुर्धर्मतत्परः ॥ १,१९.३० ॥ ऋषयस्तु समाजग्मुर्यज्ञवाटं महात्मनः । वसिष्ठकश्यपमुखा देवाश्चेन्द्रपुरोगमाः ॥ १,१९.३१ ॥ तान् प्रणम्य महाराजः पप्रच्छ विनयान्वितः । समाप्य विधिवद्यज्ञं वसिष्ठादीन् द्विजोत्तमान् ॥ १,१९.३२ ॥ वसुमना उवाच किंस्विच्छेयस्करतरं लोकेऽस्मिन् ब्राह्मणर्षभाः । यज्ञस्तपो वा संन्यासो ब्रूत मे सर्ववेदिनः ॥ १,१९.३३ ॥ वसिष्ठ उवाच अधीत्य वेदान् विधिवत्पुत्रानुत्पाद्य धर्मतः । इष्ट्वा यज्ञेश्वरं यज्ञैर्गच्छेद वनमथात्मवान् ॥ १,१९.३४ ॥ पुलस्त्य उवाच आराध्य तपसा देवं योगिनं परमेष्ठिनम् । प्रव्रजेद्विधिवद्यज्ञैरिष्ट्वा पूर्वं सुरोत्तमान् ॥ १,१९.३५ ॥ पुलह उवाच यमाहुरेकं पुरुषं पुराणं परमेश्वरम् । तमाराध्य सहस्त्रांशुं तपसा मोक्षमाप्नुयात् ॥ १,१९.३६ ॥ जमदग्निरुवाच अजस्य नाभावध्येकमीश्वरेण समर्पितम् । बीजं भगवता येन स देवस्तपसेज्यते ॥ १,१९.३७ ॥ विश्वामित्र उवाच योऽग्निः सर्वात्मकोऽनन्तः स्वयंभूर्विश्वतोमुखः । स रुद्रस्तपसोग्रेण पूज्यते नेतरैर्मखैः ॥ १,१९.३८ ॥ भरद्वाज उवाच यो यज्ञैरिज्यते देवो जातवेदाः सनातनः । स सर्वदैवततनुः पूज्यते तपसेश्वरः ॥ १,१९.३९ ॥ अत्रिरुवाच यतः सर्वमिदं जातं यस्यापत्यं प्रजापतिः । तपः सुमहदास्थाय पूज्यते स महेश्वरः ॥ १,१९.४० ॥ गौतम उवाच यतः प्रधानपुरुषौ यस्य शक्तिमयं जगत् । स देवदेवस्तपसा पूजनीयः सनातनः ॥ १,१९.४१ ॥ कश्यप उवाच सहस्त्रनयनो देवः साक्षी स तु प्रजापतिः । प्रसीदति महायोगी पूजितस्तपसा परः ॥ १,१९.४२ ॥ क्रतुरुवाच प्राप्ताध्ययनयज्ञस्लब्धपुत्रस्य चैव हि । नान्तरेण तपः कश्चिद्धर्मः शास्त्रेषु दृश्यते ॥ १,१९.४३ ॥ इत्याकर्ण्य स राजर्षिस्तान् प्रणम्यातिहृष्टधीः । विसर्जयित्वा संपूज्य त्रिधन्वानमथाब्रवीत् ॥ १,१९.४४ ॥ आराधयिष्ये तपसा देवमेकाक्षराह्वयम् । प्राणं बृहन्तं पुरुषमादित्यान्तरसंस्थितम् ॥ १,१९.४५ ॥ त्वं तु धर्मरतो नित्यं पालयैतदतन्द्रितः । चातुर्वर्ण्यसमायुक्तमशेषं क्षितिमण्डलम् ॥ १,१९.४६ ॥ एवमुक्त्वा स तद्राज्यं निधायात्मभवे नृपः । जगामारण्यमनघस्तपश्चर्तुमनुत्तमम् ॥ १,१९.४७ ॥ हिमवच्छिखरे रम्ये देवदारुवने शुभे । कन्दमूलफलाहारो मुन्यन्नैरयजत्सुरान् ॥ १,१९.४८ ॥ संवत्सरशतं साग्रं तपोनिर्धूतकल्मषः । जजाप मनसा देवीं सावित्ररिं वेदमातरम् ॥ १,१९.४९ ॥ तस्यैवं जपतो देवः स्वयंभूः परमेश्वरः । हिरण्यगर्भो विश्वात्मा तं देशमगमत्स्वयम् ॥ १,१९.५० ॥ दृष्ट्वा देवं समायान्तं ब्रह्माणं विश्वतोमुखम् । ननाम शिरसा तस्य पादयोर्नाम कीर्तयन् ॥ १,१९.५१ ॥ नमो देवाधिदेवाय ब्रह्मणे परमात्मने । हिर्ण्यमूर्तये तुभ्यं सहस्त्राक्षाय वेधसे ॥ १,१९.५२ ॥ नमो धात्रे विधात्रे च नमो वेदात्ममूर्तये । सांख्ययोगाधिगम्याय नमस्ते ज्ञानमूर्तये ॥ १,१९.५३ ॥ नमस्त्रिमूर्तये तुभ्यं स्त्रष्ट्रे सर्वार्थवेदिने । पुरुषाय पुराणाय योगिनां गुरवे नमः ॥ १,१९.५४ ॥ ततः प्रसन्नो भगवान् विरिञ्चो विश्वभावनः । वरं वरय भद्रं ते वरदोऽस्मीत्यभाषत ॥ १,१९.५५ ॥ राजोवाच जपेयं देवदेवेश गायत्रीं वेदमातरम् । भूयो वर्षशतं साग्रं तावदायुर्भवेन्मम ॥ १,१९.५६ ॥ बाढमित्याह विश्वात्मा समालोक्य नराधिपम् । स्पृष्ट्वा कराभ्यां सुप्रीतस्तत्रैवान्तरधीयत ॥ १,१९.५७ ॥ सोऽपि लब्धवरः श्रीमान् जजापातिप्रसन्नधीः । शान्तस्त्रिषवणस्नायी कन्दमूलफलाशनः ॥ १,१९.५८ ॥ तस्य पूर्णे वर्षशते भगवानुग्रदीधितिः । प्रादुरासीन्महायोगी भानोर्मण्डलमध्यतः ॥ १,१९.५९ ॥ तं दृष्ट्वा वेदविदुषं मण्डलस्थं सनातनम् । स्वयंभुवमनाद्यन्तं ब्रह्माणं विस्मयं गतः ॥ १,१९.६० ॥ तुष्टाव वैदिकैर्मन्त्रैः सावित्र्या च विशेषतः । क्षणादपश्यत्पुरुषं तमेव परमेश्वरम् ॥ १,१९.६१ ॥ चतुर्मुखं जटामौलिमष्टहस्तं त्रिलोचनम् । चन्द्रावयवलक्षमाणं नरनारीतनुं हरम् ॥ १,१९.६२ ॥ भासयन्तं जगत्कृत्स्नं नीलकण्ठं स्वरश्मिभिः । रक्ताम्बरधरं रक्तं रक्तमाल्यानुलेपनम् ॥ १,१९.६३ ॥ तद्भावभावितो दृष्ट्वा सद्भावेन परेण हि । ननाम शिरसा रुद्रं सावित्र्यानेन चैव हि ॥ १,१९.६४ ॥ नमस्ते नीलकण्ठाय भास्वते परमेष्ठिने । त्रयीमयाय रुद्राय कालरूपाय हेतवे ॥ १,१९.६५ ॥ तदा प्राह महादेवो राजानं प्रीतमानसः । इमानि मे रहस्यानि नामानि शृणु चानघ ॥ १,१९.६६ ॥ सर्ववेदेषु गीतानि संसारशमनानि तु । नमस्कुरुष्व नृपते एभिर्मां सततं शुचिः ॥ १,१९.६७ ॥ अध्यायं शतरुद्रीयं यजुषां सारमुद्धृतम् । जपस्वानन्यचेतस्को मय्यासक्तमना नृप ॥ १,१९.६८ ॥ ब्रह्मचारी मिताहारो भस्मनिष्ठः समाहितः । जपेदामरणाद्रुद्रं स याति परमं पदम् ॥ १,१९.६९ ॥ इत्युक्त्वा भगवान् रुद्रो भक्तानुग्रहकाम्यया । पुनः संवत्सरशतं राज्ञे ह्यायुरकल्पयत् ॥ १,१९.७० ॥ दत्त्वास्मै तत्परं ज्ञानं वैराग्यं परमेश्वरः । क्षणादन्तर्दधे रुद्रस्तदद्भुतमिवाभवत् ॥ १,१९.७१ ॥ राजापि तपसा रुद्रं जजापानन्यमानसः । भस्मच्छन्नस्त्रिषवणं स्नात्वा शान्तः समाहितः ॥ १,१९.७२ ॥ जपतस्तस्य नृपतेः पूर्णे वर्षशते पुनः । योगप्रवृत्तिरभवत्कालात्कालात्मकं परम् ॥ १,१९.७३ ॥ विवेश तद्वेदसारं स्थानं वै परमेष्ठिनः । भानोः स मण्डलं शुभ्रं ततो यातो महेश्वरम् ॥ १,१९.७४ ॥ यः पठेच्छृणुयाद्वापि राज्ञश्चरितमुत्तमम् । सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ १,१९.७५ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे एकोनविशोऽध्यायः _____________________________________________________________ सूत उवाच त्रिधन्वा राजपुत्रस्तु धर्मेणापालयन्महीम् । तस्य पुत्रोऽभवद्विद्वांस्त्रय्यारुण इति स्मृतः ॥ १,२०.१ ॥ तस्य सत्यव्रतो नाम कुमारोऽभून्महाबलः । भार्या सत्यधना नाम हरिश्चन्द्रमजीजनत् ॥ १,२०.२ ॥ हरिश्चन्द्रस्य पुत्रोऽभूद्रोहितो नाम वीर्यवान् । हरितो रोहितस्याथ धुन्धुस्तस्य सुतोऽभवत् ॥ १,२०.३ ॥ विजयश्च सुदेवश्च धुन्धुपुत्रौ बभूवतुः । विजयस्याभवत्पुत्रः कारुको नाम वीर्यवान् ॥ १,२०.४ ॥ कारुकस्य वृकः पुत्रस्तस्माद्बाहुरजायत । सगरस्तस्य पुत्रौऽभूद्राजा परमधार्मिकः ॥ १,२०.५ ॥ द्वे भार्ये सगरस्यापि प्रभा भानुमती तथा । ताभ्यामाराधितः प्रादादौर्वाग्निर्वरमुत्तमम् ॥ १,२०.६ ॥ एकं भानुमती पुत्रमगृह्णादसमञ्जसम् । प्रभा षष्टिसहस्त्रं तु पुत्राणां जगृहे शुभा ॥ १,२०.७ ॥ असमञ्सस्य तनयो ह्यंशुमान्नाम पार्थिवः । तस्य पुत्रो दिलीपस्तु दिलीपात्तु भगीरथः ॥ १,२०.८ ॥ येन भागीरथी गङ्गा तपः कृत्वावतारिता । प्रसादाद्देवदेवस्य महादेवस्य धीमतः ॥ १,२०.९ ॥ भगीरथस्य तपसा देवः प्रीतमना हरः । बभार शिरसा गङ्गां सोमान्ते सोमभूषणः ॥ १,२०.१० ॥ भगीरथसुतश्चापि श्रुतो नाम बभूव ह । नाभागस्तस्य दायादः सिन्धुद्वीपस्ततोऽभवत् ॥ १,२०.११ ॥ अयुतायुः सुतस्तस्य ऋतुपर्णस्तु तत्सुतः । ऋतुपर्णस्य पुत्रोऽभूत्सुदासो नाम धार्मिकाः । सौदासस्तस्य तनयः ख्यातः कल्माषपादकः ॥ १,२०.१२ ॥ वसिष्ठस्तु महातेजाः क्षेत्रे कल्माषपादके । अश्मकं जनयामसा तमिक्ष्वाकुकुलध्वजम् ॥ १,२०.१३ ॥ अश्मकस्योत्कलायां तु नकुलो नाम पार्थिवः । स हि रामभयाद्राजा वनं प्राप सुदुः खितः ॥ १,२०.१४ ॥ विभ्रत्स नारीकवचं तस्माच्छतरथोऽभवत् । तस्माद्बिलिबिलिः श्रीमान्वृद्धशर्माचतत्सुतः ॥ १,२०.१५ ॥ तस्माद्विश्वसहस्तस्मात्खट्वाङ्ग इति विश्रुतः । दीर्घबाहुः सुतस्तस्य रघुस्तस्मादजायत ॥ १,२०.१६ ॥ रघोरजः समुत्पन्नो राजा दशरथस्ततः । रामो दाशरथिर्वोरो धर्मज्ञो लोकविश्रुतः ॥ १,२०.१७ ॥ भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलः । सर्वे शक्रसमा युद्धे विष्णुशक्तिसमन्विताः । जज्ञे रावणनाशार्थं विष्णुरंशेन विश्वकृत् ॥ १,२०.१८ ॥ रामस्य सुभगा भार्या जनकस्यात्मजा शुभा । सीता त्रिलोकविख्याता शीलौदार्यगुणान्विता ॥ १,२०.१९ ॥ तपसा तोषिता देवी जनकेन गिरीन्द्रजा । प्रायच्छज्जानकीं सीतां राममेवाश्रिता पतिम् ॥ १,२०.२० ॥ प्रीतश्च भगवानीशस्त्रिशूली नीललोहितः । प्रददौ शत्रुनाशार्थं जनकायाद्भुतं धनुः ॥ १,२०.२१ ॥ स राजा जनको विद्वान् दातुकामः सुतामिमाम् । अघोषयदमित्रघ्नो लोकेऽस्मिन् द्विजपुङ्गवाः ॥ १,२०.२२ ॥ इदं धनुः समादातुं यः शक्नोति जगत्त्रये । देवो वा दानवो वापि स सीतां लब्धुमर्हति ॥ १,२०.२३ ॥ विज्ञाय रामो बलवान् जनकस्य गृहं प्रभुः । भञ्जयामास चादाय गत्वासौ लीलयैव हि ॥ १,२०.२४ ॥ उद्ववाह च तां कन्यां पार्वतीमिव शङ्करः । रामः परमधर्मात्मा सेनामिव च षण्मुखः ॥ १,२०.२५ ॥ ततो बहुतिथे काले राजा दशरथः स्वयम् । रामं ज्येष्ठं सुतं वीरं राजानं कर्तुमारभत् ॥ १,२०.२६ ॥ तस्याथ पत्नी सुभगा कैकेयी चारुभाषिणी । निवारयामास पतिं प्राह संभ्रान्तमानसा ॥ १,२०.२७ ॥ मत्सुतं भरतं वीरं राजानं कर्तुमर्हसि । पूर्वमेव वरो यस्माद्दत्तो मे भवता यतः ॥ १,२०.२८ ॥ स तस्या वचनं श्रुत्वा राजा दुः खितमानसः । बाढमित्यब्रवीद्वाक्यं तथा रामोऽपि धर्मवित् ॥ १,२०.२९ ॥ प्रणम्याथ पितुः पादौ लक्ष्मणेन सहाच्युतः । ययौ वनं सपत्नीकः कृत्वा समयमात्मवान् ॥ १,२०.३० ॥ संवत्सराणां चत्वारि दश चैव महाबलः । उवास तत्र मतिमान् लक्ष्मणेन सह प्रभुः ॥ १,२०.३१ ॥ कदाचिद्वसतोऽरण्ये रावणो नाम राक्षसः । परिव्राजकवेषेण सीतां हृत्वा ययौ पुरीम् ॥ १,२०.३२ ॥ अदृष्ट्वा लक्ष्मणो रामः सीतामाकुलितेन्द्रियौ । दुः खशोकाभिसंतप्तौ बभूवतुररिन्दमौ ॥ १,२०.३३ ॥ ततः कदाचित्कपिना सुग्रीवेण द्विजोत्तमाः । वानराणामभूत्सख्यं रामस्याक्लिष्टकर्मणः ॥ १,२०.३४ ॥ सुग्रीवस्यानुगो वीरो हनुमान्न्म वानरः । वायुपुत्रौ महातेजा रामस्यासीत्प्रियः सदा ॥ १,२०.३५ ॥ स कृत्वा परमं धैर्यं रामाय कृतनिश्चयः । आनयिष्यामि तां सीतामित्युक्त्वा विचचार ह ॥ १,२०.३६ ॥ महीं सागरपर्यन्तां सीतादर्शनतत्परः । जगाम रावणपुरीं लङ्कां सागरसंस्थिताम् ॥ १,२०.३७ ॥ तत्राथ निर्जने देशे वृक्ष्मूले शुचिस्मिताम् । अपश्यदमलां सीतां राक्षसीभिः समावृताम् ॥ १,२०.३८ ॥ अश्रुपूर्णेक्षणां हृद्यां संस्मरन्तीमनिन्दिताम् । राममिन्दीवरश्यामं लक्ष्मणं चात्मसंस्थितम् ॥ १,२०.३९ ॥ निवेदयित्वा चात्मानं सीतायै रहसि स्वयम् । असंशयाय प्रददावस्यै रामाङ्गुलीयकम् ॥ १,२०.४० ॥ दृष्ट्वाङ्गुलीयकं सीता पत्युः परमशोभनम् । मेने समागतं रामं प्रीतिविस्फारितेक्षणा ॥ १,२०.४१ ॥ समाश्वास्य तदा सीतां दृष्ट्वा रामस्य चान्तिकम् । नयिष्ये त्वां महाबाहुरुक्त्वा रामं ययौ पुनः ॥ १,२०.४२ ॥ निवेदयित्वा रामाय सीतादर्शनमात्मवान् । तस्थौ रामेण पुरतो लक्ष्मणेन च पूजितः ॥ १,२०.४३ ॥ ततः स रामो बलवान् सार्धं हनुमता स्वयम् । लक्ष्मणेन च युद्धाय बुद्धिं चक्रे हि रक्षसाम् ॥ १,२०.४४ ॥ कृत्वाथ वानरशतैर्लङ्कामार्गं महोदधेः । सेतुं परमधर्मात्मा रावणं हतवान् प्रभुः ॥ १,२०.४५ ॥ सपत्नीकं च ससुतं सभ्रातृकमरिदमः । आनयामास तां सीतां वायुपुत्रसहायवान् ॥ १,२०.४६ ॥ सेतुमध्ये महादेवमीशानं कृत्तिवाससम् । स्थापयामास लिङ्गस्थं पूजयामास राघवः ॥ १,२०.४७ ॥ तस्य देवो महादेवः पार्वत्या सह शङ्करः । प्रत्यक्षमेव भगवान् दत्तवान् वरमुत्तमम् ॥ १,२०.४८ ॥ यत्त्वया स्थापितं लिङ्गं द्रक्ष्यन्तीह द्विजातयः । महापातकसंयुक्तास्तेषां पापं विनश्यतु ॥ १,२०.४९ ॥ अन्यानि चैव पापानि स्नातस्यात्र महोदधौ । दर्शनादेव लिङ्गसल्य नाशं यान्ति न संशयः ॥ १,२०.५० ॥ यावत्स्थास्यन्ति गिरयो यावदेषा च मेदिनी । यावत्सेतुश्च तावच्च स्थास्याम्यत्र तिरोहितः ॥ १,२०.५१ ॥ स्नानं दानं जपः श्राद्धं भविष्यत्यक्ष्यं कृतम् । स्मरणादेव लिङ्गस्य दिनपापं प्रणश्यति ॥ १,२०.५२ ॥ इत्युक्त्वा भगवाञ्छंभुः परिष्वज्य तु राघवम् । सनन्दी सगणो रुद्रस्तत्रैवान्तरधीयत ॥ १,२०.५३ ॥ रामोऽपि पालयामास राज्यं धर्मपरायणः । अभिषिक्तो महातेजा भरतेन महाबलः ॥ १,२०.५४ ॥ विशेषाढ्ब्राह्मणान् सर्वान् पूजयामसचेश्वरम् । यज्ञेन यज्ञहन्तारमश्वमेधेन शङ्करम् ॥ १,२०.५५ ॥ रामस्य तनयो जज्ञे कुश इत्यभिविश्रुतः । लवश्च सुमहाभागः सर्वतत्त्वार्थवित्सुधीः ॥ १,२०.५६ ॥ अतिथिस्तु कुशाज्जज्ञे निषधस्तत्सुतोऽभवत् । नलस्तु निषधस्याभून्नभस्तमादजायत ॥ १,२०.५७ ॥ नभसः पुण्डरीकाख्यः क्षेमधन्वा च तत्सुतः । तस्य पुत्रोऽभवद्वीरो देवानीकः प्रतापवान् ॥ १,२०.५८ ॥ अहीनगुस्तस्य सुतो सहस्वांस्तत्सुतोऽभवत् । तस्माच्चन्द्रावलोकस्तु तारापीडस्तु तत्सुतः ॥ १,२०.५९ ॥ तारापीडाच्चन्द्रगिरिर्भानुवित्तस्ततोऽभवत् । श्रुतायुरभवत्तस्मादेते इक्ष्वाकुवंशजाः । सर्वे प्राधान्यतः प्रोक्ताः समासेन द्विजोत्तमाः ॥ १,२०.६० ॥ य इमं शृणुयान्नित्यमिक्ष्वाकोर्वंशमुत्तमम् । सर्वपापविनिर्मुक्तो स्वर्गलोके महीयते ॥ १,२०.६१ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे विशोऽध्यायः _____________________________________________________________ रोमहर्षण उवाच ऐलः पुरूरवाश्चाथ राजा राज्यमपालयत् । तस्य पुत्रा बभूवुर्हि षडिन्द्रसमतेजसः ॥ १,२१.१ ॥ आयुर्मायुरमावायुर्विश्वायुश्चैव वीर्यवान् । शतायुश्च श्रुतायुश्च दिव्याश्चैवोर्वशीसुताः ॥ १,२१.२ ॥ आयुषस्तनया वीराः पञ्चैवासन्महौजसः । स्वर्भानुतनयायां वै प्रभायामिति नः श्रुतम् ॥ १,२१.३ ॥ नहुषः प्रथमस्तेषां धर्मज्ञो लोकविश्रुतः । नहुषस्य तु दायादाः षडिन्द्रोपमतेजसः ॥ १,२१.४ ॥ उत्पन्नाः पितृकन्यायां विरजायां महाबलाः । यतिर्ययातिः संयातिरायातिः पञ्चकोऽश्वकः ॥ १,२१.५ ॥ तेषां ययातिः पञ्चानां महाबलपराक्रमः । देवयानीमुखनसः सुतां भार्यामवाप सः । शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः ॥ १,२१.६ ॥ यदुं च तुर्वसुं चैव देवयानी व्यजायत । द्रुह्युं चानुं च पूरुं च शर्मिष्ठा चाप्यजीजनत् ॥ १,२१.७ ॥ सोऽभ्यषिञ्चदतिक्रम्य ज्येष्ठं यदुमनिन्दितम् । पुरुमेव कनीयासं पितुर्वचनपालकम् ॥ १,२१.८ ॥ दिशि दक्षिणपूर्वस्यां तुर्वसुं पुत्रमादिशत् । दक्षिणापरयो राजा यदुं ज्येष्ठं न्ययोजयत् । प्रतीच्यामुत्तारायां च द्रुह्युं चानुमकल्पयत् ॥ १,२१.९ ॥ तैरियं पृथिवी सर्वा धर्मतः परिपालिता । राजापि दारसहितो नवं प्राप महायशाः ॥ १,२१.१० ॥ यदोरप्यभवन् पुत्राः पञ्च देवसुतोपमाः । सहस्त्रजित्तथाज्येष्ठः क्रोषटुर्नालोऽजितोरघुः ॥ १,२१.११ ॥ सहस्त्रजित्सुतस्तद्वच्छतजिन्नाम पार्थिवः । सुताः शतजितोऽप्यासंस्त्रयः परमधार्मिकाः ॥ १,२१.१२ ॥ हैहयश्च हयश्चैव राजा वेणुहयः परः । हैहयस्याभवत्पुत्रो धर्म इत्यभिविश्रुतः ॥ १,२१.१३ ॥ तस्य पुत्रोऽभवद्विप्रा धर्मनेत्रः प्रतापवान् । धर्मनेत्रस्य कीर्तिस्तु संजितस्तत्सुतोऽभवत् ॥ १,२१.१४ ॥ महिष्मान् संजितस्याभूद्भद्रश्रेण्यस्तदन्वयः । भद्रश्रेण्यस्य दायादो दुर्दमो नाम पार्थिवः ॥ १,२१.१५ ॥ दुर्दमस्य सुतो धीमान् धनको नाम वीर्यवान् । धनकस्य तु दायादाश्चत्वारो लोकसम्मताः ॥ १,२१.१६ ॥ कृतवीर्यः कृताग्निश्च कृतवर्मा तथैव च । कृतौजाश्च चतुर्थोऽभूत्कार्तवीर्योर्ऽजुनोऽभवत् ॥ १,२१.१७ ॥ सहस्त्रबाहुर्द्युतिमान् धनुर्वेदविदां वरः । तस्य रामोऽभवन्मृत्युर्जामदग्न्यो जनार्दनः ॥ १,२१.१८ ॥ तस्य पुत्रशतान्यासन् पञ्च तत्र महारथाः । कृतास्त्रा बलिनः शूरा धर्मात्मानो नमस्विनः ॥ १,२१.१९ ॥ शूरश्च शूरसेनश्च धृष्णः कृष्णस्तथैव च । जयध्वजश्च बलवान्नारायणपरो नृपः ॥ १,२१.२० ॥ शूरसेनादयः सर्वे चत्वारः प्रथितौजसः । रुद्रभक्ता महात्मानः पूजयन्ति स्म शङ्करम् ॥ १,२१.२१ ॥ जयध्वजस्तु मतिमान् देवं नारायणं हरिम् । जगाम शरणं विष्णुं दैवतं धर्मतत्परः ॥ १,२१.२२ ॥ तमूचुरितरे पुत्रा नायं धर्मस्तवानघ । ईश्वराराधनरतः पितास्माकमभूदिति ॥ १,२१.२३ ॥ तानब्रवीन्महातेजा एष धर्मः परो मम । विष्णोरंशेन संभूता राजानो यन्महीतले ॥ १,२१.२४ ॥ राज्यं पालयतावश्यं भगवान् पुरुषोत्तमः । पूजनीयो यतो विष्णुः पालको जगतो हरिः ॥ १,२१.२५ ॥ सात्त्विकी राजसी चैव तामसी च स्वयंभुवः । तिस्त्रस्तु मूर्तयः प्रोक्ताः सृष्टिस्थित्यन्तहेतवः ॥ १,२१.२६ ॥ सत्त्वात्मा भगवान् विष्णुः संस्थापयति सर्वदा । सृजेद्ब्रह्मा रजोमूर्तिः संहरेत्तामसो हरः ॥ १,२१.२७ ॥ तस्मान्महीपतीनां तु राज्यं पालयतामयम् । आराध्यो भगवान् विष्णुः केशवः केशिमर्दनः ॥ १,२१.२८ ॥ निशम्य तस्य वचनं भ्रातरोऽन्ये मनस्विनः । प्रोचुः संहारकृद्रुद्रः पूजनीयो मुमुक्षुभिः ॥ १,२१.२९ ॥ अयं हि भगवान् रुद्रः सर्वं जगदिदं शिवः । तमोगुणं समाश्रित्य कल्पान्ते संहरेत्प्रभुः ॥ १,२१.३० ॥ या सा घोरतरा मूर्तिरस्य तेजामयी परा । संहरेद्विद्यया सर्वं संसारं शूलभृत्तया ॥ १,२१.३१ ॥ ततस्तानब्रवीद्राजा विचिन्त्यासौ जयध्वजः । सत्त्वेन मुच्यते जन्तुः सत्त्वात्मा भगवान् हरिः ॥ १,२१.३२ ॥ तमूचुर्भ्रातरो रुद्रः सेवितः सात्त्विकैर्जनैः । मोचयेत्सत्त्वसंयुक्तः पूजयेशं ततो हरम् ॥ १,२१.३३ ॥ अथाब्रवीद्राजपुत्रः प्रहसन् वै जयध्वजः । स्वधर्मो मुक्तये पन्था नान्यो मुनिभिरष्यते ॥ १,२१.३४ ॥ तथा च वैष्णवी शक्तिर्नृपाणां देवता सदा । आराधनं परो धर्मो पुरारेरमितौजसः ॥ १,२१.३५ ॥ तमब्रवीद्राजपुत्रः कृष्णो मतिमतां वरः । यदर्जुनोऽस्मज्जनकः स्वधर्मं कृतवानिति ॥ १,२१.३६ ॥ एवं विवादे वितते शूरसेनोऽब्रवीद्वचः । प्रमाणमृषयो ह्यत्र ब्रूयुस्ते यत्तथैव तत् ॥ १,२१.३७ ॥ ततस्ते राजशार्दूलाः पप्रच्छुर्ब्रह्मवादिनः । गत्वा सर्वे सुसंरब्धाः सप्तर्षोणां तदाश्रमम् ॥ १,२१.३८ ॥ तानब्रुवंस्ते मुनयो वसिष्ठाद्या यथार्थतः । या यस्याभिमता पुंसः सा हि तस्यैव देवता ॥ १,२१.३९ ॥ किन्तु कार्यविशेषेण पूजिताश्चेष्टदा नृणाम् । विशेषात्सर्वदा नायं नियमो ह्यन्यथा नृपाः ॥ १,२१.४० ॥ नृपाणां दैवतं विष्णुस्तथैव च पुरन्दरः । विप्राणामग्निरादित्यो ब्रह्मा चैव पिनाकधृक् ॥ १,२१.४१ ॥ देवानां दैवतं विष्णुर्दानवानां त्रिशूलभृत् । गन्धर्वाणां तथा सोमो यक्षाणामपि कथ्यते ॥ १,२१.४२ ॥ विद्याधराणां वाग्देवी साध्यानां भगवान्रविः । रक्षसां शङ्करो रुद्रः किंनराणां च पार्वती ॥ १,२१.४३ ॥ ऋषीणां दैवतं ब्रह्मा महादेवश्च शूलभृत् । मनूनां स्यादुमा देवी तथा विष्णुः सभास्करः ॥ १,२१.४४ ॥ गृहस्थानां च सर्वे स्युर्ब्रह्मा वै ब्रह्मचारिणाम् । वैखानसानामर्कः स्याद्यतीनां च महेश्वरः ॥ १,२१.४५ ॥ भूतानां भगवान् रुद्रः कूष्माण्डानां विनायकः । सर्वेषां भगवान् ब्रह्मा देवदेवः प्रजापतिः ॥ १,२१.४६ ॥ इत्येवं भगवान् ब्रह्मा स्वयं देवोऽभ्यभाषत । तस्माज्जयध्वजो नूनं विष्ण्वाराधनमर्हति ॥ १,२१.४७ ॥ तान् प्रणम्याथ ते जग्मुः पुरीं परमशोभनाम् । पालयाञ्चक्रिरे पृथ्वीं जित्वा सर्वरिपून् रणे ॥ १,२१.४८ ॥ ततः कदाचिद्विप्रेन्द्रा विदेहो नाम दानवः । भीषणः सर्वसत्त्वानां पुरीं तेषां समाययौ ॥ १,२१.४९ ॥ दंष्ट्राकरालो दीप्तात्मा युगान्तदहनोपमः । शूलमादाय सूर्याभं नादयन् वै दिशो दश ॥ १,२१.५० ॥ तन्नादश्रवणान्मर्त्यास्तत्र ये निवसन्ति ते । तत्यजुर्जोवितं त्वन्ये दुद्रुवुर्भयविह्वलाः ॥ १,२१.५१ ॥ ततः सर्वे सुसंयत्ताः कार्तवीर्यात्मजास्तदा । युयुधुर्दानवं शक्तिगिरिकूटासिमुद्गरैः ॥ १,२१.५२ ॥ तान् सर्वान् दानवो विप्राः शूलेन प्रहसन्निव । वारयामास घोरात्मा कल्पान्ते भैरवो यथा ॥ १,२१.५३ ॥ शूरसेनादयः पञ्च राजानस्तु महाबलाः । युद्धाय कृतसंरम्भा विदेहं त्वभिदुद्रुवुः ॥ १,२१.५४ ॥ शूरोऽस्त्रं प्राहिणोद्रौद्रं शूरसेनस्तु वारुणम् । प्राजापत्यं तथा कृष्णो वायव्यं धृष्ण एव च ॥ १,२१.५५ ॥ जयध्वजश्च कौबेरमैन्द्रमाग्नेयमेव च । भञ्जयामास शूलेन तान्यस्त्राणि स दानवः ॥ १,२१.५६ ॥ ततः कृष्णो महावीर्यो गदामादाय भीषणाम् । स्पृष्ट्वा मन्त्रेण तरसा चिक्षेप न ननाद च ॥ १,२१.५७ ॥ संप्राप्य सा गादास्योरो विदेहस्य शिलोपमम् । न दानवं चालयितुं शशाकान्तकसंनिभम् ॥ १,२१.५८ ॥ दुद्रुवुस्ते भयग्रस्ता दृष्ट्वा तस्यातिपौरुषम् । जयध्वजस्तु मतिमान् सस्मार जगतः पतिम् ॥ १,२१.५९ ॥ विष्णुं ग्रसिष्णुं लोकादिमप्रमेयमनामयम् । त्रातारं पुरुषं पूर्वं श्रीपतिं पीतवाससम् ॥ १,२१.६० ॥ ततः प्रादुरभूच्चक्रं सूर्यायुतसमप्रभम् । आदेशाद्वासुदेवस्य भक्तानुग्रहकारणात् ॥ १,२१.६१ ॥ जग्राह जगतां योनिं स्मृत्वा नारायणं नृपः । प्राहिणोद्वै विदेहाय दानवेभ्यो यथा हरिः ॥ १,२१.६२ ॥ संप्राप्य तस्य घोरस्य स्कन्धदेशं सुदर्शनम् । पृथिव्यां पातयामास शिरोऽद्रिशिखराकृति ॥ १,२१.६३ ॥ तस्मिन् हते देवरिपौ शीराद्या भ्रातरो नृपाः । समाययुः पुरीं रम्यां भ्रातरं चाप्यपूजयन् ॥ १,२१.६४ ॥ श्रुत्वाजगाम भगवान् जयध्वजपराक्रमम् । कार्तवीर्यसुतं द्रष्टुं विश्वामित्रो महामुनिः ॥ १,२१.६५ ॥ तमागतमथो दृष्ट्वा राजा संभ्रान्तमानसः । समावेश्यासने रम्ये पूजयामास भावतः ॥ १,२१.६६ ॥ उवाच भगवान् घोरः प्रसादाद्भवतोऽसुरः । निपातितो मया संख्ये विदेहो दानवेश्वरः ॥ १,२१.६७ ॥ त्वद्वाक्याच्छिन्नसंदेहो विष्णुं सत्यपराक्रमम् । प्रपन्नः शरणं तेन प्रसादो मे कृतः शुभः ॥ १,२१.६८ ॥ यक्ष्यामि परमेशानं विष्णुं पद्मदलेक्षणम् । कथं केन विधानेन संपूज्यो हरिरीश्वरः ॥ १,२१.६९ ॥ कोऽयं नारायणो देवः किंप्रभावश्च सुव्रत । सर्वमेतन्ममाचक्ष्व परं कौतूहलं हि मे ॥ १,२१.७० ॥ विश्वामित्र उवाच यतः प्रवृत्तिर्भूतानां यस्मिन् सर्वमिदं जगत् । स विष्णुः सर्वभूतात्मा तमाश्रित्य विमुच्यते ॥ १,२१.७१ ॥ स्ववर्णाश्रमधर्मेण पूज्योऽयं पुरुषोत्तमः । अकामहतभावेन समाराध्यो न चान्यथा ॥ १,२१.७२ ॥ एतावदुक्त्वा भगवान विश्वामित्रो महामुनिः । शूराद्यैः पूजितो विप्रा जगामाथ स्वमालयम् ॥ १,२१.७३ ॥ अथ शूरादयो देवमयजन्त महेश्वरम् । यज्ञेन यज्ञगम्यं तं निष्कामा रुद्रमव्ययम् ॥ १,२१.७४ ॥ तान् वसिष्ठस्तु भगवान् याजयामास सर्ववित् । गौतमोऽत्रिरगस्त्यश्च सर्वे रुद्रपरायणाः ॥ १,२१.७५ ॥ विश्वामित्रस्तु भगवान् जयध्वजमरिन्दमम् । याजयामास भूतादिमादिदेवं जनार्दनम् ॥ १,२१.७६ ॥ तस्य यज्ञे महायोगी साक्षाद्देवः स्वयं हरिः । आविरासीत्स भगवान् तदद्भुतमिवाभवत् ॥ १,२१.७७ ॥ य इमं शृणुयान्नित्यं जयध्वजपराक्रमम् । सर्वपापविमुक्तात्मा विष्णुलोकं स गच्छति ॥ १,२१.७८ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे एकविशोऽध्यायः _____________________________________________________________ सूत उवाच जयध्वजस्य पुत्रोऽभूत्तालाजङ्घ इति स्मृतः । शतपुत्रास्तु तस्यासन् तालजङ्घाः प्रकीर्तिताः ॥ १,२२.१ ॥ तेषां ज्येष्ठो महावीर्यो वीतिहोत्रोऽभवन्नृपः । वृषप्रभृतयश्चान्ये यादवाः पुण्यकर्मिणः ॥ १,२२.२ ॥ वृषो वंशकरस्तेषां तस्य पुत्रोऽभवन्मधुः । मधोः पुत्रशतं त्वासीद्वृषणस्तस्य वंशभाक् ॥ १,२२.३ ॥ वीतिहोत्रसुतश्चापि विश्रुतोऽनन्त इत्युत । दुर्जयस्तस्य पुत्रोऽबूत्सर्वशास्त्रविशारदः ॥ १,२२.४ ॥ तस्य भार्या रूपवती गुणैः सर्वैरलङ्कृता । पतिव्रतासीत्पतिना स्वधर्मपरिपालिका ॥ १,२२.५ ॥ स कदाचिन्महाभागः कालिन्दीतीरसंस्थिताम् । अपश्यदुर्वशीं देवीं गायन्तीं मधुरस्वनाम् ॥ १,२२.६ ॥ ततः कामाहतमनास्तत्समीपमुपेत्य वै । प्रोवाच सुचिरं कालं देवि रन्तुं मयार्ऽहसि ॥ १,२२.७ ॥ सा देवी नृपतिं दृष्ट्वा रूपलावण्यसंयुतम् । रेमे तेन चिरं कालं कामदेवमिवापरम् ॥ १,२२.८ ॥ कालात्प्रबुद्धो राजा तामुर्वशीं प्राह शोभनाम् । गमिष्यामि पुरीं रम्यां हसन्ती साब्रवीद्वचः ॥ १,२२.९ ॥ न ह्यनेनोपभोगेन भवता राजसुन्दर । प्रीतिः संजायते मह्यं स्थातव्यं वत्सरं पुनः ॥ १,२२.१० ॥ तामब्रवीत्स मतिमान् गत्वा शीघ्रतरं पुरीम् । आगमिष्यामि भूयोऽत्र तन्मेऽनुज्ञातुमर्हसि ॥ १,२२.११ ॥ तमब्रवीत्सा सुभगा तथा कुरु विशांपते । नान्ययाप्सरसा तावद्रन्तव्यं भवत्पुनः ॥ १,२२.१२ ॥ ओमित्युक्त्वा ययौ तूर्णं पुरीं परमशोभनाम् । गत्वा पतिव्रतां पत्नीं दृष्ट्वा बीतोऽभवन्नृपः ॥ १,२२.१३ ॥ संप्रेक्ष्य सा गुणवती भार्या तस्य पतिव्रता । भीतं प्रसन्नया प्राह वाचा पीनपयोधरा ॥ १,२२.१४ ॥ स्वामिन् किमत्र भवतो भीतिरद्य प्रवर्तते । तद्ब्रूहि मे यथा तत्त्वं न राज्ञां कीर्तये त्विदम् ॥ १,२२.१५ ॥ स तस्या वाक्यमाकर्ण्य लज्जावनतचेतनः । नोवाच किञ्चिन्नृपतिर्ज्ञानदृष्ट्या विवेद सा ॥ १,२२.१६ ॥ न भेतव्यं त्वया स्वामिन् कार्यं पापविशोधनम् । भीते त्वयि महाराज राष्ट्रं ते नाशमेष्यति ॥ १,२२.१७ ॥ तदा स राजा द्युतिमान्निर्गत्य तु पुरात्ततः । गत्वा कण्वाश्रमं पुण्यं दृष्ट्वा तत्र महामुनिम् ॥ १,२२.१८ ॥ निशम्य कण्ववदनात्प्रायश्चित्तविधिं शुभम् । जगाम हिमवत्पृष्ठं समुद्दिश्य महाबलः ॥ १,२२.१९ ॥ सोऽपश्यत्पथि राजेन्द्रो गन्धर्ववरमुत्तमम् । भ्राजमानं श्रिया व्योम्नि भूषितं दिव्यमालया ॥ १,२२.२० ॥ वीक्ष्य मालाममित्रघ्नः सस्माराप्सरसां वराम् । उर्वशीं तां मनश्चक्रे तस्या एवेयमर्हति ॥ १,२२.२१ ॥ सोऽतीव कामुको राजा गन्धर्वेणाथ तेन हि । चकार सुमहद्युद्धं मालामादातुमुद्यतः ॥ १,२२.२२ ॥ विजित्य समरे मालां गृहीत्वा दुर्जयो द्विजाः । जगाम तामप्सरसं कालिन्दीं द्रष्टुमादरात् ॥ १,२२.२३ ॥ अदृष्ट्वाप्सरसं तत्र कामबाणाभिपीडितः । बभ्राम सकलां पृथ्वीं सप्तद्वीपसमन्विताम् ॥ १,२२.२४ ॥ आक्रम्य हिमवत्पार्श्वमुर्वशीदर्शनोत्सुकः । जगाम शैलप्रवरं हेमकूटमिति श्रुतम् ॥ १,२२.२५ ॥ तत्र तत्राप्सरोवर्या दृष्ट्वा तं सिंहविक्रमम् । कामं संदधिरे घोरं भूषितं चित्रमालया ॥ १,२२.२६ ॥ संस्मरन्नुर्वशीवाक्यं तस्यां संसक्तमानसः । न पश्यति स्मताः सर्वागिरिशृङ्गाणिजग्मिवान् ॥ १,२२.२७ ॥ तत्राप्यप्सरसं दिव्यामदृष्ट्वा कामपीडितः । देवलोकं महामेरुं ययौ देवपराक्रमः ॥ १,२२.२८ ॥ स तत्र मानसं नाम सरस्त्रैलोक्यविश्रुतम् । भेजे शृङ्गाण्यतिक्रम्य स्वबाहुबलभावितः ॥ १,२२.२९ ॥ स तस्य तीरे सुभगां चरन्तीमतिलालसाम् । दृष्टवाननवद्याङ्गीं तस्यै मालां ददौ पुनः ॥ १,२२.३० ॥ स मालया तदा देवीं भूषितां प्रेक्ष्य मोहितः । रेमे कृतार्थमात्मानं जानानः सुचिरं तया ॥ १,२२.३१ ॥ अथोर्वशी राजवर्यं रतान्ते वाक्यमब्रवीत् । किं कृतं भवता पूर्वं पुरीं गत्वा वृथा नृप ॥ १,२२.३२ ॥ स तस्यै सर्वमाचष्ट पत्न्या यत्समुदीरितम् । कण्वस्य दर्शनं चैव मालापहरणं तथा ॥ १,२२.३३ ॥ श्रुत्वैतद्व्याहृतं तेन गच्छेत्याह हितैषिणी । शापं दास्यति ते कण्वो ममापि भवतः प्रिया ॥ १,२२.३४ ॥ तयासकृन्महाराजः प्रोक्तोऽपि मदमोहितः । न तत्यजाथ तत्पार्श्वं तत्र संन्यस्तमानसः ॥ १,२२.३५ ॥ ततोर्वशी कामरूपा राज्ञे स्वं रूपमुत्कटम् । सुरोमशं पिङ्गलाक्षं दर्शयामास सर्वदा ॥ १,२२.३६ ॥ तस्यां विरक्तचेतस्कः स्मृत्वा कण्वाभिभाषितम् । धिङ्मामिति विनिश्चित्यतपः कर्तुं समारभत् ॥ १,२२.३७ ॥ संवत्सरद्वादशकं कन्दमूलफलाशनः । भूय एव द्वादशकं वायुभक्षोऽभवन्नृपः ॥ १,२२.३८ ॥ गत्वा कण्वाश्रमं भीत्या तस्मै सर्वं न्यवेदयत् । वासमप्सरसा भूयस्तपोयोगमनुत्तमम् ॥ १,२२.३९ ॥ वीक्ष्य तं राजशार्दूलं प्रसन्नो भगवानृषिः । कर्तुकामो हि निर्बोजं तस्याघमिदमब्रवीत् ॥ १,२२.४० ॥ गच्छ वाराणसीं दिव्यामीश्वराध्युषितां पुरीम् । आस्ते मोचयितुं लोकं तत्र देवो महेश्वरः ॥ १,२२.४१ ॥ स्नात्वा संतर्प्य विधिवद्गङ्गायान्देवताः पितॄन् । दृष्ट्वा विश्वेश्वरं लिङ्गङ्किल्बिषान्मोक्ष्यसेऽखिलात् ॥ १,२२.४२ ॥ प्रणम्य शिरसा कण्वमनुज्ञाप्य च दुर्जयः । वाराणस्यां हरं दृष्ट्वा पापान्मुक्तोऽभवत्ततः ॥ १,२२.४३ ॥ जगाम स्वपुरीं शुभ्रां पालयामास मेदिनीम् । याजयामास तं कण्वो याचितो घृणया मुनिः ॥ १,२२.४४ ॥ तस्य पुत्रोऽथ मतिमान् सुप्रतीक इति श्रुतः । बभूव जातमात्रं तं राजानमुपतस्थिरे ॥ १,२२.४५ ॥ उर्वश्यां च महावीर्याः सप्त देवसुतोपमाः । कन्या जगृहिरे सर्वा जन्धर्वदयिता द्विजाः ॥ १,२२.४६ ॥ एष व कथितः सम्यक्सहस्त्रजित उत्तमः । वंशः पापहरो नृणां क्रोष्टोरपि निबोधत ॥ १,२२.४७ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे द्वाविशोऽध्यायः _____________________________________________________________ सूत उवाच क्रोष्टोरेकोऽभवत्पुत्रो वृजिनीवानिति श्रुतिः । तस्य पुत्रो महान् स्वातिरुशद्गुस्तत्सुतोऽभवत् ॥ १,२३.१ ॥ उशद्गोरभवत्पुत्रो नाम्ना चित्ररथो बली । अथ चैत्ररथिर्लोके शशबिन्दुरिति स्मृतः ॥ १,२३.२ ॥ तस्य पुत्रः पृथुयशा राजाभूद्धर्मतत्परः । पृथुकर्मा च तत्पुत्रस्तस्मात्पृथुजयोऽभवत् ॥ १,२३.३ ॥ पृथुकीर्तिरभूत्तस्मात्पृथुदानस्ततोऽभवत् । पृथुश्रवास्तस्य पुत्रस्तस्यासीत्पृथुसत्तमः ॥ १,२३.४ ॥ उशना तस्य पुत्रोऽबूत्सितेषुस्तत्सुतोऽभवत् । तस्याभूद्रुक्मकवचः परावृत्तस्य सत्तमाः ॥ १,२३.५ ॥ परावृतः सुतो जज्ञे ज्यामघो लोकविश्रुतः । तस्माद्विदर्भः संजज्ञे विदर्भात्क्रथकैशिकौ ॥ १,२३.६ ॥ रोमपादस्तृतीयस्तु बभ्रुस्तस्यात्मजो नृपः । धृतिस्तस्याभवत्पुत्रः संस्तस्तस्याप्यभूत्सुतः ॥ १,२३.७ ॥ संस्तस्य पुत्रो बलवान्नाम्ना विश्वसहस्तु सः । तस्य पुत्रो महावीर्यः प्रजावान् कौशिकस्ततः । अभूत्तस्य सुतो धीमान् सुमन्तुस्तत्सुतोऽनलः ॥ १,२३.८ ॥ कैशिकस्य सुतश्चेदिश्चैद्यास्तस्याभवन् सुताः । तेषां प्रधानो ज्योतिष्मान् वपुष्मांस्तत्सुतोऽभवत् ॥ १,२३.९ ॥ वपुष्मतो बृहन्मेधा श्रीदेवस्तत्सुतोऽभवत् । तस्य वीतरथो विप्रा रुद्रभक्तो महाबलः ॥ १,२३.१० ॥ क्रथस्याप्यभवत्कुन्ती वृष्णी तस्याभवत्सुतः । वृष्णेर्निवृत्तिरुत्पन्नो दशार्हस्तस्य तु द्विजाः ॥ १,२३.११ ॥ दशार्हपुत्रोप्यारोहो जीमूतस्तत्सुतोऽभवत् । जैमूतिरभवद्वीरो विकृतिः परवीरहा ॥ १,२३.१२ ॥ तस्य भीमरथः पुत्रः तस्मान्नवरथोऽभवत् । दानधर्मरतो नित्यं सम्यक्शीलपरायणः ॥ १,२३.१३ ॥ कदाचिन्मृगयां यातो दृष्ट्वा राक्षसमूर्जितम् । दुद्राव महातविष्टो भयेन मुनिपुङ्गवाः ॥ १,२३.१४ ॥ अन्वधावत संक्रुद्धो राक्षसस्तं महाबलः । दुर्योधनोऽग्निसंकाशः शूलासक्तमहाकरः ॥ १,२३.१५ ॥ राजा नवरथो भीत्या नातिदूरादनुत्तमम् । अपश्यत्परमं स्थानं सरस्वत्या सुगोपितम् ॥ १,२३.१६ ॥ स तद्वेगेन महता संप्राप्य मतिमान्नृपः । ववन्दे शिरसा दृष्ट्वा साक्षाद्देवीं सरस्वतीम् ॥ १,२३.१७ ॥ तुष्टाव वाग्भिरिष्टाभिर्बद्धाञ्जलिरमित्रजित् । पपात दण्डवद्भूमौ त्वामहं शरणं गतः ॥ १,२३.१८ ॥ नमस्यामि महादेवीं साक्षाद्देवीं सरस्वतीम् । वाग्देवतामनाद्यन्तामीश्वरीं ब्रह्मचारिणीम् ॥ १,२३.१९ ॥ नमस्ये जगतां योनिं योगिनीं परमां कलाम् । हिरण्यगर्भमहिषीं त्रिनेत्रां चन्द्रशेखराम् ॥ १,२३.२० ॥ नमस्ये परमानन्दां चित्कलां ब्रह्मरूपिणीम् । पाहि मां परमेशानि भीतं शरणमागतम् ॥ १,२३.२१ ॥ एतस्मिन्नन्तरे क्रुद्धो राजानं राक्षसेश्वरः । हन्तुं समागतः स्थानं यत्र देवी सरस्वती ॥ १,२३.२२ ॥ समुद्यम्य तदा शूलं प्रवेष्टुं बलदर्पितः । त्रिलोकमातुस्तत्स्थानं शशाङ्कादित्यसंन्निभम् ॥ १,२३.२३ ॥ तदन्तरे महद्भूतं युगान्तादित्यसन्निभम् । शूलेनोरसि निर्भिद्य पातयामास तं भुवि ॥ १,२३.२४ ॥ गच्छेत्याह महाराज न स्थातव्यं त्वया पुनः । इदानीं निर्भयस्तूर्णं स्थानेऽस्मिन् राक्षसो हतः ॥ १,२३.२५ ॥ ततः प्रणम्य हृष्टात्मा राजा नवरथः पराम् । पुरीं जगाम विप्रेन्द्राः पुरन्दरपुरोपमाम् ॥ १,२३.२६ ॥ स्थापयामास देवेशीं तत्र भक्तिसमन्वितः । ईजे च विविधैर्यज्ञैर्हेमैर्देवीं सरस्वतीम् ॥ १,२३.२७ ॥ तस्य चासीद्दशरथः पुत्रः परमधार्मिकः । देव्या भक्तो महातेजाः शकुनिस्तस्य चात्मजः ॥ १,२३.२८ ॥ तस्मात्करम्भः संभूतो देवरातोऽभवत्ततः । ईजे स चाश्वमेधेन देवक्षत्रश्च तत्सुतः ॥ १,२३.२९ ॥ मधुस्तस्य तु दायादस्तस्मात्कुरुवशोऽभवत् । पुत्रद्वयमभूत्तस्य सुत्रामा चानुरेव च ॥ १,२३.३० ॥ अनोस्तु पुरुकुत्सोऽभूदंशुस्तस्य च रिक्थभाक् । अथांशोः सत्त्वतो नाम विष्णुभक्तः प्रतापवान् । महात्मा दाननिरतो धनुर्वेदविदां वरः ॥ १,२३.३१ ॥ स नारदस्य वचनाद्वासुदेवार्चनान्वितम् । शास्त्रं प्रवर्तयामास कुण्डगोलादिभिः श्रुतम् ॥ १,२३.३२ ॥ तस्य नाम्ना तु विख्यातं सात्त्वतं नाम शोभनम् । प्रवर्तते महाशास्त्रं कुण्डादीनां हितावहम् ॥ १,२३.३३ ॥ सात्त्वतस्तस्य पुत्रोऽभूत्सर्वशास्त्रविशारदः । पुण्यश्लोको महाराजस्तेन वै तत्प्रवर्तितम् ॥ १,२३.३४ ॥ सात्त्वतः सत्त्वसंपन्नः कौशल्यां सुषुवे सुतान् । अन्धकं वै महाभोजं वृष्णिं देवावृधं नृपम् । ज्येष्ठं च भजमानाख्यं धनुर्वेदविदां वरम् ॥ १,२३.३५ ॥ तेषां देवावृधो राजा चचार परमं तपः । पुत्रः सर्वगुणोपेतो मम भूयादिति प्रभुः ॥ १,२३.३६ ॥ तस्य बभ्रुरिति ख्यातः पुण्यश्लोकोऽभवन्नृपः । धार्मिको रूपसंपन्नस्तत्त्वज्ञानरतः सदा ॥ १,२३.३७ ॥ भजमानस्य सृञ्जय्यां भजमाना विजज्ञिरे । तेषां प्रधानौ विख्यातौ निमिः कृकण एव च ॥ १,२३.३८ ॥ महाभोजकुले जाता भोजा वैमार्तिकास्तथा । वृष्णेः सुमित्रो बलवाननमित्रः शिनस्तथा ॥ १,२३.३९ ॥ अनमित्रादभून्निघ्नो निघ्नस्य द्वौ बभूवतुः । प्रसेनस्तु महाभागः सत्राजिन्नाम चोत्तमः ॥ १,२३.४० ॥ अनमित्राच्छिनिर्जज्ञे कनिष्ठाद्वृष्णिनन्दनात् । सत्यवान् सत्यसंपन्नः सत्यकस्तत्सुतोऽभवत् ॥ १,२३.४१ ॥ सात्यकिर्युयुधानस्तु तस्यासङ्गोऽभवत्सुतः । कुणिस्तस्य सुतो धीमांस्तस्य पुत्रो युगन्धरः ॥ १,२३.४२ ॥ माद्रया वृष्णेः सुतो जज्ञे पृश्निर्वै यदुनन्दनः । जज्ञाते तनयौ पृश्नेः श्वफल्कश्चित्रकश्च ह ॥ १,२३.४३ ॥ श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत । तस्यामजनयत्पुत्रमक्रूरं नाम धार्मिकम् । उपमङ्गुस्तथा मङ्गुरन्ये च बहवः सुताः ॥ १,२३.४४ ॥ अक्रूरस्य स्मृतः पुत्रो देववानिति विश्रुतः । उपदेवश्च पुण्यात्मा तयोर्विश्वप्रमाथिनौ ॥ १,२३.४५ ॥ चित्रकस्याभवत्पुत्रः पृथुर्विपृथुरेव च । अश्वग्रीवः सुबाहुश्च सुपार्श्वकगवेषणौ ॥ १,२३.४६ ॥ अन्धकात्काश्यदुहिता लेभे च चतुरः सुतान् । कुकुरं भजमानं च शुचिं कम्बलबर्हिषम् ॥ १,२३.४७ ॥ कुकुरस्य सुतो वृष्णिर्वृष्णेस्तु तनयोऽभवत् । कपोतरोमा विपुलस्तस्य पुत्रो विलोमकः ॥ १,२३.४८ ॥ तस्यासीत्तुम्बुरुसखा विद्वान् पुत्रो नलः किल । ख्यायते तस्य नामानुरनोरानकदुन्दुभिः ॥ १,२३.४९ ॥ स गोवर्धनमासाद्य तताप विपुलं तपः । वरं तस्मै ददौ देवो ब्रह्मा लोकमहेश्वरः ॥ १,२३.५० ॥ वंशस्य चाक्षयां कीर्ति गानयोगमनुत्तमम् । गुरोरभ्यधिकं विप्राः कामरूपित्वमेव च ॥ १,२३.५१ ॥ स लब्ध्वा वरमव्यग्रो वरेण्यं वृषवाहनम् । पूजयामास गानेन स्थाणुं त्रिदशपूजितम् ॥ १,२३.५२ ॥ तस्य गानरतस्याथ भगवानम्बिकापतिः । कन्यारत्नं ददौ देवो दुर्लभं त्रिदशैरपि ॥ १,२३.५३ ॥ तया स सङ्गतो राजा गानयोगमनुत्तमम् । अशिक्षयदमित्रघ्नः प्रियां तां भ्रान्तलोचनाम् ॥ १,२३.५४ ॥ तस्यामुत्पादयामास सुभुजं नाम शोभनम् । रूपलावण्यसंपन्नां ह्रीमतीमपि कन्यकाम् ॥ १,२३.५५ ॥ ततस्तं जननी पुत्रं बाल्ये वयसि शोभनम् । शिक्षयामास विधिवद्गानविद्यां च कन्यकाम् ॥ १,२३.५६ ॥ कृतोपनयनो वेदानधीत्य विधिवद्गुरोः । उद्ववाहात्मजां कन्यां गन्धर्वाणां तु मानसीम् ॥ १,२३.५७ ॥ तस्यामुत्पादयामास पञ्च पुत्राननुत्तमान् । वीणावादनतत्त्वज्ञान् गानशास्त्रविशारदान् ॥ १,२३.५८ ॥ पुत्रैः पौत्रैः सपत्नीको राजा गानविशारदः । पूजयामास गानेन देवं त्रिपुरनाशनम् ॥ १,२३.५९ ॥ ह्रीमती चापि या कन्या श्रीरिवायतलोचना । सुबाहुर्नाम गन्धर्वस्तामादाय ययौ पुरीम् ॥ १,२३.६० ॥ तस्यामप्यभवन् पुत्रा गन्धर्वस्य सुतेजसः । सुषेणवीरसुग्रीवसुभोजनरवाहनाः ॥ १,२३.६१ ॥ अथासीदभिजित्पुत्रो वीरस्त्वानकदुन्दुभेः । पुनर्वसुश्चाभिजितः संबभूवाहुकः सुतः ॥ १,२३.६२ ॥ आहुकस्योग्रसेनश्च देवकश्च द्विजोत्तमाः । देवकस्य सुता वीरा जज्ञिरे त्रिदशोपमाः ॥ १,२३.६३ ॥ देववानुपदेवश्च सुदेवो देवरक्षितः । तेषां स्वसारः सप्तासन् वसुदेवाय ता ददौ ॥ १,२३.६४ ॥ वृकदेवोपदेवा च तथान्या देवरक्षिता । श्रीदेवा शान्तिदेवा च सहदेवा सहदेवा च सुव्रता । देवकी चापि तासां तु वरिष्ठाभूत्सुमध्यमा ॥ १,२३.६५ ॥ अग्रसेनस्य पुत्रोऽभून्न्यग्रोधः कंस एव च । सुभूमी राष्ट्रपालश्च तुष्टिमाञ्छङ्कुरेव च ॥ १,२३.६६ ॥ भजमानादबूत्पुत्रः प्रख्यातोऽसौ विदूरथः । तस्य शूरः शमिस्तस्मात्प्रतिक्षत्रस्ततोऽभवत् ॥ १,२३.६७ ॥ स्वयंभोजस्ततस्तस्माधृदिकः शत्रुतापनः । कृतवर्माथ तत्पुत्रो देवरस्तत्सुतः स्मृतः । स शूरस्तत्सुतो धीमान् वसुदेवोऽथ तत्सुतः ॥ १,२३.६८ ॥ वसुदेवावन्महाबाहुर्वासुदेवो जगद्गुरुः । बभूव देवकीपुत्रो देवैरभ्यर्थितो हरिः ॥ १,२३.६९ ॥ रोहिणी च महाभागा वसुदेवस्य शोभना । असूत पत्नी संकर्षं रामं ज्येष्ठं हलायुधम् ॥ १,२३.७० ॥ स एव परमात्मासौ वासुदेवो जगन्मयः । हलायुधः स्वयं साक्षाच्छेषः संकर्षणः प्रभुः ॥ १,२३.७१ ॥ भृगुशापच्छलेनैव मानयन्मानुषीं तनुम् । बभूत तस्यां देवक्यां रोहिण्यामपि माधवः ॥ १,२३.७२ ॥ उमादेहसमुद्भूता योगनिद्रा च कौशीकी । नियोगाद्वासुदेवस्य यशोदातनया ह्यभूत् ॥ १,२३.७३ ॥ ये चान्ये वसुदेवस्य वासुदेवाग्रजाः सुताः । प्रागेव कंसस्तान् सर्वान् जघान मुनिपुङ्गवाः ॥ १,२३.७४ ॥ सुषेणश्च तथोदायी भद्रसेनो महाबलः । ऋजुदासो भद्रदासः कीर्तिमानपि पूर्वजः ॥ १,२३.७५ ॥ हतेष्वेतेषु सर्वेषु रोहिणी वसुदेवतः । असूत रामं लोकेशं बलभद्रं हलायुधम् ॥ १,२३.७६ ॥ जातेऽथ रामे देवानामादिमात्मानमच्युतम् । असूत देवकी कृष्णं श्रीवत्साङ्कितवक्षसम् ॥ १,२३.७७ ॥ रेवती नाम रामस्य भार्यासीत्सुगुणान्विता । तस्यामुत्पादयामास पुत्रौ द्वौ निशठोल्मुकौ ॥ १,२३.७८ ॥ षोडशस्त्रीसहस्त्राणि कृष्णस्याक्लिष्टकर्मणः । बभूवुरात्मजास्तासु शतशोऽथ सहस्त्रशः ॥ १,२३.७९ ॥ चारुदेष्णः सुचारुश्च चारुवेषो यशोधरः । चारुश्रवाश्चारुयशाः प्रद्युम्नः शङ्ख एव च ॥ १,२३.८० ॥ रुक्मिण्य वासुदेवस्यां महाबलपराक्रमाः । विशिष्टाः सर्वपुत्राणां संबभूवुरिं सुताः ॥ १,२३.८१ ॥ तान् दृष्ट्वा तनयान् वीरान् रौक्मिणेयाञ्जनार्दनम् । जाम्बवत्यब्रवीत्कृष्णं भार्या तस्य शुचिस्मिता ॥ १,२३.८२ ॥ मम त्वं पुण्डरीकाक्ष विशिष्टं गुणवत्तमम् । सुरेशसदृशं पुत्रं देहि दानवसूदन ॥ १,२३.८३ ॥ जात्बवत्या वचः श्रुत्वा जगन्नाथः स्वयं हरिः । समारेभे तपः कर्तुं तपोनिधिररिन्दमः ॥ १,२३.८४ ॥ तच्छृणुध्वं मुनिश्रेष्ठा यथासौ देवकीसुतः । दृष्ट्वा लेभे सुतं रुद्रं तप्त्वा तीव्रं महत्तपः ॥ १,२३.८५ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे त्रयोविंशोऽध्यायः _____________________________________________________________ सूत उवाच अथ देवो हृषीकेशो भगवान् पुरुषोत्तमः । तताप घोरं पुत्रार्थं निदानं तपसस्तपः ॥ १,२४.१ ॥ स्वेच्छयाप्यवतीर्णोऽसौ कृतकृत्योऽपि विश्वधृक् । चचार स्वात्मनो मूलं बोधयन् भावमैश्वरम् ॥ १,२४.२ ॥ जगाम योगिभिर्जुष्टं नानापक्षिसमाकुलम् । आश्रमं तूपमन्योर्वै मुनीन्द्रस्य महात्मनः ॥ १,२४.३ ॥ तपत्त्रिराजमारूढः सुपर्णमतितेजसम् । शङ्खचक्रगदापाणिः श्रीवत्सकृतलक्षणः ॥ १,२४.४ ॥ नानाद्रुमलताकीर्णं नानापुष्पोपशोभितम् । ऋषीणामाश्रमैर्जुष्टं वेदघोषनिनादितम् ॥ १,२४.५ ॥ सिंहर्क्षशरभाकीर्णं शार्दूलगजसंयुतम् । विमलस्वादुपानीयैः सरोभिरुपशोभितम् ॥ १,२४.६ ॥ आरामैर्विविधैर्जुष्टं देवतायतनैः शुभैः । ऋषिकैरृषिपुत्रैश्च महामुनिगणैस्तथा ॥ १,२४.७ ॥ वेदाध्ययनसंपन्नैः सेवितं चाग्निहोत्रिभिः । योगिभिर्ध्याननिरतैर्नासाग्रगतलोचनैः ॥ १,२४.८ ॥ उपेतं सर्वतः पुण्यं ज्ञानिभिस्तत्त्वदर्शिभिः । नदीभिरभितो जुष्टं जापकैर्ब्रह्मवादिभिः ॥ १,२४.९ ॥ सेवितं तापसैः पुण्यैरीशाराधनतत्परैः । प्रशान्तैः सत्यसंकल्पैर्निः शोकैर्निरुपद्रवैः ॥ १,२४.१० ॥ भस्मावदातसर्वाङ्गै रुद्रजाप्यपरायणैः । मुण्डितैर्जटिलैः शुद्धैस्तथान्यैश्च शिखाजटैः । सेवितं तापसैर्नित्य ज्ञानिभिर्ब्रह्मचारिभिः ॥ १,२४.११ ॥ तत्राश्रमवरे रम्ये सिद्धाश्रमविभूषिते । गङ्गा भगवती नित्यं वहत्येवाघनाशिनी ॥ १,२४.१२ ॥ स तानन्विष्य विश्वात्मा तापसान् वीतकल्मषान् । प्रणामेनाथ वचसा पूजयामास माधवः ॥ १,२४.१३ ॥ ते ते दृष्ट्वा जगद्योनिं शङ्खचक्रगदाधरम् । प्रणेमुर्भक्तिसंयुक्ता योगिनां परमं गुरुम् ॥ १,२४.१४ ॥ स्तुवन्ति वैदिकैर्मन्त्रैः कृत्वा हृदि सनातनम् । प्रोचुरन्योन्यमव्यक्तमादिदेवं महामुनिम् ॥ १,२४.१५ ॥ अयं स भगवानेकः साक्षान्नारायणः परः । अगच्छत्यधुना देवः पुराणपुरुषः स्वयम् ॥ १,२४.१६ ॥ अयमेवाव्ययः स्त्रष्टा संहर्ता चैव रक्षकः । अमूर्तो मूर्तिमान् भूत्वा मुनीन् द्रष्टुमिहागतः ॥ १,२४.१७ ॥ एष धाता विधाता च समागच्छति सर्वगः । अनादिरक्षयोऽनन्तो महाभूतो महेश्वरः ॥ १,२४.१८ ॥ श्रुत्वा श्रुत्वा हरिस्तेषां वचांसि वचनातिगः । ययौ स तूर्णं गोविन्दः स्थानं तस्य महात्मनः ॥ १,२४.१९ ॥ उपस्पृश्याथ भावेन तीर्थे तीर्थे स यादवः । चकार देवकीसूनुर्देवर्षिपितृतर्पणम् ॥ १,२४.२० ॥ नदीनां तीरसंस्थानि स्थापितानि मुनीश्वरैः । लिङ्गानि पूजयामास शंभोरमिततेजसः ॥ १,२४.२१ ॥ दृष्ट्वा दृष्ट्वा समायान्तं यत्र यत्र जनार्दनम् । पूजयाञ्चक्रिरे पुष्पैरक्षतैस्तत्र वासिनः ॥ १,२४.२२ ॥ समीक्ष्य वासुदेवं तं शार्ङ्गशङ्खासिधारिणम् । तस्थिरे निश्चलाः सर्वे शुभाङ्गं तन्निवासिनः ॥ १,२४.२३ ॥ यानि तत्रारुरुक्षूणां मानसानि जनार्दनम् । दृष्ट्वा समीहितान्यासन्निष्क्रामन्ति पुराहिरम् ॥ १,२४.२४ ॥ अथावगाह्य गङ्गायां कृत्वा देवादितर्पणम् । आदाय पुष्पवर्याणि मुनीन्द्रस्याविशद्गृहम् ॥ १,२४.२५ ॥ दृष्ट्वा तं योगिनां श्रेष्ठं भस्मोद्धूलितविग्रहम् । जटाचीरधरं शान्तं ननाम शिरसा मुनिम् ॥ १,२४.२६ ॥ आलोक्य कृष्णमायान्तं पूजयामास तत्त्ववित् । आसने चासयामास योगिनां प्रथमातिथिम् ॥ १,२४.२७ ॥ उवाच वचसां योनिं जानीमः परमं पदम् । विष्णुमव्यक्तसंस्थानं शिष्यभावेन संस्थितम् ॥ १,२४.२८ ॥ स्वागतं ते हृषीकेश सफलानि तपांसि नः । यद्साक्षादेव विश्वात्मा मद्गेहं विष्णुरागतः ॥ १,२४.२९ ॥ त्वां न पश्यन्ति मुनयो यतन्तोऽपि हि योगिनः । तादृशस्याथ भवतः किमागमनकारणम् ॥ १,२४.३० ॥ श्रुत्वोपमन्योस्तद्वाक्यं भगवान् केशिमर्दनः । व्याजहार महायोगी वचनं प्रणिपत्य तम् ॥ १,२४.३१ ॥ श्रीकृष्ण उवाच भगवन् द्रष्टुमिच्छामि गिरीशं कृत्तिवाससम् । संप्राप्तो भवतः स्थानं भगवद्दर्शनोत्सुकः ॥ १,२४.३२ ॥ कथं स भगवानीशो दृश्यो योगविदां वरः । मयाचिरेण कुत्राहं द्रक्ष्यामि तमुमापतिम् ॥ १,२४.३३ ॥ इत्याह भगवानुक्तो दृश्यते परमेश्वरः । भक्त्या चोग्रेण तपसा तत्कुरुष्वेह यत्नतः ॥ १,२४.३४ ॥ इहेश्वरं देवदेवं मुनीन्द्रा ब्रह्मवादिनः । ध्यायन्तोऽत्रासते देवं जापिनस्तापसाश्च ये ॥ १,२४.३५ ॥ इह देवः सपत्नीको भगवान् वृषभध्वजः । क्रीडते विविधैर्भूतैर्योगिभिः परिवारितः ॥ १,२४.३६ ॥ इहाश्रमे पुरा रुद्रात्तपस्तप्त्वा सुदारुणम् । लेभे महेश्वराद्योगं वसिष्ठो भगवानृषिः ॥ १,२४.३७ ॥ इहैव भगवान् व्यसः कृष्णद्वैपायनः प्रभुः । दृष्ट्वा तं परमं ज्ञानं लब्धवानीश्वरेश्वरम् ॥ १,२४.३८ ॥ इहाश्रमवरे रम्ये तपस्तप्त्वा कपर्दिनः । अविन्दत्पुत्रकान् रुद्रात्सुरभिर्भक्तिसंयुता ॥ १,२४.३९ ॥ इहैव देवताः पूर्वं कालाद्भीता महेश्वरम् । दृष्टवन्तो हरं श्रीमन्निर्भया निर्वृतिं ययुः ॥ १,२४.४० ॥ इहाराध्य महादेवं सावर्णिस्तपतां वरः । लब्धवान् परमं योगं ग्रन्थकारत्वमुत्तमम् ॥ १,२४.४१ ॥ प्रवर्तयामास शुभां कृत्वा वै संहितां द्विजः । पौराणिकीं सुपुण्यार्थां सच्छिष्येषु द्विजातिषु ॥ १,२४.४२ ॥ इहैव संहितां दृष्ट्वा कापेयः शांशपायनः । महादेवं चकारेमां पौराणीं तन्नियोगतः । द्वादशैव सहस्त्राणि श्लोकानां पुरुषोत्तम ॥ १,२४.४३ ॥ इह प्रवर्तिता पुण्या द्व्यष्टसाहस्त्रिकोत्तरा । वायवीयोत्तरं नाम पुराणं वेदसंमितम् । इहैव ख्यापितं शिष्यैः शांशपायनभाषितम् ॥ १,२४.४४ ॥ याज्ञवल्क्यो महायोगी दृष्ट्वात्र तपसा हरम् । चकार तन्नियोगेन योगशास्त्रमनुत्तमम् ॥ १,२४.४५ ॥ इहैव भृगुणा पूर्वं तप्त्वा वै परमं तपः । शुक्रो महेश्वरात्पुत्रो लब्धो योगविदां वरः ॥ १,२४.४६ ॥ तस्मादिहैव देवेशं तपस्तप्त्वा महेश्वरम् । द्रष्टुमर्हसि विश्वेशमुग्रं भीमं कपर्दिनम् ॥ १,२४.४७ ॥ एवमुक्त्वा ददौ ज्ञानमुपमन्युर्महामुनिः । व्रतं पाशुपतं योगं कृष्णायाक्लिष्टकर्मणे ॥ १,२४.४८ ॥ स तेन मुनिवर्येण व्याहृतो मधुसूदनः । तत्रैव तपसा देवं रुद्रमाराधयत्प्रभुः ॥ १,२४.४९ ॥ भस्मौद्धूलितसर्वाङ्गो मुण्डो वल्कलसंयुतः । जजाप रुद्रमनिशं शिवैकाहितमानसः ॥ १,२४.५० ॥ ततो बहुतिथे काले सोमः सोमार्धभूषणः । अदृश्यत महादेवो व्योम्नि देव्या महेश्वरः ॥ १,२४.५१ ॥ किरीटिनं गदिनं चित्रमालं पिनाकिनं शूलिनं देवदेवम् । शार्दूलचर्माम्बरसंवृताङ्गं देव्या महादेवमसौ ददर्श ॥ १,२४.५२ ॥ परश्वधासक्तकरं त्रिनेत्रं नृसिंहचर्मावृतसर्वगात्रम् । समुद्गिरन्तं प्रणवं बृहन्तं सहस्त्रसूर्यप्रतिमं ददर्श ॥ १,२४.५३ ॥ प्रभुं पुराणं पुरुषं पुरस्तात् सनातनं योगिनमीशितारम् । अणोरणीयांसमनन्तशक्तिं प्राणेश्वरं शंभुमसौ ददर्श ॥ १,२४.५४ ॥ न यस्य देवा न पितामहोऽपि नेन्द्रो न चाग्निर्वरुणो न मृत्युः । प्रभावमद्यापि वदन्ति रुद्रं तमादिदेवं पुरतो ददर्श ॥ १,२४.५५ ॥ तदान्वपश्यद्गिरिशस्य वामे स्वात्मानमव्यक्तमनन्तरूपम् । स्तुवन्तमीशं बहुभिर्वचोभिः शङ्खासिचक्रार्पितहस्तमाद्यम् ॥ १,२४.५६ ॥ कृताञ्जलिं दक्षिणतः सुरेशं हंसाधिरूढं पुरुषं ददर्श । स्तुवानमीशस्य परं प्रभावं पितामहं लोकगुरुं दिवस्थम् ॥ १,२४.५७ ॥ गणेश्वरानर्कसहस्त्रकल्पान् नन्दीश्वरादीनमितप्रभावान् । त्रिलोकभर्तुः पुरतोऽन्वपश्यत् कुमारमग्निपतिमं सशाखम् ॥ १,२४.५८ ॥ मरीचिमत्रिं पुलहं पुलस्त्यं प्रचेतसं दक्षमथापि कण्वम् । पराशरं तत्परतो वसिष्ठं स्वायंभुवं चापि मनुं ददर्श ॥ १,२४.५९ ॥ तुष्टाव मन्त्रैरमरप्रधानं बद्धाञ्जलिर्विष्णुरुदारबुद्धिः । प्रणम्य देव्या गिरिशं सभक्त्या स्वात्मन्यथात्मानमसौ विचिन्त्य ॥ १,२४.६० ॥ श्रीकृष्ण उवाच नमोऽस्तु ते शाश्वत सर्वयोने ब्रह्माधिपं त्वामृषयो वदन्ति । तपश्च सत्त्वं च रजस्तमश्च त्वामेव सर्व प्रवदन्ति सन्तः ॥ १,२४.६१ ॥ त्वं ब्रह्मा हरिरथ विश्वयोनिरग्निः संहर्ता दिनकरमण्डलाधिवासः । प्राणस्त्वं हुतवहवासवादिभेद सत्वामेकं शरणमुपैमि देवमीशम् ॥ १,२४.६२ ॥ सांख्यास्त्वां विगुणमथाहुरेकरूपं योगास्त्वां सततमुपासते हृदिस्थम् । वेदास्त्वामभिदधतीह रुद्रमग्निं त्वामेकं शरणमुपैमि देवमीशम् ॥ १,२४.६३ ॥ त्वात्पादे कुसुममथापि पत्रमेकं दत्त्वासौ भवति विमुक्तविश्वबन्धः । सर्वाघं प्रणुदति सिद्धयोगिजुष्टं स्मृत्वा ते पदयुगलं भवत्प्रसादात् ॥ १,२४.६४ ॥ यस्याशेषविभागहीनममलं हृद्यन्तरावस्थितं तत्त्वं ज्योतिरनन्तमेकमचलं सत्यं परं सर्वगम् । स्थानं प्राहुरनादिमध्यनिधनं यस्मादिदं जायते नित्यं त्वामहमुपैमि सत्यविभवंविश्वेश्वरन्तंशिवम् ॥ १,२४.६५ ॥ ओं नमो नीलकण्ठाय त्रिनेत्राय च रंहसे । महादेवाय ते नित्यमीशानाय नमो नमः ॥ १,२४.६६ ॥ नमः पिनाकिने तुभ्यं नमो मुण्डाय दण्डिने । नमस्ते वज्रहस्ताय दिग्वस्त्राय कपर्दिने ॥ १,२४.६७ ॥ नमो भैरवनादाय कालरूपाय दंष्ट्रिणे । नागयज्ञोपवीताय नमस्ते वह्निरेतसे ॥ १,२४.६८ ॥ नमोऽस्तु ते गिरीशाय स्वाहाकाराय ते नमः । नमो मुक्ताट्टहासाय भीमाय च नमो नमः ॥ १,२४.६९ ॥ नमस्ते कामनाशाय नमः कालप्रमाथिने । नमो भैरववेषाय हराय च निषङ्गिणे ॥ १,२४.७० ॥ नमोऽस्तु ते त्र्यम्बकाय नमस्ते कृत्तिवाससे । नमोऽम्बिकाधिपतये पशूनां पतये नमः ॥ १,२४.७१ ॥ नमस्ते व्योमरूपाय व्योमाधिपतये नमः । नरनारीशरीराय सांख्ययोगप्रवर्तिने ॥ १,२४.७२ ॥ नमो दैवतनाथाय देवानुगतलिङ्गिने । कुमारगुरवे तुभ्यं देवदेवाय ते नमः ॥ १,२४.७३ ॥ तमो यज्ञाधिपतये नमस्ते ब्रह्मचारिणे । मृगव्याधाय महते ब्रह्माधिपतये नमः ॥ १,२४.७४ ॥ नमो हंसाय विश्वाय मोहनाय नमो नमः । योगिने योगगम्याय योगमायाय ते नमः ॥ १,२४.७५ ॥ नमस्ते प्राणपालाय घण्टानादप्रियाय च । कपालिने नमस्तुभ्यं ज्योतिषां पतये नमः ॥ १,२४.७६ ॥ नमो नमो नमस्तुभ्यं भूय एव नमो नमः । मह्यं सर्वात्मना कामान् प्रयच्छ परमेश्वर ॥ १,२४.७७ ॥ एवं हि भक्त्या देवेशमभिष्टूय स माधवः । पपात पादयोर्विप्रा देवदेव्योः स दण्डवत् ॥ १,२४.७८ ॥ उत्थाप्य भगवान् सोमः कृष्णं केशिनिषूदनम् । बभाषे मधुरं वाक्यं मेघगम्भीरनिः स्वनः ॥ १,२४.७९ ॥ किमर्थं पुण्डरीकाक्ष तपस्तप्तं त्वयाव्यय । त्वमेव दाता सर्वेषां कामानां कामिनामिह ॥ १,२४.८० ॥ त्वं हि सा परमा मूर्तिर्मम नारायणाह्वया । नानवाप्तं त्वया तात विद्यते पुरुषोत्तम ॥ १,२४.८१ ॥ वेत्थ नारायणानन्तमात्मानं परमेश्वरम् । महादेवं महायोगं स्वेन योगेन केशव ॥ १,२४.८२ ॥ श्रुत्वा तद्वचनं कृष्णः प्रहसन् वै वृषध्वजम् । उवाच वीक्ष्य विश्वेशं देवीं च हिमशैलजाम् ॥ १,२४.८३ ॥ ज्ञातं हि भवता सर्वं स्वेन योगेन शङ्कर । इच्छाम्यात्मसमं पुत्रं त्वद्भक्तं देहि शङ्कर ॥ १,२४.८४ ॥ तथास्त्वित्याह विश्वात्मा प्रहृष्टमनसा हरः । देवीमालोक्य गिरिजां केशवं परिषस्वजे ॥ १,२४.८५ ॥ ततः सा जगतां माता शङ्करार्धशरीरिणी । व्याजहार हृषीकेशं देवी हिमगिरीन्द्रजा ॥ १,२४.८६ ॥ वत्स जाने तवानन्तां निश्चलां सर्वदाच्युत । अनन्यामीश्वरे भक्तिमात्मन्यपि च केशव ॥ १,२४.८७ ॥ त्वं हि नारायणः साक्षात्सर्वात्मा पुरुषोत्तमः । प्रार्थितो दैवतैः पूर्वं संजातो दैवकीसुतः ॥ १,२४.८८ ॥ पश्य त्वमात्मनात्मानमात्मीयममलं पदम् । नावयोर्विद्यते भेद एवं पश्यन्ति सूरयः ॥ १,२४.८९ ॥ इमानिमान् वरानिष्टान्मत्तो गृह्णीष्व केशव । सर्वज्ञत्वं तथैश्वर्यं ज्ञानं तत्पारमेश्वरम् । ईश्वरे निश्चलां भक्तिमात्मन्यपि परं बलम् ॥ १,२४.९० ॥ एवमुक्तस्तया कृष्णो महादेव्या जनार्दनः । आशिषं शिरसाहृङ्णाद्देवोऽप्याह महेश्वरः ॥ १,२४.९१ ॥ प्रगृह्य कृष्णं भगवानथेशः करेण देव्या सह देवदेवः । संपूज्यमानो मुनिभिः सुरेशै र् जगाम कैलासगिरिं गिरीशः ॥ १,२४.९२ ॥ इति श्रीकूर्मपूराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे चतुर्विशोऽध्यायः _____________________________________________________________ सूत उवाच प्रविश्य मेरुशिखरं कैलासं कनकप्रभम् । रराम भगवान् सोमः केशवेन महेश्वरः ॥ १,२५.१ ॥ अपश्यंस्तं महात्मानं कैलासगिरिवासिनः । पूजयाञ्चक्रिरे कृष्णं देवदेवमथाच्युतम् ॥ १,२५.२ ॥ चतुर्बाहुमुदाराङ्गं कालमेघसमप्रभम् । किरीटिनं शार्ङ्गपाणि श्रीवत्साङ्कितवक्षसम् ॥ १,२५.३ ॥ दीर्घबाहुं विशालाक्षं पीतवाससमच्युतम् । दधानमुरसा मालां वैजयन्तीमनुत्तमाम् ॥ १,२५.४ ॥ भ्राजमानं श्रिया दिव्यं युवानमतिकोमलम् । पद्माङ्घ्रिनयनं चारु सुस्मितं सुगतिप्रदम् ॥ १,२५.५ ॥ कदाचित्तत्र लीलार्थं देवकीनन्दवर्धनः । भ्राजमानः श्रीया कृष्णश्चचार गिरिकन्दरे ॥ १,२५.६ ॥ गन्धर्वाप्सरसां मुख्या नागकन्याश्च कृत्स्नशः । सिद्धा यक्षाश्च गन्धर्वास्तत्र तत्र जगन्मयम् ॥ १,२५.७ ॥ दृष्ट्वाश्चर्यं परं गत्वा हर्षादुत्फुल्लोचनाः । मुमुचुः पुष्पवर्षाणि तस्य मूर्ध्नि महात्मनः ॥ १,२५.८ ॥ गन्धर्वकन्यका दिव्यास्तद्वदप्सरसां वराः । दृष्ट्वा चकमिरे कृष्णं स्त्रस्तवस्त्रविभूषणाः ॥ १,२५.९ ॥ काश्चिद्गायन्ति विविधां गीतिं गीतविशारदाः । संप्रेक्ष्य देवकीसूनुं सुन्दर्यः काममोहिताः ॥ १,२५.१० ॥ काश्चिद्विलासबहुला नृत्यन्ति स्म तदग्रतः । संप्रेक्ष्य संस्थिताः काश्चित्पपुस्तद्वदनामृतम् ॥ १,२५.११ ॥ काश्चिद्भूषणवर्याणि स्वाङ्गादादाय सादरम् । भूषयाञ्चक्रिरे कृष्णं कामिन्यो लोकभूषणम् ॥ १,२५.१२ ॥ काश्चिद्भूषणवर्याणि समादाय तदङ्गतः । स्वात्मानं बूषयामासुः स्वात्मगैरपि माधवम् ॥ १,२५.१३ ॥ काश्चिदागत्य कृष्णस्य समीपं काममोहिताः । चुचुम्बुर्वदनाम्भोजं हरेर्मुग्धमृगेक्षणाः ॥ १,२५.१४ ॥ प्रगृह्य काश्चिद्गोविन्दं करेण भवनं स्वकम् । प्रापयामासुर्लोकादिं मायया तस्य मोहिताः ॥ १,२५.१५ ॥ तासां स भगवान् कृष्णः कामान् कमललोचनः । बहूनि कृत्वा रूपाणि पूरयामास लीलया ॥ १,२५.१६ ॥ एवं वै सुचिरं कालं देवदेवपुरे हरिः । रेमे नारायणः श्रीमान्मायया मोहयञ्जगत् ॥ १,२५.१७ ॥ गते बहुतिथे काले द्वारवत्यां निवासिनः । बभूवुर्विह्वला भीता गोविन्दविरहे जनाः ॥ १,२५.१८ ॥ ततः सुपर्णो बलवान् पूर्वमेव विसजितः । कृष्णेन मार्गमाणस्तं हिमवन्तं ययौ गिरिम् ॥ १,२५.१९ ॥ अदृष्ट्वा तत्र गोविन्दं प्रणम्य शिरसा मुनिम् । आजगामोपमन्युं तं पुरीं द्वारवतीं पुनः ॥ १,२५.२० ॥ तदन्तरे महादैत्या राक्षसाश्चातिभीषणाः । आजग्मुर्द्वारकां शुभ्रां भीषयन्तः सहस्त्रशः ॥ १,२५.२१ ॥ स तान् सुपर्णो बलवान् कृष्णतुल्यपराक्रमः । हत्वा युद्धेन महता रक्षति स्म पुरीं शुभाम् ॥ १,२५.२२ ॥ एतस्मिन्नेव काले तु नारदो भगवानृषिः । दृष्ट्वा कैलासशिखरे कृष्णं द्वारवतीं गतः ॥ १,२५.२३ ॥ तं दृष्ट्वा नारदमृषिं सर्वे तत्र निवासिनः । प्रोचुर्नारायणो नाथः कुत्रास्ते भगवान् हरिः ॥ १,२५.२४ ॥ स तानुवाच भगवान् कैलसशिखरे हरिः । रमतेऽद्य महायोगीं तं दृष्ट्वाहमिहागतः ॥ १,२५.२५ ॥ तस्योपश्रुत्य वचनं सुपर्णः पततां वरः । जगामाकाशगो विप्राः कैलासं गिरिमुत्तमम् ॥ १,२५.२६ ॥ ददर्श देवकीसूनुं भवने रत्नमण्डिते । वरासनस्थं गोविन्दं देवदेवान्तिके हरिम् ॥ १,२५.२७ ॥ उपास्यमानममरैर्दिव्यस्त्रीभिः समन्ततः । महादेवगणैः सिद्धैर्योगिभिः परिवारितम् ॥ १,२५.२८ ॥ प्रणम्य दण्डवद्भूमौ सुपर्णः शङ्करं शिवम् । निवेदयामास हरेः प्रवृत्तिं द्वारके पुरे ॥ १,२५.२९ ॥ ततः प्रणम्य शिरसा शङ्करं नीललोहितम् । आजगाम पुरीं कृष्णः सोऽनुज्ञातो हरेण तु ॥ १,२५.३० ॥ आरुह्य कश्यपसुतं स्त्रीगणैरभिपूजितः । वचोभिरमृतास्वादैर्मानितो मधुसूदनः ॥ १,२५.३१ ॥ वीक्ष्य यान्तममित्रघ्नं गन्धर्वाप्सरसां वराः । अन्वगच्छन्महोयोगं शङ्खचक्रगदाधरम् ॥ १,२५.३२ ॥ विसर्जयित्वा विश्वात्मा सर्वा एवाङ्गना हरिः । ययौ स तूर्णं गोविन्दो दिव्यां द्वारवतीं पुरीम् ॥ १,२५.३३ ॥ गते मुररिपौ नैव कामिन्यो मुनिपुङ्गवाः । निशेव चन्द्ररहिता विना तेन चकाशिरे ॥ १,२५.३४ ॥ श्रुत्वा पौरजनास्तूर्णं कृष्णागमनमुत्तमम् । मण्डयाञ्चक्रिरे दिव्यां पुरीं द्वारवतीं शुभाम् ॥ १,२५.३५ ॥ पताकाभिर्विशालाभिर्ध्वजै रत्नपरिष्कृतैः । लाजादिभिः पुरीं रम्यां भूषयाञ्चक्रिरे तदा ॥ १,२५.३६ ॥ अवादयन्त विविधान् वादित्रान्मधुरस्वनान् । शङ्खान् सहस्त्रशो दध्मुर्वोणावादान् वितेनिरे ॥ १,२५.३७ ॥ प्रविष्टमात्रे गोविन्दे पुरीं द्वारवतीं शुभाम् । अगायन्मधुरं गानं स्त्रियो यौवनशालिनः ॥ १,२५.३८ ॥ दृष्ट्वा ननृतुरीशानं स्थिताः प्रासादमूर्धसु । मुमुचुः पुष्पवर्षाणि वसुदेवसुतोपरि ॥ १,२५.३९ ॥ प्रविश्य भवनं कृष्ण आशीर्वादाभिवर्धितः । वरासने महायोगी भाति देवीभिरन्वितः ॥ १,२५.४० ॥ सुरम्ये मण्डपे शुभ्रे शङ्खाद्यैः परिवारितः । आत्मजैरभितो मुख्यैः स्त्रीसहस्त्रैश्च संवृतः ॥ १,२५.४१ ॥ तत्रासनवरे रम्ये जाम्बवत्या सहाच्युतः । भ्राजते मालया देवो यथा देव्या समन्वितः ॥ १,२५.४२ ॥ आजग्मुर्देवगन्धर्वा द्रष्टुं लोकादिमव्ययम् । महर्षयः पूर्वजाता मार्कण्डेयादयो द्विजाः ॥ १,२५.४३ ॥ ततः स भगवान् कृष्णो मार्कण्डेयं समागतम् । ननामोत्थाय शिरसा स्वासनं च ददौ हरिः ॥ १,२५.४४ ॥ संपूज्य तानृषिगणान् प्रणामेन महाभुजः । विसर्जयामास हरिर्दत्त्वा तदभिवाञ्छितान् ॥ १,२५.४५ ॥ तदा मध्याह्नसमये देवदेवः स्वयं हरिः । स्नात्वा शुक्लाम्बरो भानुमुपतिष्ठत्कृताञ्जलिः ॥ १,२५.४६ ॥ जजाप जाप्यं विधिवत्प्रेक्षमाणो दिवाकरम् । तर्पयामास देवेशो देवेशो देवान्मुनिगणान् पितॄन् ॥ १,२५.४७ ॥ प्रविश्य देवभवनं मार्कण्डेयेन चैव हि । पूजयामास लिङ्गस्थं भूतेशं भूतिभूषणम् ॥ १,२५.४८ ॥ समाप्य नियमं सर्वं नियन्तासौ नृणां स्वयम् । भोजयित्वा मुनिवरं ब्राह्मणानभिपूज्य च ॥ १,२५.४९ ॥ कृत्वात्मयोगं विप्रेन्द्रा मार्कण्डेयेन चाच्युतः । कथाः पौराणिकीः पुण्याश्चक्रे पुत्रादिभिर्वृतः ॥ १,२५.५० ॥ अथैतत्सर्वमखिलं दृष्ट्वा कर्म महामुनिः । मार्कण्डेयो हसन् कृष्णं बभाषे मधुरं वचः ॥ १,२५.५१ ॥ मार्कण्डेय उवाच कः समाराध्यते देवो भवता कर्मभिः शुभैः । ब्रूहि त्वं कर्मभिः पूज्यो योगिनां ध्येय एव च ॥ १,२५.५२ ॥ त्वं हि तत्परमं ब्रह्म निर्वाणममलं पदम् । भारावतरणार्थाय जातो वृष्णिकुले प्रभुः ॥ १,२५.५३ ॥ तमब्रवीन्महाबाहुः कृष्णो ब्रह्मविदां वरः । शृण्वतामेव पुत्राणां सर्वेषां प्रहसन्निव ॥ १,२५.५४ ॥ श्रीभगवानुवाच भवता कथितं सर्वं तथ्यमेव न संशयः । तथापि देवमीशानं पूजयामि सनातनम् ॥ १,२५.५५ ॥ न मे विप्रास्ति कर्तव्यं नानवाप्तं कथञ्चन । पूजयामि तथापीशं जानन्नैतत्परं शिवम् ॥ १,२५.५६ ॥ न वै पश्यन्ति तं देवं मायया मोहिता जनाः । ततोऽहं स्वात्मनो मूलं ज्ञापयन् पूजयामि तम् ॥ १,२५.५७ ॥ न च लिङ्गार्चनात्पुण्यं लोकेस्मिन् भीतिनाशनम् । तथा लिङ्गे हितायैषां लोकानां पूजयेच्छिवम् ॥ १,२५.५८ ॥ योऽहं तल्लिङ्गमित्याहुर्वेदवादविदो जनाः । ततोऽहमात्ममीशानं पूजयाम्यात्मनैव तु ॥ १,२५.५९ ॥ तस्यैव परमा मूर्तिस्तन्मयोऽहं न संशयः । नावयोर्द्यिते भेदो वेदेष्वेवं विनिश्चयः ॥ १,२५.६० ॥ एष देवो महादेवः सदा संसारभीरुभिः । ध्येयः पूज्यश्च वन्द्यश्च ज्ञेयो लिङ्गे महेश्वरः ॥ १,२५.६१ ॥ मार्कण्डेय उवाच किं तल्लिङ्गं सुरश्रेष्ठ लिङ्गे संपूज्यते च कः । ब्रूहि कृष्ण विशालाक्ष गहनं ह्येतदुत्तमम् ॥ १,२५.६२ ॥ अव्यक्तं लिङ्गमित्याहुरानन्दं ज्योतिरक्षरम् । वेदा महेस्वरं देवमाहुर्लिङ्गिनमव्ययम् ॥ १,२५.६३ ॥ पुरा चैकार्णवे घोरे नष्टे स्थावरजङ्गमे । प्रबोधार्थं ब्रह्मणो मे प्रादुर्भूतः स्वयं शिवः ॥ १,२५.६४ ॥ तस्मात्कालात्समारभ्य ब्रह्मा चाहं सदैव हि । पूजयावो महादेवं लोकानां हितकाम्यया ॥ १,२५.६५ ॥ मार्कण्डेय उवाच कथं लिङ्गमभूत्पूर्वमैश्वरं परमं पदम् । प्रबोधार्थं स्वयं कृष्ण वक्तुमर्हसि सांप्रतम् ॥ १,२५.६६ ॥ श्रीभगवानुवाच आसोदेकार्णवं घोरमविभागं तमोमयम् । मध्ये चैकार्णवे तस्मिन् शङ्खचक्रगदाधरः ॥ १,२५.६७ ॥ सहस्त्रशीर्षा भूत्वाहं सहस्त्राक्षः सहस्त्रपात् सहस्त्रबाहुर्युक्तात्मा शयितोऽहं सनातनः ॥ १,२५.६८ ॥ एतस्मिन्नन्तरे दूरता पश्यमि ह्यमितप्रभम् । कोटिसूर्यप्रतीकाशं भ्राजमानं श्रियावृतम् ॥ १,२५.६९ ॥ चतुर्वरक्त्रं महायोगं पुरुषं काञ्चनप्रभम् । कृष्णाजिरधरं देवमृग्यजुः सामभिः स्तुतम् ॥ १,२५.७० ॥ निमेषमात्रेण स मां प्राप्तो योगविदां वरः । व्याजहार स्वयं ब्रह्मा स्मयमानो महाद्युतिः ॥ १,२५.७१ ॥ कस्त्वं कुतो वा किं चेह तिष्ठसे वह मे प्रभो । अहं कर्ता हि लोकानां स्वयंभूः प्रपितामहः ॥ १,२५.७२ ॥ एवमुक्तस्तदा तेन ब्रह्मणाहमुवाच ह । अहं कर्तास्मि लोकानां संहर्ता च पुनः पुनः ॥ १,२५.७३ ॥ एवं विवादे वितते मायया परमेष्ठिनः । प्रबोधार्थं परं लिङ्गं प्रादुर्भूतं शिवात्मकम् ॥ १,२५.७४ ॥ कालानलसमप्रख्यं ज्वालामालासमाकुलम् । क्षयवृद्धिविनिर्मुक्तमादिमध्यान्तवर्जितम् ॥ १,२५.७५ ॥ ततो मामाह भगवानधो गच्छ त्वमाशु वै । अन्तमस्य विजानीम ऊर्ध्वं गच्छेऽहमित्यजः ॥ १,२५.७६ ॥ तदाशु समयं कृत्वा गतावूर्ध्वमधश्च द्वौ । पितामहोऽप्यहं नान्तं ज्ञातवन्तौ समाः शतम् ॥ १,२५.७७ ॥ ततो विस्मयमापन्नौ भीतौ देवस्य शूलिनः । मायया मोहितौ तस्य ध्यायन्तौ विश्वमीश्वरम् ॥ १,२५.७८ ॥ प्रोच्चारन्तौ महानादमोङ्कारं परमं पदम् । प्रह्वाञ्जलिपुटोपेतौ शंभुं तुष्टुवतुः परम् ॥ १,२५.७९ ॥ ब्रह्मविष्णू ऊचतुः । अनादिमलसंसाररोगवैद्याय शंभवे । नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ १,२५.८० ॥ प्रलयार्णवसंस्थाय प्रलयोद्भूतिहेतवे । नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ १,२५.८१ ॥ ज्वालामालावृताङ्गाय ज्वलनस्तम्भरूपिणे । नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ १,२५.८२ ॥ आदिमध्यान्तहीनाय स्वबावामलदीप्तये । नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ १,२५.८३ ॥ महादेवाय महते ज्योतिषेऽनन्ततेजसे । नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ १,२५.८४ ॥ प्रधानपुरुषेशाय व्योमरूपाय वेधसे । नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ १,२५.८५ ॥ निर्विकाराय सत्याय नित्यायामलतेजसे । नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ १,२५.८६ ॥ वेदान्तसाररूपाय कालरूपाय धीमते । नमः शिवाय शान्ताय ब्रह्मणे लिङ्गमूर्तये ॥ १,२५.८७ ॥ एवं संस्तूयमानस्तु व्यक्तो भूत्वा महेश्वरः । भाति देवो महायोगी सूर्यकोटिसमप्रभः ॥ १,२५.८८ ॥ वक्त्रकोटिसहस्त्रेण ग्रसमान इवाम्बरम् । सहस्त्रहस्तचरणः सूर्यसोमाग्निलोचनः ॥ १,२५.८९ ॥ पिनाकपाणिर्भगवान् कृत्तिवासास्त्रिशूलभृत् । व्यालयज्ञोपवीतश्च मेघदुन्दुभिनिः स्वनः ॥ १,२५.९० ॥ अथोवाच महादेवः प्रीतोऽहं सुरसत्तमौ । पश्येतं मां महादेवं भयं सर्वं प्रमुच्यताम् ॥ १,२५.९१ ॥ युवां प्रसूतौ गात्रेभ्यो मम पूर्वं सनातनौ । अयं मे दक्षिणे पार्श्वे ब्रह्मा लोकपितामहः । वामपार्श्वे च मे विष्णुः पालको हृदये हरः ॥ १,२५.९२ ॥ प्रीतोऽहं युवयोः सम्यक्वरं दद्मि यथेप्सितम् । एवमुक्त्वाथ मां देवो महादेवः स्वयं शिवः । आलिङ्ग्य देवं ब्रह्माणं प्रसादाभिमुखोऽभवत् ॥ १,२५.९३ ॥ ततः प्रहृष्टमनसौ प्रणिपत्य महेश्वरम् । ऊचतुः प्रेक्ष्य तद्वक्त्रं नारायणपितामहौ ॥ १,२५.९४ ॥ यदि प्रीतिः समुत्पन्ना यदि देयो वरश्च नौ । भक्तिर्भवतु नौ नित्यं त्वयि देव महेश्वरे ॥ १,२५.९५ ॥ ततः स भगवानीशः प्रहसन् परमेश्वरः । उवाच मां महादेवः प्रीतः प्रीतेन चेतसा ॥ १,२५.९६ ॥ देव उवाच प्रलयस्थितिसर्गाणां कर्ता त्वं धरणीपते । वत्स वत्स हरे विश्वं पालयैतच्चराचरम् ॥ १,२५.९७ ॥ त्रिधा भिन्नोऽस्म्यहं विष्णो ब्रह्मविष्णुहराख्यया । सर्गरक्षालयगुणैर्निर्गुणोऽपि निरञ्जनः ॥ १,२५.९८ ॥ संमोहं त्यज भो विष्णो पालयैनं पितामहम् । भविष्यत्येष भगवांस्तव पुत्रः सनातनः ॥ १,२५.९९ ॥ अहं च भवतो वक्त्रात्कल्पादौ घोररूपधृक् । शूलपाणिर्भविष्यामि क्रोधजस्तव पुत्रकः ॥ १,२५.१०० ॥ एवमुक्त्वा महादेवो ब्रह्माणं मुनिसत्तम । अनुगृह्य च मां देवस्तत्रैवान्तरधीयत ॥ १,२५.१०१ ॥ ततः प्रभृति लोकेषु लिङ्गार्चा सुप्रतिष्ठिता । लिङ्ग तल्लयनाद्ब्रह्मन् ब्रह्मणः परमं वपुः ॥ १,२५.१०२ ॥ एतल्लिङ्गस्य माहात्म्यं भाषितं ते मयानघ । एतद्बुध्यन्ति योगज्ञा न देवा न च दानवाः ॥ १,२५.१०३ ॥ एतद्धि परमं ज्ञानमव्यक्तं शिवसंज्ञितम् । येन सूक्ष्ममचिन्त्यं तत्पश्यन्ति ज्ञान वक्षुषः ॥ १,२५.१०४ ॥ तस्मै भगवते नित्यं नमस्कारं प्रकुर्महे । महादेवाय रुद्राय देवदेवाय लिङ्गिने ॥ १,२५.१०५ ॥ नमो वेदरहस्याय नीलकण्ठाय वै नमः । विभीषणाय शान्ताय स्थाणवे हेतवे नमः ॥ १,२५.१०६ ॥ ब्रह्मणे वामदेवाय त्रिनेत्राय महीयसे । शङ्कराय महेशाय गिरीशाय शिवाय च ॥ १,२५.१०७ ॥ नमः कुरुष्व सततं ध्यायस्व मनसा हरम् । संसारसागरादस्मादचिरादुत्तरिष्यसि ॥ १,२५.१०८ ॥ एवं स वासुदेवेन व्याहृतो मुनिपुङ्गवः । जगाम मनसा देवमीशानं विश्वतोमुखम् ॥ १,२५.१०९ ॥ प्रणम्य शिरसा कृष्णमनुज्ञातो महामुनिः । जगाम चेप्सितं देशं देवदेवस्य शूलिनः ॥ १,२५.११० ॥ य इमं श्रावयेन्नित्यं लिङ्गाध्यायमनुत्तमम् । शृणुयाद्वा पठेद्वापि सर्वपापैः प्रमुच्यते ॥ १,२५.१११ ॥ श्रुत्वा सकृदपि ह्येतत्तपश्चरणमुत्तमम् । वासुदेवस्य विप्रेन्द्राः पापं मुञ्चिति मानवः ॥ १,२५.११२ ॥ जपेद्वाहरहर्नित्यं ब्रह्मलोके महीयते । एवमाह महायोगी कृष्णद्वैपायनः प्रभुः ॥ १,२५.११३ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे पञ्चविंशोऽध्यायः _____________________________________________________________ सूत उवाच ततो लब्धवरः कृष्णो जाम्बवत्यां महेश्वरात् । अजीजनन्महात्मानं साम्बमात्मजमुत्तमम् ॥ १,२६.१ ॥ प्रद्युम्नस्याप्यभूत्पुत्रो ह्यनिरुद्धो महाबलः । तावुभौ गुणसंपन्नौ कृष्णस्यैवापरे तनू ॥ १,२६.२ ॥ हत्वा च कंसं नरकमन्यांश्च शतशोऽसुरान् । विजित्य लीलया शक्रं जित्वा बाणं महासुरम् ॥ १,२६.३ ॥ स्थापयित्वा जगत्कृत्स्नं लोके धर्मांश्च शाश्वतान् । चक्रे नारायणो गन्तुं स्वस्थानं बुद्धिमुत्तमाम् ॥ १,२६.४ ॥ एतस्मिन्नन्तरे विप्रा भृग्वाद्याः कृष्णमीश्वरम् । आजग्मुर्द्वारकां द्रष्टुं कृतकार्यं सनातनम् ॥ १,२६.५ ॥ स तानुवाच विश्वात्मा प्रणिपत्याभिपूज्य च । आसनेषूपविष्टान् वै सह रामेण धीमता ॥ १,२६.६ ॥ गमिष्ये तत्परं स्थानं स्वकीयं विष्णुसंज्ञितम् । कृतानि सर्वकार्याणि प्रसीदध्वं मुनीश्वराः ॥ १,२६.७ ॥ इदं कलियुगं घोरं संप्राप्तमधुनाशुभम् । भविष्यन्ति जनाः सर्वे ह्यस्मिन् पापानुवर्तिनः ॥ १,२६.८ ॥ प्रवर्तयध्वं मज्ज्ञानं ब्राह्मणानां हितावहम् । येनेमे कलिजैः पापैर्मुच्यन्ते हि द्विजोत्तमाः ॥ १,२६.९ ॥ ये मां जनाः संस्मरन्ति कलौ सकृदपि प्रभुम् । तेषां नश्यतु तत्पापं भक्तानां पुरुषोत्तमे ॥ १,२६.१० ॥ येर्ऽचयिष्यन्तिमां भक्त्या नित्यं कलियुगे द्विजाः । विधाना वेददृष्टेन ते गमिष्यन्ति तत्पदम् ॥ १,२६.११ ॥ ये ब्राह्मणा वंशजाता युष्माकं वै सहस्त्रशः । तेषां नारायणे भक्तिर्भविष्यति कलौ युगे ॥ १,२६.१२ ॥ परात्परतरं यान्ति नारायणपरायणाः । न ते तत्र गमिष्यन्ति ये द्विषन्ति महेश्वरम् ॥ १,२६.१३ ॥ ध्यानं होमं तपस्तप्तं ज्ञानं यज्ञादिको विधिः । तेषां विनश्यति क्षिप्रं ये निन्दन्ति पिनाकिनम् ॥ १,२६.१४ ॥ यो मां समाश्रयेन्नित्यमेकान्तं भावमाश्रितः । विनिन्द्य देवमीशानं स याति नरकायुतम् ॥ १,२६.१५ ॥ तस्मात्सा परिहर्तव्या निन्दा पशुपतौ द्विजाः । कर्मणा मनसा वाचा तद्भक्तेष्वपि यत्नतः ॥ १,२६.१६ ॥ ये तु दक्षाध्वरे शप्ता दधीयेन द्विजोत्तमाः । भविष्यन्ति कलौ भक्तैः परिहार्याः प्रयत्नतः ॥ १,२६.१७ ॥ द्विषन्तो देवमीशानं युष्माकं वंशसंभवाः । शप्ताश्च गौतमेनोर्व्यां न संभाष्या द्विजोत्तमैः ॥ १,२६.१८ ॥ इत्येवमुक्ताः कृष्णेन सर्व एव महर्षयः । ओमित्युक्त्वा ययुस्तूर्णंस्वानि स्थानानि सत्तमाः ॥ १,२६.१९ ॥ ततो नारायणः कृष्णो लीलयैव जगन्मयः । संहृत्य स्वकुलं सर्वं ययौ तत्परमं पदम् ॥ १,२६.२० ॥ इत्येष वः समासेन राज्ञां वंशोऽनुकीर्तितः । न शक्यो विस्तराद्वक्तुं किं भूयः श्रोतुमिच्छथ ॥ १,२६.२१ ॥ यः पठेच्छृणुयाद्वापि वंशानां कथनं शुभम् । सर्वपापविनिर्मुक्तः स्वर्गलोके महीयते ॥ १,२६.२२ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे षड्विंशोऽध्यायः _____________________________________________________________ ऋषय ऊचुः कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् । एषां स्वभावं सूताद्य कथयस्व समासतः ॥ १,२७.१ ॥ सूत उवाच गते नारायणे कृष्णे स्वमेव परमं पदम् । पार्थः परमधर्मात्मा पाण्डवः शत्रुतापनः ॥ १,२७.२ ॥ कृत्वा चेवोत्तरविधिं शोकेन महतावृतः । अपश्यत्पथि गच्छन्तं कृष्णद्वैपायनं मुनिम् ॥ १,२७.३ ॥ शिष्यैः प्रशिष्यैरभितः संवृतं ब्रह्मवादिनम् । पपात दण्डवद्भूमौ त्यक्त्वा शोकं तदार्ऽजुनः ॥ १,२७.४ ॥ उवाच परमप्रीतः कस्माद्देशान्महामुने । इदानीं गच्छसि क्षिप्रं कं वा देशं प्रति प्रभो ॥ १,२७.५ ॥ संदर्शनाद्वै भवतः शोको मे विपुलो गतः । इदानीं मम यत्कार्यं ब्रूहि पद्मदलेक्षण ॥ १,२७.६ ॥ तमुवाच महायोगी कृष्णद्वैपायनः स्वयम् । उपविश्य नदीतिरे शिष्यैः परिवृतो मुनिः ॥ १,२७.७ ॥ इदं कलियुगं घोरं संप्राप्तं पाण्डुनन्दन । ततो गच्छामि देवस्य वाराणसीं महापुरीम् ॥ १,२७.८ ॥ अस्मिन् कलियुगे घोरे लोकाः पापानुवर्तिनः । भविष्यन्ति महापापा वर्णाश्रमविवर्जिताः ॥ १,२७.९ ॥ नान्यत्पश्यामि जन्तूनांमुक्त्वा वाराणसीं पुरीम् । सर्वपापप्रशमनं प्रायश्चित्तं कलौ युगे ॥ १,२७.१० ॥ कृतं त्रेता द्वापरं च सर्वेष्वेतेषु वै नराः । भविष्यन्ति महात्मानो धार्मिकाः सत्यवादिनः ॥ १,२७.११ ॥ त्वं हि लोकेषु विख्यातो धृतिमाञ्जनवत्सलः । पालयाद्य परं धर्मं स्वकीयं मुच्यसे भयात् ॥ १,२७.१२ ॥ एवमुक्तो भगवता पार्थः परपुरञ्जयः । पृष्टवान् प्रणिपत्यासौ युगधर्मान् द्विजोत्तमाः ॥ १,२७.१३ ॥ तस्मै प्रोवाच सकलं मुनिः सत्यवतीसुतः । प्रणम्य देवमीशानं युगधर्मान् सनातनान् ॥ १,२७.१४ ॥ वक्ष्यामि ते समासेन युगधर्मान्नरेश्वर । न शक्यते मया पार्थ विस्तरेणाभिभाषितुम् ॥ १,२७.१५ ॥ आद्यं कृतयुगं प्रोक्तं ततस्त्रेतायुगं बुधैः । तृतीयं द्वापरं पार्थ चतुर्थं कलिरुच्यते ॥ १,२७.१६ ॥ ध्यानं परं कृतयुगे त्रेतायां ज्ञानमुच्यते । द्वापरे यज्ञमेवाहुर्दानमेव कलौ युगे ॥ १,२७.१७ ॥ ब्रह्मा कृतयुगे देवस्त्रेतायां भगवान् रविः । द्वापरे दैवतं विष्णुः कलौ रुद्रो महेश्वरः ॥ १,२७.१८ ॥ ब्रह्मा विष्णुस्तथा सूर्यः सर्व एव कलिष्वपि । पूज्यते भगवान् रुद्रश्चतुर्ष्वपि पिनाकधृक् ॥ १,२७.१९ ॥ आद्ये कृतयुगे धर्मश्चतुष्पादः सनातनः । त्रेतायुगे त्रिपादः स्याद्द्विपादो द्वापरे स्थितः । त्रिपादहीनस्तिष्ये तु सत्तामात्रेण तिष्ठति ॥ १,२७.२० ॥ कृते तु मिथुनोत्पत्तिर्वृत्तिः साक्षाद्रसोल्लसा । प्रजास्तृप्ताः सदा सर्वाः सदानन्दाश्च भोगिनः ॥ १,२७.२१ ॥ अधमोत्तमत्वं नास्त्यासां निर्विशेषाः पुरञ्जय । तुल्यमायुः सुखं रूपं तासां तस्मिन् कृते युगे ॥ १,२७.२२ ॥ विशोकाः सत्त्वबहुला एकान्तबहुलास्तथा । ध्याननिष्ठास्तपोनिष्ठा महादेवपरायणाः ॥ १,२७.२३ ॥ ता वै निष्कामचारिण्यो नित्यं मुदितमानसाः । पर्वतोदधिवासिन्यो ह्यनिकेतः परन्तप ॥ १,२७.२४ ॥ रसोल्लासा कालयोगात्त्रेताख्ये नश्यते ततः । तस्यां सिद्धौ प्रणष्टायामन्या सिद्धिरवर्तत ॥ १,२७.२५ ॥ अपां सौक्ष्म्ये प्रतिहते तदा मेघात्मना तु वै । मेघेभ्यः स्तनयित्नुभ्यः प्रवृत्तं वृष्टिसर्जनम् ॥ १,२७.२६ ॥ सकृदेव तया वृष्ट्या संयुक्ते पृथिवीतले । प्रादुरासंस्तदा तासां वृक्षा वै गृहसंज्ञिताः ॥ १,२७.२७ ॥ सर्वप्रत्युपयोगस्तु तासां तेभ्यः प्रजायते । वर्तयन्ति स्म तेभ्यस्तास्त्रेतायुगमुखे प्रजाः ॥ १,२७.२८ ॥ ततः कालेन महता तासामेव विपर्यतात् । रागलोभात्मको भावस्तदा ह्याकस्मिकोऽभवत् ॥ १,२७.२९ ॥ विपर्ययेण तासां तु तेन तत्कालभाविना । प्रणश्यन्ति ततः सर्वे वृक्षास्ते गृहसंज्ञिताः ॥ १,२७.३० ॥ ततस्तेषु प्रनष्टेषु विभ्रान्ता मैथुनोद्भवाः । अभिध्यायन्ति तां सिद्धिं सत्याभिध्यायिनस्तदा ॥ १,२७.३१ ॥ प्रादुर्बभूवुस्तासां तु वृक्षास्ते गृहसंज्ञिताः । वस्त्राणि ते प्रसूयन्ते फलान्याभरणानि च ॥ १,२७.३२ ॥ तेष्वेव जायते तासां गन्धवर्णरसान्वितम् । अमाक्षिकं महावीर्यं पुटके पुटके मधु ॥ १,२७.३३ ॥ तेन ता वर्तयन्ति स्म त्रेतायुगमुखे प्रिजाः । हृष्टपुष्टास्तया सिद्ध्या सर्वा वै विगतज्वराः ॥ १,२७.३४ ॥ ततः कालान्तरेणैव पुनर्लोभावृतास्तदा । वृक्षांस्तान् पर्यगृह्णन्त मधु चामाक्षिकं बलात् ॥ १,२७.३५ ॥ तासां तेनापचारेण पुनर्लोभकृतेन वै । प्रणष्टामधुना सार्धं कल्पवृक्षाः क्वचित्क्वचित् ॥ १,२७.३६ ॥ शीतवर्षातपैस्तीव्रै स्ततस्ता दुः खिता भृशम् । द्वन्द्वैः संपीड्यमानास्तु चक्रुरावरणानि च ॥ १,२७.३७ ॥ कृत्वा द्वन्द्वप्रतीघातान् वार्तोपायमचिन्तयन् । नष्टेषु मधुना सार्धं कल्पवृक्षेषु वै तदा ॥ १,२७.३८ ॥ ततः प्रादुर्बभौ तासां सिद्धिस्त्रेतायुगे पुनः । वार्तायाः साधिका ह्यन्या वृष्टिस्तासां निकामतः ॥ १,२७.३९ ॥ तासां वृष्ट्यूदकानीह यानि निम्नैर्गतानि तु । अवहन् वृष्टिसंतत्या स्त्रोतः स्थानानि निम्नगाः ॥ १,२७.४० ॥ ये पुनस्तदपां स्तोका आपन्नाः पृथिवीतले । अपां भूणेश्च संयोगादोषध्यस्तास्तदाभवन् ॥ १,२७.४१ ॥ अफालकृष्टाश्चानुप्ता ग्राम्यारण्याश्चतुर्दश । ऋतुपुष्पफलैश्चैव वृक्षगुल्माश्च जज्ञिरे ॥ १,२७.४२ ॥ ततः प्रादुरभूत्तासां रागो लोभश्च सर्वशः । अवश्यं भाविनार्ऽथे न त्रेतायुगवशेन वै ॥ १,२७.४३ ॥ ततस्ताः पर्यगृह्णन्त नदीक्षेत्राणि पर्वतान् । वृक्षगुल्मौषधीश्चैव प्रसह्य तु यथाबलम् ॥ १,२७.४४ ॥ विपर्ययेण तासां ता ओषध्यो विविशुर्महीम् । पितामहनियोगेन दुदोह पृथिवीं पृथुः ॥ १,२७.४५ ॥ ततस्ता जगृहुः सर्वा अन्योन्यं क्रोधमूर्छिताः । वसुदारधनाद्यांस्तु बलात्कालबलेन तु ॥ १,२७.४६ ॥ मर्यादायाः प्रतिष्ठार्थं ज्ञात्वैतद्भगवानजः । ससर्ज क्षत्रियान् ब्रह्मा ब्राह्मणानां हिताय च ॥ १,२७.४७ ॥ वर्णाश्रमव्यवस्थां च त्रेतायां कृतवान् प्रभुः । यज्ञप्रवर्तनं चैव पशुहिंसाविवर्जितम् ॥ १,२७.४८ ॥ द्वापरेष्वथ विद्यन्ते मतिभेदाः सदा नृणाम् । रागो लोभस्तथा युद्धं तत्त्वानामविनिश्चयः ॥ १,२७.४९ ॥ एको वेदश्चतुष्पादस्त्रेतास्विह विधीयते । वेदव्यासैश्चतुर्धा तु व्यस्यते द्वापरादिषु ॥ १,२७.५० ॥ ऋषिपुत्रैः पुनर्भेदाद्भिद्यन्ते दृष्टिविभ्रमैः । मन्त्रब्राह्मणविन्यासैः स्वरवर्णविपर्ययैः ॥ १,२७.५१ ॥ संहिता ऋग्यजुः साम्नां संहन्यन्ते श्रुतर्षिभिः । सामान्याद्वैकृताच्चैवदृष्टिभेदैः क्वचित्क्वचित् ॥ १,२७.५२ ॥ ब्राह्मणं कल्पसूत्राणि मन्त्रप्रवचनानि च । इतिहासपुराणानि धर्मशास्त्राणि सुव्रत ॥ १,२७.५३ ॥ अवृष्टिर्मरणं चैव तथैव वायाध्युपद्रवाः । वाङ्मनः कायजैर्दुः सैर्निर्वेदो जायते नृणाम् ॥ १,२७.५४ ॥ निर्वेदाज्जायते तेषां दुः खमोक्षविचारणा । विचारणाच्च वैराग्यं वैराग्याद्दोषदर्शनम् ॥ १,२७.५५ ॥ दोषाणां दर्शनाच्चैव द्वापरे ज्ञानसंभवः । एषा रजस्तमोयुक्ता वृत्तिर्वै द्वापरे स्मृता ॥ १,२७.५६ ॥ आद्ये कृते तु धर्मोऽस्ति स त्रेतायां प्रवर्तते । द्वापरे व्याकुलीभूत्वा प्रणश्यति कलौ युगे ॥ १,२७.५७ ॥ इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे सप्तविंशोऽध्यायः _____________________________________________________________ व्यास उवाच तिष्ये मायामसूयां च वधं चैव तपस्विनाम् । साधयन्ति नरा नित्यं तमसा व्याकुलीकृताः ॥ १,२८.१ ॥ कलौ प्रमारको रोगः सततं क्षुद्भयं तथा । अनावृष्टिभयं घोरं देशानां च विपर्ययः ॥ १,२८.२ ॥ अधार्मिका अनाचारा महाकोपाल्पचेतसः । अनृतं वदन्ति ते लुब्धास्तिष्ये जाताः सुदुः प्रजाः ॥ १,२८.३ ॥ दुरिष्टैर्दुरधीतैश्च दुराचारैर्दुरागमैः । विप्राणां कर्मदोषैश्च प्रजानां जायते भयम् ॥ १,२८.४ ॥ नाधीयते कलौ वेदान्न यजन्ति द्विजातयः । यजन्त्यन्यायतो वेदान् पठन्ते चाल्पबुद्धयः ॥ १,२८.५ ॥ शूद्राणां मन्त्रयौनैश्च संबन्धो ब्राह्मणैः सह । भविष्यति कलौ तस्मिञ्शयनासनभोजनैः ॥ १,२८.६ ॥ राजानः सूद्रभूयिष्ठा ब्राह्मणान् बाधयन्ति च । भ्रूणहत्या वीरहत्या प्रजायेते नरेश्वर ॥ १,२८.७ ॥ स्नानं होमं जपं दानं देवतानां तथार्ऽचनम् । अन्यानि चैव कर्माणि न कुर्वन्ति द्विजातयः ॥ १,२८.८ ॥ विनिन्दन्ति महादेवं ब्राह्मणान् पुरुषोत्तमम् । आम्नायधर्मशास्त्राणि पुराणानि कलौ युगे ॥ १,२८.९ ॥ कुर्वन्त्यवेददृष्टानि कर्माणि विविधानि तु । स्वधर्मेऽभिरुचिर्नैव ब्राह्मणानां प्रिजायते ॥ १,२८.१० ॥ कुशीलचर्याः पाषण्डैर्वृथारूपैः समावृताः । बहुयाचनको लोको भविष्यति परस्परम् ॥ १,२८.११ ॥ अट्टशूला जनपदाः शिवशूलाश्चतुष्पथाः । प्रमदाः केशशूलिन्यो भविष्यन्ति कलौ युगे ॥ १,२८.१२ ॥ शुक्लदन्ताजिनाख्याश्च मुण्डाः काषायवाससः । शूद्रा धर्मं चरिष्यन्ति युगान्ते समुपस्थिते ॥ १,२८.१३ ॥ शस्यचौरा भविष्यन्ति तथा चैलाभिमर्षिणः । चौराश्चौरस्य हर्तारो हर्तुर्हर्ता तथापरः ॥ १,२८.१४ ॥ दुः खप्रचुरताल्पायुर्देहोत्सादः सरोगता । अधर्माभिनिवेशित्वात्तमोवृत्तं कलौ स्मृतम् ॥ १,२८.१५ ॥ काषायिणोऽथ निर्ग्रन्थास्तथा कापालिकाश्च ये । वेदविक्रयिणश्चान्ये तीर्थविक्रयिणः परे ॥ १,२८.१६ ॥ आसनस्थान् द्विजान् दृष्ट्वा न चलन्त्यल्पबुद्धयः । ताडयन्ति द्विजेन्द्रांश्च शूद्रा राजोपजीविनः ॥ १,२८.१७ ॥ उच्चासनस्थाः शूद्रास्तु द्विजमध्ये परन्तप । ज्ञात्वा न हिंसते राजा कलौ कालबलेन तु ॥ १,२८.१८ ॥ पुष्पैश्च हसितैश्चैव तथान्यैर्मङ्गलैर्द्विजाः । शूद्रानभ्यर्चयन्त्यल्पश्रुतभग्यबलान्विताः ॥ १,२८.१९ ॥ न प्रेक्षन्तेऽर्चितांश्चापि शूद्रा द्विजवरान्नृप । सेवावसरमालोक्य द्वारि तिष्ठन्ति च द्विजाः ॥ १,२८.२० ॥ वाहनस्थान् समावृत्य शूद्राञ्शूद्रोपजीविनः । सेवन्ते ब्राह्मणास्तत्र स्तुवन्ति स्तुतिभिः कलौ ॥ १,२८.२१ ॥ अध्यापयन्ति वै वेदाञ्शूद्राञ्शूद्रोपजीविनः । पठन्ति वैदिकान्मन्त्रान्नास्तिक्यं घोरमाश्रिताः ॥ १,२८.२२ ॥ तपोयज्ञफलानां च विक्रेतारो द्विजोत्तमाः । यतयश्च भविष्यन्ति शतशोऽथ सहस्त्रशः ॥ १,२८.२३ ॥ नाशयन्ति ह्यधीतानि नाधिगच्छन्ति चानघ । गायन्ति लौकिकैर्गानैर्दैवतानि नराधिप ॥ १,२८.२४ ॥ वामपाशुपताचारास्तथा वै पाञ्चरात्रिकाः । भविष्यन्ति कलौ तस्मिन् ब्राह्मणाः क्षत्रियास्तथा ॥ १,२८.२५ ॥ ज्ञानकर्मण्युपरते लोके निष्क्रियतां गते । कीटमूषकसर्पाश्च धर्षयिष्यन्ति मानवान् ॥ १,२८.२६ ॥ कुर्वान्ति चावताराणि ब्राह्मणानां कुलेषु वै । दधीचशापनिर्दग्धाः पुरा दक्षाध्वरे द्विजाः ॥ १,२८.२७ ॥ निन्दन्ति च महादेवं तमसाविष्टचेतसः । वृथा धर्मं चरिष्यन्ति कलौ तस्मिन् युगान्तिके ॥ १,२८.२८ ॥ ये चान्ये शापनिर्दग्धा गौतमस्य महात्मनः । सर्वे ते च भविष्यन्ति ब्राह्मणाद्याः स्वजातिषु ॥ १,२८.२९ ॥ विनिन्दन्ति हृषीकेशं ब्राह्मणान् ब्रह्मवादिनः । वेदबाह्यव्रताचारा दुराचारा वृथाश्रमाः ॥ १,२८.३० ॥ मोहयन्ति जनान् सर्वान् दर्शयित्वा फलानि च । तमसाविष्टमनसो वैडालवृत्तिकाधमाः ॥ १,२८.३१ ॥ कलौ रुद्रो महादेवो लोकानामीश्वरः परः । न देवता भवेन्नृणां देवतानां च दैवतम् ॥ १,२८.३२ ॥ करिष्यत्यवताराणि शङ्करो नीललोहितः । श्रौतस्मार्तप्रतिष्ठार्थं भक्तानां हितकाम्यया ॥ १,२८.३३ ॥ उपदेक्ष्यति तज्ज्ञानं शिष्याणां ब्रह्मसंज्ञितम् । सर्ववेदान्तसारं हि धर्मान् वेदनिदर्शितान् ॥ १,२८.३४ ॥ ये तं विप्रा निषेवन्ते येन केनोपचारतः । विजित्यकलिजान् दोषान् यान्ति ते परमं पदम् ॥ १,२८.३५ ॥ अनायासेन सुमहत्पुण्यमाप्नोति मानवः । अनेकदोषदुष्टस्य कलेरेष महान् गुणः ॥ १,२८.३६ ॥ तस्मात्सर्वप्रयत्नेन प्राप्य माहेश्वरं युगम् । विशेषाद्ब्राह्मणो रुद्रमीशानं शरणं व्रजेत् ॥ १,२८.३७ ॥ ये नमन्ति विरूपाक्षमीशानं कृत्तिवाससम् । प्रसन्नचेतसो रुद्रं ते यान्ति परमं पदम् ॥ १,२८.३८ ॥ यथा रुद्रनमस्कारः सर्वकर्मफलो ध्रुवम् । अन्यदेवनमस्कारान्न तत्फलमवाप्नुयात् ॥ १,२८.३९ ॥ एवंविधे कलियुगे दोषाणामेकशोधनम् । महादेवनमस्कारो ध्यानं दानमिति श्रुतिः ॥ १,२८.४० ॥ तस्मादनीश्वरानन्यान् त्यक्त्वा देवं महेश्वरम् । समाश्रयेद्विरूपाक्षं यदीच्छेत्परमं पदम् ॥ १,२८.४१ ॥ नार्चयन्तीह ये रुद्रं शिवं त्रिदशवन्दितम् । तेषां दानं तपो यज्ञो वृथा जीवितमेव च ॥ १,२८.४२ ॥ नमो रुद्राय महते देवदेवाय शूलिने । त्र्यम्बकाय त्रिनेत्राय योगिनां गुरवे नमः ॥ १,२८.४३ ॥ नमोऽस्तु वामदेवाय महादेवाय वेधसे । शंभवे स्थाणवे नित्यं शिवाय परमेष्ठिने । नमः शोमाय रुद्राय महाग्रासाय हेतवे ॥ १,२८.४४ ॥ प्रपद्येऽहं विरूपाक्षं शरण्यं ब्रह्मचारिणम् । महादेवं महायोगमीशानं चाम्बिकापतिम् ॥ १,२८.४५ ॥ योगिनां योगदातारं योगमायासमावृतम् । योगिनां कुरुमाचार्यं योगिगम्यं पिनाकिनम् ॥ १,२८.४६ ॥ संसारतारणं रुद्रं ब्रह्माणं ब्रह्मणोऽधिपम् । शाश्वतं सर्वगं ब्रह्मण्यं ब्राह्मणप्रियम् ॥ १,२८.४७ ॥ कपर्दिनं कालमूर्तिममूर्ति परमेश्वरम् । एकमूर्ति महामूर्ति वेदवेद्यं दिवस्पतिम् ॥ १,२८.४८ ॥ नीलकण्ठं विश्वमूर्ति व्यापिनं विश्वरेतसम् । कालाग्निं कालदहनं कामदं कामनाशनम् ॥ १,२८.४९ ॥ नमस्ये गिरिशं देवं चन्द्रावयवभूषणम् । विलोहितं लेलिहानमाहित्यं परमेष्ठिनम् । उग्रं पशुपतिं भीमं भास्करं तमसः परम् ॥ १,२८.५० ॥ इत्येतल्लक्षणं प्रोक्तं युगानां वै समासतः । अतीतानागतानां वै यावन्मन्वन्तरक्षयः ॥ १,२८.५१ ॥ मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि वै । व्याख्यातानि न संदेहः कल्पः कल्पेन चैव हि ॥ १,२८.५२ ॥ मन्वन्तरेषु सर्वेषु अतीतानागतेषु वै । तुल्याभिमानिनः सर्वे नामरूपैर्भवन्त्युत ॥ १,२८.५३ ॥ एवमुक्तो भगवता किरीटी श्वेतवाहनः । बभार परमां भक्तिमीशानेऽव्यभिचारिणीम् ॥ १,२८.५४ ॥ नमश्चकार तमृषिं कृष्णद्वैपायनं प्रभुम् । सर्वज्ञं सर्वकर्तारं स्क्षाद्विष्णुं व्यवस्थितम् ॥ १,२८.५५ ॥ तमुवाच पुनर्व्यासः पाथं परपुरञ्जयम् । कराभ्यां सुशुभाभ्यां च संस्पृश्य प्रणतं मुनिः ॥ १,२८.५६ ॥ धन्योऽस्यनुगृहीतोऽसि त्वादृशोऽन्यो न विद्यते । त्रैलोक्ये शङ्करे नूनं भक्तः परपुरञ्जय ॥ १,२८.५७ ॥ दृष्टवानसि तं देवं विश्वाक्षं विश्वतोमुखम् । प्रत्यक्षमेव सर्वेशं रुद्रं सर्वजगद्गुरुम् ॥ १,२८.५८ ॥ ज्ञानं तदैश्वरं दिव्यं यथावद्विदितं त्वया । स्वयमेव हृषीकेशः प्रीत्योवाच सनातनः ॥ १,२८.५९ ॥ गच्छ गच्छ स्वकं स्थानं न शोकं कर्तुमर्हसि । व्रजस्व परया भक्त्या शरण्यं शरणं शिवम् ॥ १,२८.६० ॥ एवमुक्त्वा स भगवाननुगृह्यार्जुनं प्रभुः । जगाम शङ्करपुरीं समाराधयितुं भवम् ॥ १,२८.६१ ॥ पाण्डवेयोऽपि तद्वाक्यात्संप्राप्य शरणं शिवम् । संत्यज्य सर्वकर्माणि तद्भक्तिपरमोऽभवत् ॥ १,२८.६२ ॥ नार्जुनेन समः शंभोर्भक्त्या भूतो भविष्यति । मुक्त्वा सत्यवतीसूनुं कृष्णं वा देवकीसुतम् ॥ १,२८.६३ ॥ तस्मै भगवते नित्यं नमः सत्याय धीमते । पाराशर्याय मुनये व्यासायामिततेजसे ॥ १,२८.६४ ॥ कृष्णद्वैपायनः साक्षाद्विष्णुरेव सनातनः । को ह्यन्यस्तत्त्वतो रुद्रं वेत्ति तं परमेश्वरम् ॥ १,२८.६५ ॥ नमः कुरुध्वं तमृषिं कृष्णं सत्यवतीसुतम् । पाराशर्यं महात्मानं योगिनं विष्णुमव्ययम् ॥ १,२८.६६ ॥ एवमुक्तास्तु मुनयः सर्व एव समीहिताः । प्रेणेमुस्तं महात्मानं व्यासं सत्यवतीसुतम् ॥ १,२८.६७ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे अष्टाविंशोऽध्यायः _____________________________________________________________ ऋषय ऊचुः प्राप्य वाराणसीं दिव्यां कृष्णद्वैपायनो मुनिः । किमकार्षोन्महाबुद्धिः श्रोतुं कौतूहलं हि नः ॥ १,२९.१ ॥ सूत उवाच प्राप्य वाराणसी दिव्यामुपस्पृश्य महामुनिः । पूजयामास जाह्नव्यां देवं विश्वेश्वरं शिवम् ॥ १,२९.२ ॥ तमागतं पुनिं दृष्ट्वा तत्र ये निवसन्ति वै । पूजयाञ्चक्रिरे व्यासं मुनयो मुनिपुङ्गवम् ॥ १,२९.३ ॥ पप्रच्छुः प्रणताः सर्वे कथाः पापविनाशनीः । महादेवाश्रयाः पुण्या मोक्षधर्मान् सनातनान् ॥ १,२९.४ ॥ स चापि कथयामास सर्वज्ञो भगवानृषिः । माहात्म्यं देवदेवस्य धर्मान् वेदनिदर्शितान् ॥ १,२९.५ ॥ तेषां मध्ये मुनीन्द्राणां व्यासशिष्यो महामुनिः । पृष्टवान् जैमिनिर्व्यासं गूढमर्थं सनातनम् ॥ १,२९.६ ॥ जैमिनिरुवाच भगवन् संशयं त्वेकं छेत्तुमर्हसि तत्त्वतः । न विद्यते ह्यविदितं भवता परमर्षिणा ॥ १,२९.७ ॥ केचिद्ध्यानं प्रशंसन्ति धर्ममेवापरे जनाः । अन्ये सांख्यं तथा योगं तपस्त्वन्ये महर्षयः ॥ १,२९.८ ॥ ब्रह्मचर्यमथो मौनमन्ये प्राहर्महर्षयः । अहिंसां सत्यमप्यन्ये संन्यासमपरे विदुः ॥ १,२९.९ ॥ केचिद्दयां प्रशंसन्ति दानमध्ययनं तथा । तीर्थयात्रां तथा केचिदन्ये चेन्द्रियनिग्रहम् ॥ १,२९.१० ॥ किमेतेषां भवेज्ज्यायः प्रब्रूहि मुनिपुङ्गव । यदि वा विद्यतेऽप्यन्यद्गुह्यं तद्वक्तुमर्हसि ॥ १,२९.११ ॥ श्रुत्वा स जैमिनेर्वाक्यं कृष्णद्वैपायनो मुनिः । प्राह गम्भीरया वाचा प्रणम्य वृषकेतनम् ॥ १,२९.१२ ॥ साधु साधु महाभाग यत्पृष्टं भवता मुने । वक्ष्ये गुह्यतमाद्गुह्यं श्रुण्वन्त्वन्ये महर्षयः ॥ १,२९.१३ ॥ ईश्वरेण पुरा प्रोक्तं ज्ञानमेतत्सनातनम् । गूढमप्राज्ञविद्विष्टं सेवितं सूक्ष्मदर्शिभिः ॥ १,२९.१४ ॥ नाश्रद्दधाने दातव्यं नाभक्ते परमेष्ठिनः । न वेदविद्विषु शुभं ज्ञाननानां ज्ञानमुत्तमम् ॥ १,२९.१५ ॥ मेरुशृङ्गे पुरा देवमीशानं त्रिपुरद्विषम् । देवासनगता देवी महादेवमपृच्छत ॥ १,२९.१६ ॥ देव्युवाच देवदेव महादेव भक्तानामार्तिनाशन । कथं त्वां पुरुषो देवमचिरादेव पश्यति ॥ १,२९.१७ ॥ सांख्ययोगस्तथा ध्यानं कर्मयोगोऽथ वैदिकः । आयासबहुला लोके यानि चान्यानि शङ्कर ॥ १,२९.१८ ॥ येन विब्रान्तचित्तानां योगिनां कर्मिणामपि । दृश्यो हि भगवान् सूक्ष्मः सर्वेषामथ देहिनाम् ॥ १,२९.१९ ॥ एतद्गुह्यतमं ज्ञानं गूढं ब्रह्मादिसेवितम । हिताय सर्वभक्तानां ब्रूहि कामाङ्गनाशन ॥ १,२९.२० ॥ ईश्वर उवाच अवाच्यमेतद्विज्ञानं ज्ञानमज्ञैर्बहिष्कृतम् । वक्ष्ये तव यथा तत्त्वं यदुक्तं परमर्षिभिः ॥ १,२९.२१ ॥ परं गुह्यतमं क्षेत्रं मम वाराणसी पुरी । सर्वेषामेव भूतानां संसारार्णवतारिणी ॥ १,२९.२२ ॥ तत्र भक्ता महादेवि मदीयं व्रतमास्थिताः । निवसन्ति महात्मानः परं नियममास्थिताः ॥ १,२९.२३ ॥ उत्तमं सर्वतीर्थानां स्थानानामुत्तमं च तत् । ज्ञानानामुत्तमं ज्ञानमविमुक्तं परं मम ॥ १,२९.२४ ॥ स्थानान्तरं पवित्राणि तीर्थान्यायतनानि च । श्मशानसंस्थितान्येव दिव्यभूमिगतानि च ॥ १,२९.२५ ॥ भूर्लोके नैव संलग्नमन्तरिक्षे ममालयम् । अयुक्तास्तन्न पश्यन्ति युक्ताः पश्यन्ति चेतसा ॥ १,२९.२६ ॥ श्मसानमेतद्विख्यातमविमुक्तमिति श्रुतम् । कालो भूत्वा जगदिदं संहराम्यत्र सुन्दरि ॥ १,२९.२७ ॥ देवीदं सर्वगुह्यानां स्थानं प्रियतमं मम । मद्भक्तास्तत्र गच्छन्ति मामेव प्रविशन्ति ते ॥ १,२९.२८ ॥ दत्तं जप्तं हुतं चेष्टं तपस्तप्तं कृतं च यत् । ध्यानमध्ययनं ज्ञानं सर्वं तत्राक्षयं भवेत् ॥ १,२९.२९ ॥ जन्मान्तरसहस्त्रेषु यत्पापं पूर्वसंचितम् । अविमुक्तं प्रविष्टस्य तत्सर्वं व्रजति क्षयम् ॥ १,२९.३० ॥ ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये वर्णसंकराः । स्त्रियो म्लेच्छाश्च ये चान्ये संकीर्णाः पापयोनयः ॥ १,२९.३१ ॥ कोटाः पिपीलिकाश्चैव ये चान्ये मृगपक्षिणः । कालेन निधनं प्राप्ता अविमुक्ते वरानने ॥ १,२९.३२ ॥ चन्द्रार्धमौलयस्त्र्यक्षा महावृषभवाहनाः । शिवे मम पुरे देवि जायन्ते तत्र मानवाः ॥ १,२९.३३ ॥ नाविमुक्ते मृतः कश्चिन्नरकं याति किल्बिषी । ईश्वरानुगृहीता हि सर्वे यान्ति परां गतिम् ॥ १,२९.३४ ॥ मोक्षं सुदुर्लभं मत्वा संसारं चातिभीषणम् । अश्मना चरणौ हत्वा वाराणस्यां वसेन्नरः ॥ १,२९.३५ ॥ दुर्लभा तपसा चापि पूतस्य परमेश्वरि । यत्र तत्र विपन्नस्य गतिः संसारमोक्षणी ॥ १,२९.३६ ॥ प्रसादाज्जायते ह्येतन्मम शैलेन्द्रनन्दिनि । अप्रबुद्धा न पश्यन्ति मम मायाविमोहिताः ॥ १,२९.३७ ॥ अविमुक्तं न सेवन्ति मूढा ये तमसावृताः । विण्मूत्ररेतसां मध्ये ते वसन्ति पुनः पुनः ॥ १,२९.३८ ॥ हन्यमानोऽपि यो विद्वान् वसेद्विघ्नशतैरपि । स याति परमं स्थानं यत्र गत्वा न शोचति ॥ १,२९.३९ ॥ जन्ममृत्युजरामुक्तं परं याति शिवालयम् । अपुनर्मरणानां हि सा गतिर्मोक्षकाङ्क्षिणाम् । यां प्राप्य कृतकृत्यः स्यादिति मन्यन्ति पण्डताः ॥ १,२९.४० ॥ न दानैर्न तपोभिश्च न यज्ञैर्नापि विद्यया । प्राप्यते गतिरुत्कृष्टा याविमुक्ते तु लभ्यते ॥ १,२९.४१ ॥ नानावर्णा विवर्णाश्च चण्डालाद्या जुगुप्सिताः । किल्बिषैः पूर्णदेहा ये विशिष्टैः पातकैस्तथा । भेषजं परमं तेषामविमुक्तं विदुर्बुधाः ॥ १,२९.४२ ॥ अविमुक्तं परं ज्ञानमविमुक्तं परं पदम् । अविमुक्तं परं तत्त्वमविमुक्तं परं शिवम् ॥ १,२९.४३ ॥ कृत्वा वै नैष्ठिकीं दीक्षामविमुक्ते वसन्ति ये । तेषां तत्परमं ज्ञानं ददाम्यन्ते परं पदम् ॥ १,२९.४४ ॥ प्रायागं नैमिषं पुण्यं श्रीशैलोऽथ महालयः । केदारं भद्रकर्णं च गया पुष्करमेव च ॥ १,२९.४५ ॥ कुरुक्षेत्रं रुद्रकोटिर्नर्मदाम्रातकेश्वरम् । शालिग्रामं च कुब्जाम्रं कोकामुखमनुत्तमम् । प्रभासं विजयेशानं गोकर्णं भद्रकर्णकम् ॥ १,२९.४६ ॥ एतानि पुण्यस्थानानि त्रैलोक्ये विश्रुतानि ह । न यास्यन्ति परं मोक्षं वाराणस्यां यथा मृताः ॥ १,२९.४७ ॥ वाराणस्यां विशेषेण गङ्गा त्रिपथगामिनी । प्रविष्टा नाशयेत्पापं जन्मान्तरशतैः कृतम् ॥ १,२९.४८ ॥ अन्यत्र सुलभा गङ्गा श्राद्धं दानं तपो जपः । व्रतानि सर्वमेवैतद्वाराणस्यां सुदुर्लभम् ॥ १,२९.४९ ॥ यजेत जुहुयान्नित्यं ददात्यर्चयतेऽमरान् । वायुभक्षश्च सततं वाराणस्यां स्तितो नरः ॥ १,२९.५० ॥ यदि पापो यदि शठो यदि वाधार्मिको नरः । वाराणसीं समासाद्य पुनाति सकलं नरः ॥ १,२९.५१ ॥ वाराणस्यां महादेवं येर्ऽचयन्ति स्तुवन्ति वै । सर्वपापविनिर्मुक्तास्ते विज्ञेया गणेश्वराः ॥ १,२९.५२ ॥ अन्यत्र योगज्ञानाभ्यां संन्यासादथवान्यतः । प्राप्यते तत्परं स्थानं सहस्त्रेणैव जन्मना ॥ १,२९.५३ ॥ ये भक्ता देवदेवेशे वाराणस्यां वसन्ति वै । ते विन्दन्ति परं मोक्षमेकेनैव तु जन्मना ॥ १,२९.५४ ॥ यत्र योगस्तथा ज्ञानं मुक्तिरेकेन जन्मना । अविमुक्तं समासाद्य नान्यद्गच्छेत्तपोवनम् ॥ १,२९.५५ ॥ यतो मया न मुक्तं तदविमुक्तं ततः स्मृतम् । तदेव गुह्यं गुह्यानामेतद्विज्ञाय मुच्यते ॥ १,२९.५६ ॥ ज्ञानाज्ञानाभिनिष्ठानां परमानन्दमिच्छताम् । या गतिर्विहिता सुभ्रु साविमुक्ते मृतस्य तु ॥ १,२९.५७ ॥ यानि चैवाविमुक्तस्य देहे तूक्तानि कृत्स्नशः । पुरी वाराणसी तेभ्यः स्थानेभ्यो ह्यधिकाशुभा ॥ १,२९.५८ ॥ यत्र साक्षान्महादेवो देहान्ते स्वयमीश्वरः । व्याचष्टे तारकं ब्रह्म तत्रैव ह्यविमुक्तकम् ॥ १,२९.५९ ॥ यत्तत्परतरं तत्त्वमविमुक्तमिति श्रुतम् । एकेन जन्मना देवि वाराणस्यां तदाप्नुयात् ॥ १,२९.६० ॥ भ्रूमध्ये नाभिमध्ये च हृदये चैव मूर्धनि । यथाविमुक्तादित्ये वाराणस्यां व्यवस्थितम् ॥ १,२९.६१ ॥ वरणायास्तथा चास्या मध्ये वाराणसी पुरी । तत्रैव संस्थितं तत्त्वं नित्यमेवाविमुक्तकम् ॥ १,२९.६२ ॥ वाराणस्याः परं स्थानं न भूतं न भविष्यति । यत्र नारायणो देवो महादेवो दिवेश्वरः ॥ १,२९.६३ ॥ तत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः । उपासते मां सततं देवदेवं पितामहम् ॥ १,२९.६४ ॥ महापातकिनो ये च ये तेभ्यः पापकृत्तमाः । वाराणसीं समासाद्य ते यान्ति परमां गतिम् ॥ १,२९.६५ ॥ तस्मान्मुमुक्षुर्नियतो वसेद्वै मरणान्तिकम् । वाराणस्यां महादेवाज्ज्ञानं लब्ध्वा विमुच्यते ॥ १,२९.६६ ॥ किन्तु विघ्ना भविष्यन्ति पापोपहतचेतसः । ततो नैव चरेत्पापं कायेन मनसा गिरा ॥ १,२९.६७ ॥ एतद्रहस्यं वेदानां पुराणानां च सुव्रताः । अविमुक्ताश्रयं ज्ञानं न कश्चिद्वेत्ति तत्त्वतः ॥ १,२९.६८ ॥ देवतानामृषीणां च शृण्वतां परमेष्ठिनाम् । देव्यै देवेन कथितं सर्वपापविनाशनम् ॥ १,२९.६९ ॥ यथा नारायणः श्रेष्ठो देवानां पुरुषोत्तमः । यथेश्वराणां गिरिशः स्थानानां चैतदुत्तमम् ॥ १,२९.७० ॥ यैः समाराधितो रुद्रः पूर्वस्मिन्नेव जन्मनि । ते विन्दन्ति परं क्षेत्रमविमुक्तं शिवालयम् ॥ १,२९.७१ ॥ कलिकल्मषसंभूता येषामुपहता मतिः । न तेषां वेदितुं शक्यं स्थानं तत्परमेष्ठिनः ॥ १,२९.७२ ॥ ये स्मरन्ति सदा कालं विन्दन्ति च पुरीमिमाम् । तेषां विनश्यति क्षिप्रमिहामुत्र च पातकम् ॥ १,२९.७३ ॥ यानि चेह प्रकुर्वन्ति पातकानि कृतालयाः । नाशयेत्तानि सर्वाणि देवः कालतनुः शिवः ॥ १,२९.७४ ॥ आगच्छतामिदं स्थानं सेवितुं मोक्षकाङ्क्षिणाम् । मृतानां च पुनर्जनं न भूयो भवसागरे ॥ १,२९.७५ ॥ तस्मात्सर्वप्रयत्नेन वाराणस्यां वसेन्नरः । योगी वाप्यथवायोगी पापी वा पुण्यकृत्तमः ॥ १,२९.७६ ॥ न वेदवचनात्पित्रोर्न चैव गुरुवादतः । मतिरुत्क्रमणीया स्यादविमुक्तगतिं प्रति ॥ १,२९.७७ ॥ सूत उवाच इत्येवमुक्त्वा भगवान् व्यासो वेदविदां वरः । सहैव शिष्यप्रवरैर्वाराणस्यां चचार ह ॥ १,२९.७८ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वंविभागे एकोनत्रिशोऽध्यायः _____________________________________________________________ सूत उवाच स शिष्यैः संवृतो धीमान् गुरुर्द्वैपायनो मुनिः । जगाम विपुलं लिङ्गमोङ्कारं मुक्तिदायकम् ॥ १,३०.१ ॥ तत्राभ्यर्च्य महादेवं शिष्यैः सह महामुनिः । प्रोवाच तस्य माहात्म्यं मुनीनां भावितात्मनाम् ॥ १,३०.२ ॥ इदं तद्विमलं लिङ्गमोङ्कारं नाम शोभनम् । अस्य स्मरणमात्रेण मुच्यते सर्वपातकैः ॥ १,३०.३ ॥ एतत्परतरं ज्ञानं पञ्चयतनमुत्तमम् । सेवितं सूरिभिर्नित्यं वाराणस्यां विमोक्षदम् ॥ १,३०.४ ॥ अत्र साक्षान्महादेवः पञ्चायतनविग्रहः । रमते भगवान् रुद्रो जन्तूनामपवर्गदः ॥ १,३०.५ ॥ यत्तत्पाशुपतं ज्ञानं पञ्चार्थमिति शब्द्यते । तदेतद्विमलं लिङ्गमोङ्कारे समवस्थितम् ॥ १,३०.६ ॥ शान्त्यतीता तथा शान्तिर्विद्या चैव परा कला । प्रतिष्ठा च निवृत्तिश्च पञ्चार्थं लिङ्गमैश्वरम् ॥ १,३०.७ ॥ पञ्चानामपि देवानां ब्रह्मादीनां सदाश्रयम् । ओङ्कारबोधकं लिङ्गं पञ्चायतनमुच्यते ॥ १,३०.८ ॥ संस्मरेदैश्वरं लिङ्गं पञ्चायतनमव्ययम् । देहान्ते तत्परं ज्योतिरानन्दं विशते बुधः ॥ १,३०.९ ॥ अत्र देवर्षयः पूर्वं सिद्धा ब्रह्मर्षयस्तथा । उपास्य देवमीशानं प्राप्तवन्तः परं पदम् ॥ १,३०.१० ॥ मत्स्योदर्यास्तटे पुण्यं स्थानं गुह्यतमं शुभम् । गोचर्ममात्रं विप्रेन्द्रा ओङ्कारेश्वरमुत्तमम् ॥ १,३०.११ ॥ कृत्तिवासेश्वरं लिङ्गः मध्यमेश्वरमुत्तमम् । विश्वेश्वरं तथोङ्कारं कपर्देश्वरमेव च ॥ १,३०.१२ ॥ एतानि गुह्यलिङ्गानि वाराणस्यां द्विजोत्तमाः । न कश्चिदिह जानाति विना शंभोरनुग्रहात् ॥ १,३०.१३ ॥ एवमुक्त्वा ययौ कृष्णः पाराशर्यो महामुनिः । कृत्तिवासेश्वरं लिङ्गं द्रष्टुं देवस्य शूलिनः ॥ १,३०.१४ ॥ समभ्यर्च्य तथा शिष्यैर्माहात्म्यं कृत्तिवाससः । कथयामास शिष्येभ्यो भगवान् ब्रह्मवित्तमः ॥ १,३०.१५ ॥ अस्मिन् स्थाने पुरा दैत्यो हस्ती भूत्वा भवान्तिकम् । ब्राह्मणान् हन्तुमायातो येऽत्र नित्यमुपासते ॥ १,३०.१६ ॥ तेषां लिङ्गान्महादेवः प्रादुरासीत्त्रिलोचनः । रक्षणार्थं द्विजश्रेष्ठा भक्तानां भक्तवत्सलः ॥ १,३०.१७ ॥ हत्वा गजाकृतिं दैत्यं शूलेनावज्ञया हरः । वसस्तस्याकरोत्कृत्तिं कृत्तिवासेश्वरस्ततः ॥ १,३०.१८ ॥ अत्र सिद्धिं परां प्राप्ता मुनयो मुनिपुङ्गवाः । तेनैव च शरीरेण प्राप्तास्तत्परमं पदम् ॥ १,३०.१९ ॥ विद्या विद्येश्वरा रुद्राः शिवाये च प्रकीर्तिताः । कृत्तिवासेश्वरं लिङ्गं नित्यमावृत्य संस्थिताः ॥ १,३०.२० ॥ ज्ञात्वा कलियुगं घोरमधर्मबहुलं जनाः । कृत्तिवासं न मुञ्चन्ति कृतार्थास्ते न संशयः ॥ १,३०.२१ ॥ जन्मान्तरसहस्त्रेण मोक्षोऽन्यत्राप्यते न वा । एकेन जन्मना मोक्षः कृत्तिवासे तु लभ्यते ॥ १,३०.२२ ॥ आलयः सर्वसिद्धानामेतत्स्थानं वदन्ति हि । गोपितं देवदेवेन महादेवेन शंभुना ॥ १,३०.२३ ॥ युगे युगे ह्यत्र दान्ता ब्राह्मणा वेदपारागाः । उपासते महादेवं जपन्ति शतरुद्रियम् ॥ १,३०.२४ ॥ स्तुवन्ति सततं देवं त्र्यम्बकं कृत्तिवाससम् । ध्यायन्ति हृदये देवं स्थाणुं सर्वान्तरं शिवम् ॥ १,३०.२५ ॥ गायन्ति सिद्धाः किल गीतकानि ये वाराणस्यां निवसन्ति विप्राः । तेषामथैकेन भवेन मुक्तिर् ये कृत्तिवासं शरणं प्रपन्नाः ॥ १,३०.२६ ॥ संप्राप्य लोके जगतामभीष्टं सुदुर्लभं विप्रकुलेषु जन्म । ध्याने समाधाय जपन्ति रुद्रं ध्यायन्ति चित्ते यतयो महेशम् ॥ १,३०.२७ ॥ आराधयन्ति प्रभुमीशितारं वाराणसीमध्यगता मुनिन्द्राः । यजन्ति यज्ञैरभिसंधिहीनाः स्तुवन्ति रुद्रं प्रणमन्ति शंभुम् ॥ १,३०.२८ ॥ नमो भवायामलयोगधाम्ने स्थाणुं प्रपद्ये गिरिशं पुराणम् । स्मरामि रुद्रं हृदये निविष्टं जाने महादेवमनेकरूपम् ॥ १,३०.२९ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागेत्रिंशोऽध्यायः _____________________________________________________________ सूत उवाच समाभाष्य मुनीन् धीमान् देवदेवस्य शूलिनः । जगाम लिङ्गं तद्द्रष्टुं कपर्देश्वरमव्ययम् ॥ १,३१.१ ॥ स्नात्वा तत्र विधानेन तर्पयित्वा पितॄन् द्विजाः । पिशाचमोचने तीर्थे पूजयामास शूलिनम् ॥ १,३१.२ ॥ तत्राश्चर्यमपश्यंस्ते मुनयो गुरुणा सह । मेनिरे क्षेत्रमाहात्म्यं प्रणेमुर्गिरिशं हरम् ॥ १,३१.३ ॥ कश्चिदभ्याजगामेदं शार्दूलो घोररूपधृक् । मृगीमेकां भक्षयितुं कपर्देश्वरमुत्तमम् ॥ १,३१.४ ॥ तत्र सा भीतहृदया कृत्वा कृत्वा प्रदक्षिणम् । धावमाना सुसंभ्रान्ता व्याघ्रस्य वशमागता ॥ १,३१.५ ॥ तां विदार्य नखैस्तीक्ष्णैः शार्दूलः सुमहाबलः । जगाम चान्यं विजनं देशं दृष्ट्वा मुनीश्वरान् ॥ १,३१.६ ॥ मृतमात्रा च सा बाला कपर्देशाग्रतो मृगी । अदृश्यत महाज्वाला व्योम्नि सूर्यसमप्रभा ॥ १,३१.७ ॥ त्रिनेत्रा नीलकण्ठा च शशाङ्काङ्कितमूर्धजा । वृषाधिरूढा पुरुषैस्तादृशैरेव संवृता ॥ १,३१.८ ॥ पुष्पवृष्टिं विमुञ्चिन्ति खेचरास्तस्य मूर्धनि । गणेश्वरः स्वयं भूत्वा न दृष्टस्तत्क्षणात्ततः ॥ १,३१.९ ॥ दृष्ट्वैतदाश्चर्यवरं जैमिनिप्रमुखा द्विजाः । कपर्देश्वरमाहात्म्यं पप्रच्छुर्गुरुमच्युतम् ॥ १,३१.१० ॥ तेषां प्रोवाच भगवान् देवाग्रे चोपविश्य सः । कपर्देशस्य माहात्म्यं प्रणम्य वृषभध्वजम् ॥ १,३१.११ ॥ इदं देवस्य तल्लिङ्गं कपर्दोश्वरमुत्तमम् । स्मृत्वैवाशेषपापौघं क्षिप्रमस्य विमुञ्चति ॥ १,३१.१२ ॥ कामक्रोधादयो दोषा वाराणसीनिवासिनाम् । विघ्नाः सर्वे विनश्यन्ति कपर्देश्वरपूजनात् ॥ १,३१.१३ ॥ तस्मात्सदैव द्रष्टव्यं कपर्देश्वरमुत्तमम् । पूजितव्यं प्रयत्नेन स्तोतव्यं वैदिकैः स्तवैः ॥ १,३१.१४ ॥ ध्यायतामत्र नियतं योगिनां शान्तचेतसाम् । जायते योगसंसिद्धिः सा षण्मासे न संशयः ॥ १,३१.१५ ॥ ब्रह्महत्यादयः पापा विनश्यन्त्यस्य पूजनात् । पिशाचमोचने कुण्डे स्नातस्यात्र समीपतः ॥ १,३१.१६ ॥ अस्मिन् क्षेत्रे पुरा विप्रास्तपस्वी शंसितव्रतः । शङ्कुकर्ण इति ख्यातः पूजयामास शङ्करम् । जजाप रुद्रमनिशं प्रणवं ब्रह्मरूपिणम् ॥ १,३१.१७ ॥ पुष्पधूपादिभिः स्तोत्रैर्नमस्कारैः प्रदक्षिणैः । उवास तत्र योगात्मा कृत्वा दीक्षां तु नैष्ठिकीम ॥ १,३१.१८ ॥ कदाचिदागतं प्रेतं पश्यति स्म क्षुधान्वितम् । अस्थिचर्मपिनद्धाङ्गं निः श्वसन्तं मुहुर्मुहुः ॥ १,३१.१९ ॥ तं दृष्ट्वा स मुनिश्रेष्ठः कृपया परया युतः । प्रोवाच को भवान् कस्माद्देशाद्देशमिमंश्रितः ॥ १,३१.२० ॥ तस्मै पिशाचः क्षुधया पीड्यमानोऽब्रवीद्वचः । पूर्वजन्मन्यहं विप्रो धनधान्यसमन्वितः । पुत्रपौत्रादिभिर्युक्तः कुटुम्बभरणोत्सुकः ॥ १,३१.२१ ॥ न पूजिता मया देवा गावोऽप्यतिथयस्तथा । न कदाचित्कृतं पुण्यमल्पं वा स्वल्पमेव वा ॥ १,३१.२२ ॥ एकदा भगवान् देवो गोवृषेश्वरवाहनः । विश्वेश्वरो वाराणस्यां दृष्टः स्पृष्टे नमस्कृतः ॥ १,३१.२३ ॥ तदाचिरेण कालेन पञ्चत्वमहमागतः । न दृष्टं नन्मया घोरं यमस्य वदनं मुने ॥ १,३१.२४ ॥ ईदृशीं योनिमापन्नः पैशाचीं क्षुधयान्वितः । पिपासयाधुनाक्रान्तो न जानामि हिताहितम् ॥ १,३१.२५ ॥ यदि कञ्चित्समुद्धर्तुमुपायं पश्यसि प्रभो । कुरुष्व तं नमस्तुभ्यं त्वामहं शरणं गतः ॥ १,३१.२६ ॥ इत्युक्तः शङ्कुकर्णोऽथ पिशाचमिदमब्रवीत् । त्वादृशो न हि लोकेऽस्मिन् विद्यते पुण्यकृत्तमः ॥ १,३१.२७ ॥ यत्त्वया भगवान् पूर्वं दृष्टो विश्वेश्वरः शिवः । संस्पृष्टो वन्दितो भूयः कोऽन्यस्त्वत्सदृशो भुवि ॥ १,३१.२८ ॥ तेन कर्मविपाकेन देशमेतं समागतः । स्नानं कुरुष्व शीघ्रं त्वमस्मिन् कुण्डे समाहितः । येनेमां कुत्सितां योनिं क्षिप्रमेव प्रहास्यसि ॥ १,३१.२९ ॥ स एवमुक्तो मुनिना पिशाचो दयालुना देववरं त्रिनेत्रम् । स्मृत्वा कपर्देश्वरमीशितारं चक्रे समाधाय मनोऽवगाहम् ॥ १,३१.३० ॥ तदावगाढो मुनिसंनिधाने ममार दिव्याभरणोपपन्नः । अदृश्यतार्कप्रतिमे विमाने शशाङ्कचिह्नाङ्कितचारुमौलिः ॥ १,३१.३१ ॥ विभाति रुद्रैरभितो दिवस्थैः समावृतो योगिभैरप्रमेयैः । सबालखिल्यादिभिरेष देवो यथोदये भानुरशेषदेवः ॥ १,३१.३२ ॥ स्तुवन्ति सिद्धा दिवि देवसङ्घा नृत्यन्ति दिव्याप्सरसोऽभिरामाः । मुञ्चन्ति वृष्टिं कुसुमाम्बुमिश्रां गन्धर्वविद्याधरकिंनराद्याः ॥ १,३१.३३ ॥ संस्तूयमानोऽथ मुनीन्द्रसङ्घै रवाप्य बोधं भगवात्प्रसादात् । समाविशन्मण्डलमेतदग्र्यं त्रयीमयं यत्र विभाति रुद्रः ॥ १,३१.३४ ॥ दृष्ट्वा विमुक्तं स पिशाचभूतं मुनिः प्रहृष्टो मनसा महेशम् । विचिन्त्य रुद्रं कविमेकमग्निं प्रणम्य तुष्टाव कपर्दिनं तम् ॥ १,३१.३५ ॥ शङ्कुकर्ण उवाच कपर्दिनं त्वां परतः परस्ताद् गोप्तारमेकं पुरुषं पुराणम् । व्रजामि योगेश्वरमीशितार मादित्यमग्निं कपिलाधिरूढम् ॥ १,३१.३६ ॥ त्वां ब्रह्मपारं हृदि सन्निविष्टं हिरण्मयं योगिनमादिमन्तम् । व्रजामि रुद्रं शरणं दिवस्थं महामुनिं ब्रह्ममयं पवित्रम् ॥ १,३१.३७ ॥ सहस्त्रपादाक्षिशिरोऽभियुक्तं सहस्त्रबाहुं नमसः परस्तात् । त्वां ब्रहामपारं प्रणमामि शंभुं हिरण्यगर्भाधिपतिं त्रिनेत्रम् ॥ १,३१.३८ ॥ यतः प्रसूतिर्जगतो विनाशो येनावृतं सर्वमिदं शिवेन । तं ब्रह्मपारं भगवन्तमीशं प्रणम्य नित्यं शरणं प्रपद्ये ॥ १,३१.३९ ॥ अलिङ्गमालोकविहीनरूपं स्वयंप्रभं चित्पतिमेकरुद्रम् । तं ब्रह्मपारं परमेश्वरं त्वां नमस्करिष्ये न यतोऽन्यदस्ति ॥ १,३१.४० ॥ यं योगिनस्त्यक्तसबीजयोगा लब्ध्वा समाधिं परमार्थभूताः । पश्यन्ति देवं प्रणतोऽस्मि नित्यं तं ब्रह्मपारं भवतः स्वरूपम् ॥ १,३१.४१ ॥ न यत्र नामादिविशेषकॢप्ति र् न संदृशे तिष्ठति यत्स्वरूपम् । तं ब्रह्मपारं प्रणतोऽस्मि नित्यं स्वयंभुवं त्वां शरणं प्रपद्ये ॥ १,३१.४२ ॥ यद्वेदवादाभिरता विदेहं सब्रह्मविज्ञानमभेदमेकम् । पश्यन्त्यनेकं भवतः स्वरूपं सब्रह्मपारं प्रणतोऽस्मि नित्यम् ॥ १,३१.४३ ॥ यतः प्रधानं पुरुषः पुराणो विवर्तते यं प्रणमन्ति देवाः । नमामि तं ज्योतिषि संनिविष्टं कालं बृहन्तं भवतः स्वरूपम् ॥ १,३१.४४ ॥ व्रजामि नित्यं शरणं गुहेशं स्थाणुं प्रपद्ये गिरिशं पुरारिम् । शिवं प्रपद्ये हरमिन्दुमौलिं पिनाकिनं त्वां शरणं व्रजामि ॥ १,३१.४५ ॥ स्तुत्वैवं शङ्कुकर्णोऽसौ भगवन्तं कपर्दिनम् । पपात दण्डवद्भूमौ प्रोच्चरन् प्रणवं परम् ॥ १,३१.४६ ॥ तत्क्षणात्परमं लिङ्गं प्रादुर्भूतं शिवात्मकम् । ज्ञानमानन्दमद्वैतं कोटिकालाग्निसन्निभम् ॥ १,३१.४७ ॥ शङ्कुकर्णोऽथ मुक्तात्मा तदात्मा सर्वगोऽमलः । निलिल्ये विमले लिङ्गे तद्भुतमिवाभवत् ॥ १,३१.४८ ॥ एतद्रहस्यमाख्यातं माहात्म्यं वः कपर्दिनः । न कश्चिद्वेत्ति तमसा विद्वानप्यत्र मुह्यति ॥ १,३१.४९ ॥ य इमां शृणुयान्नित्यं कथां पापप्रणाशिनीम् । भक्तः पापविशुद्धात्मा रुद्रसामीप्यमाप्नुयात् ॥ १,३१.५० ॥ पठेच्च सततं शुद्धो ब्रह्मपारं महास्तवम् । प्रातर्मध्याह्नसमये स योगं प्राप्नुयात्परम् ॥ १,३१.५१ ॥ इहैव नित्यं वत्स्यामो देवदेवं कपर्दिनम् । द्रक्ष्यामः सततं देवं पूजयामोऽथ शूलिनम् ॥ १,३१.५२ ॥ इत्युक्त्वा भगवान् व्यासः शिष्यैः सह महामुनिः । उवास तत्र युक्तात्मा पूजयन् वै कपर्दिनम् ॥ १,३१.५३ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे एकत्रिशोध्यायः _____________________________________________________________ सूत उवाच उषित्वा तत्र भगवान् कपर्देशान्तिके पुनः । द्रष्टुं ययौ मध्यमेशं बहुवर्षगणान् प्रभुः ॥ १,३२.१ ॥ तत्र मन्दाकिनीं पुण्यामृषिसङ्गनिषेविताम् । नदीं विमलपानीयां दृष्ट्वा हृष्टोऽभवन्मुनिः ॥ १,३२.२ ॥ स तामन्वीक्ष्य मुनिभिः सह द्वैपायनः प्रभुः । चकार भावपूतात्मा स्नानं स्नानविधानवित् ॥ १,३२.३ ॥ संतर्प्य विधिवद्देवानृषीन् पितृगणांस्तथा । पूजयामास लोकादिं पुष्पैर्नानाविधैर्भवम् ॥ १,३२.४ ॥ प्रविश्य शिष्यप्रवरैः सार्धं सत्यवतीसुतः । मध्यमेश्वरमीशानमर्चयामास शूलिनम् ॥ १,३२.५ ॥ ततः पाशुपताः शान्ता भस्मोद्धूलितविग्रहाः । द्रष्टुं समागता रुद्रं मध्यमेश्वरमीश्वरम् ॥ १,३२.६ ॥ ओङ्कारासक्तमनसो वेदाध्ययनतत्पराः । जटिला मुण्डिताश्चापि शुक्लयज्ञोपवीतिनः ॥ १,३२.७ ॥ कौपीनवसनाः केचिदपरे चाप्यवाससः । ब्रह्मचर्यरताः शान्ता वेदान्तज्ञानतत्पराः ॥ १,३२.८ ॥ दृष्ट्वा द्वैपायनं विप्राः शिष्यैः परिवृतं मुनिम् । पूजयित्वा यथान्यायमिदं वचनमब्रुवन् ॥ १,३२.९ ॥ को भवान् कुत आयातः सह शिष्यैर्महामुने । प्रोचुः पैलादयः शिष्यास्तानृषीन् ब्रह्मभावितान् ॥ १,३२.१० ॥ अयं सत्यवतीसूनुः कृष्णद्वैपायनो मुनिः । व्यासः स्वयं हृषीकेशो येन वेदाः पृथक्कृताः ॥ १,३२.११ ॥ यस्य देवो महादेवः साक्षादेव पिनाकधृक् । अंशांशेनाभवत्पुत्रो नाम्ना शुक इति प्रभुः ॥ १,३२.१२ ॥ यः स साक्षान्महादेवं सर्वभावेन शङ्करम् । प्रपन्नः परया भक्त्या यस्य तज्ज्ञानमैश्वरम् ॥ १,३२.१३ ॥ ततः पाशुपताः सर्वे हृष्टसर्वतनूरुहाः । नेमुरव्यग्रमनसः प्रोचुः सत्यवतीसुतम् ॥ १,३२.१४ ॥ भगवन् भवता ज्ञातं विज्ञानं परमेष्ठिनः । प्रिसादाद्देवदेवस्य यत्तन्माहेश्वरं परम् ॥ १,३२.१५ ॥ तद्वदास्माकमव्यक्तं रहस्यं गुह्यमुत्तमम् । क्षिप्रं पश्येम तं देवं श्रुत्वा भगवतो मुखात् ॥ १,३२.१६ ॥ विसर्जयित्वा ताञ्छिष्यान् सुमन्तुप्रमुखांस्ततः । प्रोवाच तत्परं ज्ञानं योगिभ्यो योगवित्तमः ॥ १,३२.१७ ॥ तत्क्षणादेव विमलं संभूतं ज्योतिरुत्तमम् । लीनास्तत्रैव ते विप्राः क्षणादन्तरधीयत ॥ १,३२.१८ ॥ ततः शिष्यान् समाहूय भगवान् ब्रह्मवित्तमः । प्रोवाच मध्यमेशस्य माहात्म्यं पैलपूर्वकान् ॥ १,३२.१९ ॥ अस्मिन् स्थाने स्वयं देवो देव्या सह महेश्वरः । रमते भगवान्नित्यं रुद्रैश्च परिवारितः ॥ १,३२.२० ॥ अत्र पूर्वं हृषीकेशो विश्वात्मा देवकीसुतः । उवास वत्सरं कृष्णः सदा पाशुपतैर्वृतः ॥ १,३२.२१ ॥ भस्मोद्धूलितसर्वाङ्गो रुद्राध्ययनतत्परः । आराधयन् हरिः शंभुं कृत्वा पाशुपतं व्रतम् ॥ १,३२.२२ ॥ तस्य ते बहवः शिष्या ब्रह्मचर्यपरायणाः । लब्ध्वा तद्वचनाज्ज्ञानं दृष्टवन्तो महेश्वरम् ॥ १,३२.२३ ॥ तस्य देवो महादेवः प्रत्यक्षं नीललोहितः । ददौ कृष्णास्य भगवान वरदो वरमुत्तमम् ॥ १,३२.२४ ॥ येर्ऽचयिष्यन्ति गोविन्दं मद्भक्ता विधिपूर्वकम् । तेषां तदैश्वरं ज्ञानमुत्पत्स्यति जगन्मय ॥ १,३२.२५ ॥ नमस्योर्ऽचयितव्यश्च ध्यातव्यो मत्परैर्जनैः । भविष्यसि न संदेहो मत्प्रसादाद्द्विजातिभिः ॥ १,३२.२६ ॥ येऽत्र द्रक्ष्यन्ति देवेशं स्नात्वा रुद्रं पिनाकिनम् । ब्रह्महत्यादिकं पापं तेषामाशु विनश्यति ॥ १,३२.२७ ॥ प्राणांस्त्यजन्ति ये मर्त्याः पापकर्मरता अपि । ते यान्ति तत्परं स्थानं नात्र कार्या विचारणा ॥ १,३२.२८ ॥ धन्यास्तु खलु ते विप्रा मन्दाकिन्यां कृतोदकाः । अर्चयन्ति महादेवं मध्यमेश्वरमीश्वरम् ॥ १,३२.२९ ॥ स्नानं दानं तपः श्राद्धं पिण्डनिर्वपणं त्विह । एकैकशः कृतं विप्राः पुनात्यासप्तमं कुलम् ॥ १,३२.३० ॥ संनिहत्यामुपस्पृश्य राहुग्रस्ते दिवाकरे । यत्फलं लभते मर्त्यस्तस्माद्दशगुणं त्विह ॥ १,३२.३१ ॥ एवमुक्त्वा महायोगी मध्यमेशान्ति के प्रभुः । उवास सुचिरं कालं पूजयन् वै महेश्वरम् ॥ १,३२.३२ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे द्वात्रिंशोऽध्यायः _____________________________________________________________ सूत उवाच ततः सर्वाणि गुह्यानि तीर्थान्यायतनानि च । जगाम भगवान् व्यासो जैमिनिप्रमुखैर्वृतः ॥ १,३३.१ ॥ प्रयागं परमं तीर्थं प्रयागादधिकं शुभम् । विश्वरूपं तथा तीर्थं तालतीर्थमनुत्तमम् ॥ १,३३.२ ॥ आकाशाख्यं महातीर्थं तीर्थं चैवार्षभं परम् । स्वर्नोलं च महातीर्थं गौरीतीर्थमनुत्तमम् ॥ १,३३.३ ॥ प्राजापत्यं तथा तीर्थं स्वर्गद्वारं तथैव च । जम्बुकेश्वरमित्युक्तं धर्माख्यं तीर्थमुत्तमम् ॥ १,३३.४ ॥ गयातीर्थं महातीर्थं तीर्थं चैव महानदी । नारायणं परं तीर्थं वायुतीर्थमनुत्तमम् ॥ १,३३.५ ॥ ज्ञानतीर्थं परं गुह्यं वाराहं तीर्थमुत्तमम् । यमतीर्थं महापुण्यं तीर्थं संवर्तकं शुभम् ॥ १,३३.६ ॥ अग्नितीर्थं द्विजश्रेष्ठाः कलशेश्वरमुत्तमम् । नागतीर्थं सोमतीर्थं सूर्यतीर्थं तथैव च ॥ १,३३.७ ॥ पर्वताख्यं महागुह्यं मणिकर्णमनुत्तमम् । घटोत्कचं तीर्थवरं श्रीतीर्थं च पितामहम् ॥ १,३३.८ ॥ गङ्गातीर्थं तु देवेशं ययातेस्तीर्थमुत्तमम् । कापिलं चैव सोमेशं ब्रह्मतीर्थमनुत्तमम् ॥ १,३३.९ ॥ अत्र लिङ्गं पुरानीय ब्रह्मा स्नातुं यदा गतः । तदानीं स्थापयामास विष्णुस्तल्लिङ्गमैश्वरम् ॥ १,३३.१० ॥ ततः स्नात्वा समागत्य ब्रह्मा प्रोवाच तं हरिम् । मयानीतमिदं लिङ्गं कस्मात्स्थापितवानसि ॥ १,३३.११ ॥ तमाह विष्णुस्त्वत्तोऽपि रुद्रे भक्तिर्दृढा मम । तस्मात्प्रतिष्ठितं लिङ्गंनाम्ना तव भविष्यति ॥ १,३३.१२ ॥ भूतेश्वरं तथा तीर्थं तीर्थं धर्मसमुद्भवम् । गन्धर्वतीर्थं परमं वाह्नेयं तीर्थमुत्तमम् ॥ १,३३.१३ ॥ दौर्वासिकं व्योमतीर्थं चन्द्रतीर्थं द्विजोत्तमाः । चित्राङ्गदेश्वरं पुण्यं पुण्यं विद्याधरेश्वरम् ॥ १,३३.१४ ॥ केदारतीर्थमुग्राख्यं कालञ्जरमनुत्तमम् । सारस्वतं प्रभासं च भद्रकर्णं ह्रदं शुभम् ॥ १,३३.१५ ॥ लौकिकाख्यं महातीर्थं तीर्थं चैव वृषध्वजम् । हिरण्यगर्भं गोप्रेक्ष्यं तीर्थं चैव वृषध्वजम् ॥ १,३३.१६ ॥ उपशान्तं शिवं चैव व्याघ्रेश्वरमनुत्तमम् । त्रिलोचनं महातीर्थं लोलार्कं चोत्तराह्वयम् ॥ १,३३.१७ ॥ कपालमोचनं तीर्थं ब्रह्महत्याविनाशनम् । शुक्रेश्वरं महापुण्यमानन्दपुरमुत्तमम् ॥ १,३३.१८ ॥ एवमादीनि तीर्थानि प्राधान्यात्कथितानि तु । न शक्यं विस्तराद्वक्तुं तीर्थसंख्या द्विजात्तमाः ॥ १,३३.१९ ॥ तेषु सर्वेषु तीर्थेषु स्नात्वाभ्यर्च्य पिनाकिनम् । उपोष्य तत्र तत्रासौ पाराशर्यो महामुनिः ॥ १,३३.२० ॥ तर्पयित्वा पितॄन् देवान् कृत्वा पिण्डप्रिदानकम् । जगाम पुनरेवापि यत्र विश्वेश्वरः शिवः ॥ १,३३.२१ ॥ स्नात्वाभ्यर्च्य परं लिङ्गं शिष्यैः सह महामुनिः । उवाच शिष्यान् धर्मात्मा स्वान् देशान् गन्तुमर्हथा ॥ १,३३.२२ ॥ ते प्रणम्य महात्मानं जग्मुः पैलादयो द्विजाः । वासं च तत्र नियतो वाराणस्यां चकार सः ॥ १,३३.२३ ॥ शान्तो दान्तस्त्रिषवणंस्नात्वाभ्यर्च्य पिनाकिनम् । भैक्षाहारो विशुद्धात्मा ब्रह्मचर्यपरायणः ॥ १,३३.२४ ॥ कदाचिद्वसता तत्र व्यासेनामिततेजसा । भ्रममाणेन भिक्षा तु नैव लब्धा द्विजोत्तमाः ॥ १,३३.२५ ॥ ततः क्रोधावृततनुर्नराणामिह वासिनाम् । विघ्नं सृजामि सर्वेषां येन सिद्धिर्विहीयते ॥ १,३३.२६ ॥ तत्क्षणे सा महादेवी शङ्करार्धशरीरिणी । प्रादुरासीत्स्वयं प्रीत्या वेषं कृत्वा तु मानुषम् ॥ १,३३.२७ ॥ भो भो व्यास महाबुद्धे शप्तव्या भवता न हि । गृहाण भिक्षां मत्तस्त्वमुक्त्वैवं प्रददौ शिवा ॥ १,३३.२८ ॥ उवाच च महादेवी क्रोधनस्त्वं भवान् यतः । इह क्षेत्रे न वस्तव्यं कृतघ्नोऽसि त्वया सदा ॥ १,३३.२९ ॥ एवमुक्तः स भगवान् ध्यानाज्ज्ञात्वा परां शिवाम् । उवाच प्रणतो भूत्वा स्तुत्वा च प्रवरैः स्तवैः ॥ १,३३.३० ॥ चतुर्दश्यामथाष्टम्यां प्रवेशं देहि शाङ्करि । एवमस्त्वित्यनुज्ञाय देवी चान्तरधीयत ॥ १,३३.३१ ॥ एवं स भगवान् व्यासो महायोगी पुरातनः । ज्ञात्वा क्षेत्रगुणान् सर्वान् स्थितस्तस्याथ पार्श्वतः ॥ १,३३.३२ ॥ एवं व्यासं स्थितं ज्ञात्वा क्षेत्रं सेवन्ति पण्डिताः । तस्मात्सर्वप्रयत्नेन वाराणस्यां वसेन्नरः ॥ १,३३.३३ ॥ सूत उवाच यः पठेदविमुक्तस्य माहात्म्यं शृणुयादपि । श्रावयेद्वा द्विजान् शान्तान् सोऽपियातिपराङ्गतिम् ॥ १,३३.३४ ॥ श्राद्धे वा दैविके कार्ये रात्रावहनि वा द्विजाः । नदीनां चैव तीरेषु देवतायतनेषु च ॥ १,३३.३५ ॥ स्नात्वा समाहितमना दम्भमात्सर्यवर्जितः । जपेदीशं नमस्कृत्य स याति परमां गतिम् ॥ १,३३.३६ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे त्रयस्त्रिशोऽध्यायः _____________________________________________________________ ऋषय ऊचुः माहात्म्यमविमुक्तस्य यथावत्तदुदीरितम् । इदानीं तु प्रयागस्य माहात्म्यं ब्रूहि सुव्रत ॥ १,३४.१ ॥ यानि तीर्थानि तत्रैव विश्रुतानि महान्ति वै । इदानीं कथयास्माकं सूत सर्वार्थविद्भवान् ॥ १,३४.२ ॥ सूत उवाच शृणुध्वमृषयः सर्वे विस्तरेण ब्रवीमि वः । प्रयागस्य च माहात्म्यं यत्र देवः पितामहः ॥ १,३४.३ ॥ मार्कण्डेयेन कथितं कौन्तेयाय महात्मने । यथा युधिष्ठिरायैतत्तद्वक्ष्ये भवतामहम् ॥ १,३४.४ ॥ निहत्य कौरवान सर्वान् भ्रातृभिः सह पार्थिवः । शोकेन महाताविष्टा मुमोह स युधिष्ठिरः ॥ १,३४.५ ॥ अचिरेणाथ कालेन मार्कण्डेयो महातपाः । संप्राप्तो हास्तिनपुरं राजद्वारे स तिष्ठति ॥ १,३४.६ ॥ द्वारपालोऽपि तं दृष्ट्वा राज्ञः कथितवान् द्रुतम् । मार्कण्डेयो द्रष्टुमिच्छंस्त्वामास्ते द्वार्यसौ मुनिः ॥ १,३४.७ ॥ त्वरितो धर्मपुत्रस्तु द्वारमेत्याह तत्परम् । स्वागतं ते महाप्राज्ञ स्वागतं ते महामुने ॥ १,३४.८ ॥ अद्य मे सफलं जन्म अद्य मे तारितं कुलम् । अद्य मे पितरस्तुष्टास्त्वयि तुष्टे महामुने ॥ १,३४.९ ॥ सिंहासनमुपस्थाप्य पादशौचार्चनादिभिः । युधिष्ठिरो महात्मेति पूजयामास तं मुनिम् ॥ १,३४.१० ॥ मार्कण्डेयस्ततस्तुष्टः प्रोवाच स युधिष्ठिरम् । किमर्थं मुह्यसे विद्वन् सर्वं ज्ञात्वाहमागतः ॥ १,३४.११ ॥ ततो युधिष्ठिरो राजा प्रणम्याह महामुनिम् । कथय त्वं समासेन येन मुच्येत किल्बिषैः ॥ १,३४.१२ ॥ निहता वहवो युद्धे पुंसो निरपराधिनः । अस्माभिः कौरवैः सार्धं प्रसङ्गान्मुनिपुङ्गव ॥ १,३४.१३ ॥ येन हिंसासमुद्भूताज्जन्मान्तरकृतादपि । मुच्यते पातकादस्मात्तद्भवान् वक्तुमर्हति ॥ १,३४.१४ ॥ मार्कण्डेय उवाच शृणु राजन्महाभाग यन्मां पृच्छसि भारत् । प्रयागगमनं श्रेष्ठं नराणां पापनाशनम् ॥ १,३४.१५ ॥ तत्र देवो महादेवो रुद्रो विश्वामरेश्वरः । समास्ते भगवान् ब्रह्मा स्वयंभूरपि दैवदैः ॥ १,३४.१६ ॥ युधिष्ठिर उवाच भगवञ्च्छ्रोतुमिच्छामि प्रयागगमने फलम् । मृतानां का गतिस्तत्र स्नातानामपि किं फलम् ॥ १,३४.१७ ॥ ये वसन्ति प्रयागे तु ब्रूहि तेषां तु किं फलम् । भवता विदितं ह्येतत्तन्मे ब्रूहि नमोऽस्तु ते ॥ १,३४.१८ ॥ मार्कण्डेय उवाच कथयिष्यामि ते वत्स या चेष्टा यच्च तत्फलम् । पुरा महर्षिभिः सम्यक्कथ्यमानं मया श्रुतम् ॥ १,३४.१९ ॥ एतत्प्रजापतिक्षेत्रं त्रिषु लोकेषु विश्रुतम् । अत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥ १,३४.२० ॥ तत्र ब्रह्मादयो देवा रक्षां कुर्वन्ति संगताः । बहून्यन्यानि तीर्थानि सर्वपापापहानि तु ॥ १,३४.२१ ॥ कथितुं नेह शक्नोमि बहुवर्षशतैरपि । संक्षेपेण प्रवक्ष्यामि प्रयागस्येह कीर्तनम् ॥ १,३४.२२ ॥ षष्टिर्धनुः सहस्त्राणि यानि रक्षन्ति जाह्नवीम् । यमुनां रक्षति सदा सविता सप्तवाहनः ॥ १,३४.२३ ॥ प्रयागे तु विशेषेण स्वयं वसति वासवः । मण्डलं रक्षति हरिः सर्वदेवैश्च सम्मितम् ॥ १,३४.२४ ॥ न्यग्रोधं रक्षते नित्यं शूलपाणिर्महेश्वरः । स्थानं रक्षन्ति वै देवाः सर्वपापहरं शुभम् ॥ १,३४.२५ ॥ स्वकर्मणावृतो लोको नैव गच्छति तत्पदम् । स्वल्पं स्वल्पतरं पापं यदा तस्य नराधिप । प्रयागं स्मरमाणस्य सर्वमायाति संक्षयम् ॥ १,३४.२६ ॥ दर्शनात्तस्य तीर्थस्य नाम संकीर्तनादपि । मुत्तिकालम्भनाद्वापि नरः पापात्प्रमुच्यते ॥ १,३४.२७ ॥ पञ्च कुण्डानि राजेन्द्र येषां मध्ये तु जाह्नवी । प्रयागं विशतः पुंसः पापं नश्यति तत्क्षणात् ॥ १,३४.२८ ॥ योजनानां सहस्त्रेषु गङ्गां यः स्मरते नरः । अपि दुष्कृतकर्मासौ लभते परमां गतिम् ॥ १,३४.२९ ॥ कीर्तनान्मुच्यते पापाद्दृष्ट्वा भद्राणि पश्यति । तथोपस्पृश्य राजेन्द्र स्वर्गलोके महीयते ॥ १,३४.३० ॥ व्याधितो यदि वा दीनः क्रूद्धो वापि भवेन्नरः । गङ्गायमुनमासाद्य त्यजेत्प्राणान् प्रयत्नतः ॥ १,३४.३१ ॥ दीप्तकाञ्चनवर्णाभैर्विमानैर्भानुवर्णिभिः । ईप्सितांल्लभते कामान् वदन्ति मुनिपुङ्गवाः ॥ १,३४.३२ ॥ सर्वरत्नमयैर्दिव्यैर्नानाध्वजसमाकुलैः । वराङ्गनासमाकीर्णैर्मोदते शुभलक्षणः ॥ १,३४.३३ ॥ गीतवादित्रनिर्घोषैः प्रसुप्तः प्रतिबुध्यते । यावन्न स्मरते जन्म तापत्स्वर्गे महीयते ॥ १,३४.३४ ॥ तस्मात्स्वर्गात्परिभ्रष्टः क्षीणकर्मा नरोत्तम । हिरण्यरत्नसंपूर्णे समृद्धे जायते कुले ॥ १,३४.३५ ॥ तदेव स्मरते तीर्थं स्मरणात्तत्र गच्छति । देशस्थो यदि वारण्ये विदेशे यदि वा गृहे ॥ १,३४.३६ ॥ प्रयागं स्मरमाणस्तु यस्तु प्राणान् परित्यजेत् । ब्रह्मलोकमवाप्नोति वदन्ति मुनिपुङ्गवाः ॥ १,३४.३७ ॥ सर्वकामफला वृक्षा मही यत्र हिरण्मयी । ऋषयो मुनयः सिद्धास्तत्र लोके स गच्छति ॥ १,३४.३८ ॥ स्त्रीसहस्त्राकुले रम्ये मन्दाकिन्यास्तटे शुभे । मोदते मुनिभिः सार्धं स्वकृतेनेह कर्मणा ॥ १,३४.३९ ॥ सिद्धचारणगन्धर्वैः पूज्यते दिवि दैवतैः । ततः स्वर्गात्परिभ्रष्टो जम्बुद्वीपपतिर्भवेत् ॥ १,३४.४० ॥ ततः शुभानि कर्माणि चिन्तयानः पुनः पुनः । गुणवान् वित्तसंपन्नो भवतीह न संशयः । कर्मणा मनसा वाचा सत्यधर्मप्रतिष्ठितः ॥ १,३४.४१ ॥ गङ्गायमुनयोर्मध्ये यस्तु ग्रामं प्रतीच्छति । सुवर्णमथ मुक्तां वा तथैवान्यान् प्रतिग्रहान् ॥ १,३४.४२ ॥ स्वकार्ये पितृकार्ये वा देवताभ्यर्चनेऽपि वा । निष्फलं तस्य तत्तीर्थं यावत्तत्फलमश्नुते ॥ १,३४.४३ ॥ अतस्तीर्थे न गृह्णीयात्पुण्येष्वायतनेषु च । निमित्तेषु च सर्वेषु अप्रमत्तो द्विजो भवेत् ॥ १,३४.४४ ॥ कपिलां पाटलावर्णां यस्तु धेनुं प्रयच्छति । स्वर्णशृङ्गीं रौप्यखुरां चैलकण्ठां पयस्विनीम् ॥ १,३४.४५ ॥ यावद्रोमाणि तस्या वै सन्ति गात्रेषु सत्तम । तावद्वर्षसहस्त्राणि रुद्रलोके महीयते ॥ १,३४.४६ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे चतुस्त्रिशोऽध्यायः _____________________________________________________________ मार्कण्डेय उवाच कथयिष्यामि ते वत्स तीर्थयात्राविधिक्रमम् । आर्षेण तु विधानेन यथा दृष्टं यथा श्रुतम् ॥ १,३५.१ ॥ प्रयागतीर्थयात्रार्थो यः प्रयाति नरः क्वचित् । बलीवर्दं समारूढः शृणु तस्यापि यत्फलम् ॥ १,३५.२ ॥ नरके वसते घोरे समाः कल्पशतायुतम् । ततो निवर्तते घोरो गवां क्रोधो हि दारुणः । सलिलं च न गृह्णन्ति पितरस्तस्य देहिनः ॥ १,३५.३ ॥ यस्तु पुत्रांस्तथा बालान् स्नापयेत्पाययेत्तथा । यथात्मना तथा सर्वान् दानं विप्रेषु दापयेत् ॥ १,३५.४ ॥ ऐश्वर्याल्लोभमोहाद्वा गच्छेद्यानेन यो नरः । निष्फलं तस्य तत्तीर्थं तसमाद्यानं विवर्जयेत् ॥ १,३५.५ ॥ गङ्गायमुनयोर्मध्ये यस्तु कन्यां प्रयच्छति । आर्षेण तु विवाहेन यथा विभवविस्तरम् ॥ १,३५.६ ॥ न स पश्यति तं घोरं नरकं तेन कर्मणा । उत्तरान् स कुरून् गत्वा मोदते कालमक्षयम् ॥ १,३५.७ ॥ वटमूलं समाश्रित्य यस्तु प्राणान् परित्यजेत् । सर्वलोकानतिक्रम्य रुद्रलोकं स गच्छति ॥ १,३५.८ ॥ तत्र ब्रह्मादयो देवा दिशश्च सदिगीश्वराः । लोकपालाश्च सिद्धाश्च पितरो लोकसंमताः ॥ १,३५.९ ॥ सनत्कुमारप्रमुखास्तथा ब्रह्मर्षयोऽपरे । नागाः सुपार्णाः सिद्धाश्च तथा नित्यं समासते । हरिश्च भगवानास्ते प्रजापतिपुरस्कृतः ॥ १,३५.१० ॥ गङ्गायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम् । प्रयागं राजशार्दूल त्रिषु लोकेषु विश्रुतम् ॥ १,३५.११ ॥ तत्राभिषेकं यः कुर्यात्संगमे संशितव्रतः । तुल्यं फलवाप्नोति राजसूयाश्वमेधयोः ॥ १,३५.१२ ॥ न मातृवचनात्तात न लोकवचनादपि । मतिरुत्क्रमणीया ते प्रयागगामनं प्रति ॥ १,३५.१३ ॥ दश तीर्थ सहस्त्राणि षष्टिकोट्यस्तथापरे । तेषां सान्निध्यमत्रैव तीर्थानां कुरुनन्दन ॥ १,३५.१४ ॥ या गतिर्योगयुक्तस्य सत्त्वस्थस्य मनीषिणः । सा गतिस्त्यजतः प्राणान् गङ्गायमुनसंगमे ॥ १,३५.१५ ॥ न ते जीवन्ति लोकेऽस्मिन् यत्र तत्र युधिष्ठिर । ये प्रयागं न संप्राप्तास्त्रिषु लोकेषु विश्रुतम् ॥ १,३५.१६ ॥ एवं दृष्ट्वा तु तत्तीर्थं प्रयागं परमं पदम् । मुच्यते सर्वपापेभ्यः शशाङ्क इव राहुणा ॥ १,३५.१७ ॥ कम्बलाश्वतरौ नागौ यमुनादक्षिणे तटे । तत्र स्नात्वा च पीत्वा च मुच्यते सर्वपातकैः ॥ १,३५.१८ ॥ तत्र गत्वा नरः स्थानं महादेवस्य धीमतः । आत्मानं तारयेत्पूर्वं दशातीतान् दशापरान् ॥ १,३५.१९ ॥ कृत्वाभिषेकं तु नरः सोऽश्वमेधफलं लभेत् । स्वर्गलोकमवाप्नोति यावदाहूतसंप्लवम् ॥ १,३५.२० ॥ पूर्वपार्श्वे तु गङ्गायास्त्रैलोक्यख्यातिमान्नृप । अवचः सर्वसामुद्रः प्रतिष्ठानं च विश्रुतम् ॥ १,३५.२१ ॥ ब्रह्मचारी जितक्रोधस्त्रिरात्रं यदि तिष्ठति । सर्वपापविशुद्धात्मा सोऽश्वमेधफलं लभेत् ॥ १,३५.२२ ॥ उत्तरेण प्रतिष्ठानं भागीरथ्यास्तु सव्यतः । हंसप्रपतनं नाम तीर्थं त्रैलोक्यविश्रुतम् ॥ १,३५.२३ ॥ अश्वमेधफलं तत्र स्मृतमात्रात्तु जायते । यावच्चन्द्रश्च सूर्यश्च तावत्स्वर्गे महीयते ॥ १,३५.२४ ॥ उर्वशीपुलिने रम्ये विपुले हंसपाण्डुरे । परित्यजतियः प्राणान् शृणु तस्यापि यत्फलम् ॥ १,३५.२५ ॥ षष्टिवर्षसहस्त्राणि षष्टिवर्षशतानि च । आस्ते स पितृभिः सार्धं स्वर्गलोके नराधिप ॥ १,३५.२६ ॥ अथं संध्यावटे रम्ये ब्रह्मचारी जितेन्द्रियः । नरः शुचिरुपासीत ब्रह्मलोकमवाप्नुयात् ॥ १,३५.२७ ॥ कोटितीर्थं समाश्रित्य यस्तु प्राणान् परित्यजेत् । कोटिवर्षसहस्त्राणि स्वर्गलोके महीयते ॥ १,३५.२८ ॥ यत्र गङ्गा महाभागा बहुतीर्थतपोवना । सिद्धक्षेत्रं हि तज्ज्ञेयं नात्र कार्या विचारणा ॥ १,३५.२९ ॥ क्षितौ तारयते मर्त्यान्नागांस्तारयतेऽप्यधः । दिवि तारयते देवांस्तेन त्रिपथगा स्मृता ॥ १,३५.३० ॥ यावदस्थीनि गङ्गायां तिष्ठन्ति पुरुषस्य तु । तावद्वर्षसहस्त्राणि स्वर्गलोके महीयते ॥ १,३५.३१ ॥ तीर्थानां परमं तीर्थं नदीनां परमा नदी । मोक्षदा सर्वभूतानां महापातकिनामपि ॥ १,३५.३२ ॥ सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा । गङ्गाद्वारे प्रयागे च गङ्गासागरसंगमे ॥ १,३५.३३ ॥ सर्वेषामे भूतानां पापोपहतचेतसाम् । गतिमन्वेषमाणानां नास्ति गङ्गासमा गतिः ॥ १,३५.३४ ॥ पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम् । माहेश्वरात्परिभ्रष्टा सर्वपापहरा शुभा ॥ १,३५.३५ ॥ कृते युगे तु तीर्थानि त्रेतायां पुष्करं परम् । द्वापरे तु कुरुक्षेत्रं कलौ गङ्गां विशिष्यते ॥ १,३५.३६ ॥ गङ्गामेव निषेवेत प्रयागे तु विशेषतः । नान्यत्कलियुगोद्भूतं मलं हन्तुं सुदुष्कृतम् ॥ १,३५.३७ ॥ अकामो वा सकामो वा गङ्गायां यो विपद्यते । स मृतो जायते स्वर्गे नरकं च न पश्यति ॥ १,३५.३८ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे पञ्चत्रिंशोऽध्यायः _____________________________________________________________ मार्कण्डेय उवाच षष्टिस्तीर्थसहस्त्राणि षष्टिस्तीर्थशतानि च । माघमासे गमिष्यन्ति गङ्गायमुनसंगमम् ॥ १,३६.१ ॥ गवां शतसहस्त्रस्य सम्यग्दत्तस्य यत्फलम् । प्रयागे माघमासे तु त्र्यहं स्नातस्य तत्फलम् ॥ १,३६.२ ॥ गङ्गायमुनयोर्मध्ये कार्षाग्निं यस्तु साधयेत् । अहीनाङ्गोऽप्यरोगश्च पञ्चेन्द्रियसमन्वितः ॥ १,३६.३ ॥ यावन्ति रोमकूपाणि तस्य गात्रेषु मानद । तावद्वर्षसहस्त्राणि स्वर्गलोके महीयते ॥ १,३६.४ ॥ ततः स्वर्गात्परिभ्रष्टो जम्बूद्वीपपतिर्भवेत् । स भुक्त्वा विपुलान् भोगांस्तत्तीर्थं भजते पुनः ॥ १,३६.५ ॥ जलप्रवेशं यः कुर्यात्संगमे लोकविश्रुते । राहुग्रस्तो यथा सोमो विमुक्तः सर्वपातकैः ॥ १,३६.४ ॥ सोमलोकमवाप्नोति सोमेन सह मोदते । षष्टिं वर्षसहस्त्राणि षष्टिं वर्षशतानि च ॥ १,३६.७ ॥ स्वर्गतः शक्रलोकेऽसौ मुनिगन्धर्वसेवितः । ततो भ्रष्टस्तु राजेन्द्र समृद्धे जायते कुले ॥ १,३६.८ ॥ अधः शिरास्त्वयोधारामुर्ध्वपादः पिबेन्नरः । शतं वर्षसहस्त्राणि स्वर्गलोके महीयते ॥ १,३६.९ ॥ तस्माद्भ्रष्टस्तु राजेन्द्र अग्निहोत्री भवेन्नरः । भुक्त्वा तु विपुलान् भोगांस्तत्तीर्थं भजते पुनः ॥ १,३६.१० ॥ यः स्वदेहं विकर्तेद्वा शकुनिभ्यः प्रयच्छति । विहगैरुपभुक्तस्य शृणु तस्यापि यत्फलम् ॥ १,३६.११ ॥ शतं वर्षसहस्त्राणि सोमलोके महीयते । ततस्तस्मात्परिभ्रष्टो राजा भवति धार्मिकः ॥ १,३६.१२ ॥ गुणवान् रूपसंपन्नो विद्वान् सुप्रियवाक्यवान् । भुक्त्वा तु विपुलान् भोगांस्तततीर्थं भजते पुनः ॥ १,३६.१३ ॥ उत्तरे यमुनातीरे प्रयागस्य तु दक्षिणे । ऋणप्रमोचनं नाम तीर्थं तु परमं स्मृतम् ॥ १,३६.१४ ॥ एकरात्रोषितः स्नात्वा ऋणैस्तत्र प्रमुच्यते । सूर्यलोकमवाप्नोति अनृणश्च सदा भवेत् ॥ १,३६.१५ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे षट्त्रिंशोऽध्यायः _____________________________________________________________ मार्कण्डय उवाच तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता । समागता महाभागा यमुना यत्र निम्नगा ॥ १,३७.१ ॥ येनैव निः सृता गङ्गा तेनैव यमुना गता । योजनानां सहस्त्रेषु कीर्तनात्पापनाशनी ॥ १,३७.२ ॥ तत्र स्नात्वा च पीत्वा च यमुनायां युधिष्ठिर । सर्वपापविनिर्मुक्तः पुनात्यासप्तमं कुलम् । प्राणांस्त्यजति यस्तत्र स याति परमां गतिम् ॥ १,३७.३ ॥ अग्नितीर्थमिति ख्यातं यमुनादक्षिण तटे । पश्चिमे धर्मराजस्य तीर्थं त्वनरकं स्मृतम् । तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः ॥ १,३७.४ ॥ कृष्णपक्षे चतुर्दश्यां स्नात्वा संतर्पयेच्छुचिः । धर्मराजं महापापैर्मुच्यते नात्र संशयः ॥ १,३७.५ ॥ दश तीर्थसहस्त्राणि त्रिंशत्कोट्यस्तथापराः । प्रयागे संस्थितानि स्युरेवमाहुर्मनीषिणः ॥ १,३७.६ ॥ तिस्त्रः कोट्योर्ऽधकोटी च तीर्थानां वायुरब्रवीत् । दिवि भूम्यन्तरिक्षे च तत्सर्वं जाह्नवी स्मृता ॥ १,३७.७ ॥ यत्र गङ्गा महाभागा स देशस्तत्तपोवनम् । सिद्धिक्षेत्रं तु तज्ज्ञेयं गङ्गातीरसमाश्रितम् ॥ १,३७.८ ॥ यत्र देवो महादेवो देव्या सह महेश्वरः । आस्ते वटेश्वरो नित्यं तत्तीर्थं तत्तपोवनम् ॥ १,३७.९ ॥ इदं सत्यं द्विजातीनां साधूनामात्मजस्य च । सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य तु ॥ १,३७.१० ॥ इदं धन्यमिदं स्वर्ग्यमिदं मेध्यमिदं सुखम् । इदं पुण्यमिदं रम्यं पावनं धर्म्यमुत्तमम् ॥ १,३७.११ ॥ महर्षोणामिदं गुह्यं सर्वपापप्रमोचनम् । अत्राधीत्य द्विजोऽध्यायं निर्मलत्वमवाप्नुयात् ॥ १,३७.१२ ॥ यश्चेदं शृणुयान्नित्यं तीर्थं पुण्यं सदा शुचिः । जातिस्मरित्वं लभते नाकपृष्ठे च मोदते ॥ १,३७.१३ ॥ प्राप्यन्ते तानितीर्थानि सद्भिः शिष्टानुदर्शिभिः । स्नाहि तीर्थेषु कौरव्य न च वक्रमतिर्भव ॥ १,३७.१४ ॥ एवमुक्त्वा स भगवान्मार्कण्डेयो महामुनिः । तीर्तानि कथयामास पृथिव्यां यानि कानिचित् ॥ १,३७.१५ ॥ भूसमुद्रादिसंस्थानं प्रमाणं ज्योतिषां स्थितम् । पृष्टः प्रोवाच सकलमुक्त्वाथ प्रययो मुनिः ॥ १,३७.१६ ॥ य इदं कल्यमुत्थाय पठतेऽथ शृणोति वा । मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति ॥ १,३७.१७ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पुर्वविभागे सप्तत्रिंशोऽध्यायः _____________________________________________________________ श्रीकूर्म उवाच एवमुक्तास्तु मुनयो नैमिषीया महामतिम् । पप्रच्छुरुत्तरं सूतं पृथिव्यादिविनिर्णयम् ॥ १,३८.१ ॥ ऋषय ऊचुः कथितो भवता सूत सर्गः स्वयंभुवः शुभः । इदानीं श्रोतुमिच्छामस्त्रिलोकस्यास्य मण्डलम् ॥ १,३८.२ ॥ यावन्तः सागरा द्वीपास्तथा वर्षाणि पर्वताः । वनानि सरितः सूर्यग्रहाणां स्थितिरेव च ॥ १,३८.३ ॥ यदाधारमिदं कृत्स्नं येषां पृथ्वी पुरा त्वियम् । नृपाणां तत्समासेन सूत वक्तुमिहार्हसि ॥ १,३८.४ ॥ सूत उवाच वक्ष्ये देवादिदेवाय विष्णवे प्रभविष्णवे । नमस्कृत्वाप्रमेयाय यदुक्तं तेन धीमता ॥ १,३८.५ ॥ स्वायंभुवस्य तु मनोः प्रागुक्तो यः प्रियव्रतः । पुत्रस्तस्याभवन् पुत्राः प्रजापतिसमा दश ॥ १,३८.६ ॥ अग्नीध्रश्चाग्निबाहुश्च वपुष्मान् द्युतिमांस्तथा । मेधा मेधातिथिर्हव्यः सवनः पुत्र एव च ॥ १,३८.७ ॥ ज्योतिष्मान् दशमस्तेषां महाबलपराक्रमः । धार्मिको दाननिरतः सर्वभूतानुकम्पकः ॥ १,३८.८ ॥ मेधाग्निबाहुपुत्रास्तु त्रयो योगपरायणाः । जातिस्मरा महाभागा न राज्ये दधिरे मतिम् ॥ १,३८.९ ॥ प्रियव्रतोऽभ्यषिञ्चद्वै सप्तद्वीपेषु सप्त तान् । जम्बुद्वीपेश्वरं पुत्रमग्नीध्रमकरोन्नृपः ॥ १,३८.१० ॥ प्लक्ष्द्वीपेश्वरश्चैव तेन मेधातिथिः कृतः । शाल्मलेशं वपुष्मन्तं नरेन्द्रमभिषिक्तवान् ॥ १,३८.११ ॥ ज्योतिष्मन्तं कुशद्वीपे राजानं कृतवान् प्रभुः । द्युतिमन्तं च राजानं क्रौञ्चद्वीपे समादिशत् ॥ १,३८.१२ ॥ शाकद्वीपेश्वरं चापि हव्यं चक्रे प्रियव्रतः । पुष्कराधिपतिं चक्रे सवनं च प्रजापतिः ॥ १,३८.१३ ॥ पुष्करे सवनस्यापि महावीतः सुतोऽभवत् । धातिकिश्चैव द्वावेतौ पुत्रौ पुत्रवतां वरौ ॥ १,३८.१४ ॥ महावीतं स्मृतं वर्षं तस्य नाम्ना महात्मनः । नाम्ना तु धातकेश्चापि धातकीखण्डमुच्यते ॥ १,३८.१५ ॥ शाकद्वीपेश्वरस्याथ हव्यस्याप्यभवन् सुताः । जलदश्च कुमारश्च सुकुमारो मणीचकः । कुसुमोत्तरोऽथ मोदाकिः सप्तमः स्यान्महाद्रुमः ॥ १,३८.१६ ॥ जलदं जलदस्याथ वर्षं प्रथममुच्यते । कुमारस्य तु कौमारं तृतीयं सुकुमारकम् ॥ १,३८.१७ ॥ मणीचकं चतुर्थं तु पञ्चमं कुसुमोत्तरम् । मोदाकं षष्ठमित्युक्तं सप्तमं तु महाद्रुमम् ॥ १,३८.१८ ॥ क्रौञ्चद्वीपेश्वरस्यापि सुता द्युतिमतोऽभवन् । कुशलः प्रथमस्तेषां द्वितीयस्तु मनोहरः ॥ १,३८.१९ ॥ उष्णस्तृतीयः संप्रोक्तश्चतुर्थः प्रवरः स्मृतः । अन्धकारो मुनिश्चैव दुन्दुभिश्चैव सप्तमः । तेषां स्वनामभिर्देशाः क्रौञ्चद्वीपाश्रयाः शुभाः ॥ १,३८.२० ॥ ज्योतिष्मतः कुशद्वीपे सप्तैवासन्महौजसः । उद्भेदो वेणुमांश्चैवाश्वरथो लम्बनो धृतिः । षष्ठः प्रभाकारश्चापि सप्तमः कपिलः स्मृतः ॥ १,३८.२१ ॥ स्वनामचिह्नितान् यत्र तथा वर्षाणि सुव्रताः । ज्ञेयानि सप्त तान्येषु द्वीपेष्वेवं न यो मतः ॥ १,३८.२२ ॥ शाल्मलद्वीपनाथस्य सुताश्चासन् वपुष्मतः । श्वेतश्च हरितश्चैव जीमूतो रोहितस्तथा । वैद्युतौ मानसश्चैव सप्तमः सुप्रभो मतः ॥ १,३८.२३ ॥ प्लक्षद्वीपेश्वरस्यापि सप्त मेधातिथेः सुताः । ज्येष्ठः शान्तभयस्तेषां शिशिरश्च सुखोदयः । आनन्दश्च शिवश्चैव क्षेमकश्च ध्रुवस्तथा ॥ १,३८.२४ ॥ प्लक्षद्वीपादिषु ज्ञेयः शाकद्वीपान्तिकेषु वै । वर्णाश्रमविभागेन स्वधर्मो मुक्तये द्विजाः ॥ १,३८.२५ ॥ जम्बुद्वीपेश्वरस्यापि पुत्रास्त्वासन्महाबलाः । अग्नीध्रस्य द्विजश्रेष्ठास्तन्नामानि निबोधत ॥ १,३८.२६ ॥ नाभिः किंपुरुषश्चैव तथा हरिरिलावृतः । रम्यो हिरण्वांश्च कुरुर्भद्राश्वः केतुमाहलकः ॥ १,३८.२७ ॥ जम्बुद्वीपेश्वरो राजा स चाग्नीध्रो महामतिः । विभज्य नवधा तेभ्यो यथान्यायं ददौ पुनः ॥ १,३८.२८ ॥ नाभेस्तु दक्षिणं वर्षं हिमाह्वं प्रददौ पुनः । हेमकूटं ततो वर्षं ददौ किंपुरुषाय तु ॥ १,३८.२९ ॥ तृतीयं नैषधं वर्षं हरये दत्तवान् पिता । इलावृताय प्रददौ मेरुमध्यमिलावृतम् ॥ १,३८.३० ॥ नीलाचलाश्रितं वर्षं रम्याय प्रददौ पिता । श्वेतं यदुत्तरं वर्षं पित्रा दत्तं हिरण्वते ॥ १,३८.३१ ॥ यदुत्तरं शृङ्गवतो वर्षं तत्कुरुवे ददौ । मेरोः पूर्वेण यद्वर्षं भद्राश्वाय न्यवेदयत् । गन्धमादनवर्षं तु केतुमालाय दत्तवान् ॥ १,३८.३२ ॥ वर्षेष्वेतेषु तान् पुत्रानभिषिच्य नराधिपः । संसारकष्टतां ज्ञात्वा तपस्तेपे वनं गतः ॥ १,३८.३३ ॥ हिमाह्वयं तु यस्यैतन्नाभेरासीन्महात्मनः । तस्यर्षभोऽभवत्पुत्रो मरुदेव्यां महाद्युतिः ॥ १,३८.३४ ॥ ऋषभाद्भरतो जज्ञे वीरः पुत्रशताग्रजः । सोऽभिषिच्यर्षभः पुत्रं भरतं पृथिवीपतिः । वानप्रस्थाश्रमं गत्वा तपस्तेपे यथाविधि ॥ १,३८.३५ ॥ तपसा कर्षितोऽत्यर्थं कृशो धमनिसंततः । ज्ञानयोगरतो भूत्वा महापाशुपतोऽभवत् ॥ १,३८.३६ ॥ सुमतिर्भरतस्याभूत्पुत्रः परमधार्मिकः । सुमतेस्तैजसस्तस्मादिन्द्रिद्युम्नो व्यजायत ॥ १,३८.३७ ॥ परमेष्ठी सुतस्तस्मात्प्रतीहारस्तदन्वयः । प्रतिहर्तेति विख्यात उत्पन्नस्तस्य चात्मजः ॥ १,३८.३८ ॥ भवस्तस्मादथोद्गीथः प्रस्तावस्तत्सुतोऽभवत् । पृथुस्ततस्ततो रक्तो रक्तस्यापि गयः सुतः ॥ १,३८.३९ ॥ नरो गयस्य तनयस्तस्य पुत्रो विराडभूत् । तस्य पुत्रो महावीर्यो धीमांस्तस्मादजायत ॥ १,३८.४० ॥ महान्तोऽपि ततश्चाभूद्भौवनस्तत्सुतोऽभवत् । त्वष्टा त्वष्टुश्च विरजो रजस्तस्याप्यभूत्सुतः ॥ १,३८.४१ ॥ शतजिद्रजसस्तस्य जज्ञे पुत्रशतं द्विजाः । तेषां प्रधानो बलवान् विश्वज्योतिरिति स्मृतः ॥ १,३८.४२ ॥ आराध्य देवं ब्रह्माणं क्षेमकं नाम पार्थिवम् । असूत पुत्रं धर्मज्ञं महाबाहुमरिन्दमम् ॥ १,३८.४३ ॥ एते पुरस्ताद्राजानो महासत्त्वा महौजसः । एषां वंशप्रसूतैश्च भुक्तेयं पृथिवी पुरा ॥ १,३८.४४ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे अष्टात्रिंशोऽध्यायः _____________________________________________________________ सूत उवाच अतः परं प्रवक्ष्यामि संक्षेपेण द्विजोत्तमाः । त्रैलोक्यस्यास्य मानं वो न शक्यं विस्तरेण तु ॥ १,३९.१ ॥ भूर्लोकोऽथ भुवर्लोकः स्वर्लोकोऽथ महस्ततः । जनस्तपश्च सत्यं च लोकास्त्वण्डोद्भवा मताः ॥ १,३९.२ ॥ सूर्याचन्द्रमसोर्यावत्किरणैरवभासते । तावद्भूर्लोक आख्यातः पुराणे द्विजपुङ्गवाः ॥ १,३९.३ ॥ यावत्प्रमाणो भूर्लोको विस्तरात्परिमण्डलात् । भुवर्लोकोऽपि तावान्स्यान्मण्डलाद्भास्करस्य तु ॥ १,३९.४ ॥ ऊर्ध्वंयन्मण्डलाद्व्योमध्रुवोयावद्व्यवस्थितः । स्वर्लोकः स समाख्यातस्तत्र वायोस्तु नेमयः ॥ १,३९.५ ॥ आवहः प्रवहश्चैव तथैवानुवहः परः । संवहो विवहश्चाथ तदूर्ध्वं स्यात्परावहः ॥ १,३९.६ ॥ तथा परिवहश्चोर्ध्वं वायोर्वै सप्त नेमयः । भूमेर्योजनलक्षे तु भानोर्वै मण्डलं स्थितम् ॥ १,३९.७ ॥ लक्षे दिवाकरस्यापि मण्डलं शशिनः स्मृतम् । नक्षत्रमण्डलं कृत्स्नं तल्लक्षेण प्रकाशते ॥ १,३९.८ ॥ द्वेलक्षे ह्युत्तरे विप्रा बुधो नक्षत्रमण्डलात् । तावत्प्रमाणभागे तु बुधस्याप्युशनाः स्थितः ॥ १,३९.९ ॥ अङ्गारकोऽपि शुक्रस्य तत्प्रमाणो व्यवस्थितः । लक्षद्वयेन भौमस्य स्थितो देवपुरोहितः ॥ १,३९.१० ॥ सौरिर्द्विलक्षेण गुरोर्ग्रहाणामथ मण्डलम् । सप्तर्षिमण्डलं तस्माल्लक्षमात्रे प्रिकाशते ॥ १,३९.११ ॥ ऋषीणां मण्डलादूर्ध्वं लक्षमात्रे स्थितो ध्रुवः । मेढीभूतः समस्तस्य ज्योतिश्चक्रस्य वै ध्रुवः । तत्र धर्मः स भगवान् विष्णुर्नारायणः स्थितः ॥ १,३९.१२ ॥ नवयोजनसाहस्त्रो विष्कम्भः सवितुः स्मृतः । त्रिगुणस्तस्य विस्तारो मण्डलस्य प्रमाणतः ॥ १,३९.१३ ॥ द्विगुणस्तस्य विस्ताराद्विस्तारः शशिनः स्मृतः । तुल्यस्तयोस्तु स्वर्भानुर्भूत्वाधस्तात्प्रसर्पति ॥ १,३९.१४ ॥ अद्धृत्य पृथिवीच्छायां निर्मितो मण्डलाकृतिः । स्वर्भानोस्तु वृहत्स्थानं तृतीयं यत्तमोमयम् ॥ १,३९.१५ ॥ चन्द्रस्य षोडशो भागो भार्गवस्य विधीयते । भार्गवात्पादहीनस्तु विज्ञेयो वै बृहस्पतिः ॥ १,३९.१६ ॥ बृहस्पतेः पादहीनौ वक्रसौरावुभौ स्मृतौ । विस्तारान्मण्डलाच्चैव पादहीनस्तयोर्बुधः ॥ १,३९.१७ ॥ तारानक्षत्ररूपाणि वपुष्मन्तीह यानि वै । बुधेन तानि तुल्यानि विस्तारान्मण्डलात्तथा ॥ १,३९.१८ ॥ तारानक्षत्ररूपाणि हीनानि तु परस्परात् । शतानि पञ्च चत्वारि त्रीणि द्वे चैव योजने ॥ १,३९.१९ ॥ सर्वावरनिकृष्टानि तारकामण्डलानि तु । योजनान्यर्धमात्राणि तेभ्यो ह्रस्वं न विद्यते ॥ १,३९.२० ॥ उपरिष्टात्त्रयस्तेषां ग्रहा ये दूरसर्पिणः । सौरोऽङ्गिराश्च वक्रश्च ज्ञेया मन्दविचारिणः ॥ १,३९.२१ ॥ तेभ्योऽधस्ताच्च चत्वारः पुनरन्ये महाग्रहाः । सूर्यः सौमो बुधश्चैव भार्गवश्चैव शीघ्रगाः ॥ १,३९.२२ ॥ दक्षिणायनमार्गस्थो यदा चरति रश्मिमान् । तदा सर्वग्रहाणां स सूर्योऽधस्तात्प्रसर्पति ॥ १,३९.२३ ॥ विस्तीर्णं मण्डलं कृत्वा तस्योर्ध्वं चरते शशी । नक्षत्रमण्डलं कृत्स्नं सोमादूर्ध्वं प्रसर्पति ॥ १,३९.२४ ॥ नक्षत्रेभ्यो बुधश्चोर्ध्वं बुधादूर्ध्वं तु भार्गवः । वक्रस्तु भार्गवादूर्ध्वं वक्रादूर्ध्वं बृहस्पतिः ॥ १,३९.२५ ॥ तस्माच्छनैश्चरोऽपुयूर्ध्वं तस्मात्सप्तर्षिमण्डलम् । ऋषीणां चैव सप्तानान्ध्रु वश्चोर्ध्वं व्यवस्थितः ॥ १,३९.२६ ॥ योजनानां सहस्त्राणि भास्करस्य रथो नव । ईषादण्डस्तथैव स्याद्द्विगुणो द्विजसत्तमाः ॥ १,३९.२७ ॥ सार्धकोटिस्तथा सप्त नियुतान्यधिकानि तु । योजनानां तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितम् ॥ १,३९.२८ ॥ त्रिनाभिमति पञ्चारे षष्णेमिन्यक्षयात्मके । संवत्सरमेय कृत्स्नं कालचक्रं प्रतिष्ठितम् ॥ १,३९.२९ ॥ चत्कारिंशत्सहस्त्राणि द्वितीयोऽक्षो विवस्वतः । पञ्चान्यानि तु सार्धानि स्यन्दनस्य द्विजोत्तमाः ॥ १,३९.३० ॥ अक्षप्रमाणमुभयोः प्रमाणं तद्युगार्धयोः । ह्रस्वोऽक्षस्तद्युगार्धेन ध्रुवाधारे रथस्य तु ॥ १,३९.३१ ॥ द्वितीयेऽक्षे तु तच्चक्रं संस्थितं मानसाचले । हयाश्च सप्त छन्दांसि तन्नामानि निबोधत ॥ १,३९.३२ ॥ गायत्री च बृहत्युष्णिक्जगती पङ्क्तिरेव च । अनष्टुप्त्रिष्टुबित्युक्ताश्छन्दांसि हरयो हरेः ॥ १,३९.३३ ॥ मानसोपरि माहेन्द्री प्राच्यां दिशि महापुरी । दक्षिणे न यमस्याथ वरुणस्य तु पश्चिमे ॥ १,३९.३४ ॥ उत्तरेण तु सोमस्य तन्नामानि निबोधत । अमरावती संयमनी सुखा चैव विभा क्रमात् ॥ १,३९.३५ ॥ काष्ठां गतो दक्षिणतः क्षिप्तेषुरिव सर्पति । ज्योतिषां चक्रमादाय देवदेवः प्रजापतिः ॥ १,३९.३६ ॥ दिवसस्य रविर्मध्ये सर्वकालं व्यवस्थितः । सप्तद्वीपेषु विप्रेन्द्रा निशामध्यस्य संमुखम् ॥ १,३९.३७ ॥ उदयास्तमने चैव सर्वकालं तु संमुखे । अशेषासु दिशास्वेव तथैव विदिशासु च ॥ १,३९.३८ ॥ कुलालचक्रपर्यन्तो भ्रमन्नेष यथेश्वरः । करोत्यहस्तथा रात्रिं विमुञ्चन्मेदिनीं द्विजाः ॥ १,३९.३९ ॥ दिवाकरकरैरेतत्पूरितं भुवनत्रयम् । त्रैलोक्यं कथितं सद्भिर्लोकानां मुनिपुङ्गवाः ॥ १,३९.४० ॥ आदित्यमूलमखिलं त्रिलोकं नात्र संशयः । भवत्यस्मात्जगत्कृत्स्नं सदेवासुरमानुषम् ॥ १,३९.४१ ॥ रुद्रेन्द्रोपेन्द्रचन्द्राणां विप्रेन्द्राणां दिवौकसाम् । द्युतिर्द्युतिमतां कृत्स्नं यत्तेजः सार्वलौकिकम् ॥ १,३९.४२ ॥ सर्वात्मा सर्वलोकेशो महादेवः प्रजापतिः । सूर्य एव त्रिलोकस्य मूलं परमदैवतम् ॥ १,३९.४३ ॥ द्वादशान्ये तथादित्या देवास्ते येऽधिकारिणः । निर्वहन्ति पदं तस्य तदंशा विष्णुमूर्तयः ॥ १,३९.४४ ॥ सर्वे नमस्यन्ति सहस्त्रभानुं गन्धर्वदेवोरगकिन्वन्नराद्याः । यजन्ति यज्ञैर्विविधैर्द्विजेन्द्रा श्छन्दोमयं ब्रह्ममयं पुराणम् ॥ १,३९.४५ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितार्या पूर्वविभागे एकोनचत्वारिंशोऽध्यायः _____________________________________________________________ सूत उवाच स रथोऽधिष्ठितो देवैरादित्यैर्वसुभिस्तथा । गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ॥ १,४०.१ ॥ धातार्ऽयमाथ मित्रश्च वरुणः शक्र एव च । विवस्वानथ पूषा च पर्जन्यश्चांशुरेव च ॥ १,४०.२ ॥ भगस्त्वष्टा च विष्णुश्च द्वादशैते दिवाकराः । आप्यायन्ति वै भानुं वसन्तादिषु वै क्रमात् ॥ १,४०.३ ॥ पुलस्त्यः पुलहश्चात्रिर्वसिष्ठश्चाङ्गिरा भृगुः । भरद्वाजो गौतमश्च कश्यपः क्रतुरेव च ॥ १,४०.४ ॥ जमदग्निः कौशिकश्च मुनयो ब्रह्मवादिनः । स्तुवन्ति देवं विविधैश्छन्दोभिस्ते यथाक्रमम् ॥ १,४०.५ ॥ रथकृच्च रथौज्श्च रथचित्रः सुबाहुकः । रथस्वनोऽथ वरुणः सुषेणः सेनजित्तथा ॥ १,४०.६ ॥ तार्क्ष्यश्चारिष्टनेमिश्च रथजित्सत्यजित्तथा । ग्रामण्यो देवदेवस्य कुर्वतेऽभीशुसंग्रहम् ॥ १,४०.७ ॥ अथ हेतिः प्रहेतिश्च पौरुषेयो वधस्तथा । सर्पो व्याघ्रस्तथापश्च वातो विद्युद्दिवाकरः ॥ १,४०.८ ॥ ब्रह्मोपेतश्च विप्रेन्द्रा यज्ञोपेतस्तथैव च । राक्षसप्रवरा ह्येते प्रयान्ति पुरतः क्रमात् ॥ १,४०.९ ॥ वासुकिः कङ्कनीरश्च तक्षकः सर्पपुङ्गवः । एलापत्रः शङ्खपालस्तथैरावतसंज्ञितः ॥ १,४०.१० ॥ धनञ्जयो महापद्मस्तथा कर्कोटको द्विजाः । कम्बलाश्वतरश्चैव वहन्त्येनं यथाक्रमम् ॥ १,४०.११ ॥ तुम्बुरुर्नारदो हाहा हूहूर्विश्वावसुस्तथा । उग्रसेनो वसुरुचिरर्वावसुरथापरः ॥ १,४०.१२ ॥ चित्रसेनस्तथोर्णायुर्धृतराष्ट्रो द्विजोत्तमाः । सूर्यवर्चा द्वादशैते गन्धर्वा गायतां वराः । गायन्ति विविधैर्गानैर्भानुं षड्जादिभिः क्रमात् ॥ १,४०.१३ ॥ क्रतुस्थलाप्सरोवर्या तथान्या पुञ्जिकस्थला । मेनका सहजन्या च प्रम्लोचा च द्विजोत्तमाः ॥ १,४०.१४ ॥ अनुम्लोचा घृतीची च विश्वाची चोर्वशी तथा । अन्या च पूर्वचित्तिः स्यादन्या चैव तिलोत्तमा ॥ १,४०.१५ ॥ ताण्डवैर्विविधैरेनं वसन्तादिषु वै क्रमात् । तोषयन्ति महादेवं भानुमात्मानमव्ययम् ॥ १,४०.१६ ॥ एवं देवा वसन्त्यर्के द्वौ द्वौ मासौ क्रमेण तु । सूर्यमाप्याययन्त्येते तेजसा तेजसां निधिम् ॥ १,४०.१७ ॥ ग्रथितैः स्वैर्वचोभिस्तु स्तुवन्ति मुनयो रविम् । गन्धर्वाप्सरसश्चैनं नृत्यगेयैरुपासते ॥ १,४०.१८ ॥ ग्रामणीयक्षभूतानि कुर्वतेऽभीषुसंग्रहम् । सर्पा वहन्ति देवेशं यातुधानाः प्रयान्ति च ॥ १,४०.१९ ॥ बालखिल्या नयन्त्यस्तं परिवार्योदयाद्रविम् । एते तपन्ति वर्षन्ति भान्ति वान्ति सृजन्ति च । भूतानामशुभं कर्म व्यपोहन्तीह कीर्तिताः ॥ १,४०.२० ॥ एते सहैव सूर्येण भ्रमन्ति दिवि सानुगाः । विमाने च स्थितो नित्यं कामगे वातरंहसि ॥ १,४०.२१ ॥ वर्षन्तश्च तपन्तश्च ह्लादयन्तश्च वै प्रजाः । गोपयन्तीह भूतानि सर्वाणीहायुगक्षयात् ॥ १,४०.२२ ॥ एतेषामेव देवानां यथावीर्यं यथातपः । यथायोगं यथासत्त्वं स एष तपति प्रभुः ॥ १,४०.२३ ॥ अहोरात्रव्यवस्थानकारणं स प्रजापतिः । पितृदेवमनुष्यादीन् स सदाप्यायेद्रविः ॥ १,४०.२४ ॥ तत्र देवो महादेवो भास्वान् साक्षान्महेश्वरः । भासते वेदविदुषां नीलग्रीवः सनातनः ॥ १,४०.२५ ॥ स एष देवो भगवान् परमेष्ठी प्रजापतिः । स्थानं तद्विदुरादित्यं वेदज्ञा वेदविग्रहम् ॥ १,४०.२६ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे चत्वारिशोऽध्यायः _____________________________________________________________ सूत उवाच एवमेष महादेवो देवदेवः पितामहः । करोति नियतं कालं कालात्मा ह्यैश्वरी तनुः ॥ १,४१.१ ॥ तस्य ये रश्मयो विप्राः सर्वलोकप्रदीपकाः । तेषां श्रेष्ठाः पुनः सप्त रश्मयो ग्रहयोनयः ॥ १,४१.२ ॥ सुषुम्नो हरिकेशश्च विश्वकर्मा तथैव च । विश्वव्यचाः पुनश्चान्यः संयद्वसुरतः परः ॥ १,४१.३ ॥ अर्वावसुरिति ख्यातः स्वराडन्यः प्रकीर्तितः । सुपुम्नः सूर्यरश्मिस्तु पुष्णाति शिशिरद्युतिम् ॥ १,४१.४ ॥ तिर्यगूर्ध्वप्रचारोऽसौ सुषुम्नः परिपठ्यते । हरिकेशस्तु यः प्रोक्तो रश्मिर्नक्षत्रपोषकः ॥ १,४१.५ ॥ विश्वकर्मा तथा रश्मिर्बुधं पुष्णाति सर्वदा । विश्वव्यचास्तु यो रश्मिः शुक्रं पुष्णाति नित्यदा ॥ १,४१.६ ॥ संयद्वसुरिति ख्यातः स पुष्णाति च लोहितम् । वृहस्पतिं प्रपुष्णाति रश्मिरर्वावसुः प्रभोः । शनैश्चरं प्रपुष्णाति सप्तमस्तु सुराट्तथा ॥ १,४१.७ ॥ एवं सूर्यप्रभावेन सर्वा नक्षत्रतारकाः । वर्धन्ते वर्धिता नित्यं नित्यमाप्याययन्ति च ॥ १,४१.८ ॥ दिव्यानां पार्थिवानां च नैशानां चैव सर्वशः । आदानान्नित्यमादित्यस्तेजसां तमसां प्रभुः ॥ १,४१.९ ॥ आदत्ते स तु नाडीनां सहस्त्रेण समन्ततः । नादेयांश्चैव सामुद्रान् कूप्यांश्चैव सहस्त्रदृक् । स्थावराञ्जङ्गमांश्चैव यच्च कुल्यादिकं पयः ॥ १,४१.१० ॥ तस्य रश्मिसहस्त्रं तच्छीतवर्षोष्णनिस्त्रवम् । तासां चतुः शतं नाड्यो वर्षन्ते चित्रमूर्तयः ॥ १,४१.११ ॥ वन्दनाश्चैव याज्याश्च केतना भूतनास्तथा । अमृता नाम ताः सर्वा रश्मयो वृष्टिसर्जनाः ॥ १,४१.१२ ॥ हिमोद्वाहाश्च ता नाड्यो रश्मयस्त्रिशतं पुनः । रश्म्यो मेष्यश्च पौष्यश्च ह्लादिन्यो हिमसर्जनाः । चन्द्रास्ता नामतः सर्वाः पीताभाः स्युर्गभस्तयः ॥ १,४१.१३ ॥ शुक्राश्च ककुभश्चैव गावो विश्वभृतस्तथा । शुक्रास्ता नामतः सर्वास्त्रिविधा घर्मसर्जनाः ॥ १,४१.१४ ॥ समं बिभर्ति ताभिः स मनुष्यपितृदेवताः । मनुष्यानौषधेनेह स्वधया च पितॄनपि । अमृतेन सुरान् सर्वांस्त्रिभिस्त्ररिंस्तर्पयत्यसौ ॥ १,४१.१५ ॥ वसन्ते ग्रैष्मिके चैव शतैः स तपति त्रिभिः । शरद्यपि च वर्षासु चतुर्भैः संप्रवर्षति । हेमन्ते शिशिरे चैव हिममुत्सृजति त्रिभिः ॥ १,४१.१६ ॥ वरुणो माघमासे तु सूर्यः पूषा तु फल्गुने । चैत्रे मासि भवेदंशो धाता वैशाखतापनः ॥ १,४१.१७ ॥ ज्येष्ठामूले भवेदिन्द्रः आषाढे सविता रविः । विवस्वान् श्रावणे मासि प्रौष्ठपद्यां भगः स्मृतः ॥ १,४१.१८ ॥ पर्जन्योऽश्वयुजि त्वष्टाकार्तिके मासि भास्करः । मार्गशीर्ष भवेन्मित्रः पौषे विष्णुः सनातनः ॥ १,४१.१९ ॥ पञ्चरश्मिसहस्त्राणि वरुणस्यार्ककर्मणि । षड्भिः सहस्त्रैः पूषा तु देवोंशः सप्तभिस्तथा ॥ १,४१.२० ॥ धाताष्टभिः सहस्त्रैस्तु नवभिस्तु शतक्रतुः । विवस्वान् दशभिः पाति पात्येकादशभिर्भगः ॥ १,४१.२१ ॥ सप्तभिस्तपते मित्रस्त्वष्टा चैवाष्टभिस्तपेत् । अर्यमा दशभैः पाति पर्जन्यो नवभिस्तपेत् । षड्भी रश्मिसहस्त्रैस्तु विष्णुस्तपति विश्वसृक् ॥ १,४१.२२ ॥ वसन्ते कपिलः सूर्यो ग्रीष्मे काञ्चनसप्रभः । श्वेतो वर्षासु वर्णेन पाण्डुरः शरदि प्रभुः । हेमन्ते ताम्रवर्णः स्याच्छिशिरे लोहितो रविः ॥ १,४१.२३ ॥ ओषधीषु बलं धत्ते स्वधामपि पितृष्वथ । सूर्योऽमरत्वममृते त्रयं त्रिषु नियच्छति ॥ १,४१.२४ ॥ अन्ये चाष्टौ ग्रहा ज्ञेयाः सूर्येणाधिष्ठिता द्विजाः । चन्द्रमाः सोमपुत्रश्च शुक्रश्चैव बृहस्पतिः । भौमो मन्दस्तथा राहुः केतुमानपि चाष्टमः ॥ १,४१.२५ ॥ सर्वे ध्रुवे निबद्धा वै ग्रहास्ते वातरश्मिभिः । भ्राम्यमाणा यथायोगं भ्रमन्त्यनुदिवाकरम् ॥ १,४१.२६ ॥ अलातचक्रवद्यान्ति वातचक्रेरिता द्विजाः । यस्माद्वहति तान् वायुः प्रवहस्तेन स स्मृतः ॥ १,४१.२७ ॥ रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः । वामदक्षिणतो युक्ता दश तेन निशाकरः ॥ १,४१.२८ ॥ वीथ्याश्रयाणि चरति नक्षत्राणि रविर्यथा । ह्रासवृद्धी च विप्रेन्द्रा ध्रुवाधाराणि सर्वदा ॥ १,४१.२९ ॥ स सोमः शुक्लपक्षे तु भास्करे परतः स्थिते । आपूर्यते परस्यान्तः सततं दिवसक्रमात् ॥ १,४१.३० ॥ क्षीणायितं सुरैः सोममाप्यायति नित्यदा । एकेन रश्मिना विप्राः सुषुम्नाख्येन भास्करः ॥ १,४१.३१ ॥ एषा सूर्यस्य वीर्येण सोमस्याप्यायिता तनुः । पौर्णमास्यां स दृश्येत संपूर्णे दिवसक्रमात् ॥ १,४१.३२ ॥ संपूर्णमर्धमासेन तं सोमममृतात्मकम् । पिबन्ति देवता विप्रा यतस्तेऽमृतभोजनाः ॥ १,४१.३३ ॥ ततः पञ्चदशे भागे किञ्चिच्छिष्टे कलात्मके । अपराह्णे पितृगणा जघन्यं पर्युपासते ॥ १,४१.३४ ॥ पिबन्ति द्विकलं कालं शिष्टा तस्य कला तुया । सुधामृतमयीं पुण्यां तामन्दोरमृतात्मिकाम् ॥ १,४१.३५ ॥ निः सृतं तदमावास्यां गभस्तिभ्यः स्वधामृतम् । मासतृप्तिमपाप्यग्र्यां पितरः सन्ति निर्वृताः ॥ १,४१.३६ ॥ न सोमस्य विनाशः स्यात्सुधा देवैस्तु पीयते । एवं सूर्यनिमित्तस्य क्षयो वृद्धिश्च सत्तमाः ॥ १,४१.३७ ॥ सोमपुत्रस्य चाष्टाभिर्वाजिभिर्वायुवेगिभिः । वारिजैः स्यन्दनो युक्तस्तेनासौ याति सर्वतः ॥ १,४१.३८ ॥ शुक्रस्य भूमिजैरश्वैः स्यन्दनो दशभिर्वृतः । अष्टबिश्चाथ भौमस्य रथो हैमः सुशोभनः ॥ १,४१.३९ ॥ बृहस्पतेरथाष्टाश्वः स्यन्दनो हेमनिर्मितः । रथस्तमोमयोऽष्टाश्वो मन्दस्यायसनिर्मितः । स्वर्भानोर्भास्करारेश्च तथा षड्भिर्हयैर्वृतः ॥ १,४१.४० ॥ एते महाग्रहाणां वै समाख्याता रथा नव । सर्वे ध्रुवे महाभागा निबद्धा वातरश्मिभिः ॥ १,४१.४१ ॥ ग्रहर्क्षताराधिष्ण्यानि ध्रुवे बद्धान्येशेषतः । भ्रमन्ति भ्रामयन्त्येनं सर्वाण्यनिलरश्मिभिः ॥ १,४१.४२ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे एकचत्वारिंशोऽध्यायः _____________________________________________________________ सूत उवाच ध्रुवादूर्ध्वं महर्लोकः कोटियोजनविस्तृतः । कल्पाधिकारिणस्तत्र संस्थिता द्विजपुङ्गवाः ॥ १,४२.१ ॥ जनलोको महर्लोकात्तथा कोटिद्वयातमकः । सनन्दनादयस्तत्र संस्थिता ब्रह्मणः सुताः ॥ १,४२.२ ॥ जलोकात्तपोलोकः कोटित्रयसमन्वितः । वैराजास्तत्र वै देवाः स्थिता दाहविवर्जिताः ॥ १,४२.३ ॥ प्राजापत्यात्सत्यलोकः कोटिषट्केन संयुतः । अपुनर्मारकास्तत्र ब्रह्मलोकस्तु स स्मृतः ॥ १,४२.४ ॥ अत्र लोकगुरुर्ब्रह्मा विश्वात्मा विश्वतोमुखः । आस्ते स योगिभिर्नित्यं पीत्वा योगामृतं परम् ॥ १,४२.५ ॥ विशन्ति यतयः शान्ता नैष्ठिका ब्रह्मचारिणः । योगिनस्तापसाः सिद्धा जापकाः परमेष्ठिनम् ॥ १,४२.६ ॥ द्वारं तद्योगिनामेकं गच्छतां परमं पदम् । तत्र गत्वा न शोचन्ति स विष्णुः स च शङ्करः ॥ १,४२.७ ॥ सूर्यकोटिप्रतीकाशं पुरं तस्य दुरासदम् । न मे वर्णयितुं शक्यं ज्वालामालासमाकुलम् ॥ १,४२.८ ॥ तत्र नारायणस्यापि भवनं ब्रह्मणः पुरे । शेते तत्र हरिः श्रीमान्मायी मायामयः परः ॥ १,४२.९ ॥ स विष्णुलोकः कथितः पुनरावृत्तिवर्जितः । यान्ति तत्र महात्मानो ये प्रपन्ना जनार्दनम् ॥ १,४२.१० ॥ ऊर्ध्वं तद्ब्रह्मसदनात्पुरं ज्योतिर्मयं शुभम् । वह्निना च परिक्षिप्तं तत्रास्ते भगवान् भवः ॥ १,४२.११ ॥ देव्या सह महादेवश्चिन्त्यमानो मनीषिभिः । योगिभिः शतसाहस्त्रैर्भूतै रुद्रैश्च संवृतः ॥ १,४२.१२ ॥ तत्र ते यान्ति नियता द्विजा वै ब्रह्मचारिणः । मदादेवपराः शान्तास्तापसा ब्रह्मवादिनः ॥ १,४२.१३ ॥ निर्ममा निरहङ्काराः कामक्रोधविवर्जिताः । द्रक्ष्यन्ति ब्रह्मणा युक्ता रुद्रलोकः स वै स्मृतः ॥ १,४२.१४ ॥ एते सप्त महालोकाः पृथिव्याः परिकीर्तिताः । महातलादयश्चाधः पातालाः सन्ति वै द्विजाः ॥ १,४२.१५ ॥ महातलं च पातालं सर्वरत्नोपशोभितम् । प्रासादैर्विविधैः शुभ्रैर्देवतायतनैर्युतम् ॥ १,४२.१६ ॥ अनन्तेन च संयुक्तं मुचुकुन्देन धीमता । नृपेण बलिना चैव पातालस्वर्गवासिना ॥ १,४२.१७ ॥ शैलं रसातलं विप्राः शार्करं हि तलातलम् । पीतं सुतलमित्युक्तं नितलं विद्रुमप्रभम् । सितं हि वितलं प्रोक्तं तलं चैव सितेतरम् ॥ १,४२.१८ ॥ सुपर्णेन मुनिश्रेष्ठास्तथा वासुकिना शुभम् । रसातलमिति ख्यातं तथान्यैश्च निषेवितम् ॥ १,४२.१९ ॥ विरोचनहिरण्याक्षतक्षकाद्यैश्च सेवितम् । तलातलमिति ख्यातं सर्वशोभासमन्वितम् ॥ १,४२.२० ॥ वैनतेयादिभिश्चैव कालनेमिपुरोगमैः । पूर्वदेवैः समाकीर्णं सुतलं च तथापरैः ॥ १,४२.२१ ॥ नितलं यवनाद्यैश्च तारकाग्निमुखैस्तथा । महान्तकाद्यैर्नागैश्च प्रह्मादेनासुरेण च ॥ १,४२.२२ ॥ वितलं चैव विख्यातं कम्बलाहीन्द्रसेवितम् । महाजम्भेन वीरेण हयग्रीवेण वै तथा ॥ १,४२.२३ ॥ शङ्कुकर्णेन संभिन्नं तथा नमुचिपूर्वकैः । तथान्यैर्विवधैर्नागैस्तलं चैव सुशोभनम् ॥ १,४२.२४ ॥ तेषामधस्तान्नरका मायाद्याः परिकीर्तिताः । पापिनस्तेषु पच्यन्ते न ते वर्णयितुं क्षमाः ॥ १,४२.२५ ॥ पातालानामधश्चास्ते शेषाख्या वैष्णवी तनुः । कालाग्निरुद्रो योगात्मा नारसिंहोऽपि माधवः ॥ १,४२.२६ ॥ योऽनन्तः पठ्येते देवो नागरूपी जनार्दनः । तदाधारमिदं सर्वं स कालाग्निमपाश्रितः ॥ १,४२.२७ ॥ तमाविश्य महायोगी कालस्तद्वदनोत्थितः । विषज्वालामयोऽन्तेऽसौ जगत्संहरति स्वयम् ॥ १,४२.२८ ॥ सहस्त्रमायोऽप्रतिमः संहर्ता शङ्करोद्भवः । तामसी शांभवी मूर्तिः कालो लोकप्रकालनः ॥ १,४२.२९ ॥ इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे द्विचत्वारिंशोऽध्यायः _____________________________________________________________ सूत उवाच एतद्ब्रह्माण्डमाख्यातं चतुर्दशविधं महत् । अतः परं प्रवक्ष्यामि भूर्लोकस्यास्य निर्णयम् ॥ १,४३.१ ॥ जम्बुद्वीपः प्रधानोऽयं प्लक्षः शाल्मल एव च । कुशः क्रौञ्चश्च शाकश्च पुष्करश्चैव सप्तमः ॥ १,४३.२ ॥ एते सप्त महाद्वीपाः समुद्रैः सप्तभिर्वृताः । द्वीपाद्द्वीपो महानुक्तः सागरादपि सागरः ॥ १,४३.३ ॥ क्षारोदेक्षुरसोदश्च सुरोदश्च घृतोदकः । दध्योदः क्षीरसलिलः स्वादूदश्चेति सागराः ॥ १,४३.४ ॥ पञ्चाशत्कोटिविस्तीर्णा ससमुद्रा धरा स्मृता । द्वीपैश्च सप्तभिर्युक्ता योजनानां समासतः ॥ १,४३.५ ॥ जम्बूद्वीपः समस्तानां द्वीपानां मध्यतः शुभः । तस्य मध्ये महामेरुर्विश्रुतः कनकप्रभः ॥ १,४३.६ ॥ चतुरशीतिसाहस्त्रो योजनैस्तस्य चोच्छ्रयः । प्रविष्टः षोडशाधस्ताद्द्वात्रिंशन्मूर्ध्नि विस्तृतः ॥ १,४३.७ ॥ मूले षोडशसाहस्त्रो विस्तारस्तस्य सर्वतः । भूपद्मास्यास्य शैलोऽसौ कर्णिकात्वेन संस्थितः ॥ १,४३.८ ॥ हिमवान् हेमकूटश्च निषधश्चास्य दक्षिणे । नीलः श्वेतश्च शृङ्गी च उत्तरे वर्षपर्वताः ॥ १,४३.९ ॥ लक्षप्रमाणौ द्वौ मध्ये दशहीनास्तथा परे । सहस्त्रद्वितयोच्छ्रायास्तावद्विस्तारिणश्च ते ॥ १,४३.१० ॥ भारतं दक्षिणं वर्षं ततः किंपुरुषं स्मृतम् । हरिवर्षं तथैवान्यन्मेरोर्दक्षिणतो द्विजाः ॥ १,४३.११ ॥ रम्यकं चोत्तरं वर्षं तस्यैवानुहिरण्मयम् । उत्तराः कुरवश्चैव यथैते भरतास्तथा ॥ १,४३.१२ ॥ नवसाहस्त्रमेकैकमेतेषां द्विजसत्तमाः । इलावृतं च तन्मध्ये तन्मध्ये मेरुरुच्छ्रितः ॥ १,४३.१३ ॥ मेरोश्चतुर्दिशं तत्र नवसाहस्त्रविस्तृतम् । इलावृतं महाभागाश्चात्वारस्तत्र पर्वताः । विष्कम्भा रचिता मेरोर्योजनायुतमुच्छ्रिताः ॥ १,४३.१४ ॥ पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः । विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्मृतः ॥ १,४३.१५ ॥ कदम्बस्तेषु जम्बुश्च पिप्पलो वट एव च । जम्बूद्वीपस्य सा जम्बूर्नामहेतुर्महर्षयः ॥ १,४३.१६ ॥ महागजप्रमाणानि जम्ब्वास्तस्याः फलानि च । पतन्ति भूभृतः पृष्ठे शीर्यमाणानि सर्वतः ॥ १,४३.१७ ॥ रसेन तस्याः प्रख्याता तत्र जम्बूनदीति वै । सरित्प्रवर्तते चापि पीयते तत्र वासिभिः ॥ १,४३.१८ ॥ न स्वेदो न च दौर्गन्ध्यं न जरा नेन्द्रियक्षयः । तत्पानात्सुस्थमनसां नराणां तत्र जायते ॥ १,४३.१९ ॥ तीरमृत्तत्र संप्राप्य वायुना सुविशोषिता । जाम्बूनदाख्यं भवति सुवर्णं सिद्धभूषणम् ॥ १,४३.२० ॥ भद्राश्वः पूर्वतो मेरोः केतुमालश्च पश्चिमे । वर्षे द्वे तु मुनिश्रेष्ठास्तयोर्मध्ये इलावृतम् ॥ १,४३.२१ ॥ वनं चैत्ररथं पूर्वे दक्षिणे गन्धमादनम् । वैभ्राजं पश्चिमे विद्यादुत्तरे सवितुर्वनम् ॥ १,४३.२२ ॥ अरुणोदं महाभद्रमसितोदं च मानसम् । सरांस्येतानि चत्वारि देवयोग्यानि सर्वदा ॥ १,४३.२३ ॥ सितान्तश्च कुमुद्वांश्च कुरुरी माल्यवांस्तथा । वैकङ्को मणिशैलश्च ऋक्षवांश्चाचलोत्तमाः ॥ १,४३.२४ ॥ महानीलोऽथ रुचकः सबिन्दुर्मन्दरस्तथा । वेणुमांश्चैव मेघश्च निषधो देवपर्वतः । इत्येते देवरचिताः सिद्धावासाः प्रकीर्तिताः ॥ १,४३.२५ ॥ अरुणोदस्य सरसः पूर्वतः केसराचलः । त्रिकूटशिखरश्चैव पतङ्गो रुचकस्तथा ॥ १,४३.२६ ॥ निषधो वसुधारश्च कलिङ्गस्त्रिशिखः शुभः । समूलो वसुधारश्च कुरवश्चैव सानुमान् ॥ १,४३.२७ ॥ ताम्रातश्च विशालश्च कुमुदो वेणुर्वतः । एकशृङ्गो महाशैलो गजशैलः पिशाचकः ॥ १,४३.२८ ॥ पञ्चशैलोऽथ कैलासो हिमवांशचाचलोत्तमः । इत्येते देवचरिता उत्कटाः पर्वतोत्तमाः ॥ १,४३.२९ ॥ महाभद्रस्य सरसो दक्षिणे केसराचलः । शिखिवासश्च वैदूर्यः कपिलो गन्धमादनः ॥ १,४३.३० ॥ जारुधिश्च सुगन्धिश्च श्रीशृङ्गश्चाचलोत्तमः । सुपार्श्वश्च सुपक्षश्च कङ्कः कपिल एव च ॥ १,४३.३१ ॥ पिञ्जरो भद्रशैलश्च सुरसश्च महाबलः । अञ्जनो मधुमांस्तद्वत्कुमुदो मुकुटस्तथा ॥ १,४३.३२ ॥ सहस्त्रशिखरश्चैव पाण्डुरः कृष्ण एव च । पारिजातो महाशैलस्तथैव कपिलोदकः ॥ १,४३.३३ ॥ सुषेणः पुण्डरीकश्च महामेघस्तथैव च । एते पर्वतराजानः सिद्धगन्धर्वसेविताः ॥ १,४३.३४ ॥ असितोदस्य सरसः पश्चिमे केसराचलः । शङ्खकूटोऽथ वृषभो हंसो नागस्तथा परः ॥ १,४३.३५ ॥ कालाञ्जनः शुक्रशैलो नीलः कमल एव च । पुष्पकश्च सुमेघश्च वाराहो विरजास्तथा । मयूरः कपिलश्चैव महाकपिल एव च ॥ १,४३.३६ ॥ इत्येते देवगन्धर्वसिद्धसङ्घनिषेविताः । सरसो मानसस्येह उत्तरे केसराचलाः ॥ १,४३.३७ ॥ एतेषां शैलमुख्यानामन्तरेषु यथाक्रमम् । सन्ति चैवान्तरद्रोण्यः सरांसि च वनानि च ॥ १,४३.३८ ॥ वसन्ति तत्र मुनयः सिद्धाश्च ब्रह्मभाविताः । प्रसन्नाः शान्तरजसः सर्वदुः खविवर्जिताः ॥ १,४३.३९ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां सहितायां पूर्वविभागे त्रिचत्वारिशोऽध्यायः _____________________________________________________________ सूत उवाच चतुर्दशसहस्त्रणि योजनानां महापुरी । मेरोरुपरि विख्याता देवदेवस्य वेधसः ॥ १,४४.१ ॥ तत्रास्ते भगवान् ब्रह्मा विश्वात्मा विश्वभावनः । उपास्यमानो योगीन्द्रैर्मुनीन्द्रोपेन्द्रशङ्करैः ॥ १,४४.२ ॥ तत्र देवेश्वरेशानं विश्वात्मानं प्रजापतिम् । सनत्कुमारो भगवानुपास्ते नित्यमेव हि ॥ १,४४.३ ॥ स सिद्धैरृषिगन्धर्वैः पूज्यमानः सुरैरपि । समास्ते योगयुक्तत्मा पीत्वा तत्परमामृतम् ॥ १,४४.४ ॥ तत्र देवादिदेवस्य शंभोरमिततेजसः । दीप्तमायतनं शुभ्रं पुरस्ताद्ब्रह्मणः स्थितम् ॥ १,४४.५ ॥ दिव्यकान्तिसमायुक्तं चतुर्धारं सुशोभनम् । महर्षिगणसंकीर्णं ब्रह्मविद्भिर्निषेवितम् ॥ १,४४.६ ॥ देव्या सह महादेवः शशाङ्कार्काग्निलोचनः । रमते तत्र विश्वेशः प्रमथैः प्रमथेश्वरः ॥ १,४४.७ ॥ तत्र वेदविदः शान्ता मुनयो ब्रह्मचारिणः । पूजयन्ति महादेवं तापसाः सत्यवादिनः ॥ १,४४.८ ॥ तेषां साक्षान्महादेवो मुनीनां ब्रह्मवादिनाम् । गृह्णाति पूजां शिरसा पार्वत्या परमेश्वरः ॥ १,४४.९ ॥ तत्रैव पर्वतवरे शक्रस्य परमा पुरी । नाम्नामरावती पूर्वे सर्वशोभासमन्विता ॥ १,४४.१० ॥ तमिन्द्रमप्सरः सङ्घा गन्धर्वा गीततत्पराः । उपासते सहस्त्राक्षं देवास्तत्र सहस्त्रशः ॥ १,४४.११ ॥ ये धार्मिका वेदविदो यागहोमपरायणाः । तेषां तत्परमं स्थानं देवानामपि दुर्लभम् ॥ १,४४.१२ ॥ तस्य दक्षिणदिग्भागे वह्नेरमिततेजसः । तेजोवती नाम पुरी दिव्याश्चर्यसमन्विता ॥ १,४४.१३ ॥ तत्रास्ते भगवान् वह्निर्भ्राजमानः स्वतेजसा । जपिनां होमिनां स्थानं दानवानां दुरासदम् ॥ १,४४.१४ ॥ दक्षिणे पर्वतवरे यमस्यापि महापुरी । नाम्ना संयमनी दिव्या सिद्धगन्धर्वसेविता ॥ १,४४.१५ ॥ तत्र वैवस्वतं देवं देवाद्याः पर्युपासते । स्थानं तत्सत्यसंधानां लोके पुण्यकृतां नृणाम् ॥ १,४४.१६ ॥ तस्यास्तु पश्चिमे भागे निरृतेस्तु महात्मनः । रक्षोवती नाम पुरी राक्षसैः सर्वतो वृता ॥ १,४४.१७ ॥ तत्र तं निरृतिं देवं राक्षसाः पर्युपासते । गच्छन्ति तां धर्मरता ये वै तामसवृत्तयः ॥ १,४४.१८ ॥ पश्चिमे पर्वतवरे वरुणस्य महापुरी । नाम्ना सुद्धवती पुण्या सर्वकामर्धिसंयुता ॥ १,४४.१९ ॥ तत्राप्सरोगणैः सिद्धैः सेव्यमानोऽमराधिपः । आस्ते स वरुणो राजा तत्र गच्छन्ति येऽम्बुदाः । तीर्थयात्रापरी नित्यं ये च लोकेऽधमर्षिणः ॥ १,४४.२० ॥ तस्या उत्तरदिग्भागे वायोरपि महापुरी । नाम्ना गन्धवती पुण्या तत्रास्तेऽसौ प्रभञ्जनः ॥ १,४४.२१ ॥ अप्सरोगणगन्धर्वैः सेव्यमानोऽमरप्रभुः । प्राणायामपरामर्त्यास्थानन्तद्यान्ति शाश्वतम् ॥ १,४४.२२ ॥ तस्याः पूर्वेण दिग्भागे सोमस्य परमा पुरी । नाम्ना कान्तिमती शुभ्रा तत्र सोमो विराजते ॥ १,४४.२३ ॥ तत्र ये भोगनिरता स्वधर्मं पुर्यपासते । तेषां तद्रचितं स्थानं नानाभोगसमन्वितम् ॥ १,४४.२४ ॥ तस्याश्च पूर्वदिग्भागे शङ्करस्य महापुरी । नाम्ना यशोवती पुण्या सर्वेषां सुदुरासदा ॥ १,४४.२५ ॥ तत्रेशानस्य भवनं रुद्रविष्णुतनोः शुभम् । घमेश्वरस्य विपुलं तत्रास्ते स गणैर्वृतः ॥ १,४४.२६ ॥ तत्र भोगाभिलिप्सूनां भक्तानां परमेष्ठिनः । निवासः कल्पितः पूर्वं देवदेवेन शूलिना ॥ १,४४.२७ ॥ विष्णुपादाद्विनिष्क्रान्ता प्लावयित्वेन्दुमण्डलम् । समन्ताद्ब्रह्मणः पुर्यां गङ्गा पतति वै दिवः ॥ १,४४.२८ ॥ सा तत्र पतिता दिक्षु चतुर्धा ह्यभवद्द्विजाः । सीता चालकनन्दा च सुचक्षुर्भद्रनामिका ॥ १,४४.२९ ॥ पूर्वेण सीता शैलात्तु शैलं यात्यन्तरिक्षतः । ततश्च पूर्ववर्षेण भद्राश्वेनैति चार्णवम् ॥ १,४४.३० ॥ तथैवालकनन्दा च दक्षिणादेत्य भारतम् । प्रयाति सागरं भित्त्वा सप्तभेदा द्विजोत्तमाः ॥ १,४४.३१ ॥ सुचक्षुः पश्चिमगिरीनतीत्य सकलांस्तथा । पश्चिमं केतुमालाख्यं वर्षं गत्वैति चार्णवम् ॥ १,४४.३२ ॥ भद्रा तथोत्तरगिरीनुत्तरांश्च तथा कुरून् । अतीत्य चोत्तराम्भोधिं समभ्येति महर्षयः ॥ १,४४.३३ ॥ आनीलनिषधायामौ माल्यवान् गन्धमादनः । तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्थितः ॥ १,४४.३४ ॥ भारताः केतुमालाश्च भद्राश्वाः कुरवस्तथा । पत्राणि लोकपद्मस्य मर्यादाशैलबाह्यतः ॥ १,४४.३५ ॥ जठरो देवकूटश्च मर्यादापर्वतावुभौ । दक्षिणोत्तरमायामावानीलनिषधायतौ ॥ १,४४.३६ ॥ गन्धमादनकैलासौ पूर्वपश्चायतावुभौ । अशीतियोजनायामावर्णवान्तर्व्यवस्थितौ ॥ १,४४.३७ ॥ निषधः पारियात्रश्च मर्यादापर्वताविमौ । मेरोः पश्चिमदिग्भागे यथापूर्वौ तथा स्थितौ ॥ १,४४.३८ ॥ त्रिशृङ्गो जारुधैस्तद्वदुत्तरे वर्षपर्वतौ । पूर्वपश्चायतावेतौ अर्णवान्तर्व्यवस्थितौ ॥ १,४४.३९ ॥ मर्यादापर्वताः प्रोक्ता अष्टाविह मया द्विजाः । जठराद्याः स्थिता मेरोश्चतुर्दिक्षु महर्षयः ॥ १,४४.४० ॥ इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे चतुश्चत्वारिंशोऽध्यायः _____________________________________________________________ सूत उवाच केतुमाले नराः कालाः सर्वे पनसभोजनाः । स्त्रियश्चोत्पलपत्राभा जीवन्ति च वर्षायुतम् ॥ १,४५.१ ॥ भद्राश्वे पुरुषाः शुक्लाः स्त्रियश्चन्द्रांशुसन्निभाः । दश वर्षसहस्त्राणि जीवन्ते आम्रभोजनाः ॥ १,४५.२ ॥ रम्यके पुरुषा नार्यो रमन्ते रजतप्रभाः । दशवर्षसहस्त्राणि शतानि दश पञ्च च । जीवन्ति चैव सत्त्वस्था न्यग्रोधफलभोजनाः ॥ १,४५.३ ॥ हिरण्मये हिरण्याभाः सर्वे च लकुचाशनाः । एकादशसहस्त्राणि शतानि दश पञ्च च । जीवन्ति पुरुषा नार्यो देवलोकस्थिता इव ॥ १,४५.४ ॥ त्रयोदशसहस्त्राणि शतानि दश पञ्च च । जीवन्ति कुरुवर्षे तु श्यामाङ्गाः क्षीरभोजनाः ॥ १,४५.५ ॥ सर्वे मिथुनजाताश्च नित्यं सुखनिषेविनः । चन्द्रद्वीपे महादेवं यजन्ति सततं शिवम् ॥ १,४५.६ ॥ तथा किंपुरुषे विप्रा मानवा हेमसन्निभाः । दशवर्षहस्त्राणि जीवन्ति प्लक्षभोजनाः ॥ १,४५.७ ॥ यजन्ति सततं देवं चतुर्मूर्ति चतुर्मुखम् । ध्याने मनः समाधाय सादरं भक्तिसंयुताः ॥ १,४५.८ ॥ तथा च हरिवर्षे तु महारजतसन्निभाः । दशवर्षसहस्त्राणि जीवन्तीक्षुरसाशिनः ॥ १,४५.९ ॥ तत्र नारायणं देवं विश्वयोनिं सनातनम् । उपासते सदा विष्णुं मानवा विष्णुभाविताः ॥ १,४५.१० ॥ तत्र चन्द्रप्रभं शुभ्रं शुद्धस्फटिकनिर्मितम् । विमानं वासुदेवस्य पारिजातवनाश्रितम् ॥ १,४५.११ ॥ चतुर्धारमनोपम्यं चतुस्तोरणसंयुतम् । प्राकारैर्दशभिर्युक्तं दुराधर्षं सुदुर्गमम् ॥ १,४५.१२ ॥ स्फाटिकैर्मण्डपैर्युक्तं देवराजगृहोपमम् । स्वर्णस्तम्भसहस्त्रैश्च सर्वतः समलङ्कृतम् ॥ १,४५.१३ ॥ हेमसोपानसंयुक्तं नानारत्नोपशोभितम् । दिव्यसिंहासनोपेतं सर्वशोभासमन्वितम् ॥ १,४५.१४ ॥ सरोभिः स्वादुपानीयैर्नदीभिश्चोपशोभितम् । नारायणपरैः शुद्धैर्वेदाध्ययनतत्परैः ॥ १,४५.१५ ॥ योगिभिश्च समाकीर्णं ध्यायद्भिः पुरुषं हरिम् । स्तुवद्भिः सततं मन्त्रैर्नमस्यद्भिश्च माधवम् ॥ १,४५.१६ ॥ तत्र देवादिदेवस्य विष्णोरमिततेजसः । राजानः सर्वकालं तु महिमानं प्रकुर्वते ॥ १,४५.१७ ॥ गायन्ति चैव नृत्यन्ति विलासिन्यो मनोरमाः । स्त्रियो यौवनशालिन्यः सदा मण्डनतत्पराः ॥ १,४५.१८ ॥ इलावृते पद्मवर्णा जम्बूफलरसाशिनः । त्रयोदश सहस्त्राणि वर्षाणां वै स्थिरायुषः ॥ १,४५.१९ ॥ भारते तु स्त्रियः पुंसो नानावर्णाः प्रकीर्तिताः । नानादेवार्चने युक्ता नानाकर्माणि कुर्वते । परमायुः स्मृतं तेषां शतं वर्षाणि सुव्रताः ॥ १,४५.२० ॥ नानाहाराश्च जीवन्ति पुण्यपापनिमित्ततः । नवयोजनसाहस्त्रं वर्षमेतत्प्रकीर्तितम् । कर्मभूमिरियं विप्रा नराणामधिकारिणाम् ॥ १,४५.२१ ॥ महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः । विन्ध्यश्च पारियात्रश्च सप्तात्र कुलपर्वताः ॥ १,४५.२२ ॥ इन्द्रद्युम्नः कशेरुमांस्ताम्रवर्णो गभस्तिमान् । नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः ॥ १,४५.२३ ॥ अयं तु नवमस्तेषां द्वीपः सागरसंवृतः । योजनानां सहस्त्रं तु द्वीपोऽयं दक्षिणोत्तरः ॥ १,४५.२४ ॥ पूर्वे किरातास्तस्यान्ते पशिचमे यवनास्तथा । ब्राह्मणाः क्षत्रिया वैश्य मध्ये शूद्रास्तथैव च ॥ १,४५.२५ ॥ इज्यायुद्धवणिज्याभिर्वर्तयन्त्यत्र मानवाः । स्त्रवन्ते पावना नद्यः पर्वतेभ्यो विनिः सृताः ॥ १,४५.२६ ॥ शतद्रुश्चन्द्रभागा च सरयूर्यमुना तथा । इरावती वितस्ता च विपाशा देविका कुहूः ॥ १,४५.२७ ॥ गोमती धूतपापा च बाहुदा च दृषद्वती । कौशिकी लोहिता चैव हिमवत्पादनिः सृताः ॥ १,४५.२८ ॥ वेदस्मृतिर्वेदवती व्रतघ्नी त्रिदिवा तथा । पर्णाशा वन्दना चैव सदानीरा मनोरमा ॥ १,४५.२९ ॥ चर्मण्वती तथा दूर्या विदिशा वेत्रवत्यपि । शिग्रुः स्वशिल्पापि तथा पारियात्राश्रयाः स्मृताः ॥ १,४५.३० ॥ नर्मदा सुरसा शोण दशार्णा च महानदी । मन्दाकिनी चित्रकूटा तामसी च पिशाचिका ॥ १,४५.३१ ॥ चित्रोत्पला विपाशा च मञ्जुला वालुवाहिनी । ऋक्षवत्पादजा नद्यः सर्वपापहरा नृणाम् ॥ १,४५.३२ ॥ तापी पयोष्णी निर्विन्ध्या शीघ्रोदा च महानदी । वेण्या वैतरणी चैव बलाका च कुमुद्वती ॥ १,४५.३३ ॥ तोया चैव महागैरी दुर्गा चान्तः शिला तथा । विन्ध्यपादप्रसूतास्ता नद्यः पुण्यजलाः शुभाः ॥ १,४५.३४ ॥ सोदावरी भीमरथी कृष्णा वर्णा च मत्सरी । तुङ्गभ्द्रा सुप्रयोगा कावेरी च द्विजोत्तमाः । दक्षिणापथगा नद्यः सह्यपादविनिः सृताः ॥ १,४५.३५ ॥ ऋतुमाला ताम्रपर्णो पुष्पवत्युत्पलावती । मलयान्निः सृता नद्यः सर्वाः शीतजलाः स्मृताः ॥ १,४५.३६ ॥ ऋषिकुल्या त्रिसामा च मन्दगा मन्दगामिनी । रूपा पालासिनी चैव ऋषिका वंशकारिणी । शुक्तिमत्पादसंजाताः सर्वपापहरा नृणाम् ॥ १,४५.३७ ॥ आसां नद्युपनद्यश्च शतशो द्विजपुङ्गवाः । सर्वपापहराः पुण्याः स्नानदानादिकर्मसु ॥ १,४५.३८ ॥ तास्विमे कुरुपाञ्चाला मध्यदेशादयो जनाः । पूर्वदेशादिकाश्चैव कामरूपनिवासिनः ॥ १,४५.३९ ॥ पुण्ड्राः कलिङ्गामगधा दाक्षिणात्याश्चकृत्स्नशः । तथापरान्ताः सौराष्ट्राः शूद्राभीरास्तथार्ऽबुदाः ॥ १,४५.४० ॥ मालका मालवाश्चैव पारियात्रनिवासिनः । सौवीराः सैन्धवा हूणा शाल्वाः कल्पनिवासिनः ॥ १,४५.४१ ॥ मद्रा रामास्तथाम्बष्ठाः पारसीकास्तथैव च । आसां पिबन्ति सलिलं वसन्ति सरितां सदा ॥ १,४५.४२ ॥ चत्वारि भारते वर्षे युगानि कवयोऽब्रुवन् । कृतं त्रेता द्वापरं च कलिश्चान्यत्र न क्वचित् ॥ १,४५.४३ ॥ यानि किंपुरुषाद्यानि वर्षाण्यष्टौ महर्षयः । न तेषु शोको नायासो नोद्वेगः क्षुद्भयं न च ॥ १,४५.४४ ॥ स्वस्थाः प्रजा निरातङ्काः सर्वदुः खविवर्जिताः । रमन्ति विविधैर्भावैः सर्वाश्च स्थिरयौवनाः ॥ १,४५.४५ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे पञ्चचत्वारिंशोऽध्यायः _____________________________________________________________ सूत उवाच हेमकूटगिरेः शृङ्गे महाकूटैः सुशोभनम् । स्फाटिकं देवदेवस्य विमानं परमेष्ठिनः ॥ १,४६.१ ॥ अथ देवादिदेवस्य भूतेशस्य त्रिशूलिनः । देवाः सिद्धगणा यक्षाः पूजां नित्यं प्रकुर्वते ॥ १,४६.२ ॥ स देवो गिरिशः सार्धं महादेव्या महेश्वरः । भूतैः परिवृतो नित्यं भाति तत्र पिनाकधृक् ॥ १,४६.३ ॥ विभक्तचारुशिखरः कैलासो यत्र पर्वतः । निवासः कोटियक्षाणां कुबेरस्य च धीमतः । तत्रापि देवदेवस्य भवस्यायतनं महत् ॥ १,४६.४ ॥ मन्दाकिनी तत्र दिव्या रम्या सुविमलोदका । नदी नानाविधैः पद्मैरनेकैः समलङ्कृता ॥ १,४६.५ ॥ देवदानवगन्धर्वयक्षराक्षसकिंनरैः । उपस्पृष्टजला नित्यं सुपुण्या सुमनोरमा ॥ १,४६.६ ॥ अन्याश्च नद्यः शतशः स्वर्णपद्मैरलङ्कृताः । तासां कूलेषु देवस्य स्थानानि परमेष्ठिनः । देवर्षिगणजुष्टानि तथा नारायणस्य च ॥ १,४६.७ ॥ सितान्तशिखरे चापि पारिजातवनं शुभम् । तत्र शक्रस्य विपुलं भवनं रत्नमण्डितम् । स्फाटिकस्तम्भसंयुक्तं हेमगोपुरसंयुतम् ॥ १,४६.८ ॥ तत्राथ देवदेवस्य विष्णोर्विश्वामरेशितुः । सुपुण्यं भवनं रम्यं सर्वरत्नोपशोभितम् ॥ १,४६.९ ॥ तत्र नारायणः श्रीमान् लक्ष्म्या सह जगत्पतिः । आस्ते सर्वामरश्रेष्ठः पूज्यमानः सनातनः ॥ १,४६.१० ॥ तथा च वसुधारे तु वसूनां रत्नमण्डितम् । स्थानानामष्टकं पुण्यं दुराधर्षं सुरद्विषाम् ॥ १,४६.११ ॥ रत्नधारे गिरिवरे सप्तर्षोणां महात्मनाम् । सप्ताश्रमाणि पुण्यानि सिद्धावासयुतानि तु ॥ १,४६.१२ ॥ तत्र हैमं चतुर्द्वारं वज्रनीलादिमण्डितम् । सुपुण्यं सुमहत्स्थानं ब्रह्मणोऽव्यक्तजन्मनः ॥ १,४६.१३ ॥ तत्र देवर्षयो विप्राः सिद्धा ब्रह्मर्षयोऽपरे । उपासते सदा देवं पितामहमजं परम् ॥ १,४६.१४ ॥ स तैः संपूजितो नित्यं देव्या सह चतुर्मुखः । आस्ते हिताय लोकानां शान्तानां परमा गतिः ॥ १,४६.१५ ॥ अथैकशृङ्गशिखरे महापद्मैरलङ्कृतम् । स्वच्छामृतजलं पुण्यं सुगन्धं सुमहत्सरः ॥ १,४६.१६ ॥ जैगीषव्याश्रमं तत्र योगीन्द्रैरुपशोभितम् । तत्रासौ भगवान्नित्यमास्ते शिष्यैः समावृतः । प्रशान्तदोषैरक्षुद्रैर्ब्रह्मविद्भिर्महात्मभिः ॥ १,४६.१७ ॥ शङ्खो मनोहरश्चैव कौशिकः कृष्ण एव च । सुमना वेदनादश्च शिष्यास्तस्य प्रधानतः ॥ १,४६.१८ ॥ सर्वे योगरताः शान्ता भस्मोद्धूलितविग्रहाः । उपासते महावीर्या ब्रह्मविद्यापरायणाः ॥ १,४६.१९ ॥ तेषामनुग्रिहार्थाय यतीनां शान्तचेतसाम् । सान्निध्यं कुरुते भूयो देव्या सह महेश्वरः ॥ १,४६.२० ॥ अन्यानिचाश्रमाणि स्युस्तस्मिन् गिरिवरोत्तमे । मुनीनां युक्तमनसां सरांसि सरितस्तथा ॥ १,४६.२१ ॥ तेषु योगरता विप्रा जापकाः संयतेन्द्रियाः । ब्रह्मण्यासक्तमनसो रमन्ते ज्ञानतत्पराः ॥ १,४६.२२ ॥ आत्मन्यात्मानमाधाय शिखान्तान्तरमास्थितम् । धायायन्ति देवमीशानं येन सर्वमिदं ततम् ॥ १,४६.२३ ॥ सुमेघे वासवस्थानं सहस्त्रादित्यसंनिभम् । तत्रास्ते भगवानिन्द्रः शच्या सह सुरेश्वरः ॥ १,४६.२४ ॥ गजशैले तु दुर्गाया भवनं मणितारणम् । आस्ते भगवती दुर्गा तत्र साक्षान्महेश्वरी ॥ १,४६.२५ ॥ उपास्यमाना विविधैः शक्तिभेदैरितस्ततः । पीत्वा योगामृतं लब्ध्वा साक्षादानन्दमैश्वरम् ॥ १,४६.२६ ॥ सुनीलस्य गिरेः शृङ्गे नानाधातुसमुज्ज्वले । राक्षसानां पुराणि स्युः सरांसि शतशो द्विजाः ॥ १,४६.२७ ॥ तथा पुरशतं विप्राः शतशृङ्गे महाचले । स्फाटिकस्तम्भसंयुक्तं यक्षाणाममितौजसाम् ॥ १,४६.२८ ॥ श्वेतोदरगिरेः शृङ्गे सुपर्णस्य महात्मनः । प्राकारगोपुरोपेतं मणितोरणमण्डितम् ॥ १,४६.२९ ॥ स तत्र गरुडः श्रीमान् साक्षाद्विष्णुरिवापरः । ध्यात्वास्ते तत्परं ज्योतिरात्मानं विष्णुमव्ययम् ॥ १,४६.३० ॥ अन्यच्च भवनं पुण्यं श्रीशृङ्गे मुनिपुङ्गवाः । श्रीदेव्याः सर्वरत्नाढ्यं हैमं सुमणितोरणम् ॥ १,४६.३१ ॥ तत्र सा परमा शक्तिर्विष्णोरतिमनोरमा । अनन्तविभवा लक्ष्मीर्जगत्संमोहनोत्सुका ॥ १,४६.३२ ॥ अध्यास्ते देवगन्धर्वसिद्धचारणवन्दिता । विचिन्त्य जगतोयोनिं स्वशक्तिकिरणोज्ज्वला ॥ १,४६.३३ ॥ तत्रैव देवदेवस्य विष्णोरायतनं महत् । सरांसि तत्र चत्वारि विचित्रकमलाश्रया ॥ १,४६.३४ ॥ तथा सहस्त्रशिखरे विद्याधरपुराष्टकम् । रत्नसोपानसंयुक्तं सरोभिश्चोपशोभितम् ॥ १,४६.३५ ॥ नद्यो विमलपानीयाश्चित्रनीलोत्पलाकराः । कर्णिकारवनं द्विव्यं तत्रास्ते शङ्करोमया ॥ १,४६.३६ ॥ पारियात्रे महाशैले महालक्ष्म्याः पुरं शुभम् । रम्यप्रासादसंयुक्तं घण्टाचामरभूषितम् ॥ १,४६.३७ ॥ नृत्यद्भिरप्सरः सङ्घैरितश्चेतश्च शोभितम् । मृदङ्गमुरजोद्घुष्टं वीणावेणुनिनादितम् ॥ १,४६.३८ ॥ गन्धर्वकिंनराकीर्णं संवृतं सिद्धपुङ्गवैः । भास्वद्भित्तिसमाकीर्णं महाप्रासादसंकुलम् ॥ १,४६.३९ ॥ गणेश्वराङ्गनाजुष्टं धार्मिकाणां सुदर्शनम् । तत्र सा वसते देवी नित्यं योगपरायणा ॥ १,४६.४० ॥ महालक्ष्मीर्महादेवी त्रिशूलवरधारिणी । त्रिनेत्रा सर्वशसक्तीभिः संवृता सदसन्मया । पश्यन्ति तत्र मुनयः सिद्धा ये ब्रह्मवादिनः ॥ १,४६.४१ ॥ सुपार्श्वस्योत्तरे भागे सरस्वत्याः पुरोत्तमम् । सरांसि सिद्धजुष्टानि देवभोग्यानि सत्तमाः ॥ १,४६.४२ ॥ पाण्डुरस्य गिरेः शृङ्गे विचित्रद्रुमसंकुले । सन्धर्वाणां पुरशतं दिव्यस्त्रीभिः समावृतम् ॥ १,४६.४३ ॥ तेषु नित्यं मदोत्सिक्ता वरनार्यस्तथैव च । क्रीडन्ति मुदिता नित्यं विलासैर्भोगतत्पराः ॥ १,४६.४४ ॥ अञ्जनस्य गिरेः शृङ्गे नारीणां पुरमुत्तमम् । वसन्ति तत्राप्सरसो रम्भाद्या रतिलालसाः ॥ १,४६.४५ ॥ चित्रसेनादयो यत्र समायान्त्यर्थिनः सदा । सा पुरी सर्वरत्नाढ्या नैकप्रस्त्रवणैर्युता ॥ १,४६.४६ ॥ अनेकानि पुराणि स्युः कौमुदे चापि सुव्रताः । रुद्राणां शान्तरजसामीश्वरार्पितचेतसाम् ॥ १,४६.४७ ॥ तेषु रुद्रा महायोगा महेशान्तरचारिणः । समासते परं ज्योतिरारूढाः स्थानमुत्तमम् ॥ १,४६.४८ ॥ पिञ्जरस्य गिरेः शृङ्गे गणेशानां पुरत्रयम् । नन्दीश्वरस्य कपिले तत्रास्ते सुयशा यतिः ॥ १,४६.४९ ॥ तथा च जारुधैः शृङ्गे देवदेवस्य धीमतः । दीप्तमायतनं पुण्यं भास्करस्यामितौजसः ॥ १,४६.५० ॥ तस्यैवोत्तरदिग्भागे चन्द्रस्थानमनुत्तमम् । रमते तत्र रम्योऽसौ भगवान् शीतदीधितिः ॥ १,४६.५१ ॥ अन्यच्च भवनं दिव्यं हंसशैले महर्षयः । सहस्त्रयोजनायामं सुवर्णमणितोरणम् ॥ १,४६.५२ ॥ तत्रास्ते भगवान् ब्रह्मा सिद्धसङ्घैरभिष्टुतः । सावित्र्या सह विश्वात्मा वासुदेवादिभिर्युतः ॥ १,४६.५३ ॥ तस्य दक्षिणदिग्भागे सिद्धानां पुरमुत्तमम् । सनन्दनादयो यत्र वसन्ति मुनिपुङ्गवाः ॥ १,४६.५४ ॥ पञ्चशैलस्य शिखरे दानवानां पुरत्रयम् । नातिदूरेण तस्याथ दैत्यचार्यस्य धीमतः ॥ १,४६.५५ ॥ सुगन्धशैलशिखरे सरिद्भिरुपशोभितम् । कर्दमस्याश्रमं पुण्यं तत्रास्ते भगवानृषिः ॥ १,४६.५६ ॥ तस्यैव पूर्वदिग्भागे किञ्चिद्वै दक्षिणाश्रिते । सनत्कुमारो भगवांस्तत्रास्ते ब्रह्मवित्तमः ॥ १,४६.५७ ॥ सर्वेष्वेतेषु शैलेषु ततान्येषु मुनीश्वराः । सरांसि विमला नद्यो देवानामालयानि च ॥ १,४६.५८ ॥ सिद्धलिङ्गानि पुण्यानि मुनिभिः स्थापितानि तु । वन्यान्याश्रमवर्याणि संख्यातुं नैव शक्नुयाम् ॥ १,४६.५९ ॥ एष संक्षेपतः प्रोक्तो जम्बूद्वीपस्य विस्तरः । न शक्यं विस्तराद्वक्तुं मया वर्षशतैरपि ॥ १,४६.६० ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे षट्चत्वारिशोऽध्यायः _____________________________________________________________ सूत उवाच जम्बूद्वीपस्य विस्ताराद्द्विगुणेन समन्ततः । संवेष्टयित्वा क्षारोदं प्लक्षद्वीपो व्यवस्थितः ॥ १,४७.१ ॥ प्लक्षद्वीपे च विप्रेन्द्राः सप्तासन् कुलपर्वताः । ऋज्वायताः सुपर्वाणः सिद्धसङ्घनिषेविताः ॥ १,४७.२ ॥ गोमेदः प्रथमस्तेषां द्वितीयश्चन्द्र उच्यते । नारादो दुन्दुभिश्चैव सोमश्च ऋषभस्तथा । वैभ्राजः सप्तमः प्रोक्तो ब्रह्मणोऽत्यन्तवल्लभः ॥ १,४७.३ ॥ तत्र देवर्षिगन्धर्वैः सिद्धैश्च भगवानजः । उपास्यते स विश्वात्मा साक्षी सर्वस्य विश्वसृक् ॥ १,४७.४ ॥ तेषु पुण्या जनपदा नाधयो व्याधयो न च । न तत्र पापकर्तारः पुरुषा वा कथञ्चन ॥ १,४७.५ ॥ तेषां नद्यश्च सप्तैव वर्षाणां तु समुद्रगाः । तासु ब्रह्मर्षयो नित्यं पितामहपुपासते ॥ १,४७.६ ॥ अनुतप्ता शिखी चैव विपापा त्रिदिवा कृता । अमृता सुकृता चैव नामतः परिकीर्तिताः ॥ १,४७.७ ॥ क्षुद्रनद्यस्त्वसंख्याताः सरांसि सुबहून्यपि । न चैतेषु युगावस्था पुरुषा वै चिरायुषः ॥ १,४७.८ ॥ आर्यकाः कुरवाश्चैव विदशा भाविनस्तथा । ब्रह्मक्षत्रियविट्शूद्रास्तस्मिन् द्वीपे प्रकीर्तिताः ॥ १,४७.९ ॥ इज्यते भगवान् सोमो वर्णैस्तत्र निवासिभिः । तेषां च सोमसायुज्यं सारूप्यं मुनिपुङ्गवाः ॥ १,४७.१० ॥ सर्वे धर्मपरा नित्यं नित्यं मुदितमानसाः । पञ्चवर्षसहस्त्राणि जीवन्ति च निरामयाः ॥ १,४७.११ ॥ प्लक्षद्वीपप्रमाणं तु द्विगुणेन समन्ततः । संवेष्ट्येक्षुरसाम्भोधिं शाल्मलिः संव्यवस्थितः ॥ १,४७.१२ ॥ सप्त वर्षाणि तत्रापि सप्तैव कुलपर्वताः । ऋज्वायताः सुपर्वाणः सप्त नद्यश्च सुव्रताः ॥ १,४७.१३ ॥ कुमुदश्चोन्नतश्चैव तृतीयश्च बलाहकः । द्रोणः कङ्कस्तु महिषः ककुद्वान् सप्त पर्वताः ॥ १,४७.१४ ॥ योनी तोया वितृष्णा च चन्द्रा शुक्ला विमोचनी । निवृत्तिश्चैति ता नद्यः स्मृता पापहरा नृणाम् ॥ १,४७.१५ ॥ न तेषु विद्यते लोभः क्रोधो वा द्विजसत्तमाः । न चैवास्ति युगावस्था जना जीवन्त्यनामयाः ॥ १,४७.१६ ॥ यजन्ति सततं तत्र वर्णा वायुं सनातनम् । तेषां तस्याथ सायुज्यं सारूप्यं च सलोकता ॥ १,४७.१७ ॥ कपिला ब्राह्मणाः प्रोक्ता राजानश्चारुणास्तथा । पीता वैश्याः स्मृताः कृष्णा द्वीपेऽस्मिन् वृषला द्विजाः ॥ १,४७.१८ ॥ शाल्मलस्य तु विस्ताराद्द्विगुणेन समन्ततः । संवेष्ट्य तु सुरोदाब्धिं कुशद्वीपो व्यवस्थितः ॥ १,४७.१९ ॥ विद्रुमश्चैव हेमश्च द्युतिमान् पुष्पवांस्तथा । कुशेशयो हरिश्चाथ मन्दरः सप्त पर्वताः ॥ १,४७.२० ॥ धुतपापा शिवा चैव पवित्रा संमता तथा । विद्युदम्भा मही चेति नद्यस्तत्र जलावहाः ॥ १,४७.२१ ॥ अन्याश्च शतशोविप्रा नद्यो मणिजलाः शुभाः । तासु ब्रह्माणमीशानं देवाद्याः पर्युपासते ॥ १,४७.२२ ॥ ब्राह्मणा द्रविणो विप्राः क्षत्रियाः शुष्मिणस्तथा । वैश्याः स्नेहास्तु मन्देहाः शूद्रास्तत्र प्रकीर्तिताः ॥ १,४७.२३ ॥ सर्वे विज्ञानसंपन्ना मैत्रादिगुणसंयुताः । यथोक्तकारिणः सर्वे सर्वे भूतहिते रताः ॥ १,४७.२४ ॥ यजन्ति विविधैर्यज्ञैर्ब्रह्माणं परमेष्ठिनम् । तेषां च ब्रह्मसायुज्यं सारूप्यं च सलोकता ॥ १,४७.२५ ॥ कुशद्वीपस्य विस्ताराद्द्विगुणेन समन्ततः । क्रौञ्चद्वीपस्ततो विप्रा वेष्टयित्वा घृतोदधिम् ॥ १,४७.२६ ॥ क्रौञ्चो वामनकश्चैव तृतीयश्चान्धकारकः । देवावृच्च विविन्दश्च पुण्डरीकस्तथैव च । नाम्ना च सप्तमः प्रोक्तः पर्वतो दुन्दुभिस्वनः ॥ १,४७.२७ ॥ गौरी कुमुद्विती चैव संध्या रात्रिर्मनोजवा । ख्यातिश्च पुण्डरीकाच नद्यः प्राधान्यतः स्मृताः ॥ १,४७.२८ ॥ पुष्कराः पुष्कला धन्यास्तिष्यास्तस्य क्रमेण वै । ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव द्विजोत्तमाः ॥ १,४७.२९ ॥ अर्चयन्ति महादेवं यज्ञदानसमाधिभिः । व्रतोपवासैर्विविधैर्हेमैः स्वाध्यायतर्पणैः ॥ १,४७.३० ॥ तेषां वै रुद्रसायुज्यं सारूप्यं चातिदुर्लभम् । सलोकता च सामीप्यं जायते तत्प्रसादतः ॥ १,४७.३१ ॥ क्रौञ्चद्वीपस्य विस्ताराद्द्विगुणेन समन्ततः । शाकद्वीपः स्थितो विप्रा आवेष्ट्य दधिसागरम् ॥ १,४७.३२ ॥ उदयो रैवतश्चैव श्यामाकोऽस्तगिरिस्तथा । आम्बिकेयस्तथा रम्यः केशरी चेति पर्वताः ॥ १,४७.३३ ॥ सुकुमारी कुमारी च नलिनी रेणुका तथा । इक्षुका धेनुका चैव गभस्तिश्चेति निम्नगाः ॥ १,४७.३४ ॥ आसां पिबन्तः सलिलं जीवन्ते तत्र मानवाः । अनामया ह्यशोकाश्च रागद्वेषविवर्जिताः ॥ १,४७.३५ ॥ मगाश्च मगधाश्चैव मानवा मन्दगास्तथा । ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चात्र क्रमेण तु ॥ १,४७.३६ ॥ यजन्ति सततं देवं सर्वलोकैकसाक्षिणम् । व्रतोपवासैर्विविधैर्देवदेवं दिवाकरम् ॥ १,४७.३७ ॥ तेषां सूर्येण सायुज्यं सामीप्यं च सरूपता । सलोकता च विप्रेन्द्रा जायते तत्प्रसादतः ॥ १,४७.३८ ॥ शाकद्वीपं समावृत्य क्षीरोदः सागरः स्थितः । श्वेतद्वीपश्च तन्मध्ये नारायणपरायणाः ॥ १,४७.३९ ॥ तत्र पुण्या जनपदा नानाश्चर्यसमन्विताः । श्वेतास्तत्र नरा नित्यं जायन्ते विष्णुतत्पराः ॥ १,४७.४० ॥ नाधयो व्याधयस्तत्र जरामृत्युभयं न च । क्रोधलोभविनिर्मुक्ता मायामात्सर्यवर्जिताः ॥ १,४७.४१ ॥ नित्यपुष्टा निरातङ्का नित्यानन्दाश्च भोगिनः । नारायणपराः सर्वे नारायणपरायणाः ॥ १,४७.४२ ॥ केचिद्ध्यानपरा नित्यं योगिनः संयतेन्द्रियाः । केचिज्जपन्ति तप्यन्ति केचिद्विज्ञानिनोऽपरे ॥ १,४७.४३ ॥ अन्ये निर्बोजयोगेन ब्रह्मभावेन भाविताः । ध्यायन्ति तत्परं व्योम वासुदेवं परं पदम् ॥ १,४७.४४ ॥ एकान्तिनो निरालम्बा महाभागवताः परे । पश्यन्ति परमं ब्रह्म विष्णवाख्यं तमसः परं ॥ १,४७.४५ ॥ सर्वे चतुर्भुजाकाराः शङ्खचक्रगदाधराः । सुपीतवाससः सर्वे श्रीवत्साङ्कितवक्षसः ॥ १,४७.४६ ॥ अन्ये महेश्वरपरास्त्रिपुण्ड्राङ्कितमस्तकाः । स्वयोगोद्भूतकिरणा महागरुडवाहनाः ॥ १,४७.४७ ॥ सर्वशक्तिसमायुक्ता नित्यानन्दाश्च निर्मलाः । वसन्ति तत्र पुरुषा विष्णोरन्तरचारिणः ॥ १,४७.४८ ॥ तत्र नारायणस्यान्यद्दुर्गमं दुरतिक्रमम् । नारायणं नाम पुरं व्यासाद्यैरुपशोभितम् ॥ १,४७.४९ ॥ हेमप्राकारसंसुक्तं स्फाटिकैर्मण्डपैर्युतम् । प्रभासहस्त्रकलिलं दुराधर्षं सुशोभनम् । हर्म्यप्राकारसंयुक्तमट्टालकसमाकुलम् ॥ १,४७.५० ॥ हेमगोपुरसाहस्त्रैर्नानारत्नोपशोभितैः । शुभ्रास्तरणसंयुक्तं विचित्रैः समलङ्कृतम् ॥ १,४७.५१ ॥ नन्दनैर्विविधाकारैः स्त्रवन्तीभीश्च शोभितम् । सरोभिः सर्वतो युक्तं वीणावेणुनिनादितम् ॥ १,४७.५२ ॥ पताकाभिर्विचित्राभिरनेकाभिश्च शोभितम् । वीथीभिः सर्वतो युक्तं सोपानै रत्नभूषितैः ॥ १,४७.५३ ॥ नारीशतसहस्त्राढ्यं दिव्यगोयसमन्वितम् । हंसकारण्डवाकीर्णं चक्रवाकोपशोभितम् । चतुर्द्वारमनौपम्यमगम्यं देवविद्विषाम् ॥ १,४७.५४ ॥ तत्र तत्राप्सरः सङ्धैर्नृत्यद्भिरुपशोभितम् । नानागीतविधानज्ञैर्देवानामपि दुर्लभैः ॥ १,४७.५५ ॥ नानाविलाससंपन्नैः कामुकैरतिकोमलैः । प्रभूतचन्द्रवदनैर्नूपुरारावसंयुतैः ॥ १,४७.५६ ॥ ईषत्स्मितैः सुबिम्बोष्ठैर्बालमुग्धमृगेक्षणैः । अशेषविभवोपेतैर्भूषितैस्तनुमध्यमैः ॥ १,४७.५७ ॥ सुराजहंसचलनैः सुवेषैर्मधुरस्वनैः । संलापालापकुशलैर्दिव्याभरणभूषैतैः ॥ १,४७.५८ ॥ स्तनभारविनम्रैश्च मदघूर्णितलोचनैः । नानावर्णविचित्राङ्गैर्नानाभोगरतिप्रियैः ॥ १,४७.५९ ॥ प्रफुल्लकुसुमोद्यानैरितश्चेतश्च शोभितम् । असंख्येयगुणं शुद्धमागम्यं त्रिदशैरपि ॥ १,४७.६० ॥ श्रीमत्पवित्रं देवस्य श्रीपतेरमितौजसः । तस्य मध्येऽतितेजस्कमुच्चप्राकारतोरणम् ॥ १,४७.६१ ॥ स्थानं पद्वैष्णवं दिव्यं योगिनामपि दुर्लभम् । तन्मध्ये भगवानेकः पुण्डरीकदलद्युतिः । शेतेऽशेषजगत्सूतिः शेषाहिशयने हरिः ॥ १,४७.६२ ॥ विचिन्त्यमानो योगीन्द्रैः सनन्दनपुरोगमैः । स्वात्मानन्दामृतं पीत्वा परं तत्तमसः परम् ॥ १,४७.६३ ॥ सुपीतवसनोऽनन्तो महामायो महाभुजः । क्षीरोदकन्यया नित्यं गृहीतचरणद्वयः ॥ १,४७.६४ ॥ सा च देवी जगद्वन्द्या पादमूले हरिप्रिया । समास्ते तन्मना नित्यं पीत्वा नारायणामृतम् ॥ १,४७.६५ ॥ न तत्राधार्मिका यान्ति न च देवान्तराश्रयाः । वैकुण्ठं नाम तत्स्थानं त्रिदशैरपि वन्दितम् ॥ १,४७.६६ ॥ न मेऽत्र भवति प्रज्ञा कृत्स्नशस्तन्निरूपणे । एतावच्छक्यते वक्तुं नारायणपुरं हि तत् ॥ १,४७.६७ ॥ स एव परमं ब्रह्म वासुदेवः सनातनः । शेते नारायणः श्रीमान्मायया मोहयञ्जगत् ॥ १,४७.६८ ॥ नारायणादिदं जातं तस्मिन्नेव व्यवस्थितम् । तमेवाभ्येति कल्पान्ते स एव परमा गतिः ॥ १,४७.६९ ॥ इति श्रीकूर्मपुराणे षट्साह्स्त्र्यां संहितायां पूर्वविभागे सप्तचत्वारिंशोध्यायः _____________________________________________________________ सूत उवाच शाकद्वीपस्य विस्ताराद्द्विगुणेन व्यवस्थितः । क्षीरार्णवं समाश्रित्य द्वीपः पुष्करसंवृतः ॥ १,४८.१ ॥ एक एवात्र विप्रेन्द्राः पर्वतो मानसोत्तरः । योजनानां सहस्त्राणि सार्धं पञ्चाशदुच्छ्रितः । तावदेव च विस्तीर्णः सर्वतः परिमण्डलः ॥ १,४८.२ ॥ स एव द्वीपः पश्चार्धे मानसोत्तरसंज्ञितः । एक एव महासानुः संनिवेशाद्द्विधा कृतः ॥ १,४८.३ ॥ तस्मिन् द्वीपे स्मृतौ द्वौ तु पुण्यौ जनपदौ शुभौ । अपरौ मानसस्याथ पर्वतस्यानुमण्डलौ । महावीतं स्मृतं वर्षं धातकीखण्डमेव च ॥ १,४८.४ ॥ स्वादूदकेनोदधिना पुष्करः परिवारितः । तस्मिन् द्वीपे महावृक्षो न्यग्रोधोऽमरपूजितः ॥ १,४८.५ ॥ तस्मिन्निवसति ब्रह्मा विश्वात्मा विश्वभावनः । तत्रैव मुनिशार्दूलाः शिवनारायणालयः ॥ १,४८.६ ॥ वसत्यत्र महादेवो हरोर्ऽद्धहरिरव्ययः । संपूज्यमानो ब्रह्माद्यैः कुमाराद्यैश्च योगिभिः । गन्धर्वैः किन्नरैर्यक्षैरीश्वरः कृष्णपिङ्गलः ॥ १,४८.७ ॥ स्वस्थास्तत्र प्रजाः सर्वा ब्रह्मणा सदृशत्विषः । निरामया विशोकाश्च रागद्वेषविवर्जिताः ॥ १,४८.८ ॥ सत्यानृते न तत्रास्तां नोत्तमाधममध्यमाः । न वर्णाश्रमधर्माश्च न नद्यो न च पर्वताः ॥ १,४८.९ ॥ परेण पुष्करस्याथ स्थितो महान् । स्वादूदकसमुद्रस्तु समन्ताद्द्विजसत्तमाः ॥ १,४८.१० ॥ परेण तस्य महती दृश्यते लोकसंस्थितिः । काञ्चनी द्विगुणा भूमिः सर्वा चैव शिलोपमा ॥ १,४८.११ ॥ तस्याः परेण शैलस्तु मर्यादात्मात्ममण्डलः । प्रकाशश्चाप्रकाशश्च लोकालोकः स उच्यते ॥ १,४८.१२ ॥ योजनानां सहस्त्राणि दश तस्योच्छ्रयः स्मृतः । तावानेव च विस्तारो लोकालोको महागिरिः ॥ १,४८.१३ ॥ समावृत्य तु तं शैलं सर्वतो वै तमः स्थितम् । तमश्चाण्डकटाहेन समन्तात्परिवेष्टितम् ॥ १,४८.१४ ॥ एतै सप्त महालोकाः पातालाः सप्तकीर्तिताः । ब्रह्माण्डस्यैष विस्तारः संक्षेपेण मयोदितः ॥ १,४८.१५ ॥ अण्डानामीदृशानां तु कोट्यो ज्ञेयाः सहस्त्रशः । सर्वगत्वात्प्रधानस्य कारणस्याव्ययात्मनः ॥ १,४८.१६ ॥ अण्डेष्वेतेषु सर्वेषु भुवनानि चतुर्दश । तत्र तत्र चतुर्वक्त्रा रुद्रा नारायणादयः ॥ १,४८.१७ ॥ दशोत्तरमथैकैकमण्डावरणसप्तकम् । समन्तात्संस्थितं विप्रा यत्र यान्ति मनीषिणः ॥ १,४८.१८ ॥ अनन्तमेकमव्यक्तनादिनिधनं महत् । अतीत्य वर्तते सर्वं जगत्प्रकृतिरक्षरम् ॥ १,४८.१९ ॥ अनन्तत्वमनन्तस्य यतः संख्या न विद्यते । तदव्यक्तमिति ज्ञेयं तद्ब्रह्म परमं पदम् ॥ १,४८.२० ॥ अनन्त एष सर्वत्र सर्वस्थानेषु पठ्यते । तस्य पूर्वं मयाप्युक्तं यत्तन्माहात्म्यमव्ययम् ॥ १,४८.२१ ॥ गतः स एष सर्वत्र सर्वस्थानेषु वर्तते । भूमौ रसातले चैव आकाशे पवनेऽनले । अर्णवेषु च सर्वेषु दिवि चैव न सशयः ॥ १,४८.२२ ॥ तथा तमसि सत्त्वे च एष एव महाद्युतिः । अनेकधा विभक्ताङ्गः क्रीडते पुरुषोत्तमः ॥ १,४८.२३ ॥ महेश्वरः परोऽव्यक्तादण्डमव्यक्तसंभवम् । अण्डाद्ब्रह्मा समुत्पन्नस्तेन सृष्टमिदं जगत् ॥ १,४८.२४ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे अष्टचत्वारिंशोऽध्यायः _____________________________________________________________ ऋषय ऊचुः अतीतानागतानीह यानि मन्वन्तराणि तु । तानि त्वं कथयास्माकं व्यासांश्च द्वापरे युगे ॥ १,४९.१ ॥ वेदशाखाप्रणयनं देवदेवस्य धीमतः । तथावतारान् धर्मार्थमीशानस्य कलौ युगे ॥ १,४९.२ ॥ कियन्तो देवदेवस्य शिष्याः कलियुगेषु वै । एतत्सर्वं समासेन सूत वक्तुमिहार्हसि ॥ १,४९.३ ॥ सूत उवाच मनुः स्वायंभुवः पूर्वं ततः स्वारोचिषो मनुः । उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ १,४९.४ ॥ षडेते मनवोऽतीताः सांप्रतं तु रवेः सुतः । वैवस्वतोऽयं यस्यैतत्सप्तमं वर्ततेऽन्तरम् ॥ १,४९.५ ॥ स्वायंभुवं तु कथितं कल्पादावन्तरं मया । अत ऊर्ध्वं निबोधध्वं मनोः स्वारोचिषस्य तु ॥ १,४९.६ ॥ पारावताश्च तुषिता देवाः स्वारोचिषेऽन्तरे । विपश्चिन्नाम देवेन्द्रो बभूवासुरसूदनः ॥ १,४९.७ ॥ ऊर्जस्तम्भस्तथा प्राणो दान्तोऽथ वृषभस्तथा । तिमिरश्चार्वरीवांश्च सप्त सप्तर्षयोऽभवन् ॥ १,४९.८ ॥ चैत्रकिंपुरुषाद्याश्च सुताः स्वारोचिषस्य तु । द्वितीयमतदाख्यातमन्तरं शृणु चोत्तरम् ॥ १,४९.९ ॥ तृतीयेऽप्यन्तरे विप्रा उत्तमो नाम वै मनुः । सुशान्तिस्तत्र देवेन्द्रो बभूवामित्रकर्षणः ॥ १,४९.१० ॥ सुधामानस्तथा सत्याः शिवाश्चाथ प्रतर्दनाः । वशवर्तिनश्च पञ्चैते गणा द्वादशकाः स्मृताः ॥ १,४९.११ ॥ रजोर्ध्वश्चोर्ध्वबाहुश्च सबलश्चानयस्तथा । सुतपाः शुक्र इत्येते सप्त सप्तर्षयोऽभवन् ॥ १,४९.१२ ॥ तामसस्यान्तरे देवाः सुरा वाहरयस्तथा । सत्याश्च सुधियश्चैव सप्तविंशतिका गणाः ॥ १,४९.१३ ॥ शिबिरिन्द्रस्तथैवासीच्छतयज्ञोपलक्षणः । बभूव शङ्करे भक्तो महादेवार्चने रतः ॥ १,४९.१४ ॥ ज्योतिर्धर्मा पृथुः काव्यश्चैत्रोग्निर्वनकस्तथा । पीवरस्त्वृषयो ह्येते सप्त तत्रापि चान्तरे ॥ १,४९.१५ ॥ पञ्चमे चापि विप्रेन्द्रा रैवतो नाम नामतः । मनुर्वसुश्च तत्रेन्द्रो बभूवासुरमर्दनः ॥ १,४९.१६ ॥ अमिताभा भूतरया वैकुण्ठाः स्वच्छमेधसः । एते देवगणास्तत्र चतुर्दश चतुर्दश ॥ १,४९.१७ ॥ हिरण्यरोमा वेदश्रीरूर्ध्वबाहुस्तथैव च । वेदबाहुः सुधामा च पर्जन्यश्च महामुनिः । एते सप्तर्षयो विप्रास्तत्रासन् रैवतेऽन्तरे ॥ १,४९.१८ ॥ स्वारोचिषश्चोत्तमश्च तामसो रैवतस्तथा । प्रियव्रतान्वया ह्येते चत्वारो मनवः स्मृताः ॥ १,४९.१९ ॥ षष्ठे मन्वन्तरे चासीच्चाक्षुषस्तु मनुर्द्विजाः । मनोजवस्तथैवेन्द्रो देवानपि निबोधतः ॥ १,४९.२० ॥ आद्याः प्रसूता भाव्याश्च पृथुगाश्च दिवौकसः । महानुभावा लेख्याश्च पञ्चैते ह्यष्टका गणाः ॥ १,४९.२१ ॥ सुमेधा विरजाश्चैव हविष्मानुत्तमो मधुः । अतिनामा सहिष्णुश्च सप्तासन्नृषयः शुभाः ॥ १,४९.२२ ॥ विवस्वतः सुतो विप्राः श्राद्धदेवो महाद्युतिः । मनुः स वर्तते धीमान् सांप्रतं सप्तमेऽन्तरे ॥ १,४९.२३ ॥ आदित्या वसवो रुद्रा देवास्तत्र मरुद्गणाः । पुरन्दरस्तथैवेन्द्रो बभूव परवीरहा ॥ १,४९.२४ ॥ वसिष्ठः कश्यपश्चात्रिर्जमदग्निश्च गौतमः । विश्वामित्रो भरद्वाजः सप्त सप्तर्षयोऽभवन् ॥ १,४९.२५ ॥ विष्णुशक्तिरनौपम्या सत्त्वोद्रिक्ता स्थिता स्थितौ । तदंशभूता राजानः सर्वे च त्रिदिवौकसः ॥ १,४९.२६ ॥ स्वायंभुवेऽन्तरे पूर्वमाकूत्यां मानसः सुतः । रुचेः प्रजापतेर्यज्ञस्तदंशेनाभवद्द्विजाः ॥ १,४९.२७ ॥ ततः पुनरसौ देवः प्राप्ते स्वारोचिषेऽन्तरे । तुषितायां समुत्पन्नस्तुषितैः सह दैवतैः ॥ १,४९.२८ ॥ औत्तमेऽप्यन्तरे विष्णुः सत्यैः सह सुरोत्तमैः । सत्यायामभवत्सत्यः सत्यरूपो जनार्दनः ॥ १,४९.२९ ॥ तामसस्यान्तरे चैव संप्राप्ते पुनरेव हि । हर्यायां हरिभिर्देवैर्हरिरेवाभवद्धरिः ॥ १,४९.३० ॥ रैवतेऽप्यन्तरे चैव संभूत्यां मानसोऽभवत् । संभूतो मानसैः सार्धं देवैः सह महाद्युतिः ॥ १,४९.३१ ॥ चाक्षुषेऽप्यन्तरे चैव वैकुण्ठः पुरुषोत्तमः । विकुण्ठायामसौ जज्ञे वैकुण्ठैर्दैवतैः सह ॥ १,४९.३२ ॥ मन्वन्तरेऽत्र संप्राप्ते तथा वैवस्वतेऽन्तरे । वामनः कश्यपाद्विष्णुरदित्यां संबभूव ह ॥ १,४९.३३ ॥ त्रिभिः क्रमैरिमांल्लोकाञ्जित्वा येन महात्मना । पुरन्दराय त्रैलोक्यं दत्तं निहतकण्टकम् ॥ १,४९.३४ ॥ इत्येतास्तनवस्तस्य सप्त मन्वन्तरेषु वै । सप्त चैवाभवन् विप्रा याभिः संरक्षिताः प्रजाः ॥ १,४९.३५ ॥ यस्माद्विष्टमिदं कृत्स्नं वामनेन महात्मना । तस्मात्स वै स्मृतो विष्णुर्विशेर्धातोः प्रवेशनात् ॥ १,४९.३६ ॥ एष सर्वं सृजत्यादौ पाति हन्ति च केशवः । भूतान्तरात्मा भगवान्नारायण इति श्रुतिः ॥ १,४९.३७ ॥ एकांशेन जगत्सर्वं व्याप्य नारायणः स्थितः । चतुर्धा संस्थितो व्यापी सगुणो निर्गुणोऽपि च ॥ १,४९.३८ ॥ एका भगवतो मूर्तिर्ज्ञानरूपा शिवामला । वासुदेवाभिधाना सा गुणातीता सुनिष्कला ॥ १,४९.३९ ॥ द्वितीया कालसंज्ञान्या तामसी शेषसंज्ञिता । निहन्ति सकलं चान्ते वैष्णवी परमा तनुः ॥ १,४९.४० ॥ सत्त्वोद्रिक्ता तथैवान्या प्रद्युम्नेति च संज्ञिता । जगत्स्थापयते सर्वं स विष्णुः प्रकृतिर्ध्रुवा ॥ १,४९.४१ ॥ चतुर्थो वासुदेवस्य मूर्तिर्ब्राह्मीति संज्ञिता । राजसी चानिरुद्धाख्या प्रद्युम्नः सृष्टिकारिका ॥ १,४९.४२ ॥ यः स्वपित्यखिलं भूत्वा प्रद्युम्नेन सह प्रभुः । नारायणाख्यो ब्रह्मासौ प्रिजासर्गं करोति सः ॥ १,४९.४३ ॥ या सा नारायणतनुः प्रद्युम्नाख्या मुनीश्वराः । तया संमोहयेद्विश्वं सदेवासुरमानुषम् ॥ १,४९.४४ ॥ सैव सर्वजगत्सूतिः प्रकृतिः परिकीर्तिता । वासुदेवो ह्यनन्तात्मा केवलो निर्गुणो हरिः ॥ १,४९.४५ ॥ प्रधानं पुरुषः कालस्तत्त्वत्रयमनुत्तमम् । वासुदेवात्मकं नित्यमेतद्विज्ञाय मुच्यते ॥ १,४९.४६ ॥ एकं चेदं चतुष्पादं चतुर्धा पुनरच्युतः । बिभेद वासुदेवोऽसौ प्रद्युम्नो हरिरव्ययः ॥ १,४९.४७ ॥ कृष्णद्वैपायनो व्यासो विष्णुर्नारायणः स्वयम् । अपान्तरतमाः पूर्वं स्वेच्छया ह्यभवद्धरिः ॥ १,४९.४८ ॥ अनाद्यन्तं परं ब्रह्म न देवा नर्षयो विदुः । एकोऽयं वेद भगवान् व्यासो नारायणः प्रभुः ॥ १,४९.४९ ॥ इत्येतद्विष्णुमाहात्म्यमुक्तं वो मुनिपुङ्गवाः । एतत्सत्यं पुनः सत्यमेवं ज्ञात्वा न मुह्यति ॥ १,४९.५० ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे एकोनपञ्चाशोऽध्यायः _____________________________________________________________ सूत उवाच अस्मिन्मन्वन्तरे पूर्वं वर्तमाने महान् विभुः । द्वापरे प्रथमे व्यासो मनुः स्वायंभुवो मतः ॥ १,५०.१ ॥ बिभेद बहुधा वेदं नियोगाद्ब्रह्मणः प्रभोः । द्वितीये द्वापरे चैव वेदव्यासः प्रजापतिः ॥ १,५०.२ ॥ तृतीये चोशना व्यासश्चतुर्थे स्याद्बृहस्पतिः । सविता पञ्चमे व्यासः षष्ठे मृत्युः प्रकीर्तितः ॥ १,५०.३ ॥ सप्तमे च तथैवेन्द्रो वसिष्ठश्चाष्टमे मतः । सारस्वतश्च नवमे त्रिधामा दशमे स्मृतः ॥ १,५०.४ ॥ एकादशे तु त्रिवृषः शततेजास्ततः परः । त्रयोदशे तथा धर्मस्तरक्षुस्तु चतुर्दशे ॥ १,५०.५ ॥ त्र्यारुणिर्वै पञ्चदशे षोडशे तु धनञ्जयः । कृतञ्जयः सप्तदशे ह्यष्टादशे ऋतञ्जयः ॥ १,५०.६ ॥ ततो व्यासो भरद्वाजस्तस्मादूर्ध्वं तु गौतमः । राजश्रवाश्चैकविंशस्तस्माच्छुष्मायणः परः ॥ १,५०.७ ॥ तृणबिन्दुस्त्रयोविंशे वाल्मीकिस्तत्परः स्मृतः । पञ्चविशे तथा शक्तिः षड्विंशे तु पराशरः ॥ १,५०.८ ॥ सप्तविंशे तथा व्यासो जातूकर्णो महामुनिः । अष्टाविंशे पुनः प्राप्ते ह्यस्मिन् वै द्वापरे द्विजाः । पराशरसुतो व्यासः कृष्णद्वैपायनोऽभवत् ॥ १,५०.९ ॥ स एव सर्ववेदानां पुराणानां प्रदर्शकः । पाराशर्यो महायोगी कृष्णद्वैपायनो हरिः ॥ १,५०.१० ॥ आराध्य देवमीशानं दृष्ट्वा साम्बं त्रिलोचनम् । तत्प्रसादादसौ व्यासं वेदानामकरोत्प्रभुः ॥ १,५०.११ ॥ अथ शिष्यान् प्रिजग्राह चतुरो वेदपारगान् । जैमिनिं च सुमन्तुं च वैशम्पायनमेव च । पैलं तेषां चतुर्थं च पञ्चमं मां महामुनिः ॥ १,५०.१२ ॥ ऋग्वेदश्रावकं पैलं जग्राह स महामुनिः । यजुर्वेदप्रवक्तारं वैशम्पायनमेव च ॥ १,५०.१३ ॥ जैमिनिं सामवेदस्य श्रावकं सोन्वपद्यत । तथैवाथर्ववेदस्य सुमन्तुमृषिसत्तमम् । इतिहासपुराणानि प्रवक्तुं मामयोजयत् ॥ १,५०.१४ ॥ एक आसीद्यजुर्वेदस्तं चतुर्धा व्यकल्पयत् । चातुर्हेत्रमभूद्यस्मिंस्तेन यज्ञमथाकरोत् ॥ १,५०.१५ ॥ आध्वर्यवं यजुर्भिः स्यादृग्भिर्हेत्रं द्विजोत्तमाः । औद्गात्रं सामभिश्चक्रे ब्रह्मत्वं चाप्यथर्वभिः ॥ १,५०.१६ ॥ ततः स ऋच उद्धृत्य ऋग्वेदं कृतवान् प्रभुः । यजूंषि च यजुर्वेदं सामवेदं च सामभिः ॥ १,५०.१७ ॥ एकविंशतिभेदेन ऋग्वेदं कृतवान् पुरा । शाखानां तु शतेनैव यजुर्वेदमथाकरोत् ॥ १,५०.१८ ॥ सामवेदं सहस्त्रेण शाखानां प्रबिभेद सः । अथर्वाणमथो वेदं बिभेद नवकेन तु ॥ १,५०.१९ ॥ भेदैरष्टादशैर्व्यासः पुराणं कृतवान् प्रभुः । सोऽयमेकश्चतुष्पादो वेदः पूर्वं पुरातनात् ॥ १,५०.२० ॥ ओङ्कारो ब्रह्मणो जातः सर्वदोषविशोधनः । वेदवेद्यो हि भगवान् वासुदेवः सनातनः ॥ १,५०.२१ ॥ स गीयते परो वेदे यो वेदैनं स वेदवित् । एतत्परतरं ब्रह्म ज्योतिरानन्दमुत्तमम् ॥ १,५०.२२ ॥ वेदवाक्योदितं तत्त्वं वासुदेवः परं पदम् । वेदवेद्यमिमं वेत्ति वेदं वेदपरो मुनिः ॥ १,५०.२३ ॥ अवेदं परमं वेत्ति वेदनिष्ठः सदेश्वरः । स वेदवेद्यो भगवान् वेदमूर्तिर्महेश्वरः । स एव वेदो वेद्यश्च तमेवाश्रित्य मुच्यते ॥ १,५०.२४ ॥ इत्येदक्षरं वेद्यमोङ्कारं वेदमव्ययम् । अवेदं च विजानाति पाराशर्यो महामुनिः ॥ १,५०.२५ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे पञ्चाशोऽध्यायः _____________________________________________________________ सूत उवाच वेदव्यासावताराणि द्वापरे कथितानि तु । महादेवावताराणि कलौ शृणुत सुव्रताः ॥ १,५१.१ ॥ आद्ये कलियुगे श्वेतो देवदेवो महाद्युतिः । नाम्ना हिताय विप्राणामभूद्वैवस्वतेऽन्तरे ॥ १,५१.२ ॥ हिमवच्छिखरे रम्ये छगले पर्वतोत्तमे । तस्य शिष्याः शिखायुक्ता वभूवुरमितप्रभाः ॥ १,५१.३ ॥ श्वेतः श्वेतशिखश्चैव श्वेतास्यः श्वेतलोहितः । चत्वारस्ते महात्मानो ब्राह्मणा वेदपारगाः ॥ १,५१.४ ॥ सुभानो दमनश्चाथ सुहोत्रः कङ्कणस्तथा । लोकाक्षिरथ योगीन्द्रो जैगीषव्यस्तु सप्तमे ॥ १,५१.५ ॥ अष्टमे दधिवाहः स्यान्नवमे वृषभः प्रभुः । भृगुस्तु दशमे प्रोक्तस्तस्मादुग्रः परः स्मृतः ॥ १,५१.६ ॥ द्वादशेऽत्रिः समाख्यातो बली चाथ त्रयोदशे । चतुर्दशे गौतमस्तु वेदशीर्षा ततः परम् ॥ १,५१.७ ॥ गोकर्णश्चाभवत्तस्माद्गुहावासः शिखण्ड्यथ । जटामाल्यट्टहासश्च दारुको लाङ्गली क्रमात् ॥ १,५१.८ ॥ श्वेतस्तथा परः शूली डिण्डी मुण्डी च वै क्रमात् । सहिष्णुः सोमशर्मा च नकुलीशोऽन्तिमे प्रभुः ॥ १,५१.९ ॥ वैवस्वतेऽन्तरे शंभोरवतारास्त्रिशूलिनः । अष्टाविंशतिराख्याता ह्यन्ते कलियुगे प्रभोः । तीर्थे कायावतारे स्याद्देवेशो नकुलीश्वरः ॥ १,५१.१० ॥ तत्र देवादिदेवस्य चत्वारः सुतपोधनाः । शिष्या बभूवुश्चान्येषां प्रत्येकं मुनिपुङ्गवाः ॥ १,५१.११ ॥ प्रसन्नमनसो दान्ता ऐश्वरीं भक्तिमाश्रिताः । क्रमेण तान् प्रवक्ष्यामि योगिनो योगवित्तमान् ॥ १,५१.१२ ॥ श्वेतः श्वेतशिखश्चैव श्वेतास्यः श्वेतलोहितः । दुन्दुभिः शतरूपश्च ऋचीकः केतुमांस्तथा । विकेशश्च विशोकश्च विशापश्शापनाशनः ॥ १,५१.१३ ॥ सुमुखो दुर्मुखश्चैव दुर्दमो दुरतिक्रमः । सनः सनातनश्चैव मुकारश्च सनन्दनः ॥ १,५१.१४ ॥ दालभ्यश्च महायोगी धर्मात्मनो महौजसः । सुधामा विरजाश्चैव शङ्खपात्रज एव च ॥ १,५१.१५ ॥ सारस्वतस्तथा मेघो घनवाहः सुवाहनः । कपिलश्चासुरिश्चैव वोढुः पञ्चशिखो मुनिः ॥ १,५१.१६ ॥ पराशरश्च गर्गश्च भार्गवश्चाङ्गिरास्तथा । बलबन्धुर्निरामित्रः केतुशृङ्गस्तपोधनः ॥ १,५१.१७ ॥ लम्बोदरश्च लम्बश्च लाम्बाक्षो लम्बकेशकः । सर्वज्ञः समबुद्धिश्च साध्यः सत्यस्तथैव च ॥ १,५१.१८ ॥ शुधामा काश्यपश्चैव वसिष्ठो विरजास्तथा । अत्रिरुग्रस्तथा चैव श्रवणोऽथ श्रविष्ठकः ॥ १,५१.१९ ॥ कुणिश्च कुणिबाहुश्च कुशरीरः कुनेत्रकः । कश्यपोह्युशना चैव च्यवनोऽथ बृहस्पतिः ॥ १,५१.२० ॥ उतथ्यो वामदेवश्च महाकायो महानिलः । वाचश्रवाः सुपीकश्च श्यावाश्वः सपथीश्वरः ॥ १,५१.२१ ॥ हरिण्यनाभः कौशल्यो लोकाक्षिः कुथुमिस्तथा । सुमन्तुर्वर्चरी विद्वान् कबन्धः कुशिकन्धरः ॥ १,५१.२२ ॥ प्लक्षो दार्भायणिश्चैव केतुमान् गौतमस्तथा । भल्लापी मधुपिङ्गश्च श्वेतकेतुस्तपोनिधिः ॥ १,५१.२३ ॥ उशिजो बृहदुक्थश्च देवलः कपिरेव च । शालिहोत्रोऽग्निवेश्यश्च युवनाश्वः शरद्वसुः ॥ १,५१.२४ ॥ छगलः कुण्डकर्णश्च कुम्भश्चैव प्रवाहकः । उलूको विद्युतश्चैव शाद्वलो ह्याश्वलायनः ॥ १,५१.२५ ॥ अक्षपादः कुमारश्च उलूको वत्स एव च । कुशिकश्चैव गर्गश्च मित्रको ऋष्य एव च ॥ १,५१.२६ ॥ शिष्या एते महात्मानः सर्वोवर्तेषु योगिनाम् । विमला ब्रह्मभूयिष्ठा ज्ञानयोगपरायणाः ॥ १,५१.२७ ॥ कुर्वन्ति चावताराणि ब्राह्मणानां हिताय हि । योगेश्वराणामादेशाद्वेदसंस्थापनाय वै ॥ १,५१.२८ ॥ ये ब्राह्मणाः संस्मरन्ति नमस्यन्ति च सर्वदा । तर्पयन्त्यर्चयन्त्येतान् ब्रह्मविद्यामवाप्नुयुः ॥ १,५१.२९ ॥ इदं वैवस्वतं प्रोक्तमन्तरं विस्तरेण तु । भविष्यति च सावर्णो दक्षसावर्ण एव च ॥ १,५१.३० ॥ दशमो ब्रह्मसावर्णो धर्मसावर्ण एव च । द्वादशो रुद्रसावर्णो रोचमानस्त्रयोदशः । भौत्यश्चतुर्दशः प्रोक्तो भविष्या मनवः क्रमात् ॥ १,५१.३१ ॥ अयं वः कथितो ह्यंशः पूर्वो नारायणेरितः । भूतभव्यैर्वर्तमानैराख्यानैरुपबृंहितः ॥ १,५१.३२ ॥ यः पठेच्छृणुयाद्वापि श्रावयेद्वा द्विजोत्तमान् । स सर्वपापनिर्मुक्तो ब्रह्मणा सह मोदते ॥ १,५१.३३ ॥ पठेद्देवालये स्नात्वा नदीतीरेषु चैव हि । नारायणं नमस्कृत्य भावेन पुरुषोत्तमम् ॥ १,५१.३४ ॥ नमो देवादिदेवाय देवानां परमात्मने । पुरुषाय पुराणाय विष्णवे कूर्मरूपिणे ॥ १,५१.३५ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायां पूर्वविभागे एकपञ्चाशोऽध्यायः उपरिविभागः ऋषय ऊचुः भवता कथितः सम्यक्सर्गः स्वायंभुवस्ततः । ब्रह्माण्डस्यास्य विस्तारो मन्वन्तरविनिश्चयः ॥ २,१.१ ॥ तत्रेश्वरेश्वरो देवो वर्णिभिर्धर्मतत्परैः । ज्ञानयोगरतैर्नित्यमाराध्यः कथितस्त्वया ॥ २,१.२ ॥ तद्वदाशेषसंसारदुः खनाशमनुत्तमम् । ज्ञानं ब्रह्मैकविषयं येन पश्येम तत्परम् ॥ २,१.३ ॥ त्वं हि नारायणात्साक्षात्कृष्णद्वैपायनात्प्रभो । अवाप्ताखिलविज्ञानस्तत्त्वां पृच्छामहे पुनः ॥ २,१.४ ॥ श्रुत्वा मुनीनां तद्वाक्यं कृष्णद्वैपायनं प्रभुम् । सूतः पौराणिकः स्मृत्वा भाषितुं ह्युपचक्रमे ॥ २,१.५ ॥ अथास्मिन्नन्तरे व्यासः कृष्णद्वैपायनः स्वयम् । आजगाम मुनिश्रेष्ठा यत्र सत्रं समासते ॥ २,१.६ ॥ तं दृष्ट्वा वेदविद्वांसं कालमेघसमद्युतिम् । व्यासं कमलपत्राक्षं प्रणेमुर्द्विजपुङ्गवाः ॥ २,१.७ ॥ पपात दण्डवद्भूमौ दृष्ट्वासौ रोमहर्षणः । प्रदक्षिणीकृत्य गुरुं प्राञ्जलिः पार्श्वगोऽभवत् ॥ २,१.८ ॥ पृष्टास्तेऽनामयं विप्राः शौनकाद्या महामुनिम् । समाश्वास्यासनं तस्मै तद्योग्यं समकल्पयन् ॥ २,१.९ ॥ अथैतानब्रवीद्वाक्यं पराशरसुतः प्रभुः । कच्चिन्न तपसो हानिः स्वाध्यायस्य श्रुतस्य च ॥ २,१.१० ॥ ततः स सूतः स्वगुरुं प्रणम्याह महामुनिम् । ज्ञानं तद्ब्रह्मविषयं मुनीनां वक्तुमर्हसि ॥ २,१.११ ॥ इमे हि मुनयः शान्तास्तापसा धर्मतत्पराः । शुश्रूषा जायते चैषां वक्तुमर्हसि तत्त्वतः ॥ २,१.१२ ॥ ज्ञानं विमुक्तिदं दिव्यं यन्मे साक्षात्त्वयोदितम् । मुनीनां व्याहृतं पूर्वं विष्णुना कूर्मरूपिणा ॥ २,१.१३ ॥ श्रुत्वा सूतस्य वचनं मुनिः सत्यवतीसुतः । प्रणम्य शिरसा रुद्रं वचः प्राह सुखावहम् ॥ २,१.१४ ॥ व्यास उवाच वक्ष्ये देवो महादेवः पृष्टो योगीश्वरैः पुरा । सनत्कुमारप्रमुखैः स्वयं यत्समभाषत ॥ २,१.१५ ॥ सनत्कुमारः सनकस्तथैव च सनन्दनः । अङ्गिरा रुद्रसहितो भृगुः परमधर्मवित् ॥ २,१.१६ ॥ कणादः कपिलो योगी वामदेवो महामुनिः । शुक्रो वसिष्ठो भगवान् सर्वे संयतमानसाः ॥ २,१.१७ ॥ परस्परं विचार्यैते संशयाविष्टचेतसः । तप्तवन्तस्तपो घोरं पुण्ये बदरिकाश्रमे ॥ २,१.१८ ॥ अपश्यंस्ते महायोगमृषिं धर्मसुतं शुचिम् । नारायणमनाद्यन्तं नरेण सहितं तदा ॥ २,१.१९ ॥ संस्तूय विविधैः स्तोत्रैः सर्वे वेदसमुद्भवैः । प्रणेमुर्भक्तिसंयुक्ता योगिनो योगवित्तमम् ॥ २,१.२० ॥ विज्ञाय वाञ्छितं तेषां भगवानपि सर्ववित् । प्राह गम्भीरया वाचा किमर्थं तप्यते तपः ॥ २,१.२१ ॥ अब्रुवन् हृष्टमनसो विश्वात्मानं सनातनम् । साक्षान्नारायणं देवमागतं सिद्धिसूचकम् ॥ २,१.२२ ॥ वयं संशयमापन्नाः सर्वे वै ब्रह्मवादिनः । भवन्तमेकं शरणं प्रपन्नाः पुरुषोत्तमम् ॥ २,१.२३ ॥ त्वं हि तद्वेत्थ परमं सर्वज्ञो भगवानृषिः । नारायणः स्वयं साक्षात्पुराणोऽव्यक्तपूरुषः ॥ २,१.२४ ॥ नह्यन्यो विद्यते वेत्ता त्वामृते परमेश्वर । शुश्रूषास्माकमखिलं संशयं छेत्तुमर्हसि ॥ २,१.२५ ॥ किं कारणमिदं कृत्स्नं कोऽनुसंसरते सदा । कश्चिदात्मा च का मुक्तिः संसारः किंनिमित्तकः ॥ २,१.२६ ॥ कः संसारयतीशानः को वा सर्वं प्रपश्यति । किं तत्परतरं ब्रह्म सर्वं नो वक्तुमर्हसि ॥ २,१.२७ ॥ एवमुक्ते तु मुनयः प्रापश्यन् पुरुषोत्तमम् । विहाय तापसं रूपं संस्थितं स्वेन तेजसा ॥ २,१.२८ ॥ विभ्राजमानं विमलं प्रभामण्डलमण्डितम् । श्रीवत्सवक्षसं देवं तप्तजाम्बूनदप्रभम् ॥ २,१.२९ ॥ शङ्खचक्रगदापाणिं शार्ङ्गहस्तं श्रियावृतम् । न दृष्टस्तत्क्षणादेव नरस्तस्यैव तेजसा ॥ २,१.३० ॥ तदन्तरे महादेवः शशाङ्काङ्कितशेखरः । प्रसादाभिमुखो रुद्रः प्रादुरासीन्महेश्वरः ॥ २,१.३१ ॥ निरीक्ष्य ते जगन्नाथं त्रिनेत्रं चन्द्रभूषणम् । तुष्टुवुर्हृष्टमनसो भक्त्या तं परमेश्वरम् ॥ २,१.३२ ॥ जयेश्वर महादेव जय भूतपते शिव । जयाशेषमुनीशान तपसाभिप्रपूजित ॥ २,१.३३ ॥ सहस्रमूर्ते विश्वात्मन् जगद्यन्त्रप्रवर्तक । जयानन्त जगज्जन्मत्राणसंहारकारण ॥ २,१.३४ ॥ सहस्रचरणेशान शंभो योगीन्द्रवन्दित । जयाम्बिकापते देव नमस्ते परमेश्वर ॥ २,१.३५ ॥ संस्तुतो भगवानीशस्त्र्यम्बको भक्तवत्सलः । समालिङ्ग्य हृषीकेशं प्राह गम्भीरया गिरा ॥ २,१.३६ ॥ किमर्थं पुण्डरीकाक्ष मुनीन्द्रा ब्रह्मवादिनः । इमं समागता देशं किं वा कार्यं मयाच्युत ॥ २,१.३७ ॥ आकर्ण्य भगवद्वाक्यं देवदेवो जनार्दनः । प्राह देवो महादेवं प्रसादाभिमुखं स्थितम् ॥ २,१.३८ ॥ इमे हि मुनयो देव तापसाः क्षीणकल्मषाः । अभ्यागता मां शरणं सम्यग्दर्शनकाङ्क्षिणः ॥ २,१.३९ ॥ यदि प्रसन्नो भगवान्मुनीनां भावितात्मनाम् । सन्निधौ मम तज्ज्ञानं दिव्यं वक्तुमिहार्हसि ॥ २,१.४० ॥ त्वं हि वेत्थ स्वमात्मानं न ह्यन्यो विद्यते शिव । ततस्त्वमात्मनात्मानं मुनीन्द्रेभ्यः प्रदर्शय ॥ २,१.४१ ॥ एवमुक्त्वा हृषीकेशः प्रोवाच मुनिपुङ्गवान् । प्रदर्शयन् योगसिद्धिं निरीक्ष्य वृषभध्वजम् ॥ २,१.४२ ॥ संदर्शनान्महेशस्य शङ्करस्याथ शूलिनः । कृतार्थं स्वयमात्मानं ज्ञातुमर्हथ तत्त्वतः ॥ २,१.४३ ॥ प्रष्टुमर्हथ विश्वेशं प्रत्यक्षं पुरतः स्थितम् । ममैव सन्निधावेष यथावद्वक्तुमीश्वरः ॥ २,१.४४ ॥ निशम्य विष्णुवचनं प्रणम्य वृषभध्वजम् । सनत्कुमारप्रमुखाः पृच्छन्ति स्म महेश्वरम् ॥ २,१.४५ ॥ अथास्मिन्नन्तरे दिव्यमासनं विमलं शिवम् । किमप्यचिन्त्यं गगनादीश्वरार्हं समुद्बभौ ॥ २,१.४६ ॥ तत्राससाद योगात्मा विष्णुना सह विश्वकृत् । तेजसा पूरयन् विश्वं भाति देवो महेश्वरः ॥ २,१.४७ ॥ तं ते देवादिदेवेशं शङ्करं ब्रह्मवादिनः । विभ्राजमानं विमले तस्मिन् ददृशुरासने ॥ २,१.४८ ॥ यं प्रपश्यन्तियोगस्थाः स्वात्मन्यात्मानमीश्वरमा । अनन्यतेजसं शान्तं शिवं ददृशिरे किल ॥ २,१.४९ ॥ यतः प्रसूतिर्भूतानां यत्रैतत्प्रविलीयते । तमासनस्थं भूतानामीशं ददृशिरे किल ॥ २,१.५० ॥ यदन्तरा सर्वमेतद्यतोऽभिन्नमिदं जगत् । स वासुदेवमासीनं तमीशं ददृशुः किल ॥ २,१.५१ ॥ प्रोवाच पृष्टो भगवान्मुनीनां परमेश्वरः । निरीक्ष्य पुण्डरीकाक्षं स्वात्मयोगमनुत्तमम् ॥ २,१.५२ ॥ तच्छृणुध्वं यथान्यायमुच्यमानं मयानघाः । प्रशान्तमानसाः सर्वे ज्ञानमीश्वरभाषितम् ॥ २,१.५३ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) प्रथमोऽध्यायः _____________________________________________________________ ईश्वर उवाच अवाच्यमेतद्विज्ञानमात्मगुह्यं सनातनम् । यन्न देवा विजानन्ति यतन्तोऽपि द्विजातयः ॥ २,२.१ ॥ इदं ज्ञानं समाश्रित्य ब्रह्मभूता द्विजोत्तमाः । न संसारं प्रपद्यन्ते पूर्वेऽपि ब्रह्मवादिनः ॥ २,२.२ ॥ गुह्याद्गुह्यतमं साक्षाद्गोपनीयं प्रयत्नतः । वक्ष्ये भक्तिमतामद्य युष्माकं ब्रह्मवादिनाम् ॥ २,२.३ ॥ आत्मायः केवलः स्वस्थः शान्तः सूक्ष्मः सनातनः । अस्ति सर्वान्तरः साक्षाच्चिन्मात्रस्तमसः परः ॥ २,२.४ ॥ सोऽन्तर्यामी स पुरुषः स प्राणः स महेश्वरः । स कालोऽग्निस्तदव्यक्तं स एवेदमिति श्रुतिः ॥ २,२.५ ॥ अस्माद्विजायते विश्वमत्रैव प्रविलीयते । स मायी मायया बद्धः करोति विविधास्तनूः ॥ २,२.६ ॥ न चाप्ययं संसरति न च संसारयेत्प्रभुः । नायं पृथ्वी न सलिलं न तेजः पवनो नभः ॥ २,२.७ ॥ न प्राणे न मनोऽव्यक्तं न शब्दः स्पर्श एव च । न रूपरसगन्धाश्च नाहं कर्ता न वागपि ॥ २,२.८ ॥ न पाणिपादौ नो पायुर्न चोपस्थं द्विजोत्तमाः । न कर्ता न च भोक्ता वा न च प्रकृतिपूरुषौ । न माया नैव च प्राश्चैतन्यं परमार्थतः ॥ २,२.९ ॥ यथा प्रकाशतमसोः सम्बन्धो नोपपद्यते । तद्वदैक्यं न संबन्धः प्रपञ्चपरमात्मनोः ॥ २,२.१० ॥ छायातपौ यथा लोके परस्परविलक्षणौ । तद्वत्प्रपञ्चपुरुषौ विभिन्नौ परमार्थतः ॥ २,२.११ ॥ यद्यात्मा मलिनोऽस्वस्थो विकारी स्यात्स्वभावतः । नहि तस्य भवेन्मुक्तिर्जन्मान्तरशतैरपि ॥ २,२.१२ ॥ पश्यन्ति मुनयो युक्ताः स्वात्मानं परमार्थतः । विकारहीनं निर्दुः खमानन्दात्मानमव्ययम् ॥ २,२.१३ ॥ अहं कर्ता सुखी दुः खी कृशः स्थूलेति या मतिः । सा चाहङ्कारकर्तृत्वादात्मन्यारोप्यते जनैः ॥ २,२.१४ ॥ वदन्ति वेदविद्वांसः साक्षिणं प्रकृतेः परम् । भोक्तारमक्षरं शुद्धं सर्वत्र समवस्थितम् ॥ २,२.१५ ॥ तस्मादज्ञानमूलो हि संसारः सर्वदेहिनाम् । अज्ञानादन्यथा ज्ञानं तच्च प्रकृतिसंगतम् ॥ २,२.१६ ॥ नित्योदितः स्वयं ज्योतिः सर्वगः पुरुषः परः । अहङ्काराविवेकेन कर्ताहमिति मन्यते ॥ २,२.१७ ॥ पश्यन्ति ऋषयोऽव्यक्तं नित्यं सदसदात्मकम् । प्रधानं प्रकृतिं बुद्ध्वा कारणं ब्रह्मवादिनः ॥ २,२.१८ ॥ तेनायं संगतो ह्यात्मा कूटस्थोऽपि निरञ्जनः । स्वात्मानमक्षरं ब्रह्म नावबुद्ध्येत तत्त्वतः ॥ २,२.१९ ॥ अनात्मन्यात्मविज्ञानं तस्माद्दुः खं तथेतरम् । रगद्वेषादयो दोषाः सर्वे भ्रान्तिनिबन्धनाः ॥ २,२.२० ॥ कर्मण्यस्य भवेद्दोषः पुण्यापुण्यमिति स्थितिः । तद्वशादेव सर्वेषां सर्वदेहसमुद्भवः ॥ २,२.२१ ॥ नित्यः सर्वत्रगो ह्यात्मा कूटस्थो दोषवर्जितः । एकः स भिद्यते शक्त्या मायया न स्वभावतः ॥ २,२.२२ ॥ तस्मादद्वैतमेवाहुर्मुनयः परमार्थतः । भेदो व्यक्तस्वभावेन सा च मायात्मसंश्रया ॥ २,२.२३ ॥ यथा हि धूमसंपर्कान्नाकाशो मलिनो भवेत् । अन्तः करणजैर्भावैरात्मा तद्वन्न लिप्यते ॥ २,२.२४ ॥ यथा स्वप्रभया भाति केवलः स्फटिकोऽमलः । उपाधिहीनो विमलस्तथैवात्मा प्रकाशते ॥ २,२.२५ ॥ ज्ञानस्वूपमेवाहुर्जगदेतद्विचक्षणाः । अर्थस्वरूपमेवाज्ञाः पश्यन्त्यन्ये कुदृष्टयः ॥ २,२.२६ ॥ कूटस्थो निर्गुणो व्यापी चैतन्यात्मा स्वभावतः । दृश्यते ह्यर्थरूपेण पुरुषैर्भ्रान्तिदृष्टिभिः ॥ २,२.२७ ॥ यथा संलक्ष्यते रक्तः केवलः स्फटिको जनैः । रक्तिकाद्युपधानेन तद्वत्परमपूरुषः ॥ २,२.२८ ॥ तस्मादात्माक्षरः शुद्धो नित्यः सर्वगतोऽव्ययः । उपासितव्यो मन्तव्यः श्रोतव्यश्च मुमुक्षुभिः ॥ २,२.२९ ॥ यदा मनसि चैतन्यं भाति सर्वत्रगं सदा । योगिनोऽव्यवधानेन तदा संपद्यते स्वयम् ॥ २,२.३० ॥ यदा सर्वाणि बूतानि स्वात्मन्येवाभिपश्यति । सर्वभूतेषु चात्मानं ब्रह्म संपद्यते तदा ॥ २,२.३१ ॥ यदा सर्वाणि भूतानि समाधिस्थो न पश्यति । एकीभूतः परेणासौ तदा भवति केवलः ॥ २,२.३२ ॥ यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि स्थिताः । तदासावमृतीभूतः क्षेमं गच्छति पण्डितः ॥ २,२.३३ ॥ यदा भूतपृथग्भावमेकस्थमनुपश्यति । तत एव च विस्तारं ब्रह्म संपद्यते तदा ॥ २,२.३४ ॥ यदा पश्यति चात्मानं केवलं परमार्थतः । मायामात्रं जगत्कृत्स्नं तदा भवति निर्वृतः ॥ २,२.३५ ॥ यदा जन्मजरादुः खव्याधीनामेकभेषजम् । केवलं ब्रह्मविज्ञानं जायतेऽसौ तदा शिवः ॥ २,२.३६ ॥ यथा नदीनदा लोके सागरेणैकतां ययुः । तद्वदात्माक्षरेणासौ निष्कलेनैकतां व्रजेत् ॥ २,२.३७ ॥ तस्माद्विज्ञानमेवास्ति न प्रपञ्चो न संसृतिः । अज्ञानेनावृतं लोको विज्ञानं तेन मुह्यति ॥ २,२.३८ ॥ तज्ज्ञानं निर्मलं सूक्ष्मं निर्विकल्पं यदव्ययम् । अज्ञानमितरत्सर्वं विज्ञानमिति मे मतम् ॥ २,२.३९ ॥ एतद्वः परमं सांख्यं भाषितं ज्ञानमुत्तमम् । सर्ववेदान्तसारं हि योगस्तत्रैकचित्तता ॥ २,२.४० ॥ योगात्संजायते ज्ञानं ज्ञानाद्योगः प्रवर्तते । योगज्ञानाभियुक्तस्य नावाप्यं विद्यते क्वचित् ॥ २,२.४१ ॥ यदेव योगिनो यान्ति सांख्यैस्तदधिगम्यते । एकं सांख्यं च योगं च यः पश्यति स तत्त्ववित् ॥ २,२.४२ ॥ अन्ये च योगिनो विप्रा ऐश्वर्यासक्तचेतसः । मज्जन्ति तत्र तत्रैव न त्वात्मैषामिति श्रुतिः ॥ २,२.४३ ॥ यत्तत्सर्वगतं दिव्यमैश्वर्यमचलं महत् । ज्ञानयोगाभियुक्तस्तु देहान्ते तदवाप्नुयात् ॥ २,२.४४ ॥ एष आत्माहमव्यक्तो मायावी परमेश्वरः । कीर्तितः सर्ववेदेषु सर्वात्मा सर्वतोमुखः ॥ २,२.४५ ॥ सर्वकामः सर्वरसः सर्वगन्धोऽजरोऽमरः । सर्वतः पाणिपादोऽहमन्तर्यामी सनातनः ॥ २,२.४६ ॥ अपाणिपादो जवनो ग्रहीता हृदि संस्थितः । अचक्षुरपि पश्यामि तथाकर्णः शृणोम्यहम् ॥ २,२.४७ ॥ वेदाहं सर्वमेवेदं न मां जानाति कश्चन । प्राहुर्महान्तं पुरुषं मामेकं तत्त्वदर्शिनः ॥ २,२.४८ ॥ पश्यन्ति ऋषयो हेतुमात्मनः सूक्ष्मदर्शिनः । निर्गुणामलरूपस्य यत्तदैश्वर्यमुत्तमम् ॥ २,२.४९ ॥ यन्न देवा विजानन्ति मोहिता मम मायया । वक्ष्ये समाहिता यूयं शृणुध्वं ब्रह्मवादिनः ॥ २,२.५० ॥ नाहं प्रशास्ता सर्वस्य मायातीतः स्वभावतः । प्रेरयामि तथापीदं कारणं सूरयो विदुः ॥ २,२.५१ ॥ यन्मे गुह्यतमं देहं सर्वगं तत्त्वदर्शिनः । प्रविष्टा मम सायुज्यं लभन्ते योगिनोऽव्ययम् ॥ २,२.५२ ॥ तेषां हि वशमापन्ना माया मे विश्वरूपिणी । लभन्ते परमां शुद्धिं निर्वाणं ते मया सह ॥ २,२.५३ ॥ न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि । प्रसादान्मम योगीन्द्रा एतद्वेदानुशासनम् ॥ २,२.५४ ॥ नापुत्रशिष्ययोगिभ्यो दातव्यं ब्रह्मवादिभिः । मदुक्तमेतद्विज्ञानं सांख्ययोगसमाश्रयम् ॥ २,२.५५ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) द्वितीयोऽध्यायः _____________________________________________________________ ईश्वर उवाच अव्यक्तादभवत्कालः प्रधानं पुरुषः परः । तेभ्यः सर्वमिदं जातं तस्माद्ब्रह्ममयं जगत् ॥ २,३.१ ॥ सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् । सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ २,३.२ ॥ सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् । सर्वाधारं सदानन्दमव्यक्तं द्वैतवर्जितम् ॥ २,३.३ ॥ सर्वोपमानरहितं प्रमाणातीतगोचरम् । निर्विकल्पं निराभासं सर्वावासं परामृतम् ॥ २,३.४ ॥ अभिन्नं भिन्नसंस्थानं शाश्वतं ध्रु वमव्ययम् । निर्गुणं परमं व्योम तज्ज्ञानं सूरयो विदुः ॥ २,३.५ ॥ स आत्मा सर्वभूतानां स बाह्याभ्यन्तरः परः । सोऽहं सर्वत्रगः शान्तो ज्ञानात्मा परमेश्वरः ॥ २,३.६ ॥ मया ततमिदं विश्वं जगदव्यक्तमूर्तिना । मत्स्थानि सर्वभूतानि यस्तं वेद स वेदवित् ॥ २,३.७ ॥ प्रधानं पुरुषं चैव तत्त्वद्वयमुदाहृतम् । तयोरनादिरुद्दिष्टः कालः संयोजकः परः ॥ २,३.८ ॥ त्रयमेतदनाद्यन्तमव्यक्ते समवस्थितम् । तदात्मकं तदन्यत्स्यात्तद्रूपं मामकं विदुः ॥ २,३.९ ॥ महदाद्यं विशेषान्तं संप्रसूतेऽखिलं जगत् । या सा प्रकृतिरुद्दिष्टा मोहिनी सर्वदेहिनाम् ॥ २,३.१० ॥ पुरुषः प्रकृतिस्थो हि भुङ्क्तेयः प्राकृतान् गुणान् । अहङ्कारविमुक्तत्वात्प्रोच्यते पञ्चविंशकः ॥ २,३.११ ॥ आद्यो विकारः प्रकृतेर्महानात्मेति कथ्यते । विज्ञानशक्तिर्विज्ञाता ह्यहङ्कारस्तदुत्थितः ॥ २,३.१२ ॥ एक एव महानात्मा सोऽहङ्कारोऽभिधीयते । स जीवः सोऽन्तरात्मेति गीयते तत्त्वचिन्तकैः ॥ २,३.१३ ॥ तेन वेदयते सर्वं सुखं दुःखं च जन्मसु । स विज्ञानात्मकस्तस्य मनः स्यादुपकारकम् ॥ २,३.१४ ॥ तेनाविवेकतस्तस्मात्संसारः पुरुषस्य तु । स चाविवेकः प्रकृतौ सङ्गात्कालेन सोऽभवत् ॥ २,३.१५ ॥ कालः सृजति भूतानि कालः संहरति प्रजाः । सर्वे कालस्य वशगा न कालः कस्यचिद्वशे ॥ २,३.१६ ॥ सोऽन्तरा सर्वमेवेदं नियच्छति सनातनः । प्रोच्यते भगवान् प्राणः सर्वज्ञः पुरुषोत्तमः ॥ २,३.१७ ॥ सर्वेन्द्रियेभ्यः परमं मन आहुर्मनीषिणः । मनसश्चाप्यहङ्कारमहङ्कारान्महान् परः ॥ २,३.१८ ॥ महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषाद्भगवान् प्राणस्तस्य सर्वमिदं जगत् ॥ २,३.१९ ॥ प्राणात्परतरं व्योम व्योमातीतोऽग्निरीश्वरः । सोऽहं सर्वत्रगः शान्तो ज्ञानात्मा परमेश्वरः । नास्ति मत्तः परं भूतं मां विज्ञाय विमुच्यते ॥ २,३.२० ॥ नित्यं हि नास्ति जगति भूतं स्थावरजङ्गमम् । ऋते मामेकमव्यक्तं व्योमरूपं महेश्वरम् ॥ २,३.२१ ॥ सोऽहं सृजामि सकलं संहरामि सदा जगत् । मायी मायामयो देवः कालेन सह सङ्गतः ॥ २,३.२२ ॥ मत्सन्निधावेष कालः करोति सकलं जगत् । नियोजयत्यनन्तात्मा ह्येतद्वेदानुशासनम् ॥ २,३.२३ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) तृतीयोऽध्यायः _____________________________________________________________ ईश्वर उवाच वक्ष्ये समाहिता यूयं शृणुध्वं ब्रह्मवादिनः । माहात्म्यं देवदेवस्य येनेदं संप्रवर्तते ॥ २,४.१ ॥ नाहं तपोभिर्विविधैर्न दानेन न चेज्यया । शक्यो हि पुरुषैर्ज्ञातुमृते भक्तिमनुत्तमाम् ॥ २,४.२ ॥ अहं हि सर्वभावानामन्तस्तिष्ठामि सर्वगः । मां सर्वसाक्षिणं लोको न जानाति मुनीश्वराः ॥ २,४.३ ॥ यस्यान्तरा सर्वमिदं यो हि सर्वान्तरः परः । सोऽहन्धाता विधाता च कालोऽग्निर्विश्वतोमुखः ॥ २,४.४ ॥ न मां पश्यन्ति मुनयः सर्वेऽपि त्रिदिवौकसः । ब्रह्मा च मनवः शक्रो ये चान्ये प्रथितौजसः ॥ २,४.५ ॥ गृणन्ति सततं वेदा मामेकं परमेश्वरम् । यजन्ति विविधैरग्निं ब्राह्मणा वैदिकैर्मखैः ॥ २,४.६ ॥ सर्वे लोका नमस्यन्ति ब्रह्मा लोकपितामहः । ध्यायन्ति योगिनो देवं भूताधिपतिमीश्वरम् ॥ २,४.७ ॥ अहं हि सर्वहविषां भोक्ता चैव फलप्रदः । सर्वदेवतनुर्भूत्वा सर्वात्मा सर्वसंस्थितः ॥ २,४.८ ॥ मां पश्यन्तीह विद्वांशो धार्मिका वेदवादिनः । तेषां सन्निहितो नित्यं ये भक्त्या मामुपासते ॥ २,४.९ ॥ ब्राह्मणाः क्षत्रिया वैश्या धार्मिका मामुपासते । तेषां ददामि तत्स्थानमानन्दं परमं पदम् ॥ २,४.१० ॥ अन्येऽपि ये विकर्मस्थाः शूद्राद्या नीचजातयः । भक्तिमन्तः प्रमुच्यन्ते कालेन मयि संगताः ॥ २,४.११ ॥ न मद्भक्ता विनश्यन्ति मद्भक्ता वीतकल्मषाः । आदावेतत्प्रतिज्ञातं न मे भक्तः प्रणश्यति ॥ २,४.१२ ॥ यो वै निन्दति तं मूढो देवदेवं स निन्दति । यो हि तं पूजयेद्भक्त्या स पूजयति मां सदा ॥ २,४.१३ ॥ पत्रं पुष्पं फलं तोयं मदाराधनकारणात् । यो मे ददाति नियतः स मे भक्तः प्रियो मतः ॥ २,४.१४ ॥ अहं हि जगतामादौ ब्रह्माणं परमेष्ठिनम् । विधाय दत्तवान् वेदानशेषानात्मनिः सृतान् ॥ २,४.१५ ॥ अहमेव हि सर्वेषां योगिनां गुरुरव्ययः । धार्मिकाणां च गोप्ताहं निहन्ता वेदविद्विषाम् ॥ २,४.१६ ॥ अहं वै सर्वसंसारान्मोचको योगिनामिह । संसारहेतुरेवाहं सर्वसंसारवर्जितः ॥ २,४.१७ ॥ अहमेव हि संहर्ता स्त्रष्टाहं परिपालकः । मायावी मामीका शक्तिर्माया लोकविमोहिनी ॥ २,४.१८ ॥ ममैव च परा शक्तिर्या सा विद्येति गीयते । नाशयामि तया मायां योगिनां हृदि संस्थितः ॥ २,४.१९ ॥ अहं हि सर्वशक्तीनां प्रवर्तकनिवर्तकः । आधारभूतः सर्वासां निधानममृतस्य च ॥ २,४.२० ॥ एका सर्वान्तरा शक्तिः करोति विविधं जगत् । आस्थाय ब्रह्माणो रूपं मन्मयी मदधिष्ठिता ॥ २,४.२१ ॥ अन्या च शक्तिर्विपुला संस्थापयति मे जगत् । भूत्वा नारायणोऽनन्तो जगन्नाथो जगन्मयः ॥ २,४.२२ ॥ तृतीया महती शक्तिर्निहन्ति सकलं जगत् । तामसी मे समाख्याता कालाख्या रुद्ररूपिणी ॥ २,४.२३ ॥ ध्यानेन मां प्रपश्यन्ति केचिज्ज्ञानेन चापरे । अपरे भक्तियोगेन कर्मयोगेन चापरे ॥ २,४.२४ ॥ सर्वेषामेव भक्तानामिष्टः प्रियतरो मम । यो हि ज्ञानेन मां नित्यमाराधयति नान्यथा ॥ २,४.२५ ॥ अन्ये च ये त्रयो भक्ता मदाराधनकाङ्क्षिणः । तेऽपि मां प्राप्नुवन्त्येव नावर्तन्ते च वै पुनः ॥ २,४.२६ ॥ मया ततमिदं कृत्सनं प्रधानपुरुषात्मकम् । मय्येव संस्थितं विश्वं मया संप्रेर्यते जगत् ॥ २,४.२७ ॥ नाहं प्रेरयिता विप्राः परमं योगमाश्रितः । प्रेरयामि जगत्कृत्स्नमेतद्यो वेद सोऽमृतः ॥ २,४.२८ ॥ पश्याम्यशेषमेवेदं वर्तमानं स्वभावतः । करोति कालो भगवान्महायोगेश्वरः स्वयम् ॥ २,४.२९ ॥ योगः संप्रोच्यते योगी माया शास्त्रेषु सूरिभिः । योगेश्वरोऽसौ भगवान्महादेवो महान् प्रभुः ॥ २,४.३० ॥ महत्त्वं सर्वतत्त्वानां परत्वात्परमेष्ठिनः । प्रोच्यते भगवान् ब्रह्मा महान् ब्रह्ममयोऽमलः ॥ २,४.३१ ॥ यो मामेवं विजानाति महायोगेश्वरेश्वरम् । सोऽविकल्पेन योगेन युज्यते नात्र संशयः ॥ २,४.३२ ॥ सोऽहं प्रेरयिता देवः परमानन्दमाश्रितः । नृत्यामि योगी सततं यस्तद्वेद स वेदवित् ॥ २,४.३३ ॥ इति गुह्यतमं ज्ञानं सर्ववेदेषु निष्ठितम् । प्रसन्नचेतसे देयं धार्मिकायाहिताग्नये ॥ २,४.३४ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) चतुर्थोऽध्यायः _____________________________________________________________ व्यास उवाच एतावदुक्त्वा भगवान् योगिनां परमेश्वरः । ननर्त परमं भावमैश्वरं संप्रदर्शयन् ॥ २,५.१ ॥ तं ते ददृशुरीशानं तेजसां परमं निधिम् । नृत्यमानं महादेवं विष्णुना गगनेऽमले ॥ २,५.२ ॥ यं विदुर्योगतत्त्वज्ञा योगिनो यतमानसाः । तमीशं सर्वभूतानामाकशे ददृशुः किल ॥ २,५.३ ॥ यस्य मायामयं सर्वं येनेदं प्रेर्यते जगत् । नृत्यमानः स्वयं विप्रैर्विश्वेशः खलु दृश्यते ॥ २,५.४ ॥ यत्पादपङ्कजं स्मृत्वा पुरुषोऽज्ञानजं भयम् । जहति नृत्यमानं तं भूतेशं ददृशुः किल ॥ २,५.५ ॥ यं विनिद्रा जितश्वासाः शान्ता भक्तिसमन्विताः । ज्योतिर्मयं प्रपश्यन्ति स योगी दृश्यते किल ॥ २,५.६ ॥ योऽज्ञानान्मोचयेत्क्षिप्रं प्रसन्नो भक्तवत्सलः । तमेव मोचकं रुद्रमाकाशे ददृशुः परम् ॥ २,५.७ ॥ सहस्रशिरसं देवं सहस्रचरणाकृतिम् । सहस्रबाहुं जटिलं चन्द्रार्धकृतशेखरम् ॥ २,५.८ ॥ वसानं चर्म वैयाघ्रं शूलासक्तमहाकरम् । दण्डपाणिं त्रयीनेत्रं सूर्यसोमाग्निलोचनम् ॥ २,५.९ ॥ ब्रह्माण्डं तेजसा स्वेन सर्वमावृत्य च स्थितम् । दंष्ट्राकरालं दुर्धर्षं सूर्यकोटिसमप्रभम् ॥ २,५.१० ॥ अण्डस्थं चाण्डबाह्यस्थं बाह्यमभ्यन्तरं परम् । सृजन्तमनलज्वालं दहन्तमखिलं जगत् । नृत्यन्तं ददृशुर्देवं विश्वकर्माणमीश्वरम् ॥ २,५.११ ॥ महादेवं महायोगं देवानामपि दैवतम् । पशूनां पतिमीशानं ज्योतिषां ज्योतिरव्ययम् ॥ २,५.१२ ॥ पिनाकिनं विशालाक्षं भेषजं भवरोगिणाम् । कालात्मानं कालकालं देवदेवं महेश्वरम् ॥ २,५.१३ ॥ उमापतिं विरूपाक्षं योगानन्दमयं परम् । ज्ञानवैराग्यनिलयं ज्ञानयोगं सनातनम् ॥ २,५.१४ ॥ शाश्वतैश्वर्यविभवं धर्माधारं दुरासदम् । महेन्द्रोपेन्द्रनमितं महर्षिगणवन्दितम् ॥ २,५.१५ ॥ आधारं सर्वशक्तीनां महायोगेश्वरेश्वरम् । योगिनां परमं ब्रह्म योगिनां योगवन्दितम् । योगिनां हृदि तिष्ठन्तं योगमायासमावृतम् ॥ २,५.१६ ॥ क्षणेन जगतो योनिं नारायणमनामयम् । ईश्वरेणैकतापन्नमपश्यन् ब्रह्मवादिनः ॥ २,५.१७ ॥ दृष्ट्वा तदैश्वरं रूपं रुद्रनारायणात्मकम् । कृतार्थं मेनिरे सन्तः स्वात्मानं ब्रह्मवादिनः ॥ २,५.१८ ॥ सनत्कुमारः सनको भृगुश्च सनातनश्चैव सनन्दनश्च । रुद्रोऽङ्गिरा वामदेवाथ शुक्रो महर्षिरत्रिः कपिलो मरीचिः ॥ २,५.१९ ॥ दृष्ट्वाथ रुद्रं जगदीशितारं तं पद्मनाभाश्रितवामभागम् । ध्यात्वा हृदिस्थं प्रणिपत्य मूर्ध्ना बद्ध्वाञ्जलिं स्वेषु शिरःसु भूयः ॥ २,५.२० ॥ ओङ्कारमुच्चार्य विलोक्य देवम् अन्तःशरीरे निहितं गुहायाम् । समस्तुवन् ब्रह्ममयैर्वचोभिर् आनन्दपूर्णायतमानसास्ते ॥ २,५.२१ ॥ मुनय ऊचुः त्वामेकमीशं पुरुषं पुराणं प्राणेश्वरं रुद्रमनन्तयोगम् । नमाम सर्वे हृदि सन्निविष्टं प्रचेतसं ब्रह्ममयं पवित्रम् ॥ २,५.२२ ॥ त्वां पश्यन्ति मुनयो ब्रह्मयोनिं दान्ताः शान्ता विमलं रुक्मवर्णम् । ध्यात्वात्मस्थमचलं स्वे शरीरे कविं परेभ्यः परमं तत्परं च ॥ २,५.२३ ॥ त्वत्तः प्रसूता जगतः प्रसूतिः सर्वात्मभूस्त्वं परमाणुभूतः । अणोरणीयान्महतो महीयां स्त्वामेव सर्वं प्रवदन्ति सन्तः ॥ २,५.२४ ॥ हिरण्यगर्भो जगदन्तरात्मा त्वत्तोऽधिजातः पुरुषः पुराणः । संजायमानो भवता विसृष्टो यथाविधानं सकलं ससर्ज ॥ २,५.२५ ॥ त्वत्तो वेदाः सकलाः संप्रसूता स्त्वय्येवान्ते संस्थितिं ते लभन्ते । पश्यामस्त्वां जगतो हेतुभूतं नृत्यन्तं स्वे हृदये सन्निविष्टम् ॥ २,५.२६ ॥ त्वयैवेदं भ्राम्यते ब्रह्मचक्रं मायावी त्वं जगतामेकनाथः । नमामस्त्वां शरणं संप्रपन्ना योगात्मानं चित्पतिं दिव्यनृत्यम् ॥ २,५.२७ ॥ पश्यामस्त्वां परमाकाशमध्ये नृत्यन्तं ते महिमानं स्मरामः । सर्वात्मानं बहुधा सन्निविष्टं ब्रह्मानन्दमनुभूयानुभूय ॥ २,५.२८ ॥ ओङ्कारस्ते वाचको मुक्तिबीजं त्वमक्षरं प्रकृतौ गूढरूपम् । तत्त्वां सत्यं प्रवदन्तीह सन्तः स्वयंप्रभं भवतो यत्प्रकाशम् ॥ २,५.२९ ॥ स्तुवन्ति त्वां सततं सर्ववेदा नमन्ति त्वामृषयः क्षीणदोषाः । शान्तात्मानः सत्यसंधा वरिष्ठं विशन्ति त्वां यतयो ब्रह्मनिष्ठाः ॥ २,५.३० ॥ एको वेदो बहुशाखो ह्यनन्तस् त्वामेवैकं बोधयत्येकरूपम् । वेद्यं त्वां शरणं ये प्रपन्ना स्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ २,५.३१ ॥ भवानीशोऽनादिमांस्तेजोराशिर् ब्रह्मा विश्वं परमेष्ठी वरिष्ठः । स्वात्मानन्दमनुभूयाधिशेते स्वयं ज्योतिरचलो नित्यमुक्तः ॥ २,५.३२ ॥ एको रुद्रस्त्वं करोषीह विश्वं त्वं पालयस्यखिलं विश्वरूपः । त्वामेवान्ते निलयं विन्दतीदं नमामस्त्वां शरणं संप्रपन्नाः ॥ २,५.३३ ॥ त्वामेकमाहुः कविमेकरुद्रं प्राणं बृहन्तं हरिमग्निमीशम् । इन्द्रं मृत्युमनिलं चेकितानं धातारमादित्यमनेकरूपम् ॥ २,५.३४ ॥ त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् । त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषोत्तमोऽसि ॥ २,५.३५ ॥ त्वमेव विष्णुश्चतुराननस्त्वं त्वमेव रुद्रो भगवानधीशः । त्वं विश्वनाभिः प्रकृतिः प्रतिष्ठा सर्वेश्वरस्त्वं परमेश्वरोऽसि ॥ २,५.३६ ॥ त्वामेकमाहुः पुरुषं पुराण मादित्यवर्णं तमसः परस्तात् । चिन्मात्रमव्यक्तमचिन्त्यरूपं खं ब्रह्म शून्यं प्रकृतिं निर्गुणं च ॥ २,५.३७ ॥ यदन्तरा सर्वमिदं विभाति यदव्ययं निर्मलमेकरूपम् । किमप्यचिन्त्यं तव रूपमेतत् तदन्तरा यत्प्रतिभाति तत्त्वम् ॥ २,५.३८ ॥ योगेश्वरं रुद्रमनन्तशक्तिं परायणं ब्रह्मतनुं पवित्रम् । नमाम सर्वे शरणार्थिनस्त्वां प्रसीद भूताधिपते महेश ॥ २,५.३९ ॥ त्वत्पादपद्मस्मरणादशेष संसारबीजं विलयं प्रयाति । मनो नियम्य प्रणिधाय कायं प्रसादयामो वयमेकमीशम् ॥ २,५.४० ॥ नमो भवायास्तु भवोद्भवाय कालाय सर्वाय हराय तुभ्यम् । नमोऽस्तु रुद्राय कपर्दिने ते नमोऽग्नये देव नमः शिवाय ॥ २,५.४१ ॥ ततः स भगवान् देवः कपर्दी वृषवाहनः । संहृत्य परमं रूपं प्रकृतिस्थोऽभवद्भवः ॥ २,५.४२ ॥ ते भवं भूतभव्येशं पूर्ववत्समवस्थितम् । दृष्ट्वा नारायणं देवं विस्मिता वाक्यमब्रुवन् ॥ २,५.४३ ॥ भगवन् भूतभव्येश गोवृषाङ्कितशासन । दृष्ट्वा ते परमं रूपं निर्वृताः स्म सनातन ॥ २,५.४४ ॥ भवत्प्रसादादमले परस्मिन् परमेश्वरे । अस्माकं जायते भक्तिस्त्वय्येवाव्यभिचारिणी ॥ २,५.४५ ॥ इदानीं श्रोतुमिच्छामो माहात्म्यं तव शङ्कर । भूयोऽपि तव यन्नित्यं याथात्म्यं परमेष्ठिनः ॥ २,५.४६ ॥ स तेषां वाक्यमाकर्ण्य योगिनां योगसिद्धिदः । प्राहः गम्भीरया वाचा समालोक्य च माधवम् ॥ २,५.४७ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) पञ्चमोऽध्यायः _____________________________________________________________ ईश्वर उवाच शृणुध्वमृषयः सर्वे यथावत्परमेष्ठिनः । वक्ष्यामीशस्य माहात्म्यं यत्तद्वेदविदो विदुः ॥ २,६.१ ॥ सर्वलोकैकनिर्माता सर्वलोकैकरक्षिता । सर्वलोकैकसंहर्ता सर्वात्माहं सनातनः ॥ २,६.२ ॥ सर्वेषामेव वस्तूनामन्तर्यामी पिता ह्यहम् । मध्ये चान्तः स्थितं सर्वं नाहं सर्वत्र संस्थितः ॥ २,६.३ ॥ भवद्भिरद्भुतं दृष्टं यत्स्वरूपं तु मामकम् । ममैषा ह्युपमा विप्रा मायया दर्शिता मया ॥ २,६.४ ॥ सर्वेषामेव भावानामन्तरा समवस्थितः । प्रेरयामि जगत्कृत्स्नं क्रियाशाक्तिरियं मम ॥ २,६.५ ॥ ययेदं चेष्टते विश्वं तत्स्वभावानुवर्ति च । सोऽहं कालो जगत्कृत्स्नं प्रेरयामि कलात्मकम् ॥ २,६.६ ॥ एकांशेन जगत्कृत्स्नं करोमि मुनिपुङ्गवाः । संहराम्येकरूपेण द्विधावस्था ममैव तु ॥ २,६.७ ॥ आदिमध्यान्तनिर्मुक्तो मायातत्त्वप्रवर्तकः । क्षोभयामि च सर्गादौ प्रधानपुरुषावुभौ ॥ २,६.८ ॥ ताभ्यां संजायते विश्वं संयुक्ताभ्यां परस्परम् । महदादिक्रमेणैव मम तेजो विजृम्भते ॥ २,६.९ ॥ यो हि सर्वजगत्साक्षी कालचक्रप्रवर्तकः । हिरण्यगर्भो मार्तण्डः सोऽपि मद्देहसंभवः ॥ २,६.१० ॥ तस्मै दिव्यं स्वमैश्वर्यं ज्ञानयोगं सनातनम् । दत्तवानात्मजान् वेदान् कल्पादौ चतुरो द्विजाः ॥ २,६.११ ॥ स मन्नियोगतो देवो ब्रह्मा मद्भावभावितः । दिव्यं तन्मामकैश्वर्यं सर्वदा वहति स्वयम् ॥ २,६.१२ ॥ स सर्वलोकनिर्माता मन्नियोगेन सर्ववित् । भूत्वा चतुर्मुखः सर्गं सृजत्येवात्मसंभवः ॥ २,६.१३ ॥ योऽपि नारायणोऽनन्तो लोकानां प्रभवाव्ययः । ममैव परमा मूर्तिः करोति परिपालनम् ॥ २,६.१४ ॥ योऽन्तकः सर्वभूतानां रुद्रः कालात्मकः प्रभुः । मदाज्ञयासौ सततं संहरिष्यति मे तनुः ॥ २,६.१५ ॥ हव्यं वहति देवानां कव्यं कव्याशिनामपि । पाकं च कुरुते वह्निः सोऽपि मच्छक्तिचोदितः ॥ २,६.१६ ॥ भुक्तमाहारजातं च पचते तदहर्निशम् । वैश्वानरोऽग्निर्भगवानीश्वरस्य नियोगतः ॥ २,६.१७ ॥ योऽपि सर्वाम्भसां योनिर्वरुणो देवपुङ्गवः । सोऽपि संजीवयेत्कृत्स्नमीशस्यैव नियोगतः ॥ २,६.१८ ॥ योऽन्तस्तिष्ठति भूतानां बहिर्देवः प्रभञ्जनः । मदाज्ञयासौ भूतानां शरीराणि बिभर्ति हि ॥ २,६.१९ ॥ योऽपि संजीवनो नॄणां देवानाममृताकरः । सोमः स मन्नियोगेन चोदितः किल वर्तते ॥ २,६.२० ॥ यः स्वभासा जगत्कृत्स्नं प्रकाशयति सर्वदा । सूर्यो वृष्टिं वितनुते शास्त्रेणैव स्वयंभुवः ॥ २,६.२१ ॥ योऽप्यशेषजगच्छास्ता शक्रः सर्वामरेश्वरः । यज्वनां फलदो देवो वर्ततेऽसौ मदाज्ञया ॥ २,६.२२ ॥ यः प्रशास्ता ह्यसाधूनां वर्तते नियमादिह । यमो वैवस्वतो देवो देवदेवनियोगतः ॥ २,६.२३ ॥ योऽपि सर्वधनाध्यक्षो धनानां संप्रदायकः । सोऽपीश्वरनियोगेन कुबेरो वर्तते सदा ॥ २,६.२४ ॥ यः सर्वरक्षसां नाथस्तामसानां फलप्रदः । मन्नियोगादसौ देवो वर्तते निरृतिः सदा ॥ २,६.२५ ॥ वेतालगणभूतानां स्वामी भोगफलप्रदः । ईशानः किल भक्तानां सोऽपि तिष्ठन्ममाज्ञया ॥ २,६.२६ ॥ यो वामदेवोऽङ्गिरसः शिष्यो रुद्रगणाग्रणीः । रक्षको योगिनां नित्यं वर्ततेऽसौ मदाज्ञया ॥ २,६.२७ ॥ यश्च सर्वजगत्पूज्यो वर्तते विघ्नकारकः । विनायको धर्मनेता सोऽपि मद्वचनात्किल ॥ २,६.२८ ॥ योऽपि ब्रह्मविदां श्रेष्ठो देवसेनापतिः प्रभुः । स्कन्दोऽसौ वर्तते नित्यं स्वयंभूर्विधिचोदितः ॥ २,६.२९ ॥ ये च प्रजानां पतयो मरीच्याद्या महर्षयः । सृजन्ति विविधं लोकं परस्यैव नियोगतः ॥ २,६.३० ॥ या च श्रीः सर्वभूतानां ददाति विपुलां श्रियम् । पत्नी नारायणस्यासौ वर्तते मदनुग्रहात् ॥ २,६.३१ ॥ वाचं ददाति विपुलां या च देवी सरस्वती । सापीश्वरनियोगेन चोदिता संप्रवर्तते ॥ २,६.३२ ॥ याशेषपुरुषान् घोरान्नरकात्तारयिष्यति । सावित्री संस्मृता देवी देवाज्ञानुविधायिनी ॥ २,६.३३ ॥ पार्वती परमा देवी ब्रह्मविद्याप्रदायिनी । यापि ध्याता विशेषेण सापि मद्वचनानुगा ॥ २,६.३४ ॥ योऽनन्तमहिमानन्तः शेषोऽशेषामरप्रभुः । दधाति शिरसा लोकं सोऽपि देवनियोगतः ॥ २,६.३५ ॥ योऽग्निः संवर्तको नित्यं वडवारूपसंस्थितः । पिबत्यखिलमम्भोधिमीश्वरस्य नियोगतः ॥ २,६.३६ ॥ ये चतुर्दश लोकेऽस्मिन्मनवः प्रथितौजसः । पालयन्ति प्रजाः सर्वास्तेऽपि तस्य नियोगतः ॥ २,६.३७ ॥ आदित्या वसवो रुद्रा मरुतश्च तथाश्विनौ । अन्याश्च देवताः सर्वा मच्छास्त्रेणैव धिष्ठिताः ॥ २,६.३८ ॥ गन्धर्वा गरुडा ऋक्षाः सिद्धाः साध्याश्चचारणाः । यक्षरक्षः पिशाचाश्च स्थिताः शास्त्रे स्वयंभुवः ॥ २,६.३९ ॥ कलाकाष्ठानिमेषाश्च मुहूर्ता दिवसाः क्षपाः । ऋतवः पक्षमासाश्च स्थिताः शास्त्रे प्रजापतेः ॥ २,६.४० ॥ युगमन्वन्तराण्येव मम तिष्ठन्ति शासने । पराश्चैव परार्धाश्च कालभेदास्तथा परे ॥ २,६.४१ ॥ चतुर्विधानि भूतानि स्थावराणि चराणि च । नियोगादेव वर्तन्ते देवस्य परमात्मनः ॥ २,६.४२ ॥ पातालानि च सर्वाणि भुवनानि च शासनात् । ब्रह्माण्डानि च वर्तन्ते सर्वाण्येव स्वयंभुवः ॥ २,६.४३ ॥ अतीतान्यप्यसंख्यानि ब्रह्माण्डानि ममाज्ञया । प्रवृत्तानि पदार्थौघैः सहितानि समन्ततः ॥ २,६.४४ ॥ ब्रह्माण्डानि भविष्यन्ति सह वस्तुभिरात्मगैः । वहिष्यन्ति सदैवाज्ञां परस्य परमात्मनः ॥ २,६.४५ ॥ भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च । भूतादिरादिप्रकृतिर्नियोगे मम वर्तते ॥ २,६.४६ ॥ याशेषजगतां योनिर्मोहिनी सर्वदेहिनाम् । माया विवर्तते नित्यं सापीश्वरनियोगतः ॥ २,६.४७ ॥ यो वै देहभृतां देवः पुरुषः पठ्यते परः । आत्मासौ वर्तते नित्यमीश्वरस्य नियोगतः ॥ २,६.४८ ॥ विधूय मोहकलिलं यया पश्यति तत्पदम् । सापि विद्या महेशस्य नियोगवशवर्तिनी ॥ २,६.४९ ॥ बहुनात्र किमुक्तेन मम शक्त्यात्मकं जगत् । मयैव प्रेर्यते कृत्स्नं मय्येव प्रलयं व्रजेत् ॥ २,६.५० ॥ अहं हि भगवानीशः स्वयं ज्योतिः सनातनः । परमात्मा परं ब्रह्म मत्तो ह्यन्यन्न विद्यते ॥ २,६.५१ ॥ इत्येतत्परमं ज्ञानं युष्माकं कथितं मया । ज्ञात्वा विमुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ २,६.५२ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) षष्ठोऽध्यायः _____________________________________________________________ ईश्वर उवाच शृणुध्वमृषयः सर्वे प्रभावं परमेष्ठिनः । यं ज्ञात्वा पुरुषो मुक्तो न संसारे पतेत्पुनः ॥ २,७.१ ॥ परात्परतरं ब्रह्म शाश्वतं निष्कलं ध्रुवम् । नित्यानन्दं निर्विकल्पं तद्धाम परमं मम ॥ २,७.२ ॥ अहं ब्रह्मविदां ब्रह्मा स्वयंभूर्विश्वतोमुखः । मायाविनामहं देवः पुराणो हरिरव्ययः ॥ २,७.३ ॥ योगिनामस्म्यहं शंभुः स्त्रीणां देवी गिरीन्द्रजा । आदित्यानामहं विष्णुर्वसूनामस्मि पावकः ॥ २,७.४ ॥ रुद्राणां शङ्करश्चाहं गरुडः पततामहम् । ऐरावतो गजेन्द्राणां रामः शस्त्रभृतामहम् ॥ २,७.५ ॥ ऋषीणां च वसिष्ठोऽहं देवानां च शतक्रतुः । शिल्पिनां विश्वकर्माहं प्रह्लादोऽस्म्यमरद्विषाम् ॥ २,७.६ ॥ मुनीनामप्यहं व्यासो गणानां च विनायकः । वीराणां वीरभद्रोऽहं सिद्धानां कपिलो मुनिः ॥ २,७.७ ॥ पर्वतानामहं मेरुर्नक्षत्राणां च चन्द्रमाः । वज्रं प्रहरणानां च व्रतानां सत्यमस्म्यहम् ॥ २,७.८ ॥ अनन्तो भोगिनां देवः सेनानीनां च पावकिः । आश्रमाणां च गार्हस्थमीश्वराणां महेश्वरः ॥ २,७.९ ॥ महाकल्पश्च कल्पानां युगानां कृतमस्म्यहम् । कुबेरः सर्वयक्षाणां गणेशानां च वीरकः ॥ २,७.१० ॥ प्रजापतीनां दक्षोऽहं निरृतिः सर्वरक्षसाम् । वायुर्बलवतामस्मि द्वीपानां पुष्करोऽस्म्यहम् ॥ २,७.११ ॥ मृगेन्द्राणां च सिंहोऽहं यन्त्राणां धनुरेव च । वेदानां सामवेदोऽहं यजुषां शतरुद्रियम् ॥ २,७.१२ ॥ सावित्री सर्वजप्यानां गुह्यानां प्रणवोऽस्म्यहम् । सूक्तानां पौरुषं सूक्तं ज्येष्ठसाम च सामसु ॥ २,७.१३ ॥ सर्ववेदार्थविदुषां मनुः स्वायंभुवोऽस्म्यहम् । ब्रह्मावर्तस्तु देशानां क्षेत्राणामविमुक्तकम् ॥ २,७.१४ ॥ विद्यानामात्मविद्याहं ज्ञानानामैश्वरं परम् । भूतानामस्म्यहं व्योम सत्त्वानां मृत्युरेव च ॥ २,७.१५ ॥ पाशानामस्म्यहं माया कालः कलयतामहम् । गतीनां मुक्तिरेवाहं परेषां परमेश्वरः ॥ २,७.१६ ॥ यच्चान्यदपि लोकेऽस्मिन् सत्त्वं तेजोबलाधिकम् । तत्सर्वं प्रतिजानीध्वं मम तेजोविजृम्भितम् ॥ २,७.१७ ॥ आत्मानः पशवः प्रोक्ताः सर्वे संसारवर्तिनः । तेषां पतिरहं देवः स्मृतः पशुपतिर्बुधैः ॥ २,७.१८ ॥ मायापाशेन बध्नामि पशूनेतान् स्वलीलया । मामेव मोचकं प्राहुः पशूनां वेदवादिनः ॥ २,७.१९ ॥ मायापाशेन बद्धानां मोचकोऽन्यो न विद्यते । मामृते परमात्मानं भूताधिपतिमव्ययम् ॥ २,७.२० ॥ चतुर्विंशतितत्त्वानि माया कर्म गुणा इति । एते पाशाः पशुपतेः क्लेशाश्च पशुबन्धनाः ॥ २,७.२१ ॥ मनो बुद्धिरहङ्कारः खानिलाग्निजलानि भूः । एताः प्रकृतयस्त्वष्टौ विकाराश्च तथापरे ॥ २,७.२२ ॥ श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं चैव तु पञ्चमम् । पायूपस्थं करौ पादौ वाक्चैव दशमी मता ॥ २,७.२३ ॥ शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च । त्रयोविंशतिरेतानि तत्त्वानि प्राकृतानि तु ॥ २,७.२४ ॥ चतुर्विंशकमव्यक्तं प्रधानं गुणलक्षणम् । अनादिमध्यनिधनं कारणं जगतः परम् ॥ २,७.२५ ॥ सत्त्वं रजस्तमश्चेति गुणत्रयमुदाहृतम् । साम्यावस्थितिमेतेषामव्यक्तं प्रकृतिं विदुः ॥ २,७.२६ ॥ सत्त्वं ज्ञानं तमोऽज्ञानं रजो मिश्रमुदाहृतम् । गुणानां बुद्धिवैषम्याद्वैषम्यं कवयो विदुः ॥ २,७.२७ ॥ धर्माधर्माविति प्रोक्तौ पाशौ द्वौ बन्धसंज्ञितौ । मय्यर्पितानि कर्माणि निबन्धाय विमुक्तये ॥ २,७.२८ ॥ अविद्यामस्मितां रागं द्वेषं चाभिनिवेशकम् । क्लेशाख्यानचलान् प्राहुः पाशानात्मनिबन्धनान् ॥ २,७.२९ ॥ एतेषामेव पाशानां माया कारणमुच्यते । मूलप्रकृतिरव्यक्ता सा शक्तिर्मयि तिष्ठति ॥ २,७.३० ॥ स एव मूलप्रकृतिः प्रधानं पुरुषोऽपि च । विकारा महदादीनि देवदेवः सनातनः ॥ २,७.३१ ॥ स एव बन्धः स च बन्धकर्ता स एव पाशः पशवः स एव । स वेद सर्वं न च तस्य वेत्ता तमाहुरग्र्यं पुरुषं पुराणम् ॥ २,७.३२ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) सप्तमोऽध्यायः _____________________________________________________________ ईश्वर उवाच अन्यद्गुह्यतमं ज्ञानं वक्ष्ये ब्राह्मणपुङ्गवाः । येनासौ तरते जन्तुर्घोरं संसारसागरम् ॥ २,८.१ ॥ अहं ब्रह्ममयः शान्तः शाश्वतो निर्मलोऽव्ययः । एकाकी भगवानुक्तः केवलः परमेश्वरः ॥ २,८.२ ॥ मम योनिर्महद्ब्रह्म तत्र गर्भं दधाम्यहम् । मूलं मायाभिधानं तु ततो जातमिदं जगत् ॥ २,८.३ ॥ प्रधानं पुरुषो ह्यत्मा महान् भूतादिरेव च । तन्मात्राणि महाभूतानीन्द्रियाणि च जज्ञिरे ॥ २,८.४ ॥ ततोऽण्डमभवद्धैमं सूर्यकोटिसमप्रभम् । तस्मिन् जज्ञे महाब्रह्मा मच्छक्त्या चोपबृंहितः ॥ २,८.५ ॥ ये चान्ये बहवो जीवा मन्मयाः सर्व एव ते । न मां पश्यन्ति पितरं मायया मम मोहिताः ॥ २,८.६ ॥ याश्च योनिषु सर्वासु संभवन्ति हि मूर्तयः । तासां माया परा योनिर्मामेव पितरं विदुः ॥ २,८.७ ॥ यो मामेवं विजानाति बीजिनं पितरं प्रभुम् । स धीरः सर्वलोकेषु न मोहमधिगच्छति ॥ २,८.८ ॥ ईशानः सर्वविद्यानां भूतानां परमेश्वरः । ओङ्कारमूर्तिर्भगवानहं ब्रह्मा प्रजापतिः ॥ २,८.९ ॥ समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् । विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ २,८.१० ॥ समं पश्यन् हि सर्वत्र समवस्थितमीश्वरम् । न हिनस्त्यात्मनात्मानं ततो याति पराङ्गतिम् ॥ २,८.११ ॥ विदित्वा सप्त सूक्ष्माणि षडङ्गं च महेश्वरम् । प्रधानविनियोगज्ञः परं ब्रह्माधिगच्छति ॥ २,८.१२ ॥ सर्वज्ञता तृप्तिरनादिबोधः स्वतन्त्रता नित्यमलुप्तशक्तिः । अनन्तशक्तिश्च विभोर्विदित्वा षडाहुरङ्गानि महेश्वरस्य ॥ २,८.१३ ॥ तन्मात्राणि मन आत्मा च तानि सूक्ष्माण्याहुः सप्त तत्त्वात्मकानि । या सा हेतुः प्रकृतिः सा प्रधानं बन्धः प्रोक्तो विनियोगोऽपि तेन ॥ २,८.१४ ॥ या सा शक्तिः प्रकृतौ लीनरूपा वेदेषूक्ता कारणं ब्रह्मयोनिः । तस्या एकः परमेष्ठी परस्ता न्महेश्वरः पुरुषः सत्यरूपः ॥ २,८.१५ ॥ ब्रह्मा योगी परमात्मा महीयान् व्योमव्यापी वेदवेद्यः पुराणः । एको रुद्रो मृत्युरव्यक्तमेकं बीजं विश्वं देव एकः स एव ॥ २,८.१६ ॥ तमेवैकं प्राहुरन्येऽप्यनेकं त्वेकात्मानं केचिदन्यत्तथाहुः । अणोरणीयान्महतोऽसौ महीयान् महादेवः प्रोच्यते वेदविद्भिः ॥ २,८.१७ ॥ एवं हि यो वेद गुहाशयं परं प्रभुं पुराणं पुरुषं विश्वरूपम् । हिरण्मयं बुद्धिमतां परां गतिं स बुद्धिमान् बुद्धिमतीत्य तिष्ठति ॥ २,८.१८ ॥ इति श्रीकूर्मपाराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) अष्टमोऽध्यायः _____________________________________________________________ ऋषय ऊचुः निष्कलो निर्मलो नित्यो निष्क्रियः परमेश्वरः । तन्नो वद महादेव विश्वरूपः कथं भवान् ॥ २,९.१ ॥ ईश्वर उवाच नाहं विश्वो न विश्वं च मामृते विद्यते द्विजाः । मायानिमित्तमत्रास्ति सा चात्मानमपाश्रिता ॥ २,९.२ ॥ अनादिनिधना शक्तिर्मायाव्यक्तसमाश्रया । तन्निमित्तः प्रपञ्चोऽयमव्यक्तादभवत्खलु ॥ २,९.३ ॥ अव्यक्तं कारणं प्राहुरानन्दं ज्योतिरक्षरम् । अहमेव परं ब्रह्म मत्तो ह्यन्यन्न विद्यते ॥ २,९.४ ॥ तस्मान्मे विश्वरूपत्वं निश्चितं ब्रह्मवादिभिः । एकत्वे च पृथक्त्वे च प्रोक्तमेतन्निदर्शनम् ॥ २,९.५ ॥ अहं तत्परमं ब्रह्म परमात्मा सनातनः । अकारणं द्विजाः प्रोक्तो न दोषो ह्यात्मनस्तथा ॥ २,९.६ ॥ अनन्ता शक्तयोऽव्यक्ते मायाद्याः संस्थिता ध्रुवाः । तस्मिन् दिवि स्थितं नित्यमव्यक्तं भाति केवलम् ॥ २,९.७ ॥ याभिस्तल्लक्ष्यते भिन्नमभिन्नं तु स्वभावतः । एकया मम सायुज्यमनादिनिधनं ध्रुवम् ॥ २,९.८ ॥ पुंसोऽभूदन्यया भूतिरन्यया तत्तिरोहितम् । अनादिमध्यं तिष्ठन्तं युज्यतेऽविद्यया किल ॥ २,९.९ ॥ तदेतत्परमं व्यक्तं प्रभामण्डलमण्डितम् । तदक्षरं परं ज्योतिस्तद्विष्णोः परमं पदम् ॥ २,९.१० ॥ तत्र सर्वमिदं प्रोतमोतं चैवाखिलं जगत् । तदेव च जगत्कृत्स्नं तद्विज्ञाय विमुच्यते ॥ २,९.११ ॥ यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । आनन्दं ब्रह्मणो विद्वान् विभेति न कुतश्चन ॥ २,९.१२ ॥ वेदाहमेतं पुरुषं महान्त मादित्यवर्णं तमसः परस्तात् । तद्विज्ञाय परिमुच्येत विद्वान् नित्यानन्दी भवति ब्रह्मभूतः ॥ २,९.१३ ॥ यस्मात्परं नापरमस्ति किञ्चित् यज्ज्योतिषां ज्योतिरेकं दिविस्थम् । तदेवात्मानं मन्यमानोऽथ विद्वान् आत्मानन्दी भवति ब्रह्मभूतः ॥ २,९.१४ ॥ तदव्ययं कलिलं गूढदेहं ब्रह्मानन्दममृतं विश्वधाम । वदन्त्येवं ब्राह्मणा ब्रह्मनिष्ठा यत्र गत्वा न निवर्तेत भूयः ॥ २,९.१५ ॥ हिरण्मये परमाकाशतत्त्वे यदर्चिषि प्रविभातीव तेजः । तद्विज्ञाने परिपश्यन्ति धीरा विभ्राजमानं विमलं व्योम धाम ॥ २,९.१६ ॥ ततः परं परिपश्यन्ति धीरा आत्मन्यात्मानमनुभूयानुभूय । स्वयंप्रभः परमेष्ठी महीयान् ब्रह्मानन्दी भगवानीश एषः ॥ २,९.१७ ॥ एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा । तमेवैकं येऽनुपश्यन्ति धीरास् तेषां शान्तिः शाश्वती नेतरेषाम् ॥ २,९.१८ ॥ सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः । सर्वव्यापी च भगवान्न तस्मादन्यदिष्यते ॥ २,९.१९ ॥ इत्येतदैश्वरं ज्ञानमुक्तं वो मुनिपुङ्गवाः । गोपनीयं विशेषेण योगिनामपि दुर्लभम् ॥ २,९.२० ॥ इति श्रीकूर्मपाराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) नवमोऽध्यायः _____________________________________________________________ ईश्वर उवाच अलिङ्गमेकमव्यक्तं लिङ्गं ब्रह्मेति निश्चितम् । स्वयञ्ज्योतिः परं तत्त्वं परे व्योम्नि व्यवस्थितम् ॥ २,१०.१ ॥ अव्यक्तं कारणं यत्तदक्षरं परमं पदम् । निर्गुणं शुद्धविज्ञानं तद्वै पश्यन्ति सूरयः ॥ २,१०.२ ॥ तन्निष्ठाः शान्तसंकल्पा नित्यं तद्भावभाविताः । पश्यन्ति तत्परं ब्रह्म यत्तल्लिङ्गमिति श्रुतिः ॥ २,१०.३ ॥ अन्यथा नहि मां द्रष्टुं शक्यं वै मुनिपुङ्गवाः । नहि तद्विद्यते ज्ञानं यतस्तज्ज्ञायते परम् ॥ २,१०.४ ॥ एतत्तत्परमं ज्ञानं केवलं कवयो विदुः । अज्ञानमितरत्सर्वं यस्मान्मायामयं जगत् ॥ २,१०.५ ॥ यज्ज्ञानं निर्मलं सूक्ष्मं निर्विकल्पं यदव्ययम् । ममात्मासौ तदेवेमिति प्राहुर्विपश्चितः ॥ २,१०.६ ॥ येऽप्यनेकं प्रपश्यन्ति तेऽपि पश्यन्ति तत्परम् । आश्रिताः परमां निष्ठां बुद्ध्वैकं तत्त्वमव्ययम् ॥ २,१०.७ ॥ ये पुनः परमं तत्त्वमेकं वानेकमीश्वरम् । भक्त्या मां संप्रपश्यन्ति विज्ञेयास्ते तदात्मकाः ॥ २,१०.८ ॥ साक्षादेव प्रपश्यन्ति स्वात्मानं परमेश्वरम् । नित्यानन्दं निर्विकल्पं सत्यरूपमिति स्थितिः ॥ २,१०.९ ॥ भजन्ते परमानन्दं सर्वगं यत्तदात्मकम् । स्वात्मन्यवस्थिताः शान्ताः परेऽव्यक्ते परस्य तु ॥ २,१०.१० ॥ एषा विमुक्तिः परमा मम सायुज्यमुत्तमम् । निर्वाणं ब्रह्मणा चैक्यं कैवल्यं कवयो विदुः ॥ २,१०.११ ॥ तस्मादनादिमध्यान्तं वस्त्वेकं परमं शिवम् । स ईश्वरो महादेवस्तं विज्ञाय विमुच्यते ॥ २,१०.१२ ॥ न तत्र सूर्यः प्रविभातीह चन्द्रो न नक्षत्राणि तपनो नोत विद्युत् । तद्भासेदमखिलं भाति नित्यं तन्नित्यभासमचलं सद्विभाति ॥ २,१०.१३ ॥ नित्योदितं संविदा निर्विकल्पं शुद्धं बृहन्तं परमं यद्विभाति । अत्रान्तरं ब्रह्मविदोऽथ नित्यं पश्यन्ति तत्त्वमचलं यत्स ईशः ॥ २,१०.१४ ॥ नित्यानन्दममृतं सत्यरूपं शुद्धं वदन्ति पुरुषं सर्ववेदाः । तदेवेदमिति प्रणवेनेशितारं धायायन्ति वेदार्थविनिश्चितार्थाः ॥ २,१०.१५ ॥ न भूमिरापो न मनो न वह्निः प्राणोऽनिलो गगनं नोत बुद्धिः । न चेतनोऽन्यत्परमाकाशमध्ये विभाति देवः शिव एव केवलः ॥ २,१०.१६ ॥ इत्येतदुक्तं परमं रहस्यं ज्ञानामृतं सर्ववेदेषु गूढम् । जानाति योगी विजनेऽथ देशे युञ्जीत योगं प्रयतो ह्यजस्रम् ॥ २,१०.१७ ॥ इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) दशमोऽध्यायः _____________________________________________________________ ईश्वर उवाच अतः परं प्रवक्ष्यामि योगं परमदुर्लभम् । येनात्मानं प्रपश्यन्ति भानुमन्तमिवेश्वरम् ॥ २,११.१ ॥ योगाग्निर्दहति क्षिप्रमशेषं पापपञ्जरम् । प्रसन्नं जायते ज्ञानं साक्षान्निर्वाणसिद्धिदम् ॥ २,११.२ ॥ योगात्संजायते ज्ञानं ज्ञानाद्योगः प्रवर्तते । योगज्ञानाभियुक्तस्य प्रसीदति महेश्वरः ॥ २,११.३ ॥ एककालं द्विकालं वा त्रिकालं नित्यमेव वा । ये युञ्जन्तीह मद्योगं ते विज्ञेया महेश्वराः ॥ २,११.४ ॥ योगस्तु द्विविधो ज्ञेयो ह्यभावः प्रथमो मतः । अपरस्तु महायोगः सर्वयोगोत्तमोत्तमः ॥ २,११.५ ॥ शून्यं सर्वनिराभासं स्वरूपं यत्र चिन्त्यते । अभावयोगः स प्रोक्तो येनात्मानं प्रपश्यति ॥ २,११.६ ॥ यत्र पश्यति चात्मानं नित्यानन्दं निरञ्जनम् । मयैक्यं स महायोगो भाषितः परमेश्वरः ॥ २,११.७ ॥ ये चान्ये योगिनां योगाः श्रूयन्ते ग्रन्थविस्तरे । सर्वे ते ब्रह्मयोगस्य कलां नार्हन्ति षोडशीम् ॥ २,११.८ ॥ यत्र साक्षात्प्रपश्यन्ति विमुक्ता विश्वमीश्वरम् । सर्वेषामेव योगानां स योगः परमो मतः ॥ २,११.९ ॥ सहस्रशोऽथ शतशो ये चेश्वरबहिष्कृताः । न ते पश्यन्ति मामेकं योगिनो यतमानसाः ॥ २,११.१० ॥ प्राणायामस्तथा ध्यानं प्रत्याहारोऽथ धारणा । समाधिश्च मुनिश्रेष्ठा यमो नियम आसनम् ॥ २,११.११ ॥ मय्येकचित्ततायोगो वृत्त्यन्तरनिरोधतः । तत्साधनान्यष्टधा तु युष्माकं कथितानि तु ॥ २,११.१२ ॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ । यमाः संक्षेपतः प्रोक्ताश्चित्तशुद्धिप्रदा नृणाम् ॥ २,११.१३ ॥ कर्मणा मनसा वाचा सर्वभूतेषु सर्वदा । अक्लेशजननं प्रोक्तं त्वहिंसा परमर्षिभिः ॥ २,११.१४ ॥ अहिंसायाः परो धर्मो नास्त्यहिंसा परं सुखम् । विधिना या भवेद्धिंसा त्वहिंसैव प्रकीर्तिता ॥ २,११.१५ ॥ सत्येन सर्वमाप्नोति सत्ये सर्वं प्रतिष्ठितम् । यथार्थकथनाचारः सत्यं प्रोक्तं द्विजातिभिः ॥ २,११.१६ ॥ परद्रव्यापहरणं चौर्याद्वाथ बलेन वा । स्तेयं तस्यानाचरणादस्तेयं धर्मसाधनम् ॥ २,११.१७ ॥ कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा । सर्वत्र मैथुनत्यागं ब्रह्मचर्यं प्रचक्षते ॥ २,११.१८ ॥ द्रव्याणामप्यनादानमापद्यपि यथेच्छया । अपरिग्रह इत्याहुस्तं प्रयत्नेन पालयेत् ॥ २,११.१९ ॥ तपः स्वाध्यायसंतोषाः शौचमीश्वरपूजनम् । समासान्नियमाः प्रोक्ता योगसिद्धिप्रदायिनः ॥ २,११.२० ॥ उपवासपराकादिकृच्छ्रचान्द्रायणादिभिः । शरीरशोषणं प्राहुस्तापसास्तप उत्तमम् ॥ २,११.२१ ॥ वेदान्तशतरुद्रीयप्रणवादिजपं बुधाः । सत्त्वशुद्धिकरं पुंसां स्वाध्यायं परिचक्षते ॥ २,११.२२ ॥ स्वाध्यायस्य त्रयो भेदा वाचिकोपांशुमानसाः । उत्तरोत्तरवैशिष्ट्यं प्राहुर्वेदार्थवेदिनः ॥ २,११.२३ ॥ यः शब्दबोधजननः परेषां शृण्वतां स्फुटम् । स्वाध्यायो वाचिकः प्रोक्त उपांशोरथ लक्षणम् ॥ २,११.२४ ॥ ओष्ठयोः स्पन्दमात्रेण परस्याशब्दबोधकः । उपांशुरेष निर्दिष्टः साहस्रो वाचिकाज्जपः ॥ २,११.२५ ॥ यत्पदाक्षरसङ्गत्या परिस्पन्दनवर्जितम् । चिन्तनं सर्वशब्दानां मानसं तं जपं विदुः ॥ २,११.२६ ॥ यदृच्छालाभतो नित्यमलं पुंसो भवेदिति । या धीस्तामृषयः प्राहुः संतोषं सुखलक्षणम् ॥ २,११.२७ ॥ बाह्यमाभ्यन्तरं शौचं द्विधा प्रोक्तं द्विजोत्तमाः । मृज्जलाभ्यां स्मृतं बाह्यं मनःशुद्धिरथान्तरम् ॥ २,११.२८ ॥ स्तुतिस्मरणपूजाभिर्वाङ्मनःकायकर्मभिः । सुनिश्चला शिवे भक्तिरेतदीश्वरपूजनम् ॥ २,११.२९ ॥ यमाः सनियमाः प्रोक्ताः प्राणायामं निबोधत । प्राणः स्वदेहजो वायुरायामस्तन्निरोधनम् ॥ २,११.३० ॥ उत्तमाधममध्यत्वात्त्रिधायं प्रतिपादितः । स एव द्विविधः प्रोक्तः सगर्भोऽगर्भ एव च ॥ २,११.३१ ॥ मात्राद्वादशको मन्दश्चतुर्विंशतिमात्रिकः । मध्यमः प्राणसंरोधः षट्त्रिंशन्मात्रिकोत्तमः ॥ २,११.३२ ॥ प्रस्वेदकम्पनोत्थानजनकत्वं यथाक्रमम् । मन्दमध्यममुख्यानामानन्दादुत्तमोत्तमः ॥ २,११.३३ ॥ सगर्भमाहुः सजपमगर्भं विजपं बुधाः । एतद्वै योगिनामुक्तं प्राणायामस्य लक्षणम् ॥ २,११.३४ ॥ सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह । त्रिर्जपेदायतप्राणः प्राणायामः स उच्यते ॥ २,११.३५ ॥ रेचकः पूरकश्चैव प्राणायामोऽथ कुम्भकः । प्रोच्यते सर्वशास्त्रेषु योगिभिर्यतमानसैः ॥ २,११.३६ ॥ रेचकोऽजस्त्रनिश्वासात्पूरकस्तन्निरोधतः । साम्येन संस्थितिर्या सा कुम्भकः परिगीयते ॥ २,११.३७ ॥ इन्द्रियाणां विचरतां विषयेषु स्वभावतः । निग्रहः प्रोच्यते सद्भिः प्रत्याहारस्तु सत्तमाः ॥ २,११.३८ ॥ हृत्पुण्डरीके नाभ्यां वा मूर्ध्नि पर्वतमस्तके । एवमादिषु देशेषु धारणा चित्तबन्धनम् ॥ २,११.३९ ॥ देशावस्थितिमालम्ब्य बुद्धेर्या वृत्तिसंततिः । वृत्त्यन्तरैरसंसृष्टा तद्ध्यानं सूरयो विदुः ॥ २,११.४० ॥ एकाकारः समाधिः स्याद्देशालम्बनवर्जितः । प्रत्ययो ह्यर्थमात्रेण योगसाधनमुत्तमम् ॥ २,११.४१ ॥ धारणा द्वादशायामा ध्यानं द्वादशधारणाः । ध्यानं द्वादशकं यावत्समाधिरभिधीयते ॥ २,११.४२ ॥ आसनं स्वस्तिकं प्रोक्तं पद्ममर्धासनं तथा । साधनानां च सर्वेषामेतत्साधनमुत्तमम् ॥ २,११.४३ ॥ ऊर्वोरुपरि विप्रेन्द्राः कृत्वा पादतले उभे । समासीतात्मनः पद्ममेतदासनमुत्तमम् ॥ २,११.४४ ॥ एकं पादमथैकस्मिन् विन्यस्योरुणि सत्तमाः । आसीतार्धासनमिदं योगसाधनमुत्तमम् ॥ २,११.४५ ॥ उभे कृत्वा पादतले जानूर्वोरन्तरेण हि । समासीतात्मनः प्रोक्तमासनं स्वस्तिकं परम् ॥ २,११.४६ ॥ अदेशकाले योगस्य दर्शनं हि न विद्यते । अग्न्यभ्यासे जले वापि शुष्कपर्णचये तथा ॥ २,११.४७ ॥ जन्तुव्याप्ते श्मशाने च जीर्णगोष्ठे चतुष्पथे । सशब्दे सभये वापि चैत्यवल्मीकसंचये ॥ २,११.४८ ॥ अशुभे दुर्जनाक्रान्ते मशकादिसमन्विते । नाचरेद्देहबाधे वा दौर्मनस्यादिसंभवे ॥ २,११.४९ ॥ सुगुप्ते सुशुभे देशे गुहायां पर्वतस्य तु । नद्यास्तीरे पुण्यदेशे देवतायतने तथा ॥ २,११.५० ॥ गृहे वा सुशुभे रम्ये विजने जन्तुवर्जिते । युञ्जीत योगी सततमात्मानं मत्परायणः ॥ २,११.५१ ॥ नमस्कृत्य तु योगीन्द्रान् सशिष्यांश्च विनायकम् । गुरुं चैवाथ मां योगी युञ्जीत सुसमाहितः ॥ २,११.५२ ॥ आसनं स्वस्तिकं बद्ध्वा पद्ममर्धमथापि वा । नासिकाग्रे समां दृष्टिमीषदुन्मीलितेक्षणः ॥ २,११.५३ ॥ कृत्वाथ निर्भयः शान्तस्त्यक्त्वा मायामयं जगत् । स्वात्मन्यवस्थितं देवं चिन्तयेत्परमेश्वरम् ॥ २,११.५४ ॥ शिखाग्रे द्वादशाङ्गुल्ये कल्पयित्वाथ पङ्कजम् । धर्मकन्दसमुद्भूतं ज्ञाननालं सुशोभनम् ॥ २,११.५५ ॥ ऐश्वर्याष्टदलं श्वेतं परं वैराग्यकर्णिकम् । चिन्तयेत्परमं कोशं कर्णिकायां हिरण्मयम् ॥ २,११.५६ ॥ सर्वशक्तिमयं साक्षाद्यं प्राहुर्दिव्यमव्ययम् । ओङ्कारवाच्यमव्यक्तं रश्मिजालसमाकुलम् ॥ २,११.५७ ॥ चिन्तयेत्तत्र विमलं परं ज्योतिर्यदक्षरम् । तस्मिन् ज्योतिषि विन्यस्यस्वात्मानं तदभेदतः ॥ २,११.५८ ॥ ध्यायीताकाशमध्यस्थमीशं परमकारणम् । तदात्मा सर्वगो भूत्वा न किञ्चिदपि चिन्तयेत् ॥ २,११.५९ ॥ एतद्गुह्यतमं ध्यानं ध्यानान्तरमथोच्यते । चिन्तयित्वा तु पूर्वोक्तं हृदये पद्ममुत्तमम् ॥ २,११.६० ॥ आत्मानमथ कर्तारं तत्रानलसमत्विषम् । मध्ये वह्निशिखाकारं पुरुषं पञ्चविंशकम् ॥ २,११.६१ ॥ चिन्तयेत्परमात्मानं तन्मध्ये गगनं परम् । ओङ्करबोधितं तत्त्वं शाश्वतं शिवमच्युतम् ॥ २,११.६२ ॥ अव्यक्तं प्रकृतौ लीनं परं ज्योतिरनुत्तमम् । तदन्तः परमं तत्त्वमात्माधारं निरञ्जनम् ॥ २,११.६३ ॥ ध्यायीत तन्मयो नित्यमेकरूपं महेश्वरम् । विशोध्य सर्वतत्त्वानि प्रणवेनाथवा पुनः ॥ २,११.६४ ॥ संस्थाप्य मयि चात्मानं निर्मले परमे पदे । प्लावयित्वात्मनो देहं तेनैव ज्ञानवारिणा ॥ २,११.६५ ॥ मदात्मा मन्मयो भस्म गृहीत्वा ह्यग्निहोत्रजम् । तेनोद्धृत्य तु सर्वाङ्गमग्निरित्यादिमन्त्रतः । चिन्तयेत्स्वात्मनीशानं परं ज्योतिः स्वरूपिणम् ॥ २,११.६६ ॥ एष पाशुपतो योगः पशुपाशविमुक्तये । सर्ववेदान्तसारोऽयमत्याश्रममिति श्रुतिः ॥ २,११.६७ ॥ एतत्परतरं गुह्यं मत्सायुज्योपपादकम् । द्विजातीनां तु कथितं भक्तानां ब्रह्मचारिणाम् ॥ २,११.६८ ॥ ब्रह्मचर्यमहिंसा च क्षमा शौचं तपो दमः । संतोषः सत्यमास्तिक्यं व्रताङ्गानि विशेषतः ॥ २,११.६९ ॥ एकेनाप्यथ हीनेन व्रतमस्य तु लुप्यते । तस्मादात्मगुणोपेतो मद्व्रतं वोढुमर्हति ॥ २,११.७० ॥ वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । बहवोऽनेन योगेन पूता मद्भावमागताः ॥ २,११.७१ ॥ ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् । ज्ञानयोगेन मां तस्माद्यजेत परमेश्वरम् ॥ २,११.७२ ॥ अथवा भक्तियोगेन वैराग्येण परेण तु । चेतसा बोधयुक्तेन पूजयेन्मां सदा शुचिः ॥ २,११.७३ ॥ सर्वकर्माणि संन्यस्य भिक्षाशी निष्परिग्रहः । प्राप्नोति मम सायुज्यं गुह्यमेतन्मयोदितम् ॥ २,११.७४ ॥ अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च । निर्ममो निरहङ्कारो यो मद्भक्तः स मे प्रियः ॥ २,११.७५ ॥ संतुष्टः सततं योगी यतात्मा दृढनिश्चयः । मय्यर्पितमनो बुद्धिर्यो मद्भक्तः स मे प्रियः ॥ २,११.७६ ॥ यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । हर्षामर्षभयोद्वेगैर्मुक्तो यः स हि मे प्रियः ॥ २,११.७७ ॥ अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः । सर्वारम्भपरित्यागी भक्तिमान् यः स मे प्रियः ॥ २,११.७८ ॥ तुल्यनिन्दास्तुतिर्मौनी संतुष्टो येन केनचित् । अनिकेतः स्थिरमतिर्मद्भक्तो मामुपैष्यति ॥ २,११.७९ ॥ सर्वकर्माण्यपि सदा कुर्वाणो मत्परायणः । मत्प्रसादादवाप्नोति शाश्वतं परमं पदम् ॥ २,११.८० ॥ चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः । निराशीर्निर्ममो भूत्वा मामेकं शरणं व्रजेत् ॥ २,११.८१ ॥ त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः । कर्मण्यभिप्रवृत्तोऽपि नैव तेन निबध्यते ॥ २,११.८२ ॥ निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः । शारीरं केवलं कर्म कुर्वन्नाप्नोति तत्पदम् ॥ २,११.८३ ॥ यदृच्छालाभतुष्टस्य द्वन्द्वातीतस्य चैव हि । कुर्वतो मत्प्रसादार्थं कर्म संसारनाशनम् ॥ २,११.८४ ॥ मन्मना मन्नमस्कारो मद्याजी मत्परायणः । मामुपैष्यति योगीशं ज्ञात्वा मां परमेश्वरम् ॥ २,११.८५ ॥ मद्बुद्धयो मां सततं बोधयन्तः परस्परम् । कथयन्तश्च मां नित्यं मम सायुज्यमाप्नुयुः ॥ २,११.८६ ॥ एवं नित्याभियुक्तानां मायेयं कर्मसान्वगम् । नाशयामि तमः कृत्स्नं ज्ञानदीपेन भास्वता ॥ २,११.८७ ॥ मद्बुद्धयो मां सततं पूजयन्तीह ये जनाः । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ २,११.८८ ॥ येऽन्ये च कामभोगार्थं यजन्ते ह्यन्यदेवताः । तेषां तदन्तं विज्ञेयं देवतानुगतं फलम् ॥ २,११.८९ ॥ ये चान्यदेवताभक्ताः पूजयन्तीह देवताः । मद्भावनासमायुक्ता मुच्यन्ते तेऽपि भावतः ॥ २,११.९० ॥ तस्मादनीश्वरानन्यांस्त्यक्त्वा देवानशेषतः । मामेव संश्रयेदीशं स याति परमं पदम् ॥ २,११.९१ ॥ त्यक्त्वा पुत्रादिषु स्नेहं निः शोको निष्परिग्रहः । यजेच्चामरणाल्लिङ्गे विरक्तः परमेश्वरम् ॥ २,११.९२ ॥ येऽर्चयन्ति सदा लिङ्गं त्यक्त्वा भोगानशेषतः । एकेन जन्मना तेषां ददामि परमैश्वरम् ॥ २,११.९३ ॥ परानन्दात्मकं लिङ्गं केवलं सन्निरञ्जनम् । ज्ञानात्मकं सर्वगतं योगिनां हृदि संस्थितम् ॥ २,११.९४ ॥ ये चान्ये नियता भक्ता भावयित्वा विधानतः । यत्र क्वचन तल्लिङ्गमर्चयन्ति महेश्वरम् ॥ २,११.९५ ॥ जले वा वह्निमध्ये वाव्योम्नि सूर्येऽथवान्यतः । रत्नादौ भावयित्वेशमर्चयेल्लिङ्गमैश्वरम् ॥ २,११.९६ ॥ सर्वं लिङ्गमयं ह्येतत्सर्वं लिङ्गे प्रतिष्ठितम् । तस्माल्लिङ्गेऽर्चयेदीशं यत्र क्वचन शाश्वतम् ॥ २,११.९७ ॥ अग्नौ क्रियावतामप्सु व्योम्नि सूर्ये मनीषिणाम् । काष्ठादिष्वेव मूर्खाणां हृदि लिङ्गन्तुयोगिनाम् ॥ २,११.९८ ॥ यद्यनुत्पन्नविज्ञानो विरक्तः प्रीतिसंयुतः । यावज्जीवं जपेद्युक्तः प्रणवं ब्रह्मणो वपुः ॥ २,११.९९ ॥ अथवा शतरुद्रीयं जपेदामरणाद्द्विजः । एकाकी यतचित्तात्मा स याति परमं पदम् ॥ २,११.१०० ॥ वसेद्वामरणाद्विप्रो वाराणस्यां समाहितः । सोऽपीश्वरप्रसादेन याति तत्परमं पदम् ॥ २,११.१०१ ॥ तत्रोत्क्रमणकाले हि सर्वेषामेव देहिनाम् । ददाति तत्परं ज्ञानं येन मुच्येत बन्धनात् ॥ २,११.१०२ ॥ वर्णाश्रमविधिं कृत्स्नं कुर्वाणो मत्परायणः । तेनैव जन्मना ज्ञानं लब्ध्वा याति शिवं पदम् ॥ २,११.१०३ ॥ येऽपि तत्र वसन्तीह नीचा वा पापयोनयः । सर्वे तरन्ति संसारमीश्वरानुग्रहाद्द्विजाः ॥ २,११.१०४ ॥ किन्तु विघ्ना भविष्यन्ति पापोपहतचेतसाम् । धर्मं समाश्रयेत्तस्मान्मुक्तये नियतं द्विजाः ॥ २,११.१०५ ॥ एतद्रहस्यं वेदानां न देयं यस्य कस्य चित् । धार्मिकायैव दातव्यं भक्ताय ब्रह्मचारिणे ॥ २,११.१०६ ॥ व्यास उवाच इत्येतदुक्त्वा भगवानात्मयोगमनुत्तमम् । व्याजहार समासीनं नारायणमनामयम् ॥ २,११.१०७ ॥ मयैतद्भाषितं ज्ञानं हितार्थं ब्रह्मवादिनाम् । दातव्यं शान्तचित्तेभ्यः शिष्येभ्यो भवता शिवम् ॥ २,११.१०८ ॥ उक्त्वैवमथ योगीन्द्रानब्रवीद्भगवानजः । हिताय सर्वभक्तानां द्विजातीनां द्विजोत्तमाः ॥ २,११.१०९ ॥ भवन्तोऽपि हि मज्ज्ञानं शिष्याणां विधिपूर्वकम् । उपदेक्ष्यन्ति भक्तानां सर्वेषां वचनान्मम ॥ २,११.११० ॥ अयं नारायणो योऽहमीश्वरो नात्र संशयः । नान्तरं ये प्रपश्यन्ति तेषां देयमिदं परम् ॥ २,११.१११ ॥ ममैषा परमा मूर्तिर्नारायणसमाह्वया । सर्वभूतात्मभूतस्था शान्ता चाक्षरसंज्ञिता ॥ २,११.११२ ॥ ये त्वन्यथा प्रपश्यन्ति लोके भेददृशो जनाः । न ते मां संप्रपश्यन्ति जायन्ते च पुनः पुनः ॥ २,११.११३ ॥ ये त्विमं विष्णुमव्यक्तं मां वा देवं महेश्वरम् । एकीभावेन पश्यन्ति न तेषां पुनरुद्भवः ॥ २,११.११४ ॥ तस्मादनादिनिधनं विष्णुमात्मानमव्ययम् । मामेव संप्रपश्यध्वं पूजयध्वं तथैव हि ॥ २,११.११५ ॥ येऽन्यथा मां प्रपश्यन्ति मत्वेमं देवतान्तरम् । ते यान्ति नरकान् घोरान्नाहं तेषुव्यवस्थितः ॥ २,११.११६ ॥ मूर्खं वा पण्डितं वापि ब्राह्मणं वा मदाश्रयम् । मोचयामि श्वपाकं वा न नारायणनिन्दकम् ॥ २,११.११७ ॥ तस्मादेष महायोगी मद्भक्तैः पुरुषोत्तमः । अर्चनीयो नमस्कार्यो मत्प्रीतिजननाय हि ॥ २,११.११८ ॥ एवमुक्त्वा समालिङ्ग्य वासुदेवं पिनाकधृक् । अन्तर्हितोऽभवत्तेषां सर्वेषामेव पश्यताम् ॥ २,११.११९ ॥ नारायणोऽपि भगवांस्तापसं वेषमुत्तमम् । जग्राह योगिनः सर्वांस्त्यक्त्वा वै परमं वपुः ॥ २,११.१२० ॥ ज्ञातं भवद्भिरमलं प्रसादात्परमेष्ठिनः । साक्षादेव महेशस्य ज्ञानं संसारनाशनम् ॥ २,११.१२१ ॥ गच्छध्वं विज्वराः सर्वे विज्ञानं परमेष्ठिनः । प्रवर्तयध्वं शिष्येभ्यो धार्मिकेभ्यो मुनीश्वराः ॥ २,११.१२२ ॥ इदं भक्ताय शान्ताय धार्मिकायाहिताग्नये । विज्ञानमैश्वरं देयं ब्राह्मणाय विशेषतः ॥ २,११.१२३ ॥ एवमुक्त्वा स विश्वात्मा योगिनां योगवित्तमः । नारायणो महायोगी जगामादर्शनं स्वयम् ॥ २,११.१२४ ॥ तेऽपि देवादिदेवेशं नमस्कृत्य महेश्वरम् । नारायणं च भूतादिं स्वानि स्थानानि भेजिरे ॥ २,११.१२५ ॥ सनत्कुमारो भगवान् संवर्ताय महामुनिः । दत्तवानैश्वरं ज्ञानं सोऽपि सत्यव्रताय तु ॥ २,११.१२६ ॥ सनन्दनोऽपि योगीन्द्रः पुलहाय महर्षये । प्रददौ गौतमायाथ पुलहोऽपि प्रजापतिः ॥ २,११.१२७ ॥ अङ्गिरा वेदविदुषे भरद्वाजाय दत्तवान् । जैगीषव्याय कपिलस्तथा पञ्चशिखाय च ॥ २,११.१२८ ॥ पराशरोऽपि सनकात्पिता मे सर्वतत्त्वदृक् । लेभेतत्परमं ज्ञानं तस्माद्वाल्मीकिराप्तवान् ॥ २,११.१२९ ॥ ममोवाच पुरा देवः सतीदेहभवाङ्गजः । वामदेवो महायोगी रुद्रः किल पिनाकधृक् ॥ २,११.१३० ॥ नारायणोऽपि भगवान् देवकीतनयो हरिः । अर्जुनाय स्वयं साक्षात्दत्तवानिदमुत्तमम् ॥ २,११.१३१ ॥ यदहं लब्धवान् रुद्राद्वामदेवादनुत्तमम् । विशेषाद्गिरिशे भक्तिस्तस्मादारभ्य मेऽभवत् ॥ २,११.१३२ ॥ शरण्यं शरणं रुद्रं प्रपन्नोऽहं विशेषतः । भूतेशं गिरशं स्थाणुं देवदेवं त्रिशूलिनम् ॥ २,११.१३३ ॥ भवन्तोऽपि हि तं देवं शंभुं गोवृषवाहनम् । प्रपद्यध्वं सपत्नीकाः सपुत्राः शरणं शिवम् ॥ २,११.१३४ ॥ वर्तध्वं तत्प्रसादेन कर्मयोगेन शङ्करम् । पूजयध्वं महादेवं गोपतिं भूतिभूषणम् ॥ २,११.१३५ ॥ एवमुक्तेऽथ मुनयः शौनकाद्या महेश्वरम् । प्रणेमुः शाश्वतं स्थाणुं व्यासं सत्यवतीसुतम् ॥ २,११.१३६ ॥ अब्रुवन् हृष्टमनसः कृष्णद्वैपायनं प्रभुम् । साक्षादेव हृषीकेशं सर्वलोकमहेश्वरम् ॥ २,११.१३७ ॥ भवत्प्रसादादचला शरण्ये गोवृषध्वजे । इदानीं जायते भक्तिर्या देवैरपि दुर्लभा ॥ २,११.१३८ ॥ कथयस्व मुनिश्रेष्ठ कर्मयोगमनुत्तमम् । येनासौ भगवानीशः समाराध्यो मुमुक्षुभिः ॥ २,११.१३९ ॥ त्वत्संनिधावेष सूतः शृणोतु भगवद्वचः । तद्वदाखिललोकानां रक्षणं धर्मसंग्रहम् ॥ २,११.१४० ॥ यदुक्तं देवदेवेन विष्णुना कूर्मरूपिणा । पृष्टेन मुनिभिः पूर्वं शक्रेणामृतमन्थने ॥ २,११.१४१ ॥ श्रुत्वा सत्यवतीसूनुः कर्मयोगं सनातनम् । मुनीनां भाषितं कृष्णः प्रोवाच सुसमाहितः ॥ २,११.१४२ ॥ य इमं पठते नित्यं संवादं कृत्तिवाससः । सनत्कुमारप्रमुखैः सर्वपापैः प्रमुच्यते ॥ २,११.१४३ ॥ श्रावयेद्वा द्विजान् शुद्धान् ब्रह्मचर्यपरायणान् । यो वा विचारयेदर्थं स याति परमां गतिम् ॥ २,११.१४४ ॥ यश्चैतच्छृणुयान्नित्यं भक्तियुक्तो दृढव्रतः । सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ २,११.१४५ ॥ तस्मात्सर्वप्रयत्नेन पठितव्यो मनीषिभिः । श्रोतव्यश्चाथ मन्तव्यो विशेषाद्ब्राह्मणैः सदा ॥ २,११.१४६ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे (ईश्वरगीतासु) एकादशोऽध्यायः _____________________________________________________________ व्यास उवाच शृणुध्वमृषयः सर्वे वक्ष्यमाणं सनातनम् । कर्मयोगं ब्राह्मणानामात्यन्तिकफलप्रदम् ॥ २,१२.१ ॥ आम्नायसिद्धमखिलं ब्रिह्मणानुप्रदर्शितम् । ऋषीणां शृण्वतां पूर्वं मनुराह प्रजापतिः ॥ २,१२.२ ॥ सर्वपापहरं पुण्यमृषिसङ्घैर्निषेवितम् । समाहितधियो यूयं शृणुध्वं गदतो मम ॥ २,१२.३ ॥ कृतोपनयनो वेदानधीयीत द्विजोत्तमाः । गर्भाष्टमेऽष्टमे वाब्दे स्वसूत्रोक्तविधानतः ॥ २,१२.४ ॥ दण्डी च मेखली सूत्री कृष्णाजिनधरो मुनिः । भिक्षाहारो गुरुहितो वीक्षमाणो गुरुर्मुखम् ॥ २,१२.५ ॥ कार्पासमुपवीतार्थं निर्मितं ब्रह्मणा पुरा । ब्राह्मणानां त्रिवित्सूत्रं कौशं वा वस्त्रमेव वा ॥ २,१२.६ ॥ सदोपवीती चैव स्यात्सदा बद्धशिखो द्विजः । अन्यथा यत्कृतं कर्म तद्भवत्ययथाकृतम् ॥ २,१२.७ ॥ वसेदविकृतं वासः कार्पासं वा कषायकम् । तदेव परिधानीयं शुक्लमच्छिद्रमुत्तमम् ॥ २,१२.८ ॥ उत्तरं तु समाख्यातं वासः कृष्णाजिनं शुभम् । अभावे गव्यमजिनं रौरवं वा विधीयते ॥ २,१२.९ ॥ उद्धृत्य दक्षिणं बाहुं सव्ये बाहौ समर्पितम् । उपवीतं भवेन्नित्यं निवीतं कण्ठसज्जने ॥ २,१२.१० ॥ सव्यं बाहुं समुद्धृत्य दक्षिणे तु धृतं द्विजाः । प्राचीनावीतमित्युक्तं पित्र्ये कर्मणि योजयेत् ॥ २,१२.११ ॥ अग्न्यगारे गवां गोष्ठे होमे जप्ये तथैव च । स्वाध्याये भोजने नित्यं ब्राह्मणानां च सन्निधौ ॥ २,१२.१२ ॥ उपासने गुरूणां च संध्ययोः साधुसंगमे । उपवीती भवेन्नित्यं विधिरेष सनातनः ॥ २,१२.१३ ॥ मौञ्जी त्रिवृत्समा श्लक्षणा कार्या विप्रस्य मेखला । मुञ्जाभावे कुशेनाहुर्ग्रन्थिनैकेन वा त्रिभिः ॥ २,१२.१४ ॥ धारयेद्बैल्वपालाशौ दण्डौ केशान्तकौ द्विजः । यज्ञार्हवृक्षजं वाथ सौम्यमव्रणमेव च ॥ २,१२.१५ ॥ सायं प्रातर्द्विजः संध्यामुपासीत समाहितः । कामाल्लोभाद्भयान्मोहात्त्यक्तेन पतितो भवेत् ॥ २,१२.१६ ॥ अग्निकार्यं ततः कुर्यात्सायं प्रातः प्रसन्नधीः । स्नात्वा संतर्पयेद्देवानृषीन् पितृगणांस्तथा ॥ २,१२.१७ ॥ देवताभ्यर्चनं कुर्यात्पुष्पैः पत्रेण वाम्बुभिः । अभिवादनशीलः स्यान्नित्यं वृद्धेषु धर्मतः ॥ २,१२.१८ ॥ असावहं भो नामेति सम्यक्प्रणतिपूर्वकम् । आयुरारोग्यसिद्ध्यर्थं तन्द्रादिपरिवर्जितः ॥ २,१२.१९ ॥ आयुष्णान् भव सौम्येति वाच्यो विप्रोऽभिवादने । अकारश्चास्य नाम्नोऽन्ते वाच्यः पूर्वाक्षरः प्लुतः ॥ २,१२.२० ॥ न कुर्याद्योऽभिवादस्य द्विजः प्रत्यभिवादनम् । नाभिवाद्यः स विदुषा यथा शूद्रस्तथैव सः ॥ २,१२.२१ ॥ व्यत्यस्तपाणिना कार्यमुपसंग्रहणं गुरोः । सव्येन सव्यः स्प्रष्टव्यो दक्षिणेन तु दक्षिणः ॥ २,१२.२२ ॥ लौकिकं वैदिकं चापि तथाध्यात्मिकमेव वा । आददीत यतो ज्ञानं तं पूर्वमभिवादयेत् ॥ २,१२.२३ ॥ नोदकं धारयेद्भैक्षं पुष्पाणि समिधस्तथा । एवंविधानि चान्यानि न दैवाद्येषु कर्मसु ॥ २,१२.२४ ॥ ब्राह्मणं कुशलं पृच्छेत्क्षत्रबन्धुमनामयम् । वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव तु ॥ २,१२.२५ ॥ उपाध्यायः पिता ज्येष्ठो भ्राता चैव महीपतिः । मातुलः श्वशुरस्त्राता मातामहपितामहौ । वर्णज्येष्ठः पितृव्यश्च पुंसोऽत्र गुरवः स्मृताः ॥ २,१२.२६ ॥ माता मातामही गुर्वो पितुर्मातुश्च सोदराः । श्वश्रूः पितामहीज्येष्ठा धात्री च गुरवः स्त्रियः ॥ २,१२.२७ ॥ इत्युक्तो गुरुवर्गोऽयं मातृतः पितृतो द्विजाः । अनुवर्तनमेतेषां मनोवाक्कायकर्मभिः ॥ २,१२.२८ ॥ गुरुं दृष्ट्वा समुत्तिष्ठेदभिवाद्य कृताञ्जलिः । नैतैरुपविशेत्सार्धं विवदेन्नात्मकारणात् ॥ २,१२.२९ ॥ जीवितार्थमपि द्वेषाद्गुरुभिर्नैव भाषणम् । उदितोऽपि गुणैरन्यैर्गुरुद्वेषी पतत्यधः ॥ २,१२.३० ॥ गुरूणामपि सर्वेषां पूज्याः पञ्च विशेषतः । तेषामाद्यास्त्रयः श्रेष्ठास्तेषां माता सुपूजिता ॥ २,१२.३१ ॥ यो भावयति या सूते येन विद्योपदिश्यते । ज्येष्ठो भ्राता च भर्ता च पञ्चैते गुरवः स्मृताः ॥ २,१२.३२ ॥ आत्मनः सर्वयत्नेन प्राणत्यागेन वा पुनः । पूजनीया विशेषेण पञ्चैते भूतिमिच्छता ॥ २,१२.३३ ॥ यावत्पिता च माता च द्वावेतौ निर्विकारिणौ । तावत्सर्वं परित्यज्य पुत्रः स्यात्तत्परायणः ॥ २,१२.३४ ॥ पिता माता च सुप्रीतौ स्यातां पुत्रगुणैर्यदि । स पुत्रः सकलं धर्ममाप्नुयात्तेन कर्मणा ॥ २,१२.३५ ॥ नास्ति मातृसमं दैवं नास्ति पितृसमो गुरुः । तयोः प्रत्युपकारोऽपि न कथञ्चन विद्यते ॥ २,१२.३६ ॥ तयोर्नित्यं प्रियं कुर्यात्कर्मणा मनसा गिरा । न ताभ्यामननुज्ञातो धर्ममन्यं समाचरेत् ॥ २,१२.३७ ॥ वर्जयित्वा मुक्तिफलं नित्यं नैमित्तिकं तथा । धर्मसारः समुद्दिष्टः प्रेत्यानन्तफलप्रदः ॥ २,१२.३८ ॥ सम्यगाराध्य वक्तारं विसृष्टस्तदनुज्ञया । शिष्यो विद्याफलं भुङ्क्ते प्रेत्य चापद्यते दिवि ॥ २,१२.३९ ॥ यो भ्रातरं पितृसमं ज्येष्ठं मूर्खोऽवमन्यते । तेन दोषेण स प्रेत्य निरयं घोरमृच्छति ॥ २,१२.४० ॥ पुंसा वर्त्मनिविष्टेन पूज्यो भर्ता तु सर्वदा । याति दातरि लोकेऽस्मिनुपकाराद्धि गौरवम् ॥ २,१२.४१ ॥ येनरा भर्तृपिण्डार्थं स्वान् प्राणान् संत्यजन्ति हि । तेषामथाक्षयांल्लोकान् प्रोवाच भगवान्मनुः ॥ २,१२.४२ ॥ मातुलांश्च पितृव्यांश्च श्वशुरानृत्विजो गुरून् । असावहमिति ब्रूयुः प्रत्युत्थाय यवीयसः ॥ २,१२.४३ ॥ अवाच्यो दीक्षितो नाम्ना यवीयानपि यो भवेत् । भोभवत्पूर्वकं त्वेनमभिभाषेत धर्मवित् ॥ २,१२.४४ ॥ अभिवाद्याश्च पूज्यश्च शिरसा वन्द्य एव च । ब्राह्मणः क्षत्रियाद्यैश्च श्रीकामैः सादरं सदा ॥ २,१२.४५ ॥ नाभिवाद्यास्तु विप्रेण क्षत्रियाद्याः कथञ्चन । ज्ञानकर्मगुणोपेता यद्यप्येते बहुश्रुताः ॥ २,१२.४६ ॥ ब्राह्मणः सर्ववर्णानां स्वस्ति कुर्यादिति स्थितिः । सवर्णेषु सवर्णानां कार्यमेवाभिवादनम् ॥ २,१२.४७ ॥ गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः । पतिरेको गुरुः स्त्रीणां सर्वत्राभ्यागतो गुरुः ॥ २,१२.४८ ॥ विद्या कर्म वयो बन्धुर्वित्तं भवति पञ्चमम् । मान्यस्थानानि पञ्चाहुः पूर्वं पूर्वं गुरूत्तरात् ॥ २,१२.४९ ॥ पञ्चानां त्रिषु वर्णेषु भूयांसि बलवन्ति च । यत्र स्युः सोऽत्र मानार्हः शूद्रोऽपि दशमीं गतः ॥ २,१२.५० ॥ पन्था देयो ब्राह्मणाय स्त्रियै राज्ञे ह्यचक्षुषे । वृद्धाय भारबुग्नाय रोगिणे दुर्बलाय च ॥ २,१२.५१ ॥ भिक्षामाहृत्य शिष्टानां गृहेभ्यः प्रयतोऽन्वहम् । निवेद्य गुरवेऽश्नीयाद्वाग्यतस्तदनुज्ञया ॥ २,१२.५२ ॥ भवत्पूर्वं चरेद्भैक्ष्यमुपनीतो द्विजोत्तमः । भवन्मध्यं तु राजन्यो वैश्यस्तु भवदुत्तरम् ॥ २,१२.५३ ॥ मातरं वा स्वसारं वा मातुर्वा भगिनीं निजाम् । भिक्षेत भिक्षां प्रथमं या चैनं न विमानयेत् ॥ २,१२.५४ ॥ सजातीयगृहेष्वेव सार्ववर्णिकमेव वा । भैक्ष्यस्य चरणं प्रोक्तं पतितादिषु वर्जितम् ॥ २,१२.५५ ॥ वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्मसु । ब्रह्मचर्याहरेद्भैक्षं गृहेभ्यः प्रयतोऽन्वहम् ॥ २,१२.५६ ॥ गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु । अलाभे त्वन्यगेहानां पूर्वं पूर्वं विवर्जयेत् ॥ २,१२.५७ ॥ सर्वं वा विचरेद्ग्रामं पूर्वोक्तानामसंभवे । नियम्य प्रयतो वाचं दिशस्त्वनवलोकयन् ॥ २,१२.५८ ॥ समाहृत्य तु तद्भैक्षं यावदर्थममायया । भुञ्जीत प्रयतो नित्यं वाग्यतोऽनन्यमानसः ॥ २,१२.५९ ॥ भैक्ष्येण वर्तयेन्नित्यं नैकान्नादी भवेद्व्रती । भैक्ष्येण व्रतिनो वृत्तिरुपवाससमा स्मृता ॥ २,१२.६० ॥ पूजयेदशनं नित्यमद्याच्चैतदकुत्सयन् । दृष्ट्वा हृष्येत्प्रसीदेच्च प्रतिनन्देच्च सर्वशः ॥ २,१२.६१ ॥ अनारोग्यमनायुष्यमस्वर्ग्यं चातिभोजनम् । अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् ॥ २,१२.६२ ॥ प्राङ्मुखोऽन्नानि भुञ्जीत सूर्याभिमुख एव वा । नाद्यादुदङ्मुखो नित्यं विधिरेष सनातनः ॥ २,१२.६३ ॥ प्रक्षाल्य पाणिपादौ च भुञ्जानो द्विरुपस्पृशेत् । शुचौ देशे समासीनो भुक्त्वा च द्विरुपस्पृशेत् ॥ २,१२.६४ ॥ इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे द्वादशोऽध्यायः _____________________________________________________________ व्यास उवाच भुक्त्वा पीत्वा च सुप्त्वा च स्नात्वा रथ्योपसर्पणे । ओष्ठावलमोकौ स्पृष्ट्वा वासो विपरिधाय च ॥ २,१३.१ ॥ रेतोमूत्रपुरीषाणामुत्सर्गेऽयुक्तभाषणे । ष्ठीवित्वाध्ययनारम्भे कासश्वासागमे तथा ॥ २,१३.२ ॥ चत्वरं वा श्मशानं वा समाक्रम्य द्विजोत्तमः । संध्ययोरुभयोस्तद्वदाचान्तोऽप्याचमेत्पुनः ॥ २,१३.३ ॥ चण्डालम्लेच्छसंभाषे स्त्रीशूद्रोच्छिष्टभाषणे । उच्छिष्टं पुरुषं स्पृष्ट्वा भोज्यं चापि तथाविधम् । आचामेदश्रुपाते वा लोहितस्य तथैव च ॥ २,१३.४ ॥ भोजने संध्ययोः स्नात्वा पीत्वा मूत्रपुरीषयोः । आचान्तोऽप्याचमेत्सुप्त्वा सकृत्सकृदथान्यतः ॥ २,१३.५ ॥ अग्नेर्गवामथालम्भे स्पृष्ट्वा प्रयतमेव वा । स्त्रीणामथात्मनः स्पर्शे नीवीं वा परिधाय च ॥ २,१३.६ ॥ उपस्पृशेज्जलं वार्द्रं तृणं वा भूमिमेव वा । केशानां चात्मनः स्पर्शे वाससोऽक्षालितस्य च ॥ २,१३.७ ॥ अनुष्णाभिरफेनाबिरदुष्टाभिश्च धर्मतः । शौचेप्सुः सर्वदाचामेदासीनः प्रागुदङ्मुखः ॥ २,१३.८ ॥ शिरः प्रावृत्य कण्ठं वा मुक्तकच्छसिखोऽपि वा । अकृत्वा पादयोः शौचमाचान्तोऽप्यशुचिर्भवेत् ॥ २,१३.९ ॥ सोपानत्को जलस्थो वा नोष्णीषी वाचमेद्बुधः । न चैव वर्षधाराभिर्न तिष्ठन्नोद्धृतोदकैः ॥ २,१३.१० ॥ नैकहस्तार्पितजलैर्विना सूत्रेण वा पुनः । न पादुकासनस्थो वा बहिर्जानुरथापि वा ॥ २,१३.११ ॥ न जल्पन्न हसन् प्रेक्षन् शयानः प्रह्व एव च । नावीक्षिताभिः फेनाद्यैरुपेताभिरथापि वा ॥ २,१३.१२ ॥ शूद्राशुचिकरोन्मुक्तैर्न क्षाराभिस्तथैव च । न चैवाङ्गुलिभिः शब्दं न कुर्वन्नान्यमानसः ॥ २,१३.१३ ॥ न वर्णरसदुष्टाभिर्न चैव प्रदरोदकैः । न पाणिक्षुभिताभिर्वा न बहिष्कक्ष एव वा ॥ २,१३.१४ ॥ हृद्गाभिः पूयते विप्रः कण्ठ्याभिः क्षत्रियः शुचिः । प्राशिताभिस्तथावैश्यः स्त्रीशूद्रौ स्पर्शतोऽन्ततः ॥ २,१३.१५ ॥ अङ्गुष्ठमूलान्तरतो रेखायां ब्राह्ममुच्यते । अन्तराङ्गुष्ठदेशिन्यो पितॄणां तीर्थमुत्तमम् ॥ २,१३.१६ ॥ कनिष्ठामूलतः पश्चात्प्राजापत्यं प्रचक्षते । अङ्गुल्यग्रे स्मृतं दैवं तदेवार्षं प्रकीर्तितम् ॥ २,१३.१७ ॥ मूले वा दैवमार्षं स्यादाग्नेयं मध्यतः स्मृतं । तदेव सौमिकं तीर्थमेतज्ज्ञात्वा न मुह्यति ॥ २,१३.१८ ॥ ब्राह्मेणैव तु तीर्थेन द्विजो नित्यमुपस्पृशेत् । कायेन वाथ दैवेन तु पित्र्येण वै द्विजाः ॥ २,१३.१९ ॥ त्रिः प्राश्नीयादपः पूर्वं ब्राह्मणः प्रयतस्ततः । संमृज्याङ्गुष्ठमूलेन मुखं वै समुपस्पृशेत् ॥ २,१३.२० ॥ अङ्गुष्ठानामिकाभ्यां तु स्पृशेन्नेत्रद्वयं ततः । तर्जन्यङ्गुष्ठयोगेन स्पृशेन्नासापृटद्वयम् ॥ २,१३.२१ ॥ कनिष्ठाङ्गुष्ठयोगेन श्रवणे समुपस्पृशेत् । सर्वासामथ योगेन हृदयं तु तलेन वा । संस्पृशेद्वा शिरस्तद्वदङ्गुष्ठेनाथवा द्वयम् ॥ २,१३.२२ ॥ त्रिः प्राश्नीयाद्यदम्भस्तु सुप्रीतास्तेन देवताः । ब्रह्मा विष्णुर्महेशश्च भवन्तीत्यनुशुश्रुमः ॥ २,१३.२३ ॥ गङ्गा च यमुना चैव प्रीयेते परिमार्जनात् । संस्पृष्टयोर्लोचनयोः प्रीयेते शशिभास्करौ ॥ २,१३.२४ ॥ नासत्यदस्त्रौ प्रीयेते स्पृष्टे नासापुटद्वये । कर्णयोः स्पृष्टयोस्तद्वत्प्रीयेते चानिलानलौ ॥ २,१३.२५ ॥ संस्पृष्टे हृदये चास्य प्रीयन्ते सर्वदेवताः । मूर्ध्नि संस्पर्शनादेकः प्रीतः स पुरुषो भवेत् ॥ २,१३.२६ ॥ नोच्छिष्टं कुर्वते मुख्या विप्रुषोऽङ्गं नयन्ति याः । दन्तवद्दन्तलग्नेषु जिह्वास्पर्शेऽशुचिर्भवेत् ॥ २,१३.२७ ॥ स्पृशान्ति बिन्दवः पादौ य आचामयतः परान् । भूमिगैस्ते समा ज्ञेया न तैरप्रयतो भवेत् ॥ २,१३.२८ ॥ मदुपर्के च सोमे च ताम्बूलस्य च भक्षणे । फलमूले चेक्षुदण्डे न दोषं प्राह वे मनुः ॥ २,१३.२९ ॥ प्रचरंश्चान्नपानेषु द्रव्यहस्तो भवेन्नरः । भूमौ निक्षिप्य तद्द्रव्यमाचम्याभ्युक्षयेत्तु तत् ॥ २,१३.३० ॥ तैजसं वै समादाय यद्युच्छिष्टो भवेद्द्विजः । भूमौ निक्षिप्य तद्द्रव्यमाचम्याभ्युक्षयेत्तु तत् ॥ २,१३.३१ ॥ यद्यमत्रं समादाय भवेदुच्छेषणान्वितः । अनिधायैव तद्द्रव्यमाचान्तः शुचितामियात् । वस्त्रादिषु विकल्पः स्यात्तत्संस्पृष्ट्वाचमेदिह ॥ २,१३.३२ ॥ अरण्येऽनुदके रात्रौ चौरव्याघ्राकुले पथि । कृत्वा मूत्रं पुरीषं वा द्रव्यहस्तो न दुष्यति ॥ २,१३.३३ ॥ निधाय दक्षिणे कर्णे ब्रह्मसूत्रमुदङ्मुखः । अह्नि कुर्याच्छकृन्मूत्रं रात्रौ चेद्दक्षिणामुखः ॥ २,१३.३४ ॥ अन्तर्धाय महीं काष्ठैः पत्रैर्लोष्ठतृणेन वा । प्रावृत्य च शिरः कुर्याद्विण्मूत्रस्य विसर्जनम् ॥ २,१३.३५ ॥ छायाकूपनदीगोष्ठचैत्याम्भः पथि भस्मसु । अग्नौ चैव श्मशाने च विण्मूत्रे न समाचरेत् ॥ २,१३.३६ ॥ न गोमये न कृष्टे वा महावृक्षे न शाड्वले । न तिष्ठन् वा न निर्वासा न च पर्वतमस्तके ॥ २,१३.३७ ॥ न जीर्णदेवायतने न वल्मीके कदाचन । न ससत्त्वेषु गर्तेषु न गच्छन् वा समाचरेत् ॥ २,१३.३८ ॥ तुषाङ्गारकपालेषु राजमार्गे तथैव च । न क्षेत्रे न विले वापि न तीर्थे न चतुष्पथे ॥ २,१३.३९ ॥ नोद्यानोदसमीपे वा नोषरे न पराशुचौ । न सोपानत्पादुको वा छत्री वा नान्तरिक्षके ॥ २,१३.४० ॥ न चैवाभिमुखे स्त्रीणां गुरुब्राह्मणयोर्गवाम् । न देवदेवालययोरपामपि कदाचन ॥ २,१३.४१ ॥ न ज्योतींषि निरीक्षन्वानसंध्याभिमुखोऽपिवा । प्रत्यादित्यं प्रत्यनलं प्रतिसोमं तथैव च ॥ २,१३.४२ ॥ आहृत्य मृत्तिकां कूलाल्लेपगन्धापकर्षणम् । कुर्यादतन्द्रितः शौचं विशुद्धैरुद्धृतोदकैः ॥ २,१३.४३ ॥ नाहरेन्मृत्तिकां विप्रः पांशुलान्न च कर्दमात् । न मार्गान्नोषराद्देशाच्छौचशिष्टां परस्य च ॥ २,१३.४४ ॥ न देवायतनात्कूपाद्ग्रामान्न च जलात्तथा । उपस्पृशेत्ततो नित्यं पूर्वोक्तेन विधानतः ॥ २,१३.४५ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे त्रयोदशोऽध्यायः _____________________________________________________________ व्यास उवाच एवं दण्डादिभिर्युक्तः शौचाचारसमन्वितः । आहूतोऽध्ययनं कुर्याद्वीक्षमाणो गुरोर्मुखम् ॥ २,१४.१ ॥ नित्यमुद्यतपाणिः स्यात्साध्वाचारः सुसंयतः । आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः ॥ २,१४.२ ॥ प्रतिश्रवणसंभाषे शयानो न समाचरेत् । नासीनो न च भुञ्जानो न तिष्ठन्न पराङ्मुखः ॥ २,१४.३ ॥ नीचं शय्यासनं चास्य सर्वदा गुरुसन्निधौ । गुरोस्तु चक्षुर्विषये न यथेष्टासनो भवेत् ॥ २,१४.४ ॥ नोदाहरेदस्य नाम परोक्षमपि केवलम् । न चैवास्यानुकुर्वोत गतिभाषणचेष्टितम् ॥ २,१४.५ ॥ गुरोर्यत्र परीवादो निन्दा चापि प्रवर्तते । कर्णैं तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥ २,१४.६ ॥ दूरस्थो नार्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः । न चैवास्योत्तरं ब्रूयात्स्थितो नासीत सन्निधौ ॥ २,१४.७ ॥ उदकुम्भं कुशान् पुष्पं समिधोऽस्याहरेत्सदा । मार्जनं लेपनं नित्यमङ्गानां वै समाचरेत् ॥ २,१४.८ ॥ नास्य निर्माल्यशयनं पादुकोपानहावपि । आक्रमेदासनं चास्य छायादीन् वा कदाचन ॥ २,१४.९ ॥ साधयेद्दन्तकाष्ठादीन् लब्धं चास्मै निवेदयेत् । अनापृच्छ्य न गन्तव्यं भवेत्प्रियहिते रतः ॥ २,१४.१० ॥ न पादौ सारयेदस्य संनिधाने कदाचन । जृम्भितं हसितं चैव कण्ठप्रावरणं तथा । वर्जयेत्सन्निधौ नित्यमवस्फोचनमेव च ॥ २,१४.११ ॥ यथाकालमधीयीत यावन्न विमना गुरुः । आसीताधो गुरोः कूर्चे फलके वा समाहितः ॥ २,१४.१२ ॥ आसने शयने याने नैव तिष्ठेत्कदाचन । धावन्तमनुधावेत गच्छन्तमनुगच्छति ॥ २,१४.१३ ॥ गोऽश्वोष्ट्रयानप्रासादप्रस्तरेषु कटेषु च । आसीत गुरुणा सार्धं शिलाफलकनौषु च ॥ २,१४.१४ ॥ जितेन्द्रियः स्यात्सततं वश्यात्माक्रोधनः शुचिः । प्रयुञ्जीत सदा वाचं मधुरां हितभाषिणीम् ॥ २,१४.१५ ॥ गन्धमाल्यं रसं कल्यां शुक्तं प्राणिविहिंसनम् । अभ्यङ्गं चाञ्चनोपानच्छत्रधारणमेव च ॥ २,१४.१६ ॥ कामं लोभं भयं निद्रां गीतवादित्रनर्तनम् । आतर्जनं परीवादं स्त्रीप्रेक्षालम्भनं तथा । परोपघातं पैशुन्यं प्रयत्नेन विवर्जयेत् ॥ २,१४.१७ ॥ उदकुम्भं सुमनसो गोशकृन्मृत्तिकां कुशान् । आहरेद्यावदर्थानि भैक्ष्यं चाहरहश्चरेत् ॥ २,१४.१८ ॥ कृतं च लवणं सर्वं वर्ज्यं पर्युषितं च यत् । अनृत्यदर्शो सततं भवेद्गीतादिनिः स्पृहः ॥ २,१४.१९ ॥ नादित्यं वै समीक्षेत न चरेद्दन्तधावनम् । एकान्तमशुचिस्त्रीभिः शूद्रान्त्यैरभिभाषणम् ॥ २,१४.२० ॥ गुरूच्छिष्टं भेषजार्थं प्रयुञ्जीत न कामतः । कलापकर्षणस्नानं नाचरेद्धि कदाचन ॥ २,१४.२१ ॥ न कुर्यान्मानसं विप्रो गुरोस्त्यागे कदाचन । मोहाद्वा यदि वा लोभात्त्यक्तेन पतितो भवेत् ॥ २,१४.२२ ॥ लौकिकं वैदिकं चापि तथाध्यात्मिकमेव च । आददीत यतो ज्ञानं न तं द्रुह्येत्कदाचन ॥ २,१४.२३ ॥ गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः । उत्पथप्रतिपन्नस्य मनुस्त्यागं समब्रवीत् ॥ २,१४.२४ ॥ गुरोर्गुरौ सन्निहिते गुरुवद्भक्तिमाचरेत् । न चातिसृष्टो गुरुणा स्वान् गुरूनबिवादयेत् ॥ २,१४.२५ ॥ विद्यागुरुष्वेतदेव नित्या वृत्तिः स्वयोनिषु । प्रतिषेधत्सु चाधर्माद्धितं चोपदिशत्स्वपि ॥ २,१४.२६ ॥ श्रेयःसु गुरुवद्वृत्तिं नित्यमेव समाचरेत् । गुरुपुत्रेषु दारेषु गुरोश्चैव स्वबन्धुषु ॥ २,१४.२७ ॥ बालः समानजन्मा वा शिष्यो वा यज्ञकर्मणि । अध्यापयन् गुरुसुतो गुरुवन्मानमर्हति ॥ २,१४.२८ ॥ उत्सादनं वै गात्राणां स्नापनोच्छिष्टभोजने । न कुर्याद्गुरुपुत्रस्य पादयोः शौचमेव च ॥ २,१४.२९ ॥ गुरुवत्परिपूज्यास्तु सवर्णा गुरुयोषितः । असवर्णास्तु संपूज्याः प्रत्युत्थानाभिवादनैः ॥ २,१४.३० ॥ अभ्यञ्जनं स्नापनं च गात्रोत्सादनमेव च । गुरुपत्न्या न कार्याणि केशानां च प्रसाधनम् ॥ २,१४.३१ ॥ गुरुपत्नी तु युवती नाभिवाद्येह पादयोः । कुर्वोत वन्दनं भूम्यामसावहमिति ब्रुवन् ॥ २,१४.३२ ॥ विप्रोष्य पादग्रहणमन्वहं चाभिवादनम् । गुरुदारेषु कुर्वोत सतां धर्ममनुस्मरन् ॥ २,१४.३३ ॥ मातृष्वसा मातुलानी श्वश्रूश्चाथ पितृष्वसा । संपूज्या गुरुपत्नीव समास्ता गुरुभार्यया ॥ २,१४.३४ ॥ भ्रातुर्भार्योपसंग्राह्या सवर्णाहन्यहन्यपि । विप्रोष्य तूपसंग्राह्या ज्ञातिसंबन्धियोषितः ॥ २,१४.३५ ॥ पितुर्भगिन्यां मातुश्च ज्यायस्यां च स्वसर्यपि । मातृवद्वृत्तिमातिष्ठेन्मात्ताभ्यो गरीयसी ॥ २,१४.३६ ॥ एवमाचारसंपन्नमात्मवन्तमदाम्भिकम् । वेदमध्यापयेद्धर्मं पुराणाङ्गानि नित्यशः ॥ २,१४.३७ ॥ संवत्सरोषिते शिष्ये गुरुर्ज्ञानमनिर्दिशन् । हरते दुष्कृतं तस्य शिष्यस्य वसतो गुरुः ॥ २,१४.३८ ॥ आचार्यपुत्रः शुश्रूषुर्ज्ञानदो धार्मिकः शुचिः । शक्तोऽन्नदोर्ऽथो स्वःसाधुरध्याप्या दश धर्मतः ॥ २,१४.३९ ॥ कृतज्ञश्च तथाद्रोही मेधावी शुभकृन्नरः । आप्तः प्रियोऽथ विधिवत्षडध्याप्या द्विजातयः । एतेषु ब्रह्मणो दानमन्यत्र तु यथोदितान् ॥ २,१४.४० ॥ आचम्य संयतो नित्यमधीयीत उदङ्मुखः । उपसंगृह्य तत्पादौ वीक्षमाणो गुरोर्मुखम् । अधीष्व भो इति ब्रूयाद्विरामोऽस्त्विति चारमेत् ॥ २,१४.४१ ॥ प्राक्कूलान् पर्युपासीनः पवित्रैश्चैव पावितः । प्राणायामैस्त्रिभिः पूतस्तत ओङ्कारमर्हति ॥ २,१४.४२ ॥ ब्राह्मणः प्रणवं कुर्यादन्ते च विधिवद्द्विजः । कुर्यादध्ययनं नित्यं स ब्रह्माञ्जलिपूर्वतः ॥ २,१४.४३ ॥ सर्वेषामेव भूतानां वेदश्चक्षुः सनातनम् । अधीयीताप्ययं नित्यं ब्राह्मण्याच्च्यवतेऽन्यथा ॥ २,१४.४४ ॥ योऽधीयीत ऋचो नित्यं क्षीराहुत्या स देवताः । प्रीणाति तर्पयन्त्येनं कामैस्तृप्ताः सदैव हि ॥ २,१४.४५ ॥ यजूंष्यधीते नियतं दध्ना प्रीणाति देवताः । सामान्यधीते प्रीणाति घृताहुतिभिरन्वहम् ॥ २,१४.४६ ॥ अथर्वाङ्गिरसो नित्यं मध्वा प्रीणाति देवताः । धर्माङ्गानि पुराणानि मांसैस्तर्पयते सुरान् ॥ २,१४.४७ ॥ अपां समीपे नियतो नैत्यकं विधिमाश्रितः । गायत्रीमप्यधीयीत गत्वारण्यं समाहितः ॥ २,१४.४८ ॥ सहस्रपरमां देवीं शतमध्यां दशावराम् । गायत्रीं वै जपेन्नित्यं जपयज्ञः प्रकीर्तितः ॥ २,१४.४९ ॥ गायत्रीं चैव वेदांश्च तुलयातोलयत्प्रभुः । एकतश्चतुरो वेदान् गायत्रीं च तथैकतः ॥ २,१४.५० ॥ ओङ्कारमादितः कृत्वा व्याहृतीस्तदनन्तरम् । ततोऽधीयीत सावित्रीमेकाग्रः श्रद्धयान्वितः ॥ २,१४.५१ ॥ पुराकल्पे समुत्पन्ना भूर्भुवःस्वः सनातनाः । महाव्याहृतयस्तिस्त्रः सर्वाशुभनिबर्हणाः ॥ २,१४.५२ ॥ प्रधानं पुरुषः कालो विष्णुर्ब्रह्मा महेश्वरः । सत्त्वं रजस्तमस्तिस्त्रः क्रमाद्व्याहृतयः स्मृताः ॥ २,१४.५३ ॥ ओङ्कारस्तत्परं ब्रह्म सावित्री स्यात्तदक्षरम् । एष मन्त्रो महायोगः सारात्सार उदाहृतः ॥ २,१४.५४ ॥ योऽधीतेऽहन्यहन्येतां गायत्रीं वेदमातरम् । विज्ञायार्थं ब्रह्मचारी स याति परमां गतिम् ॥ २,१४.५५ ॥ गायत्री वेदजननी गायत्री लोकपावनी । न गायत्र्याः परं जप्यमेतद्विज्ञाय मुच्यते ॥ २,१४.५६ ॥ श्रावणस्य तु मासस्य पौर्णमास्यां द्विजोत्तमाः । आषाढ्यां प्रोष्ठपद्यां वा वेदोपाकरणं स्मृतम् ॥ २,१४.५७ ॥ उत्सृज्य ग्रामनगरं मासान् विप्रोर्ऽद्धपञ्चमान् । अधीयीत शुचौ देशे ब्रह्मचारी समाहितः ॥ २,१४.५८ ॥ पुष्ये तु छन्दसां कुर्याद्बहिरुत्सर्जनं द्विजः । माघशुक्लस्य वा प्राप्ते पूर्वाह्ने प्रथमेऽहनि ॥ २,१४.५९ ॥ छन्दांस्यूर्ध्वमथोभ्यस्येच्छुक्लपक्षेषु वै द्विजः । वेदाङ्गानि पुराणानि कृष्णपक्षे च मानवम् ॥ २,१४.६० ॥ इमान्नित्यमनध्यायानदीयानो विवर्जयेत् । अध्यापनं च कुर्वाणो ह्यभ्यस्यन्नपि यत्नतः ॥ २,१४.६१ ॥ कर्णश्रवेऽनिले रात्रौ दिवा पांशुसमूहने । विद्युत्स्तनितवर्षेषु महोल्कानां च संप्लवे । आकालिकमनध्यायमेतेष्वाह प्रजापतिः ॥ २,१४.६२ ॥ एतानभ्युदितान् विद्याद्यदा प्रादुष्कृताग्निषु । तदा विद्यादनध्यायमनृतौ चाभ्रदर्शने ॥ २,१४.६३ ॥ निर्घाते भूमिचलने ज्योतिषां चोपसर्जने । एतानाकालिकान् विद्यादनध्यायानृतावपि ॥ २,१४.६४ ॥ प्रादुष्कृतेष्वग्निषु तु विद्युत्स्तनितनिस्वने । सज्योतिः स्यादनध्यायः शेषरात्रौ यथा दिवा ॥ २,१४.६५ ॥ नित्यानध्याय एव स्याद्ग्रामेषु नगरेषु च । धर्मनैपुण्यकामानां पूतिगन्धे च नित्यशः ॥ २,१४.६६ ॥ अन्तः शवगते ग्रामे वृषलस्य च सन्निधौ । अनध्यायो रुद्यमाने समवाये जनस्य च ॥ २,१४.६७ ॥ उदके मध्यरात्रे च विण्मूत्रे च विसर्जने । उच्छिष्टः श्राद्धबुक्चैव मनसापि न चिन्तयेत् ॥ २,१४.६८ ॥ प्रतिगृह्य द्विजो विद्वानेकोदिष्टस्य केतनम् । त्र्यहं न कीर्तयेद्ब्रह्म राज्ञो राहोश्च सूतके ॥ २,१४.६९ ॥ यावदेकोऽनुदिष्टस्य स्नेहो गन्धश्च तिष्ठति । विप्रस्य विदुषो देहे तावद्ब्रह्म न कीर्तयेत् ॥ २,१४.७० ॥ शयानः प्रौढपादश्च कृत्वा चैवावसक्थिकाम् । नाधीयीतामिषं जग्ध्वा सूतकान्नाद्यमेव च ॥ २,१४.७१ ॥ नीहारे बाणशब्दे च संध्ययोरुभयोरपि । अमावास्यां चतुर्दश्यां पौर्णमास्यष्टमीषु च ॥ २,१४.७२ ॥ उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम् । अष्टकासु त्वहोरात्रं ऋत्वन्त्यासु च रात्रिषु ॥ २,१४.७३ ॥ मार्गशीर्षे तथा पौषे माघमासे तथैव च । तिस्त्रोऽष्टकाः समाख्याता कृष्णपक्षेतु सूरिभिः ॥ २,१४.७४ ॥ श्लेष्मातकस्य छायायां शाल्मलेर्मधुकस्य च । कदाचिदपि नाध्येयं कोविदारकपित्थयोः ॥ २,१४.७५ ॥ समानविद्ये च मृते तथा सब्रह्मचारिणि । आचार्ये संस्थिते वापि त्रिरात्रं क्षपणं स्मृतम् ॥ २,१४.७६ ॥ छिद्राण्येतानि विप्राणांयेऽनध्यायः प्रकीर्तिताः । हिंसन्ति राक्षसास्तेषु तस्मादेतान् विवर्जयेत् ॥ २,१४.७७ ॥ नैत्यके नास्त्यनध्यायः संध्योपासन एव च । उपाकर्मणि कर्मान्ते होममन्त्रेषु चैव हि ॥ २,१४.७८ ॥ एकामृचमथैकं वा यजुः सामाथवा पुनः । अष्टकाद्यास्वधीयीत मारुते चातिवायति ॥ २,१४.७९ ॥ अनध्यायस्तु नाङ्गेषु नेतिहासपुराणयोः । न धर्मशास्त्रेष्वन्येषु पर्वण्येतानि वर्जयेत् ॥ २,१४.८० ॥ एष धर्मः समासेन कीर्तितो ब्रह्मचारिणाम् । ब्रह्मणाभिहितः पूर्वमृषीणां भावितात्मनाम् ॥ २,१४.८१ ॥ योऽन्यत्र कुरुते यत्नमनधीत्य श्रुतिं द्विजः । स संमूढो न संभाष्यो वेदबाह्यो द्विजातिभिः ॥ २,१४.८२ ॥ न वेदपाठमात्रेण संतुष्टो वै भवेद्द्विजः । पाठमात्रावसन्नस्तु पङ्के गौरिव सीदति ॥ २,१४.८३ ॥ योऽधीत्य विधिवद्वेदं वेदार्थं न विचारयेत् । ससान्वयः शूद्रकल्पः पात्रतां न प्रपद्यते ॥ २,१४.८४ ॥ यदि त्वात्यन्तिकं वासं कर्तुमिच्छति वै गुरौ । युक्तः परिचरेदेनमाशरीरविमोक्षणात् ॥ २,१४.८५ ॥ गत्वा वनं वा विधिवज्जुहुयाज्जातवेदसम् । अधीयीत सदा नित्यं ब्रह्मनिष्ठः समाहितः ॥ २,१४.८६ ॥ सावित्रीं शतरुद्रीयं वेदान्तांश्च विशेषतः । अभ्यसेत्सततं युक्ते भस्मस्नानपरायणः ॥ २,१४.८७ ॥ एतद्विधानं परमं पुराणं वेदागमे सम्यगिहेरितं वः । पुरा महर्षिप्रवराभिपृष्टः स्वायंभुवो यन्मनुराह देवः ॥ २,१४.८८ ॥ एवमीश्वरसमर्पितान्तरो योऽनुतिष्ठति विधिं विधानवित् । मोहजालमपहाय सोऽमृतो याति तत्पदमनामयं शिवम् ॥ २,१४.८९ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे चतुर्दशोऽध्यायः _____________________________________________________________ व्यास उवाच वेदं वेदौ तथा वेदान् वेदान् वा चतुरो द्विजाः । अधीत्य चाधिगम्यार्थं ततः स्नायाद्द्विजोत्तमः ॥ २,१५.१ ॥ गुरवे तु वरं दत्त्वा स्नायीत तदनुज्ञया । चीर्णव्रतोऽथ युक्तात्मा सशक्तः स्नातुमर्हति ॥ २,१५.२ ॥ वैणवीं धारयेद्यष्टिमन्तर्वासस्तथोत्तरम् । यज्ञोपवीतद्वितयं सोदकं च कमण्डलुम् ॥ २,१५.३ ॥ छत्रं चोष्णीषममलं पादुके चाप्युपानहौ । रौक्मे च कुण्डले वेदं कृत्तकेशनखः शुचिः ॥ २,१५.४ ॥ स्वाध्याये नित्ययुक्तः स्याद्बहिर्माल्यं न धारयेत् । अन्यत्रकाञ्चनाद्विप्रोनरक्तां बिभृयात्स्त्रजम् ॥ २,१५.५ ॥ शुक्लाम्बरधरो नित्यं सुगन्धः प्रियदर्शनः । न जीर्णमलवद्वासा भवेद्वै विभवे सति ॥ २,१५.६ ॥ न रक्तमुल्बणं चान्यधृतं वासो न कुण्डिकाम् । नोपानहौ स्त्रजं चाथ पादुके च प्रयोजयेत् ॥ २,१५.७ ॥ उपवीतमलङ्कारं दर्भान् कृष्णाजिनानि च । नापसव्यं परीदध्याद्वासो न विकृतं वसेत् ॥ २,१५.८ ॥ आहरेद्विधिवद्दारान् सदृशानात्मनः शुभान् । रूपलक्षणसंयुक्तान् योनिदोषविवर्जितान् ॥ २,१५.९ ॥ अमातृगोत्रप्रभवामसमानर्षिगोत्रजाम् । आहरेद्ब्राह्मणो भार्यां शीलशौचसमन्विताम् ॥ २,१५.१० ॥ ऋतुकालाभिगामी स्याद्यावत्पुत्रोऽभिजायते । वर्जयेत्प्रतिषिद्धानि प्रयत्नेन दिनानि तु ॥ २,१५.११ ॥ षष्ठ्यष्टमीं पञ्चदशीं द्वादशीं च चतुर्दशीम् । ब्रह्मचारी भवेन्नित्यं तद्वज्जन्मत्रयाहनि ॥ २,१५.१२ ॥ आदधीतावसथ्याग्निं जुहुयाज्जातवेदसम् । व्रतानि स्नातको नित्यं पावनानि च पालयेत् ॥ २,१५.१३ ॥ वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः । अकुर्वाणः पतत्याशु नरकानतिभीषणान् ॥ २,१५.१४ ॥ अब्यसेत्प्रयतो वेदं महायज्ञान्न हापयेत् । कुर्याद्गृह्याणि कर्माणि संध्योपासनमेव च ॥ २,१५.१५ ॥ सख्यं समाधैकैः कुर्यादुपेयादीश्वरं सदा । दैवतान्यपि गच्छेत कुर्याद्भार्याभिपोषणम् ॥ २,१५.१६ ॥ न धर्मं ख्यापयेद्विद्वान्न पापं गूहयेदपि । कुर्वोतात्महितं नित्यं सर्वभूतानिकम्पकः ॥ २,१५.१७ ॥ वयसः कर्मणोर्ऽथस्य श्रुतस्याभिजनस्य च । वेषवाग्बुद्धिसारूप्यमाचरन् विचरेत्सदा ॥ २,१५.१८ ॥ श्रुतिस्मृत्युदितः सम्यक्साधुभिर्यश्च सेवितः । तमाचारं निषेवेत नेहेतान्यत्र कर्हिचित् ॥ २,१५.१९ ॥ येनास्य पितरो याता येन याताः पितामहाः । तेन यायात्सतां मार्गं तेन गच्छन्न रिष्यति ॥ २,१५.२० ॥ नित्यं स्वाध्यायशीलः स्यान्नित्यं यज्ञोपवीतवान् । सत्यवादी जितक्रोधो ब्रह्मभूयाय कल्पते ॥ २,१५.२१ ॥ संध्यास्नानपरो नित्यं ब्रह्मयज्ञुपरायणः । अनसूयी मृदुर्दान्तो गृहस्थः प्रेत्य वर्धते ॥ २,१५.२२ ॥ वीतरागभयक्रोधो लोभमोहविवर्जितः । सावित्रीजाप्यनिरतः श्राद्धकृन्मुच्यते गृही ॥ २,१५.२३ ॥ मातापित्रोर्हिते युक्तो गोब्राह्मणहिते रतः । दान्तो यज्वा देवभक्तो ब्रह्मलोके महीयते ॥ २,१५.२४ ॥ त्रिवर्गसेवी सततं देवतानां च पूजनम् । कुर्यादहरहर्नित्यं नमस्येत्प्रयतः सुरान् ॥ २,१५.२५ ॥ विभागशीलः सततं क्षमायुक्तो दयालुकः । गृहस्थस्तु समाख्यातो न गृहेण गृही भवेत् ॥ २,१५.२६ ॥ क्षमा दया च विज्ञानं सत्यं चैव दमः शमः । अध्यात्मनिरतं ज्ञानमेतद्ब्राह्मणलक्षणम् ॥ २,१५.२७ ॥ एतस्मान्न प्रमाद्येत विशेषेण द्विजोत्तमः । यथाशक्तिं चरन् कर्म निन्दितानि विवर्जयेत् ॥ २,१५.२८ ॥ विधूय मोहकलिलं लब्ध्वा योगमनुत्तमम् । गृहस्थो मुच्यते बन्धात्नात्र कार्या विचारणा ॥ २,१५.२९ ॥ विगर्हातिक्रमाक्षेपहिंसाबन्धवधात्मनाम् । अन्यमन्युसमुत्थानां दोषाणां मर्षणं क्षमा ॥ २,१५.३० ॥ स्वदुः खेष्विव कारुण्यं परदुः खेषु सौहृदात् । दयेति मुनयः प्राहुः साक्षाद्धर्मस्य साधनम् ॥ २,१५.३१ ॥ चतुर्दशानां विद्यानां धारणं हि यतार्थतः । विज्ञानमिति तद्विद्याद्येन धर्मो विवर्धते ॥ २,१५.३२ ॥ अधीत्य विधिवद्विद्यामर्थं चैवोपलभ्य तु । धर्मकार्यान्निवृत्तश्चेन्न तद्विज्ञानमिष्यते ॥ २,१५.३३ ॥ सत्येन लोकाञ्जयति सत्यं तत्परमं पदम् । यथाभूतप्रवाद्तु सत्यमाहुर्मनीषिणः ॥ २,१५.३४ ॥ दमः शरीरोपरमः शमः प्रज्ञाप्रिसादजः । अध्यात्ममक्षरं विद्याद्यत्र गत्वा न शोचति ॥ २,१५.३५ ॥ यया स देवो भगवान् विद्यया वेद्यते परः । साक्षाद्देवो महादेवस्तज्ज्ञानमिति कीर्तितम् ॥ २,१५.३६ ॥ तन्निष्ठस्तत्परो विद्वान्नित्यमक्रोधनः शुचिः । महायज्ञपरो विप्रो लभते तदनुत्तमम् ॥ २,१५.३७ ॥ धर्मस्यायतनं यत्नाच्छरीरं परिपालयेत् । न हि देहं विना रुद्रः पुरुषैर्विद्यते परः ॥ २,१५.३८ ॥ नित्यधर्मार्थकामेषु युज्येत नियतो द्विजः । न धर्मवर्जितं काममर्थं वा मनसा स्मरेत् ॥ २,१५.३९ ॥ सीदन्नपि हि धर्मेण न त्वधर्मं समाचरेत् । धर्मो हि भगवान् देवो गतिः सर्वेषु जन्तुषु ॥ २,१५.४० ॥ भूतानां प्रियकारी स्यात्न परद्रोहकर्मधीः । न वेददेवतानिन्दां कुर्यात्तैश्च न संवसेत् ॥ २,१५.४१ ॥ यस्त्विमं नियतं विप्रो धर्माध्यायं पठेच्छुचिः । अध्यापयेत्श्रावयेद्वा ब्रह्मलोके महीयते ॥ २,१५.४२ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे पञ्चदशोऽध्यायः _____________________________________________________________ व्यास उवाच न हिंस्यात्सर्वभूतानिनानृतं वावदेत्क्वचित् । नाहितं नाप्रियं वाक्यं न स्तेनः स्याद्कदाचन ॥ २,१६.१ ॥ तृणं वा यदि वा शाकं मृदं वा जलमेव वा । परस्यापहरञ्जन्तुर्नरकं प्रतिपद्यते ॥ २,१६.२ ॥ न राज्ञः प्रतिगृह्णीयान्न शूद्रपतितादपि । न चान्यस्मादशक्तश्च निन्दितान् वर्जयेद्बुधः ॥ २,१६.३ ॥ नित्यं याचनको न स्यात्पुनस्तं नैव याचयेत् । प्राणानपहरत्येवं याचकस्तस्य दुर्मतिः ॥ २,१६.४ ॥ न देवद्रव्यहारी स्याद्विशेषेण द्विजोत्तमः । ब्रह्मस्वं वा नापहरेदापद्यपि कदाचन ॥ २,१६.५ ॥ न विषं विषमित्याहुर्ब्रह्मस्वं विषमुच्यते । देवस्वं चापि यत्नेन सदा परिहरेत्ततः ॥ २,१६.६ ॥ पुष्पे शाक्रोदके काष्ठे तथा मूले फले तृणे । अदत्तादानमस्तेयं मनुः प्राह प्रजापतिः ॥ २,१६.७ ॥ ग्रहीतव्यानि पुष्पाणि देवार्चनविधौ द्विजाः । नैकस्मादेव नियतमननुज्ञाय केवलम् ॥ २,१६.८ ॥ तृणं काष्ठं फलं पुष्पं प्रकाशं वै हरेद्बुधः । धर्मार्थं केवलं विप्रा ह्यन्यथा पतितो भवेत् ॥ २,१६.९ ॥ तिलमुद्गयवादीनां मुष्टिर्ग्राह्या पथि स्थितैः । क्षुधार्तैर्नान्यथा विप्रा धर्मविद्भिरिति स्थितिः ॥ २,१६.१० ॥ न धर्मस्यापदेशेन पापं कृत्वा व्रतं चरेत् । व्रतेन पापं प्रच्छाद्य कुर्वन् स्त्रीशूद्रदम्भनम् ॥ २,१६.११ ॥ प्रेत्येह चेदृशो विप्रो गर्ह्यते ब्रह्मवादिभिः । छद्मनाचरितं यच्च व्रतं रक्षांसि गच्छति ॥ २,१६.१२ ॥ अलिङ्गी लिङ्गिवेषेण यो वृत्तिमुपजीवति । स लिङ्गिनां हरेदेनस्तिर्यग्योनौ च जायते ॥ २,१६.१३ ॥ बैडालव्रतिनः पापा लोके धर्मविनाशकाः । सद्यः पतन्ति पापेषु कर्मणस्तस्य तत्फलम् ॥ २,१६.१४ ॥ पाषण्डिनो विकर्मस्थान् वामाचारांस्तथैव च । पञ्चरात्रान् पाशुपतान् वाङ्मात्रेणापि नार्चयेत् ॥ २,१६.१५ ॥ वेदनिन्दारतान्मर्त्यान् देवनिन्दारतांस्तथा । द्विजनिन्दारतांश्चैव मनसापि न चिन्तयेत् ॥ २,१६.१६ ॥ याजनं योनिसंबन्धं सहवासं च भाषणम् । कुर्वाणः पतते जन्तुस्तस्माद्यत्नेन वर्जयेत् ॥ २,१६.१७ ॥ देवद्रोहाद्गुरुद्रोहः कोटिकोटिगुणाधिकः । ज्ञानापवादो नास्तिक्यं तस्मात्कोटिगुणाधिकम् ॥ २,१६.१८ ॥ गोभिश्च दैवतैर्विप्रैः कृष्या राजोपसेवया । कुलान्यकुलतां यान्ति यानि हीनानि धर्मतः ॥ २,१६.१९ ॥ कुविवाहैः क्रियालोपैर्वेदानध्ययनेन च । कुलान्यकुलतां यान्ति ब्राह्मणातिक्रमेण च ॥ २,१६.२० ॥ अनृतात्पारदार्याच्च तथाभक्ष्यस्य भक्षणात् । अश्रौतधर्माचरणात्क्षिप्रं नश्यति वै कुलम् ॥ २,१६.२१ ॥ अश्रोत्रियेषु वै दानाद्वृषलेषु तथैव च । विहिताचारहीनेषु क्षिप्रं नश्यति वै कुलम् ॥ २,१६.२२ ॥ नाधार्मिकैर्वृते ग्रामे न व्याधिबहुले भृशम् । न शूद्रराज्ये निवसेन्न पाषण्डजनैर्वृते ॥ २,१६.२३ ॥ हिमवद्विन्ध्ययोर्मध्ये पूर्वपश्चिमयोः शुभम् । मुक्त्वा समुद्रयोर्देशं नान्यत्र निवसेद्द्विजः ॥ २,१६.२४ ॥ कृष्णो वा यत्र चरति मृगो नित्यं स्वभावतः । पुण्याश्च विश्रुता नद्यस्तत्र वा निवसेद्द्विजः ॥ २,१६.२५ ॥ अर्धक्रोशान्नदीकूलं वर्जयित्वा द्विजोत्तमः । नान्यत्र निवसेत्पुण्यं नान्त्यजग्रामसन्निधौ ॥ २,१६.२६ ॥ न संवसेच्च पतितैर्न चण्डालैर्न पुक्कसैः । न मूर्खैर्नावलिप्तैश्च नान्त्यैर्नान्त्यावसायिभिः ॥ २,१६.२७ ॥ एकशय्यासनं पङ्क्तिर्भाण्डपक्वान्नमिश्रणम् । याजनाध्यापने योनिस्तथैव सहभोजनम् ॥ २,१६.२८ ॥ सहाध्यायस्तु दशमः सहयाजनमेव च । एकादश समुद्दिष्टा दोषाः साङ्कर्यसंज्ञिताः ॥ २,१६.२९ ॥ समीपे वा व्यवस्थानात्पापं संक्रमते नृणाम् । तस्मात्सर्वप्रयत्नेन साङ्कर्यं परिवर्जयेत् ॥ २,१६.३० ॥ एकपङ्क्त्युपविष्टा ये न स्पृशन्ति परस्परम् । भस्मना कृतमर्यादा न तेषां संकरो भवेत् ॥ २,१६.३१ ॥ अग्निना भस्मना चैव सलिलेनावसेकतः । द्वारेण स्तम्भमार्गेण षड्भिः पङ्क्तिर्विभिद्यते ॥ २,१६.३२ ॥ न कुर्याच्छुष्कवैराणि विवादं च न पैशुनम् । परक्षेत्रे गां धयन्तीं न चाचक्षीत कस्यचित् । न संवदेत्सूतके च न कञ्चिन्मर्मणि स्पृशेत् ॥ २,१६.३३ ॥ न सूर्यपरिवेषं वा नेन्द्रचापं शवाग्निकम् । परस्मै कथयेद्विद्वान् शशिनं वा कदाचन ॥ २,१६.३४ ॥ न कुर्याद्बहुभिः सार्धं विरोधं बन्धुभिस्तथा । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥ २,१६.३५ ॥ तिथिं पक्षस्य न ब्रूयात्न नक्षत्राणि निर्दिशेत् । नोदक्यामभिभाषेत नाशुचिं वा द्विजोत्तमः ॥ २,१६.३६ ॥ न देवगुरुविप्राणां दीयमानं तु वारयेत् । न चात्मानं प्रशंसेद्वा परनिन्दां च वर्जयेत् । वेदनिन्दां देवनिन्दां प्रयत्नेन विवर्जयेत् ॥ २,१६.३७ ॥ यस्तु देवानृषीन् विप्रान्वेदान् वा निन्दति द्विजः । न तस्य निष्कृतिर्दृष्टा शास्त्रेष्विह मुनीश्वराः ॥ २,१६.३८ ॥ निन्दयेद्वै गुरुं देवं वेदं वा सोपबृंहणम् । कल्पकोटिशतं साग्रं रौरवे पच्यते नरः ॥ २,१६.३९ ॥ तूष्णीमासीत निन्दायां न ब्रूयात्किञ्चिदुत्तरम् । कर्णौ पिधाय गन्तव्यं न चैतानवलोकयेत् ॥ २,१६.४० ॥ वर्जयेद्वै रहस्यानि परेषां गूहयेद्बुधः । विवादं स्वजनैः सार्धं न कुर्याद्वै कदाचन ॥ २,१६.४१ ॥ न पापं पापिनां ब्रूयादपापं वा द्विजात्तमाः । सतेनतुल्यदोषः स्यान्मिथ्या द्विर्देषवान् भवेत् ॥ २,१६.४२ ॥ यानि मिथ्याभिशस्तानां पतन्त्यश्रूणि रोदनात् । तानिपुत्रान् पशून्घ्निन्ति तेषां मिथ्याभिशंसिनाम् ॥ २,१६.४३ ॥ ब्रिह्महत्यासुरापाने स्तेयगुर्वङ्गनागमे । दृष्टं विशोधनं वृद्धैर्नास्ति मिथ्याभिशंसने ॥ २,१६.४४ ॥ नेक्षेतोद्यन्तमादित्यं शशिनं चानिमित्ततः । नास्तं यान्तं न वारिस्थं नोपसृष्टं न मघ्यगम् । तिरोहितं वाससा वा नादर्शान्तरगामिनम् ॥ २,१६.४५ ॥ न नग्नां स्त्रियमीक्षेत पुरुषं वा कदाचन । न च मूत्रं पुरीषं वा न च संस्पृष्टमैथुनम् । नाशुचिः सूर्यसोमादीन् ग्रहानालोकयेद्बुधः ॥ २,१६.४६ ॥ पतितव्यङ्गचण्डालानुच्छिष्टान्नावलोकयेत् । नाभिभाषेत च परमुच्छिष्टो वावगुण्ठितः ॥ २,१६.४७ ॥ न पश्येत्प्रेतसंस्पर्शं न क्रुद्धस्य गुरोर्मुखम् । न तैलोदकयोश्छायां न पत्नीं भोजने सति । नामुक्तबन्धनाङ्गां वा नोन्मत्तं मत्तमेव वा ॥ २,१६.४८ ॥ नाश्नीयात्भार्यया सार्धंनैनामीक्षेत चाश्नतीम् । क्षुवन्तीं जृम्भमाणां वा नासनस्थां यथासुखम् ॥ २,१६.४९ ॥ नोदके चात्मनो रूपं न कूलं श्वभ्रमेव वा । न लङ्घयेच्च मूत्रं वा नाधितिष्ठेत्कदाचन ॥ २,१६.५० ॥ न शूद्राय मतिं दद्यात्कृशरं पायसं दधि । नोच्छिष्टं वा मधु घृतं न च कृष्णाजिनं हविः ॥ २,१६.५१ ॥ न चैवास्मै व्रतं दद्यान्न च धर्मं वदेद्बुधः । न च क्रोधवशं गच्छेद्द्वेषं रागं च वर्जयेत् ॥ २,१६.५२ ॥ लोभं दम्भं तथा यत्नादसूयां ज्ञानकुत्सनम् । ईर्ष्यां मदं तथा शोकं मोहं च परिवर्जयेत् ॥ २,१६.५३ ॥ न कुर्यात्कस्यचित्पीडां सुतं शिष्यं च ताडयेत् । न हीनानुपसेवेत न च तीक्ष्णमतीन् क्वचित् ॥ २,१६.५४ ॥ नात्मानं चावमन्येत दैन्यं यत्नेन वर्जयेत् । न विशिष्टानसत्कुर्यात्नात्मानं वा शपेद्बुधः ॥ २,१६.५५ ॥ न नखैर्विलिखेद्भूमिं गां च संवेशयेन्न हि । न नदीषु नदीं ब्रूयात्पर्वतेषु च पर्वतान् ॥ २,१६.५६ ॥ आवासे भोजने वापि न त्यजेथसयायिनम् । नावगाहेदपो नग्नो वह्निं नातिव्रजेत्पदा ॥ २,१६.५७ ॥ शिरोऽभ्यङ्गावशिष्टेन तैलेनाङ्गं न लेपयेत् । न सर्पशस्त्रैः क्रीडेत स्वानि खानि न संस्पृशेत् । रोमाणि च रहस्यानि नाशिष्टेन सह व्रजेत् ॥ २,१६.५८ ॥ न पाणिपादवाङ्नेत्रचापल्यं समुपाश्रयेत् । न शिश्नोदरचापल्यं न च श्रवणयोः क्वचित् ॥ २,१६.५९ ॥ न चाङ्गनखवादं वै कुर्यान्नाञ्जलिना पिबेत् । नाभिहन्याज्जलं पद्भ्यां पाणिना वा कदाचन ॥ २,१६.६० ॥ न शातयेदिष्टकाभिः फलानि न फलेन च । न म्लेच्छभाषां शिक्षेत नाकर्षेच्च पदासनम् ॥ २,१६.६१ ॥ न भेदनमवस्फोटं छेदनं वा विलेखनम् । कुर्याद्विमर्दनं धीमान्नाकस्मादेव निष्फलम् ॥ २,१६.६२ ॥ नोत्सङ्गेभक्षयेद्भक्ष्यं वृथा चेष्टां च नाचरेत् । न नृत्येदथवा गायेन्न वादित्राणि वादयेत् ॥ २,१६.६३ ॥ न संहताभ्यां पाणिभ्यां कण्डूयेदात्मनः शिरः । न लौकिकैः स्तवैर्देवांस्तोषयेद्बाह्यजैरपि ॥ २,१६.६४ ॥ नाक्षैः क्रीडेन्न धावेत नाप्सु विण्मूत्रमाचरेत् । नोच्छिष्टः संविशेन्नित्यं न नग्नः स्नानमाचरेत् ॥ २,१६.६५ ॥ न गच्छेन्न पठेद्वापि न चैव स्वशिरः स्पृशेत् । न दन्तैर्नखरोमाणि छिन्द्यात्सुप्तं न बोधयेत् ॥ २,१६.६६ ॥ न बालातपमासेवेत्प्रेतधूमं विवर्जयेत् । नैकः सुप्याच्छून्यगृहे स्वयं नोपानहौ हरेत् ॥ २,१६.६७ ॥ नाकारणाद्वा निष्ठीवेन्न बाहुभ्यां नदीं तरेत् । न पादक्षालनं कुर्यात्पादेनैव कदाचन ॥ २,१६.६८ ॥ नाग्नौ प्रतापयेत्पादौ न कांस्ये धावयेद्बुधः । नाभिप्रासरयेद्देवं ब्राह्मणान् गामथापि वा । वाय्वग्निगुरुविप्रान् वा सूर्यं वा शशिनं प्रति ॥ २,१६.६९ ॥ अशुद्धः शयनं यानं स्वाध्यायं स्नानवाहनम् । बहिर्निष्क्रमणं चैव न कुर्वोत कथञ्चन ॥ २,१६.७० ॥ स्वप्नमध्ययनं स्नानमुद्वर्तं भोजनं गतिम् । उभयोः संध्ययोर्नित्यं मध्याह्ने चैव वर्जयेत् ॥ २,१६.७१ ॥ न स्पृशेत्पाणिनोच्छिष्टो विप्रोगोब्राह्मणानलान् । न चासनं पदा वापि न देवप्रतिमां स्पृशेत् ॥ २,१६.७२ ॥ नाशुद्धोऽग्निं परिचरेन्न देवान् कीर्तयेदृषीन् । नावगाहेदगाधाम्बु धारयेन्नानिमित्ततः ॥ २,१६.७३ ॥ न वामहस्तेनोद्धत्य पिबेद्वक्त्रेण वा जलम् । नोत्तरेदनुपस्पृश्य नाप्सु रेतः समुत्सृजेत् ॥ २,१६.७४ ॥ अमेध्यलिप्तमन्यद्वा लोहितं वा विषाणि वा । व्यतिक्रमेन्न स्त्रवन्तीं नाप्सु मैथुनमाचरेत् । चैत्यं वृक्षं न वै छिन्द्यान्नाप्सु ष्ठीवनमाचरेत् ॥ २,१६.७५ ॥ नास्थिभस्मकपालानि न केशान्न च कण्टकान् । तुषाङ्गारकरीषं वा नाधितिष्ठेत्कदाचन ॥ २,१६.७६ ॥ न चाग्निं लङ्घयेद्धीमान्नोपदध्यादधः क्वचित् । न चैनं पादतः कुर्यान्मुखेन न धमेद्बुधः ॥ २,१६.७७ ॥ न कूपमवरोहेत नावेक्षेताशुचिः क्वचित् । अग्नौ न च क्षिपेदग्निं नाद्भिः प्रशमयेत्तथा ॥ २,१६.७८ ॥ सुहृन्मरणमार्तिं वा न स्वयं श्रावयेत्परान् । अपण्यं कूटपण्यं वा विक्रये न प्रयोजयेत् ॥ २,१६.७९ ॥ न वह्निं मुखनिश्वासैर्ज्वालयेन्नाशुचिर्बुधः । पुण्यस्थानोदकस्थाने सीमान्तं वा कृषेन्न तु ॥ २,१६.८० ॥ न भिन्द्यात्पूर्वसमयमभ्युपेतं कदाचन । परस्परं पशून् व्यालान् पक्षिणो नावबोधयेत् ॥ २,१६.८१ ॥ परबाधं न कुर्वोत जलवातातपादिभिः । कारयित्वा स्वकर्माणि कारून् पश्चान्न वञ्चयेत् । सायंप्रातर्गृहद्वारान् भिक्षार्थं नावघट्टयेत् ॥ २,१६.८२ ॥ बहिर्माल्यं बहिर्गन्धं भार्यया सह भोजनम् । विगृह्य वादं कुद्वारप्रवेशं च विवर्जयेत् ॥ २,१६.८३ ॥ न खादन्ब्राह्मणस्तिष्ठेन्न जल्पेद्वा हसन् बुधः । स्वमग्निं नैव हस्तेन स्पृशेन्नाप्सु चिरं वसेत् ॥ २,१६.८४ ॥ न पक्षकेणोपधमेन्न शूर्पेण न पाणिना । मुखे नैव धमेदग्निं मुखादग्निरजायत ॥ २,१६.८५ ॥ परस्त्रियं न भाषेत नायाज्यं याजयेद्द्विजः । नैकश्चरेत्सभां विप्रः समवायं च वर्जयेत् ॥ २,१६.८६ ॥ न देवायतनं गच्छेत्कदाचिद्वाप्रदक्षिणम् । न वीजयेद्वा वस्त्रेण न देवायतने स्वपेत् ॥ २,१६.८७ ॥ नैकोऽध्वानं प्रपद्येत नाधार्मिकजनैः सह । न व्याधिदूषितैर्वापि न शूद्रैः पतितेन वा ॥ २,१६.८८ ॥ नोपानद्वर्जितो वाथ जलादिरहितस्तथा । न रात्रौ नारिणा सार्धं न विना च कमण्डलुम् । नाग्निगोब्राह्मणादीनामन्तरेण व्रजेत्क्वचित् ॥ २,१६.८९ ॥ न वत्सतन्त्रीं विततामतिक्रामेत्क्वचिद्द्विजः । न निन्देद्योगिनः सिद्धान् व्रतिनो वायतींस्तथा ॥ २,१६.९० ॥ देवतायतनं प्राज्ञो देवानां चैव सत्रिणाम् । नाक्रामेत्कामतश्छायां ब्राह्मणानां च गोरपि ॥ २,१६.९१ ॥ स्वां तु नाक्रमयेच्छायां पतिताद्यैर्न रोगिभिः । नाङ्गारभस्मकेशादिष्वधितिष्ठेत्कदाचन ॥ २,१६.९२ ॥ वर्जयेन्मार्जनीरेणुं स्नानवस्त्रघचोदकम् । न भक्षयेदभक्ष्याणि नापेयं च पिबेद्द्विजः ॥ २,१६.९३ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे षोडशोऽध्यायः _____________________________________________________________ व्यास उवाच नाद्याच्छूद्रस्य विप्रोऽन्नं मोहाद्वा यदि वान्यतः । स शूद्रयोनिं व्रजति यस्तु भुङ्क्ते ह्यनापदि ॥ २,१७.१ ॥ षण्मासान् यो द्विजो भुङ्क्ते शूद्रस्यान्नं विगर्हितम् । जीवन्नेव भवेच्छूद्रो मृतः श्वा चाभिजायते ॥ २,१७.२ ॥ ब्राह्मणक्षत्रियविशां शूद्रस्य च मुनीश्वराः । यस्यान्नेनोदरस्थेन मृतस्तद्योनिमाप्नुयात् ॥ २,१७.३ ॥ राजान्नं नर्तकान्नं च तक्ष्णोऽन्नं चर्मकारिणः । गणान्नं गणिकान्नं च षण्ढान्नं चैव वर्जयेत् ॥ २,१७.४ ॥ चक्रोपजीविरजकतस्करध्वजिनां तथा । गान्धर्वलोहकारान्नं सूतकान्नं च वर्जयेत् ॥ २,१७.५ ॥ कुलालचित्रकर्मान्नं वार्धुषेः पतितस्य च । पौनर्भवच्छत्रिकयोरभिशस्तस्य चैव हि ॥ २,१७.६ ॥ सुवर्णकारशैलूषव्याधबद्धातुरस्य च । चिकित्सकस्य चैवान्नं पुंश्चल्या दण्डिकस्य च ॥ २,१७.७ ॥ स्तेननास्तिकयोरन्नं देवतानिन्दकस्य च । सोमविक्रयिणश्चान्नं श्वपाकस्य विशेषतः ॥ २,१७.८ ॥ भार्याजितस्य चैवान्नं यस्य चोपपतिर्गृहे । उत्सृष्टस्य कदर्यस्य तथैवोच्छिष्टभोजिनः ॥ २,१७.९ ॥ अपाङ्क्त्यान्नं च सङ्घान्नं शस्त्राजीवस्य चैव हि । क्लीबसंन्यासिनोश्चान्नं मत्तोन्मत्तस्य चैव हि । भीतस्य रुदितस्यान्नमवक्रुष्टं परिक्षुतम् ॥ २,१७.१० ॥ ब्रह्मद्विषः पापरुचेः श्राद्धान्नं सूतकस्य च । वृथापाकस्य चैवान्नं शावान्नं श्वशुरस्य च ॥ २,१७.११ ॥ अप्रजानां तु नारीणां भृतकस्य तथैव च । कारुकान्नं विशेषेण शस्त्रविक्रयिणस्तथा ॥ २,१७.१२ ॥ शौण्डान्नं घाटिकान्नं च भिषजामन्नमेव च । विद्धप्रजननस्यान्नं परिवित्त्यन्नमेव च ॥ २,१७.१३ ॥ पुनर्भुवो विशेषेण तथैव दिधिषूपतेः । अवज्ञातं चावधूतं सरोषं विस्मयान्वितम् । गुरोरपि न भोक्तव्यमन्नं संस्कारवर्जितम् ॥ २,१७.१४ ॥ दुष्कृतं हि मनुष्यस्य सर्वमन्ने व्यवस्थितम् । यो यस्यान्नं समश्नाति स तस्याश्नानि किल्बिषम् ॥ २,१७.१५ ॥ आर्धिकः कुलमित्रश्च स्वगोपालश्च नापितः । एते शूद्रेषु भोज्यान्ना यश्चात्मानं निवेदयेत् ॥ २,१७.१६ ॥ कुशीलवः कुम्भकारः क्षेत्रकर्मक एव च । एते शूद्रेषु भोज्यान्ना दत्त्वा स्वल्पं पणं बुधैः ॥ २,१७.१७ ॥ पायसं स्नेहपक्वं यद्गोरसं चैव सक्तवः । पिण्याकं चैव तैलं च शूद्राद्ग्राह्यं द्विजातिभिः ॥ २,१७.१८ ॥ वृन्ताकं नालिकाशाकं कुसुम्भाश्मन्तकं तथा । पलाण्डुं लशुनं शुक्तं निर्यासं चैव वर्जयेत् ॥ २,१७.१९ ॥ छत्राकं विड्वराहं च शेलं पेयूषमेव च । विलयं सुमुखं चैव कवकानि च वर्जयेत् ॥ २,१७.२० ॥ गृञ्जनं किंशुकं चैव ककुभाण्डं तथैव च । उदुम्बरमलाबुं च जग्ध्वा पतति वै द्विजः ॥ २,१७.२१ ॥ वृथा कृशरसंयावं पायसापूपमेव च । अनुपाकृतमांसं च देवान्नानि हवींषि च ॥ २,१७.२२ ॥ यवागूं मातुलिङ्गं च मत्स्यानप्यनुपाकृतान् । नीपं कपित्थं प्लक्षं च प्रयत्नेन विवर्जयेत् ॥ २,१७.२३ ॥ पिण्याकं चोद्धृतस्नेहं देवधान्य तथैव च । रात्रौ च तिलसंबद्धं प्रयत्नेन दधि त्यजेत् ॥ २,१७.२४ ॥ नाश्नीयात्पयसा तक्रं न बीजान्युपजीवयेत् । क्रियादुष्टं भावदुष्टमसत्संसर्गि वर्जयेत् ॥ २,१७.२५ ॥ केशकीटावपन्नं च सहृल्लेखं च नित्यशः । श्वाघ्रातं च पुनः सिद्धं चण्डालावेक्षितं तथा ॥ २,१७.२६ ॥ उदक्यया च पतितैर्गवा चाघ्रातमेव च । अनर्चितं पुर्युं षितं पर्यायान्नं च नित्यशः ॥ २,१७.२७ ॥ काककुक्कुटसंस्पृष्टं कृमिभिश्चैव संयुतम् । मनुष्यैरप्यवघ्रातं कुष्ठिना स्पृष्टमेव च ॥ २,१७.२८ ॥ न रजस्वलया दत्तं न पुंश्चाल्या सरोषया । मलबद्वाससा वापि परवासोऽथ वर्जयेत् ॥ २,१७.२९ ॥ विवत्सायाश्च गोः क्षीरमौष्ट्रं वानिर्दशं तथा । आविकं सन्धिनीक्षीरमपेयं मनुरब्रवीत् ॥ २,१७.३० ॥ बलाकं हंसदात्यूहं कलविङ्कं शुकं तथा । कुररं च चकोरं च जालपादं च कोकिलम् ॥ २,१७.३१ ॥ वायसं खञ्जरीटं च श्येनं गृध्रं तथैव च । उलूकं चक्रवाकं च भासं पारावतानपि । कपोतं टिट्टिभं चैव ग्रामकुक्कुटमेव च ॥ २,१७.३२ ॥ सिंहव्याघ्रं च मार्जारं श्वानं शूकरमेव च । शृगालं मर्कटं चैव गर्दभं च न भक्षयेत् ॥ २,१७.३३ ॥ न भक्षयेत्सर्वमृगान् पक्षिणोऽन्यान् वनेचरान् । जलेचरान् स्थलचरान् प्राणिनश्चेति धारणा ॥ २,१७.३४ ॥ गोधा कूर्मः शशः श्वाविच्छल्यकश्चेति सत्तमाः । भक्ष्याः पञ्चनखा नित्यं मनुराह प्रिजापतिः ॥ २,१७.३५ ॥ मत्स्यान् सशल्कान् भुञ्जीयान्मांसं रौरवमेवच । निवेद्य देवताभ्यस्तु ब्राह्मणेभ्यस्तु नान्यथा ॥ २,१७.३६ ॥ मयूरं तित्तिरं चैव कपोतं च कपिञ्जलम् । वाध्रीणसं बकं भक्ष्यं मीनहंसपराजिताः ॥ २,१७.३७ ॥ शफरं सिंहतुण्डं च तथा पाठीनरोहितौ । मत्स्याश्चैते समुद्दिष्टा भक्षणाय द्विजोत्तमाः ॥ २,१७.३८ ॥ प्रोक्षितं भक्षयेदेषां मांसं च द्विजकाम्यया । यथाविधि नियुक्तं च प्राणानामपि चात्यये ॥ २,१७.३९ ॥ भक्षयेन्नैव मांसानि शेषभोजी न लिप्यते । औषधार्थमशक्तौ वा नियोगाद्यज्ञकारणात् ॥ २,१७.४० ॥ आमन्त्रितस्तु यः श्राद्धे दैवे वा मांसमुत्सृजेत् । यावन्ति पशुरोमाणि तावतो नरकान् व्रजेत् ॥ २,१७.४१ ॥ अदेयं चाप्यपेयं च तथैवास्पृश्यमेव च । द्विजातीनामनालोक्यं नित्यं मद्यमिति स्थितिः ॥ २,१७.४२ ॥ तस्मात्सर्वप्रकारेण मद्यं नित्यं विवर्जयेत् । पीत्वा पतति कर्मभ्यस्त्वसंभाष्यो भवेद्द्विजः ॥ २,१७.४३ ॥ भक्षयित्वा ह्यभक्ष्याणि पीत्वापेयान्यपि द्विजः । नाधिकारी भवेत्तावद्यावद्तन्न जहात्यधः ॥ २,१७.४४ ॥ तस्मात्परिहरेन्नित्यमभक्ष्याणि प्रयत्नतः । अपेयानि च विप्रो वै तथा चेद्याति रौरवम् ॥ २,१७.४५ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे सप्तदशोऽध्यायः _____________________________________________________________ ऋषय ऊचुः अहन्यहनि कर्तव्यं ब्राह्मणानां महामुने । तदाचक्ष्वाखिलं कर्म येन मुच्येत बन्धनात् ॥ २,१८.१ ॥ व्यास उवाच वक्ष्ये समाहिता यूयं शृणुध्वं गदतो मम । अहन्यहनि कर्तव्यं ब्राह्मणानां क्रमाद्विधिम् ॥ २,१८.२ ॥ ब्राह्मे मुहूर्ते तूत्थाय धर्ममर्थं च चिन्तयेत् । कायक्लेशं तदुद्भूतं ध्यायीत मनसेश्वरम् ॥ २,१८.३ ॥ उषः कालेऽथ संप्राप्ते कृत्वा चावश्यकं बुधः । स्नायान्नदीषु सुद्धासु शौचं कृत्वा यथाविधि ॥ २,१८.४ ॥ प्रातः स्नानेन पूयन्ते येऽपि पापकृतो जनाः । तस्मात्सर्वप्रयत्नेन प्रातः स्नानं समाचरेत् ॥ २,१८.५ ॥ प्रातः स्नानं प्रशंसन्ति दृष्टादृष्टकरं शुभम् । ऋषीणामृषिता नित्यं प्रातः स्नानान्न संशयः ॥ २,१८.६ ॥ मुखे सुप्तस्य सततं लाला याः संस्त्रवन्ति हि । ततो नैवाचरेत्कर्म अकृत्वा स्नानमादितः ॥ २,१८.७ ॥ अलक्ष्मीः कालकर्णो च दुः स्वप्नं दुर्विचिन्तितम् । प्रातः स्नानेन पापानि पूयन्ते नात्र संशयः ॥ २,१८.८ ॥ न च स्नानं विना पुंसां पावनं कर्म सुस्मृतम् । होमे जप्ये विशेषेण तस्मात्स्नानं समाचरेत् ॥ २,१८.९ ॥ अशक्तावशिरस्कं वा स्नानमस्य विधीयते । आर्द्रेण वाससा वाथ मार्जनं कापिलं स्मृतम् ॥ २,१८.१० ॥ असामर्थ्ये समुत्पन्ने स्नानमेवं समाचरेत् । ब्राह्मादीनि यथाशक्तौ स्नानान्याहुर्मनीषिणः ॥ २,१८.११ ॥ ब्राह्ममाग्नेयमुद्दिष्टं वायव्यं दिव्यमेव च । वारुणं यौगिकं तद्वत्षोढा स्नानं प्रकीर्तितम् ॥ २,१८.१२ ॥ ब्राह्मं तु मार्जनं मन्त्रैः कुशैः सोदकबिन्दुभिः । आग्नेयं भस्मना पादमस्तकाद्देहधूलनम् ॥ २,१८.१३ ॥ गवां हि रजसा प्रोक्तं वायव्यं स्नानमुत्तमम् । यत्तु सातपवर्षेण स्नानं तद्दिव्यमुच्यते ॥ २,१८.१४ ॥ वारुणं चावगाहस्तु मानसं त्वात्मवेदनम् । यौगिकं स्नानमाख्यातं योगो विष्णुविचिन्तनम् ॥ २,१८.१५ ॥ आत्मतीर्थमिति ख्यातं सेवितं ब्रह्मवादिभिः । मनः शुचिकरं पुंसां नित्यं तत्स्नानमाचरेत् ॥ २,१८.१६ ॥ शक्तश्चेद्वारुणं विद्वान् प्राजापत्यं तथैव च । प्रक्षाल्य दन्तकाष्ठं वै भक्षयित्वा विधानतः ॥ २,१८.१७ ॥ आचम्य प्रयतो नित्यं स्नानं प्रातः समाचरेत् । मध्याङ्गुलिसमस्थौल्यं द्वादशाङ्गुलसंमितम् ॥ २,१८.१८ ॥ सत्वचं दन्तकाष्ठं स्यात्तदग्रेण तु धावयेत् । क्षीरवृक्षसमुद्भूतं मालतीसंभवं शुभम् । अपामार्गं च बिल्वं च करवीरं विशेषतः ॥ २,१८.१९ ॥ वर्जयित्वा निन्दितानि गृहीत्वैकं यथोदितम् । परिहृत्य दिनं पापं भक्षयेद्वै विधानवित् ॥ २,१८.२० ॥ नोत्पाटयेद्दन्तकाष्टंनाङ्गुल्या धावयेत्क्वचित् । प्रक्षाल्य भङ्क्त्वा तज्जह्याच्छुचौदेशे समाहितः ॥ २,१८.२१ ॥ स्नात्वा संतर्पयेद्देवानृषीन् पितृगणांस्तथा । आचम्य मन्त्रवन्नित्यं पुनराचम्य वाग्यतः ॥ २,१८.२२ ॥ संमार्ज्य मन्त्रैरात्मानं कुशैः सोदकबिन्दुभिः । आपो हिष्ठा व्याहृतिभिः सावित्र्या वारुणैः शुभैः ॥ २,१८.२३ ॥ ओङ्कारव्याहृतियुतां गायत्रीं वेदमातरम् । जप्त्वा जलाञ्जलिं दद्याद्भास्करं प्रति तन्मनाः ॥ २,१८.२४ ॥ प्राक्कूलेषु समासीनो दर्भेषु सुसमाहितः । प्राणायामत्रयं कृत्वा ध्यायेत्संध्यामिति श्रुतिः ॥ २,१८.२५ ॥ या संध्या सा जगत्सूतिर्मायातीता हि निष्कला । ऐश्वरी तु पराशक्तिस्तत्त्वत्रयसमुद्भवा ॥ २,१८.२६ ॥ ध्यात्वार्ऽकमण्डलगतां सावित्रीं वै जपन् बुधः । प्राङ्मुखः सततं विप्रः संध्योपासनमाचरेत् ॥ २,१८.२७ ॥ संध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु । यदन्यत्कुरुते किञ्चिन्न तस्य फलमाप्नुयात् ॥ २,१८.२८ ॥ अनन्यचेतसः शान्ता ब्राह्मणा वेदपारगाः । उपास्य विधिवत्संध्यां प्राप्ताः पूर्वं परां गतिम् ॥ २,१८.२९ ॥ योऽन्यत्र कुरुते यत्नं धर्मकार्ये द्विजोत्तमः । विहाय संध्याप्रणतिं स याति नरकायुतम् ॥ २,१८.३० ॥ तस्मात्सर्वप्रयत्नेन संध्योपासनमाचरेत् । उपासितो भवेत्तेन देवो योगतनुः परः ॥ २,१८.३१ ॥ सहस्रपरमां नित्यं शतमध्यां दशावराम् । सावित्ररिं वै जपेद्विद्वान् प्राङ्मुखः प्रयतः स्थितः ॥ २,१८.३२ ॥ अथोपतिष्ठेदादित्यमुदयन्तं समाहितः । मन्त्रैस्तु विविधैः सौरेरृग्यजुः सामसंभवैः ॥ २,१८.३३ ॥ उपस्थाय महायोगं देवदेवं दिवाकरम् । कुर्वोत प्रणतिं भूमौ मूर्ध्ना तेनैव मन्त्रतः ॥ २,१८.३४ ॥ ओं खखोल्काय शान्ताय कारणत्रयहेतवे । निवेदयामि चात्मानं नमस्ते ज्ञानरूपिणे । नमस्ते घृणिने तुभ्यं सूर्याय ब्रह्मरूपिणे ॥ २,१८.३५ ॥ त्वमेव ब्रह्म परममापो ज्योती रसोऽमृतम् । भूर्भुवः स्वस्त्वमोङ्कारः सर्वे रुद्राः सनातनाः । पुरुषः सन्महोऽतस्त्वां प्रणमामि कपर्दिनम् ॥ २,१८.३६ ॥ त्वमेव विश्वं बहुधा सदसत्सूयते च यत् । नमो रुद्राय सूर्याय त्वामहं शरणं गतः ॥ २,१८.३७ ॥ प्रचेतसे नमस्तुभ्यं नमो मीढुष्टमाय ते । नमो नमस्ते रुद्राय त्वामहं शरणं गतः ॥ २,१८.३८ ॥ हिरण्यबाहवे तुभ्यं हिरण्यपतये नमः । अम्बिकापतये तुभ्यमुमायाः पतये नमः ॥ २,१८.३९ ॥ नमोऽस्तु नीलग्रीवाय नमस्तुभ्यं पिनाकिने । विलोहिताय भर्गाय सहस्राक्षाय ते नमः ॥ २,१८.४० ॥ नमो हंसाय ते नित्यमादित्याय नमोऽस्तु ते । नमस्ते वज्रहस्ताय त्र्यम्बकाय नमोऽस्तु ते ॥ २,१८.४१ ॥ प्रपद्ये त्वां विरूपाक्षं महान्तं परमेश्वरम् । हिरण्मयं गृहे गुप्तमात्मानं सर्वदेहिनाम् ॥ २,१८.४२ ॥ नमस्यामि परं ज्योतिर्ब्रह्माणं त्वां परां गतिम् । विश्वं पशुपतिं भीमं नरनारीशरीरिणम् ॥ २,१८.४३ ॥ नमः सूर्याय रुद्राय भास्वते परमेष्ठिने । उग्राय सर्वभक्ताय त्वां प्रपद्ये सदैव हि ॥ २,१८.४४ ॥ एतद्वै सूर्यहृदयं जप्त्वा स्तवमनुत्तमम् । प्रातः कालेऽथ मध्याह्ने नमस्कुर्याद्दिवाकरम् ॥ २,१८.४५ ॥ इदं पुत्राय शिष्याय धार्मिकाय द्विजातये । प्रदेयं सूर्यहृदयं ब्रह्मणा तु प्रदर्शितम् ॥ २,१८.४६ ॥ सर्वपापप्रशमनं वेदसारसमुद्भवम् । ब्राह्मणानां हितं पुण्यमृषिसङ्घैर्निषेवितम् ॥ २,१८.४७ ॥ अथागम्य गृहं विप्रः समाचम्य यथाविधि । प्रज्वाल्य विह्निं विधिवज्जुहुयाज्जातवेदसम् ॥ २,१८.४८ ॥ ऋत्विक्पुत्रोऽथ पत्नी वा शिष्यो वापि सहोदरः । प्राप्यानुज्ञां विशेषेण जुहुयुर्वा यताविधि ॥ २,१८.४९ ॥ पवित्रपाणिः पूतात्मा शुक्लाम्बरधरोत्तरः । अनन्यमानसो वह्निं जुहुयात्संयतेन्द्रियः ॥ २,१८.५० ॥ विना दर्भेण यत्कर्म विना सूत्रेण वा पुनः । राक्षसं तद्भवेत्सर्वं नामुत्रेह फलप्रदम् ॥ २,१८.५१ ॥ दैवतानि नमस्कुर्याद्देयसारान्निवेदयेत् । दद्यात्पुष्पादिकं तेषां वृद्धांश्चैवाभिवादयेत् ॥ २,१८.५२ ॥ गुरुं चैवाप्युपासीत हितं चास्य समाचरेत् । वेदाभ्यासं ततः कुर्यात्प्रयत्नाच्छक्तितो द्विजः ॥ २,१८.५३ ॥ जपेदध्यापयेच्छिष्यान् धारयेच्च विचारयेत् । अवेक्षेत च शास्त्राणि धर्मादीनि द्विजोत्तमः । वैदिकांश्चैव निगमान् वेदाङ्गानि वेशिषतः ॥ २,१८.५४ ॥ उपेयादीश्वरं चाथ योगक्षेमप्रसिद्धये । साधयेद्विविधानर्थान् कुटुम्बार्थे ततो द्विजः ॥ २,१८.५५ ॥ ततो मध्याह्नसमये स्नानार्थं मृदमाहरेत् । पुष्पाक्षतान् कुशतिलान् गोमयं शुद्धमेव च ॥ २,१८.५६ ॥ नदीषु देवखातेषु तडागेषु सरःसु च । स्नानं समाचरेन्नित्यं गर्तप्रस्त्रवणेषु च ॥ २,१८.५७ ॥ परकीयनिपानेषु न स्नायाद्वै कदाचन । पञ्चपिण्डान् समुद्धृत्य स्नायाद्वासंभवे पुनः ॥ २,१८.५८ ॥ मृदैकया शिरः क्षाल्यं द्वाभ्यां नाभेस्तथोपरि । अधश्च तिसृभिः कायं पादौ षड्भिस्तथैव च ॥ २,१८.५९ ॥ मृत्तिका च समुद्दिष्टा त्वार्द्रामलकमात्रिका । गोमयस्य प्रमाणं तत्तेनाङ्गं लेपयेत्ततः ॥ २,१८.६० ॥ लेपयित्वा तु तीरस्थस्तल्लिङ्गैरेव मन्त्रतः । प्रक्षाल्याचम्य विधिवत्ततः स्नायात्समाहितः ॥ २,१८.६१ ॥ अभिमन्त्र्य जलं मन्त्रैस्तल्लिङ्गैर्वारुणैः शुभैः । भावपूतस्तदव्यक्तं ध्यायन् वै विष्णुमव्ययम् ॥ २,१८.६२ ॥ आपो नारायणोद्भूतास्ता एवास्यायनं पुनः । तस्मान्नारायणं देवं स्नानकाले स्मरेद्बुधः ॥ २,१८.६३ ॥ प्रोच्य सोंकारमादित्यं त्रिर्निमज्जेज्जलाशये । आचान्तः पुनराचामेन्मन्त्रेणानेन मन्त्रवित् ॥ २,१८.६४ ॥ अन्तश्चरसि भूतेषु गुहायां विश्वतो मुखः । त्वं यज्ञस्त्वं वषट्कार आपो ज्योती रसोऽमृतम् ॥ २,१८.६५ ॥ द्रुपदां वा त्रिरभ्यस्येद्व्याहृतिप्रणवान्विताम् । सावित्रीं वा जपेद्विद्वान् तथा चैवाघमर्षणम् ॥ २,१८.६६ ॥ ततः संमार्जनं कुर्यादापो हि ष्ठा मयोभुवः । इदमापः प्रवहत व्याहृतिभिस्तथैव च ॥ २,१८.६७ ॥ ततोऽभिमन्त्र्य तत्तीर्थमापो हिष्ठादिमन्त्रकैः । अन्तर्जलगतो मग्नो जपेत्त्रिरघमर्षणम् ॥ २,१८.६८ ॥ त्रिपदां वाथ सावित्रीं तद्विष्णोः परमं पदम् । आवर्तयेद्वा प्रणवं देवं वा संस्मरेद्धरिम् ॥ २,१८.६९ ॥ द्रुपदादिव यो मन्त्रो यजुर्वेदे प्रतिष्ठितः । अन्तर्जले त्रिरावर्त्य सर्वपापैः प्रमुच्यते ॥ २,१८.७० ॥ अपः पाणौ समादाय जप्त्वा वै मार्जने कृते । विन्यस्य मूर्ध्नि तत्तोयं मुच्यते सर्वपातकैः ॥ २,१८.७१ ॥ यथाश्वमेधः क्रतुराट्सर्वपापापनोदनः । तथाघमर्षणं सूक्तं सर्वपापापनोदनम् ॥ २,१८.७२ ॥ अथोपतिष्ठेदादित्यं मूर्ध्नि पुष्पान्विताञ्जलिम् । प्रक्षिप्यालोकयेद्देवमुद्वयं तमसस्परि ॥ २,१८.७३ ॥ उदुत्यं चित्रमित्येते तच्चक्षुरिति मन्त्रतः । हंसः शुचिषदेतेन सावित्र्या च विशेषतः ॥ २,१८.७४ ॥ अन्यैश्च वैदिकैर्मन्त्रैः सौरैः पापप्रणाशनैः । सावित्रीं वै जपेत्पश्चाज्जपयज्ञः स वै स्मृतः ॥ २,१८.७५ ॥ विविधानि पवित्राणि गुह्यविद्यास्तथैव च । शतरुद्रीयमथर्वशिरः सौरांश्च शक्तितः ॥ २,१८.७६ ॥ प्राक्कूलेषु समासीनः कुशेषु प्राङ्मुखः शुचिः । तिष्ठंश्चेदीक्षमाणोर्ऽकं जप्यं कुर्यात्समाहितः ॥ २,१८.७७ ॥ स्फाटिकेन्द्राक्षरुद्राक्षैः पुत्रजीवसमुद्भवः । कर्तव्या त्वक्षमाला स्यादुत्तरादुत्तमा स्मृता ॥ २,१८.७८ ॥ जपकाले न भाषेत नान्यानि प्रेक्षयेद्बुधः । न कम्पयेच्छिरोग्रीवां दन्तान्नैव प्रकाशयेत् ॥ २,१८.७९ ॥ गुह्यका राक्षसा सिद्धा हरन्ति प्रसभं यतः । एकान्ते सुशुभे देशे तस्माज्जप्यं समाचरेत् ॥ २,१८.८० ॥ चण्डालाशौचपतितान् दृष्ट्वाचम्य पुनर्जपेत् । तैरेव भाषणं कृत्वा स्नात्वा चैव जपेत्पुनः ॥ २,१८.८१ ॥ आचम्य प्रयतो नित्यं जपेदशुचिदर्शने । सौरान्मन्त्रान् शक्तितो वै पावमानीस्तु कामतः ॥ २,१८.८२ ॥ यदि स्यात्क्लिन्नवासा वै वारिमध्यगतो जपेत् । अन्यथा तु शुचौ भूम्यां दर्भेषु सुसमाहितः ॥ २,१८.८३ ॥ प्रदक्षिणं समावृत्य नमस्कृत्वा ततः क्षितौ । आचम्य च यथाशास्त्रं शक्त्या स्वाध्यायमाचरेत् ॥ २,१८.८४ ॥ ततः संतर्पयेद्देवानृषीन् पितृगणांस्तथा । अदावोङ्कारमुच्चार्य नमोऽन्ते तर्पयामि वः ॥ २,१८.८५ ॥ देवान् ब्रह्मःृषींश्चैव तर्पयेदक्षतोदकैः । तिलोदकैः पितॄन् भक्त्या स्वसूत्रोक्तविधानतः ॥ २,१८.८६ ॥ अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु । देवर्षोस्तर्पयेद्धीमानुदकाञ्जलिभिः पितन् ॥ २,१८.८७ ॥ यज्ञोपवीती देवानां निवीती ऋषीतर्पणे । प्राचीनावीती पित्र्ये तु स्वेन तीर्थेन भावतः ॥ २,१८.८८ ॥ निष्पीड्य स्नानवस्त्रं तु समाचम्य च वाग्यतः । स्वैर्मन्त्रैरर्चयेद्देवान् पुष्पैः पत्रैरथाम्बुभिः ॥ २,१८.८९ ॥ ब्रह्माणं शङ्करं सूर्यं तथैव मधुसूदनम् । अन्यांश्चाभिमतान् देवान् भक्त्या चाक्रोधनोऽत्वरः ॥ २,१८.९० ॥ प्रदद्याद्वाथ पुष्पाणि सूक्तेन पौरुषेण तु । आपो वा देवताः सर्वास्तेन सम्यक्समर्चिताः ॥ २,१८.९१ ॥ ध्यात्वा प्रणवपूर्वं वै दैवतानि समाहितः । नमस्कारेण पुष्पाणि विन्यसेद्वै पृथक्पृथक् ॥ २,१८.९२ ॥ न विष्ण्वाराधनात्पुण्यं विद्यते कर्म वैदिकम् । तस्मादनादिमध्यान्तं नित्यमाराधयेद्धरिम् ॥ २,१८.९३ ॥ तद्विष्णोरिति मन्त्रेण सूक्तेन पुरुषेण तु । नैताभ्यां सदृशो मन्त्रो सूक्तेन पुरुषेण तु । नैताभ्यां सदृशो मन्त्रो वेदेषूक्तश्चतुर्ष्वपि ॥ २,१८.९४ ॥ निवेदयेत स्वात्मानं विष्णावमलतेजसि । तदात्मा तन्मनाः शान्तस्तद्विष्णोरिति मन्त्रतः ॥ २,१८.९५ ॥ अथवा देवमीशानं भगवन्तं सनातनम् । आराधयेन्महादेवं भावपूतो महेश्वरम् ॥ २,१८.९६ ॥ मन्त्रेण रुद्रागायत्र्या प्रणवेनाथ वा पुनः । ईशानेनाथ वा रुद्रैस्त्र्यम्बकेन समाहितः ॥ २,१८.९७ ॥ पुष्पैः पत्रैरथाद्भिर्वा चन्दनाद्यैर्महेश्वरम् । उक्त्वा नमः शिवायेति मन्त्रेणानेन योजयेत् ॥ २,१८.९८ ॥ नमस्कुर्यान्महादेवं ऋतं सत्यमितिश्वरम् । निवेदयीत स्वात्मानं यो ब्रह्माणमितीश्वरम् ॥ २,१८.९९ ॥ प्रदक्षिणं द्विजः कुर्यात्पञ्च ब्रह्माणि वै जपन् । ध्यायीत देवमीशानं व्योममध्यगतं शिवम् ॥ २,१८.१०० ॥ अथावलोकयेदर्कं हंसः सुचिषदित्यृचा । कुर्यात्पञ्च महायज्ञान् गृहं गत्वा समाहितः ॥ २,१८.१०१ ॥ देवयज्ञं पितृयज्ञं भूतयज्ञं तथैव च । मानुष्यं ब्रह्मयज्ञं च पञ्च यज्ञान् प्रचक्षते ॥ २,१८.१०२ ॥ यदि स्यात्तर्पणादर्वाक्ब्रह्मयज्ञः कृतो न हि । कृत्वा मनुष्ययज्ञं वै ततः स्वाध्यायमाचरेत् ॥ २,१८.१०३ ॥ अग्नेः पश्चिमतो देशे भूतयज्ञान्त एव वा । कुशपुञ्जे समासीनः कुशपाणिः समाहितः ॥ २,१८.१०४ ॥ शालाग्नौ लौकिके वाग्नौ जले भूभ्यामथापिवा । वैश्वदेवं ततः कुर्याद्देवयज्ञः स वै स्मृतः ॥ २,१८.१०५ ॥ यदि स्याल्लौकिके पक्वं ततोऽन्नं तत्र हूयते । शालाग्नौ तत्र देवान्नं विधिरेष सनातनः ॥ २,१८.१०६ ॥ देवेभ्यस्तु हुतादन्नाच्छेषाद्भूतबलिं हरेत् । भूतयज्ञः स वै ज्ञेयो भूतिदः सर्वदेहिनाम् ॥ २,१८.१०७ ॥ श्वभ्यश्च श्वपचेभ्यश्च पतितादिभ्य एव च । दद्याद्भूमौ बलिं त्वन्नं पक्षिभ्योऽथ द्विजोत्तमः ॥ २,१८.१०८ ॥ सायं चान्नस्य सिद्धस्य पत्न्यमन्त्रं बलिं हरेत् । भूतयज्ञस्त्वयं नित्यं सायं प्रातर्विधीयते ॥ २,१८.१०९ ॥ एकं तु भोजयेद्विप्रं पितॄनुद्दिश्य सत्तमम् । नित्यश्राद्धं तदुद्दिष्टं पितृयज्ञो गतिप्रदः ॥ २,१८.११० ॥ उद्धृत्य वा यथाशक्ति किञ्चिदन्नं समाहितः । वेदतत्त्वार्थविदुषे द्विजायैवोपपादयेत् ॥ २,१८.१११ ॥ पूजयेदतिथिं नित्यं नमस्येदर्चयेद्द्विजम् । मनोवाक्कर्मभिः शान्तमागतं स्वगृह ततः ॥ २,१८.११२ ॥ हन्तकारमथाग्रं वा भिक्षां वा शक्तितो द्विजः । दद्यादतिथये नित्यं बुध्येत परमेश्वरम् ॥ २,१८.११३ ॥ भिक्षामाहुर्ग्रासमात्रमग्रं तस्याश्चतुर्गुणम् । पुष्कलं हन्तकारं तु तच्चतुर्गुणमुच्यते ॥ २,१८.११४ ॥ गोदोहमात्रं कालं वै प्रतीक्ष्यो ह्यतिथिः स्वयम् । अभ्यागतान् यथाशक्ति पूजयेदतिथिं यथा ॥ २,१८.११५ ॥ भिक्षां वै भिक्षवे दद्याद्विधिवद्ब्रह्मचारिणे । दद्यादन्नं यथाशक्ति त्वर्थिभ्यो लोभवर्जितः ॥ २,१८.११६ ॥ सर्वेषामप्यलाभे तु अन्नं गोभ्यो निवेदयेत् । भुञ्जीत बन्धुभिः सार्धं वाग्यतोऽन्नमकुत्सयन् ॥ २,१८.११७ ॥ अकृत्वा तु द्विजः पञ्च महायज्ञान् द्विजोत्तमाः । भृञ्जीत चेत्स मूढात्मा तिर्यग्योनिं सगच्छति ॥ २,१८.११८ ॥ वेदाभ्यासोऽन्वहं शक्त्या महायज्ञक्रिया क्षमा । नाशयत्याशु पापानि देवानामर्चनं तथा ॥ २,१८.११९ ॥ यो मोहादथवालस्यादकृत्वा देवतार्चनम् । भुङ्क्ते स याति नरकान् शूकरेष्वभिजायते ॥ २,१८.१२० ॥ तस्मात्सर्वप्रयत्नेन कृत्वा कर्माणि वै द्विजाः । भुञ्जीत स्वजनैः सार्धं सयाति परमां गतिम् ॥ २,१८.१२१ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे अष्टादशोऽध्यायः _____________________________________________________________ व्यास उवाच प्राङ्मुखोऽन्नानि भुञ्जीत सूर्याभिमुख एव वा । आसीनस्त्वासने शुद्धे भूम्यां पादौ निधाय तु ॥ २,१९.१ ॥ आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः । श्रियं प्रत्यङ्मुखो भुङ्क्ते ऋतं भुङ्क्ते उदङ्मुखाः ॥ २,१९.२ ॥ पञ्चार्द्रे भोजनं कुर्याद्भूमौ पात्रं निधाय तु । उपवासेन तत्तुल्यं मनुराह प्रजापतिः ॥ २,१९.३ ॥ उपलिप्ते शुचौ देशे पादौ प्रक्षाल्य वै करौ । आचम्यार्द्राननोऽक्रोधः पञ्चार्द्रे भोजनं चरेत् ॥ २,१९.४ ॥ महाव्यहृतिभिस्त्वन्नं परिधायोदकेन तु । अमृतोपस्तरणमसीत्यापोशानक्रियां चरेत् ॥ २,१९.५ ॥ स्वाहाप्रणवसंयुक्तां प्राणायाद्याहुतिं ततः । अपानाय ततो हुत्वा व्यानाय तदनन्तरम् ॥ २,१९.६ ॥ उदानाय ततः कुर्यात्समानायेति पञ्चमीम् । विज्ञाय तत्त्वमेतेषां जुहुयादात्मनि द्विजः ॥ २,१९.७ ॥ शेषमन्नं यथाकामं भुञ्जीतव्यं जनैर्युतम् । ध्यात्वा तन्मनसा देवमात्मानं वै प्रजापतिम् ॥ २,१९.८ ॥ अमृतापिधानमसीत्युपरिष्टादपः पिबेत् । आचान्तः पुनराचामेदायं गौरिति मन्त्रतः ॥ २,१९.९ ॥ द्रुपदां वा त्रिरावर्त्य सर्वपापप्रणाशनीम् । प्राणानां ग्रन्थिरसीत्यालभेधृदयं ततः ॥ २,१९.१० ॥ आचम्याङ्गुष्ठमात्रेति पादाङ्गुष्ठेऽथ दक्षिणे । निः स्त्रवयेधस्तजलमूर्ध्वहस्तः समाहितः ॥ २,१९.११ ॥ हुतानुमन्त्रणं कुर्यात्श्रद्धायामिति मन्त्रतः । अथाक्षरेण स्वात्मानं योजयेद्ब्रह्मणेति हि ॥ २,१९.१२ ॥ सर्वेषामेव यागानामात्मयागः परः स्मृतः । योऽनेन विधिना कुर्यात्स याति ब्रह्मणः क्षयम् ॥ २,१९.१३ ॥ यज्ञोपवीती भुञ्जीत स्त्रग्गन्धालङ्कृतः शुचिः । सायंप्रापर्नान्तरा वै संध्यायां तु विशेषतः ॥ २,१९.१४ ॥ नाद्यात्सूर्यग्रहात्पूर्वमह्नि सायं शशिग्रहात् । ग्रहकाले च नाश्नीयात्स्नात्वाश्नीयात्तु मुक्तयोः ॥ २,१९.१५ ॥ मुक्ते शशिनि भुञ्जीत यदि न स्यान्महानिशा । अमुक्तयोरस्तङ्गतयोरद्याद्दृष्ट्वा परेऽहनि ॥ २,१९.१६ ॥ नाश्नीयात्प्रेक्षमाणानामप्रदायैव दुर्मतिः । न यज्ञशिष्टादन्द्वा न क्रुद्धो नान्यमानसः ॥ २,१९.१७ ॥ आत्मार्थं भोजनं यस्य रत्यर्थं यस्य मैथुनम् । वृत्यर्थं यस्य चाधीतं निष्फलं तस्य जीवितम् ॥ २,१९.१८ ॥ यद्भुङ्क्ते वेष्टितशिरा यच्च भुङ्क्ते उदङ्मुखः । सोपानत्कश्च यद्भुङ्क्ते सर्वं विद्यात्तदासुरम् ॥ २,१९.१९ ॥ नार्धरात्रे न मध्याह्ने नाजीर्णे नार्द्रवस्त्रधृक् । न च भिन्नासनगतो न शयानः स्थितोऽपि वा ॥ २,१९.२० ॥ न भिन्नभाजने चैव न भूम्यां न च पाणिषु । नोच्छिष्टो घृतमादद्यान्न मूर्धानं स्पृशेदपि ॥ २,१९.२१ ॥ न ब्रह्म कीर्तयन् वापि न निः शेषं न भार्यया । नान्धकारे न चाकाशे न च देवालयादिषु ॥ २,१९.२२ ॥ नैकवस्त्रस्तु भुञ्जीत न यानशयनस्थितः । न पादुकानिर्गतोऽथ न हसन् विलपन्नपि ॥ २,१९.२३ ॥ भुक्त्वैवं सुखमास्थाय तदन्नं परिणामयेत् । इतिहासपुराणाभ्यां वेदार्थानुपबृंहयेत् ॥ २,१९.२४ ॥ ततः संध्यामुपासीत पूर्वोक्तविधिना द्विजः । आसीनस्तु जपेद्देवीं गायत्रीं पश्चिमां प्रति ॥ २,१९.२५ ॥ न तिष्ठति तु यः पुर्वां नास्ते संध्यां तु पश्चिमाम् । स शूद्रेण समो लोके सर्वधर्मविवर्जितः ॥ २,१९.२६ ॥ हुत्वाग्निं विधिवन्मन्त्रैर्भुक्त्वा यज्ञावशिष्टकम् । सभृत्यबान्धवजनः स्वपेच्छुष्कपदो निशि ॥ २,१९.२७ ॥ नोत्तराभिमुखः स्वप्यात्पश्चिमाभिमुखो न च । न चाकाशे न नग्नो वा नाशुचिर्नासने क्वचित् ॥ २,१९.२८ ॥ न शीर्णायां तु खट्वायां शून्यागारे न चैव हि । नानुवंशं न पालाशे शयने वा कदाचन ॥ २,१९.२९ ॥ इत्येतदखिलेनोक्तमहन्यहनि वै मया । ब्राह्मणानां कृत्यजातमपवर्गफलप्रदम् ॥ २,१९.३० ॥ नास्तिक्यादथवालस्यात्ब्राह्मणो न करोति यः । स याति नरकान् घोरान् काकयोनौ च जायते ॥ २,१९.३१ ॥ नान्यो विमुक्तये पन्था मुक्त्वाश्रमविधिं स्वकम् । तस्मात्कर्माणि कुर्वोत तुष्टये परमेष्ठिनः ॥ २,१९.३२ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे एकोनविंशोऽध्यायः _____________________________________________________________ व्यास उवाच अथ श्राद्धममावास्यां प्राप्य कार्यं द्विजोत्तमैः । पिण्डान्वाहार्यकं भक्त्या भुक्तिमुक्तिफलप्रदम् ॥ २,२०.१ ॥ पिण्डान्वाहार्यकं श्राद्धं क्षीणे राजनि शस्यते । अपराह्ने द्विजातीनां प्रशस्तेनामिषेण च ॥ २,२०.२ ॥ प्रतिपत्प्रभृति ह्यन्यास्तिथयः कृष्णपक्षके । चतुर्दशीं वर्जयित्वा प्रशस्ता ह्युत्तरोत्तराः ॥ २,२०.३ ॥ अमावास्याष्टकास्तिस्त्रः पौषमासादिषु त्रिषु । तिस्त्रश्चान्वष्टकाः पुण्या माघी पञ्चदशी तथा ॥ २,२०.४ ॥ त्रयोदशी मघायुक्ता वर्षासु तु विशेषतः । शस्यापाकश्राद्धकाला नित्याः प्रोक्ता दिने दिने ॥ २,२०.५ ॥ नैमित्तिकं तु कर्तव्यं ग्रहणे चन्द्रसूर्ययोः । बान्धवानां च मरणे नारकी स्यादतोऽन्यथा ॥ २,२०.६ ॥ काम्यानि चैव श्राद्धानि शस्यान्ते ग्रहणादिषु । अयने विषुवे चैव व्यतीपातेऽप्यनन्तकम् ॥ २,२०.७ ॥ संक्रान्त्यमक्षयं श्राद्धं तथा जन्मदिनेष्वपि । नक्षत्रेषु च सर्वेषु कार्यं काम्यं विशेषतः ॥ २,२०.८ ॥ स्वर्गं च लभते कृत्वा कृत्तिकासु द्विजोत्तमः । अपत्यमथ रोहिण्यां सौम्ये तु ब्रह्मवर्चसम् ॥ २,२०.९ ॥ रौद्राणां कर्मणां सिद्धिमार्द्रायां शौर्यमेव च । पुनर्वसौ तथा भूमिं श्रियं पुष्ये तथैव च ॥ २,२०.१० ॥ सर्वान् कामांस्तथा सार्पे पित्र्ये सौभाग्यमेव च । अर्यम्णे तु धनं विन्द्यात्फाल्गुन्यां पापनाशनम् ॥ २,२०.११ ॥ ज्ञातिश्रैष्ठ्यं तथा हस्ते चित्रायां च बहून् सुतान् । वाणिज्यसिद्धिं स्वातौ तु विशाखासु सुवर्णकम् ॥ २,२०.१२ ॥ मैत्रे बहूनि मित्राणि राज्यं शाक्रे तथैव च । मूले कृषिं लभेद्यानसिद्धिमाप्ये समुद्रतः ॥ २,२०.१३ ॥ सर्वान् कामान् वैश्वदेवे श्रैष्ठ्यं तु श्रवणे पुनः । श्रविष्ठायां तथा कामान् वारुणे च परं बलम् ॥ २,२०.१४ ॥ अजैकपादे कुप्यं स्यादहिर्बुध्ने गृहं शुभम् । रेवत्यां बहवो गावो ह्यश्विन्यां तुरगांस्तथा । याम्येऽथ जीवनं तत्स्याद्यदि श्राद्धं प्रयच्छति ॥ २,२०.१५ ॥ आदित्यवारे त्वारोग्यं चन्द्रे सौभाग्यमेव च । कौजे सर्वत्र विजयं सर्वान् कामान् बुधस्य तु ॥ २,२०.१६ ॥ विद्यामभीष्टा जीवे तु धनं वै भार्गवे पुनः । शमैश्वरे लभेदायुः प्रतिपत्सु सुतान् शुभान् ॥ २,२०.१७ ॥ कन्यकां वै द्वितीयायां तृतीयायां तु वन्दिनः । पशून्क्षुद्रांश्चतुर्थ्यां तु पञ्चम्यांशोभनान् सुतान् ॥ २,२०.१८ ॥ षष्ट्यां द्यूतं कृषिं चापि सप्तम्यां लभते नरः । अष्टम्यामपि वाणिज्यं लभते श्राद्धदः सदा ॥ २,२०.१९ ॥ स्यान्नवम्यामेकखुरं दशम्यां द्विखुरं बहु । एकादश्यां तथा रूप्यं ब्रह्मवर्चस्विनः सुतान् ॥ २,२०.२० ॥ द्वादश्यां जातरूपं च रजतं कुप्यमेव च । ज्ञातिश्रैष्ठ्यं त्रयोदश्यां चतुर्दश्यां तु क्रुप्रजाः । पञ्चदश्यां सर्वकामानाप्नोति श्राद्धदः सदा ॥ २,२०.२१ ॥ तस्माच्छ्राद्धं न कर्तव्यं चतुर्दश्यां द्विजातिभिः । शस्त्रेण तु हतानां वै तत्र श्राद्धं प्रकल्पयेत् ॥ २,२०.२२ ॥ द्रव्यब्राह्मणसंपत्तौ न कालनियमः कृतः । तस्माद्भोगापवर्गार्थं श्राद्धं कुर्युर्द्विजातयः ॥ २,२०.२३ ॥ कर्मारम्भेषु सर्वेषु कुर्यादाभ्युदयं पुनः । पुत्रजन्मादिषु श्राद्धं पार्वणं पर्वणि स्मृतम् ॥ २,२०.२४ ॥ अहन्यहनि नित्यं स्यात्काम्यं नैमित्तिकं पुनः । एकोद्दिष्टादि विज्ञेयं वृद्धिश्राद्धं तु पार्वणम् ॥ २,२०.२५ ॥ एतत्पञ्चविधं श्राद्धं मनुना परिकीर्तितम् । यात्रायां षष्ठमाख्यातं तत्प्रयत्नेन पालयेत् ॥ २,२०.२६ ॥ शुद्धये सप्तमं श्राद्धं ब्रह्मणा परिभाषितम् । दैविकं चाष्टमं श्राद्धं यत्कृत्वा मुच्यते भयात् ॥ २,२०.२७ ॥ संध्यारात्र्योर्न कर्तव्यं राहोरन्यत्र दर्शनात् । देशानां च विशेषेण भवेत्पुण्यमनन्तकम् ॥ २,२०.२८ ॥ गङ्गायामक्षयं श्राद्धं प्रयागेऽमरकण्टके । गायन्ति पितरो गाथां कीर्तयन्ति मनीषिणः ॥ २,२०.२९ ॥ एष्टव्या बहवः पुत्राः शीलवन्तो गुणान्विताः । तेषां तु समवेतानां यद्येकोऽपि गायां व्रजेत् ॥ २,२०.३० ॥ गयां प्राप्यानुषङ्गेण यदि श्राद्धं समाचरेत् । तारिताः पितरस्तेन स याति परमां गतिम् ॥ २,२०.३१ ॥ वराहपर्वते चैव गङ्गायां वै विशेषतः । वाराणस्यां विशेषेण यत्र देवः स्वयं हरः ॥ २,२०.३२ ॥ गङ्गाद्वारे प्रभासे च बिल्वके नीलपर्वते । कुरुक्षेत्रे च कुब्जाम्रे भृगुतुङ्गे महालये ॥ २,२०.३३ ॥ केदारे फल्गुतीर्थे च नैमिषारण्य एव च । सरस्वत्यां विशेषेण पुष्करेषु विशेषतः ॥ २,२०.३४ ॥ नर्मदायां कुशावर्ते श्रीशैले भद्रकर्णके । वेत्रवत्यां विपाशायां गोदावर्यां विशेषतः ॥ २,२०.३५ ॥ एवमादिषु चान्येषु तीर्थेषु पुलिनेषु च । नदीनां चैव तीरेषु तुष्यन्ति पितरः सदा ॥ २,२०.३६ ॥ व्रीहिभिश्च यवैर्माषैरद्भिर्मूलफलेन वा । श्यामाकैश्च यवैः शाकैर्नोवारैश्च प्रियङ्गुभिः । गौधूमैश्च तिलैर्मुद्गैर्मासं प्रीणयते पितॄन् ॥ २,२०.३७ ॥ आम्रान् पाने रतानिक्षून्मृद्वीकांश्च सदाडिमान् । विदार्याश्च भरण्डाश्च श्राद्धकाले प्रादपयेत् ॥ २,२०.३८ ॥ लाजान्मधुयुतान् दद्यात्सक्तून् शर्करया सह । दद्याच्छ्राद्धे प्रयत्नेन शृङ्गाटककशेरुकान् ॥ २,२०.३९ ॥ द्वौ मासौ मत्स्यमांसेन त्रीन्मासान् हारिणेनतु । औरभ्रेणाथ चतुरः शाकुनेनेह पञ्च तु ॥ २,२०.४० ॥ षण्मासांश्छागमांसेन पार्षतेनाथ सप्त वै । अष्टावेणस्य मांसेन रौरवेण नवैव तु ॥ २,२०.४१ ॥ दशमासांस्तु तृप्यन्ति वराहमहिषामिषैः । शशकूर्मर्योर्मांसेन मासानेकादशैव तु ॥ २,२०.४२ ॥ संवत्सरं तु गव्येन पयसा पायसेन तु । वार्ध्रोणसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ॥ २,२०.४३ ॥ कालशाकं महाशल्कं खङ्गलोहामिषं मधु । आनन्त्यायैव कल्पन्ते मुन्यन्नानि च सर्वशः ॥ २,२०.४४ ॥ क्रीत्वा लब्ध्वा स्वयं वाथ मृतानाहृत्य वा द्विजः । दद्याच्छ्राद्धे प्रयत्नेन तदस्याक्षयमुच्यते ॥ २,२०.४५ ॥ पिप्पलीं क्रमुकं चैव तथा चैव मसूरकम् । कूष्माण्डालाबुवार्ताकान् भूस्तृणं सुरसं तथा ॥ २,२०.४६ ॥ कुसुम्भपिण्डमूलं वै तन्दुलीयकमेव च । राजमाषांस्तथा क्षीरं माहिषं च विवर्जयेत् ॥ २,२०.४७ ॥ कोद्रवान् कोविदारांश्चपालक्यान्मरिचांस्तथा । वर्जयेत्सर्वयत्नेन श्राद्धकाले द्विजोत्तमः ॥ २,२०.४८ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे विशोऽध्यायः _____________________________________________________________ व्यास उवाच स्नात्वा यथोक्तं संतर्प्य पितॄंश्चन्द्रक्षये द्विजः । पिण्डान्वाहार्यकं श्राद्धं कुर्यात्सौम्यमनाः शुचिः ॥ २,२१.१ ॥ पूर्वमेव परीक्षेत ब्राह्मणं वेदपारगम् । तीर्थं तधव्यकव्यानां प्रदाने चातिथिः स्मृतः ॥ २,२१.२ ॥ ये सोमपा विरजसो धर्मज्ञाः शान्तचेतसः । व्रतिनो नियमस्थाश्च ऋतुकालाभिगामिनः ॥ २,२१.३ ॥ पञ्चाग्निरप्यधीयानो यजुर्वेदविदेव च । बह्वृचश्च त्रिसौपर्णस्त्रिमधुर्वाथ यो भवेत् ॥ २,२१.४ ॥ त्रिणाचिकेतच्छन्दोगो ज्येष्ठसामग एव च । अथर्वशिरसोऽध्येता रुद्राध्यायी विशेषतः ॥ २,२१.५ ॥ अग्निहोत्रपरो विद्वान्न्यायविच्च षडङ्गवित् । मन्त्रब्राह्मणविच्चैव यश्च स्याद्धर्मपाठकः ॥ २,२१.६ ॥ ऋषिव्रती ऋषीकश्च तथा द्वादशवार्षिकः । ब्रह्मदेयानुसंतानो गर्भशुद्धः सहस्रदः ॥ २,२१.७ ॥ चान्द्रायणव्रतचरः सत्यवादी पुराणवित् । गुरुदेवाग्निपूजासु प्रसक्तो ज्ञानतत्परः ॥ २,२१.८ ॥ विमुक्तः सर्वतो धीरो ब्रह्मभूतो द्विजोत्तमः । महादेवार्चनरतो वैष्णवः पङ्क्तिपावनः ॥ २,२१.९ ॥ अहिंसानिरतो नित्यमप्रतिग्रहणस्तथा । सत्रिणो दाननिरता विज्ञेयाः पङ्क्तिपावनाः ॥ २,२१.१० ॥ युवानः श्रोत्रियाः स्वस्था महायज्ञपरायणाः । सावित्रीजापनिरता ब्राह्मणाः पङ्क्तिपावनाः ॥ २,२१.११ ॥ कुलीनाः श्रुतवन्तश्च शीलवन्तस्तपस्विनः । अग्निचित्स्नातका विप्रा विज्ञेयाः पङ्क्तिपावनाः ॥ २,२१.१२ ॥ मातापित्रोर्हिते युक्तः प्रातः स्नायी तथा द्विजः । अध्यात्मविन्मुनिर्दान्तो विज्ञेयः पङ्क्तिपावनः ॥ २,२१.१३ ॥ ज्ञाननिष्ठो महायोगी वेदान्तार्थविचिन्तकः । श्रद्धालुः श्राद्धनिरतो ब्राह्मणः पङ्क्तिपावनः ॥ २,२१.१४ ॥ वेदविद्यारतः स्नातो ब्रह्मचर्यपरः सदा । अथर्वणो मुमुक्षुश्च ब्राह्मणः पङ्क्तिपावनः ॥ २,२१.१५ ॥ असमानप्रवरको ह्यसगोत्रस्तथैव च । असंबन्धी च विज्ञेयो ब्राह्मणः पङ्क्तिपावनः ॥ २,२१.१६ ॥ भोजयेद्योगिनं पूर्वं तत्त्वज्ञानरतं यतिम् । अलाभे नैष्ठिकं दान्तमुपकुर्वाणकं तथा ॥ २,२१.१७ ॥ तदलाभे गृहस्थं तु मुमुक्षुं सङ्गवर्जितम् । सर्वालाभे साधकं वा गृहस्थमपि भोजयेत् ॥ २,२१.१८ ॥ प्रकृतेर्गुणतत्त्वज्ञो यस्याश्नाति यतिर्हविः । फलं वेदविदां तस्य सहस्रादतिरिच्यते ॥ २,२१.१९ ॥ तस्माद्यत्नेन योगीन्द्रमीश्वरज्ञानतत्परम् । भोजयेधव्यकव्येषु अलाभादितरान् द्विजान् ॥ २,२१.२० ॥ एष वै प्रथमः कल्पः प्रिदाने हव्यकव्ययोः । अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः ॥ २,२१.२१ ॥ मातामहं मातुलं च स्वस्त्रीयं श्वशुरं गुरुम् । दौहित्रं विट्पतिं बन्धुमृत्विग्याज्यौ च भोजयेत् ॥ २,२१.२२ ॥ न श्राद्धे भोजयेन्मित्रं धनैः कार्योऽस्य संग्रहः । पैशाची दक्षिणा सा हि नैवामुत्र फलप्रदा ॥ २,२१.२३ ॥ काम श्राद्धेऽर्चयेन्मित्रं नाभिरूपमपि त्वरिम् । द्विषता हि हविर्भुक्तं भवति प्रेत्य निष्फलम् ॥ २,२१.२४ ॥ ब्राह्मणो ह्यनधीयानस्तृणाग्निरिव शाम्यति । तस्मै हव्यं न दातव्यं न हि भस्मनि हूयते ॥ २,२१.२५ ॥ यथेरिणे बीजमुप्त्वा न वप्ता लभते फलम् । तथानृचे हविर्दत्त्वा न दाता लभते फलम् ॥ २,२१.२६ ॥ यावतो ग्रसते पिण्डान् हव्यकव्येष्वमन्त्रवित् । तावतो ग्रसते प्रेत्य दीप्तान् स्थूलांस्त्वयोगुडान् ॥ २,२१.२७ ॥ अपि विद्याकुलैर्युक्ता हीनवृत्ता नराधमाः । यत्रैते भुञ्जते हव्यं तद्भवेदासुर द्विजाः ॥ २,२१.२८ ॥ यस्य वेदश्च वेदी च विच्छिद्येते त्रिपूरुषम् । स वै दुर्ब्राह्मणो नार्हः श्राद्धादिषु कदाचन ॥ २,२१.२९ ॥ शूद्रप्रेष्यो भृतो राज्ञो वृषलो ग्रामयाजकः । बधबन्धोपजीवी च षडेते ब्रह्मबन्धवः ॥ २,२१.३० ॥ दत्तानुयोगान् वृत्यर्थं पतितान्मनुरब्रवीत् । वेदविक्रायिणो ह्येते श्राद्धादिषु विगर्हिताः ॥ २,२१.३१ ॥ श्रुतिविक्रयिणो ये तु परपूर्वासमुद्भवाः । असमानान् याजयन्ति पतितास्ते प्रकीर्तिताः ॥ २,२१.३२ ॥ असंस्कृताध्यापका ये भृत्या वाध्यापयन्ति ये । अधीयते तथा वेदान् पतितास्ते प्रकीर्तिताः ॥ २,२१.३३ ॥ वृद्धश्रावकनिर्ग्रन्थाः पञ्चरात्रविदो जनाः । कापालिकाः पाशुपताः पाषण्डा ये च तद्विधाः ॥ २,२१.३४ ॥ यस्याश्नन्ति हवींष्येते दुरात्मानस्तु तामसाः । न तस्य तद्भवेच्छ्राद्धं प्रेत्य चेह फलप्रदम् ॥ २,२१.३५ ॥ अनाश्रमो यो द्विजः स्यादाश्रमी वा निरर्थकः । मिथ्याश्रमी च ते विप्रा विज्ञेयाः पङ्क्तिदूषकाः ॥ २,२१.३६ ॥ दुश्चर्मा कुनखी कुष्ठी श्वित्री च श्यावदन्तकः । विद्धप्रजननश्चैव स्तेनः क्लीबोऽथ नास्तिकः ॥ २,२१.३७ ॥ मद्यपो वृषलीसक्तो वीरहा दिधिषूपतिः । आगारदाही कुण्डाशी सोमविक्रयिणो द्विजाः ॥ २,२१.३८ ॥ परिवेत्ता तथा हिंस्त्रः परिवित्तिर्निराकृतिः । पौनर्भवः कुसीदी च तथा नक्षत्रदर्शकः ॥ २,२१.३९ ॥ गीतवादित्रनिरतो व्याधितः काण एव च । हीनाङ्गश्चातिरिक्ताङ्गो ह्यवकीर्णिस्तथैव च ॥ २,२१.४० ॥ कन्यादूषी कुण्डगोलौ अभिशस्तोऽथ देवलः । मित्रध्रुक्पिशुनश्चैव नित्यं भार्यानुवर्तकः ॥ २,२१.४१ ॥ मातापित्रोर्गुरोस्त्यागी दारत्यागी तथैव च । गोत्रभिद्भ्रष्टशौचश्च काण्डस्पृष्टस्तथैव च ॥ २,२१.४२ ॥ अनपत्यः कूटसाक्षी याचको रङ्गजीवकः । समुद्रयायी कृतहा तथा समयभेदकः ॥ २,२१.४३ ॥ देवनिन्दापरश्चैव वेदनिन्दारतस्तथा । द्विजनिन्दारतश्चैते वर्ज्याः श्राद्धादिकर्मसु ॥ २,२१.४४ ॥ कृतघ्नः पिशुनः क्रूरो नास्तिको वेदनिन्दकः । मित्रध्रुक्कुहकश्चैव विशेषात्पङ्क्तिदूषकाः ॥ २,२१.४५ ॥ सर्वे पुनरभोज्यान्नास्त्वदानार्हाश्च कर्मसु । ब्रह्मभावनिरस्ताश्च वर्जनीयाः प्रयत्नतः ॥ २,२१.४६ ॥ शूद्रान्नरसपुष्टाङ्गः संध्योपासनवर्जितः । महायज्ञविहीनश्च ब्राह्मणः पङ्क्तिदूषकः ॥ २,२१.४७ ॥ अधीतनाशनश्चैव स्नानहोमविवर्जितः । तामसो राजसश्चैव ब्राह्मणः पङ्क्तिदूषकः ॥ २,२१.४८ ॥ बहुनात्र किमुक्तेन विहितान् ये न कुर्वते । निन्दितानाचरन्त्येते वर्जनीयाः प्रयत्नतः ॥ २,२१.४९ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे एकविशोऽध्याय _____________________________________________________________ ईणृEE णीCःट्Zऊळ्Žष्षीङ्E ZEईCःEण्॒ व्यास उवाच गोमयेनोदकैर्भूमिं शोधयित्वा समाहितः । संनिपात्य द्विजान् सर्वान् साधुभिः संनिमन्त्रयेत् ॥ २,२२.१ ॥ श्वो भविष्यति मे श्राद्धं पूर्वेद्युरभिपूज्य च । असंभवे परेद्युर्वा यथोक्तैर्लक्षणैर्युतान् ॥ २,२२.२ ॥ तस्य ते पितरः श्रुत्वा श्राद्धकालमुपस्थितम् । अन्योन्यं मनसा ध्यात्वा संपतन्ति मनोजवाः ॥ २,२२.३ ॥ ब्राह्मणैस्ते सहाश्नन्ति पितरो ह्यन्तरिक्षगाः । वायुभूतास्तु तिष्ठन्ति भुक्त्वा यान्ति परां गतिम् ॥ २,२२.४ ॥ आमन्त्रिताश्च ते विप्राः श्राद्धकाल उपस्थिते । वसेयुर्नियताः सर्वे ब्रह्मचर्यपरायणाः ॥ २,२२.५ ॥ अक्रोधनोऽत्वरोऽमत्तः सत्यवादी समाहितः । भारं मैथुनमध्वानं श्राद्धकृद्वर्जयेज्जपम् ॥ २,२२.६ ॥ आमन्त्रितो ब्राह्मणो वा योऽन्यस्मै कुरुते क्षणम् । स याति नरकं घोरं सूकरत्वां प्रायाति च ॥ २,२२.७ ॥ आमन्त्रयित्वा यो मोहादन्यं चामन्त्रयेद्द्विजम् । स तस्मादधिकः पापी विष्ठाकीटोऽभिजायते ॥ २,२२.८ ॥ श्राद्धे निमन्त्रितो विप्रो मैथुनं योऽधिगच्छति । ब्रह्महत्यामवाप्नोति तिर्यग्योनौ च जायते ॥ २,२२.९ ॥ निमन्त्रितस्तु यो विप्रो ह्यध्वानं याति दुर्मतिः । भवन्ति पितरस्तस्य तं मासं पांशुभोजनाः ॥ २,२२.१० ॥ निमन्त्रितस्तु यः श्राद्धे प्रकुर्यात्कलहं द्विजः । भवन्ति तस्य तन्मासं पितरो मलभोजनाः ॥ २,२२.११ ॥ तस्मान्निमन्त्रितः श्राद्धे नियतात्मा भवेद्द्विजः । अक्रोधनः शौचपरः कर्ता चैव जितेन्द्रियः ॥ २,२२.१२ ॥ श्वोभूते दक्षिणां गत्वा दिशं दर्भान् समाहितः । समूलानाहरेद्वारि दक्षिणाग्रान् सुनिर्मलान् ॥ २,२२.१३ ॥ दक्षिणाप्रवणं स्निग्धं विभक्तं शुभलक्षणम् । शुचिं देशं विविक्तं च गोमयेनोपलेपयेत् ॥ २,२२.१४ ॥ नदीतीरेषु तीर्थेषु स्वभूमौ चैव सानुषु । विविक्तेषु च तुष्यन्ति दत्तेन पितरः सदा ॥ २,२२.१५ ॥ पारक्ये भूमिभागे तु पितॄणां नैव निर्वपेत् । स्वामिभिस्तद्विहन्येत मोहाद्यत्क्रियते नरैः ॥ २,२२.१६ ॥ अटव्यः पर्वताः पुण्यास्तीर्थान्यायतनानि च । सर्वाण्यस्वामिकान्याहुर्न हि तेषु परिग्रहः ॥ २,२२.१७ ॥ तिलान् प्रविकिरेत्तत्र सर्वतो बन्धयेदजान् । असुरोपहतं सर्वं तिलैः शुद्ध्यत्यजेन वा ॥ २,२२.१८ ॥ ततोऽन्नं बहुसंस्कारं नैकव्यञ्जनमच्युतम् । चोष्यपेयसमृद्धं च यथाशक्त्या प्रकल्पयेत् ॥ २,२२.१९ ॥ ततो निवृत्ते मध्याह्ने लुप्तलोमनखान् द्विजान् । अभिगम्य यथामार्गं प्रयच्छेद्दन्तधावनम् ॥ २,२२.२० ॥ तैलमभ्यञ्जनं स्नानं स्नानीयं च पृथग्विधम् । पात्रैरौदुम्बरैर्दद्याद्वैश्वदैवत्यपूर्वकम् ॥ २,२२.२१ ॥ ततः स्नात्वा निवृत्तेभ्यः प्रत्युत्थायकृताञ्जलिः । पाद्यमाचमनीयं च संप्रयच्छेद्यथाक्रमम् ॥ २,२२.२२ ॥ ये चात्र विश्वेदेवानां विप्राः पूर्वं निमन्त्रिताः । प्राङ्मुखान्यासनान्येषां त्रिदर्भोपहितानि च ॥ २,२२.२३ ॥ दक्षिणामुखयुक्तानि पितॄणामासनानि च । दक्षिणाग्रैकदर्भाणि प्रोक्षितानि तिलोदकैः ॥ २,२२.२४ ॥ तेषूपवेशयेदेतानासनं स्पृश्य स द्विजम् । आसध्वमिति संजल्पनासनास्ते पृथक्पृथक् ॥ २,२२.२५ ॥ द्वौ दैवे प्राङ्मुखौ पित्र्ये त्रयश्चोदङ्मुखास्तथा । एकैकं वा भवेत्तत्र देवमातामहेष्वपि ॥ २,२२.२६ ॥ सत्क्रियां देशकालौ च शौचं ब्राह्मणसंपदम् । पञ्चैतान् विस्तरो हन्ति तस्मान्नेहेत विस्तरम् ॥ २,२२.२७ ॥ अपि वा भोजयेदेकं ब्राह्मणं वेदपारगम् । श्रुतशीलादिसंपन्नमलक्षणविवर्जितम् ॥ २,२२.२८ ॥ उद्धृत्य पात्रे चान्नं तत्सर्वस्मात्प्रकृतात्पुनः । देवतायतने चास्मै निवेद्यान्यत्प्रवर्तयेत् ॥ २,२२.२९ ॥ प्रास्येदग्नौ तदन्नं तु दद्याद्वा ब्रह्मचारिणे । तस्मादेकमपि श्रेष्ठं विद्वांसं भोजयेद्द्विजम् ॥ २,२२.३० ॥ भिक्षुको ब्रह्मचारी वा भोजनार्थमुपस्थितः । उपविष्टेषु यः श्राद्धे कामं तमपि भोजयेत् ॥ २,२२.३१ ॥ अतिथिर्यस्य नाश्नाति न तच्छ्राद्धं प्रशस्यते । तस्मात्प्रयत्नाच्छ्राद्धेषु पूज्या ह्यतिथयो द्विजैः ॥ २,२२.३२ ॥ आतिथ्यरहिते श्राद्धे भुञ्जते ये द्विजातयः । काकयोनिं व्रजन्त्येते दाता चैव न संशयः ॥ २,२२.३३ ॥ हीनाङ्गः पतितः कुष्ठी व्रणी पुक्कसनास्तिकौ । कुक्कुटाः शूकराः श्वानो वर्ज्याः श्राद्धेषु दूरतः ॥ २,२२.३४ ॥ बीभत्सुमशुचिं नग्नं मत्तं धूर्तं रजस्वलाम् । नीलकाषायवसनं पाषण्डांश्च विवर्जयेत् ॥ २,२२.३५ ॥ यत्तत्र क्रियते कर्म पैतृकं ब्राह्मणान् प्रति । तत्सर्वमेव कर्तव्यं वैश्वदैवत्यपूर्वकम् ॥ २,२२.३६ ॥ यथोपविष्टान् सर्वांस्तानलङ्कुर्याद्विभूषणः । स्त्रग्दामभिः शिरोवेष्टैर्धूपवासोऽनुलेपनैः ॥ २,२२.३७ ॥ ततस्त्वावाहयेद्देवान् ब्राह्मणानामनुज्ञया । उदङ्मुखो यथान्यायं विश्वे देवास इत्यृचा ॥ २,२२.३८ ॥ द्वे पवित्रे गृहीत्वाथ भाजने क्षालिते पुनः । शं नो देव्या जलं क्षिप्त्वा यवोऽसीति यवांस्तथा ॥ २,२२.३९ ॥ या दिव्या इति मन्त्रण हस्ते त्वर्घं विनिक्षिपेत् । प्रदद्याद्गन्धमाल्यानि धूपादीनि च शक्तितः ॥ २,२२.४० ॥ अपसव्यं ततः कृत्वा पितॄणां दक्षिणामुखः । आवाहनं ततः कुर्यादुशन्तस्त्वेत्यृचा बुधः ॥ २,२२.४१ ॥ आवाह्य तदनुज्ञातो जपेदायन्तु नस्ततः । शं नो देव्योदकं पात्रे तिलोऽसीति तिलांस्तथा ॥ २,२२.४२ ॥ क्षिप्त्वा चार्घं यथापूर्वं दत्त्वा हस्तेषु वै पुनः । संस्त्रवांश्च ततः सर्वान् पात्रे कुर्यात्समाहितः । पितृभ्यः स्थानमेतेन न्युब्जं पात्रं निधापयेत् ॥ २,२२.४३ ॥ अग्नौ करिष्येत्यादाय पृच्छत्यन्नं घृतप्लुतम् । कुरुष्वेत्यभ्यनुज्ञातो जुहुयादुपवीतवान् ॥ २,२२.४४ ॥ यज्ञोपवीतिना होमः कर्तव्यः कुशपाणिना । प्राचीनावीतिना पित्र्यं वैश्वदेवं तु होमवत् ॥ २,२२.४५ ॥ दक्षिणं पातयेज्जानुं देवान् परिचरन् पुमान् । पितृणां परिचर्यासु पातयेदितरं तथा ॥ २,२२.४६ ॥ सोमाय वै पितृमते स्वधा नम इति ब्रुवन् । अग्नये कव्यवाहनाय स्वधेति जुहुयात्ततः ॥ २,२२.४७ ॥ अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत् । महादेवान्तिके वाथ गोष्ठे वा सुसमाहितः ॥ २,२२.४८ ॥ ततस्तैरभ्यनुज्ञातो गत्वा वै दक्षिणां दिशम् । गोमयेनोपतिप्योर्वों स्थानं कृत्वा तु सैकतम् ॥ २,२२.४९ ॥ मण्डलं चतुरस्त्रं वा दक्षिणावनतं शुभम् । त्रिरुल्लिखेत्तस्य मध्यं दर्भेणैकेन चैव हि ॥ २,२२.५० ॥ ततः संस्तीर्य तत्स्थाने दर्भान् वैदक्षिणाग्रकान् । त्रीन् पिण्डान्निर्वपेत्तत्र हविः शेषात्समाहितः ॥ २,२२.५१ ॥ न्युप्य पिण्डांस्तु तं हस्तं निमृज्याल्लेपभागिनाम् । तेषु दर्भेष्वथाचम्य त्रिरायम्य शनैरसून् । तदन्नं तु नमस्कुर्यात्पितॄनेव च मन्त्रवित् ॥ २,२२.५२ ॥ उदकं निनयेच्छेषं शनैः पिण्डान्तिके पुनः । अवजिघ्रेच्च तान् पिण्डान् यथान्युप्तान् समाहितः ॥ २,२२.५३ ॥ अथ पिण्डावशिष्टान्नं विधिना भोजयेद्द्विजान् । मांसान्यपूपान् विविधान् दद्यात्कृसरपायसम् ॥ २,२२.५४ ॥ सूपशाकफलानीक्षून् पयो दधि घृतं मधु । अन्नं चैव यथाकामं विविधं भक्ष्यपेयकम् ॥ २,२२.५५ ॥ यद्यदिष्टं द्विजेन्द्राणां तत्सर्वं विनिवेदयेत् । धान्यांस्तिलांश्च विविधान् शर्करा विविधास्तथा ॥ २,२२.५६ ॥ उष्णमन्नं द्विजातिभ्यो दातव्यं श्रेय इच्छता । अन्यत्र फलमूलेभ्यः पानकेभ्यस्तथैव च ॥ २,२२.५७ ॥ नाश्रूणि पातयेज्जातु न कुप्येन्नानृतं वदेत् । न पादेन स्पृशेदन्नं न चैतदवधूनयेत् ॥ २,२२.५८ ॥ क्रोधेन चैव यत्दत्तं यद्भुक्तं त्वरया पुनः । यातुधाना विलुम्पन्ति जल्पता चोपपादितम् ॥ २,२२.५९ ॥ स्विन्नगात्रो न तिष्ठेत सन्निधौ तु द्विजन्मनाम् । न चात्र श्येनकाकादीन् पक्षिणः प्रतिषेधयेत् । तद्रूपाः पितरस्तत्र समायान्ति बुभुक्षवः ॥ २,२२.६० ॥ न दद्यात्तत्र हस्तेन प्रत्यक्षलवणं तथा । न चायसेन पात्रेण न चैवाश्रद्धया पुनः ॥ २,२२.६१ ॥ काञ्चनेन तु पात्रेण राजतौदुम्बरेण वा । दत्तमक्षयतां याति खड्गेन च विशेषतः ॥ २,२२.६२ ॥ पात्रे तु मृण्मये यो वै श्राद्धे भोजयते पितन् । स याति नरकं घोरं भोक्ता चैव पुरोधसः ॥ २,२२.६३ ॥ न पङ्क्त्यां विषमं दद्यान्न याचेन्न च दापयेत् । याचिता दापिता दाता नरकान् यान्ति दारुणान् ॥ २,२२.६४ ॥ भुञ्जीरन् वाग्यताः शिष्टा न ब्रूयुः प्राकृतान् गुणान् । तावद्धि पितरोऽश्नन्ति यावन्नोक्ता हविर्गुणाः ॥ २,२२.६५ ॥ नाग्रासनोपविष्टस्तु भुञ्जोत प्रथमं द्विजः । बहूनां पश्यतां सोऽज्ञः पङ्क्त्या हरति किल्बिषम् ॥ २,२२.६६ ॥ न किञ्चिद्वर्जयेच्छ्राद्धे नियुक्तस्तु द्विजोत्तमः । न मांसं प्रतिषेधेत न चान्यस्यान्नमीक्षयेत् ॥ २,२२.६७ ॥ यो नाश्नाति द्विजो मांसं नियुक्तः पितृकर्मणि । स प्रेत्य पशुतां याति संभवानेकविंशतिम् ॥ २,२२.६८ ॥ स्वाध्यायं श्रावयेदेषां धर्मशास्त्राणि चैव हि । इतिहासपुराणानि श्राद्धकल्पांश्च शोभनान् ॥ २,२२.६९ ॥ ततोऽन्नमुत्सृजेद्भुक्ते अग्रतो विकिरन् भुवि । पृष्ट्वा तृप्ताः स्थ इत्येवं तृप्तानाचामयेत्ततः ॥ २,२२.७० ॥ आचान्ताननुजानीयादभितो रम्यतामिति । स्वधास्त्विति च तं ब्रूयुर्ब्राह्मणास्तदनन्तरम् ॥ २,२२.७१ ॥ ततो भुक्तवतां तेषामन्नशेषं निवेदयेत् । यथा ब्रूयुस्तथा कुर्यादनुज्ञातस्तु वै द्विजैः ॥ २,२२.७२ ॥ पित्र्ये स्वदित इत्येव वाक्यं गोष्ठेषु सूनृतम् । संपन्नमित्यभ्युदये दैवे रोचत इत्यपि ॥ २,२२.७३ ॥ विसृज्य ब्राह्मणांस्तान् वै दैवपूर्वं तु वाग्यतः । दक्षिणां दिशमाकाङ्क्षन्याचेतेमान् वरान् पितॄन् ॥ २,२२.७४ ॥ दातारो नोऽभिवर्धन्तां वेदाः संततिरेव च । श्रद्धा च नो मा व्यगमद्बहुदेयं च नोस्त्त्विति ॥ २,२२.७५ ॥ पिण्डांस्तु गोऽजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा । मध्यमं तु ततः पिण्डमद्यात्पत्नी सुतार्थिनी ॥ २,२२.७६ ॥ प्रक्षाल्य हस्तावाचम्य ज्ञातीन् शेषेण तोषयेत् । ज्ञातिष्वपि चतुष्टेषु स्वान् भृत्यान् भोजयोत्ततः । पश्चात्स्वयं च पत्नीभिः शेषमन्नं समाचरेत् ॥ २,२२.७७ ॥ नोद्वासयेत्तदुच्छिष्टं यावन्नास्तङ्गतो रविः । ब्रह्मचारी भवेतां तु दम्पती रजनीं तु ताम् ॥ २,२२.७८ ॥ दत्त्वा श्राद्धं तथा भुक्त्वा सेवते यस्तु मैथुनम् । महारौरवमासाद्य कीटयोनिं व्रजेत्पुनः ॥ २,२२.७९ ॥ शुचिरक्रोधनः शान्तः सत्यवादी समाहितः । स्वाध्यायं च तथाध्वानं कर्ता भोक्ता च वर्जयेत् ॥ २,२२.८० ॥ श्राद्धं भुक्त्वा परश्राद्धं भुञ्जते ये द्विजातयः । महापातिकिभिस्तुल्या यान्ति ते नरकान् बहून् ॥ २,२२.८१ ॥ एष वो विहितः सम्यक्श्राद्धकल्पः सनातनः । आमेन वर्तयेन्नित्यमुदासीनोऽथ तत्त्ववित् ॥ २,२२.८२ ॥ अनग्निरध्वगो वापि तथैव व्यसनान्वितः । आमश्राद्धं द्विजः कुर्याद्विधिज्ञः श्रद्धयान्वितः । तेनाग्नौ करणं कुर्यात्पिण्डांस्तेनैव निर्वपेत् ॥ २,२२.८३ ॥ योऽनेन विधिना श्राद्धं कुर्यात्संयतमानसः । व्यपेतकल्पषो नित्यं योगिनां वर्तते पदम् ॥ २,२२.८४ ॥ तस्मात्सर्वप्रयत्नेन श्राद्धं कुर्याद्द्विजोत्तमः । आराधितो भवेदीशस्तेन सम्यक्सनातनः ॥ २,२२.८५ ॥ अपि मूलैर्फलैर्वापि प्रकुर्यान्निर्धनो द्विजः । तिलोदकैस्तर्पयेद्वा पितॄन् स्नात्वा समाहितः ॥ २,२२.८६ ॥ न जीवत्पितृको दद्याद्धोमान्तं चाभिधीयते । येषां वापि पिता दद्यात्तेषां चैके प्रचक्षते ॥ २,२२.८७ ॥ पिता पितामहश्चैव तथैव प्रपितामहः । यो यस्य म्रियते तस्मै देयं नान्यस्य तेन तु ॥ २,२२.८८ ॥ भोजयेद्वापि जीवन्तं यथाकामं तु भक्तितः । न जीवन्तमतिक्रम्य ददाति श्रूयते श्रुतिः ॥ २,२२.८९ ॥ द्व्यामुष्यायणिको दद्याद्बीजिक्षेत्रिकयोः समम् । ऋक्यादर्धं समादद्यान्नियोगोत्पादितो यदि ॥ २,२२.९० ॥ अनियुक्तः सुतो यश्च शुल्कतो जायते त्विह । प्रदद्याद्बीजिने पिण्डं क्षेत्रिणे तु ततोऽन्यथा ॥ २,२२.९१ ॥ द्वौ पिण्डौ निर्वपेत्ताभ्यां क्षेत्रिणे बीजिने तथा । कीर्तयेदथ चैकस्मिन् बीजिनं क्षेत्रिणं ततः ॥ २,२२.९२ ॥ मृताहनि तु कर्तव्यमेकोदिष्टं विधानतः । अशौचे स्वे परिक्षीणे काम्यं वै कामतः पुनः ॥ २,२२.९३ ॥ पूर्वाह्ने चैव कर्तव्यं श्राद्धमभ्युदयार्थिना । देववत्सर्वमेव स्याद्यवैः कार्या तिलक्रिया ॥ २,२२.९४ ॥ दर्भाश्च ऋजवः कार्या युग्मान् वै भोजयेद्द्विजान् । नान्दीमुखास्तु पितरः प्रीयन्तामिति वाचयेत् ॥ २,२२.९५ ॥ मातृश्राद्धं तु पूर्वं स्यात्पितॄणां स्यादनन्तरम् । ततो मातामहानां तु वृद्धौ श्राद्धत्रयं स्मृतम् ॥ २,२२.९६ ॥ दवपूर्वं प्रदद्याद्वै न कुर्यादप्रदक्षिणम् । प्राङ्मुखो निर्वपेत्पिण्डानुपवीती समाहितः ॥ २,२२.९७ ॥ पूर्वं तु मातरः पूज्या भक्त्या वै सगणेश्वराः । स्थण्डिलेषु विचित्रेषु प्रतिमासु द्विजातिषु ॥ २,२२.९८ ॥ पुष्पेर्धूपैश्च नैवेद्यैर्गन्धाद्यैर्भूषणैरपि । पूजयित्वा मातृगणं कूर्याच्छ्राद्धत्रयं बुधः ॥ २,२२.९९ ॥ अकृत्वा मातृयागं तु यः श्राद्धं परिवेषयेत् । तस्य क्रोधसमाविष्टा हिंसामिच्छन्ति मातरः ॥ २,२२.१०० ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे द्वाविशोऽध्यायः _____________________________________________________________ ईणृEE णीCःट्Zऊळ्Žष्षीङ्E ZEईCःEण्॒ व्यास उवाच दशाहं प्राहुराशौचं सपिण्डेषु विपश्चितः । मृतेषु वाथ जातेषु ब्राह्मणानां द्विजोत्तमाः ॥ २,२३.१ ॥ नित्यानि चैव कर्माणि काम्यानि च विशेषतः । नकुर्याद्विहितं किञ्चित्स्वाध्यायं मनसापिच ॥ २,२३.२ ॥ शुचीनक्रोधनान् भूम्यान् शालाग्नौ भावयेद्द्विजान् । शुष्कान्नेन फलैर्वापि वैतानं जुहुयात्तथा ॥ २,२३.३ ॥ न स्पृशेयुरिमानन्ये न च तेभ्यः समाहरेत् । चतुर्थे पञ्चमे वाह्नि संस्पर्शः कथितो बुधैः ॥ २,२३.४ ॥ सूतके तु सपिण्डानां संस्पर्शो न प्रदुष्यति । सूतकं सूतिकां चैव वर्जयित्वा नृणां पुनः ॥ २,२३.५ ॥ अधीयानस्तथा यज्वा वेदविच्च पिता भवेत् । संस्पृश्याः सर्व एवैते स्नानान्माता दशाहतः ॥ २,२३.६ ॥ दशाहं निर्गुणे प्रोक्तमशौचं चातिनिर्गुणे । एकद्वित्रिगुणैर्युक्तं चतुस्त्र्येकदिनैः शुचिः ॥ २,२३.७ ॥ दशाहात्तु परं सम्यगधीयीत जुहोति च । चतुर्थे तस्य संस्पर्शं मनुराह प्रजापतिः ॥ २,२३.८ ॥ क्रियाहीनस्य मूर्खस्य महारोगिण एव च । यथेष्टाचरणस्याहुर्मरणान्तमशौवकम् ॥ २,२३.९ ॥ त्रिरात्रं दशरात्रं वा ब्राह्मणानामशौचकम् । प्राक्संस्कारात्त्रिरात्रं स्यात्तस्मादूर्ध्वं दशाहकम् ॥ २,२३.१० ॥ ऊनद्विवार्षिके प्रेते मातापित्रोस्तदिष्यते । त्रिरात्रेण शुचिस्त्वन्यो यदि ह्यत्यन्तनिर्गुणः ॥ २,२३.११ ॥ अदन्तजातमरणे पित्रोरेकाहमिष्यते । जातदन्ते त्रिरात्रं स्याद्यदि स्यातां तु निर्गुणौ ॥ २,२३.१२ ॥ आदन्तजननात्सद्य आचौलादेकरात्रकम् । त्रिरात्रमौपनयनात्सपिण्डानामुदाहृतम् ॥ २,२३.१३ ॥ जातमात्रस्य बालस्य यदि स्यान्मरणं पितुः । मातुश्च सूतकं तत्स्यात्पिता स्यात्स्पृश्य एव च ॥ २,२३.१४ ॥ सद्यः शौचं सपिण्डानां कर्तव्यं सोदरस्य च । ऊर्ध्वं दशाहादेकाहं सोदरो यदि निर्गुणः ॥ २,२३.१५ ॥ अथोर्ध्वं दन्तजननात्सपिण्डानामशौचकम् । एकरात्रं निर्गुणानां चैलादूर्ध्वं त्रिरात्रकम् ॥ २,२३.१६ ॥ अदन्तजातमरणं संभवेद्यदि सत्तमाः । एकरात्रं सपिण्डानां यदि तेऽत्यन्तनिर्गुणाः ॥ २,२३.१७ ॥ व्रतादेशात्सपिण्डानामर्वाक्स्नानं विधीयते । सर्वेषामेव गुणिनामूर्ध्वं तु विषमं पुनः ॥ २,२३.१८ ॥ अर्वाक्षण्मासतः स्त्रीणां यदि स्याद्गर्भसंस्त्रवः । तदा माससमैस्तासामशौचं दिवसैः स्मृतम् ॥ २,२३.१९ ॥ तत ऊर्ध्वं तु पतने स्त्रीणां द्वादशरात्रिकम् । सद्यः शौचं सपिण्डानां गर्भस्त्रावाच्च वा ततः ॥ २,२३.२० ॥ गर्भच्युतावहोरात्रं सपिण्डेऽत्यन्तनिर्गुणे । यथेष्टाचरणे ज्ञातौ त्रिरात्रमिति निश्चयः ॥ २,२३.२१ ॥ यदि स्यात्सूतके सूतिर्मरणे वा मृतिर्भवेत् । शेषेणैव भवेच्छुद्धिरहः शेषे त्रिरात्रकम् ॥ २,२३.२२ ॥ मरणोत्पत्तियोगे तु मरणाच्छुद्धिरिष्यते । अघवृद्धिमदाशौचमूर्घ्वं चेत्तेन शुध्यति ॥ २,२३.२३ ॥ अथ चेत्पञ्चमीरात्रिमतीत्य परतो भवेत् । अघवृद्धिमदाशौचं तदा पूर्वेण शुध्यति ॥ २,२३.२४ ॥ देशान्तरगतं श्रुत्वा सूतकं शावमेव तु । तावदप्रयतो मर्त्यो यावच्छेषः समाप्यते ॥ २,२३.२५ ॥ अतीते सूतके प्रोक्तं सपिण्डानां त्रिरात्रकम् । तथैव मरणे स्नानमूर्ध्वं संवत्सराद्यदि ॥ २,२३.२६ ॥ वेदान्तविच्चाधीयानो योऽग्निमान् वृत्तिकर्षितः । सद्यः शौचं भवेत्तस्य सर्वावस्थासु सर्वदा ॥ २,२३.२७ ॥ स्त्रीणामसंस्कृतानां तु प्रदानात्पूर्वतः सदा । सपिण्डानां त्रिरात्रं स्यात्संस्कारे भर्तुरेव हि ॥ २,२३.२८ ॥ अहस्त्वदत्तकन्यानामशौचं मरणे स्मृतम् । ऊनद्विवर्षान्मरणे सद्यः शौचमुदाहृतम् ॥ २,२३.२९ ॥ आदन्तात्सोदरे सद्य आचौलादेकरात्रकम् । आप्रदानात्त्रिरात्रं स्याद्दशरात्रमतः परम् ॥ २,२३.३० ॥ मातामहानां मरणे त्रिरात्रं स्यादशौचकम् । एकोदकानां मरणे सूतके चैतदेव हि ॥ २,२३.३१ ॥ पक्षिणी योनिसम्बन्धे बान्धवेषु तथैव च । एकरात्रं समुद्दिष्टं गुरौ सब्रह्मचारिणि ॥ २,२३.३२ ॥ प्रेते राजनि सज्योतिर्यस्य स्याद्विषये स्थितिः । गृहे मृतासु दत्तासु कन्यकासु त्र्यहं पितुः ॥ २,२३.३३ ॥ परपूर्वासु भार्यासु पुत्रेषु कृतकेषु च । त्रिरात्रं स्यात्तथाचार्ये स्वभार्यास्वन्यगासु च ॥ २,२३.३४ ॥ आचार्यपुत्रे पत्न्यां च अहोरात्रमुदाहृतम् । एकाहं स्यादुपाध्याये स्वग्रामे श्रोत्रियेऽपि च ॥ २,२३.३५ ॥ त्रिरात्रमसपिण्डेषु स्वगृहे संस्थितेषु च । एकाहं चास्ववर्ये स्यादेकरात्रं तदिष्यते ॥ २,२३.३६ ॥ त्रिरात्रं श्वश्रूमरणे श्वशुरे वै तदेव हि । सद्यः शौचं समुद्दिष्टं सगोत्रे संस्थिते सति ॥ २,२३.३७ ॥ शुद्ध्येद्विप्रो दशाहेन द्वादशाहेन भूमिपः । वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्यति ॥ २,२३.३८ ॥ क्षत्रविट्शूद्रदायादा ये स्युर्विप्रस्य बान्धवाः । तेषामशौचे विप्रस्य दशाहाच्छुद्धिरिष्यते ॥ २,२३.३९ ॥ राजन्यवैश्यावप्येवं हीनवर्णासु योनिषु । स्वमेव शौचं कुर्यातां विशुद्ध्यर्थमसंशयम् ॥ २,२३.४० ॥ सर्वे तूत्तरवर्णानामशौचं कुर्युरादृताः । तद्वर्णविधिदृष्टेन स्वं तु शौचं स्वयोनिषु ॥ २,२३.४१ ॥ षड्रात्रं वा त्रिरात्रं स्यादेकरात्रं क्रमेण हि । वैश्यक्षत्रियविप्राणां शूद्रेष्वाशौचमेव तु ॥ २,२३.४२ ॥ अर्धमासोऽथ षड्रात्रं त्रिरात्रं द्विजपुङ्गवाः । शूद्रक्षत्रियविप्राणां वैश्येष्वाशौचमिष्यते ॥ २,२३.४३ ॥ षड्रात्रं वै दशाहं च विप्राणां वैश्यशूद्रयोः । अशौचं क्षत्रिये प्रोक्तं क्रमेण द्विजपुङ्गवाः ॥ २,२३.४४ ॥ शूद्रविट्क्षत्रियाणां तु ब्राह्मणे संस्थिते सति । दशरात्रेण शुद्धिः स्यादित्याह कमलोद्भवः ॥ २,२३.४५ ॥ असपिण्डं द्विजं प्रेतं विप्रो निर्हृत्य बन्धुवत् । अशित्वा च सहोषित्वा दशरात्रेण शुध्यति ॥ २,२३.४६ ॥ यद्यन्नमत्ति तेषां तु त्रिरात्रेण ततः शुचिः । अनदन्नन्नमह्नैव न च तस्मिन् गृहे वसेत् ॥ २,२३.४७ ॥ सोदकेष्वेतदेव स्यान्मातुराप्तेषु बन्धुषु । दशाहेन शवस्पर्शे सपिण्डश्चैव शुध्यति ॥ २,२३.४८ ॥ यदि निर्हरति प्रेतं प्रोलभाक्रान्तमानसः । दशाहेन द्विजः शुध्येद्द्वादशाहेन भूमिपः ॥ २,२३.४९ ॥ अर्धमासेन वैश्यस्तु शूद्रो मासेन शुध्यति । षड्रात्रेणाथवा सर्वे त्रिरात्रेणाथवा पुनः ॥ २,२३.५० ॥ अनाथं चैव निर्हृत्य ब्राह्मणं धनवर्जितम् । स्नात्वा संप्राश्य तु घृतं शुध्यन्ति ब्राह्मणादयः ॥ २,२३.५१ ॥ अवरश्चेद्वरं वर्णमवरं वा वरो यदि । अशौचे संस्पृशेत्स्नेहात्तदाशौचेन शुध्यति ॥ २,२३.५२ ॥ प्रेतीभूतं द्विजं विप्रो योऽनुगच्छत कामतः । स्नात्वा सचैलं स्पृष्ट्वाग्निं घृतं प्राश्य विशुध्यति ॥ २,२३.५३ ॥ एकाहात्क्षत्रिये शुद्धिर्वैश्ये स्याच्च द्व्यहेन तु । शूद्रे दिनत्रयं प्रोक्तं प्राणायामशतं पुनः ॥ २,२३.५४ ॥ अनस्थिसंचिते शूद्रे रौति चेद्ब्राह्मणः स्वकैः । त्रिरात्रं स्यात्तथाशौचमेकाहं त्वन्यथा स्मृतम् ॥ २,२३.५५ ॥ अस्थिसंचयनादर्वागेकाहं क्षत्रवैश्ययोः । अन्यथा चैव सज्योतिर्ब्राह्मणे स्नानमेव तु ॥ २,२३.५६ ॥ अनस्थिसंचित्विप्रे ब्राह्मणो रौति चेत्तदा । स्नानेनैव भवेच्छुद्धिः सचैलेन न संशयः ॥ २,२३.५७ ॥ यस्तैः सहाशनं कुर्याच्छयनादीनि चैव हि । बान्धवो वापरो वापि स दशाहेन शुध्यति ॥ २,२३.५८ ॥ यस्तेषामन्नमश्नाति सकृदेवापि कामतः । तदाशौचे निवृत्तेऽसौ स्नानं कृत्वा विशुध्यति ॥ २,२३.५९ ॥ यावत्तदन्नमश्नाति दुर्भिक्षोपहतो नरः । तावन्त्यहान्यशौचं स्यात्प्रायश्चित्तं ततश्चरेत् ॥ २,२३.६० ॥ दाहाद्यशौचं कर्तव्यं द्विजानामग्निहोत्रिणाम् । सपिण्डानां तु मरणे मरणादितरेषु च ॥ २,२३.६१ ॥ सपिण्डता च पुरुषे सप्तमे विनिवर्तते । समानोदकभावस्तु जन्मनाम्नोरवेदने ॥ २,२३.६२ ॥ पिता पितामहश्चैव तथैव प्रपितामहः । लेपभाजस्त्रयश्चात्मा सापिण्ड्यं साप्तपौरुषण् ॥ २,२३.६३ ॥ अप्रत्तानां तथा स्त्रीणां सापिण्ड्यं साप्तपौरुषम् । ऊढानां भर्तुसापिण्ड्यं प्राह देवः पितामहः ॥ २,२३.६४ ॥ ये चैकजाता बहवो भिन्नयोनय एव च । भिन्नवर्णास्तु सापिण्ड्यं भवेत्तेषां त्रिपूरुषम् ॥ २,२३.६५ ॥ कारवः शिल्पिनो वैद्या दासीदासास्तथैव च । दातारो नियमी चैव ब्रह्मविद्ब्रह्मचारिणौ ॥ २,२३.६६ ॥ सत्रिणो व्रतिनस्तावत्सद्यः शौचा उदाहृताः । राजा चैवाभिषिक्तश्च प्राणसत्रिण एव च ॥ २,२३.६७ ॥ यज्ञे विवाहकाले च देवयागे तथैव च । सद्यः शौचं समाख्यातं दुर्भिक्षे चाप्युपद्रवे ॥ २,२३.६८ ॥ डिम्बाहवहतानां च विद्युता पार्थिवैर्द्विजैः । सद्यः शौचं समाख्यातं सर्पादिमरणे तथा ॥ २,२३.६९ ॥ अग्नौ मरुप्रपतने वीराध्वन्यप्यनाशके । ब्राह्मणार्थे च संन्यस्ते सद्यः शौचं विधीयते ॥ २,२३.७० ॥ नैष्ठिकानां वनस्थानां यतीनां ब्रह्मचारिणाम् । नाशौचं कीर्त्यते सद्भिः पतिते च तथा मृते ॥ २,२३.७१ ॥ पतितानां न दाहः स्यान्नान्त्येष्टिर्नास्थिसंचयः । न चाश्रुपातपिण्डौ वा कार्यं श्राद्धादि कङ्क्वचित् ॥ २,२३.७२ ॥ व्यापादयेत्तथात्मानं स्वयं योऽग्निविषादिभिः । विहितं तस्य नाशौचं नाग्निर्नाप्युदकादिकम् ॥ २,२३.७३ ॥ अथ कश्चित्प्रमादेन म्रियतेऽग्निविषादिभिः । तस्याशौचं विधातव्यं कार्यं चैवोदकादिकम् ॥ २,२३.७४ ॥ जाते कुमारे तदहः कामं कुर्यात्प्रतिग्रहम् । हिरण्यधान्यगोवासस्तिलान्नगुडसर्पिषाम् ॥ २,२३.७५ ॥ फलानि पुष्पं शाकं च लवणं काष्ठमेव च । तोयं दधि घृतं तैलमौषधं क्षीरमेव च । आशौचिनां गृहाद्ग्राह्यं शुष्कान्नं चैव नित्यशः ॥ २,२३.७६ ॥ आहिताग्निर्यथान्यायं दग्धव्यस्त्रिभिरग्निभिः । अनाहिताग्निर्गृह्येण लौकिकेनेतरो जनः ॥ २,२३.७७ ॥ देहाभावात्पलाशैस्तु कृत्वा प्रतिकृतिं पुनः । दाहः कार्यो यथान्यायं सपिण्डैः श्रद्धयान्वितैः ॥ २,२३.७८ ॥ सकृत्प्रसिञ्चन्त्युदकं नामगोत्रेण वाग्यताः । दशाहं बान्धवैः सार्धं सर्वे चैवार्द्रवाससः ॥ २,२३.७९ ॥ पिण्डं प्रतिदिनं दद्युः सायं प्रातर्यथाविधि । प्रेताय च गृहद्वारि चतुर्थे भोजयेद्द्विजान् ॥ २,२३.८० ॥ द्वितीयेऽहनि कर्तव्यं क्षुरकर्म सबान्धवैः । चतुर्थे बान्धवैः सर्वैरस्थनां संचयनं भवेत् । पूर्वं तु भोजयेद्विप्रानयुग्मान् श्रद्धया शुचीन् ॥ २,२३.८१ ॥ पञ्चमे नवमे चैव तथैवैकादशेऽहनि । अयुग्मान् भोजयेद्विप्रान्नवश्राद्धं तु तद्विदुः ॥ २,२३.८२ ॥ एकादशेऽह्नि कुर्वोत प्रेतमुद्दिश्य भावतः । द्वादशे वाथ कर्तव्यमनिन्द्ये त्वथवाहनि । एकं पवित्रमेकोर्ऽघः पिण्डपात्रं तथैव च ॥ २,२३.८३ ॥ एवं मृताह्नि कर्तव्यं प्रतिमासं तु वत्सरम् । सपिण्डीकरणं प्रोक्तं पूर्णे संवत्सरे पुनः ॥ २,२३.८४ ॥ कुर्याच्चत्वारि पात्राणि प्रेतादीनां द्विजोत्तमाः । प्रेतार्थं पितृपात्रेषु पात्रमासेचयेत्ततः ॥ २,२३.८५ ॥ ये समाना इति द्वाभ्यां पिण्डानप्येवमेव हि । सपिण्डीकरणं श्राद्धं देवपूर्वं विधीयते ॥ २,२३.८६ ॥ पितॄनावाहयेत्तत्र पुनः प्रेतं च निर्दिशेत् । ये सपिण्डीकृताः प्रेतान तेषां स्यात्पृथक्क्रियाः । यस्तु कुर्यात्पृथक्पिण्डं पितृहा सोऽभिजायते ॥ २,२३.८७ ॥ मृते पितरि वै पुत्रः पिण्डमब्दं समाचरेत् । दद्याच्चान्नं सोदकुम्भं प्रत्यहं प्रेतधर्मतः ॥ २,२३.८८ ॥ पार्वणेन विधानेन संवत्सरिकमिष्यते । प्रतिसंवत्सरं कार्यं विधिरेष सनातनः ॥ २,२३.८९ ॥ मातापित्रोः सुतैः कार्यं पिण्डदानादिकं च यत् । पत्नी कुर्यात्सुताभावे पत्न्य भावे सहोदहः ॥ २,२३.९० ॥ अनेनैव विधाने जीवन् वा श्राद्धमाचरेत् । कृत्वा दानादिकं सर्वं श्रद्धायुक्तः समाहितः ॥ २,२३.९१ ॥ एष वः कथितः सम्यग्गृहस्थानां क्रियाविधिः । स्त्रीणां तु भर्तृशुश्रूषा धर्मो नान्य इहेष्यते ॥ २,२३.९२ ॥ स्वधर्मपरमो नित्यमीश्विरार्पितमानसः । प्राप्नोति तत्परं स्थानं यदुक्तं वेदवादिभिः ॥ २,२३.९३ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे त्रयोविंशोऽध्यायः _____________________________________________________________ व्यास उवाच अग्निहोत्रं तु जुहुयादाद्यन्तेऽहर्निशोः सदा । दर्शेन चैव पक्षान्ते पौर्णमासेन चैव हि ॥ २,२४.१ ॥ शस्यान्ते नवशस्येष्ट्या तथर्त्वन्ते द्विजोऽध्वरैः । पशुना त्वयनस्यान्ते समान्ते सौमिकैर्मखैः ॥ २,२४.२ ॥ नानिष्ट्वा नवशस्येष्ट्या पशुना वाग्निमान् द्विजः । नवान्नमद्यान्मांसं वा दीर्घमायुर्जिजीविषुः ॥ २,२४.३ ॥ नवेनान्नेन चानिष्ट्वा पशुहव्येन चागन्यः । प्राणानेवात्तुमिच्छन्ति नवान्नामिषगृद्धिनः ॥ २,२४.४ ॥ सावित्रान् शान्तिहोमांश्च कुर्यात्पर्वसु नित्यशः । पितॄंश्चैवाष्टकास्वर्चन्नित्यमन्वष्टकासु च ॥ २,२४.५ ॥ एष धर्मः परो नित्यमपधर्मोऽन्य उच्यते । त्रयाणामिह वर्णानां गृहस्थाश्रमवासिनाम् ॥ २,२४.६ ॥ नास्तिक्यादथवालस्याद्योऽग्नीन्नाधातुमिच्छति । यजेत वा न यज्ञेन स याति नरकान् बहून् ॥ २,२४.७ ॥ तामिस्त्रमन्धतामिस्त्रं महारौरवरौरवौ । कुम्भीपाकं वैतरणीमसिपत्रवनं तथा ॥ २,२४.८ ॥ अन्यांश्च नरकान् घोरान् संप्राप्यान्ते सुदुर्मतिः । अन्त्यजानां कुले विप्राः शूद्रयोनौ च जायते ॥ २,२४.९ ॥ तस्मात्सर्वप्रयत्नेन ब्राह्मणो हि विशेषतः । आधायाग्निं विशुद्धात्मा यजेत परमेश्वरम् ॥ २,२४.१० ॥ अग्निहोत्रात्परो धर्मो द्विजानां नेह विद्यते । तस्मादाराधयेन्नित्यमग्निहोत्रेण शाश्वतम् ॥ २,२४.११ ॥ यश्चाधायाग्निमालस्यान्न यष्टुं देवमिच्छति । सोऽसौ मूढो न संभाष्यः किं पुनर्नास्तिको जनः ॥ २,२४.१२ ॥ यस्य त्रैवार्षिकं भक्तं पर्याप्तं भृत्यवृत्तये । अधिकं चापि विद्येत स सोमं पातुमर्हति ॥ २,२४.१३ ॥ एष वै सर्वयज्ञानां सोमः प्रथम इष्यते । सोमेनाराधयेद्देवं सोमलोकमहेश्वरम् ॥ २,२४.१४ ॥ न सोमयागादधिको महेशाराधने क्रतुः । समो वा विद्यते तस्मात्सोमेनाभ्यर्चयेत्परम् ॥ २,२४.१५ ॥ पितामहेन विप्राणामादावभिहितः शुभः । धर्मो विमुक्तये साक्षाच्छ्रौतः स्मार्तो द्विधा पुनः ॥ २,२४.१६ ॥ श्रौतस्त्रेताग्निसंबन्धात्स्मार्तः पूर्वं मयोदितः । श्रेयस्करतमः श्रौतस्तस्माच्छ्रौतं समाचरेत् ॥ २,२४.१७ ॥ उभावभिहितौ धर्मौ वेदादेव विनिः सृतौ । शिष्टाचारस्तृतीयः स्याच्छ्रतिस्मृत्योरलाभतः ॥ २,२४.१८ ॥ धर्मेणाभिगतो यैस्तु वेदः सपरिबृंहणः । ते शिष्टा ब्राह्मणाः प्रोक्ता नित्यमात्मगुणान्विताः ॥ २,२४.१९ ॥ तेषामभिमतो यः स्याच्चेतसा नित्यमेव हि । स धर्मः कथितः सद्भिर्नान्येषामिति धारणा ॥ २,२४.२० ॥ पुराणं धर्मशास्त्रं च वेदानामुपबृंहणम् । एकस्माद्ब्रह्मविज्ञानं धर्मज्ञानं तथैकतः ॥ २,२४.२१ ॥ धर्मं जिज्ञासमानानां तत्प्रमाणतरं स्मृतम् । धर्मशास्त्रं पुराणं तद्ब्रह्मज्ञाने परा प्रमा ॥ २,२४.२२ ॥ नान्यतो जायते धर्मो ब्रह्मविद्या च वैदिकी । तस्माद्धर्मं पुराणं च श्रद्धातव्यं द्विजातिभिः ॥ २,२४.२३ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे चतुर्विशोऽध्यायः _____________________________________________________________ ईणृEE णीCःट्Zऊळ्Žष्षीङ्E ZEईCःEण्॒ व्यास उवाच एष वोऽभिहितः कृत्स्नो गृहस्थाश्रमवासिनः । द्विजातेः परमो धर्मो वर्तनानि निबोधत ॥ २,२५.१ ॥ द्विविधस्तु गृही ज्ञेयः साधकश्चाप्यसाधकः । अध्यापनं याजनं च पूर्वस्याहुः प्रतिग्रहम् । कुसीदकृषिवाणिज्यं प्रकुर्वोतास्वयङ्कृतम् ॥ २,२५.२ ॥ कृषेरभावाद्वाणिज्यं तदभावात्कुसीदकम् । आपत्कल्पो ह्यं ज्ञेयः पूर्वोक्तो मुख्य इष्यते ॥ २,२५.३ ॥ स्वयं वा कर्षणं कुर्याद्वाणिज्यं वा कुसीदकम् । कष्टा पापीयसी वृत्तिः कुसीदं तद्विवर्जयेत् ॥ २,२५.४ ॥ क्षात्रवृत्तिं परां प्रहुर्न स्वयं कर्षणं द्विजैः । तस्मात्क्षात्रेण वर्तेत वर्तनेनापदि द्विजः ॥ २,२५.५ ॥ तेन चावाप्यजीवंस्तु वैश्यवृत्तिं कृषिं व्रजेत् । न कथञ्चन कुर्वोत ब्राह्मणः कर्म कर्षणम् ॥ २,२५.६ ॥ लब्धलाभः पितॄन् देवान् ब्राह्मणांश्चापि पूजयेत् । ते तृप्तास्तस्य तं दोषं शमयन्ति न संशयः ॥ २,२५.७ ॥ देवेभ्यश्च पितृभ्यश्च दद्याद्भागं तु विंशकम् । त्रिंशद्भागं ब्राह्मणानां कृषिं कुर्वन्न दुष्यति ॥ २,२५.८ ॥ वणिक्प्रदद्याद्द्विगुणं कुसीदी त्रिगुणं पुनः । कृषीवलो न दोषेण युज्यते नात्र संशयः ॥ २,२५.९ ॥ शिलोञ्छं वाप्याददीत गृहस्थः साधकः पुनः । विद्याशिल्पादयस्त्वन्ये बहवो वृत्तिहेतवः ॥ २,२५.१० ॥ असाधकस्तु यः प्रोक्तो गृहस्थाश्रमसंस्थितः । शिलोञ्छे तस्य कथिते द्वे वृत्ती परमर्षिभिः ॥ २,२५.११ ॥ अमृतेनाथवा जीवेन्मृतेनाप्यथवा यदि । अयाचितं स्यादमृतं मृतं भेक्षं तु याचितम् ॥ २,२५.१२ ॥ कुशूलधान्यको वा स्यात्कुम्भीधान्यक एव वा । त्र्यहैहिको वापि भवेदश्वस्तनिक एव च ॥ २,२५.१३ ॥ चतुर्णामपि चैतेषां द्विजानां गृहमेधिनाम् । श्रेयान् परः परो ज्ञेयो धर्मतो लोकजित्तमः ॥ २,२५.१४ ॥ षट्कर्मैको भवत्येषां त्रिभिरन्यः प्रवर्तते । द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रेण जीवति ॥ २,२५.१५ ॥ वर्तयंस्तु शिलोञ्छाभ्यामग्निहोत्रपरायणः । इष्टीः पार्वायणान्तीयाः केवला निर्वपेत्सदा ॥ २,२५.१६ ॥ न लोकवृतिं वर्तेत वृत्तिहेतोः कथञ्चन । अजिह्मामशठां शुद्धां जीवेद्ब्राह्मणजीविकाम् ॥ २,२५.१७ ॥ याचित्वा वापि सद्भ्योऽन्नं पितॄन्देवांस्तु तोषयेत् । याचयेद्वा शुचिं दान्तं न तृप्येत स्वयं ततः ॥ २,२५.१८ ॥ यस्तु द्रव्यार्जनं कृत्वा गृहस्थस्तोषयेन्न तु । देवान् पितृंश्च विधिना शुनां योनिं व्रजत्यसौ ॥ २,२५.१९ ॥ धर्मश्चार्थश्च कामश्च श्रेयो मोक्षश्चतुष्टयम् । धर्माविरुद्धः कामः स्याद्ब्राह्मणानां तु नेतरः ॥ २,२५.२० ॥ योर्ऽथो धर्माय नात्मार्थः सोर्ऽथोऽनर्थस्तथेतरः । तस्मादर्थं समासाद्य दद्याद्वै जुहुयाद्यजेत् ॥ २,२५.२१ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे पञ्चविंशोऽध्यायः _____________________________________________________________ ईणृEE णीCःट्Zऊळ्Žष्षीङ्E ZEईCःEण्॒ व्यास उवाच अथातः संप्रवक्ष्यामि दानधर्ममनुत्तमम् । ब्रह्मणाभिहितं पूर्वमृषीणां ब्रह्मवादिनाम् ॥ २,२६.१ ॥ अर्थानामुदिते पात्रे श्रद्धया प्रतिपादनम् । दानमित्यभिनिर्दिष्टं भुक्तिमुक्तिफलप्रदम् ॥ २,२६.२ ॥ यद्ददाति विशिष्टेभ्यः श्रद्धया परया युतः । तद्वै वित्तमहं मन्ये शेषं कस्यापि रक्षति ॥ २,२६.३ ॥ नित्यं नैमित्तिकं काम्यं त्रिविधं दानमुच्यते । चतुर्थं विमलं प्रोक्तं सर्वदानोत्तमोत्तमम् ॥ २,२६.४ ॥ अहन्यहनि यत्किञ्चिद्दीयतेऽनुपकारिणे । अनुद्दिश्य फलं तस्माद्ब्राह्मणाय तु नित्यकम् ॥ २,२६.५ ॥ यत्तु पापोपशान्त्यर्थं दीयते विदुषां करे । नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुष्ठितम् ॥ २,२६.६ ॥ अपत्यविजयैश्वर्यस्वर्गार्थं यत्प्रदीयते । दानं तत्काम्यमाख्यातमृषिभिर्धर्मचिन्तकैः ॥ २,२६.७ ॥ यदीश्वरप्रीणनार्थं ब्रह्मवित्सु प्रदीयते । चेतसा धर्मयुक्तेन दानं तद्विमलं शिवम् ॥ २,२६.८ ॥ दानधर्मं निषेवेत पात्रमासाद्य शक्तितः । उत्पत्स्यते हि तत्पात्रं यत्तारयति सर्वतः ॥ २,२६.९ ॥ कुटुम्बभक्तवसनाद्देयं यदतिरिच्यते । अन्यथा दीयते यद्धि न तद्दानं फलप्रदम् ॥ २,२६.१० ॥ श्रोत्रियाय कुलीनाय विनीताय तपस्विने । वृत्तस्थाय दरिद्राय प्रदेयं भक्तिपूर्वकम् ॥ २,२६.११ ॥ यस्तु दद्यान्महीं भक्त्या ब्राह्मणायाहिताग्नये । स याति परमं स्थानं यत्र गत्वा न शोचति ॥ २,२६.१२ ॥ इक्षुभिः संततां भुमिं यवगोधूमशलिनीम् । ददाति वेदविदुषे यः स भूयो न जायते ॥ २,२६.१३ ॥ गोचर्ममात्रामपि वा यो भूमिं संप्रयच्छति । ब्राह्मणाय दरिद्राय सर्वपापैः प्रमुच्यते ॥ २,२६.१४ ॥ भूमिदानात्परं दानं विद्यते नेह किञ्चन । अन्नदानं तेन तुल्यं विद्यादानं ततोऽधिकम् ॥ २,२६.१५ ॥ यो ब्राह्मणाय शान्ताय शुचये धर्मशालिने । ददाति विद्यां विधिना ब्रह्मलोके महीयते ॥ २,२६.१६ ॥ दद्यादहरहस्त्वन्नं श्रद्धया ब्रह्मचारिणे । सर्वपापविनिर्मुक्तो ब्रह्मणः स्थानमाप्नुयात् ॥ २,२६.१७ ॥ गृहस्थायान्नदानेन फलं प्राप्नोति मानवः । आममेवास्य दातव्यं दत्त्वाप्नोति परां गतिम् ॥ २,२६.१८ ॥ वैशाख्यां पौर्णमास्यां तु ब्राह्मणान् सप्त पञ्च वा । उपोष्य विधिना शान्तः शुचिः प्रयतमानसः ॥ २,२६.१९ ॥ पूजयित्वा तिलैः कृष्णैर्मधुना न विशेषतः । गन्धादिभिः समभ्यर्च्य वाचयेद्वा स्व्यं वदेत् ॥ २,२६.२० ॥ प्रीयतां धर्मराजेति यद्वा मनसि वर्तते । यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ॥ २,२६.२१ ॥ कृष्णाजिने तिलान् कृत्त्वा हिरण्यं मधुसर्पिषी । ददाति यस्तु विप्राय सर्वं तरति दुष्कृतम् ॥ २,२६.२२ ॥ कृतान्नमुदकुम्भं च वैशाख्यां च विशेषतः । निर्दिश्य धर्मराजाय विप्रेभ्यो मुच्यते भयात् ॥ २,२६.२३ ॥ सुवर्णतिलयुक्तैस्तु ब्राह्मणान् सप्त पञ्च वा । तर्पयेदुदपात्रैस्तु ब्रह्महत्यां व्यपोहति ॥ २,२६.२४ ॥ माघमासे तु विप्रस्तु द्वादश्यां समुपोषितः । शुक्लाम्वरधरः कृष्णैस्तिलैर्हुत्वा हुताशनम् ॥ २,२६.२५ ॥ प्रदद्याद्ब्राह्मणेभ्यस्तु तिलानेव समाहितः । जन्मप्रभृति यत्पापं सर्वं तरति वै द्विजः ॥ २,२६.२६ ॥ अमावस्यामनुप्राप्य ब्राह्मणाय तपस्विने । यत्किचिद्देवदेवेशं दद्याच्चोद्दिश्य शङ्करम् ॥ २,२६.२७ ॥ प्रीयतामीश्वरः सोमो महादेवः सनातनः । सप्तजन्मकृतं पापं तत्क्षणादेव नश्यति ॥ २,२६.२८ ॥ यस्तु कृष्णचतुर्दश्यां स्नात्वा देवं पिनाकिनम् । आराधयेद्द्विजमुखे न तस्यास्ति पुनर्भवः ॥ २,२६.२९ ॥ कृष्णाष्टम्यां विशेषेण धार्मिकाय द्विजातये । स्नात्वाभ्यर्च्य यथान्यायं पादप्रक्षालनादिभिः ॥ २,२६.३० ॥ प्रीयतां मे महादेवो दद्याद्द्रव्यं स्वकीयकम् । सर्वपापविनिर्मुक्तः प्राप्नोति परमां गतिम् ॥ २,२६.३१ ॥ द्विजैः कृष्णचतुर्दश्यां कृष्णाष्टम्यां विशेषतः । अमावास्यायां भक्तैस्तु पूजनीयस्त्रिलोचनः ॥ २,२६.३२ ॥ एकादश्यां निराहारो द्वादश्यां पुरुषोत्तमम् । अर्चयेद्बाह्मणमुखे स गच्छेत्परमं पदम् ॥ २,२६.३३ ॥ एषा तिथिर्वैष्णवीं स्याद्द्वादशी शुक्लपक्षके । तस्यामाराधयेद्देवं प्रयत्नेन जनार्दनम् ॥ २,२६.३४ ॥ यत्किञ्चिद्देवमीशानमुद्दिश्य ब्राह्मणे शुचौ । दीयते विष्णवे वापि तदनन्तफलप्रदम् ॥ २,२६.३५ ॥ यो हि यां देवतामिच्छेत्समाराधयितुं नरः । ब्राह्मणान् पूजयेद्यत्नात्सतस्यां तोषयेत्ततः ॥ २,२६.३६ ॥ द्विजानां वपुरास्थाय नित्यं तिष्ठन्ति देवताः । पूज्यन्ते ब्राह्मणालाभे प्रतिमादिष्वपि क्वचित् ॥ २,२६.३७ ॥ तस्मात्सर्वप्रयत्नेन तत्तत्फलमभीप्सता । द्विजेषु देवता नित्यं पूजनीया विशेषतः ॥ २,२६.३८ ॥ विभूतिकामः सततं पूजयेद्वै पुरन्दरम् । ब्रह्मवर्चसकामस्तु ब्रह्माणं ब्रह्मकामुकः ॥ २,२६.३९ ॥ आरोग्यकामोऽथ रविं धनकामो हुताशनम् । कर्मणां सिद्धिकामस्तु पूजयेद्वै विनायकम् ॥ २,२६.४० ॥ भोगकामस्तु शशिनं बलकामः समीरणम् । मुमुक्षुः सर्वसंसारात्प्रयत्नेनार्चयेद्धरिम् ॥ २,२६.४१ ॥ यस्तु योगं तथा मोक्षमन्विच्छेज्ज्ञानमैश्वरम् । सोर्ऽचयेद्वै विरूपाक्षं प्रयत्नेनेश्वरेश्वरम् ॥ २,२६.४२ ॥ ये वाञ्छन्ति महायोगान् ज्ञानानि च महेश्वरम् । ते पूजयन्ति भूतेशं केशवं चापि भोगिनः ॥ २,२६.४३ ॥ वारिदस्तृप्तिमाप्नोति सुखमक्षय्यमन्नदः । तिलप्रदः प्रजामिष्टां दीपदश्चक्षुरुत्तमम् ॥ २,२६.४४ ॥ भूमिदः सर्वमाप्नोति दीर्घमायुर्हिरण्यदः । गृहदोऽग्र्याणि वेश्मानि रूप्यदो रूपमुत्तमम् ॥ २,२६.४५ ॥ वासोदश्चन्द्रसालोक्यमश्विसालोक्यमश्वदः । अनडुदः श्रियं पुष्टां गोदो व्रध्नस्य विष्टपम् ॥ २,२६.४६ ॥ यानशय्याप्रदो भार्यामैश्वर्यमभयप्रदः । धान्यदः शाश्वतं सौख्यं ब्रह्मदो ब्रह्मसात्म्यताम् ॥ २,२६.४७ ॥ धान्यान्यपि यथाशक्ति विप्रेषु प्रतिपादयेत् । वेदवित्सु विशिष्टेषु प्रेत्य स्वर्गं समश्नुते ॥ २,२६.४८ ॥ गवां घासप्रदानेन सर्वपापैः प्रमुच्यते । इन्धनानां प्रदानेन दीप्ताग्निर्जायते नरः ॥ २,२६.४९ ॥ फलमूलानि शाकानि भोज्यानि विविधानि च । प्रदद्याद्ब्राह्मणेभ्यस्तु मुदा युक्तः सदा भवेत् ॥ २,२६.५० ॥ औषधं स्नेहमाहारं रोगिणे रोगशान्तये । ददानो रोगरहितः सुखी दीर्घायुरेव च ॥ २,२६.५१ ॥ असिपत्रवनं मार्गं क्षुरधारासमन्वितम् । तीव्रितापं च तरति छत्रोपानत्प्रदो नरः ॥ २,२६.५२ ॥ यद्यदिष्टतमं लोके यच्चापि दयितं गृहे । तत्तद्गुणवते देयं तदेवाक्ष्यमिच्छता ॥ २,२६.५३ ॥ अपने विषुवे चैव ग्रहणे चन्द्रसूर्ययोः । संक्रान्त्यादिषु कालेषु दत्तं भवति चाक्षयम् ॥ २,२६.५४ ॥ प्रयागादिषु तीर्थेषु पुण्येष्वायतनेषु च । दत्त्वा चाक्षयमाप्नोति नदीषु च वनेषु च ॥ २,२६.५५ ॥ दानधर्मात्परो धर्मो भूतानां नेह विद्यते । तस्माद्विप्राय दातव्यं श्रोत्रियाय द्विजातिभिः ॥ २,२६.५६ ॥ स्वगायुर्भूतिकामेन तथा पापोपशान्तये । मुमुक्षुणा च दातव्यं ब्राह्मणेभ्यस्तथान्वहम् ॥ २,२६.५७ ॥ दीयमानं तु यो मोहाद्गोविप्राग्निसुरेषु च । निवारयति पापात्मा तिर्यग्योनिं व्रजेत्तु सः ॥ २,२६.५८ ॥ यस्तु द्रव्यार्जनं कृत्वा नार्चयेद्ब्राह्मणान् सुरान् । सर्वस्वमपहृत्यैनं राजा राष्ट्रात्प्रवासयेत् ॥ २,२६.५९ ॥ यस्तु दुर्भिक्षवेलायामन्नाद्यं न प्रयच्छति । म्रियमाणेषु विप्रेषु ब्राह्मणः स तु गर्हितः ॥ २,२६.६० ॥ न तस्मात्प्रतिगृह्णीयुर्न विशेयुश्च तेन हि । अङ्कयित्वा स्वकाद्राष्ट्रात्तं राजा विप्रवासयेत् ॥ २,२६.६१ ॥ यस्त्वसद्भ्यो ददातीह स्वद्रव्यं धर्मसाधनम् । स पूर्वाभ्यधिकः पापी नरके पच्यते नरः ॥ २,२६.६२ ॥ स्वाध्यायवन्तो ये विप्रा विद्यावन्तो जितेन्द्रियाः । सत्यसंयमसंयुक्तास्तेभ्यो दद्याद्द्विजोत्तमाः ॥ २,२६.६३ ॥ सुभुक्तमपि विद्वांसं धार्मिकं भोजयेद्द्विजम् । न तु मूर्खमवृत्तस्थं दशरात्रमुपोषितम् ॥ २,२६.६४ ॥ सन्निकृष्टमतिक्रम्य श्रोत्रियं यः प्रयच्छति । स तेन कर्मणा पापी दहत्यासप्तमं कुलम् ॥ २,२६.६५ ॥ यदिस्यादधिको विप्रः शीलविद्यादिभिः स्वयम् । तस्मै यत्नेन दातव्यं अतिक्रम्यापि सन्निधिम् ॥ २,२६.६६ ॥ योऽर्चितं प्रतिगृह्णीयाद्दद्यादर्चितमेव च । तावुभौ गच्छतः स्वर्गं नरकं तु विपर्यये ॥ २,२६.६७ ॥ न वार्यपि प्रयच्छेत नास्तिके हैतुकेऽपि च । पाषण्डेषु च सर्वेषु नावेदविदि धर्मवित् ॥ २,२६.६८ ॥ अपूपं च हिरण्यं च गामश्वं पृथिवीं तिलान् । अविद्वान् प्रतिगृह्णानो भस्मी भवति काष्ठवत् ॥ २,२६.६९ ॥ द्विजातिभ्यो धनं लिप्सेत्प्रशस्तेभ्यो द्विजोत्तमः । अपि वा जातिमात्रेभ्यो न तु शूद्रात्कथञ्चन ॥ २,२६.७० ॥ वृत्तिसङ्कोचमन्विच्छेन्नेहेत धनविस्तरम् । धनलोभे प्रसक्तस्तु ब्राह्मण्यादेव हीयते ॥ २,२६.७१ ॥ वेदानधीत्य सकलान् यज्ञांश्चावाप्य सर्वशः । न तां गतिमवाप्नोति सङ्कोचाद्यामवाप्नुयात् ॥ २,२६.७२ ॥ प्रतिग्रहरुचिर्न स्यात्यात्रार्थं तु समाहरेत् । स्थित्यर्थादधिकं गृह्णन् ब्राह्मणो यात्यधोगतिम् ॥ २,२६.७३ ॥ यस्तु याचनको नित्यं न स स्वर्गस्य भाजनम् । उद्वेजयति भूतानि यथा चौरस्तथैव सः ॥ २,२६.७४ ॥ गुरून् भृत्यांश्चोज्जिहीर्षुरर्चिष्यन् देवतातिथीन् । सर्वतः प्रतिगृह्णीयान्न तु तृप्येत्स्वयं ततः ॥ २,२६.७५ ॥ एवं गृहस्थो युक्तात्मा देवतातिथिपूजकः । वर्तमानः संयातात्मा याति तत्परमं पदम् ॥ २,२६.७६ ॥ पुत्रे निधाय वा सर्वं गत्वारण्यं तु तत्त्ववित् । एकाकी विचरेन्नित्यमुदासीनः समाहितः ॥ २,२६.७७ ॥ एष वः कथितो धर्मो गृहस्थानां द्विजोत्तमाः । ज्ञात्वानुतिष्ठेन्नियतं तथानुष्ठापयेद्द्विजान् ॥ २,२६.७८ ॥ इति देवमनादिमेकमीशं गृहधर्मेण समर्चयेदजस्त्रम् । समतीत्य स सर्वभूतयोनिं प्रकृतिं याति परं न याति जन्म ॥ २,२६.७९ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे षड्विंशोऽध्यायः _____________________________________________________________ व्यास उवाच एवं गृहाश्रमे स्थित्वा द्वितीयं भागमायुषः । वानप्रस्थाश्रमं गच्छेत्सदारः साग्निरेव च ॥ २,२७.२ ॥ निक्षिप्य भार्यां पुत्रेषु गच्छेद्वनमथापि वा । दृष्ट्वापत्यस्य चापत्यं जर्जरीकृतविग्रहः ॥ २,२७.२ ॥ शुक्लपक्षस्य पूर्वाह्ने प्रशस्ते चोत्तरायणे । गत्वारण्यं नियमवांस्तपः कुर्यात्समाहितः ॥ २,२७.३ ॥ फलमूलानि पूतानि नित्यमाहारमाहरेत् । यताहारो भवेत्तेन पूजयेत्पितृदेवताः ॥ २,२७.४ ॥ पूजयित्वातिथिं नित्यं स्नात्वा चाभ्यर्चयेत्सुरान् । गृहादाहृत्य चाश्नीयादष्टौ ग्रासान् समाहितः ॥ २,२७.५ ॥ जटाश्च बिभृयान्नित्यं नखरोमाणि नोत्सृजेत् । स्वाध्यायं सर्वदा कुर्यान्नियच्छेद्वाचमन्यतः ॥ २,२७.६ ॥ अग्निहोत्रं च जुहुयात्पञ्चयज्ञान् समाचरेत् । मुन्यन्नैंर्विविधैर्मेध्यैः शाकमूलफलेन वा ॥ २,२७.७ ॥ चीरवासा भवेन्नित्यं स्नायात्त्रिषवणं शुचिः । सर्वभूतानुकम्पी स्यात्प्रतिग्रहविवर्जितः ॥ २,२७.८ ॥ दर्शेन पौर्णमासेन यजेत्नियतं द्विजः । ऋक्षेष्वाग्रयणे चैव चातुर्मास्यानि चाहरेत् । उत्तरायणं च क्रमशो दक्षस्यायनमेव च ॥ २,२७.९ ॥ वासन्तैः शारदैर्मेध्यैर्मुन्यन्नैः स्वयमाहृतैः । पुरोडाशांश्चरूंश्चैव विधिवन्निर्वपेत्पृथक् ॥ २,२७.१० ॥ देवताभ्यश्च तधुत्वा वन्यं मेध्यतरं हविः । शेषं समुपभुञ्जीत लवणं च स्वयं कृतम् ॥ २,२७.११ ॥ वर्जयेन्मधुमांसानि भौमानि कवकानि च । भूस्तृणं शिग्रुकं चैव श्लेष्मातकफलानि च ॥ २,२७.१२ ॥ न फालकृष्टमश्नीयादुत्सृष्टमपि केनचित् । न ग्रामजातान्यार्तोऽपि पुष्पाणि च फलानि च ॥ २,२७.१३ ॥ श्रावणेनैव विधिना वह्निं परिचरेत्सदा । न द्रुह्येत्सर्वभूतानि निर्द्वन्द्वो निर्भयो भवेत् ॥ २,२७.१४ ॥ न नक्तं किञ्चिदश्नीयाद्रात्रौ ध्यानपरो भवेत् । जितेन्द्रियो जितक्रोधस्तत्त्वज्ञानविचिन्तकः । ब्रह्मचारी भवेन्नित्यं न पत्नीमपि संश्रयेत् ॥ २,२७.१५ ॥ यस्तु पत्न्या वनं गत्वा मैथुनं कामतश्चरेत् । तद्व्रतं तस्य लुप्येत प्रायश्चित्तीयते द्विजः ॥ २,२७.१६ ॥ तत्र यो जायते गर्भो न संस्पृश्यो द्विजातिभिः । न हि वेदेऽधिकारोऽस्य तद्वंशेप्येवमेव हि ॥ २,२७.१७ ॥ अधः शयीत सततं सावित्रीजाप्यतत्परः । शरण्यः सर्वभूतानां संविभागपरः सदा ॥ २,२७.१८ ॥ परिवादं मृषावादं निद्रालस्यं विवर्जयेत् । एकाग्निरनिकेतः स्यात्प्रोक्षितां भूमिमाश्रयेत् ॥ २,२७.१९ ॥ मृगैः सह चरेद्वासं तैः सहैव च संवसेत् । शिलायां शर्करायां वा शयीत सुसमाहितः ॥ २,२७.२० ॥ सद्यः प्रक्षालको वा स्यान्माससंचयिकोऽपि वा । षण्मासनिचयो वा स्यात्समानिचय एव वा ॥ २,२७.२१ ॥ त्यजेदाश्वयुजे मासि संपन्नं पूर्वसंचितम् । जीर्णानि चैव वासांसि शाकमूलफलानि च ॥ २,२७.२२ ॥ दन्तोलूखलिको वास्यात्कापोतीं वृत्तिमाश्रयेत् । अश्मकुट्टो भवेद्वापि कालपक्वभुगेव वा ॥ २,२७.२३ ॥ नक्तं चान्न समश्नीयाद्दिवा चाहृत्य शक्तितः । चतुर्थकालिको वा स्यात्स्याद्वाप्यष्टमकालिकः ॥ २,२७.२४ ॥ चान्द्रायणविधानैर्वा शुक्ले कृष्णे च वर्तयेत् । पक्षे पक्षे समश्नीयाद्यवागूं क्वथितां सकृत् ॥ २,२७.२५ ॥ पुष्पमूलफलैर्वापि केवलैर्वर्तयेत्सदा । स्वाभाविकैः स्वयं शीर्णैर्वैखानसमते स्थितः ॥ २,२७.२६ ॥ भूमौ वा परिवर्तेत तिष्ठेद्वा प्रपदैर्दिनम् । स्थानासनाभ्यां विहरेन्न क्वचिद्धैर्यमुत्सृजेत् ॥ २,२७.२७ ॥ ग्रीष्मे पञ्चतपाश्च स्याद्वर्षास्वभ्रावकाशकः । आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः ॥ २,२७.२८ ॥ उपस्पृश्य त्रिषवणं पितृदेवांश्च तर्पयेत् । एकपादेन तिष्ठेत मरीचीन् वा पिबेत्तदा ॥ २,२७.२९ ॥ पञ्चाग्निर्धूमपो वा स्यादुष्मपः सोमपोऽपि वा । पयः पिबेच्छुक्लपक्षे कृष्णापक्षे तु गोमयम् । शीर्णपर्णाशनो वा स्यात्कृच्छ्रैर्वा वर्तयेत्सदा ॥ २,२७.३० ॥ योगाभ्यासरतश्च स्याद्रुद्राध्यायी भवेत्सदा । अथर्वशिरसोऽध्येता वेदान्ताभ्यासतत्परः ॥ २,२७.३१ ॥ यमान् सेवेत सततं नियमांश्चाप्यतन्द्रितः । कृष्णाजिनी सोत्तरीयः शुक्लयज्ञोपवीतवान् ॥ २,२७.३२ ॥ अथ चाग्नीन् समारोप्य स्वात्मनि ध्यानतत्परः । अनग्निरनिकेतः स्यान्मुनिर्मोक्षपरो भवेत् ॥ २,२७.३३ ॥ तापसेष्वेव विप्रेषु यात्रिकं भैक्षमाहरेत् । गृहमेधिषु चान्येषु द्विजेषु वनवासिषु ॥ २,२७.३४ ॥ ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान् वने वसन् । प्रतिगृह्य पुटेनैव पाणिना शकलेन वा ॥ २,२७.३५ ॥ विविधाश्चोपनिषद आत्मसंसिद्धये जपेत् । विद्याविशेषान् सावित्रीं रुद्राध्यायं तथैव च ॥ २,२७.३६ ॥ महाप्रास्थानिकं चासौ कुर्यादनशनं तु वा । अग्निप्रवेशमन्यद्वा ब्रर्ह्मार्पणविधौ स्थितः ॥ २,२७.३७ ॥ यस्तु सम्यगिममाश्रमं शिवं संश्रयेदशिवपुञ्जनाशनम् । तापसः स परमैश्वरं पदं याति यत्र जगतोऽस्य संस्थितिः ॥ २,२७.३८ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे सप्तविशोऽध्याय _____________________________________________________________ व्यास उवाच एवं वनाश्रमे स्थित्वा तृतीयं भागमायुषः । चतुर्थमायुषो भागं संन्यासेन नयेत्क्रमात् ॥ २,२८.१ ॥ अग्नीनात्मनी संस्थाप्य द्विजः प्रव्रजितो भवेत् । योगाभ्यासरतः शान्तो ब्रह्मविद्यापरायणः ॥ २,२८.२ ॥ यदा मनसि संजातं वैतृष्ण्यं सर्ववस्तुषु । तदा संन्यासमिच्छेच्च पतितः स्याद्विपर्यये ॥ २,२८.३ ॥ प्राजापत्यां निरूप्येष्टिमाग्नेयीमथवा पुनः । दान्तः पक्वकषायोऽसौ ब्रह्माश्रममुपाश्रयेत् ॥ २,२८.४ ॥ ज्ञानसंन्यासिनः केचिद्वेदसंन्यासिनः परे । कर्मसंन्यासिनस्त्वन्ये त्रिविधाः परिकीर्तिताः ॥ २,२८.५ ॥ यः सर्वसङ्गनिर्मुक्तो निर्द्वन्द्वश्चैव निर्भयः । प्रोच्यते ज्ञानसंन्यासी स्वात्मन्येव व्यवस्थितः ॥ २,२८.६ ॥ वेदमेवाभ्यसेन्नित्यं निराशी निष्परिग्रहः । प्रोच्यते वेदसंन्यासी मुमुक्षुर्विजितेन्द्रियः ॥ २,२८.७ ॥ यस्त्वग्नीनात्मसात्कृत्वा ब्रह्मार्पणपरो द्विजः । ज्ञेयः स कर्मसंन्यासी महायज्ञपरायणः ॥ २,२८.८ ॥ त्रयाणामपि चैतेषां ज्ञानी त्वभ्यधिको मतः । न तस्य विद्यते कार्यं न लिङ्गं वा विपश्चितः ॥ २,२८.९ ॥ निर्ममो निर्भयः शान्तो निर्द्वन्द्वः पर्णभोजनः । जीर्णकौपीनवासाः स्यान्नग्नो वा ध्यानतत्परः ॥ २,२८.१० ॥ ब्रह्मचारी मिताहारो ग्रामादन्नं समाहरेत् । अध्यात्ममतिरासीत निरपेक्षो निरामिषः ॥ २,२८.११ ॥ आत्मनैव सहायेन सुखार्थं विचरेदिह । नाभिनन्देत मरणं नाभिनन्देत जीवितम् ॥ २,२८.१२ ॥ कालमेव प्रतीक्षेत निदेशं भृतको यथा । नाध्येतव्यं न वक्तव्यं श्रोतव्यं न कदाचन । एवं ज्ञात्वा परो योगी ब्रह्मभूयाय कल्पते ॥ २,२८.१३ ॥ एकवासाथवा विद्वान् कौपीनाच्छादनस्तथा । मुण्डी शिखी वाथ भवेत्त्रिदण्डी निष्परिग्रहः । काषायवासाः सततं ध्यानयोगपरायणः ॥ २,२८.१४ ॥ ग्रामान्ते वृक्षमूले वा वसेद्देवालयेऽपि वा । समः शत्रौ च मित्रे च तथा मानापमानयोः । भैक्ष्येण वर्तयेन्नित्यं नैकान्नादी भवेत्क्वचित् ॥ २,२८.१५ ॥ यस्तु मोहेन वालस्यादेकान्नादी भवेद्यतिः । न तस्य निष्कृतिः काचिद्धर्मशास्त्रेषु कथ्यते ॥ २,२८.१६ ॥ रागद्वेषविमुक्तात्मा समलोष्टाश्मकाञ्चनः । प्राणिहंसानिवृत्तश्च मौनी स्यात्सर्वनिस्पृहः ॥ २,२८.१७ ॥ दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् । सत्यपूतां वदेद्वाणीं मनः पूतं समाचरेत् ॥ २,२८.१८ ॥ नैकत्र निवसेद्देशे वर्षाभ्योऽन्यत्र भिक्षुकः । स्नानशौचरतो नित्यं कमण्डलुकरः शुचिः ॥ २,२८.१९ ॥ ब्रह्मचर्यरतो नित्यं वनवासरतो भवेत् । मोक्षशास्त्रेषु निरतो ब्रह्मसूत्री जितेन्द्रियः ॥ २,२८.२० ॥ दम्भाहङ्कारनिर्मुक्तो निन्दापैशुन्यवर्जितः । आत्मज्ञानगुणोपेतो यतिर्मोक्षमवाप्नुयात् ॥ २,२८.२१ ॥ अभ्यसेत्सततं वेदं प्रणवाख्यं सनातनम् । स्नात्वाचम्य विधानेन शुचिर्देवालयादिषु ॥ २,२८.२२ ॥ यज्ञोपवीती शान्तात्मा कुशपाणिः समाहितः । धौतकाषायवसनो भस्मच्छन्नतनूरहः ॥ २,२८.२३ ॥ अधियज्ञं ब्रह्म जपेदाधिदैविकमेव च । आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् ॥ २,२८.२४ ॥ पुत्रेषु वाथ निवसन् ब्रह्मचारी यतिर्मुनिः । वेदमेवाभ्यसेन्नित्यं स याति परमां गतिम् ॥ २,२८.२५ ॥ अहिंसा सत्यमस्तेयं ब्रह्मचर्यं तपः परम् । क्षमा दया च सतोषो व्रतान्यस्य विशेषतः ॥ २,२८.२६ ॥ वेदान्तज्ञाननिष्ठो वा पञ्च यज्ञान् समाहितः । कुर्यादहरहः स्नात्वा भिक्षान्नेनैव तेन हि ॥ २,२८.२७ ॥ होममन्त्राञ्जपेन्नित्यं काले काले समाहितः । स्वाध्यायं चान्वहं कुर्यात्सावित्रीं संध्ययोर्जपेत् ॥ २,२८.२८ ॥ ध्यायीत सततं देवमेकान्ते परमेश्वरम् । एकान्नं वर्जयेन्नित्यं कामं क्रोधं परिग्रहम् ॥ २,२८.२९ ॥ एकवासा द्विवासा वा शिखी यज्ञोपवीतवान् । कमण्डलुकरो विद्वान् त्रिदण्डी याति तत्परम् ॥ २,२८.३० ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागेऽष्टाविंशोऽध्यायः _____________________________________________________________ व्यास उवाच एवं स्वाश्रमनिष्ठानां यतीनां नियतात्मनाम् । भैक्षेण वर्तनं प्रोक्तं फलमूलैरथापि वा ॥ २,२९.१ ॥ एककालं चरेद्भैक्षं न प्रसज्येत विस्तरे । भैक्षे प्रसक्तो हि यतिर्विषयेष्वपि सज्जति ॥ २,२९.२ ॥ सप्तागारं चरेद्भैक्षमलाभात्तु पुनश्चरेत् । प्रक्षाल्य पात्रे भुञ्जीयादद्भिः प्रक्षालयेत्तु तत् ॥ २,२९.३ ॥ अथवान्यदुपादाय पात्रे भुञ्जीत नित्यशः । भुक्त्वा तत्संत्यजेत्पात्रं यात्रामात्रमलोलुपः ॥ २,२९.४ ॥ विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने । वृत्ते शरावसंपाते भिक्षां नित्यं यतिश्चरेत् ॥ २,२९.५ ॥ गोदोहमात्रं तिष्ठेत कालं भिक्षुरधोमुखः । भिक्षेत्युक्त्वा सकृत्तूष्णीमश्नीयाद्वाग्यतः शुचिः ॥ २,२९.६ ॥ प्रक्षाल्य पाणिपादौ च समाचम्य यथाविधि । आदित्ये दर्शयित्वान्नं भुञ्जीत प्राङ्मुखोत्तरः ॥ २,२९.७ ॥ हुत्वा प्राणाहुतीः पञ्च ग्रासानष्टौ समाहितः । आचम्य देवं ब्रह्माणं ध्यायीत परमेश्वरम् ॥ २,२९.८ ॥ अलाबुं दारुपात्रं च मृण्मयं वैणवं ततः । चत्वारि यतिपात्राणि मनुराह प्रजापतिः ॥ २,२९.९ ॥ प्राग्रात्रे पररात्रे च मध्यरात्रे तथैव च । संध्यास्वह्नि विशेषेण चिन्तयेन्नित्यमीश्वरम् ॥ २,२९.१० ॥ कृत्वा हृत्पद्मनिलये विश्वाख्यं विश्वसंभवम् । आत्मानं सर्वभूतानां परस्तात्तमसः स्थितम् ॥ २,२९.११ ॥ सर्वस्याधारभूतानामानन्दं ज्योतिरव्ययम् । प्रधानपुरुषातीतमाकाशं दहनं शिवम् ॥ २,२९.१२ ॥ तदन्तः सर्वभावानामीश्वरं ब्रह्मरूपिणम् । ध्यायेदनादिमद्वैतमानन्दादिगुणालयम् ॥ २,२९.१३ ॥ महान्तं परमं ब्रह्म पुरुषं सत्यमव्ययम् । सितेतरारुणाकारं महेशं विश्वरूपिणम् ॥ २,२९.१४ ॥ ओङ्कारान्तेऽथ चात्मानं संस्थाप्य परमात्मनि । आकाशे देवमीशानं ध्यायीताकाशमध्यगम् ॥ २,२९.१५ ॥ कारणं सर्वभावानामानन्दैकसमाश्रयम् । पुराणं पुरुषं शंभुं ध्यायन्मुच्येत बन्धनात् ॥ २,२९.१६ ॥ यद्वा गुहायां प्रकृतौ जगत्संमोहनालये । विचिन्त्य परमं व्योम सर्वभूतैककारणम् ॥ २,२९.१७ ॥ जीवनं सर्वभूतानां यत्र लोकः प्रलीयते । आनन्दं ब्रह्मणः सूक्ष्मं यत्पश्यन्ति मुमुक्षवः ॥ २,२९.१८ ॥ तन्मध्ये निहितं ब्रह्म केवलं ज्ञानलक्षणम् । अनन्तं सत्यमीशानं विचिन्त्यासीत संयतः ॥ २,२९.१९ ॥ गुह्याद्गुह्यतमं ज्ञानं यतीनामेतदीरितम् । योऽनुतिष्ठेन्महेशेन सोऽश्नुते योगमैश्वरम् ॥ २,२९.२० ॥ तस्माद्ध्यानरतो नित्यमात्मविद्यापरायणः । ज्ञानं समभ्यसेद्ब्राह्मं येन मुच्येत बन्धनात् ॥ २,२९.२१ ॥ मत्वा पृथक्स्वमात्मानं सर्वस्मादेव केवलम् । आनन्दमजरं ज्ञानं ध्यायीत च पुनः परम् ॥ २,२९.२२ ॥ यस्मात्भवन्ति भूतानि यद्गत्वा नेह जायते । स तस्मादीश्वरो देवः परस्माद्योऽधितिष्ठति ॥ २,२९.२३ ॥ यदन्तरे तद्गगनं शाश्वतं शिवमव्ययम् । यदंशस्तत्परो यस्तु स देवः स्यान्महेश्वरः ॥ २,२९.२४ ॥ व्रतानि यानि भिक्षूणां तथैवोपव्रतानि च । एकैकातिक्रमे तेषां प्रायश्चित्तं विधीयते ॥ २,२९.२५ ॥ उपेत्य च स्त्रियं कामात्प्रायश्चित्तं समाहितः । प्राणायामसमायुक्तं कुर्यात्सांतपनं शुचिः ॥ २,२९.२६ ॥ ततश्चरेत नियमात्कृच्छ्रं संयतमानसः । पुनराश्रममागम्य चरेद्भिश्रुरतन्द्रितः ॥ २,२९.२७ ॥ न धर्मयुक्तमनृतं हिनस्तीति मनीषिणः । तथापि च न कर्तव्यं प्रसङ्गो ह्येष दारुणः ॥ २,२९.२८ ॥ एकरात्रोपवासश्च प्राणायामशतं तथा । उक्त्वानृतं प्रकर्तव्यं यतिना धर्मलिप्सुना ॥ २,२९.२९ ॥ परमापद्गतेनापि न कार्यं स्तेयमन्यतः । स्तेयादभ्यधिकः कश्चिन्नास्त्यधर्म इति स्मृतिः । हिंसा चैषापरा दिष्टा या चात्मज्ञाननाशिका ॥ २,२९.३० ॥ यदेतद्द्रविणं नाम प्राण ह्येते बहिश्वराः । स तस्य हरति प्राणान् यो यस्य हरते धनम् ॥ २,२९.३१ ॥ एवं कृत्वा स दुष्टात्मा भिन्नवृत्तो व्रताच्च्युतः । भूयो निर्वेदमापन्नश्चरेच्चान्द्रायणव्रतम् ॥ २,२९.३२ ॥ विधिना शास्त्रदृष्टेन संवत्सरमिति श्रुतिः । भूयो निर्वेदमापन्नश्चरेद्भिक्षुरतन्द्रितः ॥ २,२९.३३ ॥ अकस्मादेव हिंसां तु यदि भिक्षुः समाचरेत् । कुर्यात्कृछ्रातिकृच्छ्रं तु चान्द्रायणमथापि वा ॥ २,२९.३४ ॥ स्कन्देदिन्द्रियदौर्बल्यात्स्त्रियं दृष्ट्वा यतिर्यदि । तेन धारयितव्या वै प्राणायामास्तु षोडश । दिवास्कन्दे त्रिरात्रं स्यात्प्राणायामशतं तथा ॥ २,२९.३५ ॥ एकान्ने मधुमांसे च नवश्राद्धे तथैव च । प्रत्यक्षलवणे चोक्तं प्राजापत्यं विशोधनम् ॥ २,२९.३६ ॥ ध्याननिष्ठस्य सततं नश्यते सर्वपातकम् । तस्मान्महेश्वरं ज्ञात्वा तस्य ध्यानपरो भवेत् ॥ २,२९.३७ ॥ यद्ब्रह्म परमं ज्योतिः प्रतिष्ठाक्षरमद्वयम् । योऽन्तरात्र परं ब्रह्म स विज्ञेयो महेश्वरः ॥ २,२९.३८ ॥ एष देवो महादेवः केवलः परमः शिवः । तदेवाक्षरमद्वैतं तदादित्यान्तरं परम् ॥ २,२९.३९ ॥ यस्मान्महीयते देवः स्वधाम्नि ज्ञानसंज्ञिते । आत्मयोगाह्वये तत्त्वे महादेवस्ततः स्मृतः ॥ २,२९.४० ॥ नान्यद्देवान्महादेवाद्व्यतिरिक्तं प्रपश्यति । तमेवात्मानमन्वेति यः स याति परं पदम् ॥ २,२९.४१ ॥ मन्यते ये स्वमात्मानं विभिन्नं परमेश्वरात् । न ते पश्यन्ति तं देवं वृथा तेषां परिश्रमः ॥ २,२९.४२ ॥ एकमेव परं ब्रह्म विज्ञेयं तत्त्वमव्ययम् । स देवस्तु महादेवो नैतद्विज्ञाय बध्यते ॥ २,२९.४३ ॥ तस्माद्यतेत नियतं यतिः संयतमानसः । ज्ञानयोगरतः शान्तो महादेवपरायणः ॥ २,२९.४४ ॥ एष वः कथितो विप्रो यतीनामाश्रमः शुभः । पितामहेन विभुना मुनीनां पूर्वमीरितम् ॥ २,२९.४५ ॥ नापुत्रशिष्ययोगिभ्यो दद्यादिदमनुत्तमम् । ज्ञानं स्वयंभुवा प्रोक्तं यतिधर्माश्रयं शिवम् ॥ २,२९.४६ ॥ इति यतिनियमानामेतदुक्तं विधानं पशुपतिपरितोषे यद्भवेदेकहेतुः । न भवति पुनरेषामुद्भवो वा विनाशः प्रणिहितमनसो ये नित्यमेवाचरन्ति ॥ २,२९.४७ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे एकोनत्रिंशोऽध्यायः _____________________________________________________________ व्यास उवाच अतः परं प्रवलक्ष्यामि प्रायश्चित्तविधिं शुभम् । हिताय सर्वविप्राणां दोषाणामपनुत्तये ॥ २,३०.१ ॥ अकृत्वा विहितं कर्म कृत्वा निन्दितमेव च । दोषमाप्नोति पुरुषः प्रायश्चित्तं विशोधनम् ॥ २,३०.२ ॥ प्रायश्चित्तमकृत्वा तु न तिष्ठेद्ब्राह्मणः क्वचित् । यद्ब्रूयुर्ब्राह्मणाः शान्ता विद्वांसस्तत्समाचरेत् ॥ २,३०.३ ॥ वेदार्थवित्तमः शान्तो धर्मकामोऽग्निमान् द्विजः । स एव स्यात्परो धर्मो यमेकोऽपि व्यवस्यति ॥ २,३०.४ ॥ अनाहिताग्नयो विप्रास्त्रयो वेदार्थपारगाः । यद्ब्रूयुर्धर्मकामास्ते तज्ज्ञेयं धर्मसाधनम् ॥ २,३०.५ ॥ अनेकधर्मशास्त्रज्ञा ऊहापोहविशारदाः । वेदाध्ययनसंपन्नाः सप्तैते परिकीर्तिताः ॥ २,३०.६ ॥ मीमांसाज्ञानतत्त्वज्ञा वेदान्तकुशला द्विजाः । एकविंशतिसंख्याताः प्रयाश्चित्तं वदन्ति वै ॥ २,३०.७ ॥ ब्रह्महा मद्यपः स्तेनो गुरुतल्पग एव च । महापातकिनस्त्वेते यश्चैतैः सह संवसेत् ॥ २,३०.८ ॥ संवत्सरं तु पतितैः संसर्गं कुरुते तु यः । यानशय्यासनैर्नित्यं जानन् वै पतितो भवेत् ॥ २,३०.९ ॥ याजनं योनिसंबन्धं तथैवाध्यापनं द्विजः । कृत्वा सद्यः पतेज्ज्ञानात्सह भोजनमेव च ॥ २,३०.१० ॥ अविज्ञायाथ यो मोहात्कुर्यादध्यापनं द्विजः । संवत्सरेण पतति सहाध्ययनमेव च ॥ २,३०.११ ॥ ब्रह्माहा द्वादशाब्दानि कुटिं कृत्वा वने वसेत् । भैक्षमात्मविशुद्ध्यर्थं कृत्वा शवशिरोध्वजम् ॥ २,३०.१२ ॥ ब्राह्मणावसथान् सर्वान् देवागाराणि वर्जयेत् । विनिन्दन् स्वयमात्मानं ब्राह्मणं तं च संस्मरन् ॥ २,३०.१३ ॥ असंकल्पितयोग्यानि सप्तागाराणि संविशेत् । विधूमे शनकैर्नित्यं व्यङ्गारे भुक्तवज्जने ॥ २,३०.१४ ॥ एककालं चरेद्भैक्षं दोषं विख्यापयन्नृणाम् । वन्यमूलफलैर्वापि वर्तयेद्धैर्यमाक्षितः ॥ २,३०.१५ ॥ कपालपाणिः खट्वाङ्गी ब्रह्मचर्यपरायणः । पूर्णे तु द्वादशे वर्षे ब्रह्महत्यां व्यपोहति ॥ २,३०.१६ ॥ अकामतः कृते पापे प्रायश्चित्तमिदं शुभम् । कामतो मरणाच्छुद्धिर्ज्ञेया नान्येन केनचित् ॥ २,३०.१७ ॥ कुर्यादनशनं वाथ भृगोः पतनमेव वा । ज्वलन्तं वा विशेदग्निं जलं वा प्रविशेत्स्वयम् ॥ २,३०.१८ ॥ ब्राह्मणार्थे गवार्थे वा सम्यक्प्राणान् परित्यजेत् । ब्रह्महत्यापनोदार्थमन्तरा वा मृतस्य तु ॥ २,३०.१९ ॥ दीर्घामयान्वितं विप्रं कृत्वानामयमेव तु । दत्त्वा चान्नं स दुर्भिक्षे ब्रह्महत्यां व्यपोहति ॥ २,३०.२० ॥ अश्वमेधावभृथके स्नात्वा वा शुध्यते द्विजः । सर्वस्वं वा वेदविदे ब्राह्मणाय प्रदाय तु ॥ २,३०.२१ ॥ सरस्वत्यास्त्वरुणया संगमे लोकविश्रुते । शुध्येत्त्रिषवणस्नानात्त्रिरात्रोपोषितो द्विजः ॥ २,३०.२२ ॥ गत्वा रामेश्वरं पुण्यं स्नात्वा चैव महोदधौ । ब्रह्मचर्यादिभिर्युक्तो दृष्ट्वा रुद्रं विमुच्यते ॥ २,३०.२३ ॥ कपालमोचनं नाम तीर्थं देवस्य शूलिनः । स्नात्वाभ्यर्च्य पितॄन् भक्त्या ब्रह्महत्यां व्यपोहति ॥ २,३०.२४ ॥ यत्र देवादिदेवेन भरवेणामितौजसा । कपालं स्थापितं पूर्वं ब्रह्मणः परमेष्ठिनः ॥ २,३०.२५ ॥ समभ्यर्च्य महादेवं तत्र भैरवरूपिणम् । तर्पपित्वा पितॄन् स्नात्वा मुच्यते ब्रह्महत्यया ॥ २,३०.२६ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे त्रिशोऽध्यायः _____________________________________________________________ ऋषय ऊचुः कथं देवेन रुद्रेण शङ्करेणामितौजसा । कपालं ब्रह्मणः पूर्वं स्थापितं देहजं भुवि ॥ २,३१.१ ॥ सूत उवाच शृणुध्वमृषयः पुण्यां कथां पापप्रणाशनीम् । माहात्म्यं देवदेवस्य महादेवस्य धीमतः ॥ २,३१.२ ॥ पुरा पितामहं देवं मेरुशृङ्गे महर्षयः । प्रोचुः प्रणम्य लोकादिं किमेकं तत्त्वमव्ययम् ॥ २,३१.३ ॥ स मायया महेशस्य मोहितो लोकसंभवः । अविज्ञाय परं भावं स्वात्मानं प्राह धर्षिणम् ॥ २,३१.४ ॥ अहं धाता जगद्योनिः स्वयंभूरेक ईश्वरः । अनादिमत्परं ब्रह्म मामभ्यर्च्य विमुच्यते ॥ २,३१.५ ॥ अहं हि सर्वदेवानां प्रवर्तकनिवर्तकः । न विद्यते चाभ्यधिको मत्तो लोकेषु कश्चन ॥ २,३१.६ ॥ तस्यैवं मन्यमानस्य जज्ञे नारायणांशजः । प्रोवाच प्रहसन् वाक्यं रोषताम्रविलोचनः ॥ २,३१.७ ॥ किं कारणमिदं ब्रह्मन् वर्तते तव सांप्रतम् । अज्ञानयोगयुक्तस्य न त्वेतदुचितं तव ॥ २,३१.८ ॥ अहं धाता हि लोकानां यज्ञो नारायणः प्रभुः । न मामृतेऽस्य जगतो जीवनं सर्वदा क्वचित् ॥ २,३१.९ ॥ अहमेव परं ज्योतिरहमेव परा गतिः । मत्प्रेरितेन भवता सृष्टं भुवनमण्डलम् ॥ २,३१.१० ॥ एवं विवदतोर्मोहात्परस्परजयैषिणोः । आजग्मुर्यत्र तौ देवौ वेदाश्चत्वार एव हि ॥ २,३१.११ ॥ अन्वीक्ष्य देवं ब्रह्माणं यज्ञात्मानं च संस्थितम् । प्रोचुः संविग्नहृदया याथात्म्यं परमेष्ठिनः ॥ २,३१.१२ ॥ ऋग्वेद उवाच यस्यान्तः स्थानि भूतानि यस्मात्सर्वं प्रवर्तते । यदाहुस्तत्परं तत्त्वं स देवः स्यान्महेश्वरः ॥ २,३१.१३ ॥ यजुर्वेद उवाच यो यज्ञैरखिलैरीशो योगेन च समर्च्यते । यमाहुरीश्वरं देवं स देवः स्यात्पिनाकधृक् ॥ २,३१.१४ ॥ सामवेद उवाच येनेदं भ्राम्यते चक्रं यदाकाशान्तरं शिवम् । योगिभिर्विद्यते तत्त्वं महादेवः स शङ्करः ॥ २,३१.१५ ॥ अथर्ववेद उवाच यं प्रपश्यन्ति योगेशं यतन्तो यतयः परम् । महेशं पुरुषं रुद्रं स देवो भगवान् भवः ॥ २,३१.१६ ॥ एवं स भगवान् ब्रह्मा वेदानामीरितं शुभम् । श्रुत्वाह प्रहसन् वाक्यं विश्वात्मापि विमोहितः ॥ २,३१.१७ ॥ कथं तत्परमं ब्रह्म सर्वसङ्गविवर्जितम् । रमते भार्यया सार्धं प्रमथैश्चातिगर्वितैः ॥ २,३१.१८ ॥ इतिरितेऽथ भगवान् प्रणवात्मा सनातनः । अमूर्तो मूर्तिमान् भूत्वा वचः प्राह पितामहम् ॥ २,३१.१९ ॥ प्रणव उवाच न ह्येष भगवान् पत्न्या स्वात्मनो व्यतिरिक्तया । कदाचिद्रमते रुद्रस्तादृशो हि महेश्वरः ॥ २,३१.२० ॥ अयं स भगवानीशः स्वयञ्ज्योतिः सनातनः । स्वानन्दभूता कथिता देवी नागन्तुका शिवा ॥ २,३१.२१ ॥ इत्येवमुक्तेऽपि तदा यज्ञमूर्तेरजस्य च । नाज्ञानमगमन्नाशमीश्वरस्यैव मायया ॥ २,३१.२२ ॥ तदन्तरे महाज्योतिर्विरिञ्चो विश्वभावनः । प्रापश्यदद्भुतं दिव्यं पूरयन् गगनान्तरम् ॥ २,३१.२३ ॥ तन्मध्यसंस्थं विमलं मण्डलं तेजसोज्ज्वलम् । व्योममध्यगतं दिव्यं प्रादुरासीद्द्विजोत्तमाः ॥ २,३१.२४ ॥ स दृष्ट्वा वदनं दिव्यं मूर्ध्नि लोकपितामहः । तेन तन्मण्जलं घोरमालोकयदनिन्दितम् ॥ २,३१.२५ ॥ प्रजज्वालातिकोपेन ब्रह्मणः पञ्चमं शिरः । क्षणाददृश्यत महान् पुरुषो नीललोहितः ॥ २,३१.२६ ॥ त्रिशूलपिङ्गलो देवो नागयज्ञोपवीतवान् । तं प्राह भगवान् ब्रह्मा शङ्करं नीललोहितम् ॥ २,३१.२७ ॥ जानामि भवतः पूर्वं ललाटादेव शङ्कर । प्रादुर्भावं महेशान्मामेव शरणं व्रज ॥ २,३१.२८ ॥ श्रुत्वा सगर्ववचनं पद्मयोनेरथेश्वरः । प्राहिणोत्पुरुषं कालं भैरवं लोकदाहकम् ॥ २,३१.२९ ॥ स कृत्वा सुमहद्युद्धं ब्रह्मणा कालभैरवः । चकर्त तस्य वदनं विरिञ्चस्याथ पञ्चमम् ॥ २,३१.३० ॥ निकृत्तवदनो देवो ब्रह्मा देवेन शंभुना । ममार चेशयोगेन जीवितं प्राप विश्वसृक् ॥ २,३१.३१ ॥ अथानुपश्यद्गिरिशं मण्डलान्तरसंस्थितम् । समासीनं महादेव्या महादेवं सनातनम् ॥ २,३१.३२ ॥ भुजङ्गराजवलयं चन्द्रावयवभूषणम् । कोटिसूर्यप्रतीकाशं जटाजूटविराजितम् ॥ २,३१.३३ ॥ शार्दूलचर्मवसनं दिव्यमालासमन्वितम् । त्रिशूलपाणिं दुष्प्रेक्ष्यं योगिनं भूतिभूषणम् ॥ २,३१.३४ ॥ यमन्तरा योगनिष्ठाः प्रपश्यन्ति हृदीश्वरम् । तमादिदेवं ब्रह्माणं महादेवं ददर्श ह ॥ २,३१.३५ ॥ यस्य सा परमा देवी शक्तिराकाशसंस्थिता । सोऽनन्तैश्वर्ययोगात्मा महेशो दृश्यते किल ॥ २,३१.३६ ॥ यस्याशेषजगद्बीजं विलयं याति मोहनम् । सकृत्प्रणाममात्रेण स रुद्रः खलु दृश्यते ॥ २,३१.३७ ॥ योऽथ नाचारनिरतान् स्वभक्तानेव केवलम् । विमोचयति लोकानां नायको दृश्यते किल ॥ २,३१.३८ ॥ यस्य वेदविदः शान्ता निर्द्वन्द्वा ब्रह्मचारिणः । विदन्ति विमलं रूपं स शंभुर्दृश्यते किल ॥ २,३१.३९ ॥ यस्य ब्रह्मादयो देवा ऋषयो ब्रह्मवादिनः । अर्चयन्ति सदा लिङ्गं विश्वेशः खलु दृश्यते ॥ २,३१.४० ॥ यस्याशेषजगद्बीजं विलयं याति मोहनम् । सकृत्प्रणाममात्रेण स रुद्रः खलु दृश्यते ॥ २,३१.४१ ॥ विद्यासहायो भगवान् यस्यासौ मण्डलान्तरम् । हिरण्यगर्भपुत्रोऽसावीश्वरो दृश्यते किल ॥ २,३१.४२ ॥ यस्याशेषजगत्सूतिर्विज्ञानतनुरीश्वरी । न मुञ्चति सदा पार्श्वं शङ्करोऽसावदृश्यत ॥ २,३१.४३ ॥ पुष्पं वा यदि वा पत्रं यत्पादयुगले जलम् । दत्त्वा तरति संसारं रुद्रोऽसौ दृश्यते किल ॥ २,३१.४४ ॥ तत्सन्निधाने सकलं नियच्छति सनातनः । कालः किल स योगात्मा कालकालो हि दृश्यते ॥ २,३१.४५ ॥ जीवनं सर्वलोकानां त्रिलोकस्यैव भूषणम् । सोमः स दृश्यते देवः सोमो यस्य विभूषणम् ॥ २,३१.४६ ॥ देव्या सह सदा साक्षाद्यस्य योगः स्वभावतः । गीयते परमा मुक्तिः स योगी दृश्यते किल ॥ २,३१.४७ ॥ योगिनो योगतत्त्वज्ञा वियोगाभिमुखानिशम् । योगं ध्यायन्ति देव्यासौ स योगी दृश्यते किल ॥ २,३१.४८ ॥ सोऽनुवीक्ष्य महादेवं महादेव्या सनातनम् । वरासने समासीनमवाप परमां स्मृतिम् ॥ २,३१.४९ ॥ लब्ध्वा माहेश्वरीं दिव्यां संस्मृतिं भगवानजः । तोषयामास वरदं सोमं सोमविभूषणम् ॥ २,३१.५० ॥ ब्रह्मोवाच नमो देवाय महते महादेव्यै नमो नमः । नमः शिवाय शान्ताय शिवायै शान्तये नमः ॥ २,३१.५१ ॥ ओं नमो ब्रह्मणे तुभ्यं विद्यायै ते नमो नमः । नमो मूलप्रकृतये महेशाय नमो नमः ॥ २,३१.५२ ॥ नमो विज्ञानदेहाय चिन्तायै ते नमो नमः । नमस्ते कालकालाय ईश्वरायै नमो नमः ॥ २,३१.५३ ॥ नमो नमोऽस्तु रुद्राय रुद्राण्यै ते नमो नमः । नमो नमस्ते कामाय मायायै च नमो नमः ॥ २,३१.५४ ॥ नियन्त्रे सर्वकार्याणां क्षोभिकायै नमो नमः । नमोऽस्तु ते प्रकृतये नमो नारायणाय च ॥ २,३१.५५ ॥ योगादायै नमस्तुभ्यं योगिनां गुरवे नमः । नमः संसारनाशाय संसारोत्पत्तये नमः ॥ २,३१.५६ ॥ नित्यानन्दाय विभवे नमोऽस्त्वानन्दमूर्तये । नमः कार्यविहीनाय विश्वप्रकृतये नमः ॥ २,३१.५७ ॥ ओङ्कारमूर्तये तुभ्यं तदन्तः संस्थिताय च । नमस्ते व्योमसंस्थाय व्योमशक्त्यै नमो नमः ॥ २,३१.५८ ॥ इति सोमाष्टकेनेशं प्रणनाम पितामहः । पपात दण्डवद्भूमौ गृणन् वै शतरुद्रियम् ॥ २,३१.५९ ॥ अथ देवो महादेवः प्रणतार्तिहरो हरः । प्रोवाचोत्थाप्य हस्ताभ्यां प्रतोऽस्मि तव सांप्रतम् ॥ २,३१.६० ॥ दत्त्वासौ परमं योगमैश्वर्यमतुलं महत् । प्रोवाचाग्रे स्थितं देवं नीललोहितमीश्वरम् ॥ २,३१.६१ ॥ एष ब्रह्मास्य जगतः संपूज्यः प्रथमः सुतः । आत्मनो रक्षणीयस्ते गुरुर्ज्येष्ठः पिता तव ॥ २,३१.६२ ॥ अयं पुराणपुरुषो न हन्तव्यस्त्वयानघ । स्वयोगैश्वर्यमाहात्म्यान्मामेव शरणं गतः ॥ २,३१.६३ ॥ अयं च यज्ञो भगवान् सगर्वो भवतानघ । शासितव्यो विरिञ्चस्य धारणीयं शिरस्त्वया ॥ २,३१.६४ ॥ ब्रह्महत्यापनोदार्थं व्रतं लोकाय दर्शयन् । चरस्व सततं भिक्षां संस्थापय सुरद्विजान् ॥ २,३१.६५ ॥ इत्येतदुक्त्वा वचनं भगवान् परमेश्वरः । स्थानं स्वाभाविकं दिव्यं ययौ तत्परमं पदम् ॥ २,३१.६६ ॥ ततः स भगवानीशः कपर्दे नीललोहितः । ग्राहयामास वदनं ब्रह्मणः कालभैरवम् ॥ २,३१.६७ ॥ चर त्वं पापनाशार्थं व्रतं लोकहितावहम् । कपालहस्तो भगवान् भिक्षां गृह्णातु सर्वतः ॥ २,३१.६८ ॥ उक्त्वैवं प्राहिणोत्कन्यां ब्रह्महत्यामिति श्रुताम् । दंष्ट्राकरालवदनां ज्वालामालाविभूषणाम् ॥ २,३१.६९ ॥ यावद्वाराणसीं दिव्यां पुरीमेष गमिष्यति । तावत्त्वं भीषणे कालमनुगच्छ त्रिलोचनम् ॥ २,३१.७० ॥ एवमाभाष्य कालाग्निं प्राह देवो महेश्वरः । अटस्व निखिलं लोकं भिक्षार्थो मन्नियोगतः ॥ २,३१.७१ ॥ यदा द्रक्ष्यसि देवेशं नारायणमनामयम् । तदासौ वक्ष्यति स्पष्टमुपायं पापशोधनम् ॥ २,३१.७२ ॥ स देवदेवतावाक्यमाकर्ण्य भगवान् हरः । कपालपाणिर्विश्वात्मा चचार भुवनत्रयम् ॥ २,३१.७३ ॥ आस्थाय विकृतं वेषं दीप्यमानं स्वतेजसा । श्रीमत्पवित्रमतुलं जटाजूटविराजितम् ॥ २,३१.७४ ॥ कोटिसूर्यप्रतीकाशैः प्रमथैश्चातिगर्वितैः । भाति कालाग्निनयनो महादेवः समावृतः ॥ २,३१.७५ ॥ पीत्वा कदमृतं दिव्यमानन्दं परमेष्ठिनः । लीलाविलासूबहुलो लोकानागच्छतीश्वरः ॥ २,३१.७६ ॥ तं दृष्ट्वा कालवदनं शङ्करं कालभैरवम् । रूपलावण्यसंपन्नं नारीकुलमगादनु ॥ २,३१.७७ ॥ गायन्ति विविधं गीतं नृत्यन्ति पुरतः प्रभोः । सस्मितं प्रेक्ष्य वदनं चक्रुर्भ्रूभङ्गमेव च ॥ २,३१.७८ ॥ स देवदानवादीनां देशानभ्येत्य शूलधृक् । जगाम विष्णोर्भवनं यत्रास्ते मधुसूदनः ॥ २,३१.७९ ॥ निरीक्ष्य दिव्यभवनं शङ्करो लोकशङ्करः । सहैव भूतप्रवरैः प्रवेष्टुमुपचक्रमे ॥ २,३१.८० ॥ अविज्ञाय परं भावं दिव्यं तत्पारमेश्वरम् । न्यवारयत्त्रिशूलाङ्कं द्वारपालो महाबलः ॥ २,३१.८१ ॥ शङ्खचक्रगदापाणिः पीतवासा महाभुजः । विष्वक्सेन इति ख्यातो विष्णोरंशसमुद्भवः ॥ २,३१.८२ ॥ अथैनं शङ्करगणो युयुधे विष्णुसंभवम् । भीषणो भैरवादेशात्कालवेग इति श्रुतः ॥ २,३१.८३ ॥ विजित्य तं कालवेगं क्रोधसंरक्तलोचनः । रुद्रायाभिमुखं रौद्रं चिक्षेप च सुदर्शनम् ॥ २,३१.८४ ॥ अथ देवो महादेवस्त्रिपुरारिस्त्रिशूलभृत् । तमापतन्तं सावज्ञमालोकयदमित्रजित् ॥ २,३१.८५ ॥ तदन्तरे महद्भूतं युगान्तदहनोपमम् । शूलेनोरसि निर्भिद्य पातयामास तं भुवि ॥ २,३१.८६ ॥ स शूलाभिहतोऽत्यर्थं त्यक्त्वा स्वं परमं बलम् । तत्याज जीवितं दृष्ट्वा मृत्युं व्याधिहता इव ॥ २,३१.८७ ॥ निहत्य विष्णुपुरुषं सार्धं प्रमथपुङ्गवैः । विवेश चान्तरगृहं समादाय कलेवरम् ॥ २,३१.८८ ॥ निरीक्ष्य जगतो हेतुमीश्वरं भगवान् हरिः । शिरो ललाटात्संभिद्य रक्तधारामपातयत् ॥ २,३१.८९ ॥ गृहाण भगवन् भिक्षां मदीयाममितद्युते । न विद्यतेऽनाभ्युदिता तव त्रिपुरमर्दन ॥ २,३१.९० ॥ न संपूर्णं कपालं तद्ब्रह्मणः परमेष्ठिनः । दिव्यं वर्षसहस्रं तु सा च धारा प्रवाहिता ॥ २,३१.९१ ॥ अथाब्रवीत्कालरुद्रं हरिर्नारायणः प्रभुः । संस्तूय वैदिकैर्मन्त्रैर्बहुमानपुरः सरम् ॥ २,३१.९२ ॥ किमर्थमेतद्वदनं ब्रह्मणो भवता धृतम् । प्रोवाच वृत्तमखिलं भगवान् परमेश्वरः ॥ २,३१.९३ ॥ समाहूय हृषीकेशो ब्रह्महत्यामथाच्युतः । प्रार्थयामास देवेशो विमुञ्चेति त्रिशूलिनम् ॥ २,३१.९४ ॥ न तत्याजाथ सा पार्श्वं व्याहृतापि मुरारिणा । चिरं ध्यात्वा जगद्योनिः शङ्करं प्राह सर्ववित् ॥ २,३१.९५ ॥ व्रजस्व भगवन् दिव्यां पुरीं वाराणसीं शुभाम् । यत्राखिलजगद्दोषं क्षिप्रं नाशयताश्वरः ॥ २,३१.९६ ॥ ततः शर्वाणि गुह्यानि तीर्थान्यायतनानि च । जगाम लीलया देवो लोकानां हितकाम्यया ॥ २,३१.९७ ॥ संस्तूयमानः प्रमथैर्महायोगैरितस्ततः । नृत्यमानो महायोगी हस्तन्यस्तकलेवरः ॥ २,३१.९८ ॥ तमभ्यधावद्भगवान् हरिर्नारायणः स्वयम् । अथास्थायापरं रूपं नृत्यदर्शनलालसः ॥ २,३१.९९ ॥ निरीक्षमाणो नोविन्दं वृषेन्द्राङ्कितशासनः । सस्मितोऽनन्तयोगात्मा नृत्यति स्म पुनः पुनः ॥ २,३१.१०० ॥ अथ सानुचरो रुद्रः सहरिर्धर्मवाहनः । भेजे महादेवपुरीं वाराणसीमिति श्रुताम् ॥ २,३१.१०१ ॥ प्रविष्टमात्रे देवेशे ब्रह्महत्या कपर्दिनि । हा हेत्युक्त्वा सनादं सा पातालं प्राप दुः खिता ॥ २,३१.१०२ ॥ प्रविश्य परमं स्थानं कपालं ब्रह्मणो हरः । गणानामग्रतो देवः स्थापयामास शङ्करः ॥ २,३१.१०३ ॥ स्थापयित्वा महादेवो ददौ तच्च कलेवरम् । उक्त्वा सजीवमस्त्वीशो विष्णवे स घृणानिधिः ॥ २,३१.१०४ ॥ ये स्मरन्ति ममाजस्त्रं कापालं वेषमुत्तमम् । तेषां विनश्यति क्षिप्रमिहामुत्र च पातकम् ॥ २,३१.१०५ ॥ आगम्य तीर्थप्रवरे स्नानं कृत्वा विधानतः । तर्पयित्वा पितॄन् देवान्मुच्यते ब्रह्महत्यया ॥ २,३१.१०६ ॥ अशाश्वतं जगज्ज्ञात्वा येऽस्मिन् स्थाने वसन्ति वै । देहान्ते तत्परं ज्ञानं ददामि परमं पदम् ॥ २,३१.१०७ ॥ इतीदमुक्त्वा भगवान् समालिङ्ग्य जनार्दनम् । सहैव प्रमथेशानैः क्षणादन्तरधीयत ॥ २,३१.१०८ ॥ स लब्ध्वा भगवान् कृष्णो विष्वक्सेनं त्रिशूलिनः । स्वं देशमगत्तूर्णं गृहीत्वां परमं वपुः ॥ २,३१.१०९ ॥ एतद्वः कथितं पुण्यं महापातकनाशनम् । कपालमोचनं तीर्थं स्थाणोः प्रियकरं शुभम् ॥ २,३१.११० ॥ य इमं पठतेऽध्यायं ब्राह्मणानां समीपतः । वाचिकैर्मानसैः पापैः कायिकैश्च विमुच्यते ॥ २,३१.१११ ॥ इति श्रीकूर्मपाराणे षट्साहस्त्र्यां संहितायामुपरिविभागे एकत्रिशोऽध्यायः _____________________________________________________________ व्यास उवाच सुरापस्तु सुरां तप्तामग्निवर्णां स्वयं पिबेत् । तया स काये निर्दग्धे मुच्यते तु द्विजोत्तमः ॥ २,३२.१ ॥ गोमूत्रमग्निवर्णं वा गोशकृद्रसमेव वा । पयो घृतं जलं वाथ मुच्यते पातकात्ततः ॥ २,३२.२ ॥ जलार्द्रवासाः प्रयतो ध्यात्वा नारायणं हरिम् । ब्रह्महत्याव्रतं चाथ चरेत्तत्पापशान्तये ॥ २,३२.३ ॥ सुवर्णस्तेयकृद्विप्रो राजानमभिगम्य तु । स्वकर्म ख्यापयन् ब्रूयान्मां भवाननुशास्त्विति ॥ २,३२.४ ॥ गृहीत्वा मुसलं राजा सकृधन्यात्ततः स्वयम् । वधे तु शुद्ध्यते स्तेनो ब्राह्मणस्तपसैव वा ॥ २,३२.५ ॥ स्कन्धेनादाय मुसलं लकुटं वापि खादिरम् । शक्तिं चोभयतस्तीक्ष्णामायसं दण्डमेव वा ॥ २,३२.६ ॥ राजा तेन च गन्तव्यो मुक्तकेशेन धावता । आचक्षाणेन तत्पापमेवङ्कर्मास्मि शाधि माम् ॥ २,३२.७ ॥ शासनाद्वा विमोक्षाद्वा स्तेनः स्तेयाद्विमुच्यते । अशासित्वा तु तं राजास्तेनस्याप्नोति किल्बिषम् ॥ २,३२.८ ॥ तपसापनुनुत्सुस्तु सुवर्णस्तेयजं मलम् । चीरवासा द्विजोऽरण्ये चरेद्ब्रह्महणो व्रतम् ॥ २,३२.९ ॥ स्नात्वाश्वमेधावभृथे पूतः स्यादथवा द्विजः । प्रदद्याद्वाथ विप्रेभ्यः स्वात्मतुल्यं हिरण्यकम् ॥ २,३२.१० ॥ चरेद्वा वत्सरं कृच्छ्रं ब्रह्मचर्यपरायणः । ब्राह्मणः स्वर्णहारी तु तत्पापस्यापनुत्तये ॥ २,३२.११ ॥ गुरोर्भार्यां समारुह्य ब्राह्मणः काममोहितः । अवगूहेत्स्त्रियं तप्तां दीप्तां कार्ष्णायसीं कृताम् ॥ २,३२.१२ ॥ स्वयं वा शिश्नवृषणावुत्कृत्याधाय चाञ्चलौ । आतिष्ठेद्दक्षिणामाशामानिपातादजिह्मगः ॥ २,३२.१३ ॥ गुर्वर्थं वा हतः शुद्ध्येच्चरेद्वा ब्रह्महा व्रतम् । शाखां वा कण्टकोपेतां परिष्वज्याथ वत्सरम् । अधः शयीत नियतो मुच्यते गुरुतल्पगः ॥ २,३२.१४ ॥ कृच्छ्रं वाब्दं चरेद्विप्रश्चीरवासाः समाहितः । अश्वमेधावभृथके स्नात्वा वा शुद्ध्यते नरः ॥ २,३२.१५ ॥ कालेऽष्टमे वा भुञ्जानो ब्रह्मचारी सदाव्रती । स्थानासनाभ्यां विहरंस्त्रिरह्नोऽभ्युपयन्नपः ॥ २,३२.१६ ॥ अधः शायी त्रिभिर्वर्षैस्तद्व्यपोहति पातकम् । चान्द्रायणानि वा कुर्यात्पञ्च चत्वारि वा पुनः ॥ २,३२.१७ ॥ पतितैः संप्रयुक्तानामथ वक्ष्यामि निष्कृतिम् । पतितेन तु संसर्गं यो येन कुरुते द्विजः । स तत्पापापनोदार्थं तस्यैव व्रतमाचरेत् ॥ २,३२.१८ ॥ तप्तकृच्छ्रं चरेद्वाथ संवत्सरमतन्द्रितः । षाण्मासिके तु संसर्गे प्रायश्चित्तार्धमर्हति ॥ २,३२.१९ ॥ एभिर्व्रतैरपोहन्ति महापातकिनो मलम् । पुण्यतीर्थाभिगमनात्पृथिव्यां वाथ निष्कृतिः ॥ २,३२.२० ॥ ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । कृत्वा तैश्चापि संसर्गं ब्राह्मणः कामकारतः ॥ २,३२.२१ ॥ कुर्यादनशनं विप्रः पुण्यतीर्थे समाहितः । ज्वलन्तं वा विशेदग्निं ध्यात्वा देवं कपर्दिनम् ॥ २,३२.२२ ॥ न ह्यन्या निष्कृतिर्दृष्टा मुनिभिर्धर्मवादिभिः । तस्मात्पुण्येषु तीर्थेषु दहेद्वापि स्वदेहकम् ॥ २,३२.२३ ॥ गत्वा दुहितरं विप्रः स्वसारं वा स्नुषामपि । प्रविशेज्ज्वलनं दीप्तं मतिपूर्वमिति स्थितिः ॥ २,३२.२४ ॥ मातृष्वसां मातुलानीं तथैव च पितृष्वसाम् । भागिनेयीं समारुह्य कुर्यात्कृच्छ्रातिकृच्छ्रकौ ॥ २,३२.२५ ॥ चान्द्रायणं च कुर्वोत तस्य पापस्य शान्तये । ध्यायन् देवं जगद्योनिमनादिनिधनं परम् ॥ २,३२.२६ ॥ भ्रातृभार्यां समारुह्य कुर्यात्तत्पापशान्तये । चान्द्रायणानि चत्वारि पञ्च वा सुसमाहितः ॥ २,३२.२७ ॥ पैतृष्वस्त्रेयीं गत्वा तु स्वस्त्रेयां मातुरेव च । मातुलस्य सुतां वापि गत्वा चान्द्रायणं चरेत् ॥ २,३२.२८ ॥ सखिभार्यां समारुह्य गत्वा श्यालीं तथैव च । अहोरात्रोषितो भूत्वा तप्तकृच्छ्रं समाचरेत् ॥ २,३२.२९ ॥ उदक्यागमने विप्रस्त्रिरात्रेण विशुध्यति । चाण्डालीगमने चैव तप्तकृच्छ्रत्रयं विदुः । सह सांतपनेनास्य नान्यथा निष्कृतिः स्मृता ॥ २,३२.३० ॥ मातृगोत्रां समासाद्य समानप्रवरां तथा । चाद्रायणेन शुध्येत प्रयतात्मा समाहितः ॥ २,३२.३१ ॥ ब्राह्मणो ब्राह्मणीं गत्वा गृच्छ्रमेकं समाचरेत् । कन्यकां दूषयित्वा तु चरेच्चान्द्रायणव्रतम् ॥ २,३२.३२ ॥ अमानुषीषु पुरुष उदक्यायामयोनिषु । रेतः सिक्त्वा जले चैव कृच्छ्रं सान्तपनं चरेत् ॥ २,३२.३३ ॥ बन्धकीगमने विप्रस्त्रिरात्रेण विशुद्ध्यति । गवि भथुनमासेव्य चरेच्चान्द्रायणव्रतम् ॥ २,३२.३४ ॥ अजावी मैथुनं कृत्वा प्राजापत्यं चरेद्द्विजः । पतितां च स्त्रियं गत्वा त्रिभिः कृच्छ्रै र्विशुद्ध्यति ॥ २,३२.३५ ॥ पुल्कसीगमने चैव क्रच्छ्रं चान्द्रायणं चरेत् । नटीं शैलूषकीं चैव रजकीं वेणुजीविनीम् । गत्वा चान्द्रायणं कुर्यात्तथा चर्मोपजीविनीम् ॥ २,३२.३६ ॥ ब्रहामचारी स्त्रियं गच्छेत्कथञ्चित्काममोहितः । सप्तगारं चरेद्भैक्षं वसित्वा गर्दभाजिनम् ॥ २,३२.३७ ॥ उपस्पृशेत्त्रिषवणं स्वपापं परिकीर्तयन् । संवत्सरेण चैकेन तस्मात्पापात्प्रमुच्यते ॥ २,३२.३८ ॥ ब्रह्महत्याव्रतं वापि षण्मासानाचरेद्यमी । मुच्यते ह्यवकीर्णो तु ब्राह्मणानुमते स्थितः ॥ २,३२.३९ ॥ सप्तरात्रमकृत्वा तु भैक्षचर्याग्निपूजनम् । रेतसश्च समुत्सर्गे प्रायश्चित्तं समाचरेत् ॥ २,३२.४० ॥ ओङ्कारपूर्विकाभिस्तु महाव्याहृतिभिः सदा । संवत्सरं तु भुञ्जानो नक्तं भिक्षाशनः शुचिः ॥ २,३२.४१ ॥ सावित्रीं च जपेच्चैव नित्यं क्रोधविवर्जितः । नदीतीरेषु तीर्थेषु तस्मात्पापाद्विमुच्यते ॥ २,३२.४२ ॥ हत्वा तु क्षत्रियं विप्रः कुर्याद्ब्रह्महणो व्रतम् । अकामतो वै षण्मासान् दद्यान् पञ्चशतं गवाम् ॥ २,३२.४३ ॥ अब्दं चरेत नियतो वनवासी समाहितः । प्राजापत्यं सान्तपनं तप्तकृच्छ्रं तु वा स्वयम् ॥ २,३२.४४ ॥ प्रमाप्याकामतो वैश्यं कुर्यात्संवत्सरद्वयम् । गोसहस्रं सपादं च दद्याद्ब्रह्महणो व्रतम् । कृच्छ्रातिकृच्छ्रौ वा कुर्याच्चान्द्रायणमथावि वा ॥ २,३२.४५ ॥ संवत्सरं व्रतं कुर्याच्छूद्रं हत्वा प्रमादतः । गोसहस्रार्धपादं च दद्यात्तत्पापशान्तये ॥ २,३२.४६ ॥ अष्टौ वर्षाणि षट्त्रीणि कुर्याद्ब्रह्महणो व्रतम् । हत्वा तु क्षत्रियं वैश्यं शूद्रं चैव यथाक्रमम् ॥ २,३२.४७ ॥ निहत्य ब्राह्मणीं विप्रस्त्वष्टवर्षं व्रतं चरेत् । राजन्यां वर्षषट्कं तु वैश्यां संवत्सरत्रयम् । वत्सरेण विशुद्ध्येत शूद्रां हत्वा द्विजोत्तमः ॥ २,३२.४८ ॥ वैश्यां हत्वा प्रमादेन किञ्चिद्दद्याद्द्विजातये । अन्त्यजानां वधे चैव कुर्याच्चान्द्रायणं व्रतम् । पराकेणाथवा शुद्धिरित्याह भगवानजः ॥ २,३२.४९ ॥ मण्डूकं नकुलं काकं दन्दशूकं च मूषिकम् । श्वानं हत्वा द्विजः कुर्यात्षोडशांशं व्रतं ततः ॥ २,३२.५० ॥ पयः पिबेत्त्रिरात्रं तु श्वानं हत्वा सुयन्त्रितः । मार्जारं वाथ नकुलं योजनं वाध्वनो व्रजेत् । कृच्छ्रं द्वादशरात्रं तु कुर्यादश्ववधे द्विजः ॥ २,३२.५१ ॥ अभ्रीं कार्ष्णायसीं दद्यात्सर्पं हत्वा द्विजोत्तमः । पलालभारं षण्डं च सैसकं चैकमाषकम् ॥ २,३२.५२ ॥ धृतकुम्भं वराहं च तिलद्रोणं च तित्तिरिम् । शुकं द्विहायनं वत्सं क्रौञ्चं हत्वा त्रिहायनम् ॥ २,३२.५३ ॥ हत्वा हंसं बलाकां च बकं बर्हिणमेव च । वानरं श्येनभासौ च स्पर्शयेद्ब्राह्मणाय गाम् ॥ २,३२.५४ ॥ क्रव्यादांस्तु मृगान् हत्वा धेनुं दद्यात्पयस्विनीम् । अक्रव्यादान् वत्सतरीमुष्ट्रं हत्वा तु कृष्णलम् ॥ २,३२.५५ ॥ किञ्चिदेव तु विप्राय दद्यादस्थिमतां वधे । अनस्थ्नां चैव हिंसायां प्राणायामेन शुध्यति ॥ २,३२.५६ ॥ फलदानां तु वृक्षाणां छेदने जप्यमृक्शतम् । गुल्मवल्लीलतानां तु पुष्पितानां च वीरुधाम् ॥ २,३२.५७ ॥ अन्येषां चैव वृक्षाणां सरसानां च सर्वशः । फलपुष्पोद्भवानां च घृतप्राशो विशोधनम् ॥ २,३२.५८ ॥ हस्तिनां च वधे दृष्टं तप्तकृच्छ्रं विशोधनम् । चान्द्रायणं पराकं वा गां हत्वा तु प्रमादतः । मतिपूर्वं वधे चास्याः प्रायश्चित्तं न विद्यते ॥ २,३२.५९ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे द्वात्रिशोऽध्यायः _____________________________________________________________ व्यास उवाच मनुष्याणां तु हरणं कृत्वा स्त्रीणां गृहस्य च । वापीकूपजलानां च शुध्येच्चान्द्रायणेन तु ॥ २,३३.१ ॥ द्रव्याणामल्पसाराणां स्तेयं कृत्वान्यवेश्मतः । चरेत्सांतपनं कृच्छ्रं तन्निर्यात्यात्मशुद्धये ॥ २,३३.२ ॥ धान्यान्नधनचौर्यं तु कृत्वा कामाद्द्विजोत्तमः । स्वजातीयगृहादेव कृच्छ्रार्धेन विशुद्ध्यति ॥ २,३३.३ ॥ भक्षभोज्यापहरणे यानशय्यासनस्य च । पुष्पमूलफलानां च पञ्चगव्यं विशोधनम् ॥ २,३३.४ ॥ तृणकाष्ठद्रुमाणां च शुष्कान्नस्य गुडस्य च । चैलचर्मामिषाणां च त्रिरात्रं स्यादभोजनम् ॥ २,३३.५ ॥ मणिमुक्ताप्रवालानां ताम्रस्य रजतस्य च । अयः कांस्योपलानां च द्वादशाहं कणाशनम् ॥ २,३३.६ ॥ कार्पासकीटजोर्णानां द्विशफैकशफस्य च । पक्षिगन्धौषधीनां च रज्वाश्चैव त्र्यहं पयः ॥ २,३३.७ ॥ नरमांसाशनं कृत्वा चान्द्रायणमथाचरेत् । काकं चैव तथा श्वानं जग्ध्वा हस्तिनमेव च । वराहं कुक्कुटं चाथ तप्तकृच्छ्रेण शुध्यति ॥ २,३३.८ ॥ क्रव्यादानां च मांसानि पुरीषं मूत्रमेव च । गोगोमायुकपीनां च तदेव व्रतमाचरेत् । उपोष्य द्वादशाहं तु कूष्माण्डैर्जुहुयाद्घृतम् ॥ २,३३.९ ॥ नकुलोलूकमार्जारं जग्ध्वा सांतपनं चरेत् । श्वापदोष्ट्रखराञ्जग्ध्वा तप्तकृच्छ्रेण शुद्ध्यति । व्रतवच्चैव संस्कारं पूर्वेण विधिनैव तु ॥ २,३३.१० ॥ बकं चैव बलाकं च हंसं कारण्डवं तथा । चक्रवाकं प्लवं जग्घ्वा द्वादशाहमभोजनम् ॥ २,३३.११ ॥ कपोतं टिट्टिभं चैव शुकं सारसमेव च । उलूकं जालपादं च जग्ध्वाप्येतद्व्रतं चरेत् ॥ २,३३.१२ ॥ शिशुमारं तथा चाषं मत्स्यमांसं तथैव च । जग्ध्वा चैव कटाहारमेतदेव चरेद्व्रतम् ॥ २,३३.१३ ॥ कोकिलं चैव मत्स्यांश्च मण्डुकं भुजगं तथा । गोमूत्रयावकाहारो मासेनैकेन शुद्ध्यति ॥ २,३३.१४ ॥ जलेचरांश्च जलजान् प्रत्तुदान्नखविष्किरान् । रक्तपादांस्तथा जग्ध्वा सप्ताहं चैतदाचरेत् ॥ २,३३.१५ ॥ शुनो मांसं शुष्कमांसमात्मार्थं च तथा कृतम् । भुक्त्वा मासं चरेदेतत्तत्पापस्यापनुत्तये ॥ २,३३.१६ ॥ वार्ताकं भुस्तृणं शिग्रुं खुखुण्डं करकं तथा । प्राजापत्यं चरेज्जग्ध्वा शङ्खं कुम्भीकमेव च ॥ २,३३.१७ ॥ पलाण्डुं लशुनं चैव भुक्त्वा चान्द्रायणं चरेत् । नालिकां तण्डुलीयं च प्राजापत्येन शुद्ध्यति ॥ २,३३.१८ ॥ अश्मान्तकं तथा पोतं तप्तकृच्छ्रेण शुद्ध्यति । प्राजापत्येन शुद्धिः स्यात्कक्कुभाण्डस्य भक्षणे ॥ २,३३.१९ ॥ अलाबुं किंशुकं चैव भुक्त्वा चैतद्व्रतं चरेत् । उदुम्बरं च कामेन तप्तकृच्छ्रेण शुद्ध्यति ॥ २,३३.२० ॥ वृथा कृसरसंयावं पायसापूपसंकुलम् । भुक्त्वा चैवं विधं त्वन्नं त्रिरात्रेण विशुद्ध्यति ॥ २,३३.२१ ॥ पीत्वा क्षीराण्यपेयानि ब्रह्मचारी समाहितः । गोमूत्रयावकाहारो मासेनैकेन शुद्ध्यति ॥ २,३३.२२ ॥ अनिर्दशाहं गोक्षीरं माहिषं चाजमेव च । संधिन्याश्च विवत्सायाः पिबन् क्षीरमिदं चरेत् ॥ २,३३.२३ ॥ एतेषां च विकाराणि पीत्वा मोहेन मानवः । गोमूत्रयावकाहारः सप्तरात्रेण शुद्ध्यति ॥ २,३३.२४ ॥ भुक्त्वा चैव नवश्राद्धे मृतके सूतके तथा । चान्द्रायणेन शुद्ध्येत ब्राह्मणस्तु समाहितः ॥ २,३३.२५ ॥ यस्याग्नौ हूयते नित्यं न यस्याग्रं न दीयते । चान्द्रायणं चरेत्सम्यक्तस्यान्नप्राशने द्विजः ॥ २,३३.२६ ॥ अभोज्यानां तु सर्वेषां भुक्त्वा चान्नमुपस्कृतम् । अन्तावसायिनां चैव तप्तकृच्छ्रेण शुद्ध्यति ॥ २,३३.२७ ॥ चाण्डालान्नं द्विजो भुक्त्वा सम्यक्चान्द्रायणं चरेत् । बुद्धिपूर्वं तु कृच्छ्राब्दं पुनः संस्कारमेव च ॥ २,३३.२८ ॥ असुरामद्यपानेन कुर्याच्चान्द्रायणव्रतम् । अभोज्यान्नं तु भुक्त्वा च प्राजापत्येन शुद्ध्यति ॥ २,३३.२९ ॥ विण्मूत्रपाशनं कृत्वा रेतसश्चैतदाचरेत् । अनादिष्टेषु चैकाहं सर्वत्र तु यथार्थतः ॥ २,३३.३० ॥ विड्वराहखरोष्ट्राणां गोमायोः कपिकाकयोः । प्राश्य मूत्रपुरीषाणि द्विजश्चान्द्रायणं चरेत् ॥ २,३३.३१ ॥ अज्ञानात्प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च । पुनः संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥ २,३३.३२ ॥ क्रव्यादां पक्षिणां चैव प्राश्य मूत्रपुरीषकम् । महासांतपनं मोहात्तथा कुर्याद्द्विजोत्तमः । भासमण्डूककुररे विष्किरे कृच्छ्रमाचरेत् ॥ २,३३.३३ ॥ प्राजापत्येन शुद्ध्येत ब्राहामणोच्छिष्टभोजने । क्षत्रिये तप्तकृच्छ्रं स्याद्वैश्ये चैवातिकृच्छ्रकम् । शूद्रोच्छिष्टं द्विजो भुक्त्वा कुर्याच्चान्द्रायणव्रतम् ॥ २,३३.३४ ॥ सुराभाण्डोदरे वारि पीत्वा चान्द्रायणं चरेत् । शुनोच्छिष्टं द्विजो भुक्त्वा त्रिरात्रेण विशुद्ध्यति । गोमूत्रयावकाहारः पीतशेषं च रागवान् ॥ २,३३.३५ ॥ अपो मूत्रपुरीषाद्यैर्दूषिताः प्राशयेद्यदा । तदा सांतपनं प्रोक्तं व्रतं पापविशोधनम् ॥ २,३३.३६ ॥ चाण्डालकूपभाण्डेषु यदि ज्ञानात्पिबेज्जलम् । चरेत्सांतपनं कृच्छ्रं ब्राह्मणः पापशोधनम् ॥ २,३३.३७ ॥ चाण्डालेन तु संस्पृष्टं पीत्वा वारि द्विजोत्तमः । त्रिरात्रेण विशुद्ध्येत पञ्चगव्येन चैव हि ॥ २,३३.३८ ॥ महापातकिसंस्पर्शे भुङ्क्तेऽस्नात्वा द्विजो यदि । बुद्धिपूर्वं तु मूढात्मा तप्तकृच्छ्रं समाचरेत् ॥ २,३३.३९ ॥ स्पृष्ट्वा महापातकिनं चाण्डालं वा रजस्वलाम् । प्रमादाद्भोजनं कृत्वा त्रिरात्रेण विशुद्ध्यति ॥ २,३३.४० ॥ स्नानार्हे यदि भुञ्जीत अहोरात्रेण शुद्ध्यति । बुद्धिपूर्वं तु कृच्छ्रेण भगवानाह पद्मजः ॥ २,३३.४१ ॥ शुष्कपर्युषितादीनि गवादिप्रतिदूषितम् । भुक्त्वोपवासं कुर्वोत कृच्छ्रपादमथापि वा ॥ २,३३.४२ ॥ संवत्सरान्ते कृच्छ्रं तु चरेद्विप्रः पुनः पुनः । अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥ २,३३.४३ ॥ व्रात्यानां यजनं कृत्वा परेषामन्त्यकर्म च । अभिचारमहीनं च त्रिभिः कृच्छ्रैर्विशुद्ध्यति ॥ २,३३.४४ ॥ ब्राह्मणादिहतानां तु कृत्वा दाहादिकाः क्रियाः । गोमूत्रयावकाहारः प्राजापत्येन शुद्ध्यति ॥ २,३३.४५ ॥ तैलाभ्यक्तोऽथवा कुर्याद्यदि मूत्रपुरीषके । अहोरात्रेण शुद्ध्येत श्मश्रुकर्म च मैथुनम् ॥ २,३३.४६ ॥ एकाहेन विवाहाग्निं परिहार्य द्विजोत्तमः । त्रिरात्रेण विशद्ध्येत त्रिरात्रात्षडहं पुनः ॥ २,३३.४७ ॥ दशाहं द्वादशाहं वा परिहार्य प्रमादतः । कृच्छ्रं चान्द्रायणं कुर्यात्तत्पापस्यापनुत्तये ॥ २,३३.४८ ॥ पतिताद्द्रव्यमादाय तदुत्सर्गेण शुद्ध्यति । चरेत्सांतपनं कृच्छ्रमित्याह भगवान् प्रभुः ॥ २,३३.४९ ॥ अनाशकनिवृत्तास्तु प्रव्रज्यावसितास्तथा । चरेयुस्त्रीणि कृच्छ्राणि त्रीणि चान्द्रायणानि च ॥ २,३३.५० ॥ पुनश्च जातकर्मादिसंकारैः संस्कृता द्विजाः । शुद्ध्येयुस्तद्व्रतं सम्यक्चरेयुर्धर्मवर्धनाः ॥ २,३३.५१ ॥ अनुपासितसंध्यस्तु तदहर्यापको वसेत् । अनश्नन् संयतमना रात्रौ चेद्रात्रिमेव हि ॥ २,३३.५२ ॥ अकृत्वा समिदाधानं शुचिः स्नात्वा समाहितः । गायत्र्यष्टसहस्रस्य जप्यं कुर्याद्विशुद्धये ॥ २,३३.५३ ॥ उपासीत न चेत्संध्यां गृहस्थोऽपि प्रमादतः । स्नात्वा विशुद्ध्यते सद्यः परिश्रान्तस्तु संयमात् ॥ २,३३.५४ ॥ वेदोदितानि नित्यानि कर्माणि च विलोप्य तु । स्नातकव्रतलोपं तु कृत्वा चोपवसेद्दिनम् ॥ २,३३.५५ ॥ संवत्सरं चरेत्कृच्छ्रमग्न्युत्सादी द्विजोत्तमः । चान्द्रायणं चरेद्व्रात्यो गोप्रदानेन शुद्ध्यति ॥ २,३३.५६ ॥ नास्तिक्यं यदि कुर्वोत प्राजापत्यं चरेद्द्विजः । देवद्रोहं गुरुद्रोहं तप्तकृच्छ्रेण शुद्ध्यति ॥ २,३३.५७ ॥ उष्ट्रयानं समारुह्य खरयानं च कामतः । त्रिरात्रेण विशुद्ध्येत्तु नग्नो वा प्रविशेज्जलम् ॥ २,३३.५८ ॥ षष्ठान्नकालतामासं संहिताजप एव च । होमाश्च शाकला नित्यमपाङ्क्तानां विशोधनम् ॥ २,३३.५९ ॥ नीलं रक्तं वसित्वा च ब्राह्मणो वस्त्रमेव हि । अहोरात्रोषितः स्नातः पञ्चगव्येन शुद्ध्यति ॥ २,३३.६० ॥ वेदधर्मपुराणानां चण्डालस्य तु भाषणे । चान्द्रायणेन शुद्धिः स्यान्न ह्यन्या तस्य निष्कृतिः ॥ २,३३.६१ ॥ उद्बन्धनादिनिहतं संस्पृश्य ब्राह्मणः क्वचित् । चान्द्रायणेन शुद्धिः स्यात्प्राजापत्येन वा पुनः ॥ २,३३.६२ ॥ उच्छिष्टो यद्यनाचान्तश्चाण्डालादीन् स्पृशेद्द्विजः । प्रमादाद्वै जपेत्स्नात्वा गायत्र्यष्टसहस्रकम् ॥ २,३३.६३ ॥ द्रुपदानां शतं वापि ब्रह्मचारी समाहितः । त्रिरात्रोपोषितः सम्यक्पञ्चगव्येन शुद्ध्यति ॥ २,३३.६४ ॥ चण्डालपतितादींस्तु कामाद्यः संस्पृशेद्द्विजः । उच्छिष्टस्तत्र कुर्वोत प्राजापत्यं विशुद्धये ॥ २,३३.६५ ॥ चाण्डालसूतकशवांस्तथा नारीं रजस्वलाम् । स्पृष्ट्वा स्नायाद्विशुद्ध्यर्थं तत्स्पृष्टं पतितिं तथा ॥ २,३३.६६ ॥ चाण्डालसूतकशवैः संस्पृष्टं संस्पृशेद्यदि । प्रमादात्तत आचम्य जपं कुर्यात्समाहितः ॥ २,३३.६७ ॥ तत्स्पृष्टस्पर्शिनं स्पृष्ट्वा बुद्धिपूर्वं द्विजोत्तमः । आचमेत्तद्विशुद्ध्यर्थं प्राह देवः पितामहः ॥ २,३३.६८ ॥ भुञ्जानस्य तु विप्रस्य कदाचित्संस्त्रवेद्गुदम् । कृत्वा शौचं ततः स्नायादुपोष्य जुहुयाद्घृतम् ॥ २,३३.६९ ॥ चाण्डालान्त्यशवं स्पृष्ट्वा कृच्छ्रं कुर्याद्विशुद्धये । स्पृष्ट्वाभ्यक्तस्त्वसंस्पृश्यमहोरात्रेण शुद्ध्यति ॥ २,३३.७० ॥ सुरां स्पृष्ट्वा द्विजः कुर्यात्प्राणायामत्रयं शुचिः । पलाण्डुं लशुनं चैव घृतं प्राश्य ततः शुचिः ॥ २,३३.७१ ॥ ब्राह्मणस्तु शुना दष्टस्त्र्यहं सायं पयः पिबेत् । नाभेरूर्ध्वं तु दष्टस्य तदेव द्विगुणं भवेत् ॥ २,३३.७२ ॥ स्यादेतत्त्रिगुणं बाह्वोर्मूर्ध्नि च स्याच्चतुर्गुणम् । स्नात्वा जपेद्वा सावित्रीं श्वभिर्दष्टो द्विजोत्तमः ॥ २,३३.७३ ॥ अनिर्वर्त्य महायज्ञान् यो भुङ्क्ते तु द्विजोत्तमः । अनातुरः सति धने कृच्छ्रार्धेन स शुद्ध्यति ॥ २,३३.७४ ॥ आहिताग्निरुपस्थानं न कुर्याद्यस्तु पर्वणि । ऋतौ न गच्छेद्भार्यां वा सोऽपि कृच्छ्रार्धमाचरेत् ॥ २,३३.७५ ॥ विनाद्भिरप्सु नाप्यार्तः शरीरं सन्निवेश्य च । सचैलो जलमाप्लुत्य गामालभ्य विशुद्ध्यति ॥ २,३३.७६ ॥ बुद्धिपूर्वं त्वभ्युदितो जपेदन्तर्जले द्विजः । गायत्र्यष्टसहस्रं तु त्र्यहं चोपवसेद्व्रती ॥ २,३३.७७ ॥ अनुगम्येच्छया शूद्रं प्रेतीभूतं द्विजोत्तमः । गायत्र्यष्टसहस्रं च जप्यं कुर्यान्नदीषु च ॥ २,३३.७८ ॥ कृत्वा तु शपथं विप्रो विप्रस्य वधसंयुतम् । मृषैव यावकान्नेन कुर्याच्चान्द्रायणं व्रतम् ॥ २,३३.७९ ॥ पङ्क्त्यां विषमदानं तु कृत्वा कृच्छ्रेण शुद्ध्यति । छायां श्वपाकस्यारुह्य स्नात्वा संप्राशयेद्घृतम् ॥ २,३३.८० ॥ ईक्षेदादित्यमशुचिर्दृष्ट्वाग्निं चन्द्रमेव वा । मानुषं चास्थि संस्पृश्य स्नानं कृत्वा विशुद्ध्यति ॥ २,३३.८१ ॥ कृत्वा तु मिथ्याध्ययनं चरेद्भैक्षं तु वत्सरम् । कृतघ्नो ब्राह्मणगृहे पञ्च संवत्सरं व्रती ॥ २,३३.८२ ॥ हुङ्कारं ब्राह्मणस्योक्त्वा त्वङ्कारं च गरीयसः । स्नात्वानश्नन्नहः शेषं प्रणिपत्य प्रसादयेत् ॥ २,३३.८३ ॥ ताडयित्वा तृणेनापि कण्ठं बद्ध्वापि वाससा । विवादे वापि निर्जित्य प्रणिपत्य प्रसादयेत् ॥ २,३३.८४ ॥ अवगूर्य चरेत्कृच्छ्रमतिकृच्छ्रं निपातने । कृच्छ्रातिकृच्छ्रौ कुर्वोत विप्रस्योत्पाद्य शोणितम् ॥ २,३३.८५ ॥ गुरोराक्रोशमनृतं कृत्वा कुर्याद्विशोधनम् । एकरात्रं त्रिरात्रं वा तत्पापस्यापनुत्तये ॥ २,३३.८६ ॥ देवर्षोणामभिमुखं ष्ठीवनाक्रोशने कृते । उल्मुकेन दहेज्जिह्वां दातव्यं च हिरण्यकम् ॥ २,३३.८७ ॥ देवोद्याने तु यः कुर्यान्मूत्रोच्चारं सकृद्द्विजः । छिन्द्याच्छिश्नं तु शुद्ध्यर्थं चरेच्चान्द्रायणं तु वा ॥ २,३३.८८ ॥ देवतायतने मूत्रं कृत्वा मोहाद्द्विजोत्तमः । शिश्नस्योत्कर्तनं कृत्वा चान्द्रायणमथाचरेत् ॥ २,३३.८९ ॥ देवतानामृषीणां च देवानां चैव कुत्सनम् । कृत्वा सम्यक्प्रकुर्वोत प्राजापत्यं द्विजोत्तमः ॥ २,३३.९० ॥ तैस्तु संभाषणं कृत्वा स्नात्वा देवान् समर्चयेत् । दृष्ट्वा वीक्षेत भास्वन्तं स्म्वत्वा विशेश्वरं स्मरेत् ॥ २,३३.९१ ॥ यः सर्वभूताधिपतिं विश्वेशानं विनिन्दति । न तस्य निष्कृतिः शक्या कर्तुं वर्षशतैरपि ॥ २,३३.९२ ॥ चान्द्रायणं चरेत्पूर्वं कृच्छ्रं चैवातिकृच्छ्रकम् । प्रपन्नः शरणं देवं तस्मात्पापाद्विमुच्यते ॥ २,३३.९३ ॥ सर्वस्वदानं विधिवत्सर्वपापविशोधनम् । चान्द्रायणं चविधिना कृच्छ्रं चैवातिकृच्छ्रकम् ॥ २,३३.९४ ॥ पुण्यक्षेत्राभिगमनं सर्वपापविनाशनम् । देवताभ्यर्चनं नॄणामशेषाघविनाशनम् ॥ २,३३.९५ ॥ अमावस्यां तिथिं प्राप्य यः समाराधयेच्छिवम् । ब्राह्मणान् भोजयित्वा तु सर्वपापैः प्रमुच्यते ॥ २,३३.९६ ॥ कृष्णाष्टम्यां महादेवं तथा कृष्णचतुर्दशीम् । संपूज्य ब्राह्मणमुखे सर्वपापैः प्रमुच्यते ॥ २,३३.९७ ॥ त्रयोदश्यां तथा रात्रौ सोपहारं त्रिलोचनम् । दृष्ट्वेशं प्रथमे यामे मुच्यते सर्वपातकैः ॥ २,३३.९८ ॥ उपोषितश्चतुर्दश्यां कृष्णपक्षे समाहितः । यमाच धर्मराजाय मृत्यवे चान्तकाय च ॥ २,३३.९९ ॥ वैवस्वताय कालाय सर्वभूतक्षयाय च । प्रत्येकं तिलसंयुक्तान् दद्यात्सप्तोदकाञ्जलीन् । स्नात्वा नद्यां तु पूर्वाह्ने मुच्यते सर्वपातकैः ॥ २,३३.१०० ॥ ब्रह्मचर्यमधः शय्यामुपवासं द्विजार्चनम् । व्रतेष्वेतेषु कुर्वोत शान्तः संयतमानसः ॥ २,३३.१०१ ॥ अमावस्यायां ब्रह्माणं समुद्दिश्य पितामहम् । ब्राह्मणांस्त्रीन् समभ्यर्च्य मुच्यते सर्वपातकैः ॥ २,३३.१०२ ॥ षष्ठ्यामुपोषितो देवं शुक्लपक्षे समाहितः । सप्तम्यामर्चयेद्भानुं मुच्यते सर्वपातकैः ॥ २,३३.१०३ ॥ भरण्यां च चतुर्थ्यां च शनैश्चरदिने यमम् । पूजयेत्सप्तजन्मोत्थैर्मुच्यते पातकैर्नरः ॥ २,३३.१०४ ॥ एकादश्यां निराहारः समभ्यर्च्य जनार्दनम् । द्वादश्यां शुक्लपक्षस्य महापापैः प्रमुच्यते ॥ २,३३.१०५ ॥ तपो जपस्तीर्थसेवा देवब्राह्मणपूजनम् । ग्रहणादिषु कालेषु महापातकशोधनम् ॥ २,३३.१०६ ॥ यः सर्वपापयुक्तोऽपि पुण्यतीर्थेषु मानवः । नियमेन त्यजेत्प्राणान् स मुच्येत्सर्वपातकैः ॥ २,३३.१०७ ॥ ब्रह्मघ्नं वा कृतघ्नं वा महापातकदूषितम् । भर्तारमुद्धरेन्नारी प्रविष्टा सह पावकम् ॥ २,३३.१०८ ॥ एतदेव परं स्त्रीणां प्रायश्चित्तं विदुर्बुधाः । सर्वपापसमुद्भूतौ नात्र कार्या विचारणा ॥ २,३३.१०९ ॥ पतिव्रता तु या नारी भर्तृशुश्रूषणोत्सुका । न तस्या विद्यते पापमिह लोके परत्र च ॥ २,३३.११० ॥ पतिव्रता धर्मरता रुद्राण्येव न संशयः । नास्याः पराभवं कर्तुं शक्नोतीह जनः क्वचित् ॥ २,३३.१११ ॥ यथा रामस्य सुभगा सीता त्रैलोक्यविश्रुता । पत्नी दाशरथेर्देवी विजिग्ये राक्षसेश्वरम् ॥ २,३३.११२ ॥ रामस्य भार्यां विमलां रावणो राक्षसेश्वरः । सीतां विशालनयनां चकमे कालचोदितः ॥ २,३३.११३ ॥ गृहीत्वा मायया वेषं चरन्तीं विजने वने । समाहर्तुं मतिं चक्रे तापसः किल कामिनीम् ॥ २,३३.११४ ॥ विज्ञाय सा च तद्भावं स्मृत्वा दाशरथिं पतिम् । जगाम शरणं वह्निमावसथ्यं शुचिस्मिता ॥ २,३३.११५ ॥ उपतस्थे महायोगं सर्वदोषविनाशनम् । कृताञ्जली रामपत्नी शाक्षात्पतिमिवाच्युतम् ॥ २,३३.११६ ॥ नमस्यामि महायोगं कृतान्तं गहनं परम् । दाहकं सर्वभूतानामीशानं कालरूपिणम् ॥ २,३३.११७ ॥ नमस्ये पावकं देवं साक्षिणं विश्वतोमुखम् । आत्मानं दीप्तवपुषं सर्वभूतहृदी स्थितम् ॥ २,३३.११८ ॥ प्रपद्ये शरणं वह्निं ब्रह्मण्यं ब्रह्मरूपिणम् । भूतेशं कृत्तिवसनं शरण्यं परमं पदम् ॥ २,३३.११९ ॥ ओं प्रपद्ये जगन्मूर्तिं प्रभवं सर्वतेजसाम् । महायोगेश्वरं वह्निमादित्यं परमेष्ठिनम् ॥ २,३३.१२० ॥ प्रपद्ये शरणं रुद्रं महाग्रासं त्रिशूलिनम् । कालाग्निं योगिनामीशं भोगमोक्षफलप्रदम् ॥ २,३३.१२१ ॥ प्रपद्ये त्वां विरूपाक्षं भुर्भुवः स्वः स्वरूपिणम् । हिरण्यमये गृहे गुप्तं महान्तममितौजसम् ॥ २,३३.१२२ ॥ वैश्वानरं प्रपद्येऽहं सर्वभूतेष्ववस्थितम् । हव्यकव्यवहं देवं प्रपद्ये वह्निमीश्वरम् ॥ २,३३.१२३ ॥ प्रपद्ये तत्परं तत्त्वं वरेण्यं सवितुः स्वयम् । भर्गमग्निपरं ज्योती रक्ष मां हव्यवाहन ॥ २,३३.१२४ ॥ इति वह्न्यष्टकं जप्त्वा रामपत्नी यशस्विनी । ध्यायन्ती मनसा तस्थौ राममुन्मीलितेक्षणा ॥ २,३३.१२५ ॥ अथावसथ्याद्भगवान् हव्यवाहो महेश्वरः । आविरासीत्सुदीप्तात्मा तेजसा प्रदहन्निव ॥ २,३३.१२६ ॥ स्वष्ट्वा मायामयीं सीतां स रावणवधेप्सया । सीतामादाय धर्मिष्ठां पावकोऽन्तरधीयत ॥ २,३३.१२७ ॥ तां दृष्ट्वा तादृशीं सीतां रावणो राक्षसेश्वरः । समादाय ययौ लङ्कां सागरान्तरसंस्थिताम् ॥ २,३३.१२८ ॥ कृत्वाथ रावणवधं रामो लक्ष्मणसंयुतः । मसादायाभवत्सीतां शङ्काकुलितमानसः ॥ २,३३.१२९ ॥ सा प्रत्ययाय भूतानां सीता मायामीय पुनः । विवेश पावकं दीप्तं ददाह ज्वलनोऽपि ताम् ॥ २,३३.१३० ॥ दग्ध्वा मायामयीं सीतां भगवानुग्रदीधितिः । रामायादर्शयत्सीतां पावकोऽभूत्सुरप्रियः ॥ २,३३.१३१ ॥ प्रगृह्य भर्तुश्चरणौ कराभ्यां सा सुमध्यमा । चकार प्रणतिं भूमौ रामाय जनकात्मजा ॥ २,३३.१३२ ॥ दृष्ट्वा हृष्टमना रामो विस्मयाकुललोचनः । ननाम वह्निं सिरसा तोषयामास राघवः ॥ २,३३.१३३ ॥ उवाच वह्नेर्भगवान् किमेषा वरवर्णिनी । दग्धा भगवता पूर्वं दृष्टा मत्पार्श्वमागता ॥ २,३३.१३४ ॥ तमाह देवो लोकानां दाहको हव्यवाहनः । यथावृत्तं दाशरथिं भूतानामेव सन्निधौ ॥ २,३३.१३५ ॥ इयं सा मिथिलेशेन पार्वतीं रुद्रवल्लभाम् । आराध्य लब्धा तपसा देव्याश्चात्यन्तवल्लभा ॥ २,३३.१३६ ॥ भर्तुः शुश्रूषणोपेता सुशीलेयं पतिव्रता । भवानीपार्श्वमानीता मया रावणकामिता ॥ २,३३.१३७ ॥ या नीता राक्षसेशेन सीता भगवताहृता । मया मायामयी सृष्टा रावणस्य वधाय सा ॥ २,३३.१३८ ॥ तदर्थं भवता दुष्टो रावणो राक्षसेश्वरः । मयोपसंहृता चैव हतो लोकविनाशनः ॥ २,३३.१३९ ॥ गृहाण विमलामेनां जानकीं वचनान्मम । पश्य नारायणं देवं स्वात्मानं प्रभवाव्ययम् ॥ २,३३.१४० ॥ इत्युक्त्वा भगवांश्चण्डो विश्चार्चिर्विश्वतोमुखः । मानितो राघवेणाग्निर्भूतैश्चान्तरधीयत ॥ २,३३.१४१ ॥ एतते पतिव्रतानां वैं माहात्म्यं कथितं मया । स्त्रीणां सर्वाघशमनं प्रायश्चित्तमिदं स्मृतम् ॥ २,३३.१४२ ॥ अशेषपापयुक्तस्तु पुरुषोऽपि सुसंयतः । स्वदेहं पुण्यतीर्थेषु त्यक्त्वा मुच्येत किल्बिषात् ॥ २,३३.१४३ ॥ पृथिव्यां सर्वतीर्थेषु स्नात्वा पुण्येषु वा द्विजः । मुच्यते पातकैः सर्वैः समस्तैरपि पूरुषः ॥ २,३३.१४४ ॥ व्यास उवाच इत्येष मानवो धर्मो युष्माकं कथितो मया । महेशाराधनार्थाय ज्ञानयोगं च शाश्वतम् ॥ २,३३.१४५ ॥ योऽनेन विधिना युक्तं ज्ञानयोगं समाचरेत् । स पश्यति महादेवं नान्यः कल्पशतैरपि ॥ २,३३.१४६ ॥ स्थापयेद्यः परं धर्मं ज्ञानं तत्पारमेश्वरम् । न तस्मादधिको लोके स योगी परमो मतः ॥ २,३३.१४७ ॥ य संस्थापयितुं शक्तो न कुर्यान्मोहितो जनः । स योगयुक्तोऽपि मुनिर्नात्यर्थं भगवत्प्रियः ॥ २,३३.१४८ ॥ तस्मात्सदैव दातव्यं ब्राह्मणेषु विशेषतः । धर्मयुक्तेषु शान्तेषु श्रद्धया चान्वितेषु वै ॥ २,३३.१४९ ॥ यः पठेद्भवतां नित्यं संवादं मम चैव हि । सर्वपापविनिर्मुक्तो गच्छेत परमां गतिम् ॥ २,३३.१५० ॥ श्राद्धे वा दैविके कार्ये ब्राह्मणानां च सन्निधौ । पठेत नित्यं सुमनाः श्रोतव्यं च द्विजातिभिः ॥ २,३३.१५१ ॥ योर्ऽथं विचार्य युक्तात्मा श्रावयेद्ब्राह्मणान् शुचीन् । स दोषकञ्चुकं त्यक्त्वा याति देवं महेश्वरम् ॥ २,३३.१५२ ॥ एतावदुक्त्वा भगवान् व्यासः सत्यवतीसुतः । समाश्वास्य मुनीन् सूतं जगाम च यथागतम् ॥ २,३३.१५३ ॥ इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे त्रयस्त्रिशोऽध्यायः _____________________________________________________________ ऋषय ऊचुः तीर्थानि यानि लोकेऽस्मिन् विश्रुतानि माहन्ति च । तानि त्वं कथयास्माकं रोमहर्षण सांप्रतम् ॥ २,३४.१ ॥ रोमहर्षण उवाच शृणुध्वं कथयिष्येऽहं तीर्थानि विविधानि च । कथितानि पुराणेषु मुनिभिर्ब्रह्मवादिभिः ॥ २,३४.२ ॥ यत्र स्नानं जपो होमः श्राद्धदानादिकं कृतम् । एकैकशो मुनिश्रेष्ठाः पुनात्यासप्तमं कुलम् ॥ २,३४.३ ॥ पञ्चयोजनविस्तीर्णं ब्रह्मणः परमेष्ठिनः । प्रयागं प्रथितं तीर्थं तस्य माहात्म्यमीरितम् ॥ २,३४.४ ॥ अन्यच्च तीर्थप्रवरं कुरूणां देववन्दितम् । ऋषीणामाश्रमैर्जुष्टं सर्वपापविशोधनम् ॥ २,३४.५ ॥ तत्र स्नात्वा विशुद्धात्मा दम्भमात्सर्यवर्जितः । ददाति यत्किञ्चिदपि पुनात्युभयतः कुलम् ॥ २,३४.६ ॥ गयातीर्थं परं गुह्यं पितॄणां चाति वल्लभम् । कृत्वा पिण्डप्रदानं तु न भूयो जायते नरः ॥ २,३४.७ ॥ सकृद्गयाभिगमनं कृत्वा पिण्डं ददाति यः । तारिताः पितरस्तेन यास्यन्ति परमां गतिम् ॥ २,३४.८ ॥ तत्र लोकहितार्थाय रुद्रेण परमात्मना । शिलातले पदं न्यस्तं तत्र पितॄन् प्रसादयेत् ॥ २,३४.९ ॥ गयाभिगमनं कर्तुं यः शक्तो नाभिगच्छति । शोचन्ति पितरस्तं वै वृथा तस्य परिश्रमः ॥ २,३४.१० ॥ गायन्ति पितरो गाथाः कीर्तयन्ति महर्षयः । गयांयास्यतियः कश्चित्सोऽस्मान् संतारयिष्यति ॥ २,३४.११ ॥ यदि स्यात्पातकोपेतः स्वधर्मरतिवर्जितः । गयां यास्यति वंश्यो यः सोऽस्मान् संतारयिष्यति ॥ २,३४.१२ ॥ एष्टव्या बहवः पुत्राः शीलवन्तो गुणान्विताः । तेषां तु समवेतानां यद्येकोऽपि गयां व्रजेत् ॥ २,३४.१३ ॥ तस्मात्सर्वप्रयत्नेन ब्राह्मणस्तु विशेषतः । प्रदद्याद्विधिवत्पिण्डान् गयां गत्वा समाहितः ॥ २,३४.१४ ॥ धन्यास्तु खलु ते मर्त्या गयायां पिण्डदायिनः । कुलान्युभयतः सप्त समुद्धृत्याप्नुयात्परम् ॥ २,३४.१५ ॥ अन्यच्च तीर्थप्रवरं सिद्धावासमुदाहृतम् । प्रभासमिति विख्यातं यत्रास्ते भगवान् भवः ॥ २,३४.१६ ॥ तत्र स्नानं तपः श्राद्धं ब्राह्मणानां च पूजनम् । कृत्वा लोकमवाप्नोति ब्रह्मणोऽक्षय्यमुत्तमम् ॥ २,३४.१७ ॥ तीर्थं त्रैयम्बकं नाम सर्वदेवनमस्कृतम् । पूजयित्वा तत्र रुद्रं ज्योतिष्टोमफलं लभेत् ॥ २,३४.१८ ॥ सुवर्णाक्षं महादेवं समभ्यर्च्य कपर्दिनम् । ब्राह्मणान् पूजयित्वा तु गाणपत्यं लभेद्ध्रुवम् ॥ २,३४.१९ ॥ सोमेश्वरं तीर्थवरं रुद्रस्य परमेष्ठिनः । सर्वव्याधिहरं पुण्यं रुद्रसालोक्यकारणम् ॥ २,३४.२० ॥ तीर्थानां परमं तीर्थं विजयं नाम शोभनम् । तत्र लिङ्गं महेशस्य विजयं नाम विश्रुतम् ॥ २,३४.२१ ॥ षण्मासान्नियताहारो ब्रह्मचारी समाहितः । उषित्वा तत्र विप्रेन्द्रा यास्यन्ति परमं पदम् ॥ २,३४.२२ ॥ अन्यच्च तीर्थप्रवरं पूर्वदेशे सुशोभनम् । एकाम्रं देवदेवस्य गाणपत्यफलप्रदम् ॥ २,३४.२३ ॥ दत्त्वात्र शिवभक्तानां किञ्चिच्छश्वन्महीं शुभाम् । सार्वभौमो भवेद्राजा मुमुक्षुर्मोक्षमाप्नुयात् ॥ २,३४.२४ ॥ महानदीजलं पुण्यं सर्वपापविनाशनम् । ग्रहणे समुपस्पृश्य मुच्यते सर्वपातकैः ॥ २,३४.२५ ॥ अन्या च विरजा नाम नदी त्रैलोक्यविश्रुता । तस्यां स्नात्वा नरो विप्रा ब्रह्मलोके महीयते ॥ २,३४.२६ ॥ तीर्थं नारायणस्यान्यन्नाम्ना तु पुरुषोत्तमम् । तत्र नारायणः श्रीमानास्ते परमपूरुषः ॥ २,३४.२७ ॥ पूजयित्वा परं विष्णुं स्नात्वा तत्र द्विजोत्तमः । ब्राह्मणान् पूजयित्वा तु विष्णुलोकमवाप्नुयात् ॥ २,३४.२८ ॥ तीर्थानां परमं तीर्थं गोकर्णं नाम विश्रुतम् । सर्वपापहरं शंभोर्निवासः परमेष्ठिनः ॥ २,३४.२९ ॥ दृष्ट्वा लिंङ्गं तु देवस्य गोकर्णेश्वरमुत्तमम् । ईप्सितांल्लभते कामान् रुद्रस्य दयितो भवेत् ॥ २,३४.३० ॥ उत्तरं चापि गोकर्णं लिङ्गं देवस्य शूलिनः । महादेवस्यार्चयित्वा शिवसायुज्यमाप्नुयात् ॥ २,३४.३१ ॥ तत्र देवो महादेवः स्थाणुरित्यभिविश्रुतः । तं दृष्ट्वा सर्वपापेभ्यो मुच्यते तत्क्षणान्नरः ॥ २,३४.३२ ॥ अन्यत्कुब्जाम्रमतुलं स्थानं विष्णोर्महात्मनः । संपूज्य पुरुषं विष्णुं श्वेतद्वीपे महीयते ॥ २,३४.३३ ॥ यत्र नारायणो देवो रुद्रेण त्रिपुरारिणा । कृत्वा यज्ञस्य मथनं दक्षस्य तु विसर्जितः ॥ २,३४.३४ ॥ समन्ताद्योजनं क्षेत्रं सिद्धर्षिगणवन्दितम् । पुण्यमायतनं विष्णोस्तत्रास्ते पुरुषोत्तमः ॥ २,३४.३५ ॥ अन्यत्कोकामुखं विष्णोस्तीर्थमद्भुतकर्मणः । मृतोऽत्र पातकैर्मुक्तो विष्णुसारूप्यमाप्नुयात् ॥ २,३४.३६ ॥ शालग्रामं महातीर्थं विष्णोः प्रीतिविवर्धनम् । प्राणांस्तत्र नरस्त्यक्त्वा हृषीकेषं प्रपश्यति ॥ २,३४.३७ ॥ अश्वतीर्थमिति ख्यातं सिद्धावासं सुपावनम् । आस्ते हयशिरा नित्यं तत्र नारायणः स्वयम् ॥ २,३४.३८ ॥ तीर्थं त्रैलोक्यविख्यातं ब्रह्मणः परमेष्ठिनः । पुष्करं सर्वपापघ्नं मृतानां ब्रह्मलोकदम् ॥ २,३४.३९ ॥ मनसा संस्मरेद्यस्तु पुष्करं वै द्विजोत्तमः । पूयते पातकैः सर्वैः शक्रेण सह मोदते ॥ २,३४.४० ॥ तत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः । उपासते सिद्धसङ्घा ब्रह्मणं पद्मसंभवम् ॥ २,३४.४१ ॥ तत्र स्त्रात्वा भवेच्छुद्धो ब्रह्माणं परमेष्ठिनम् । पूजयित्वा द्विजवरान् ब्रह्माणं संप्रपष्यति ॥ २,३४.४२ ॥ तत्राभिगम्य देवेशं पुरुहूतमनिन्दितम् । सुरूपो जायते मर्त्यः सर्वान् कामानवाप्नुयात् ॥ २,३४.४३ ॥ सप्तसारस्वतं तीर्थं ब्रह्माद्यैः सेवितं परम् । पूजयित्वा तत्र रुद्रमश्वमेधफलं लभेत् ॥ २,३४.४४ ॥ यत्र मङ्कणको रुद्रं प्रपन्नः परमेश्वरम् । आराधयामास हरं पञ्चक्षरपरायणः ॥ २,३४.४५ ॥ नमः शिवायेति मुनिः जपन् पञ्चाक्षरं परम् । आराधयामास शिवं तपसा गोवृषध्वजम् ॥ २,३४.४६ ॥ प्रजज्वालाथ तपसा मुनिर्मङ्कणकस्तदा । ननर्त हर्षवेगेन ज्ञात्वा रुद्रं समागतम् ॥ २,३४.४७ ॥ तं प्राह भगवान् रुद्रः किमर्थं नर्तितं त्वया । दृष्ट्वापि देवमीशानं नृत्यति स्म पुनः पुनः ॥ २,३४.४८ ॥ सोऽन्वीक्ष्य भगवानीशः सगर्वं गर्वशान्तये । स्वकं देहं विदार्यास्मै भस्मराशिमदर्शयत् ॥ २,३४.४९ ॥ पश्येमं मच्छरीरोत्थं भस्मराशिं द्विजोत्तम । माहात्म्यमेतत्तपसस्त्वादृशोऽन्योऽपि विद्यते ॥ २,३४.५० ॥ यत्सगर्वं हि भवता नर्तितं मुनिपुङ्गव । न युक्तं तापसस्यैतत्त्वत्तोप्यत्राधिको ह्यहम् ॥ २,३४.५१ ॥ इत्याभाष्य मुनिश्रेष्ठं स रुद्रः किल विश्वदृक् । आस्थाय परमं भावं ननर्त जगतो हरः ॥ २,३४.५२ ॥ सहस्रशीर्षा भूत्वा सहस्राक्षः सहस्रपात् । दंष्ट्राकरालवदनो ज्वालामाली भयङ्करः ॥ २,३४.५३ ॥ सोऽन्वपश्यदशेषस्य पार्श्वे तस्य त्रिशूलिनः । विशाललोचनमेकां देवीं चारुविलासिनीम् । सूर्यायुतसमप्रख्यां प्रसन्नवदनां शिवाम् ॥ २,३४.५४ ॥ सस्मितं प्रेक्ष्य विश्वेशं तिष्ठन्तीममितद्युतिम् । दृष्ट्वा संत्रस्तहृदयो वेपमानो मुनीश्वरः । ननाम शिरसा रुद्रं रुद्राध्यायं जपन् वशी ॥ २,३४.५५ ॥ प्रसन्नो भगवानीशस्त्र्यम्बको भक्तवत्सलः । पूर्ववेषं स जग्राह देवी चान्तर्हिताभवत् ॥ २,३४.५६ ॥ आलिङ्ग्य भक्तं प्रणतं देवदेवः स्वयंशिवः । न भेतव्यं त्वया वत्स प्राह किं ते ददाम्यहम् ॥ २,३४.५७ ॥ प्रणम्य मूर्ध्ना गिरिशं हरं त्रिपुरसूदनम् । विज्ञापयामास तदा हृष्टः प्रष्टुमना मुनिः ॥ २,३४.५८ ॥ नमोऽस्तु ते महादेव महेश्वर नमोऽस्तु ते । किमेतद्भगवद्रूपं सुघोरं विश्वतोमुखम् ॥ २,३४.५९ ॥ का च सा भगवत्पार्श्वे राजमाना व्यवस्थिता । अन्तर्हितेव सहसा सर्वमिच्छामि वेदितुम् ॥ २,३४.६० ॥ इत्युक्ते व्याजहारमं तथा मङ्कणकं हरः । महेशः स्वात्मनो योगं देवीं च त्रिपुरानलः ॥ २,३४.६१ ॥ अहं सहस्रनयनः सर्वात्मा सर्वतोमुखः । दाहकः सर्वपापानां कालः कालकरो हरः ॥ २,३४.६२ ॥ मयैव प्रेर्यते कृत्स्नं चेतनाचेतनात्मकम् । सोऽन्तर्यामी स पुरुषो ह्यहं वै पुरुषोत्तमः ॥ २,३४.६३ ॥ तस्य सा परमा माया प्रकृतिस्त्रिगुणात्मिका । प्रोच्यते मुनिर्भिशक्तिर्जगद्योनिः सनातनी ॥ २,३४.६४ ॥ स एष मायया विश्वं व्यामोहयति विश्ववित् । नारायणः परोऽव्यक्तो मायारूप इति श्रुतिः ॥ २,३४.६५ ॥ एवमेतज्जगत्सर्वं सर्वदा स्थापयाम्यहम् । योजयामि प्रकृत्याहं पुरुषं पञ्चविंशकम् ॥ २,३४.६६ ॥ तथा वै संगतो देवः कूटस्थः सर्वगोऽमलः । सृजत्यशेषमेवेदं स्वमूर्तेः प्रकृतेरजः ॥ २,३४.६७ ॥ स देवो भगवान् ब्रह्मा विश्वरूपः पितामहः । तवैतत्कथितं सम्यक्स्त्रष्ट्वत्वं परमात्मनः ॥ २,३४.६८ ॥ एकोऽहं भगवान् कलो ह्यनादिश्चान्तकृद्विभुः । समास्थाय परं भावं प्रोक्तो रुद्रो मनीषिभिः ॥ २,३४.६९ ॥ मम वै सापरा शक्तिर्देवी विद्येति विश्रुता । दृष्टा हि भवता नूनं विद्यादेहस्त्वहं ततः ॥ २,३४.७० ॥ एवमेतानि तत्त्वानि प्रधानपुरुषेश्वराः । विष्णुर्ब्रह्मा च भगवान् रुद्रः काल इति श्रुतिः ॥ २,३४.७१ ॥ त्रयमेतदनाद्यन्तं ब्रह्मण्येव व्यवस्थितम् । तदात्मकं तदव्यक्तं तदक्षरमिति श्रुतिः ॥ २,३४.७२ ॥ आत्मानन्दपरं तत्त्वं चिन्मात्रं परमं पदम् । आकाशं निष्कलं ब्रह्म तस्मादन्यन्न विद्यते ॥ २,३४.७३ ॥ एवं विज्ञाय भवता भक्तियोगाश्रयेण तु । संपूज्यो वन्दनीयोऽहं ततस्तं पश्य शाश्वतम् ॥ २,३४.७४ ॥ एतावदुक्त्वा भगवाञ्जगामादर्शनं हरः । तत्रैव भक्तियोगेन रुद्रामाराधयन्मुनिः ॥ २,३४.७५ ॥ एतत्पवित्रमतुलं तीर्थं ब्रह्मर्षिसेवितम् । संसेव्य ब्राह्मणो विद्वान्मुच्यते सर्वपातकैः ॥ २,३४.७६ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे चतुस्त्रिंशोऽध्यायः _____________________________________________________________ सूत उवाच अन्यत्पवित्रं विपुलं तीर्थं त्रैलोक्यविश्रुतम् । रुद्रकोटिरिति ख्यातं रुद्रस्य परमेष्ठिनः ॥ २,३५.१ ॥ पुरा पुण्यतमे काले देवदर्शनतत्पराः । कोटिब्रह्मर्षयो दान्तास्तं देशमगमन् परम् ॥ २,३५.२ ॥ अहं द्रक्ष्यामि गिरिशं पूर्वमेव पिनाकिनम् । अन्योऽन्यं भक्तियुक्तानां व्याघातो जायते किल ॥ २,३५.३ ॥ तेषां भक्तिं तदा दृष्ट्वा गिरिशो योगिनां गुरुः । कोटिरूपोऽभवद्रुद्रो रुद्रकोटिस्ततः स्मृतः ॥ २,३५.४ ॥ ते स्म सर्वे महादेवं हरं गिरिगुहाशयम् । पश्यन्तः पार्वतीनाथं हृष्टपुष्टधियोऽभवन् ॥ २,३५.५ ॥ अनाद्यन्तं महादेवं पूर्वमेवाहमीश्वरम् । दृष्टवानिति भक्त्या ते रुद्रन्यस्तधियोऽभवन् ॥ २,३५.६ ॥ अथान्तरिक्षे विमलं पश्यन्ति स्म महत्तरम् । ज्योतिस्तत्रैव ते सर्वेऽभिलषन्तः परं पदम् ॥ २,३५.७ ॥ एतत्सदेशाध्युषितं तीर्थं पुण्यतमं शुभम् । दृष्ट्वा रुद्रं समभ्यर्च्य रुद्रसामीप्यमाप्नुयात् ॥ २,३५.८ ॥ अन्यच्च तीर्थप्रवरं नाम्ना मधुवनं स्मृतम् । तत्र गत्वा नियमवानिन्द्रस्यार्धासनं लभेत् ॥ २,३५.९ ॥ अथान्यत्पुष्पनगरी देशः पुण्यतमः शुभः । तत्र गत्वा पितॄन् पूज्य कुलानां तारयेच्छतम् ॥ २,३५.१० ॥ कालञ्जरं महातीर्थं लोके रुद्रो महेश्वरः । कालं जरितवान् देवो यत्र भक्तिप्रियो हरः ॥ २,३५.११ ॥ श्वेतो नाम शिवे भक्तो राजर्षिप्रवरः पुरा । तदाशीस्तन्नमस्कारः पूजयामास शूलिनम् ॥ २,३५.१२ ॥ संस्थाप्य विधिना लिङ्गं भक्तियोगपुरः सरः । जजाप रुद्रमनिशं तत्र संन्यस्तमानसः ॥ २,३५.१३ ॥ स तं कालोऽथ दीप्तात्मा शूलमादाय भीषणम् । नेतुमभ्यागतो देशं स राजा यत्र तिष्ठति ॥ २,३५.१४ ॥ वीक्ष्य राजा भयाविष्टः शूलहस्तं समागतम् । कालं कालकरं घोरं भीषणं चण्डदीधितिम् ॥ २,३५.१५ ॥ उबाभ्यामथ हस्ताभ्यां स्पृट्वासौ लिङ्गमैश्वरम् । ननाम शिरसा रुद्रं जजाप शतरुद्रियम् ॥ २,३५.१६ ॥ जपन्तमाह राजानं नमन्तमसकृद्भवम् । एह्येहीति पुरः स्थित्वा कृतान्तः प्रहसन्निव ॥ २,३५.१७ ॥ तमुवाच भयाविष्टो राजा रुद्रपरायणः । एकमीशार्चनरतं विहायान्यं निषूदय ॥ २,३५.१८ ॥ इत्युक्तवन्तं भगवानब्रवीद्भीतमानसम् । रुद्रार्चनरतो वान्यो मद्वशे को न तिष्ठति ॥ २,३५.१९ ॥ एवमुक्त्वा स राजानं कालो लोकप्रकालनः । बबन्ध पाशै राजापि जजाप शतरुद्रियम् ॥ २,३५.२० ॥ अथान्तरिक्षे विमलं दीप्यमानं तेजोराशिं भूतभर्तुः पुराणम् । ज्वालामालासंवृतं व्याप्य विश्वं प्रादुर्भूतं संस्थितं संददर्श ॥ २,३५.२१ ॥ तन्मध्येऽसौ पुरुषं रुक्मवर्णं देव्या देवं चन्द्रलेखोज्ज्वलाङ्गम् । तेजोरूपं पश्यति स्मातिहृष्टो मेने चास्मन्नाथ आगच्छतीति ॥ २,३५.२२ ॥ आगच्छन्तं नातिदूरेऽथ दृष्ट्वा कालो रुद्रं देवदेव्या महेशम् । व्यपेतभीरखिलेशैकनाथं राजर्षिस्तं नेतुमभ्याजगाम ॥ २,३५.२३ ॥ आलोक्यासौ भगवानुग्रकर्मा देवो रुद्रो भूतभर्ता पुराणः । एकं भक्तं मत्परं मां स्मरन्तं देहीतीमं कालमूचे ममेति ॥ २,३५.२४ ॥ श्रुत्वा वाख्यं गोपतेरुग्रभावः कालात्मासौ मन्यमानः स्वभावम् । बद्ध्वा भक्तं पुनरेवाथ पाशैः क्रुद्धो रुद्रमभिदुद्राव वेगात् ॥ २,३५.२५ ॥ प्रेक्ष्यायान्तं शैलपुत्रीमथेशः सोऽन्वीक्ष्यान्ते विश्वमायाविधिज्ञः । सावज्ञं वै वामपादेन मृत्युं श्वेतस्यैनं पश्यतो व्याजघान ॥ २,३५.२६ ॥ ममार सोऽतिभीषणो महेशपादघातितः । रराज देवतापतिः सहोमया पिनाकधृक् ॥ २,३५.२७ ॥ निरीक्ष्य देवमीश्वरं प्रहृष्टमानसो हरम् । ननाम साम्बमव्ययं स राजपुङ्गवस्तदा ॥ २,३५.२८ ॥ नमो भवाय हेतवे हराय विश्वसंभवे । नमः शिवाय धीमते नमोऽपवर्गदायिने ॥ २,३५.२९ ॥ नमो नमो नमोऽस्तु ते महाविभूतये नमः । विभागहीनरूपिणे नमो नराधिपाय ते ॥ २,३५.३० ॥ नमोऽस्तु ते गणेश्वर प्रपन्नदुः खनाशन । अनादिनित्यभूतये वराहशृङ्गधारिणे ॥ २,३५.३१ ॥ नमो वृषध्वजाय ते कपालमालिने नमः । नमो महानटाय ते नमो वृषध्वजाय ते ॥ २,३५.३२ ॥ अथानुगृह्य शङ्करः प्रणामतत्परं नृपम् । स्वगाणपत्यमव्ययं सरूपतामथो ददौ ॥ २,३५.३३ ॥ सहोमया सपार्षदः सराजपुङ्गवो हरः । मुनीशसिद्धवन्दितः क्षणाददृश्यतामगात् ॥ २,३५.३४ ॥ काले महेशाभिहते लोकनाथः पितामहः । अयाचत वरं रुद्रं सजीवोऽयं भवत्विति ॥ २,३५.३५ ॥ नास्ति कश्चिदपीशान दोषलेशो वृषध्वज । कृतान्तस्यैव भवता तत्कार्ये विनियोजितः ॥ २,३५.३६ ॥ स देवदेववचनाद्देवदेवेश्वरो हरः । तथास्त्वित्याह विश्वात्मा सोऽपि तादृग्विधोऽभवत् ॥ २,३५.३७ ॥ इत्येतत्परमं तीर्थं कालञ्जरमिति श्रुतम् । गत्वाभ्यर्च्य महादेवं गाणपत्यं स विन्दति ॥ २,३५.३८ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे पञ्चत्रिंशोऽध्यायः _____________________________________________________________ सूत उवाच इदनमन्यते परं स्थानं गुह्याद्गुह्यतमं महत् । महादेवस्य देवस्य महालयमिति श्रुतम् ॥ २,३६.१ ॥ तत्र देवादिदेवेन रुद्रेण त्रिपुरारिणा । शिलातले पदं न्यस्तं नास्तिकानां निदर्शनम् ॥ २,३६.२ ॥ तत्र पुशुपताः शान्ता भस्मोद्धूलितविग्रहाः । उपासते महादेवं वेदाध्ययनतत्पराः ॥ २,३६.३ ॥ स्नात्वा तत्र पदं शार्वं दृष्ट्वा भक्तिपुरः सरम् । नमस्कृत्वाथ शिरसा रुद्रसामीप्यमाप्नुयात् ॥ २,३६.४ ॥ अन्यच्च देवदेवस्य स्थानं शंभोर्महात्मनः । केदारमिति विख्यातं सिद्धानामालयं शुभम् ॥ २,३६.५ ॥ तत्र स्नात्वा महादेवमभ्यर्च्य वृषकेतनम् । पीत्वा चैवोदकं शुद्धं गाणपत्यमवाप्नुयात् ॥ २,३६.६ ॥ श्राद्धदानादिकं कृत्वा ह्यक्ष्यं लभते फलम् । द्विजातिप्रवरैर्जुष्टं योगिभिर्यतमानसैः ॥ २,३६.७ ॥ तीर्थं प्लक्षावतरणं सर्वपापविनाशनम् । तत्राभ्यर्च्य श्रीनिवासं विष्णुलोके महीयते ॥ २,३६.८ ॥ अन्यं मगधराजस्य तीर्थं स्वर्गगतिप्रदम् । अक्षयं विन्दति स्वर्गं तत्र गत्वा द्विजोत्तमः ॥ २,३६.९ ॥ तीर्थं कनखलं पुण्यं महापातकनाशनम् । यत्र देवेन रुद्रेण यज्ञो दक्षस्य नाशितः ॥ २,३६.१० ॥ तत्र गङ्गामुपस्पृश्य शुचिर्भावसमन्वितः । मुच्यते सर्वपापैस्तु ब्रह्मलोकं लभेन्मृतः ॥ २,३६.११ ॥ महातीर्थमिति ख्यातं पुण्यं नारायणप्रियम् । तत्राभ्यर्च्य हृषीकेशं श्वेतद्वीपं निगच्छति ॥ २,३६.१२ ॥ अन्यच्च तीर्थप्रवरं नाम्ना श्रीपर्वतं शुभम् । तत्र प्राणान् परित्यज्य रुद्रस्य दयितो भवेत् ॥ २,३६.१३ ॥ तत्र सन्निहितो रुद्रो देव्या सह महेश्वरः । स्नानपिण्डादिकं तत्र कृतमक्षय्यमुत्तमम् ॥ २,३६.१४ ॥ गोदावरी नदी पुण्या सर्वपापविनाशनी । तत्र स्नात्वा पितॄन् देवांस्तर्पयित्वा यथाविधि । सर्वपापविसुद्धात्मा गोसहस्रफलं लभेत् ॥ २,३६.१५ ॥ पवित्रसलिला पुण्या कावेरी विपुला नदी । तस्यां स्नात्वोदकं कृत्वा मुच्यते सर्वपातकैः । त्रिरात्रोपोषितेनाथ एकरात्रोषितेन वा ॥ २,३६.१६ ॥ द्विजातीनां तु कथितं तीर्थानामिह सेवनम् । यस्य वाङ्मनसो शुद्धे हस्तपादौ च संस्थितौ । अलोलुपो ब्रह्मचारो तीर्थानां फलमाप्नुयात् ॥ २,३६.१७ ॥ स्वामितीर्थं महातीर्थं त्रिषु लोकेषु विश्रुतम् । तत्र सन्निहितो नित्यं स्कन्दोऽमरनमस्कृतः ॥ २,३६.१८ ॥ स्नात्वा कुमारधारायां कृत्वा देवादितर्पणम् । आराध्य षण्मुखं देवं स्कन्देन सह मोदते ॥ २,३६.१९ ॥ नदी त्रैलोक्यविख्याता ताम्रपर्णोति नामतः । तत्र स्नात्वा पितॄन् भक्त्या तर्पयित्वा यथाविधि । पापकर्तॄनपि पितॄस्तारयेन्नात्र संशयः ॥ २,३६.२० ॥ चन्द्रतीर्थमिति ख्यातं कावेर्याः प्रभवेऽक्षयम् । तीर्थं तत्र भवेद्वस्तुं मृतानां स्वर्गतिर्ध्रुवा ॥ २,३६.२१ ॥ विन्ध्यपादे प्रपश्यन्ति देवदेवं सदाशिवम् । भक्त्या ये ते न पश्यन्ति यमस्य सदनं द्विजाः ॥ २,३६.२२ ॥ देविकायां वृषो नाम तीर्थं सिद्धनिषेवितम् । तत्र स्नात्वोदकं दत्वा योगसिद्धिं च विन्दति ॥ २,३६.२३ ॥ दशाश्वमेधिकं तीर्थं सर्वपापविनाशनम् । दशानामश्वमेधानां तत्राप्नोति फलं नरः ॥ २,३६.२४ ॥ पुण्डरीकं महातीर्थं ब्राह्मणैरुपसेवितम् । तत्राभिगम्य युक्तात्मा पौण्डरीकफलं लभेत् ॥ २,३६.२५ ॥ तीर्थेभ्यः परमं तीर्थं ब्रह्मतीर्थमिति श्रुतम् । ब्रह्माणमर्चयित्वा तु ब्रह्मलोके महीयते ॥ २,३६.२६ ॥ सरस्वत्या विनशनं प्लक्षप्रस्त्रवणं शुभम् । व्यासतीर्थं परं तीर्थं मैनाकं च नगोत्तमम् । यमुनाप्रभवं चैव सर्वपापविशोधनम् ॥ २,३६.२७ ॥ पितॄणां दुहिता देवी गन्धकालीति विश्रुता । तस्यां स्नात्वा दिवं याति मृतो जातिस्मरो भवेत् ॥ २,३६.२८ ॥ कुबेरतुङ्गं पापघ्नं सिद्धचारणसेवितम् । प्राणांस्तत्र परित्यज्य कुबेरानुचरो भवेत् ॥ २,३६.२९ ॥ उमातुङ्गमिति ख्यातं यत्र सा रुद्रवल्लभा । तत्राभ्यर्च्य महादेवीं कोसहस्रफलं लभेत् ॥ २,३६.३० ॥ भृगुतुङ्गे तपस्तप्तं श्राद्धं दानं तथा कृतम् । कुलान्युभयतः सप्त पुनातीति श्रुतिर्मम ॥ २,३६.३१ ॥ काश्यपस्य महातीर्थं कालसर्पिरिति श्रुतम् । तत्र श्राद्धानि देयानि नित्यं पापक्षयेच्छया ॥ २,३६.३२ ॥ दशार्णायां तथा दानं श्राद्धं होमस्तथा जपः । अक्षयं चाव्ययं चैव कृतं भवति सर्वदा ॥ २,३६.३३ ॥ तीर्थं द्विजातिभिर्जुष्टं नाम्ना वै कुरुजाङ्गलम् । दत्त्वा तु दानं विधिवद्ब्रह्मलोके महीयते ॥ २,३६.३४ ॥ वैतरण्यां महातीर्थे स्वर्णवेद्यां तथैव च । धर्मपृष्ठे च सरसि ब्रह्मणः परमे शुभे ॥ २,३६.३५ ॥ भरतस्याश्रमे पुण्ये पुण्ये श्राद्धवटे शुभे । महाह्रदे च कौशिक्यां दत्तं भवति चाक्षयम् ॥ २,३६.३६ ॥ मुञ्जपृष्ठे पदं न्यस्तं महादेवेन धीमता । हिताय सर्वभूतानां नास्तिकानां निदर्शनम् ॥ २,३६.३७ ॥ अल्पेनापि तु कालेन नरो धर्मपरायणः । पाप्मानमुत्सृजत्याशु जीर्णां त्वचमिवोरगः ॥ २,३६.३८ ॥ नाम्ना कनकनन्देति तीर्थं त्रैलोक्यविश्रुतम् । उदीच्यां मुञ्जपृष्ठस्य ब्रह्मर्षिगणसेवितम् ॥ २,३६.३९ ॥ तत्र स्नात्वा दिवं यान्ति सशरीरा द्विजातयः । दत्तं चापि सदा श्राद्धमक्षयं समुदाहृतम् । ऋणैस्त्रिभिर्नरः स्नात्वा मुच्यते क्षीणकल्मषः ॥ २,३६.४० ॥ मानसे सरसि स्नात्वा शक्रस्यार्धासनं लभेत् । उत्तरं मानसं गत्वा सिद्धिं प्राप्नोत्यनुत्तमाम् ॥ २,३६.४१ ॥ तस्मान्निर्वर्तयेच्छ्राद्धं यथाशक्ति यथाबलम् । कामान् सलभते दिव्यान्मोक्षोपायं च विन्दति ॥ २,३६.४२ ॥ पर्वतो हिमवान्नाम नानाधातुविभूषितः । योजनानां सहस्राणि सोऽशीतिस्त्वायतो गिरिः । सिद्धचारणसंकीर्णो देवर्षिगणसेवितः ॥ २,३६.४३ ॥ तत्र पुष्करिणी रम्या सुषुम्ना नाम नामतः । तत्र गत्वा द्विजो विद्वान् ब्रह्महत्यां विमुञ्चति ॥ २,३६.४४ ॥ श्राद्धं भवति चाक्षय्यं तत्र दत्तं महोदयम् । तारयेच्च पितॄन् सम्यग्दश पूर्वान् दशापरान् ॥ २,३६.४५ ॥ सर्वत्र हिमवान् पुण्यो गङ्गा पुण्या समन्ततः । नद्यः समुद्रगाः पुण्याः समुद्रश्च विशेषतः ॥ २,३६.४६ ॥ बदर्याश्रममासाद्य मुच्यते कलिकल्मषात् । तत्र नारायणो देवो नरेणास्ते सनातनः ॥ २,३६.४७ ॥ अक्षयं तत्र दानं स्यात्जप्यं वापि तथाविधम् । महादेवप्रियं तीर्थं पावनं तद्विशेषतः । तारयेच्च पितॄन् सर्वान् दत्त्वा श्राद्धं समाहितः ॥ २,३६.४८ ॥ देवदारुवनं पुण्यं सिद्धगन्धर्वसेवितम् । महादेवेन देवेन तत्र दत्तं महद्वरं ॥ २,३६.४९ ॥ मोहयित्वा मुनीन् सर्वान् पुनस्तैः संप्रपूजितः । प्रसन्नो भगवानीशो मुनीन्द्रान् प्राह भावितान् ॥ २,३६.५० ॥ इहाश्रमवरे रम्ये निवसिष्यथ सर्वदा । मद्भावनासमायुक्तास्ततः सिद्धिमवाप्स्यथ ॥ २,३६.५१ ॥ येऽत्र मामर्चयन्तीह लोके धर्मपरा जनाः । तेषां ददामि परमं गाणपत्यं हि शाश्वतम् ॥ २,३६.५२ ॥ अत्र नित्यं वसिष्यामि सह नारायणेन च । प्राणानिह नरस्त्यक्त्वा न भूयो जन्म विन्दति ॥ २,३६.५३ ॥ संस्मरन्ति च ये तीर्थं देशान्तरगता जनाः । तेषां च सर्वपापानि नाशयामि द्विजोत्तमाः ॥ २,३६.५४ ॥ श्राद्धं दानं तपो होमः पिण्डनिर्वपणं तथा । ध्यानं जपश्च नियमः सर्वमत्राक्षयं कृतम् ॥ २,३६.५५ ॥ तस्मात्सर्वप्रयत्नेन द्रष्टव्यं हि द्विजातिभिः । देवदारुवनं पुण्यं महादेवनिषेवितम् ॥ २,३६.५६ ॥ यत्रेस्वरो महादेवो विष्णुर्वा पुरुषोत्तमः । तत्र सन्निहिता गङ्गातीर्थान्यायतनानि च ॥ २,३६.५७ ॥ इती श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे षट्त्रिशोऽध्यायः _____________________________________________________________ ऋषय ऊचुः कथं दारुवनं प्राप्तो भगवान् गोवृषध्वजः । मोहयामास विप्रेन्द्रान् सूत वक्तुमिहार्हसि ॥ २,३७.१ ॥ सूत उवाच पुरा दारुवन् रम्ये देवसिद्धनिषेविते । सपुत्रदारा मुनयस्तपश्चेरुः सहस्रशः ॥ २,३७.२ ॥ प्रवृत्तं विविधं कर्म प्रकुर्वाणा यथाविधि । यजन्ति विविधैर्यज्ञैस्तपन्ति च महर्षयः ॥ २,३७.३ ॥ तेषां प्रवृत्तिविन्यस्तचेतसामथ शूलधृक् । ख्यापयन् स महादोषं ययौ दारुवनं हरः ॥ २,३७.४ ॥ कृत्वा विश्वगुरुं विष्णुं पार्श्वे देवो महेश्वरः । ययौ निवृत्तविज्ञानस्थापनार्थं च शङ्करः ॥ २,३७.५ ॥ आस्थाय विपुलं वेशमूनविंशतिवत्सरः । लीलालसो महाबाहुः पीनाङ्गश्चारुलोचनः ॥ २,३७.६ ॥ चामीकरवपुः श्रीमान् पूर्णचन्द्रनिभाननः । मत्तमातङ्गगामनो दिग्वासा जगदीश्वरः ॥ २,३७.७ ॥ कुशेशयमयीं मालं सर्वरत्नैरलङ्कृताम् । दधानो भगवानीशः समागच्छति सस्मितः ॥ २,३७.८ ॥ योऽनन्तः पुरुषो योनिर्लोकानामव्ययो हरिः । स्त्रीवेषं विष्णुरास्थाय सोऽनुगच्छति शूलिनम् ॥ २,३७.९ ॥ सम्पूर्णचन्द्रवदनं पीनोन्नतपयोधरम् । शुचिस्मितं सुप्रसन्नं रणन्नुपुरकद्वयम् ॥ २,३७.१० ॥ सुपीतवसनं दिव्यं श्यामलं चारुलोचनम् । उदारहंसचलनं विलासि सुमनोहरम् ॥ २,३७.११ ॥ एवं स भगवानीशो देवदारुवने हरः । चचार हरिणा भिक्षां मायया मोहयन् जगत् ॥ २,३७.१२ ॥ दृष्ट्वा चरन्तं विश्वेशं तत्र तत्र पिनाकिनम् । मायया मोहिता नार्यो देवदेवं समन्वयुः ॥ २,३७.१३ ॥ विस्त्रस्तवस्त्राभरणास्त्यक्त्वा लज्जां पतिव्रताः । सहैव तेन कामार्ता विलासिन्यश्चरन्तिहि ॥ २,३७.१४ ॥ ऋषीणां पुत्रका ये स्युर्युवानो जितमानसाः । अन्वगच्छन् हृषीकेशं सर्वे कामप्रपीडिताः ॥ २,३७.१५ ॥ गायन्ति नृत्यन्ति विलासबाह्या नारीगणा मायिनमेकमीशम् । दृष्ट्वा सपत्नीकमतीवकान्त मिच्छन्त्यथालिङ्गनमाचरन्ति ॥ २,३७.१६ ॥ पदे निपेतुः स्मितमाचरन्ति गायन्ति गीतानि मुनीशपुत्राः । आलोक्य पद्मापतिमादिदेवं भ्रूभङ्गमन्ये विचरन्ति तेन ॥ २,३७.१७ ॥ आसामथैषामपि वासुदेवो मायी मुरारिर्मनसि प्रविष्टः । करोति भोगान्मनसि प्रवृत्तिं मायानुभूयन्त इतिव सम्यक् ॥ २,३७.१८ ॥ विभाति विश्वामरभूतभर्ता स माधवः स्त्रीगणमध्यविष्टः । अशेषशक्त्यासनसंनिविष्टो यथैकशक्त्या सह देवदेवः ॥ २,३७.१९ ॥ करोति नृत्यं परमप्रभावं तदा विरूढः पुनरेव भूयः । ययौ समारुह्य हरिः स्वभावं तदीशवृत्तामृतमादिदेवः ॥ २,३७.२० ॥ दृष्ट्वा नारीकुलं रुद्रं पुत्राणामपि केशवम् । मोहयन्तं मुनिश्रेष्ठाः कोपं संदधिरे भृशम् ॥ २,३७.२१ ॥ अतीव परुषं वाक्यं प्रोचुर्देवं कपर्दिनम् । शेषुश्च शापैर्विविधैर्मायया तस्य मोहिताः ॥ २,३७.२२ ॥ तपांसि तेषां सर्वेषां प्रत्याहन्यन्त शङ्करे । यथादित्यप्रकाशेन तारका नभसि स्थिताः ॥ २,३७.२३ ॥ ते भग्नतपसो विप्राः समेत्य वृषभध्वजम् । को भवानिति देवेशं पृच्छन्ति स्म विमोहिताः ॥ २,३७.२४ ॥ सोऽब्रवीद्भगवानीशस्तपश्चर्तुमिहागतः । इदानीं भार्यया देशे भवद्भिरिह सुव्रताः ॥ २,३७.२५ ॥ तस्य ते वाक्यमाकर्ण्य भृग्वाद्या मुनिपुङ्गवाः । ऊचुर्गृहीत्वा वसनं त्यक्त्वा भार्यां तपश्चर ॥ २,३७.२६ ॥ अथोवाच विहस्येशः पिनाकी नीललोहितः । संप्रेक्ष्य जगतो योनिं पार्श्वस्थं च जनार्दनम् ॥ २,३७.२७ ॥ कथं भवद्भिरुदितं स्वभार्यापोषणोत्सुकैः । त्यक्तव्या मम भार्येति धर्मज्ञैः शान्तमानसैः ॥ २,३७.२८ ॥ ऋषय ऊचुः व्यभिचाररता नार्यः संत्याज्याः पतिनेरिताः । अस्माभिरेषा सुभगा तादृशी त्यागमर्हति ॥ २,३७.२९ ॥ महादेव उवाच न कदाचिदियं विप्रा मनसाप्यन्यमिच्छति । नाहमेनामपि तथा विमुञ्चामि कदाचन ॥ २,३७.३० ॥ ऋषय ऊचुः दृष्ट्वा व्यभिचरन्तीह ह्यस्माभिः पुरुषाधम । उक्तं ह्यसत्यं भवता गम्यतां क्षिप्रमेव हि ॥ २,३७.३१ ॥ एवमुक्ते महादेवः सत्यमेव मयेरितम् । भवतां प्रतिभात्येषेत्युक्त्वासौ विचचार ह ॥ २,३७.३२ ॥ सोऽगच्छद्धरिणा सार्धं मुनिन्द्रस्य महात्मनः । वसिष्ठस्याश्रमं पुण्यं भिक्षार्थो परमेश्वरः ॥ २,३७.३३ ॥ दृष्ट्वा समागतं देवं भिक्षमाणमरुन्धती । वसिष्ठस्य प्रिया भार्या प्रत्युद्गम्य ननाम नम् ॥ २,३७.३४ ॥ प्रक्षाल्य पादौ विमलं दत्त्वा चासनमुत्तमम् । संप्रेक्ष्य शिथिलं गात्रमभिघातहतं द्विजैः । संधयामास भैषज्यैर्विष्णा वदना सती ॥ २,३७.३५ ॥ चकार महतीं पूजां प्रार्थयामास भार्यया । को भवान् कुत आयातः किमाचारो भवानिति । उवाच तां महादेवः सिद्धानां प्रवरोऽस्म्यहम् ॥ २,३७.३६ ॥ यदेतन्मण्डलं शुद्धं भाति ब्रह्ममयं सदा । एषैव देवता मह्यं धारयामि सदैव तत् ॥ २,३७.३७ ॥ हत्युक्त्वा प्रययौ श्रीमाननुगृह्य पतिव्रताम् । ताडयाञ्चक्रिरे दण्डैर्लोष्टिभिर्मुष्टिभिद्विजाः ॥ २,३७.३८ ॥ दृष्ट्वा चरन्तं गिरिशं नग्नं विकृतलक्षणम् । प्रोचुरेतद्भवांल्लिङ्गमुत्पाटयतु दुर्मते ॥ २,३७.३९ ॥ तानब्रवीन्महायोगी करिष्यामीति शङ्करः । युष्माकं मामके लिङ्गे यदि द्वेषोऽभिजायते ॥ २,३७.४० ॥ इत्युक्त्वोत्पाटयामास भगवान् भगनेत्रहा । नापश्यंस्तत्क्षणेनेशं केशवं लिङ्गमेव च ॥ २,३७.४१ ॥ तदोत्पाता बभूवुर्हि लोकानां भयशंसिनः । न राजते सहस्रांशुश्चचाल पृथिवी पुनः । निष्प्रभाश्च ग्रहाः सर्वे चुक्षुभे च महोदधिः ॥ २,३७.४२ ॥ अपश्यच्चानुसूयात्रेः स्वप्नं भार्या पतिव्रता । कथयामास विप्राणां भयादाकुलितेक्षणा ॥ २,३७.४३ ॥ तेजसा भासयन् कृत्स्नं नारायणसहायवान् । भिक्षमाणः शिवो नूनं दृष्टोऽस्माकं गृहेष्विति ॥ २,३७.४४ ॥ तस्या वचनमाकर्ण्य शङ्कमाना महर्षयः । सर्वे जग्मुर्महायोगं ब्रह्माणं विश्वसंभवम् ॥ २,३७.४५ ॥ उपास्यमानममलैर्योगिभिर्ब्रह्मवित्तमैः । चतुर्वेदैर्मूर्तिमद्भिः सावित्र्या सहितं प्रभुम् ॥ २,३७.४६ ॥ आसीनमासने रम्ये नानाश्चर्यसमन्विते । प्रभासहस्रकलिले ज्ञानैश्वर्यादिसंयुते ॥ २,३७.४७ ॥ विभ्राजमानं वपुषा सस्तितं शुभ्रलोचनम् । चतुर्मुखं महाबाहुं छन्दोमयमजं परम् ॥ २,३७.४८ ॥ विलोक्य वेदपुरुषं प्रसन्नवदनं शुभम् । शिरोभिर्धरणीं गत्वा तोषयामासुरीश्वरम् ॥ २,३७.४९ ॥ तान् प्रसन्नमना देवश्चतुर्मूर्तिश्चतुर्मुखः । व्याजहार मुनिश्रेष्ठाः किमागमनकारणम् ॥ २,३७.५० ॥ तस्य ते वृत्तमखिलं ब्रह्मणः परमात्मनः । ज्ञापयाञ्चक्रिरे सर्वे कृत्वा शिरसि चाञ्जलिम् ॥ २,३७.५१ ॥ ऋषय ऊचुः कश्चिद्दारुवनं पुण्यं पुरुषोऽतीवशोभनः । भार्यया चारुसर्वाङ्ग्या प्रविष्टो नग्न एव हि ॥ २,३७.५२ ॥ मोहयामास वपुषा नारीणां कुलमीश्वरः । कन्यकानां प्रिया चास्य दूषयामास पुत्रकान् ॥ २,३७.५३ ॥ अस्माभिर्विविधाः शापाः प्रदत्ताश्च पराहताः । ताडितोऽस्माभिरत्यर्थं लिङ्गन्तु विनिपातितम् ॥ २,३७.५४ ॥ अन्तर्हितश्च भगवान् सभार्यो लिङ्गमेव च । उत्पाताश्चाभवन् घोराः सर्वभूतभयङ्कराः ॥ २,३७.५५ ॥ क एष पुरुषो देव भीताः स्म पुरुषोत्तम । भवन्तमेव शरणं प्रपन्ना वयमच्युत ॥ २,३७.५६ ॥ त्वं हि वेत्सि जगत्यस्मिन् यत्किञ्चिदपि चेष्टितम् । अनुग्रहेण विश्वेश तदस्माननुपालय ॥ २,३७.५७ ॥ विज्ञापितो मुनिगणैर्विश्वात्मा कमलोद्भवः । ध्यात्वा देवं त्रिशूलाङ्कं कृताञ्जलिरभाषत ॥ २,३७.५८ ॥ ब्रह्मोवाच हा कष्टं भवतामद्य जातं सर्वार्थनाशनम् । धिग्बलं धिक्तपश्चर्या मिथ्यैव भवतामिह ॥ २,३७.५९ ॥ संप्राप्य पुण्यसंस्कारान्निधीनां परमं निधिम् । उपेक्षितं वृथाचारैर्भवद्भिरिह मोहितैः ॥ २,३७.६० ॥ काङ्क्षन्ते योगिनो नित्यं यतन्तो यतयो निधिम् । यमेव तं समासाद्य हा भवद्भिरुपेक्षितम् ॥ २,३७.६१ ॥ यजन्ति यज्ञैर्विविधैर्यत्प्राप्त्यैर्वेदवादिनः । महानिधिं समासाद्य हा भवद्भिरुपेक्षितम् ॥ २,३७.६२ ॥ यं समासाद्य देवानैमैश्वर्यमखिलं जगत् । तमासाद्याक्षयनिधिं हा भवद्भिरुपेक्षितम् ॥ २,३७.६३ ॥ यत्समापत्तिजनितं विश्वेशत्वमिदं मम । तदेवोपेक्षितं दृष्ट्वा निधानं भाग्यवर्जितैः ॥ २,३७.६४ ॥ यस्मिन् समाहितं दिव्यमैश्वर्यं यत्तदव्ययम् । तमासाद्य निधिं ब्राह्म हा भवद्भिर्वृथाकृतम् ॥ २,३७.६५ ॥ एष देवो महादेवो विज्ञेयस्तु महेश्वरः । न तस्य परमं किञ्चित्पदं समधिगम्यते ॥ २,३७.६६ ॥ देवतानामृषीणां च पितॄणां चापि शाश्वतः । सहस्रयुगपर्यन्ते प्रलये सर्वदेहिनाम् । संहरत्येष भगवान् कालो भूत्वा महेश्वरः ॥ २,३७.६७ ॥ एष चैव प्रजाः सर्वाः सृजत्येकः स्वतेजसा । एष चक्री च वज्री च श्रीवत्सकृतलक्षणः ॥ २,३७.६८ ॥ योगी कृतयुगे देवस्त्रेतायां यज्ञ उच्यते । द्वापरे भगवान् कालो धर्मकेतुः कलौ युगे ॥ २,३७.६९ ॥ रुद्रस्य मूर्तयस्तिस्त्रो याभिर्विश्वमिदं ततम् । तमो ह्यग्नी रजो ब्रह्मा सत्त्वं विष्णुरिति प्रभुः ॥ २,३७.७० ॥ मूर्तिरन्या स्मृता चास्य दिग्वासा वै शिवा ध्रुवा । यत्र तिष्ठति तद्ब्रह्म योगेन तु समन्वितम् ॥ २,३७.७१ ॥ या चास्य पार्श्वगा भार्या भवद्भिरभिवीक्षिता । सा हि नारायणो देवः परमात्मा सनातनः ॥ २,३७.७२ ॥ तस्मात्सर्वमिदं जातं तत्रैव च लयं व्रजेत् । स एव मोहयेत्कृत्स्नं स एव परमा गतिः ॥ २,३७.७३ ॥ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । एकशृङ्गो महानात्मा पुराणोऽष्टाक्षरो हरिः ॥ २,३७.७४ ॥ चतुर्वेदश्चतुर्मूर्तिस्त्रिमूर्तिस्त्रिगुणः परः । एकमूर्तिरमेयात्मा नारायण इति श्रुतिः ॥ २,३७.७५ ॥ ऋतस्य गर्भो भगवानापो मायातनुः प्रभुः । स्तूयते विविधैर्मन्त्रैर्ब्राह्मणैर्धर्ममोक्षिभिः ॥ २,३७.७६ ॥ संहृत्य सकलं विश्वं कल्पान्ते पुरुषोत्तमः । शेते योगामृतं पीत्वा यत्तद्विष्णोः परं पदम् ॥ २,३७.७७ ॥ न जायते न म्रियते वर्धते न च विश्वसृक् । मूलप्रकृतिरव्यक्ता गीयते वैदिकैरजः ॥ २,३७.७८ ॥ ततो निशायां वृत्तायां सिसृक्षुरखिलञ्जगत् । अजस्य नाभौ तद्बीजं क्षिपत्येष महेश्वरः ॥ २,३७.७९ ॥ तं मां वित्त महात्मानं ब्रह्माणं विश्वतो मुखम् । महान्तं पुरुषं विश्वमपां गर्भमनुत्तमम् ॥ २,३७.८० ॥ न तं विदाथ जनकं मोहितास्तस्य मायया । देवदेवं महादेवं भूतानामीश्वरं हरम् ॥ २,३७.८१ ॥ एष देवो महादेवो ह्यनादिर्भगवान् हरः । विष्णुना सह संयुक्तः करोति विकरोति च ॥ २,३७.८२ ॥ न तस्य विद्यते कार्यं न तस्माद्विद्यते परम् । स वेदान् प्रददौ पूर्वं योगमायातनुर्मम ॥ २,३७.८३ ॥ स मायी मायया सर्वं करोति विकरोति च । तमेव मुक्तये ज्ञात्वा व्रजेत शरणं भवम् ॥ २,३७.८४ ॥ इतीरिता भगवता मरीचिप्रमुखा विभुम् । प्रणम्य देवं ब्रह्माणं पृच्छन्ति स्म सुदुः खिताः ॥ २,३७.८५ ॥ मुनय ऊचुः कथं पश्येम तं देवं पुनरेव पिनाकिनम् । ब्रूहि विश्वामरेशान त्राता त्वं शरणैषिणाम् ॥ २,३७.८६ ॥ पितामह उवाच यद्दृष्टं भवता तस्य लिङ्गं भुवि निपातितम् । तल्लिङ्गानुकृतीशस्य कृत्वा लिङ्गमनुत्तमम् ॥ २,३७.८७ ॥ पूजयध्वं सपत्नीकाः सादरं पुत्रसंयुताः । वैदिकैरेव नियमैर्विविधैर्ब्रह्मचारिणः ॥ २,३७.८८ ॥ संस्थाप्य शाङ्करैर्मन्त्रैरृग्यजुः सामसंभवैः । तपः परं समास्थाय गृणन्तः शतरुद्रियम् ॥ २,३७.८९ ॥ समाहिताः पूजयध्वं सपुत्राः सह बन्धुभिः । सर्वे प्राञ्जलयो भूत्वा शूलपाणिं प्रपद्यथ ॥ २,३७.९० ॥ ततो द्रक्ष्यथ देवेशं दुर्दर्शमकृतात्मभिः । यं दृष्ट्वा सर्वमज्ञानमधर्मश्च प्रणश्यति ॥ २,३७.९१ ॥ ततः प्रणम्य वरदं ब्रह्माणममितौजसम् । जग्मुः संहृष्टमनसो देवदारुवनं पुनः ॥ २,३७.९२ ॥ आराधयितुमारब्धा ब्रह्मणा कथितं यथा । अजानन्तः परं देवं वीतरागा विमत्सराः ॥ २,३७.९३ ॥ स्थण्डिलेषु विचित्रेषु पर्वतानां गुहासु च । नदीनां च विविक्तेषु पुलिनेषु शुभेषु च ॥ २,३७.९४ ॥ शैवालभोजनाः केचित्केचिदन्तर्जलेशयाः । केचिदभ्रावकाशास्तु पादाङ्गुष्ठाग्रविष्ठिताः ॥ २,३७.९५ ॥ दन्तोऽलूखलिनस्त्वन्ये ह्यश्मकुट्टास्तथा परे । शाकपर्णाशिनः केचित्संप्रक्षाला मरीचिपाः ॥ २,३७.९६ ॥ वृक्षमूलनिकेताश्च शिलाशय्यास्तथा परे । कालं नयन्ति तपसा पूजयन्तो महेश्वरम् ॥ २,३७.९७ ॥ ततस्तेषां प्रसादार्थं प्रपन्नार्तिहरो हरः । चका भगवान् बुद्धिं प्रबोधाय वृषध्वजः ॥ २,३७.९८ ॥ देवः कृतयुगे ह्यस्मिन् शृङ्गे हिमवतः शुभे । देवदारुवनं प्राप्तः प्रसन्नः परमेश्वरः ॥ २,३७.९९ ॥ भस्मपाण्डुरदिग्धाङ्गो नग्नो विकृतलक्षणः । उल्मुकव्यग्रहस्तश्च रक्तपिङ्गललोचनः ॥ २,३७.१०० ॥ क्वचिच्च हसते रौद्रं क्वचिद्गायति विस्मितः । क्वचिन्नृत्यति शृङ्गारी क्वचिद्रौति मुहुर्मुहुः ॥ २,३७.१०१ ॥ आश्रमेऽभ्यागतो भिक्षां याचते च पुनः पुनः । मायां कृत्वात्मनो रूपं देवस्तद्वनमागतः ॥ २,३७.१०२ ॥ कृत्वा गिरिसुतां गौरीं पार्श्वेदेवः पिनाकधृक् । सा च पूर्ववद्देवेशी देवदारुवनं गता ॥ २,३७.१०३ ॥ दृष्ट्वा समागतं देवं देव्या सह कपर्दिनम् । प्रणेमुः शिरसा भूमौ तोषयामासुरीश्वरम् ॥ २,३७.१०४ ॥ वैदिकैर्विविधैर्मन्त्रैः सूक्तैर्माहेश्वरैः शुभैः । अथर्वशिरसा चान्ये रुद्राद्यैर्ब्रह्मभिर्भवम् ॥ २,३७.१०५ ॥ नमो देवादिदेवाय महादेवाय ते नमः । त्र्यम्बकाय नमस्तुभ्यं त्रिशूलवरधारिणे ॥ २,३७.१०६ ॥ नमो दिग्वाससे तुभ्यं विकृताय पिनाकिने । सर्वप्रणतदेहाय स्वयमप्रणतात्मने ॥ २,३७.१०७ ॥ अन्तकान्तकृते तुभ्यं सर्वसंहरणाय च । नमोऽस्तु नृत्यशीलाय नमो भैरवरूपिणे ॥ २,३७.१०८ ॥ नरनारीशरीराय योगिनां गुरवे नमः । नमो दान्ताय शान्ताय तापसाय हराय च ॥ २,३७.१०९ ॥ विभीषणाय रुद्राय नमस्ते कृत्तिवाससे । नमस्ते लेलिहानाय शितिकण्ठाय ते नमः ॥ २,३७.११० ॥ अघोरघोररूपाय वामदेवाय वै नमः । नमः कनकमालाय देव्याः प्रियकराय च ॥ २,३७.१११ ॥ गङ्गासलिलधाराय शम्भवे परमेष्ठिने । नमो योगाधिपतये ब्रह्माधिपतये नमः ॥ २,३७.११२ ॥ प्राणाय च नमस्तुभ्यं नमो भस्माङ्गरागिने । नमस्ते घनवाहाय दंष्ट्रिणे वह्निरेतसे ॥ २,३७.११३ ॥ ब्रह्मणश्च शिरो हर्त्रे नमस्ते कालरूपिणे । आगतिं ते न जनीमो गतिं नैव च नैव च । विश्वेश्वर महादेव योऽसि सोऽसि नमोऽस्तु ते ॥ २,३७.११४ ॥ नमः प्रमथनाथाय दात्रे च शुभसंपदाम् । कपालपाणये तुभ्यं नमो मीढुष्टमाय ते । नमः कनकलिङ्गाय वारिलिङ्गाय ते नमः ॥ २,३७.११५ ॥ नमो वह्न्यर्कलिङ्गाय ज्ञानलिङ्गाय ते नमः । नमो भुजङ्गहाराय कर्णिकारप्रियाय च । किरीटिने कुण्डलिने कालकालाय ते नमः ॥ २,३७.११६ ॥ वामदेव महेशान देवदेव त्रिलोचन । क्षम्यतां यत्कृतं मोहात्त्वमेव शरणं हि नः ॥ २,३७.११७ ॥ चरितानि विचित्राणि गुह्यानि गहनानि च । ब्रह्मादीनां च सर्वेषां दुर्विज्ञेयोऽसि शङ्कर ॥ २,३७.११८ ॥ अज्ञानाद्यदि वा ज्ञानाद्यत्किञ्चित्कुरुते नरः । तत्सर्वं भगवानेन कुरुते योगमायया ॥ २,३७.११९ ॥ एवं स्तुत्वा महादेवं प्रहृष्टेनान्तरात्मना । ऊचुः प्रणम्य गिरिशं पश्यामस्त्वां यथा पुरा ॥ २,३७.१२० ॥ तेषां संस्तवमाकर्ण्य सोमः मोमविभूषणः । स्वमेव परमं रूपं दर्शयामास शङ्करः ॥ २,३७.१२१ ॥ तं ते दृष्ट्वाथ गिरिशं देव्या सह पिनाकिनम् । यथा पूर्वं स्थिता विप्राः प्रणेमुर्हृष्टमानसाः ॥ २,३७.१२२ ॥ ततस्ते मुनयः सर्वे संस्तूय च महेश्वरम् । भृग्वङ्गिरोवसिष्ठास्तु विश्वामित्रस्तथैव च ॥ २,३७.१२३ ॥ गौतमोऽत्रिः सुकेशश्च पुलस्त्यः पुलहः क्रतुः । मरीचिः कश्यपश्चापि संवर्तश्च महातपाः । प्रणम्य देवदेवेशमिदं वचनमब्रुवन् ॥ २,३७.१२४ ॥ कथं त्वां देवदेवेश कर्मयोगेन वा प्रभो । ज्ञानेन वाथ योगेन पूजयामः सदैव हि ॥ २,३७.१२५ ॥ केन वा देवमार्गेण संपूज्यो भगवानिह । किं तत्सेव्यमसेव्यं वा सर्वमेतद्ब्रवीहि नः ॥ २,३७.१२६ ॥ देवदेव उवाच एतद्वः संप्रवक्ष्यामि गूढं गहनमुत्तमम् । ब्रह्मणे कथितं पूर्वमादावेव महर्षयः ॥ २,३७.१२७ ॥ सांख्ययोगो द्विधा ज्ञेयः पुरुषाणां हि साधनम् । योगेन सहितं सांख्यं पुरुषाणां विमुक्तिदम् ॥ २,३७.१२८ ॥ न केवलेन योगेन दृश्यते पुरुषः परः । ज्ञानं तु केवलं सम्यगपवर्गफलप्रदम् ॥ २,३७.१२९ ॥ भवन्तः केवलं योगं समाश्रित्य विमुक्तये । विहाय सांख्यं विमलमकुर्वन्त परिश्रमम् ॥ २,३७.१३० ॥ एतस्मात्कारणाद्विप्रानृणां केवलधर्मिणाम् । आगतोऽहमिमं देशं ज्ञापयन्मोहसंभवम् ॥ २,३७.१३१ ॥ तस्माद्भवद्भिर्विमलं ज्ञानं कैवल्यसाधनम् । ज्ञातव्यं हि प्रयत्नेन श्रोतव्यं दृश्यमेव च ॥ २,३७.१३२ ॥ एकः सर्वत्रगो ह्यात्मा केवलश्चितिमात्रकः । आनन्दो निर्मलो नित्यं स्यादेतत्सांख्यदर्शनम् ॥ २,३७.१३३ ॥ एतदेव परं ज्ञानमेष मोक्षोऽत्र गीयते । एतत्कैवल्यममलं ब्रह्मभावश्च वर्णितः ॥ २,३७.१३४ ॥ आश्रित्य चैतत्परमं तन्निष्ठास्तत्परायणाः । पश्यन्ति मां महात्मानो यतयो विश्वमीश्वरम् ॥ २,३७.१३५ ॥ एतत्तत्परमं ज्ञानं केवलं सन्निरञ्जनम् । अहं हि वेद्यो भगवान्मम मूर्तिरियं शिवा ॥ २,३७.१३६ ॥ बहूनि साधनानीह सिद्धये कथितानि तु । तेषामभ्यधिकं ज्ञानं मामकं द्विजपुङ्गवाः ॥ २,३७.१३७ ॥ ज्ञानयोगरताः शान्ता मामेव शरणं गताः । ये हि मां भस्मनिरता ध्यायन्ति सततं हृदि ॥ २,३७.१३८ ॥ मद्भक्तिपरमा नित्यं यतयः क्षीणकल्मषाः । नाशयाम्यचिरात्तेषां घोरं संसारसागरम् ॥ २,३७.१३९ ॥ प्रशान्तः संयतमना भस्मोद्धूलितविग्रहः । ब्रह्मचर्यरतो नग्नो व्रतं पाशुपतं चरेत् ॥ २,३७.१४० ॥ निर्मितं हि मया पूर्वं व्रतं पाशुपतं परम् । गुह्याद्गुह्यतमं सूक्ष्मं वेदसारं विमुक्तये ॥ २,३७.१४१ ॥ यद्वा कौपीनवसनः स्याद्वैकवसनो मुनिः । वेदाभ्यासरतो विद्वान् ध्यायेत्पशुपतिं शिवम् ॥ २,३७.१४२ ॥ एष पाशुपतो योगः सेवनीयो मुमुक्षुभिः । भस्मच्छन्नैर्हि सततं निष्कामैरिति विश्रुतिः ॥ २,३७.१४३ ॥ वीतरागभयक्रोधा मन्मया मामुपाश्रिताः । बहवोऽनेन योगेन पूता मद्भावमागताः ॥ २,३७.१४४ ॥ अन्यानि चैव शास्त्राणि लोकेऽस्मिन्मोहनानितु । वेदवादविरुद्धानि मयैव कथितानि तु ॥ २,३७.१४५ ॥ वामं पाशुपतं सोमं लाकुलं चैव भैरवम् । असेव्यमेतत्कथितं वेदवाह्यं तथेतरम् ॥ २,३७.१४६ ॥ वेदमुर्तिरहं विप्रा नान्यशास्त्रार्थवेदिभिः । ज्ञायते मत्स्वरूपं तु मुक्त्वा वेदं सनातनम् ॥ २,३७.१४७ ॥ स्थापयध्वमिदं मार्गं पूजयध्वं महेश्वरम् । अचिरादैश्वरं ज्ञानमुत्पत्स्यति न संशयः ॥ २,३७.१४८ ॥ मयि भक्तिश्च विपुला भवतामस्तु सत्तमाः । ध्यातमात्रो हि सान्निध्यं दास्यामि मुनिसत्तमाः ॥ २,३७.१४९ ॥ इत्युक्त्वा भगवान् सोमस्तत्रैवान्तरधीयत । तोऽपि दारुवने तस्मिन् पूजयन्ति स्म शङ्करम् । ब्रह्मचर्यरताः शान्ता ज्ञानयोगपरायणाः ॥ २,३७.१५० ॥ समेत्य ते महात्मानो मुनयो ब्रह्मवादिनः । वितेनिरे बहून् वादान्नध्यात्मज्ञानसंश्रयान् ॥ २,३७.१५१ ॥ किमस्य जगतो मूलमात्मा चास्माकमेव हि । कोऽपि स्यात्सर्वभावानां हेतुरीश्वर एव च ॥ २,३७.१५२ ॥ इत्येवं मन्यमानानां ध्यानमार्गावलम्बिनाम् । आविरासीन्महादेवी देवी गिरिवरात्मजा ॥ २,३७.१५३ ॥ कोटिसूर्यप्रतीकाशा ज्वालामालासमावृता । स्वभाभिर्विमलाभिस्तु पूरयन्ती नभस्तलम् ॥ २,३७.१५४ ॥ तामन्वपश्यन् गिरिजाममेयां ज्वालासहस्रान्तरसन्निविष्टाम् । प्रणेमुरेकामखिलेशपत्नीं जानन्ति ते तत्परमस्य बीजम् ॥ २,३७.१५५ ॥ असमाकमेषा परमेशपत्नी गतिस्तथात्मा गगनाभिधाना । पश्यन्त्यथात्मानमिदं च कृत्स्नं तस्यामथैते मुनयश्च विप्राः ॥ २,३७.१५६ ॥ निरीक्षितास्ते परमेशपत्न्या तदन्तरे देवमशेषहेतुम् । पश्यन्ति शंभुं कविमीशितारं रुद्रं बृहन्तं पुरुषं पुराणम् ॥ २,३७.१५७ ॥ आलोक्य देवीमथ देवमीशं प्रणेमुरानन्दमवापुरग्र्यम् । ज्ञानं तदैशं भगवत्प्रसादा दाविर्बभौ जन्मविनाशहेतु ॥ २,३७.१५८ ॥ इयं हि सा जगतो योनिरेका सर्वात्मिका सर्वनियामिका च । माहेश्वरीशक्तिरनादिसिद्धा व्योमाभिधाना दिवि राजतीव ॥ २,३७.१५९ ॥ अस्या महत्परमेष्ठी परस्ता न्महेश्वरः शिव एकोऽथ रुद्रः । चकार विश्वं परशक्तिनिष्ठां मायामथारुह्य स देवदेवः ॥ २,३७.१६० ॥ एको देवः सर्वभूतेषु गूढो मायी रुद्रः सकलो निष्कलश्च । स एव देवी न च तद्विभिन्न मेतज्ज्ञात्वा ह्यमृतत्वं व्रजन्ति ॥ २,३७.१६१ ॥ अन्तर्हितोऽभूद्भगवानथेशो देव्या भर्गः सह देवादिदेवः । आराधयन्ति स्म तमेव देवं वनौकसस्ते पुनरेव रुद्रम् ॥ २,३७.१६२ ॥ एतद्वः कथितं सर्वं देवदेवविचेष्टितम् । देवदारुवने पूर्वं पुराणे यन्मया श्रुतम् ॥ २,३७.१६३ ॥ यः पठेच्छृणुयान्नित्यं मुच्यते सर्वपातकैः । श्रावयेद्वा द्विजान् शान्तान् स याति परमां गतिम् ॥ २,३७.१६४ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे सप्तत्रिंशोऽध्यायः _____________________________________________________________ सूत उवाच एषा पुण्यतमा देवी देवगन्धर्वसेविता । नर्मदा लोकविख्याता तीर्थानामुत्तमा नदी ॥ २,३८.१ ॥ तस्याः शृणुध्वं माहात्म्यं मार्कण्डेयेन भाषितम् । युधिष्ठिराय तु शुभं सर्वपापप्रणाशनम् ॥ २,३८.२ ॥ युधिष्ठिर उवाच श्रुतास्तु विविधा धर्मास्त्वत्प्रसादान्महामुने । माहात्म्यं च प्रयागस्य तीर्थानि विविधानि च ॥ २,३८.३ ॥ नर्मदा सर्वतीर्थानां मुख्या हि भवतेरिता । तस्यास्त्विदानीं माहात्म्यं वक्तुमर्हसि सत्तम ॥ २,३८.४ ॥ मार्कण्डेय उवाच नर्मदा सरितां श्रेष्ठा रुद्रदेहाद्विनिः सृता । तारयेत्सर्वभूतानि स्थावराणि चराणि च ॥ २,३८.५ ॥ नर्मदायास्तु माहात्म्यं पुराणे यन्मया श्रुतम् । इदानीं तत्प्रवक्ष्यामि शृणुष्वैकमनाः शुभम् ॥ २,३८.६ ॥ पुण्या कनखले गङ्गा कुरुक्षेत्रे सरस्वती । ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा ॥ २,३८.७ ॥ त्रिभिः सारस्वतं तोयं सप्ताहेन तु यामुनम् । सद्यः पुनाति गाङ्गेयं दर्शनादेव नार्मदम् ॥ २,३८.८ ॥ कलिङ्गदेशपश्चार्धे पर्वतेऽमरकण्टके । पुण्या च त्रिषु लोकेषु रमणीया मनोरमा ॥ २,३८.९ ॥ सदेवासुरगन्धर्वा ऋषयश्च तपोधनाः । तपस्तप्त्वा तु राजेन्द्र सिद्धिं तु परमां गताः ॥ २,३८.१० ॥ तत्र स्नात्वा नरो राजन्नियमस्थो जितेन्द्रियः । उपोष्य रजनीमेकां कुलानां तारयेच्छतम् ॥ २,३८.११ ॥ योजनानां शतं साग्रं श्रूयते सरिदुत्तमा । विस्तारेण तु राजेन्द्र योजनद्वयमायता ॥ २,३८.१२ ॥ षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथैव च । पर्वतस्य समन्तात्तु तिष्ठन्त्यमरकण्टके ॥ २,३८.१३ ॥ ब्रह्मचारी शुचिर्भूत्वा जितक्रोधो जितेन्द्रियः । सर्वहिंसानिवृत्तस्तु सर्वभूतहिते रतः ॥ २,३८.१४ ॥ एवं सर्वसमाचारो यस्तु प्राणान् समुत्सृजेत् । तस्य पुण्यफलं राजन् शृणुष्वावहितो नृप ॥ २,३८.१५ ॥ शतवर्षसहस्राणि स्वर्गे मोदति पाण्डव । सप्सरोगणसंकीर्णो दिव्यस्त्रीपरिवारितः ॥ २,३८.१६ ॥ दिव्यगन्धानुलिप्तश्च दिव्यपुष्पोपशोभितः । क्रीडते देवलोके तु दैवतैः सह मोदते ॥ २,३८.१७ ॥ ततः स्वर्गात्परिभ्रष्टो राजा भवति धार्मिकः । गृहं तु लभतेऽसौ वै नानारत्नसमन्वितम् ॥ २,३८.१८ ॥ स्तम्भैर्मणिमयैर्दिव्यैर्वज्रवैदूर्यभूषितम् । आलेख्यवाहनैः शुभ्रैर्दासीदाससमन्वितम् ॥ २,३८.१९ ॥ राजराजेश्वरः श्रीमान् सर्वस्त्रीजनवल्लभः । जीवेद्वर्षशतं साग्रं तत्र भोगसमन्वितः ॥ २,३८.२० ॥ अग्निप्रवेशेऽथ जले अथवानशने कृते । अनिवर्तिका गतिस्तस्य पवनस्याम्बरे यथा ॥ २,३८.२१ ॥ पश्चिमे पर्वततटे सर्वपापविनाशनः । ह्रदो जलेश्वरो नाम त्रिषु लोकेषु विश्रुतः ॥ २,३८.२२ ॥ तत्र पिण्डप्रदानेन संध्योपासनकर्मणा । दशवर्षाणि पितरस्तर्पिताः स्युर्न संशयः ॥ २,३८.२३ ॥ दक्षिणे नर्मदाकूले कपिलाख्या महानदी । सरलार्जुनसंच्छन्ना नातिदूरे व्यवस्थिता ॥ २,३८.२४ ॥ सा तु पुण्या महाभागा त्रिषु लोकेषु विश्रुता । तत्र कोटिशतं साग्रं तीर्थानां तु युधिष्ठिर ॥ २,३८.२५ ॥ तस्मिंस्तीर्थे तु ये वृक्षाः पतिताः कालपर्ययात् । नर्मदातोयसंस्पृष्टास्ते यान्ति परमां गतिम् ॥ २,३८.२६ ॥ द्वितीया तु महाभागा विशल्यकरणी शुभा । तत्र तीर्थे नरः स्नात्वा विशल्यो भवति क्षणात् ॥ २,३८.२७ ॥ कपिला च विशल्या च श्रूयते राजसत्तम । ईश्वरेण पुरा प्रोक्ता लोकानां हितकाम्यया ॥ २,३८.२८ ॥ अनाशकं तु यः कुर्यात्तस्मिंस्तीर्थे नराधिप । सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ॥ २,३८.२९ ॥ तत्र स्नात्वा नरो राजन्नश्वमेधफलं लभेत् । ये वसन्त्युत्तरे कूले रुद्रलोके वसन्ति ते ॥ २,३८.३० ॥ सरस्वत्यां च गङ्गायां नर्मदायां युधिष्ठिर । समं स्नानं च दानं च यथा मे शङ्करोऽब्रवीत् ॥ २,३८.३१ ॥ परित्यजति यः प्रणान् पर्वतेऽमरकण्टके । वर्षकोटिशतं साग्रं रुद्रलोके महीयते ॥ २,३८.३२ ॥ नर्मदायां जलं पुण्यं फेनोर्मिसमलङ्कृतम् । पवित्रं शिरसा वन्द्य सर्वपापैः प्रमुच्यते ॥ २,३८.३३ ॥ नर्मदा सर्वतः पुण्या ब्रह्महत्यापहारिणी । अहोरात्रोपवासेन मुच्यते ब्रह्महत्यया ॥ २,३८.३४ ॥ जालेश्वरं तीर्थवरं सर्वपापविनाशनम् । तत्र गत्वा नियमवान् सर्वकामांल्लभेन्नरः ॥ २,३८.३५ ॥ चन्द्रसूर्योपरागे तु गत्वा ह्यमरकण्टकम् । अश्वमेधाद्दशगुणं पुण्यमाप्नोति मानवः ॥ २,३८.३६ ॥ एष पुण्यो गिरिवरो देवगन्धर्वसेवितः । नानाद्रुमलताकीर्णो नानापुष्पोपशोभितः ॥ २,३८.३७ ॥ तत्र संनिहितो राजन् देव्या सह महेश्वरः । ब्रह्मा विष्णुस्तथा चेन्द्रो विद्याधरगणैः सह ॥ २,३८.३८ ॥ प्रदक्षिणं तु यः कुर्यात्पर्वतं ह्यमरकण्टकम् । पौण्डरीकस्य यज्ञस्य फलं प्राप्नोति मानः ॥ २,३८.३९ ॥ कावेरी नाम विपुला नदी कल्पषनाशिनी । तत्र स्नात्वा महादेवमर्चयेद्वृषभध्वजम् । संगमे नर्मदायास्तु रुद्रलोके महीयते ॥ २,३८.४० ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे अष्टात्रिशोऽध्यायः _____________________________________________________________ मार्कण्डेय उवाच नर्मदा सरितां श्रेष्ठा सर्वपापविनाशिनी । मुनिभिः कथिता पूर्वमीश्वरेण स्वयंभुवा ॥ २,३९.१ ॥ मुनिभिः संस्तुता ह्येषा नर्मदा प्रवरा नदी । रुद्रगात्राद्विनिष्क्रान्ता लोकानां हितकाम्यया ॥ २,३९.२ ॥ सर्वपापहरा नित्यं सर्वदेवनमस्कृता । संस्तुता देवगन्धर्वैरप्यरोभिस्तथैव च ॥ २,३९.३ ॥ उत्तरे चैव तत्कूले तीर्थं त्रैलोक्यविश्रुतम् । नाम्ना भद्रेश्वरं पुण्यं सर्वपापहरं शुभम् । तत्र स्नात्वा नरो राजन् दैवतैः सह मोहते ॥ २,३९.४ ॥ ततो गच्छेत राजेन्द्र तीर्थमाम्रातकेश्वरम् । तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत् ॥ २,३९.५ ॥ ततोऽङ्गारेश्वरं गच्छेन्नियतो नियताशनः । सर्वपापविशुद्धात्मा रुद्रलोके महीयते ॥ २,३९.६ ॥ ततो गच्छेत राजेन्द्र केदारं नाम पुण्यदम् । तत्र स्नात्वोदकं कृत्वा सर्वान् कामानवाप्नुयात् ॥ २,३९.७ ॥ पिप्पलेशं ततो गच्छेत्सर्वपापविनाशनम् । तत्र स्नात्वा महाराज रुद्रलोके महीयते ॥ २,३९.८ ॥ ततो गच्छेत राजेन्द्र विमलेश्वरमुत्तमम् । तत्र प्राणान् परित्यज्य रुद्रलोकमवाप्नुयात् ॥ २,३९.९ ॥ ततः पुष्करिणीं गच्छेत्स्नानं तत्र समाचरेत् । स्नातमात्रो नरस्तत्र इन्द्रस्यार्धासनं लभेत् ॥ २,३९.१० ॥ ततो गच्छेत राजेन्द्र शूलभेदमिति श्रुतम् । तत्र स्नात्वार्चयेद्देवं गोसहस्रफलं लभेत् ॥ २,३९.११ ॥ ततो गच्छेत राजेन्द्र बलितीर्थमनुत्तम् । तत्र स्नात्वा नरो राजन् सिहासनपतिर्भवेत् ॥ २,३९.१२ ॥ शक्रतीर्थं ततो गच्छेत्कूले चैव तु दक्षिणे । उपोष्य रजनीमेकां स्नानं कृत्वा यथाविधि ॥ २,३९.१३ ॥ आराधयेन्महायोगं देवं नारायणं हरिम् । गोसहस्रफलं प्राप्य विष्णुलोकं स गच्छति ॥ २,३९.१४ ॥ ऋषितीर्थं ततो गत्वा सर्वपापहरं नृणाम् । स्नातमात्रो नरस्तत्र शिवलोके महीयते ॥ २,३९.१५ ॥ नारदस्य तु तत्रैव तीर्थं परमशोभनम् । स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् ॥ २,३९.१६ ॥ यत्र तप्तं तपः पूर्वं नारदेन सुरर्षिणा । प्रतीस्तस्य ददौ योगं देवदेवो महेश्वरः ॥ २,३९.१७ ॥ ब्रह्मणा निर्मितं लिङ्गं ब्रह्मेश्वरमिति श्रुतम् । यत्र स्नात्वा नरो राजन् ब्रह्मलोके महीयते ॥ २,३९.१८ ॥ ऋणतीर्थं ततो गच्छेत्स ऋणान्मुच्यते ध्रुवम् । महेश्वरं ततो गच्छेत्पर्याप्तं जन्मनः फलम् ॥ २,३९.१९ ॥ भीमेश्वरं ततो गच्छेत्सर्वव्याधिविनाशनम् । स्नातमात्रो नरस्तत्र सर्वदुःखैः प्रमुच्यते ॥ २,३९.२० ॥ ततो गच्छेत राजेन्द्र पिङ्गलेश्वरमुत्तमम् । अहोरात्रोपवासेन त्रिरात्रफलमाप्नुयात् ॥ २,३९.२१ ॥ तस्मिंमस्तीर्थे तु राजेन्द्र कपिलां यः प्रयच्छति । यावन्ति तस्या रोमाणि तत्प्रसूतिकुलेषु च । तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥ २,३९.२२ ॥ यस्तु प्राणपरित्यागं कुर्यात्तत्र नराधिप । अक्षयं मोदते कालं यावच्चन्द्रदिवाकरौ ॥ २,३९.२३ ॥ नर्मदातटमाश्रित्य तिष्ठन्ते ये तु मानवाः । ते मृताः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ २,३९.२४ ॥ ततो दीप्तेश्वरं गच्छेद्व्यासतीर्थं तपोवनम् । निवर्तिता पुरा तत्र व्यासभीता महानदी । हुङ्कारिता तु व्यासेन दक्षिणेन ततो गता ॥ २,३९.२५ ॥ प्रदक्षिणं तु यः कुर्यात्तस्मिंस्तीर्थे युधिष्ठिर । प्रीतस्तस्य भवेद्व्यासो वाञ्छितं लभते फलम् ॥ २,३९.२६ ॥ ततो गच्छेत राजेन्द्र इक्षुनद्यास्तु संगमम् । त्रैलोक्यविश्रुतं पुण्यं तत्र सन्निहितः शिवः । तत्र स्तनात्वा नरो राजन् गाणपत्यमवाप्नुयात् ॥ २,३९.२७ ॥ स्कन्दतीर्थं ततो गच्छेत्सर्वपापप्रणाशनम् । आजन्मनः कृतं पापं स्नातस्तीव्रं व्यपोहति ॥ २,३९.२८ ॥ तत्र देवाः सगन्धर्वा भवात्मजमनुत्तमम् । उपासते महात्मानं स्कन्दं शक्तिधिरं प्रभुम् ॥ २,३९.२९ ॥ ततो गच्छेदाङ्गिरसं स्नानं तत्र समाचरेत् । गोसहस्रफलं प्राप्य रुद्रलोकं स गच्छति ॥ २,३९.३० ॥ अङ्गिरा यत्र देवेशं ब्रह्मपुत्रो वृषध्वजम् । तपसाराध्य विश्वेशं लब्धवान् योगमुत्तमम् ॥ २,३९.३१ ॥ कुशतीर्थं ततो गच्छेत्सर्वपापप्रणाशनम् । स्नानं तत्र प्रकुर्वोत अश्वमेधफलं लभेत् ॥ २,३९.३२ ॥ कोटितीर्थं ततो गच्छेत्सर्वपापप्रणाशनम् । तत्र स्त्रात्वा नरो राज्यं लभते नात्र संशयः ॥ २,३९.३३ ॥ चन्द्रभागां ततो गच्छेत्स्नानं तत्र समाचरेत् । स्नातमात्रो नरस्तत्र सोमलोके महीयते ॥ २,३९.३४ ॥ नर्मदादक्षिणे कूले संगमेश्वरमुत्तमम् । तत्र स्नात्वा नरो राजन् सर्वयज्ञफलं लभेत् ॥ २,३९.३५ ॥ नर्मदायोत्तरे कूले तीर्थं परमशोभनम् । आदित्यायतनं रम्यमीश्वरेण तु भाषितम् ॥ २,३९.३६ ॥ तत्र स्नात्वा तु राजेन्द्र दत्त्वा दानं तु शक्तितः । तस्य तीर्थप्रभावेण लभते चाक्षयं फलम् ॥ २,३९.३७ ॥ दरिद्रा व्याधिता ये तु ये च दुष्कृतकारिणः । मुच्यन्ते सर्वपापेभ्यः सूर्यलोकं प्रयान्ति च ॥ २,३९.३८ ॥ मार्गेश्वरं ततो गच्छेत्स्नानं तत्र समाचरेत् । स्नातमात्रो नरस्तत्र स्वर्गलोकमवाप्नुयात् ॥ २,३९.३९ ॥ ततः पश्चिमतो गच्छेन्मरुदालयमुत्तमम् । तत्र स्नात्वा तु राजेन्द्र शुचिर्भूत्वा प्रयत्नतः ॥ २,३९.४० ॥ काञ्चनं तु द्विजो दद्याद्यथाविभवविस्तरम् । पुष्पकेण विमानेन वायुलोकं स गच्छति ॥ २,३९.४१ ॥ ततो गच्छेत राजेन्द्र अहल्यातीर्थमुत्तमम् । स्नानमात्रादप्सरोभिर्मोदते कालमक्षयम् ॥ २,३९.४२ ॥ चैत्रमासे तु संप्राप्ते शुक्लपक्षे त्रयोदशी । कामदेवदिने तस्मिन्नहल्यां यस्तु पूजयेत् ॥ २,३९.४३ ॥ यत्र तत्र नरोत्पन्नो वरस्तत्र प्रियो भवेत् । स्त्रीवल्लभो भवेच्छ्रीमान् कामदेव इवापरः ॥ २,३९.४४ ॥ अयोध्यां तु समासाद्य तीर्थं शक्रस्य विश्रुतम् । स्नातमात्रो नरस्तत्र गोसहस्रफलं लभेत् ॥ २,३९.४५ ॥ सोमतीर्थं ततो गच्छेत्स्नानं तत्र समाचरेत् । स्नातमात्रो नरस्तत्र सर्वपापैः प्रमुच्यते ॥ २,३९.४६ ॥ सोमग्रहे तु राजेन्द्र पापक्षयकरं भवेत् । त्रैलोक्यविश्रुतं राजन् सोमतीर्थं महाफलम् ॥ २,३९.४७ ॥ यस्तु चान्द्रायणं कुर्यात्तत्र तीर्थे समाहितः । सर्वपापविशुद्धात्मा सोमलोकं स गच्छति ॥ २,३९.४८ ॥ अग्निप्रवेशं यः कुर्यात्सोमतीर्थे नराधिप । जले चानशनं वापि नासौ मर्त्योऽभिजायते ॥ २,३९.४९ ॥ स्तम्भतीर्थं ततो गच्छेत्स्नानं तत्र समाचरेत् । स्नातमात्रो नरस्तत्र सोमलोके महीयते ॥ २,३९.५० ॥ ततो गच्छेत राजेन्द्र विष्णुतीर्थमनुत्तमम् । योधनीपुरमाख्यातं विष्णोः स्थानमनुत्तमम् ॥ २,३९.५१ ॥ असुरा योधितास्तत्र वासुदेवेन कोटिशः । तत्र तीर्थं समुत्पन्नं विष्णुश्रीको भवेदिह । अहोरात्रोपवासेन ब्रह्महत्यां व्यपोहति ॥ २,३९.५२ ॥ नर्मदादक्षिणे कूले तीर्थं परमशोभनम् । कामतीर्थमिति ख्यातं यत्र कामोर्ऽचयद्भवम् ॥ २,३९.५३ ॥ तस्मिंस्तीर्थे नरः स्नात्वा उपवासपरायणः । कुसुमायुधरूपेण रुद्रोलोके महीयते ॥ २,३९.५४ ॥ ततो गच्छेत राजेन्द्र ब्रह्मतीर्थमनुत्तमम् । उमाहकमिति ख्यातं तत्र संतर्पयेत्पितॄन् ॥ २,३९.५५ ॥ पौर्णमास्याममावास्यां श्र्धं कुर्याद्यथाविधि । गजरूपा शिला तत्र तोयमध्ये व्यवस्थिता ॥ २,३९.५६ ॥ तस्मिंस्तु दापयेत्पिण्डान् वैशाख्यान्तु विशेषतः । स्नात्वा समाहितमना दम्भमात्सर्यवर्जितः । तृप्यन्ति पितरस्तस्य यावत्तिष्ठति मेदिनी ॥ २,३९.५७ ॥ सिद्धेश्वरं ततो गच्छेत्स्नानं तत्र समाचरेत् । स्नातमात्रो नरस्तत्र गाणपत्यपदं लभेत् ॥ २,३९.५८ ॥ ततो गच्छेत राजेन्द्र लिङ्गो यत्र जनार्दनः । तत्र स्नात्वा तु राजेन्द्र विष्णुलोके महीयते ॥ २,३९.५९ ॥ यत्र नारायणो देवो मुनोनां भावितात्मनाम् । स्वात्मानं दर्शयामास लिङ्गं तत्परमं पदम् ॥ २,३९.६० ॥ अङ्कोलं तु ततो गच्छेत्सर्वपापविनाशनम् । स्नानं दानं च तत्रैव ब्राह्मणानां च भोजनम् । पिण्डप्रिदानं च कृतं प्रेत्यानन्तफलप्रदम् ॥ २,३९.६१ ॥ त्रैयम्बकेन तोयेन यश्चरुं श्रपयेत्ततः । अङ्कोलमूले दद्याच्च पिण्डांश्चैव यथाविधि । तारिताः पितरस्तेन तृप्यन्त्याचन्द्रतारकम् ॥ २,३९.६२ ॥ ततो गच्छेत राजेन्द्र तापसेश्वरमुत्तमम् । तत्र स्नात्वा तु राजेन्द्र प्राप्नुयात्तपसः फलम् ॥ २,३९.६३ ॥ शुक्लतीर्थं ततो गच्छेत्सर्वपापविनाशनम् । नास्ति तेन सम तीर्थं नर्मदायां युधिष्ठिर ॥ २,३९.६४ ॥ दर्शनात्स्पर्शनात्तस्य स्नानदानतपोजपात् । होमाच्चैवोपवासाच्च शुक्लतीर्थे महत्फलम् ॥ २,३९.६५ ॥ योजनं तत्स्मृतं क्षेत्रं देवगन्धर्वसेवितम् । शुक्लतीर्थमिति ख्यातं सर्वपापविनाशनम् ॥ २,३९.६६ ॥ पादपाग्रेण दृष्टेन ब्रह्महत्यां व्यपोहति । देव्या सह सदा भर्गस्तत्र तिष्ठति शङ्करः ॥ २,३९.६७ ॥ कृष्णपक्षे चतुर्दश्यां वैशाखे मासि सुव्रत । कैलासाच्चाभिनिष्क्रम्य तत्र सन्निहितो हरः ॥ २,३९.६८ ॥ देवदानवगन्धर्वाः सिद्धविद्याधरास्तथा । गणाश्चाप्सरसां नागास्तत्र तिष्ठन्ति पुङ्गव ॥ २,३९.६९ ॥ रजकेन यथा वस्त्रं शुक्लं भवति वारिणा । आजन्मनि कृतं पापं शुक्लतीर्थे व्यपोहति । स्नानं दानं तपः श्राद्धमनन्तं तत्र दृश्यते ॥ २,३९.७० ॥ शुक्लतीर्थात्परं तीर्थं न भूतं न भविष्यति । पूर्वे वयसि कर्माणि कृत्वा पापानि मानवः । अहोरात्रोपवासेन शुक्लतीर्थे व्यपोहति ॥ २,३९.७१ ॥ कार्तिकस्य तु मासस्य कृष्णपक्षे चतुर्दशी । घृतेन स्नापयेद्देवमुपोष्य परमेश्वरम् । एकविंशत्कुलोपेतो न च्यवेदैश्वरात्पदात् ॥ २,३९.७२ ॥ तपसा ब्रह्मचर्येण यज्ञदानेन वा पुनः । न तां गतिमवाप्नोति शुक्लतीर्थे तु यां लभेत् ॥ २,३९.७३ ॥ शुक्लतीर्थं महातीर्थमृषिसिद्धनिषेवितम् । तत्र स्नात्वा नरो राजन् पुनर्जन्म न विन्दति ॥ २,३९.७४ ॥ अयने वा चतुर्दश्यां संक्रान्तौ विषुवे तथा । स्नात्वा तु सोपवासः सन् विजितात्मा समाहितः ॥ २,३९.७५ ॥ दानं दद्याद्यथाशक्ति प्रीयेतां हरिशङ्करौ । एतत्तीर्थप्रभावेण सर्वं भवति चाक्षयम् ॥ २,३९.७६ ॥ अनाथं दुर्गतं विप्रं नाथवन्तमथापि वा । उद्वादयति यस्तीर्थे तस्य पुण्यफलं शृणु ॥ २,३९.७७ ॥ यावत्तद्रोमसंख्या तु तत्प्रसूतिकुलेषु च । तावद्वर्षसहस्राणि रुद्रलोके महीयते ॥ २,३९.७८ ॥ ततो गच्छेत राजेन्द्र यमतीर्थ मनुत्तमम् । कृष्णपक्षे चतुर्दश्यां माघमासे युधिष्ठिर । स्नानं कृत्वा नक्तभीजी न पश्येद्योनिसङ्कटम् ॥ २,३९.७९ ॥ ततो गच्छेत राजेन्द्र एरण्डीतीर्थमुत्तमम् । संगमे तु नरः स्नायादुपवासपरायणः । ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिताः ॥ २,३९.८० ॥ एरण्डीसंगमे स्नात्वा भक्तिभावात्तुरञ्जितः । मृत्तिकां शिरसि स्थाप्य अवगाह्य च तज्जलम् । नर्मदोदकसंमिश्रं मुच्यते सर्वकिल्बिषैः ॥ २,३९.८१ ॥ ततो गच्छेत राजेन्द्र तीर्थं कार्णाटिकेश्वरम् । गङ्गावतरते तत्र दिने पुण्ये न संशयः ॥ २,३९.८२ ॥ तत्र स्नात्वा च पीत्वा च दत्त्वा चैव यथाविधि । सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ २,३९.८३ ॥ नन्दितीर्थं ततो गच्छेत्स्नानं तत्र समाचरेत् । प्रीयते तस्य नन्दीशः सोमलोके महीयते ॥ २,३९.८४ ॥ ततो गच्छेत राजेन्द्र तीर्थं त्वनरकं शुभम् । तत्र स्नात्वा नरो राजन्नरकं नैव पश्यति ॥ २,३९.८५ ॥ तस्मिंस्तीर्थे तु राजेन्द्र स्वान्यस्थीनि विनिक्षिपेत् । रूपवान् जायते लोके धनभोगसमन्वितः ॥ २,३९.८६ ॥ ततो गच्छेत राजेन्द्र कपिलातीर्थ मुत्तमम् । तत्र स्नात्वा नरो राजन् गोसहस्रफलं लभेत् ॥ २,३९.८७ ॥ ज्येष्ठमासे तु संप्राप्ते चतुर्दश्यां विशेषतः । तत्रोपोष्य नरो भक्त्या दद्याद्दीपं घृतेन तु ॥ २,३९.८८ ॥ घृतेन स्नापयेद्रुद्रं सघृतं श्रीफलं दहेत् । घण्टाभरणसंयुक्तां कपिलां वै प्रदापयेत् ॥ २,३९.८९ ॥ सर्वाभरणसंयुक्तः सर्वदेवनमस्कृतः । शिवतुल्यबलो भूत्वा शिववत्क्रीडते चिरम् ॥ २,३९.९० ॥ अङ्गारकदिने प्राप्ते चतुर्थ्यां तु विशेषतः । स्नापयित्वा शिवं दद्याद्ब्राह्मणेभ्यस्तु भोजनम् ॥ २,३९.९१ ॥ सर्वभोगसमायुक्तो विमानैः सार्वकामिकैः । गत्वा शक्रस्य भवनं शक्रेण सह मोदते ॥ २,३९.९२ ॥ ततः स्वर्गात्परिभ्रष्टो धनवान् भोगवान् भवेत् । अङ्गारकनवम्यां तु अमावास्यां तथैव च । स्नापयेत्तत्र यत्नेन रूपवान् सुभगो भवेत् ॥ २,३९.९३ ॥ ततो गच्छेत राजेन्द्र गणेश्वरमनुत्तमम् । श्रावणे मासी संप्राप्ते कृष्णपक्षे चतुर्दशी ॥ २,३९.९४ ॥ स्नातमात्रो नरस्तत्र रुद्रलोके महीयते । पितॄणां तर्पणं कृत्वा मुच्यतेऽसावॄणत्रयात् ॥ २,३९.९५ ॥ गङ्गेश्वरसमीपे तु गङ्गावदनमुत्तमम् । अकामो वा सकामो वा तत्र स्नात्वा तु मानवः । आजन्मजनितैः पापैर्मुच्यते नात्र संशयः ॥ २,३९.९६ ॥ तस्य वै पश्चिमे देशे समीपे नातिदूरतः । दशाश्वमेधिकं तीर्थं त्रिषु लोकेषु विश्रुतम् ॥ २,३९.९७ ॥ उपोष्य रजनीमेकां मासि भाद्रपदे शुभे । अमावस्यां नरः स्नात्वा पूजयेद्वृषभध्वजम् ॥ २,३९.९८ ॥ काञ्चनेन विमानेन किङ्किणीजालमालिना । गत्वा रुद्रपुरं रम्यं रुद्रेण सह मोदते ॥ २,३९.९९ ॥ सर्वत्र सर्वदिवसे स्नानं तत्र समाचरेत् । पितॄणां तर्पणं कुर्यादश्वमेधफलं लभेत् ॥ २,३९.१०० ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे एकोनचत्वारिशोऽध्यायः _____________________________________________________________ मार्कण्डेय उवाच ततो गच्छेत राजेन्द्र भृगुतीर्थ मनुत्तमम् । तत्र देवो भृगुः पुर्वं रुद्रमाराधयत्पुरा ॥ २,४०.१ ॥ दर्शनात्तस्य देवस्य सद्यः पापात्प्रमुच्यते । एतत्क्षेत्रं सुविपुलं सर्वपापप्रणाशनम् ॥ २,४०.२ ॥ तत्र स्नात्वा दिवं यान्ति ये मृतास्तेऽपुनर्भवाः । उपानहोस्तथा युग्मं देयमन्नं सकाञ्चनम् । भोजनं च यथाशक्ति तदस्याक्षयमुच्यते ॥ २,४०.३ ॥ क्षरन्ति सर्वदानानि यज्ञदानं तपः क्रिया । अक्षयं तत्तपस्तप्तं भृगुतीर्थे युधिष्ठिर ॥ २,४०.४ ॥ तस्यैव तपसोग्रेण तुष्टेन त्रिपुरारिणा । सान्निध्यं तत्र कथितं भृगुतीर्थे युधिष्ठिर ॥ २,४०.५ ॥ ततो गच्छेत राजेन्द्र गौतमेश्वरमुत्तमम् । यत्राराध्य त्रिशूलाङ्कं गौतमः सिद्धिमाप्नुयात् ॥ २,४०.६ ॥ तत्र स्नात्वा नरो राजनुपवासपरायणः । काञ्चनेन विमानेन ब्रह्मलोके महीयते ॥ २,४०.७ ॥ वृषोत्सर्गं ततो गच्छेच्छाश्वतं पदमाप्नुयात् । न जानन्ति नरा मूढा विष्णोर्मायाविमोहिताः ॥ २,४०.८ ॥ धौतपापं ततो गच्छेद्धौतं यत्र वृषेण तु । नर्मदायां स्थितं राजन् सर्वपातकनाशनम् । तत्र तीर्थे नरः स्नात्वा ब्रह्महत्यां व्यपोहति ॥ २,४०.९ ॥ तत्र तीर्थे तु राजेन्द्र प्राणत्यागं करोति यः । चतुर्भुजस्त्रिनेत्रश्च हरतुल्यबलो भवेत् ॥ २,४०.१० ॥ वसेत्कल्पायुतं साग्रं शिवतुल्यपराक्रमः । कालेन महता जातः पृथिव्यामेकराड्भवेत् ॥ २,४०.११ ॥ ततो गच्छेत राजेन्द्र हंसतीर्थ मनुत्तमम् । तत्र स्नात्वा नरो राजन् ब्रह्मलोके महीयते ॥ २,४०.१२ ॥ ततो गच्छेत राजेन्द्र सिद्धो यत्र जनार्दनः । वराहतीर्थ माख्यातं विष्णुलोकगतिप्रदम् ॥ २,४०.१३ ॥ ततो गच्छेत राजेन्द्र चन्द्रतीर्थमनुत्तमम् । पौर्णमास्यां विशेषेण स्नानं तत्र समाचरेत् । स्नातमात्रो नरस्तत्र चन्द्रलोके महीयते ॥ २,४०.१४ ॥ ततो गच्छेत राजेन्द्र कन्यातीर्थमनुत्तमम् । शुक्लपक्षे तृतीयायां स्नानं तत्र समाचरेत् । स्नातमात्रो नरस्तत्र पृथिव्यामेकराड्भवेत् ॥ २,४०.१५ ॥ देवतीर्थ ततो गच्छेत्सर्वदेवनमकृतम् । तत्र स्नात्वा च राजेन्द्र दैवतैः सह मोदते ॥ २,४०.१६ ॥ ततो गच्छेत राजेन्द्र शिखितीर्थमनुत्तमम् । यत्तत्र दीयते दानं सर्वं कोटिगुणं भवेत् ॥ २,४०.१७ ॥ ततो गच्छेत राजेन्द्र तीर्थं पैतामहं शुभम् । यत्तत्र क्रियते श्राद्धं सर्वं तदक्षयं भवेत् ॥ २,४०.१८ ॥ सावित्रीतीर्थमासाद्य यस्तु प्राणान् परित्यजेत् । विधूय सर्वपापानि ब्रह्मलोके महीयते ॥ २,४०.१९ ॥ मनोहरं तु तत्रैव तीर्थं परमशोभनम् । तत्र स्नात्वा नरो राजन् दैवतैः सह मोदते ॥ २,४०.२० ॥ ततो गच्छेत राजेन्द्र मानसं तीर्थमुत्तमम् । स्नात्वा तत्र नरो राजन् रुद्रलोके महीयते ॥ २,४०.२१ ॥ स्वर्गबिन्दुं ततो गच्छेत्तीर्थं देवनमस्कृतम् । तत्र स्नात्वा नरो राजन् दुर्गतिं नैव गच्छति ॥ २,४०.२२ ॥ अप्सरेशं ततो गच्छेत्स्नानं तत्र समाचरेत् । क्रीडते नाकलोकस्थो ह्यप्सरोभिः स मोदते ॥ २,४०.२३ ॥ ततो गच्छेत राजेन्द्र भारभूतिमनुत्तमम् । उपोषितोर्ऽचयेदीशं रुद्रलोके महीयते । अस्मिंस्तीर्थे मृतो राजन् गाणपत्यमवाप्नुयात् ॥ २,४०.२४ ॥ कार्तिके मासि देवेशमर्चयेत्पार्वतीपतिम् । अश्वमेधाद्दशगुणं प्रवदन्ति मनीषिणः ॥ २,४०.२५ ॥ वृषभं यः प्रयच्छेत तत्र कुन्देन्दुसप्रभम् । वृषयुक्तेन यानेन रुद्रलोकं स गच्छति ॥ २,४०.२६ ॥ एतत्तीर्थं समासाद्य यस्तु प्राणान् परित्यजेत् । सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ॥ २,४०.२७ ॥ जलप्रवेशं यः कुर्यात्तस्मिंस्तीर्थे नराधिप । हंसयुक्तेन यानेन स्वर्गलोकं स गच्छति ॥ २,४०.२८ ॥ एरण्ड्या नर्मदायास्तु संगमं लोकविश्रुतम् । तत्र तीर्थं महापुण्यं सर्वपापप्रणाशनम् ॥ २,४०.२९ ॥ उपवासपरो भूत्वा नित्यं व्रतपरायणः । तत्र स्नात्वा तु राजेन्द्र मुच्यते ब्रह्महत्यया ॥ २,४०.३० ॥ ततो गच्छेत राजेन्द्र नर्मदोदधिसंगमम् । जमदग्निरिति ख्यातः सिद्धो यत्र जनार्दनः ॥ २,४०.३१ ॥ तत्र स्नात्वा नरो राजन्नर्मदोदधिसंगमे । त्रिगुणं चाश्वमेधस्य फलं प्राप्नोति मानवः ॥ २,४०.३२ ॥ ततो गच्छेत राजेन्द्र पिङ्गलेश्वरमुत्तमम् । तत्र स्नात्वा नरो राजन् रुद्रलोके महीयते ॥ २,४०.३३ ॥ तत्रोपवासं यः कृत्वा पश्येत विमलेश्वरम् । सप्तजन्मकृतं पापं हित्वा याति शिवालयम् ॥ २,४०.३४ ॥ ततो गच्छेत राजेन्द्र आलिकातीर्थमुत्तमम् । उपोष्य रजनीमेकां नियतो नियताशनः । अस्य तीर्थस्य माहात्म्यान्मुच्यते ब्रह्महत्यया ॥ २,४०.३५ ॥ एतानि तव संक्षेपात्प्राधान्यात्कथितानि तु । न शक्या विस्तराद्वक्तुं संख्या तीर्थेषुपाण्डव ॥ २,४०.३६ ॥ एषा पवित्रा विमला नदी त्रैलोक्यविश्रुता । नर्मदा सरितां श्रेष्ठा महादेवस्य वल्लभा ॥ २,४०.३७ ॥ मनसा संस्मरेद्यस्तु नर्मदां वै युधिष्ठिर । चान्द्रायणशतं साग्रं लभते नात्र संशयः ॥ २,४०.३८ ॥ अश्रद्दधानाः पुरुषा नास्तिक्यं घोरमाश्रिताः । पतन्ति नरके घोरे इत्याह परमेश्वरः ॥ २,४०.३९ ॥ नर्मदां सेवते नित्यं स्वयं देवो महेश्वरः । तेन पुण्या नदी ज्ञेया ब्रह्महत्यापहारिणी ॥ २,४०.४० ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे चत्वारिंशोऽध्यायः _____________________________________________________________ सूत उवाच इदं त्रैलोक्यविख्यातं तीर्थं नैमिशमुत्तमम् । महादेवप्रियकरं महापातकनाशनम् ॥ २,४१.१ ॥ महादेवं दिदृक्षूणामृषीणणां परमेष्ठिनाम् । ब्रहामणा निर्मितं स्थानं तपस्तप्तुं द्विजोत्तमाः ॥ २,४१.२ ॥ मरीचयोऽत्रयो विप्रा वसिष्ठाः क्रतवस्तथा । भृगवोऽङ्गिरसः पूर्वा ब्रह्माणं कमलोद्भवम् ॥ २,४१.३ ॥ समेत्य सर्ववरदं चतुर्मूर्ति चतुर्मुखम् । पृच्छन्ति प्रणिपत्यैनं विश्वकर्माणमच्युतम् ॥ २,४१.४ ॥ षट्कुलीया ऊचुः भगवन् देवमीशानं भर्गमेकं कपर्दिनम् । केनोपायेन पश्यामो ब्रूहि देवनमस्कृतम् ॥ २,४१.५ ॥ ब्रह्मोवाच सत्रं सहस्रमासध्वं वाङ्मनोदोषवर्जिताः । देशं च वः प्रवक्ष्यामि यस्मिन् देशे चरिष्यथ ॥ २,४१.६ ॥ उक्त्वा मनोमयं चक्रं स सृष्ट्वा तानुवाच ह । क्षिप्तमेतन्मया चक्रमनुव्रजत मा चिरम् । यत्रास्य नेमिः शीर्येत स देशः पुरुषर्षभाः ॥ २,४१.७ ॥ ततो मुमोच तच्चक्रं ते च तत्समनुव्रजन् । तस्य वै व्रजतः क्षिप्रं यत्र नेमिरशीर्यत । नैमिसं तत्स्मृतं नाम्ना पुण्यं सर्वत्र पूजितम् ॥ २,४१.८ ॥ सिद्धचारणसंकीर्णं यक्षगन्धर्वसेवितम् । स्थानं भगवतः शंभोरेतन्नैमिशमुत्तमम् ॥ २,४१.९ ॥ अत्र देवाः सगन्धर्वाः सयक्षोरगराक्षसाः । तपस्तप्त्वा पुरा देवा लेभिरे प्रवरान् वरान् ॥ २,४१.१० ॥ इमं देशं समाश्रित्य षट्कुलीयाः समाहिताः । सत्रेणाराध्य देवेशं दृष्टवन्तो महेश्वरम् ॥ २,४१.११ ॥ अत्र दानं तपस्तप्तं स्नानं जप्यादिकं च यत् । एकैकं पावयेत्पापं सप्तजन्मकृतं द्विजाः ॥ २,४१.१२ ॥ अत्र पूर्वं स भगवानृषीणां सत्रमासताम् । प्रोवाच वायुर्ब्रह्माण्डं पुराणं ब्रह्मभाषितम् ॥ २,४१.१३ ॥ अत्र देवो महादेवो रुद्राण्या किल विश्वकृत् । रमतेऽध्यापि भगवान् प्रमथैः परिवारितः ॥ २,४१.१४ ॥ अत्र प्राणान् परित्यज्य नियमेन द्विजातयः । ब्रह्मलोकं गमिष्यन्ति यत्र गत्वा न जायते ॥ २,४१.१५ ॥ अन्यच्च तीर्थप्रवरं जाप्येश्वरमितिश्रुतम् । जजाप रुद्रमनिशं यत्र नन्दी महागणः ॥ २,४१.१६ ॥ प्रीतस्तस्य महादेवो देव्या सह पिनाकधृक् । ददावात्मसमानत्वं मृत्युवञ्चनमेव च ॥ २,४१.१७ ॥ अभूदृषिः स धर्मात्मा शिलादो नाम धर्मवित् । आराधयन्महादेवं पुत्रार्थं वृषभध्वजम् ॥ २,४१.१८ ॥ तस्य वर्षसहस्रान्ते तप्यमानस्य विश्वकृत् । शर्वः सोमो गणवृतो वरदोऽस्मीत्यभाषत ॥ २,४१.१९ ॥ स वव्रे वरमीशानं वरेण्यं गिरिजापतिम् । अयोनिजं मृत्युहीनं देहि पुत्रं त्वया समम् ॥ २,४१.२० ॥ तथास्त्वित्याह भगवान् देव्या सह महेश्वरः । पश्यतस्तस्य विप्रर्षेरन्तर्धानं गतो हरः ॥ २,४१.२१ ॥ ततो यियक्षुः स्वां भूमिं शिलादो धर्मवित्तमः । चकर्ष लाङ्गलेनोर्वों भित्त्वादृश्यत शोभनः ॥ २,४१.२२ ॥ संवर्तकानलप्रख्यः कुमारः प्रहसन्निव । रूपलावण्यसंपन्नस्तेजसा भासयन् दिशः ॥ २,४१.२३ ॥ कुमारतुल्योऽप्रतिमो मेघगम्भीरया गिरा । शिलादं तात तातेति प्राह नन्दी पुनः पुनः ॥ २,४१.२४ ॥ तं दृष्ट्वा नन्दनं जातं शिलादः परिषस्वजे । मुनिभ्यो दर्शयामास ये तदाश्रमवासिनः ॥ २,४१.२५ ॥ जातकर्मादिकाः सर्वाः क्रियास्तस्य चकार ह । उपनीय यथाशास्त्रं वेदमध्यापयत्सुतम् ॥ २,४१.२६ ॥ अधीतवेदो भगवान्नन्दी मतिमनुत्तमाम् । चक्रे महेश्वरं द्रष्टुं जेष्ये मृत्युमिति प्रभुम् ॥ २,४१.२७ ॥ स गत्वा सरितं पुण्यामेकाग्रश्रद्धयान्वितः । जजाप रुद्रमनिशं महेशासक्तमानसः ॥ २,४१.२८ ॥ तस्य कोट्यां तु पूर्णायां शङ्करो भक्तवत्सलः । आगत्य साम्बः सगणो वरदोऽस्मीत्युवाच ह ॥ २,४१.२९ ॥ स वव्रे पुनरेवाहं जपेयं कोटिमीश्वरम् । तावदायुर्महादेव देहीति वरमीश्वर ॥ २,४१.३० ॥ एवमस्त्विति संप्रोच्य देवोऽप्यन्तरधीयत । जजाप कोटिं भगवान् भूयस्तद्गतमानसः ॥ २,४१.३१ ॥ द्वितीयायां च कोट्यां वै संपूर्णायां वृषध्वजः । आगत्य वरदोऽस्मीति प्राह भूतगणैर्वृतः ॥ २,४१.३२ ॥ तृतीयां जप्तुमिच्छामि कोटिं भूयोऽपि शङ्कर । तथास्त्वित्याह विश्वात्मा देवोऽप्यन्तरधीयत ॥ २,४१.३३ ॥ कोटित्रयेऽथ संपूर्णे देवः प्रीतमना भृशम् । आगत्य वरदोऽस्मीति प्राह भूतगणैर्वृतः ॥ २,४१.३४ ॥ जपेयं कोटिमन्यां वै भूयोऽपि तव तेजसा । इत्युक्ते भगवानाह न जप्तव्यं त्वया पुनः ॥ २,४१.३५ ॥ अमरो जरया त्यक्तो मम पार्श्वगतः सदा । महागणपतिर्देव्याः पुत्रो भव महेश्वरः ॥ २,४१.३६ ॥ योगीश्वरो योगनेता गणानामीश्वरेश्वरः । सर्वलोकाधिपः श्रीमान् सर्वज्ञो मद्बलान्वितः ॥ २,४१.३७ ॥ ज्ञानं तन्मामकं दिव्यं हस्तामलकवत्तव । आभूतसंप्लवस्थायी ततो यास्यसि मत्पदम् ॥ २,४१.३८ ॥ एतदुक्त्वा महादेवो गणानाहूय शङ्करः । अभिषेकेण युक्तेन नन्दीश्वरमयोजयत् ॥ २,४१.३९ ॥ उद्वाहयामास च तं स्वयमेव पिनाकधृक् । मरुतां च शुभां कन्यां सुयशेति च विश्रुताम् ॥ २,४१.४० ॥ एतज्जप्येश्वरं स्थानं देवदेवस्य शूलिनः । यत्र तत्र मृतो मर्त्यो रुद्रलोके महीयते ॥ २,४१.४१ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे एकचत्वारिंशोऽध्यायः _____________________________________________________________ सूत उवाच अन्यच्च तीर्थप्रवरं जप्येश्वरसमीपतः । नाम्ना पञ्चनदं पुण्यं सर्वपापप्रणाशनम् ॥ २,४२.१ ॥ त्रिरात्रोपोषितस्तत्र पूजयित्वा महेश्वरम् । सर्वपापविशुद्धात्मा रुद्रलोके महीयते ॥ २,४२.२ ॥ अन्यच्च तीर्थप्रवरं शङ्करस्यामितौजसः । महाभैरवमित्युक्तं महापातकनाशनम् ॥ २,४२.३ ॥ तीर्थानां च परं तीर्थं वितस्ता परमा नदी । सर्वपापहरा पुण्या स्वयमेव गिरीन्द्रजा ॥ २,४२.४ ॥ तीर्थं पञ्चतपं नाम शंभोरमिततेजसः । यत्र देवादिदेवेन चक्रार्थं पूजितो भवः ॥ २,४२.५ ॥ पिण्डदानादिकं तत्र प्रेत्यानन्तफलप्रदम् । मृतस्तत्रापि नियमाद्ब्रह्मलोके महीयते ॥ २,४२.६ ॥ कायावरोहणं नाम महादेवालयं शुभम् । यत्र माहेश्वरा धर्मा मुनिभिः संप्रवर्तिताः ॥ २,४२.७ ॥ श्राद्धं दानं तपो होम उपवासस्तथाक्षयः । परित्यजति यः प्राणान् रुद्रलोकं स गच्छति ॥ २,४२.८ ॥ अन्यच्च तीर्थप्रवरं कन्यातीर्थमिति श्रुतम् । तत्र गत्वा त्यजेत्प्राणांल्लोकान् प्राप्नोति शाश्वतान् ॥ २,४२.९ ॥ जामदग्न्यस्य तु शुभं रामस्याक्लिष्टकर्मणः । तत्र स्नात्वा तीर्थ वरे गोसहस्रफलं लभेत् ॥ २,४२.१० ॥ महाकालमिति ख्यातं तीर्थं त्रैलोक्यविश्रुतम् । गत्वा प्राणान् परित्यज्य गाणपत्यमवाप्नुयात् ॥ २,४२.११ ॥ गुह्याद्गुह्यतमं तीर्थं नकुलीश्वरमुत्तमम् । तत्र सन्निहितः श्रीमान् भगवान्नकुलीश्वरः ॥ २,४२.१२ ॥ हिमवच्छिखरे रम्ये गङ्गाद्वारे सुशोभने । देव्या सह महादेवो नित्यं शिष्यैश्च संवृतः ॥ २,४२.१३ ॥ तत्र स्नात्वा महादेवं पूजयित्वा वृषध्वजम् । सर्वपापैर्विमुच्येत मृतस्तज्ज्ञानमाप्नुयात् ॥ २,४२.१४ ॥ अन्यच्च देवदेवस्य स्थानं पुण्यतमं शुभम् । भीमेश्वरमिति ख्यातं गत्वा मुञ्चति पातकम् ॥ २,४२.१५ ॥ तथान्यच्चण्डवेगायाः संभेदः पापनाशनः । तत्र स्नात्वा च पीत्वा च मुच्यते ब्रह्महत्यया ॥ २,४२.१६ ॥ सर्वेषामपि चैतेषां तीर्थानां परमा पुरी । नाम्नावाराणसी दिव्या कोटिकोट्ययुताधिका ॥ २,४२.१७ ॥ तस्याः पुरस्तान्माहात्म्यं भाषितं वो मया त्विह । नान्यत्र लभ्यते मुक्तिर्योगिनाप्येकजन्मना ॥ २,४२.१८ ॥ एते प्राधान्यतः प्रोक्ता देशाः पापहरा नृणाम् । गत्वा संक्षालयेत्पापं जन्मान्तरशतैः कृतम् ॥ २,४२.१९ ॥ यः स्वधर्मान् परित्यज्य तीर्थसेवां करोति हि । न तस्य फलते तीर्थमहि लोके परत्र च ॥ २,४२.२० ॥ प्रायश्चित्ती च विधुरस्तथा पापचरो गृही । प्रकुर्यात्तीर्थसंसेवां ये चान्ये तादृशा जनाः ॥ २,४२.२१ ॥ सहाग्निर्वा सपत्नीको गच्छेत्तीर्थानि यत्नतः । सर्वपापविनिर्मुक्तो यथोक्तां गतिमाप्नुयात् ॥ २,४२.२२ ॥ ऋणानि त्रीण्यपाकृत्य कुर्याद्वा तीर्थसेवनम् । विधाय वृत्तिं पुत्राणां भार्यां तेषु निधाय च ॥ २,४२.२३ ॥ प्रायश्चित्तप्रसङ्गेन तीर्थमाहात्म्यमीरितम् । यः पठेच्छृणुयाद्वापि मुच्यते सर्वपातकैः ॥ २,४२.२४ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे द्विचत्वारिंशोऽध्यायः _____________________________________________________________ सूत उवाच एतदाकर्ण्य विज्ञानं नारायणमुखेरितम् । कूर्मरूपधरं देवं पप्रच्छुर्मुनयः प्रभुम् ॥ २,४३.१ ॥ मुनय ऊचुः कथिता भवता धर्मा मोक्षज्ञानं सविस्तरम् । लोकानां सर्गविस्तारं वंशमन्वन्तराणि च ॥ २,४३.२ ॥ प्रतिसर्गमिदानीं नो वक्तुमर्हसी माधव । भूतानां भूतभव्येश यथा पूर्वं त्वयोदितम् ॥ २,४३.३ ॥ सूत उवाच श्रुत्वा तेषां तदा वाक्यं भगवान् कूर्मरूपधृक् । व्याजहार महायोगी भूतानां प्रतिसंचरम् ॥ २,४३.४ ॥ कूर्म उवाच नित्यो नैमित्तिकश्चैव प्राकृतात्यन्तिकौ तथा । चतुर्धायं पुराणेऽस्मिन् प्रोच्यते प्रतिसंचरः ॥ २,४३.५ ॥ योऽयं संदृश्यते नित्यं लोके भूतक्षयस्त्विह । नित्यः संकीर्त्यते नाम्ना मुनिभिः प्रतिसंचरः ॥ २,४३.६ ॥ ब्राह्मो नैमित्तिको नाम कल्पान्ते यो भविष्यति । त्रैलोक्यस्यास्य कथितः प्रतिसर्गो मनीषिभिः ॥ २,४३.७ ॥ महादाद्यां विशेषान्तं यदा संयाति संक्षयम् । प्राकृतः प्रतिसर्गोऽयं प्रोच्यते कालचिन्तकैः ॥ २,४३.८ ॥ ज्ञानादात्यन्तिकः प्रोक्तो योगिनः परमात्मनि । प्रलयः प्रतिसर्गोऽयं कालचिन्तापरैर्द्विजैः ॥ २,४३.९ ॥ आत्यन्तिकश्च कथितः प्रलयोऽत्र ससाधनः । नैमित्तिकमिदानीं वः कथयिष्ये समासतः ॥ २,४३.१० ॥ चतुर्युगसहस्रान्ते संप्राप्ते प्रतिसंचरे । स्वात्मसंस्थाः प्रजाः कर्तुं प्रतिपेदे प्रजापतिः ॥ २,४३.११ ॥ ततो भवत्यनावृष्टिस्तीव्रा सा शतवार्षिकी । भूतक्षयकरी घोरा सर्वभूतक्षयङ्करी ॥ २,४३.१२ ॥ ततो यान्यल्पसाराणि सत्त्वानि पृथिवीतले । तानि चाग्रे प्रलीयन्ते भूमित्वमुपयान्ति च ॥ २,४३.१३ ॥ सप्तरश्मिरथो भूत्वा समुत्तिष्ठन् दिवाकरः । असह्यरश्मिर्भवति पिबन्नम्भो गभस्तिभिः ॥ २,४३.१४ ॥ तस्य ते रश्मयः सप्त पिबन्त्यम्बु महार्णवे । तेनाहारेण ता दीप्ताः सूर्याः सप्त भवन्त्युत ॥ २,४३.१५ ॥ ततस्ते रश्मयः सप्त सूर्या भूत्वा चतुर्दिशम् । चतुर्लोकमिदं सर्वं दहन्ति शिखिनस्तथा ॥ २,४३.१६ ॥ व्याप्नुवन्तश्च ते विप्रास्तूर्ध्वं चाधश्च रश्मिभिः । दीप्यन्ते भास्कराः सप्त युगान्ताग्निप्रतापिनः ॥ २,४३.१७ ॥ ते सूर्या वारिणा दीप्ता बहुसाहस्त्ररश्मयः । खं समावृत्य तिष्ठन्ति निर्दहन्तो वसुंधराम् ॥ २,४३.१८ ॥ ततस्तेषां प्रतापेन दह्यमाना वसुंधरा । साद्रिनद्यर्णवद्वीपा निस्नेहा समपद्यत ॥ २,४३.१९ ॥ दीप्ताभिः संतताभिश्च रश्मिभिर्वै समन्ततः । अधश्चोर्ध्वं च लग्नाभिस्तिर्यक्चैव समावृतम् ॥ २,४३.२० ॥ सूर्याग्निना प्रमृष्टानां संसृष्टानां परस्परम् । एकत्वमुपयातानामेकज्वालं भवत्युत ॥ २,४३.२१ ॥ सर्वलोकप्रणाशश्च सोऽग्निर्भूत्वा सुकुण्डली । चतुर्लोकमिदं सर्वं निर्दहत्यात्मतेजसा ॥ २,४३.२२ ॥ ततः प्रलीने सर्वस्मिञ्जङ्गमे स्थावरे तथा । निर्वृक्षा निस्तृणा भूमिः कूर्मपृष्ठा प्रकाशते ॥ २,४३.२३ ॥ अम्बरीषमिवाभाति सर्वमापूरितं जगत् । सर्वमेव तदर्चिर्भिः पूर्णं जाज्वल्यते पुनः ॥ २,४३.२४ ॥ पाताले यानि सत्त्वानि महोदधिगतानि च । ततस्तानि प्रलीयन्ते भूमित्वमुपयान्ति च ॥ २,४३.२५ ॥ द्वीपांश्च पर्वतांश्चैव वर्षाण्यथ महोदधीन् । तान् सर्वान् भस्मसात्कृत्वा सप्तात्मा पावकः प्रभुः ॥ २,४३.२६ ॥ समुद्रेभ्यो नदीभ्यश्च पातालेभ्यश्च सर्वशः । पिबन्नपः समिद्धोऽग्निः पृथिवीमाश्रितो ज्वलन् ॥ २,४३.२७ ॥ ततः संवर्तकः शैलानतिक्रम्य महांस्तथा । लोकान् दहति दीप्तात्मा रुद्रतेजोविजॄम्भितः ॥ २,४३.२८ ॥ स दग्ध्वा पृथिवीं देवो रसातलमशोषयत् । अधस्तात्पृथिवीं दग्ध्वा दिवमूर्ध्वं दहिष्यति ॥ २,४३.२९ ॥ योजनानां शतानीह सहस्राण्ययुतानि च । उत्तिष्ठन्ति शिखास्तस्य वह्नेः संवर्तकस्य तु ॥ २,४३.३० ॥ गन्धर्वांश्च पिशाचांश्च सयक्षोरगराक्षसान् । तदा दहत्यसौ दीप्तः कालरुद्रप्रचोदितः ॥ २,४३.३१ ॥ भूर्लोकं च भुवर्लोकं स्वर्लोकं च तथा महः । दहेदशेषं कालाग्निः कालो विश्वतनुः स्वयम् ॥ २,४३.३२ ॥ व्याप्तेष्वेतेषु लोकेषु तिर्यगूर्ध्वमथाग्निना । तत्तेजः समनुप्राप्य कृत्स्नं जगदिदं शनैः । अयोगुडनिभं सर्वं तदा चैकं प्रकाशते ॥ २,४३.३३ ॥ ततो गजकुलोन्नादास्तडिद्भिः समलङ्कृताः । उत्तिष्ठन्ति तदा व्योम्नि घोराः संवर्तका घनाः ॥ २,४३.३४ ॥ केचिन्नीलोत्पलश्यामाः केचित्कुमुदसन्निभाः । धूम्रवर्णास्तथा केचित्केचित्पीताः पयोधराः ॥ २,४३.३५ ॥ केचिद्रासभवर्णास्तु लाक्षारसनिभास्तथा । शङ्खकुन्दनिभाश्चान्ये जात्यञ्जननिभाः परे ॥ २,४३.३६ ॥ मनः शिलाभास्त्वन्ये च कपोतसदृशाः परे । इन्द्रगोपनिभाः केचिद्धरितालनिभास्तथा । इन्द्रचापनिभाः केचिदुत्तिष्ठन्ति घना दिवि ॥ २,४३.३७ ॥ केचित्पर्वतसंकाशाः केचिद्गजकुलोपमाः । कूटाङ्गारनिभाश्चान्ये केचिन्मीनकुलोद्वहाः । बहूरूपा घोरूपा घोरस्वरनिनादिनः ॥ २,४३.३८ ॥ तदा जलधराः सर्वे पूरयन्ति नभः स्थलम् । ततस्ते जलदा घोरा राविणो भास्करात्मजाः । सप्तधा संवृतात्मानस्तमग्निं शमयन्त्युत ॥ २,४३.३९ ॥ ततस्ते जलदा वर्षं मुञ्चन्तीह महौघवत् । सुघोरमशिवं सर्वं नाशयन्ति च पावकम् ॥ २,४३.४० ॥ प्रवृष्टे च तदात्यर्थमम्भसा पूर्यते जगत् । अद्भिस्तेजोभिभूतत्वात्तदाग्निः प्रविशत्यपः ॥ २,४३.४१ ॥ नष्टे चाग्नौ वर्षशतैः पयोदाः क्षयसंभवाः । प्लावयन्तोऽथ भुवनं महाजलपरिस्त्रवैः ॥ २,४३.४२ ॥ धाराभिः पूरयन्तीदं चोद्यमानाः स्वयंभुवा । अत्यन्तसलिलौघैश्च वेला इव महोदधिः ॥ २,४३.४३ ॥ साद्रिद्वीपा तथा पृथ्वी जलैः संच्छाद्यते शनैः । आदित्यरश्मिभिः पीतं जलमभ्रेषु तिष्ठति । पुनः पतति तद्भूमौ पूर्यन्ते तेन चार्णवाः ॥ २,४३.४४ ॥ ततः समुद्राः स्वां वेलामतिक्रान्तास्तु कृत्स्नशः । पर्वताश्च विलीयन्ते मही चाप्सु निमज्जति ॥ २,४३.४५ ॥ तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे । योगनिन्द्रां समास्थाय शेते देवः प्रजापतिः ॥ २,४३.४६ ॥ चतुर्युगसहस्रान्तं कल्पमाहुर्महर्षयः । वाराहो वर्तते कल्पो यस्य विस्तार ईरितः ॥ २,४३.४७ ॥ असंख्यातास्तथा कल्पा ब्रह्मविष्णुशिवात्मकाः । कथिता हि पुराणेषु मुनिभिः कालचिन्तकैः ॥ २,४३.४८ ॥ सात्त्विकेष्वथ कल्पेषु माहात्म्यमधिकं हरेः । तामसेषु हरस्योक्तं राजसेषु प्रजापतेः ॥ २,४३.४९ ॥ योऽयं प्रवर्तते कल्पो वाराहः सात्त्विको मतः । अन्ये च सात्त्विकाः कल्पा मम तेषु परिग्रहः ॥ २,४३.५० ॥ ध्यानं तपस्तथा ज्ञानं लब्ध्वा तेष्वेव योगिनः । आराध्य गिरिशं मां च यान्ति तत्परमं पदम् ॥ २,४३.५१ ॥ सोऽहं सत्त्वं समास्थाय मायी मायामयीं स्वयम् । एकार्णवे जगत्यस्मिन् योगनिद्रां व्रजामि तु ॥ २,४३.५२ ॥ मां पश्यन्ति महात्मानः सुप्तं कालं महर्षयः । जनलोके वर्तमानास्तपसा योगचक्षुषा ॥ २,४३.५३ ॥ अहं पुराणपुरुषो भूर्भुवः प्रभवो विभुः । सहस्रचरणः श्रीमान् सहस्रांशुः सहस्रदृक् ॥ २,४३.५४ ॥ मन्त्रोऽग्निर्ब्राह्मिणा गावः कुशाश्च समिधो ह्यहम् । प्रोक्षणी च श्रुवश्चैव सोमो घृतमथास्म्यहम् ॥ २,४३.५५ ॥ संवर्तको महानात्मा पवित्रं परमं यशः । वेदो वेद्यं प्रभुर्गोप्ता गोपतिर्ब्रह्मणो मुखम् ॥ २,४३.५६ ॥ अनन्तस्तारको योगी गतिर्गतिमतां वरः । हंसः प्राणोऽथ कपिलो विश्वमूर्तिः सनातनः ॥ २,४३.५७ ॥ क्षेत्रज्ञः प्रकृतिः कालो जगद्बीजमथामृतम् । माता पिता महादेवो मत्तो ह्यन्यन्न विद्यते ॥ २,४३.५८ ॥ आदित्यवर्णो भुवनस्य गोप्ता नारायणः पुरुषो योगमूर्तिः । मां पश्यन्ति यतयो योगनिष्ठा ज्ञात्वात्मानममृतत्वं व्रजन्ति ॥ २,४३.५९ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे त्रिचत्वारिंशोऽध्यायः _____________________________________________________________ कूर्म उवाच अतः परं प्रवक्ष्यामि प्रतिसर्गमनुत्तमम् । प्राकृतं हि समासेन शृणुध्वं गदतो मम ॥ २,४४.१ ॥ गते परार्धद्वितये कालो लोकप्रकालनः । कालाग्निर्भस्मसात्कर्तुं करोति निकिलं मतिम् ॥ २,४४.२ ॥ स्वात्मन्यात्मानमावेश्य भूत्वा देवो महेश्वरः । दहेदशेषं ब्रह्माण्डं सदेवासुरमानुषम् ॥ २,४४.३ ॥ तमाविश्य महादेवो भगवान्नीललोहितः । करोति लोकसंहारं भीषणं रूपमाश्रितः ॥ २,४४.४ ॥ प्रविश्य मण्डलं सौरं कृत्वासौ बहुधा पुनः । निर्दहत्यखिलं लोकं सप्तसप्तिस्वरूपधृक् ॥ २,४४.५ ॥ स दग्ध्वा सकलं सत्त्वमस्त्रं ब्रह्मशिरो महत् । देवतानां शरीरेषु क्षिपत्यखिलदाहकम् ॥ २,४४.६ ॥ दग्धेष्वशेषदेवेषु देवी गिरिवरात्मजा । एकासा साक्षिणी शंभोस्तिष्ठते वैदिकी श्रुतिः ॥ २,४४.७ ॥ शिरः कपालैर्देवानां कृतस्त्रग्वरभूषणः । आदित्यचन्द्रादिगणैः पूरयन् व्योममण्डलम् ॥ २,४४.८ ॥ सहस्रनयनो देवः सहस्राकृतिरिश्वरः । सहस्रहस्तचरणः सहस्रार्चिर्महाभुजः ॥ २,४४.९ ॥ दंष्ट्राकरालवदनः प्रदीप्तानललोचनः । त्रिशूली कृत्तिवसनो योगमैश्वरमास्थितः ॥ २,४४.१० ॥ पीत्वा तत्परमानन्दं प्रभूतममृतं स्वयम् । करोति ताण्डवं देवीमालोक्य परमेश्वरः ॥ २,४४.११ ॥ पीत्वा नृत्तामृतं देवी भर्तुः परममङ्गला । योगमास्थाय देवस्य देहमायाति शूलिनः ॥ २,४४.१२ ॥ संत्यक्त्वा ताण्डवरसं स्वेच्छयैव पिनाकधृक् । ज्योतिः स्वभावं भगवान् दग्ध्वा ब्रह्माण्डमण्डलम् ॥ २,४४.१३ ॥ संस्थितेष्वथ देवेषु ब्रह्मविष्णुपिनाकिषु । गुणैरशेषैः पृथिवीविलयं याति वारिषु ॥ २,४४.१४ ॥ स वारितत्त्वं सगुणं ग्रसते हव्यवाहनः । तेजस्तु गुणसंयुक्तं वायौ संयाति संक्षयम् ॥ २,४४.१५ ॥ आकाशे सगुणो वायुः प्रलयं याति विश्वभृत् । भूतादौ च तथाकाशं लीयते गुणसंयुतम् ॥ २,४४.१६ ॥ इन्द्रियाणि च सर्वाणि तैजसे यान्ति संक्षयम् । वैकारिके देवगणाः प्रलंय यान्ति सत्तमाः ॥ २,४४.१७ ॥ वैकारिकस्तैजसश्च भूतादिश्चेति सत्तमाः । त्रिविधोऽयमहङ्कारो महति प्रलंय व्रजेत् ॥ २,४४.१८ ॥ महान्तमेभिः सहितं ब्रह्माणमतितेजसम् । अव्यक्तं जगतो योनिः संहरेदेकमव्ययम् ॥ २,४४.१९ ॥ एवं संहृत्य भूतानि तत्त्वानि च महेश्वरः । वियोजयति चान्योन्यं प्रधानं पुरुषं परम् ॥ २,४४.२० ॥ प्रधानपुंसोरजयोरेष संहार ईरितः । महेश्वरेच्छाजनितो न स्वयं विद्यते लयः ॥ २,४४.२१ ॥ गुणसाम्यं तदव्यक्तं प्रकृतिः परिगीयते । प्रधानं जगतो योनिर्मायातत्त्वमचेतनम् ॥ २,४४.२२ ॥ कूटस्थश्चिन्मयो ह्यात्मा केवलः पञ्चविंशकः । गीयते मुनिभिः साक्षी महानेकः पितामहः ॥ २,४४.२३ ॥ एवं संहारकरणी शक्तिर्माहेश्वरी ध्रुवा । प्रधानाद्यं विशेषान्तं दहेद्रुद्र इति श्रुतिः ॥ २,४४.२४ ॥ योगिनामथ सर्वेषां ज्ञानविन्यस्तचेतसाम् । आत्यन्तिकं चैव लयं विदधातीह शङ्करः ॥ २,४४.२५ ॥ इत्येष भगवान् रुद्रः संहारं कुरुते वशी । स्थापिका मोहनी शक्तिर्नारायण इति श्रुतिः ॥ २,४४.२६ ॥ हिरण्यगर्भा भगवान् जगत्सदसदात्मकम् । सृजेदशेषं प्रकृतेस्तन्मयः पञ्चविंशकः ॥ २,४४.२७ ॥ सर्वज्ञाः सर्वगाः शान्ताः स्वात्मन्येवव्यवस्थिताः । शक्तयो ब्रह्मविण्वीशा भुक्तिमुक्तिफलप्रदाः ॥ २,४४.२८ ॥ सर्वेश्वराः सर्ववन्द्याः शाश्वतानन्तभोगिनः । एकमेवाक्षरं तत्त्वं पुंप्रधानेश्वरात्मकम् ॥ २,४४.२९ ॥ अन्याश्च शक्तयो दिव्याः सन्ति तत्र सहस्रशः । इज्यन्ते विविधैर्यज्ञैः शक्रादित्यादयोऽमराः ॥ २,४४.३० ॥ एकैकस्य सहस्राणि देहानां वै शतानि च । कथ्यन्ते चैव माहात्म्याच्छक्तिरेकैव निर्गुणाः ॥ २,४४.३१ ॥ तां तां शक्तिं समाधाय स्वयं देवो महेश्वरः । करोति देहान् विविधान् ग्रसते चैव लीलया ॥ २,४४.३२ ॥ इज्यते सर्वयज्ञेषु ब्राह्मणैर्वेदवादिभिः । सर्वकामप्रदो रुद्र इत्येषा वैदिकी श्रुतिः ॥ २,४४.३३ ॥ सर्वासामेव शक्तीनां ब्रह्मविष्णुमहेश्वराः । प्राधान्येन स्मृता देवाः शक्तयः परमात्मनः ॥ २,४४.३४ ॥ आद्यः परस्ताद्भगवान् परमात्मा सनातनः । गीयते सर्वशक्त्यात्मा शूलपाणिर्महेश्वरः ॥ २,४४.३५ ॥ एनमेके वदन्त्यग्निं नारायणमथापरे । इन्द्रमेके परे विश्वान् ब्रह्माणमपरे जगुः ॥ २,४४.३६ ॥ ब्रह्मविष्णवग्निवरुणाः सर्वे देवास्तथर्षयः । एकस्यैवाथ रुद्रस्य भेदास्ते परिकीर्तिताः ॥ २,४४.३७ ॥ यं यं भेदं समाश्रित्य यजन्ति परमेश्वरम् । तत्तद्रूपं समास्थाय प्रददाति फलं शिवः ॥ २,४४.३८ ॥ तस्मादेकतरं भेदं समाश्रित्यापि शाश्वतम् । आराधयन्महादेवं याति तत्परमं पदम् ॥ २,४४.३९ ॥ किन्तु देवं महादेवं सर्वशक्तिं सनातनम् । आराधयेद्वै गिरिशं सगुणं वाथ निर्गुणम् ॥ २,४४.४० ॥ मया प्रोक्तो हि भवतां योगः प्रागेव निर्गुणः । आरुरुक्षुस्तु सगुणं पूजयेत्परमेश्वरम् ॥ २,४४.४१ ॥ पिनाकिनं त्रिनयनं जटिलं कृत्तिवाससम् । पद्मासनस्थं रुक्माभं चिन्तयेद्वैदिकी श्रुतिः ॥ २,४४.४२ ॥ एष योगः समुद्दिष्टः सबीजो मुनिसत्तमाः । तस्मात्सर्वान् परित्यज्य देवान् ब्रह्मपुरोगमान् । आराधयेद्विरूपाक्षमादिमध्यान्तसंस्थितम् ॥ २,४४.४३ ॥ भक्तियोगसमायुक्तः स्वधर्मनिरतः शुचिः । तादृशं रूपमास्थाय समायात्यन्तिकं शिवम् ॥ २,४४.४४ ॥ एष योगः समुद्दिष्टः सबीजोऽत्यन्तभावने । यथाविधि प्रकुर्वाणः प्राप्नुयादैश्वरं पदम् ॥ २,४४.४५ ॥ अत्राप्यशक्तोऽथ हरं विष्णुं बह्माणमर्चयेत् । अथ चेदसमर्थः स्यात्तत्रापि मुनिपुङ्गवाः । ततो वाय्वग्निशक्रादीन् पूजयेद्भक्तिसंयुतः ॥ २,४४.४६ ॥ ये चान्ये भावने शुद्धे प्रागुक्ते भवतामिह । अथापि कथितो योगो निर्बोजश्च सबीजकः ॥ २,४४.४७ ॥ ज्ञानं तदुक्तं निर्बोजं पूर्वं हि भवतां मया । विष्णुं रुद्रं विरञ्चिं च सबीजं भावयेद्बुधः । सथवाग्न्यादिकान् देवांस्तत्परः संयतेन्द्रियः ॥ २,४४.४८ ॥ पूजयेत्पुरुषं विष्णुं चतुर्मूर्तिधरं हरिम् । अनादिनिधनं देवं वासुदेवं सनातनम् ॥ २,४४.४९ ॥ नारायणं जगद्योनिमाकाशं परमं पदम् । तल्लिङ्गधारी नियतं तद्भक्तस्तदपाश्रयः । एष एव विधिर्ब्राह्मे भावने चान्तिके मतः ॥ २,४४.५० ॥ इत्येतत्कथितं ज्ञानं भावनासंश्रयं परम् । इन्द्रद्युम्नाय मुनये कथितं यन्मया पुरा ॥ २,४४.५१ ॥ अव्यक्तात्मकमेवेदं चेतनाचेतनं जगत् । तदीश्वरः परं ब्रह्म तस्माद्ब्रह्ममयं जगत् ॥ २,४४.५२ ॥ सूत उवाच एतावदुक्त्वा भगवान् विरराम जनार्दनः । तुष्टुवुर्मुनयो विष्णुं शक्रेण सह माधवम् ॥ २,४४.५३ ॥ मुनय ऊचुः नमस्ते कूर्मरूपाय विष्णवे परमात्मने । नारायणाय विश्वाय वासुदेवाय ते नमः ॥ २,४४.५४ ॥ नमो नमस्ते कृष्णाय गोविन्दाय नमो नमः । माधवाय नमस्तुभ्यं नमो यज्ञेश्वराय च ॥ २,४४.५५ ॥ सहस्रशिरसे तुभ्यं सहस्राक्षाय ते नमः । नमः सहस्रहस्ताय सहस्रचरणाय च ॥ २,४४.५६ ॥ ओं नमो ज्ञानरूपाय परमात्मस्वरूपिणे । आनन्दाय नमस्तुभ्यं मायातीताय ते नमः ॥ २,४४.५७ ॥ नमो गूढशरीराय निर्गुणाय नमोऽस्तु ते । पुरुषाय पुराणाय सत्तामात्रस्वरूपिणे ॥ २,४४.५८ ॥ नमः सांख्याय योगाय केवलाय नमोऽस्तु ते । धर्मज्ञानाधिगम्याय निष्कलाय नमो नमः ॥ २,४४.५९ ॥ नमोस्तु व्योमतत्त्वाय महायोगेश्वराय च । परावराणां प्रभवे वेदवेद्याय ते नमः ॥ २,४४.६० ॥ नमो बुद्धाय शुद्धाय नमो युक्ताय हेतवे । नमो नमो नमस्तुभ्यं मायिने वेधसे नमः ॥ २,४४.६१ ॥ नमोऽस्तु ते वराहाय नारसिंहाय ते नमः । वामनाय नमस्तुभ्यं हृषीकेशाय ते नमः ॥ २,४४.६२ ॥ नमोऽस्तु कालरुद्राय कालरूपाय ते नमः । स्वर्गापवर्गदात्रे च नमोऽप्रतिहतात्मने ॥ २,४४.६३ ॥ नमो योगाधिगम्याय योगिने योगदायिने । देवानां पतये तुभ्यं देवार्तिशमनाय ते ॥ २,४४.६४ ॥ भगवंस्त्वत्प्रसादेन सर्वसंसारनाशनम् । अस्माभिर्विदितं ज्ञानं यज्ज्ञात्वामृतमश्नुते ॥ २,४४.६५ ॥ श्रुतास्तु विविधा धर्मा वंशा मन्वन्तराणि च । सर्गश्च प्रतिसर्गश्च ब्रह्माण्यस्यास्य विस्तरः ॥ २,४४.६६ ॥ त्वं हि सर्वजगत्साक्षी विश्वो नारायणः परः । त्रातुमर्हस्यनन्तात्मंस्त्वमेव शरणं गतिः ॥ २,४४.६७ ॥ सूत उवाच एतद्वः कथितं विप्रा योगमोक्षप्रदायकम् । कौर्मं पुराणमखिलं यज्जगाद गदाधरः ॥ २,४४.६८ ॥ अस्मिन् पुराणे लक्ष्म्यास्तु संभवः कथितः पुरा । मोहायाशेषभूतानां वासुदेवेन योजनम् ॥ २,४४.६९ ॥ प्रजापतीनां सर्गस्तु वर्णधर्माश्च वृत्तयः । धर्मार्थकाममोक्षाणां यथावल्लक्षणं शुभम् ॥ २,४४.७० ॥ पितामहस्य विष्णोश्च महेशस्य च धीमतः । एकत्वं च पृथक्त्वं च विशेषश्चोपवर्णितः ॥ २,४४.७१ ॥ भक्तानां लक्षणं प्रोक्तं समाचारश्च शोभनः । वर्णाश्रमाणां कथितं यथावदिह लक्षणम् ॥ २,४४.७२ ॥ आदिसर्गस्ततः पश्चादण्डावरणसप्तकम् । हिरण्यगर्भसर्गश्च कीर्तितो मुनिपुङ्गवाः ॥ २,४४.७३ ॥ कालसंख्याप्रकथनं माहात्म्यं चेश्वरस्य च । ब्रह्मणः शयनं चाप्सु नामनिर्वचनं तथा ॥ २,४४.७४ ॥ वराहवपुषा भूयो भूमेरुद्धरणं पुनः । मुख्यादिसर्गकथनं मुनिसर्गस्तथापरः ॥ २,४४.७५ ॥ व्याख्यतो रुद्रसर्गश्च ऋषिसर्गश्च तापसः । धर्मस्य च प्रजासर्गस्तामसात्पूर्वमेव तु ॥ २,४४.७६ ॥ ब्रह्मविष्णुविवादः स्यादन्तर्देहप्रवेशनम् । पद्मोद्भवत्वं देवस्य मोहस्तस्य च धीमतः ॥ २,४४.७७ ॥ दर्शनं च महेशस्य माहात्म्यं विष्णुनेरितम् । दिव्यदृष्टिप्रदानं च ब्रह्मणः परमेष्ठिनः ॥ २,४४.७८ ॥ संस्तवो देवदेवस्य ब्रह्मणा परमेष्ठिना । प्रसादो गिरिशस्याथ वरदानं तथैव च ॥ २,४४.७९ ॥ संवादो विष्णुना सार्धं शङ्करस्य महात्मनः । वरदानं तथापूर्वमन्तर्धानं पिनाकिनः ॥ २,४४.८० ॥ वधश्च कथितो विप्रा मधुकैटभयोः पुरा । अवतारोऽथ देवस्य ब्रह्मणो नाभिपङ्कजात् ॥ २,४४.८१ ॥ एकीभावश्च देवस्य विष्णुना कथितस्ततः । विमोहो ब्रह्मणश्चाथ संज्ञालाभो हरेस्ततः ॥ २,४४.८२ ॥ तपश्चरणमाख्यातं देवदेवस्य धीमतः । प्रादुर्भावो महेशस्य ललाटात्कथितस्ततः ॥ २,४४.८३ ॥ रुद्राणां कथिता सृष्टिर्ब्रह्मणः प्रतिषेधनम् । भूतिश्च देवदेवस्य वरदानोपदेशकौ ॥ २,४४.८४ ॥ अन्तर्धानं च रुद्रस्य तपश्चर्याण्डजस्य च । दर्शनं देवदेवस्य नरनारीशरीरता ॥ २,४४.८५ ॥ देव्या विभागकथनं देवदेवात्पिनाकिनः । देव्यास्तु पश्चात्कथितं दक्षपुत्रीत्वमेव च ॥ २,४४.८६ ॥ हिमवद्दुहितृत्वं च देव्या माहात्म्यमेव च । दर्शनं दिव्यरूपस्य वैश्वरूपस्य दर्शनम् ॥ २,४४.८७ ॥ नाम्नां सहस्रं कथितं पित्रा हिमवता स्वयम् । उपदेशो महादेव्या वरदानं तथैव च ॥ २,४४.८८ ॥ भृग्वादीनां प्रजासर्गो राज्ञां वंशस्य विस्तरः । प्राचेतसत्वं दक्षस्य दक्षयज्ञविमर्दनम् ॥ २,४४.८९ ॥ दधीचस्य च दक्षस्य विवादः कथितस्तदा । ततश्च शापः कथितो मुनीनां मुनिपुङ्गवाः ॥ २,४४.९० ॥ रुद्रागतिः प्रसादश्च अन्तर्धानं पिनाकिनः । पितामहस्योपदेशः कीर्त्यते रक्षणाय तु ॥ २,४४.९१ ॥ दक्षस्य च प्रजासर्गः कश्यपस्य महात्मनः । हिरण्यकशिपोर्नाशो हिरण्याक्षवधस्तथा ॥ २,४४.९२ ॥ ततश्च शापः कथितो देवदारुवनौकसाम् । निग्रहश्चान्धकस्याथ गाणपत्यमनुत्तमम् ॥ २,४४.९३ ॥ प्रह्रादनिग्रहश्चाथ बलेः संयमनं ततः । बाणस्य निग्रहश्चाथ प्रसादस्तस्य शूलिनः ॥ २,४४.९४ ॥ ऋषीणां वंशविस्तारो राज्ञां वंशाः प्रकीर्तिताः । वसुदेवात्ततो विष्णोरुत्पत्तिः स्वेच्छया हरेः ॥ २,४४.९५ ॥ दर्शनं चोपमन्योर्वै तपश्चरणमेव च । वरलाभो महादेवं दृष्ट्वा साम्बं त्रिलोचनम् ॥ २,४४.९६ ॥ कैलासगमनं चाथ निवासस्तत्र शार्ङ्गिणः । ततश्च कथ्यते भीतिर्द्वारिवत्या निवासिनाम् ॥ २,४४.९७ ॥ रक्षणं गरुडेनाथ जित्वा शत्रून्महाबलान् । नारादागमनं चैव यात्रा चैव गरुत्मतः ॥ २,४४.९८ ॥ ततश्च कृष्णागमनं मुनीनामागतिस्ततः । नैत्यकं वासुदेवस्य शिवलिङ्गार्चनं तथा ॥ २,४४.९९ ॥ मार्कण्डेयस्य च मुनेः प्रश्नः प्रोक्तस्ततः परम् । लिङ्गार्चननिमित्तं च लिङ्गस्यापि सलिङ्गिनः ॥ २,४४.१०० ॥ यथात्म्यकथनं चाथ लिङ्गाविर्भाव एव च । ब्रह्मविष्णोस्तथा मध्ये कीर्तितो मुनिपुङ्गवाः ॥ २,४४.१०१ ॥ मोहस्तयोस्तु कथितो गमनं चोर्ध्वतोऽप्यधः । संस्तवो देवदेवस्य प्रसादः परमेष्ठिनः ॥ २,४४.१०२ ॥ अन्तर्धानं च लिङ्गस्य साम्बोत्पत्तिस्ततः परम् । कीर्तिता चानिरुद्धस्य समुत्पत्तिर्द्विजोत्तमाः ॥ २,४४.१०३ ॥ कृष्णस्य गमने बुद्धिरृषीणामागतिस्तथा । अनुवशासितं च कृष्णेन वरदानं महात्मनः ॥ २,४४.१०४ ॥ गमनं चैव कृष्णस्य पार्थस्यापि च दर्शनम् । कृष्णद्वैपायनस्योक्ता युगधर्माः सनातनाः ॥ २,४४.१०५ ॥ अनुग्रहोऽथ पार्थस्य वाराणसीगतिस्ततः । पाराशर्यस्य च मुनेर्व्यासस्याद्भुतकर्मणः ॥ २,४४.१०६ ॥ वारणस्याश्च माहात्म्यं तीर्थानां चैव वर्णनम् । तीर्थयात्रा च व्यासस्य देव्याश्चैवाथ दर्शनम् । उद्वासनं च कथितं वरदानं तथैव च ॥ २,४४.१०७ ॥ प्रयागस्य च माहात्म्यं क्षेत्राणामथ कीर्तिनम् । फलं च विपुलं विप्रा मार्कण्डेयस्य निर्गमः ॥ २,४४.१०८ ॥ भुवनानां स्वरूपं च ज्योतिषां च निवेशनम् । कीर्त्यन्ते चैव वर्षाणि नदीनां चैव निर्णयः ॥ २,४४.१०९ ॥ पर्वतानां च कथनं स्थानानि च दिवौकसाम् । द्वीपानां प्रविभागश्च श्वेतद्वीपोपवर्णनम् ॥ २,४४.११० ॥ शयनं केशवस्याथ माहात्म्यं च महात्मनः । मन्वन्तराणां कथनं विष्णोर्माहात्म्यमेव च ॥ २,४४.१११ ॥ वेदशाखाप्रणयनं व्यासानां कथनं ततः । अवेदस्य च वेदानां कथनं मुनिपुङ्गवाः ॥ २,४४.११२ ॥ योगेश्वराणां च कथा शिष्याणां चाथ कीर्तनम् । गीताश्च विविधागुह्या ईश्वरस्याथ कीर्तिताः ॥ २,४४.११३ ॥ वर्णाश्रमाणामाचाराः प्रायश्चित्तविधिस्ततः । कपालित्वं च रुद्रस्य भिक्षाचरणमेव च ॥ २,४४.११४ ॥ पतिव्रतायाश्चाख्यानं तीर्थानां च विनिर्णयः । तथा मङ्कणकस्याथ निग्रहः कीर्त्यते द्विजाः ॥ २,४४.११५ ॥ वधश्च कथितो विप्राः कालस्य च समासतः । देवदारुवने शंभोः प्रवेशो माधवस्य च ॥ २,४४.११६ ॥ दर्शनं षट्कुलीयानां देवदेवस्य धीमतः । वरदानं च देवस्य नन्दिने तु प्रकीर्तितम् ॥ २,४४.११७ ॥ नैमित्तिकस्तु कथितः प्रतिसर्गस्ततः परम् । प्राकृतः प्रलयश्चोर्ध्वं सबीजो योग एव च ॥ २,४४.११८ ॥ एवं ज्ञात्वा पुराणस्य संक्षेपं कीर्तयेत्तु यः । सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ २,४४.११९ ॥ एवमुक्त्वा श्रियं देवीमादाय पुरुषोत्तमः । संत्यज्य कूर्मसंस्थानं स्वस्थानं च जगाम ह ॥ २,४४.१२० ॥ देवाश्च सर्वे मुनयः स्वानि स्थानानि भेजिरे । प्रणम्य पुरुषं विष्णुं गृहीत्वा ह्यमृतं द्विजाः ॥ २,४४.१२१ ॥ एतत्पुराणं परमं भाषितं कूर्मरूपिणा । साक्षाद्देवादिदेनेन विष्णुना विश्वयोनिना ॥ २,४४.१२२ ॥ यः पठेत्सततं मर्त्यो नियमेन समाहितः । सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥ २,४४.१२३ ॥ लिखित्वा चैव यो दद्याद्वैशाखे मासि सुव्रतः । विप्राय वेदविदुषे तस्य पुण्यं निबोधत ॥ २,४४.१२४ ॥ सर्वपापविनिर्मुक्तः सर्वैश्वर्यसमन्वितः । भुक्त्वा च विपुलान्स्वर्गे भोगान्दिव्यान्सुशोभनान् ॥ २,४४.१२५ ॥ ततः स्वर्गात्परिभ्रष्टो विप्राणां जायते कुले । पूर्वसंस्कारमाहात्म्याद्ब्रह्मविद्यामवाप्नुयात् ॥ २,४४.१२६ ॥ पठित्वाध्यायमेवैकं सर्वपापैः प्रमुच्यते । योर्ऽथं विचारयेत्सम्यक्स प्राप्नोति परं पदम् ॥ २,४४.१२७ ॥ अध्येतव्यमिदं नित्यं विप्रैः पर्वणि पर्वणि । श्रोतव्यं च द्विजश्रेष्ठा महापातकनाशनम् ॥ २,४४.१२८ ॥ एकतस्तु पुराणानि सेतिहासानि कृत्स्नशः । एकत्र चेदं परममेतदेवातिरिच्यते ॥ २,४४.१२९ ॥ धर्मनैपुण्यकामानां ज्ञाननैपुण्यकामिनाम् । इदं पुराणं मुक्त्वैकं नास्त्यन्यत्साधनं परम् ॥ २,४४.१३० ॥ यथावदत्र भगवान् देवो नारायणो हरिः । कथ्यते हि यथा विष्णुर्न तथान्येषु सुव्रताः ॥ २,४४.१३१ ॥ ब्राह्मी पौराणिकी चेयं संहिता पापनाशनी । अत्र तत्परमं ब्रह्म कीर्त्यते हि यथार्थतः ॥ २,४४.१३२ ॥ तीर्थानां परमं तीर्थं तपसां च परं तपः । ज्ञानानां परमं ज्ञानं व्रतानां परमं व्रतम् ॥ २,४४.१३३ ॥ नाध्येतव्यमिदं शास्त्रं वृषलस्य च सन्निधौ । योऽधीते स तु मोहात्मा स याति नरकान् बहून् ॥ २,४४.१३४ ॥ श्राद्धे वा दैविके कार्ये श्रावणीयं द्विजातिभिः । यज्ञान्ते तु विशेषेण सर्वदोषविशोधनम् ॥ २,४४.१३५ ॥ मुमुक्षूणामिदं शास्त्रमध्येतव्यं विशेषतः । श्रोतव्यं चाथ मन्तव्यं वेदार्थपरिबृंहणम् ॥ २,४४.१३६ ॥ ज्ञात्वा यथावद्विप्रेन्द्रान् श्रावयेद्भक्तिसंयुतान् । सर्वपापविनिर्मुक्तो ब्रह्मसायुज्यमाप्नुयात् ॥ २,४४.१३७ ॥ योऽश्रद्दधाने पुरुषे दद्याच्चाधार्मिके तथा । स प्रेत्य गत्वा निरयान् शुनां योनिं व्रजत्यधः ॥ २,४४.१३८ ॥ नमस्कृत्वा हरिं विष्णुं जगद्योनिं सनातनम् । अध्येतव्यमिदं शास्त्रं कृष्णद्वैपायनं तथा ॥ २,४४.१३९ ॥ इत्याज्ञा देवदेवस्य विष्णोरमिततेजसः । पाराशर्यस्य विप्रर्षेर्व्यासस्य च महात्मनः ॥ २,४४.१४० ॥ श्रुत्वा नारायणाद्दिव्यां नारदो भगवानृषिः । गौतमाय ददौ पूर्वं तस्माच्चैव पराशरः ॥ २,४४.१४१ ॥ पराशरोऽपि भगवान गङ्गाद्वारे मुनीश्वराः । मुनिभ्यः कथयामास धर्मकामार्थमोक्षदम् ॥ २,४४.१४२ ॥ ब्रह्मणा कथितं पूर्वं सनकाय च धीमते । सनत्कुमाराय तथा सर्वपापप्रणाशनम् ॥ २,४४.१४३ ॥ सनकाद्भगवान् साक्षाद्देवलो योगवित्तमः । अवाप्तवान् पञ्चशिखो देवलादिदमुत्तमम् ॥ २,४४.१४४ ॥ सनत्कुमाराद्भगवान्मुनिः सत्यवतीसुतः । लेभे पुराणं परमं व्यासः सर्वार्थसंचयम् ॥ २,४४.१४५ ॥ तस्माद्व्यासादहं श्रुत्वा भवतां पापनाशनम् । ऊचिवान् वै भवद्भिश्च दातव्यं धार्मिके जने ॥ २,४४.१४६ ॥ तस्मै व्यासाय गुरवे सर्वज्ञाय महर्षये । पाराशर्याय शान्ताय नमो नारायणात्मने ॥ २,४४.१४७ ॥ यस्मात्संजायते कृत्सनं यत्र चैव प्रलीयते । नमस्तस्मै सुरेशाय विष्णवे कूर्मरूपिणे ॥ २,४४.१४८ ॥ इति श्रीकूर्मपुराणे षट्साहस्त्र्यां संहितायामुपरिविभागे चतुश्चत्वारिंशोऽध्यायः उपरिविभागः समाप्तः इति श्रीकूर्मपुराणं समाप्तम्