श्रीगणेशाय नमः श्रीसरस्वत्यै नमः श्रीरामचन्द्राय नमः अथ ब्रह्माण्डमहापुराणं पूर्वभागप्रारम्भः । नमोनमः क्षये सृष्टौ स्थितौ सत्त्वमयाय वा । नमो रजस्तमःसत्त्वत्रिरूपाय स्वयंभुवे ॥ १,१.१ ॥ जितं भगवता तेन हरिणा लोकधारिणा । अजेन विश्वरूपेण निर्गुणेन गुणात्मना ॥ १,१.२ ॥ ब्रह्माणं लोककर्त्तारं सर्वज्ञमपराजितम् । प्रभुंभूतभविष्यस्य साम्प्रतस्य च सत्पतिम् ॥ १,१.३ ॥ ज्ञानमब्रतिमं तस्य वैराग्यं च जगत्पतेः । ऐश्वर्य्यं चैव धर्मश्च सद्भिः सेव्यं चतुष्टयम् ॥ १,१.४ ॥ इमान्नरस्य वै भावान्नित्यं सदसदात्मकान् । अविंशकः पुनस्तान्वै क्रियाभावार्थमीश्वरः ॥ १,१.५ ॥ लोककृल्लोकतत्त्वज्ञो योगमास्थाय योगवित् । असृजत्सर्वभूतानि स्थावराणि चराणि च ॥ १,१.६ ॥ तसहं विश्वकर्माणं सत्पतिं लोकसाक्षिणम् । पुराणाख्यानजिज्ञासुर्गच्छामि शरणं विभुम् ॥ १,१.७ ॥ पुराणं लोकतत्त्वार्थमशिलं वेदसंमितम् । प्रशशंस स भगवान् वसिष्ठाय प्रजापतिः ॥ १,१.८ ॥ तत्त्वज्ञानामृतं पुण्यं वसिष्ठो भगवानृषिः । पौत्रमध्यापयामास शक्तेः पुत्रं पराशरम् ॥ १,१.९ ॥ पराशरश्च भगवान् जातूकर्ण्यमृषिं पुरा । तमध्यापितवान्दिव्यं पुराणं वेदसंमितम् ॥ १,१.१० ॥ अधिगम्य पुराणं तु जातूकर्ण्यो विशेषवित् । द्वैपायनाय प्रददौ परं ब्रह्म सनातनम् ॥ १,१.११ ॥ द्वैपायनस्ततः प्रीतःशष्येभ्यःप्रददौवशी । लोकतत्त्वविधानार्थं पञ्चभ्यः परमाद्भुतम् ॥ १,१.१२ ॥ विख्यापनार्थं लोकेषु बह्वर्थं श्रुतिसंमतम् । जैमिनिञ्च सुमन्तुं च वैशंपायनमेवच ॥ १,१.१३ ॥ चतुर्थं पैलवं तेषां पञ्चमं लोमहर्षणम् । सूतमद्भुतवृत्तान्तं विनीतं धार्मिकं श्रुचिम् ॥ १,१.१४ ॥ अधीत्य च पुराणं च विनीतो लोमहर्षणः । ऋषिणा च त्वया पृष्टः कृतप्रज्ञः सुधार्मिकः ॥ १,१.१५ ॥ वसिष्ठश्चापि मुनिभिः प्रणाम्य शिरसा मुनीन् । भक्त्या परमया युक्तः कृत्वा चापि प्रदक्षिणम् ॥ १,१.१६ ॥ अवाप्तविद्यः सर्तुष्टः कुरुक्षेत्रमुपागमत् । सत्रे सवितते यत्र यजमानानृषीञ्शुचीन् ॥ १,१.१७ ॥ विनयेनोपसंगम्य सत्र्रिणो रोमहर्षणम् । विधानतो यथाशास्त्रं प्रज्ञयातिजगाम ह ॥ १,१.१८ ॥ ऋषयश्चापि ते सर्वे तदानीं रोमहर्षणम् । दृष्ट्वा परमसंहृष्टाः प्रीताः सुमनसस्तथा ॥ १,१.१९ ॥ सत्कारैरर्च्चयामासुरर्घ्यपाद्यादिभिस्ततः । अभिवाद्य मुनीन्सर्वान् राजाज्ञामभिगम्य च ॥ १,१.२० ॥ ऋषिभिस्तैरनुज्ञातः पृष्टः सर्वमनामयम् । अभिगम्य मुनीन्सर्वांस्तेजो ब्रह्म सनातनम् । सदस्यानुमते रम्ये स्वास्तीर्णे समुपाविशत् ॥ १,१.२१ ॥ उपविष्टे तदा तस्मिन्मुनयः शंसितव्रताः । मुदान्विता यथान्यायं विनयस्थाः समाहिताः ॥ १,१.२२ ॥ सर्वे ते ऋषयश्चैनं परिवार्य महाव्रतम् । परमप्रीतिसंयुक्ता इत्यूचुः सूतनन्दनम् ॥ १,१.२३ ॥ स्वागतं ते महाभाग दिष्ट्या च त्वांनिरामयम् । पश्याम धीमन्नत्रस्थाः सुब्रतं मुनिसत्तमम् ॥ १,१.२४ ॥ अशून्या मे रसाद्यैव भवतः पुण्यकर्मणः । भवांस्तस्य मुनेः सूत व्यासस्यापि महात्मनः ॥ १,१.२५ ॥ अनुग्राह्यः सदा धीमात्र्शिष्यः शिष्यगुणान्वितः । कृतबुद्धिश्च ते तत्त्वमनुग्राह्यतया प्रभो ॥ १,१.२६ ॥ अवाप्य विपुलं ज्ञानं सर्वतश्छिन्नसंशयः । पृच्चतां नः सदा प्राज्ञ सर्वमाख्यातुमर्हसि ॥ १,१.२७ ॥ तदिच्छामः कथां दिव्यां पौराणीं श्रुतिसंमिताम् । श्रोतुं धर्मार्थयुक्तां तु एतव्द्यासाच्छ्रुतं त्वया ॥ १,१.२८ ॥ एवसुक्तस्तदा सूतस्त्वृषिभिर्विनयान्वितः । उवाच परमाप्राक्ज्ञो विनीतोत्तर मुत्तमम् ॥ १,१.२९ ॥ ऋषेः शुश्रूषणं यच्च तस्मात्प्रज्ञा च या मम । यस्माच्छुशूषणार्थं च तत्सत्यमिति निश्चयः ॥ १,१.३० ॥ एवं गतेर्ऽथे यच्छक्यं मया वक्तुं द्विजोत्तमाः । जिज्ञासा यत्र युष्माकं तदाज्ञातुमिहार्हथ ॥ १,१.३१ ॥ एतच्छ्रुत्वा तु मुनयो मधुरं तस्य भाषितम् । प्रत्यूचुस्ते पुनः सूतं बाष्पपर्याकुलेक्षणम् ॥ १,१.३२ ॥ भवान् विशेषकुशलो व्यासं साक्षात्तु दृष्टवान् । तस्मात्त्वं संभवं कृत्स्नं लोकस्येमं विदर्शय ॥ १,१.३३ ॥ यस्य यस्यान्वये ये ये तांस्तानिच्छाम वेदितुम् । तेषां पूर्वविसृष्टिं च विचित्रां त्वं प्रजापतेः । सत्कृत्य परिपृष्टः स महात्मा रोमहर्षणः ॥ १,१.३४ ॥ विस्तरेणानुपूर्व्या च कथयामास सत्तमः । सूत उवाच यो मे द्वैपायनप्रीतः कथां वै द्विजसत्तमाः ॥ १,१.३५ ॥ पुण्यामाख्यातवान्विप्रास्तां वै वक्ष्याम्यनुक्रमात् । पुराणं संप्रवक्ष्यामि यदुक्तं मातरिश्वना ॥ १,१.३६ ॥ पृष्टेन मुनिभिः पूर्वं नैमिषीयैर्म हात्मभिः । सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ॥ १,१.३७ ॥ वंश्यानुचरितं चैव पुराणं पञ्चलक्षणम् । प्रक्रिया प्रथमः पादः कथायां स्यात्परिग्रहः ॥ १,१.३८ ॥ अनुषङ्ग उत्पोद्धात उपसंहार एव च । एवं पादास्तु चत्वारः समासात्कींर्तिता मया ॥ १,१.३९ ॥ वक्ष्यामि तान्पुरस्तात्तु विस्तरेण यथाक्रमम् । प्रथमं सर्वशास्त्राणां पुराणं ब्रह्मणा श्रुतम् ॥ १,१.४० ॥ अनन्तरं च वक्त्रेभ्यो वेदास्तस्य विनिःसृताः । अङ्गानि धर्मशास्त्रं च व्रतानि नियमास्तथा ॥ १,१.४१ ॥ अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम् । महदादिविशेषान्तं सृजामीति विनिश्चयः ॥ १,१.४२ ॥ अण्डं हिरण्मयं चैव ब्रह्मणःसूतिरुत्तमा । अडस्यावरणं वार्धिरपामपि च तेजसा ॥ १,१.४३ ॥ वायुना तस्य वायोश्च खेन भूतादिना ततः । भूतादिर्महता चैव अव्यक्तेनावृतो महान् ॥ १,१.४४ ॥ अन्तर्वर्ति च भूतानामण्डमेवोपवर्णितम् । नदीनां पर्वतानां च प्रादुर्भावोऽत्र पठ्यते ॥ १,१.४५ ॥ मन्वन्तराणां सर्वेषां कल्पानां चैव वर्णनम् । कीर्त्तनं ब्रह्मवृक्षस्य ब्रह्मजन्म प्रकीर्त्यते ॥ १,१.४६ ॥ अतः परं ब्रह्मणश्च प्रजासर्गोपवर्णनम् । अवस्थाश्चात्र कीर्त्यन्ते ब्रह्मणोऽव्यक्तजन्मनः ॥ १,१.४७ ॥ कल्पानां संभवश्चेव जगतः स्थापनं तथा । शयनं च हरेरप्सु पृथिव्युद्धरणं तथा ॥ १,१.४८ ॥ सविशेषः पुरादीनां वर्णाश्रमविभाजनम् । ऋक्षाणां ग्रहसंस्थानां सिद्धानां च निवेशनम् ॥ १,१.४९ ॥ योजनानां यथा चव संचरो बहुविस्तरः । स्वर्गस्थानविभागश्च सर्त्यानां शुभचारिणाम् ॥ १,१.५० ॥ वृक्षाणामौषधीनां च वीरुधां च प्रकीर्त्तनम् । देवतानामृषीणां च द्वे सृती परिकीर्तिते ॥ १,१.५१ ॥ आम्लादीनां तरूणां च सर्जनं व्यञ्जनं तथा । पशूनां पुरुषाणां च संभवः परिकीर्त्तितः ॥ १,१.५२ ॥ तथा निर्वचनं प्रोक्तं कल्पस्य च परिग्रहः । नव सर्गाः पुनः प्रोक्ता ब्रह्मणो बुद्धिपूर्वकाः ॥ १,१.५३ ॥ त्रयो ये बुद्धिपूर्वास्तु तथा यल्लोककल्पनम् । ब्रह्मणोऽवयवेभ्यश्च धर्मादीनां समुद्भवः ॥ १,१.५४ ॥ ये द्वादश प्रसूयन्ते प्रजाकल्पे पुनः पुनः । कल्पयोरन्तरे प्रोक्तं प्रतिसंधिश्च यस्तयोः ॥ १,१.५५ ॥ तमोमात्रा वृतत्वात्तु ब्रह्मणोऽधर्मसंभवः । सत्त्वोद्रिक्ताच्च देहाच्च पुरुषस्य च संभवः ॥ १,१.५६ ॥ तथैव शतरूपायां तयोः पुत्रास्ततः परम् । प्रियव्रतोत्तानपादौ प्रसूत्याकृतयः शुभाः ॥ १,१.५७ ॥ कीर्त्यन्ते धूतपाप्मानस्त्रैलोक्ये ये प्रतिष्ठिताः । रुचेः प्रजापतेश्चोर्द्धमाकूत्यां मिथुनोद्भवः ॥ १,१.५८ ॥ प्रसूत्यमपि दक्षस्य कन्यानामुद्भवः शुभः । दाक्षायणीषु वाप्यूर्ध्वंशब्दाद्यासु महात्मनः ॥ १,१.५९ ॥ धर्मस्य कीर्त्यते सर्गः सात्त्विकस्तु सुखोदयः । तथाधर्मस्य हिंसायां तमसोऽशुभलक्षणः ॥ १,१.६० ॥ भृग्वादीनामृषीणां च प्रजासर्गोपवर्णनम् । ब्रह्मर्षेश्च वसिष्ठस्य यत्र गोत्रानुकीर्त्तनम् ॥ १,१.६१ ॥ अग्नेः प्रजायाः संभूतिः स्वाहायां यत्र कीर्त्यते । पितॄणां द्विप्रकाराणां स्वधायां तदनन्तरम् ॥ १,१.६२ ॥ पितृवंशप्रसंगेन कीर्त्यते च महेश्वरात् । दक्षस्य शापः सत्याश्च भृग्वादीनां च धीमताम् ॥ १,१.६३ ॥ प्रतिशापश्च दक्षस्य रुद्रादद्भुतकर्मणः । प्रतिषेधश्च वैरस्य कीर्त्यते दोषदर्शनात् ॥ १,१.६४ ॥ मन्वन्तरप्रसंगेन कालाख्यानं च कीर्त्यते । प्रजापतेः कर्द्दमस्य कन्यायाः शुभलक्षणम् ॥ १,१.६५ ॥ प्रियव्रतस्य पुत्राणां कीर्त्यते यत्र विस्तरः । तेषां नियोगो द्वीपेषु देशेषु च पृथक्पृथक् ॥ १,१.६६ ॥ स्वायंभुवस्य सर्गस्य ततश्चाप्यनुकीर्त्तनम् । वर्षाणां च नदीनां च तद्भेदानां च सर्वशः ॥ १,१.६७ ॥ द्वीपभेदसहस्राणा मन्तर्भावश्च सप्तसु । विस्तरान्मण्डलं चैव जंबूद्वीपसमुद्रयोः ॥ १,१.६८ ॥ प्रमाणं योजनाग्रेण कीर्त्यन्ते पर्वतैः सह । हिमवान्हेमकूटश्च निषधो मेरुरेव च । नीलः श्वेतश्च शृङ्गी च कीर्त्यन्ते सप्त पर्वताः ॥ १,१.६९ ॥ तेषामन्तरविष्कंभा उच्छ्रायायामविस्तराः ॥ १,१.७० ॥ कीर्त्यन्ते योजनाग्रेण ये च तत्र निवासिनः । भारतादीनि वर्षाणि नदीभिः पर्वतैस्तथा ॥ १,१.७१ ॥ भूतैश्चोपनिविष्टानि गतिमद्भिर्धुवै स्तथा । जंबूद्वीपादयो द्वीपाः समुद्रैः सप्तभिर्वृताः ॥ १,१.७२ ॥ ततः स्वर्णमयी भूमिर्लोकालोकश्च कीर्त्यते । सप्रमाणा इमे लोकाः सप्तद्वीपा च मेदिनी ॥ १,१.७३ ॥ रूपादयः प्रकीर्त्यन्ते करणात्प्राकृतैः सह । सर्वं चैतत्प्रधानस्य परिणामैकदेशिकम् ॥ १,१.७४ ॥ पर्यायपरिमाणं च संक्षेपेणात्र कीर्त्यते । सूर्याचन्द्रमसोश्चैव पृथिव्याश्चाप्यशेषतः ॥ १,१.७५ ॥ प्रमाणं योजनाग्रेण सांप्रतैरभिमानिभिः । महेन्द्राद्याः शुभाः पुण्या मानसोत्तरमूर्धनि ॥ १,१.७६ ॥ अत ऊर्ध्दगतिश्चोक्ता सूर्यस्यालातयक्रवत् । नागवीथ्यक्षवीथ्योश्च लक्षणं च प्रकीर्त्यते ॥ १,१.७७ ॥ कोष्ठयोर्लेखयोश्चैव मण्डलानां च योजनैः । लोकालोकस्य सन्ध्याया अह्नो विषुवतस्तथा ॥ १,१.७८ ॥ लोकपालाः स्थिताश्चोर्द्धं कीर्त्यन्ते ते चतुर्द्दिशम् । पितॄणां देवतानां च पन्थानौ दक्षिणोत्तरौ ॥ १,१.७९ ॥ गृहिणां न्यासिनां चोक्तो रजःसत्त्वसमाश्रयः । कीर्त्यते च पदं विष्णोर्धर्माद्या यत्र च स्थिताः ॥ १,१.८० ॥ सूर्याचन्द्रमसोश्चारो ग्रहाणां ज्योतिषां तथा । कीर्त्यते धृतसामर्थ्यात्प्रजानां च शुभाशुभम् ॥ १,१.८१ ॥ ब्रह्मणा निर्मितः सौरः सादनार्थं च स स्वयम् । कीर्त्यते भगवान्येन प्रसर्प्पति दिवः क्षयम् ॥ १,१.८२ ॥ स रथोऽधिष्ठितो देवैरादित्यै ऋषिभिस्तथा । गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ॥ १,१.८३ ॥ अपां सारमयात्स्यन्दात्कथ्यते च रसस्तथा । वृद्धिक्षयौ च सोमस्य कीर्त्येते सोमकारितौ ॥ १,१.८४ ॥ सूर्यादीनां स्यन्दनानां ध्रुवादेव प्रवर्त्तनम् । कीर्त्यते शिशुमारस्य यस्य पुच्छे ध्रुवः स्थितः ॥ १,१.८५ ॥ तारारूपाणि सर्वाणि नक्षत्राणि ग्रहैः सह । निवासा यत्र कीर्त्यन्ते देवानां पुण्यकर्मणाम् ॥ १,१.८६ ॥ सूर्यरश्मिसहस्रं च वर्षशीतोष्णविश्रवः । प्रविभागश्चरश्मीनां नामतः कर्मतीर्थतः ॥ १,१.८७ ॥ परिमाणं गतिश्चोक्ता ग्रहाणां सूर्यसंश्रयात् । वेश्यारूपात्प्रधानस्य परिमाणो महाद्भवः ॥ १,१.८८ ॥ पुरूरवस ऐलस्य माहात्म्यस्यानुकीर्त्तनम् । पितॄणां द्विप्रकाराणां माहात्म्यं वा मृतस्य च ॥ १,१.८९ ॥ ततः पर्वाणि कीर्त्यन्ते पर्वणां चैव संधयः । स्वर्गलोकगतानाञ्च प्राप्तानाञ्चाप्यधोगतिम् ॥ १,१.९० ॥ पितॄणां द्विप्रकाराणां श्राद्धेनानुग्रहो महान् । युगसंख्याप्रमाणं च कीर्त्यते च कृतं युगम् ॥ १,१.९१ ॥ त्रेतायुगे चापकर्षाद्वार्त्तायाः संप्रवर्त्तनम् । वर्णानामाश्रमाणां च संस्थितिर्धर्मतस्तथा ॥ १,१.९२ ॥ वज्रप्रवर्त्तनं चैव संवादो यत्र कीर्त्यते । ऋषीणां वसुना सार्द्धं वसोश्चाधः पुनर्गतिः । शब्दत्वं च प्रधानात्तु स्वायम्भुवमृते मनुम् ॥ १,१.९३ ॥ प्रशंसा तपसश्चोक्ता युगावस्थाश्च कृत्स्नशः । द्वापरस्य कलेश्चापि संक्षेपेण प्रकीर्त्तनम् ॥ १,१.९४ ॥ मन्वन्तरं च संख्या च मानुषेण प्रकीर्त्तिता । मन्वन्तराणां सर्वेषामेतदेव च लक्षणम् ॥ १,१.९५ ॥ अतीतानागतानां च वर्त्तमानं च कीर्त्यते । तथा मन्वन्तराणां च प्रतिसंधानलक्षणम् ॥ १,१.९६ ॥ अतीताना गतानां च प्रोक्तं स्वायम्भुवे ततः । ऋषीणां च गतिः प्रोक्ता कालज्ञानगतिस्तथा ॥ १,१.९७ ॥ दुर्गसंख्याप्रमाणं च युगवार्ता प्रवर्त्तनम् । त्रेतायां चक्रवर्तीनां लक्षणं जन्म चैव हि ॥ १,१.९८ ॥ प्रमतेश्च तथा जन्म अथो कलियुगस्य वै । अङ्गुलैर्हासनं चैव भूतानां यच्च चोच्यते ॥ १,१.९९ ॥ शाशानां परिसंख्यानं शिष्यप्राधान्यमेव च । वाक्यं सप्तविधं चैव ऋषिगोत्रानुकीर्तनम् ॥ १,१.१०० ॥ लक्षणं सूतपुत्राणां ब्रह्मणास्य च कृत्स्नशः । देदानां व्यसनं चैव वेदव्यासैर्महात्मभिः ॥ १,१.१०१ ॥ मन्वन्तरेषु देवानां प्रजेशानां च कीर्त्तनम् । मन्वन्तरक्रमश्चैव कालज्ञानं च कीर्त्यते ॥ १,१.१०२ ॥ दक्षस्य चापि दौहित्राः प्रियाया दुहितुः शुभाः । ब्रह्मादिभिस्तेजनिता दक्षेणैव च धीमता ॥ १,१.१०३ ॥ सावर्णाश्चात्र कीर्त्यन्ते मनवो मेरुमाश्रिताः । ध्रुवस्यौत्तानपादस्य प्रजासर्गोपवर्णनम् ॥ १,१.१०४ ॥ चाक्षुषस्य मनोः सर्गः प्रजानां वीर्यवर्मनम् । प्रभुणा चैव वैन्येन भूमिदोहप्रवर्तता ॥ १,१.१०५ ॥ पात्राणां पयसां चैव वत्सानां च विशेषणम् । ब्रह्मादिभिः पूर्वमेव दुग्धा चैयं वसुंधरा ॥ १,१.१०६ ॥ दशभ्यश्चं प्रचेतोभ्यो मारिषायां प्रजापतेः । दक्षस्य कीर्त्यत जन्म समस्यांशेन धीमतः ॥ १,१.१०७ ॥ भूतभव्यभवेशत्वं महेन्द्राणां च कीर्त्यते । मन्वादिका भविष्यन्ति आख्यानैबर्हुभिर्वृताः ॥ १,१.१०८ ॥ वैवस्वतस्य च मनोः कीर्त्यते सर्गविस्तरः । ब्रह्मादिकोश उत्पत्तिर्भृग्वदीनां च कीर्त्यते ॥ १,१.१०९ ॥ विनिष्कृष्य प्रजासर्गे चाक्षुषस्य मनोःशुभे । दक्षस्य कीर्त्यते सर्गो ध्यानाद्वैवस्वतान्तरे ॥ १,१.११० ॥ नारदः कृतसंवादो दक्षपुत्रान्महाबलान् । नाशयामास शापाय मानसो ब्रह्मणः सुतः ॥ १,१.१११ ॥ ततो दक्षोऽसृजत्कन्या वैरिणा नाम विश्रुताः । मरुत्प्रवाहे मरुतो दित्यां देव्यां च संभवः ॥ १,१.११२ ॥ कीर्त्यते मरुतां चात्रगणास्ते सप्तसप्तकाः । देवत्वमिन्द्रवासेन वायुस्कन्धेषु चाश्रमः ॥ १,१.११३ ॥ दैत्यानां दानवानां च यक्षगन्धर्वरक्षसाम् । सर्वभूतपिशाचानां यक्षणां पक्षिवीरुधाम् ॥ १,१.११४ ॥ उत्पत्तयश्चाप्सरसां कीर्त्यन्ते बहुविस्तरात् । मार्तण्डमण्डलं कृत्स्नं जन्मैरावतहस्तिनः ॥ १,१.११५ ॥ वैनतेयसमुत्पत्तिस्तथा राज्या भिषेचनम् । भृगूणां विस्तरश्चोक्तस्तथा चाङ्गिरसामपि ॥ १,१.११६ ॥ कश्यपस्य पुलस्त्यस्य तथैवात्रेर्महात्मनः । पराशरस्य च मुनेः प्रजानां यत्र विस्तरः ॥ १,१.११७ ॥ तिस्रः कन्याः सुकीर्त्यन्ते यासुलोकाः प्रतिष्ठिताः । इच्छाया विस्तरश्चोक्त आदित्यस्य ततः परम् ॥ १,१.११८ ॥ किङ्कुविच्चरितं प्रोक्तं ध्रुवस्यैव निबर्हणम् । बृहद्बलानां संक्षेपादिक्ष्वाक्वाद्याः प्रकीर्त्तिताः ॥ १,१.११९ ॥ निश्यादीनां क्षितीशानां पलाण्डु हरणादिभिः । कीर्त्यते विस्तरात्सर्गे ययातेरपि भूपतेः ॥ १,१.१२० ॥ यदुवंशसमुद्देशो हैहयस्य च विस्तरः । क्रोधादनन्तरं चोक्तस्तथा वंशस्य विस्तरः ॥ १,१.१२१ ॥ ज्यामघस्य च माहात्म्यं प्रजासर्गश्च कीर्त्यते । देवावृधस्यान्धकस्य धृष्टेश्चपि महात्मनः ॥ १,१.१२२ ॥ अनिमित्रान्वयश्चैव विशोर्मिथ्याभिशंसनम् । विशोधमनुसंप्राप्तिर्मणिरत्नस्य धीमतः ॥ १,१.१२३ ॥ सत्राजितः प्रजासर्गे राजर्षेर्देवमीढुषः । शूरस्य जन्म चाप्युक्तं चरितं च माहात्मनः ॥ १,१.१२४ ॥ कंसस्यापि च दौरात्म्यमेकीवंश्यात्समुद्भवः । वासुदेवस्य देव क्यां विष्णोरमिततेजसः ॥ १,१.१२५ ॥ अनन्तरमृषेः सर्गः प्रजासर्गोपवर्णनम् । देवासुरे समुत्पन्ने विष्णुना स्त्रीवधे कृते ॥ १,१.१२६ ॥ संरक्षता शक्रवधं शापः प्राप्तः पुरा भृगोः । भृगुश्चोत्थापयामास दिव्यां शुक्रस्य मातरम् ॥ १,१.१२७ ॥ देवानां च ऋषीणां च संक्रमा द्वादशात्दृताः । नारसिहप्रभृतयः कीर्त्यन्ते पापनाशनाः ॥ १,१.१२८ ॥ शुकेणाराधनं स्थाणोर्घोरेण तपसा तथा । वरप्रदान कृत्तेन यत्र शर्वस्तवः कृतः ॥ १,१.१२९ ॥ अनन्तरं च निर्दिष्टं देवासुरविचेष्टितम् । जयन्त्या सह शक्रेण यत्र शुको महात्मनि ॥ १,१.१३० ॥ असुरान्मोहयामास शक्ररूपेण बुद्धिमान् । बृहस्पतिश्च तं शुकं शशाप स महाद्युतिः ॥ १,१.१३१ ॥ उक्त च विष्णोर्माहात्म्यं विष्णोर्जन्मनि शब्द्यते । तुर्वसुश्चात्र दौहित्रो यवीयान्यो यदोरभूत् ॥ १,१.१३२ ॥ अनुर्द्रुह्यादयः सर्वे तथा तत्तनया नृपाः । अनुवंश्यामहात्मानस्तेषां पार्थिवसत्तमाः ॥ १,१.१३३ ॥ कीर्त्यन्ते यत्र कार्त्स्न्येन भूरिद्रविणतेजसः । आतिथ्यस्य तु विब्रर्षेः सप्तधा धर्मसंश्रयात् ॥ १,१.१३४ ॥ बार्हस्वत्यं सूरिभिश्च यत्र शापमुपावृतम् । हरवंशयशःस्पर्शः शन्तनोर्वीर्यशब्दनम् ॥ १,१.१३५ ॥ भविष्यतां तथा राज्ञामुपसंहारशब्दनम् । अनागतानांसंघानां प्रभूणां चोपवर्णनम् ॥ १,१.१३६ ॥ भौत्यस्यान्ते कलियुगे क्षीणे संहारवर्णनम् । नैमित्तिकाः प्राकृतिका यथैवात्यन्तिकाः स्मृताः ॥ १,१.१३७ ॥ विविधः सर्वभूतानां कीर्त्यते प्रतिसंचरः । अनादृष्टिर्भास्करस्य घोरः संवर्त्तकानलः ॥ १,१.१३८ ॥ सांख्ये लक्षणमुद्दिष्टं ततो ब्रह्म विशेषतः । भुवादीनां च लोकानां सप्तानां चोपवर्णनम् ॥ १,१.१३९ ॥ अपरार्द्धापरैश्चैव लक्षणं परिकीर्त्यते । ब्रह्मणोयोजनाग्रेण परिमाणविनिर्णयः ॥ १,१.१४० ॥ कीर्त्यन्ते चात्र निरयाः पापानां रौरवादयः । सर्वेषां चैव सत्त्वानां परिणामविनिर्णयः ॥ १,१.१४१ ॥ ब्रह्मणः प्रतिसंसर्गात्सर्व संसारवर्णनम् । गतिरूर्द्धमधश्चोक्ता धर्माधर्मसमाश्रया ॥ १,१.१४२ ॥ कल्पे कल्पे च भूतानां महतामपि संक्षयम् । असंख्यया च दुःखानि ब्रह्मणश्चाप्यनित्यता ॥ १,१.१४३ ॥ दौरात्म्यं चैव भोगानां संहारस्य च कष्टता । दुर्लभत्वं च मोक्षस्य वैराग्याद्दोषदर्शनात् ॥ १,१.१४४ ॥ व्यक्ताव्यक्तं परित्यज्य सत्त्वं ब्रह्मणि संस्थितम् । नानात्वदर्शनाच्छुद्धस्तवस्तत्र निवर्त्तते ॥ १,१.१४५ ॥ ततस्तापत्रयाद्भीतो रूपार्थोहि निरञ्जनः । आनन्दं ब्रह्मणः प्राप्य न बिभेति कुतश्चन ॥ १,१.१४६ ॥ कीर्त्यते च पुनः सर्गो ब्रह्मणोऽन्यस्य पूर्ववत् । कीर्त्यते जगतश्चत्र सर्गप्रलयविक्रियाः ॥ १,१.१४७ ॥ प्रवृत्तयश्च भूतानां प्रसुतानां फलानि च । कीर्त्यते ऋषिवर्गस्य सर्गः पापप्रणाशनः ॥ १,१.१४८ ॥ प्रादुर्भावो वसिष्ठस्य शक्तेर्जन्म तथैव च । सौदासास्थिग्रहश्चास्य विश्वामित्रकृतेन तु ॥ १,१.१४९ ॥ पराशरस्य चोत्पत्तिरदृश्यन्त्यां तथा विभोः । संजज्ञे पितृकन्यायां व्यासश्चापि महामुनिः ॥ १,१.१५० ॥ शुकस्य च तथा जन्म सह पुत्रस्य धीमप्तः । पराशरस्य प्रद्वेपो विश्वामित्र ऋषिं प्रति ॥ १,१.१५१ ॥ वसिष्ठसंभृतिश्चाग्नेर्विश्वामित्रजिघांसया । देवेन विधिना विप्र विश्वामित्रहितैषिणा ॥ १,१.१५२ ॥ संतानहेतोर्विभुना गीर्णस्कन्धेन धीमता । एकं वेदं चतुष्पादं चतुर्द्धा पुनरीश्वरः ॥ १,१.१५३ ॥ तथा बिभेद भागवान् व्यासः शार्वादनुग्रहात् । तस्य शिष्यप्रशिष्यैश्च शाखा वेदायुताः कृताः ॥ १,१.१५४ ॥ प्रयोगे प्रह्वला नैव यथा दृष्टः स्वयंभुवा । पृष्ट वन्तो विशिष्टास्ते मुनयो धर्मकाङ्क्षिणः ॥ १,१.१५५ ॥ देशं पुण्यमभीप्सतो विभुना तद्धितैषिणा । सुनाभं दिव्यरूपाभं सप्ताङ्गं शुभशंसनम् ॥ १,१.१५६ ॥ आनौपम्यमिदं चक्रं वर्त्तमानमतन्द्रिताः । पृष्ठतो यात नियतास्ततः प्राप्स्यथ पाटितम् ॥ १,१.१५७ ॥ गच्छतस्तस्य चक्रस्य यत्र नेमिर्विशीर्यते । पुण्यः स देशो मन्तव्यः प्रत्युवाच तदा प्रभुः ॥ १,१.१५८ ॥ उक्त्वा चैवमृषीन्सर्वानदृश्यत्वमुपागमत् । गङ्गा गर्भ यवाहारा नैमिषेयास्तथैव च ॥ १,१.१५९ ॥ ईशिरे चैव सत्रेण मुनयो नैमिषे तदा ॥ १,१.१६० ॥ मृतेशरद्वतितथा तस्य चोत्थापनङ्कृतम् । ऋषयो नैमिषेयाश्च दयया परया युताः ॥ १,१.१६१ ॥ निःसीमां गामिमां कृत्वा कृषणं राजानमाहरत् । प्रीतिं चैव कृतातिथ्यं राजानं विधिवत्तदा ॥ १,१.१६२ ॥ अन्तः सर्गगतः क्रूरः स्वर्भानुरसुरो हरन् । द्रुते राजनि राजानु मद्रते मुनयस्ततः ॥ १,१.१६३ ॥ गन्धर्वरक्षितं दृष्ट्वा कलापग्रामकेतनम् । सन्निपातः पुनस्तस्य तथा यज्ञे महर्षिभिः ॥ १,१.१६४ ॥ दृष्ट्वा हिरण्मयं सर्वं विवादस्तस्य तैरभूत् । तदा वै नैमिषेयानां सत्रे द्वादशवार्षिके ॥ १,१.१६५ ॥ तथा विवदमानैश्च यदुः संस्थापितश्च तैः । जनयित्वा त्वरण्यं वै यदुपुत्रमथायुतम् ॥ १,१.१६६ ॥ समापयित्वा तत्सत्रं वायुं ते पर्युपासत । इति कृत्यसमुद्देशः पुराणांशोपवर्णितः ॥ १,१.१६७ ॥ अनेनानुक्रमेणैव पुराणं संप्रकाशते । सुखमर्थः समासेन महानप्युपलक्ष्यते ॥ १,१.१६८ ॥ तस्मात्समासमुद्दिश्य वक्ष्यामि तव विस्तरम् । पादमाद्यमिदं सम्यग्योऽधीते विजितेद्रियः ॥ १,१.१६९ ॥ तेनाधीतं पुराणं स्यात्सर्वं नास्त्यत्रसंशयः । यो विद्याच्चतुरो वेदान् सांगोपनिषदान् द्विजाः ॥ १,१.१७० ॥ इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् । बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति ॥ १,१.१७१ ॥ अभ्यसन्निममध्यायं साक्षात्प्रोक्तं स्वयंभुवा । नापदं प्राप्य मुह्येत यथेष्टां प्राप्नुयाद्गतिम् ॥ १,१.१७२ ॥ यस्मात्पुरा ह्यभूच्चैतत्पुराणं तेन तत्स्मृतम् । निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ॥ १,१.१७३ ॥ अतश्च संक्षेपमिमं शृणुध्वं नारायणः सर्वमिदं पुराणम् । संसर्गकालेऽपि करोति मर्ग संहार काले च न वास्ति भूयः ॥ १,१.१७४ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे प्रथमे प्रक्रियापादे कृत्यसमुद्देशो नाम प्रथमोऽध्यायः _____________________________________________________________ प्रत्यवोचन्पुनः सूतमृषयस्ते तपोधनाः । कुत्र सत्रं समभत्तेवषामद्भुतकर्मणाम् ॥ १,२.१ ॥ कियन्तं चैव तत्कालं कथं च समवर्त्तत । आचचक्षे पुराणं च कथं तत्सप्रभञ्जनः ॥ १,२.२ ॥ आचख्यौ विस्तरेणैव पर कौतूहलं हि नः । इति संचोदितः सूतः प्रत्युवाच शुभं वचः ॥ १,२.३ ॥ शृणुध्वं यत्र ते धीरा मेनिरे मन्त्रमुत्तमम् । यावन्तं चाभवत्कालं यथा च समवर्तत ॥ १,२.४ ॥ सिसृक्षमाणो विश्वं हि यजते विसृजत्पुरा । सत्रं हि तेऽतिपुण्यं च सहस्रपरिवत्सरान् ॥ १,२.५ ॥ तपोगृहपतेर्यत्र ब्रह्मा चैवाभवत्स्वयम् । इडाया यत्र पत्नीत्वं शामित्रं यत्र बुद्धिमान् ॥ १,२.६ ॥ मृत्युश्चके महातेजास्तस्मिन्सत्रे महात्मनाम् । विबुधाश्चोषिरे तत्र सहस्रपरिवत्सरान् ॥ १,२.७ ॥ भ्रमतो धर्मचक्रस्य यत्र नेमिरशीर्यत । कर्मणा तेन विख्यातं नैमिषं मुनिपूजितम् ॥ १,२.८ ॥ यत्र सा गोमती पुण्या सिद्धचारणसेविता । रोहिणी स सुता तत्र गोमती साभवत्क्षणात् ॥ १,२.९ ॥ शक्तिर्ज्येष्ठा समभवद्वसिष्ठस्य महात्मनः । रुन्धत्याः सुतायात्रादानमुत्तमतेजसः ॥ १,२.१० ॥ कल्माषपादो नृपतिर्यत्र शक्रश्च शक्तिना । यत्र वैरं समभवद्विश्वामित्रवसिष्ठयोः ॥ १,२.११ ॥ अदृश्यन्त्यां समभवन्मुनिर्यत्र पराशरः । पराभवो वसिष्ठस्य यस्य ज्ञाने ह्यवर्त्तयत् ॥ १,२.१२ ॥ तत्र ते मेनिरे शैलं नैमिषे ब्रह्मवादिनः । नैमिषं जज्ञिरे यस्मान्नैमिषीयास्ततः स्मृताः ॥ १,२.१३ ॥ तत्सत्रमभवत्तेषां समा द्वादश धीमताम् । पुरूरवसि विक्रान्ते प्रशासति वसुंधराम् ॥ १,२.१४ ॥ अष्टादश समुद्रस्य द्वीपानश्रन् पुरूरवाः । तुतोष नैव रत्नानां लोभादिति हि नः श्रुतम् ॥ १,२.१५ ॥ उर्वशी चकमे तं च देवदूतप्रचोदिता । आजहार च तत्सत्रमुर्वश्या सह संगतः ॥ १,२.१६ ॥ तस्मिन्नरपतौ सत्रे नैमिषीयाः प्रचक्रिरे । यं गर्भं सुषुवे गङ्गा पावकाद्दीप्ततेजसम् ॥ १,२.१७ ॥ तत्तुल्यं पर्वते न्यस्तं हिरण्यं समपद्यत । हिरण्मयं ततश्चके यज्ञवाटं महात्मनाम् ॥ १,२.१८ ॥ विश्वकर्मा स्वयन्देवो भावनो लोकभावनः । स प्रविश्य ततः सत्रे तेषाममिततेजसाम् ॥ १,२.१९ ॥ ऐडः पुरूरवा भेजे तं देशं मृगयां चरन् । तं दृष्ट्वा महादाश्वर्यं यज्ञवाटं हिरण्मयम् ॥ १,२.२० ॥ लोभेन हतविज्ञानस्तदादातुमुपाक्रमत् । नैमिषेयास्ततस्तस्य चुक्रुधुर्नृपतिं भृशम् ॥ १,२.२१ ॥ निजघ्नुश्चापि तं क्रुद्धाः कुशवज्रैर्मनीषिणः । तपोनिष्ठाश्च राजानं मुनयो देवचोदिताः ॥ १,२.२२ ॥ कुशवज्रौर्विनिष्पिष्टः स राजा व्यजहात्तनुम् । और्वशेयैस्ततस्तस्य युद्धं चक्रे नृपो भुवि ॥ १,२.२३ ॥ नहुषस्य महात्मानं पितरं यं प्रचक्षते । स तेष्ववभृथेष्वेव धर्म्मशीलो महीपतिः ॥ १,२.२४ ॥ आयुरायभवायाग्र्यमस्मिन् सत्रे नरोत्तमः । शान्तयित्वा तु राजानं तदा ब्रह्मविदस्तथा ॥ १,२.२५ ॥ सत्रमारेभिरे कर्त्तुं पृथ्वीवत्सा त्ममूर्तयः । बभूव सत्रे तेषां तु ब्रह्मचर्यं महात्मनाम् ॥ १,२.२६ ॥ विश्वं सिसृक्षमाणानां पुरा विस्वसृजामिव । वैखानसैः प्रियसखैर्वाल खिल्यैर्मरीचिभिः ॥ १,२.२७ ॥ अजैश्च मुनिभिर्जातं सूर्यवैश्वानरप्रभः । वितृदेवाप्सरःसिद्धैर्गन्धर्वोरगचारणैः ॥ १,२.२८ ॥ भारतैः शुशुभे राजा देवैरिन्द्रसमो यथा । स्तोत्रशस्त्रैर्गृहैर्देवान्पितॄन्पित्र्यैश्च कर्मभिः ॥ १,२.२९ ॥ आनर्चुःस्म यथाजाति गन्धर्वादीन् यथाविधि । आराधने स सस्मार ततः कर्मान्तरेषु च ॥ १,२.३० ॥ जगुः सामानि गन्धर्वा ननृतुश्चाप्सरोगणाः । व्याजह्रुर्मुनयो वाचं चित्राक्षरपदां शुभाम् ॥ १,२.३१ ॥ मन्त्रादि तत्र विद्वांसो जजपुश्च परस्परम् । वितण्डावचनैश्चैव निजघ्नुः प्रतिवादिनः ॥ १,२.३२ ॥ ऋषयश्चैव विद्वांसः शब्दार्थन्यायकोविदाः । न तत्र हारितं किञ्चिद्विविशुर्ब्रह्मराक्षसाः ॥ १,२.३३ ॥ नैव यज्ञहरा दैत्या नैव वाजमुखास्त्रिणः । प्रायश्चित्तं दरिद्रं च न तत्र समजायत ॥ १,२.३४ ॥ शक्तिप्रज्ञाक्रियायेगैर्विधिराशीष्वनुष्टितः । एवं च ववृधे सत्रं द्वादशाब्दं मनीषिणाम् ॥ १,२.३५ ॥ ऋषीणां नैमिषीयाणां तदभूदिव वज्रिणः । वृद्धाद्या ऋत्विजो वीरा ज्योतिष्टोमान् पृथक्पृथक् ॥ १,२.३६ ॥ चक्रिरे पृष्ठगमनाः सर्वानयुतदक्षिणान् । समाप्तयज्ञो यत्रास्ते वासुदेवं महाधिपम् ॥ १,२.३७ ॥ पप्रच्छुरमितात्मानं भवद्भिर्यदहं द्विजः । प्रचोदितः स्ववंशार्थं स च तानब्रवीत्प्रभुः ॥ १,२.३८ ॥ शिष्यःस्वयंभुवो देवः सर्वं प्रत्यक्षदृग्वशी । अणिमादिभिरष्टाभिः सूक्ष्मैरङ्गैः समन्वितः ॥ १,२.३९ ॥ तिर्यग्वातादिभिर्वर्षैः सर्वां ल्लोकान्बिभर्ति यः । सप्तस्कन्धा भृताः शाखाः सर्वतोयाजराजरान् ॥ १,२.४० ॥ विषयैर्मरुतो यस्य संस्थिताः सप्तसप्तकाः । व्यूहत्रयाणां सूतानां कुर्वन् सत्रं महाबलः ॥ १,२.४१ ॥ तेजसश्वाप्युपायानां दधातीह शरीरिणः । प्राणाद्या वृत्तयः पञ्च धारणानां स्ववृत्तिभिः ॥ १,२.४२ ॥ पूर्यमामः शरीराणां धारणं यस्य कुर्वते । आकाशयोनिर्द्विगुणः शाब्दस्पर्शसमन्वितः ॥ १,२.४३ ॥ वाचोरणिः समाख्याता शब्दशास्त्रविचक्षणैः । भारत्यार्ः श्लक्ष्णया सर्वान्मुनीन्प्रह्लादयन्निव ॥ १,२.४४ ॥ पुराणज्ञाः सुमनसः पुराणाश्रययुक्तया । पुराम नियता विप्राः कथामकथयद्विभुः ॥ १,२.४५ ॥ एतत्सर्वं यथावृत्तमाख्यानं द्विजसत्तमाः । ऋषीणां च परं चैतल्लोकतत्त्वमनुत्तमम् ॥ १,२.४६ ॥ ब्रह्मणा यत्पुरा प्रोक्तं पुराणं ज्ञानमुत्तमम् । देवतानामृषीणां च सर्वपापप्रमोचनम् ॥ १,२.४७ ॥ विस्तरेणानुपूर्व्या च तस्य वक्ष्याम्यनुक्रमम् ॥ १,२.४८ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे प्रथमे प्रक्रियापादे नैमिषाख्यानकथनं नाम द्वितीयोऽध्यायः _____________________________________________________________ सूत उवाच शृणु तेषां कथां दिव्यां सर्वपापप्रमोचनीम् । कथ्यमानां मया चित्रां बह्वर्थां श्रुतिसंमताम् ॥ १,३.१ ॥ य इमां धारयेन्नित्यं शृणुयाद्वाप्यभीक्ष्णशः । स्ववंशं धारणं कृत्वा स्वर्गलोके महीयते ॥ १,३.२ ॥ विश्वतारा या च पञ्च यथावृत्तं यथाश्रुतम् । कीर्त्यमानं निबोधार्थं पूर्वेषां कीर्त्तिवर्द्धनम् ॥ १,३.३ ॥ धन्यं यशस्यमायुष्यं स्वर्ग्यं शत्रुघ्नमेव च । कीर्त्तनं स्थिरकीर्तीनां सर्वेषां पुण्यकर्मणाम् ॥ १,३.४ ॥ यस्मात्कल्पायते कल्पः समग्रं शुचये शुचिः । तस्मै हिरण्यगर्भाय पुरुषायेश्वराय च ॥ १,३.५ ॥ अजाय प्रथमायैव वरिष्ठाय प्रजासृजे । ब्रह्मणे लोकतन्त्राय नमस्कृत्य स्वयंभुवे ॥ १,३.६ ॥ महदाद्यं विशेषान्तं सवैरूप्यं सलक्षणम् । पञ्चप्रमाणं षद्श्रान्तः पुरुषाधिष्ठितं च यत् ॥ १,३.७ ॥ आसंयमात्प्रवक्ष्यामि भूतसर्गमनुत्तमम् । अव्यक्तं कारणं यत्तन्नित्यं सदसदात्मकम् ॥ १,३.८ ॥ प्रधानं प्रकृतिं चैव यमाहुस्तत्त्वचिन्तकाः । गन्धरूपरसैर्हीनं शब्दस्पर्शविवर्जितम् ॥ १,३.९ ॥ जगद्योनिम्महाभूतं परं ब्रह्मसनातनम् । विग्रहं सर्वभूतानामव्यक्तमभवत्किल ॥ १,३.१० ॥ अनाद्यन्तमजं सूक्ष्मं त्रिगुणं प्रभवाप्ययम् । असांप्रतिकमज्ञेयं ब्रह्म यत्सदसत्परम् ॥ १,३.११ ॥ तस्यात्मना सर्वमिदं व्याप्तमासीत्तमोमयम् । गुणसाम्ये तदा तस्मिन्नविभातं तमोमयम् ॥ १,३.१२ ॥ सर्गकाले प्रधानस्य क्षत्रज्ञाधिष्ठितस्य वै । गुणभावाद्भासमाने महातत्त्व बभूव ह ॥ १,३.१३ ॥ सूक्ष्मः स तु महानग्रे अव्यक्तेन समावृतः । सत्त्वोद्रेको महानग्रे सत्त्वमात्रप्रकाशकः ॥ १,३.१४ ॥ सत्त्वान्महान्स विज्ञेय एकस्तत्कारणः समृतः । निङ्गमात्रं समुत्पन्नं क्षेत्रज्ञाधिष्टितं महत् ॥ १,३.१५ ॥ संकल्पोऽध्यवसायश्च तस्य वृत्तिद्वयं स्मृतम् । महासृष्टिं च कुरुते वीतमानः सिसृक्षया ॥ १,३.१६ ॥ धर्मादीनि च भूतानि लोकतत्त्वार्थहेतवः । मनो महात्मनि ब्रह्म दुर्बुद्धिख्यातिरीश्वरात् ॥ १,३.१७ ॥ प्रज्ञासंधिश्च सर्वस्वं संख्यायतनरश्मिभिः । मनुते सर्वभूतानां तस्माच्चेष्टफलो विभुः ॥ १,३.१८ ॥ भोक्ता त्राता विभक्तात्मा वर्त्तनं मन उच्यते । तत्त्वानां संग्रहे यस्मान्महांश्च परिमाणतः ॥ १,३.१९ ॥ शेषेभ्यो गुणातत्त्वेभ्यो महानिव तनुः स्मृतः । विभक्तिमानं मनुते विभागं मन्यतेऽपि वा ॥ १,३.२० ॥ पुरुषो भोगसंबन्धात्तेन चासौ सति स्मृतः । बृहत्त्वाद्वृंहणत्वाच्च भावानामखिलाश्रयात् ॥ १,३.२१ ॥ यस्माद्वृंहयत भावान् ब्रह्मा तेन निरुच्यते । आपूरयति यस्माच्च सर्वान् देहाननुग्रहैः ॥ १,३.२२ ॥ बुध्यते पुरुषश्चात्र सर्वान् भावान्पृथक्पृथक् । तस्मिंस्तु कार्यकरणं संसिद्धं ब्रह्मणः पुरा ॥ १,३.२३ ॥ प्राकृतं देवि वर्तं मां क्षेत्रज्ञो ब्रह्मसंमितः । स वै शरीरी प्रथमः पुरा पुरुष उच्यते ॥ १,३.२४ ॥ आदिकर्त्ता स भूतानां ब्रह्माग्रे समवर्त्तिनाम् ॥ १,३.२५ ॥ हिरण्यगभः सोऽण्डेऽस्मिन्प्रादुर्भूतश्चतुर्मुखः । सर्गे च प्रतिसर्गे च क्षेत्रज्ञो ब्रह्म संसितः ॥ १,३.२६ ॥ करणैः सह पृच्छन्ते प्रत्याहारेस्त्यजन्ति च । भजन्ते च पुनर्देहांस्ते समाहारसंधिसु ॥ १,३.२७ ॥ हिरण्मयस्तु यो मेरुस्तस्योद्धर्तुर्महात्मनः । गर्तोदकं सबुदास्तु हरेयुश्चापि पञ्चताः ॥ १,३.२८ ॥ यस्मिन्नण्ड इमे लोकाः सप्त वै संप्रतिष्ठिताः । पृथिवी सप्तभिर्द्वीपैः समुद्रैः सह सप्तभिः ॥ १,३.२९ ॥ पर्वतैः सुमहद्भिश्च नदीभिश्च सहस्रशः । अन्तःस्थस्य त्विमे लोका अन्तर्विश्वमिदं जगत् ॥ १,३.३० ॥ चन्द्रादित्यौ सनक्षतौ संग्रहः सह वायुना । लोकालोकं च यत्किञ्चिदण्डे तस्मिन्प्रतिष्टितम् ॥ १,३.३१ ॥ आपो दशगुणे नैव तेजसा बाह्यतो वृताः । तेजो दशगुणेनैव बाह्यतो वायुना वृतम् ॥ १,३.३२ ॥ वायुर्दशगुणेनैव बाह्यतो नभसा वृतः । आकाशमावृतं सर्वं बहिर्भूतादिना तथा ॥ १,३.३३ ॥ भूतादिर्महता चैव प्रधानेनावृतो महान् । एभिरावरणैरण्डं सप्तभिः प्राकृतैर्वृतम् ॥ १,३.३४ ॥ इच्छया वृत्य चान्योन्यमरणे प्रकृतयः स्थितः । प्रसर्गकाले स्थित्वा च ग्रसंतस्च परस्परम् ॥ १,३.३५ ॥ एवं परस्परैश्चैव धारयन्ति परस्परम् । आधाराधेयभावेन विकारास्ते विकारिषु ॥ १,३.३६ ॥ अव्यक्तं क्षेत्रमित्युक्तं ब्रह्म क्षेत्रज्ञमुच्यते । इत्येवं प्राकृतः सर्गः क्षेत्रज्ञाधिष्ठितस्तु सः ॥ १,३.३७ ॥ अबुद्धिपूर्वः प्रथमः प्रादुर्भूतस्तडिद्यथा । एतद्धिरण्यगर्भस्य चन्म यो वेत्ति तत्त्वतः । आयुष्मान्कीर्तिमान्धन्यः प्रज्ञावांश्च न संशयः ॥ १,३.३८ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे प्रथमे प्रक्रियापादे हिरण्यगर्भोत्पत्तिवर्णनं नाम तृतीयोऽध्याय _____________________________________________________________ सुत उवाच आत्मन्यवस्थिते व्यक्ते विकारे प्रतिसंहते । साधर्म्येणावतिष्ठेते प्रधानपुरुषौ तदा ॥ १,४.१ ॥ तमःसत्त्व गुणावेतौ समत्वेन व्यवस्थितौ । अनुद्रिक्तावनुचरौ तेन प्रोक्तौ परस्परम् ॥ १,४.२ ॥ गुणसाम्ये लयो ज्ञेय आधिक्ये सृष्टिरुच्यते । सत्त्ववृद्धौ स्थितिरभूद्ध्रुवं पद्म शिखास्थितम् ॥ १,४.३ ॥ यदा तमसि सत्त्वे च रजोप्यनुगतं स्थितम् । रजः प्रवर्तकं तच्च बीजेष्विव यथा जलम् ॥ १,४.४ ॥ गुणा वैषम्यमासाद्य प्रसंगेन प्रतिष्ठिताः । गुणेभ्यः क्षोभ्यमाणेभ्यस्त्रयो ज्ञेया हि सादरे ॥ १,४.५ ॥ शाश्वताः परमा गुह्याः सर्वात्मानः शरीरिणः । सत्त्वं विष्णू रजो ब्रह्मा तमो रुद्रः प्रजापतिः ॥ १,४.६ ॥ रजःप्रकाशकोविष्णुर्ब्रह्मस्रष्टृत्वमाप्नुयात् । जायते च यतश्चत्रा लोकसृष्टिर्महोजसः ॥ १,४.७ ॥ तमःप्रकाशको विष्णुः कालत्वेन व्यवस्थितः । सत्त्वप्रकाशको विष्णुः स्थितित्वेन व्यवस्थितः ॥ १,४.८ ॥ एत एव त्रयो लोका एत एव त्रयो गुणाः । एत एव त्रयो वेदा एत एव त्रजोऽग्नयः ॥ १,४.९ ॥ परस्परान्वया ह्येते परस्परमनुव्रताः । परस्परेण वर्तन्ते प्रेरयन्ति परस्परम् ॥ १,४.१० ॥ अन्योन्यं मिथुनं ह्येते अन्योन्यमुपजीविनः । क्षणं वियोगो न ह्येषां न त्यजन्ति परस्परम् ॥ १,४.११ ॥ प्रधानगुणवैषम्यात्सर्गकाले प्रवर्त्तते । अदृष्टाधिष्ठितात्पूर्वे तस्मात्सदसदात्मकात् ॥ १,४.१२ ॥ ब्रह्मा बुद्धित्वमिथुनं युगपत्संबभूव ह । तस्मात्तमोव्यक्तमयं क्षेत्रज्ञो ब्रह्मसंज्ञकः ॥ १,४.१३ ॥ संसिद्धकार्यकरणो ब्रह्मग्रे समवर्त्तत । तेजसाप्रतिमो धीमानव्यक्तः संप्रकाशकः ॥ १,४.१४ ॥ स वै शरीरप्रथमो धारणत्वव्यवस्थितः । ज्ञानेनाप्रतिमेनेह वैराग्येण च सप्ततिः ॥ १,४.१५ ॥ अव्यक्तत्वाय तेनास्य मनसा यद्यदिच्छति । वशीकृतत्वात्त्रैगुण्यात्सापेक्षत्वाच्च भावतः ॥ १,४.१६ ॥ चतुर्मुखस्तु ब्रह्मत्वे कालत्वे चान्तकृद्भवः । सहस्रमूर्धा पुरुषस्तिस्रोऽवस्थाःस्वयंभुवः ॥ १,४.१७ ॥ सर्वं रजश्च ब्रह्मत्वे कालत्वे चरजस्तमः । सात्त्विकः पुरुषत्वे च गुणवृतं स्वयंभुवः ॥ १,४.१८ ॥ ब्रह्मत्वे सृजते लोकान् कालत्वे संक्षयत्यपि । पुरुषत्वे उदासीनस्तिस्रोऽवस्थाः स्वयंभुवः ॥ १,४.१९ ॥ ब्रह्मा कमल पत्राक्षः कालो जात्यञ्जनप्रभः । पुरुषः पुण्डरीकाक्षो रूपेण परमात्मनः ॥ १,४.२० ॥ एकधा स द्विधा चैव त्रिधा च बहुधा पुनः । योगीश्वरः शरीराणि करोति विकरोतिच ॥ १,४.२१ ॥ नानाकृतिक्रियारूपमाश्रयन्तिस्वलीलया । त्रिधा यद्वर्तते लोके तस्मात्र्रिगुण उच्यते ॥ १,४.२२ ॥ चतुर्द्धा प्रविभक्तत्वाच्चतुर्व्यूहः प्रकीर्त्तितः । यदा शेते तदार्धाते यद्भुङ्क्ते विषयान्प्रभुः ॥ १,४.२३ ॥ यत्स्वस्थाः सततं भावस्तस्मादात्मा निरूच्यते । ऋषिः सर्वगतश्चात्र शरीरे सोऽभ्ययात्प्रभुः ॥ १,४.२४ ॥ स्वामी सर्वस्य यत्सर्वंविष्णुः सर्वप्रवेशनात् । भगवानग्रसद्भावान्नागो नागस्वसंश्रयात् ॥ १,४.२५ ॥ परमः संप्रहृष्टत्वाद्देवतादोमिति स्मृतिः । सर्वज्ञः सर्वविज्ञानात्सर्वःसर्वंयतस्ततः ॥ १,४.२६ ॥ नराणां स्वापनं ब्रह्मा तस्मान्नारायणः स्मृतः । त्रिधा विभज्य चात्मानं सकलः संप्रवर्त्तते ॥ १,४.२७ ॥ सृजते ग्रसते चैव पाल्यते च त्रिभिः स्वयम् । सोऽग्रे हिरण्यगर्भः सन् प्रादुर्भूतः स्वयं प्रभुः ॥ १,४.२८ ॥ आद्यो हि स्ववशश्चैव अजातत्वादजः स्मृतः । तस्माद्धिरण्यगर्भश्च पुराणेषु निरुच्यते ॥ १,४.२९ ॥ स्वयंभुवो निवृत्तस्य कालो वर्णाग्रतस्तु यः । न शक्यः परिसंख्यातुं मनुवर्षशतैरपि ॥ १,४.३० ॥ कल्पसंख्यानिवृत्तस्तु परार्धो ब्रह्मणः स्मृतः । तावत्त्वे सोऽस्य कालोऽन्यस्तस्यान्ते प्रतिबुद्ध्यते ॥ १,४.३१ ॥ कोटिवर्षसहस्राणि गृहभूतानि यानि च । समतीतानि कल्पानां तावच्छेषात्परेतु ये ॥ १,४.३२ ॥ यत्स्वयं वर्त्तते कल्पो वाराहस्तन्निबोधत । प्रथमं सांप्रतस्तेषां कल्पो वै वर्त्तते च यः ॥ १,४.३३ ॥ पूर्णे युगसहस्रे तु परिपाल्यं नरेश्वरैः ॥ १,४.३४ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे प्रथमे प्रक्रियापदे लोककल्पनं नाम चतुर्थोऽध्यायः _____________________________________________________________ श्रीसूत उवाच आपोऽग्रे सर्वगा आसन्नेनसिमन्पृथिवीतले । शान्तवातैः प्रलीनेऽस्मिन्न प्राज्ञायत किञ्चन ॥ १,५.१ ॥ एकार्णवे तदा तस्मिन्नष्टे स्थावरजङ्गमे । विभुर्भवति स ब्रह्मा सहस्राक्षः सहस्रपात् ॥ १,५.२ ॥ सहस्रशीर्षा पुरुषो रुक्मवर्णो ह्यतीन्द्रियः । ब्रह्म नारायणाख्यस्तु सुष्वाप सलिले तदा ॥ १,५.३ ॥ सत्त्वोद्रेकान्निषिद्धस्तु शून्यं लोकमवैक्षत । इमं चोदाहरन्त्यत्रर्श्लोकं नारायणं प्रति ॥ १,५.४ ॥ आपो नारा इति प्रोक्ता आपो वै नरसूनवः । अयन तस्य ताःप्रोक्तास्तेन नारायणः स्मृतः ॥ १,५.५ ॥ तुल्य युगसहस्रस्य वसन्कालमुपास्यतः । स्वर्णपत्रेप्रकुरुते ब्रह्मत्वादर्शकारणात् ॥ १,५.६ ॥ ब्रह्म तु सलिले तस्मिन्नवाग्भूत्वा तदा चरन् । निशायामिव खद्योतः प्रापृट्काले ततस्ततः ॥ १,५.७ ॥ ततस्तु सलिले तस्मिन् विज्ञायान्तर्गते महत् । अनुमानादसंमूढो भूमेरद्धरणं प्रति ॥ १,५.८ ॥ ओङ्काराषृतनुं त्वन्यां कल्पादिषु यथा पुरा । ततो महात्मा मनसा दिव्यरूपम चिन्तयत् ॥ १,५.९ ॥ सलिलेऽवप्लुतां भूमिं दृष्ट्वा स समचिन्तयत् । किं तु रूपमहं कृत्वा सलिलादुद्धरे महीम् ॥ १,५.१० ॥ जलक्रीडासमुचितं वाराहं रूपमस्मरत् । उदृश्यं सर्वभूतानां वाङ्मयं ब्रह्मसंज्ञितम् ॥ १,५.११ ॥ दशयोजनविस्तीर्णमायतंशतयोजनम् । नीलमेघप्रतीकाशं मेघस्तनितनिःस्वनम् ॥ १,५.१२ ॥ महापर्वतवर्ष्माणं श्वेततीक्ष्णोग्रदंष्ट्रिणाम् । विद्युदग्निप्रतिकाशमादित्यसमतेजसम् ॥ १,५.१३ ॥ पीनवृत्तायतस्कन्धं विष्णुविक्रमगामि च । पीनोन्नतकटीदेशं वृषलक्षणपूजितम् ॥ १,५.१४ ॥ आस्थाय रूपमतुलं वाराहममितं हरिः । पृथिव्युद्धरणार्थाय प्रविवेश रसातलम् ॥ १,५.१५ ॥ दीक्षासमाप्तीष्टिदंष्ट्रःक्रतुदन्तो जुहूसुखः । अग्निजिह्वो दर्भरोमा ब्रह्मशीर्षो महातपाः ॥ १,५.१६ ॥ वेदस्कन्धो हविर्गन्धिर्हव्यकव्यादिवेगवान् । प्राग्वंशकायो द्युतिमान्नानादीक्षाभिरन्वितः ॥ १,५.१७ ॥ दक्षिणा त्दृदयो योगी श्रद्धासत्त्वमयो विभुः । उपाकर्मरुचिश्चैव प्रवर्ग्यावर्तभूषणः ॥ १,५.१८ ॥ नानाछन्दोगतिपथो गुह्योपनिषदासनः । मायापत्नीसहायो वै गिरिशृङ्गमिवोच्छ्रयः ॥ १,५.१९ ॥ अहोरात्रेक्षणाधरो वेदाङ्गश्रुतिभूषणः । आज्यगन्धः स्रुवस्तुण्डः सामघोषस्वनो महान् ॥ १,५.२० ॥ सत्यधर्ममयः श्रीमान् कर्मविक्रमसत्कृतः । प्रायश्चित्तनखो घोरः पशुजानुर्महामखः ॥ १,५.२१ ॥ उद्गातात्रो होमलिङ्गः फलबीजमहोषधीः । वाद्यन्तरात्मसत्रस्य नास्मिकासो मशोणितः ॥ १,५.२२ ॥ भक्ता यज्ञवराहान्ताश्चापः संप्राविशत्पुनः । अग्निसंछादितां भूमिं समामिच्छन्प्रजापतिम् ॥ १,५.२३ ॥ उपगम्या जुहावैता मद्यश्चाद्यसमन्यसत् । मामुद्राश्च समुद्रेषु नादेयाश्च नदीषु च । पृथक्तास्तु समीकृत्य पृथिव्यां सोऽचिनोद्गिरीन् ॥ १,५.२४ ॥ प्राक्सर्गे दह्यमानास्तु तदा संवर्तकाग्निना । देनाग्निना विलीनास्ते पर्वता भुवि सर्वशः ॥ १,५.२५ ॥ सत्यादेकार्णवे तस्मिन् वायुना यत्तु संहिताः । निषिक्ता यत्रयत्रासंस्तत्रतत्राचलोऽभवत् ॥ १,५.२६ ॥ ततस्तेषु प्रकीर्णेषु लोकोदधिगिरींस्तथा । विश्वकर्मा विभजते कल्पादिषु पुनः पुनः ॥ १,५.२७ ॥ ससमुद्रामिमां पृथ्वीं सप्तद्वीपां सपर्वताम् । भूराद्यांश्चतुरो लोकान्पुनःपुनरकल्पयत् ॥ १,५.२८ ॥ लाकान्प्रकल्पयित्वा च प्रजासर्ग ससर्ज ह । ब्रह्मा स्वयंभूर्भगवां सिसृक्षुर्विविधाः प्रजाः ॥ १,५.२९ ॥ ससर्ज सृष्टं तद्रूपं कल्पादिषु यथा पुरा । तस्याभिध्यायतः सर्गं तदा वै बुद्धिपूर्वकम् ॥ १,५.३० ॥ प्रधानसमकाले च प्रादुर्भूतस्तमो मयः । तमो मोहो महामोहस्तामिस्रो ह्यन्धसंज्ञितः ॥ १,५.३१ ॥ अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः । पञ्चधावस्थितः सर्गो ध्यायत साभिमानिनः ॥ १,५.३२ ॥ सर्वतस्तमसा चैव बीजकुंभलतावृताः । बहिरन्तश्चाप्रकाशस्तथानिःसंज्ञ एव च ॥ १,५.३३ ॥ यस्मात्तेषां कृता बुद्धिर्दुःखानि करणानि च । तस्माच्च संवृतात्मानो नगा मुख्याः प्रकीर्तिताः ॥ १,५.३४ ॥ मुख्यसर्गे तदोद्भूतं दृष्ट्वा ब्रह्मात्मसंभवः । अप्रती तमनाः सोथ तदोत्पत्तिममन्यत ॥ १,५.३५ ॥ तस्याभिध्यायतश्चान्यस्तिर्यक्स्रोतोऽभ्यवर्तत । यस्मात्तिर्यग्विवर्त्तेत तिर्यकस्रोतस्ततः स्मृतः ॥ १,५.३६ ॥ तमोबहुत्वात्ते सर्वे ह्यज्ञानबहुलाः स्मृताः । उत्पाद्यग्राहिमश्चैव तेऽज्ञाने ज्ञानमानिनः ॥ १,५.३७ ॥ अहङ्कृता अहंमाना अष्टाविंशद्द्विधात्मिकाः । एकादशन्द्रियविधा नवधात्मादयस्तथा ॥ १,५.३८ ॥ अष्टौ तु तारकाद्याश्च तेषां शक्तिवधाः स्मृताः । अन्तः प्रकाशास्ते सर्वे आवृताश्च बहिः पुनः ॥ १,५.३९ ॥ तिर्यक्स्रोतस उच्यन्ते वश्यात्मानस्त्रिसंज्ञकाः ॥ १,५.४० ॥ तिर्यक्स्रोतस्तु सृष्ट्वा वै द्वितीयं विश्वमीश्वरः । अभिप्रायमथोद्भूतं दृष्ट्वा सर्गं तथाविधम् ॥ १,५.४१ ॥ तस्याभिध्यायतो योन्त्यः सात्त्विकः समजायत । ऊर्द्धस्रोतस्तृतीयस्तु तद्वै चोर्द्धं व्यवस्थितम् ॥ १,५.४२ ॥ यस्मादूर्द्धं न्यवर्तन्त तदूर्द्धस्रोतसंज्ञकम् । ताः सुखं प्रीतिबहुला बहिरन्तश्च वावृताः ॥ १,५.४३ ॥ प्रकाशा बहिरन्तश्च ऊर्द्धस्रोतःप्रजाः स्मृताः । नवधातादयस्ते वै तुष्टात्मानो बुधाः स्मृताः ॥ १,५.४४ ॥ ऊर्द्धस्रोत स्तुतीयो यः स्मृतः सर्वः सदैविकः । ऊर्द्धस्रोतःसु सृष्टेषु देवेषु स तदा प्रभुः ॥ १,५.४५ ॥ प्रीतिमानभवद्ब्रह्मा ततोऽन्यं नाभिमन्यत । सर्गमन्यं सिमृक्षुस्तं साधकं पुनरीश्वरः ॥ १,५.४६ ॥ तस्याभिध्यायतः सर्गं सत्याभिध्यायिनस्तदा । प्रादुर्बभौ भौतसर्गः सोर्वाक्स्रोतस्तु साधकः ॥ १,५.४७ ॥ यस्मात्तेर्वाक्प्रवर्तन्ते ततोर्वाकूस्रोतसस्तु ते । ते च प्रकाशबहुलास्तमस्पृष्टरजोधिकाः ॥ १,५.४८ ॥ तस्मात्ते दुःखबहुला भूयोभूयश्च कारिमः । प्रकाशा बहिरन्तश्च मनुष्याः साधकाश्च ते ॥ १,५.४९ ॥ लक्षणैर्नारकाद्यैस्तैरष्टधा च व्यवस्थिताः । सिद्धात्मानो मनुष्यास्ते गन्धर्वैः सह धर्मिणः ॥ १,५.५० ॥ पञ्चमोऽनुग्रहः सर्गश्चतुर्द्धा स व्यवस्थितः । विपर्ययेण शक्त्या च सिद्ध मुख्यास्तथैव च ॥ १,५.५१ ॥ निवृत्ता वर्तमानाश्च प्रजायन्ते पुनःपुनः । भूतादिकानां सत्त्वानां षष्ठः सर्गः स उच्यते ॥ १,५.५२ ॥ स्वादनाश्चाप्यशीलाश्च ज्ञेया भूतादिकाश्च ते । प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस्तु सः ॥ १,५.५३ ॥ तन्मात्राणां द्वितीयस्तु भूत सर्गः स उच्यते । वैकारिकस्तृतीयस्तु चैद्रियः सर्ग उच्यते ॥ १,५.५४ ॥ इत्येत प्राकृताः सर्गा उत्पन्ना बुद्धिपूर्वकाः । मुख्यसर्गश्च तुर्थस्तु मुख्या वै स्थावराः स्मृताः ॥ १,५.५५ ॥ तिर्यक्स्रोतःससर्गस्तु तैर्यग्योन्यस्तु पञ्चमः । तथोर्द्धस्रोतसां सर्गः षष्ठो देवत उच्यते ॥ १,५.५६ ॥ तत्रोर्द्धस्रोतसां सर्गः सप्तमः स तु मानुषः । अष्टमोनुग्रहः सर्गः सात्त्विकस्तामसश्च सः ॥ १,५.५७ ॥ पञ्चैते वैकृताः सर्गाः प्राकृताद्यास्त्रयः स्मृताः । प्राकृतो वैकृतश्चैव कौमारो नवमः स्मृतः ॥ १,५.५८ ॥ प्रकृता बुद्धिपूर्वास्तु त्रयः सर्गास्तु वैकृताः । दुद्धिबुर्वाः प्रवर्तेयुस्तद्वर्गा ब्राह्मणास्तु वै ॥ १,५.५९ ॥ विस्तराच्च यथा सर्वे कीर्त्यमानं निबोधत । चतुर्द्धा च स्थितस्सोऽपि सर्वभूतेषु कृत्स्नशः ॥ १,५.६० ॥ विपर्ययोण शत्त्या च बुद्ध्या सिद्ध्या तथैव च । स्थावरेषु विपर्यासस्तिर्यग्योनिषु शक्तितः ॥ १,५.६१ ॥ सिद्धात्मानो मनुष्यास्तु पुष्टिर्देवेषु कृत्स्नशः । अथो ससर्ज वै ब्रह्मा मानसानात्मनः समान् ॥ १,५.६२ ॥ वैवर्त्येन तु ज्ञानेन निवृत्तास्ते महौ जसः । संबुद्ध्य चैव नामाथो अपवृत्तास्त्रयस्तु ते ॥ १,५.६३ ॥ असृष्ट्वैव प्रजासर्गंप्रतिसर्गं ततस्ततः । ब्रह्मा तेषु व्यरक्तेषु ततोऽन्यान्सा धकान्सृजन् ॥ १,५.६४ ॥ स्थानाभिमानिनो देवाः पुनर्ब्रह्मानुशासनम् । अभूतसृष्ट्यवस्था चे स्थानिनस्तान्निबोध मे ॥ १,५.६५ ॥ आपोऽग्निः पृथिवी वायुरन्तरिक्षो दिवं तथा । स्वर्गो दिशः समुद्राश्च नद्यश्चैव वनस्पतीन् ॥ १,५.६६ ॥ औषधीनां तथात्मानो ह्यात्मनो वृक्षवीरुधाम् । लताः काष्ठाः कलाश्चैव मुहूर्ताः संधिरात्र्यहाः ॥ १,५.६७ ॥ अर्द्धमासाश्च मासाश्च अयनाब्दयुगानि च । स्थाने स्रोतःस्वभीमानाः स्थानाख्याश्चैव ते स्मृताः ॥ १,५.६८ ॥ स्थानात्मनः स सृष्ट्वा तु ततोऽन्यान्स तदासृजत् । देवांश्चैव पितॄंश्चैव यौरिमा वर्द्धिताः प्रजाः ॥ १,५.६९ ॥ भृग्वङ्गिरा मरीचिश्च पुलस्त्यः पुलहः क्रतुः । दक्षोऽत्रिश्च वसिष्ठश्च सासृजन्नव मानसान् ॥ १,५.७० ॥ नव ब्रह्माण इत्येते पुराणे निश्चयं गताः । ब्रह्मा यथात्मकानां तु सर्वेषां ब्रह्मयोगिनाम् ॥ १,५.७१ ॥ ततोऽसृजत्पुनर्ब्रह्मा रुद्रं रोषत्मसंभवम् । संकल्पं चैव धर्म च सर्वेषामेव पर्वतौ ॥ १,५.७२ ॥ सोऽसृजद्व्यवसायं तु ब्रह्मा भूतं सुखात्मकम् । संकल्पाच्चैव संकल्पो जज्ञे सोऽव्यक्तयोनिनः ॥ १,५.७३ ॥ प्राणाद्दक्षोऽसृजद्वाचं चक्षुर्भ्यां च मरीचिनम् । भृगुश्च हृदयाज्जज्ञे ऋषिः सलिलयोनिनः ॥ १,५.७४ ॥ शिरसश्चाङ्गिराश्चैव श्रोत्रादत्रिस्तथैव च । पुलस्त्यश्च तथोदानाद्व्यानात्तु पुलहस्तथा ॥ १,५.७५ ॥ समानतो वसिष्ठश्च ह्यपानान्निर्ममे क्रतुम् । इत्येते ब्रह्मणः श्रेष्ठाः पुत्रा वै द्वादश स्मृताः ॥ १,५.७६ ॥ धर्मादयः प्रथमजा विज्ञेया ब्रह्ममः स्मृताः । भृग्वादयस्तु ये सृष्टा न च ते ब्रह्मवादिनः ॥ १,५.७७ ॥ गृहमेधिपुराणास्ते विज्ञेया ब्रह्मणः सुताः । द्वादशैते प्रसूयन्ते सह रूद्रेण च द्विजाः ॥ १,५.७८ ॥ क्रतुः सनत्कुमारश्च द्वावेतावूर्द्धरेतसौ । पूर्वोत्पत्तौ पुरा ह्येतौ सर्वेषामपि पूर्वजौ ॥ १,५.७९ ॥ व्यतीतौ सप्तमे कल्पे पुराणौ लोकसाधकौ । विरजेतेऽत्र वै लोके तेजसाक्षिप्य चात्मनः ॥ १,५.८० ॥ तापुभौ योगधर्माणावारोप्यात्मानमात्मना । प्रजाधर्मं च कामं च वर्तयेते महौजसौ ॥ १,५.८१ ॥ यथोत्पन्नस्तथैवेह कुमार इति चोच्यते । ततः सनत्कुमारेति नाम तस्य प्रतिष्ठितम् ॥ १,५.८२ ॥ तेषां द्वादश ते वंशा दिव्या देवगाणान्विताः । क्रियावन्तः प्रजावन्तो महर्षिभिरलङ्कृताः ॥ १,५.८३ ॥ प्राणजांस्तु स दृष्ट्वा वै ब्रह्मा द्वादश सात्त्विकान् । ततोऽसुरान्पितॄन्देवान्मनुष्यांश्चासृजत्प्रभुः ॥ १,५.८४ ॥ मुखाद्देवानजनयत्पितॄंश्चैवाथ वक्षसः । प्रजननान्मनुष्यान्वै जघनान्निर्ममेऽसुरान् ॥ १,५.८५ ॥ नक्तं सृजन्पुनर्ब्रह्मा ज्योत्स्नाया मानुषात्मनः । सुधायाश्च पितॄंश्चैव देवदेवः ससर्जह ॥ १,५.८६ ॥ मुख्यामुख्यान्मृजन्देवानसुरांश्च ततः पुनः । सनसश्च मनुष्यांश्च पितृवन्महतः पितॄन् ॥ १,५.८७ ॥ विद्युतोऽशनिमेघांश्च लोहितेन्द्रधनूंषि च । ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये ॥ १,५.८८ ॥ उच्चावचानि भूतानि महसस्तस्य जज्ञिरे । ब्रह्मणस्तु प्रजासर्गं देवार्षिपितृमानवम् ॥ १,५.८९ ॥ पुनः सृजति भूतानि चराणि स्थावराणि च । यक्षान्पिशाचान् गन्धर्वान्सर्वशोऽप्सरसस्तथा ॥ १,५.९० ॥ नरकिन्नररक्षांसि वयः पशुमृगोरगान् । अव्ययं वा व्ययञ्चैव द्वयं स्थावरजङ्गमम् ॥ १,५.९१ ॥ तेषां ते यान्ति कर्माणि प्राक्सृष्टानि स्वयंभुवा । तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः ॥ १,५.९२ ॥ हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मौं कृताकृते । तेषामेव पृथक्सूतमविभक्तं त्रयं विदुः ॥ १,५.९३ ॥ एतदेवं च नैवं च न चोभे नानुभे तथा । कर्म स्वविषयं प्राहुः सत्त्वस्थाः समदर्शिनः ॥ १,५.९४ ॥ नामात्मपञ्चभूतानां कृतानां च प्रपञ्चताम् । दिवशब्देन पञ्चैते निर्ममे समहेश्वरः ॥ १,५.९५ ॥ आर्षाणि चैव नामानि याश्च देवेषु सृष्टयः । शर्वर्यां न प्रसूयन्ते पुनस्तेभ्योदधत्प्रभुः ॥ १,५.९६ ॥ इत्येवं कारणाद्भूतो लोकसर्गः स्वयंभुवः । महदाद्या विशेषान्ता विकाराः प्राकृताः स्वयम् ॥ १,५.९७ ॥ चन्द्रसूर्यप्रभो लोको ग्रहनक्षत्रमण्डितः । नदीभिश्च समुद्रैश्च पर्वतैश्च सहस्रशः ॥ १,५.९८ ॥ पुरैश्च विविधै रम्यैः स्फीतैर्जनपदैस्तथा । अस्मिन् ब्रह्मवनेऽव्यक्तो ब्रह्मा चरति सर्ववित् ॥ १,५.९९ ॥ अव्यक्तबीजप्रभवस्तस्यैवानुग्रहे स्थितः । बुद्धिस्कन्धमयश्चैव इन्द्रियान्तरकोटरः ॥ १,५.१०० ॥ महाभूतप्रकाशश्च विशेषैः पत्रवांस्तु सः । धर्माधर्मसुपुष्पस्तु सुखदुःखफलोदयः ॥ १,५.१०१ ॥ आजीवः सर्वभूतानां ब्रह्मवृक्षः सनातनः । एतद्ब्रह्मवनं चैव ब्रह्मवृक्षस्य तस्य तत् ॥ १,५.१०२ ॥ अव्यक्तं कारणं यत्र नित्यं सदसदात्मकम् । प्रधानं प्रकृतिंमायां चैवाहुस्तत्त्वचिन्तकाः ॥ १,५.१०३ ॥ इत्येषोऽनुग्रहःमर्गो ब्रह्मनैमित्तिकः स्मृतः । अबुद्धिपूर्वकाः सर्गा ब्रह्मणः प्राकृतास्त्रयः ॥ १,५.१०४ ॥ सुख्यादयस्तु षट्सर्गा वैकृता बुद्धिपूर्वकाः । वैकल्पात्संप्रवर्तन्ते ब्रह्मणस्तेभिमन्यवः ॥ १,५.१०५ ॥ इत्येते प्राकृताश्चैव वैकृताश्च नव स्मृताः । सर्गाः परस्परोत्पन्नाः कारणं तु बुधैः स्मृतम् ॥ १,५.१०६ ॥ मूर्द्धानं वै यस्य वेदा वदन्ति वियन्नाभिश्चन्द्रसूर्यौं च नेत्रे । दिशः श्रोत्रे विद्धि पादौ क्षितिं च सोऽचिन्त्यात्मा सर्वभूतप्रणेता ॥ १,५.१०७ ॥ वक्त्राद्यस्य ब्राह्मणाः संप्रसूता वक्षसश्चैव क्षत्रियाः पूर्वभागे । वैश्या ऊरुभ्यां यस्य पद्भ्यां च शूद्राःसर्वेवर्णा गात्रतः संप्रसूताः ॥ १,५.१०८ ॥ नारायणात्परोव्यक्तादण्डमव्यक्तसंज्ञितम् । अण्डजस्तु स्वयं ब्रह्मा लोकास्तेन कृताः स्वयम् ॥ १,५.१०९ ॥ तत्र कल्पान् दशस्थित्वा सत्यं गच्छन्ति ते पुनः । ते लोका ब्रह्मलोकं वै अपरावर्तिनीं गतिम् ॥ १,५.११० ॥ आधिपत्यं विना ते वै ऐश्वर्येण तु तत्समाः । भवन्ति ब्रह्मणा तुल्या रूपेण विषयेण च ॥ १,५.१११ ॥ तत्र ते ह्यवतिष्ठन्ते प्रीतियुक्ताः स्वसंयुताः । अवश्यंभाविनार्थेन प्राकृतं तनुते स्वयम् ॥ १,५.११२ ॥ नानात्वनाभिसंबध्यास्तदा तत्कालभाविताः । स्वपतोऽबुद्धिपूर्व हि बोधो भवति वै यथा ॥ १,५.११३ ॥ तत्कालभाविते तेषां तथा ज्ञानं प्रवर्त्तते । प्रत्याहारैस्तु भेदानां तेषां हि न तु शुष्मिणाम् ॥ १,५.११४ ॥ तैश्व सार्धं प्रवर्तन्ते कार्याणि कारणानि च । नानात्वदर्शिनां तेषां ब्रह्मलोकनिवासिनाम् ॥ १,५.११५ ॥ विनिवृत्तविकाराणां स्वेन धर्मेण तिष्ठताम् । तुल्यलक्षण सिद्धास्तु शुभात्मानो निरञ्जनाः ॥ १,५.११६ ॥ प्राकृते करणोपेताः स्वात्मन्येव व्यवस्थिताः । प्रस्थापयित्वा चात्मानं प्रकृतिस्त्वेष तत्तवतः ॥ १,५.११७ ॥ पुरुषान्यबहुत्वेन प्रतीता न प्रवर्तते । प्रवर्तते पुनः सर्गस्तेषां साकारणात्मनाम् ॥ १,५.११८ ॥ संयोगः प्रकृतिर्ज्ञेया यक्तानां तत्त्वदर्शिनाम् । तत्रोपवर्गिणी तेषामपुनर्भारगामिनाम् ॥ १,५.११९ ॥ अभावतः पुनः सत्यं शान्तानामर्चिषामिव । ततरतेषु गतेषूर्द्धं त्रैलोक्यात्तु मुदात्मसु ॥ १,५.१२० ॥ ते सार्द्धं चैर्महर्ल्लोकस्तदानासादितस्तु वै । तच्छिष्या ये ह तिष्ठन्ति कल्पदाह उपस्थिते ॥ १,५.१२१ ॥ गन्धर्वाद्याः पिशाचाश्चमानुषा ब्रह्मणादयः । पशवः पक्षिणश्चैव स्थावराः ससरीसृपाः ॥ १,५.१२२ ॥ तिष्ठत्सुतेषु तत्कालं पृथिवीतलवसिषु । सहस्रंयत्तु रश्मीनां सूर्यस्येह विनश्यति ॥ १,५.१२३ ॥ ते सप्त रश्मयो भूत्वा एकैको जायते रविः । क्रमेण शतमानास्ते त्रींल्लोकान्प्रदहन्त्युत ॥ १,५.१२४ ॥ जङ्गमान्स्थावरांश्चैव नदीः सर्वाश्च पर्वतान् । शुष्के पूर्वमनावृष्ट्या चैस्तैशचैव प्रतापिताः ॥ १,५.१२५ ॥ तदा ते विवशाः सर्वे निर्दग्धाः सूर्यरश्मिभिः । जङ्गमाः स्थावराश्चैव धर्माधर्मादिकास्तु वै ॥ १,५.१२६ ॥ दग्धदेहास्तदा ते तु धूतपापा युगात्यये । ख्यातातपा विनिर्मुक्ताः शुभया चातिबन्धया ॥ १,५.१२७ ॥ ततस्ते ह्युपपद्यन्ते तुल्यरूपैर्जनैर्जनाः । उषित्वा रजनीं ते च ब्रह्मणोऽव्यक्तजन्मनः ॥ १,५.१२८ ॥ पुनः सर्गे भवन्तीह मानस्यो ब्रह्मणः प्रजाः । ततस्तेषु प्रपन्नेषु जनैस्त्रैलोक्यवासिषु ॥ १,५.१२९ ॥ निर्दग्धेषु च लोकेषु तदा सूर्यैस्तु सप्तभिः । वृष्ट्या क्षितौ प्लावितायां विजनेष्वर्णवेषु वा ॥ १,५.१३० ॥ समुद्राश्चैव मेघाश्च आपश्चैवाथ पार्थिवाः । शरमाणा व्रजन्त्येव सलिलाख्यास्तथाचलाः ॥ १,५.१३१ ॥ आगतागतिकं चैव यदा तु सलिलं बहु । संछाद्येमां स्थितां भूमिमर्णवाख्यं तदाभवत ॥ १,५.१३२ ॥ आभाति यस्माच्चाभासाद्भाशब्दः कान्तिदीप्तिषु । स सर्वः समनुप्राप्ता मासां भाभ्यो विभाव्यते ॥ १,५.१३३ ॥ तदन्तस्तनुते यस्मात्सर्वां पृथ्वीं समततः । धातुस्तनोति विस्तारं ततोपतनवः स्मृताः ॥ १,५.१३४ ॥ शार इत्येव शीर्णे तु नानार्थो धातु रुच्यते । एकार्णवे भवन्त्यापो न शीर्णास्तेन ता नराः ॥ १,५.१३५ ॥ तस्मिन् युगसहस्रान्ते संस्थिते ब्रह्मणोऽहनि । तावत्कालं रजन्यां च वर्तन्त्यां सलिलात्मनः ॥ १,५.१३६ ॥ ततस्ते सलिले तस्मिन्नष्टाग्नौ पृथिवीतले । प्रशान्तवातेऽन्धकारे निरालोके समन्ततः ॥ १,५.१३७ ॥ येनैवाधिष्ठितं हीदं ब्रह्मणः पुरुषः प्रभुः । विभागमस्य लोकस्य प्रकर्तुं पुनरैच्छत ॥ १,५.१३८ ॥ शार इत्येव शीर्णे तु नानार्थो धातु रुच्यते । एकर्णवे ततस्तस्मिन्नष्टे स्थावर जङ्गमे । तदा भवति स ब्रह्मा सहस्राक्षः सहस्रपात् ॥ १,५.१३९ ॥ सहस्रशीर्षा पुरुषो रुक्मवर्णो ह्यतीन्द्रियः । ब्रह्मा नारायणा ख्यस्तु सुष्वाप सलिले तदा ॥ १,५.१४० ॥ सत्त्वोद्रेकात्प्रबुद्धस्तु स शून्यं लोकमैक्षत । अनेनाद्येन पादेन पुराणं परिकीर्तितम् ॥ १,५.१४१ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे प्रथमे प्रक्रियापादे लोककल्पनं नाम पञ्चमोऽध्यायः _____________________________________________________________ सूत उवाच इत्येवं प्रथमं पादं प्रकृत्यर्थं प्रकीर्तितम् । श्रुत्वा तु संहृष्टमनाः कापेयः संशयायति ॥ १,६.१ ॥ आराध्य वचसा सूतं तस्यार्थ त्वपरां कथाम् । अथ प्रबृति कल्पज्ञः प्रतिसंधिः प्रचक्षते ॥ १,६.२ ॥ समतीतस्य कल्पस्य वर्तमानस्य चानयोः । कल्पयोरन्तरं यत्र प्रतिसंधिश्च यस्तयोः । एतद्वेदितुमिच्छामि यथावत्कुशलो ह्यसि ॥ १,६.३ ॥ कापेयेनैवमुक्तस्तु सूतः प्रवदतां वरः । त्रैलोक्यस्योद्भवं कृत्स्नमाख्यातुमुपचक्रमे ॥ १,६.४ ॥ सूत उवाच अत्र वै वर्णयिष्यामि याथातथ्येन सुव्रताः । कल्पं भूतं भविष्यं च प्रतिसंधिश्च यस्तयोः ॥ १,६.५ ॥ मन्वन्तराणि कल्पेषु यानि यानि च सुव्रताः । यश्चायं वर्तते कल्पो वाराहः सांप्रतः शुभः ॥ १,६.६ ॥ अस्मात्कल्पात्तु यः पूर्वः कल्पोऽतीतः सनातनः । तस्य चास्य च कल्पस्य मध्यावस्थां निबोधत ॥ १,६.७ ॥ प्रत्यागते पूर्वकल्पे प्रतिसंधिं विनानघाः । अन्यः प्रवर्त्तते कल्पो जनलोकादयः पुनः ॥ १,६.८ ॥ व्युच्छिन्नप्रतिसंधिस्तु कल्पात्कल्पः परस्परम् । व्युच्छिद्यन्ते प्रजाः सर्वाः कल्पान्ते सर्वशस्तदा ॥ १,६.९ ॥ तस्मात्कल्पात्तु कल्पस्य प्रतिसंधिर्न विद्यते । मन्वन्तरे युगाख्यानामविच्छिन्नास्तु संधयः ॥ १,६.१० ॥ परस्परात्प्रवर्तन्ते मन्वन्तरयुगैः सह । उक्ता ये प्रक्रियार्थेन पूर्वकल्पाः समासतः ॥ १,६.११ ॥ तेषां परार्द्धकल्पानां पूर्वे यस्मात्तु यः परः । आसीत्कल्पे व्यतीते वै परर्द्धात्परमस्तु यः ॥ १,६.१२ ॥ कल्पास्त्वन्ये भविष्या ये ह्यपरार्द्धगुणीकृताः । प्रथमः सांप्रतस्तेषां कल्पों यो वर्तते द्विजाः ॥ १,६.१३ ॥ अस्मिन्पूर्वे परार्द्धे तु द्वितीयः पर उच्यते । एष संस्थितकालस्तु प्रत्याहारस्ततः स्मृतः ॥ १,६.१४ ॥ अस्मात्कल्पात्ततः पूर्वं कल्पोऽतीतः पुरातनः । चतुर्युगसहस्रति सह मन्वन्तरैः पुरा ॥ १,६.१५ ॥ क्षीणे कल्पे ततस्तस्मिन् दाहकाल उपस्थिते । तस्मिन्काले तदा देवा आसन्वैमानिकास्तु ये ॥ १,६.१६ ॥ नक्षत्रग्रहताराश्च चन्द्रसूर्यादयस्तु ते । अष्टाविंशतिरेवैताः कोट्यस्तु सुकृतात्म नाम् ॥ १,६.१७ ॥ मन्वन्तरे यथैकस्मिन् चतुर्द्दशसु वै तथा । त्रीणि कोटिशतान्यासन् कोट्यो द्विनवतिस्तथा ॥ १,६.१८ ॥ अथाधिकासप्त तिश्च सहस्राणां पुरा स्मृता । एकैकस्मिंस्तु कल्पे वै देवा वैमानिकाः स्मृताः ॥ १,६.१९ ॥ अथ मन्वन्तरेष्वासंश्चतुर्दशसु खे दिवि । देवाश्च पितरश्चैव ऋषयोऽमृतपास्तथा ॥ १,६.२० ॥ तेषामनुचराश्चैव पत्न्यः पुत्रास्तथैव च । वर्णाश्रमातिरिक्ताश्च तस्मिन्काले तु खे सुराः ॥ १,६.२१ ॥ तैस्तैः सायुज्यगैः सार्द्ध प्राप्ते वस्तुमये तदा । तुल्यनिष्ठाभवन्सर्वे प्राप्ते ह्याभूतसंप्लवे ॥ १,६.२२ ॥ ततस्तेऽवश्यभावित्वादू बुद्ध्याः पर्या यमात्मनः । त्रैलोक्यवासिनो देवा इह तानाभिमानिनः ॥ १,६.२३ ॥ स्थितिकाले तदा पूर्णे आसन्ने पश्चिमोत्तरे । कल्पावसानिका देवास्त स्मिनप्राप्ते ह्युपप्लवे ॥ १,६.२४ ॥ तदोत्सुका विषादेंन त्यक्तस्थानानि भागशः । महर्लोकाय संविग्नास्ततस्ते दधिरे मनः ॥ १,६.२५ ॥ ते युक्ता नुपपद्यन्ते महतीं च शरीरिके । विशुद्धिबहुलाः सर्वे मानसीं सिद्धिमास्थिताः ॥ १,६.२६ ॥ तैः कल्पवासिभिः सार्द्धं महानासादितस्तदा । ब्राह्मणैः क्षत्रियैर्वैश्यैस्तद्भवैश्चापरैर्जनैः ॥ १,६.२७ ॥ गत्वा तु ते महार्लोकं देवसंघाश्चतुर्द्दश । स्ततस्ते जनलोकाय सोद्वेगा दधिरे मनः ॥ १,६.२८ ॥ एतेन क्रमयोगेन ययुस्ते कल्पवासिनः । एवं देवयुगानां तु सहस्राणि परस्परम् ॥ १,६.२९ ॥ विशुद्धिबहुलाः सर्वे मानसीं सिद्धिमास्थिताः । तैः कल्पवासिभिः सार्द्धं जन आसादितस्तु वै ॥ १,६.३० ॥ तत्र कल्पान्दश स्थित्वा सत्यं गच्छन्ति वै पुनः । गत्वा ते ब्रह्मलोकं वै अपरावर्त्तिनीं गतिम् ॥ १,६.३१ ॥ आधिपत्यं विमाने वै ऐश्वर्येण तु तत्समाः । भवन्ति ब्रह्मणा तुल्या रूपेण विषयेण च ॥ १,६.३२ ॥ तत्र ते ह्यवतिष्ठन्त प्रीतियुक्ताश्च संयमान् । आनन्दं ब्रह्मणः प्राप्य मुच्यन्ते ब्रह्मणा सह ॥ १,६.३३ ॥ अवश्यभाविनार्थेन प्राकृतेनैव ते स्वयम् । मानार्चनाभिः संबद्धास्तदा तत्कालभाविताः ॥ १,६.३४ ॥ स्वपतो बुद्धिपूर्वं तु बोधो भवति वै यथा । तथातु भाविते सेवां तथानन्दः प्रवर्तते ॥ १,६.३५ ॥ प्रत्याहारैस्तु भोदानां येषां भिन्नानि शुष्मिणाम् । तैः सार्द्ध वर्द्धते तेषां कार्याणि करणानि च ॥ १,६.३६ ॥ नाना त्वदर्शिनां तेषां ब्रह्मलोकनिवासिनाम् । विनिवृत्ताधिकारणां स्वेन धर्मेण तिष्ठताम् ॥ १,६.३७ ॥ ते तुल्यलक्षणाः सिद्धाः शुद्धात्मानो निरञ्जनाः । प्राकृते करणोपेताः स्वात्मन्येव व्यवस्थिताः ॥ १,६.३८ ॥ प्रख्यापयित्वा चात्मानं प्रकृतिस्त्वेष तत्त्वतः । पुरुषान्यबहुत्वेन प्रतीता तत्प्रवर्तते ॥ १,६.३९ ॥ प्रवर्तिते पुनः सर्गे तेषां साकारणात्मनाम् । संयोगे प्रकृतिर्ज्ञैया मुक्तानां तत्त्वदर्शिनाम् ॥ १,६.४० ॥ तत्रोपवर्गिणां तेषां न पुनर्मार्गगामिनाम् । अभावः पुनरुत्पन्नः शान्तानामर्चिषामिव ॥ १,६.४१ ॥ ततस्तेषु गतेषूर्ध्वं त्रैलोक्येषु महात्मसु । एतैः सार्धं महर्लोकस्तदानासादितस्तु वै ॥ १,६.४२ ॥ तच्छिष्या वै भविष्यन्ति कल्पदाह उपस्थिते । गन्धर्वाद्याः पिशाचाश्च मानुषा ब्राह्मणादयः ॥ १,६.४३ ॥ पशवः पक्षिणस्चैव स्थावराश्च सरीसृपाः । तिष्ठत्सु तेषु तत्कालं पृथिवीतलवासिषु ॥ १,६.४४ ॥ सहस्रं यत्तु रश्मीनां स्वयमेव विभाव्यते । तत्सप्तरश्मयो भूत्वा एकैको जायते रविः ॥ १,६.४५ ॥ क्रमेणोत्तिष्टमानास्ते त्रींल्लोकान्प्रदहन्त्युत । जङ्गमाः स्थावराश्चैवनद्यः सर्वे च पर्वताः ॥ १,६.४६ ॥ शुष्काः पूर्वमनावृष्ट्या सूर्य्यैस्ते च प्रधूपिताः । तदा तु विवशाः सर्वे निर्दग्धाः सूर्यरश्मि भिः ॥ १,६.४७ ॥ जङ्गमाः स्थावराश्चैव धर्माधर्मात्मकास्तु वै । दग्धदेहास्तदा ते तु धूतपापायुगान्तरे ॥ १,६.४८ ॥ ख्यातातपा विनिर्मुक्ताः शुभय चातिबन्धया । ततस्ते ह्युपपद्यन्ते तुल्यरूपैर्जनैर्जनाः ॥ १,६.४९ ॥ उषित्वा रजनीं तत्र ब्रह्मणोऽव्यक्तजन्मनः । पुनः सर्गे भवन्तीह मानसा ब्रह्मणः सुताः ॥ १,६.५० ॥ ततस्तेषूपपन्नेषु जनैस्त्रैलोक्यवासिषु । निर्दग्धेषु च लोकेषु तदा सूर्यैस्तु सप्तभिः ॥ १,६.५१ ॥ वृष्ट्या क्षितौ प्लावितायां विजनेष्वर्णवेषु च । सामुद्राश्चैव मेघाश्च आपः सर्वाश्च पार्थिवाः ॥ १,६.५२ ॥ शरमाणा व्रजन्त्येव सलिलाख्यास्तथा नुगाः । आगतागतिकं चैव यदा तत्सलिलं बहु ॥ १,६.५३ ॥ संछाद्येमां स्थितां भमिमर्णवाख्यं तदाभवत् । आभाति यस्मात्स्वाभासो भाशब्दो व्याप्तिदीप्तिषु ॥ १,६.५४ ॥ सर्वतः समनुप्राप्त्या तासां चाम्भो विभाव्यते । तदन्तस्तनुते यस्मात्सर्वां पृथ्वीं समन्त ततः ॥ १,६.५५ ॥ धातुस्तनोति विस्तारे नचैतास्तनवः स्मृताः । शर इत्येष शीर्णे तु नानार्थो धातुरुच्यते ॥ १,६.५६ ॥ एकार्णवे भवत्यापो न शीघ्रास्तेन ते नराः । तस्मिन् युगसहस्रान्ते संस्थिते ब्रह्मणोऽहनि ॥ १,६.५७ ॥ तावत्काले रजन्यां च वर्तन्त्यां सलिलात्मना । ततस्तु सलिले तास्मिन्नष्टाग्नौ पृथवीतले ॥ १,६.५८ ॥ प्रशान्तवातेऽन्धकारे निरालोके समन्ततः । एतेनाधिष्ठितं हीदं ब्रह्मा स पुरुषः प्रभुः ॥ १,६.५९ ॥ विभागमस्य लोकस्य प्रकर्तुं पुनरैच्छत । एकार्णवे तदा तस्मिन्नष्टे स्थावरजङ्गमे ॥ १,६.६० ॥ तदा भवति स ब्रह्मा सहस्राक्षः सहस्रपात् । सहस्रशीर्षा पुरुषो रुक्मवर्णो जितेन्द्रियः । इमं चोदाहरन्त्यत्रर्श्लोकं नारायणं प्रति ॥ १,६.६१ ॥ आपो नारास्तत्तनव इत्यर्था ननुशुश्रुम । आपूर्यमाणास्तत्रास्ते तेन नारायणः स्मृतः ॥ १,६.६२ ॥ सहस्रशीर्षा सुमनाः सहस्रपात्सहस्रचक्षुर्वदनः सहस्रकृत् । सहस्रबाहुः प्रथमः प्रजापतिस्त्रयीमयोऽयं पुरुषो निरुच्यते ॥ १,६.६३ ॥ आदित्यवर्णो भुवनस्य गोप्ता एको ह्यमूर्तः प्रथमस्त्वसो विराट् । हिरण्य गर्भः पुरुषो महात्मा संपद्यते वै मनसः परस्तात् ॥ १,६.६४ ॥ कल्पादौ रजसोद्रिक्तो ब्रह्मा भूस्त्वासृजत्प्रभुः । कल्पान्ते तमसोद्रिक्तः कालो भूत्वाग्रसत्पुनः ॥ १,६.६५ ॥ स वै नारायणो भूत्वा सत्त्वोद्रिक्तो जलाशये । त्रिधा विभज्य चात्मानं त्रैलोक्ये संप्रवर्त्तते ॥ १,६.६६ ॥ सृजति ग्रसते चैव वीक्ष्यते च त्रिभिः स्वयम् । एकार्णवे तदा तस्मिन्नष्टे स्थावरजङ्गमे ॥ १,६.६७ ॥ चतुर्युगसहस्रान्ते सर्वतः स जलावृते । ब्रह्मां नारायणाख्यस्तु स चकाशे भवे स्वयम् ॥ १,६.६८ ॥ चतुर्विधाः प्रजाः सर्वा ब्रह्मशक्त्या तमोवृताः । पश्यन्ति तं महर्लोके कालं सुप्तं महर्षयः ॥ १,६.६९ ॥ भृग्वादयो यथोद्दिष्टास्तस्मिन् काले महर्षयः । सत्यादयस्तथा त्वष्टौ कल्पे लीने महर्षयः । तदा विवर्त्यमानैस्तैर्महत्परिगतं पराम् ॥ १,६.७० ॥ गत्यर्थादृषतेर्धातोर्नामनिष्पत्तिरुच्यते । यस्मादृषतिसत्त्वेन महत्तस्मान्महर्षयः ॥ १,६.७१ ॥ महर्लोकस्थितैर्दृष्टः कालः सुप्तस्तदा च तैः । सत्त्वाद्याः सप्त ये त्वासन्कल्पेऽतीते महर्षयः ॥ १,६.७२ ॥ एवं ब्रह्मा तासु तासु रजनीषु सहस्रशः । दृष्टवन्तस्तदानीताः कालं सुप्तं महर्षयः ॥ १,६.७३ ॥ कल्पस्यादौ सुबहुला यस्मात्संस्थाश्चतुर्द्दश । कल्पया मास वै ब्रह्मा तस्मात्कल्पो निरुच्यते ॥ १,६.७४ ॥ स स्रष्टा सर्वभूतानां कल्पादिषु पुनः पुनः । व्यक्ताव्यको महादेवस्तस्य सर्वमिदं जगत् ॥ १,६.७५ ॥ इत्येष प्रतिसंबन्धः कीर्तितः कल्पयोर्द्वयोः । सांप्रतं हि तयोर्मध्ये प्रागवस्था बभूव ह ॥ १,६.७६ ॥ कीर्तितस्तु समासेन पूर्वकल्पे यथातथम् । सांप्रतं संप्रवक्ष्यामि कल्पमेतं निबोधत ॥ १,६.७७ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीये अनुषङ्गापादे कल्पमन्वन्तराख्यानवर्णनं नाम षष्ठोऽध्यायः _____________________________________________________________ सूत उवाच तुल्यं युगसहस्रं वै नैशं कालमुपास्य सः । शर्वर्यंते प्रकुरुते ब्रह्मा तूत्सर्गकारणात् ॥ १,७.१ ॥ ब्रह्मा तु सलिले तस्मिन् वायुर्भूत्वा तदाचरत् । अन्धकारार्णवे तस्मिन्नष्टे स्थावरजंगमे ॥ १,७.२ ॥ जलेन समनुप्लाव्य सर्वतः पृथिवीतले । प्रविभागेन भूतेषु सत्यमात्रे स्थितेषु वा ॥ १,७.३ ॥ निशयामिव खद्योतः प्रावृट्काले ततस्तदा । तदा कामेन तरसामन्यामानःस्वयं धिया ॥ १,७.४ ॥ सोप्युपायं प्रतिष्ठायां मार्गमाणस्तदा भुवम् । ततस्तु सलिले तस्मिन् ज्ञात्वा त्वन्तर्गतो महीम् ॥ १,७.५ ॥ अन्धमन्यतमं बुद्धा भूमेरुद्धरणक्षमः । चकार तं तु देवोऽथ पूर्वकल्पादिषु स्मृतः ॥ १,७.६ ॥ सत्यं रूपं वराहस्य कृत्वाभोऽनुप्रविश्य च । अद्भिः संछादितामिच्छन् पृथिवीं स प्रजापतिः ॥ १,७.७ ॥ उद्धृत्योर्वीमथ न्यस्ता सापत्यांतामतिन्यसत् । सामुद्राश्च समुद्रेषु नादेयाश्च नदीषु च ॥ १,७.८ ॥ पृथक्तास्तु समीकृत्य पृथिव्यां सोऽचिनोद्गिरीन् । प्राक्सर्गे दह्यमाने तु पुरा संवर्त काग्निना ॥ १,७.९ ॥ तेनाग्निना विलीनास्ते पर्वता भुवि सर्वशः । शैल्यादेकार्णवे तस्मिन्वायुना ये तु संहिताः ॥ १,७.१० ॥ निषिक्ता यत्र यत्रासंस्तत्रतत्राचलोऽभवत् । स्कन्धाचलत्वादचलाः पर्वभिः पर्वताः स्मृताः ॥ १,७.११ ॥ गिरयो हि निगीर्णत्वादयनात्तु शिलोच्चयाः । तत स्तावासमुद्धृत्य क्षितिमंतर्जलात्प्रभुः ॥ १,७.१२ ॥ सप्तसप्त तु वर्षाणि तस्या द्वीपेषु सप्तसु । विषमाणि समीकृत्य शिलाभिरभितो गिरीन् ॥ १,७.१३ ॥ द्वीपेषु तेषु वर्षाणि चत्वारिंशत्तथैव तु । तावंतः पर्वताश्चैव वर्षांते समवस्थिताः ॥ १,७.१४ ॥ स्वर्गादौ कांतिविष्टास्ते स्वभावेनैव नान्यथा । सप्तद्वीपा समुद्राश्च अन्योन्यस्यानुमंडलम् ॥ १,७.१५ ॥ सन्निविष्टाः स्वभावेन समावृत्य परस्परम् । भूराद्याश्चतुरो लोकाश्चंद्रादित्यौ ग्रहैः सह ॥ १,७.१६ ॥ पूर्ववन्निर्ममे ब्रह्मा स्थावराणीह सर्वशः । कल्पस्य चास्य ब्रह्मा चासृजद्यः स्थानिनः सुरान् ॥ १,७.१७ ॥ आपोग्निं पृथिवीं वायुमंतरिक्षं दिवं तथा । स्वर्गं दिशः समुद्रांश्च नदीः सर्वांस्तु पर्वतान् ॥ १,७.१८ ॥ ओषधीनामात्मनश्च आत्मनो वृक्षवीरुधाम् । लवकाष्ठाः कलाश्चैव मुहुर्त्तान्संधिरात्र्यहान् ॥ १,७.१९ ॥ अर्द्धमासांश्च मासांश्च अयनाब्दान् युगानि च । स्थानाभिमानिनश्चैव स्थानानिच पृथक्पृथक् ॥ १,७.२० ॥ स्थानात्मनस्तु सृष्ट्वा च युगावस्था विनिर्ममे । कृतं त्रेता द्वापरं च तिष्यं चैव तथा युगम् ॥ १,७.२१ ॥ कल्पस्यादौ कृतयुगे प्रथमं सोऽसृजत्प्रजाः । प्रागुक्ताश्च मया तुभ्यं पूर्व्वे कल्पे प्रजास्तु ताः ॥ १,७.२२ ॥ तस्मिन्संवर्त माने तु कल्पे दग्धास्तदग्निना । अप्राप्तायास्तपोलोकं पृथिव्यां याः समासत ॥ १,७.२३ ॥ आवर्तन्ते पुनः सर्गे वीक्षार्थं ता भवन्ति हि । वीक्ष्यार्थं ताः स्थितास्तत्र पुनः सर्गस्य कारणात् ॥ १,७.२४ ॥ ततस्ताः सृज्यमानास्तु सन्तानार्थं भवन्ति हि । धर्म्मार्थ काममोक्षाणामिह ताः साधिताः स्मृताः ॥ १,७.२५ ॥ देवाश्च पितरश्चैव क्रमशो मानवास्तथा । ततस्ते तपसा युक्ताः स्थानान्यापूरयन्पुरा ॥ १,७.२६ ॥ ब्राह्मणो मनवस्ते वै सिद्धात्मानो भवन्ति हि । आसंगद्वेषयुक्तेन कर्मणा ते दिवं गताः ॥ १,७.२७ ॥ आवर्तमानास्ते देहे संभवन्ति युगे युगे । स्वकर्म्मफलशेषेण ख्याताश्चैव तदात्मकाः ॥ १,७.२८ ॥ संभवन्ति जने लोकाः कल्पागमनिबन्धनाः । अप्सु यः कारणं तेषां बोधयन्कर्म्मणा तु सः ॥ १,७.२९ ॥ कर्म्मभिस्तैस्तु जायन्ते जनलोकाच्छुभाशुभैः । गृह्णन्ति ते शरीराणि नानारूपाणि योनिषु ॥ १,७.३० ॥ देवाद्याः स्थावरांतास्तु आपद्यन्ते परस्परम् । तेषां मेध्यानि कर्म्माणि प्रायशः प्रतिपेदिरे ॥ १,७.३१ ॥ तस्माद्यन्नांमरूपाणि तान्येव प्रतिपेदिरे । पुनः पुनस्ते कल्पेषु जायन्ते नामरूपेणः ॥ १,७.३२ ॥ ततः सर्गो ह्युपसृष्टिं सिसृक्षोर्ब्रह्मणस्तु वै । ताः प्रजा ध्यायतस्तस्य सत्याभिध्यायिनस्तदा ॥ १,७.३३ ॥ मिथुनानां सहस्रं तु मुखात्समभवत्किल । जनास्ते ह्युपपद्यन्ते सत्त्वोद्रिक्ताः सुतेजसः ॥ १,७.३४ ॥ चक्षुषोऽन्यत्सहस्रं तु मिथुनानां ससर्ज्ज ह । ते सर्वे रजसोद्रिक्ताः शुष्मिणश्चाप्यमर्षिणः ॥ १,७.३५ ॥ सहस्रमन्यदसृजद्बाहूनामसतां पुनः । रजस्तमोभ्यासुद्धिक्ता गृहशीलास्ततः स्मृताः ॥ १,७.३६ ॥ आयुषोंऽते प्रसूयंते मिथुनान्येव वासकृत् । कूटकाकूटकाश्चैव उत्पद्यंते मुमूर्षुणाम् ॥ १,७.३७ ॥ कुतः कुलमथोत्पाद्य ताः शरीराणि तत्यजुः । ततः प्रभृति कल्पेऽस्मिन्मैथुनानां च संभवः ॥ १,७.३८ ॥ ध्यानेन मनसा तासां प्रजानां जायते कृते । शब्दादिविषयः शुद्धः प्रत्येकं पञ्चलक्षणम् ॥ १,७.३९ ॥ इत्येवं मानसैर्भावैः प्रेष्ठं तिष्ठंति चाप्रजाः । तथान्वयास्तु संभूता यैरिदं पूरितं जगत् ॥ १,७.४० ॥ सरित्सरःसमुद्रांश्च सेवंते पर्वतानपि । तदा ता ह्यल्पसंतोषायुद्धे तस्मिंश्चरंति वै ॥ १,७.४१ ॥ पृथ्वी रसवती नाम आहारं व्याहरंति च । ताः प्रजाः कामचारिण्यो मानसीं सिद्धिमिच्छतः ॥ १,७.४२ ॥ तुल्यमायुः सुखं रूपं तासामासीत्कृते युगे । धर्माधर्मौं तदा न स्तः कल्पादौ प्रथमे युगे ॥ १,७.४३ ॥ स्वेनस्वेनाधि कारेण जज्ञिरे तु युगेयुगे । चत्वारि तु सहस्राणि वर्षाणां दिव्यसंख्यया ॥ १,७.४४ ॥ आदौ कृतयुगं प्राहुः संध्यांशौ च चतुःशतौ । ततः सहस्रशस्तास्तु प्रजासु प्रथितास्विह ॥ १,७.४५ ॥ न तासां प्रतिघातोऽस्ति न द्वंद्वं नापि च क्रमः । पर्वतोदधिवासिन्यो ह्यनिकेताश्रयास्तु ताः ॥ १,७.४६ ॥ विशोकाः सत्त्वबहुला एकांतसुखिनः प्रजाः । ताश्शश्वत्कामचरिण्यो नित्यं मुदितमानसाः ॥ १,७.४७ ॥ पशवः पक्षिणश्चैव न तदासन्सरीसृपाः । नोद्विजा नोत्कटाश्चैव धर्मस्य प्रक्रिया तु सा ॥ १,७.४८ ॥ समूल फलपुष्पाणि वर्त्तनाय त्वशेषतः । सर्वैकान्तसुखः कालो नात्यर्थं ह्युष्णशीतलः ॥ १,७.४९ ॥ मनोऽभिलषितः काम स्तासां सर्वत्र सर्वदा । उत्तिष्ठंति पृथिव्यां वै तेषां ध्यानै रसातलात् ॥ १,७.५० ॥ बलवर्णकरी तेषां जरारोगप्रणाशिनी । असंस्कार्यैः शरीरैस्तु प्रजास्ताः स्थिरयौवनाः ॥ १,७.५१ ॥ तासां विना तु संकल्पाज्जायंते सिथुनात्प्रजाः । समं जन्म च रूपं च प्रीयंते चैव ताः समाः ॥ १,७.५२ ॥ तदा सत्यमलोभश्च संतुष्टिश्च च सुखं दमः । निर्विशेषाश्च ताः सर्वा रूपायुःशिल्पचेष्टितैः ॥ १,७.५३ ॥ अबुद्धिपूर्विका पृत्तिः प्रजानां भवति स्वयम् । अप्रवृत्तिः कृतद्वारे कर्मणः शुभपापयोः ॥ १,७.५४ ॥ वर्णाश्रमव्यवस्थाश्च न तदासन्न तत्कराः । अनिच्छाद्वेषयुक्तास्ता वर्त्तयन्ति परस्परम् ॥ १,७.५५ ॥ तुल्यरूपायुषः सर्वा अधमोत्तमवर्जिताः । सुखप्राया विशोकाश्च उत्पद्यंते कृते युगे ॥ १,७.५६ ॥ लाभालाभौ न वा स्यातां मित्रामित्रौ प्रियाप्रियौ । मनसा विषयस्तासां निरीहाणां प्रवर्तते ॥ १,७.५७ ॥ नाति हिंसति वान्योन्यं नानुगृङ्णंति वै तदा ॥ १,७.५८ ॥ ज्ञानं परं कृतयुगे त्रेतायां यज्ञ उच्यते । पवृत्तं द्वापरे युद्धं स्तेयमेव कलौ युगे ॥ १,७.५९ ॥ सत्त्वं कृतं रजस्त्रेता द्वापरं तु रजस्तमः । कलिस्तमस्तु विज्ञेयं गुणवृत्तं गुमेषु तत् ॥ १,७.६० ॥ कालः कृतयुगे त्वेष तस्य सन्ध्यां निबोधत । चत्वारि तु सहस्राणि वर्षाणां तत्कृतं युगम् ॥ १,७.६१ ॥ साध्यांशौ तस्य दिव्यानि शतान्यष्टौ तु संख्यया । चत्वार्यैव सहस्राणि वर्षाणां मोनुषाणि तु ॥ १,७.६२ ॥ तदा तासु भवंत्याशु नोत्क्रोशाच्च विपर्ययाः । ततः कृत्युगे तस्मिन् ससंध्यांशे गते तदा ॥ १,७.६३ ॥ पादावशिष्टो भवति युगधर्मस्तु सर्वशः । सन्ध्यायास्तु व्यतीतायाः सांध्यः कालो युगस्य सः ॥ १,७.६४ ॥ पादमिश्रावशिष्टेन संध्याधर्मे पुनः पुनः । एवं कृतयुगे तस्मिन्निश्शेषेंतर्दधे तदा ॥ १,७.६५ ॥ तस्यां च सन्धौ नष्टायां मानसी चाभवत्प्रजा । सिद्धिरन्ययुगे तस्मिंस्त्रेताख्येऽनंतरे कृतात् ॥ १,७.६६ ॥ सर्गादौ या मयाष्टौ तु मानस्यो वै प्रकीर्तिताः । अष्टौ ताः क्रमयोगेन सिद्धयो यांति संक्षयम् ॥ १,७.६७ ॥ कल्पादौ मानसी ह्येका सिद्धिर्भवति सा कृते । मन्वंतरेषु सर्वेषु चतुर्युगविभागशः ॥ १,७.६८ ॥ वर्णाश्रमाचारकृतः कर्मसिद्ध्युद्भवः कृतः । संध्या कृतस्य पादेन संक्षेपेण वशात्ततः ॥ १,७.६९ ॥ कृतसंध्यांशका ह्येते त्रीनादाय परस्परम् । हीयंते युगधर्मास्ते तपःश्रुतबलायुषः ॥ १,७.७० ॥ कृते कृताशेऽतीते तु वभूव तदनन्तरम् । त्रेतायुगसमुत्पत्तिः सांशा च ऋषिसत्तमाः ॥ १,७.७१ ॥ तस्मिन् क्षीणे कृतांशे वै तासु शिष्टासु सप्तसु । कल्पादौ संप्रवृत्तायास्त्रेतायाः प्रसुखे तदा ॥ १,७.७२ ॥ प्रणश्यति तदा सिद्धिः कालयोगेन नान्यथा । तस्यां सिद्धौ प्रनष्टायामन्या सिद्धिरजायत ॥ १,७.७३ ॥ अपांशौ तौ प्रतिगतौ तदा मेघात्माना तु वै । मेघेभ्यः स्तनयितृभ्यः प्रवृत्तं पृष्टिसर्जनम् ॥ १,७.७४ ॥ सकृदेव तया वृष्ट्या संसिद्धे पृषिवीतले । प्रजा आसंस्ततस्तासां वृक्षश्च गृह संज्ञिताः ॥ १,७.७५ ॥ सर्वः प्रत्युपभोगस्तु तासां तेभ्यो व्यजायत । वर्त्तयंतेस्म तेभ्यस्तास्त्रेतायुगमुखे प्रजाः ॥ १,७.७६ ॥ ततः कालेन महता तासामेव विपर्ययात् । संगलोलात्मको भावस्तदा ह्याकस्मिकोऽभवत् ॥ १,७.७७ ॥ यत्तद्भवति नारीणां जीवितांते तदार्तवम् । तदा तद्वै न भवति पुनर्युगबलेन तु ॥ १,७.७८ ॥ तासां पुनः प्रवृत्तं तन्मासिमासि तदार्तवम् । ततस्तेनैव योगेन वर्त्तते मैथुनं तदा ॥ १,७.७९ ॥ तेषां तत्का लभावित्वान्मासिमास्युपगच्छताम् । अकाले चार्तवोत्पत्त्या गर्भोत्पत्तिस्तदाभवत् ॥ १,७.८० ॥ विपर्ययेण तेषां तु तेन तत्काल भाविता । प्रणश्यंति ततः सर्वे वृक्षास्ते गृहसंज्ञिताः ॥ १,७.८१ ॥ ततस्तेषु प्रनष्टेषु विभ्रांता व्याकुलेन्द्रियाः । अभिध्यायंति ताः सिद्धिं सत्याभिध्यायिनस्तदा ॥ १,७.८२ ॥ प्रादुर्बभूवुस्तेषां तु वृक्षास्ते गृहसंज्ञिताः । वस्त्राणि च प्रसूयंते फलान्याभरणानि च ॥ १,७.८३ ॥ तथैव जायते तेषां गन्धर्वाणां रसान्वितम् । आन्वीक्षिकं महावीर्यं पुटके पुटके मधु ॥ १,७.८४ ॥ तेन ता वर्त्तयन्ति स्ममुखे त्रेतायुगस्य वै । त्दृष्टपुष्टास्तया सिद्ध्या प्रजास्ता विगतज्वराः ॥ १,७.८५ ॥ ततः कालांतरेप्येवं पुनर्लोभावृताः प्रजाः । वृक्षांस्ताः पर्यगृह्णंत मधु वा माक्षिकं बलात् ॥ १,७.८६ ॥ तासां तेनापचारेण पुनर्लोभकृतेन वै । प्रनष्टा प्रभुणा सार्द्धं कल्पवृक्षाः क्वचित्क्वचित् ॥ १,७.८७ ॥ तस्यामेवाल्पशिष्टायां सिद्ध्यां कालवशात्तदा । वर्त्तंते चानया तासां द्वंद्वान्यत्युत्थितानि तु ॥ १,७.८८ ॥ शीतवातातपास्तीव्रास्ततस्ता दुःखिता भृशम् । द्वंद्वैस्तैः पीड्यमानास्तु चुक्रुशुरावृणानि वा ॥ १,७.८९ ॥ कृत्वा द्वन्द्वप्रतीयातं निकेतानि विचेतसः । पूर्व निकामचारास्ते ह्यनिकेता यथाभवन् ॥ १,७.९० ॥ यथायोगं यथाप्रीति निकेतेष्ववसन्पुरा । मधुधुन्वत्सु निष्ठेषु पर्वतेषु नदीषु च ॥ १,७.९१ ॥ संश्रयंति च दुर्गाणि धन्वपावर्तमौदकम् । यथाजोषं यथाकामं समेषु विषमेषु च ॥ १,७.९२ ॥ आरब्धास्तान्निकेतान्वै कर्तुं शीतोष्णवारणात् । ततस्तान्निर्मयामासुः खेटानि च पुराणि च ॥ १,७.९३ ॥ ग्रामांश्चैव यथाभागं तथैव नगराणि च । तेषामायामविष्कंभाः सन्निवेशांतराणि च ॥ १,७.९४ ॥ चक्रुस्तदा यथाज्ञानं मीत्वामीत्वात्मनोगुलैः । मानार्थानि प्रमाणानि तदा प्रभृति चक्रिरे ॥ १,७.९५ ॥ ययांगुलप्रदेशांस्त्रीन्हस्तः किष्कुं धनूंषि च । दश त्वंगुलपर्वाणि प्रादेश इति संज्ञितः ॥ १,७.९६ ॥ अंगुष्ठस्य प्रदेशिन्या व्यासप्रादेश उच्यते । तालः स्मृतो मध्यमया गोकर्णश्चाप्यनामया ॥ १,७.९७ ॥ कनिष्ठया वितस्तिस्तु द्वादशांगुल उच्यते । रत्निरंगुलपर्वाणि संख्यया त्वेकविशतिः ॥ १,७.९८ ॥ चत्वारि विंशतिश्चैव हस्तः स्यादंगुलानि तु । किष्कुः स्मृतो द्विरत्निस्तु द्विचत्वारिंशदंगुलः ॥ १,७.९९ ॥ चतुर्हस्तो धनुर्द्दंडो नालिका युगमेव च । धनुःसहस्त्रे द्वे तत्र गव्यूतिस्तौः कृता तदा ॥ १,७.१०० ॥ अष्टौ धनुःसहस्राणि योजनं तैर्विभावितम् । एतेन योजनेनेह सन्निवेशास्ततः कृताः ॥ १,७.१०१ ॥ चतुर्णामथ दुर्गाणां स्वयमुत्थानि त्रीणि च । चतुर्थ कृतिमं दुग तस्य वक्ष्यामि निर्णयम् ॥ १,७.१०२ ॥ सोत्सेधरंध्रप्राकारं सर्वतः खातकावृतम् । रुचकः प्रतिकद्वारं कुमारीपुरमेव च ॥ १,७.१०३ ॥ द्विहस्तः स्रोतसां श्रेष्ठं कुमारीपुरमञ्चतान् । हस्तस्रोतो दशश्रेष्ठो नवहस्तोष्ट एव च ॥ १,७.१०४ ॥ खेटानां च पुराणां च ग्रामाणां चैव सर्वशः । त्रिविधानां च दुर्गाणां पर्वतोदकधन्विनाम् ॥ १,७.१०५ ॥ कृत्रिमाणां च दुर्गाणां विष्कम्भायाममेव च । योजनादर्द्धविष्कम्भमष्टभागाधिकायतम् ॥ १,७.१०६ ॥ परमार्द्धार्द्धमायामं प्रागुदक्प्लवनं पुरम् । छिन्नकर्णविकर्णं च व्यजनाकृतिसंस्थितम् ॥ १,७.१०७ ॥ वृत्तं वज्रं च दीर्घ च नगरं न प्रशस्यते । चतुरस्रयुतं दिव्यं प्रशस्तं तैः पुरं कृतम् ॥ १,७.१०८ ॥ चतुर्विंशत्परं ह्रस्वं वास्तु वाष्टशतं परम् । अत्र मध्यं प्रशंसंति ह्रस्वं काष्ठविवर्ज्जितम् ॥ १,७.१०९ ॥ अथ किष्कुशतान्यष्टौ प्राहुर्मुख्यं निवेशनम् । नगरादर्द्धविषकंभः खेटं पानं तदूर्द्धतः ॥ १,७.११० ॥ नगराद्योजनं खेटं खेटाद्गामोर्द्धयोजनम् । द्विक्रोशः परमा सीमा क्षेत्रसीमा चतुर्द्धनुः ॥ १,७.१११ ॥ विंशद्धनूंषि विस्तीर्णो दिशां मार्गस्तु तैः कृतः । विंशद्धनुर्ग्राममार्गः सीमामार्गो दशैव तु ॥ १,७.११२ ॥ धनूंषि दश विस्तीर्णः श्रीमान् राजपथः कृतः । नृवाजिरथनागानामसंबाधस्तु संचरः ॥ १,७.११३ ॥ धनूंषि चापि चत्वारि शाखारथ्याश्च तैर्मिताः । त्रिका रथ्योपरथ्याः स्युर्द्विका श्चाप्युपरत्यकाः ॥ १,७.११४ ॥ जंघापथश्चतुष्पादस्त्रिपदं च गृहांतरम् । धृतिमार्गस्तूर्द्धषष्ठं क्रमशः पदिकः स्मृतः ॥ १,७.११५ ॥ अवस्कारपरीवारः पादमात्रं समंततः । कृतेषु तेषु स्थानेषु पुनर्गेहगृहाणि वै ॥ १,७.११६ ॥ यथा ते पूर्वमासंश्च वृक्षास्तु गृह संस्थिताः । तथा कर्तुं समारब्धाश्चिंतयित्वा पुनः पुनः ॥ १,७.११७ ॥ वृक्षस्यार्वाग्गताः शाखा इतश्चैवापरा गताः । अत ऊर्द्ध गताश्चान्या एवं तिर्यग्गताः परा ॥ १,७.११८ ॥ बुद्ध्यान्विष्य यथान्यायं वृक्षशाखा गता यथा । यथा कृतास्तु तैः शाखास्त स्माच्छालास्तु ताः स्मृताः ॥ १,७.११९ ॥ एवं प्रसिद्धाः शाखाभ्यः शालोश्चैव गृहाणि च । तस्मात्ताश्च स्मृताः शालाः शालात्वं तासु तत्स्मृतम् ॥ १,७.१२० ॥ प्रसीदंति यतस्तेषु ततः प्रासादसंज्ञितः । तस्माद्गृहाणि शालाश्च प्रासादाश्चैव संज्ञिता ॥ १,७.१२१ ॥ कृत्वा द्वंद्वाभिघातास्तान्त्वार्तोपायमचिंतयान् । नष्टेषु मधुना सार्द्धं कल्पवृक्षेषु वै तदा ॥ १,७.१२२ ॥ विषादव्याकुलास्ता वै प्रजाः सृष्टास्तु दर्शिताः । ततः प्रादुर्बभौ तासां सिद्धिस्त्रेतायुगे तदा ॥ १,७.१२३ ॥ सर्वार्थसाधका ह्यन्या वृष्टिस्तासां निकामतः । तासां वृष्ट्युदकानीह यानि मिष्टगतानि च ॥ १,७.१२४ ॥ एवं नयः प्रवृत्तस्तु द्वितीये वृष्टिसर्जने । ये परस्तादपां स्तोकाः संपाताः पुथिवीतले ॥ १,७.१२५ ॥ अपां भूमेस्तु संयोगादोषध्यस्तास्तदाभवन् । पुष्पमूलफलिन्यस्तु ओषध्यस्ता हि जज्ञिरे ॥ १,७.१२६ ॥ अफालकृष्टाश्चानुप्ता ग्राभ्यारम्याश्चतुर्द्दश । ऋतुपुष्पफलाश्चैव वृक्षा गुल्माश्च जज्ञिरे ॥ १,७.१२७ ॥ प्रादुर्भूतास्तु त्रेतायां मायायामौषधस्य वा । तदौषधेन वर्तंते प्रजास्त्रेता मुखे तदा ॥ १,७.१२८ ॥ ततः पुनरभूत्तासां रागो लोभस्तु सर्वदा । अवश्यभाविनार्थेन त्रेतायुगवशेन च ॥ १,७.१२९ ॥ ततस्ते पर्यगृह्णंस्तु नदीक्षेत्राणि पर्वतान् । वृक्षगुल्मौषधीश्चैव प्रसह्य तु यथाबलम् ॥ १,७.१३० ॥ सिद्धात्मानस्तु ये पूर्वं व्याख्याता वः कृते मया । ब्रह्मणो मानसास्ते वै उत्पन्ना ये जनादिह ॥ १,७.१३१ ॥ शांता ये शुष्मिणश्चैव कर्मिणो दुःखितास्तथा । तत आवर्त्तमानास्ते त्रेतायां जज्ञिरे पुनः ॥ १,७.१३२ ॥ ब्राह्मणाः क्षत्रिया वैश्याःशूद्रा द्रोहजनास्तथा । भाविताः पूर्वजातीषु ख्यात्या ते शुभपापयोः ॥ १,७.१३३ ॥ ततस्ते प्रबला ये तु सत्यशीला अहिंसकाः । वीतलोभा जितात्मानो निवसंति स्मृतेषु वै ॥ १,७.१३४ ॥ परिग्रहं न कुर्वंति वदंतस्तु उपस्थिताः । तेषां कर्माणि कुर्वंति तेभ्यश्चैवाबलाश्च ये ॥ १,७.१३५ ॥ परिचर्यासु वर्त्तन्ते तेभ्यश्चान्येऽल्पतेजसः । एवं विप्रतिपन्नेषु प्रपन्नेषु परस्परम् ॥ १,७.१३६ ॥ तेन दोषेण वै शांता ओषध्यो नितरां तदा । प्रनष्टा गृह्यमाणा वै मुष्टिभ्यां सिकता यथा ॥ १,७.१३७ ॥ अथास्य तु युगबलाद्गाम्यारण्याश्चतुर्द्दश । फलैर्गृह्णंति पुष्पैश्च तथा मूलैश्च ताः पुनः ॥ १,७.१३८ ॥ ततस्तासु प्रनष्टासु विभ्रांतास्ताः प्रजास्तदा । क्षुधाविष्टास्तदा सर्वा जग्मुस्ता वै स्वयम्भुवम् ॥ १,७.१३९ ॥ वृत्त्यर्थमभिलिप्संत्यो ह्यादौ त्रेतायुगस्य ताः । ब्रह्मा स्वयंभूर्भगवान् ज्ञात्वा तासां मनीषितम् ॥ १,७.१४० ॥ पुष्टिप्रत्यक्षदृष्टेन दर्शनेन विचार्य सः । ग्रस्ताः पृथिव्या त्वोषध्यो ज्ञात्वा प्रत्यरूहत्पुनः ॥ १,७.१४१ ॥ कृत्वा वत्सं समेरुं तु दुदोह पृथिवीमिमाम् । दुग्धेयं गौस्तदा तेन बीजानि वसुधातले ॥ १,७.१४२ ॥ जज्ञिरे तानि बीजानि ग्रामारण्यास्तु ताः प्रभुः । ओषध्यः फलपाकाताः क्षणसप्तवशास्तु ताः ॥ १,७.१४३ ॥ व्रीहयश्च यवाश्चैव गोधूमाश्चणकास्तिलाः । प्रियंगव उदारास्ते कोरदुष्टाः सवामकाः ॥ १,७.१४४ ॥ माषा मुद्गा मसूरास्तु नीवाराः सकुलत्थकाः । हरिकाश्चरकाश्चैव गमः सप्तदश स्मृताः ॥ १,७.१४५ ॥ इत्येता ओषधीनां तु ग्राम्याणां जातयः स्मृताः । श्यामाकाश्चैव नीवारा जर्तिलाः सगवेधुकाः ॥ १,७.१४६ ॥ कुरुविंदो वेणुयवास्ता मातीर्काटकाः स्मृताः । ग्रामारण्याः स्मृता ह्येता ओषध्यस्तु चतुर्दश ॥ १,७.१४७ ॥ उत्पन्नाः प्रथमस्यैता आदौ त्रेतायुगस्य ह । अफालकृष्टास्ताः सर्वा ग्राम्यारण्यश्चतुर्द्दश ॥ १,७.१४८ ॥ वृक्षगुल्मलतावल्ल्यो वीरुधस्तृणजातयः । मूलैः फलैश्च रोहैश्चगृह्णन्पुष्टाश्च यत्फलम् ॥ १,७.१४९ ॥ पृथ्वी दुग्धा तु बीजानि यानि पूर्वं स्वयंभुवा । ऋतुपुष्पफलास्ता वै ओषध्यो जज्ञिरे त्विह ॥ १,७.१५० ॥ यदा प्रसृष्टा ओषध्यो न प्रथंतीह याः पुनः । ततस्तासां च पृत्त्यर्थै वार्तोपायं चकार ह ॥ १,७.१५१ ॥ तासां स्वयंभूर्भगवान् हस्तसिद्धिं स्वकर्मजाम् । ततः प्रभृति चौषध्यः कृष्टपच्यास्तु जज्ञिरे ॥ १,७.१५२ ॥ संसिद्धकायो वार्तायां ततस्तासां प्रजापतिः । मर्यादां स्थापयामास ययारक्षत्परस्परम् ॥ १,७.१५३ ॥ ये वै परिग्रहीतारस्तासामासन्बलीयसः । इतरेषां कृतत्राणान् स्थापयामास क्षत्रियान् ॥ १,७.१५४ ॥ उपतिष्ठंति तावंतो यावन्तो निर्मितास्तथा । सत्यं बूत यथाभूतं ध्रुवं वो ब्रह्मणास्तु ताः ॥ १,७.१५५ ॥ ये चान्ये ह्यबलास्तेषां संरक्षाकर्म्मणि स्थिताः । क्रीतानि नाशयंति स्म पृथिव्यां ते व्यवस्थिताः ॥ १,७.१५६ ॥ वैश्यानित्येव तानाहुः कीनाशान्वृत्तिसाधकान् । सेवंतश्च द्रवंतश्च परिचर्यासु ये रताः ॥ १,७.१५७ ॥ निस्तेजसोऽल्पवीर्याश्च शूद्रांस्तानब्रवीच्च सः । तेषां कर्माणि धर्मांश्च ब्रह्मा तु व्यदधात्प्रभुः ॥ १,७.१५८ ॥ संस्थित्यां तु कृतायां हि यातुर्वर्ण्यस्य तेन वै । पुनः प्रजास्तु ता मोहाद्धर्म्मं तं नान्वपालयन् ॥ १,७.१५९ ॥ वर्णधर्मैश्च जीवंत्यो व्यरुद्ध्यंत परस्परम् । ब्रह्मा बुद्धा तु तत्सर्वं याथातथ्येन स प्रभुः ॥ १,७.१६० ॥ क्षत्रियाणां बलं दंडं युद्धमाजीव्यमादिशत् । याजनाध्यापने ब्रह्मा तथा दानप्रतिग्रहम् ॥ १,७.१६१ ॥ ब्राह्मणानां विभुस्तेषां कर्माण्येता न्यथादिशत् । पाशुपाल्यं च वाणिज्यं कृषिं चैव विशां ददौ ॥ १,७.१६२ ॥ शिल्पाजीवभृतां चैव शूद्राणां व्यदधात्पुनः । सामान्यानि च कर्माणि ब्रह्मक्षत्रविशां पुनः ॥ १,७.१६३ ॥ यजनाध्यापने दानं सामान्यानीतरेषु च । कर्माजीवं तु वै दत्त्वा तेषामिह परस्परम् ॥ १,७.१६४ ॥ तेषां लोकांतरे मूर्ध्नि स्थानानि विदधे पुनः । प्राजापत्यं द्विजातीनां स्मृतं स्थानं क्रियावताम् ॥ १,७.१६५ ॥ स्थानमैद्रं क्षत्रियाणां संग्रामेष्वपलायिनाम् । वैश्यानां मारुतं स्थानं स्वस्वकर्मोपजीविनाम् ॥ १,७.१६६ ॥ गांधर्वं शूद्रजातीनां परिचर्ये च तिष्ठताम् । स्थानान्येतानि वर्णानां योग्याचारवतां सताम् ॥ १,७.१६७ ॥ संस्थित्यां सुकृतायां वै चातुर्वर्ण्यस्य तस्य तत् । वर्णास्तु दंडभयतः स्वेस्वे वर्ण्ये व्यवस्थिताः । ततः स्थितेषु वर्णेषु स्थापयामास ह्याश्रमान् ॥ १,७.१६८ ॥ गृहस्थो ब्रह्मचारी च वानप्रस्थो यतिस्तथा । आश्रमाश्चतुरो ह्येतान्पूर्ववत्स्थापयन्प्रभुः ॥ १,७.१६९ ॥ वर्णकर्माणि ये केचित्तेषामिह चतुर्भवः । कृतकर्म्म कृतावासा आश्रमादुपभुञ्जते ॥ १,७.१७० ॥ ब्रह्मा तान्स्थापयामास आश्रमान् भ्रामतामतः । निर्द्दिदेश ततस्तेषां ब्रह्मा धर्मान्प्रभा षते ॥ १,७.१७१ ॥ प्रस्थानानि तु तेषां च यमान्सनियमांस्तथा । चतुर्वर्णात्मकः पूर्वं गृहस्थस्याश्रमः स्थितः ॥ १,७.१७२ ॥ त्रयाणा माश्रमाणां च वृत्तियोनीति चैव हि । यथाक्रमं च वक्ष्यामि व्रतैश्च नियमैस्तथा ॥ १,७.१७३ ॥ दाराग्नयश्चातिथय इष्टाः श्राद्धक्रियाः प्रजाः । इत्येष वै गृहस्थस्य समासाद्धर्मसंग्रहः ॥ १,७.१७४ ॥ ढंडी च मेखली चैव अधःशायी तथाजिनी । गुरुशुश्रूषणं भैक्ष्यंविद्यार्थी ब्रह्मचारिणः ॥ १,७.१७५ ॥ चीरपत्राजिनानि स्युर्वनमूलफलौषधैः । उभे संध्ये वगाहश्च होमश्चारण्यवासिनाम् ॥ १,७.१७६ ॥ विपन्नमुसले भैक्ष्यमास्तेयं शौचमेव च । अप्रमादोऽव्यवायश्च दया भूतेषु च क्षमा ॥ १,७.१७७ ॥ श्रवणं गुरुशुश्रूषा सत्यं च दशमं स्मृतम् । दशलक्षणको ह्येष धर्मः प्रोक्तः स्वयंभूवा ॥ १,७.१७८ ॥ भिक्षोर्व्रतानि पंचात्र भैक्ष्यवेदव्रतानि च । तेषां स्थानान्यशुष्मिं च संस्थिताना मचष्ट सः ॥ १,७.१७९ ॥ अष्टाशीतिसहस्राणि ऋषीणामूर्ध्वरेतसाम् । स्मृतं तेषां तु यत्स्थानं तदेव गुरुवासिनाम् ॥ १,७.१८० ॥ सप्तर्षीणा तु यत्स्थानं स्मृतं तद्वै वनौकसाम् । प्राजापत्यं गृहस्थानां न्यासिनां ब्रह्मणःक्षयम् ॥ १,७.१८१ ॥ योगिनामकृतं स्थानं तानाजित्बा न विद्यते । स्थानान्याश्रमिणस्तानि ब्रह्मस्थानस्थितानि तु ॥ १,७.१८२ ॥ चत्वार एव पंथानो देवयानानि निर्मिताः । पंथानः पितृयानास्तु समृताश्चत्वार एव ते ॥ १,७.१८३ ॥ ब्रह्मणां लोकतन्त्रेण आद्ये मन्वन्तरे पुरा । पंथानो देवयाना ये तेषां द्वारं रंविः स्मृतः । तथैव पितृयानानां चन्द्रमा द्वारमुच्यते ॥ १,७.१८४ ॥ एवं वर्णाश्रमाणां च प्रविभागे कृते तदा । यदा प्रजा ना वर्द्धंत वर्णधर्मसमासिकाः ॥ १,७.१८५ ॥ ततोऽन्यां मानसीं स्वां वै त्रेतामध्येऽसृजत्प्रजाः । आत्मनस्तु शरीरेभ्यस्तुल्याश्चैवात्मना तु ताः ॥ १,७.१८६ ॥ तस्मिस्त्रेतायुगे त्वाद्ये मध्यं प्राप्ते क्रमेण तु । ततोऽन्यां मानसीं सोऽथ प्रजाः स्रष्टुं प्रचक्रमे ॥ १,७.१८७ ॥ ततः सत्त्वरजोद्रिक्ताः प्रजाः सह्यसृजत्प्रभुः । धर्मार्थकाममोक्षाणां वार्त्तानां साधकाश्च याः ॥ १,७.१८८ ॥ देवाश्च पितरश्चैव ऋषयो मनवस्तथा । युगानुरूपा धर्मेण यैरिमा वर्द्धिताः प्रजाः ॥ १,७.१८९ ॥ उपस्थिते तदा तस्मिन् सृष्टिवर्गे स्वयंभुवः । अभिध्याय प्रजा ब्रह्मा नानावीर्याः स्वमानसीः ॥ १,७.१९० ॥ पूर्वोक्ता या मया तुभ्यं जनानीकं समाश्रिताः । कल्पेऽतीते पुराण्यासीद्देवाद्यास्तु प्रजा इह ॥ १,७.१९१ ॥ ध्यायतस्तस्य तानीह संभूत्यर्थमुपस्तिताः । मन्वंतरक्रमेणेह कनिष्ठाः प्रथमेन ताः ॥ १,७.१९२ ॥ ख्यातास्तु वंश्यैरेतैस्तु पूर्वं यैरिह भाविताः । कुशलाकुशलैः कंदैरक्षीणैस्तैस्तदा युताः ॥ १,७.१९३ ॥ तत्कर्मफलदोषेण ह्युपबाधाः प्रजज्ञिरे । देवासुरपितॄंश्चैव यक्षैर्गन्धर्वमानुषैः ॥ १,७.१९४ ॥ राक्षसैस्तु पिशाचैस्तैः पशुपक्षिसरीसृपैः । वृक्षनारककीटाद्यैस्तैस्तैः सर्वैरुपस्थिताः । आहारार्थं प्रजानां वै विदात्मानो विनिर्ममे ॥ १,७.१९५ ॥ इति श्रीब्रह्मांडे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषंगपादे लोकज्ञान वर्णनं नाम सप्तमोऽध्यायः _____________________________________________________________ सूत उवाच ततोभिध्यायतस्तस्य मानस्यो जज्ञिरे प्रजाः । तच्छरीरसमुत्पन्नैः कार्यैस्तैः कारणैः सह ॥ १,८.१ ॥ क्षेत्रज्ञाः समवर्त्तन्त क्षेत्रस्यैतस्य धीमतः । ततो देवासुरपितॄन्मनुष्यांश्च चतुषृयम् ॥ १,८.२ ॥ सिसृक्षुरयुतातानि स चात्मानमयूयुजत् । युक्तात्मनस्ततस्तस्य तमोमात्रासमुद्भवः ॥ १,८.३ ॥ तदाभिध्यायतः सर्गं प्रयत्नोऽभूत्प्रजापतेः । ततोऽस्य जघ नात्पूर्वमसुरा जज्ञिर सुताः ॥ १,८.४ ॥ असुः प्राणः स्मृतो विज्ञैस्तज्जन्मानस्ततोऽसुराः । सृष्टा यया सुरास्तन्वा तां तनुं स व्यपोहत ॥ १,८.५ ॥ सापविद्धा तनुस्तेन सद्यो रात्रिरजायत । सा तमोबहुला यस्मात्ततो रात्रिस्त्रियामिका ॥ १,८.६ ॥ आवृतास्तमसा रात्रौ प्रजा स्तस्मात्स्वयं पुनः । सृष्ट्वासुरांस्ततः सोऽथ तनुमन्यामपद्यत ॥ १,८.७ ॥ अव्यक्तां सत्त्वबहुलां ततस्तां सोऽभ्ययुञ्जत । ततस्तां युञ्ज मानस्य प्रियमासीत्प्रभोः किल ॥ १,८.८ ॥ ततो मुखात्समुत्पन्ना दीव्यतस्तस्य देवताः । यतोऽस्य दीव्यतो जातास्तेन देवाः प्रकीर्त्तिताः ॥ १,८.९ ॥ धातुर्दिव्येति यः प्रोक्तः क्रीडायां स विभाव्यते । तस्मात्तन्वास्तु दिव्याया जज्ञिरे तेन देवताः ॥ १,८.१० ॥ देवान् सृष्ट्वा ततः सोऽथ तनुं दिव्यामपोहत । उत्सृष्टा सा तनुस्तेन अहः समभवत्तदा ॥ १,८.११ ॥ तस्मादहःकर्मयुक्ता देवताः समुपासते । देवान्सृष्ट्वा ततः सोऽथ तनुमन्यामपद्यत ॥ १,८.१२ ॥ सत्त्वमात्रात्मिकामेव ततोऽन्यामभ्ययुङ्क्त वै । पितेव मन्यमानस्तान्पुत्रान्प्रध्याय स प्रभुः ॥ १,८.१३ ॥ पितरो ह्यभवंस्तस्या सध्ये रात्र्यहयोः पृथक् । तस्मात्ते पितरो देवाः पितृत्वं तेषु तत्स्मृतम् ॥ १,८.१४ ॥ ययासृष्टास्तु पितरस्तां तनुं स व्यपोहत । सापविद्धा तनुस्तेन सद्यः संध्या व्यजायत ॥ १,८.१५ ॥ तस्मादहर्देवतानां रात्रिर्या साऽसुरी स्मृता । तयोर्मध्ये तु वै पैत्री या तनुः सा गरीयसी ॥ १,८.१६ ॥ तस्माद्देवासुराश्चैव ऋषयो मानवास्तथा । युक्तास्तनुमुपासंते उषाव्युष्ट्योर्यदन्तरम् ॥ १,८.१७ ॥ तस्माद्रात्र्यहयोः संधिमुपासंते तथा द्विजाः । ततोऽन्यस्यां पुनर्ब्रह्मा स्वतन्वामुपपद्यत ॥ १,८.१८ ॥ रजोमात्रात्मिका या तु मनसा सोऽसृजत्प्रभुः । मनसा तु सुतास्तस्य प्रजनाज्जज्ञिरे प्रजाः ॥ १,८.१९ ॥ मननाच्च मनुषयास्ते प्रजनात्प्रथिताः प्रजाः । सृष्ट्वा पुनः प्रजाः सोऽथ स्वां तनुं स व्यपोहत ॥ १,८.२० ॥ सापविद्धा तनुस्तेन ज्योत्स्ना सद्यस्त्वजायत । तस्माद्भवन्ति संहृष्टा ज्योत्स्नाया उद्भवे प्रजाः ॥ १,८.२१ ॥ इत्येतास्तनवस्तेन ह्यपविद्धा महात्मना । सद्यो रात्र्यहनी चैवसंध्या ज्योत्स्ना च जज्ञिरे ॥ १,८.२२ ॥ ज्योत्स्ना संध्याहनी चैव सत्त्वमात्रात्मकं त्रयम् । तमोमात्रात्मिका रात्रिः सा वै तस्मान्नियामिका ॥ १,८.२३ ॥ तस्माद्देवा दिव्यतन्वा तुष्ट्या सृष्टा सुखात्तु वै । यस्मात्तेषां दिवा जन्म बलिनस्तेन ते दिवा ॥ १,८.२४ ॥ तन्वा यदसुरान्रत्र्या जघनादसृजत्प्रभुः । प्राणेभ्यो रात्रिजन्मानो ह्यजेया निशि तेन ते ॥ १,८.२५ ॥ एतान्येव भविष्याणां देवानामसुरैः सह । पितॄणां मानुषाणां च अतीताना गतेषु वै ॥ १,८.२६ ॥ मन्वन्तरेषु सर्वेषु निमित्तानि भवन्ति हि । ज्योत्स्ना रात्र्यहनी संध्या चत्वार्येतानि तानि वा ॥ १,८.२७ ॥ भान्ति यस्मात्ततो भाति भाशब्दो व्याप्तिदीप्तिषु । अंभांस्येतानि सृष्ट्वा तु देवदानवमानुषान् ॥ १,८.२८ ॥ पितॄंश्चैव तथा चान्यान्विविधान्व्य सृजत्प्रजाः । तामुत्सृज्य ततो च्योत्स्नां ततोऽन्यां प्राप्य स प्रभुः ॥ १,८.२९ ॥ मूर्त्तिं रजस्तमोद्रिक्तां ततस्तां सोऽभ्ययुञ्जत । ततोऽन्याः सोंऽधकारे च क्षुधाविष्टाः प्रजाः सृजन् ॥ १,८.३० ॥ ताः सृष्टास्तु क्षुधाविष्टा अम्भांस्यादातुमुद्यताः । अम्भांस्येतानि रक्षाम उक्तवन्तस्तु तेषु ये ॥ १,८.३१ ॥ राक्षसास्ते स्मृतास्तस्मात्क्षुधात्मानो निशाचराः । येऽब्रुवन् क्षिणुमोऽम्भांसि तेषां त्दृष्टाः परस्परम् ॥ १,८.३२ ॥ तेन ते कर्मणा यक्षा गुह्यकाः क्रूरकर्मिणः । रक्षेति पालने चापि धातुरेष विभाव्यते ॥ १,८.३३ ॥ य एष क्षीतिधातुर्वै क्षपणे स निरुच्यते । रक्षणाद्रक्ष इत्युक्तं क्षपणाद्यक्ष उच्यत ॥ १,८.३४ ॥ तान्दृष्ट्वा त्वप्रियेणास्य केशाः शीर्णाश्च धीमतः । ते शीर्णा व्युत्थिता ह्यूर्द्धमारो हन्तः पुनः पुनः ॥ १,८.३५ ॥ हीना ये शिरसो बालाः पन्नाश्चैवापसर्पिणः । बालात्मना स्मृता व्याला हीनत्वादहयः स्मृताः ॥ १,८.३६ ॥ पन्नत्वात्पन्नगाश्चापि व्यपसर्पाच्च सर्प्पता । तेषां लयः पृथिव्यां यः सूर्याचन्द्रमसौ घनाः ॥ १,८.३७ ॥ तस्य क्रोधोद्भवो योऽसावग्निगर्भः सुदारुणः । स तान्सर्प्पान् सहोत्पन्नानाविवेश विषात्मकः ॥ १,८.३८ ॥ सर्प्पान्सृष्ट्वा ततः क्रोधात्क्रोधात्मानो विनिर्मिताः । वर्णेन कपिशेनोग्रास्ते भूताः पिशिताशनाः ॥ १,८.३९ ॥ भूतत्वात्ते रमृता भूताः पिशाचा पिशिताशनात् । गायतो गां ततस्तस्य गन्धर्वा जज्ञिरे सुताः ॥ १,८.४० ॥ धयेति धातुः कविभिः पानार्थे परिपठ्यते । पिबतो जज्ञिरे वाचं गन्धर्वास्तेन ते स्मृताः ॥ १,८.४१ ॥ अष्टास्वेतासु सृष्टासु देवयोनिषु स प्रभुः । छन्दतश्चैव छन्दासि वयांसि वयसासृजत् ॥ १,८.४२ ॥ पक्षिणस्तु स सृष्ट्वा वै ततः पशुगणान्सृजन् । मुखतोजाः सृजन्सोऽथ वक्षसश्चाप्यवीः सृजन् ॥ १,८.४३ ॥ गावश्चैवोदराद्ब्रह्मा पाश्वीभ्यां च विनिर्ममे । पादतोऽश्वान्समातङ्गान् रासभान् गवयान्मृगान् ॥ १,८.४४ ॥ उष्ट्रांश्चैव वराहांश्च शुनोऽन्यांश्चैव जातयः । ओषध्यः फल मूलिन्यो रोमभ्यस्तस्य जज्ञिरे ॥ १,८.४५ ॥ एवं पञ्चौषधीः सृष्ट्वा व्ययुञ्जत्सोऽध्वरेषु वै । अस्य त्वादौ तु कल्पस्य त्रेतायुगमुखेपुरा ॥ १,८.४६ ॥ गौरजः पुरुषोऽथाविरश्वाश्वतरगर्दभाः । एते ग्राम्याः समृताः सप्त आरण्याः सप्त चापरे ॥ १,८.४७ ॥ श्वापदो द्वीपिनो हस्ती वानरः पक्षिपञ्चमः । औदकाः पशवः षष्ठाः सप्तमास्तु सरीसृपाः ॥ १,८.४८ ॥ महिषा गवयोष्ट्राश्च द्विखुराः शरभो द्विषः । मर्कटः सप्तमो ह्येषां चारण्याः पशवस्तु ते ॥ १,८.४९ ॥ गायत्रीं च ऋचं चैव त्रिवृत्सतोमरथन्तरे । अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् ॥ १,८.५० ॥ यजूंषि त्रैष्टुभं छन्दः स्तोमं पञ्चदशं तथा । बृहत्साम तथोक्तं च दक्षिणात्सोऽसृजन्मुखात् ॥ १,८.५१ ॥ सामानि जगतीं चैव स्तोमं सप्तदशं तथा । वैरूप्यमतिरात्रं च पश्चिमात्सोऽसृजन्मखात् ॥ १,८.५२ ॥ एकविंशमथर्वाणमाप्तोर्यामं तथैव च । अनुष्टुभं सवैराजं चतुर्थादसृजन्मुखात् ॥ १,८.५३ ॥ विद्युतोऽशनिमेघांश्व रोहितेद्रधनूंषि च । सृष्ट्वासौ भगवान्देवः पर्जन्यमितिविश्रुतम् ॥ १,८.५४ ॥ ऋचो यजूंषि सामानि निर्ममे यज्ञसिद्धये । उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ॥ १,८.५५ ॥ ब्रह्मणास्तु प्रजासर्गं सृजतो हि प्रजापतेः । सृष्ट्वा चतुष्टयं पूर्वं देवर्षिपितृमानवान् ॥ १,८.५६ ॥ ततोऽसृजत भूतानि चराणि स्थावराणि च । सृष्ट्वा यक्षपिशाचांश्च गन्धर्वप्सरसस्तदा ॥ १,८.५७ ॥ नरकिन्नररक्षांसि वयःपशुमृगोरगान् । अव्ययं च व्ययं चैव द्वयं स्थावरजङ्गमम् ॥ १,८.५८ ॥ तेषां ये यानि कर्माणि प्राक्सृष्टानि प्रपेदिरे । तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनःपुनः ॥ १,८.५९ ॥ हिंस्राहिंस्रे सृजन् क्रूरे धर्माधर्मावृतानृते । तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥ १,८.६० ॥ महाभूतेषु नानात्वमिन्द्रियार्तेषु मूर्तिषु । विनियोगं च भूतानां धातैव व्यदधात्स्वयम् ॥ १,८.६१ ॥ केचित्पुरुषकारं तु प्राहुः कर्म च मानवाः । दैवमित्यपरे विप्राः स्वभावं भूतचिन्तकाः ॥ १,८.६२ ॥ पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः । न चैव तु पृथग्भावमधिकेन ततो विदुः ॥ १,८.६३ ॥ एतदेवं च नैवं च न चोभे नानुभे न च । स्वकर्मविषयं ब्रूयुः सत्त्वस्थाः समदर्शिनः ॥ १,८.६४ ॥ नानारूपं च भूतानां कृतानां च प्रपञ्चनम् । वेदशब्देभ्य एवादौ निर्ममे स महेश्वरः ॥ १,८.६५ ॥ आर्षाणि चैव नामानि याश्च देवेषु दृष्टयः । शर्वर्यन्ते प्रसूतानां पुनस्तेभ्यो दधात्यजः ॥ १,८.६६ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे मानससृष्टिवर्णनं नामाष्टमोऽध्यायः _____________________________________________________________ सूत उवाच रुद्रं धर्मं मनश्चैव रुचिं चैवाकृतिं तथा । पञ्च कर्तॄन् हि स तदा मनसा व्यसृजत्प्रभुः ॥ १,९.१ ॥ एते महाभुजाः सर्वे प्रजानां स्थितिहेतवः । औषधीः प्रतिसंधत्ते रुद्रः क्षीणः पुनः पुनः ॥ १,९.२ ॥ प्राप्तौषधिफलैर्देवः सम्यगिष्टः फलार्थिभिः । त्रिभिरेव कपालैस्तु त्र्यंबकैरोषधीक्षये ॥ १,९.३ ॥ इज्यते मुनिभिर्यस्मात्तस्मात्त्त्र्यंबक उच्यते । गायत्रीं चैव त्रिष्टुप्च जगती चैव ताः स्मृताः ॥ १,९.४ ॥ अंबिकानां मया प्रोक्ता योनयः स्वनस्पतेः । ताभिरेकत्वभूता भिस्त्रिविधाभिः स्ववीर्यतः ॥ १,९.५ ॥ त्रिसाधनः पुरोडाशस्त्रिकपालस्ततः स्मृतः । त्र्यंबकः स पुरोडाशस्तेनेह त्र्यंबकःस्मृतः ॥ १,९.६ ॥ धत्ते धर्मः प्रजाः सर्वा मनो ज्ञानकरं स्मृतम् । आकृतिः सुरुचे रूपं रुचिः श्रद्धाकरः स्मृतः ॥ १,९.७ ॥ एवमेते प्रजापालाः प्रजानां स्थितिहेतवः । अथास्य सृजतः सर्गं प्रजानां परिवृद्धये ॥ १,९.८ ॥ न व्यवर्द्धत ताः सृष्टाः प्रजाः केनापि हेतुना । ततः स विदधे बुद्धिमर्थनिश्चयगा मिनीम् ॥ १,९.९ ॥ अथात्मनि समद्राक्षीत्तमोमात्रां तु चारिणीम् । रजः सत्त्वं परित्यज्य वर्तमानां स्वकर्मतः ॥ १,९.१० ॥ ततः स तेन दुखेनशुचं चक्रे जगत्पतिः । तमश्च व्यनुदत्पश्चाद्रजसातु समावृणोत् ॥ १,९.११ ॥ तत्तमः प्रतिनुत्तं वै मिथुनं संप्रसूयत । अधर्माचरणा त्तस्य हिंसा शोको व्यजायत ॥ १,९.१२ ॥ ततस्तस्मिन्समुद्भूते मिथुने वरणात्मके । ततः स भगवानासीत्प्रीतश्चैतं हि शिश्रिये ॥ १,९.१३ ॥ एवं प्रीतात्मनस्तस्य स्वदेहार्द्धाद्विनिःसृता । नारी परमकल्याणी सर्वभूतमनोहरा ॥ १,९.१४ ॥ सा हि कामात्मना सृष्टा प्रकृतेः सा सुरूपिणी । शतरूपेति सा प्रोक्ता सा प्रोक्तैव पुनः पुनः ॥ १,९.१५ ॥ ततः प्रजाः समुद्भूता यथा प्रोक्ता मया पुरा । प्रक्रियायां यथा तुभ्यं त्रेतामध्ये महात्मनः ॥ १,९.१६ ॥ यदा प्रजास्तु ताः सृष्टा न व्यवद्धत धीमतः । ततोऽन्यान्मानसान्पुत्रानात्मनः सदृशोऽसृजत ॥ १,९.१७ ॥ भृग्वङ्गिरोमरीचींश्च पुलस्त्यं पुलहं क्रतुम् । दक्षमत्रिं वसिष्ठं च निर्ममे मानसान्सुतान् ॥ १,९.१८ ॥ नव ब्रह्माण इत्येते पुराणे निश्चयं गताः । ब्रह्मा यतात्मकानां तु सर्वेषामात्मयोनिनाम् ॥ १,९.१९ ॥ ततोऽसृजत्पुनर्ब्रह्मा धर्मं भूतसुखावहम् । प्रजापतिं रुचिं चैव पूर्वेषामेव पूर्वजौ ॥ १,९.२० ॥ बुद्धितः ससृजे धर्मं सर्वभूतसुखावहम् । मनसस्तु रुचिर्नाम जज्ञे जोऽव्यक्तजन्मनः ॥ १,९.२१ ॥ भृगुस्तु त्दृदयाज्जज्ञे ऋषिः साललयोनिनः । प्राणाद्दक्षं सृजन्ब्रह्मा चक्षुर्भ्यां तु मरीचिनम् ॥ १,९.२२ ॥ अभिमानात्मकं रुद्रं निर्ममे नीललोहितम् । शिरसोंगिरसं चैव श्रोत्रादत्रिं तथैव च ॥ १,९.२३ ॥ पुलस्त्यं च तथोदानाद्व्यानाच्च पुलहं पुनः । समानजो वसिष्ठश्च ह्यपानान्निर्ममे क्रतुम् ॥ १,९.२४ ॥ इत्येते ब्रह्मणः पुत्राः प्रजादौ द्वादश स्मृताः । धर्मस्तेषां प्रथमजो देवतानां स्मृतस्तु वै ॥ १,९.२५ ॥ भृग्वादयस्तु ये सृष्टास्ते वै ब्रह्मर्षयः स्मृताः । गृहमेधिपुराणास्ते धर्मस्तैः प्राक्प्रवर्त्तितः ॥ १,९.२६ ॥ द्वादशैते प्रसूयन्ते प्रजाः कल्पे पुनः पुनः । तेषां द्वादश ते वंशा दिव्या देवगुणान्विताः ॥ १,९.२७ ॥ क्रियावन्तः प्रजावन्तो महर्षिभिरलङ्कृताः । यदा तैरिह सृष्टैस्तु धर्म्माद्यैश्च महर्षिभिः ॥ १,९.२८ ॥ सृज्यमानाः प्रजाश्चैव न व्यवर्द्धन्त धीमतः । तमोमात्रावृतः सोऽभूच्छोकप्रतिहतश्च वै ॥ १,९.२९ ॥ यथाऽवृतः स वै ब्रह्मा तमोमात्रा तु सा पुनः । पुत्राणां च तमोमात्रा अपरा निःसृताभवत् ॥ १,९.३० ॥ प्रतिस्रोतात्मकोऽधर्मो हिंसा चैवाशुभात्मिका । ततः प्रतिहते तस्य प्रतीते वरणात्मके ॥ १,९.३१ ॥ स्वां तनुं स तदा ब्रह्मा समपोहत भास्वराम् । द्विधा कृत्वा स्वकं देहमर्द्धेन पुरुषोऽभवत् ॥ १,९.३२ ॥ अर्धेन नारी सा तस्य शतरूपा व्यजायत । प्रकृतिर्भूतधात्री सा कामाद्वै सृजतः प्रभोः ॥ १,९.३३ ॥ सा दिवं पृथिवीं चैव महिम्ना व्याप्य सुस्थिता । ब्रह्माणः सा तनुः पूर्वा दिवमावृत्य तिष्टतः ॥ १,९.३४ ॥ या त्वर्द्धा सृज्यते नारी शतरूपा व्यजायत । सा देवी नियुतं तप्त्वा तपः परम दुश्चरम् ॥ १,९.३५ ॥ भर्त्तारं दीप्तयशसं पुरुषं प्रत्यपद्यत । स वै स्वायंभुवः पूर्वं पुरुषो मनुरुच्यते ॥ १,९.३६ ॥ तस्यैकसप्ततियुगं मन्वन्तरमिहोच्यते । लब्ध्वा तु पुरुषः पत्नीं शतरूपामयोनिजाम् ॥ १,९.३७ ॥ तया स रमते सार्द्धं तस्मात्सा रतिरुच्यते । प्रथमः संप्रयोगः स कल्पादौ समवर्त्तत ॥ १,९.३८ ॥ विराजमसृजद्ब्रह्मा सोऽभवत्पुरुषो विराट् । सम्राट्सशतरूपस्तु वैराजस्तु मनुः स्मृतः ॥ १,९.३९ ॥ स वैराजः प्रजासर्गं ससर्ज पुरुषो मनुः । वैराजात्पुरुषाद्वीरौ शतरूपा व्यजायत ॥ १,९.४० ॥ प्रियव्रतोत्तानपादौ पुत्रौ पुत्रवतां वरौ । कन्ये द्वे सुमहाभागे याभ्यां जाता इमाः प्रजाः ॥ १,९.४१ ॥ देवी नाम्ना तथाकूलिः प्रसूतिश्चैव ते शुभे । स्वायंभुवः प्रसूतिं तु दक्षाय व्यसृजत्प्रभुः ॥ १,९.४२ ॥ रुचेः प्रजापतेश्चैव आकूतिं प्रत्य पादयत् । आकूत्यां मिथुनं जज्ञे मानसस्य रुचेः शुभम् ॥ १,९.४३ ॥ यज्ञश्च दक्षिणा चैव यमलौ तौ बभूवतुः । यज्ञस्य दक्षिणायां च पुत्रा द्वादश जज्ञिरे ॥ १,९.४४ ॥ यामा इति समाख्याता देवाः स्वायंभुवेतरे । यमस्य पुत्रा यज्ञस्य तस्माद्यामास्तु ते स्मृताः ॥ १,९.४५ ॥ अजिताश्चैव शुक्राश्च द्वौ गणौ ब्रह्मणः स्मृतौ । यामाः पूर्वं परिक्रान्ता येषां संज्ञा दिवौकसः ॥ १,९.४६ ॥ स्वायंभूव सुतायां तु प्रसूत्यां लोकमातरः । तस्यां कन्याश्चतुर्विंशद्दक्षस्त्वजनयत्प्रभुः ॥ १,९.४७ ॥ सर्वास्ताश्च महाभागाः सर्वाः कमललोचनाः । योगपत्न्यश्च ताः सर्वाः सर्वास्ता योगमातरः ॥ १,९.४८ ॥ सर्वाश्च ब्रह्मवादिन्यः सर्वा विश्वस्य मातरः । श्रद्धा लक्ष्मीर्धृतिस्तुष्टिः पुष्टिर्मेधा तथा क्रिया ॥ १,९.४९ ॥ बुद्धिर्लज्जा वसुः शान्तिः सिद्धिः कीर्त्तिस्त्रयोदश । पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायणीः प्रभुः ॥ १,९.५० ॥ द्वाराण्येतानि चैवास्य विहितानि स्वयंभुवा । यान्याः शिष्टा यवीयस्य एकादश सुलोचनाः ॥ १,९.५१ ॥ सती ख्यातिश्च संभूतिः स्मृतिः प्रीतिः क्षमा तथा । सन्नतिश्चानसूया च ऊर्जा स्वाहा स्वधा तथा ॥ १,९.५२ ॥ तास्तदा प्रत्यगृह्णन्त पुनरन्ये महार्षयः । रुद्रो भृगुर्मरीचिश्च अङ्गिराः पुलहः क्रतुः ॥ १,९.५३ ॥ पुलस्त्योऽत्रिर्वसिष्ठश्च पितरोऽग्रिस्तथैव च । सतीं भवाय प्रायच्छत्ख्यातिं च भृगवे तथा ॥ १,९.५४ ॥ मरीचये तु संभूतिं स्मृतिमङ्गिरसे ददौ । प्रीतिं चैव पुलस्त्याय क्षमां वै पुलहाय च ॥ १,९.५५ ॥ क्रतवे संततिं नाम अनसूयां तथात्रये । ऊर्जां ददौ वसिष्ठाय स्वाहां चैवाग्नये ददौ ॥ १,९.५६ ॥ स्वधां चैव पितृभ्यस्तु तास्वपत्यानि मे शृणु । एताः सर्वा महाभागाः प्रजास्त्वनुसृताः स्थिताः ॥ १,९.५७ ॥ मन्वन्तरेषु सर्वेषु यावदाभूतसंप्लवम् । श्रद्धा कामं प्रजज्ञेऽथ दर्पो लक्ष्मी सुतः स्मृतः ॥ १,९.५८ ॥ धृत्यास्तु नियमः पुत्रस्तुष्ट्याः संतोष उच्यते । पुष्ट्या लाभः सुतश्चापि मेधापुत्रः श्रुतस्तथा ॥ १,९.५९ ॥ क्रियायास्तनयौ प्रोक्तौ दमश्च शम एव च । बुद्धेर्बोधः सुतश्चापि अप्रमादश्च तावुभौ ॥ १,९.६० ॥ लज्जाया विनयः पुत्रो व्यवसायो वसोः सुतः । क्षेमः शान्तेः सुतश्चापि सुखं सिद्धेर्व्यजायत ॥ १,९.६१ ॥ यशः कीर्तेः सुतश्चापि इत्येते धर्मसूनवः । कामस्य तु सुतो हर्षो देव्यां सिद्ध्यां व्यजायत ॥ १,९.६२ ॥ इत्येष वै सुखोदर्कः सर्गो धर्मस्य सात्त्विकः । जज्ञे हिंसा त्वधर्माद्वै निकृतिं चानृतं च ते ॥ १,९.६३ ॥ निकृत्यनृतयोर्जज्ञ भयं नरक एव च । माया च वेदना चापि मिथुनद्वयमेतयोः ॥ १,९.६४ ॥ मयाज्जज्ञेऽथ वै माया मृत्युं भूतापहारिणम् । वेदनायां ततश्चापि जेज्ञ दुःखं तु रौरवात् ॥ १,९.६५ ॥ मृत्योर्व्याधिर्जराशोकक्रोधासूया विजज्ञिरे । दुःखोत्तराः स्मृता ह्येते सर्वे चाधर्मलक्षणाः ॥ १,९.६६ ॥ तेषां भार्यास्ति पुत्रो वा सर्वे ह्यनिधनाः स्मृताः । इत्येष तामसः सर्गो जज्ञे धर्मनिया मकः ॥ १,९.६७ ॥ प्रजाः सृचेति व्यादिष्टो ब्रह्मणा नीललोहितः । सोऽभिध्याय सतीं भार्यां निर्ममे चात्मसंभवान् ॥ १,९.६८ ॥ नाधिकान्न च हीनास्तान्मानसानात्मना समान् । सहस्रं च सहस्राणामसृजत्कृत्तिवाससः ॥ १,९.६९ ॥ तुल्यानेवात्मना सर्वान् रूपतेजोबल श्रुतैः । पिङ्गलान्सनिषङ्गांश्च कपर्दी नीललोहितान् ॥ १,९.७० ॥ विशिखान्हीनकेशांश्च दृष्टिघ्नास्तान्कपालिनः । महारूपान्विरूपांश्च विश्वरूपाश्च रूपिणः ॥ १,९.७१ ॥ रथिनो वर्मिणश्चैव धन्विनोऽथ वरूथिनः । सहस्रशतबाहूंश्च दिव्यभौमान्तरिक्षगान् ॥ १,९.७२ ॥ स्थूल शीर्षानष्टदंष्ट्रान् द्विजिह्वांस्तु त्रिलोचनान् । अन्नादान्पिशितादांश्च आज्यपान्सोमपोस्तथा ॥ १,९.७३ ॥ अतिमेढ्रोग्रकायांश्च शितिकण्ठोग्रमन्युकान् । सनिषङ्गतनुत्रांश्च धन्विनो ह्यसिचर्मिणः ॥ १,९.७४ ॥ आसीनान् धावतश्चापि जृंभतश्चाप्यधिष्ठितान् । अधीयानाश्च जपतो युञ्जतो ध्यायतस्तथा ॥ १,९.७५ ॥ ज्वलतो वर्षतश्चैव द्योतमानान्प्रधूपितान् । बुद्धान्बुद्धतमांश्चैव ब्रह्मस्वान् ब्रह्मदर्शिनः ॥ १,९.७६ ॥ नीलग्रीवान्सहस्राक्षान् सर्वांश्चैव क्षमाचरान् । अदृश्यान्सर्वभूतानां महायोगान्महौजसः ॥ १,९.७७ ॥ रुदतो द्रवतश्चैव एवं युक्तान्सहस्रशः । अयातयामान् सृजतं रुद्रमेतान्सुरोत्तमान् ॥ १,९.७८ ॥ दृष्ट्वा ब्रह्माब्रवीदेनं मास्राक्षीरीदृशीः प्रजाः । न स्रष्टव्यात्मन स्तल्या प्रजा नैवाधिका तथा ॥ १,९.७९ ॥ अन्याः सृजस्व भद्रं ते प्रजास्त्वं मृत्युसंयुताः । नारभन्ते हि कर्माणि प्रजा विगतमृत्यवः ॥ १,९.८० ॥ एवसुक्तोऽब्रवीदेनं नाहं मृत्युजरान्विताः । प्रजाः स्रक्ष्यामि भद्रं ते स्थितोऽहं त्वं सृज प्रभो ॥ १,९.८१ ॥ एते ये वै मया सृष्टा विरूपा नीललोहिताः । सहस्रं हि सहस्राणामात्मनो मम निःसृताः ॥ १,९.८२ ॥ एते देवा भविष्यन्ति रुद्रा नाम महाबलाः । पृथिव्यामन्तरिक्षे च रुद्राण्यस्ताः परिश्रुताः ॥ १,९.८३ ॥ शतरुद्रे समाम्नाता भविष्यन्तीह यज्ञियाः । यज्ञभाजो भविष्यन्ति सर्वे देवगणैः सह ॥ १,९.८४ ॥ मन्वन्तरेषु ये देवा भविष्यन्तीह छन्दजाः । तैः सार्द्धमिज्यमानास्ते स्थास्यन्तीहायुगक्षयात् ॥ १,९.८५ ॥ एवमुक्तस्ततो ब्रह्मा महादेवेन स प्रभुः । प्रत्युवाच तथा भीमं त्दृष्यमाणः प्रजापतिः ॥ १,९.८६ ॥ एवं भवतु भद्रं ते यथा ते व्यात्दृतं प्रभो । ब्रह्मणा समनु ज्ञाते ततः सर्वमभूत्किल ॥ १,९.८७ ॥ ततः प्रभृति देवः स न प्रासूयत वै प्रजाः । ऊर्ध्वरेताः स्थितः स्थाणुर्यावदाभूतसंप्लवम् ॥ १,९.८८ ॥ यस्मात्प्रोक्तं स्थितोऽस्मीति तस्मात्स्थाणुर्बुधैः स्मृतः । ज्ञानं तपश्च सत्यं च ह्यैश्वर्यं धर्म एव च ॥ १,९.८९ ॥ वैराग्यमात्मसंबोधः कृत्स्नान्येतानि शङ्करे । सर्वान्देवानृषींश्चैव समेतानसुरैः सह ॥ १,९.९० ॥ अत्येति तेजसा देवो महादेवस्ततः स्मृतः । अत्येति देवा नैश्वर्याद्वलेन च महासुरान् ॥ १,९.९१ ॥ ज्ञानेन च मुनीन्सर्वान्योगाद्भूतानि सर्वशः । एवमेव महादेवः सर्वदेवनमस्कृतः । प्रजामनु द्यामां सृष्ट्वा सर्गादुपरराम ह ॥ १,९.९२ ॥ इति श्री ब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे रुद्रप्रसववर्णनं नाम नवमोऽध्यायः _____________________________________________________________ ऋषिरुवाच अस्मिन्कल्पे त्वया नोक्तः प्रादुर्भावो महात्मनः । महादेवस्य रुद्रस्य साधकैरृषिभिः सह ॥ १,१०.१ ॥ सूत उवाच उत्पत्तिरादिसर्गस्य मया प्रोक्ता समासतः । विस्तरेण प्रवक्ष्यामि नामानि तनुभिः सह ॥ १,१०.२ ॥ पत्नीषु जनयामास महादेवः सुतान्बहून । कल्पेष्वन्येष्वतीतेषु ह्यस्मिन्कल्पे तु ताञ्शृणु ॥ १,१०.३ ॥ कल्पादावात्मनस्तुल्यं सुतमध्यायत प्रभुः । प्रादुरा सीत्ततोङ्केऽस्य कुमारो नीललोहितः ॥ १,१०.४ ॥ रुरोद सुस्वरं घोरं निर्दहन्निव तेजसा । दृष्ट्वा रुदन्तं सहसा कुमारं नीललोहितम् ॥ १,१०.५ ॥ किं रोदिषि कुमारेति ब्रह्मा तं प्रत्यभाषत । सोऽब्रवीद्देहि मे नाम प्रथमं त्वं पितामह ॥ १,१०.६ ॥ रुद्रस्त्वं देव नामासि स इत्युक्तोऽरुदत्पुनः । किं रोदिषि कुमारेति ब्रह्मा तं प्रत्यभाषत ॥ १,१०.७ ॥ नाम देहि द्वितीयं मे इत्युवाच स्वयंभुवम् । भवस्त्वं देवनाम्नासि इत्युक्तः सोऽरुदत्पुनः ॥ १,१०.८ ॥ किं रोदिषीति तं ब्रह्मा रुदन्तं प्रत्युवाच ह । तृतीयं देहि मे नाम इत्युक्तः सोऽब्रवीत्पुनः ॥ १,१०.९ ॥ शर्वस्त्वं देव नाम्नासि इत्युक्तः सोऽरुदत्पुनः । किं रोदिषीति तं ब्रह्मा रुदन्तं प्रत्युवाच ह ॥ १,१०.१० ॥ चतुर्थ देहि मे नाम इत्युक्तः सोऽब्रवीत्पुनः । ईशानो देवनाम्नासि इत्युक्तः सोऽरुदत्पुनः ॥ १,१०.११ ॥ किं रोदिषीति तं ब्रह्मा रुदन्तं पुनरब्रवीत् । पञ्चमं नाम देहीति प्रत्युवाच स्वयंभुवम् ॥ १,१०.१२ ॥ पशूनां त्वं पतिर्देव इत्युक्तः सोऽरुदत्पुनः । किं रोदिषीति तं ब्रह्मा रुदन्तं पुनरब्रवीत् ॥ १,१०.१३ ॥ षष्ठं वै देहि मे नाम इत्युक्तः प्रत्युवाच तम् । भीमस्त्वं देव नाम्नासि इत्युक्तः सोऽरुदत्पुनः ॥ १,१०.१४ ॥ किं रोदिषीति तं ब्रह्मा रुदन्तं पुनरब्रवीत् । सप्तमं देहि मे नाम इत्युक्तः प्रत्युवाच ह ॥ १,१०.१५ ॥ उग्रस्त्वं देव नाम्नासि इत्युक्तः सोऽरुदत्पुनः । तं रुदन्तं कुमारं तु मारोदीरिति सोऽब्रवीत् ॥ १,१०.१६ ॥ सोऽब्रवीदष्टमं नाम देहि मे त्वं विभो पुनः । त्वं महादेवनामासि इत्युक्तो विरराम ह ॥ १,१०.१७ ॥ लब्ध्वा नामानि चैतानि ब्रह्माणं नीललोहितः । प्रोवाच नाम्नामेतेषां स्थानानि प्रदिशेति ह ॥ १,१०.१८ ॥ ततो विसृष्टास्तनव एषां नाम्ना स्वयंभुवा । सूर्यो जलं मही वायुर्व ह्निराकाशमेव च ॥ १,१०.१९ ॥ दीक्षिता ब्राह्मणश्चन्द्र इत्येवं तेऽष्टधा तनुः । तेषु पूज्यश्च वन्द्यश्च नमस्कार्यश्च यत्नतः ॥ १,१०.२० ॥ प्रोवाच तं पुनर्ब्रह्मा कुमारं नीललोहितम् । यदुक्तं ते मया पूर्वं नाम रुद्रेति वै विभो ॥ १,१०.२१ ॥ तस्यादित्यतनुर्नाम्नः प्रथमा प्रथमस्य ते । इत्युक्ते तस्य यत्तेजश्चक्षुस्त्वासीत्प्रकाशकम् ॥ १,१०.२२ ॥ विवेश तत्तदादित्यं तस्माद्रुद्रो ह्यसौ स्मृतः । उद्यतमस्तं यन्तं च वर्जयेद्दर्शनेरविम् ॥ १,१०.२३ ॥ शश्वच्च जायते यस्माच्छश्वत्संतिष्ठते तु यत् । तस्मात्मूर्यं न वीक्षेत आयुष्कामः शुचिः सदा ॥ १,१०.२४ ॥ अतीतानागतं रुद्रं विप्रा ह्याप्याययन्ति यत् । उभे संध्ये ह्युपासीना गृणन्तः सामऋग्यजुः ॥ १,१०.२५ ॥ उद्यन्स तिष्ठते ऋक्षु मध्याह्ने च यजुःष्वथ । सामस्वथापराह्णे तु रुद्रः संविशति क्रमात् ॥ १,१०.२६ ॥ तस्माद्भवेन्नाभ्युदितो बाह्यस्तमित एव च । न रुद्रम्प्रति मेहेत सर्वावस्थं कथं चन ॥ १,१०.२७ ॥ एवं युक्तान् द्विजान् देवो रुद्रस्तान्न हिनस्ति वै । ततोऽप्रवीत्पुनर्ब्रह्मा तं देवं नीललोहितम् ॥ १,१०.२८ ॥ द्वितीयं नामधेयं ते मया प्रोक्तं भवेति यत् । एतस्यापो द्वितीया ते तनुर्नाम्ना भवत्विति ॥ १,१०.२९ ॥ इत्युक्ते त्वथ तस्यासीच्छरीरस्थं रसात्मकम् । विवेश तत्तदा यस्तु तस्मादापो भवः स्मृतः ॥ १,१०.३० ॥ यस्माद्भवन्ति भूतानि ताभ्यस्ता भावयन्ति च । भवनाद्रावनाच्चैव भूतानामुच्यते भवः ॥ १,१०.३१ ॥ तस्मान्मूत्रं पुरीषं च नाप्सु कुर्वीत कर्हिचित् । न निष्ठीवेन्नावगाहेन्नैव गच्छेच्च मैथुनम् ॥ १,१०.३२ ॥ न चैताः परिचक्षीत वहन्त्यो वा स्थिता अपि । मैध्यामेध्यास्त्वपामेतास्तनवो मुनिभिः स्मृताः ॥ १,१०.३३ ॥ विवर्णरसगन्धाश्च वर्ज्या अल्पाश्च सर्वशः । अपां योनिः समुद्रस्तु तस्मात्तं कामयन्ति ताः ॥ १,१०.३४ ॥ मध्याश्चैवामृता ह्यापो भवन्ति प्राप्य सागरम् । तस्मादपो न रुन्धीत समुद्रं कामयन्ति ताः ॥ १,१०.३५ ॥ न हिनस्ति भवो देवो य एवं ह्यप्सु वर्तते । ततोऽब्रवीत्पुनर्ब्रह्मा कुमारं नीललोहितम् ॥ १,१०.३६ ॥ शर्वेति यत्तृतीयं ते नाम प्रोक्तं मया विभो । तस्य भूमिस्तृतीयस्य तनुर्नाम्ना भवत्त्वियम् ॥ १,१०.३७ ॥ इत्युक्ते यत्स्थिरं तस्य शरीरे ह्यस्थिसंज्ञितम् । विवेश तत्तदा भूमिं यस्मात्सा शर्व उच्यते ॥ १,१०.३८ ॥ तस्मात्कृष्टेन कुर्वीत पुरीषं मूत्रमेव च । न च्छायायां तथा मार्गे स्वच्छायायां न मेहयेत् ॥ १,१०.३९ ॥ शिरः प्रावृत्य कुर्वीत अन्तर्धाय तृणैर्महीम् । एवं यो वर्तते भूमौ शर्वस्तं न हिनस्ति वै ॥ १,१०.४० ॥ ततोऽब्रवीत्पुनर्ब्रह्मा कुमारं नीललोहितम् । ईशानेति चतुर्थ ते नाम प्रोक्तं मयेह यत् ॥ १,१०.४१ ॥ चतुर्थस्य चतुर्थी तु वायुर्नाम्ना तनुस्तव । इत्युक्ते यच्छरीरस्थं पञ्चधा प्राणसंज्ञितम् ॥ १,१०.४२ ॥ विवेश तस्य तद्वायुमीशानस्तन मारुतः । तस्मान्नैनं परिवदेत्प्रवान्तं वायुमीश्वरम् ॥ १,१०.४३ ॥ यज्ञैर्व्यवहरन्त्येनं ये वै परिचरन्ति च । एवं युक्तं महेशानो नैव देवो हिनस्ति तम् ॥ १,१०.४४ ॥ ततोऽब्रवीत्पुनर्ब्रह्मा तं देवं ध५ लमीश्वरम् । नाम यद्वै पशुपतिरित्युक्तं पञ्चमं मया ॥ १,१०.४५ ॥ पञ्चमी पञ्चम स्यैषा तनुर्नाम्नाग्निरस्तु ते । इत्युक्ते यच्छरीरस्थं तेजस्तस्योष्णसंज्ञितम् ॥ १,१०.४६ ॥ विवेश तत्तदा ह्यग्निं तस्मात्पशुपतिस्तु सः । यस्मादग्निः पशुश्चासीद्यस्मात्पाति पशूंश्च सः ॥ १,१०.४७ ॥ तस्मात्पशुपतेस्तस्य तनुरग्निर्निरुच्यते । तस्मादमेद्यं न दहेन्न च पादौ प्रतापयेत् ॥ १,१०.४८ ॥ अधस्तान्नोपदध्याच्च न चैनमतिलङ्घयेत् । नैनं पशुपतिर्देव एवं युक्तं हिनस्ति वै ॥ १,१०.४९ ॥ ततोऽब्रवीत्पुनर्ब्रह्मा तं देवं श्वेतपिङ्गलम् । षष्टं नाम मया प्रोक्तं तव भीमेति यत्प्रभो ॥ १,१०.५० ॥ आकाशं तस्य नाम्नस्तु तनुः षष्ठी भवत्विति । इत्युक्ते सुषिरं तस्य शरीरस्थमभूच्च यत् ॥ १,१०.५१ ॥ विवेश तत्तदाकाशं तस्माद्भीमस्य सा तनुः । यदाकाशे स्मृतो देवस्तस्मान्ना संवृतः क्वचित् ॥ १,१०.५२ ॥ कुर्यान्मूत्रं पुरीषं वा न भुञ्जीत पिबेन्न वा । मैथुनं वापि न चरेदुच्छिष्टानि च नोत्क्षिपेत् ॥ १,१०.५३ ॥ न हिनस्ति च तं देवो यो भीमे ह्येवमाचरेत् । ततोऽब्रवीत्पुनर्ब्रह्मा तं देवं सबलं प्रभुम् ॥ १,१०.५४ ॥ सप्तमं यन्मया प्रोक्तं नामोग्रेति तव प्रभो । तस्य नाम्नस्तनुस्तुभ्यं द्विजो भवति दीक्षितः ॥ १,१०.५५ ॥ एवमुक्ते तु यत्तस्य चैतन्यं वै शरीरगम् । विवेश दीक्षितं तद्वै ब्राह्मणं सोमयाजिनम् ॥ १,१०.५६ ॥ तावत्कालं स्मृतो विप्र उग्रो देवस्तु दीक्षितः । तस्मान्नेमं परिवदेन्नाश्लीलं चास्य कीर्त्तयेत् ॥ १,१०.५७ ॥ ते हरन्त्यस्य पाप्मानं ये वै परिवदन्ति तम् । एवं युक्तान् द्विजानुग्रो देवस्तान्न हिनस्ति वै ॥ १,१०.५८ ॥ ततोब्रवीत्पुनर्ब्रह्मा तं देवं भास्करद्युतिम् । अष्टमं नाम यत्प्रोक्तं महादेवेति ते मया ॥ १,१०.५९ ॥ तस्य नाम्नोऽष्टमस्यास्तु तनुस्तुभ्यं तु चन्द्रमाः । इत्युक्ते यन्मन स्तस्य संकल्पकमभूत्प्रभोः ॥ १,१०.६० ॥ विवेश तच्चन्द्रमसं महादेवस्ततः शशी । तस्माद्विभाव्यते ह्येष महादेवस्तु चन्द्रमाः ॥ १,१०.६१ ॥ अमावास्यां न वै छिन्द्याद्वृक्षगुल्मौषधीर्द्विजः । महादेवः स्मृतः सोमस्तस्यात्मा ह्यौषधीगणः ॥ १,१०.६२ ॥ एवं यो वर्त्तते चैह सदा पर्वणि पर्वणि । न हन्ति तं महादेवो य एवं वेद तं प्रभुम् ॥ १,१०.६३ ॥ गोपायति दिवादित्यः प्रजा नक्तं तु चन्द्रमाः । एकरात्रौ समेयातां सूर्या चन्द्रमसावुभौ ॥ १,१०.६४ ॥ अमावास्यानिशायां तु तस्यां युक्तः सादा भवेत् । रुद्राविष्टं सर्वमिदं तनुभिर्न्नामभिश्च ह ॥ १,१०.६५ ॥ एकाकी चश्चरत्येष सूर्योऽसौ रुद्र उच्यते । सूर्यस्य यत्प्रकाशेन वीक्षन्ते चक्षुषा प्रजाः ॥ १,१०.६६ ॥ मुक्तात्मा संस्थितो रुद्रः पिबत्यंभो गभस्तिभिः । अद्यते पीयते चैव ह्यन्नपानादिकाम्यया ॥ १,१०.६७ ॥ तनुरंबूद्भवा सा वै देहेष्वेवोपचीयते । यया धत्ते प्रजाः सर्वाः स्थिरीभूतेन तेजसा ॥ १,१०.६८ ॥ पार्थिवी सा तनुस्तस्य साध्वी धारयते प्रजाः । या च स्थिता शरीरेषु भूतानां प्राणवृत्तिभिः ॥ १,१०.६९ ॥ वातात्मिका तु चैशानी सा प्राणः प्राणिनामिह । पीताशितानि पचति भूतानां जठरेष्विह ॥ १,१०.७० ॥ तनुः पाशुपती तस्य पाचकः सोऽग्निरुच्यते । यानीह शुषिराणि स्युर्देहेष्वन्तर्गतानि वै ॥ १,१०.७१ ॥ वायोः संचरणार्थानि भीमा सा प्रोच्यते तनुः । वैतान्यादीक्षितानां तु या स्थितिर्ब्रह्मवादिनाम् ॥ १,१०.७२ ॥ तनुरुग्रात्मिका सा तु तेनोग्रो दीक्षितः स्मृतः । यत्तु संकल्पकं तस्य प्रजास्विह समास्थितम् ॥ १,१०.७३ ॥ सा तनुर्मानसी तस्य चन्द्रमाः प्राणिषु स्थितः । नवोनवो यो भवति जायमानः पुनःपुनः ॥ १,१०.७४ ॥ पीयतेऽसौ यथाकालं विबुधैः पितृभिः सह । महादेवोऽमृतात्मा स चन्द्रमा अम्मयः स्मृतः ॥ १,१०.७५ ॥ तस्य या प्रथमा नाम्ना तनू रौद्री प्रकीर्त्तिता । पत्नी सुवर्च्चला तस्याः पुत्रश्चास्य शनैश्चरः ॥ १,१०.७६ ॥ भवस्य या द्वितीया तु आपो नाम्ना तनुः स्मृता । तस्या धात्री स्मृता पत्नी पुत्रश्च उशना स्मृतः ॥ १,१०.७७ ॥ शर्वस्य या तृतीयस्य नाम्नो भूमिस्तनुः स्मृता । तस्याः पत्नी विकेशी तु पुत्रोऽस्याङ्गारकः स्मृतः ॥ १,१०.७८ ॥ ईशानस्य चतुर्थस्य नाम्ना वातस्तनुस्तु या । तस्याः पत्नी शिवा नाम पुत्रश्चास्या मनोजवः ॥ १,१०.७९ ॥ अविज्ञातगतिश्चैव द्वौ पुत्रौ चानिलस्य तु । नाम्ना पशुपतेर्या तु तनुरग्निर्द्विजैः स्मृता ॥ १,१०.८० ॥ तस्याः पत्नी स्मृता स्वाहा स्कन्दस्तस्याः सुतः स्मृतः । नाम्ना षष्ठस्य या भीमा तनुराकाशमुच्यते ॥ १,१०.८१ ॥ दिशः पत्न्यः स्मृतास्तस्य स्वर्गश्चापि सुतः स्मृतः । अग्रा तनुः सप्तमी या दीक्षितो ब्राह्मणः स्मृतः ॥ १,१०.८२ ॥ दीक्षा पत्नी स्मृता तस्याः संतानः पुत्र उच्यते । नाम्नाष्टमस्य महस्तनुर्या चन्द्रमाः स्मृतः ॥ १,१०.८३ ॥ तस्य वै रोहिणी पत्नी पुत्रस्तस्य बुधः स्मृतः । इत्येतास्तनवस्तस्य नामभिः सह कीर्तिताः ॥ १,१०.८४ ॥ तासु वन्द्यो नमस्यश्च प्रतिनामतनूषु वै । सूर्येप्सूर्व्यां तथा वायावग्नौ व्योम्न्यथ दीक्षिते ॥ १,१०.८५ ॥ भक्तैस्तथा चन्द्रमसि भत्तया वन्द्यस्तु नामभिः । एवं यो वेत्ति तं देवं तनुभिर्नामभिश्च ह ॥ १,१०.८६ ॥ प्रजावानेति सायुज्यमीश्वरस्य भवस्य सः । इत्येतद्वो मया प्रोक्तं गुह्यं भीमास्य यद्यशः ॥ १,१०.८७ ॥ शन्नोऽस्तु द्विपदे विप्राः शन्नोऽस्तु च चतुष्पदे । एतत्प्रोक्तमिदानीं च तनूनां नामभि सह । महादेवस्य देवस्य भृगोस्तु शृणुत प्रजाः ॥ १,१०.८८ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे महादेवविभूतिवर्णनं ना दशामोऽध्योयः _____________________________________________________________ सूत उवाच भृगोः ख्यातिर्विजज्ञे वै ईश्वरौ सुखदुःखयोः । शुभाशुभप्रदातारौ सर्वप्राणभृतामिह ॥ १,११.१ ॥ देवौ धातृविधातारौ मन्वन्तरविचारिणौ । तयार्ज्येष्ठा तु भगिनी देवी श्रीर्लोकभाविनी ॥ १,११.२ ॥ सा तु नारायणं देवं पति मासद्य शोभना । नारायणात्मजौ तस्यां बलोन्मादौव्यजायताम् ॥ १,११.३ ॥ बलस्य तेजः पुत्रस्तु उन्मादस्य तु संशयः । तस्यान्ये मानसाः पुत्रा आसन् व्योमविचारिणः ॥ १,११.४ ॥ ये वहन्ति विमानानि देवानां पुण्यकर्मणाम् । मेरुकल्पे स्मृते भार्ये विधातुर्धातुरेव च ॥ १,११.५ ॥ आयतिर्नियतिश्चैव तयोः पुत्रौ दृढव्रतौ । प्राणश्चैव मृकण्डश्च ब्रह्मकोशौ सनातनौ ॥ १,११.६ ॥ मनस्विन्यां मृकण्डस्य मार्कण्डेयो बभूव ह । सुतो वेदशिरास्तस्य धूम्रपत्न्यामजायत ॥ १,११.७ ॥ पीवर्यां वेदशिरसः पुत्रा वशकराः स्मृताः । मार्कण्डेयाः समाख्याता ऋषयो वेदपारगाः ॥ १,११.८ ॥ प्राणस्य पुण्डरीकायां द्युतिमानात्मजोऽभवत् । उन्नतश्चद्युतिमतः स्वनवातश्च तावुभौ ॥ १,११.९ ॥ तयोः पुत्राश्च पौत्राश्च भार्गवाणां परस्परात् । स्वायंभुवेन्तरेऽतीता मरीचेः शृणुत प्रजाः ॥ १,११.१० ॥ पत्नी मरीचेः संभूतिर्विजज्ञे ह्यात्मसंभंवम् । प्रजापतेः पूर्णमासं कन्याश्चेमा निबोधत ॥ १,११.११ ॥ कृषिर्वृष्टिस्त्विषा चैव तथा चोपचितिः शुभा । पूर्णमासः सरस्वत्यां पुत्रौ द्वावुदपादयत् ॥ १,११.१२ ॥ विरजं चैव धर्मिष्ठं पर्वशं चैव तावुभौ । विरजस्यात्मजो विद्वान् सुधामा नाम विश्रुतः ॥ १,११.१३ ॥ सुधामा स तु वैराजः प्राचीं दिशमुपा श्रितः । लोकपालः स धर्मात्मा गौरीपुत्रः प्रतापवान् ॥ १,११.१४ ॥ पर्वशः पर्वगणनां प्रविष्टः स महायशाः । पर्वशः पर्वशायां तु जनया मास वै सुतौ ॥ १,११.१५ ॥ यजुर्धाम च धीमन्तं स्तंभकाश्यपमेव च । तयोर्गोत्रकरौ पुत्रौ जातौ संन्यासनिश्चितौ ॥ १,११.१६ ॥ स्मृतस्त्वं गिरसः पत्नी जज्ञे सा ह्यात्मसंभवान् । पुत्रो कन्याश्चतस्रश्च पुण्यास्ता लोकविश्रुताः ॥ १,११.१७ ॥ सिनीवाली कुहूश्चैव राका चानुमतिस्तथा । तथैव भरताग्निं च कीर्तिमन्तं च तावुभौ ॥ १,११.१८ ॥ अग्नेः पुत्रं च पर्जन्यं सद्वती सुषुवे तथा । हिरण्यरोमा पर्जन्यो मारीच्यामुदपद्यत ॥ १,११.१९ ॥ आभूतसंप्लवस्थायी लोकपालः स वै स्मृतः । यज्ञे कीर्त्तिमतश्चापि धेनुका वीतकल्मषौ ॥ १,११.२० ॥ चरिष्णुं धृतिमन्तं च उभावङ्गिरसां वरौ । तयोः पुत्राश्च पौत्राश्च अतीता वै सहस्रशः ॥ १,११.२१ ॥ अनसूया विजज्ञे वै पञ्चात्रेयानकल्मषान् । कन्यां चैव श्रुतिं नाम माता शङ्खपदस्य सा ॥ १,११.२२ ॥ कर्दसस्य तु पत्नी सा पौलहस्य प्रजापतेः । सत्यनेत्रश्च हव्यश्च आपो मूर्त्तिः शनैश्चरः ॥ १,११.२३ ॥ सोमश्च पञ्चमस्तेषामासीत्स्वायंभुवेन्तरे । यामदेवैस्सहातीताः पञ्चात्रेयाः प्रकीर्त्तिताः ॥ १,११.२४ ॥ तेषां पुत्राश्च पौत्राश्च आत्रेयाणां महात्मनाम् । स्वायंभुवेऽन्तरेऽतीताः शतशोऽथ सहस्रशः ॥ १,११.२५ ॥ प्रीत्यां पुलस्त्यभार्यायां दाना ग्निस्तत्सुतोऽभवत् । पूर्वजन्मनि सोऽगस्त्यः स्मृतः स्वायंभुवेऽन्तरे ॥ १,११.२६ ॥ मध्यमो देवबाहुश्च अत्रिनामा च ते त्रयः । स्वमा यवीयसी तेषां सद्वती नाम विश्रुता ॥ १,११.२७ ॥ पर्जन्यजननी शुभ्रा पत्नी चाग्नेः स्मृता शुभा । पौलस्त्यस्य च ब्रह्मर्षेः प्रीतिपुत्रस्य धीमतः ॥ १,११.२८ ॥ दानाच्च सुषुवे पत्नी सुजङ्घी चं बहून्सुतान् । पौलस्त्या इति विख्याताः स्मृताः स्वायंभुवेऽन्तरे ॥ १,११.२९ ॥ क्षमा तु सुषुवे पुत्रान्पुलस्त्यस्य प्रजापतेः । त्रेताग्निवर्चसः सर्वे येषां कीर्त्तिः प्रतिष्ठिता ॥ १,११.३० ॥ कर्दमश्चोर्वरीवांश्च सहिष्णुश्चेति ते त्रयः । ऋषिः कनकपीठश्च शुभा कन्या च पीवरी ॥ १,११.३१ ॥ कर्दमस्य श्रुतिः पत्नी आत्रेय्यजनयत्स्वयम् । पुत्रं शङ्खपदं नाम कन्यां काम्यां तथैव च ॥ १,११.३२ ॥ स वै शङ्खपदः श्रीमांल्लोकपालः प्रजापतिः । दक्षिणस्यां दिशि रतः काम्या दत्ता प्रियव्रते ॥ १,११.३३ ॥ काम्या प्रियव्रताल्लेभे स्वायंभुवसमान्सुतान् । दश कन्याद्वयं चैव यैः क्षत्रं सम्प्रवर्त्तितम् ॥ १,११.३४ ॥ पुत्रं कनकपीठस्य सहिष्णुं नाम विश्रुतम् । यशोधरा विजज्ञे वै कामदेवं सुमध्यामा ॥ १,११.३५ ॥ क्रतोः क्रतुसमान्पु त्रान् विजज्ञे संनतिः शुभान् । तेषां न भार्या पुत्रो वा सर्वे ते उर्द्धरेतसः ॥ १,११.३६ ॥ तानि षष्टिसहस्राणि वालखिल्या इति श्रुताः । अरुणस्याग्रतो यान्ति परिवार्य दिवाकरम् ॥ १,११.३७ ॥ आभूतसंप्लवात्सर्वेपतङ्गसहचारिणः । स्वसारौ तद्यवीयस्यौ पुण्या सत्यवती चते ॥ १,११.३८ ॥ पर्वशस्य स्नुवे ते वै पूर्णमास सुतस्य तु । ऊर्जायां तु वसिष्ठस्य वासिष्ठाः सप्त जज्ञिरे ॥ १,११.३९ ॥ ज्यायसी च सुता तेषां पुण्डरीका सुमध्यमा । जननी सा द्युतिमतः प्राणस्य महिषी प्रियाः ॥ १,११.४० ॥ तस्यास्तु ये यवीयांसो वासिष्ठाः सप्त विश्रुताः । रक्षो गर्त्तोर्द्धबा हुश्च सवनः पवनश्च यः ॥ १,११.४१ ॥ सुतपाः संकुरित्येते सर्वे सप्तर्षयः समृताः । रत्नो वराङ्ग्यजनयन्मार्कण्डेयी यशस्विनी ॥ १,११.४२ ॥ प्रतीच्यां दिशि राजानं केतुमन्तं प्रजापतिम् । गोत्राणि नामभिस्तेषां वासिष्ठानां महात्मनाम् ॥ १,११.४३ ॥ स्वायंभुवेऽन्तरेतीतान्यग्नेस्तु शृणुत प्रजाः । इत्येष ऋषिसर्गस्तु सानुबन्धः प्रकीर्त्तितः ॥ १,११.४४ ॥ विस्तरेणानुपूर्व्याच्च अग्नेर्वक्ष्याम्यतः परम् । इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे ऋषिसर्गवर्णनं नामैकादशोऽध्यायः _____________________________________________________________ सूत उवाच योऽसावग्ने रभिमानी स्मृतः स्वायंभुवेऽन्तरे । ब्रह्मणो मानसः पुत्रस्तस्मात्स्वाहा व्यजायत ॥ १,१२.१ ॥ पावकं पवमानं च शुचिरग्निश्च यः स्मृतः । निर्मथ्यः पवमानस्तु वैद्युतः पावकः स्मृतः ॥ १,१२.२ ॥ शुचिः सौरस्तु विज्ञेयः स्वाहापुत्रास्तु ते त्रयः । निर्मथ्यः पवमानस्तु शुचिः सौरस्तु यः स्मृतः ॥ १,१२.३ ॥ अब्योनिर्वैद्युतश्चैव तेषां स्थानानि तानि वै । पवमानात्मजश्चैव कव्यवाहन उच्यते ॥ १,१२.४ ॥ पावकिः सहरक्षस्तु हव्यवाहः शुचेः सुतः । देवानां हव्यवाहोऽग्निः पितॄणां कव्यवाहनः ॥ १,१२.५ ॥ सह रक्षोऽसुराणां तु त्रयाणां तु त्रयोऽग्नयः । एतेषां पुत्रपौत्रास्तु चत्वारिंशन्न वैव तु ॥ १,१२.६ ॥ वक्ष्यामि नामभिस्तेषां प्रविभागं पृथक्पृथक् । विश्रुप्तो लौकिकोऽग्निस्तु प्रथमो ब्रह्मणः सुतः ॥ १,१२.७ ॥ ब्रह्मो दत्ताग्निस त्पुत्रो भरतो नाम विश्रुतः । वैश्वानरः सुतस्तस्य वहन् हव्यं समाः शतम् ॥ १,१२.८ ॥ संभृतोऽथर्वणा पूर्वमेधितिः पुष्करोदधौ । सोथर्वा लौकिकोऽग्निस्तु दर्पहाथर्वणः स्मृतः ॥ १,१२.९ ॥ अथर्वा तु भृगुर्जज्ञे ह्यग्निराथर्वणः स्मृतः । तस्मात्स लौकिकोऽग्निस्तु दध्यङ्ङाथर्वणो मतः ॥ १,१२.१० ॥ आथर्वः पवमानस्तु निर्मथ्यः कविभिः स्मृतः । स ज्ञेयो गार्हपत्योऽग्निस्तस्य पुत्रद्वयं स्मृतम् ॥ १,१२.११ ॥ शंस्यस्त्वाह वनीयोऽग्नेः स्मृतो यो हव्यवाहनः । द्वितीयस्तु सुतः प्रोक्तः शुकोऽग्निर्यः प्रणीयते ॥ १,१२.१२ ॥ तथा सव्यापसव्यौ च शंस्यस्याग्नेः सुतावुभौ । शंस्यस्तु षोडश नदीश्चकमे हव्यवाहनः ॥ १,१२.१३ ॥ यो सावाहवनीयोऽग्निरभिमानी द्विजैः स्मृतः । कावेरीं कृष्णवेणां च नर्मदां यमुनां तथा ॥ १,१२.१४ ॥ गोदावरीं वितस्तां च चन्द्रभागामिरावतीम् । विपाशां कौशिकीञ्चैव शतद्रूं सरयूं तथा ॥ १,१२.१५ ॥ सीतां सरस्वतीं चैव ह्रादिनीं पावनीन्तथा । तासु षोडशधामानं प्रविभज्य पृथक्पृथक् ॥ १,१२.१६ ॥ आत्मानं व्यदधात्तासु धिष्णीष्वथ बभूव सः । कृत्तिकाचारिणी धिष्णी जज्ञिरे ताश्च धिष्णयः ॥ १,१२.१७ ॥ धिष्णीषु जज्ञिरे यस्माद्धिष्णयस्तेन कीर्त्तिताः । इत्येते वै नदीपुत्रा धिष्णीष्वेवं विजज्ञिरे ॥ १,१२.१८ ॥ तेषां विहरणीया ये उपस्थेयाश्च येऽग्नयः । ताञ्शृणुध्वं समासेन कीर्त्यमानान्यथातथम् ॥ १,१२.१९ ॥ विभुः प्रवाहणो ग्नीध्रस्तत्रस्था धिष्णयोऽपरे । विधीयन्ते यथास्थानं सूत्याहे सवने क्रमात् ॥ १,१२.२० ॥ अनुद्देश्य निवास्यानामग्नीनां शृणुत क्रमम् । सम्राडग्नि कृशानुर्यो द्वितीयोंऽतरवेदिकः ॥ १,१२.२१ ॥ सम्राडग्नमुखानष्टौ उपतिष्ठन्ति तान् द्विजान् । परिषत्पवमानस्तु द्वितीय सोऽनुदिश्यते ॥ १,१२.२२ ॥ प्रतल्कान्यो नभोनाम चत्वरेसौ विभाव्यते । हव्यस्ततो ह्यसंमृष्टः शामित्रेऽग्नौ विभाव्यते ॥ १,१२.२३ ॥ ऋतुधामा च सुज्योतिरौदुंबर्यः प्रकीर्त्यते । विश्वव्यचाः समुद्रोऽग्निर्ब्रह्मस्थाने स कीर्त्यते ॥ १,१२.२४ ॥ ब्रह्मज्योतिर्वसुर्धामा ब्रह्मस्थाने स उच्यते । अचौकपादुपस्थो यः स वै शालासुखीयकः ॥ १,१२.२५ ॥ अनुहेश्यो ह्यहिर्बुध्न्यो सोऽग्रिर्गृहपतिः स्मृतः । शंस्यस्यैते सुताः सर्वे उपस्थेया द्विजैः स्मृताः ॥ १,१२.२६ ॥ ततो विहरणीयांश्च वक्ष्याम्यष्टौ च तत्सुतान् । विभुः प्रवाहणोऽग्नीध्रस्तेषां धिष्ण्यस्तथा परे ॥ १,१२.२७ ॥ विधीयन्ते यथास्थानं सौत्येऽह्नि सवने क्रमात् । होत्रीयस्तु स्मृते ह्यग्निर्वह्निर्यो हव्यवाहनः ॥ १,१२.२८ ॥ प्रशान्तोऽग्निः प्रचेतास्तु द्वितीयश्चात्र नामकः । ततोऽग्निर्वैश्वदेवस्तु ब्राह्मणाच्छंसिरुच्यते ॥ १,१२.२९ ॥ उशिगग्निः कविर्यस्तु पोतोऽग्निः स विभाव्यते । आवारिरग्निर्वाभारिर्वैष्ठीयः स विभाव्यते ॥ १,१२.३० ॥ अवस्फूर्जो विवस्वांस्तु आस्थांश्चैव स उच्यते । अष्टमः सुध्युरग्निर्योमार्जालीयः स उच्यन्ते ॥ १,१२.३१ ॥ धिष्ण्यावाहरणा ह्येते सौत्येह्नीज्यन्त वै द्विजैः । अपां योनिः स्मृतोऽसौ स ह्यप्सुनामा विभाव्यते ॥ १,१२.३२ ॥ ततो यः पावको नाम्ना अब्जो यो गर्भ उच्यते । अग्निः सोऽवभृथे ज्ञेयो वरुणेन सहेज्यते ॥ १,१२.३३ ॥ त्दृच्छयस्तत्सुतो ह्यग्निर्जठरे यो नृणां पचन् । मृत्युमाञ्जाठरस्याग्नेर्विद्वानाग्निः सुतः स्मृतः ॥ १,१२.३४ ॥ परस्परोत्थितः सोऽग्निर्भूतानीह विनिर्दहेत् । पुत्रस्त्वग्नेर्मन्युमतो घोरः संवर्तकः स्मृतः ॥ १,१२.३५ ॥ पिबन्नवः स वसति समुद्रे वडवामुखः । समुद्रवासिनः पुत्रः साहरक्षो विभाव्यते ॥ १,१२.३६ ॥ सहरक्षसुतः क्षामो गृहाणां दहते नृणाम् । क्रव्यादग्निः सुतस्तस्य पुरुषानत्ति यो मृतान् ॥ १,१२.३७ ॥ इत्येते पावकस्याग्नेः पुत्रा एव प्रकीर्त्तिताः । ततः शुचिस्तु वै सौरो गन्धर्वैरायुराहुतः ॥ १,१२.३८ ॥ मथितो यस्त्वरण्यां च सोऽग्निरग्निं समिन्धति । आयुर्नाम्ना तु भगवानसौ यस्तु प्रणीयते ॥ १,१२.३९ ॥ आयुषो महिषः पुत्रः सहसो नाम तत्सुतः । पाकयज्ञेष्वभीमानी सोग्निस्तु सहसः स्मृतः ॥ १,१२.४० ॥ पुत्रश्च सहसस्याग्नेरद्भुतः स महायशाः । विविधिश्चाद्भुतस्यापि पुत्रोऽग्नेस्तुमाहान्स्मृतः ॥ १,१२.४१ ॥ प्रायश्चित्तेष्वभीमानी हुतं भुङ्क्ते हविः सदा । विविधेस्तु सुतो ह्यर्क्क स्तस्य चाग्नेः सुता इमे ॥ १,१२.४२ ॥ अनीकवान् वाजसृक्च रक्षोहा चष्टिकृत्तथा । सुरभिर्वसुरन्नादो प्रविष्टो यः स रुकमराट् ॥ १,१२.४३ ॥ शुचेरग्नेः प्रजा ह्येषा वह्नयश्च चतुर्द्दश । इत्येते चाग्नयः प्रोक्ताः प्रणीयन्तेध्वरेषु वै ॥ १,१२.४४ ॥ आदिसर्गे व्यतीता वै यामैः सह सुरोत्तमैः । स्वायंभुवेऽन्तरे पूर्वमग्नयस्तेभिमानिनः ॥ १,१२.४५ ॥ एते विहरणीयेषु चेतनाचेतनेषु वै । स्थानाभिमानिनो लोके प्रागासन्हव्यवाहनाः ॥ १,१२.४६ ॥ काम्यनै मित्तिका यज्ञेष्वेते कर्मस्ववस्थिताः । पूर्वमन्वतंरेऽतीताः शुकैर्यागैश्च तैः सह ॥ १,१२.४७ ॥ देवैर्महात्मभिः पुण्यैः प्रथमस्यान्तरे मनोः । इत्येतानि मजोक्तानि स्थानानि स्थानिनश्च ह ॥ १,१२.४८ ॥ तैरेव तु प्रसंख्यातमतीतानागतेष्विह । सन्वन्तरेषु सर्वेषु लक्षणं जातवेदसाम् ॥ १,१२.४९ ॥ सर्वे तपस्विनो ह्येते सर्वे ब्रह्मभृतस्तथा । प्रजानां पतयः सर्वे ज्योतिष्मन्तश्च ते स्मृताः ॥ १,१२.५० ॥ स्वारोचिषादिषु ज्ञेयाः सावर्ण्यं तेषु सप्तसु । मन्वन्तरेषु सर्वेषु नामरूपप्रयोजनैः ॥ १,१२.५१ ॥ वर्त्तन्ते वर्त्तमानैश्च यामैदेवैः सहाग्नयः । अनागतैः सुरैः सार्द्धं वर्त्स्यन्तेऽनागताग्नयः ॥ १,१२.५२ ॥ इत्येष निचयोऽग्नीनामनुक्रान्तो यथाक्रमम् । विस्तरेणानुपुर्व्या च पितॄणां वक्ष्यते पुनः ॥ १,१२.५३ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे अग्निनिचयो नाम द्वादशोऽध्यायः _____________________________________________________________ सुत उवाच ब्रह्मणः सृजतः पुत्रान् पूर्वं स्वायंभुवेंऽतरे । गात्रेभ्यो जज्ञिरे तस्य मनुष्यासुरदेवताः ॥ १,१३.१ ॥ पितृवन्मन्यमानास्तं जज्ञिरे पितरोऽपि च । तेषां निसर्गः प्रागुक्तः समासाच्छ्रुयतां पुनः ॥ १,१३.२ ॥ देवासुरमनुष्यांश्च सृष्ट्वा ब्रह्माभ्यमन्यत । पितृवन्मन्यमाना वै जज्ञिरेऽस्योपपक्षतः ॥ १,१३.३ ॥ मध्वादयः षडृतवः पितॄंस्तान्परिचक्षते । ऋतवः पितरो देवा इत्येषा वैदिकी श्रुतिः ॥ १,१३.४ ॥ मन्वन्तरेषु सर्वेषु ह्यतीतानागतेषु वै । एते स्वायंभुवे पूर्वमुत्पन्नाश्चान्तरे शुभे ॥ १,१३.५ ॥ अग्निष्वात्ता स्मृता नाम्ना तथा बर्हिषदश्च वै । अयज्वानस्तथा तेषामासन्ये गृहमेधिनः ॥ १,१३.६ ॥ अग्निष्वात्ता स्मृतास्ते वै पितरो नाहिताग्नयः । यज्वानस्तेषु ये त्वासन्पितरः सोमपीथिनः ॥ १,१३.७ ॥ स्मृता बर्हिषदस्ते वै पितर स्त्वग्निहोत्रिणः । ऋतवः पितरो देवाः शास्त्रेऽस्मिन्निश्चयं गताः ॥ १,१३.८ ॥ मधुमाधवौ रसौ ज्ञेयौ शुचिशुक्रौ च शुष्मिणौ । नभाश्चैव नभस्यश्च जीवावेतापुदात्दृतौ ॥ १,१३.९ ॥ इषश्चैव तथोर्जश्च स्वधावन्तावृदात्दृतौ । सहश्चैव सहस्यश्च घोरावेतापुदात्दृतौ ॥ १,१३.१० ॥ तपाश्चैव तपस्यश्च मन्युमन्तौ तु शैशिरौ । कालावस्थासु षट्स्वेते मासाख्या वै व्यवस्थिताः ॥ १,१३.११ ॥ इमे च ऋतवः प्रोक्ताश्चेतनाचेतनेषु वै । ऋतवो ब्रह्मणः पुत्रा विज्ञेयास्तेऽभिमानिनः ॥ १,१३.१२ ॥ मासार्द्धमासस्थानेषु स्थानिनौ ऋतवो मताः । स्थानानां व्यतिरेकेण ज्ञेयाः स्थानागिमानिनः ॥ १,१३.१३ ॥ अहोरात्राणि मासाश्च ऋतवश्चायनानि च । संवत्सराश्च स्थानानि कामाख्या ह्यभिमानिनाम् ॥ १,१३.१४ ॥ एतेषु स्थानिनो ये तु कालावस्था व्यवस्थिताः । तत्सतत्त्वास्तदात्मानस्तान्वक्ष्यामि निबोधत ॥ १,१३.१५ ॥ पार्वण्यस्ति थयः संध्याः पक्षा मासार्द्धसंमिताः । निमेषाश्च कलाः कष्ठा मुहुर्त्ता दिवसाः क्षयाः ॥ १,१३.१६ ॥ द्वावर्द्धमासौ मासस्तु द्वौ मासावृ तुरुच्यते । ऋतुत्रयं चाप्ययनं द्वेऽयने दक्षिणोत्तरे ॥ १,१३.१७ ॥ संवत्सरः समेतश्च स्थानान्येतानि स्थानिनाम् । ऋतवस्तु निमेः पुत्रा विज्ञेयास्ते तथैव षट् ॥ १,१३.१८ ॥ ऋतुपुत्राः स्मृताः पञ्च प्रजाः स्वार्तवलक्षणाः । यस्माच्चैवार्त्तवेभ्यस्तु जायन्ते स्थाणु जङ्गमाः ॥ १,१३.१९ ॥ आर्तवाः पितरस्तस्मादृतवश्च पितामहाः । समेतास्तु प्रसूयन्ते प्रजाश्चैव प्रजापतेः ॥ १,१३.२० ॥ तस्मात्स्मृतः प्रजानां वै वत्सरः प्रपितामहः । स्थानेषु स्थानिनो ह्येते स्थानात्मानः प्रकीर्त्तिताः ॥ १,१३.२१ ॥ तदाख्यास्तत्ससत्त्वाश्च तदात्मानश्च ते स्मृताः । प्रजापतिः स्मृतो यस्तु स तु संवत्सरो मतः ॥ १,१३.२२ ॥ संवत्सरसुतो ह्यग्नि ऋत इत्युच्यते बुधैः । ऋतात्तु ऋतवो यस्माज्जज्ञिरे ऋतवस्ततः ॥ १,१३.२३ ॥ मासाः षडर्तवो ज्ञेयास्तेषां पञ्चर्तवाः स्मृताः । द्विपदां चतुष्पदां चैव पक्षिणां सर्वतामपि ॥ १,१३.२४ ॥ स्थावराणां च पञ्चानां पुष्पं कालार्त्तवं स्मृतम् । ऋतुत्वमार्तवत्वं च पितृत्वं च प्रकीर्त्तितम् ॥ १,१३.२५ ॥ इत्येते पितरो ज्ञेया ऋतवश्चार्तवाश्च ये । सर्वभूतानि तेभ्यो यदृतुकालाद्विजज्ञिरे ॥ १,१३.२६ ॥ तस्मादेते हि पितर आर्तवा इति नः श्रुतम् । मन्वन्तरेष्विह त्वेते स्थिताः कालभिमानिनः ॥ १,१३.२७ ॥ कार्यकारणयुक्तास्तु ए श्वर्याद्व्याप्य संस्थिताः । स्थानाभिमानिनो ह्येते तिष्ठन्तीह प्रसंगमात् ॥ १,१३.२८ ॥ अग्निष्वात्ता बर्हिषदः पितरो विविधाः पुनः । जज्ञे स्वधापितृभ्यस्तु द्वे कन्ये लोकविश्रुते ॥ १,१३.२९ ॥ मेना च धारणी चैव याभ्यां धतमिदं जगत् । ते उभे ब्रह्मवादिन्यौ योगिन्यौ चैव ते उभे ॥ १,१३.३० ॥ पितरस्ते निजे कन्ये धर्मार्थं प्रददुः शुभे । अग्निष्वात्तास्तु ये प्रोक्तास्तेषां मेना तु मानसी ॥ १,१३.३१ ॥ धारणी मानसी चैव कन्या बर्हिषदां स्मृता । मेरोस्तां धारणीं नाम पत्न्यर्थं वा सृजन् घुभाम् ॥ १,१३.३२ ॥ पितरस्ते बर्हिषदः स्मृता ये सोमपायिनः । अग्निष्वात्तास्तु तां मेना पत्नी हिमवते ददुः ॥ १,१३.३३ ॥ उपहूता स्मृता ये वै तद्दौहित्रान्निबोधत । मेना हिमवतः पत्नी मैनाकं सा व्यजायत ॥ १,१३.३४ ॥ गङ्गां सरिद्वरां चैव पत्नी या लवणोदधेः । मैनाकस्या त्मजः क्रौचः क्रैञ्चद्वीपो यतः स्मृतः ॥ १,१३.३५ ॥ मेरोस्तु धारणी पत्नी दिव्यौषधिसमन्वितम् । मन्दरं सुषुवे पुत्रं तिस्रः कन्याश्च विश्रुताः ॥ १,१३.३६ ॥ वेलां च नियतिं चैव तृतीयां चायतिं विदुः । धातुश्चैवायतिः पत्नी विधातुर्नियतिः स्मृता ॥ १,१३.३७ ॥ स्वायं भुवेंऽतरे पूर्वं ययोर्वै कीर्त्तिताः प्रजाः । सुषुवे सागराद्वेला कन्यामेकामनिन्दिताम् ॥ १,१३.३८ ॥ सवर्णां नाम सामुद्रीं पत्नीं प्राचीनबर्हिषः । सवर्णायां सुता जाता दश प्राचीनबर्हिषः ॥ १,१३.३९ ॥ सर्वे प्रचेतसो नाम धनुर्वेदस्य पारगाः । तेषां स्वायंभुवो दक्षः पुत्रत्वं जग्मि वान्प्रभुः ॥ १,१३.४० ॥ त्रयंबकस्याभिशापेन चाक्षुषस्यातरे मनोः । एतच्छुत्वा ततः सूतमपृच्छच्छांशपायनिः ॥ १,१३.४१ ॥ उत्पन्नः स कथं दक्षो ह्यभिशापाद्भवस्य तु । चाक्षुषस्यान्तरे पूर्वं तन्नः प्रब्रूहि पृच्छताम् ॥ १,१३.४२ ॥ इत्युक्तः कथयामास सूतो दक्षाश्रयां कथाम् । शांशपायनिमामन्त्र्य त्र्यंबकाच्छापकारणम् ॥ १,१३.४३ ॥ सूत उवाच दक्षस्यासन्सुता ह्यष्टौ कन्या याः कीर्त्तिता मया । स्वेभ्यो गृहेभ्य आनाय्य ताः पिताभ्यर्चयद्गृहे ॥ १,१३.४४ ॥ ततस्त्वभ्यर्चिताः सर्वा न्यवसंस्ताः पितुर्गृहे । तासां ज्येष्ठा सती नाम पत्नी या त्र्यंबकस्य वै ॥ १,१३.४५ ॥ नाजुहावात्मजां तां वै दक्षो रुद्रमभिद्विषन् । अकरोत्संनतिं दक्षे न कदाचिन्महेश्वरः ॥ १,१३.४६ ॥ जामाता श्वशुरे तस्मिन्स्वभावात्तेजसि स्थितः । ततो ज्ञात्वा सती सर्वाः न्यवसंस्ताः पितुर्गृहे ॥ १,१३.४७ ॥ जगाम साप्यनाहूता सती तत्स्व पितुर्गृहम् । ताभ्यो हीनां पिता चक्रे सत्याः पूजामसंमताम् ॥ १,१३.४८ ॥ ततोऽब्रवीत्सा पितरं देवी क्रोधादमर्षिता । यवीयसीभ्यो प्यधमां पूजां कृत्वा मम प्रभो ॥ १,१३.४९ ॥ असत्कृत्य पितर्मां त्वं कृतवानसि गर्हितम् । अहं ज्येष्ठा वरिष्ठा च त्वं मां सत्कर्तुमर्ह सि ॥ १,१३.५० ॥ एवमुक्तोऽब्रवीदेनां दक्षः संरक्तलोचनः । त्वत्तः श्रेष्ठावरिष्ठाश्च पूज्या बालाः सुता मम ॥ १,१३.५१ ॥ तासां चैव तु भर्तार स्ते मे बहुमाताः सति । ब्रह्मिष्ठाः सुतपस्काश्च महायोगाः सुधार्मिकाः ॥ १,१३.५२ ॥ गुणैश्चैवाधिकाः श्लाघ्याः सर्वे ते त्र्यंबकात्सति । वसिष्ठोऽत्रिः पुलस्त्यश्च ह्यङ्गिरा पुलहः क्रतुः ॥ १,१३.५३ ॥ भृगुर्मरीचिश्च तथा श्रैष्ठा जामातरो मम । यस्मान्मां स्पर्द्धते शर्वः सदा चैवावमन्यते ॥ १,१३.५४ ॥ तेन त्वां न विभूषोमि प्रतिकूलो हि मे भवः । इत्युक्तवांस्तदा दक्षः संप्रमूढेन चेतसा ॥ १,१३.५५ ॥ शापार्थमात्मनश्चैव ये चोक्ताः परमर्षयः । तथोक्ता पितरं सा वै क्रुद्धा देवीदम ब्रवीत् ॥ १,१३.५६ ॥ वाङ्मनः कर्मभिर्यस्माददुष्टां मां विगर्हसे । तस्मात्त्यजाम्यहमिमं देहं तात तवात्मजम् ॥ १,१३.५७ ॥ ततस्तेनावमानेन सती दुःखादमर्षिता । अब्रवीद्वचनं देवी नमस्कृत्य स्वयंभुवे ॥ १,१३.५८ ॥ यत्राहमुपपद्ये च पुनर्देहेन भास्वता । तत्राप्यहमसंभूता संभूता धार्मिकादपि ॥ १,१३.५९ ॥ गच्छेयं धर्मपत्नीत्वं त्र्यंबकस्यैव धीमतः । तत्रैवाथ समासीना युक्तात्मानं समादधे ॥ १,१३.६० ॥ धारयामास चाग्नेयीं धारणां मनसात्मनः । तत आत्मसमुत्थोऽस्या वायुना समुदीरितः । सर्वागेभ्यो विनिःसृत्य वह्निस्तां भस्मसात्करोत् ॥ १,१३.६१ ॥ तदुपश्रुत्य निधनं सत्या देवोऽथ शूलभृत् । संवादं च तयोर्बुद्धा याथातथ्येन शङ्करः । दक्षस्य च ऋषीणां च चुकोप भगवान्प्रभुः ॥ १,१३.६२ ॥ रुद्र उवाच सर्वेषामेव लोकानां भूर्लोकस्त्वादिरुच्यते । तं सदा धारयिष्यामि निदेशात्परमेष्ठिनः ॥ १,१३.६३ ॥ अस्यां क्षितौ धृता लोकाः सर्वे तिष्ठन्ति भास्वराः । तानहं धारया मीह सततं च तदाज्ञया ॥ १,१३.६४ ॥ चातुर्वर्ण्यं हि देवानां ते चाप्येकत्र भुञ्जते । नाहं तैः सह भोक्षये वै ततो दास्यन्ति ते पृथक् ॥ १,१३.६५ ॥ यस्मादवमता दक्ष मत्कृतेऽनागसा सती । प्रशस्ताश्चेतराः सर्वाः स्वसुता भर्तृभिः सह ॥ १,१३.६६ ॥ तस्मा द्वैवस्वते प्राप्ते पुनरेते महर्षयः । उत्पत्स्यन्ते द्वितीये वै मम यज्ञ ह्ययोनिचाः ॥ १,१३.६७ ॥ हुते वै ब्रह्मणा शुक्रे चाक्षुषस्यातरे मनोः । अभिव्याहृत्य सर्वांस्तान् दक्षं चैवाशपत्पुनः ॥ १,१३.६८ ॥ भविता मानुषो राजा चाक्षुषस्य त्वमन्वये । प्राचीनबर्हिषः पौत्रः पुत्रश्चैव प्रचे तसाम् ॥ १,१३.६९ ॥ दक्ष एवेह नाम्ना तु मारिषायां जनिष्यसि । कन्यायां शाखिनां त्वं वै प्राप्ते वैवस्वतेंऽतरे ॥ १,१३.७० ॥ विघ्नं तत्रा प्यहं तुभ्यमाचरिष्यामि दुर्मते । धर्म्मयुक्ते च ते कार्ये एकस्मिंस्तु दुरासदे ॥ १,१३.७१ ॥ सुत उवाच तदुपश्रुत्य दक्षस्तु रुद्रं सोऽभ्य शपत्पुनः । यस्मात्त्वं मत्कृतेऽनिष्टमृषीणां कृतवानसि । तस्मात्सार्द्धं सुरैर्यज्ञे न त्वां यक्ष्यन्ति वै द्विजाः ॥ १,१३.७२ ॥ हुत्वाऽहुतिं तव क्रूर ह्यपः स्प्रक्ष्यन्ति कर्मसु । इहैव वत्स्यसि तथा दिवं हित्वा युगक्षयात् ॥ १,१३.७३ ॥ ततो देवैःस तैः सार्द्धं नेज्यते पृथसिज्यते । ततोऽभिव्याहृतो दक्षो रुद्रेणामिततेजसा ॥ १,१३.७४ ॥ स्वायंभुवीं तनुं त्यक्त्वा उत्पन्नो मानुषेष्विह ॥ १,१३.७५ ॥ ज्ञात्वा गृहपतिर्दक्षो यज्ञाना मीश्वरं प्रभुम् । समस्तेनेह यज्ञेन सोऽयजद्दैवतैः सह ॥ १,१३.७६ ॥ अथ देवी सती या तु प्राप्ते वैवस्वतेंऽतरे । मेनायां तामुमां देवीं जनयामास शैलराट् ॥ १,१३.७७ ॥ या तु देवी सती पूर्वमासीत्पश्चादुमाभवत् । सदा पत्नी भवस्यैषा न तया मुच्यते भवः ॥ १,१३.७८ ॥ मरीचं कश्यपं देवी यथादितिरनुव्रता । यथा नारायणं श्रीश्च मघवतं शची यथा ॥ १,१३.७९ ॥ विष्णुं कीर्ती रुषा मूर्यं वसिष्ठं चाप्यरुन्धती । नैतास्तु विजहत्येतान् भर्तॄन् देव्यः कदाचन ॥ १,१३.८० ॥ आवर्तमानाः कल्पेषु जायन्ते तैः पुनः सह । एवं प्राचेतसो दक्षो जज्ञे वै चाक्षुषेंऽतरे ॥ १,१३.८१ ॥ दशभ्यस्तु प्रचेतोभ्यो मारिषायां पुनर्नृपः । जज्ञे तदाभिशापेन द्वितीय इति नः श्रुतम् ॥ १,१३.८२ ॥ भृगवादयश्च ये सप्त जज्ञिरे च महर्षयः । आद्ये त्रेतायुगे पूर्वं मनोर्वैवस्वतस्य च ॥ १,१३.८३ ॥ देवस्य महतो यज्ञे वारुणीं बिभ्रतस्तनुम् । इत्येषोऽनुशयो ह्यासीत्तयोर्जात्यन्तरानुगः ॥ १,१३.८४ ॥ प्रजापतेश्च दक्षस्य त्र्यबकस्य च धीमतः । तस्मान्नानुशयः कार्यो वैरेष्विह कदाचन ॥ १,१३.८५ ॥ जात्यन्तरगतस्यापि भवितस्य शुभाशुभैः । ख्यातिं न मुञ्चते जन्तुस्तन्न कार्यं विपश्चिता ॥ १,१३.८६ ॥ इत्येषा समनुक्रान्ता कथा पापप्रमोचनी । या दक्षमधिकृत्येह त्वया पूर्वं प्रचौदिता ॥ १,१३.८७ ॥ पितृवंशप्रसंगेन कथा ह्येषा प्रकीर्त्तिता । पितॄणामानुपूर्व्येण देवान्वक्ष्याम्यतः परम् ॥ १,१३.८८ ॥ त्रेतायुगमुखे पूर्वमासन्स्वायंभुवेंऽतरे । देवायामा इति ख्याताः पूर्वं ये यज्ञसूनवः ॥ १,१३.८९ ॥ प्रथिता ब्रह्मणः पुत्रा अजत्वादजितास्तु ते । पुत्राः स्वायंभुवस्यैते शक्ता नाम तु मानसाः ॥ १,१३.९० ॥ तेषां यतो गणा ह्येते देवानां तु त्रयः स्मृताः । छन्दजास्तु त्रयस्त्रिंशत्सर्गे स्वायंभुवस्य ह ॥ १,१३.९१ ॥ यदुर्ययातिर्देवौ द्वौ वीवधस्रासतो मतिः । विभासश्च क्रतुश्चैव प्रयातिर्विश्रुतो द्युतिः ॥ १,१३.९२ ॥ वायव्यः संयमश्चैव यामा द्वादश कीर्त्तिताः । असमश्चोग्रदृष्टिश्च सुनयोऽथ शुचिश्रवाः ॥ १,१३.९३ ॥ केवलो विश्वरूपश्च सुदक्षो मधुपस्तथा । तुरीय इद्रयुक्चैव युक्तो ग्रावजितस्तु वै ॥ १,१३.९४ ॥ चनिमा विश्वदेवा च जविष्ठो मितवानपि । जरो विभुर्विभावश्च स ऋचीकोऽथ दुर्दिहः ॥ १,१३.९५ ॥ श्रुतिर्गृणानोऽथ बृहच्छुक्रा द्वादश कीर्त्तिताः । आसन्स्वायंभुवस्यैते चान्तरे सोमपायिनः ॥ १,१३.९६ ॥ दीप्तिमन्तो गणा ह्येते वीर्यवन्तो महाबलाः । तेषामिन्द्रस्तद्दा ह्यासीत्प्रथमे विश्वभुक्त प्रभुः ॥ १,१३.९७ ॥ असुरा ये तदा तेषामासन् दायादबान्धवाः । सुपर्णयक्षगन्धर्वाः पिशाचोरगराक्षसाः ॥ १,१३.९८ ॥ अष्टौ ताः पितृभिः सार्द्धमासन्या देवयोनयः । स्वायंभुवेन्तरेऽतीताः प्रजास्तासां महस्रशः ॥ १,१३.९९ ॥ प्रभावरूपसंपन्ना आयुषा च बलेन च । विस्तरादिह नोच्यन्ते माप्रसंगो भवेदिह ॥ १,१३.१०० ॥ स्वायंभुवो विसर्गस्तु विज्ञेयः सांप्रतेन ह । अतीतो वर्तमानेन दृष्टो वैवस्वते न सः ॥ १,१३.१०१ ॥ प्रजाभिर्देवाताभिश्च ऋषिभिः पितृभिः सह । तेषां सर्पर्षयः पूर्वमासन्ये तान्निबोधत ॥ १,१३.१०२ ॥ भृग्वं गिरा मरीचिश्च पुलस्त्यः पुलहः क्रतुः । अत्रिश्चैव वसिष्ठस्च सप्त स्वायंभुवेऽतरे ॥ १,१३.१०३ ॥ आग्नीध्रश्चाग्निबाहुश्च मोधा मेधातिथिर्वसुः । ज्योतिष्मान् द्युतिमान्हव्यः सवनः सत्त्र एव च ॥ १,१३.१०४ ॥ मनोः स्वायंभुवस्यैते दश पुत्रा महौजसः । वायुवेगा महासत्त्वा राजानः प्रथमेंऽतरे ॥ १,१३.१०५ ॥ सासुरं तत्सुगन्धर्वं सयक्षोरगराक्षसम् । सपिशाचमनुष्यञ्च ससुपर्णाप्सरोगणम् ॥ १,१३.१०६ ॥ नशक्यमानु पूर्व्येण वक्तुं वर्षशतैरपि । बहुत्वान्नामधेयानां संख्या तेषां कुतः कुले ॥ १,१३.१०७ ॥ या वै प्रजा युगाख्यास्तु आसन्स्वायंभुवेंऽतरे । कालेन महतातीता अयनाब्दयुगक्रमैः ॥ १,१३.१०८ ॥ ऋषय ऊचुः क एष भगवान् कालः सर्वभूतापहारकः । कस्य योनिः किमादिश्च किं सतत्त्वः किमात्मकः ॥ १,१३.१०९ ॥ किमस्य चक्षुः का मूर्तिः के वा अवयवाः स्मृताः । किं नामधेयं कोऽस्यात्मा एप्तत्त्वं ब्रूहि तत्त्वतः ॥ १,१३.११० ॥ सूत उवाच श्रूयता कालसद्भावः श्रुत्वा चैवावधार्यताम् । सूर्ययोनिर्निमेषादिः संख्याचक्षुः स उच्यते ॥ १,१३.१११ ॥ मूर्तिरस्य त्वहो रात्रो निमेषावयवश्च सः । संवत्सरः सतत्त्वश्च नाम चास्य कलात्मकः ॥ १,१३.११२ ॥ साम्प्रतानागतातीतकालात्मा स प्रजापतिः । पञ्चधा प्रविभक्तां तु कालावस्थां निबोधत ॥ १,१३.११३ ॥ दिवसार्द्धमासमासैश्च ऋतुभिस्त्वयनैस्तथा । संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः ॥ १,१३.११४ ॥ इड्रवत्सरस्तृतीयश्च चतुर्थश्चानुवत्सरः । पञ्चमो वत्सरस्तेषां कालःस युगसज्ञितः ॥ १,१३.११५ ॥ तेषां तत्त्वं प्रवक्ष्यामि कीर्त्यमानं निबोधत । क्रतुरग्निस्तु यः प्रोक्तः स तु संवत्सरो मतः ॥ १,१३.११६ ॥ आदितेयस्त्वसौ सूर्यः कालाग्निः परिवत्सरः । शुक्लकृष्णगतिश्चापि अपां सारमयः खगः ॥ १,१३.११७ ॥ स इडावत्सरः सोमः पुराणे निश्चयं गतः । यश्चायं पवते लोकांस्तनुभिः सप्तसप्तभिः ॥ १,१३.११८ ॥ अनुवाता च लोकस्य स वायुरनुवत्सरः । अहङ्कारादुदग्रुद्रः संभूतो ब्रह्मणास्तु यः ॥ १,१३.११९ ॥ स रुद्रो वत्सर स्तेषां विज्ञेयो नीललोहितः । सतत्त्वं तस्य वक्ष्यमि कीर्त्यमानं निबोधत ॥ १,१३.१२० ॥ अङ्गप्रत्यङ्गसंयोगात्कालात्मा प्रतितामहः । ऋक्सामयजुषां योनिः पञ्चानां पतिरीश्वरः ॥ १,१३.१२१ ॥ सोऽग्निर्यमश्च कालश्च संभूतिः स प्रजापतिः । प्रोक्तः संवत्सरश्चेति सूर्य चोनिर्मनीषिभिः ॥ १,१३.१२२ ॥ यस्मात्कालविभागानां मासर्त्वयनयोरपि । ग्रहनक्षत्रशीतोष्णवर्षायुः कर्मणां तथा ॥ १,१३.१२३ ॥ योनिः स प्रविभागानां दिवसानां च भास्करः । वैकारिकः प्रसन्नात्मा ब्रह्मपुत्रः प्रजापतिः ॥ १,१३.१२४ ॥ एको नैकोऽथ दिवसो मासोऽथर्तुः पितामहः । आदित्यः सविता भानुर्जीवनो ब्रह्मसत्कृतः ॥ १,१३.१२५ ॥ प्रभवश्चाव्ययश्चैव भूतानां तेन भास्करः । ताराभिमानी विज्ञेयो द्वितीयः परिवत्सरः ॥ १,१३.१२६ ॥ सोमः सर्वौंषधिपतिर्यस्मात्स प्रपितामहः । आजीवः सर्वभूतानां योगक्षेमकृदीश्वरः ॥ १,१३.१२७ ॥ आवेक्षमाणः सततं बिभर्ति जगदंशुभिः । तिथीनां पर्वसंधीनां पूर्णिमादर्शयोरपि ॥ १,१३.१२८ ॥ योनिर्निशाकरो यश्च अमृतात्मा प्रजापतिः । तस्मात्स पितृमान्सोमः स्मृत इङ्वत्सरात्मकः ॥ १,१३.१२९ ॥ प्राणापानसमानाद्यैर्व्यानोदानात्मकैरपि । कर्मभिः प्राणिनां लोके सर्वचेष्टाप्रवर्तकः ॥ १,१३.१३० ॥ पञ्चानां चेन्द्रियमनोर्बुद्धिस्मृतिबलात्मनाम् । समानकालकरणक्रियाः संपादयन्नपि ॥ १,१३.१३१ ॥ सर्वात्मा सर्वलोकेश आवहप्रवहादिभिः । वर्त्तते चोपकारैर्यस्तनुभिः सप्तसप्तभिः ॥ १,१३.१३२ ॥ विधाता सर्वभूतानाङ्क्षेमी नित्यं प्रभञ्जनः । योनिरग्नेरपां भूमे रवेश्चन्द्रमसश्चयः ॥ १,१३.१३३ ॥ वायुः प्रजापतिर्भूतो लोकात्मा प्रपितामहः । अहोरात्रकरस्तस्मात्स वायुरनुवत्सरः ॥ १,१३.१३४ ॥ एते प्रजानां पतयश्चत्वार उपपक्षजाः । पितरः सर्वलोकानां लोकात्मानः प्रकीर्त्तिताः ॥ १,१३.१३५ ॥ ध्यायतो ब्रह्माणो वक्त्रादुदन्समभवद्भवः । ऋषिर्विप्रा महादेवो भूतात्मा प्रपितामहः ॥ १,१३.१३६ ॥ ईश्वरः सर्वभूतानां प्रणवो योऽथपठ्यते । आत्मावेशेन भूतानामङ्गप्रत्यङ्गसंभवः ॥ १,१३.१३७ ॥ उन्मादकोऽनुग्रहकृद्रुद्रो वत्सर उच्यते । सूर्य्यश्च चन्द्रमाश्चाग्निर्वायू रुद्रस्तथैव च ॥ १,१३.१३८ ॥ युगाभिमानी कालात्मा नित्यं संक्षयकृद्विभुः । रुद्रः प्रविष्टो भगवाञ्जगत्यस्मिन्स्वतेजसा ॥ १,१३.१३९ ॥ आश्रयान्मयि संयोगात्तनुभिर्नाममिस्तथा । ततस्तस्य तु वीर्येण लोकानुग्रहकारकम् ॥ १,१३.१४० ॥ देवत्वं च पितृत्वं च कालत्वं चास्य यत्परम् । तस्माद्वै सर्वथा रुद्रस्तद्विद्वद्भिरभीज्यते ॥ १,१३.१४१ ॥ यतः पतिः स भगवान् प्रजेशानां प्रजापतिः । भावनः सर्वभूतानां सर्वात्मा नीललोहितः ॥ १,१३.१४२ ॥ औषधीः प्रतिसंधत्ते रुद्रः क्षीणाः पुनःपुनः । प्रजापतिमुखैर्देवैः सम्यगिष्टफलार्थिभिः ॥ १,१३.१४३ ॥ त्रिभिरेव कपालैश्च त्रयंबकैरौषधिक्षये । इज्यते भगवान् यस्मात्तस्मार्त्र्यंबक उच्यते ॥ १,१३.१४४ ॥ गायत्री चैव त्रिष्टुप्च जगती चैव याः स्मृताः । त्र्यंबका नामतः प्रेम्णा योनयस्ता वनस्पतेः ॥ १,१३.१४५ ॥ ताभिरेकत्वभूताभिस्त्रिविधाभिः स्ववीर्यतः । त्रिसाधनः पुरोडाशस्त्रिकपालः स वै स्मृतः ॥ १,१३.१४६ ॥ त्र्यंबकः स पुरोडाशस्तेनैष त्र्यंबकः स्मृतः । इत्येतत्पञ्चवर्षं हि युगं प्रोक्तं मनीषिभिः ॥ १,१३.१४७ ॥ यश्चैष पञ्चधात्मा वै प्रोक्तः संवत्सरो द्विजैः । सैकः षट्को विजज्ञेऽथ मध्वादिऋतुसंज्ञकः ॥ १,१३.१४८ ॥ ऋतुपुत्रार्त्तवाः पञ्च इति सर्गः समासतः । इत्येष बहुमानो वै प्राणिना जीवितानि च । नदीवेग इवासक्तः कालो धावति संहरन् ॥ १,१३.१४९ ॥ एतेषां यदपत्यं वै तदशक्यं प्रमाणतः । बहुत्वात्परिसंख्यातुं पुत्र पौत्रमनन्तकम् ॥ १,१३.१५० ॥ इमं वंशं प्रजेशानां महतः पुण्यकर्मणाम् । कीर्त्तयन्पुण्यकीर्त्तीनां महतीं सिद्धिमाप्नुयात् ॥ १,१३.१५१ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे कालसद्भाववर्णनं नाम त्रयोदशोंऽध्याय _____________________________________________________________ सुत उवाच अथान्तरेषु सर्वेषु अतीतानागतेष्विह । तुल्याभिमानिनः सर्वे जायन्ते नामरूपतः ॥ १,१४.१ ॥ देवाश्चाष्टविधा ये च तस्मिन्मम्वन्तरेऽधिपाः । ऋषयो मनवश्चैव सर्वे तुल्यप्रयोजनाः ॥ १,१४.२ ॥ महर्षिसर्गः संक्रान्तो वंशं स्वायंभुवस्य तु । विस्तरेणानुपूर्व्या च कीर्त्य मानं निबोधत ॥ १,१४.३ ॥ मनोः स्वायंभूवस्यासन् दश पौत्रास्तु तत्समाः । यैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना ॥ १,१४.४ ॥ ससमुद्रा करवती प्रतिवर्षं निवेशिता । स्वायंभुवेंऽतरे पूर्वमाद्ये त्रेतायुगे तथा ॥ १,१४.५ ॥ प्रियव्रतस्य पुत्रैस्तैः पौत्रैः स्वायंभुवस्य तु । प्रजा सत्त्वतपोयुक्तैस्तैरियं विनिवेशिता ॥ १,१४.६ ॥ प्रियव्रतात्प्रजोपेतान् वीरान्काम्यान्व्यजायत । कन्या सा तु महाभाग कर्दमस्य प्रजा पतेः ॥ १,१४.७ ॥ कन्ये द्वे दश पुत्राश्च सम्राट्कुक्षिश्च ते शुभे । तयोर्वै भ्रातरः शूराः प्रजापतिसमा दश ॥ १,१४.८ ॥ आग्नीध्रश्चाग्निबा हुश्च मेधा मेधातिथिर्वसुः । ज्योतिष्मान् द्युतिमान्हव्यः सवनः सभ्र एव च ॥ १,१४.९ ॥ प्रियव्रतोऽभ्यषिञ्चत्तान्सप्तसप्तसु पार्थिवान् । द्वीपेषु तेषु धर्मेण द्वीपान्ताश्च निबोधत ॥ १,१४.१० ॥ जंबूद्वीपेश्वरं चक्रे आग्नीध्रं सुमहाबलम् । प्लक्षद्वीपेश्वरश्चापि तेन मेधातिथिः कृतः ॥ १,१४.११ ॥ शाल्मले तु वपुष्मन्तं राजानं सोऽभिषिक्तवान् । ज्योतिष्मन्तं कुशद्वीपे राजानं कृतवान्प्रभुः ॥ १,१४.१२ ॥ द्युतिमन्तं च राजानं क्रैञ्चद्वीपेऽभ्यषेचयत् । शाकद्वीपेश्वरं चापि हव्यं चक्रे प्रियव्रतः ॥ १,१४.१३ ॥ पुष्कराधिपतिं चैव सवनं कृतवान्प्रभुः । पुष्करे सवनस्याथ महावीतः सुतोऽभवत् ॥ १,१४.१४ ॥ धातकिश्चापि द्वावेतौ पुत्रौ पुत्रवता वरौ । महावीतं स्मृतं वर्षं तस्य नाम्ना महात्मनः ॥ १,१४.१५ ॥ नाम्ना च धातकेश्चापि धातकीखण्ड उच्यते । हव्यो व्यजनयत्पुत्राञ्शाकद्वीपेश्वराञ्प्रभुः ॥ १,१४.१६ ॥ जलदं च कुमारं च सुकुमारं मणीवकम् । कुसुमोत्तरमोदाकौ सप्तमं च महाद्रुगम् ॥ १,१४.१७ ॥ जलदं जलदस्याथ प्रथमं वर्षमुच्यते । कुमारस्य तु कौमारं द्वितीयं परिकीर्तितम् ॥ १,१४.१८ ॥ सुकुमारं तृतीयं तु सुकुमारस्य तत्स्सतम् । मणीवस्य चतुर्थं तु मणीवकमिहोच्यते ॥ १,१४.१९ ॥ कुसुमोत्तरवर्षं यत्पञ्चमं कुसुमोत्तरम् । मोदकस्यापि मोदाकं षष्ठं वर्षं प्रकीर्त्तितम् ॥ १,१४.२० ॥ महाद्रुमस्य नाम्ना च सप्तमं तन्महाद्रुमम् । तेषां तु नामभिस्तानि सप्त वर्षाणि तत्र वै ॥ १,१४.२१ ॥ क्रैञ्चद्वीपेश्वरस्यापि पुत्रो द्युतिमतस्तु वै । कुशलो मनोनुगस्छोष्णः पावनश्चान्धकारकः ॥ १,१४.२२ ॥ मुनिश्च दुन्दुभिश्चैव सुता द्युतिमतस्तु वै । तेषां स्वनामभिर्देशाः क्रैञ्चद्वीपाश्रयाः शुभाः ॥ १,१४.२३ ॥ कुशलस्य तु देशोऽभूत कौशलो नाम विश्रुतः । देशो मनोनुगस्यापि मानोनुगे इते स्मृतः ॥ १,१४.२४ ॥ उष्णस्योष्णः स्मृतो देशः पावनस्यापि पावनः । अन्धकारस्य देशस्तु आन्धकारः प्रकीर्त्तितः ॥ १,१४.२५ ॥ मुनेश्च मौनिदेशो वै दुन्दुभेर्दुन्दुभिः स्मृतः । एते जनपदाः सप्त क्रैञ्चद्वीपे तु भास्वराः ॥ १,१४.२६ ॥ ज्योतिष्मतः कुशद्वीपे सप्तैवासन्महौजसः । उद्भिज्जो वेणुमांश्चैव वैरथो लवणो धृतिः ॥ १,१४.२७ ॥ षष्ठः प्रभाकरश्चा पि सप्तमः कपिलः स्मृतः । उद्भिज्जं प्रथमं वर्षं द्वितीयं वेणुमण्डलम् ॥ १,१४.२८ ॥ तृतीयं वै रथाकारं चतुर्थं लवणं स्मृतम् । पञ्चमं धृतिमद्वर्षं षष्ठं वर्षं प्रभाकरम् ॥ १,१४.२९ ॥ सप्तमं कपिलं नाम कपिलस्य प्रकीर्त्तितम् । तेषां देशाः कशद्वीपे तत्सनामान एव च ॥ १,१४.३० ॥ आश्रमाचारयुक्ताभिः प्रजाभिः समलङ्कृताः । शाल्मलस्येश्वराः सप्त सुतास्ते च वपुष्मतः ॥ १,१४.३१ ॥ श्वेतश्च हरितश्चैव जीमूतो रोहितस्तथा । वैद्युतो मानसश्चापि सुप्रभः सप्तमस्तथा ॥ १,१४.३२ ॥ श्वेतस्तु देशः श्वेतस्य हरितस्य सुहारितः । जीमूतस्यापि जीमूतो रोहितस्यापि रोहितः ॥ १,१४.३३ ॥ वैद्युतो वैद्युतस्यापि मानसस्य तु मानसः । सुप्रभः सुप्रभस्यापि सप्तैते देशपालकाः ॥ १,१४.३४ ॥ प्लक्ष द्वीपं प्रवक्ष्यामि जंबूद्वीपादनन्तरम् । सप्त मेधातिथे पुत्राः प्लक्षद्वीपेश्वरा नृपाः ॥ १,१४.३५ ॥ ज्येष्ठः शान्तभयो नाम द्वितीयः शिशिरः स्मृतः । सुखोदयस्तृतीयस्तु चतुर्थो नन्द उच्यते ॥ १,१४.३६ ॥ शिवस्तु पेचमस्तेषां क्षेमकः षष्ठ उच्यते । ध्रुवस्तु सप्तमो ज्ञेयः पुत्रा मेधातिथेः स्मृताः ॥ १,१४.३७ ॥ सप्तानां नामभिस्तेषां तानि वर्षाणि सप्त वै । तस्माच्छान्तभयं चैव शिशिरं च सुखोदयम् ॥ १,१४.३८ ॥ आनन्दं च शिवं चैव क्षेमकं च ध्रुवं तथा । तानि तेषां समानानि सप्त वर्षाणि भागशः ॥ १,१४.३९ ॥ निवेशितानि तैस्तानि पूर्वं स्वायंभूवेन्तरे । मेधा तिथेस्तु पुत्रैस्तैः प्लक्षद्वीपेश्वरैर्नृबैः ॥ १,१४.४० ॥ वर्णाश्रमाचारयुक्ताः प्लक्षद्वीपे प्रजाः कृताः । प्लक्षद्वीपादिषु त्वेषु शाकद्वीपान्तिकेषु वै ॥ १,१४.४१ ॥ ज्ञेयः पञ्चसु धर्मो वै वर्णाश्रमविभाजकः । सुखमायुश्च रूपं च बलं धर्मश्च नित्यशः ॥ १,१४.४२ ॥ पञ्चस्वेतेषु द्वीपेषु सर्वसाधा रणं स्मृतम् । प्रक्षद्वीपः परिष्क्रान्तो जंबूद्वीपं निबोधत ॥ १,१४.४३ ॥ आग्नीध्रं ज्येष्ठदायादं काम्यापुत्रं महाबलम् । प्रियव्रतोऽभ्य षिञ्चत्तं जंबूद्वीपेश्वरं नृपम् ॥ १,१४.४४ ॥ तस्य पुत्रा बभूवुर्हि प्रजापतिसमा नव । ज्येष्ठो नाभिरिति ख्यातस्तस्य किंपुरुषोऽनुजः ॥ १,१४.४५ ॥ हरिवर्षस्तृतीयस्तु चतुर्थोऽभूदिलावृतः । रम्यस्तु पञ्चमः पुत्रो हिरण्वान् षष्ठ उच्यते ॥ १,१४.४६ ॥ कुरुस्तु सप्तमस्तेषां भद्राश्वश्चाष्टमः स्मृतः । नवमः केतुमालश्च तेषां देशान्निबोधत ॥ १,१४.४७ ॥ नाभेस्तु दक्षिणं वर्षं हिमाख्यं तु पिता ददौ । हेमकूटं तु यद्वर्षं ददौ किपुरुषाय तत् ॥ १,१४.४८ ॥ नैषधं यत्स्मृतं वर्षं हरिवर्षाय तं ददौ । मध्यमं यत्सुमेरोस्तु ददौ स तदिलावृतम् ॥ १,१४.४९ ॥ नीलं तु यत्स्मृतं वर्षं रम्यायैतप्तिता ददौ । श्वेतं यदुत्तरं तस्मात्पित्रा दत्तं हिरण्वते ॥ १,१४.५० ॥ यदुत्तरे शृङ्गवतो वर्षं तत्कुरवे ददौ । साल्यवन्तं तथा वर्षं भद्राश्वाय न्यवेदयत् ॥ १,१४.५१ ॥ गन्धमादनवर्षं तु केतुमाले न्यवेदयत् । इत्येतानि मयोक्तानि नव वर्षाणि भागशः ॥ १,१४.५२ ॥ आग्नी ध्रस्तेषु वर्षेषु पुत्रांस्तानभ्यषेचयत् । यथाक्रमं स धर्मात्मा ततस्तु तपसि स्थितः ॥ १,१४.५३ ॥ इत्येतौः सप्तभिः कृत्स्ना सप्तद्वीपा निवे शिताः । प्रियव्रतस्य पुत्रैस्तैः पौतैः स्वायंभुवस्य च ॥ १,१४.५४ ॥ एवं वर्षेषु सर्वेषु सन्निवेशाः पुनः पुनः । क्रियन्ते प्रलये वृत्ते सप्त सप्तसु पार्थिवैः ॥ १,१४.५५ ॥ एवं स्वभावः कल्पानां द्वीपानां च निवेशने । यानि किंपुरुषाद्यानि वर्णाण्यष्टौ श्रुतानि तु ॥ १,१४.५६ ॥ तेषां स्वभावतः सिद्धिः सुखप्रायमयत्नतः । विपर्ययो न तेष्वस्ति जरामृत्युभयं न च ॥ १,१४.५७ ॥ धर्माधर्मौं न तेष्वास्ता नोत्तमाधममध्यमाः । न तेष्वस्ति युगावस्था क्षेत्रेष्वष्टासु सर्वशः ॥ १,१४.५८ ॥ नाभेर्निसर्गं वक्ष्यामि हिमाह्वेऽस्मिन्निबोधत । नाभिस्त्वज नयत्पुत्रं मेरुदेव्यां महाद्युतिम् ॥ १,१४.५९ ॥ ऋषभं पार्थिवश्रेष्ठं सर्वक्षत्रस्य पूर्वजम् । ऋषभाद्भरतो जज्ञे वीरः पुत्रशताग्रजः ॥ १,१४.६० ॥ सोभिषिच्यर्षभः पुत्रं महाप्रव्रज्यया स्थितः । हिमाह्वं दक्षिणं वर्षं भरताय न्यवेदयत् ॥ १,१४.६१ ॥ तस्मात्तु भारतं वर्षं तस्य नाम्ना विदुर्बुधाः । भरतस्यात्मजो विद्वान्सुमतिर्नाम धार्मिकः ॥ १,१४.६२ ॥ बभूव तस्मिन् राज्ये तंभरतस्त्वभ्यषेचयत् । पुत्रसंक्रामितश्रीस्तु वनं राजा विवेश सः ॥ १,१४.६३ ॥ तेजसस्तत्सुतश्चापि प्रजापतिरमित्रजित् । तेजसस्यात्मजो विद्वानिन्द्रद्युम्न इति स्मृतः ॥ १,१४.६४ ॥ परमेष्ठी सुतश्चापि निधने तस्य चाप्यभूत् । प्रतीहारः कुलं तस्य नाम्ना जज्ञे तदन्वयः ॥ १,१४.६५ ॥ प्रतिहर्तेति विख्यातो जज्ञे तस्यापि धीमतः । उन्नेता प्रतिहर्तुस्तु भूमा तस्य सुतः स्मृतः ॥ १,१४.६६ ॥ उद्गीथस्तस्य पुत्रोऽभूतप्रस्ताविश्चापि तत्सुतः । प्रस्तावेस्तु विभुः पुत्रः पृथुस्तस्य सुतोऽभवत् ॥ १,१४.६७ ॥ पृथोश्चापि सुतो नक्तो नक्तस्यापि गयः सुतः । गयस्यापि नरः पुत्रो नरस्यापि सुतो विराट् ॥ १,१४.६८ ॥ विराट्सुतो महावीर्यो धीमांस्तस्य सुतोऽभवत् । धीमतश्च महान्पुत्रो महतश्चापि भौवनः ॥ १,१४.६९ ॥ भौवनस्य सतस्त्वष्टा विरजास्तस्य चात्मजः । रजा विरजसः पुत्रः शतजिद्रजसस्तथा ॥ १,१४.७० ॥ तस्य पुत्रशतं त्वासीद्राजानः सर्व एव तु । विश्वज्योतिष्प्रधानास्ते यैरिमा वर्द्धिताः प्रजाः ॥ १,१४.७१ ॥ तैरिदं भारतं वर्षं सप्तद्वीपमिहाङ्कितम् । तेषां वंशप्रसूतैस्तु भुक्तेयं भारती पुरा ॥ १,१४.७२ ॥ कृतत्रेतादियुक्तास्तु युगाख्या ह्येकसप्ततिः । येऽतीतास्तैर्युगैः सार्धं राजानस्ते तदन्वयाः ॥ १,१४.७३ ॥ स्वायंभुवेंऽतरे पूर्वं शतशोऽथ सहस्रशः । एवं स्वायं भुवः सर्गो येनेदं पूरितं जगत् ॥ १,१४.७४ ॥ ऋषिभिर्दैवतैश्चापि पिर्तृगन्धवराक्षसैः । यक्षभूतपिशाचैश्च मनुष्यमृगपक्षिभिः । तेषां सृष्टिरियं प्रोक्ता युगैः सह विवर्त्तते ॥ १,१४.७५ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे प्रियव्रतवंशानुकीर्त्तनं नाम चतुदशोऽध्यायः _____________________________________________________________ सूत उवाच एवं प्रजासन्निवेशं श्रुत्वा वै शांशपायनिः । पप्रच्छ नियतं सूतं पृथिव्युद धिविस्तरम् ॥ १,१५.१ ॥ कति द्वीपा समुद्रा वा पवता वा कति स्मृताः । कियन्ति चैव वर्षाणि तेषु नद्यश्च काः स्मृताः ॥ १,१५.२ ॥ महा भूतप्रमाणं च लोकालोकं तथैव च । पर्यायं परिमाणं च गतिं चन्द्रार्कयोस्तथा । एतत्प्रबूहि नः सर्वं विस्तरेण यथार्थतः ॥ १,१५.३ ॥ सूत उवाच हन्त वोऽहं प्रवक्ष्यामि पृथिव्यायामविस्तरम् ॥ १,१५.४ ॥ संख्यां चैव समुद्राणां द्वीपानां चैव विस्तरम् । द्वीपभेदसहस्राणि सप्तस्वन्तर्गतानि च ॥ १,१५.५ ॥ न शक्यन्ते क्रमेणेह वक्तुं यैः सततं जगत् । सप्त द्वीपान्प्रवक्ष्यामि चन्द्रादित्यग्रहैः सह ॥ १,१५.६ ॥ तेषां मनुष्या स्तर्क्केण प्रमाणानि प्रचक्षते । अचिन्त्याः खलु ये भावा न तांस्तर्केण साधयेत् ॥ १,१५.७ ॥ प्रकृतिभ्यः परं यच्च तदचिन्त्यं प्रचक्षते । नववर्षं प्रवक्ष्यामि जंबूद्वीपं यथातथम् ॥ १,१५.८ ॥ विस्तरान्मण्डलाच्चैव योजनैस्तन्निबोधत । शतमेकं सहस्राणां योजनाग्रात्समन्ततः ॥ १,१५.९ ॥ नानाजनपदाकीर्णः पुरैश्च विविधैश्शुभैः । सिद्धचारणसंकीणः पर्वतैरुपशोभितः ॥ १,१५.१० ॥ सर्वधातुनिबद्धैश्च शिलाजाल समुद्भवैः । पर्वतप्रभवाभिश्च नदीभिः सर्वतस्ततः ॥ १,१५.११ ॥ जंबूद्वीपः पृथुः श्रीमान् सर्वतः पृथुमण्डलः । नवभिश्चावृतः सर्वो भुवनैर्भूतभावनैः ॥ १,१५.१२ ॥ लवणेन समुद्रेण सर्वतः परिवारितः । जंबूद्वीपस्य विस्तारात्समेन तु समन्ततः ॥ १,१५.१३ ॥ प्रागायताः सूपर्वाणः षडिमे वर्षपर्वताः । अवगाढा ह्युभयतः मसुद्रौ पूर्वपश्चिमौ ॥ १,१५.१४ ॥ हिमप्रायश्च हिमवान् हेमकूटश्च हेमवान् । सर्वर्त्तुषु सुखश्चापि निषधः पर्वतो महान् ॥ १,१५.१५ ॥ चतुर्वर्णश्च सौवर्णो मेरुश्चारुतमः स्मृतः । द्वात्रिंशच्च सहस्राणि विस्तीर्णः स च मूर्द्धनि ॥ १,१५.१६ ॥ वृत्ताकृतिप्रमाणश्च चतुरस्रः समुच्छ्रितः । नानावर्णास्तु पार्श्वेषु प्रजापतिगुणान्वितः ॥ १,१५.१७ ॥ नाभिबन्धनसंभूतो ब्रह्मणोऽव्यक्तजन्मनः । पूर्वतर्ः श्वेतवर्णश्च ब्राह्मणस्तस्य तेन तत् ॥ १,१५.१८ ॥ पार्श्वमुत्तरतस्तस्य रक्तवर्मः स्वभावतः । तेनास्य क्षत्त्रभावस्तु मेरोर्नानार्थकारणात् ॥ १,१५.१९ ॥ पीतश्च दक्षिणेनासौ तेन वैश्यत्वमिष्यते । भृङ्गपत्रनिभश्चापि पश्चिमेन समाचितः ॥ १,१५.२० ॥ तेनास्य शूद्रभावः स्यादिति वर्णाः प्रकीर्त्तिताः । वृत्तः स्वभावतः प्रोक्तो वर्णतः परिमाणतः ॥ १,१५.२१ ॥ नीलश्च वैदुर्यमयः श्वेतः घुक्लो हिरण्मयः । मयुरबर्हवर्णस्तु शातकैंभश्च शृङ्गवान् ॥ १,१५.२२ ॥ एते पर्वतराजानः सिद्धचारणसेविताः । तेषामन्तरविष्कंभो नवसाहस्र उच्यते ॥ १,१५.२३ ॥ मध्ये त्विलावृतं नाम महामेरोः समन्तमः । नवैवं तु सहस्राणि विस्तीर्णं सर्वतस्तु तत् ॥ १,१५.२४ ॥ मध्ये तस्य महामेरुर्विधूम इव पावकः । वेद्यर्द्धं दक्षिणं मेरोरुत्तरार्द्धं तथोत्तरम् ॥ १,१५.२५ ॥ वर्षाणि यानि षट्चैव तेषां ये वर्षपर्वताः । द्वे द्वे सहस्रे विस्तीर्णा योजनानां समुच्छ्रयात् ॥ १,१५.२६ ॥ जंबूद्वीपस्य विस्तारात्तेषामायाम उच्यते । योजनानां सहस्राणि शतं द्वावायतौ गिरी ॥ १,१५.२७ ॥ नीलश्च निषधश्चैव ताभ्यां हीनास्तु ये परे । श्वेतश्च हेमकूटश्च हिमवाञ्छृङ्गवांस्तथा ॥ १,१५.२८ ॥ नवती द्वे अशीती द्वे सहस्राण्यायतास्तु तेः । तेषां मध्ये जनपदास्तानि वर्णाणि सप्त वै ॥ १,१५.२९ ॥ प्रपातविषमैस्तैस्तु पर्वतैरावृतानि तु । संततानि नदीभेदैरगम्यानि परस्परम् ॥ १,१५.३० ॥ वसंति तेषु सत्त्वानि नानाजातीनि सर्वशः । इदं हैमवतं वर्षं भारतं नाम विश्रुतम् ॥ १,१५.३१ ॥ हेमकूटं परं ह्यस्मा न्नान्ना किंषुरुपं स्मृतम् । नैषधं हेमकूटात्तु हरिवर्षं तदुच्यते ॥ १,१५.३२ ॥ हरिवर्षात्परं चापि मेरोश्व तदिलावृतम् । इलावृतात्पिरं नीलं सम्यकं नाम विश्रुतम् ॥ १,१५.३३ ॥ रम्यकात्परतर्ः श्वेतं विश्रुतं तद्धिरण्मयम् । हिरण्मयात्परं चैव शृङ्गवत्तः कुरु स्मृतम् ॥ १,१५.३४ ॥ धनुःसंस्थे तु विज्ञेये द्वे वर्षे दक्षिणोत्तरे । दीर्घाणि तत्र चत्वारि मध्यमं तदिलावृतम् ॥ १,१५.३५ ॥ अर्वाक्च निषधस्याथ वेद्यर्द्धं दक्षिणं स्मृतम् । परं नीलवतो यच्च वेद्यर्द्धं तु तदुत्तरम् ॥ १,१५.३६ ॥ वेद्यर्द्धे दक्षिणे त्रीणि त्रीणि वर्षाणि चोत्तरे । तयोर्मध्ये तु विज्ञेयो मेरुर्मध्य इलावृतम् ॥ १,१५.३७ ॥ दक्षिणेन तु नीलस्य निषधस्योत्तरेम तु । उदगायेतो महाशैलो माल्यवान्नाम नामतः ॥ १,१५.३८ ॥ योजनानां सहस्रं तु आनील निषधायतः । आयामतश्चतुस्त्रिंशत्सहस्राणि प्रकीर्तितः ॥ १,१५.३९ ॥ तस्य प्रतीच्यां विज्ञेयः पर्वतो गन्धमादनः । आयामतोऽथ विस्तारान्माल्यवा नितिविश्रुतः ॥ १,१५.४० ॥ परिमण्डलयोर्मेरुर्मध्ये कनकपर्वतः । चतुर्वणः स सौवर्णः चतुरस्रः समुच्छ्रितः ॥ १,१५.४१ ॥ सुमेरुः शुशुभेशुभ्रो राजव त्समधिष्ठितः । तरुणादित्यवर्णाभो विधूम इव पावकः ॥ १,१५.४२ ॥ योजनानां सहस्राणि चतुरशीतरुच्छ्रितः । प्रविष्टः षोडशाधस्ताद्विस्तृतः षोडशैव तु ॥ १,१५.४३ ॥ शरावसंस्थितत्वात्तु द्वात्रिंशन्मूर्ध्निविस्तृतः । विस्तारात्रिगुणस्तस्य परिणाहः समन्ततः ॥ १,१५.४४ ॥ मण्डलेन प्रमाणेन त्र्यस्रे मानं तदिष्यते । चत्वारिंशत्सहस्राणि योजनानां समन्ततः ॥ १,१५.४५ ॥ अष्टाभिरधिकानि स्युस्त्र्यस्रे मानं प्रकीर्त्तितम् । चतुरस्रेण मानेन परिणाहः समन्ततः ॥ १,१५.४६ ॥ चतुः षष्टिसहस्राणि योजनानां विधीयते । स पर्वतो महादिव्यो दिव्यौषधिसमन्वितः ॥ १,१५.४७ ॥ भुवनैरावृतः सर्वो जातरूपमयैः शुभैः । तत्र देवगणाः सर्वे गन्धर्वोरगराक्षसाः ॥ १,१५.४८ ॥ शैलराजे प्रदृश्यन्ते शुभाश्चाप्सरसां गणाः । स तु मेरुः परिवृतो भुवनैर्भूतभावनैः ॥ १,१५.४९ ॥ चत्वारो यस्य देशा वै चतुःपार्श्वेष्वधिष्ठिताः । भद्राश्वा भरताश्वैव केतुमालाश्च पश्चिमाः ॥ १,१५.५० ॥ उत्तराः कुरवश्चैव कृतपुण्यप्रतिश्रयाः । गन्धमादनपर्श्वे तु परैषापरगण्डिका ॥ १,१५.५१ ॥ सर्वर्त्तुरमणीया च नित्यं प्रमुदिता शिवा । द्वात्रिंशत्तु सहस्राणि योजनैः पूर्वपश्चिमात् ॥ १,१५.५२ ॥ आयामतश्चतुस्त्रिंशत्सहस्राणि प्रमाणतः । तत्र ते शुभकर्माणः केतुमालाः प्रतिष्ठिताः ॥ १,१५.५३ ॥ तत्र काला नराः सर्वे महासत्त्वा महाबलाः । स्त्रियश्चोत्पल पत्राभाः सर्वास्ताः प्रियदर्शनाः ॥ १,१५.५४ ॥ तत्र दिव्यो महावृक्षः पनसः पड्रसाश्रयः । ईश्वरो ब्रह्मणः पुत्रः कामचारी मनोजवः ॥ १,१५.५५ ॥ तस्य पीत्वा फलरसं जीवन्ति च समायुतम् । पार्श्वे माल्यवतश्चापि पूर्वेऽपूर्वा तु गण्डिका ॥ १,१५.५६ ॥ आयामादथ विस्ताराद्यथैषापरगण्डिका । भद्राश्वास्तत्र विज्ञेया नित्यं मुदितमानसाः ॥ १,१५.५७ ॥ भद्रशालवनं चात्र कालाम्रस्तु महाद्रुमः । तत्र ते पुरुषाः स्वेता महोत्साहा बलान्विताः ॥ १,१५.५८ ॥ स्त्रियः कुमुदवर्णाभाः सुन्दर्यः प्रियदर्शनाः । चन्द्रप्रभाश्चन्द्रवर्णाः पूर्णचन्द्र निभाननाः ॥ १,१५.५९ ॥ चन्द्रशीतलगात्र्यस्ताः स्त्रिय उत्पलगन्धिकाः । दशवर्षसहस्राणि तेषामायुरनामयम् ॥ १,१५.६० ॥ कालाम्रस्य रसं पीत्वा सर्वे च स्थिरयौवनाः । दक्षिणेन तु श्वेतस्य नीलस्यैवोत्तरेण च ॥ १,१५.६१ ॥ वर्षं रमणकं नाम जायन्ते तत्र मानवाः । रतिप्रधाना विमला जरादौर्गन्ध्यवर्जिताः ॥ १,१५.६२ ॥ शुक्लाभिजनसंपन्नाः सर्वे च प्रियदर्शनाः । तत्रापि सुमहान्वृक्षो न्यग्रोधो रोहितो महान् ॥ १,१५.६३ ॥ तस्यापि ते फलरसं पिबन्तो वर्त्तयन्ति वै । दशवर्षसहस्राणि शतानि दश पञ्च च ॥ १,१५.६४ ॥ जीवन्ति ते महाभागाः सदा त्दृष्टा नरोत्तमाः । दक्षिणे वै शृङ्गवतः श्वेतस्याप्युत्तरेण च ॥ १,१५.६५ ॥ वर्षं हैरण्वतं नाम यत्र हैरण्वती नदी । महाबलाः सुतेजस्का जायन्ते तत्र मानवाः ॥ १,१५.६६ ॥ यक्षा वीरा महासत्त्वा धनिनः प्रियदर्शनाः । एकादशसहस्राणि वर्षाणां ते महौजसः ॥ १,१५.६७ ॥ आयुः प्रमाणं जीवन्ति शतानि दश पञ्च च । यस्मिन्वर्षे महावृक्षो लकुचः षड्रसाश्रयः ॥ १,१५.६८ ॥ तस्य पीत्वा फलरसं ते जीवन्ति निरामयाः । त्रीणि शृङ्गवतः शृङ्गाण्युच्छ्रितानि महान्ति च ॥ १,१५.६९ ॥ एकं मणिमयं तेषामेकं चैव हिरण्मयम् । सर्वरत्नमयं चैकं भवनैरुपशोभितम् ॥ १,१५.७० ॥ उत्तरे वै शृङ्गावतः समुद्रस्य च दक्षिणे । कुरवस्तत्र तद्वर्षं पुण्यं सिद्धनिषेवितम् ॥ १,१५.७१ ॥ तत्र वृक्षा मधु फला नित्यपुष्पफलोपगाः । वस्त्राणि च प्रसूयन्ते फलेष्वाभरणानि च ॥ १,१५.७२ ॥ सर्वकामप्रदास्तत्र केचिद्वक्षा मनोरमाः । गन्धवर्णरसो पेतं प्रक्षरन्ति मधूत्तमम् ॥ १,१५.७३ ॥ अपरे क्षीरिणो नाम वृक्षास्तत्र मनोरमाः । ये क्षरन्ति सदा क्षीरं षड्रसं ह्यमृतोपमम् ॥ १,१५.७४ ॥ सर्वा मणिमयी भूमिः सूक्ष्मकाञ्चनवालुका । सर्वर्तुसुखसंपन्ना न्निष्पङ्का नीरजा शुभा ॥ १,१५.७५ ॥ देवलोकच्युतास्तत्र जायन्ते मानवाः शुभाः । शुक्लाभिजनसंपन्नाः सर्वे च स्थिरयौवनाः ॥ १,१५.७६ ॥ मिथुनानि प्रसूयन्ते स्त्रियश्चाप्सरसः समाः । तेषां ते क्षीरिणां क्षीरं पिबन्ति ह्यमृतो पमम् ॥ १,१५.७७ ॥ मिथुनं जायते सद्यः समं चैव विवर्द्धते । समं शीलं च रूपं च प्रियता चैव तत्समा ॥ १,१५.७८ ॥ अन्योन्यमनुरक्ताश्च चक्रवाकसधर्मिणः । अनामया ह्यशोकाश्च नित्यं सुखनिषेविणः ॥ १,१५.७९ ॥ त्रयोदशसहस्राणि शतानि दश पञ्च च । जीवन्ति ते महावीर्या न चान्यस्त्रीनिषेविणः ॥ १,१५.८० ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वीतीयेऽनुषङ्गपादे पृथिव्यायामविस्तरो नाम पञ्चदशोऽध्यायः _____________________________________________________________ सूत उवाच एवमेव निसर्गो वै वर्षाणां भारते शुभे । दृष्टः परमतत्त्वज्ञैर्भूयः किं वर्णयामि वः ॥ १,१६.१ ॥ ऋषिरुवाच यदिदं भारतं वर्षं यस्मिन्स्वायंभुवादयः । चतुर्दशैते मनवः प्रजासर्गेऽभवन्पुनः ॥ १,१६.२ ॥ एतद्वेदितुमिच्छामस्तन्नो निगद सत्त्मः । एतच्छ्रुतवचस्तेषामब्रवीद्रोमहर्षणः ॥ १,१६.३ ॥ अत्र वो वर्णयिष्यामि वर्षेऽस्मिन् भारते प्रजाः । इदं तु मध्यमं चित्रं शुभाशुभफलोदयम् ॥ १,१६.४ ॥ उत्तरं यत्ममुद्रस्य हिमवद्दक्षिणं च यत् । वर्षं तद्भारतं नाम यत्रेयं भारती प्रजा ॥ १,१६.५ ॥ भरणाच्च प्रजानां वै मनुर्भरत उच्यते । निरुक्तवचनाच्चैवं वर्षं तद्भारतं स्मृतम् ॥ १,१६.६ ॥ इतः स्वर्गश्च मोक्षश्च मध्यश्चान्तश्च गम्यते । न खल्वन्यत्र मर्त्यानां भूमौ कर्म विधीयते ॥ १,१६.७ ॥ भारतस्यास्य वर्षस्य नव भेदान्निबोधत । समुद्रातरिता ज्ञेयास्ते त्वगम्याः परस्परम् ॥ १,१६.८ ॥ इन्द्रद्वीपः कशेरूमांस्ताम्रवर्णो गभस्तिमान् । नागद्वीपस्तथा सौम्यो गान्धर्वस्त्वथ वारुणः ॥ १,१६.९ ॥ अयं तु नवमस्तेषां द्वीपः सागरसंवृतः । योजनानां सहस्रे तु द्वीपोऽयं दक्षिणोत्तरात् ॥ १,१६.१० ॥ आयतो ह्याकुमार्य्या वै चागङ्गाप्रभवाच्च वै । तिर्यगुत्तरविस्तीर्मः सहस्राणि नवैव तु ॥ १,१६.११ ॥ द्वीपो ह्युपनिविष्टोऽयं म्लेच्छैरन्तेषु सर्वशः । पूर्वे किराता ह्यस्यान्ते पश्चिमे यवनाः स्मृताः ॥ १,१६.१२ ॥ ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भागशः । इज्यायुधवणिज्याभिर्वर्त्तयन्तो व्यवस्थिताः ॥ १,१६.१३ ॥ तेषां संव्यवहारोऽत्र वर्त्तते वै परस्परम् । धर्मार्थकामसंयुक्तो वर्णानां तु स्वकर्मसु ॥ १,१६.१४ ॥ संकल्पः पञ्चमानां च ह्याश्रमाणां यथाविधि । इह स्वर्गापवर्गार्थं प्रवृत्तिर्येषु मानुषी ॥ १,१६.१५ ॥ यस्त्वयं नवमो द्वीपस्तिर्यगायाम उच्यते । कृत्स्नं जयति यो ह्येनं सम्राडित्यभिधीयते ॥ १,१६.१६ ॥ अयं लोकस्तु वै सम्राडन्तरिक्षं विराट्स्मृतम् । स्वराडसौ स्मृतो लौकः पुनर्वक्ष्यामि विस्तरात् ॥ १,१६.१७ ॥ सप्तैवास्मिन्सुपर्वाणो विश्रुताः कुल पर्वताः । महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्वतः ॥ १,१६.१८ ॥ विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः । तेषां सहस्रश्चान्ये पर्व तास्तु समीपगाः ॥ १,१६.१९ ॥ अविज्ञाताः सारवन्तो विपुलाश्चित्रसानवः । संदरः पर्वतश्रेष्ठो वैहारो दुर्दुरस्तथा ॥ १,१६.२० ॥ कोलाहलः ससुरसो मैनाको वैद्युतस्तथा । वातन्धमो नागगिरिस्तथा पाण्डुरपर्वतः ॥ १,१६.२१ ॥ तुङ्गप्रस्थः कृष्णगिरिर्गोधनो गिरिरेव च । पुष्पगिर्युज्जयन्तौ च शैलो रैवतकस्तथा ॥ १,१६.२२ ॥ श्रीपर्वतश्चित्रकूटः कूटशैलो गिरिस्तथा । अन्ये तेभ्योऽपरिज्ञाता ह्रस्वाः स्वलपोपजी विनः ॥ १,१६.२३ ॥ तैर्विमिश्रा जनपदा आर्या म्लेच्छाश्च भागशः । पीयन्ते यैरिमा नद्यो गङ्गा सिंधु सरस्वती ॥ १,१६.२४ ॥ शतद्रुश्चन्द्र भागा च यमुना सरयूस्तथा । इरावती वितस्ता च विपाशा देविका कुहूः ॥ १,१६.२५ ॥ गोमती धूतपापा च बुद्बुदा च दृषद्वती । कौशकी त्रिदिवा चैव निष्ठीवी गेडकी तथा ॥ १,१६.२६ ॥ चक्षुर्लोहित इत्येता हिमवत्पादनिस्सृताः । वेदस्मृतिर्वेदवती वृत्रघ्नी सिंधु रेव च ॥ १,१६.२७ ॥ वर्णाशा नन्दना चैव सदानीरा महानदी । पाशा चर्मण्वतीनूपा विदिशा वेत्रवत्यपि ॥ १,१६.२८ ॥ क्षिप्रा ह्यवन्ति च तथा पारियात्राश्रयाः स्मृताः । शोणो महानदश्चैव नर्म्मदा सुरसा क्रिया ॥ १,१६.२९ ॥ मन्दाकिनी दशार्णा च चित्रकूटा तथैव च । तमसा पिप्पला श्येना करमोदा पिशाचिका ॥ १,१६.३० ॥ चित्रोपला विशाला च बञ्जुला वास्तुवाहिनी । सनेरुजा शुक्तिमती मङ्कुती त्रिदिवा क्रतुः ॥ १,१६.३१ ॥ ऋक्षवत्संप्रसूतास्ता नद्यो मणिजलाः शिवाः । तापी पयोष्णी निर्विन्ध्या सृपा च निषधा नदी ॥ १,१६.३२ ॥ वेणी वैतरणी चैव क्षिप्रा वाला कुमुद्वती । तोया चैव महागौरी दुर्गा वान्नशिला तथा ॥ १,१६.३३ ॥ विन्ध्यपादप्रसूतास्ता नद्यः पुण्यजलाः शुभाः । गोदावरी भीमरथी कृष्णवेणाथ बञ्जुला ॥ १,१६.३४ ॥ तुङ्गभद्रा सुप्रयोगा बाह्या कावेर्यथापि च । दक्षिणप्रवहा नद्यः सह्य पादाद्विनिःस्मृताः ॥ १,१६.३५ ॥ कृतमाला ताम्रपर्णी पुष्पजात्युत्पलावती । नद्योऽभिजाता मलयात्सर्वाः शीतजलाः शुभाः ॥ १,१६.३६ ॥ त्रिसामा ऋषिकुल्या च बञ्जुला त्रिदिवाबला । लाङ्गूलिनी वंशधरा महेन्द्रतनयाः स्मृताः ॥ १,१६.३७ ॥ ऋषिकुल्या कुमारी च मन्दगा मन्दगामिनी । कृपा पलाशिनी चैव शुक्तिमत्प्रभवाः स्मृताः ॥ १,१६.३८ ॥ तास्तु नद्यः सरस्वत्यः सर्वा गङ्गाः समुद्रगाः । विश्वस्य मातरः सर्वा जगत्पापहराः स्मृताः ॥ १,१६.३९ ॥ तासां नद्युपनद्योऽन्याः शतशोऽथ सहस्रशः । तास्विमे कुरुपाञ्चालाः शाल्वा माद्रेयजाङ्गलाः ॥ १,१६.४० ॥ शूरसेना भद्रकारा बोधाः सहपटच्चराः । मत्स्याः कुशल्याः सौशल्याः कुन्तलाः काशिकोशलाः ॥ १,१६.४१ ॥ गोधा भद्राः करिङ्गाश्च मागधाश्चोत्कलैः सह । मध्यदेश्या जनपदाः प्रायशस्त्त्र कीर्त्तिताः ॥ १,१६.४२ ॥ सह्यस्य चौत्तरान्तेषु यत्र गोदावरी नदी । पृथिव्यामपि कृत्स्नायां स प्रदेशो मनोरमः ॥ १,१६.४३ ॥ तत्र गोवर्धनं नाम पुरं रामेण निर्मितम् । रामप्रियाथ स्वर्गीया वृक्ष दिव्यास्त थौषधीः ॥ १,१६.४४ ॥ भरद्वाजेन मुनिना तत्प्रियार्थेऽवरोपिताः । अतः पुर्वरोद्देशस्तेन जज्ञे मनोरमः ॥ १,१६.४५ ॥ बाह्लीका वाटधानाश्च आभीरा कालतोयकाः । अपरान्ताश्च मुह्माश्च पाञ्चलाश्चर्ममण्डलाः ॥ १,१६.४६ ॥ गान्धारा यवनाश्चैव सिंधुसौवीरमण्डलाः । चीनाश्चैव तुषाराश्च पल्लवा गिरिगह्वराः ॥ १,१६.४७ ॥ शाका भद्राः कुलिन्दाश्च पारदा विन्ध्यचूलिकाः । अभीषाहा उलूताश्च केकया दशामालिकाः ॥ १,१६.४८ ॥ ब्राह्मणाः क्षत्रियाश्चैव वैश्यशूद्रकुलानि तु । कांवोजा दरदाश्चैव बर्बरा अङ्गलौहिकाः ॥ १,१६.४९ ॥ अत्रयः सभरद्वाजाः प्रस्थलाश्च दशेरकाः । लमकास्तालशालाश्च भूषिका ईजिकैः सह ॥ १,१६.५० ॥ एते देशा उदीच्या वै प्राच्यान्देशान्निबोधत । अङ्गवङ्गा श्चोलभद्राः किरातानां च जातयः । तोमरा हंसभङ्गाश्च काश्मीरास्तङ्गणास्तथा ॥ १,१६.५१ ॥ झिल्लिकाश्चाहुकाश्चैव हूणदर्वास्तथैव च ॥ १,१६.५२ ॥ अन्ध्रवाका मुद्गरका अन्तर्गिरिबहिर्गिराः । ततः प्लवङ्गवो ज्ञेया मलदा मलवर्तिकाः ॥ १,१६.५३ ॥ समन्तराः प्रावृषेया भार्गवा गोपपार्थिवाः । प्राग्ज्योतिषाश्च पुण्ड्राश्च विदेहास्ताम्रलिप्तकाः ॥ १,१६.५४ ॥ मल्ला मगधगोनर्दाः प्राच्यां जनपदाः स्मृताः । अथापरे जनपदा दक्षिणापथवासिनः ॥ १,१६.५५ ॥ पण्ड्याश्च केरलाश्चैव चोलाः कुल्यास्तथैव च । सेतुका मूषिकाश्चैव क्षपणा वनवासिकाः ॥ १,१६.५६ ॥ माहराष्ट्रा महिषिकाः कलिङ्गश्चैव सर्वशः । आभीराश्च सहैषीका आटव्या सारवास्तथा ॥ १,१६.५७ ॥ पुलिन्दा विन्ध्यमौलीया वैदर्भा दण्डकैः सह । पौरिका मौलिकाश्चैव श्मका भोगवर्द्धिनाः ॥ १,१६.५८ ॥ कोङ्कणाः कन्तलाश्चान्ध्राः कुलिन्दाङ्गारमारिषाः । दाक्षिणाश्चैव ये देशा अपरांस्तान्निबोधत ॥ १,१६.५९ ॥ सूर्य्यारकाः कलिवना दुर्गालाः कुन्तरौः सहः । पौलेयाश्च किराताश्च रूपकास्तापकैः सह ॥ १,१६.६० ॥ तथा करीतयश्चैव सर्वे चैव करन्धराः । नासिकाश्चैव ये चान्ये ये चैवान्तरनर्मदाः ॥ १,१६.६१ ॥ सहकच्छाः समाहेयाः सह सारस्वतैरपि । कच्छिपाश्च सुराष्ट्राश्च आनर्ताश्चर्बुदैः सह ॥ १,१६.६२ ॥ इत्येते अपरान्ताश्च शृणुध्वं विन्ध्यवासिनः । मलदाश्च करूथाश्च मेकलाश्चैत्कलैः सह ॥ १,१६.६३ ॥ उत्तमानां दशार्णाश्च भोजाः किष्किन्धकैः सह । तोशलाः कोशलाश्चैव त्रैपुरा वैदिशास्तथा ॥ १,१६.६४ ॥ तुहुण्डा बर्बराश्चैव षट्पुरा नैषधैः सह । अनूपास्तुण्डिकेराश्च वीतिहोत्रा ह्यवन्तयः ॥ १,१६.६५ ॥ एते जनपदाः सर्वे विन्ध्यपृष्ठनिवासिनः । अतो देशान्प्रवक्ष्यामि पर्वताश्रयिणश्च ये ॥ १,१६.६६ ॥ निहीरा हंसमार्गाश्च कुपथास्तङ्गणाः शकाः । अपप्राव रणाश्चैव ऊर्णा दर्वाः सहूहुकाः ॥ १,१६.६७ ॥ त्रिगर्त्ता मण्डलाश्चैव किरातास्तामरैः सह । चत्वारि भारते वर्षे युगानि ऋषयोऽब्रुवन् ॥ १,१६.६८ ॥ कृतं त्रेतायुगं चैव द्वापरं तिष्यमेव च । तेषां निसर्गं वक्ष्यामि उपरिष्टादशेषतः ॥ १,१६.६९ ॥ इति श्रीब्रदृमहापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे भारतवर्मतं नाम षोडशोऽध्यायः _____________________________________________________________ ऋषय ऊचुः यच्च किंपुरुषं वर्षं हरिवर्षं तथैव च । आचक्ष्व नो यथातत्त्वं कीर्त्तितं भारतं त्वया ॥ १,१७.१ ॥ सूत उवाच शुश्रूषा यत्र वो विप्रास्तच्छृणुध्वमतन्द्रिताः । प्लक्षखण्डः किंपुरुषे सुमहान्नन्दनोपमः ॥ १,१७.२ ॥ दशवर्षसहस्राणि स्थितिः किंपुरुषे स्मृता । सुवर्णवर्णाः पुरुषाः स्त्रियश्चाप्सरसो पमाः ॥ १,१७.३ ॥ अनामया अशोकाश्च नित्यं मुदितमानसाः । जायन्ते मानवास्तत्र निस्तप्तकनकप्रभाः ॥ १,१७.४ ॥ वर्षे किंपुरुषे पुण्ये वृक्षो मधुवहः शुभः । तस्य किंपुरुषाः सर्वेऽपिबन् हि रसमुत्तमम् ॥ १,१७.५ ॥ ततः परं किंपुरुषो हरिवर्षः प्रचक्षते । महारजतसंकाशा जायन्ते तत्र मानवाः ॥ १,१७.६ ॥ देवलोकच्युताः सर्वे देवानूकाश्च सर्वेशः । हरिवर्षे नराः सर्वे पिबन्तीक्षुरसं शुफम् ॥ १,१७.७ ॥ एकादश सहस्राणि वर्षाणां तु निरामयाः । हरिवर्षे तु जीवन्ति सर्वे मुदितमानसाः ॥ १,१७.८ ॥ न जरा बाधते तत्र न म्रियन्ते च तेऽचिरात् । मध्यमं यन्मया प्रोक्तं नाम्ना वर्षमिलावृतम् ॥ १,१७.९ ॥ न तत्र सूर्यस्तपति न तु जीर्यन्ति मानवाः । चन्द्रसूर्यै सनक्षत्रौ न प्रकाशाविला वृते ॥ १,१७.१० ॥ पद्मप्रभाः पद्बवर्णास्तथा पद्बनिभेक्षणाः । पद्मपत्रसुगन्धाश्च जायन्ते तत्र मानवाः ॥ १,१७.११ ॥ जंबूफलरसाहारा अनिष्यन्दाः सुगन्धिनः । मनस्विनो भुक्तभोगाः सत्कर्मफलभोगिनः ॥ १,१७.१२ ॥ देवलोकच्यताश्चैव महारजतवाससः । त्रयोदशसहस्राणि वर्षाणां ते नरोत्तमाः ॥ १,१७.१३ ॥ आयुः प्रमाणं जीवन्ति ये तु वर्ष इलावृते । मेरोः प्रतिदिशं यच्च नवसाहस्रविस्तृतम् ॥ १,१७.१४ ॥ योजनानां सहस्राणि षट्त्रिंशत्तस्य विस्तरः । यतुरस्रं समन्ताच्च शरावाकारसंस्थितम् ॥ १,१७.१५ ॥ मेरोः पश्चिमभागे तु नवसाहस्रसम्मिते । चतुस्त्रिंशत्सहस्राणि गन्धमादनपर्वतः ॥ १,१७.१६ ॥ उदग्दक्षिणतश्चैव आनीलनिषधायतः । चत्वारिंशत्सहस्राणि परिवृद्धो महीतलात् ॥ १,१७.१७ ॥ सहस्रमवगाढश्च तावदेव च विस्तृतः । पूर्वेण माल्यवाञ्छैलस्तत्प्रमाणः प्रकीर्त्तितः ॥ १,१७.१८ ॥ दक्षिणेन तु नीलश्च निषधश्चोत्तरेण तु । तेषां मध्ये महामेरुः स्वैः प्रमाणैः प्रतिष्ठितः ॥ १,१७.१९ ॥ सर्वेषामेव शैलानामवगाढो यथा भवेत् । विस्तरस्तत्प्रमाणः स्यादायामो नियुतं स्मृतः ॥ १,१७.२० ॥ वृत्तभावास्समुद्रस्य महीमण्डलभावतः । आयामाः परिहीयन्ते चतुरस्रसमाः स्मृताः ॥ १,१७.२१ ॥ इलावृतं चतुष्कोणं भिन्दन्ती मध्यभागतः । प्रभिन्नाञ्जनसंकाशा जम्बूरसवती नदी ॥ १,१७.२२ ॥ मेरोस्तु दक्षिणे पार्श्वे निषधस्योत्तरेण च । सुदर्शनो नाम महाञ्जम्बूवृक्षः सनातनः ॥ १,१७.२३ ॥ नित्यपुष्पफलोपेतः सिद्धचारणसेवितः । तस्य नाम्ना समा ख्यातो जम्बूद्वीपो वनस्पतेः ॥ १,१७.२४ ॥ योजनानां सहस्रं च शतं चान्यन्महात्मनः । उत्सेधो वृक्षराजस्य दिवं स्पृशति सर्वतः ॥ १,१७.२५ ॥ अरत्नीनां शतान्यष्टावेकषष्ट्यधिकानि तु । फलप्रमाणं संख्यातमृषिभिस्तत्त्वदर्शिभिः ॥ १,१७.२६ ॥ पतमानानि तान्युर्व्यां कुर्वन्ति विपुलं स्वनम् । तस्या जम्ब्वाः फलरसो नदी भूत्वा प्रसर्प्पति ॥ १,१७.२७ ॥ मेरुं प्रदक्षिणं कृत्वा जम्बूमूलं विशत्यधः । तं पिबन्ति सदा त्दृष्टा जंबूरसमिलावृते ॥ १,१७.२८ ॥ जंबूफलरसे पीते न जरा बाधते तु तान् । न क्षुधा न श्रमश्चापि न मृत्युर्न च तन्द्रि तम् ॥ १,१७.२९ ॥ तत्र जांबूनदं नाम कनकं देवभूषमम् । इन्द्रगोपकसंकाशं जायते भास्वरं तु तत् ॥ १,१७.३० ॥ सर्वेषां वर्षवृक्षाणां शुभः फलरसः स्तुतः । स्कन्नं भवति तच्छुभ्रं कनकं देवभूषणम् ॥ १,१७.३१ ॥ तेषां मूत्रं पुरीषं च दिक्षु सर्वासु सर्वशः । ईश्वरानुग्रहाद्भूमिर्मृताश्च ग्रसते तु तान् ॥ १,१७.३२ ॥ रक्षःपिशाचयक्षाश्च सर्वे हैमवतः स्मृताः । हेमकूटे तु गन्धर्वा विज्ञेयाः साप्सरोगणाः ॥ १,१७.३३ ॥ सर्वे नागस्तु निषधे शेषवासुकितक्षकाः । महामेरौ त्रयस्त्रिंशत्क्रीडन्ते यज्ञियाः सुराः ॥ १,१७.३४ ॥ नीले तु वैदूर्यमये सिद्धा ब्रह्मर्षयोऽमलाः । दैत्यानां दानवानां चर्श्वेतः पर्वत उच्यते ॥ १,१७.३५ ॥ शृङ्गवान्पर्वतश्रेष्ठः पितॄणां प्रतिसंचरः । नवस्वेतेषु वर्षेषु यथाभागं स्थितेषु वै ॥ १,१७.३६ ॥ भूतान्युपनिविष्टानि गतिमन्ति ध्रुवाणि च । तेषां विवृद्धिर्बहुधा दृश्यते दिव्यमानुषी । न संख्या परिसंख्यातुं श्रद्धेया तु बुभूषताम् ॥ १,१७.३७ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे किंपुरुषादिवर्षवर्णनं नाम सप्तदशोऽध्यायः _____________________________________________________________ सूत उवाच मध्ये हिमवतः पृष्ठे कैलासो नाम पर्वतः । तस्मिन्निवसति श्रीमान्कुबेरः सह राक्षसैः ॥ १,१८.१ ॥ अप्सरोनुचरो राजा मोदते ह्यलकाधिपः । कैलासपादात्संभूतं पुण्यं शीतजलं शुभम् ॥ १,१८.२ ॥ मदं नाम्ना कुमुद्वत्त्त्सरस्तूदधिसन्निभम् । तस्माद्दिव्यात्प्रभवति नदी मन्दाकिनी शुभा ॥ १,१८.३ ॥ दिव्यं च नन्दनवनं तस्यास्तीरे महद्वनम् । प्रागुत्तरेम कैलासाद्दिव्यं सर्वौंषधि गिरिम् ॥ १,१८.४ ॥ रत्नधातुमयं चित्रं सबलं पर्वतं प्रति । चन्द्रप्रभो नाम गिरिः सुशुभ्रो रत्नसन्निभः ॥ १,१८.५ ॥ तस्य पादे महाद्दिव्यं स्वच्छोदं नाम तत्सरः । तस्माद्दिव्यात्प्रभवति स्वच्छोदा नाम निम्नगा ॥ १,१८.६ ॥ तस्यास्तीरे महद्दिव्यं वनं चैत्ररथं शुभम् । तस्मिन् गिरौ निवसति मणिभद्रः सहानुगः ॥ १,१८.७ ॥ यक्षसेनापतिः क्रूरो गुह्यकैः परिवारितः । पुण्या मन्दाकिनी चैव नदी स्वच्छोदका च या ॥ १,१८.८ ॥ महीमण्डलमध्येन प्रविष्टे ते महोदधिम् । कैलासाद्दक्षिणे प्राच्यां शिवसत्त्वौषधिं गिरिम् ॥ १,१८.९ ॥ मनः शिलामयं दिव्यं चित्राङ्गं पर्वतं प्रति । लोहितो हेमशृङ्गश्च गिरिः सूर्यप्रभो महान् ॥ १,१८.१० ॥ तस्य पादे महद्दिव्यं लोहितं नाम तत्सरः । तस्मात्पुण्यः प्रभवति लौहित्यः स नदो महान् ॥ १,१८.११ ॥ देवारण्यं विशोकं च तस्य तीरे महद्वनम् । तस्मिन्गिरौ निवसति यक्षो मणिधरो वशी ॥ १,१८.१२ ॥ सौम्यैः मुधार्मिकैश्चैव गुह्यके परिवारितः । कैलासाद्दक्षिणे पार्श्वे क्रूरसत्त्वौषधिर्गिरिः ॥ १,१८.१३ ॥ वृत्रकायात्किलोत्पन्नमञ्जनं त्रिककुं प्रति । सर्वधातुमयस्तत्र सुमहान्वैद्युतो गिरिः ॥ १,१८.१४ ॥ तस्य पादे कलः पुण्यं मानसं सिद्धसेवितम् । तस्मात्प्रभवेते पुण्या सरयूर्लोकविश्रुता ॥ १,१८.१५ ॥ तस्यास्तीरे वन दिव्यं वैभ्राजं नाम विश्रुतम् । कुबेरा नुचरस्तत्र प्रहेतितनयो वशी ॥ १,१८.१६ ॥ ब्रह्मपितो निवसति राक्षसोऽनन्तविक्रमः । अतरिक्षचरैर्घोरैर्यातुधानशतैर्वृतः ॥ १,१८.१७ ॥ अपरेण तु कैलासात्पुण्यसत्त्वौषधिर्गिरिः । अरुणः पर्वतश्रेष्ठो रुक्मधातुमयः शुभः ॥ १,१८.१८ ॥ भवस्य दयितः श्रीमान्पर्वतो मेघसन्निभः । शातकैंभमयैः शुभ्रैः शिलाजालैः समावृतः ॥ १,१८.१९ ॥ शातसंख्यैस्तापनीयैः शृङ्गैर्दिवमिवोल्लिखन् । मुञ्जवास्तु महादिव्यो दुर्गः शैलो हिमाचितः ॥ १,१८.२० ॥ तस्मिन्गिरौ निवसति गिरीशो धूम्रलोचनः । तस्या पादात्प्रभवति शैलोदं नाम तत्सरः ॥ १,१८.२१ ॥ तस्मात्प्रभवते पुण्या शिलोदा नाम निम्रगा । सा चक्षुः सीतयोर्मध्ये प्रविष्टा लवणोदधिम् ॥ १,१८.२२ ॥ तस्यास्तीरे वनं दिव्यं विश्रुतं सुरभीति वै । सव्योत्तरेण कैलासाच्छिवः सत्त्वौषधिर्गिरिः ॥ १,१८.२३ ॥ गौरं नाम गिरिश्रेष्ठं हरितालमयं प्रति । हिरण्यशृङ्गः सुमहान् दिव्यो मणिमयो गिरिः ॥ १,१८.२४ ॥ तस्या पादे महाद्दिव्यं शुभं काञ्चनवालुकम् । रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः ॥ १,१८.२५ ॥ गङ्गनिमित्तं राजर्षिरुवास बहुलाः समाः । दिवं यास्यन्ति ते बुर्वे गङ्गतोयपरिप्लुताः ॥ १,१८.२६ ॥ मदीय इति निश्चित्य समाहितमनाः शिवे । तत्र त्रिपयगा देवी प्रथमं तु प्रतिष्ठिता । सोमपादात्प्रसूता सा सप्तधा प्रतिपद्यते ॥ १,१८.२७ ॥ यूपा मणिमयास्तत्र वितताश्च हिरण्मयाः । तत्रेष्ट्वा तु गतः सिद्धिं शक्रः सर्वैः सुरैः सह ॥ १,१८.२८ ॥ दिवि च्छायापथो यस्तु अनुनक्षत्रमण्डलः । दृश्यते भास्वरो रात्रौ देवी त्रिपथगा तु सा ॥ १,१८.२९ ॥ अन्तरिक्षं दिवञ्चैव भावयन्ती सुरापगा । भवोत्तमाङ्गे पतिता संरूद्धा यौगमायया ॥ १,१८.३० ॥ तस्या ये बिन्दवः केचित्क्रुद्धायाः पतिता भुवि । कृतं तु तैर्बिदुसरस्ततो बिन्दुसरः स्मृतम् ॥ १,१८.३१ ॥ ततो निरूद्धा सा देवी भवेन स्मयता किल । चिन्तयामास मनसा शङ्करक्षेपमं प्रति ॥ १,१८.३२ ॥ भित्त्वा विशामि पातालं स्रोतसागृह्य शङ्करम् । ज्ञात्वा तम्या अभिप्रायं क्रूरं देव्याश्चिकीर्षितम् ॥ १,१८.३३ ॥ तिरोभावयितुं बुद्धिरासीदङ्गेषु तां नदीम् । तस्यावलेपं ज्ञात्वा तु नद्याःक्रुद्धस्तुशङ्करः ॥ १,१८.३४ ॥ न्यरुपाच्च शिरस्येनां वेगेन पततीं भुवि । एतस्मिन्नेव काले तु दृष्ट्वा राजानमग्रतः ॥ १,१८.३५ ॥ धमनीसंततं क्षीणं क्षुधया व्याकुलेन्द्रियम् । अनेन तोषितश्चाहं नद्यर्थं पूर्वमेव तु ॥ १,१८.३६ ॥ बुद्धास्य वरदानं च कोपं नियतवांस्तु सः । ब्रह्मणो वचनं श्रुत्वा धारय स्वर्णदीमिति ॥ १,१८.३७ ॥ ततो विसर्जयामास संरुद्धां स्वेन तेजसा । नदीं भगीरथस्यार्थे तपसोग्रेण तोषितः ॥ १,१८.३८ ॥ ततो विसृज्यमानायाः स्रोत स्तत्सप्तधा गतम् । तिस्रः प्ताचीमिमुखं प्रतीचीं तिस्र एव तु ॥ १,१८.३९ ॥ नद्याः स्रोतस्तु गङ्गायाः प्रत्यपद्यत सप्तधा । नलिनी ह्लादिनी चैव पावनी चैव प्राच्यगाः ॥ १,१८.४० ॥ सीता चक्षुश्च सिन्धुश्च प्रतीचीन्दिशमास्थिताः । सप्तमी त्वन्वगात्तासां दक्षिणेन भगीरथम् ॥ १,१८.४१ ॥ तस्माद्भागीरथी या सा प्रविष्टा लवणोदधिम् । सप्तैता भावयन्तीदं हिमाह्वं वर्षमेव तु ॥ १,१८.४२ ॥ प्रसूताः सप्त नद्यस्ताः शुभा बिन्दु सरोद्भवाः । नानादेशान्प्लावयन्त्यो मलेच्छप्रायास्तु सर्वशः ॥ १,१८.४३ ॥ उपगच्छन्ति ताः सर्वा यतो वर्षति वासवः । शिलीन्ध्रान्कुन्त लांश्चीनान्बर्बरान्यवनाध्रकान् ॥ १,१८.४४ ॥ पुष्कराश्च कुलिन्दांश्च अचोंलद्विचराश्च ये । कृत्वा त्रिधा सिंहवन्तं सीतागात्पश्चिमोद धिम् ॥ १,१८.४५ ॥ अथ चीनमरूंश्चैव तालांश्च मसमूलिकान् । भद्रास्तुषारांल्लाम्याकान्बाह्लवान्पारटान्खशान् ॥ १,१८.४६ ॥ एताञ्जनपदां श्चक्षुः प्रावयन्ती गतोदधिम् । दरदांश्च सकाश्मीरान् गान्धरान् रौरसान् कुहान् ॥ १,१८.४७ ॥ शिवशैलानिन्द्रपदान्वसतीश्च विसर्जमान् । सैन्धवान्रन्ध्रकरकाञ्छमठाभीररोहकान् ॥ १,१८.४८ ॥ शुनासुखांश्चोर्द्धमरून्सिन्धुरेतान्निषेवते । गन्धर्वकिन्नरान्यक्षान्रक्षोविद्याधरोरगान् ॥ १,१८.४९ ॥ कलापग्रामकांश्चैव पारदांस्तद्गणान् खशान् । किरातांश्चपुलिन्दांश्च कुरून् सभरतानपि ॥ १,१८.५० ॥ पञ्चालान्काशिमत्स्यां श्च मगधाङ्गांस्तथैव च । सुह्मोत्तरांश्च वङ्गांश्च ताम्रलिप्तांस्तथैव च ॥ १,१८.५१ ॥ एताञ्जनपदान्मान्यान्गङ्गा भावयते शुभान् । ततः प्रतिहता विन्ध्यात्प्रविष्टा लवणोदधिम् ॥ १,१८.५२ ॥ ततश्च ह्लादिनी पुण्य प्राचीमभिमुखा ययौ । प्रावयन्त्युपभागांश्च नैषधांश्च त्रिगर्त कान् ॥ १,१८.५३ ॥ धीवरानृषिकांश्चैव तथा नीलमुखानपि । केकरानौष्टकर्णांश्च किरातानपि चैव हि ॥ १,१८.५४ ॥ कालोदरान्विवर्णाश्च कुमारान्स्वर्णभूमिकान् । आमण्डलं समुद्रस्य तिरोभूतांश्च पूर्वतः ॥ १,१८.५५ ॥ ततस्तु पावनी चापि प्राचीमेव दिशं ययौ । सुपथान्पावयं तीह त्विन्द्रद्युम्नसरोपि च ॥ १,१८.५६ ॥ तथा खरपथांश्चैव वेत्रशङ्कुपथानपि । मध्यतोजानकिमथो कुथप्रावरणान्ययौ ॥ १,१८.५७ ॥ इन्द्रद्वीप समुद्रं तु प्रविष्टां लवणोदधिम् । ततस्तु नलिनी प्रायात्प्राचीमाशां जवेन तु ॥ १,१८.५८ ॥ तोमरान्भावयन्तीह हंसमार्गान्सहैहयान् । पूर्वन्देशांश्च सेवन्ती भित्त्वा सा बहुधागिरीन् ॥ १,१८.५९ ॥ कर्णप्रावरणान्प्राप्य संगत्या श्वमुखानपि । सिकतापर्वतमरुं गत्वा विद्याधरान्ययौ ॥ १,१८.६० ॥ नगमण्डलमध्येन प्रविष्टा लवणोदधिम् । तासां नद्युपनद्यश्च शतशोऽथ सहस्रशः ॥ १,१८.६१ ॥ उपगच्छन्ति ताः सर्वा यतो वर्षति वासवः । वक्वौकसायास्तीरे तु वनं सुरभि विश्रुतम् ॥ १,१८.६२ ॥ हिरण्यशृङ्गे वसति विद्वान्कौबेरको वशी । यज्ञोपेतश्च सुमहानमितौजाः सुविक्रमः ॥ १,१८.६३ ॥ तत्रत्यैस्तैः परिवृतौ विद्वद्भिर्ब्रह्मराक्षसैः । कुबेरानुचरा ह्येते चत्वारस्तु समाः स्मृताः ॥ १,१८.६४ ॥ एवमेव तु विज्ञेया ऋद्धिः पर्वतवासिनाम् । परस्परेण द्विगुणा धर्मतः कामतोर्ऽथतः ॥ १,१८.६५ ॥ हेमकूटस्य पृष्ठे तु वर्चोवन्नामतः सरः । मनस्विनीप्रभवति तस्माज्ज्योतिष्मती च या ॥ १,१८.६६ ॥ अवगाढे ह्युभयतः समुद्रौ पूर्वपश्चिमौ । सरो विष्णुपदं नाम निषधे पर्वतोत्तमे ॥ १,१८.६७ ॥ तस्माद्द्वयं प्रभवति गान्धर्वी नाकुली च तैः । मेरोः पार्श्वात्प्रभवति ह्रदश्चन्द्रप्रभो महान् ॥ १,१८.६८ ॥ तत्र जंबूनदी पुण्या यस्या जांबूनदं स्मृतम् । पयोदं तु सरो नीले सुशुभ्रं पुण्डरीकवत् ॥ १,१८.६९ ॥ पुण्डरीका पयोदा य तस्मान्नद्यौ विनिर्गते । श्वेतात्प्रवर्त्तते पुण्यं सरयूर्मानसाद्ध्रुवम् ॥ १,१८.७० ॥ ज्योत्स्ना च मृगाकामा च तस्माद्द्वे संबभूवतुः । सरः कुरुषु विख्यातं पद्ममीनद्विजाकुलम् ॥ १,१८.७१ ॥ रुद्रकान्तमिति ख्यातं निर्मितं तद्भवेन तु । अन्ये चाप्यत्र विख्याताः पद्मामीनद्विजाकुलाः ॥ १,१८.७२ ॥ नाम्ना ह्रदा जया नाम द्वादशोदधिसन्निभाः । तेभ्यः शान्ता य माध्वी च द्वे नद्यौ संबभूवतुः ॥ १,१८.७३ ॥ यानि किंपुरुषाद्यानि तेषु देवो न वर्षति । उद्भिदान्युदकान्यत्र प्रवहन्ति सरिद्वराः ॥ १,१८.७४ ॥ ऋषभो दुन्दुभिश्चैव धूम्नश्च सुमहागिरिः । पूर्वायता महापर्वा निमग्ना लवणाभसि ॥ १,१८.७५ ॥ चन्द्रः काकस्तथा द्रोणः सुमहान्तः शिलोच्चयाः । उदग्याता उदीच्यान्ता अवगाढा महोदधिम् ॥ १,१८.७६ ॥ सोमकश्च वराहश्च नारदश्च महीधरः । प्रतीच्यामायतास्ते वै प्रविष्टा लवणोदधिम ॥ १,१८.७७ ॥ चक्रो बलाहकश्चैव मैनाको यश्च पर्वतः । आयतास्ते महाशैलाः समुद्रं दक्षिणं प्रति ॥ १,१८.७८ ॥ चक्रमैनाकयोर्मध्य विदिशं दक्षिणां प्रति । तत्र संवर्त्तको नाम सोऽग्निः पिबति तज्जलम् ॥ १,१८.७९ ॥ नाम्ना समुद्रवासस्तु और्वःस वडवामुखः । द्वादशैते प्रविष्टा हि पर्वता लवणोदधिम् ॥ १,१८.८० ॥ महेन्द्रभयवित्रस्ताः पक्षच्छे दभयात्पुरा । यदेतद्दृश्यते चन्द्रे श्वेते कृष्णशशाकृति ॥ १,१८.८१ ॥ भारतस्य तु वर्षस्य भेदास्ते नव कीर्त्तिताः । इहोदितस्य दृश्यन्ते यथान्येऽन्यत्र चोदिते ॥ १,१८.८२ ॥ उत्तरोत्तरमेतेषां वर्षमुद्दिश्यते गुणैः । आरोग्यायुः प्रमाणानां धर्मतः कामतोर्ऽथतः ॥ १,१८.८३ ॥ समन्वितानि भूतानि पुण्यैरेतैस्तु भागशः । वसंति नानाजातीनि तेषु वर्षेषु तानि वै । इत्येषा धारयन्तीदं पृथ्वी विश्वं जगत्स्थितम् ॥ १,१८.८४ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे जम्बूद्वीपवर्णनं नामाष्टादशोऽध्यायः _____________________________________________________________ सूत उवाच प्लक्षद्वीपं प्रवक्ष्यामि यथावदिह संग्रहात् । शृणुतेमं यथातत्त्वं ब्रुवतो मे द्विजोत्तमाः ॥ १,१९.१ ॥ जंबूद्वीपस्य विस्ताराद्द्विगुणास्तस्य विस्तरः । विस्तराद्द्विगुणश्चास्य परिणाहः समन्ततः ॥ १,१९.२ ॥ तेनावृतः समुद्रो वै द्वीपेन लवणोदकः । तत्र पुण्या जनपदाश्चिरान्न म्रियते जनः ॥ १,१९.३ ॥ कृत एव च दुर्भिक्षं जराव्याधिभयं कुतः । तत्रापि पर्वताः पुण्याः सप्तैव मणिभूषणाः ॥ १,१९.४ ॥ रत्नाकरास्तथा नद्यस्तासां नामानि च बुवे । ब्लक्षद्वीपादिषु त्वेषु सप्त सप्त तु पञ्चसु ॥ १,१९.५ ॥ ऋज्वायताः प्रतिदिशं निविष्टा वर्षपर्वताः । प्लक्षद्वीपे तु वक्ष्यामि सप्तद्वीपान्महा बलान् ॥ १,१९.६ ॥ गोमेदकोऽत्र प्रथमः पर्वतो मेघसन्निभः । ख्यायते यस्य नाम्ना तु वर्षं गोमेदसंज्ञितम् ॥ १,१९.७ ॥ द्वितीयः पर्वतश्चन्द्रः सर्वौंष धिसमन्वितः । अश्विभ्याममृतस्यार्थमोषध्यो यत्र संभृताः ॥ १,१९.८ ॥ तृतीयो नारदो नाम दुर्गशैलो महोच्चयः । तत्राचले समुत्पन्नौ पूर्वं नारदपर्वतौ ॥ १,१९.९ ॥ चतुर्थस्तत्र वै शैलो दुदुंभिर्न्नाम नामतः । छन्दमृत्युः पुरा तस्मिन्दुन्दुभिः सादितः सुरैः ॥ १,१९.१० ॥ रज्जुदोलोरुकामं यः शाल्मलिश्चासुरान्तकृत् । पञ्चमः सोमको नाम देवैर्यत्रामृतं पुरा ॥ १,१९.११ ॥ संभृतं चाहृतं चैव मातुरर्थे गरुत्मता । षष्टस्तु सुमना नाम सप्तमर्षभ उच्यते ॥ १,१९.१२ ॥ हिरण्यक्षो वराहेण तस्मिञ्छैले निषूदितः । वैभ्राजः सप्तमस्तत्र भ्राजिष्णुः स्फाटिको महान् ॥ १,१९.१३ ॥ अर्चिर्भिर्भ्राजते यस्माद्वैभ्राजस्तेन संस्मृतः । तेषां वर्षाणि वक्ष्यामि नामतस्तु यथाक्रमम् ॥ १,१९.१४ ॥ गोमेदं प्रथमं वर्षं नाम्नाशान्तभयं स्मृतम् । चन्द्रस्य शिशिरं नाम नारदस्य सुखोदयम् ॥ १,१९.१५ ॥ आनन्दं दुन्दुभेर्वर्षं सोमकस्यशिवं स्मृतम् । क्षेमकं वृषभस्यापि वैभ्राजस्य ध्रुवं तथा ॥ १,१९.१६ ॥ एतेषु देवगन्धर्वाः सिद्धाश्च सह चारणैः । विहरन्ति रमन्ते च दृश्यमानाश्च तैः सह ॥ १,१९.१७ ॥ तेषां नद्यस्तु सप्तैव प्रतिवर्षं समुद्रगाः । नामतस्ताः प्रवक्ष्यामि सप्तगङ्गास्तपोधनाः ॥ १,१९.१८ ॥ अनुतप्तासुखी चैव विपाशा त्रिदिवा क्रमुः । अमृता सुकृता चैव सप्तैताः सरितां वराः ॥ १,१९.१९ ॥ अभिगच्छन्ति ता नद्यस्ताभ्यश्चान्याः सहस्रशः । बहूदका ह्योघवत्यो यतो वर्षति वासवः ॥ १,१९.२० ॥ ताः पिबन्ति सदा हृष्टा नदीजनपदास्तु ते । शुभाः शान्तभयाश्चैव प्रमुदं शैशिराः शिवाः ॥ १,१९.२१ ॥ आनन्दाश्च सुखाश्चैव क्षेमकाश्च ध्रुवैः सह । वर्णाश्रमाचारयुता प्रजास्तेष्ववधिष्ठिताः ॥ १,१९.२२ ॥ सर्वे त्वरोगाः सुबलाः प्रजाश्चामयव र्जिताः । अवसर्पिणी न तेष्वस्ति तथैवोत्सर्पिणी न च ॥ १,१९.२३ ॥ न तत्रास्ति युगावस्था चतुर्युगकृता क्वचित् । त्रेतायुगसमः कालः सर्वदा तत्र वर्त्तते ॥ १,१९.२४ ॥ प्लक्षद्वीपादिषु ज्ञेयः पञ्चस्वेतेषु सर्वशः । देशस्यानुविधानेन कालस्यानुविधाः स्मृताः ॥ १,१९.२५ ॥ पञ्चवर्षसहस्राणि तेषु जीवन्ति मानवाः । सुरूपाश्च सुवेषाश्च ह्यरोगा बलिनस्तथा ॥ १,१९.२६ ॥ सुखमायुर्बलं रुपमारोग्यं धर्म एव च । प्लक्षद्वीपादिषु ज्ञेयः शाकद्वीपान्तिकेषु वै ॥ १,१९.२७ ॥ प्रक्षद्वीपः पृथुः श्रीमान्सर्वतो धनधान्यवान् । दिव्यौषधिफलोपेतः सर्वौंषधिवनस्पतिः ॥ १,१९.२८ ॥ आवृतः पशुभिः सर्वैर्ग्राम्यारण्यैः सहस्रशः । जंबूवृक्षेम संख्यातस्तस्य मध्ये द्विजोत्तमाः ॥ १,१९.२९ ॥ प्लक्षो नाम महावृक्षस्तस्य नाम्ना स उच्यते । स तत्र पूज्यते स्थाने मध्ये जनपदस्य ह ॥ १,१९.३० ॥ स चापीक्षुरसोदेन प्रक्षद्वीपः समावृतः । प्लक्षद्वीपसमेनैव वैपुल्यद्विस्तरेण तु ॥ १,१९.३१ ॥ इत्येवं संनिवेशो वः प्लक्षद्वीपस्य कीर्तितः । आनुपूर्व्यात्समासेन शाल्मलं तु निबोधत ॥ १,१९.३२ ॥ ततस्तृतीयं वक्ष्यामि शाल्मलं द्वीपसुत्तमम् । शाल्मलेन समुद्रस्तु द्वीपेनेक्षुरसोदकः ॥ १,१९.३३ ॥ प्लक्षद्वीपस्य विस्ताराद्द्विगुणेन समावृतः । तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः ॥ १,१९.३४ ॥ रत्नाकरास्तथा नद्यस्तेषां वर्षेषु सप्तसु । प्रथमः सूर्यसंकाशः कुमुदो नाम पर्वतः ॥ १,१९.३५ ॥ सर्वधातुमयैः शृङ्गैः शिलाजालसमाकुलैः । द्वितीयः पर्वतश्चात्र ह्युत्तमो नाम विश्रुतः ॥ १,१९.३६ ॥ हरितालमयैः शृङ्गैर्दिवमावृत्य तिष्ठति । तृतियः पर्वतस्तत्र बलाहक इति श्रुतः ॥ १,१९.३७ ॥ जात्यञ्जनमयैः शृङ्गैर्दिवमावृत्य तिष्ठति । चतुर्थः पर्वतो द्रोणो यत्र सा वै सहोषधिः ॥ १,१९.३८ ॥ विशल्यकरणी चैव मृतसञ्जीविनी तथा । कङ्कस्तु पञ्चमस्तत्र पर्वतः सुमहोदयः ॥ १,१९.३९ ॥ नित्यपुष्पफलोपेतो वृक्षवीरुत्समावृतः । षष्ठस्तु पर्वतस्तत्र महिषो मेघसन्निभः ॥ १,१९.४० ॥ यस्मिन्सोऽग्निर्निवसति महिषो नाम वारिजः । सप्तमः पर्वतस्तत्र ककुद्मान्नाम भाष्यते ॥ १,१९.४१ ॥ तत्र रत्नान्यनेकानि स्वयं रक्षति वासवः । प्रजापतिमुपादाय प्रजाभ्यो विधिवत्स्वयम् ॥ १,१९.४२ ॥ इत्येते पर्वताः सप्त शाल्मले मणिभूषणाः । तेषां वर्षाणि वक्ष्यामि सर्पैव तु शुभानि वै ॥ १,१९.४३ ॥ कुमुदस्य स्मृतं श्वेतमुत्तमस्य च लोहितम् । बलाहकस्य जीमूतं द्रोणस्य हरितं स्मृतम् ॥ १,१९.४४ ॥ कङ्कस्य वैद्युतं नाम महिषस्य च मानसम् । ककुदः सुप्रदं नाम सप्तैतानि तु सप्तधा ॥ १,१९.४५ ॥ वर्षाणि पर्वताश्चैव नदीस्तेषु निबोधत । ज्योतिः शान्तिस्तथा तुष्टा चन्द्रा शुक्रा विमोचनी ॥ १,१९.४६ ॥ निवृत्तिः सप्तमी तासां प्रतिवर्षं तु ताः स्मृताः । तासां समीपगाश्चान्याः शतशोऽथ सहस्रशः ॥ १,१९.४७ ॥ न संख्यां परिसंख्यातुं शक्नुयात्कोऽपि मानवः । इत्येष संनिवेशो वः शाल्मलस्य प्रकीर्त्तितः ॥ १,१९.४८ ॥ प्लक्षवृक्षेण संख्यातस्तस्य मध्ये महा द्रुमः । शाल्मलिर्विपुलस्कन्धस्तस्य नाम्ना स उच्यते ॥ १,१९.४९ ॥ शाल्मलस्तु समुद्रेण सुरोदेन समावृतः । विस्तराच्छाल्मलस्वैव समे न तु समन्ततः ॥ १,१९.५० ॥ उत्तरेषु तु धर्मज्ञाद्वीपेषु शृणुत प्रजाः । यथाश्रुतं यथान्यायं ब्रुवतो मे निबोधत ॥ १,१९.५१ ॥ कुशद्वीपं प्रवक्ष्यामि चतुर्थं तु समासतः । सुरोदकः परिवृतः कुशद्वीपेन सर्वतः ॥ १,१९.५२ ॥ शाल्मलस्य तु विस्ताराद्द्विगुणेन समन्ततः । सप्तैव च गिरींस्तत्र वर्ण्यमानान्निबोधत ॥ १,१९.५३ ॥ कुशद्वीपे तु विज्ञेयः पर्वतो विद्रुमश्च यः । द्वीपस्य प्रथमस्तस्य द्वितीयो हेमपर्वतः ॥ १,१९.५४ ॥ तृतीयो द्युतिमान्नाम जीमूतसदृशो गिरिः । चतुर्थः पुष्पवान्नाम पञ्चमस्तु कुशेशयः ॥ १,१९.५५ ॥ षष्ठो हरिगिरिर्नाम सप्तमो मन्दरः स्मृतः । मन्दा इति ह्यपा नाम मन्दरो दारणादयम् ॥ १,१९.५६ ॥ तेषामन्तरविषकंभो द्विगुणः प्रविभागतः । उद्भिदं प्रथमं वर्षं द्वितीयं वेणुमण्डलम् ॥ १,१९.५७ ॥ तृतीयं वै रथाकारं चतुर्थं लवणं समृतम् । पञ्चमं धृतिमद्वर्षं षष्ठं वर्षं प्रभाकरम् ॥ १,१९.५८ ॥ सप्तमं कपिलं नाम सर्वे ते वर्ष भावकाः । एतेषु देवगन्धर्वाः प्रजास्तु जगदीश्वराः ॥ १,१९.५९ ॥ विहरन्ति रमन्ते च हृष्यमाणास्तु सर्वशः । न तेषु दस्यवः संति म्लेच्छ जातय एव च ॥ १,१९.६० ॥ गौरप्रायो जनः सर्वः क्रमाच्च म्रियते तथा । तत्रापि नद्यः सप्तैव धूतपापाशिवा तथा ॥ १,१९.६१ ॥ पवित्रा संततिश्चैव विद्युद्दंभा मही तथा । अन्यास्ताभ्योऽपरिज्ञाताः शतशोऽथ सहस्रशः ॥ १,१९.६२ ॥ अभिगच्छन्ति ताः सर्वा यतो वर्षति वासवः । घृतोदेन कुशद्वीपो बाह्यतः परिवारितः ॥ १,१९.६३ ॥ विज्ञेयः स तु विस्तारात्कुशद्वीपसमेन तु । इत्येष सन्निवेशो वः कुशद्वीपस्य कीर्त्तितः ॥ १,१९.६४ ॥ क्रैञ्चद्वीपस्य विस्तारं वक्ष्याम्यहमतः परम् । कुशद्वीपस्य विस्ताराद्द्विगुणः स तु वै स्मृतः ॥ १,१९.६५ ॥ घृतोदकसमुद्रो वै क्रैञ्च द्वीपेन संयुतः । तस्मिन्द्वीपे नगश्रेष्ठः क्रैञ्चस्तु प्रथमो गिरिः ॥ १,१९.६६ ॥ क्रैञ्चात्परो वामनको वामनादन्धकारकः । अन्धकारात्परश्चापि दिवावृन्नाम पर्वतः ॥ १,१९.६७ ॥ दिवावृतः परश्चापि द्विविदो गिरिसत्तमः । द्विविदात्परतश्चापि पुण्डरीको महागिरिः ॥ १,१९.६८ ॥ पुण्डरीकात्परश्चापि प्रोच्यते दुन्दुभिस्वनः । एते रत्नमयाः सप्त क्रैञ्चद्वीपस्य पर्वताः ॥ १,१९.६९ ॥ बहुपुष्पफलोपेतनानावृक्षलतावृताः । परस्परेण द्विगुणा विस्तृता हर्षवर्द्धनाः ॥ १,१९.७० ॥ वर्षाणि तत्र वक्ष्यामि नामतस्तान्निबोधत । क्रैञ्चस्य कुशलो देशो वामनस्य मनोनुगः ॥ १,१९.७१ ॥ मनोनुगात्परश्चोष्णस्तृतीयं वर्षमुच्यते । उष्णात्परः पीवरकः पीवरादन्धकारकः ॥ १,१९.७२ ॥ अन्धकारात्परश्चापि मुनिदेशः स्मृतो बुधैः । मुनिदेशात्परश्चैव प्रोच्यते दुन्दुभिस्वनः ॥ १,१९.७३ ॥ सिद्धचारणसंकीर्णो गौरप्रयो जनः स्मतः । तत्रापि नद्यः सप्तैव प्रतिवर्ष स्मृताः शुभाः ॥ १,१९.७४ ॥ गौरी कुमुद्वती चैव संध्या रात्रिर्मनोजवा । ख्यातिश्च पुण्डरीका च गङ्गाः सप्तविधाः स्मृताः ॥ १,१९.७५ ॥ तासां सहस्रशश्चान्या नद्यो यास्तु समीपगाः । अभिगच्छन्ति ताः सर्वा विपुलाः सुबहूदकाः ॥ १,१९.७६ ॥ क्रैञ्चद्वीपः समुद्रेण दधिमण्डौदकेन तु । आवृतः सर्वतः श्रीमान्क्रैञ्चद्वीपसमेन तु ॥ १,१९.७७ ॥ प्लक्षद्वीपादयो ह्येते समासेन प्रकीर्त्तिताः । तेषां निसर्गोद्वीपानामानुपूर्व्येण सर्वशः ॥ १,१९.७८ ॥ न शक्यो विस्तराद्वक्तुं दिव्यवर्षशतैरपि । निसर्गो यः प्रजानां तु संहारो यश्च तासु वै ॥ १,१९.७९ ॥ शाकद्वीपं प्रवक्ष्यामि यथावदिह निश्चयात् । शृणुध्वं तु यथातथ्यं ब्रुवतो मे यथार्थवत् ॥ १,१९.८० ॥ क्रैञ्चद्वीपस्य विस्ताराद्द्विगुणास्तस्य विस्तरः । परिवार्य समुद्रं स दधिमण्डोदकं स्थितः ॥ १,१९.८१ ॥ तत्र पुण्या जनपदाश्चिरात्तु म्रियते जनः । कुत एव च दुर्भिक्षं जराव्याधिभयं कुतः ॥ १,१९.८२ ॥ तत्रापि पर्वताः शभ्राः सप्तैव मणिभूषणाः । रत्नाकरास्तथा नद्यस्तेषां नामानि मे शृणु ॥ १,१९.८३ ॥ देवर्षिगन्धर्वयुतः प्रथमो मेरुरुच्यते । प्रागायतः स सौवर्णो ह्युदयो नाम पर्वतः ॥ १,१९.८४ ॥ वृष्ट्यर्थं जलदास्तत्र प्रभंवति च यान्ति च । तस्यापरेण सुमहाञ्जलधारो महागिरिः ॥ १,१९.८५ ॥ यतो नित्यमुपादत्ते वासवः परमं जलम् । ततो वर्षं प्रभवति वर्षाकाले प्रजास्विह ॥ १,१९.८६ ॥ तस्योत्तरे रैवतको यत्र नित्यं प्रतिष्ठितम् । रेवती दिवि नक्षत्रं पितामहकृतो विधिः ॥ १,१९.८७ ॥ तस्यापरेण सुमहान् श्यामो नाम महागिरिः । तस्माच्छ्यामत्वमापन्नाः प्रजाः पूर्वमिमाः किल ॥ १,१९.८८ ॥ तस्यापरेण सुमहान्नाजतोऽस्तगिरिः स्मृतः । तस्यापरे चांबिकेयो दुर्गशैलो महागिरिः ॥ १,१९.८९ ॥ अंबिकेयात्परो रम्यः सर्वौंषधिसमन्वितः । केसरी केसरयुतो यतो वायुः प्रजापतिः ॥ १,१९.९० ॥ उदयात्प्रथमं वर्षं महात्तज्जलदं स्मृतम् । द्वितीयं जलधारस्य सुकुमारमिति स्मृतम् ॥ १,१९.९१ ॥ रैवतस्य तु कौमारं श्यामस्य च मणीवकम् । अस्तस्यापि शुभं वर्षं विज्ञेयं कुसुमोत्तरम् ॥ १,१९.९२ ॥ अम्बिकेयस्य मोदाकं केसरस्य महाद्रुमम् । द्वीपस्य परिमाणं तु ह्रस्वदीर्घत्वमेव च ॥ १,१९.९३ ॥ क्रैञ्चद्वीपेन विख्यातं तस्य केतुर्महाद्रुमः । शाको नाम महोत्सेधस्तस्य पूज्या महानुगाः ॥ १,१९.९४ ॥ तत्र पुण्या जनपदाश्चातुर्वर्ण्यसमन्विताः । नद्यश्चापि महापुण्या गङ्गाः सप्तविधास्तथा ॥ १,१९.९५ ॥ सुकुमारी कुमारी च नलिनी वेणुका च या । इक्षुश्च वेणुका चैव गभस्तिः सप्तमी तथा ॥ १,१९.९६ ॥ नद्यश्चान्याः पुण्यजलाः शीततोयवहाः शुभाः । सहस्रशः समाख्याता यतो वर्षति वासवः ॥ १,१९.९७ ॥ न तासां नामधेयानि परिमाणं तथैव च । शक्यं वै परिसंख्यातुं पुण्यास्ताः सरिदुत्तमाः ॥ १,१९.९८ ॥ ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते । शांशपायनविस्तीर्णो द्वीपोऽसौ चक्रसंस्थितः ॥ १,१९.९९ ॥ नदीजलैः प्रतिच्छन्नः पर्वतैश्चाभ्रसन्निभैः । सर्वधातुविचित्रैश्च मणिविद्रुमभूषितैः ॥ १,१९.१०० ॥ नगरैश्चैव विविधैः स्फीतैर्जनपदैरपि । वृक्षैः पुष्पफलोपेतैः समन्ताद्धनधान्यवान् ॥ १,१९.१०१ ॥ क्षीरोदेन समुद्रेण सर्वतः परिवारितः । शाकद्वीपस्य विस्तारात्समेन तु समंन्ततः ॥ १,१९.१०२ ॥ तस्मिञ्जनपदाः पुण्याः पर्वताः सरितः शुभाः । वर्णाश्रमसमाकीर्णा देशास्ते सप्त वै स्मृताः ॥ १,१९.१०३ ॥ न संकरश्च तेष्वस्ति वर्णाश्रमकृतः क्वचित् । धर्मस्य चाव्यभीचारादेकान्तसुखिताः प्रजाः ॥ १,१९.१०४ ॥ न तेषु लोभो माया वा हीर्षासूयाकृतः कुतः । विपर्ययो न तेष्वस्ति कालात्स्वाभाविकं परम् ॥ १,१९.१०५ ॥ करावाप्तिर्न तेष्वस्ति न दण्डो न च दण्ड्यकाः । स्वधर्मेणैव धर्म ज्ञास्ते रक्षन्ति परस्परम् ॥ १,१९.१०६ ॥ एतावदेव शक्यं वै तस्मिन्द्वीपे प्रभाषितुम् । एतावदेव श्रोतव्यं शाकद्वीपनिवासिनाम् ॥ १,१९.१०७ ॥ पुष्करं सप्तमं द्वीपं प्रवक्ष्यामि निबोधत । पुष्करेण तु द्वीपेन वृतः क्षीरोदको बहिः ॥ १,१९.१०८ ॥ शाकद्वीपस्य विस्ताराद्द्विगुणेन संमततः । पुष्करे पर्वतः श्रीमानेक एव महाशिलः ॥ १,१९.१०९ ॥ चित्रैर्मणिमयैः शृङ्गैः शिलाजालैः समुच्छ्रितः । द्वीपस्य तस्य पूर्वर्द्धे चित्रसानुः स्थितो महान् ॥ १,१९.११० ॥ स मण्डलसहस्राणि विस्तीर्णः पञ्चविंशतिः । उर्द्धं चैव चतुस्त्रिंशत्सहस्राणि महीतलात् ॥ १,१९.१११ ॥ द्वीपर्धस्य परिक्षिप्तः पर्वतो मानसोत्तरः । स्थितो वेलासमीपे तु नवचन्द्र इवोदितः ॥ १,१९.११२ ॥ योजनानां सहस्राणि ऊर्ध्वं पञ्चाशदुच्छ्रितः । तावदेव च विस्तीर्णः सर्वतः परिमण्डलः ॥ १,१९.११३ ॥ स एव द्वीपपश्चार्द्धे मानसः पृथिवीधरः । एक एव महासारः सन्निवेशो द्विधा कृतः ॥ १,१९.११४ ॥ स्वादूदकेनोदधिना सर्वतः परिवारितः । पुष्करद्वीपविस्ताराद्विस्तीर्णोऽसौ समन्ततः ॥ १,१९.११५ ॥ तस्मिन्द्वीपे स्मृतौ द्वौ तु पुण्यौ जनपदौ शुभौ । अभितो मानसस्याथ पर्वतस्य तु मण्डले ॥ १,१९.११६ ॥ महावीतं तु यद्वर्ष बाह्यतो मानसस्य तत् । त्स्यैवाभ्यन्तरेणापि धातकीखण्डमुच्यते ॥ १,१९.११७ ॥ दशवर्षसहस्राणि तत्र जीवति मानवाः । अरोगाः सुखबाहुल्या मानसीं सिद्धिमास्थिताः ॥ १,१९.११८ ॥ मससायुश्च रूपं च तस्मिन्वर्षद्वये स्मृतम् । अधमोत्तमा न तेष्वस्ति तुल्यास्ते रूपशीलतः ॥ १,१९.११९ ॥ न तत्र दस्युर्दमको नेर्ष्यासूया भयं तथा । निग्रहो न च दण्डोऽस्ति न लोभो न परिग्रहः ॥ १,१९.१२० ॥ सत्यानृतं न तत्रास्ति धर्माधर्मौं तथैव च । वर्णाश्रमौ वा वार्ता वा पाशुपाल्यं वणिक्पथः ॥ १,१९.१२१ ॥ त्रयी विद्या दण्डनीतिः शुश्रूषा शिल्पमेव च । वर्षद्वये सर्वमेतत्पुष्करस्य न विद्यते ॥ १,१९.१२२ ॥ न तत्र वर्षं नद्यो वा शीतोष्णं वापि विद्यते । उद्भिदान्युदकान्यत्र गिरिप्रस्रवणानि च ॥ १,१९.१२३ ॥ उत्तराणां कुरूणां च तुल्यकालो जनस्तथा । सर्वर्त्तुसुसुखस्तत्र जराक्रमविवर्जितः ॥ १,१९.१२४ ॥ इत्येष धातकीखण्डे महा वीते तथैव च । आनुपूर्व्याद्विधिः कृत्स्नः पुष्करस्य प्रकीर्त्तितः ॥ १,१९.१२५ ॥ स्वादूदकेनोदधिना पुष्करः परिवारितः । विस्तारान्मण्डलाच्चैव पुष्करस्य समेन तु ॥ १,१९.१२६ ॥ एवं द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः । द्वीपस्यानन्तरो यस्तु सामुद्रस्तत्समस्तु सः ॥ १,१९.१२७ ॥ एवं द्वीपसमुद्राणां वृद्धिर्ज्ञेया परस्परात् । अपां चैव समुद्रेकात्सामुद्र इति संज्ञितः ॥ १,१९.१२८ ॥ विशन्तिर्निवसंत्यस्मिन्प्रजा यस्माच्चतुर्विधाः । तस्माद्वर्षमिति प्रोक्तं प्रजानां सुखदं यतः ॥ १,१९.१२९ ॥ ऋष इत्येष रमणे वृषशक्तिप्रबन्धने । रतिप्रबधनात्मिद्धं वर्षं तत्तेषु तेन वै ॥ १,१९.१३० ॥ शुक्लपक्षे चन्द्रवृद्ध्या समुद्रः पूर्यते सदा । प्रक्षीयमाणे बहुले क्षीयतेऽस्तमिते खगे ॥ १,१९.१३१ ॥ आपूर्यमाणो ह्युदधिः स्वत एवाभिपूर्यते । तथोपक्षीयमाणेऽपि स्वात्मन्येवावकृष्यते ॥ १,१९.१३२ ॥ उखास्थमग्निसंयोगादुद्रिक्तं दृश्यते यथा । महोदधिगतं तोयं स्वत उद्रिच्यते तथा ॥ १,१९.१३३ ॥ अन्यूनानतिरिक्तांश्च वर्न्द्वत्यापो ह्रसंति च । उदयास्तमये त्विन्दौ पक्षयोः शुक्लकृष्णयोः ॥ १,१९.१३४ ॥ क्षयवृद्धत्वमुदधेः सोमवृद्धिक्षयात्पुनः । दशोत्तराणि पञ्चैव ह्यङ्गुलानि शतानि च ॥ १,१९.१३५ ॥ अपां वृद्धिः क्षयो दृष्टः सामुद्रीणां तु पर्वसु । द्विराप्कत्वात्स्मृता द्वीपाः सर्वतश्चोदकावृताः ॥ १,१९.१३६ ॥ उदकस्यायनं यस्मात्तस्मादुदधिरुच्यते । अपर्वाणस्तु गिरयः पर्वभिः पर्वताः स्मृताः ॥ १,१९.१३७ ॥ प्लक्षद्वीपे तु गोमेदः पर्वतस्तेन चौच्यते । शाल्मलिः शाल्मले द्वीपे पूज्यते सुमहाव्रतैः ॥ १,१९.१३८ ॥ कुशद्वीपे कुशस्तंबस्तस्यनाम्ना स उच्यते । क्रैञ्चद्वीपे गिरिः कैञ्चो मध्ये जनपदस्य ह ॥ १,१९.१३९ ॥ शाकद्वीपे द्रुमः शाकस्तस्य नाम्ना स उच्यते । न्यग्रोधः पुष्करद्वीपे तत्रत्यैः स नमस्कृतः ॥ १,१९.१४० ॥ महादेवः पूज्यते तु ब्रह्मा त्रिभुवनेश्वरः । तस्मिन्नि वसति ब्रह्मा साध्यैः सार्द्धं प्रजापतिः ॥ १,१९.१४१ ॥ उपासंते तत्र देवास्त्रयस्त्रिंशन्महर्षिभिः । स तत्र पूज्यते चैव देवेर्देवोतमोतमः ॥ १,१९.१४२ ॥ जंबूद्वीपात्प्रवर्त्तन्ते रत्नानि विविधानि च । द्वीपेषु तेषु सर्वेषु प्रजानां क्रमतस्तु वै ॥ १,१९.१४३ ॥ सर्वशो ब्रह्मवर्येण सत्येन च दमेन च । आरोग्ययुःप्रमाणाभ्यां प्रमाणं द्विगुणं ततः ॥ १,१९.१४४ ॥ एतस्मिन्पुष्करद्वीपे यदुक्तं वर्षकद्वयम् । गोपायति प्रजास्तत्र स्वयंभूर्जड पण्डिताः ॥ १,१९.१४५ ॥ ईश्वरो दण्डसुद्यम्य ब्रह्मा त्रिभुवनेश्वरः । स विष्णोः सचिवो देवः स पिता स पितामहः ॥ १,१९.१४६ ॥ भोजनं चाप्रयत्नेन तत्र स्वयमुपस्थितम् । षड्रसं सुमहावीर्यं भुञ्जते तु प्रजाः सदा ॥ १,१९.१४७ ॥ परेण पुष्करस्यार्द्धे आवृत्यावस्थितो महान् । स्वादूदकः समुद्रस्तु समन्तात्परिवेष्ट्य तम् ॥ १,१९.१४८ ॥ परेण तस्य महती दृश्यते लोकसंस्थितिः । काञ्चनी द्विगुणा भूमिः सर्वाह्येकशिलोपमा ॥ १,१९.१४९ ॥ तस्यापरेण शैलश्च पर्यासात्पस्मिण्डलः । प्रकाशश्चाप्रकाशश्च लोकालोकः स उच्यते ॥ १,१९.१५० ॥ आलोकस्तस्य चार्वक्तु निरालोकस्ततः परम् । योजनानां सहस्राणि दश तस्योच्छ्रयः समृतः ॥ १,१९.१५१ ॥ तावांश्च विस्तरस्तस्य पृथिव्यां कामगश्च सः । आलोको लोकवृत्तिस्थो निरालोको ह्यलौकिकः ॥ १,१९.१५२ ॥ लोकार्द्धे संमिता लोका निरालोकास्तु बाह्यतः । लोकविस्तारमात्रं तु ह्यलोकः सर्वतो बहिः ॥ १,१९.१५३ ॥ परिच्छिन्नः समन्ताच्च उदकेनावृतस्तु सः । आलोकात्परतश्चापि ह्यण्डमा वृत्य तिष्ठति ॥ १,१९.१५४ ॥ अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी । भूर्लोकोऽथ भुवर्ल्लोकः स्वर्लोकोऽथ महस्तथा ॥ १,१९.१५५ ॥ जनस्तपस्तथा सत्यमेतावांल्लोकसंग्रहः । एतावानेव विज्ञेयो लोकान्तश्चैव यः परः ॥ १,१९.१५६ ॥ कुंभस्थायी भवेद्यादृवप्रतीच्यां दिशि चन्द्रमाः । आदितः शुक्लपक्षस्य वपुश्चाण्डस्य तद्विधम् ॥ १,१९.१५७ ॥ अण्डानामीदृशानां तु कोट्यो ज्ञेयाः सहस्रशः । तिर्यगूर्ध्वमधो वापि कारणस्याव्ययात्मनः ॥ १,१९.१५८ ॥ धरणैः प्राकृतैस्तत्तदावृतं प्रति सप्तभिः । दशाधिक्येन चान्योन्यं धारयन्ति परस्परम् ॥ १,१९.१५९ ॥ परस्परावृताः सर्वे उत्पन्नाश्च परस्परम् । अण्डस्यास्य समन्तात्तु सन्निविष्टो घनोदधिः ॥ १,१९.१६० ॥ समन्तात्तु वनोदेन धार्यमाणः स तिष्टति । बाह्यतो घनतो यस्य तिर्यगूर्द्ध्वं तु मण्डलम् ॥ १,१९.१६१ ॥ धार्यमाणं समन्तात्तु तिष्ठते यत्तु तेजसा । अयोगुडनिभो वाह्नः समन्ता न्मण्डलाकृतिः ॥ १,१९.१६२ ॥ समन्ताद्धनवातेन धार्यमाणः स तिष्ठति । घनवातं तथाकाशो दधानः खलु तिष्ठति ॥ १,१९.१६३ ॥ भूतादिश्च तथा काशं भूतादिश्चाप्यसौ महान् । महाश्च सोऽप्यनन्तेन ह्यव्यक्तेन तु धार्यते ॥ १,१९.१६४ ॥ अनन्तमपरिव्यक्तं दशधा सूक्ष्ममेव च । अनन्तम कृतात्मानमनादिनिधनं च यत् ॥ १,१९.१६५ ॥ अनित्यं परतोऽघोरमनालंबमनामयम् । नैकयोजनसाहस्रं विप्रकृष्टमनावृतम् ॥ १,१९.१६६ ॥ तम एव निरालोकममर्य्यादमदैशिकम् । देवानामप्यविदितं व्यवहारविवर्जितम् ॥ १,१९.१६७ ॥ तमसोंते च विश्यातमाकाशान्ते ह्यभास्वरम् । मर्यादायामनन्तस्य देवस्यायतनं महत् ॥ १,१९.१६८ ॥ त्रिदशानामगम्यं ततस्थानं दिव्यमिति श्रुतिः । महतो देवदेवस्य मर्यादा या व्यवस्थिताः ॥ १,१९.१६९ ॥ चन्द्रादित्यावधस्तात्तु ये लोकाः प्रथिता बुधैः । ते लोका इत्यभिहिता जगतस्च न संशयः ॥ १,१९.१७० ॥ रसातलतलाः सप्तसप्तैवोर्द्ध्वतलाश्च ये । सप्तस्कन्धस्तथा वायोः सब्रह्मसदना द्विजाः ॥ १,१९.१७१ ॥ आपातालाद्दिवं यावदत्र पञ्चविधा गतिः । प्रमाणमेतज्जगत एष संसारसागरः ॥ १,१९.१७२ ॥ अनाद्यन्तां व्रजन्त्येव नैकजातिसमुद्भवाः । विचित्रा जगतः सा वै प्रकृतिर्ब्रह्मणः स्थिता ॥ १,१९.१७३ ॥ यच्चैह दैविकं वाथ निसर्गं बहुविस्तरः । अतीन्द्रियेर्महाभागैः सिद्धैरपि न लक्षितः ॥ १,१९.१७४ ॥ पृथिव्यंब्वग्निवायूनां नभसस्तमसस्तथा । मानसस्य तु देहस्य अनन्तस्य द्विजोत्तमाः ॥ १,१९.१७५ ॥ क्षयो वा परिणामो वा अन्तो वापि न विद्यते । अनन्त एष सर्वत्र एवं ज्ञानेषु पठ्यते ॥ १,१९.१७६ ॥ तस्य चोक्तं मया पूर्व तस्मिन्नामानुकीर्तने । यः पद्मनाभनाम्ना तु तत्कार्त्स्न्येन च कीर्त्तितः ॥ १,१९.१७७ ॥ स एव सर्वत्र गतः सर्वस्थानेषु पूज्यते । भूमौ रसातले चैव आकाशे पवनेऽनले ॥ १,१९.१७८ ॥ अर्णवेषु च सर्वेषु दिवि चैव न संशयः । तथा तमसि विज्ञेय एष एव महाद्युतिः ॥ १,१९.१७९ ॥ अनेकधा विभक्ताङ्गो महायोगी जनार्दनः । सर्वलोकेषु लोकेश इज्यते बहुधा प्रभुः ॥ १,१९.१८० ॥ एवं परस्परोत्पन्न धार्यन्ते च परस्परम् । आधाराधेयभावेन विकारास्तेऽविकारिणः ॥ १,१९.१८१ ॥ पृथ्व्यादयो विकारास्ते परिच्छिन्नाः परस्परम् । परस्परधिकाश्चैव प्रविष्टास्ते परस्परम् ॥ १,१९.१८२ ॥ यस्मात्सृषटास्तु तेऽन्योन्यं तस्मात्स्थैर्यमुपागताः । प्रागासन्नविशेषास्तु विशेषोऽन्यविशेषणात् ॥ १,१९.१८३ ॥ पृथिव्याद्यास्तु वाद्यन्तापरिच्छिन्नास्त्रयस्तु ते । गुणोपचयसारेण परिच्छेदो विशेषतः ॥ १,१९.१८४ ॥ शेषाणां तु परिच्छेदः सौक्ष्म्यान्नेह विभाव्यते । भूतेभ्यः परतस्तेभ्यो व्यालोका सा धरा स्मृता ॥ १,१९.१८५ ॥ भूतान्यालोक आकाशे परिच्छिन्नानि सर्वशः । पात्रे महति पात्राणि यथैवान्तर्गतानि तु ॥ १,१९.१८६ ॥ भवन्त्यन्योन्यहीनानि परस्परसमाश्रयात् । तथा ह्यालोक आकाशे भेदास्त्वन्तर्गता मताः ॥ १,१९.१८७ ॥ कृत्त्नान्येतानि चत्वारि ह्यन्योन्यस्याधिकानि तु । यावदेतानि भूतानि तावदुत्पत्तिरुच्यते ॥ १,१९.१८८ ॥ तन्तुनामिव संतारो भूतेष्वन्तर्गतो मतः । प्रत्या ख्याय तु भूतानि कार्योत्पर्त्तिन विद्यते ॥ १,१९.१८९ ॥ तस्मात्परिमिता भेदाः स्मृताः कार्य्यात्मकास्तु ते । कारणात्मकास्तथैक स्युर्भेदा ये महदादयः ॥ १,१९.१९० ॥ इत्येष संनिवेशो वै मया प्रोक्तो विभागशः । सप्तद्वीपसमुद्राड्यो याथातथ्यन वै द्विजाः ॥ १,१९.१९१ ॥ विस्तरान्मण्डलाश्चैव प्रसंख्यानेन चैव हि । वैश्वरूप्रधानस्य परिणामैकदेशिकः ॥ १,१९.१९२ ॥ अधिष्ठितं भगवता यस्य सर्वमिदं जगत् । एवंभूतगणाः सप्त सन्निविष्टाः परस्परम् ॥ १,१९.१९३ ॥ एतावान्संनिवेशस्तु मया शक्यः प्रभाषितुम् । एतावदेव श्रोतव्यं संनिवेशे तु पार्थेवे ॥ १,१९.१९४ ॥ सप्त प्रकृतयस्त्वेता धारयन्ति परस्परम् । तास्त्वहं परिमाणेन नं संख्यातुमिहोत्सहे ॥ १,१९.१९५ ॥ असंख्याताः प्रकृतयस्तिर्य्यगूर्द्ध्वमधस्तथा । तारकासंनिवेशश्च यावद्दिव्यानुमण्डलम् ॥ १,१९.१९६ ॥ पर्य्या यसन्निवेशस्तु भूमेस्तदनु मण्डलः । अत ऊर्ध्वं प्रवक्ष्यामि कृथिव्या वै विचक्षणाः ॥ १,१९.१९७ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे प्लक्षादिद्वीपवर्णनं नामैकोनविंशतितमोऽध्यायः _____________________________________________________________ सूत उवाच अधःप्रमाणमूर्द्ध्व च वक्ष्यमाणं निबोधत । पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ १,२०.१ ॥ अनन्ता धातवो ह्येतं व्यापकास्तु प्रकीर्त्तिताः । जननी सर्वभूतानां सर्वसत्त्वधरा धरा ॥ १,२०.२ ॥ नानाजनपदाकीर्णा नानाधिष्ठानपत्तना । नानानदनदीशैला नैकजातिसमाकुला ॥ १,२०.३ ॥ अनन्ता गीयते देवी पृथिवी बहुविस्तरा । नदीनदससुद्रस्थास्तन्था क्षुद्राश्रयस्थिताः ॥ १,२०.४ ॥ पर्वताकाशसंस्थाश्च अन्तर्भूमिगाताश्च याः । आपोऽनन्ता हि विज्ञेयास्तथाग्निः सर्वलोकगः ॥ १,२०.५ ॥ अनन्तः पठ्यते चैव व्यापकः सर्वसंभवः । तथाकाशमनालेख्यं रम्यं नानाश्रयं स्मृतम् ॥ १,२०.६ ॥ अनन्तं पठ्यते चैव वायुश्चाकाशसम्भवः । आपः पृथिव्यामुदके पृथिव्युपरि संस्थिताः ॥ १,२०.७ ॥ आकाशश्चापरमथ पुनर्भूमिः पुनर्जलम् । एवं मतमनन्तस्य भौतिकस्य न विद्यते ॥ १,२०.८ ॥ परस्परैः सोपचिता भूमिश्चैव निबोधत । भूमिर्जलमथा काशमिति या या परंपरा ॥ १,२०.९ ॥ स्थितिरेषा तु विख्याता सप्तमेऽस्मिन्नसातले । दशयोजनसाहस्रमेकं भौमं रसातलम् ॥ १,२०.१० ॥ साधुभिः परिसंख्यातमेकैकेनैव विस्तरम् । प्रथमं तत्वलं नाम सुतलं तु ततः परम् ॥ १,२०.११ ॥ ततस्तलातलं विद्यादतलं बहुविस्तरम् । ततोर्ऽवाक्च तलं नाम परतश्च रसातलम् ॥ १,२०.१२ ॥ एतेषामप्यधोभागे पातालं सप्तमं स्मृतम् । कृष्णभौमश्च प्रथमो भूमिभागः प्रकीर्त्तितः ॥ १,२०.१३ ॥ पाण्डुभूमिर्द्वितीयस्तु तृतीयो नीलमृत्तिकः । पीतभौमश्चतुर्थस्तु पञ्चमः शर्करामयः ॥ १,२०.१४ ॥ षष्ठः शिलामयो ज्ञेयः सौवर्णः सप्तमः स्मृतः । प्रथमेऽस्मिंस्तले ख्यातमसुरेद्रस्य मन्दिरम् ॥ १,२०.१५ ॥ नमुचेरिन्द्रशत्रोश्च महानादस्य चालयम् । पुरं च शङ्कुकर्णस्य कबन्धस्य च मन्दिरम् ॥ १,२०.१६ ॥ निष्कुलादस्य च पुरं प्रहृष्टजनसंकुलम् । राक्षसस्य च भीमस्य शूलदन्तस्य चालयम् ॥ १,२०.१७ ॥ लोहिताक्षकलिङ्गानां नगरं श्वापदस्य च । धनञ्जयस्य च पुरं नागेन्द्रस्य महात्मनः ॥ १,२०.१८ ॥ कालियस्य च नागस्य नगरं कौशिकस्य च । एवं पुरसहस्राणि नागदानवरक्षसाम् ॥ १,२०.१९ ॥ तले ज्ञेयानि प्रथमे कृष्णभौमे न संशयः । द्वितीये सुतले विप्रा दैत्येन्द्रस्य च रक्षसः ॥ १,२०.२० ॥ महाजंभस्य तु तथा नगरं प्रथमस्य तु । इयग्रीवस्य कृष्णस्य निकुम्भस्य च मन्दिरम् ॥ १,२०.२१ ॥ शङ्खख्यस्य च दैत्यस्य नगरं गोमुखस्य च । राक्षसस्य च नीलस्य मेघस्य कथनस्य च ॥ १,२०.२२ ॥ आलयं कुकुपादस्य महोष्णीषस्य चालयम् । कंबलस्य च नागस्य पुरमश्वतरस्य च ॥ १,२०.२३ ॥ कद्रूपुत्रस्य च पुरं तक्षकस्य महात्मनः । एवं पुरसहस्राणि नागदानवरक्षसाम् ॥ १,२०.२४ ॥ द्वितीयेऽस्मिन् तले विप्राः पाण्डुभौमे न संशयः । तृतीये तु तले ख्यातं प्रह्लादस्य महात्मनः ॥ १,२०.२५ ॥ अनुद्रादस्य च पुरं पुरमग्निमुखस्य च । तारकाश्यस्य च पुरं पुरं त्रिशिरसस्तथा ॥ १,२०.२६ ॥ शिशुमारस्य च पुरं त्रिपुरस्य तथा पुरम् । पुरञ्जनस्य दैत्यस्य हृष्टपुष्टजनाकुलम् ॥ १,२०.२७ ॥ च्यवनस्य तु विज्ञेयं राक्षसस्य च मन्दिरम् । राक्षसेंद्रस्य च पुरं कुम्भिलस्य खरस्य च ॥ १,२०.२८ ॥ विराधस्य च क्रूरस्य पुरमुल्कासुखस्य च । हेमकस्य च नागस्य तथा पाण्डुरकस्य च ॥ १,२०.२९ ॥ मणिनागस्य च पुरं कपिलस्य च मन्दिरम् । नेदकस्योरगपतोर्विशालाक्षस्य मन्दिरम् ॥ १,२०.३० ॥ एवं पुरसहस्राणि नागदानवरक्षसाम् । तृतीयेऽस्मिंस्तले विप्रा नीलभौमे न संशयः ॥ १,२०.३१ ॥ चतुर्थे दैत्यसिंहस्य कालनेमेर्महात्मनः । गजकर्णस्य च पुरं नगरं कुञ्जरस्य च ॥ १,२०.३२ ॥ राक्षसेंद्रस्य च पुरं सुमालेर्बहुविस्तरम् । मुञ्जस्य लोकनाथस्य वृकवक्त्रस्य चालयम् ॥ १,२०.३३ ॥ बहुयोजनविस्तीर्णं बहुपक्षिसमाकुलम् । नगलं वैनतेयस्य चतुर्थेऽस्मिन्नसातले ॥ १,२०.३४ ॥ पञ्चमे शर्कराभौमे बहुयोजनविस्तरम् । विरोजनस्य नगरं दैत्यसिंहस्य धीमतः ॥ १,२०.३५ ॥ वैद्युतस्याग्निजि ह्वस्य हिरण्याक्षस्य चालयम् । पुरं च विद्युज्जिह्वस्य राक्षसेन्द्रस्य धीमतः ॥ १,२०.३६ ॥ सहामेघस्य च पुरं राक्षसेंद्रस्य मालिनः । किर्मीरस्य च नागस्य स्वस्तिकस्य जयस्य च ॥ १,२०.३७ ॥ एवं पुरसहस्राणि नागदानवरक्षसाम् । पञ्चमेऽस्मिंस्तले ज्ञेयं शर्करानिचये सदा ॥ १,२०.३८ ॥ षष्ठे तले दैत्यपतेः केसरे नगरोत्तमम् । सुपर्वणः पुलोम्नश्च नगरं महिषस्य च ॥ १,२०.३९ ॥ राक्षसेंद्रस्य च पुरं सुरोषस्य महात्मनः । तत्रास्ते सुरमापुत्रः शतशीर्षो मुदा युतः ॥ १,२०.४० ॥ महेन्द्रस्य सखा श्रीमान्वासुकिनाम नागराट् । एवं पुरसहस्राणि नागदानवरक्षसाम् ॥ १,२०.४१ ॥ षष्ठे तलेऽस्मिन्विख्याते शिलाभौमे रसातले । सप्तमे तु तले ज्ञेयं पाताले सर्वपश्चिमे ॥ १,२०.४२ ॥ पुरं बलेः प्रमुदितं नरना रीगणाकुलम् । असुराशीविषैः पूर्णं सुखितैर्देवशत्रुभिः ॥ १,२०.४३ ॥ मुचुकुन्दस्य देत्यस्य तत्रैव नगरं महात् । अनेकैर्दितिपुत्राणां समुदीर्णैर्महापुरैः ॥ १,२०.४४ ॥ तथैव नागनगरैर्द्युतिमद्भिः सहस्रशः । दैत्यानां दानवानां च समुदीर्णैर्महापुरैः ॥ १,२०.४५ ॥ उदीर्णै राक्षसावासैरनेकैश्च समाकुलम् । पातालान्ते च विप्रेन्द्रा विस्तीण बहुयोजने ॥ १,२०.४६ ॥ आस्ते रक्तारविन्दाक्षो महात्मा ह्यजरामरः । धौतशङ्खोदरवपुर्नील वासा महाबलः ॥ १,२०.४७ ॥ विशालभोगो द्युतिमांश्चित्रमाल्यधरो बली । रुक्मशृङ्गावदातेन दीप्तास्येन विराजता ॥ १,२०.४८ ॥ प्रभुर्मुख सहस्रेण शोभते चैककुण्डली । स जिह्वामालया दीप्तो लोलज्ज्वालानलार्चिषा ॥ १,२०.४९ ॥ ज्वालामालापरिक्षिप्तः कैलास इव लक्ष्य ते । स तु नेत्रसहस्रेण द्विगुणेन विराजता ॥ १,२०.५० ॥ बालसूर्याभिताम्रेण शरीरस्निग्धपाण्डुना । तस्य कुन्देन्दुवर्णस्य नेत्रमाला विराजते ॥ १,२०.५१ ॥ तरुणादित्यमालेव श्वेतपर्वतमूर्द्धनि । विकरालोच्छ्रिततनुर्लक्ष्यते शयनासने ॥ १,२०.५२ ॥ विस्तीर्ण इव मेदिन्यां सहस्रशिखरो गिरिः । महानागैर्महाभोगैर्महाविज्ञैर्महात्मभिः ॥ १,२०.५३ ॥ उपास्यते महातेजा महानागपतिः स्वयम् । स राजा सर्वनागानां शेषोऽनन्तो महाद्युतिः ॥ १,२०.५४ ॥ सा वैष्णवी व्यवहृतिर्मर्यादा या व्यवस्थिता । सप्तैवमेते कथिता व्यवहार्या रसातलाः ॥ १,२०.५५ ॥ देवासुरम हानागराक्षसाध्युषिताः सदा । अतः परमनालोकमगम्यं सिद्धसाधुभिः ॥ १,२०.५६ ॥ देवानामप्यविदितं व्यवहारविवक्षया । पृथ्व्यंबुव ङ्निवायूनां नभसश्च द्विजोत्तमाः ॥ १,२०.५७ ॥ महत्त्वमृषिभिश्चैवं वर्ण्यते नात्र संशयः । अत ऊर्द्ध्वं प्रवक्ष्यामि सूर्याचन्द्रमसोर्गतिम् ॥ १,२०.५८ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादेऽधोलोकवर्णनं नाम विंशतितमोऽध्यायः _____________________________________________________________ सूत उवाच सूर्या चन्द्रमसावेतौ भ्रमतो यावदेव तु । प्रकाशैस्तु प्रभाभिस्तौ मण्डलाभ्यां समुच्छ्रितौ ॥ १,२१.१ ॥ सप्तानां तु समुद्राणां द्वीपानां सतु विस्तरः । विस्तरार्द्धे पृथिव्यास्तु भवेदन्यत्र बाह्यतः ॥ १,२१.२ ॥ पर्यासपरिमाणं तु चन्द्रादित्यौ प्रकाशतः । पर्यास्तात्पारिमाण्येन भूमेस्तुल्यं दिवं स्मृतम् ॥ १,२१.३ ॥ अवति त्रीनिमांल्लोकान् यस्मात्सूर्यः परिभ्रमन् । अविधातुः प्रकाशाख्यो ह्यवनात्स रविः स्मृतः ॥ १,२१.४ ॥ अतः परं प्रवक्ष्यामि प्रमाणं चन्द्रसूर्ययोः । महित्तत्त्वान्महीशब्दोऽह्यस्मिन्वर्षे निपाद्यते ॥ १,२१.५ ॥ अस्य भारतवर्षस्य विष्कंभात्तुल्यविस्तृतम् । मण्डलं भास्करस्याथ योजनानि निबोधत ॥ १,२१.६ ॥ नवयोजनसाहस्रो विस्तारो भास्करस्य तु । विस्तारात्र्रिगुणश्चास्य परिणाहस्तु मण्डले ॥ १,२१.७ ॥ विष्कंभमण्डलाच्चैव भास्कराद्द्विगुणः शशी । अथ पृथिव्या वक्ष्यामि प्रमाणं योजनैः सह ॥ १,२१.८ ॥ सप्तद्वीपसमुद्राया विस्तारो मण्डलं च यत् । इत्येतदिह संख्यातं पुराणे परिमाणतः ॥ १,२१.९ ॥ तद्वक्ष्यामि समाख्याय सांप्रतैरभिमानिभिः । अभिमानिनोव्यतीता ये तुल्यास्ते सांप्रतैस्त्विह ॥ १,२१.१० ॥ देवा ये वै व्यतीतास्तु रूपैर्नामभिरेव च । तस्मात्तु सांप्रतैर्देवैर्वक्ष्यामि वसुधातलम् ॥ १,२१.११ ॥ दिवास्तु सन्निवेशं वै सांप्रतैरेव कृत्स्नशः । शतार्द्धकोटिविस्तारा पृथिवी कृत्स्नशः स्मृता ॥ १,२१.१२ ॥ तस्या ऊर्द्ध्वप्रमाणेन मेरोर्यावत्तु संस्थितिः । पृथिव्या ह्यर्द्धविस्तारो योजनाग्रात्प्रकीर्त्तितः ॥ १,२१.१३ ॥ मेरोर्मध्यात्प्रतिदिशं कोटिरेका तु सा स्मृता । तथा शातसहस्राणामेकोन नवतिः पुनः ॥ १,२१.१४ ॥ पञ्चाशत्तु सहस्राणि पृथिव्यर्द्धस्य मण्डलम् । गणितं योजनाग्रात्तु कोट्यस्त्वेकादश स्मृताः ॥ १,२१.१५ ॥ तथा शतसहस्राणि सप्तत्रिंशाधिकानि तु । इत्येतदिह संश्यातं पृथिव्यन्तस्य मण्डलम् ॥ १,२१.१६ ॥ तारकासंनिवेशास्य दिवि याव च्च मण्डलम् । पर्याससन्निवेशश्च भूमेर्यावत्तु मण्डलम् ॥ १,२१.१७ ॥ पर्यासपरिमाणेन भूमेस्तुल्यं दिवः स्मृतम् । सप्तानामपि द्वीपानामेत त्स्थानं प्रकीर्तितम् ॥ १,२१.१८ ॥ पर्यायपरिमाणेन मण्डलानुगतेन च । उपर्युपरि लोकानां छत्रवत्परिमण्डलम् ॥ १,२१.१९ ॥ संस्थितिर्विहिता सर्वा येषु तिष्ठन्ति जन्तवः । एतदण्डकपालस्य प्रमाणं परिकीर्त्तितम् ॥ १,२१.२० ॥ अण्डस्यान्तस्त्विमे लोकाः सप्तद्वीपा च मेदिनी । भूर्लोकश्च भुवर्ल्लोकस्तृतीयस्सृरिति स्स्वतः ॥ १,२१.२१ ॥ महर्ल्लोको जनश्चैव तपः सत्यं च सप्तमम् । एते सप्त कृता लोकाश्छत्राकारा व्यवस्थिताः ॥ १,२१.२२ ॥ स्वकैरावरणैः सूक्ष्मैर्धार्यमाणाः पृथक्पृथक् । दशभागाधिकाभिश्च ताभिः प्रकृतिभिर्बहिः ॥ १,२१.२३ ॥ पूर्यमाणा विशेषैश्च समुत्पन्नैः परस्परात् । अस्याण्डस्य समन्ताच्च सन्निविष्टो घनोदधिः ॥ १,२१.२४ ॥ पृथिव्या मण्डलं कृत्स्नं घनतोयेन धार्यते । घनोदधिः परेणाथ धार्य्यते घनतेजसा ॥ १,२१.२५ ॥ बाह्यतो घनतेजस्च तिर्य्यगूर्द्ध्वं तु मण्डलम् । संमताद्धनवातेन धार्यमाणं प्रतिष्ठितम् ॥ १,२१.२६ ॥ घनवातं तथाकाशमाकाशं च महात्मना । भूतादिना वृतं सर्वं भूतादिर्महता वृतः ॥ १,२१.२७ ॥ वृतो महाननन्तेन प्रधानेनाव्य यात्मना । पुराणि लोकपालानां प्रवक्ष्यामि यथाक्रमम् ॥ १,२१.२८ ॥ ज्योतिर्गुणप्रचारस्य प्रमाणपरिसिद्धये । मेरोः प्राच्यां दिशि तथा मानसस्यैव मूर्द्धनि ॥ १,२१.२९ ॥ वस्वौकसारा माहेन्द्री पुरी हेमपरिष्कृता । दक्षिणेन पुनर्मेरोर्मानसस्यैव मूर्द्धनि ॥ १,२१.३० ॥ वैवस्वतो निव सति यमः संयमने पुरे । प्रतीच्यां तु पुनर्मेरोर्मानसस्यैव मूर्द्धनि ॥ १,२१.३१ ॥ सुखा नाम पुरी रम्या वरुणस्यापि धीमतः । वरुणो यादसां नाथस्सुखाख्ये वसते पुरे ॥ १,२१.३२ ॥ दिश्युत्तरस्यां मेरोस्तु मानसस्यैव मूर्द्धनि । तुल्या महेन्द्रपुर्य्यास्तु सोमस्यापि विभावरी ॥ १,२१.३३ ॥ मानसोत्तरवृष्टे तु लोकपालाश्चतुर्दिशम् । स्थिता धर्मव्यवस्थार्थ लोकमंरक्षणाय च ॥ १,२१.३४ ॥ लोकपालोपरिष्टात्तु सर्वतो दक्षिणायने । काष्ठागतस्य सूर्यस्य गतिया तां निबोधत ॥ १,२१.३५ ॥ दक्षिणोऽपक्रमे सूर्य्यः क्षिप्तेषुरिव सर्पति । ज्योतिषां चक्रमादाय सततं परिगच्छति ॥ १,२१.३६ ॥ मध्यगश्चामरावत्यां यदा भवति भास्करः । वैवस्वते संयमते उदयस्तत्र दृश्यते ॥ १,२१.३७ ॥ सुखायामर्द्धरात्रं स्याद्विभायामस्तमेति च । वैवस्वते संयमने मध्यगः स्याद्रविर्यदा । सुखायामथ वारुण्यामुत्तिष्ठन्स तु दृश्यते ॥ १,२१.३८ ॥ विभाया मर्द्धरात्रं स्यान्माहेन्द्यामस्तमेति च । यदा दक्षिणपुर्वेषामपराह्णो विधीयते ॥ १,२१.३९ ॥ दक्षिणापरदेश्यानां पूर्वह्णः परिकी र्त्तितः । तेषामपररात्रश्च ये जना उत्तराः परे ॥ १,२१.४० ॥ देशा उत्तरपूर्वा ये पूवरात्रस्तु तान्प्रति । एवमेवोत्तरेष्वर्के भुवनेषु विराजते ॥ १,२१.४१ ॥ सुखायासथ वारुण्यां मध्याह्ने चार्यमा यदा । विभायां सोमपुर्यां वा उत्तिष्ठति विभावसुः ॥ १,२१.४२ ॥ रात्र्यर्द्ध चामरावत्यामस्तमेति यमस्य च । सोमपुर्या विभायां तु मध्याह्ने स्याद्दिवाकरः ॥ १,२१.४३ ॥ महेद्रस्यामरावत्यां सूर्य उत्तिष्ठते तदा । अर्द्धरात्रं संयमने वारुण्यामस्तमेति च ॥ १,२१.४४ ॥ स शीघ्रमेव पर्येति भास्करोऽलातच त्रवत् । भ्रमन्वै भ्रममार्णानि ऋक्षाणि चरते रविः ॥ १,२१.४५ ॥ एवं चतुर्षु पार्श्वेषु दक्षिणां तेन सर्पति । उदयास्तमने चासावृत्ति ष्ठति पुनः पुनः ॥ १,२१.४६ ॥ पूवाह्णे चापराह्णे च द्वौ द्वौ देवालयौ तु सः । तपत्यर्कश्च मध्याह्ने तैरेव च स्वरश्मिभिः ॥ १,२१.४७ ॥ उदितो वर्द्धमानाभिरामध्याह्नं तपन्रविः । अतः परं ह्रसंतीभिर्गोभिरस्तं निगच्छति ॥ १,२१.४८ ॥ उदयास्तमयाभ्यां च स्मृते पूर्वापरे दिशौ । यावत्पुरस्तात्तपति तापत्पृष्ठेऽथ पार्श्वयोः ॥ १,२१.४९ ॥ यत्रोद्यन्दृश्यते सूर्यस्तेषां स उदयः समृतः । प्रणाशं गच्छते यत्र तेषामस्तः स उच्यते ॥ १,२१.५० ॥ सर्वेषामुत्तरे मेरुलोङ्कालोकश्च दक्षिणे । विदूरभावादर्कस्य भूमिलेखावृतस्य च ॥ १,२१.५१ ॥ लीयन्ते रश्मयो यस्मात्तेन रात्रौ न दृश्यते । ग्रहनक्षत्रसोमानां दर्शनं भास्करस्य च ॥ १,२१.५२ ॥ उच्ध्रयस्य प्रमाणेन ज्ञेयमस्तमथोदयम् । शुक्लच्छायोऽग्निरा पश्च कृष्णच्छाया च मेदिनी ॥ १,२१.५३ ॥ विदूरभावादर्कस्य ह्युद्यतेऽपि विरशिमता । रक्तभावो विरश्मत्वाद्रक्तत्वाच्जाप्यनुष्णता ॥ १,२१.५४ ॥ लेखायामास्थितः सूर्यो यत्र यत्र च दृश्यते । ऊर्द्ध्व शातसहस्र तु योजनानां स दृश्यते ॥ १,२१.५५ ॥ प्रभा हि सौरी पादेन ह्यस्तं गच्छति भास्करे । अग्निमाविशते राद्रौ तस्माद्दूरात्प्रकाशते ॥ १,२१.५६ ॥ उदिते हि पुनः सूर्ये ह्यौष्ण्यमाग्नेयमाविशेत् । संयुक्तो वह्निना सूर्यस्तपते तु ततो दिवा ॥ १,२१.५७ ॥ प्राकाश्यं च तथौष्ण्यं च सौराग्नेये च तेजसी । परस्परानुप्रवेशाद्दीप्येते तु दिवानिशम् ॥ १,२१.५८ ॥ उत्तरे चैव भूम्यर्द्धे तथा तस्मिंश्च दक्षिणे । उत्तिष्ठति तथा सूर्ये रात्रिराविशतत्वपः ॥ १,२१.५९ ॥ तस्माच्छीता भक्त्यांपो दिवारात्रिप्रवेशनात् । अस्तं याति पुनः सूर्ये दिनमाविशते त्वषः ॥ १,२१.६० ॥ तस्मादुष्णा भवत्यापो नक्तमह्नः प्रवेशनात् । एतेन क्रमयोगेन भूम्यर्द्धे दक्षिणोत्तरे ॥ १,२१.६१ ॥ उदयास्तमनेर्ऽकस्य अहोरात्रं विशत्यपः । देनं सूर्यप्रकाशाख्यं तामसी रात्रिरूच्यते ॥ १,२१.६२ ॥ तस्माद्व्यवस्थिता रात्रिः सूर्यापेक्षमहः स्मृतम् । एवं पुष्करमध्येन यदा सर्पति भास्करः ॥ १,२१.६३ ॥ अंशांशकं तु मेदिन्यां मुहूर्त्तेनैव गच्छति । योजनाग्रान्मुहूर्त्तस्य इह संख्यां निबोधत ॥ १,२१.६४ ॥ पूर्णे शतसहस्राणामेकत्रिंशाधिकं स्मृतम् । पञ्चाशत्तु तथान्यानि सहस्राण्यधिकानि च ॥ १,२१.६५ ॥ मौहूर्त्ति की गतिर्ह्येषा सूर्यस्य तु विधीयते । एतेन गतियोगेन यदा काष्ठां तु दक्षिणाम् ॥ १,२१.६६ ॥ पर्यागच्छेत्पतङ्गोऽसौ मध्ये काष्ठान्तमेव हि । मध्येन पुष्करस्याथ भ्रमते दक्षिणायने ॥ १,२१.६७ ॥ मानसोत्तरशैले तु अन्तरे विषुवं च तत् । सर्पते दक्षिणायां तु काष्ठायां वै निबोधत ॥ १,२१.६८ ॥ नवकोट्यः प्रसंख्याता योजनैः परिमण्डलम् । तथा शतसहस्राणि चत्वारिंशच्च पञ्च च ॥ १,२१.६९ ॥ अहोरात्रात्पतङ्गस्य गतिरेषा विधीयते । दक्षिणाद्विनिवृत्तोऽसौ विषुवस्थो यदा रविः ॥ १,२१.७० ॥ क्षीरोदस्य समुद्रस्योत्तरतश्चाद्रितश्चरन् । मण्डलं विषुवत्तस्य योजनैस्तन्निबोधत ॥ १,२१.७१ ॥ तिस्रः कोट्यस्तु संख्याता विषुवस्यापि मण्डलम् । तथा शतसहस्राणामशीत्येकाधिका पुनः ॥ १,२१.७२ ॥ श्रवणे चोत्तरषाढे चित्रभानुर्यदा भवेत् । शाकद्वीपस्य षष्ठस्य उत्तरातो दिशश्चरन् ॥ १,२१.७३ ॥ उतरायाः प्रमाणं च काष्ठाया मण्डलस्य च । योजनाग्रात्प्रसंख्याता कोटिरेका तु स द्विजाः ॥ १,२१.७४ ॥ अशीतिर्नियुतानीह योजनानां तथैव च । अष्टपञ्चाशतं चव योजनान्यधिकानि तु ॥ १,२१.७५ ॥ नागवीथ्युत्तरावीथी ह्यज वीथी च दक्षिणा । मूलं चैव तथाषाढे त्वजवीथ्युदयास्त्रयः ॥ १,२१.७६ ॥ अश्विनी कृत्तिका याम्यं नागवीथ्युदयास्त्रयः । काष्ठयोरन्तरं यच्च तद्वक्ष्येयजनैः पुनः ॥ १,२१.७७ ॥ एतच्छतसहस्राणामष्टाभिश्चोत्तरं शतम् । त्रयः शताधिकाश्चन्ये त्रयस्त्रिंशच्च योजनैः ॥ १,२१.७८ ॥ काष्ठयोरन्तरं ह्येतद्योजनाग्रात्प्रकीर्तितम् । काष्ठयोर्लेखयोश्चैव ह्यन्तरं दक्षिणोत्तरे ॥ १,२१.७९ ॥ तेन्ववक्ष्ये प्रसंख्याय चोजनैस्तन्निबोधत । एकैकमन्तरं तस्य वियुतान्येकसप्ततिः ॥ १,२१.८० ॥ सहस्राण्यतिरिक्ताश्च ततोऽन्या पञ्चसप्ततिः । लेखयोः काष्ठयोश्चैव बाह्याभ्यन्तरयोः स्मृतम् ॥ १,२१.८१ ॥ अभ्यन्तरं तु पर्येति मण्डलान्युत्तरायणे । बाह्यतो दक्षिणे चैव सततं तु यथाक्रमम् ॥ १,२१.८२ ॥ मण्डलानां शतं पूर्मं त्र्यशीत्यधिकमुत्तरम् । चरते दक्षिणे चापि तावदेव विभावसुः ॥ १,२१.८३ ॥ प्रमाणं मण्डलस्याथ योजनाग्रं निबोधत । योजनानां सहस्राणि सप्तादश समासतः ॥ १,२१.८४ ॥ शते द्वे पुनरप्यन्ये योजनामां प्रकीर्त्तिते । एकविंशतिभिश्चैव योजनैरधिकैर्हि ते ॥ १,२१.८५ ॥ एतत्प्रमाणमाख्यातं योजनैर्मण्डलस्य च । विष्कंभो मण्डलस्याथ तिर्यक्स तु विधीयते ॥ १,२१.८६ ॥ प्रत्यहं चरते तानि सूर्या वै मण्डलक्रमात् । कुलालचक्रपर्यन्तो यथा शीघ्रं निवर्त्तते ॥ १,२१.८७ ॥ दक्षिणप्रक्रमे सूर्यस्तथा शीघ्रं प्रवर्त्तते । तस्मात्प्रकृष्टां भूमिं तु कालेनाल्पेन गच्छति ॥ १,२१.८८ ॥ सूर्यो द्वादशभिः शैर्घ्यान्मुहूर्तैर्दक्षिणायने । त्रयोदशार्द्धमृक्षाणामह्ना तु चरते रविः ॥ १,२१.८९ ॥ मुहूर्तै स्तावदृक्षाणि नक्तमष्टादशैश्चरन् । कुलालचक्रमध्ये तु यथा मन्दं प्रसर्पति ॥ १,२१.९० ॥ तथोदगयने सूर्यः सर्पते मन्दविक्रमः । तस्मा द्दीर्घेन कालेन भूमिं स्वल्पानि गच्छति ॥ १,२१.९१ ॥ अष्टादश मुहूर्त तु उत्तरायणपश्चिमम् । अहो भवति तच्चापि चरते मन्दविक्रमः ॥ १,२१.९२ ॥ त्रयोदशार्द्धं माद्येन त्वृक्षाणां चरते रविः । मुहूर्तैस्तावदृक्षाणि नक्तं द्वादशभिश्चरन् ॥ १,२१.९३ ॥ ततो मन्दतरं नाभ्यां चक्रं भ्रमति वै यथा । मृत्पिण्ड इव मध्यस्थो ध्रुवो भ्रमति वै तथा ॥ १,२१.९४ ॥ त्रिंशन्मुहूर्तानेवाहुरहोरात्रं ध्रुवो भ्रमन् । उभयोः काष्ठयोर्मध्ये भ्रमते मण्डलानि तु ॥ १,२१.९५ ॥ कुलालचक्रनाभिश्च यथा तत्रैव वर्त्तते । ध्रुवस्तथा हि विज्ञेयस्तत्रैव परीवर्त्तते ॥ १,२१.९६ ॥ उभयोः काष्ठयोर्मध्ये भ्रमते मण्डलानि सः । दिवानक्तं च सूर्यस्य मन्दा शीघ्रा च वै गातिः ॥ १,२१.९७ ॥ उत्तरप्रक्रमे चापि दिवा मन्दा गतिस्तथा । तथैव च पुनर्नक्तं शीघ्रा सूर्यस्य वै गातिः ॥ १,२१.९८ ॥ दक्षिणप्रक्रमेणैव दिवा शीघ्रं विधीयते । गतिः सूर्यस्य नक्तं च मन्दा चैव गतिस्तथा ॥ १,२१.९९ ॥ एवं गतिविशेषेण विभजन् रात्र्यहानि तु । तजापि संचरन्मार्गं समेन विषमेण च ॥ १,२१.१०० ॥ लोकालोकस्थिता ह्येते लोकपालाश्चतुर्दिशम् । अगस्त्यश्चरते तेषामुपरिष्टाज्जवेन तु ॥ १,२१.१०१ ॥ भुञ्जन्नसापहोरा त्रमेवं गतिविशेषणम् । दक्षिणे नागवीथ्यास्तु लोकालोकस्य चोत्तरे ॥ १,२१.१०२ ॥ लोकसन्तानको ह्येष वैश्वानरपथाद्वहिः । पृष्टे यावत्प्रभा सौरी पुरस्तात्संप्रकाशते ॥ १,२१.१०३ ॥ पार्श्वतः पृष्ठतश्चैव लोकालोकस्य वर्त्तते । योजनानां सहस्राणि दशकं तुच्छ्रितो गिरिः ॥ १,२१.१०४ ॥ प्रकाशश्चाप्रकाशश्च सर्वतः परिमण्डलः । नक्षत्रचन्द्रसूर्यश्च ग्रहैस्तारागणैः सह ॥ १,२१.१०५ ॥ अभ्यन्तरं प्रकाशन्ते लोकालोकस्य वै गिरेः । एतावानेव लोकस्तु निरालोकस्ततः परम् ॥ १,२१.१०६ ॥ लोकेनालोकवानेष निरालोकस्त्वलोकतः । लोकालोकं तु संधत्ते यस्मात्सुर्यपरिग्रहम् ॥ १,२१.१०७ ॥ तस्मात्सन्ध्येति तामाहुरुषाव्युष्ट्योर्यदन्तरम् । उषा रात्रिः स्मृता विप्रैर्व्युष्टिश्चापि त्वहः स्मृतम् ॥ १,२१.१०८ ॥ सूर्याग्निग्रसमानानां संध्याकाले हि रक्षसाम् । प्रजापतिनियोगेन शापस्त्वेषां दुरात्मनाम् ॥ १,२१.१०९ ॥ अक्षयत्वं तु देहस्य प्रापिताम्रणं तथा । तिस्रः कोट्यस्तु विख्याता मन्देहा नाम राक्षसाः ॥ १,२१.११० ॥ प्रार्थयन्ति सहस्रांशुभुदयन्तं दिनेदिने । तापयन्तं दुरात्मानः सूर्यमिच्छन्ति खादितुम् ॥ १,२१.१११ ॥ अथ सूर्यस्य तेषां च युद्धमासीत्सुदारुणम् । ततो ब्रह्मा च देवाश्च ब्राह्ममाश्चैव सत्तमाः ॥ १,२१.११२ ॥ संध्यां तु समुपासीनाः प्रक्षिपन्ति जलं सदा । ओङ्कारब्रह्मसंयुक्तं गायत्र्या चाभिमन्त्रितम् ॥ १,२१.११३ ॥ स्फूर्जज्ज्योतिश्च चण्डांशुस्तथा दीप्यति भास्करः । ततः पुनर्महातेजा महाबलपराक्रमः ॥ १,२१.११४ ॥ योजनानां सहस्राणि ऊर्द्ध्वमुत्तिष्ठते शतम् । प्रयाति भगवानाशु ब्राह्मणैरभिरक्षितः । वालखिल्यैश्च मुनिभिर्धृतार्चिः समरीचिभिः ॥ १,२१.११५ ॥ काष्ठा निमेषा दश पञ्च चैव त्रिंशच्च काष्ठा गणयेत्कलां तु । त्रिंशत्कलाश्चापि भवेन्मुहूर्त्तस्तैस्त्रिंशता रात्र्यहनी समेते ॥ १,२१.११६ ॥ ह्रासवृद्धी त्वहर्भागैर्दिवसानां यथाक्रमात् ॥ १,२१.११७ ॥ संध्या मुहूर्त्तमात्रा तु ह्रासवृद्धिस्तु सा स्मृता । लेखाप्रभृत्यथादित्ये त्रिमुहूर्त्तगते तु वै ॥ १,२१.११८ ॥ प्रातस्ततः स्मृतः कालो भागश्चाह्नः स पञ्चमः । तस्मात्प्रातस्तनात्कालात्र्रिमुहूर्त्तस्तु संगवः ॥ १,२१.११९ ॥ मध्याह्नस्त्रिमुहूर्त्तस्तु तस्मात्कालश्च संगवात् । तस्मान्मध्यन्दिनात्कालादपराह्ण इति स्मृतः ॥ १,२१.१२० ॥ त्रय एव मुहूर्त्तास्तु कालागः स्मृतो बुधैः । अपराह्णे व्यतीते तु कालः सायाह्न उच्यते ॥ १,२१.१२१ ॥ दशपञ्च मुहूर्ताह्नो मुहूर्त्तास्त्रय एव च । दशपञ्चमुहूर्त्त वै ह्यहर्वैषुवतं स्मृतम् ॥ १,२१.१२२ ॥ वर्द्धन्ते च ह्रसंते च ह्ययने दक्षिणोत्तरे । अहस्तु ग्रसते रात्रिं रात्रिश्च ग्रसते त्वहः ॥ १,२१.१२३ ॥ शरद्वसंतयोर्मध्यं विषुवत्परिभाव्यते । अहोरात्रे कलाश्चैव समं सोमः समश्नुते ॥ १,२१.१२४ ॥ तथा पञ्चदशाहानि पक्ष इत्यभिधीयते । द्वौच पक्षौभवेन्मासो द्वौमासावर्कजावृतुः ॥ १,२१.१२५ ॥ ऋतुत्रितयमयने द्वे हि वर्षं तु सौरकम् । निमेषा विद्युतश्चैव काष्टास्ता दश पञ्च च ॥ १,२१.१२६ ॥ कलास्तास्त्रिशतः काष्ठा मात्रा शीतिद्वयात्मिका । सप्तैका द्व्यधिका त्रिशन्मात्रा षटत्रिंशदुत्तरा ॥ १,२१.१२७ ॥ द्विषाष्टिना त्रयोविंशन्मात्रायाश्च कला भवेत् । चत्वारि शत्सहस्राणि शतान्यष्टौ च विद्युतः ॥ १,२१.१२८ ॥ सप्ततिश्चैव तत्रापि नवतिं विद्धि निश्चये । चत्वार्येव शतान्याहुर्विद्युते द्वे च संयुते ॥ १,२१.१२९ ॥ वरांशो ह्येष विज्ञेयो नाडिका चात्र कारणम् । संवत्सरादयः पञ्च चतुर्मानविकल्पिताः ॥ १,२१.१३० ॥ निश्चयः सर्वकालस्य युगमित्यभिधीयते । संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः ॥ १,२१.१३१ ॥ इडावत्सरस्तृतीयस्तु चतुर्थश्चानुवत्सरः । पञ्चमोवत्सरस्तेषां कालस्तु युगसंहितः ॥ १,२१.१३२ ॥ त्रिंशच्छतं भवेत्पूर्णं पर्वणां तु रवेर्युगे । शतान्यष्टादश त्रिंशदुदयाद्भास्करस्य च ॥ १,२१.१३३ ॥ ऋतवस्त्रिंशतः सौरादयनानि दशैव तु । पञ्च च त्रिशतं चापि षष्टिवर्षं च भास्करम् ॥ १,२१.१३४ ॥ त्रिशदेव त्वहोरात्रास्तैस्तु मासस्तु भास्करः । एकषष्टि त्वहोरात्रमृतुरेको विभाव्यते ॥ १,२१.१३५ ॥ अह्नां तु त्र्यधिकाशीतिः शतं चाप्यधिकं भवेत् । मानं तच्चित्रभानोस्तु विज्ञेयमयनस्य ह ॥ १,२१.१३६ ॥ सौरं सौम्यं तु विज्ञेयं नाक्षत्रं सावनं तथा । मानान्येतानि चत्वारि यैःपुराणे हि निश्चयः ॥ १,२१.१३७ ॥ यः श्वेतस्योत्तरश्चैव शृङ्गवान्नाम पर्व्वतः । त्रीणितस्य तु शृङ्गाणि स्पृशन्तीव नभस्तलम् ॥ १,२१.१३८ ॥ तैश्चापि शृङ्गैस्सनगः शृङ्गवा निति कथ्यते । एकश्च मार्गविष्कंभविस्तारश्चास्य कीर्तितः ॥ १,२१.१३९ ॥ तस्य वै पूर्वतः शृङ्गं मध्यमं तद्धिरण्मयम् । दक्षिणं राजतं चैव शृङ्गं तु स्फटिकप्रभम् ॥ १,२१.१४० ॥ सर्वरत्नमयं चैव शृङ्गमुत्तरमुत्तमम् । एवं कूटैस्त्रिभिः शैलः शृङ्गवानिति विश्रुतः ॥ १,२१.१४१ ॥ यत्तद्वै पूर्वतः शृङ्गं तदर्कः प्रतिपद्यते । शरद्वसंतयोर्मध्ये मध्यमां गतिमास्थितः ॥ १,२१.१४२ ॥ अतस्तुल्यमहोरात्रं करोति तिमिरा पहः । हरिताश्च हया दिव्यास्तस्य युक्ता महारथे । अनुलिप्ता इवाभान्ति पद्मरक्तैर्गभस्तिभिः ॥ १,२१.१४३ ॥ मेषति च तुलान्ते च भास्करोदयतः स्मृताः । मुहूर्त्ता दश पञ्चैव अहो रात्रिश्च तावती ॥ १,२१.१४४ ॥ कृत्तिकानां यदा सूर्यः प्रथमां शगतो भवेत् । विशाखानां तदा ज्ञेयश्चतुर्थांश निशाकरः ॥ १,२१.१४५ ॥ विशाखानां यदा सूर्यश्चरतेंशं तृतीयकम् । तदा चन्द्रं विजानीयात्कृत्तिकाशिरसि स्थितम् ॥ १,२१.१४६ ॥ विषुवं तं विजानीयादेवमाहुर्महर्षयः ॥ १,२१.१४७ ॥ सूर्येण विषुवं विद्या त्कालं सोमेन लक्षयेत् । समा रात्रिरहश्चैव यदा तद्विषुवं भवेत् ॥ १,२१.१४८ ॥ तदा दानानि देयानि पितृभ्यो विषुवेषु च । ब्राह्मणेभ्यो विशेषेण मुखमेतत्तु दैवतम् ॥ १,२१.१४९ ॥ ऊनमासाधिमासौ च कला काष्ठा मुहूर्त्तकाः । पौर्णमासी तथा ज्ञेया अमावास्या तथैव च । सिनीवाली कुहूश्चैव राका चानुमतिस्तथा ॥ १,२१.१५० ॥ तपस्तपस्यौ मदुमाधवौ च शुक्रःशुचिश्चायनमुत्तरं स्यात् । नभोनभस्याविषऊर्जसंज्ञौ सहःसहस्याविति दक्षिणं स्यात् ॥ १,२१.१५१ ॥ आर्तवाश्च ततो ज्ञेया पञ्चाब्दा ब्रह्मणाः सुताः ॥ १,२१.१५२ ॥ तस्माच्च ऋतवो ज्ञेया ऋतुभ्यो ह्यार्त्तवाः स्मृताः । तस्मादृतुमुखी ज्ञेया अमावास्यास्य पर्वणः ॥ १,२१.१५३ ॥ तस्मात्तु विषुवं ज्ञेयं पितृदेवहितं सदा । पर्व ज्ञात्वा न मुह्येत पित्र्ये दैवे च मानवः ॥ १,२१.१५४ ॥ तस्मात्स्मृतं प्रचानां वै विषुवत्सर्वगं सदा । आलोकात्तु स्मृतो लोको लोकालोकः स उच्यते ॥ १,२१.१५५ ॥ लोकपालाः स्थितास्तत्र लोकालोकस्य मध्यतः । चत्वारस्ते महात्मानस्तिष्टन्त्याभूतसंप्लवात् ॥ १,२१.१५६ ॥ सुधामा चैव वैराजः कर्दमः शङ्खपास्तथा । हिरण्यरोमा पर्जन्यः केतुमान्राजसश्च यः ॥ १,२१.१५७ ॥ निर्द्वन्द्वा निरभीमाना निः सीमा निष्परिग्रहाः । लोकपालाः स्थिता ह्येते लोकालोके चतुर्दिशम् ॥ १,२१.१५८ ॥ उत्तरं यदपस्तस्य ह्यजवीथ्याश्च दक्षिणाम् । पितृयानः स वै पन्था वैश्वानरपथाद्वहिः ॥ १,२१.१५९ ॥ तत्रासते प्रजावन्तो मुनयो येऽग्निहोत्रिणः । लोकस्य संतानकराः पितृयानपथे स्थिताः ॥ १,२१.१६० ॥ भूतारंभकृतं कर्म आशिषो ऋत्विगुद्यताः । प्रारभन्ते लोककामास्तेषां पन्थाः स दक्षिणाः ॥ १,२१.१६१ ॥ चलितं ते पुनर्धर्मं स्थापयन्ति युगेयुगे । संतप्तास्तपसा चैव मर्यादाभिः श्रुतेन च ॥ १,२१.१६२ ॥ जायमानास्तु पूर्वे वै पश्चिमानां गृहे ष्विह । पश्चिमाश्चैव पूर्वेषां जायन्ते निधनेष्वपि ॥ १,२१.१६३ ॥ एवमावर्त्तमानास्ते तिष्ठन्त्याभूतसंप्लवात् । अष्टाशीतिसहस्राणि ऋषीमाङ्गृहमेधिनाम् ॥ १,२१.१६४ ॥ सवितुर्दक्षिणं मार्गश्रिता ह्याचन्द्रतारकम् । क्रियावतां प्रसंख्यैषा ये श्मशानानि भेजिरे ॥ १,२१.१६५ ॥ लोकसंव्यवहाराश्च भूतारंभकृतेन च । इच्छाद्वेषप्रवृत्त्या च मैथुनोपगमेन वै ॥ १,२१.१६६ ॥ तथा कामकृतेनेह सेवनाद्विषयस्य च । एतैस्तैः कारणैः सिद्धा ये श्मशानानि भेजिरे ॥ १,२१.१६७ ॥ प्रचैषिणस्ते मुनयो द्वापरेष्विह जज्ञिरे । नागवीथ्युत्तरो यश्च सप्तर्षिगणदक्षिणः ॥ १,२१.१६८ ॥ उत्तरः सवितुः पन्था देवयानश्च स स्मृतः । यत्र ते वासिनः सिद्धा विमला ब्रह्मचारिणः ॥ १,२१.१६९ ॥ संततिं ते जुगुप्संते तस्मान्मृत्युस्तु तैर्जितः । अष्टाशीतिसहस्राणि ऋषीणामूर्द्ध्वरेतसाम् ॥ १,२१.१७० ॥ उदक्पन्थानमत्यर्थं श्रिता ह्याश्रितसंप्लवात् । ते संप्रयोगाल्लोकस्य मैथुनस्य च वर्जनात् ॥ १,२१.१७१ ॥ इच्छाद्वेषनिवृत्त्या च भूतारंभविवर्जनात् । पुनश्चाकामसंयोगाच्छब्दादेर्देषदर्शनात् ॥ १,२१.१७२ ॥ इत्येतैः कारणैः सिद्धास्तेऽमृतत्वं हि भेजिरे । आभूतसंप्लवस्थानाममृतत्वं विभाव्यते ॥ १,२१.१७३ ॥ त्रैलोक्यस्थिति कालाय पुनर्दाराभिगमिनाम् । ब्रूणहत्याश्वमेधाभ्यां पुण्यपापकृतोऽपरे ॥ १,२१.१७४ ॥ आभूतसंप्लवान्ते तु क्षीयं ते ह्यूर्ध्वरेतसः । उर्द्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्र स वै स्मृतः ॥ १,२१.१७५ ॥ एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भास्वरम् । यत्र गत्वा न शोचन्ति तद्विष्णोः परमं पदम् । धर्मध्रुवाद्यास्तिष्ठन्ति यत्र ते लोकसाधकाः ॥ १,२१.१७६ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे आदित्यव्यूहकीर्त्तनं नामैकविंशतितमोऽध्यायः _____________________________________________________________ सूत उवाच स्वायंभूवनिसर्गे तु व्याख्यातान्यन्तराणि च । भविष्याणि च सर्वाणि तेषां वक्ष्याम्यनुक्रमम् ॥ १,२२.१ ॥ एतच्छ्रुतवा तु मुनयः पप्रच्छू रोमहर्षणम् । सूर्याचन्द्रमसोश्चारं ग्रहाणां चैव सर्वशः ॥ १,२२.२ ॥ ऋषय ऋचुः । भ्रमन्ति कथमेतानि ज्योतीषि दिवमण्डलम् । अव्यूहेन च सर्वाणि तथैवासंकरेण वा ॥ १,२२.३ ॥ कश्चिद्भामयते तानि भ्रमन्ते यदि वा स्वयम् । एतद्वेदितुमिच्छामस्तन्नो निगद सत्तम ॥ १,२२.४ ॥ सूत उवाच भूतसंमोहनं ह्येतद्वदतो मे निबोधत । प्रत्यक्षमपि दृश्यं च संमोहयति यत्प्रजाः ॥ १,२२.५ ॥ योऽयं चतुर्द्दिशं पुच्छे शैशुमारे व्यवस्थितः । उत्तानपादपुत्रोऽसौ मेढीभूतो ध्रुवो दिवि ॥ १,२२.६ ॥ स वै भ्रामयते नित्यं चन्द्रादित्यौ ग्रहैः सह । भ्रमन्तमनुगच्छन्ति नक्षत्राणि च चक्रवत् ॥ १,२२.७ ॥ ध्रुवस्य मनसा चासौ सर्वते ज्योतिषां गणः । सूर्याचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह ॥ १,२२.८ ॥ वातानीकमयैर्बन्धैर्ध्रुवे बद्धानि तानि वै । तेषां योगश्च भेदश्च कालश्चारस्तथैव च ॥ १,२२.९ ॥ अस्तोदयौ तथोत्पाता अयने दक्षणोत्तरे । विषुवद्ग्रहवर्णाश्च द्रुवात्सर्वं प्रवर्त्तते ॥ १,२२.१० ॥ वर्षा घर्मो हिमं रात्रिः संध्या चैव दिनं तथा । शुभाशुभं प्रजानां च ध्रुवात्सर्वं प्रवर्त्तते ॥ १,२२.११ ॥ ध्रुवेणाधिष्टितश्चैव सूर्योऽपो गृह्य वर्षति । तदेष दीप्त किरणः स कालग्निर्दिवाकरः ॥ १,२२.१२ ॥ परिवर्त्तक्रमाद्विप्रा भाभिरालोकयन् दिशः । सूर्यः किरमजालेन वायुयुक्तेन सर्वशः ॥ १,२२.१३ ॥ जगतो जलमादत्ते कृत्स्नस्य द्विजसत्तमाः । आदित्यपीतं सकलं सोमः संक्रमते जलम् ॥ १,२२.१४ ॥ नाडीभिर्वायुयुक्ताभिर्लोकधारा प्रवर्त्तते । यत्सोमात्स्रवते ह्यंबु तदन्नेष्वेव तिष्ठति ॥ १,२२.१५ ॥ मेघा वायुविघातेन विसृजन्ति जलं भूवि । एवमुत्क्षिप्यते चैव पतते चासकृज्जलम् ॥ १,२२.१६ ॥ न नाश उदकस्यास्ति तदेव परिवर्त्तते । संधारणार्थं लोकानां मायैषा विश्वनिर्मिता ॥ १,२२.१७ ॥ अन्या मायया व्याप्तं त्रैलोक्यं सचराचरम् । विश्वेशो लोककृद्देवः सहस्राक्षः प्रजापतिः ॥ १,२२.१८ ॥ धाता कृत्स्नस्य लोकस्य प्रभविष्णुर्दिवाकरः । सार्वलोकिकमंभो यत्तत्सोमान्नभसश्व्युतम् ॥ १,२२.१९ ॥ सोमाधारं जगत्सर्वमेतत्तथ्यं प्रकीर्तितम् । सूर्यादुष्णं निस्रवते सोमाच्छीतं प्रवर्त्तते ॥ १,२२.२० ॥ शीतोष्णवीर्यौं द्वावेतौ युक्त्या धारयतो जगत् । सोमाधारा नदी गङ्गा पवित्रा विमलोदका ॥ १,२२.२१ ॥ भद्रसोमपुरोगाश्च महानद्यो द्विजोत्तमाः । सर्वभूतशरीरेषु ह्यापो ह्यनुसृताश्च याः ॥ १,२२.२२ ॥ तेषु संदह्यमानेषु जङ्गमस्थावरेषु च । धूमभूतास्तु ता ह्यापो निष्कामन्तीह सर्वशः ॥ १,२२.२३ ॥ तेन चाभ्राणि जायन्ते स्थानमभ्रमयं स्मृतम् । तेजोर्ऽकः सर्वभूतेभ्य आदत्ते रश्मिभिर्जलम् ॥ १,२२.२४ ॥ समुद्राद्वायुसंयोगाद्वहन्त्यापो गभस्तयः । संजीवनं च सस्यानामंभस्तदमृतोपमम् ॥ १,२२.२५ ॥ ततस्त्वृतुवशात्काले परिवत्य दिवाकरः । यच्छत्यापो हि मेघेभ्यः घुक्लाशुक्लैर्गभस्तिभिः ॥ १,२२.२६ ॥ अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः । सर्वभूतहितार्थाय वायुमिश्राः समन्ततः ॥ १,२२.२७ ॥ ततो वर्षति षण्मासान्सर्वभूतविवृद्धये । वायव्यं स्तनितं चैव वैद्युतं चाग्निसंभवम् ॥ १,२२.२८ ॥ मेहनाच्च मिहेधातोमघत्वं व्यजयन्ति हि । न भ्रश्यन्ति यतश्चापस्तदभं कवयो विदुः ॥ १,२२.२९ ॥ मेघानां पुनरुत्पत्तिश्त्रिविधा योनिरुच्यते । आग्नेया ब्रह्मजाश्चैव पक्षजाश्च पृथग्विधाः ॥ १,२२.३० ॥ त्रिधा मेघाः समाख्यातास्तेषां वक्ष्यामि संभवम् । आग्नेया स्तूष्णजाः प्रोक्तास्तेषां धूमप्रवर्त्तनम् ॥ १,२२.३१ ॥ शीतदुर्दिनवाता ये स्वगुणास्ते व्यवस्थिताः । महिषाश्च वाराहाश्च मत्तमातङ्गरूपिणः ॥ १,२२.३२ ॥ भूत्वा धरणिमभ्येत्य रमन्ते विचरन्ति च । जीमूता नाम ते मेघा ह्येतेभ्यो जीवसंभवः ॥ १,२२.३३ ॥ विद्युद्गुणविहीनाश्च जलधारा विलंबिनः । मूकमेघा महाकाया आवहस्य वशानुगाः ॥ १,२२.३४ ॥ क्रोशमात्राच्च वर्षन्ति क्रोशार्द्धादपि वा पुनः । पर्वताग्र नितंबेषु वर्षति च रसंति च ॥ १,२२.३५ ॥ बलाकागर्भदाश्चैव बलाकागर्भधारिणः । ब्रह्मजा नाम ते मेघा ब्रह्मनिश्वाससंभवाः ॥ १,२२.३६ ॥ ते हि विद्युद्गुणोपेतास्तनयित्नुप्रियस्वनाः । तेषां शश्र्वत्प्रणादेन भूमिः स्वाङ्गरूहोद्भवा ॥ १,२२.३७ ॥ राज्ञी राज्याभिषिक्तेव पुनर्यौंवनमश्नुते । तेष्वियं प्रावृडासक्ता भूतानां जीवितोद्भवा ॥ १,२२.३८ ॥ द्वितीयं प्रवहं वायुं मेघास्ते तु समाश्रिताः । एतं योजनमात्राच्च साध्यर्द्धा निष्कृतादपि ॥ १,२२.३९ ॥ वृष्टिर्गर्भस्त्रिधा तेषां धारासारः प्रकीर्त्तितः । पुष्करावर्त्तका नाम ते मेघाः पक्षसंभवाः ॥ १,२२.४० ॥ शक्रेण पक्षच्छिन्ना ये पर्वतानां महौजसाम् । कामागानां प्रवृद्धानां भूतानां शिवमिच्छता ॥ १,२२.४१ ॥ पुष्करा नाम ते मेघा बृंहन्तस्तोयमत्सराः । पुष्करावर्त्तकास्तेन कारणेनेह शब्दिताः ॥ १,२२.४२ ॥ नानारूपधराश्चैव महाघोरस्वनाश्च ते । कल्पान्तवृष्टेः स्रष्टारः संवर्ताग्ने र्नियामकाः ॥ १,२२.४३ ॥ वर्षन्त्येते युगान्तेषु तृतीयास्ते प्रकीर्त्तिताः । अनेकरूपसंस्थानाः पूरयन्तो महीतलम् ॥ १,२२.४४ ॥ वायुं पुरा वहन्तः स्युराश्रिताः कल्पसाधकाः । यान्यण्डस्य तु भिन्नस्य प्राकृतस्याभवंस्तदा ॥ १,२२.४५ ॥ यस्मिन्ब्रह्मा समुत्पन्नश्चतुर्वक्त्रः स्वयंप्रभुः । तान्येवाण्डकपालानि सर्वे मेघाः प्रकीर्त्तिताः ॥ १,२२.४६ ॥ तेषामाप्यायनं धूमः सर्वेषामविशेषतः । तेषां श्रेष्ठस्तु पर्जन्यश्चत्वारश्चैव दिग्गजाः ॥ १,२२.४७ ॥ गजानां पर्वतानां च मेघानां भोगिभिः सह । कुलमेकं पृथग्भूतं योनिरेका जलं स्मृतम् ॥ १,२२.४८ ॥ पर्जन्यो दिग्गजा श्चैव हेमन्ते शीतसंभवाः । तुषारवृष्टिं वर्षन्ति शिष्टः सस्यप्रवृद्धये ॥ १,२२.४९ ॥ षष्ठः परिवहो नाम तेषां वायुरपाश्रयः । योऽसौ बिबर्त्ति भगवान्गङ्गामाकाशगोचराम् ॥ १,२२.५० ॥ दिव्यामृतजला पुण्यां त्रिधास्वातिपथे स्थिताम् । तस्या निष्यन्दतोयानि दिग्गजाः पृथुभिः करैः ॥ १,२२.५१ ॥ शीकरं संप्रमुञ्चन्ति नीहार इति स स्मृतः । दक्षिणेन गिरिर्योऽसौ हेमकूट इति स्मृतः ॥ १,२२.५२ ॥ उदग्घिमवतः शैल उत्तरप्रायदक्षिणे । पुण्ड्रं नाम समाख्यातं नगरं तत्र विस्तृतम् ॥ १,२२.५३ ॥ तस्मिन्निपतितं वर्षं तत्तुषारसमुद्भवम् । ततस्तदा वहो वायुर्हेमवन्तं समुद्वहन् ॥ १,२२.५४ ॥ आनयत्यात्मयोगेन सिंचमानो महागिरिम् । हिमवन्तमतिक्रम्य वृष्टिशेषं ततः परम् ॥ १,२२.५५ ॥ इहाभ्येति ततः पश्चादपरान्तविवृद्धये । वर्षद्वयं समाख्यातं सस्यद्वयविवृद्धये ॥ १,२२.५६ ॥ मेघाश्चाप्यायनं चैव सर्वमेतत्प्रकीर्त्तितम् । सूर्य एव तु वृष्टीनां स्रष्टा समुपदिश्यते ॥ १,२२.५७ ॥ सूर्यमूला च वै वृष्टिर्जलं सूर्यात्प्रवर्तते । ध्रुवेणाधिष्ठितः सूर्यस्तस्यां वृष्टौ प्रवर्त्तते ॥ १,२२.५८ ॥ ध्रुवेणाधिष्टितो वायुर्वृष्टिं संहरते पुनः । ग्रहो निःसृत्य सूर्यात्तु कृत्स्ने नक्षत्रमण्डले ॥ १,२२.५९ ॥ चरित्वान्ते विशत्यर्कं ध्रुवेण समाधिष्ठितम् । ततः सूर्यरथस्याथ सन्निवेशं निबोधत ॥ १,२२.६० ॥ संस्थितेनैकचक्रेण पञ्चारेण त्रिनाभिना । हिरण्मयेन भगवांस्तथैव हरिदर्वणा ॥ १,२२.६१ ॥ अष्टापदनिबद्धेन षट्प्रकारैकनेमिना । चक्रेण भास्वता सूर्यः स्यन्दनेन प्रसर्पति ॥ १,२२.६२ ॥ दशयोजनसाहस्रो विस्तारायामतः स्मृतः । द्विगुणोऽस्य रथोपस्थादीषादण्डः प्रमाणतः ॥ १,२२.६३ ॥ स तस्य ब्रह्मणा सृष्टो रथो ह्यर्थवशेन तु । असंगः काञ्चनो दिव्यो युक्तः पवनगैर्हयैः ॥ १,२२.६४ ॥ छन्दोभिर्वाजिरूपैस्तु यतश्चक्रं ततः स्थितैः । वारुणस्यन्दनस्येह लक्षणैः सदृशस्तु सः ॥ १,२२.६५ ॥ तेनासौ सर्वते व्योम्नि भास्वता तु दिवाकरः । अथैतानि तु सूर्यस्य प्रत्यङ्गानि रथस्य ह ॥ १,२२.६६ ॥ संवत्सरस्यावयवैः कल्पि तस्य यथाक्रमम् । अहस्तु नाभिः सौरस्य एकचक्रस्य वै स्मृतः ॥ १,२२.६७ ॥ अराः पञ्चार्त्तवांस्तस्य नेमिः षडृतवः स्मृतः । रथनीडः स्मृतो ह्येष चायने कूबरावुभौ ॥ १,२२.६८ ॥ मुहूर्त्ता बन्धुरास्तस्य रम्याश्चास्य कलाः स्मृताः । तस्य काष्ठा स्मृता घोणा अक्षदण्डः क्षणस्तु वै ॥ १,२२.६९ ॥ निमेषश्चानुकर्षोऽस्य हीषा चास्य लवाःस्मृताः । रात्रिर्वरूथो धर्मोऽस्य ध्वज ऊर्द्ध्व समुच्छ्रितः ॥ १,२२.७० ॥ युगाक्षकोडी ते तस्य अर्थकामावुभौ स्मृतौ । सप्ताश्वरूपाश्छन्दासि वहन्तो वामतो धुरम् ॥ १,२२.७१ ॥ गायत्री चैव त्रिष्टुप्य ह्यनुष्टुब्जगती तथा । पङ्क्तिश्च बृहती चैव ह्युष्णिक्चैव तु सप्तमी ॥ १,२२.७२ ॥ चक्रमक्षे निबद्धं तु ध्रुवे चाक्षः समर्पितः । सहचक्रो भ्रमत्यक्षः सहक्षो भ्रमते ध्रुवः ॥ १,२२.७३ ॥ अक्षेण सह चक्रेशो भ्रमतेऽसौ ध्रुवेरितः । एवमर्थवशात्तस्य सन्निवेशो रथस्य तु ॥ १,२२.७४ ॥ तथा संयोगभावेन संसिद्धो भासुरो रथः । तेनासौ तरणिर्देवो भास्वता सर्पते दिवि ॥ १,२२.७५ ॥ युगाक्षकोटिसन्नद्धौ द्वौ रश्मी स्यन्दनस्य तु । ध्रुवे तौ भ्राम्यते रश्मी च चक्रयुगयोस्तु वै ॥ १,२२.७६ ॥ भ्रमतो मण्डलान्यस्य खेचरस्य रथस्य तु । युगाक्षकोटी ते तस्य दक्षिणे स्यन्दनस्य हि ॥ १,२२.७७ ॥ ध्रुवेण प्रगृहीते वै विचक्रम तुरक्षवत् । भ्रमन्तमनुगच्छेतां ध्रुवं रश्मी तु तावुभौ ॥ १,२२.७८ ॥ युगाक्षकोटिस्तत्तस्य रश्मिभिः स्यन्दनस्य तु । कीलासक्ता यथा रज्जुर्भ्रंमते सर्वतो दिशम् ॥ १,२२.७९ ॥ ह्रसतस्तस्य रश्मी तु मण्डलेषूत्तरायणे । वर्द्धते दक्षिणे चैव भ्रमतो मण्डलानि तु ॥ १,२२.८० ॥ युगाक्षकोटिसंबद्धौ रश्मी द्वौ स्यन्दनस्य तु । ध्रुवेण प्रगृहीतौ वै तौ रश्मी नयतो रविम् ॥ १,२२.८१ ॥ आकृष्येते यदा तौ वै ध्रुवेण सम धिष्ठितौ । तदा सोऽभ्यन्तरे सूर्यो भ्रमते मण्डलानि तु ॥ १,२२.८२ ॥ अशीतिर्मण्डलशतं काष्ठयोरन्तरं स्मृतम् । ध्रुवेण मुच्यमानाभ्यां रश्मिभ्यां पुनरेव तु ॥ १,२२.८३ ॥ तथैव बाह्यतः सूर्यो भ्रमते मण्डलानि तु । उद्वेषाटयन्स वेगेन मण्डलानि तु गच्छति ॥ १,२२.८४ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे देवग्रहानुकीर्तनं नाम द्वाविंशतितमोऽध्यायः _____________________________________________________________ सूत उवाच सरथोऽधिष्ठितो देवैरादित्यैर्मुनिभिस्तथा । गन्धर्वैरप्सरोभिश्च ग्रामणीसर्पराक्षसैः ॥ १,२३.१ ॥ एते वसंति वै सूर्ये द्वौ द्वौ मासौ क्रमेण तु । धातार्ऽयमा पुलस्त्यश्च पुलहश्च प्रजापतिः ॥ १,२३.२ ॥ एरावतो वासुकिश्च कंसो भीमश्च तावुभौ । रथकृच्च रथौजाश्च यक्षावेतावुदा त्दृतौ ॥ १,२३.३ ॥ तुंबुरुर्नारदश्चैव सुस्थला पुञ्जिकस्थला । रक्षो हेतिः प्रहेतिश्च यातुधानावुदाहृतौ ॥ १,२३.४ ॥ एते वसंति वै सूर्य्ये मधुमाधवयोः सदा । मित्रश्च वरुणश्चैव मुनिरत्रिरुदाहृतः ॥ १,२३.५ ॥ तथा वसिष्ठो विख्यातः सहजन्या च मेनका । राक्षसौ च समाख्यातौ पौरुषेयो वधस्तथा ॥ १,२३.६ ॥ हाहा हूहूश्च गन्धर्वौं यज्ञश्चापि रथस्वनः । रथचित्रस्तथैवान्यो नागसाक्षकसंज्ञेतः ॥ १,२३.७ ॥ रंभकश्च वसन्त्येते मासयोः शुचिशुक्रयोः । ततः सूर्ये पुनस्त्वन्या निवसंतीह देवताः ॥ १,२३.८ ॥ इद्रश्चैव विवस्वांश्च अङ्गिरा भृगुरेव च । एलापत्रस्तथा सर्पः शङ्खपालाश्च तावुभौ ॥ १,२३.९ ॥ विश्वावसूग्रसेनौ च श्वेतश्चैवारुणस्तथा । प्रम्लोचा इति विख्यातानुम्लोचेति च ते उभे ॥ १,२३.१० ॥ यातुधानस्तदा सर्पो व्याघ्रश्चव तु तावुभौ । नभोनभस्ययोरेष गाणो वसति भास्करे ॥ १,२३.११ ॥ शरद्यन्याः पुनः शुभ्रा वसंति मुनिदेवताः पर्जन्यश्चैव पूषा च भारद्वाजः सगौतमः ॥ १,२३.१२ ॥ परावसुश्च गन्धर्वस्तथैव सुरुचिश्च यः । विश्वाची च घृताची च उभे ते शुभलक्षणे ॥ १,२३.१३ ॥ नाग एरावतश्चैव विश्रुतश्च धनञ्जयः । श्चेनजिच्च सुषेणश्च सेनीर्ग्राम णीश्च तौ ॥ १,२३.१४ ॥ आपो वातश्च द्वावेतौ यातुधानावुदाहृतौ । वसंत्येते तु वै सूर्ये सदैवाश्विनकर्तिके ॥ १,२३.१५ ॥ हैमन्तिकौ तु द्वौ मासौ वसंति च दिवाकरे । अंशो भगश्च द्वावैतौ कश्यपश्य क्रतुश्च ह ॥ १,२३.१६ ॥ भुजङ्गश्च महापद्मः सर्वः कर्केटक स्तथा । चित्रसेनश्च गन्धर्व ऊर्णायुश्चैव तावुभौ ॥ १,२३.१७ ॥ उर्वशी पूर्वचित्तिश्च तथैवाप्सरसा उभे । तार्क्षश्चारिष्टनेमिश्च सेनानीर्ग्रामणीश्च तौ ॥ १,२३.१८ ॥ विद्युत्स्फूर्जः शतायुश्च यातुधानावुदात्दृतौ । सहे चैव सहस्ये च वसंत्येते दिवाकरे ॥ १,२३.१९ ॥ ततः शैशिर योश्चापि मासयोर्निवसंति वै । त्वष्टा विष्णुर्जामदग्न्यो विश्वामित्रस्तथैव च ॥ १,२३.२० ॥ काद्रवेयौ तथा नागौ कंबलाश्वतरावुभौ । गन्धर्वो धृतराष्ट्रश्च सूर्यवर्चास्तथैव च ॥ १,२३.२१ ॥ तिलोत्तमा तथा रंभा ब्रह्मापेतश्च राक्षसः । यज्ञापेतम्तथैवान्यो विश्यातो राक्षसो त्तमः ॥ १,२३.२२ ॥ ऋतजित्सत्यजिच्चैव गन्धर्वौं समुदाहृतौ । तपस्तपस्ययोः सूर्ये वसंति मुनिसत्तमाः ॥ १,२३.२३ ॥ पितृदेवमनुष्यादीन्स सदाप्याययन्प्रभुः । परिवर्त्तत्यहोरात्रकारणं सविता द्विजाः ॥ १,२३.२४ ॥ एते देवा वसंत्यर्के द्वौ द्वौ मासौ क्रमेण तु । स्थानाभिमानिनो ह्येते गाणा द्वादशसप्तकाः ॥ १,२३.२५ ॥ सुर्यस्याप्याययन्त्येते तेजसा तेज उत्तममा । ग्रथितैः स्वैर्वचोभिश्च स्तुवन्ति ह्यृषयो रविम् ॥ १,२३.२६ ॥ गन्धर्वाप्सरसश्चैव गीतनृत्यैरुपासते । ग्रामणीयक्षभूतानि कुर्वतेऽभीषुसंग्रहम् ॥ १,२३.२७ ॥ सर्पा वहन्ति वै सूर्यं यातुधानास्तु यान्ति च । वालखिल्या नंयत्यस्तं परिवार्योदयाद्रविम् ॥ १,२३.२८ ॥ एतेषामेव देवानां यथावीर्यं यथातपः । यथाधर्मं यथायोगं यथासत्यं यथाबलम् ॥ १,२३.२९ ॥ तपत्यसौ तश्रा सूर्य एषामिन्द्रस्तु तेजसा । इत्येते निवसंतीह द्वौ द्वौ मासौ दिवाकरे ॥ १,२३.३० ॥ ऋषयो देवगन्धर्वाः पन्नगाप्सरसां गणाः । ग्रामण्यश्च तथा यक्षा यातुधानाश्च मुख्यशः ॥ १,२३.३१ ॥ एते तपन्ति वर्षन्ति भान्ति वान्ति सृजन्ति च । भूतानां चशुभं कर्म व्यपोहन्ति प्रकीर्त्तिताः ॥ १,२३.३२ ॥ मानवानां शुभं ह्येते हरन्ते दुरितात्मनाम् । दुरितं सुप्रचाराणां व्यपोहन्ति क्वचि त्क्वचित् ॥ १,२३.३३ ॥ एते सहैव सूर्येण भ्रमन्ति दिवासानुगाः । वर्षन्तश्च तपन्तश्च ह्लादयन्तश्च वै प्रजाः ॥ १,२३.३४ ॥ गोपायन्ति च भूतानि सर्वाणीहामनुक्षयात् । स्थानाभिमानिनामेतत्स्थानं मन्वन्तरेषु वै ॥ १,२३.३५ ॥ अतीतानागतानां च वर्त्तन्ते सांप्रतं च ये । एवं वसंति वै सूर्ये सप्तकास्ते चतुर्दश । चतुर्दशसु सर्वेषु गणा मन्वन्तरेष्विह ॥ १,२३.३६ ॥ ग्रीष्मे च वर्षासु च मुञ्चमानो घर्मं हिमं वर्ष दिनं निशां च । गच्छत्यसावृतुवशात्परिवृत्तरश्मिर्देवान् पितॄ॰ंश्च मनुजांश्च हि तर्पयन्वै ॥ १,२३.३७ ॥ प्रीणाति देवानमृतेन सूर्यः सोमं सुषुम्णेन च वर्द्धयित्वा । शुक्ले तु पूर्णं दिवसक्रमेण तं कृष्णपक्षे विबुधाः पिबन्ति ॥ १,२३.३८ ॥ पीतं च सोमं हि कलावशिष्टं कृष्णक्षये रश्मिभिरक्षरन्तम् । सुधामृतं तत्पितरः पिबन्ति देवाश्च सौम्याश्च तथैव काव्याः ॥ १,२३.३९ ॥ सूर्येण गोभिश्च समुज्झिताभिरद्भिः पुनश्चैव समुद्धृताभिः । वृष्ट्याभिवृद्धाभिरथौषधीभिर्मर्त्याः क्षुधं त्वन्नपानैर्जयन्ति ॥ १,२३.४० ॥ तृप्तिश्च शुक्ले सुधया सुराणां पक्षे च कृष्णे सुधया पितणाम् । अन्नेन शश्वच्च दधाति मर्त्यान्सुर्यस्तपंस्तान्सुबिभर्त्ति गोभिः ॥ १,२३.४१ ॥ ह्रियन्हरिस्तैर्हरिभिस्तुरङ्गमैर्हरत्यथापः किरणैर्हरिद्भिः । विसर्गकाले विसृजंश्च ताः पुनर्बिभर्त्ति शश्वत्सविता चराचरम् ॥ १,२३.४२ ॥ हरिर्हरिद्भिर्ह्रि यते तुरङ्गमैः पिबत्यथापो हरिभिः सहस्रधा । ततः प्रमुञ्चत्यपि तास्त्वसौ हरिः समूह्यमानो हरिभिस्तुरङ्गमैः ॥ १,२३.४३ ॥ इत्येष एकचक्रेण सूर्यस्तूर्णरथेन तु । भद्रैस्तैरक्रमैरश्वैः स्पन्दने वैदिकक्षयः ॥ १,२३.४४ ॥ अहोरात्राद्रथेनासावेकचक्रेण वै भ्रमन् । सप्तद्वीपसमुद्रान्तां सप्तभिः सप्तभिर्हयैः ॥ १,२३.४५ ॥ छन्दोभिरश्वरूपैस्तैर्यतश्चक्रं ततः स्थितैः । कामरूपैः सकृद्युक्तैर्वामतस्तैर्मनोजवैः ॥ १,२३.४६ ॥ हरितैख्ययैः पिङ्गैरीश्वरैर्ब्रह्मवादिभिः । त्र्यशीतिमण्डलशतं भ्रमन्त्यब्देन ते हयाः ॥ १,२३.४७ ॥ बाह्यमाभ्यन्तरं चैव मण्डलं दिवसक्रमात् । कल्पादौ संप्र युक्तास्ते वहन्त्याभूतसंप्लवात् ॥ १,२३.४८ ॥ आवृत्ता वालखिल्यैस्ते भ्रमन्ते रात्र्यहानि तु । वचोभिरग्र्यैर्ग्रथितैः स्तूयमानो महर्षिभिः ॥ १,२३.४९ ॥ सेव्यते गीतनृत्यैश्च गन्धर्वैश्चाप्सरोगणैः । पतङ्गैः पतगैरश्वैर्भ्रममाणो दिवस्पतिः ॥ १,२३.५० ॥ रथास्त्रचक्रःसोमस्य कुदाभास्तस्य वाजिनः । वामदक्षिणतो युक्ता दश तेन चरन्त्यसौ ॥ १,२३.५१ ॥ वीथ्याश्रयाणि ऋक्षाणि ध्रुवाधारेण वेगिताः । ह्रासवृद्धी तथैवास्य रश्मीनां सूर्यवत्स्मृते ॥ १,२३.५२ ॥ त्रिचक्रोभयतोऽश्वश्च विज्ञेयः शशिनो रथः । अपां गर्णात्समुत्पन्नो रथः साश्वः ससारथिः ॥ १,२३.५३ ॥ शतारैश्च त्रिभिश्चक्रैर्युक्तः शुक्लैर्हयोत्तमैः । दशभिस्तु कृशैर्दिव्यैरसंगैस्तैर्मनोजवैः ॥ १,२३.५४ ॥ सकृद्युक्ते रथे तास्मिन्वहन्ते चायुगक्षयात् । संगृहीतरथे तस्मिञ्श्वेतश्चक्षुःश्रवाश्च वै ॥ १,२३.५५ ॥ अश्वास्तमेकवर्णस्ते वहन्ते शङ्खवर्चसः । यजुश्चण्डमनाश्चैव वृषो वाजी नरो हयः ॥ १,२३.५६ ॥ अश्वो गविष्णुर्विख्यातो हंसो व्योमो मृगस्तथा । इत्येते नामभिः सर्वे दश चन्द्रमसो हयाः ॥ १,२३.५७ ॥ एते चन्द्रमसं देवं वहन्ति सह दीक्षया । देवैः परिवृतः सोमः पितृभिश्चैव गच्छति ॥ १,२३.५८ ॥ सोमस्य शुक्लपक्षादौ भास्करे परतः स्थिरे । आपूर्यते परस्यान्ते सततं दिवसक्रमात् ॥ १,२३.५९ ॥ देवैः पीततनुं सोममाप्याययति नित्यदा । क्षीणं पञ्चदशाहं तु रश्मिनैकेन भास्करः ॥ १,२३.६० ॥ आपूरयन्सुषुम्णेन भागं भागमहःक्रमात् । सुषुम्णाप्यायमानस्य शुक्ला वर्द्धन्ति वै कलाः ॥ १,२३.६१ ॥ तस्माद्ध्रसंति वै कृष्णे शुक्ले स्वाप्याययन्ति तम् । इत्येवं सूर्यवीर्येण चन्द्रश्चाप्यायितस्ततः ॥ १,२३.६२ ॥ पौर्णमास्यां स दृश्येत शुक्लः संपूर्णमण्डलः । एवमाप्यायितः सोमः शुक्ल पक्षे दिनक्रमात् ॥ १,२३.६३ ॥ ततो द्वितीयाप्रभृति बहुलस्य चतुर्द्दशीम् । अपां सारमयस्येन्दो रसमात्रात्मकस्य तु ॥ १,२३.६४ ॥ पिबत्यंबुमयं देवा हृष्टाः सौम्यं स्वधामृतम् । संभृतं त्वर्द्धमासेन ह्यमृतं सूर्यतेजसा ॥ १,२३.६५ ॥ भक्षार्थममृतं सोमः पौर्णमास्यामुपासते । एकां रात्रिं सुरैः सर्वैः पितृभिः सर्षिभिः सह ॥ १,२३.६६ ॥ सोमस्य कृष्णपक्षादौ भास्कराभिमुखस्य तु । प्रक्षीयन्ते पिदृदेवैः पीयमानाः कलाः क्रमात् ॥ १,२३.६७ ॥ त्रयश्च त्रिंशतश्चैव त्रयस्त्रिंशत्तथैव च । त्रयश्च त्रिसहस्राश्च देवाः सोमं पिबन्ति वै ॥ १,२३.६८ ॥ इत्येतैः पीयमानस्य कृष्णा वर्द्धति वै कलाः । क्षीयन्ति तस्माच्छुक्लाश्च कृष्णा आप्याययन्ति च ॥ १,२३.६९ ॥ एवं दिनक्रमात्पीते विबुधैस्तु निशाकरे । पीत्वार्द्ध मासं गच्छन्ति चामावास्यां सुरोत्तमाः ॥ १,२३.७० ॥ पितरश्चोपतिष्ठन्ति ह्यमावास्यां निशाकरम् । ततः पञ्चदशेकाले किञ्चिच्छिष्टे कलात्मके ॥ १,२३.७१ ॥ अपराह्णे पितृगणा जघन्यं पयुपासते । पिबन्ति द्विलवं कालं शिष्टास्तस्य कलास्तु याः ॥ १,२३.७२ ॥ निःसृतं तदमावास्यां गभस्तिभ्यः स्वधामृतम् । तां स्वधां मासतृप्त्यै च पीत्वा गच्छन्ति तेऽमृतम् ॥ १,२३.७३ ॥ सूर्यस्तस्मिन्सुषुम्णे यस्तापितस्तेन चन्द्रमाः । कृष्णपक्षे सुरैस्तद्वत्पीयते वै सुधामयः ॥ १,२३.७४ ॥ सौम्या बर्हिषदश्चैव अग्निष्वात्ताश्च ते त्रिधा । काव्यश्चैव तु ये प्रोक्ताः पितरः सर्व एव ते ॥ १,२३.७५ ॥ संवत्सरास्तु वै काव्याः पञ्चाब्दा ये द्विचैः स्मृताः । सौम्यास्तु ऋतुवो ज्ञेया मासा बर्हिषदः स्मृताः ॥ १,२३.७६ ॥ अग्निष्वात्तार्त्तवाश्चैव पितृसर्गा हि वै द्विजाः । पितृभिः पीयमानस्य पञ्चदश्यां कला तु वै ॥ १,२३.७७ ॥ यावत्प्रक्षीयते तस्य भागः पञ्चदशस्तु यः । अमावास्यां तदा तस्य तत आपूर्यते परः ॥ १,२३.७८ ॥ वृद्धक्षयौ वै पक्षादौ षोडश्यां शशिनः स्मृता । एवं सूर्यनिमित्तैष क्षयोवृद्धिर्निशाकरे ॥ १,२३.७९ ॥ ताराग्रहाणां वक्ष्यामि स्वर्भानोश्च रथान्पुनः । तेयतेजोमयः शुभ्रः सोमपुत्रस्य वै रथः ॥ १,२३.८० ॥ सोपासंगप ताकस्तु सध्वजो मेघनिस्वनः । भार्गवस्य रथः श्रीमांस्तेजसा सूर्यसन्निभः ॥ १,२३.८१ ॥ पृथिवीसंभवैर्युक्तो नानावर्णैर्हयोत्तमैः । श्वेतः पिशङ्गः सारङ्गो नीलः पीतो विलोहितः ॥ १,२३.८२ ॥ कृष्णश्च हरितश्चैव पृषतः पृश्रिरेव च । दशभिस्तैर्महाभागैरकृशैर्वातरंहसैः ॥ १,२३.८३ ॥ अष्टाश्वः काञ्चनः श्रीमान्भौमस्यापि रथोत्तमः । असंगैर्लोहितैरश्वैः सर्वगैरग्निसंभवैः ॥ १,२३.८४ ॥ प्रसर्पति कुमारो वै ऋजुवक्रानुव क्रगैः । ततश्चाङ्गिरसो विद्वान्देवाचार्यो बृहस्पतिः ॥ १,२३.८५ ॥ गौरैरश्वैः काञ्चनेन स्यन्दनेन प्रसर्पति । अब्जैस्तु वाजिभिर्दिव्यैरष्टभिर्वातरंहसैः ॥ १,२३.८६ ॥ नक्षत्रेऽब्दं स तिष्ठन्वै संवेधास्तेन गच्छति । ततः शनैश्चरोऽप्यश्वैः सबलैर्व्योमसंभवैः ॥ १,२३.८७ ॥ कार्ष्णायसं समारुह्य स्यन्दनं याति वै शनैः । स्वर्भानोश्च तथैवाश्वाः कृष्णा ह्यष्टौ मनोजवाः ॥ १,२३.८८ ॥ रथं तमोमयं तस्य सकृद्युक्ता वहं त्युत । आदित्यान्निःसृतो राहुः सोमं गच्छति पर्वसु ॥ १,२३.८९ ॥ आदित्यमेति सोमश्च पुनः सौरेषु पर्वसु । अथ केतुरथस्याश्वा अष्टौ वै वातरंहसः ॥ १,२३.९० ॥ पलालधूमवर्णाभा सबला रासभारुणाः । एते वाहा ग्रहाणां च ह्युपाख्याता रथैः सह ॥ १,२३.९१ ॥ सर्वे ध्रुवनिब द्धास्ते प्रवृद्धा वातरश्मिभिः । तपन्ते ब्राम्यमाणास्तु यथायोगं भ्रमन्ति वै ॥ १,२३.९२ ॥ वायव्याभिरदृश्याभिः प्रवृद्धा वातरश्मिभिः । परिभ्रमन्ति तद्ब्रद्धांश्चन्द्रसुर्यग्रहा दिवि ॥ १,२३.९३ ॥ भ्रमन्तमनुगछन्ति ध्रुवं ते ज्योतिषां गणाः । यथा नह्युदके नौस्तु सलिलेन सहो ह्यते ॥ १,२३.९४ ॥ तथा देवालया ह्येते ऊह्यन्ते वातरश्मिभिः । सर्प्पमाणा न दृश्यन्ते व्योम्नि देवगणास्तु ते ॥ १,२३.९५ ॥ यावत्यश्चैव ताराश्च तावन्तो वातरश्मयः । सर्वा ध्रुवे निबद्धाश्च भ्रमन्त्यो भ्रामयन्ति ताः ॥ १,२३.९६ ॥ तैलपीडा यथा चक्रं भ्रमन्तो भ्रामयन्ति ह । तथा भ्रमन्ति ज्योतींषि वातबद्धानि सर्वशः ॥ १,२३.९७ ॥ अलातचक्रवद्यान्ति वातचक्रेरितानि तु । यतो ज्योतींषि वहते प्रवहस्तेन स स्मृतः ॥ १,२३.९८ ॥ एवं ध्रुवनिबद्धोऽसौ सर्पते ज्योतिषां गणः । सैष तारामयो ज्ञेयः शिशुमारो ध्रुवो दिवि ॥ १,२३.९९ ॥ यदह्ना कुरुते पापं दृष्ट्वा तन्निशिमुञ्चते । यावत्यश्चैव तारास्ताः शिशुमाराश्रिता दिवि ॥ १,२३.१०० ॥ तावन्त्येव तु वर्षाणि जीवताभ्यधिकानि तु । साकारः शिशुमारश्च विज्ञेयः प्रविभागशः ॥ १,२३.१०१ ॥ औत्तानपादस्तस्याथ विज्ञेयो ह्यत्तरो हनुः । यज्ञः परस्तु विज्ञेयो धर्मो मर्द्धानमाश्रितः ॥ १,२३.१०२ ॥ हृदि नारायणः साध्यो ह्यश्विनौ पूर्वपादयोः । वरुणश्चार्यमा चैव पश्चिमे तस्य सक्थिनी ॥ १,२३.१०३ ॥ शिश्रं संवत्सरस्तस्य मित्रोऽपानं समाश्रितः । पुच्छेऽग्निश्च महेन्द्रश्च मारीचः कश्यपो ध्रुवः ॥ १,२३.१०४ ॥ तारकाः शिशुमारस्य नास्तं याति चतुष्टयम् । नक्षत्रचन्द्रमूर्याश्च ग्रहास्तारागणैः सह ॥ १,२३.१०५ ॥ उन्मुखा विमुखाः सर्वे वक्रीभूताः श्रिता दिवि । ध्रुवेणाधिष्ठिताश्चैव ध्रुवमेव प्रदक्षिणम् ॥ १,२३.१०६ ॥ परियान्तीश्वरश्रेष्ठं मेढीभूतं द्रुवं दिवि । अग्नीन्द्रकश्यपानां तु चरमोऽसौ ध्रुवः स्मृतः ॥ १,२३.१०७ ॥ एक एव भ्रमत्येष मेरुपर्वतमूर्द्धनि । ज्योतिषां चक्रमेतद्धि गदा कर्षन्नवाङ्मुखः । मेरुमालोकयत्येष पर्यन्ते हि प्रदक्षिणम् ॥ १,२३.१०८ ॥ इति श्रीब्रह्माण्डे महादृवायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे ध्रुवचर्याकीर्त्तनं नाम त्रयोविंशतितमोऽध्यायः _____________________________________________________________ सूत उवाच एतच्छ्रुत्वा तु सुनयः पुनस्ते संशयान्विताः । पप्रच्छुरुत्तरं भूयस्तदा ते रोमहर्षणम् ॥ १,२४.१ ॥ यदेतदुक्तं भवतागृहाणीत्येव विस्तृतम् । कथं देवगृहाणि स्युः कथं ज्योतींषिवर्णय ॥ १,२४.२ ॥ एतत्सर्वं समाचक्ष्व ज्योतिषां चैव निर्णयम् । वायुरुवाच श्रुत्वा तु वचनं तेषां तदा सूतः समाहितः ॥ १,२४.३ ॥ उवाच परमं वाक्यं तेषां संशयनिर्णयम् । अस्मिन्नर्थे माहाप्राज्ञैर्यदुक्तं ज्ञानबुद्धिभिः ॥ १,२४.४ ॥ एतद्वोऽहं प्रवक्ष्यामि सूर्याचन्द्रमसोर्भवम् । यथा देवगृहाणीह सूर्यचन्द्रग्रहाः स्मृताः ॥ १,२४.५ ॥ ततः परं च त्रिविधस्याग्नेर्वक्ष्ये समुद्भवम् । दिव्यस्य भौतिकस्याग्नेरब्योनेः पार्थि वस्य तु ॥ १,२४.६ ॥ व्युष्टायां तु रजन्यां वै ब्रह्मणोऽव्यक्तजन्मनः । अव्याकृतमिदं त्वासीन्नैशेन तमसावृतम् ॥ १,२४.७ ॥ सर्वभूतावशिष्टेऽस्मिंल्लोके नष्टविशेषणे । स्वयंभूर्भगवांस्तत्र लोकतन्त्रार्थसाधकः ॥ १,२४.८ ॥ खद्योतवत्स व्यचरदाविर्भावचिकीर्षया । सोऽग्निं दृष्ट्वाथ लोकादौ पृथिवीजलसंश्रितम् ॥ १,२४.९ ॥ संवृत्य तं प्रकाशार्थं त्रिधा व्यमजदीश्वरः । पवनो यस्तु लोकेऽस्मिन्पार्थिवः सोऽग्निरुच्यते ॥ १,२४.१० ॥ यश्चासौ तपते सूर्ये शुचिरग्निस्तु स स्मृतः । वैद्युतोऽब्जस्तु विज्ञेयस्तेषां वक्ष्येऽथ लक्षमम् ॥ १,२४.११ ॥ वैद्युतो जाठरः सौरो ह्यपां गर्भास्त्रयोऽग्रयः । तस्मादपः पिबन्सूर्यो गोभिर्दीप्यत्यसौ दिवि ॥ १,२४.१२ ॥ वैद्युतेन समाविष्टो वार्ष्यो नाद्भिः प्रशाम्यति । मानवा नां च कुक्षिस्थो नाद्भिः शास्यति पावकः ॥ १,२४.१३ ॥ तस्मात्सौरो वैद्युतश्च जाठरश्चप्यनिन्धनः । किञ्चिदप्सु मतं तेजः किञ्चिद्दृष्टमबिं धनम् ॥ १,२४.१४ ॥ काष्ठेन्धनस्तु निर्मथ्यः सोऽद्भिः शाम्यति पावकः । अर्चिष्मान्पवमानोऽग्निर्निष्प्रभो जाठरः स्मृतः ॥ १,२४.१५ ॥ यश्चायं मण्डले शुक्लो निरूष्मा संप्रकाशकः । प्रभा सौरी तु पादेन ह्यस्तं याति देवाकरे ॥ १,२४.१६ ॥ अग्निमाविशते रात्रौ तस्माद्दूरात्प्रकाशते । उद्यन्तं च पुनः सूर्यमौष्णमयमाग्नेयमाविशत् ॥ १,२४.१७ ॥ पादेन पार्थिवस्याग्नेस्तस्मादग्निस्तपत्यसौ । प्राकाश्यं च तथौष्ण्यं च सौराग्नेये तु तेजसी ॥ १,२४.१८ ॥ परस्परानुप्रवेशादाप्यायेते परस्परम् । उत्तरे चैव भूम्यर्द्धे तथा ह्यग्निश्च दक्षिणे ॥ १,२४.१९ ॥ उत्तिष्ठति पुनः सूर्ये रात्रिराविशते ह्यपः । तस्मात्तप्ता भवन्त्यापो दिवारत्रिप्रवेशनात् ॥ १,२४.२० ॥ अस्तं याति पुन सूर्ये अहर्वै प्रविशत्यपः । तस्मान्नक्तं पुनः शुक्ला आपोऽदृश्यन्त भास्वराः ॥ १,२४.२१ ॥ एतेन क्रमयोगेन भूम्यर्द्धे दक्षिणोत्तरे । उदयास्तमने नित्यमहोरात्रं विशत्यपः ॥ १,२४.२२ ॥ यश्चासौ तपते सूर्यः पिबन्नंभो गभस्तिभिः । पार्थिवाग्निविमिश्रोऽसौ दिव्यः शुचिरिति स्मृतः ॥ १,२४.२३ ॥ सहस्रपादसौ वह्निर्घृतकुंभनिभः शुचिः । आदत्ते स तु नाडीनां सहस्रेण समन्ततः ॥ १,२४.२४ ॥ नादेयीश्चैव सामुद्रीः कौप्याश्चैव समन्ततः । स्थावरा जङ्गमाश्चैव याश्च कुल्यादिका अपः ॥ १,२४.२५ ॥ तस्य रश्मिसहस्रं तु शीतवर्षोष्णनिःस्तवम् । तासां चतुःशता नाड्यो वर्षन्ते चित्र मूर्त्तयः ॥ १,२४.२६ ॥ चन्दनाश्चैव साध्यश्च कूतनाकूतनास्तथा । अमृता नामतः सर्वा रश्मयो वृष्टिसर्जनाः ॥ १,२४.२७ ॥ हिमोद्गताश्च ताभ्योऽन्या रश्मयस्त्रिशताः पुनः । दृश्या मेघाश्च याम्यश्च ह्रदिन्यो हिमसर्जनाः ॥ १,२४.२८ ॥ चन्द्रास्ता नामतः प्रोक्ता मिताभास्तु गभस्तयः । शुक्लाश्च कुहकाश्चैव गावो विश्वभृतस्तथा ॥ १,२४.२९ ॥ शुक्लास्ता नामतः सर्वस्त्रिशता धर्मसर्जनाः । समं विभज्य नाडीस्तु मनुष्टपितृदेवताः ॥ १,२४.३० ॥ मनुष्यानौषधेनेह स्वधया तु पितॄनपि । अमृतेन सुरान्सर्वांस्त्रींस्त्रिभिस्तर्पयत्यसौ ॥ १,२४.३१ ॥ वसंते चैव ग्रीष्मे च शतैः स तपति त्रिभिः । वर्षास्वथो शरदि वै चतुर्भिश्च प्रवर्षति ॥ १,२४.३२ ॥ हेमन्ते शिशिरे चैव हिम मुत्सृजते त्रिभिः । इन्द्रो धाता भगः पूषा मित्रोऽथ वरुणोर्ऽयमा ॥ १,२४.३३ ॥ अंशुर्विवस्वास्त्वष्टा च सविता विष्णुरेव च । माघमासे तु वरुणः पूषा चैव तु फलाल्गुने ॥ १,२४.३४ ॥ चैत्रे मासि तु देतोंशुर्धाता वैशाखतापनः । ज्येष्ठमासे भवेदिन्द्रश्चाषाढे सविता रविः ॥ १,२४.३५ ॥ विवस्वाञ्छ्रावणे मासि प्रोष्ठे मासे भागः स्मृतः । पर्जन्योऽश्वयुजे मासि त्वष्टा च कार्तिके रविः ॥ १,२४.३६ ॥ मार्गशीर्षे भवेन्मित्रः पौषेविष्णुः सनातनः । पञ्चरश्मिसहस्राणि वरुणस्यार्ककर्मणि ॥ १,२४.३७ ॥ षड्भिः सहस्रैः पूषा तु देवोऽशुसप्तभिस्तथा । धाताष्टभिः सहस्रैस्तु नवभिस्तु शतक्रतुः ॥ १,२४.३८ ॥ सविता दशभिर्याति यात्येकादशभिर्भगः । सप्तभिस्तपते सित्रस्त्वष्टा चैवाष्टभिस्तपेत् ॥ १,२४.३९ ॥ अर्यमा दशाभिर्याति पर्जन्यो नवभिस्तपेत् । षड्भी रश्मिसहस्रैस्तु विषणुस्तपति मेदिनीम् ॥ १,२४.४० ॥ वसंते कपिलः सूर्यो ग्रीष्मेर्ऽकः कनकप्रभः । श्वेतवर्णस्तु वर्षासु पाण्डुः शरदि भास्करः ॥ १,२४.४१ ॥ हेमन्ते ताम्रवर्णस्तु शैशिरे लोहितो रविः । इति वर्णाः समा ख्याताः सूर्यस्यर्तुसमुद्भवाः ॥ १,२४.४२ ॥ औषधीषु बलं धत्ते स्वधया च पिदृष्वपि । सूर्योऽमरेष्वप्यमृतं त्रयं त्रिषु न यच्छति ॥ १,२४.४३ ॥ एवं रश्मिसहस्रं तु सौरं लोकार्थसाधकम् । भिद्यते ऋतुमासाद्य जलशीतोष्णनिस्रवम् ॥ १,२४.४४ ॥ इत्येतन्मण्डलं शुक्लं भास्वरं सूर्य संज्ञितम् । नक्षत्रग्रहसोमानां प्रतिष्ठा योनिरेव च ॥ १,२४.४५ ॥ चन्द्रऋक्षग्रहाः सर्वे विज्ञेयाः सूर्यसंभवाः । नक्षत्राधिपतिः सोमो ग्रह राजो दिवाकरः ॥ १,२४.४६ ॥ शेषाः पञ्च ग्रहा ज्ञेया ईश्वराः कामचारिणः । पठ्यते चाग्निरादित्य उदकं चन्द्रमाः स्मृतः ॥ १,२४.४७ ॥ शेषाणा प्रकृतीः स्मयग्वर्ण्यमाना निबोधत । सुरसेनापतिः स्कन्दः पठ्यतेऽङ्गारको ग्रहः ॥ १,२४.४८ ॥ नारायणं बुधं प्राहुर्वेदज्ञानविदो बुधाः । रुद्रो वैवस्वतः साक्षाद्यमो लोकप्रभुः स्वयम् ॥ १,२४.४९ ॥ महाग्रहो द्विजश्रेष्ठो मन्दगामी शनैश्वरः । देवासुरगुरू द्वौ तु भानुमन्तौ महा ग्रहौ ॥ १,२४.५० ॥ प्रजापतिसुतावेतावुभौ शुक्रबृहस्पती । आदित्यमूलमखिलं त्रैलोक्यं नात्र संशयः ॥ १,२४.५१ ॥ भवत्यस्माज्जगत्कृत्स्नं सदेवासुरमानुषम् । रुद्रोपेन्द्रेन्द्रचन्द्राणां विप्रेन्द्रास्त्रिदिवौकसाम् ॥ १,२४.५२ ॥ द्युतिर्द्युतिमतां कृत्स्नं यत्तेजः सार्वलौकिकम् । सर्वात्मा सर्वलोकेशो महादेवः प्रजापतिः ॥ १,२४.५३ ॥ सूर्य एव त्रिलोकस्य सूलं परमदैवतम् । ततः संजायते सर्वं तत्र चैव प्रलीयते ॥ १,२४.५४ ॥ भावाभावौ हि लोकानामादित्यान्निःमृतौ पुरा । जगज्ज्ञेयो ग्रहो विप्रा दीप्तिमान्सुप्रभो रविः ॥ १,२४.५५ ॥ अत्र गच्छन्ति निधनं जायन्ते च पुनः पुनः । क्षणा मुहूर्त्ता दिवसा निशाः पक्षाश्च कृत्स्नशः ॥ १,२४.५६ ॥ मासाः संवत्सराश्चैव ऋतवोऽथ युगानि च । तदादित्यादृते ह्येषा कालंसख्या न विद्यते ॥ १,२४.५७ ॥ कालादृते न निगमो न दीक्षा नाह्निकक्रमः । ऋतूनामविभागाच्च पुष्पमूलफलं कुतः ॥ १,२४.५८ ॥ कुतः सस्यविनिष्पत्तिस्तृणौषधिगणोऽपि वा । अभावो व्यवहाराणां जन्तूनां दिवि चैह च ॥ १,२४.५९ ॥ जगत्प्रतापनमृते भास्करं वारितस्करम् । स एष कालश्चाग्निश्च द्वादशात्मा प्रजापतिः ॥ १,२४.६० ॥ तपत्येष द्विजश्रेष्ठास्त्रैलोक्यं सचराचरम् । स एष तेचसां राशिस्तमो घ्रन्सार्वलौकिकम् ॥ १,२४.६१ ॥ उत्तमं मार्गमास्थाय वायोर्भाभिरिदं जगत् । पार्श्वमूर्ध्वमधश्चैव तापयत्येष सर्वशः ॥ १,२४.६२ ॥ यथा प्रभाकरो दीपोगृहमध्येऽवलंबितः । पार्श्वमूर्ध्वमधश्चैव तमो नाशयते समम् ॥ १,२४.६३ ॥ तद्वत्सहस्रकिरणो ग्रहराजो जगत्पतिः । सूर्यो गोभिर्जगत्सर्वमादीपयति सर्वतः ॥ १,२४.६४ ॥ रवे रश्मिसहस्रं यत्प्राङ्मया समुदात्दृतम् । तेषां श्रेष्ठाः पुनः सप्त रश्मयो ग्रहयो नयः ॥ १,२४.६५ ॥ सुषुम्णो हरिकेशश्च विश्वकर्मा तथैव च । विश्वश्रवाः पुनश्चान्यः संपद्वसुरतः परः ॥ १,२४.६६ ॥ अर्वावसुः पुनश्चान्यः स्वराडन्यः प्रकीर्त्तितः । सुषुम्णः सूर्यरश्मिस्तु क्षीण शशिनमेधयेत् ॥ १,२४.६७ ॥ तिर्यगूर्ध्वप्रचारोऽसौ सुषुम्णः परिकीर्त्तितः । हरि केशः पुरस्ताद्य ऋक्षयोनिः स कीत्यते ॥ १,२४.६८ ॥ दक्षिणे विश्वकर्मा तु रश्मिन्वर्द्धयते वुधम् । विश्वश्रवास्तु यः पश्चच्छुक्रयोनिः स्मृतो बुधैः ॥ १,२४.६९ ॥ संपद्वसुस्तु यो रश्मिः स योनिर्लोहितस्य तु । षष्ठस्त्वर्व्वावसू रश्मिर्योनिस्तु स बृहस्पतेः ॥ १,२४.७० ॥ शनैश्चरंपुन श्चापि रश्मिराप्यायते स्वराट् । एवं सूर्यप्रभावेण ग्रहनक्षत्रतारकाः ॥ १,२४.७१ ॥ वर्त्न्ते दिवि ताः सर्वा विश्वं चैदं पुनर्जगत् । नक्षीयन्ते यतस्तानि तस्मान्नक्षत्रसंज्ञिताः ॥ १,२४.७२ ॥ क्षेत्राण्येतानि वै पूर्वमापतन्ति गभस्तिभिः । तेषां क्षेत्राण्यथादत्ते सूर्यो नक्षत्रकारकाः ॥ १,२४.७३ ॥ तीर्णानां सुकृतेनेह सुकृतान्ते ग्रहाश्रयात् । तारणात्तारका ह्येताः शुक्लत्वाच्चैव तारकाः ॥ १,२४.७४ ॥ दिव्यानां पार्थिवानां च नैशानां चैव सर्वशः । आदानान्नित्यमादित्यस्तेजसा तपसामपि ॥ १,२४.७५ ॥ स्वनं स्यन्दनार्थे चु धातुरेषु विभाव्यते । स्वनात्तेजसोऽपां च तेनासौ सविता मतः ॥ १,२४.७६ ॥ बह्वर्थश्चदिरित्येष ह्लादने धातुरुच्यते । शुक्लत्वे चामृतत्वे च शीतत्वे च विभाव्यते ॥ १,२४.७७ ॥ सूर्याचन्द्रमसो र्दिव्ये मण्डले भास्वरे खगे । जलतेचौमये शुक्ले वृत्तकुंभनिभे शुभे ॥ १,२४.७८ ॥ घनतोयात्मकं तत्र मण्डलं शशिनः स्मृतम् । घनतेजोमयं शुक्लं मण्डलं भास्करस्य तु ॥ १,२४.७९ ॥ विशन्ति सर्वदेवास्तु स्थानान्येतानि सर्वशः । मन्वन्तरेषु सर्वेषु ऋक्षसूर्यग्रहाश्रयाः ॥ १,२४.८० ॥ तानि देवगृहाण्येव तदाख्यास्ते भवन्ति च । सौरं सूर्यो विशेत्स्थानं सौम्यं सोमस्तथैव च ॥ १,२४.८१ ॥ शौक्रं शुक्रो विशेत्स्थानं षोड शार्चिः प्रभास्वरम् । जैवं बृहस्पतिश्चैव लौहितं चैव लोहितः ॥ १,२४.८२ ॥ शनैश्चरो र्विशेत्स्थानं देवः शानैस्चरं तथा । बौधं बुधोऽथ स्वर्भानुः स्वर्भानुस्थानमास्थितः ॥ १,२४.८३ ॥ नक्षत्राणि च सर्वाणि नक्षत्राणि विशन्त्युत । गृहाण्येतानि सर्वाणि ज्योतींषि सुकृतात्म नाम् ॥ १,२४.८४ ॥ कल्पादौ संप्रवृत्तानि निर्मितानि स्वयंभुवा । स्थानान्येतानि तिष्ठन्ति यावदात्रूतसंप्लवम् ॥ १,२४.८५ ॥ मन्वन्तरेषु सर्वेषु देवस्थानानि तानि वै । अभिमानिनोऽवतिष्ठन्ते देवस्थानानि वै पुनः ॥ १,२४.८६ ॥ अतीतैस्तु सहातीता भाव्या भाव्यैः सुरैः सह । वर्त्तन्ते वर्त्तमानैश्च स्थानिभिस्तैः सुरैः सह । अस्मिन्मन्वन्तरे चैव ग्रहा वैतानिकाः स्मृताः ॥ १,२४.८७ ॥ विवस्वानदितेः पुत्रः सूर्यो वैवस्वतेऽन्तरे । त्विषिनामा धर्मसुतः सोमो देवो वसुः स्मृतः ॥ १,२४.८८ ॥ शुक्रो देवस्तु विज्ञेयो भार्गवोऽसुरयाजकः । बृहत्तेजाः स्मृतो देवो देवाचार्योऽगि रस्सुतः ॥ १,२४.८९ ॥ बुधो मनोहरश्चैव त्विषिपुत्रस्तु स स्मृतः । शनैश्चरो विरूपस्तु संज्ञापुत्रो विवस्वतः ॥ १,२४.९० ॥ अग्नेर्विकेश्यां जज्ञे तु युवासौ लोहिताधिपः । नक्षत्राण्यृक्षनामानो दाक्षायण्यस्तु ताः स्मृताः ॥ १,२४.९१ ॥ स्वर्भानुः सिंहिकापुत्रो भूतसंतापनोऽसुरः । सोमर्क्षग्रहसूर्येषु कीर्त्तिता ह्यभिमानिनः ॥ १,२४.९२ ॥ स्थानान्येतानि चोक्तानि स्थानिनश्चाथ देवताः । शुक्लमग्निमयं स्थानं सहस्रांशोर्विवस्वतः ॥ १,२४.९३ ॥ सहस्रांशोस्त्विषेः स्थानमम्मयं शुक्लमेव च । आप्यं श्यामं मनोज्ञस्य पञ्चरश्मेर्गृहं स्मृतम् ॥ १,२४.९४ ॥ शुक्रस्याप्यम्मयं शुक्लं पद्मं षौडःशरश्मिषु । नवरश्मेस्तु भौमस्य लौहितं स्थानमम्मयम् ॥ १,२४.९५ ॥ हरिदाप्यं बृहत्स्थानं द्वादशांशैर्बृहस्पतेः । अषृ रश्मिगृहं प्रोक्तं कृष्णं मन्दस्य चाम्मयम् ॥ १,२४.९६ ॥ स्वर्भानोस्तामसं स्थानं भूतसंतापनालयम् । विज्ञेयास्तारकाः सर्वा अम्मयास्त्त्वे करश्मयः ॥ १,२४.९७ ॥ आश्रयाः पुण्यकीर्तीनां सुशुक्लाश्चापि वर्णतः । घनतोयात्मिका ज्ञेयाः कल्पादावेव निर्मिताः ॥ १,२४.९८ ॥ आदित्यरश्मिसंयोगात्संप्रकाशात्मिकाः स्मृताः । नवयोजनसाहस्रो विष्कंभः सवितुः स्मृतः ॥ १,२४.९९ ॥ त्रिगुणास्तस्य विस्तारो मण्डलस्य प्रमाणतः । द्विगुणः सूर्यविस्ताराद्विस्तारः शशिनः स्मृतः ॥ १,२४.१०० ॥ तुल्यस्तयोस्तु स्वर्भानुर्भूत्वाधस्तात्प्रसर्पति । उद्धृत्य पृथिवीछायां निर्मितो मण्डलाकृतिः ॥ १,२४.१०१ ॥ स्वर्भानोस्तु बृहत्स्थानं तृतीयं यत्तमोमयम् । आदित्यात्तच्च निष्क्रम्य सोमं गच्छति पर्वसु ॥ १,२४.१०२ ॥ आदित्यमेति सोमाच्च पुनः सौरेषु पर्वसु । स्वर्भासा नुदते यस्मात्तस्मात्स्वर्भानुरुच्यते ॥ १,२४.१०३ ॥ चन्द्रस्य षोडशो भागो भार्गवस्तु विधीयते । विष्कंभान्मण्डलाच्चैव योजनाग्रात्प्रमाणतः ॥ १,२४.१०४ ॥ भार्गवात्पादहीनस्तु विज्ञेयो वै बृहस्पतिः । बृहस्पतेः पाद हीनौ भौमसौरावुभौ स्मृतौ ॥ १,२४.१०५ ॥ विस्तारान्मण्डलाच्चैव पादहीनस्तयोर्बुधः । तारानक्षत्ररूपाणि वपुष्मन्ति च यानि वै ॥ १,२४.१०६ ॥ बुधेन समरूपाणि विस्तारान्मण्डलाच्च वै । प्रायशश्चन्द्रयोगीनि विद्यादृक्षाणि तत्त्ववित् ॥ १,२४.१०७ ॥ तारानक्षत्ररूपाणि हीनानि तु परस्परात् । शतानि पञ्च चत्वारि त्रीणि द्वे चैव योजने ॥ १,२४.१०८ ॥ पूर्वापरनिकृष्टानि तारकामण्डलानि च । योजनाद्यर्द्धमात्राणि तेभ्यो ह्रस्वं न विद्यते ॥ १,२४.१०९ ॥ उपरिष्टात्त्रयस्तेषां ग्रहा ये दूरसर्पिणः । सौरोङ्गिराश्च वक्रश्च ज्ञेया मन्दविचारिणः ॥ १,२४.११० ॥ तेभ्योऽध स्तात्तु चत्वारः पुनरेव महाग्रहाः । सूर्यसोमौ बुधश्चैव भार्गवश्चैव शीघ्रगाः ॥ १,२४.१११ ॥ तावत्यस्तारकाकोट्यो यावदृक्षाणि सर्वशः । विधिना नियमाच्चैषामृक्षचर्या व्यवस्थिता ॥ १,२४.११२ ॥ गतिस्तासु च सूर्यस्य नीचौच्चे त्वयनक्रमात् । उत्तरायणमार्गस्थो यदा पर्वसु चन्द्रमाः ॥ १,२४.११३ ॥ उच्चत्वाद्दृश्यते शीघ्रं नीतिव्यक्तैर्गभस्तिभिः । तदा दक्षिणमार्गस्यो नीयां विथीमुपाश्रितः ॥ १,२४.११४ ॥ भूमि लेखावृतः सूर्यः पूर्णामावास्ययोः सदा । न दृश्यते यथाकालं शीघ्रमस्तमुपैति च ॥ १,२४.११५ ॥ तस्मादुत्तरमार्गस्थो ह्यमावस्यां निशाकरः । दृश्यते दक्षिणे मार्गे नियमाद्दृश्यते न च ॥ १,२४.११६ ॥ ज्योतिषां गतियोगेन सूर्याचन्द्रमसावृतः । समानकालास्तमयौ विषुवत्सु समोदयौ ॥ १,२४.११७ ॥ उत्तरासु च वीथीषु व्यन्तरास्तमनोदयौ । पूर्णामवास्ययोर्ज्ञोयौ ज्योतिश्चक्रानुवर्तिनौ ॥ १,२४.११८ ॥ दक्षिणायनमार्गस्थो यदा चरति रश्मिवान् । तदा सर्वग्रहाणां च सूर्योऽधस्तात्प्रसर्पति ॥ १,२४.११९ ॥ विस्तीर्ण मण्डलं कृत्वा तस्योर्द्ध्व चरते शशी । नक्षत्रमण्डलं कृत्स्नं सोमादूर्द्ध्व प्रसर्पति ॥ १,२४.१२० ॥ नक्षत्रेभ्यो बुधश्चोर्द्ध्र बुधादूर्द्ध्वं तु भार्गवः । वक्रस्तु भार्गवादूर्द्ध्व वक्रादूर्द्ध्वं बृहस्पतिः ॥ १,२४.१२१ ॥ तस्माच्छनैश्चरश्चोर्द्ध्वं तस्मात्सप्तर्षिमण्डलम् । ऋषीणां चापि सप्तानां ध्रुव ऊर्द्ध्वं व्यवस्थितः ॥ १,२४.१२२ ॥ द्विगुणेषु सहस्रेषु योजनानां शतेषु च । ताराग्रहान्तराणि स्युरुपरिष्टाद्यथाक्रमम् ॥ १,२४.१२३ ॥ ग्रहाश्च चन्द्रसूर्यौं च दिवि दिव्येन तेज सा । नित्यमृक्षेषु युज्यन्ते गच्छन्तो नियताः क्रमात् ॥ १,२४.१२४ ॥ ग्रहनक्षत्रसूर्यास्तु नीचोच्चमृजवस्तथा । समागमे च भेदे च पश्यन्ति युगपत्प्रजाः ॥ १,२४.१२५ ॥ परस्परस्थिता ह्येते युज्यन्ते च परस्परम् । असंकरेण विज्ञेयस्तेषां योगस्तु वै बुधैः ॥ १,२४.१२६ ॥ इत्येवं सन्निवेशो वै वृथिव्या ज्यौतिषस्य च । द्विपानामुदधीनां च पर्वतानां त्थैव च ॥ १,२४.१२७ ॥ वर्षाणां च नदीनां च ये च तेषु वसंति वै । एतेष्वेव ग्रहाः सर्वे नक्षत्रेषु समुत्थिताः ॥ १,२४.१२८ ॥ विवस्वानदितेः पुत्रः सूर्यो वै चाक्षुषेंऽतरे । विशाखासु समुत्पन्नो ग्रहाणां प्रथमो ग्रहः ॥ १,२४.१२९ ॥ त्विषिमान् धर्मपुत्रस्तु सोमो देवो वसोस्सुतः । शीतरश्मिः समुत्पन्नः कृत्तिकासु निशाकरः ॥ १,२४.१३० ॥ षोडशार्चिर्भृगोः पुत्रः शुक्रः सूर्यादनन्तरम् । ताराग्रहाणां प्रवरस्तिष्यऋक्षे समुत्थितः ॥ १,२४.१३१ ॥ ग्रहश्चाङ्गिरसः पुत्रो द्वादशार्चिर्बृहस्पतिः । फाल्गुनीषु समुत्पन्नः पूर्वासु च जगद्गुरुः ॥ १,२४.१३२ ॥ नवार्चिर्लोहिताङ्गश्च प्रजापतिसुतो ग्रहः । आषाढास्विह पूर्वासु समुत्पन्न इति श्रुतिः ॥ १,२४.१३३ ॥ रेवतीष्वेव सप्तार्चिस्तथा सौरिः शनैश्चरः । सौम्यो बुधो धनिष्ठासु पञ्चार्चिरुदितो ग्रहः ॥ १,२४.१३४ ॥ तमोमयो मृत्युसुतः प्रजाक्षयकरः शिखी । आर्श्लेषासु समुत्पन्नः सर्वहारी महाग्रहः ॥ १,२४.१३५ ॥ तथा स्वनामधेयेषु दाक्षायण्यः समुछ्रिताः । तमोवीर्यमयो राहुः प्रकृत्या कृष्णमण्डलः ॥ १,२४.१३६ ॥ भरणीषु समुत्पन्नो ग्रहश्चन्द्रार्कमर्द्दनः । एते तारा ग्रहाश्चापि बोद्धव्या भार्गवादयः ॥ १,२४.१३७ ॥ जन्मनक्षत्रपीडासु यान्ति वैगुण्यतां यतः । स्पृश्यन्ते तेन दोषेण ततस्तद्ग्रहभक्तितः ॥ १,२४.१३८ ॥ सर्वग्रहाणामेतेषामादिरादित्य उच्यते । ताराग्रहाणां शुक्रस्तु केतूनामपि धूमवान् ॥ १,२४.१३९ ॥ ध्रुवः कीलो ग्रहाणां तु विभक्तानां चतुर्द्दिशम् । नक्षत्राणां श्रविष्ठा स्यादयनानां तथोत्तरम् ॥ १,२४.१४० ॥ वर्षाणां चापि पञ्चानामाद्यः संवत्सरः स्मृतः । ऋतूनां शिशिरश्चापि मासानां माघ एव च ॥ १,२४.१४१ ॥ पक्षाणां शुक्लपक्षश्च तिथीनां प्रतिपत्तथा । अहोरात्रविभागानामहश्चापि प्रकीर्तितम् ॥ १,२४.१४२ ॥ मुहूर्त्तानां तथैवादिर्मुहूर्त्तो रुद्रदैवतः । क्षणश्चापि निमेषादिः कालः कालविदां वराः ॥ १,२४.१४३ ॥ श्रवणान्तं धनिष्ठादि युगं स्यात्पञ्चवार्षिकम् । भानोर्गतिविशेषेण चक्रवत्परिवर्त्तते ॥ १,२४.१४४ ॥ दिवाकरः स्मृतस्तस्मात्कालस्तद्विद्भिरीश्वरः । चतुर्विधानां भूतानां प्रवर्त्तकनिवर्त्तकः ॥ १,२४.१४५ ॥ तस्यापि भगवान्रुद्रः साक्षाद्देवः प्रवर्त्तकः । इत्येष ज्योतिषामेव संनिवेशोर्ऽथनिश्चयात् ॥ १,२४.१४६ ॥ लोकसंव्यवहारार्थ मीश्वरेण विनिर्मितः । उत्तराश्रवणेनासौ संक्षिप्तश्च ध्रुवे तथा ॥ १,२४.१४७ ॥ सर्वतस्तेषु विस्तीर्णो वृत्ताकार इव स्थितः । बुद्धिबूर्वं भागवता कल्पदौ संप्रवर्त्तितः ॥ १,२४.१४८ ॥ साश्रयः सोऽभिमानी च सर्वस्य ज्योतिषात्मकः । वैश्वरूपप्रधानस्य परिणामोऽयमद्भुतः ॥ १,२४.१४९ ॥ नैतच्छक्यं प्रसंख्यातुं याथातथ्येन केनचित् । गतागतं मनुष्येण ज्योतिषां सांसचक्षुषा ॥ १,२४.१५० ॥ आगमादनुमा नाच्च प्रत्यक्षदुपपत्तितः । परिक्ष्य निपुणं बुद्ध्या श्रद्धातव्यं विपश्चिता ॥ १,२४.१५१ ॥ चक्षुः शास्त्रं जलं लेख्यं गणितं बुद्धिवित्तमाः । पञ्चैते हेतवो विप्रा ज्योतिर्गणविवेचने ॥ १,२४.१५२ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे ज्योतिषां सन्निवेशंनं नाम चतुर्विंशतितमोऽध्यायः _____________________________________________________________ सूत उवाच एतदुक्वा महाबुद्धिर्वायुर्ल्लोकहिते रतः । ज्जाप जप्यं भगवान्मध्यं प्राप्ते दिवाकरे ॥ १,२५.१ ॥ ऋषयश्चापि ते सर्वे ये तत्रासन्समागताः । ते सर्वे नियतात्मानस्तस्थुः प्राञ्जलयस्तथा ॥ १,२५.२ ॥ य इज्यो नियमस्यान्ते प्राणिनां जीवनः प्रभुः । नीलकण्ठ नमस्तेऽस्तु इत्युवाच सदागतिः ॥ १,२५.३ ॥ श्रुत्वा तु भावितात्मानो मुनयः शंसितव्रताः । वालखिल्येति विख्याताः पतङ्गसहचारिणः ॥ १,२५.४ ॥ अष्टाशीतिसहस्रामि ऋषीणामूर्ध्वरेतसाम् । ते स्म पृच्छन्ति वायु च वायुपर्णांबु भोजनाः ॥ १,२५.५ ॥ नीलकण्ठेति यत्प्रोक्तं त्वया पवनसत्तम । एतद्गुह्यं पवित्राणां पुष्णं पुण्यविदां वरः ॥ १,२५.६ ॥ तद्वयं श्रोतुमिच्छाम स्तन्नो निगद सत्तम । तत्सर्व श्रोतुमिच्छामस्त्वत्प्रसादात्प्रभञ्जन ॥ १,२५.७ ॥ नीलता येन कण्ठस्य कारणेनांविकापतेः । श्रोतुमिच्छामहे देव तव वक्त्राद्विशेषतः ॥ १,२५.८ ॥ यावद्वाचः प्रवर्त्तन्ते सर्वास्ताः प्रेरितस्त्वया । वर्णस्थानगते वायो वाग्विधिः संप्रवर्त्तते ॥ १,२५.९ ॥ ज्ञान पूर्वमथोत्साहस्त्वत्तो वायो प्रवर्त्तते । त्वयि निष्पूयमाने तु शेषा वर्णप्रवृत्तयः ॥ १,२५.१० ॥ यत्र वाचो निवर्त्तन्ते देहवर्णाश्च दुर्लभाः । त्वत्तो हि वर्णसद्भावः सर्वगस्त्वं सदानिल ॥ १,२५.११ ॥ नान्यः सर्वगतो देवस्त्वदृतेऽस्ति समीरण । एष वै जीवलोकस्ते प्रत्यक्षः सर्वतोऽनिल ॥ १,२५.१२ ॥ वेत्थ वाचस्पतिं देवं मनोनायकमीश्वरम् । ब्रूहि तत्कण्ठदेशे तु किं कृत्वा रूपविक्रिया ॥ १,२५.१३ ॥ वचः श्रुत्वा ततस्तेषां मुनीनां भावितात्मनाम । प्रत्युवाच महातेजा वायुर्ल्लोकनमस्कृतः ॥ १,२५.१४ ॥ पुरा कृतयुगे विप्रो वेदनिर्णयतत्परः । वसिष्ठो नाम धर्मात्मा मानसो वै प्रजापतिः ॥ १,२५.१५ ॥ पप्रच्छ कार्त्तिकेयं वै मयूरवरवाहनम् । महिषासुरनारीणां नयनाञ्जनतस्करम् ॥ १,२५.१६ ॥ महासेनं महात्मनं मेघस्तनितनिस्वनम् । उमामनः प्रहर्षाणां बारकच्छद्मरूपिणम् ॥ १,२५.१७ ॥ क्रैञ्चजीवितहर्तारं गौरीहृदयनन्दनम् । यदेतद्दृश्यते वर्य शुभ्रं शुभ्राञ्जनोपमम् ॥ १,२५.१८ ॥ तत्किमर्थं समुत्पन्नं कण्ठे कण्ठेकुन्देन्दुसप्रभे । एतद्दीप्तांय दान्ताय भक्ताय ब्रूहि पृच्छते ॥ १,२५.१९ ॥ कथां मङ्गलसंयुक्तां पवित्रां पापनाशिनीम् । मत्प्रियार्थंमहाभाग वक्तुमर्हस्यशेषतः ॥ १,२५.२० ॥ श्रुत्वा वाक्यं ततस्तस्य वसिष्ठस्य महात्मनः । प्रत्युवाच महातेजा देवारिबलसूदनः ॥ १,२५.२१ ॥ शृणुष्व वदतां श्रेष्टकथ्यमानं वचो मम । उमोत्संगोपविष्टेन यथापूर्वं मया श्रुतम् ॥ १,२५.२२ ॥ पार्वत्या सह संवादः शर्वस्य च महात्मनः । तमहं संप्रवक्ष्यामि त्वत्प्रियार्थं महामुने ॥ १,२५.२३ ॥ कैलासशिखरे रम्ये नानाधातुविचित्रिते । तरुणादित्यसंकाशे तप्तचामीकरप्रभे ॥ १,२५.२४ ॥ वज्रस्फटिकसोपाने चित्रपादशिलातले । जांबूनदमये दिव्ये नानाधातु विचित्रिते ॥ १,२५.२५ ॥ नानाद्रुमलताकीर्णे नानापुष्पफलोपगे । हंसकारण्डवाकीर्णे चक्रवाकोपशोभिते ॥ १,२५.२६ ॥ षट्पदोद्गीतबहुले धारासंपातनादिते । मत्तक्रैञ्चमयूराणां नादैर्विक्रुष्टकन्दरे ॥ १,२५.२७ ॥ अप्सरोगणसंकीर्णे किन्नरैरुपशोभिते । जीवं जीवकजातीनां विरावैरुपकूजिते ॥ १,२५.२८ ॥ कोकिलारावबहुले सिद्धचारणसेविते । सौरभेयनिनादाढ्यं मेघस्तनितनिस्वने ॥ १,२५.२९ ॥ विनायकभयोद्विग्नकुं जरैर्मुक्तकन्दरैः । वीणावादित्रनिर्घेषैः श्रोत्रेन्द्रियमनोरमैः ॥ १,२५.३० ॥ दोलालंबितसंघाते वनितासंघसेविते । ध्वजालंबितदोलानां घण्टानां निनदाकुले ॥ १,२५.३१ ॥ वल्लकीवेणुबहुले त्रिंशद्बर्हिणसंकुले । मुखमर्द्दलवादित्रैर्वलितास्फोटितैस्तथा ॥ १,२५.३२ ॥ क्रीडावेगविवादानां निर्घोषैः पूर्णकन्दरे । हंसैः परावतैश्चैव बकराजैः सुखस्थिते ॥ १,२५.३३ ॥ देहबन्धैर्विचित्रैश्चप्रक्रीडितगणेश्वरे । सिंहव्याघ्रमुखैर्घोरवाशितैश्चण्डवेगितैः ॥ १,२५.३४ ॥ मृगमषमुखैश्चान्यैर्गजवाजिमुखैस्तथा । बिडालवदनैश्चोग्रैः क्रोष्टुकाकारसूर्त्तिभिः ॥ १,२५.३५ ॥ ह्रस्वैर्दीर्घैश्च सुकृशैर्लंबोदरमहीदरैः । ह्रस्वजङ्घैः प्रलेबोष्ठैस्तालजङ्घैस्तथापरैः ॥ १,२५.३६ ॥ गोकर्णैरेककर्णैश्च महाकर्णैरकर्णकैः । बहुपादैर्महापादैरेकपादैरपादकैः ॥ १,२५.३७ ॥ बहुनेत्रैर्महानेत्रैरेकनेत्रैरनेत्रकैः । एकदंष्ट्रैर्महादंष्ट्रैर्बहुदंष्ट्रैरदंष्ट्रकैः ॥ १,२५.३८ ॥ एकशीर्षैर्महाशीर्षबहुशीर्षैरशीर्षकैः । एकजिह्वैर्महाजिह्वैर्बहुजिह्वैरजिह्वकैः । एवंरूपैर्महायोगैभूतर्भूतपतिर्वृतः ॥ १,२५.३९ ॥ विशुद्धमुक्तामणिरत्नभूषिते शिलातले स्वर्णमये सुरम्यके । सुखोपविष्टं मदनागनाशनं प्रोवाच वाक्यं गिरिराजपुत्री ॥ १,२५.४० ॥ भगवन्भूतभव्येश गोवृषाङ्कितशासन । तव कण्ठे महादेव भ्राजतेंबुदसन्निभम् ॥ १,२५.४१ ॥ नात्युल्बणं शुभंशुभ्रे नीलाबुजचयोपमम् । किमिदं दीप्यते देव कण्ठे कामाङ्गनाशन ॥ १,२५.४२ ॥ को हेतुः कारणं किं वा कण्ठे नीलस्त्त्वमीश्वर । एतत्सर्वं यथान्यायं बूहि कौतूहलं हि मे ॥ १,२५.४३ ॥ श्रुत्वा वाक्यं ततस्तस्याः पार्वत्याः पावतीप्रियः । कथां मङ्गलसंयुक्तां कथयामास शङ्करः ॥ १,२५.४४ ॥ महेश्वर उवाच मथ्यमानेऽमृते पूर्वं क्षीरोदे सुरदानवैः । अग्रे समुत्थितं घोरं विषङ्कालानलप्रभम् ॥ १,२५.४५ ॥ तं दृष्ट्वा सुरसंघस्च दैत्याश्चैव वरानने । विषण्णवदनाः सर्वे गतास्ते ब्रह्मणोऽन्तकम् ॥ १,२५.४६ ॥ दृष्ट्वा सुरगणान्भीतान्ब्रह्मोवाच महाद्युतिः । किमर्थं वै महाभागा भीता उद्विग्नचेतनाः ॥ १,२५.४७ ॥ मया त्रिगुणमैश्वर्यं भवतां संप्रकल्पितम् । तेन व्यावर्त्तितैश्वर्या यूयं भो सुरसत्तमाः ॥ १,२५.४८ ॥ त्रलोक्यस्येश्वरा यूयं सर्वे वै विगतज्वराः । प्रजासर्गे न सोऽस्तीह यश्चाज्ञां मेऽतिवर्तयेत् ॥ १,२५.४९ ॥ विमानचारिण सर्वे सर्वे स्वच्छन्दगामिनः । आध्यात्मिके चाधिभूते अधिदैवे च नित्यशः ॥ १,२५.५० ॥ प्रजाः कर्मविपाकेन शक्ता यूयं प्रवर्त्तितुम् । तत्किमर्थं भयोद्विग्ना मृगाः सिंहार्दिता इव ॥ १,२५.५१ ॥ किं दुःशं कोऽनुसंतापः कुतो वा भयमागतम् । एतत्सर्वं यथान्यायं शीघ्रमाख्या तुमर्हथ ॥ १,२५.५२ ॥ श्रुत्वा वाक्यं ततस्तस्य ब्रह्मणः परमात्मनः । ऊचुस्ते ऋषिभिः सार्द्धं सुरदैत्येन्द्रदानवाः ॥ १,२५.५३ ॥ सुरासुरैर्मथ्यमाने पजोराशौ पितमाह । भुजङ्गभृङ्गसंकाशं नीलजीमूतसन्निभम् ॥ १,२५.५४ ॥ प्रादुर्भूतं विषं घोरं संवर्ताग्निसमप्रभम् । कालमृत्युरिवोद्भूतं युगान्तादित्यवर्चसम् ॥ १,२५.५५ ॥ त्रैलोक्योत्सादसूर्याभं विस्फुरत्तत्समन्ततः । विषेणोत्तिष्ठमानेन कालानलसमत्विषा ॥ १,२५.५६ ॥ निर्दग्धो रक्तगौराङ्गो कृतः कृष्णो जनार्द्दनः । तं दृष्ट्वा रक्तगौराङ्गं कृतं कृष्णं जनार्द्दनम् ॥ १,२५.५७ ॥ ततः सर्वे वयं भीतास्त्वा मेव शरणं गताः । सुराणामसुराणां च श्रुत्वा वाक्यं भयावहम् ॥ १,२५.५८ ॥ प्रत्युवाच महातेजा ब्रह्मा लोकपितामहः । शृण्वन्तु देवताः सर्वे ऋषयश्च तपोधनाः ॥ १,२५.५९ ॥ यत्तदग्रे समुत्पन्नं मथ्यमाने महोदधौ । विषं कालानलप्रख्यं कालकूटमिति श्रुतम् ॥ १,२५.६० ॥ येन प्रोद्भूतमात्रेण न व्यराजन्त देवताः । तस्य विष्णुरहं वापि सर्वे वा सुरपुङ्गवाः ॥ १,२५.६१ ॥ न शक्नुवन्ति वै सोढुं वेगमन्यत्र शङ्करात् । इत्युक्त्वा पद्मगर्भाभः पद्मायोनिरयोनिजः ॥ १,२५.६२ ॥ ओङ्कारं समनुस्मृत्य ध्यायञ्जयोतिः समन्ततः । ततः स्तोतुं समारब्धो ब्रह्मा वेद विदां वरः ॥ १,२५.६३ ॥ नमस्तुभ्यं विरूपाक्ष नमस्ते दिव्यचक्षुषे । नमः पिनाकहस्ताय वज्रहस्ताय वै नमः ॥ १,२५.६४ ॥ नमस्त्रैलोक्य नाथाय भूतानां पतये नमः । नमः सुरारिहन्त्रे च सोमसूर्याग्निचक्षुषे ॥ १,२५.६५ ॥ ब्रह्मणे चैव रुद्राय विष्णवे चैव ते नमः । सांख्याय चैव योगाय भूतग्रामाय वै नमः ॥ १,२५.६६ ॥ मन्मथाङ्गविनाशाय कालपृष्ठाय वै नमः । सुरेतसेऽथ रुद्राय देवदेवाय रंहसे ॥ १,२५.६७ ॥ कपर्दिने करालाय शङ्कराय हराय च । कपालिने विरूपाय शिवाय वरदाय च ॥ १,२५.६८ ॥ त्रिपुरघ्नमखघ्नाय मातॄणां पतये नमः । वृद्धाय चैव शुद्धाय मुक्तायैव बलाय च ॥ १,२५.६९ ॥ लोकत्रयैकवीराय चन्द्राय वरुणाय च । अग्राय चैव चोग्राय विप्रायानेकचक्षुषे ॥ १,२५.७० ॥ रजसे चैव सत्त्वाय नमस्तेऽव्यक्तयोनये । नित्याय चैवानित्याय नित्यानित्याय वै नमः ॥ १,२५.७१ ॥ व्यक्ताय चैवाव्यक्ताय व्यक्ताव्यक्ताय वै नमः । चिन्त्याय चैवाचिन्त्याय चिन्त्याचिन्त्याय वै नमः ॥ १,२५.७२ ॥ जगतामार्त्तिनाशाय प्रियनारायणाय च । उमाप्रियाय शर्वाय नन्दिवक्त्राङ्किताय च ॥ १,२५.७३ ॥ पक्षमासाह्द्धमासाय ऋतुसंवत्सराय च । बहुरूपाय मुण्डाय दण्डिने च वरूथिने ॥ १,२५.७४ ॥ नमः कपालहस्ताय दिग्वासाय शिखण्डिने । धन्विने रथिने चैव यमिने ब्रह्मचारिणे ॥ १,२५.७५ ॥ ऋग्यजुः सामवेदाय पुरुषायेश्वराय च । इत्येव मादिचरितैः स्तोत्रैः स्तुत्य नमीऽस्तु ते । एवं स्तुत्वा ततो ब्रह्मा प्रणिपत्य वरानने ॥ १,२५.७६ ॥ ज्ञात्वा तु भक्तिं मम देवतानां गङ्गाजला स्फालितमुक्तकेशः । सूक्ष्मोऽसि योगातिशयादचिन्त्यो न हि प्रभो व्यक्तिमुफैषि रुद्रः ॥ १,२५.७७ ॥ एवं भगवता पूर्वं ब्रह्मणा लोककर्तृणा । स्तुतोऽहं विविधैः स्तोत्रैर्वेदवेदाङ्गसंभवैः ॥ १,२५.७८ ॥ ततोऽहं मुख्यया वाचा पितामहमथाब्रवम् । भूतभव्यभवन्नाथ लोकनाथ जगत्पते ॥ १,२५.७९ ॥ किं कार्यं ते मया ब्रह्मन्कर्त्तव्यं वद सुव्रत । श्रुत्वा वाक्यं ततो ब्रह्मा प्रत्युवाचांबुजेक्षणः ॥ १,२५.८० ॥ भूतभव्यभवन्नाथ श्रूयतां कारणेश्वर । सुरासुरैर्मथ्यमाने पयोधौ पङ्कजेक्षण ॥ १,२५.८१ ॥ भगवन्मेघसंकाशं नीलजीमूतसन्निभम् । प्रादुर्भूतं विषं घोरं संवर्त्ताग्निसमप्रभम् ॥ १,२५.८२ ॥ तं दृष्ट्वा च वयं सर्वे भीताः संभ्रान्तचेतसः । तत्पिबस्व महादेव लोकानां हितकाम्यया ॥ १,२५.८३ ॥ भवाञ्छक्तश्च भोक्ता वै भवान्देववरः प्रभो । त्वदृतेऽन्यो महादेव वेगं सोढुं न विद्यते ॥ १,२५.८४ ॥ एवं तस्य वचः श्रुत्वा ब्रह्मणः परमेष्ठिनः । बाढ मित्येव तद्वाक्यं प्रतिगृह्य वरानने ॥ १,२५.८५ ॥ ततोऽहं पातुमारब्धो विषमन्तकसन्निभम् । पिबतो मे महाघोरं विषं सुरभयप्रदम् ॥ १,२५.८६ ॥ कण्ठः समभवत्तूर्णं कृष्णो वै वरवर्णिनि । तं दृष्ट्वोत्पलपत्राभं कण्ठसक्तमिवोरगम् ॥ १,२५.८७ ॥ तक्षकं नागराजानं लेलिहानमिवोत्थितम् । अथोवाच महातेजा ब्रह्मा लोकपितामहः ॥ १,२५.८८ ॥ शोभसे त्वं महादेव कण्ठेनानेन सुव्रत । ततस्तस्य वचःश्रुत्वा मया गिरिवरात्मजे ॥ १,२५.८९ ॥ कण्ठे धृतं विषं घोरं नीलकण्ठस्ततोऽस्म्यहम् । पश्यतां सुरसंघानां दैत्यानां च वरानने । यक्षगन्धर्वभूतानां पिशाचोरगरक्षसाम् ॥ १,२५.९० ॥ तत्कालकूटं विषमुग्रवेगं कण्ठे धृतं पर्वतराजपुत्रि । निवेश्यमानं सुरदैत्यसंघो दृष्ट्वा परं विस्मयमाजगाम ॥ १,२५.९१ ॥ ततः मुरगणाः सर्वे सदैत्योरगराक्षसाः । ऊचुः प्राञ्जलयो भूत्वा मत्तमातङ्गगामिनि ॥ १,२५.९२ ॥ अहोबलं वीर्यपराक्रमस्ते त्वहो वपुर्योगबलं तवेश ॥ १,२५.९३ ॥ अहो प्रभुत्वं तव देवदेव महाद्भुतं मन्मथदेहनाशन । त्वमेव विष्णुश्चतुराननस्त्वं त्वमेव मृत्युर्वरदस्त्वमेव ॥ १,२५.९४ ॥ त्वमेव सूर्यो रजनीकरश्च व्यक्तिस्त्वमेवास्य चराचरस्य । त्वमेव वह्निः पवनस्त्वमेव त्वमेव भूमिः सलिलं त्वमेव ॥ १,२५.९५ ॥ त्वमेव सर्वस्य चराचरस्य धाता विधाता प्रलयस्त्वमेव । इत्येव मुक्त्वा वचनं सुरेद्राः प्रगृह्य सोमं प्रणिपत्य मूर्ध्रा । गता विमानैरनिलोपवेगैर्महानगं मेरुमुपेत्य सर्वे ॥ १,२५.९६ ॥ इत्येतत्परमं गुह्यं पुण्यात्पुण्यतमं महत् ॥ १,२५.९७ ॥ नीलकण्ठ इति प्रोक्तं त्रिषु लोकेषु विश्रुतम् । स्वयंभुवा स्वयं प्रोक्ता कथा पापप्रणाशिनी ॥ १,२५.९८ ॥ यस्तु धारयते नित्यं ब्रह्मोद्गीतामिमां शुभाम् । तस्याहं संप्रवक्ष्यामि फलं सुविपुलं महत् ॥ १,२५.९९ ॥ विषं तस्य वरारोहे स्थावरं जङ्गमं तथा । गात्रं प्राप्य तु सुश्रोणि क्षप्रं तत्प्रतिहन्यते ॥ १,२५.१०० ॥ शमायत्यशुभं घोरं दुःखप्नं चापकर्षति । स्त्रीषु वल्लभतां याति सभायां पार्थिवस्य च ॥ १,२५.१०१ ॥ विवादे जयमाप्नोति युद्धे विजयमेव च । गच्छति क्षेममध्वानं गृहेभ्यो नित्यसंपदा ॥ १,२५.१०२ ॥ शरीरस्येह वक्ष्यामि गतिं तस्य वरानने । हरिश्मश्रुर्नीलकण्ठः शशाङ्काङ्कितमूर्द्धजः ॥ १,२५.१०३ ॥ त्र्यक्षस्त्रिशूलपाणिश्च वृष चानः पिनाकधृक् । नन्दितुल्यबलः श्रीमान्नन्दितुल्यपराक्रमः ॥ १,२५.१०४ ॥ विचरत्यखिलांल्लोकाम्सप्तलोकान्ममाज्ञया । न हन्यते गति स्तस्य अनिलस्य यथांबरे ॥ १,२५.१०५ ॥ मम तुल्यबलो भूत्वा तिष्ठत्याभूतसंप्लवात् । मम भक्तया वरारोहे ये च शृम्वन्ति मानवाः ॥ १,२५.१०६ ॥ तेषां गतिं प्रवक्ष्यामि त्विह लोके परत्र च । ब्राह्मणो वेदमाप्नोति क्षत्रियो विन्दते महीम् ॥ १,२५.१०७ ॥ वैश्यस्तु लभते लाभं शूद्रः सुखमवाप्नुयात् । व्याधितो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ॥ १,२५.१०८ ॥ गुर्विणी लभते पुत्रं कन्या विदति सत्पतिम् । नष्टं च लभते द्रव्यमिह लोके परत्र च ॥ १,२५.१०९ ॥ गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् । तत्फलं लभते मर्त्यः श्रुत्वा दिव्या मिमां कथाम् ॥ १,२५.११० ॥ पादं वाथार्द्धपादं वार्श्लोकर्ं श्लोकार्द्धमेव वा । यस्तु धारयते नित्यं रुद्रलोकं स गच्छति ॥ १,२५.१११ ॥ अथवा सर्वमेवेदं देवब्राह्मणसन्निधौ । यः पठेन्मानवो नित्यं मद्गतेनान्तरात्मना ॥ १,२५.११२ ॥ श्रद्धधानः सदा भक्तो रूद्रलोकं स गच्छति । पठेच्च देवि भक्त्या च पाठयेच्च नरः सदा ॥ १,२५.११३ ॥ अतः परतरं स्तोत्रं न भूतं न भविष्यति । नापि यक्षाः पिशाचा वा न भूता न विनायकाः । कुर्युर्विघ्नं गृहे तस्य यत्रायं तिष्ठति स्तवः ॥ १,२५.११४ ॥ मया नु तुष्टेन तवांबुजेक्षणे स्तवस्य माहात्म्यम घौघनाशनम् । निवेदितं पुण्यफलादियुक्तं स्वयं च कीतं चतुराननेन ॥ १,२५.११५ ॥ कथामिमां पुण्यफलादियुक्तां निवेद्य देव्यै शशिबद्धमूर्द्धजः । वृषस्य पृष्ठेन सहोमया प्रभुजगाम कैलासगुहां गुहप्रियः ॥ १,२५.११६ ॥ श्रुतं मया पापहरं तदन्तिके निवेदितं तेऽथ मया प्रजापतेः । अधीत्य सर्वं त्वखिलं सलक्षणं प्रयाति चादित्यपदं द्विजोत्तमः ॥ १,२५.११७ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्व भागे द्वितीयेऽनुषङ्गपादे नीलकण्ठनामोत्पत्तिकथनं नाम पञ्चविंशतितमोऽध्यायः _____________________________________________________________ ऋषय ऊचुः महादेवस्य महात्म्यं प्रभुत्वं च महात्मनः । श्रोतुमिच्छामहे सम्यगैश्वर्यगुणविस्तरम् ॥ १,२६.१ ॥ सूत उवाच पूर्वं त्रैलोक्यविजये विष्णुना समुदात्दृ तम् । बलिं बद्ध्वा महावीर्यं त्रैलोक्याधिपतिं पुरा ॥ १,२६.२ ॥ प्रनष्टेषु तु दैत्येषु प्रहृष्टे तु शचीपतौ । अथाजग्मुः प्रभुं द्रष्टुं सर्वे देवाः सनातनम् ॥ १,२६.३ ॥ यत्रास्ते विश्वरूपात्मा क्षीरोदस्य मसीपतः । सिद्धा ब्रह्मर्षयो यक्षा गन्धर्वाप्सरसां गणाः ॥ १,२६.४ ॥ नागा देवर्षयश्चैव नद्यः सर्वे च पर्वताः । अभिगम्य महात्मानं स्तुवन्ति पुरुषं हरिम् ॥ १,२६.५ ॥ त्वं धाता त्वं च कर्तासि त्वं लोकान्सृजसि प्रभो । त्वत्प्रसादाच्च कल्याणं प्राप्तं त्रैलोक्यमव्ययम् ॥ १,२६.६ ॥ असुराश्च जिताः सर्वे बलिर्बद्धश्च वै त्वया । एवमुक्तः सुरैर्विष्णः सिद्धैश्च परमर्षिभिः ॥ १,२६.७ ॥ प्रत्युवाच तदा देवान् सर्वांस्तान्पुरुषोत्तमः । श्रूयतामभिधास्यामि कारणं सुरसत्तमाः ॥ १,२६.८ ॥ यः स्रष्टा सर्वभूतानां कालः कालकरः प्रभुः । येनाहं ब्रह्मणा सार्द्धं सृष्टा लोकाश्च मायया ॥ १,२६.९ ॥ तस्यैव च प्रसादेन आदौ सिद्धत्वमागतः । पुरा तमसि चाव्यक्ते त्रैलोक्ये ग्रसिते मया ॥ १,२६.१० ॥ उदरस्थेषु भूतेषु त्वेकोऽहं शयित स्तदा । सहस्रशीर्षा भूत्वा च सहस्राक्षः सहस्रपात् ॥ १,२६.११ ॥ शङ्खचक्रगदापाणिः शयितो विमलेंऽभसि । एतस्मिन्नन्तरे दूरात्पश्यामि ह्यमितप्रभम् ॥ १,२६.१२ ॥ शतसूर्यप्रतीकाशं ज्वलन्तं स्वेन तेजसा । चतुर्वक्त्रं महायोगं पुरुषं काञ्चनप्रभम् ॥ १,२६.१३ ॥ कृष्णाजिनधरं देवं कमण्डलुविभूषितम् । निमेषान्तरमात्रेण प्राप्तोऽसौ पुरुषोत्तमः ॥ १,२६.१४ ॥ ततो मामब्रवीद्ब्रह्मा सर्वलोकनमस्कृतः । कस्त्वं कुतो वा कि चेह तिष्ठसे वद मे विभो ॥ १,२६.१५ ॥ अहं कर्तास्मि लोकानां स्वयंभूर्विश्वतोमुखः । एवमुक्तस्तदा तेन ब्रह्मणाहमुवाच तम् ॥ १,२६.१६ ॥ अहं कर्त्ता हि लोकानां संहर्ता च पुनः पुनः । एवं संभाषमाणौ तु परस्परजयैषिणौ ॥ १,२६.१७ ॥ उत्तरां दिशमास्थाय ज्वालामद्राक्ष्व विष्ठिताम् । ज्वालां ततस्तामालोक्य विस्मितौ च तदानघाः ॥ १,२६.१८ ॥ तेजसा च बलेनाथ शार्वं ज्योतिः कृताञ्जली । वर्द्धमानां तदा ज्वालामत्यन्तपरमाद्भुताम् ॥ १,२६.१९ ॥ अभिदुद्राव तां ज्वालां ब्रह्मा चाहं च सत्वरौ । दिवं भूमिं च निर्भिद्य तिष्ठन्तं जवालमण्डलम् ॥ १,२६.२० ॥ तस्या ज्वालस्य मध्ये तु पश्यावो विपुलप्रभम् । प्रादेशमात्रमव्यक्तं लिङ्गं परमदीप्तिमत् ॥ १,२६.२१ ॥ न च तत्काञ्चनं मध्ये नशैलं न च राजतम् । अनिर्देश्यमचिन्त्यं च लक्ष्यालक्ष्यं पुनः पुनः ॥ १,२६.२२ ॥ ज्वालामालासहस्राढ्यं विस्मयं परमद्भुतम् । महता तेजसायुक्तं वर्दभमानंभृशन्तथा ॥ १,२६.२३ ॥ ज्वालामालाततं न्यस्तं सर्वभूतभयङ्करम् । घोररूपिणमत्यर्थं भिन्दं तमिव रोदसी ॥ १,२६.२४ ॥ ततो मामब्रवीद्ब्रह्मा अधो गच्छ त्वमाशु वै । अन्तमस्य विजानीवो लिङ्गस्य तु महात्मनः ॥ १,२६.२५ ॥ अहमूर्ध्वं गमिष्यामि यावदन्तोऽस्य दृश्यते । तदा तु समयं कृत्वा गत उर्द्ध्वमधश्च हि ॥ १,२६.२६ ॥ ततो वर्षसहस्रं तु ह्यहं पुनरधो गतः । न पश्यामि च तस्यान्तं भीतश्चाहं ततोऽभवम् ॥ १,२६.२७ ॥ तथैव ब्रह्मा ह्यूध्व च न चान्तं तस्य लब्धवान् । समागतो मया सार्द्ध तत्रैव च महाभसि ॥ १,२६.२८ ॥ ततो विस्मयमापन्नौ भीतौ तस्य महात्मनः । मायया मोहितौ तेन नष्टसंज्ञै व्यवस्थितौ ॥ १,२६.२९ ॥ ततो ध्यानरतौ तत्र चेश्वरं सर्वतोमुखम् । प्रभवं निधनं चैव लौकानां प्रभुमव्ययम् ॥ १,२६.३० ॥ प्रह्वाञ्जलिपुटौ भूत्वा तस्मै शर्वाय शूलिने । महाभैरवनादाय भीमरूपाय दंष्ट्रिणे । अव्यक्तायाथ महते नमस्कारं प्रकुर्वहे ॥ १,२६.३१ ॥ नमोऽस्तु ते लोकसुरेश देव नमोऽस्तु ते भूतपते महात्मन् । नमोऽस्तु ते शाश्वतसिद्धयोगिने नमोस्तु ते सर्वजगत्प्रतिष्ठित ॥ १,२६.३२ ॥ परमेष्ठी परं ब्रह्म त्वक्षरं परमं पदम् । ज्येष्ठस्त्वं वामदेवश्च रुद्रः स्कन्दः शिवः प्रभुः ॥ १,२६.३३ ॥ त्वं य५ त्वं वषट्कारस्त्वमोङ्कारः परन्तपः । स्वाहाकारो नमस्कारः संस्कारः सर्वकर्मणाम् ॥ १,२६.३४ ॥ स्वधाकारश्च यज्ञश्च व्रतानि नियमास्तथा । वेदा लोकाश्च देवाश्च भगवानेव सर्वशः ॥ १,२६.३५ ॥ आकाशस्य च शब्दस्त्वंभूतानां प्रभवाप्ययः । भूमौ गन्धो रसश्चाप्सु तेजोरूपं महेश्वरः ॥ १,२६.३६ ॥ वायोः स्पर्शश्च देवेश वपुश्चन्द्रमसस्तथा ॥ १,२६.३७ ॥ बुद्धौ ज्ञानं च देवेश प्रकृतेर्बीजमेव च ॥ १,२६.३८ ॥ संहर्त्ता सर्वलोकानां कालो मृत्युमयोंऽतकः । त्वं धारयसि लोकांस्त्रींस्त्वमेव सृजसि प्रभो ॥ १,२६.३९ ॥ पूर्वेण वदनेन त्वमिन्द्रत्वं प्रकरोषि वै । दक्षिणेन तु वक्त्रेण लोकान्संक्षिपसे पुनः ॥ १,२६.४० ॥ पश्चिमेन तु वक्त्रेण वरुणस्थो न संशयः । उत्तरेण तु वक्त्रेण सोमस्त्वं देवसत्तमः ॥ १,२६.४१ ॥ एकधा बहुधा देव लोकानां प्रभवाप्ययः । आदित्या वसवो रुद्रा मरुतश्च सहाश्विनः ॥ १,२६.४२ ॥ साध्या विद्याधरा नागाश्चारणाश्च तपोधनाः । वालखिल्या महात्मानस्तपः सिद्धाश्च सुव्रताः ॥ १,२६.४३ ॥ त्वत्तः प्रसूता देवेश ये चान्ये नियतव्रताः । उमा सीता सिनीवाली कुहूर्गायत्र्य एव च ॥ १,२६.४४ ॥ लक्ष्मीः कीर्त्तिर्धृतिर्मेधा लज्जा कान्तिर्वपुः स्वधा । तुष्टिः पुष्टिः क्रिया चैव वाचां देवी सरस्वती । त्वत्तः प्रसूता देवेश संध्या रात्रिस्तथैव च ॥ १,२६.४५ ॥ सूर्यायुतानामयुतप्रभाव नमोऽस्तु ते चन्द्रसहस्रगौर । नमोऽस्तु ते वज्रपिनाकधारिणे नमोस्तु ते देव हिरण्यवाससे ॥ १,२६.४६ ॥ नमोस्तु ते भस्मविभूषिताङ्ग नमोऽस्तु ते कामशरीरनाशन । नमोऽस्तु ते देव हिरण्यरेतसे नमोऽस्तु ते देव हिरण्यवाससे ॥ १,२६.४७ ॥ नमोऽस्तु ते देव हिरण्ययोने नमोऽस्तु ते देव हिरण्यनाभ । नमोऽस्तु ते देव हिरण्यरेतसे नमोऽस्तु ते नेत्रसहस्रचित्र ॥ १,२६.४८ ॥ नमोऽस्तु ते देव हिरण्यवर्ण नमोऽस्तु ते देव हिरण्यकेश । नमोऽस्तु ते देव हिरण्यवीर नमोऽस्तु ते देव हिरण्यदायिने ॥ १,२६.४९ ॥ नमोऽस्तु ते देव हिरण्यनाथ नमोऽश्तुते देव हिरण्यनाद । नमोऽस्तु ते देव पिनाकपाणे नमोऽश्तुते ते शङ्कर नीलकण्ठ ॥ १,२६.५० ॥ एवं संस्तूयमानस्तु व्यक्तो भूत्वा महामतिः । देवदेवो जगद्योनिः सूर्य कोटिसमप्रभः ॥ १,२६.५१ ॥ आबभाषे कृपाविष्टो महादेवो महाद्युतिः । वक्त्रकोटिसहस्रेण ग्रसमान इवांबरम् ॥ १,२६.५२ ॥ कंबुग्रीवः सुज ठरो नानाभूषणभूषितः । नानारत्नविचित्राङ्गो नानामाल्यानुलेपनः ॥ १,२६.५३ ॥ पिनाकपाणिर्भगवान्सुरपूज्यस्त्रिशूलधृक् । व्यालय ज्ञोपवीती च सुराणामभयङ्करः ॥ १,२६.५४ ॥ दुन्दुभिस्वरनिर्घोषः पर्जन्यनिनदोपमः । मुक्तो हासस्तदा तेन सर्वमापूरयञ्जगत् ॥ १,२६.५५ ॥ तेन शब्देन महता चावां भीतौ महात्मनः । अथोवाच महादेवः प्रीतोऽहं सुरसत्तमौ ॥ १,२६.५६ ॥ पश्यतां च महायोगं भयं सर्व प्रमुच्यताम् । युवां प्रसूतौ गात्रेभ्यो मम पूर्वं सनातनौ ॥ १,२६.५७ ॥ यं मे दक्षिणो बाहुर्ब्रह्मा लोकपितामहः । वामो बाहुश्च मे विष्णुर्नित्यं युद्धेष्वनिर्जितः ॥ १,२६.५८ ॥ प्रीतोऽहं युवयोः सम्यग्वरं दद्यां यथैप्सितम् । ततः प्रहृष्टमनसौ प्रणतौ पादयोः प्रभोः ॥ १,२६.५९ ॥ अब्रूतां च महादेवं प्रसादाभिमुखं स्थितम् । यदि प्रीतिः समुत्पन्ना यदि देयो वरश्च ते । भक्तिर्भवतु नौ नित्यं त्वयि देव सुरेश्वर ॥ १,२६.६० ॥ देवदेव उवाच एवमस्तु महाभागौ सृजतां विपुलाः प्रजाः । एवमुक्त्वा स भगवांस्तत्रैवातरधाद्विभुः ॥ १,२६.६१ ॥ एष एव मयोक्तो वः प्रभावस्तस्य धीमतः । एतद्धि परमं ज्ञानमव्यक्तं शिवसंज्ञितम् ॥ १,२६.६२ ॥ एतत्सूक्ष्ममचिन्त्यं च पश्यन्ति ज्ञ३ अचक्षुषः । तस्मै देवाधिदेवाय नमस्कारं प्रकुर्महे । महादेव नमस्तेऽस्तु महेश्वर नमोऽस्तु ते ॥ १,२६.६३ ॥ सूत उवाच एतच्छ्रुत्वा गताः सर्वे सुराः स्वं स्वं निवेशनम् । नमस्कारं प्रकुर्वाणाः शङ्कराय महात्मने ॥ १,२६.६४ ॥ इमं स्तवं पठिद्यस्तु चेश्वरस्य महात्मनः । कामांश्च लभते सर्वान् पापेभ्यश्च प्रमुच्यते ॥ १,२६.६५ ॥ एतत्सर्वं तदा तेन न विष्णुना प्रभविष्णुना । महादेवप्रसादेन ह्युक्तं ब्रह्म सनातनम् । एतद्वः सर्वमाख्यातं मया माहेश्वरं बलम् ॥ १,२६.६६ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे लिङ्गोत्पत्तिकथनं नाम षड्विंशतितमोऽध्यायः _____________________________________________________________ ऋषय ऊचुः भूय षुत महाबुद्धे कथयस्व महात्मनः । महादेवस्य माहात्म्यं श्रोतुं कौतूहलं च नः ॥ १,२७.१ ॥ कथं दारुवणे देवऋषिसंघनिषेविते । चकार वेषं विकृतं येन बुद्धा महर्षयः ॥ १,२७.२ ॥ ज्ञात्वा च ते महादेवं ततो भ्रान्ता ह्यचेतसः । आराधयन्प्रसादार्थं नैषां तुष्टः पुनर्भवः ॥ १,२७.३ ॥ एतत्सर्वं यथावृत्तं देवदेवेन चेष्टितम् । तत्सर्वं कथयस्वेह त्वं नो बुद्धिमतां वरः ॥ १,२७.४ ॥ सूत उवाच श्रूयतामभिधास्यामि धर्ममेतमतन्द्रिताः । निर्म्मितं देवदेवेन भक्तानामनुकंपया ॥ १,२७.५ ॥ पुरा कृतयुगे विप्राः शृङ्गे हिमवतः शुभे । देवदारुवनं रम्यं नानाद्रुमलताकुलम् ॥ १,२७.६ ॥ बहवो मुनयस्तत्र तपस्यन्तो मुनिव्रताः । शैवाल भोजनाः केचित्केचिदन्तर्जलेशयाः ॥ १,२७.७ ॥ केचिदभ्रावकाशास्तु पादाङ्गुष्ठाग्रधिष्ठिताः । दन्तोलूखलिनश्चान्ये त्वश्मकुट्टास्तथा परे ॥ १,२७.८ ॥ स्थानवीरासनाश्चान्ये मृगयर्यारतास्तथा । कालं नयन्ति तपसा तीव्रेण च महाधियः ॥ १,२७.९ ॥ ततस्तेषां प्रसादार्थ देवस्तद्वनमागतः । भस्मपाण्डुरदिग्धाङ्गो नग्नो विकृतलक्षणः ॥ १,२७.१० ॥ विकृतस्रस्तकेशश्च करालदशनस्तथा । उल्मुकव्यग्रहस्तश्च रक्तपिङ्गललोचनः ॥ १,२७.११ ॥ शिश्नं सवृषणं तस्य रक्तगैरिकसन्निभम् । मुखमङ्गारवर्णेन शुक्लेन च विभूषितम् ॥ १,२७.१२ ॥ क्वचित्स हसते रौद्रं क्वचिद्गायति विस्मि तः । क्वचिन्नृत्यति शृङ्गारी क्वचिद्रौति मुहुर्मुहुः ॥ १,२७.१३ ॥ नृत्यन्त रुरुधुस्तूर्णं पत्न्यस्तेषां विमोहिताः । आश्रमेऽभ्यागतोऽभीक्ष्णं या चते च पुनः पुनः ॥ १,२७.१४ ॥ भार्या कृता तथारूपा तृणाभरणभूषिता । वृषनादं प्रगर्जन्वै खरनादं ननाद च ॥ १,२७.१५ ॥ तथा वञ्चितुमा रब्धो हासयन्सर्वदेहिनः । ततस्ते मुनयः क्रुद्धाः क्रोधेन कलुषीकृताः ॥ १,२७.१६ ॥ मोहिता मायया सर्वे शपितुं समुपस्थिताः । करवद्गायसे यस्मात्खरस्तस्माद्भविष्यसि ॥ १,२७.१७ ॥ राक्षसो वा पिशाचो वा दानवो वाथ वा तथा । यथा वैच्छंस्तथा सर्वे क्रुद्धास्ते मुनयः समम् ॥ १,२७.१८ ॥ शेपुः शासैस्तु विविधैस्तं देवं भुवनेश्वरम् । तपांसि तेषां सर्वेषां प्रत्याहन्यन्त शङ्करे ॥ १,२७.१९ ॥ यथादित्यप्रकाशेन तारका नभसि स्थिताः । न द्योतन्ते प्रकाशेन तद्वत्तेजांसि शङ्करे ॥ १,२७.२० ॥ श्रूयते ऋषिशापेन ब्रह्मणः सुमहात्मनः । समृद्धः श्रेयसां यौनिर्यज्ञो वै नाशमाप्तवान् ॥ १,२७.२१ ॥ भृगोरपि च शापेन विष्णुः परमवियवान् । प्रादुर्भावान्दश प्राप्तो दुःखितश्च सदा कृतः ॥ १,२७.२२ ॥ इन्द्रस्यापि हि धर्मज्ञः शिश्नं सवृषणं पुरा । ऋषिणा गौतमेनोर्व्यां क्रुद्धेन विनिपातितम् ॥ १,२७.२३ ॥ गर्भवासो वसूनां च शापेन विहित स्तथा । ऋषीणां चैव शापेन नहुषः सर्पतां गतः ॥ १,२७.२४ ॥ क्षीरोदश्च समुद्रश्च ह्यपेयो ब्राह्मणैः कृतः । धर्मश्चात्र प्रशप्तो वै माण्डव्येन महात्मना ॥ १,२७.२५ ॥ एते चान्ये च बहवो यातनां च समागताः । वर्जयित्वा विरूपाक्षं देवदेवं महेश्वरम् ॥ १,२७.२६ ॥ एवं हि मोहितास्तेन न चाबुद्ध्यन्त शङ्करम् । ततस्ते ऋषयः सर्वे परस्परमथाब्रुवन् ॥ १,२७.२७ ॥ न चायं विधिरस्माकं गृहस्थानां विधीयते । ब्रह्मचर्य रतानां च वने वा वनवासिनाम् ॥ १,२७.२८ ॥ यतीनां वा तथा धर्मो नायं दृष्टः कथञ्चन । अनयस्तु महानेष येनायं मोहितो द्विजाः ॥ १,२७.२९ ॥ लिङ्गं प्रपातयस्वैतन्नायं धर्मस्तपस्विनाम् । वदस्व वाचा मधुरं वस्त्रमेकं समाश्रय ॥ १,२७.३० ॥ त्याजिते च त्वया लिङ्गे ततः पूजामवाप्स्यसि । ऋषीणां तद्वचः श्रुत्वा भगवान्भगनेत्रहा ॥ १,२७.३१ ॥ उवाच श्लक्ष्णया वाचा प्रहसन्निव शङ्करः । न शक्यमिदमस्मा कं लिङ्गं पातयितुं बलात् ॥ १,२७.३२ ॥ ब्रह्मादिदैवतैः सर्वैः किमुतान्यैस्तपोधनैः । पातयेयमहं चैतल्लिङ्गं भो द्विजसत्तमाः ॥ १,२७.३३ ॥ आश्रमे तिष्ठ वा गच्छ वाक्यमित्येव तेऽब्रुवन् । एवमुक्तो महादेवः प्रत्दृष्टेन्द्रियचेष्टितः ॥ १,२७.३४ ॥ सर्वेषां पश्यतामेव तत्रैवान्तर्दधे प्रभुः । अन्तर्हिते भगवति तथा लिङ्गे कृते भवे ॥ १,२७.३५ ॥ त्रैलोक्ये सर्वभूतानां प्रादुर्भावो न जायते । व्याकुलं च तदा सर्वं न प्रकाशेत किञ्चन ॥ १,२७.३६ ॥ तपते चैव नादित्यो निष्प्रभः पावकस्तथा । नक्षत्राणि ग्रहाश्चैव विपरीता विजज्ञिरे ॥ १,२७.३७ ॥ संतानार्थ प्रवृत्तानामृषीणां विभवात्मनाम् । क्रतवो न व्यवर्त्तन्त ऋतुकालाभिगामिनाम् ॥ १,२७.३८ ॥ ते चरति पुनर्द्धर्म्मं निर्ममा निरहङ्कृताः । नष्टप्रभाववीर्याश्च नष्टतेजस एव च ॥ १,२७.३९ ॥ धर्मे चैव मतिस्तेषां तदा न व्यवतिष्ठते । ते तुसर्वे समागम्य ब्रह्मलोकमुपागताः ॥ १,२७.४० ॥ ब्रह्मणो भवनं गत्वा दृष्ट्वा पुष्पकसंभवम् । पादयोः पतिताः सर्वे शिववृत्तान्तमूचिरे ॥ १,२७.४१ ॥ विकटः स्तब्धकेशश्च करालदशनस्तथा । उलूकव्यग्रहस्तश्च रक्तपिङ्गललोचनः ॥ १,२७.४२ ॥ शिश्नं सवृषणं तस्य रक्तं गैरिकमण्डितम् । स्नुषाणां च दुहितॄणां पुत्रीणां च विशेषतः ॥ १,२७.४३ ॥ वर्तमानस्ततः पार्श्वे विपरीताभिलाषतः । उन्मत्त इति विज्ञाय सोऽस्माभिरवमानितः ॥ १,२७.४४ ॥ आक्रुष्टस्ताडितश्चापि लिङ्गं चाप्यस्य चोद्धृतम् । तस्य क्रोधप्रसादार्थं वयं ते शरणं गताः ॥ १,२७.४५ ॥ एतत्कार्यं न जानीमस्तन्नो ब्रूहि पितामह । ऋषीणां तद्वचः श्रुत्वा ध्यानाद्विज्ञाय चेश्वरम् ॥ १,२७.४६ ॥ प्रत्युवाच ततो ब्रह्मा वाक्यं च सुसमा हितः । एष देवो महादेवो विज्ञेयस्तु महेश्वरः ॥ १,२७.४७ ॥ न तस्य परमं किञ्चित्पदं समधिगम्यते । देवानां च ऋषीणां च पितृणां चैव स प्रभुः ॥ १,२७.४८ ॥ सहस्रयुगपर्यन्ते प्रलये सर्वदेहिनाम् । संहरत्येष भगवान् कालो भूत्वा महेश्वरः ॥ १,२७.४९ ॥ एष चैव प्रजाः सर्वाः सृजत्येकः स्वतेजसा । एष चिक्री च वक्षोजश्रीवत्सकृतलक्षणः ॥ १,२७.५० ॥ येगी कृतयुगे चैव त्रेतायां क्रतुरुच्यते । द्वापरे चैव कालाग्निर्धर्मकेतुः कलौ स्मृतः ॥ १,२७.५१ ॥ रुद्रस्य मूर्त्तयस्तिस्रो विज्ञेयाश्चापि पण्डितैः । तमो ह्यग्नी रजो ब्रह्मा सत्त्वं विष्णुः प्रकाशकः ॥ १,२७.५२ ॥ मूर्त्तिरेका स्मृता यस्य दिग्वासाश्च शिवाह्वया । यत्र तिष्ठन्ति तद्ब्रह्मयोगेन तु समन्वितम् ॥ १,२७.५३ ॥ तस्माद्देवं देवदेवमी शानं प्रभुमव्ययम् । आराधयत विप्रेन्द्रा जितक्रोधा जितेन्द्रियाः ॥ १,२७.५४ ॥ दृष्टं वै यादृशं तस्य लिङ्गमासीन्महात्मनः । तादृक्प्रतिकृतिं कृत्वा शूलपाणिं प्रपद्यत ॥ १,२७.५५ ॥ ततो द्रक्ष्यथ देवेशं दुर्दर्शमकृतात्मभिः । यं दृष्ट्वा सर्वमज्ञानमधर्मश्च प्रमश्यति ॥ १,२७.५६ ॥ ततः प्रदक्षिणं कृत्वा ब्रह्माणममितौजसम् । आस्थिता वीतशोकास्ते देवदारुवने ततः ॥ १,२७.५७ ॥ आराधयितुमारब्धा ब्रह्मणा कथितं यथा । स्थण्डिलेषु विचित्रेषु पर्वतेषु गुहासु च ॥ १,२७.५८ ॥ नदीनां च विचित्रेषु पुलिनेषु शुभेषु च । एवं संवत्सरे पूर्णे वसंते समुपस्थिते । तदेव रूपमास्थाय देवस्तद्वनमागतः ॥ १,२७.५९ ॥ कुसुमितबहुपादपालताकं भ्रमरगणै रुपगीयमानखण्डम् । परभृतपरिपूर्णचारुशब्दं प्रविशति तद्वनमाश्रमं महेशः ॥ १,२७.६० ॥ ततस्तं मुनयः सर्वे तुष्टुवुः सुसमाहिताः ॥ १,२७.६१ ॥ अद्भिर्विवधमाल्यैश्च धूपमन्धैस्तथैव च । सपत्नीका महाभागाः सपुत्राः सपरिच्छदाः ॥ १,२७.६२ ॥ मृदु भस्ते तदा वाग्भिर्गिरीशमिदमब्रुवन् । अज्ञानाद्देवदेवस्य यदस्माभिग्नुष्ठितम् ॥ १,२७.६३ ॥ कर्मणा मनसा वाचा तत्सर्वं क्षन्तुमर्हसि । चरितानि विचित्राणि गुह्यानि गहनानि च ॥ १,२७.६४ ॥ ब्रह्मादीनां च देवानां दुर्विज्ञेयानि शङ्कर । स्वागतं ते न जानीमो गतिं नैव च नैव च ॥ १,२७.६५ ॥ विश्वेश्वर महादेव योऽसि सोऽसि नमोऽस्तु ते । स्तुवन्ति त्वां महात्मानो देवदेवं महेश्वरम् ॥ १,२७.६६ ॥ नमो भवाय भव्याय भावनायोद्भवाय च । अनन्तबलवीर्याय भूतानां पतये नमः ॥ १,२७.६७ ॥ संहर्त्रे कपिशाङ्गाय अव्ययाय व्ययाय च । गङ्गा सलिलधाराय चाधाराय गुणात्मने ॥ १,२७.६८ ॥ त्र्यंबकाय त्रिनेत्राय त्रिशूलवरधारिणे । कन्दर्पाय नमस्तुभ्यं नमोऽस्तु परमात्मने ॥ १,२७.६९ ॥ शकराय वृषाङ्काय गणानां पतये नमः । दण्डहस्ताय कालाय पाशहस्ताय वै नमः ॥ १,२७.७० ॥ वेदमन्त्रप्रधानाय शतजिह्वाय ते नमः । भूतं भव्यं भविष्यच्च स्थावरं चङ्गमं च यत् ॥ १,२७.७१ ॥ तव देहात्समुत्पन्नं देव सर्वमिदं जगत् । शेभो पाहि च भद्रं ते प्रसीद भगवंस्ततः ॥ १,२७.७२ ॥ अज्ञानाद्यदि वा ज्ञानाद्यत्किञ्चित्कुरुते नरः । तत्सर्वं भगवानेव कुरुते योगमायया ॥ १,२७.७३ ॥ एवं स्तुत्वा तु मुनयः प्रहृष्टेनान्तरात्मना । याचन्ते तपसा युक्ताः पश्यामस्त्त्वां यथा पुरा ॥ १,२७.७४ ॥ प्रकृतिस्थं च ते लिङ्गं तथैवास्तु यथा पुरा । नमो दिग्वाससे नित्यं किङ्किणीजालमालिने ॥ १,२७.७५ ॥ विकटाय करालाय करालवदनाय च । अरूपाय सुरूपाय विश्वरूपाय ते नमः ॥ १,२७.७६ ॥ कटङ्कटाय रूद्राय स्वाहाकाराय वै नमः । सर्वप्राणात्मने तुभ्यं गुणदेहाय वै नमः ॥ १,२७.७७ ॥ दुर्ग्गन्धाय सुगन्धाय शूलहस्ताय वै नमः । स्वयं नीलशिखण्डाय श्रीकण्ठाय नमो नमः । नीलकण्ठाय देवाय चिताभस्माङ्गरागिणे ॥ १,२७.७८ ॥ गुणत्रयात्मने तुभ्यं नमो विश्वाय वेधसे । श्मशानवासिने नित्यं प्रेतरूपाय वै नमः ॥ १,२७.७९ ॥ त्वं ब्रह्मा सर्वदेवानां रुद्राणां नीललोहितः । आत्मा च सर्वभूतानां सांख्यैः पुरुष उच्यते ॥ १,२७.८० ॥ पर्वतानां महामेरुर्नक्षत्राणां च चन्द्रमाः । ऋषीणां च वसिष्ठस्त्वं देवानां वासवस्तथा ॥ १,२७.८१ ॥ ओङ्करः सर्ववेदानां ज्येष्ठसाम च सामसु । आरण्यानां च सर्वेषां सिंहस्त्वं परमेश्वरः ॥ १,२७.८२ ॥ ग्राम्याणामृषभश्चापि भगवांल्लोकपूजितः । सर्वथा वर्त्तमानोऽपि योयो भावो भविष्यति ॥ १,२७.८३ ॥ त्वामेव तत्र पश्यामो ब्रह्मणा कथितं यथा । कामः क्रोधश्च लोभश्च विषादो मद एव च ॥ १,२७.८४ ॥ एतदिच्छाम वै रोद्धुं प्रसीद परमेश्वर । महासंहरणे प्राप्ते त्वया देव कृतात्मना ॥ १,२७.८५ ॥ करं ललाटे संपीड्य वह्निरुत्पादितस्त्वया । तेनाग्निना तदा लोका अर्चिर्भिः सर्वतो वृताः ॥ १,२७.८६ ॥ तस्मादग्निसमा ह्येते बहवो विकृताग्नयः । यानि चान्यानिभूतानि स्थावराणि चराणि च ॥ १,२७.८७ ॥ दह्यन्ते प्राणिनस्ते तु त्वत्समुत्थेन वाह्निना । अस्माकं दह्यमानानां त्राता भव सुरेश्वर ॥ १,२७.८८ ॥ त्वं च लोकहितार्थाय भूतानि परिषिञ्चसि । महेश्वर महाभाग प्रभो शुभनिरीक्षक ॥ १,२७.८९ ॥ आज्ञापय वयं नाथ कर्त्तारो वचनं तव । रूपकोटिसहस्रेषु रूपकोटिशतेषु च ॥ १,२७.९० ॥ अन्तं गन्तुं न शक्ताः स्म तव देव नमोऽस्तु ते । ततस्तु भगवानीश इदं वचनमब्रवीत् ॥ १,२७.९१ ॥ ये हि मे भस्मनिरता भस्मना दग्धकिल्बिषाः । यथोक्तकारिणो दान्ता विप्रा ध्यानपरायणाः ॥ १,२७.९२ ॥ न तान्परिवदेद्विद्वान्न च तानतिलङ्घयेत् । न चेमानप्रियं ब्रूयादमुत्रेह हितार्थवान् ॥ १,२७.९३ ॥ यस्तान्निन्दति मूढात्मा महादेवंस निन्दति । यस्त्वेतान्पूजयेन्नित्यं स पूजयति शङ्करम् । एवं चरथ भद्रं वो मत्तः सिद्धिमवाप्स्यथ ॥ १,२७.९४ ॥ अतुलमिह महातमः प्रणाशंशिवकथितं परमं विधिं विदित्वा । अपगतभयलोभमोहचिन्ताः सह पतिताः महसा शिरोभिरूहुः ॥ १,२७.९५ ॥ ततस्ते मुदिता विप्राः प्रकृतिस्थे महेश्वरे । गन्धोदकैः सुशुद्धैश्च कुशपुष्पविमिश्रितैः ॥ १,२७.९६ ॥ स्नापयन्ति महाकुम्भैरद्भिर्देवं महेश्वरम् । गायन्ति विविधैर्गुह्यैर्हुंकारैश्चापि सुस्वरैः ॥ १,२७.९७ ॥ नमो दिग्वाससे देव किङ्किणीध्राय वै नमः । अर्द्ध नारीशरीराय सांख्ययोगप्रवर्त्तिने ॥ १,२७.९८ ॥ घनवाहनकृष्णाय गजचर्मनिवासिने । कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने ॥ १,२७.९९ ॥ सुरचितचित्रविचित्रकुण्डलाय सुरचितमाल्यविभूषणाय तुभ्यम् । मृगपतिवरचर्मवाससे ते पृथुपरशो च नमोस्तु शङ्कराय ॥ १,२७.१०० ॥ भूयश्च स्थापिते लिङ्गे लोकानां हितकाम्यया । वर्णधर्मपराश्चैव चेरुस्ते मुनिसत्तमाः ॥ १,२७.१०१ ॥ ततस्तान्स मुनीन्प्रीतः प्रत्युवाच महेश्वरः । प्रीतोस्मि युष्मत्तपसा वरं वृणुत मुव्रताः ॥ १,२७.१०२ ॥ ततस्ते मुनयस्सर्वे प्रणिपत्य महेश्वरम् । भृग्वङ्गिरा वसिष्ठश्च विश्वामित्रस्तथैव च ॥ १,२७.१०३ ॥ गौतमोऽत्रिः सुकेशश्च पुलस्त्यः पुलहः क्रतुः । मरीचिः कश्यपश्चापि संवर्तश्च महातपाः ॥ १,२७.१०४ ॥ ते प्रणम्य महादेवमिदं वचनमब्रुवन् । भस्मस्नानं च नग्नत्वं वामत्वं प्रतिलोमता । सेव्यासेव्यत्वं तु विभो एतदिच्छाम वेदितुम् ॥ १,२७.१०५ ॥ भगवानुवाच एतद्वः संप्रवक्ष्यामि कथासर्वस्वमद्य वै । अग्निर्ह्यहं सोमयुतः सोमश्चाग्निमुपश्रितः ॥ १,२७.१०६ ॥ कृताकृतं वदन्त्यग्निं भूयो लोकाः समाश्रिताः । असकृच्चाग्निना दग्धं जगत्स्थावरजङ्गमम् ॥ १,२७.१०७ ॥ भस्मसाध्यं हि तत्सर्वं पवित्रमिद मुत्तमम् । भस्मना वीर्यमास्थाय भूतानि परिषिञ्चति ॥ १,२७.१०८ ॥ अग्निकार्यं च यत्कृत्वा करिष्यति च त्र्यायुषम् । भस्मना मम वीर्येण मुच्यते सर्वकिल्बिषैः ॥ १,२७.१०९ ॥ भासयत्येव यद्भस्म शुभं वासयते च यत् । तत्क्षणात्सर्वपापानां भस्मेति परिकीर्त्यते ॥ १,२७.११० ॥ ऊष्मपाः पितरो ज्ञेया देवा वै सोमसंभवाः । अग्नीषोमात्मकं सर्वं जगत्स्थावरजं गमम् ॥ १,२७.१११ ॥ अहमग्निर्महातेजाः सोमश्चैषा ममांबिका । अहमग्निश्च सोमश्च प्रकृत्या पुरुषः स्वयम् ॥ १,२७.११२ ॥ तस्माद्भस्म महाभागा मद्वीर्यमिति चोच्यते । स्ववीर्यं वपुषा चैव धारयामीति वै स्थितिः ॥ १,२७.११३ ॥ तदा प्रभृति लोकेषु रक्षार्थमशुभेषु च । भस्मना क्रियते रक्षा सूतिकानां गृहेषु च ॥ १,२७.११४ ॥ भस्मस्नानविशुद्धात्मा जितक्रोधो जितेन्द्रियः । मत्समीपसुपागम्य न भूयो विनिवर्तते ॥ १,२७.११५ ॥ व्रतं पाशुपतं योगं कापालं योगनिर्मितम् । पूर्वं पाशुपतं ह्येतन्निर्मितं तदनुत्तमम् ॥ १,२७.११६ ॥ शेषाश्चाश्रमिणः सर्वे पश्चात्सृष्टाः स्वयंभुवा । सृष्टिरेषा मया सृष्टा लज्जामोहभयात्मिका ॥ १,२७.११७ ॥ नग्ना एव हि जायन्ते देवता मुनयस्तथा । ये चान्येमानवा लोके सर्वे जायन्त्यवाससः ॥ १,२७.११८ ॥ इन्द्रियैरजितैर्नग्ना दुकूलेनापि संवृताः । तैरेव संवृतो गुप्तोन वस्त्रं कारणं स्मृतम् ॥ १,२७.११९ ॥ क्षमा धृतिरहिंसा च वैराग्यं चैव सर्वशः । तुल्यौ मानापमानौ च तत्प्रावरणमुत्तमम् ॥ १,२७.१२० ॥ भस्मपाण्डुरदिग्धाङ्गो ध्यायते मनसा भवम् । यद्यकार्यसहस्राणि कृत्वा स्नायति भस्मना ॥ १,२७.१२१ ॥ तत्सर्वं दहते भस्म यथाग्निस्तेजसा वनम् । तस्मा द्यत्नपरो भूत्वा त्रिकालमपि यः सदा ॥ १,२७.१२२ ॥ भस्मना कुरुते स्नानं गाणपत्यं स गच्छति । संहृत्य च क्रतून्सर्वान्गृहीत्वामृतमुत्त मम् ॥ १,२७.१२३ ॥ ध्यायन्ति ये महादेवं लीनास्तद्भावभाविताः । उत्तरेणाथ पन्थानं तेऽमृतत्वमवाप्नुयुः ॥ १,२७.१२४ ॥ दक्षिणेनाथ पन्थानं ये श्मशानानि भेजिरे । अणिमा महिमा चैव लघिमा प्राप्तिरेव च ॥ १,२७.१२५ ॥ गरिमा पञ्चमी चैव षष्ठं प्राकाम्यमेव च । ईशित्वं च वशित्वं च ह्यमरत्वं च ते गताः ॥ १,२७.१२६ ॥ इन्द्रादयस्तथा देवाः कामिकं व्रतमास्थिताः । ऐश्वर्यं परमं प्राप्य सर्वे प्रथिततेजसः ॥ १,२७.१२७ ॥ व्यपगतमदमोहमुक्तरागास्तमेरहजदोषविवर्जितस्वभावाः । परिभवमिदमुत्तमं विदित्वा पशुपतिदयितमिदं व्रतं चरध्वम् ॥ १,२७.१२८ ॥ यः पठेद्वै शुचिर्भूत्वा श्रद्दधानो जितेन्द्रियः । सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ॥ १,२७.१२९ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपाद दारुवनप्रवेशभस्मस्नानविधिर्नाम सप्तविंशतितमोऽध्यायः _____________________________________________________________ ऋषिरुवाच अगात्कथममावस्यां मासि मासि दिवं नृपः । ऐलः पुरूरवाः सूत कथं वातर्पयत्पितॄन् ॥ १,२८.१ ॥ सूत उवाच तस्य तेऽहं प्रवक्ष्यामि प्रभावं शांशपायने । ऐलस्यादित्यसंयोगं सोमस्य च महात्मनः ॥ १,२८.२ ॥ अन्तःसारमयस्येन्दोः पक्षयोः शुक्लकृष्णयोः । ह्रासवृद्धी पिदृमतः पित्र्यस्य च विनिर्णयम् ॥ १,२८.३ ॥ सोमाच्चैवामृतप्राप्तिं पितॄणां तर्वणं तथा । काव्याग्निष्वात्तमौम्यानां पितॄणाञ्चैव दर्शनम् ॥ १,२८.४ ॥ यथा पुरूरवाश्चैव तर्पयामास वै पितॄन् । एतत्सर्वं प्रवक्ष्यामि पर्वाणि च यथाक्रमम् ॥ १,२८.५ ॥ यदा तु चन्द्रसूर्यौं वै नक्षत्रेण समागतौ । अमावस्यां निवसत एकरात्रैकमण्डलौ ॥ १,२८.६ ॥ स गच्छति तदा द्रष्टुं दिवाकरनिशाकरौ । अमावस्याममावास्यां मातामहपितामहौ ॥ १,२८.७ ॥ अभिवाद्य स तौ तत्र कालापेक्षः प्रतीक्षते । प्रस्यन्दमानात्सोमात्तु पित्रर्थं तु परिश्रवान् ॥ १,२८.८ ॥ ऐलः पुरूरवा विद्वान्मासश्राद्धचिकीर्षया । उपास्ते पितृमन्तं तं सोमं दिवि समास्थितः ॥ १,२८.९ ॥ द्विलवां कुहूमात्रां च ते उभे तु विचार्य सः । सिनीवालीप्रमाणेभ्यः सिनीवालीमुपास्य सः ॥ १,२८.१० ॥ कुहूमात्रः कलां चैव ज्ञात्वोपास्ते कुहूं तथा । स तदा तामुपासीनः कालापेक्षः प्रपश्यति ॥ १,२८.११ ॥ सुधामृतं तु तत्सोमात्स्रवद्वै मासतृप्तये । दशभिः पञ्चभिश्चैव सुधामृतपरिस्रवैः ॥ १,२८.१२ ॥ कृष्णपक्षे भुजां प्रीत्या दह्यमानां तथांशुभिः । सद्यः प्रक्षरता तेन सौम्येन मधुना तु सः ॥ १,२८.१३ ॥ निर्वातेष्त्रथ पक्षेषु पित्र्येण विधिना दिवि । सुधामृतेन राजैन्द्रस्तर्प यामास वै पितॄन् ॥ १,२८.१४ ॥ सौम्यान्बर्हिषदः काव्यानग्निष्वात्तांस्तथैव च । ऋतमग्निस्तु यः प्रोक्तः स तु संवत्सरो मतः ॥ १,२८.१५ ॥ जज्ञिरे ह्यृतवस्तस्माद्ध्यृतुभ्यश्चार्त्तवास्तथा । आर्तवा ह्यर्द्धमासाख्याः पितरो ह्यृतुसूनवः ॥ १,२८.१६ ॥ ऋतवः पितामहा मासा अयनाह्यब्दसूनवः । प्रपितामहास्तु वै देवाः पञ्चाब्दा ब्रह्मणः सुताः ॥ १,२८.१७ ॥ सौम्यास्तु सोमजा ज्ञेयाः काव्या ज्ञेयाः कवेः सुताः । उपहूताः स्मृता देवाः सोमजाः सोमपाः स्मृताः ॥ १,२८.१८ ॥ आज्यपास्तु स्मृताः काव्यास्तिस्रस्ताः पितृजातयः । काव्या बर्हिषद श्चैव अग्निष्वात्ताश्च तास्त्रिधा ॥ १,२८.१९ ॥ गृहस्था ये च यज्वान ऋतुर्बर्हिषदो ध्रुवम् । गृहस्थाश्चाप्ययज्वान अग्निष्वात्तास्तथार्त्तवाः ॥ १,२८.२० ॥ अष्टकापतयः काव्याः पञ्चाब्दास्तान्निबोधत । तेषां संवत्सरो ह्यग्निः सूयस्तु परिवत्सरः ॥ १,२८.२१ ॥ सोम इड्वत्सरः प्रोक्तो वायुश्चैवानुवत्सरः । रुद्रस्तु वत्सरस्तेषां पञ्चाब्दास्ते युगात्मकाः ॥ १,२८.२२ ॥ काव्याश्चैवोष्मपाश्चैव दिवाकीर्त्याश्च ते स्मृताः । ये ते पिबन्त्यमावस्यां मासिमासि सुधां दिवि ॥ १,२८.२३ ॥ तांस्तेन तर्पयामास यावदासीत्पुरूरवाः । यस्मात्प्रस्रवते सोमान्मासि मासि धिनोति च ॥ १,२८.२४ ॥ तस्मात्सुधामृतं तद्वै पितॄणां सोमपायिनाम् । एवं तदमृतं सौम्यं सुधा च मदु चैव ह ॥ १,२८.२५ ॥ कृष्णपक्षे यथा वेन्दोः कलाः पञ्चदश क्रमात् । पिबन्त्यंबुमयं देवास्त्रयस्त्रिंशत्तु छन्दनाः ॥ १,२८.२६ ॥ पीत्वार्द्धमासं गच्छन्ति चतुर्दश्यां सुधामृतम् । इत्येवं पीयमानैस्तु देवैः सर्वैर्निशाकरः ॥ १,२८.२७ ॥ समागच्छत्यमावस्यां भागे पञ्चदशे स्थितः । सुषुम्णाप्यायितं चैव ह्यमावस्यां यथा क्रमम् ॥ १,२८.२८ ॥ पिबन्ति द्विलवं कालं पितरस्ते सुधामृतम् । पीतक्षयं ततः सोमं सूर्योऽसावेकरश्मिना ॥ १,२८.२९ ॥ आप्याययत्सुषुम्णातः पुनस्तान्सोमपायिनः । निः शेषायां कलायां तु सोममाप्याययत्पुनः ॥ १,२८.३० ॥ सुषुम्णाप्यायमानस्य भागं भागमहः क्रमात् । कलाः क्षीयन्ति ताः कृष्णाः शुक्ला चाप्याययन्ति तम् ॥ १,२८.३१ ॥ एवं सूर्यस्य वीर्येण चन्द्रस्याप्यायिता तनुः । दृश्यते पौर्णमास्यां वै शुक्लः संपूर्णमण्डलः ॥ १,२८.३२ ॥ संसिद्धिरेवं सोमस्य पक्षयोः शुक्लकृष्णयोः । इत्येवं पितृमान्सोमः स्मृत इड्वत्सरात्मकः ॥ १,२८.३३ ॥ क्रान्तः पञ्चदशैः सार्द्धं सुधामृतपरिस्रवैः । अतः पर्वाणि वक्ष्यामि वर्वणां संधयश्च ये ॥ १,२८.३४ ॥ ग्रन्थिमन्ति यथा पर्वाणीक्षुवे ण्वोर्भवन्त्युत । तथार्द्धमासि पर्वाणि शुक्लकृष्णानि चैव हि ॥ १,२८.३५ ॥ पूर्णामावस्ययोर्भेदौ ग्रन्थयः संधयश्च वै । अर्द्धमासं तु पर्वाणि द्वितीयाप्रभृतीनि तु ॥ १,२८.३६ ॥ अन्वाधानक्रिया यस्मात्क्रियते पर्वसंधिषु । तस्मात्तु पर्वणामादौ प्रतिपत्सर्वसंधिषु ॥ १,२८.३७ ॥ सायाह्नेऽह्यनुमत्यादौ कालो द्विलव उच्यते । लवौ द्वावेव राकायां कालो ज्ञेयोऽपराह्णकः ॥ १,२८.३८ ॥ प्रतिपत्कृष्णपक्षस्य कालेऽतीतेऽपराह्णके । सायाह्ने प्रतिपन्ने च स कालः पौर्णमासिकः ॥ १,२८.३९ ॥ व्यतीपाते स्थिते सूर्ये लेखार्द्धे तु युगान्तरे । युगान्तरोदिते चैव लेशार्द्धे शशिनः क्रमात् ॥ १,२८.४० ॥ पौर्णमासी व्यतीपाते यदीक्षेतां परस्परम् । यस्मिन्काले समौ स्यातां तौ व्यतीपात एव सः ॥ १,२८.४१ ॥ तं कालं सूर्यनिर्द्देश्यं दृष्ट्वा संख्यां तु सर्पति । स वै वषटाक्रियाकालः सद्यः कालं विधीयते ॥ १,२८.४२ ॥ पूर्णन्दोः पूर्णपक्षे तु रात्रिसंधिश्च पूर्णिमा । ततो विरज्यते नक्तं पौर्णमास्यां निशाकरः ॥ १,२८.४३ ॥ यदीक्षेते व्यतीपाते दिवा पूर्णे परस्परम् । चन्द्रार्कावपराह्णे तु पूर्णात्मानौ तु पूर्णिमा ॥ १,२८.४४ ॥ यस्मात्तामनुमन्यन्ते पितरो दैवतैः सह । तस्मादनुमतिर्नाम पूर्णिमा प्रथमा स्मृता ॥ १,२८.४५ ॥ अत्यर्थं भ्राजते यस्माद्व्योम्न्यस्यां वै निशाकरः । रञ्जनाच्चैव चन्द्रस्य राकेति कवयोऽब्रुवन् ॥ १,२८.४६ ॥ अमावसेतामृक्षे तु यदा चन्द्रदिवाकरौ । राका पञ्चदशी रात्रिरमावास्या ततः स्मृता ॥ १,२८.४७ ॥ व्युच्छिद्य तममावस्यां पश्यतस्तौ समागतौ । अन्योन्यं चन्द्रसूर्यौं तौ यदा तद्वर्श उच्यते ॥ १,२८.४८ ॥ द्वौ द्वौ लवावमावास्या स कालः पर्वसंधिषु । द्व्यक्षर कुहुमात्रश्च पर्वकालास्त्रयः स्मृताः ॥ १,२८.४९ ॥ नष्टचन्द्रा त्वमावस्या या मध्याङ्नात्प्रवर्त्तते । दिवसार्द्धेन रात्र्या च सूर्यं प्राप्य तु चन्द्रमाः ॥ १,२८.५० ॥ सूर्येण सह सामुद्रं गत्वा प्रातस्तनात्स वै । द्वौ कालौ संगमं चैव मध्याह्ने नियतं रविः ॥ १,२८.५१ ॥ प्रतिपच्छुक्लपक्षस्य चन्द्रमाः सूर्य मण्डलात् । विमुच्यमानयोर्मध्ये तयोर्मण्डलयोस्तु वै ॥ १,२८.५२ ॥ स तदा ह्याहुतेः कालो दर्शस्य तु वषट्क्रिया । एतदृतुमुखं ज्ञेयममा वास्यास्य पर्वणः ॥ १,२८.५३ ॥ दिवापर्व ह्यमावास्या क्षीणेन्दौ बहुले तु वै । तस्माद्दिवा ह्यमावास्यां गृह्यतेऽसौ दिवाकरः ॥ १,२८.५४ ॥ गृह्यते तु दिवा तस्मादमावास्यां दिवि क्षयाम् । कलानामपि चैतासां वृद्धिहान्या जलात्मनः ॥ १,२८.५५ ॥ तिथीनां नामधेयानि विद्वद्भिः संज्ञितानि वै । दर्शयेतामथात्मानं सूर्याचन्द्रमसावुभौ ॥ १,२८.५६ ॥ निष्क्रामत्यथ तेनैव क्रमशः सूर्यमण्डलात् । द्विलवोनमहोरात्रं भास्करं स्पृशते शशी ॥ १,२८.५७ ॥ स तदा ह्याहुतेः कालोदर्शस्य तु वषट्क्रिया । कुहेति कोकिलेनोक्तो यः स कालः समाप्यते ॥ १,२८.५८ ॥ तत्कालसंमिता यस्मादमावास्या कुहूः स्मृता । सिनीवालीप्रमाणस्तु क्षीणशेषो निशाकरः ॥ १,२८.५९ ॥ आमावस्यां विशत्यर्कस्सिनी वालीततः स्मृता । अनुमत्याश्चराकायाः सिनीवाल्याः कुहूंविना ॥ १,२८.६० ॥ एतासां द्विलवः कालः कुहूमात्रङ्कुहूःस्मृताः । चन्द्रसूर्यव्यतीपाते संगते पूर्णिमान्तरे ॥ १,२८.६१ ॥ प्रतिपत्प्रतिपद्येत पर्वकालो द्विमात्रकः । कालः कहूसिनीवाल्योः सामुद्रस्य तु मध्यतः ॥ १,२८.६२ ॥ अर्काग्नि मण्डले सोमे पर्वकालः कलासमः । एवं स शुक्लपक्षे वै रजन्यां पर्वसंधिषु ॥ १,२८.६३ ॥ संपूर्ममण्डलः श्रीमांश्चन्द्रमा उपरज्यते । यस्मादा दाप्यायते सोमः पञ्चदश्यां तु पूर्णिमा ॥ १,२८.६४ ॥ दशभिः पञ्चभिश्चैव कलाभिर्दिवसक्रमात् । तस्मात्कलाः पञ्चदश सोमेनास्य तु षोडशी ॥ १,२८.६५ ॥ तस्मात्सोमस्य भवति पञ्चदश्याप्रपां क्षयः । इत्येते पितरो देवाः सोमपाः सोमवर्द्धनाः ॥ १,२८.६६ ॥ आर्तवा ऋतवो ह्यृद्धा देवास्तान्भावयन्ति वै । अतः पितॄन्प्रवक्ष्यामि मासश्राद्धभुजस्तु ये ॥ १,२८.६७ ॥ तेषां गतिं सतत्त्वां च प्राप्तिं श्राद्धस्य चैव हि । न मृतानां गतिः शक्या ज्ञातुं न पुनरागतिः ॥ १,२८.६८ ॥ तपसापि प्रसिद्धेन किंपुनर्मासचक्षुषा । अनुदेवपितॄनेते पितरो लौकिकाः स्मृताः ॥ १,२८.६९ ॥ देवाः सौम्याश्च काव्याश्च अयज्वानो ह्यचोनिजाः । देवास्ते पितरः सर्वे देवास्तान्वादयन्त्युत ॥ १,२८.७० ॥ मनुष्यपितरश्चैव तेभ्योऽन्ये लौकिकाः स्मृताः । पिता पितामहश्चापि तथा यः प्रपितामहः ॥ १,२८.७१ ॥ यज्वानो ये तु सामेन सोमवन्तस्तु ते स्मृताः । ये यज्वानो हविर्यज्ञे ते वै बर्हिषदः स्मृताः ॥ १,२८.७२ ॥ अग्निष्वात्ताः स्मृतास्तेषां होमिनोऽयाज्ययाजिनः । तेषां तु धर्मसाधर्म्यात्स्मृताः सायुज्यगा द्विजैः ॥ १,२८.७३ ॥ ये चाप्याश्रमधर्माणां प्रस्थानेषु व्यवस्थिताः । अन्ते तु नावसीदन्ति श्रद्धायुक्तास्तु कर्मसु ॥ १,२८.७४ ॥ तपसा ब्रह्मचर्येण यज्ञेन प्रजया च वै । श्राद्धेन विद्यया चैव प्रदानेन च सप्तधा ॥ १,२८.७५ ॥ कर्मस्वेतेषु ये युक्ता भवन्त्यादेहपातनात् । दैवैस्तैः पितृभिः सार्द्धं सूक्ष्मजैः सोमयाजनैः ॥ १,२८.७६ ॥ स्वर्गता दिवि मोदन्ते पितृवत्त उपासते । तेषां निवापे दत्ते तु तत्कुलीनैश्च बन्धुभिः ॥ १,२८.७७ ॥ मासश्राद्धभुजस्तृप्तिं लभन्ते सोमलौकिकाः । एते मनुष्यपितरो मासश्राद्धभुजस्तु ये ॥ १,२८.७८ ॥ तेभ्योऽपरे तु येऽप्यन्ये संकीर्णाः कर्मयोनिषु । भ्रष्टाश्चाश्रमधर्मेभ्यः स्वधास्वाहाविवर्जिताः ॥ १,२८.७९ ॥ भिन्नदेहा दुरात्मानः प्रेतभूता यमक्षये । स्वकर्माण्य नुशोचन्तो यातनास्थानमागताः ॥ १,२८.८० ॥ दीर्घायुषोऽतिशुष्काश्च श्मश्रुलाश्च विवाससः । क्षुत्पिपासापरीताश्च विद्रवन्तस्ततस्ततः ॥ १,२८.८१ ॥ सरित्सरस्तडागानि वापीश्चाप्युपलिप्सवः । परान्नानि च लिप्संतः काल्यमानास्ततस्ततः ॥ १,२८.८२ ॥ स्थानेषु पात्यमानाश्च यातनाश्च पुनः पुनः । शाल्मले वैतरण्यां च कुंभीपाके तथैव च ॥ १,२८.८३ ॥ करंभवालुकायां च असिपत्रवने तथा । शिला संपेषणे चैव पात्यमानाः स्वकर्मभिः ॥ १,२८.८४ ॥ तत्रस्थानां हि तेषां वै दुः खितानामनाशिनाम् । तेषां लोकान्तरस्थानां बान्धवैर्नाम गोत्रतः ॥ १,२८.८५ ॥ भूमावसव्यं दर्भेषु दत्ताः पिण्डास्त्रयस्तु वै । यान्ति तास्तर्पयन्ते च प्रेतस्थानेष्वधिष्ठितान् ॥ १,२८.८६ ॥ अप्राप्ता यातनास्थानं प्रभ्रष्टा य च पञ्चधा । पश्चाद्ये स्थावरान्ते वै जाता नीचैः स्वकर्मभिः ॥ १,२८.८७ ॥ नानारूपासु जायन्ते तिर्यग्योनिष्वयोनिषु । यदाहारा भवन्त्येते तासु तास्विह योनिषु ॥ १,२८.८८ ॥ तस्मिंस्तस्मिंस्तदाहारे श्राद्धं दत्तं प्रतिष्ठते । काले न्यायागतं पात्रे विधिना प्रतिपादितम् ॥ १,२८.८९ ॥ प्राप्नोत्यन्नं यथादत्तं जन्तुर्यत्रावतिष्ठते । यथा गोषु प्रनष्टामु वत्सो विन्दति मातरम् ॥ १,२८.९० ॥ तथा श्राद्धेषु दत्तान्नं मन्त्रः प्रापयते पितॄन् । एवं ह्यविफलं श्राद्धं श्रद्धादत्तं तु मन्त्रतः ॥ १,२८.९१ ॥ तत्तत्कुमारः प्रोवाच पश्यन्दिव्येन चक्षुषा । गतागतज्ञः प्रेतानां प्राप्तिं श्राद्धस्य तैः सह ॥ १,२८.९२ ॥ बाह्लीकाश्चोष्मपाश्चैव दिवाकीर्त्याश्च ते स्मृताः । कृष्णपक्षस्त्वहस्तेषां शुक्लः स्वप्नाय शर्वरी ॥ १,२८.९३ ॥ इत्येते पितरो देवा देवाश्च पितरश्च वै । ऋत्वर्तवार्द्धमासास्तु अन्योन्यं पितरः स्मृताः ॥ १,२८.९४ ॥ इत्येत पितरो देवा मनुष्यपितरश्च ये । प्रीतेषु तेषु प्रीयन्ते श्राद्धयुक्तेषु कर्मसु ॥ १,२८.९५ ॥ इत्येष विचयः प्रोक्तः पितॄणां सोमपायिनाम् । एवं पितृसतत्त्वं हि पुराणे निश्चयं गतम् ॥ १,२८.९६ ॥ इत्यर्कपितृसोमानामैलस्य च समागमः । सुधामृतस्य च प्राप्तिः पितॄणां चैव तर्प्पणम् ॥ १,२८.९७ ॥ पूर्णा मावास्ययोः कालो यातनास्थानमेव च । समासात्कीर्तितस्तुभ्यमेष सर्गः मनातनः ॥ १,२८.९८ ॥ वैश्वरूप्यं तु सर्गस्य कथितं ह्येकदैशिकम् । न शक्यं परिसंख्यातुं श्रद्धेयं भूतिमिच्छता ॥ १,२८.९९ ॥ स्वायंभुवस्य हि ह्येष सर्गः क्रान्तो मया तु वै । विस्तरेणानुपूर्व्या च भूयः किं वर्णयाम्यहम् ॥ १,२८.१०० ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे अमावस्याश्राद्धे पितृविचयोनामाष्टाविंशति तमोऽध्यायः _____________________________________________________________ ऋषिरुवाच चतुर्युगानि यान्यासन्पूर्वं स्वायंभुवेऽन्तरे । तेषां निसर्गं तत्त्वं च श्रोतुमिच्छामि विस्तरात् ॥ १,२९.१ ॥ सूत उवाच पृथिव्यादिप्रसंगेन यन्मया प्रागुदीरितम् । तेषां चतुर्युगं ह्येतत्तद्वक्ष्यामि निबोधत ॥ १,२९.२ ॥ संख्ययेह प्रसंख्याय विस्तराच्चैव सर्वशः । युगं च युगभेदश्च युगधर्मस्तथैव च ॥ १,२९.३ ॥ युगसंध्यांशकश्चैव युगसंधानमेव च । षट्प्रकाशयुगाख्यैषा ता प्रवक्ष्यामि तत्त्वतः ॥ १,२९.४ ॥ लौकिकेन प्रमाणेन निष्पाद्याब्दं तु मानुषम् । तेनाब्देन प्रसंख्यायै वक्ष्यामीह वतुर्युगम् । निमेषकाल तुल्यं हि विद्याल्लघ्वक्षरं च यत् ॥ १,२९.५ ॥ काष्ठा निमेषा दश पञ्च चैव त्रिशच्च काष्ठा गणयेत्कलां तु । त्रिंशत्कलाश्चापि भवेन्मुहूर्त्तस्तै स्त्रिंशता रात्र्यहनी समे ते ॥ १,२९.६ ॥ अहोरात्रौ विभजते सूर्यो मानुषलौकिकौ ॥ १,२९.७ ॥ तत्राहः कर्मचेष्टायां रात्रिः स्वप्नाय कल्पते । पित्र्ये रात्र्यहनी मासः प्रविभागस्तयोः पुनः ॥ १,२९.८ ॥ कृष्णपक्षस्त्वहस्तेषां शुक्लः स्वप्नाय शर्वरी । त्रिंशद्ये मानुषा मासाः पित्र्यो मासस्तु सः स्मृतः ॥ १,२९.९ ॥ शतानि त्रीणि मासानां षष्ट्या चाप्यधिकानि वै । पित्र्यः संवत्सरो ह्येष मानुषेण विभाव्यते ॥ १,२९.१० ॥ मानुषे णैव मानेन वर्षाणां यच्छतं भवेत् । पितॄणां त्रीणि वर्षाणि संख्यातानीह तानि वै ॥ १,२९.११ ॥ दश चैवाधिका मासाः पितृसंख्येह संज्ञिताः । लौकिकेनैव मानेन हृब्दो यो मानुषः स्मृतः ॥ १,२९.१२ ॥ एतद्दिव्यमहोरात्रं शास्त्रे स्यान्निश्चयो गतः । दिव्ये रात्र्यहनी वर्ष प्रविभागस्तयोः पुनः ॥ १,२९.१३ ॥ अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् । ये ते रात्र्यहनी दिव्ये प्रसंख्यानं तयोः पुनः ॥ १,२९.१४ ॥ त्रिंशद्यानि तु वर्षाणि दिप्यो मासस्तु स स्मृतः । यन्मानुषं शतं विद्धि दिव्या मासास्त्रयस्तु ते ॥ १,२९.१५ ॥ दश चैव तथाहानि दिव्यो ह्येष विधिः स्मृतः । त्रीणि वर्षशतान्येव षष्टिवर्षाणि यानि तु । दिव्यः संवत्सरो ह्येष मानुषेण प्रकीर्त्तितः ॥ १,२९.१६ ॥ त्रीणि वर्ष सहस्राणि मानुषाणि प्रमाणतः । त्रिंशदन्यानि वर्षाणि मतः सप्तर्षिवत्सरः ॥ १,२९.१७ ॥ नव यानि सहस्राणि वर्षाणां मानुषाणि तु । अन्यानि नवतिश्चैव ध्रुवः संवत्सरः स्मृतः ॥ १,२९.१८ ॥ षड्विंशतिसहस्राणि वर्षाणि मानुषाणि तु । वर्षाणां तु शतं ज्ञेयं दिव्यो ह्येष विधिः स्मृतः ॥ १,२९.१९ ॥ त्रीण्येव नियुतान्याहुर्वर्षाणां मानुषाणि तु ॥ १,२९.२० ॥ षष्टिश्चैव सहस्राणि संख्यातानि तु संख्याया । दिव्यवर्षसहस्र तु प्राहुः संख्याविदो जनाः ॥ १,२९.२१ ॥ इत्येवमृषिभिर्गीतं दिव्यया संख्याया त्विह । दिव्येनैव प्रमाणेन युगसंख्याप्रकल्पनम् ॥ १,२९.२२ ॥ चत्वारि भारते वर्षे युगानि कवयोऽबुवन् । कृतं त्रेता द्वापरं च कलिश्चेति चतुष्टयम् ॥ १,२९.२३ ॥ पूर्व कृतयुकं नाम ततस्त्रेती विधीयते । द्वापरं च कलिश्चैव युगान्येतानि कल्पयेत् ॥ १,२९.२४ ॥ चत्वार्याहुः सहस्राणि वर्षाणां च कृत युगम् । तस्य तावच्छती संध्या संध्यांशः संध्याया समः ॥ १,२९.२५ ॥ इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु । एकन्यायेन वर्तन्ते सहस्राणि शतानि च ॥ १,२९.२६ ॥ त्रीणि द्वे च सहस्राणि त्रेताद्वापरयोः क्रमात् । त्रिशती द्विशती संध्ये संध्यांशौ चापि तत्समौ ॥ १,२९.२७ ॥ कलिं वर्षसरस्रं तु युगमाहुर्द्विजोत्तमाः । तस्यैकशतिका संध्या संध्यांशः संध्यया समः ॥ १,२९.२८ ॥ तेषां द्वादशसाहस्री युगसंख्या प्रकीर्त्तिता । कृतं त्रेता द्वापरं च कलिश्चैव चतुष्टयम् ॥ १,२९.२९ ॥ अत्र संवत्सरा दृष्टा मानुषेण प्रमाणतः । कृतस्य तावद्वक्ष्यामि वर्षाणि च निबोधत ॥ १,२९.३० ॥ सहस्राणां शतान्याहुश्चतुर्दश हि संख्याया । चत्वारिंशत्सहस्राणि तथान्यानि कृतं युगम् ॥ १,२९.३१ ॥ तथा शतसहस्राणि वर्षाणि दशसंख्याया । अशीतिश्च सहस्राणि कालस्त्रेतायुगस्य सः ॥ १,२९.३२ ॥ सप्तैव नियुतान्याहुर्वर्षाणां मानुषेण तु । विंशतिश्च सहस्रामि कालः स द्वापरस्य च ॥ १,२९.३३ ॥ तथा शतसहस्राणि वर्षाणां त्रीणि संख्यया । षष्टिश्चैव सहस्राणि कालः कलियुगस्य तु ॥ १,२९.३४ ॥ एवं चतुर्युगे काल ऋतैः संध्यांशकैः स्मृतः । नियुतान्येव षडिंशान्निरसानि युगानि वै ॥ १,२९.३५ ॥ चत्वारिंशत्तथा त्रीणि नियुता नीह संख्यया । विंशतिश्च सहस्राणि स संध्यांशश्चतुर्युगः ॥ १,२९.३६ ॥ एवं चतुर्युगाख्यानां साधिका ह्येकसप्ततिः । कृतत्रेतादियुक्तानां मनोरन्तरमुच्यते ॥ १,२९.३७ ॥ मन्वन्तरस्य संख्यां तु वर्षाग्रेण निबोधत । त्रिंशत्कोट्यस्तु वर्षाणां मानुषेण प्रकीर्त्तिताः ॥ १,२९.३८ ॥ सप्त षष्टिस्तथान्यानि नियुतान्यधिकानि तु । विशतिश्च सहस्राणि कालोऽयं साधिकं विना ॥ १,२९.३९ ॥ मन्वन्तरस्य संख्यैषा संख्या विद्भिर्द्विजैः स्मृता । मन्वन्तरस्य कालोऽयं युगैः सार्द्धं च कीर्त्तितः ॥ १,२९.४० ॥ चतुः साहस्रयुक्तं वै प्राकृतं तत्कृतं युगम् । त्रेताशिष्टं प्रवक्ष्यामि द्वापरं कलिमेव च ॥ १,२९.४१ ॥ युगपत्समयेनार्थो द्विधा वक्तुं न शक्यते । क्रमागतं मया ह्येतत्तुभ्यं नोक्त युग द्वयम् ॥ १,२९.४२ ॥ ऋषिवंशप्रसंगेन व्याकुलत्वात्तथैव च । अत्र त्रेतायुगस्यादौ मनुः सप्तर्षयश्च ये ॥ १,२९.४३ ॥ श्रौत स्मार्त्त च ते धर्म ब्रह्मणानुप्रचौदितम् । दाराग्निहोत्रसंबन्धमृग्यजुः सामसंहितम् ॥ १,२९.४४ ॥ इत्यादिलक्षणं श्रौतं धर्म सप्तर्षयोऽब्रुवन् । परंपरागतं धर्म स्मार्त्तं चाचारलक्षणम् ॥ १,२९.४५ ॥ वर्णाश्रमाचारयुतं मनुः स्वायंभुवोऽब्रवीत् । सत्येन ब्रह्मचर्येण श्रुतेन तपसा च वै ॥ १,२९.४६ ॥ तेषां तु तप्ततपसा आर्षेणोपक्रमेण तु । सप्तर्षीणां मनोश्चैव ह्याद्ये त्रेतायुगे तथा ॥ १,२९.४७ ॥ अबुद्धिपूर्वकं तेषामक्रियापूर्वमेव च । अभिव्यक्तास्तु ते मन्त्रास्तारकाद्यैर्निदर्शनैः ॥ १,२९.४८ ॥ आदिकल्पे तु देवानां प्रादुर्भूतास्तु याः स्वयम् । प्राणाशेष्वथ सिद्धीनामन्यासां च प्रवर्त्तनम् ॥ १,२९.४९ ॥ आसन्मन्त्रा व्यतीतेषु ये कल्पेषु सहस्रशः । ते मन्त्रा वै पुनस्तेषां प्रतिभायामुपस्थिताः ॥ १,२९.५० ॥ ऋचो यजूंषि सामानि मन्त्रश्चाथर्वणानि तु । सप्तर्षिभिस्तु ते प्रोक्ताः स्मार्त्तं धर्मं मनुर्जगौ ॥ १,२९.५१ ॥ त्रेतादौ संहिता वेदाः केवला धर्मसेतवः । संरोधादायुषश्चैव वर्त्स्यन्ते द्वापरेषु वै ॥ १,२९.५२ ॥ ऋषयस्तपसा वेदान्द्वापरादिष्वधीयते । अनादिनिधिना दिव्याः पूर्वं सृष्टाः स्वयंभुवा ॥ १,२९.५३ ॥ सधर्माः सव्रताः सांगा यथाधर्मं युगेयुगे । विक्रियन्ते समानार्था वेदवादा यथायुगम् ॥ १,२९.५४ ॥ आरंभयज्ञाः क्षत्राश्च हविर्यज्ञा विशस्तथा । परिचारयज्ञाः शूद्रास्तु जपयज्ञा द्विजोत्तमाः ॥ १,२९.५५ ॥ तदा प्रमुदिता वर्णास्त्रेतायां धर्मपालिताः । क्रियावन्तः प्रजावन्तः समृद्धाः सुखिनस्तथा ॥ १,२९.५६ ॥ ब्राह्मणाननुर्त्तन्ते क्षत्रियाः क्षत्रियान्विशः । वैश्यानुवर्त्तिनः शुद्राः परस्परमनुव्रताः ॥ १,२९.५७ ॥ शुभाः प्रवृत्तयस्तेषां धर्मा वर्णाश्रमास्तथा । संकल्पितेन मनसा वाचोक्तेन स्वकर्मणा ॥ १,२९.५८ ॥ त्रेतायुगे च विफलः कर्मारंभः प्रसिद्ध्यति । आयुर्मेधा बलं रूपमारोग्यं धर्मशीलता ॥ १,२९.५९ ॥ सर्वसाधारणा ह्येते त्रेतायां वै भवं त्युत । वर्णाश्रमव्यवस्थानं तेषां ब्रह्मा तदाकरोत् ॥ १,२९.६० ॥ पुनः प्रजास्तु ता मोहाद्धर्मा स्तानप्यपालयन् । परस्परविरोधेन मनुं ताः पुनरभ्ययुः ॥ १,२९.६१ ॥ पुनः स्वायंभुवो दृष्ट्वा याथातथ्यं प्रजापतिः । ध्यात्वा तु शतरूपायां पुत्रौ स उदपादयत् ॥ १,२९.६२ ॥ प्रियव्रतो त्तानपादौ प्रथमौ तौ मोहीक्षितौ । ततः प्रभृति राजान उत्पन्ना दण्डधारिणः ॥ १,२९.६३ ॥ प्रजानां रञ्जनाच्चैव राजानस्तेऽभवन्नृपाः । प्रच्छन्न पापास्तैर्ये च न शक्यास्तु नराधिपैः ॥ १,२९.६४ ॥ धर्मराजः स्मृतस्तेषां शास्ता वैवस्वतो यमः । वर्णानां प्रविभागाश्च त्रेतायां संप्रकीर्त्तिताः ॥ १,२९.६५ ॥ संभृताच्च तदा मन्त्रा ऋषिभिर्ब्रह्मणः सुतैः । यज्ञाः प्रवर्त्तिताश्चैव तदा ह्येव तु दैवतैः ॥ १,२९.६६ ॥ यामशुक्रार्जितैश्चैव सर्वसाधन संभृतैः । सार्द्धं विश्वभुजा चैव देवेन्द्रेण महौजसा ॥ १,२९.६७ ॥ स्वायंभुवेंऽतरे देवैर्यज्ञस्तैः प्राक्प्रवर्त्तितः । सत्यं जपस्तपो दानं त्रेताया धर्म उच्यते ॥ १,२९.६८ ॥ तदा धर्म्मसहस्रान्तेऽहिंसाधर्मः प्रवर्त्तते । जायन्ते च तदा शूरा आयुष्मन्तो महाबलाः ॥ १,२९.६९ ॥ व्यस्तदण्डा महाभागा धर्मिष्ठा ब्रह्मवादिनः । पद्मपत्रायताक्षाश्च पृथूरस्काः सुसंहताः ॥ १,२९.७० ॥ सिंहातङ्का महासत्त्वा मत्तमातङ्गगमिनः । महाधनुर्द्धराश्चैव त्रेतायां चक्रवर्त्तिनः ॥ १,२९.७१ ॥ सर्वलक्षणसम्पूर्मा न्यग्रोधपरिमण्डलाः । न्यग्रोधौ तु स्मृतौ बाहू व्यामो न्यग्रोध उच्यते ॥ १,२९.७२ ॥ व्यामे नैवोछ्रयो यस्य सम ऊर्द्धं तु देहिनः । समोछ्रयपरीणाहो ज्ञेयो न्यग्रोधमण्डलः ॥ १,२९.७३ ॥ चक्रं रथो मणिर्भार्या निधिरश्वो गजस्तथा । सप्तैतानि च रत्नानि सर्वेषां चक्रवर्तिनाम ॥ १,२९.७४ ॥ चक्रं रथो मणिः खड्गश्चर्मरत्नं च पञ्चमम् । केतुर्निधिश्च सप्तैव प्राणहीनानि चक्षते ॥ १,२९.७५ ॥ भार्या पुरोहितश्चैव सेनानी रथकृच्च यः । मन्त्र्यश्वः कलभश्चैव प्राणिनः सप्त कीर्त्तिताः ॥ १,२९.७६ ॥ रत्नान्येतानि दिव्यानि संसिद्धानि महात्मनाम् । चतुर्दश विधेयानि सर्वेषां चक्रवर्त्तिनाम् ॥ १,२९.७७ ॥ विष्णोरंशेन जायन्ते पृथिव्यां चक्रवर्त्तिनः । मन्वन्तरेषु सर्वेषु अतीतानागतेष्विह ॥ १,२९.७८ ॥ भूतभव्यानि यानीह वर्त्तमानानि यानि च । त्रेतायुगे च तान्यत्र जायन्ते चक्रवर्त्तिनः ॥ १,२९.७९ ॥ भद्राणीमानि तेषां वै भवन्तीह महीक्षिताम् । अत्यद्भुतानि चत्वारि बलं धर्मः सुखं धनम् ॥ १,२९.८० ॥ अन्योन्यस्याविरोधेन प्राप्यन्ते तु नृपैः समम् । अर्थो धर्मश्च कामश्च यशो विजय एव च ॥ १,२९.८१ ॥ ऐश्वर्येणाणिमाद्येन प्रभुशक्त्या तथैव च । श्रुतेन तपसा चैव मुनीनभिभवन्ति वै ॥ १,२९.८२ ॥ बलेन तपसा चैव देवदानवमानवान् । लक्षणैश्चैव जायन्ते शरीरस्थैरमानुषैः ॥ १,२९.८३ ॥ केशाःस्निग्धा ललाटोच्चा जिह्वा चास्य प्रमार्जिनी । ताम्रप्रभोष्टनेत्राश्च श्रीवत्साश्चैद्ध्वरोमशाः ॥ १,२९.८४ ॥ आजानुबाहवस्छैव तदाम्रहस्ताः कटौ कृशाः । न्यग्रोधपरिणाहाश्च सिंहस्कन्धास्तु मेहनाः ॥ १,२९.८५ ॥ गजेद्रगतयश्चैव महाहनव एव च । पादयोश्चक्रमत्स्योन्तु शङ्खपद्मौ तुहस्तयोः ॥ १,२९.८६ ॥ पञ्चाशीतिसहस्राणि ते राजन्त्यजरा नृपाः । असंगगतयस्तेषां चतस्रश्चक्रवर्त्तिनाम् ॥ १,२९.८७ ॥ अन्तरिक्षे समुद्रि च पाताले पर्वतेषु च । इज्या दानं तपः सत्यं त्रेतायां धर्म उच्यते ॥ १,२९.८८ ॥ तदा प्रवर्त्तते धर्मो वर्णाश्रमविभागशः । मर्यादास्थापनार्थं च दण्डनीतिः प्रवर्त्तते ॥ १,२९.८९ ॥ त्दृष्टपुष्टाः प्रजाः सर्वा अरोगाः पूर्णमानसाः । एको वेदश्चतुष्पादस्त्रेतायुगविधौस्मृतः ॥ १,२९.९० ॥ त्रीणि वर्षसहस्राणि तदा जीवन्ति मानवाः । पुत्रपौत्रसमाकीर्णा म्रियन्ते च क्रमेण तु ॥ १,२९.९१ ॥ एष त्रेतायुगे धर्मस्त्रेतासंध्यां निबोधत । त्रेतायुगस्वभावानां संध्या पादेन वर्त्तते । संध्यापादः स्वभावस्तु सोंऽशपदेन तिष्ठति ॥ १,२९.९२ ॥ इति श्री ब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे संख्यावर्त्तो नामैकोनत्रिशत्तमोऽध्यायः _____________________________________________________________ शांशापायनिरुवाच कथं त्रेतायुगमुखे यज्ञस्य स्यात्प्रवर्त्तनम् । पूर्वं स्वायंभुवे सर्गे यथावत्तच्च ब्रूहि मे ॥ १,३०.१ ॥ अन्तर्हितायां संध्यायां सार्द्धं कृतयुगेन वै । कालाख्यायां प्रवृत्तायां प्राप्ते त्रेतायुगे तदा ॥ १,३०.२ ॥ औषधीषु च जातासु प्रवृत्ते वृष्टिसर्जने । प्रतिष्ठितायां वार्त्तायां गृहाश्रमपरे पुनः ॥ १,३०.३ ॥ वर्णाश्रमव्यवस्थानं कृतवन्तश्च संख्यया । संभारांस्तांस्तु मंभृत्य कथं यज्ञः प्रवर्त्तितः ॥ १,३०.४ ॥ एतच्छुत्वाब्रवीत्सूतः श्रूयतां शांशपायने । यथा त्रेतायुगमुखे यज्ञस्य स्यात्प्रवर्तनम् ॥ १,३०.५ ॥ पूर्वं स्वायंभुवे सर्गे तद्वक्ष्याम्यानुपूर्व्यतः । अन्तर्हितायां संध्यायां सार्द्धं कृतयुगेन तु ॥ १,३०.६ ॥ कालाख्यायां प्रवृत्तायां प्रप्ते त्रेतायुगे तदा । औषधीषु च जातासु प्रवृत्ते वृष्टिसर्जने ॥ १,३०.७ ॥ प्रतिष्ठितायां वार्त्तायां गृहश्रमपरेषु च । वर्णाश्रमव्यवस्थानं कृत्वा मन्त्रांस्तु संहतान् ॥ १,३०.८ ॥ मन्त्रांस्तान्योजयित्वाथ इहामुत्र च कर्मसु । तदा विश्वभुगिन्द्रश्च यज्ञं प्रावर्त्तयत्प्रभुः ॥ १,३०.९ ॥ दैवतैः सहितैः सर्वैः सर्वसंभारसंभृतैः । तस्याश्वमेधे वितते समाजग्मुर्महर्षयः ॥ १,३०.१० ॥ यजन्तं पशुभिर्मे ध्यैरूचुः सर्वे समागताः । कर्मव्यग्रेषु ऋत्विक्षु संतते यज्ञकर्मणि ॥ १,३०.११ ॥ संप्रगीथेषु सर्वेषु सामगेष्वथ सुस्वग्म् । परिक्रान्तेषु लघुषु ह्यध्वर्युवृषभेषु च ॥ १,३०.१२ ॥ आलब्धेषु च मेध्येषु तथा पशुगणेषु च । हविष्यग्नौ हूयमाने ब्राह्मणैश्चाग्निहोत्रिभिः ॥ १,३०.१३ ॥ आहूतेषु च सर्वेषु यज्ञभाक्षु क्रमात्तदा । य इन्द्रियात्मका देवास्तदा ते यज्ञभागिनः ॥ १,३०.१४ ॥ तद्यचन्ते तदा देवान्कल्पादिषु भवन्ति ये । अध्वर्यवः प्रैषकाले व्यत्थिता वै महर्षयः ॥ १,३०.१५ ॥ महर्षयस्तु तान्दृष्ट्वा दीनान्पशुगणांस्तदा । प्रपच्छुरिद्रं संभूय कोऽयं यज्ञ विधिस्तव ॥ १,३०.१६ ॥ अधर्मो बलवानेष हिंसाधर्मेप्सया ततः । ततः पशुवधश्चैष तव यज्ञे सुरोत्तम ॥ १,३०.१७ ॥ अधर्मो धर्मघाताय प्रारब्धः पशुहिसया । नायं धर्मो ह्यधर्मोऽयं न हिंसा धर्म उच्यते ॥ १,३०.१८ ॥ आगमेन भवान्यज्ञं करोतु यदिहेच्छति । विधिदृष्टेन यज्ञेन धर्मेणाव्यपसेतुना ॥ १,३०.१९ ॥ यज्ञबीचैः सुरेश्रष्ठ येषु हिंसा न विद्यते । त्रिवर्षं परमं कालमुषितैरप्ररोहिभिः ॥ १,३०.२० ॥ एष धर्मो महाप्राज्ञ विरञ्चिविहितः पुरा । एवं विश्वभुगिन्द्रस्तु ऋषिभिस्तत्त्वदर्शिभिः ॥ १,३०.२१ ॥ तदा विवादः सुमहानिन्द्रस्यासीन्महर्षिभिः । जङ्गमस्थावरैः कैर्हि यष्टव्यमिति चोच्यते ॥ १,३०.२२ ॥ ते तु खिन्ना विवादेन तत्त्वमुत्त्वा महर्षयः । सन्धाय वाक्यमिन्द्रेण पप्रच्छुः खेचरं वसुम् ॥ १,३०.२३ ॥ सहाप्राज्ञ कथं दृष्टस्त्वया यज्ञविधिर्नृप । औत्तानपादे प्रब्रूहि संशयं नो नुद प्रभो ॥ १,३०.२४ ॥ श्रुत्वा वाक्यं वसुस्तेषाम विचार्य बलाबलम् । वेदशास्त्रमनुस्मृत्य यज्ञतत्त्वमुवाच ह ॥ १,३०.२५ ॥ यथोपनीर्तैर्यष्टव्यमिति होवाच पार्थिवः । यष्टव्यं पशुभिर्मे ध्यैरथ बीजैः फलैरपि ॥ १,३०.२६ ॥ हिंसास्वभावो यज्ञस्य इति मे दर्शनागमौ । यथेह देवता मन्त्रा हिंसालिङ्गा महर्षिभिः ॥ १,३०.२७ ॥ दीर्घेण तपसा युक्तैर्दर्शनैस्तारकादिभिः । तत्प्रामाण्यान्मया चोक्तं तस्मात्स प्राप्तुमर्हथ ॥ १,३०.२८ ॥ यदि प्रमाणं तान्येव मन्त्रवाक्यानि वै द्विजाः । तथा प्रवततां यज्ञो ह्यन्यथा वोऽनृतं वचः ॥ १,३०.२९ ॥ एवं कृतोत्तरास्ते वै युक्तात्मानस्तपोधनाः । अवश्यभावितं दृष्ट्वा तमथो वाग्यताभवन् ॥ १,३०.३० ॥ इत्युक्तमात्रे नृपतिः प्रविवेश रसातलम् । ऊर्ध्वचारी वसुर्भूत्वा रसातलचरोऽभवत् ॥ १,३०.३१ ॥ वसुधा तलवासी तु तेन वाक्येन सोऽभवत् । धर्माणां संशयच्छेत्ता राजा वसुरधोगतः ॥ १,३०.३२ ॥ तस्मान्न वाच्यमेकेन बहुज्ञेनापि संशये । बहुद्वारस्य धर्मस्य सूक्ष्मा दूरतरा गतिः ॥ १,३०.३३ ॥ तस्मान्न निश्चयाद्वक्तुं धर्मः शक्यस्तु केनचित् । देवानृषीनुपादाय स्वायंभुवमृते मनुम् ॥ १,३०.३४ ॥ तस्मादहिंसा धर्मस्य द्वारमुक्तं महर्षिभिः । ऋषिकोटिसहस्राणि स्वतपोभिर्दिवं ययुः ॥ १,३०.३५ ॥ तस्मान्न दानं यज्ञं वा प्रशंसंति महर्षयः । उञ्छमूलफलं शाकमुदपात्रं तपोधनाः ॥ १,३०.३६ ॥ एतद्दत्वा विभवतः स्वर्गे लोके प्रतिष्ठिताः । अद्रोहश्चाप्य लोभश्च तपो भुतदया दमः ॥ १,३०.३७ ॥ ब्रह्मचर्यं तथा सत्यमनुक्रोशः क्षमा धृतिः । सनातनस्य धर्मस्य मूलमेतद्दुरासदम् ॥ १,३०.३८ ॥ श्रूयन्ते हि तपःसिद्धा ब्रह्मक्षत्रादयोऽनघाः । प्रियव्रतोत्तानपादौ ध्रुवो मेधातिथिर्वसुः ॥ १,३०.३९ ॥ सुधामा विरजाश्चैव शङ्खः पाण्ड्यज एव च । प्राजीनबर्हिः पर्जन्यो हविर्धानादयो नृपः ॥ १,३०.४० ॥ एते चान्ये च बहवः स्वैस्तपोभिर्दिवं गताः । राजर्षयो महासत्त्वा येषां कीर्त्तिः प्रतिष्ठिता ॥ १,३०.४१ ॥ तस्माद्विशिष्यते यज्ञात्तपः सर्वैस्तु कारणः । ब्रह्मणा तपसा सृष्टं जगद्विश्वमिदं पुरा ॥ १,३०.४२ ॥ तस्मान्नान्वेति तद्यज्ञस्तपोमूलमिदं स्मृतम् । द्रव्यमन्त्रात्मको यज्ञस्तपस्त्वनशनात्मकम् ॥ १,३०.४३ ॥ यज्ञेन देवानाप्नोति वैराजं तपसा पुनः । ब्राह्मं तु कर्म संन्यासाद्वैराग्यात्प्रकृतेर्जयम् ॥ १,३०.४४ ॥ ज्ञानात्प्राप्नोति कैवल्यं पञ्चैतागतयः स्मृताः । एवं विवादः सुमहान्य ज्ञस्यासीत्प्रवर्त्तने ॥ १,३०.४५ ॥ देवतानामृषीणां च पूर्व स्वायंभुवेऽन्तरे । ततस्तमृषयो दृष्ट्वा हतं धर्मबलेन तु ॥ १,३०.४६ ॥ वसोर्वाक्यमना दृत्य जगमुः सर्वे यथागतम् । गतेषु मुनिसंघेषु देवा यज्ञं समाप्नुवन् ॥ १,३०.४७ ॥ यज्ञप्रवर्त्तनं ह्येवमासीत्स्वायंभुवेऽन्तरे । ततः प्रभृति यज्ञोऽयं युगैः सह विवर्त्तितः ॥ १,३०.४८ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे यज्ञप्रवर्त्तनं नाम त्रिशत्तमोऽध्यायः _____________________________________________________________ सूत उवाच अत ऊर्द्धं प्रवक्ष्यामि द्वापरस्य विधिं पुनः । तत्र त्रेतायुगे क्षीणे द्वापरं प्रतिपद्यते ॥ १,३१.१ ॥ द्वापरादौ प्रजानां तु सिद्धिस्त्रेतायुगे तु या । परिवृत्ते युगे तस्मिंस्ततस्ताभिः प्रणश्यति ॥ १,३१.२ ॥ ततः प्रवर्त्तते तासां प्रजानां द्वापरे पुनः । संभेदश्चैव वर्णानां कार्याणां च विपर्ययः ॥ १,३१.३ ॥ यज्ञावधारणं दण्डो मदो दंभः क्षमा बलम् । एषा रजस्तमोयुक्ता प्रवृत्तिर्द्वापरे स्मृता ॥ १,३१.४ ॥ आद्ये कृते यो धर्मोऽस्ति स त्रेतायां प्रवर्त्तते । द्वापरे व्याकुलीभूत्वा प्रणश्यति कलौ युगे ॥ १,३१.५ ॥ वर्णानां विपरिध्वंसः संकीयत तथाश्रमाः । द्वैविध्यं प्रतिपद्येतेयुगे तस्मिञ्छ्रुति स्मृती ॥ १,३१.६ ॥ द्वैधात्तथा श्रुतिस्मृत्योर्निश्चयो नाधिगम्यते । अनिश्चयाधिगमनाद्धर्मतत्त्वं न विद्यते ॥ १,३१.७ ॥ धर्मासत्त्वेन मित्राणां मतिभेदो भवेन्नृणाम् । परस्परविभिन्नैस्तैदृष्टीनां विभ्रमेण च ॥ १,३१.८ ॥ अयं धर्मो ह्ययं नेति निश्चयो नाधिगम्यते । कारणानां च वैकल्प्यात्कार्याणां चाप्यनिश्चयात् ॥ १,३१.९ ॥ मतिभेदेन तेषां वै दृष्टीनां विभ्रमो भवेत् । ततो दृष्टिविभन्नैस्तु कृतं शास्त्राकुलं त्विदम् ॥ १,३१.१० ॥ एको वेदश्चतुष्पाद्धि त्रेतास्विह विधीयते । संक्षयादायुपश्चैव व्यस्यते द्वापरेषु च ॥ १,३१.११ ॥ ऋषिमन्त्रात्पुनर्भेदाद्भिद्यते दृष्टिविभ्रमैः । मन्त्रब्राह्मणविन्यासैः स्वरवर्णविपर्ययैः ॥ १,३१.१२ ॥ संहिता ऋग्यजुःसाम्नां संपठ्यन्ते महर्षिभिः । सामान्या वैकृताश्चैव दृष्टिभिन्ने क्वचित्क्वचित् ॥ १,३१.१३ ॥ ब्राह्मणं कल्पसूत्राणि मन्त्रप्रवचनानि च । अन्येऽपि प्रस्थितास्तान्वै केचित्तान्प्रत्यवस्थिताः ॥ १,३१.१४ ॥ द्वापरेषु प्रवर्त्तन्ते निवर्त्तन्ते कलौ युगे । एकमाध्वर्यवं त्वासीत्पुनर्द्वैधमजायत ॥ १,३१.१५ ॥ सामान्यविपरीतार्थैः कृतशास्त्राकुलं त्विदम् । आध्वर्यवस्य प्रस्थानैर्बहुधा व्याकुलीकृतैः ॥ १,३१.१६ ॥ तथैवाथर्वऋक्साम्नां विकल्पैश्चापि संज्ञया । व्याकुलेद्वापरे नित्यं क्रियते भिन्न दर्शनैः ॥ १,३१.१७ ॥ तेषां भेदाः प्रतीभेदा विकल्पाश्चापि संख्याया । द्वापरे संप्रवर्त्तते विनश्यन्ति ततः कलौ ॥ १,३१.१८ ॥ तेषां विपर्ययोत्पन्ना भवन्ति द्वापरे पुनः । अवृष्टिर्मरणं चैव तथैव व्याध्युपद्रवाः ॥ १,३१.१९ ॥ वाङ्मनः कर्मर्जेदुःखैर्निर्वेदो जायते पुनः । निर्वेदाज्जायते तेषां दुःखमोक्षविचारणा ॥ १,३१.२० ॥ विचारणाच्च वैराग्यं वैराग्याद्दोषदर्शनम् । दोषदर्शनतस्चैव द्वापरेऽज्ञानसंभवः ॥ १,३१.२१ ॥ तेषाम ज्ञानिनां पूर्वमाद्ये स्वायंभुवेऽन्तरे । उत्पद्यन्ते हि शास्त्राणां द्वापरे परिपन्थिनः ॥ १,३१.२२ ॥ आयुर्वेदविकल्पश्च ह्यगानां ज्योतिषस्य च । अर्थशास्त्रविकल्पाश्च हेतुशास्त्रविकल्पनम् ॥ १,३१.२३ ॥ प्रक्रियाकल्पसूत्राणां भाष्यविद्याविकल्पनम् । स्मृतिशास्त्रप्रभेदश्च प्रस्थानानि पृथक्पृथक् ॥ १,३१.२४ ॥ द्वापरेष्वभिवर्त्तन्ते मतिभेदाश्रयान्नृणाम् । मनसा कर्मणा वाचा कृच्छ्राद्वार्ता प्रसिद्ध्यति ॥ १,३१.२५ ॥ द्वापरे सर्वभूतानां कायक्लेशपुरस्कृता । लोभो वृत्तिर्वणिक्पूर्वा तत्त्वानामविनिश्चयः ॥ १,३१.२६ ॥ वेदशास्त्रप्रणयनं धर्माणां संकरस्तथा । वर्णाश्रमपरिध्वंसः कामक्रोधौ तथैव च ॥ १,३१.२७ ॥ द्वापरेषु प्रवर्त्तन्ते रागो लोभो वधस्तथा । वेदं व्यासश्चतुर्द्धा तु व्यस्यते द्वापरादिषु ॥ १,३१.२८ ॥ निःशेषे द्वापरे तस्मिंस्तस्य संध्या तु यादृशी । प्रतिष्ठते गुणैर्हीनो धर्मोऽसौ द्वापरस्य तु ॥ १,३१.२९ ॥ तथैव संध्या पादेन ह्यङ्गः संध्या इतीष्यते । द्वापरस्यावशेषेण तिष्यस्य तु निबोधत ॥ १,३१.३० ॥ द्वापरस्याशसेषण प्रतिपत्तिः कलेरपि । हिंसासूयानृतं माया वधश्चैव तपस्विनाम् ॥ १,३१.३१ ॥ एते स्वभावास्तिष्यस्य साधयन्ति च वै प्रजाः । एष धर्मः कृतः कृत्स्नो धर्मश्च परिहीयते ॥ १,३१.३२ ॥ मनसा कर्मणा स्तुत्या वार्ता सिध्यति वा न वा । कलौ प्रमारकी रोगः सततं क्षुद्भयानि च ॥ १,३१.३३ ॥ अनावृष्टिभयं घोरं देशानां च विपर्ययः । न प्रमाणं स्मृतेरस्ति तिष्ये लोकेषु वै युगे ॥ १,३१.३४ ॥ गर्भस्थो म्रियते कश्चिद्यौव नस्थस्तथापरः । स्थविराः केऽपि कौमारे म्रियन्ते वै कलौ प्रजाः ॥ १,३१.३५ ॥ दुरिष्टैर्दुरधीतैश्च दुष्कृतैश्च दुरागमैः । विप्राणां कर्मदोषैस्तैः प्रजानां जायते भयम् ॥ १,३१.३६ ॥ हिंसा माया तथेर्ष्या च क्रोधोऽसूया क्षमा नृषु । तिष्ये भवन्ति जन्तूनां रागो लोभश्च सर्वशः ॥ १,३१.३७ ॥ संक्षोभो जायतेऽत्यथै करिमासाद्य वै युगम् । पूर्णे वर्षसहस्रे वै परमायुस्तदा नृणाम् ॥ १,३१.३८ ॥ नाधीयते तदा वेदान्न यजं ते द्विजातयः । उत्सीदन्ति नराश्चैव क्षत्रियाश्च विशः क्रमात् ॥ १,३१.३९ ॥ शूद्राणामन्त्ययोनेस्तु संबन्धा ब्राह्मणैः सह । भवन्तीह कलौ तस्मिञ्छयनासनभोजनैः ॥ १,३१.४० ॥ राजानः शूद्रभूयिष्ठाः पाखण्डानां प्रवर्त्तकाः । गुणहीनाः प्रजाश्चैव तदा वै संप्रवर्त्तते ॥ १,३१.४१ ॥ आयुर्मेधा बलं रूपं कुलं चैव प्रणश्यति । शूद्राश्च ब्राह्मणाचाराः शूद्राचाराश्च ब्राह्मणाः ॥ १,३१.४२ ॥ राजवृत्ताः स्थिताश्चोरा श्चोराचाराश्च पार्थिवाः । भृत्या एते ह्यसुभृतो युगान्ते समवस्थिते ॥ १,३१.४३ ॥ अशीलिन्योऽनृताश्चैव स्त्रियो मद्यामिषप्रियाः । मायाविन्यो भविष्यन्ति युगान्ते मुनिसत्तम ॥ १,३१.४४ ॥ एकपत्न्यो न शिष्यन्ति युगान्ते मुनिसत्तम । श्वापदप्रबलत्वं च गवां चैव ह्युपक्षयः ॥ १,३१.४५ ॥ साधूनां विनिवृत्तिं च विद्यास्तस्मिन्युगक्षये । तदा धर्मो महोदर्के दुर्लभो दानमूलवान् ॥ १,३१.४६ ॥ चातुराश्रमशैथिल्यो धर्मः प्रविचरिष्यति । तदा ह्यल्पफला भूमिः क्वचिच्चापि महाफला ॥ १,३१.४७ ॥ न रक्षितारो बोक्तारो बलिभागस्य पार्थिवाः । युगान्ते च भविष्यन्ति स्वरक्षणपरायणाः ॥ १,३१.४८ ॥ अरक्षितारो राजानो विप्राः शूद्रोपजीविनः । शूद्राभिवादिनः सर्वे युगान्ते द्विजसत्तमाः ॥ १,३१.४९ ॥ अदृशूला जनपदाः शिवशूला द्विजास्तथा । प्रमदाः केशशूलाश्च युगान्ते समुपस्थिते ॥ १,३१.५० ॥ तपोयज्ञफलानां च विक्रेतारो द्विजोत्तमाः । यतयश्च भविष्यन्ति बहवोऽस्मिन्कलौ युगे ॥ १,३१.५१ ॥ चित्रवर्षी यदा देवस्तदा प्राहुर्युगक्षयम् । सर्वे वाणिजकाश्चा पि भविष्यन्त्यधमे युगे ॥ १,३१.५२ ॥ भूयिष्ठं कूटमानैश्च पण्यं विक्रीणते जनाः । कुशीलचर्यापाखण्डैर्व्याधरूपैः समावृतम् ॥ १,३१.५३ ॥ पुरुषाल्पं बहुस्त्रीकं युगान्ते समुपस्थिते । बाहुयाचनको लोको भविष्यति परस्परम् ॥ १,३१.५४ ॥ अव्याकर्ता क्रूरवाक्या नार्जवो नानसूयकः । न कृते प्रतिकर्त्ता च युगे क्षीणे भविष्यति ॥ १,३१.५५ ॥ अशङ्का चैव पतिते युगान्ते तस्य लक्षणम् । ततः शून्य वसुमती भविष्यति वसुन्धरा ॥ १,३१.५६ ॥ गोप्तारश्चाप्यगोप्तारः प्रभविष्यन्ति शासकाः । हर्त्तारः पररत्नानां परदारविमर्शकाः ॥ १,३१.५७ ॥ कामात्मानो दुरात्मानो ह्यधमाः साहसप्रियाः । प्रनष्टचेष्टना धूर्त्ता मुक्तकेशास्त्त्वशूलिनः ॥ १,३१.५८ ॥ ऊनषोडशवर्षाश्च प्रजा यन्ते युगक्षये । शुक्लदन्ता जिताक्षाश्च मुण्डाः काषायवाससः ॥ १,३१.५९ ॥ शूद्रा धर्मं चरिष्यति युगान्ते समुपस्थिते । सस्यचोरा भविष्यन्ति तथा चैलापहारिणः ॥ १,३१.६० ॥ चोराच्चोराश्च हर्त्तारो हर्तुर्हर्त्ता तथापरः । ज्ञानकर्मम्युपरते लोके निष्क्रियतां गते ॥ १,३१.६१ ॥ कीटमूषकसर्पाश्च धर्षयिष्यन्ति मानवान् । अभीक्ष्णं क्षेममारोग्यं सामर्थ्यं दुर्लभं तथा ॥ १,३१.६२ ॥ कौशिकान्प्रतिवत्स्यन्ति देशाः क्षुद्भयपीडिताः । दुःखेनाभिप्लुतानां च परमायुः शतं तदा ॥ १,३१.६३ ॥ दृश्यन्ते च न दृश्यन्ते वेदा कलियुगेऽखिलाः । तत्सीदन्ते तथा यज्ञाः केवलाधर्मपीडिताः ॥ १,३१.६४ ॥ काषायिणोऽथ निर्ग्रन्था तथा कापालिकाश्च ह । वेदविक्रयिमश्चन्ये तीर्थविक्रयिणोऽपरे ॥ १,३१.६५ ॥ वर्णाश्रमाणां ये चान्ये पाखण्डाः परिपन्थिनः । उत्पद्यन्ते तदा ते वै संप्राप्ते तु कलौ युगे ॥ १,३१.६६ ॥ अधीयते तदा वेदाञ्छूद्रा धर्मार्थ कोविदाः । यजन्ते चाश्वमेधेन राजानः शूद्रयोनयः ॥ १,३१.६७ ॥ स्त्रीबालगोवधं कृत्वा हत्वान्ये च परस्परम् । अपहत्य तथान्योन्यं साधयन्ति तदा प्रजाः ॥ १,३१.६८ ॥ दुःखप्रवचनाल्पायुर्देहाल्पायुश्च रोगतः । अधर्माभिनिवेशित्वात्तमोवृत्तं कलौ स्मृतम् ॥ १,३१.६९ ॥ प्रजासु भ्रूणहत्या च तदा वैरात्प्रवर्त्तते । तस्मादायुर्बलं रूपं कलिं प्राप्य प्रहीयते ॥ १,३१.७० ॥ तदा चाल्पेन कालेन सिद्धिं गच्छन्ति मानवाः । धन्या धर्मं चरिष्यन्ति युगान्ते द्विजसत्तमाः ॥ १,३१.७१ ॥ श्रुतिस्मृत्युदितं धर्मं ये चरन्त्यनसूयकाः । त्रेतायामाब्दिको धर्मो द्वापरे मासिकः स्मृतः ॥ १,३१.७२ ॥ यथाशक्ति चरन्प्राज्ञस्तदह्ना प्राप्नुयात्कलौ । एषा कलियुगावस्था संध्यांशं तु निबोधत ॥ १,३१.७३ ॥ युगेयुगे तु हीयन्ते त्रित्रिपादास्तु सिद्धयः । युगस्वभावात्संध्यासु तिष्ठन्तीह तु यादृशः ॥ १,३१.७४ ॥ संध्यास्वभावाः स्वांशेषु पादशेषाः प्रतिष्ठिताः । एवं संध्यांशके काले संप्राप्ते तु युगान्तिके ॥ १,३१.७५ ॥ तेषां शास्ता ह्यसाधूनां भृगूणां निधनोत्थितः । गोत्रेण वै चन्द्र मसो नाम्ना प्रमतिरुच्यते ॥ १,३१.७६ ॥ माधवस्य तु सोंऽशेन पूर्वं स्वायंभुवेऽन्तरे । समाः सविंशतिः पूर्णाः पर्यटन्वै वसुंधराम् ॥ १,३१.७७ ॥ अनुकर्षन्स वै सेनां सवाजिरथकुञ्जराम् । प्रगृहीतायुधैर्विप्रैः शतशोऽथ सहस्रशः ॥ १,३१.७८ ॥ स तदा तैः परिवृतो म्लेच्छान्हन्ति स्मसर्वशः । सह वा सर्वशश्चैव राज्ञस्ताञ्छूद्रयोनिजान् ॥ १,३१.७९ ॥ पारवण्डास्तु ततः सर्वान्निः शेषं कृतवान्विभुः । नात्यर्थ धार्मिका ये च तान्सर्वान्हन्ति सर्वशः ॥ १,३१.८० ॥ वर्णव्यत्यासजाताश्च ये च ताननुजीविनः । उदीच्यान्मध्यदेश्यांश्च पवतीयांस्तथैव च ॥ १,३१.८१ ॥ प्राच्यान्प्रतीच्यांश्च तथा विन्ध्यपृष्ठचरानपि । तथैव दाक्षिणात्यांश्च द्रविडान्सिंहलैः सह ॥ १,३१.८२ ॥ गान्धारान्पारदांश्चैव पह्लवान्यव नाञ्शकान् । तुषारान्बर्बरांश्चीनाञ्छूलिकान्दरदान् खशान् ॥ १,३१.८३ ॥ लंपाकारान्सकतकान्किरातानां च जातयः । प्रवृत्तचक्रो बलवान्म्लेच्छानामन्तकृत्प्रभुः ॥ १,३१.८४ ॥ अदृष्टः सर्वभूतानां चचाराथ वसुन्धराम् । माधवस्य तु सोंऽशेन देवस्येह विजज्ञिवान् ॥ १,३१.८५ ॥ पूर्वजन्मनि विख्यातः प्रमतिर्न्नाम वीर्यवान् । गोत्रतो वै चन्द्रमसः पूर्वे कलियुगे प्रभुः ॥ १,३१.८६ ॥ द्वात्रिंशेऽभ्युदिते वर्षे प्रक्रान्तो विंशतीः समाः । विनिघ्नन्सर्वभूतानि मानवानेव सर्वशः ॥ १,३१.८७ ॥ कृत्वा बीजावशेषं तु पृथ्व्यां कूरेण कर्मणा । परस्पर निमित्तेन कोपेनाकस्मिकेन तु ॥ १,३१.८८ ॥ सुसाधयित्वा वृषलान्प्रायशस्तानधर्मिकान् । गङ्गायमुनयोर्मध्ये निष्ठां प्राप्तः सहानुगः ॥ १,३१.८९ ॥ ततो व्यतीते कल्पे तु सामान्ये सहसैनिकः । उत्साद्य पार्थिवान्सर्वान्मलेच्छांश्चैव सहस्रशः ॥ १,३१.९० ॥ तत्र संध्यांशके काले संप्राप्ते तु युगान्तके । स्थितास्वल्पावशिष्टासु प्रजास्विह क्वचित्क्वचित् ॥ १,३१.९१ ॥ अपग्रहास्ततस्ता वै लोभाविष्टास्तु वृन्दशः । उपहिसंति चान्योन्यं पोथयन्तः परस्परम् ॥ १,३१.९२ ॥ अराजके युगवशात्संक्षये समुपस्थिते । प्रजास्ता वै ततः सर्वाः परस्परभयार्द्दिताः ॥ १,३१.९३ ॥ व्याकुलाश्च परिभ्रान्तास्त्यक्त्वा दारान्गृहाणि च । स्वान्प्रणाननपेक्षन्तो निष्कारणसुदुःखिताः ॥ १,३१.९४ ॥ नष्टे श्रौते स्मृतौ धर्मे परस्परहतास्तदा । निर्मर्यादा निराक्रन्दा निःस्नेहा निरपत्रपाः ॥ १,३१.९५ ॥ नष्टे धर्मे प्रतिहता ह्रस्वकाः पञ्चविंशतिम् । हित्वा पुत्रांश्च दारांश्च विषादव्याकुलेद्रियाः ॥ १,३१.९६ ॥ अनावृष्टिहताश्चैव वार्त्तामुत्सृज्य दुःखिताः । प्रत्यन्तांस्ता निषेवन्ते हित्वा जनपदान्स्वकान् ॥ १,३१.९७ ॥ सरितः सागरानूपान्सेवन्ते पर्वतांस्तथा । मांसैर्मूलफलैश्चैव वर्तयन्तः सुदुःखिताः ॥ १,३१.९८ ॥ चीरपत्राचिनधरा निष्क्रिया निष्परिग्रहाः । वर्णाश्रमपरिभ्रष्टाः संकरं घोरमास्थिताः । एतां काष्ठामनुप्राप्ता अल्पशेषाः प्रजास्ततः ॥ १,३१.९९ ॥ जराव्याधिक्षुधा विष्टा दुःखान्निर्वेदमागमन् । विचारणा तु निर्वेदात्साम्यावस्था विचारणात् ॥ १,३१.१०० ॥ साम्यावस्थात्मको बोधः संबोधाद्धर्मशीलता । तासूपशमयुक्तासु कलिशिष्टासु वै स्वयम् ॥ १,३१.१०१ ॥ अहोरात्रं तदा तासां युगान्ते परिवर्त्तिनि । चित्तसंमोहनं कृत्वा तासां वै सुप्तमत्तवत् ॥ १,३१.१०२ ॥ भाविनोर्ऽथस्य च बलात्ततः कृतमवर्त्तत । प्रवृत्ते तु ततस्तस्मिन्पूते कृतयुगे तु वै ॥ १,३१.१०३ ॥ उत्पन्नाः कलिशिष्टासु प्रजाः कार्तयुगास्तदा । तिष्ठन्ति चेह ये सिद्धा अदृष्टा विचरन्ति च ॥ १,३१.१०४ ॥ सह सप्तर्षिभिश्चैव तत्र ते च व्यवस्थिताः । ब्रह्मक्षत्रविशः शूद्रा बीजार्थं ये स्मृता इह ॥ १,३१.१०५ ॥ कलिजैः सह ते संति निर्विशेषास्तदाभवन् । तेषां सप्तर्षयो धर्मं कथयन्तीतरेषु च ॥ १,३१.१०६ ॥ वर्णाश्रमाचारयुक्तः श्रौतः स्मार्त्तो द्विधा तु सः । ततस्तेषु क्रियावत्सु वर्तन्ते वै प्रजाः कृते ॥ १,३१.१०७ ॥ श्रौतस्मार्त्ते कृतानां च धर्मे सप्तर्षिदर्शिते । केचिद्धर्मव्यवस्थार्थं तिष्ठन्तीहायुगक्षयात् ॥ १,३१.१०८ ॥ मन्वन्तराधिकारेषु तिष्ठन्ति मुनयस्तु वै । यथा दावप्रदग्धेषु तृणेष्विह तपेन तु ॥ १,३१.१०९ ॥ वनानां प्रथमं वृष्ट्या तेषां मूलेषु संभवः । तथा कार्तयुगानां तु कलिजष्विह संभवः ॥ १,३१.११० ॥ एवं युगो युगस्येह संतानस्तु परस्परम् । वर्त्तते ह्यव्यवच्छेदाद्यावन्मन्वन्तरक्षयः ॥ १,३१.१११ ॥ सुखमायुर्बलं रूपन्धर्मोर्ऽथः काम एव च । युगेष्वेतानि हीयन्ते त्रित्रिपादाः क्रमेण च ॥ १,३१.११२ ॥ ससंध्याशेषु हीयन्ते युगानान्धर्मसिद्धयः । इत्येष प्रतिसंधिर्यः कीर्त्तितस्तु मया द्विजाः ॥ १,३१.११३ ॥ चतुर्युगानां सर्वेषामेतेनैव प्रसाधनम् । एषा चतुर्युगावृत्तिरासहस्रद्गुणीकृता ॥ १,३१.११४ ॥ ब्रह्मणस्तदहः प्रोक्तं रात्रिश्चैतावती स्मृता । अत्रार्जवं जडीभावो भूतानामायुगक्षयात् ॥ १,३१.११५ ॥ एतदेव तु सर्वेषां युगानां लक्षणं स्मृतम् । एषा चतुर्युगानां च गुणिता ह्येकसप्ततिः ॥ १,३१.११६ ॥ क्रमेण परिवृत्ता तुमनोरन्तरमुच्यते । चतुर्युगे यथैकस्मिन्भवतीह यथा तु यत् ॥ १,३१.११७ ॥ तथा चान्येषु भवति पुनस्तद्वद्यथाक्रमम् । सर्गे सर्गे तथा भेदा उत्पद्यन्ते तथैव तु ॥ १,३१.११८ ॥ पञ्चत्रिंशत्परिमिता न न्यूना नाधिकाः स्मृताः । तथा कल्पा युगैः मार्द्धं भवन्ति सह लक्षणैः । मन्वन्तराणां सर्वेषामेतदेव तु लक्षणम् ॥ १,३१.११९ ॥ यथा युगानां परिवर्त्तनानि चिरप्रवृत्तानि युगस्वभावात् । तथा न संतिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्त्तमानः ॥ १,३१.१२० ॥ इत्येत ल्लक्षणं प्रोक्तं युगानां वै समासतः ॥ १,३१.१२१ ॥ अतीतानागतानां हि सर्वमन्वन्तरोष्विह । मन्वन्तरेण चैकेन सर्वाण्येवान्तराणि वै ॥ १,३१.१२२ ॥ ख्यातानीह विजानीध्वं कल्पं कल्पेन चैव ह । अनागतेषु तद्वच्च तर्कः कार्यो विजानता ॥ १,३१.१२३ ॥ मन्वन्तरेषु सर्वेषु अतीतानागतेष्विह । तुल्याभिमानिनः सर्वे नामरूपैर्भवन्त्युत ॥ १,३१.१२४ ॥ देवा ह्यष्टविधा ये वा इह मन्वन्तरेश्वराः । ऋषयो मनवश्चैव सर्वे तुल्याः प्रयोजनैः ॥ १,३१.१२५ ॥ एवं वर्णाश्रमाणां तु प्रविभागं पुरा युगे । युगस्वभावांश्च तथा विधत्ते वै सदा प्रभुः ॥ १,३१.१२६ ॥ वर्णाश्रमविभागाश्च युगानि युगसिद्धयः । अनुषङ्गात्समाख्याताः सृष्टिसर्गं निबोधत । विस्तरेणानुपूर्व्या च स्थितिं वक्ष्ये युगेष्विह ॥ १,३१.१२७ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे चतुर्युगाख्यानं नामैकत्रिंशत्तमोऽध्यायः _____________________________________________________________ सूत उवाच युगेषु यास्तु जायन्ते प्रजास्ता मे निबोधत । आसुरी सर्पगान्धर्वा पैशाची यक्षराक्षसी ॥ १,३२.१ ॥ यस्मिन्युगे च संभूति स्तासां यावच्च जीवितम् । पिशाचासुरगन्धर्वां यक्षराक्षसपन्नगाः ॥ १,३२.२ ॥ परिणाहोच्छ्रयैस्तुल्या जायन्ते ह कृते युगे । षण्णवत्यङ्गुलो त्सेधो ह्यष्टानां देवजन्मनाम् ॥ १,३२.३ ॥ स्वेनाङ्गुलप्रमाणेन निष्पन्नेन च पौष्टिकात् । एतत्स्वाभाविकं तेषां प्रमाणमिति कुर्वते ॥ १,३२.४ ॥ मनुष्या वर्तमानास्तु युगं संध्याशकेष्विह । देवासुरप्रमाणं तु सप्तसप्तङ्गुलादसत् ॥ १,३२.५ ॥ अङ्गुलानां शतं पूर्णमष्टपञ्चाशदुत्तरम् । देवासुरप्रमाणं तु उच्छ्रयात्कलिजैः स्मृतम् ॥ १,३२.६ ॥ चत्वारश्चाप्यशीतिश्च कलिजैरङ्गुलैः स्मृतः । स्वेनाङ्गुलिप्रमाणेन ऊर्द्ध्वमापादमस्तकात् ॥ १,३२.७ ॥ इत्येष मानुषोत्सेधो ह्रसतीह युगांशके । सर्वेषु युगकालेषु अतीतानागतेष्विह ॥ १,३२.८ ॥ स्वेनाङ्गुलिप्रमाणेन अष्टतालः स्मृतो नरः । आपादतलमस्तिष्को नवतालो भवेत्तु यः ॥ १,३२.९ ॥ संहता जानुबाहुस्तु स सुरैरपि पूज्यते । गवाश्वहस्तिनां चैव महिष स्यावरात्मनाम् ॥ १,३२.१० ॥ कर्मणैतेन विज्ञेये ह्रासवृद्धी युगे युगे । षट्सप्तत्यङ्गुलोत्सेधः पशूनां ककुदस्तु वै ॥ १,३२.११ ॥ अङ्गुलाष्टशतं पूर्णमुत्सेधः करिणां स्मृतः । अङ्गुलानां सहस्रं तु चत्वारिंशाङ्गुलैर्विना ॥ १,३२.१२ ॥ पञ्चाशता यवानां च उत्सेधः शाखिनां स्मृतः । मानुषस्य शरीरस्य सन्निवेशस्तु यादृशः ॥ १,३२.१३ ॥ तल्लक्षणस्तु देवानां दृश्येत तत्त्वदर्शनात् । बुद्ध्यातिशययुक्तश्च देवानां काय उच्यते ॥ १,३२.१४ ॥ तथा सातिशयस्छैव मानुषः काय उच्यते । इत्येते वै परिक्रान्ता भावा ये दिव्यमानुषाः ॥ १,३२.१५ ॥ पशूनां पक्षिणां चैव स्थावराणां च सर्वशः । गावो ह्यजावयोऽश्वाश्च हस्तिनः पक्षिणो नगाः ॥ १,३२.१६ ॥ उपयुक्ताः क्रियास्वेते यज्ञियास्विह सर्वशः । देवस्थानेषु जायन्ते तद्रूपा एव ते पुनः ॥ १,३२.१७ ॥ यथाशयोपभोगास्तु देवानां शुभमूर्त्तयः । तेषां रूपानुरूपैस्तु प्रमाणैः स्थाणुजङ्गमैः ॥ १,३२.१८ ॥ मनोज्ञैस्तत्र भावैस्ते सुखिनो ह्युपपेदिरे । अतः शिष्टान्प्रवक्ष्यामि सतः साधूंस्तथैव च ॥ १,३२.१९ ॥ सदिति ब्रह्मणः शब्दस्तद्वन्तो ये भवन्त्युत । साजात्याद्ब्रह्मणस्त्वेते तेन सन्तः प्रचक्षते ॥ १,३२.२० ॥ दशात्मके ये विषये कारणे चाष्टलक्षणे । न क्रुध्यन्ति न त्दृष्यन्ति जितात्मानस्तु ते स्मृताः ॥ १,३२.२१ ॥ सामान्येषु तु धर्मेषु तथा वैशेषिकेषु च । ब्रह्मक्षत्रविशो यस्माद्युक्तास्तस्मा द्द्विजातयः ॥ १,३२.२२ ॥ वर्णाश्रमेषु युक्तस्य स्वर्गतौ सुखचारिमः । श्रौतस्मार्तस्य धर्मस्य ज्ञानाद्धर्मज्ञ उच्यते ॥ १,३२.२३ ॥ विद्यायाः साधनात्साधुर्ब्रह्मचारी गुरोर्हितः । गृहाणां साधनाच्चैव गृहस्थः साधुरुच्यते ॥ १,३२.२४ ॥ साधनात्तपसोऽरण्ये साधुर्वैखानसः स्मृतः । यतमानो यतिः साधुः स्मृतो योगस्य साधनात् ॥ १,३२.२५ ॥ एवमाश्रमधर्माणां साधनात्साधवः स्मृताः । गृहस्थो ब्रह्मचारी च वानप्रस्थो यतिस्तथा ॥ १,३२.२६ ॥ अथ देवा न पितरो मुनयो न च मानुषाः । अयं धर्मो ह्ययं नेति विन्दते भिन्नदर्शनाः ॥ १,३२.२७ ॥ धर्माधर्माविहप्रोक्तौ शब्दावेतौ क्रियात्मकौ । कुशलाकुशलं कर्म धर्माधर्माविह स्मृताम् ॥ १,३२.२८ ॥ धारणर्थो धृतिश्चैव धातुः शब्दे प्रकीर्त्तितः । अधारणामहत्त्वे च अधर्म इति चोच्यते ॥ १,३२.२९ ॥ अथेष्टप्रापको धर्म आचार्यैरुपदिश्यते । अधर्मश्चानिष्टफलोह्याचार्यैरुपदिश्यते ॥ १,३२.३० ॥ वृद्धाश्चालोलुपाश्चैव त्वात्मवन्तो ह्यदांभिकाः । सम्यग्विनीता ऋजवस्तानाचार्यान्प्रजक्षते ॥ १,३२.३१ ॥ स्वयमाचरते यस्मादाचारं स्थापयत्यपि । आचिनोति च शास्त्राणि आचार्यस्तेन चोच्यते ॥ १,३२.३२ ॥ धर्मज्ञैर्विहितो धर्मः श्रौतः स्मार्त्तो द्विधा द्विजैः । दाराग्निहोत्रसम्बन्धाद्द्विधा श्रौतस्य लक्षणम् ॥ १,३२.३३ ॥ स्मार्त्तो वर्णाश्रमाचारैर्यमैः सनियमैः स्मृतः । पूर्वेभ्यो वेदयित्वेह श्रौतं सप्तर्ष योऽब्रुवन् ॥ १,३२.३४ ॥ ऋचो यजूंसामानि ब्रह्मणोऽङ्गानि च श्रुतिः । मन्वन्तरस्यातीतस्य स्मृत्वाचारान्मनुर्जगौ ॥ १,३२.३५ ॥ तस्मा त्स्मार्त्तः धर्मो वर्णाश्रमविभाजकः । स एष विविधो धर्मः शिष्टाचार इहोच्यते ॥ १,३२.३६ ॥ शेषशब्दः शिष्ट इति शेषं शिष्टं प्रचक्षते । मन्वन्तरेषु ये शिष्टा इह तिष्ठन्ति धार्मिकाः ॥ १,३२.३७ ॥ मनुः सप्तर्षयश्चैव लोकसंतानकारमात् । धर्मार्थं ये च तिष्ठन्ति ताञ्छिष्टान्वै प्रचक्षते ॥ १,३२.३८ ॥ मन्वादयश्च येऽशिष्टा ये मया प्रागुदीरिताः । तैः शिष्टैश्चरितो धर्मः सम्यगेव युगे युगे ॥ १,३२.३९ ॥ त्रयी वार्त्ता दण्डनीतिरिज्या वर्णाश्रमास्तथा । शिष्टैराचर्यते यस्मान्मनुना च पुनः पुनः ॥ १,३२.४० ॥ पूर्वैः पूर्वगतत्वाच्च शिष्टाचारः स सात्वतः । दानं सत्यं तपो ज्ञानं विद्येज्या व्रजनं दया ॥ १,३२.४१ ॥ अष्टौ तानि चरित्राणि शिष्टाचारस्य लक्षणम् । शिष्टा यस्माच्चरन्त्येनं मनुः सप्तर्षयस्तु वै ॥ १,३२.४२ ॥ मन्वन्तरेषु सर्वेषु शिष्टाचारस्ततः स्मृतः । विज्ञेयः श्रवणाच्छ्रौतः स्मरणात्स्मार्त्त उच्यते ॥ १,३२.४३ ॥ इज्यावेदात्मकः श्रौतः स्मार्त्तो वर्णाश्रमात्मकः । प्रत्यङ्गानि च वक्ष्यामि धर्मस्येह तु लक्षणम् ॥ १,३२.४४ ॥ दृष्ट्वा तु भूतमर्थं यः पृष्टो वै न निगू हति । यथा भूतप्रवादस्तु इत्येतत्सत्यलक्षणम् ॥ १,३२.४५ ॥ ब्रह्मचर्यं जपो मौनं निराहारत्वमेव च । इत्येतत्तपसो रूपं सुघोरं सुदुरा सदम् ॥ १,३२.४६ ॥ पशूनां द्रव्यहविषामृक्सामयजुषां तथा । ऋत्विजां दक्षिणानां च संयोगो यज्ञ उच्यते ॥ १,३२.४७ ॥ आत्मवत्सर्वभूतेषु या हितायाहिताय च । प्रवर्त्तन्ते समा दृष्टिः कृत्स्नाप्येषा दया स्मृता ॥ १,३२.४८ ॥ आक्रुष्टो निहतो वापि नाक्रोशेद्यो न हन्ति च । वाङ्मनःकर्मभिर्वेत्ति तितिक्षैषा क्षमा स्मृता ॥ १,३२.४९ ॥ स्वामिना रक्ष्यमाणानामुत्सृष्टानां च संभ्रमे । परस्वानामनादानमलोभ इति कीर्त्यते ॥ १,३२.५० ॥ मैथुनस्यासमाचारो न चिन्ता नानुजल्पनम् । निवृत्तिर्ब्रह्मचर्यं तदच्छिद्रं तप उच्यते ॥ १,३२.५१ ॥ आत्मार्थं वा परार्थं वा चेन्द्रियाणीह यस्य वै । मिथ्या न संप्रवर्त्तन्ते शामस्यैतत्तु लक्षमम् ॥ १,३२.५२ ॥ दशात्मके यो विषये कारणे चाष्टलक्षणे । न क्रुद्ध्येत प्रतिहतः स जितात्मा विभाव्यते ॥ १,३२.५३ ॥ यद्यदिष्टतमं द्रव्यं न्यायेनैवागतं च यत् । तत्तद्गुणवते देयमित्येतद्दानलक्षणम् ॥ १,३२.५४ ॥ दानं त्रिविधमित्येतत्कनिष्ठज्येष्ठमध्यमम् । तत्र नैश्रेयसं ज्येष्ठं कनिष्ठं स्वार्थसिद्धये ॥ १,३२.५५ ॥ कारुण्यात्सर्वभूतेषु संविभागस्तु मध्यमः । श्रुतिस्मृतिभ्यां विहितो धर्मो वर्माश्रमात्मकः ॥ १,३२.५६ ॥ शिष्टाचाराविरुद्धश्च धर्मः सत्साधुसंमतः । अप्रद्वेषोह्यनि ष्टेषु तथेष्टस्याभिनन्दनम् ॥ १,३२.५७ ॥ प्रीतितापविषादेभ्यो विनिवृत्तिर्विरक्तता । संन्यासः कर्मणां न्यासः कृतानामकृतैः सह ॥ १,३२.५८ ॥ कुशलाकुशलानां तु प्रहाणं न्यास उच्यते । व्यक्ता ये विशेषास्ते विकारेऽस्मिन्नचेतने ॥ १,३२.५९ ॥ चेतनाचेतनान्यत्वविज्ञानं ज्ञानमुच्यते । प्रत्यङ्गानां तु धर्मस्य त्वित्येतल्लक्षणं स्मृतम् ॥ १,३२.६० ॥ ऋषिभिर्धर्मतत्त्वज्ञैः पूर्वं स्वायंभुवेऽन्तरे । अत्र वो वर्णयिष्यामि विधिं मन्वन्तरस्य यः ॥ १,३२.६१ ॥ तथैव चातुर्हेत्रस्य चातुर्विद्यस्य चैव हि । प्रतिमन्वन्तरे चैव श्रुतिरन्या विधीयते ॥ १,३२.६२ ॥ ऋचो यजूंषि समानि यथा च प्रतिदैवतम् । आभूतसंप्लवस्यापि वर्ज्यैकं शतरुद्रियम् ॥ १,३२.६३ ॥ विधिर्हैत्रस्तथा स्तोत्रं पूर्ववत्संप्रवर्तते । द्रव्यस्तोत्रं गुणस्तोत्रं फलस्तोत्रं तथैव च ॥ १,३२.६४ ॥ चतुर्थमाभिजनकं स्तोत्रमेतच्चतुर्विधम् । मन्वन्तरेषु सर्वेषु यथा देवा भवन्ति ये ॥ १,३२.६५ ॥ प्रवर्तयति तेषां वै ब्रह्मा स्तोत्रं चतुर्विधम् । एवं मन्त्रगणानां तु समुत्पत्तिश्चतुर्विधा ॥ १,३२.६६ ॥ अथर्वगर्यजुषां साम्नां वेदेष्विह पृथक्पृथक् । ऋषीणां तप्यतामुग्रं तपः परमदुष्करम् ॥ १,३२.६७ ॥ मन्त्राः प्रादुर्बभूवुर्हि पूर्वमन्वन्तरेष्विह । असंतोषाद्भया द्दुःखात्सुखाच्छोकाच्च पञ्चधा ॥ १,३२.६८ ॥ ऋषीणां तारकाख्येन दर्शनेन यदृच्छया । ऋषीणां यदृषित्वं हि तद्वक्ष्यामीह लक्षणैः ॥ १,३२.६९ ॥ अतीतानागतानां च पञ्चधा त्वृषिरुच्यते । अतस्त्वृषीणां वक्ष्यामि तत्र ह्यार्षसमुद्भवम् ॥ १,३२.७० ॥ गुणसाम्ये वर्त्तमाने सर्वसंप्रलये तदा । अविभागे तु वेदानामनिर्देश्ये तमोमये ॥ १,३२.७१ ॥ अबुद्धिबूर्वकं तद्वै चेतनार्थे प्रवर्त्तते । चेतनाबुद्धिपूर्वं तु चेतनेन प्रवर्त्तते ॥ १,३२.७२ ॥ प्रवर्त्तते तथा द्वौ तु यथा मत्स्योदके उभे । चेतनाधिष्ठितं सत्त्वं प्रवर्त्तति गुणात्मकम् ॥ १,३२.७३ ॥ कारणत्वात्तथा कार्यं तदा तस्य प्रवर्त्तते । विषयो विषयित्वाच्च अर्थेर्ऽथत्वात्तथैव च ॥ १,३२.७४ ॥ कालेन प्रापणीयेन भेदास्तु करणात्मकाः । संसिध्यन्ति तदा व्यक्ताः क्रमेण महदादयः ॥ १,३२.७५ ॥ महतश्चाप्यहङ्कारस्तस्माद्भूतेद्रियाणि च । भूतभेदाश्च भूतेभ्यो जज्ञिरे स्म परस्परम् ॥ १,३२.७६ ॥ संसिद्धकार्यकरणः सद्य एव व्यवर्त्तत । यथोल्मुकात्तु त्रुटयः एककालाद्भवन्ति हि ॥ १,३२.७७ ॥ तथा विवृत्ताः क्षेत्रज्ञाः कालेनैकेन कारणात् । यथान्धकारे खद्योतः सहसा संप्रदृश्यते ॥ १,३२.७८ ॥ तथा विवृत्तो ह्यव्यक्तात्खद्योत इव सञ्ज्वलन् । स माहन्सशरीरस्तु यत्रैवायमवर्त्तत ॥ १,३२.७९ ॥ तत्रैव संस्थितो विद्वान्द्वारशालामुखे विभुः । महांस्तु तमसः पारे वैलक्षण्याद्विभाव्यते ॥ १,३२.८० ॥ तत्रैव संस्थिते विद्वांस्तमसोंऽत इति श्रुतिः । बुद्धिर्विवर्त्तमानस्य प्रादुर्भूता चतुर्विधा ॥ १,३२.८१ ॥ ज्ञानं वैराग्यमैश्वर्यं धर्मश्चेति चतुष्टयम् । सांसिद्धिकान्यथैतानि विज्ञेयानि नरस्य वै ॥ १,३२.८२ ॥ स महात्मा शरीरस्य वैवर्त्तात्सिद्धिरुच्यते । अनुशेते यतः सर्वान्क्षेत्रज्ञानमथापि वा ॥ १,३२.८३ ॥ पुरिषत्वाच्च पुरुषः क्षत्रेज्ञानात्स उच्यते । यस्माद्वुद्ध्यानुशेते च तस्माद्वोधात्मकः स वै ॥ १,३२.८४ ॥ संसिद्धये परिगतं व्यक्ताव्यक्तमचेतनम् । एवं विवृत्तः क्षेत्रज्ञः क्षेत्रज्ञानाभिसंहितः ॥ १,३२.८५ ॥ विवृत्तिसमकालं तु बुद्ध्याव्यक्तमृषिः स्वयम् । परं ह्यर्षयते यस्मात्परमर्षित्वमस्य तत् ॥ १,३२.८६ ॥ गत्यर्थादृषतेर्धातोर्नाम निर्वृतिरादितः । यस्मादेव स्वयं भूतस्तस्माच्चाप्यृषिता स्मृता ॥ १,३२.८७ ॥ ईश्वरात्स्वयमुद्भूता मानसा ब्रह्मणः सुताः । यस्मादुत्पद्यमानैस्तैर्महान्परिगतः परः ॥ १,३२.८८ ॥ यस्मादषन्ति ते धीरा महान्तं सर्वतो गुणैः । तस्मान्महर्षयः प्रोक्ता बुद्धेः परम दर्शिना ॥ १,३२.८९ ॥ ईश्वराणां सुतास्तेषां मानसा औरसाश्च वै । अहङ्कारं तपश्चैव ऋषन्ति ऋषितां गताः ॥ १,३२.९० ॥ तस्मात्सप्तर्षयस्ते वै भूतादौ तत्त्वदर्शनात् । ऋषिपुत्रा ऋषीकास्तु मैथुनाद्गर्भसंभवाः ॥ १,३२.९१ ॥ तन्मात्राणि च सत्यं च ऋषन्ते ते महौजसः । सप्तषर्यस्त तस्ते च परसत्यस्य दर्शनाः ॥ १,३२.९२ ॥ ऋषीकाणां सुतास्ते स्युर्विज्ञेया ऋषिपुत्रकाः । ऋषन्ति ते ऋतं यस्माद्विशेषांश्चैव तत्त्वतः ॥ १,३२.९३ ॥ तस्मात्सप्तर्षयस्तेपि श्रुतेः परमदर्शनात् । अव्यक्तात्मा महानात्माहङ्कारात्मा तथैव च ॥ १,३२.९४ ॥ भूतात्मा चेन्द्रियात्मा च तेषां तज्ज्ञानमुच्यते । इत्येता ऋषिजातीस्ता नामभिः पञ्च वै शृणु ॥ १,३२.९५ ॥ भृगुर्मरीचिरत्रिश्च ह्यङ्गिराः पुलहः क्रतुः । मनुर्दक्षो वसिष्टश्च पुलस्त्यश्चेति ते दश ॥ १,३२.९६ ॥ ब्रह्मणो मानसा ह्येते उद्भूताः स्वयमीश्वराः । परत्वेनर्षयो यस्मात्स्मृतास्तस्मान्महर्षयः ॥ १,३२.९७ ॥ ईश्वराणां सुता ह्येते ऋषयस्तान्निबोधत । काव्यो बृहस्पतिश्चैव कश्यपश्व्यवनस्तथा ॥ १,३२.९८ ॥ उतथ्यो वामदेवश्च अपा स्यश्चोशिजस्तथा । कर्दमो विश्रवाः शक्तिर्वालखिल्यास्तथार्वतः ॥ १,३२.९९ ॥ इत्येते ऋषयः प्रोक्तास्तपसा चर्षितां गताः । ऋषिपुत्रानृ षीकांस्तु गर्भोत्पन्नान्निबोधत ॥ १,३२.१०० ॥ वत्सरो नगृहूश्चैव भरद्वाजस्तथैव च । ऋषिदीर्घतमाश्चैव बृहदुक्थः शरद्वतः ॥ १,३२.१०१ ॥ वाजश्रवाः शुचिश्चैव वश्याश्वश्च पराशरः । दधीचः शंशपाश्चैव राजा वैश्रवणस्तथा ॥ १,३२.१०२ ॥ इत्येते ऋषिकाः प्रोक्तास्ते सत्यादृषितां गताः । ईश्वरा ऋषयश्चैव ऋषिकाश्चैव ते स्मृताः ॥ १,३२.१०३ ॥ एते मन्त्रकृतः सर्वे कृत्स्नशस्तान्निबोधत । भृगुः काव्यः प्रचेताश्च ऋचीको ह्यात्मवानपि ॥ १,३२.१०४ ॥ और्वाथ जमदग्निश्च विदः सारस्वतस्तथा । आर्ष्टिषेणो युधाजिच्च वीतहव्यसुवर्चसौ ॥ १,३२.१०५ ॥ वैन्यः पृथुर्दिवोदासो बाध्यश्वो गृत्सशौनकौ । एकोनविशतिर्ह्येतेभृगवो मन्त्रवादितः ॥ १,३२.१०६ ॥ अङ्गिरा वैद्यगश्चैव भरद्वाजोऽथ बाष्कलिः । ऋतवाकस्तथा गर्गः शिनिः संकृतिरेव च ॥ १,३२.१०७ ॥ पुरुकुत्सश्च मान्धाता ह्यंबरीषस्तथैव च । युवनाश्वः पौरकुत्सस्त्रसद्दस्युश्च दस्युमान् ॥ १,३२.१०८ ॥ आहार्यो ह्यजमीढश्च तुक्षयः कपिरेव च । वृषादर्भो विरूपाश्वः कण्वश्चैवाथ मुद्गलः ॥ १,३२.१०९ ॥ उतथ्यश्च सनद्वाजस्तथा वाजश्रवा अपि । अयास्यश्चक्रवर्त्ती चवामदेवस्तथैव च ॥ १,३२.११० ॥ असिजो बृहदुक्थश्च ऋषिर्दीर्घतमास्तथा । कक्षीवांश्च त्रयस्त्रिंशत्स्मृता ह्याङ्गिरसा वराः ॥ १,३२.१११ ॥ एते मन्त्रकृतः सर्वे काश्यपांस्तु निबोधत । काश्यपश्चैव वत्सारो नैध्रुवो रैभ्य एव च ॥ १,३२.११२ ॥ असितो देव लश्चैव षडेते ब्रह्मवादिनः । अत्रिरर्वसनश्चैव श्यावाश्वश्च गविष्ठिरः ॥ १,३२.११३ ॥ आविहोत्र ऋषिर्द्धीमांस्तथा पूर्वातिथिश्च सः । इत्येते चा त्रयः प्रोक्ता मन्त्रकारा महर्षयः ॥ १,३२.११४ ॥ वसिष्ठश्चैव शक्तिश्च तथैव च पराशरः । चतुर्थ इन्द्रप्रमतिः पञ्चमश्च भरद्वसुः ॥ १,३२.११५ ॥ षष्ठश्च मैत्रावरुणिः कुण्डिनः सप्तमस्तथा । इति सप्त वशिष्ठाश्च विज्ञेया ब्रह्मवादिनः ॥ १,३२.११६ ॥ विश्वामित्रस्तु गाधेयो देवरातस्तथोद्गलः । तथा विद्वान्मधुच्छन्दा ऋषिश्चान्योऽघमर्षणः ॥ १,३२.११७ ॥ अष्टको लोहितश्चैव कतः कोलश्च तावुभौ । देवश्रवास्तथा रेणुः पूरणोऽथ धनञ्जयः ॥ १,३२.११८ ॥ त्रयोदशैते धर्मिष्ठा विज्ञेयाः कुशिकावराः । अगस्त्योऽयो दृढायुश्च विध्मवाहस्तथैव च ॥ १,३२.११९ ॥ ब्रह्मिष्ठागस्तपा ह्येते त्रयः परमकीर्त्तयः । मनुर्वैवस्वतश्चैव एलो राजा पुरूखाः ॥ १,३२.१२० ॥ क्षत्र्रियाणां चरावेतौ विज्ञेयौ मन्त्रवादिनौ । भलन्दनश्च वत्सश्च संकीलश्चैव ते त्रयः ॥ १,३२.१२१ ॥ एते मन्त्रकृतश्चैव वैश्यानां प्रवराः स्मृताः । इत्येषा नवतिः प्रोक्ता मन्त्रा यैरृषिभिः कृताः । ब्राह्यणाः क्षत्रिया वैश्या ऋषिपुत्रान्निबोधत ॥ १,३२.१२२ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे युगप्रजालक्षणमृषिप्रवरवर्णनं च नाम द्वात्रिंशत्तमोऽध्यायः _____________________________________________________________ सूत उवाच ऋषिकाणां सुताश्चापि विज्ञेया ऋषिपुत्रकाः । ब्राह्यणानां प्रवक्तारो नामतश्च निबोधत ॥ १,३३.१ ॥ सप्रधानाः प्रवक्ष्यन्ते समासाच्च श्रुतर्षयः । बह्वृचो भार्गवः पैलः सांकृत्यो जाजलिस्तथा ॥ १,३३.२ ॥ संध्यास्तिर्माठरश्चैव याज्ञवल्क्यः पराशरः । उपमन्युरिन्द्रप्रमतिर्माडूकिः शाकलिश्च सः ॥ १,३३.३ ॥ बाष्कलिः शोकपाणिश्च नैलः पैलोऽलकस्तथा । पन्नगाः पक्षगन्ताश्च षडशीतिः श्रुतर्षयः ॥ १,३३.४ ॥ एते द्विजातयो मुख्या बह्वृचानां श्रुतर्षयः । वैशंपायनलौहित्यौ कण्ठकालावशावधः ॥ १,३३.५ ॥ श्यामापतिः पलाडुश्च आलंबिः कमलापतिः । तेषां शिष्याः प्रशिष्याश्च षडशीति श्रुतर्षयः ॥ १,३३.६ ॥ एते द्विजर्षयः प्रोक्ताश्चरकाध्वर्यवो द्विजाः । चैमिनिः सभरद्वाजः काव्यः पौष्यञ्जिरेव च ॥ १,३३.७ ॥ हिरण्यनाभः कौशिल्यो लौगाक्षिः कुसुमिस्तथा । लङ्गली शालिहोत्रश्च शक्तिराजश्च भार्गवः ॥ १,३३.८ ॥ सामगानामथाचार्य ऐलो राजा पुरूरवाः । षट्चत्वारिंशदन्ये वै तेषां शिष्याः श्रुतर्षयः ॥ १,३३.९ ॥ कौशीतिः कङ्कमुद्गश्च कुण्डकः सपराशरः । लोभालोभश्च धर्मात्मा तथा ब्रह्म बलश्च सः ॥ १,३३.१० ॥ क्रन्थलोऽथो मदगलो मार्कण्डेयोऽथ धर्मवित् । इत्येते नवतिर्ज्ञेया होत्रवद्ब्रह्मचारिणः ॥ १,३३.११ ॥ चरकाध्वर्यवश्चापि ह्यनुमंन्त्रं तु ब्राह्मणम् । चलूभिः सुमतिश्चैव तथा देववरश्च यः ॥ १,३३.१२ ॥ अनुकृष्णस्तथायुश्च अनुभूमिस्तथैव च । तथाप्रीतः कृशाश्वश्व सुमूलिर्बाष्कलिस्तथा ॥ १,३३.१३ ॥ चरकाध्वर्यकाध्वर्युनमस्युर्ब्रह्मचारिणः । वैयासकिः शुको विद्वांल्लौकिर्भूरिश्रवास्तथा ॥ १,३३.१४ ॥ सोमाविरतुनान्तक्यस्तथा धौम्यश्च काश्यपः । आरण्या इलकश्चैव उपमन्युर्विदस्तथा ॥ १,३३.१५ ॥ भार्गवो मधुकः पिङ्गः श्वेत केतुस्तथैव च । प्रजादर्पः कहोडश्च याज्ञवल्क्योऽथ शौनकः ॥ १,३३.१६ ॥ अनङ्गो निरतालश्च मध्यमाध्वर्यवस्तुते । अदितिर्देवमाता च जलापा चैव मानवी ॥ १,३३.१७ ॥ उर्वशी विश्वयोषा च ह्यप्सरःप्रवरे शुभे । मुद्गला चातुजीवैव तारा चैव यशस्विनी ॥ १,३३.१८ ॥ प्रातिमेधी च मार्गा च सुजाता च महातपा । लोपामुद्रा च धर्मज्ञा या च कोशीतिका स्मृता ॥ १,३३.१९ ॥ एताश्च ब्रह्मवादिन्य अप्सरो रूपंसमताः । इत्येता मुख्यशः प्रोक्ता मया च ऋषिपुत्रकाः ॥ १,३३.२० ॥ वैदशाखाप्रणयनास्ततस्ते ऋषयः स्मृताः । ईश्वरा मन्त्रवक्तार ऋषयो ह्यृषिकास्तथा ॥ १,३३.२१ ॥ ऋषिपुत्राः प्रवक्तरः कल्पानां ब्राह्मणस्य तु । ईश्वराणामृषीणां च ऋषिकाणां सहात्मजैः ॥ १,३३.२२ ॥ तथा वाक्यानि जनीष्व यथैषां मन्त्रदृष्टयः । तत्राज्ञायुक्तमद्वैतं दीप्तं गंभीरशब्दवत् ॥ १,३३.२३ ॥ अत्यन्तमपरोक्षं च लिङ्गं नाम तथैव च । सर्वभूतान्यभूतं च परिदानं च यद्भवेत् ॥ १,३३.२४ ॥ क्वचिन्निरुक्तप्रोक्तार्थं वाक्यं स्वायंभुवं विदुः । यत्किञ्चिन्मन्त्रसंयुक्तं तत्र नामविभक्तिभिः ॥ १,३३.२५ ॥ प्रत्यक्षाभिहितं चैवमृषीणां वचनं मतम् । नैगमैर्विविधैः शब्दैर्निपातैर्बहुलं च यत् ॥ १,३३.२६ ॥ यच्चाप्यस्ति महद्वाक्यमृषीकाणां वचः स्मृतम् । अविस्पष्टपदं यच्च यच्च स्याद्बहुसंशयम् ॥ १,३३.२७ ॥ ऋषिपुत्रवचस्तद्वै सर्वाश्च परिदेवताः । हेतुदृष्टान्त बहुलं चित्रशब्दमपार्थकम् ॥ १,३३.२८ ॥ सर्वास्तु तमशक्तं च वाक्यमेतत्तु मानुषम् । मिश्रा इति समाख्याताः प्रभावादृषितां गाताः ॥ १,३३.२९ ॥ समुत्कर्षाय कर्षाभ्यां जातिव्यत्याससंभवाः । भूतभव्यभवज्ज्ञान जन्मदुःखचिकित्सनम् ॥ १,३३.३० ॥ मिश्राणां तद्भवेद्वाक्यं गुरोर्बलप्रवर्त्तनम् । धर्मशास्त्रप्रणेतारो महिम्ना सर्वगाश्च वै ॥ १,३३.३१ ॥ तपःप्रकर्षः सुमहान्येषां ते ऋषयः स्मृताः । बृहस्पतिश्च शुक्रश्च व्यासः सारस्वतस्तथा ॥ १,३३.३२ ॥ व्यासाः शास्त्रप्रणयना वेदव्यास इति स्मृताः । यस्मादवारजाः संतः पूर्वेभ्यो मेधयाधिकाः ॥ १,३३.३३ ॥ ऐश्वर्येण च संपन्नास्ततस्ते ऋषयः स्मृताः । यस्मिन्कालो न चं वयः प्रमाणमृषिभावने ॥ १,३३.३४ ॥ दृश्यते हि पुमान्कश्चित्कश्चिज्ज्येष्ठतमो धिया । यस्माद्बुद्ध्या च वर्षीयान्बलोऽपि श्रुतवानृषिः ॥ १,३३.३५ ॥ यः कश्चित्पादवान्मध्ये प्रयुक्तोऽक्षर संपदा । विनियुक्तावसानां तु तामृचं परिचक्षते ॥ १,३३.३६ ॥ यः कश्चित्करणैर्मन्त्रो न च पादक्षरैर्मितः । अतियुक्तावसानं च तद्यजुर्वै प्रचक्षते ॥ १,३३.३७ ॥ ह्रीङ्कारः प्रणवो गीतः प्रस्तावश्च चतुर्थकम् । पञ्चमः प्रतिहोत्रश्च षष्ठमाहुरुपद्रवम् ॥ १,३३.३८ ॥ निधनं सप्तमं साम्नः सप्तविन्ध्य मिदं स्मृतम् । पञ्चविन्ध्य इति प्रोक्तं ह्रीङ्कारः प्रणवादृते ॥ १,३३.३९ ॥ ब्रह्मणे धर्ममत्युक्तौ यत्तदा ज्ञाप्यतेर्ऽथतः । आशास्तिस्तु प्रसंख्याता विलापः परिदेवना ॥ १,३३.४० ॥ क्रोधाद्वा द्वेषणाच्चैव प्रश्राख्यानं तथैव च । एतत्तु सर्वविद्यानां विहितं मन्त्रलक्षणम् ॥ १,३३.४१ ॥ मन्त्रा नवविधाः प्रोक्ता ऋग्यजुः सामलक्षणाः । मूर्तिर्निन्दा प्रशंसा चाक्रोशस्तोषस्तथैव च ॥ १,३३.४२ ॥ प्रश्रानुज्ञास्तथाख्यानमाशास्मतिविधयो मताः । मन्त्रभेदांश्च वक्ष्यामि चतुर्विशतिलक्षणान् ॥ १,३३.४३ ॥ प्रशंसा स्तुतिराक्रोशो निन्दा च परिदेवना । अभिशापो विशापश्च प्रश्नः प्रतिवचस्तथा ॥ १,३३.४४ ॥ आशीर्यज्ञस्तथाक्षेप अर्थाख्यानं च संकथा । वियोगा ह्यभियोगाश्च कथा संस्था वरश्च वै ॥ १,३३.४५ ॥ प्रतिषेधोप देशौ च नमस्कारः स्पृहा तथा । विलापश्चेति मन्त्राणां चतुर्विंशतिरुद्धृताः ॥ १,३३.४६ ॥ ऋषिभिर्यज्ञतत्त्वज्ञैर्विहितं ब्रह्मणं पुरा । हेतु र्निर्वचनं निन्दा प्रशस्तिः संशयो निधिः ॥ १,३३.४७ ॥ पुराकृतिपुराकल्पौ व्यवधारणकल्पना । उपमा च दशैते वै विधयो ब्राह्मणस्य तु ॥ १,३३.४८ ॥ लक्षणं ब्राह्मणस्यैनद्विहितं सर्वशाखिनाम । हेतुर्हन्तेः स्मृतो धातोर्यन्निहन्त्युदितं परैः ॥ १,३३.४९ ॥ अथवार्थे परिप्राप्ते हिनो तेर्गतिकर्मणा । तथा निर्वचनं ब्रूयाद्वाक्यार्थस्यावधारणम् ॥ १,३३.५० ॥ निन्दां तामाहुरायार्या यद्दोषे निन्दनं वचः । प्रपूर्वाच्छंसतेर्धातोः प्रशंसागुणवत्तया ॥ १,३३.५१ ॥ इदं त्विदमिदं नैदमित्यनिश्चित्य संशयम् । इदमेवं विधातव्यमित्ययं विधिरुच्यते ॥ १,३३.५२ ॥ अन्यस्यान्यस्य चौक्तिर्या बुधैः सोक्ता पुराकृतिः । यो ह्यत्यन्तपरोक्षार्थः स पुराकल्प उच्यते ॥ १,३३.५३ ॥ पुरातिक्रान्तवाचित्वात्पुराकल्पस्य कल्प नाम् । मन्त्रब्राह्मणकल्पैश्च निगमैः शुद्धविस्तरैः ॥ १,३३.५४ ॥ अनिश्चित्य कृतामाहुर्व्यवधारणकल्पनाम् । यथा हीदं तथा तद्वै इदं चैव तथैव तत् ॥ १,३३.५५ ॥ इत्येवमेषा ह्युपमा दशमो ब्राह्मणस्य तु । इत्येतद्ब्रह्मणस्यादौ विहितं रक्षणं बुधैः ॥ १,३३.५६ ॥ तस्य तद्विद्भिरुद्दिष्टा व्याख्याम्यनुपदं द्विजैः । मन्त्राणां कल्पना चैव विधिदृष्टिषु कर्मसु ॥ १,३३.५७ ॥ मन्त्रो मन्त्रयतेर्द्धातोर्ब्राह्मणो ब्राह्मणेन तु । अल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवद्यं च सूत्रं सूत्रविदो विदुः ॥ १,३३.५८ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे ऋषिलक्षणं नाम त्रयस्त्रिन्त्तमोऽध्यायः _____________________________________________________________ वायुरुवाच ऋषयस्तद्वचः श्रुत्वा सूतमाहुस्तदुत्तरम् । कथं वेदाः पुनर्व्यस्तास्तन्नो ब्रूहि महामते ॥ १,३४.१ ॥ सूत उवाच द्वापरे तु पुरावृत्ते मनोः स्वायंभुवान्तरे । ब्रह्मा मनुमुवाचेदं रक्षवेदं महामते ॥ १,३४.२ ॥ परिवृत्तं युगं तात स्वल्पवीर्या द्विजातयः । संवृता युगदोषेण सर्वे चैव यथाक्रमम् ॥ १,३४.३ ॥ तस्य मानं युगवशादल्पं चैव हि दृश्यते । दशसाहस्रभागेन ह्यवशिष्टं कृतोदितम् ॥ १,३४.४ ॥ वाय तेजो बलं चाल्पं सर्वं चैव प्रणश्यति । वेदक्रिया हि कार्याः स्युर्माभूद्वेदविनाशनम् ॥ १,३४.५ ॥ वेदे नाशमनुप्राप्ते यज्ञो नाशं गमिष्यति । यज्ञे नष्टे वेदनाशस्ततः सर्वं प्रणश्यति ॥ १,३४.६ ॥ आद्यो वेदश्च तुष्पादः शतसाहस्रसंमितः । पुनर्दशगुणः कृष्णो यज्ञो वै सर्वकामधुक् ॥ १,३४.७ ॥ एवमुक्तस्तथेत्युक्त्वा मनुर्लौकहिते रतः । वेदमेकं चतुष्पादं चतुर्द्धा व्यभजत्प्रभुः ॥ १,३४.८ ॥ ब्रह्मणो वचनात्तात लोकानां हितकाम्यया । तदहं वर्त्तमानेन युष्माकं वेदकल्पनम् ॥ १,३४.९ ॥ मन्वन्तरेण वक्ष्यमि व्यतीतानां प्रकल्पनम् । प्रत्यक्षेण वरोक्षंवै तन्निबोधत सत्तमाः ॥ १,३४.१० ॥ अस्मिन्युगे तदा व्यासः पाराशर्यः परन्तपः । द्वैपायन इति ख्यातो विष्णोरंशः सनातनः ॥ १,३४.११ ॥ ब्रह्मणा चोदितः सोऽस्मिन् वेदं वक्तुं प्रचक्रमे । अथ शिष्यान्सजग्राह चतुरो वेदकारणात् ॥ १,३४.१२ ॥ जैमिनिं च सुमन्तुं च वैशंपायनमेव च । चतुर्थं पैलमेतेषां पञ्चमं लोमहर्षणम् ॥ १,३४.१३ ॥ ऋग्वेदश्रावकं पैलमग्रहीद्विधिवद्द्विजाः । यजुर्वेदप्रवक्तारं वैशंपायनमेव च ॥ १,३४.१४ ॥ जैमिनिं सामवेदार्थश्रावकं सोऽन्वपद्यत । तथैवाथर्ववेदस्य सुमन्तुमृषिसत्तमम् ॥ १,३४.१५ ॥ इतिहासपुराणस्य कलपवाक्यस्य चैव हि । मां चैव प्रतिजग्राह भगवानीश्वरः प्रभुः ॥ १,३४.१६ ॥ एक आसीद्यजुर्वेदस्तं चतुर्द्धा व्यकल्पयत् । चातुर्हेत्रमभूत्तस्मिंस्तेन यज्ञमकल्पयत् ॥ १,३४.१७ ॥ आध्वर्यवं यजुर्भिस्तु ऋग्भिर्हेत्रं तथैव च । औद्गात्रं सामभिश्चक्रे ब्रह्मत्वं चाप्यथर्वभिः ॥ १,३४.१८ ॥ ततः स ऋच उद्धृत्य ऋग्वेदं समकल्पयत् । होतृकं कल्पयत्तेन यजुर्वेदं जगत्पतिः ॥ १,३४.१९ ॥ सामभिः सामवेदं च तेनौद्गात्रमकल्पयत् । रा५ त्वथर्ववेदेन सर्वकर्माण्यकारयत् ॥ १,३४.२० ॥ आख्यानैश्चाप्युपाख्यानैर्गाथाभिः कल्पजोक्तिभिः । पुरामसंहितां चक्रे पुराणार्थविशारदः ॥ १,३४.२१ ॥ यच्छिष्टं तु यजुर्वेदे तेन य५ अयुञ्जत । यजनात्स यजुर्वेद इति शास्त्रविनिश्चयः ॥ १,३४.२२ ॥ पादानामुद्धतत्वाच्च यजूंषि विषमाणि च । शतेनोद्धतवीर्यस्तु ऋत्विग्भिर्वेदपारगैः ॥ १,३४.२३ ॥ प्रयुज्यते ह्यश्वमेधस्तेन वा पुष्यते तु सः । ऋचो गृहीत्वा पैलस्तु व्यभजत्तु द्विधा पुनः ॥ १,३४.२४ ॥ द्वे कृत्वा संहिते चैव शिष्याभ्या मददाद्विबुः । इन्द्रप्रमत्तये चैकां द्वितीयां बाष्कलाय च ॥ १,३४.२५ ॥ चतस्रः संहिताः कृत्वा बाष्कलो द्विजसत्तमः । शिष्यानध्यापया मास शुश्रुषाभिरतान्हितान् ॥ १,३४.२६ ॥ बोध्यां तु प्रथमां शाखां द्वितीयामग्निमातरम् । पाराशरीं तृतीयां तु या५ अल्क्यामथापराम् ॥ १,३४.२७ ॥ इन्द्रप्रमतिरेकां तु संहितामृषिसत्तमः । अध्यापयन्महाभागं माण्डूकेयं यशस्विनम् ॥ १,३४.२८ ॥ स्त्यस्रवसमग्र्यं तु पुत्रं स तु महायशाः । सत्यस्रवाः सत्यहितं पुत्रमध्यापयद्विभुः ॥ १,३४.२९ ॥ सोऽपि सत्यहितः पुत्रं पुनरध्यापयद्द्विजाः । सत्यश्रियं महात्मानं सत्य धर्मपरायणम् ॥ १,३४.३० ॥ अभवंस्तस्य शिष्या वै त्रयस्तु सुमहौजसः । सत्यश्रियाश्च विद्वांसः शास्त्रग्रहणतत्पराः ॥ १,३४.३१ ॥ शाकल्यः प्रथमस्तेषां तस्मादन्यो रथीतरः । बाष्कलिश्च भरद्वाज इति शाखाप्रवर्त्तकाः ॥ १,३४.३२ ॥ देवमित्रस्तु शाकल्यो ज्ञानाहङ्कारगर्वितः । जनकस्य स यज्ञे वै विनाशामगमद्द्विजाः ॥ १,३४.३३ ॥ शांशपायन उवाच कथं विनाशमगमत्स मुनिर्ज्ञानगर्वितः । जनकस्याश्वमेधे तु कथ वादाभ्यजायत ॥ १,३४.३४ ॥ किमर्थं वाभवद्वादः केन सार्द्धमथापि वा । एतत्सर्वं यथा वृत्तमाचक्ष्त्र विदितं तव ॥ १,३४.३५ ॥ सूत उवाच जनकस्याश्वमेधे तु महानासीत्समागमः । ऋषीणां हि सहस्राणि तत्राजग्मुरनेकशः ॥ १,३४.३६ ॥ राजर्षेर्जनकस्याथ तं यज्ञं हि दिदृक्षवः । आगतान्ब्राह्मणान्दृष्ट्वा जिज्ञासास्याभवत्ततः ॥ १,३४.३७ ॥ को न्वेषां ब्राह्मणश्रेष्ठः कथं मे निश्चयो भवेत् । इति निश्चित्य मनसा बुद्धिं चक्रे जनाधिपः ॥ १,३४.३८ ॥ गवां सहस्रमादाय सुवर्णमधिकं ततः । ग्रामान्रत्नानि दासीस्छ मुनीन्प्राह नराधिपः ॥ १,३४.३९ ॥ सर्वानहं प्रपन्नो वः शिरसा श्रेष्ठभागिनः । यदेतदाहृतं वित्तं यो वा श्रेष्ठतमो भवेत् ॥ १,३४.४० ॥ तस्मै तदुपनीतं मे वित्त वित्तं द्विजोत्तमाः । जनकस्य वचः श्रुत्वा ऋषयस्ते श्रुतिक्षमाः ॥ १,३४.४१ ॥ दृष्ट्वा धनं महासारं धनगृध्ना जिघृक्षवः । आह्वयाञ्चक्रिरेऽन्योन्यं वेदज्ञानमदोल्बणान् ॥ १,३४.४२ ॥ मनसा गतवित्तास्ते ममैतद्धनमित्युत । ममैतन्न तवेत्यन्यो ब्रूहि वा किं विकत्थसे ॥ १,३४.४३ ॥ इत्येवं धनदोषेण वादांश्चकुरनेकशः । अथान्यस्तत्रवै विद्वान्ब्रह्मणस्तु सुतः कविः ॥ १,३४.४४ ॥ याज्ञवल्क्यो महातेजास्तपस्वी ब्रह्मवित्तमः । ब्रह्मणोंऽशसमुत्पन्नो वाक्यं प्रोवाच सुस्वरम् ॥ १,३४.४५ ॥ शिष्यं ब्रह्मविदां श्रेष्ठं धनमेतद्गृहाण वै । नयस्व च गृहंवत्स ममैतन्नात्र संशयः ॥ १,३४.४६ ॥ सर्ववादेष्वहं वक्ता नान्यः कश्चित्तु मत्समः । यो वा न प्रीयते विद्वान्समाह्वयतु माचिरम् ॥ १,३४.४७ ॥ ततो ब्रह्मार्णवः क्षुब्दः समुद्र इव संप्लवे । तानुवाच ततः स्वस्थो याज्ञवल्क्यो हसन्निव ॥ १,३४.४८ ॥ क्रोधं मा कार्ष्ट विद्वांसो भवन्तः सत्यवादिनः । वदामहे यथाशक्ति जिज्ञासंतः परस्परम् ॥ १,३४.४९ ॥ ततोऽभ्युपगतास्तेषां वादाः शब्दैरनेकशः । सहस्रधा शुभैरर्थैः सुक्ष्मदर्शनसंभवैः ॥ १,३४.५० ॥ लोके वेदे तथाध्यात्मविद्यास्थानैरलङ्कृतैः । संत्युत्तमगुणैर्युक्ता नृपस्यापि परीक्षकाः ॥ १,३४.५१ ॥ वादाः समभवंस्तत्र धनहेतोर्महात्मनाम् । ऋषयस्त्वेकतः सर्वे याज्ञवल्क्यस्तथैकतः ॥ १,३४.५२ ॥ सर्वे ते मुनयस्तेन याज्ञवल्क्येन धीमता । एकैकशस्ततः पृष्टा नैवोत्तरमथाब्रुवन् ॥ १,३४.५३ ॥ स विजित्य मुनीन्सर्वान् ब्रह्मराशिर्महामतिः । शाकल्यमिति होवाच वादकर्त्तारमञ्जसा ॥ १,३४.५४ ॥ शाकल्य वद वक्तव्यं किं ध्यायन्नवतिष्ठसे । पणस्तु यजमानेन बद्धो नीतो यथा धृतः ॥ १,३४.५५ ॥ एवं स धर्षितस्तेन रोषात्ताम्रास्यलोचनः । प्रोवाच याज्ञवल्क्यं सपुरुषं मुनिसन्निधौ ॥ १,३४.५६ ॥ त्वमस्मास्तृणवत्कृत्वा तथैवान्यान्द्विजोत्तमान् । विद्याधनं महासारं स्वयङ्ग्राहं जिघृक्षसि ॥ १,३४.५७ ॥ शाकल्येनैवमुक्तस्तु याज्ञवल्क्यस्तमब्रवीत् । ब्रह्मिष्ठानां बलं विद्धि विद्यातत्त्वार्थदर्शनम् ॥ १,३४.५८ ॥ कामस्यार्थेन संबन्धस्तेनार्थं कामयामहे । कामप्रर्श्नधना विप्राः कामप्रश्नं वदामहे ॥ १,३४.५९ ॥ पणश्चैवास्य राजर्षेस्तस्मान्नीतं धनं मया । एतच्छ्रुत्वा वचस्तस्य शाकल्यः क्रोधमूर्च्छितः ॥ १,३४.६० ॥ या५ अल्क्यमथोवाच कामप्रश्नार्थकृद्वचः । ब्रूहीदानीं मयोद्दिष्टान्कामप्रश्नान्यथार्थतः ॥ १,३४.६१ ॥ ततः समभवद्वादस्तयोर्ब्रह्मविदोर्महान् । साग्रं प्रश्नसहस्रं तु शाकल्यः सोऽकरोत्तदा ॥ १,३४.६२ ॥ याज्ञवल्क्योऽब्रवीत्सर्वमृषीणां शृण्वतां तदा । शाकल्यस्त्वास निर्वादो याज्ञवल्क्यस्तमब्रवीत् ॥ १,३४.६३ ॥ प्रश्नमेकं ममापि त्वं शाकल्य वद कामिकम् । पणप्राप्यस्य वादस्य ब्रुवतोर्मृत्युरत्र वै ॥ १,३४.६४ ॥ सुसूक्ष्मज्ञानसंयुक्तं सांख्यंयोगमथापि वा । अध्यात्मस्य गतिं मुख्यां ध्यानमार्गमथापि वा ॥ १,३४.६५ ॥ अथ संचोदितः प्रश्नो याज्ञवल्क्येन धीमता । शाकल्यस्तमविज्ञाय तथा मृत्युमवाप्तवान् ॥ १,३४.६६ ॥ एवं स्मृतः स शाकल्यः प्रश्नव्याख्यानपीडितः । एवं विवादः सुमहानासीत्तेषां धनार्थिनाम् ॥ १,३४.६७ ॥ ऋषीणामृषिभिः सार्द्धं याज्ञवल्क्यस्य चैव हि । याज्ञवल्क्यो धनं गृह्य यशो विख्याय चात्मनः । जगाम वै गृहं स्वच्छं शिष्यैः परिवृतो वशी ॥ १,३४.६८ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे व्यासशिष्योत्पत्तिवर्णनं नाम चतुस्त्रिंशत्तमोऽध्यायः _____________________________________________________________ सूत उवाच देवमित्रश्च शाकल्यो महात्मा द्विजपुङ्गवः । चकार संहिताः पञ्च बुद्धिमान्वेदवित्तमः ॥ १,३५.१ ॥ पञ्च तस्याभवञ्छिष्या मुद्गलो गोखलस्तथा । खलीयान्सुतपा वत्सः शैशिरेयश्च पञ्चमः ॥ १,३५.२ ॥ प्रोवाच संहितास्तिस्रः शाको वैणो रथीतरः । निरुक्तं च पुनश्चक्रे चतुर्थं द्विजसत्तमः ॥ १,३५.३ ॥ तस्य शिष्यास्तु चत्वारः पैलश्चेक्षलकस्तथा । धीमाञ्छ तबलाकश्च गजश्चैव द्विजोत्तमाः ॥ १,३५.४ ॥ बाष्कलिस्तु भरद्वाजस्तिस्रः प्रोवाच संहिताः । त्रयस्तस्याभवञ्च्छिष्या महात्मानो गुणान्विताः ॥ १,३५.५ ॥ धीमांश्च त्वापनापश्च पान्नगारिश्च बुद्धिमान् । तृतीयश्चार्जवस्ते च तपसा शंसितव्रताः ॥ १,३५.६ ॥ वीतरागा महातेजाः संहिताज्ञानपारगाः । इत्येते बहूवृचाः प्रोक्ताः संहिता यैः प्रवर्तिताः ॥ १,३५.७ ॥ वैशंपायनशिष्योऽसौ यजुर्वेदमकल्पयत् । षडशीतिस्तु तेनोक्ताः संहिता यजुषां शुभाः ॥ १,३५.८ ॥ शिष्येभ्यः प्रददौ ताश्च जगूहुस्ते विधानतः । एकस्तत्र परित्यक्तो या५ अल्क्यो महातपाः ॥ १,३५.९ ॥ षडशीतिस्तथा शिष्याः संहितानां विकल्पकाः । सर्वेषामेव तेषां वै त्रिधा भेदाः प्रकीर्त्तिताः ॥ १,३५.१० ॥ त्रिधा भेदास्तु ते वेदभेदेऽस्मिन्नवमे शुभे । उदीच्या मध्यदेश्याश्च प्राच्यश्चैव पृथग्विधाः ॥ १,३५.११ ॥ श्यामायनिरुदीच्यानां प्रधानः संबभूव ह । मध्यदेशप्रतिष्ठाता चासुरिः प्रथमः स्मृतः ॥ १,३५.१२ ॥ आलंबिरादिः प्राच्यानां त्रयोदेश्यादयस्तु ते । इत्येते चरकाः प्रोक्ताः संहिता वादिनो द्विजाः ॥ १,३५.१३ ॥ ऋषय ऊचुः चरकाध्वर्यवः केन कारणं ब्रूहि तत्त्वतः । किं चीर्णं कस्य वा हेतोश्चरकत्वं हि भेजिरे ॥ १,३५.१४ ॥ सूत उवाच कार्यमासीदृषीणां च किञ्चिद्ब्राह्मणसत्तमाः । मेरुपृष्ठं समासाद्य तैस्तदा त्विति मन्त्रितम् ॥ १,३५.१५ ॥ यो वात्र सप्तरात्रेण नागच्छेद्द्विजसत्तमः । स कुर्याद्ब्रह्महत्यां वै समयो नः प्रकीर्तितः ॥ १,३५.१६ ॥ ततस्ते सगणाः सर्वे वैशंपायनवर्जिताः । प्रययुः सप्तरात्रेण यत्र संधिः कृतोऽभवत् ॥ १,३५.१७ ॥ ब्रह्मणानां तु वचनाद्ब्रह्महत्यां चकार सः । शिष्यानथ समानीय स वैशंपायनोऽब्रवीत् ॥ १,३५.१८ ॥ ब्रह्महत्यां चरध्वं वै मत्कृते द्विजसत्तमाः । सर्वे यूयं समागम्य ब्रूत कामं हितं वचः ॥ १,३५.१९ ॥ याज्ञवल्क्य उवाच अहमेकश्चरिष्यामि तिष्ठन्तु मुनयस्त्विमे । बलेनोत्थापयिष्यामि तपसा स्वेन भावितः ॥ १,३५.२० ॥ एव मुक्तस्ततः क्रुद्धो या५ अल्क्यम थात्यजत् । उवाच यत्त्वयाधीतं सर्वं प्रत्यर्पयस्व मे ॥ १,३५.२१ ॥ एवमुक्तः सरूपाणि यजूंषि गुरवे ददौ । रुधिरेण तथाक्तानि च्छर्दित्वा ब्रह्मवित्तमाः ॥ १,३५.२२ ॥ ततः स ध्यानमास्थाय सर्यमाराधयद्द्विजः । सूर्ये ब्रह्म यदुत्पन्नं तं गत्वा प्रतितिष्ठति ॥ १,३५.२३ ॥ ततो यानि गतान्यूर्ध्वं यजूष्यादित्यमडलम् । तानि तस्मै ददौ तुष्टः सूर्यो वै ब्रह्मरातये ॥ १,३५.२४ ॥ अश्वरूपाय मार्त्तण्डो याज्ञवक्ल्याय धीमते । यजूंष्यधीयते तानि ब्राह्मणा येन केनचित् ॥ १,३५.२५ ॥ अश्वरूपाय दत्तानि ततस्ते वाजिनोऽमवन् । ब्रह्महत्या तु यैश्चीर्णा चरणाच्चरकाः स्मृताः ॥ १,३५.२६ ॥ वैशंपायनशिष्यास्ते चरकाः समुदाहृताः । इत्येते चरकाः प्रोक्ता वाजिनस्तु निबोधत ॥ १,३५.२७ ॥ या५ अल्क्यस्य शिष्यास्ते कण्वो बौधेय एव च । मध्यन्दिनस्तु सापत्यो वैधेयश्चाद्धबौद्धकौ ॥ १,३५.२८ ॥ तापनीयश्च वत्साश्च तथा जाबालकेवलौ । आवटी च तथा पुण्ड्रो वैणोयः सपराशरः ॥ १,३५.२९ ॥ इत्येते वाजिनः प्रोक्ता दशपञ्च च सत्तमाः । शतमेकाधिकं ज्ञेयं यजुषां ये विकल्पकाः ॥ १,३५.३० ॥ पुत्रमध्यापयामास सुमन्तुमथ जैमिनिः । सुमन्तुश्चापि सुत्वानं पुत्रमध्यापयत्पुनः ॥ १,३५.३१ ॥ सुकर्माणं ततः सुन्वान्पुत्रमध्यापयत्पुनः । स सहस्रमधीत्याशु सुकर्माप्यथ संहिताः ॥ १,३५.३२ ॥ प्रोवाचाथ सहस्रस्य सुकर्मा सूर्यवर्चसः । अनध्यायेष्वधीयानांस्तञ्जघान शतक्रतुः ॥ १,३५.३३ ॥ प्रायोपवेशमकरोत्ततोऽसौ शिष्यकारमात् । क्रुद्धं दृष्ट्वा ततः शक्रोवरं सोऽथ पुनर्ददौ ॥ १,३५.३४ ॥ भविष्यतो महावीर्यौं शिष्यौ तेऽतुलवर्चसौ । अधीयातां महाप्राज्ञौ सहस्रं संहिता उभौ ॥ १,३५.३५ ॥ एते सुरा महाभागाः संक्रुद्धा द्विजसत्तम । इत्युक्त्वा वासवः श्रीमान्सुकर्माणं यशस्विनम् ॥ १,३५.३६ ॥ शान्तक्रोधं द्विजं दृष्ट्वा क्षिप्रमन्तर धात्प्रभुः । तस्य शिष्योऽभवद्धीमान् पौष्यञ्जिर्द्विजसत्तमाः ॥ १,३५.३७ ॥ हिरण्यनाभः कौशल्यो द्वितीयोऽभून्नराधिपः । अध्यापयत पौष्याञ्जिः सहस्रार्द्धं तुसंहिताः ॥ १,३५.३८ ॥ ते नाम्नोदीच्यसामानः शिष्याः पौष्यञ्जिनः शुभाः । सत्त्वानि पञ्च कौशिल्यः संहिताना मधीतवान् ॥ १,३५.३९ ॥ शिष्या हिरण्यनाभस्य स्मृतास्तु प्राच्यसामगाः । लौगाक्षिः कुशुमिश्चैव कुशीदिर्लाङ्गलिस्तथा । पौष्यञ्जि शिष्याश्चत्वारस्तेषां भेदान्निबोधत ॥ १,३५.४० ॥ नाडायनीयः सहतण्डिपुत्रस्तस्मादनोवैननामा सुविद्वान् । सकोतिपुत्रः सुसहाः सुनामा चैतान्भेदान्वित्तलौगाक्षिणस्तु ॥ १,३५.४१ ॥ त्रयस्तु कुशुमेः शिष्या औरसः स पराशरः ॥ १,३५.४२ ॥ नाभिर्वित्तस्तु तेजस्वी त्रिविधा कौशुमाः स्मृताः । शौरिषुः शृङ्गिपुत्रश्च द्वावेतौ तु चिरव्रतौ ॥ १,३५.४३ ॥ राणायनीयिः सौमित्रिः सामवेदविशारदौ । प्रोवाच संहितास्ति स्रः शृङ्गिपुत्रौ महात्पाः ॥ १,३५.४४ ॥ वैनः प्राजीनयोगश्च सुरालश्च द्विजौत्तमः । प्रोवाच संहिताः षट्तु पाराशर्यस्तु कौथुमः ॥ १,३५.४५ ॥ आसुरायणवैशाख्यौ वेदवृद्धपरायणौ । प्राचीनयोगपुत्रश्च बुद्धिमांश्च पतञ्जलिः ॥ १,३५.४६ ॥ कौथुमस्य तु भेदाश्च पाराशर्यस्य पट्समृताः । लाङ्गलः शालिहोत्रश्च षडुवाचाथ संहिताः ॥ १,३५.४७ ॥ हालिनिर्ज्यामहानिश्च जैमिनिर्लोमगायनिः । कण्डुश्च कोहलश्चैव षडे ते लाङ्गलाः स्मृताः ॥ १,३५.४८ ॥ एते लाङ्गलिनः शिष्याः संहिता यैः प्रवर्त्तिताः । एको हिरण्यनाभस्य कृतः शिष्यो नृपात्मजः ॥ १,३५.४९ ॥ सोऽकरोत्तु चतुर्विशसंहिता द्विपदां वरः । प्रोवाच चैव शिष्येभ्यो येभ्यस्ताश्च निबोधत ॥ १,३५.५० ॥ राडिश्च राडवीयश्च पञ्जमौ वाहनस्तथा । तलको माण्डुकश्चैव कालिको राजिकंस्तथा ॥ १,३५.५१ ॥ गौतमश्चाजबस्तश्च सोमराजायनस्ततः । पुष्टिश्च परिकृष्टश्च उलूखलक एव च ॥ १,३५.५२ ॥ यवीयसस्तु वै शालीरङ्गुलीयश्च कौशिकः । शालिमञ्जरिपाकश्च शधीयः कानिनिश्च यः ॥ १,३५.५३ ॥ पाराशर्यस्तु धर्मात्मा इति क्रान्तास्तु सामगाः । सामगानां तु सर्वेषां श्रेष्ठौ द्वौ परिकीर्त्तितौ ॥ १,३५.५४ ॥ पौष्यञ्जिश्च कृतश्चैव संहितानां विकल्पकौ । अथर्वाणं द्विधा कृत्वा सुमन्तुरददाद्द्विजाः ॥ १,३५.५५ ॥ कबन्धाय पुनः कृष्णं स च विद्वान्यथाश्रुतम् । कबन्धस्तु द्विधा कृत्वा पथ्यायैकं पुनर्ददौ ॥ १,३५.५६ ॥ द्वितीयं देवदर्शायस चतुर्धाकरोत्प्रभुः । मोदो ब्रह्मबलश्चैव पिप्पलादस्तथैव च ॥ १,३५.५७ ॥ शौल्कायनिश्च धर्मज्ञश्चतुर्थस्तपसि स्थितः । देवदर्शस्य चत्वारः शिष्या ह्येते दृढव्रताः ॥ १,३५.५८ ॥ पुनश्च त्रिविधं विद्धि पथ्यानां भेदमुत्तमम् । जाजलिः कुमुदादिश्च तृतीयः शौनकः स्मृतः ॥ १,३५.५९ ॥ शौनकस्तु द्विधा कृत्वा ददावेकान्तु बभ्रवे । द्द्वितीयां संहितां धीमान्सैन्धवायनसंज्ञि ते ॥ १,३५.६० ॥ सैन्धवो मुञ्जकेश्यश्च भिन्नामाधाद्द्विधा पुनः । नक्षत्रकल्पो वैतानस्तृतीयः संहिताविधिः ॥ १,३५.६१ ॥ चतुर्थोंऽगिरसः कल्पः शान्तिकल्पश्च पञ्चमः । श्रेष्ठास्त्वथर्वणामेते संहितानां विकल्पकाः ॥ १,३५.६२ ॥ खड्गः कृत्वा मया युक्तं पुराणमृषिसत्तमाः । आत्रेयः सुमतिर्धीमान्काश्यपो ह्यकृतव्रणः ॥ १,३५.६३ ॥ भारद्वाजोऽग्निवर्चाश्च वासिष्ठा मित्रयुश्च यः । सावर्णिः सोमदत्तिश्च सुशर्मा शांशपायनः ॥ १,३५.६४ ॥ एते शिष्या मम प्रोक्ताः पुराणेषु धृतव्रताः । त्रिभिस्तत्र कृतास्तिस्रः संहिताः पुनरेव हि ॥ १,३५.६५ ॥ काश्यपः संहिता कर्त्ता सावर्णिः शांशपायनः । मामिका तु चतुर्थी स्याच्चतस्रो मूलसंहिताः ॥ १,३५.६६ ॥ सर्वास्ता हि चतुष्पादाः सर्वाश्चैकार्थवाचिकाः । पाठान्तरे वृथाभूता वेदशाखा यथा तथा ॥ १,३५.६७ ॥ चतुः साहस्रिकाः सर्वाः शांशपायनिकामृते । लौमहर्षणिका मूला ततः काश्यपिका परा ॥ १,३५.६८ ॥ सावर्णिका तृतीयासावृजुवाक्यार्थमण्डिता । शांशपायनिका चान्या नोदनार्थविभूषिता ॥ १,३५.६९ ॥ सहस्राणि ऋचां चाष्टौ षट्शतानि तथैव च । एताः पञ्चदशान्याश्च दशान्या दशभिस्तथा ॥ १,३५.७० ॥ सवालखिल्याः सप्तैताः ससुपर्णाः प्रकीर्त्तिताः । अष्टौ सामसहस्राणि सामानि च चतुर्द्दश ॥ १,३५.७१ ॥ सारण्यकं सहोहं च एतद्गायन्ति सामगाः । द्वादशैव सहस्राणि च्छन्द आध्वर्यवं स्मृतम् ॥ १,३५.७२ ॥ यजुषां ब्राह्मणानां च तथा व्यासो व्यकल्पयत् । सग्राम्यारण्यकं तस्मात्समन्त्रकरणं तथा ॥ १,३५.७३ ॥ अतः परं कथानं तु पूर्वा इति विशेषणम् । ग्राम्यारण्यं समन्त्रं तदृग्ब्राह्मणयजुः स्मृतम् ॥ १,३५.७४ ॥ तथा हारिद्रवीर्याणां खिलान्युपखिलानितु । तथैव तैत्तिरीयाणां परक्षुद्रा इति स्मृतम् ॥ १,३५.७५ ॥ द्वे सहस्रे शतन्यूने वेदे वाजसनेयके । ऋग्गमः परिसंख्यातो ब्राह्मणं तु चतुर्गुणम् ॥ १,३५.७६ ॥ अष्टौ सहस्राणि शतानि वाष्टावशीतिरन्यान्यधिकानि वा च । एतत्प्रमाणं यजुषामृचां च सशुक्रियं सखिलं याज्ञवल्क्यम् ॥ १,३५.७७ ॥ तथा चारणविद्यानां प्रमाणसहितं शृणु । षट्सहस्रमृचामुक्तमृचः षड्विंशतिं पुनः ॥ १,३५.७८ ॥ एतावदधिकं तेषां यजुः कि मपि वक्ष्यते । एकादशसहस्राणि ऋचश्चान्या दशोत्तराः ॥ १,३५.७९ ॥ ऋचां दशसहस्राणि ह्यशीतिस्त्रिंशदेव तु । सहस्रमेकं मन्त्राणामृचामुक्तं प्रमाणतः ॥ १,३५.८० ॥ एतावानृचि विस्तारो ह्यन्यच्चाथर्विकं बहु । ऋचामथर्वणां पञ्चसहस्राणीति निश्चयः ॥ १,३५.८१ ॥ सहस्रमन्यद्विज्ञेयमृषि भिर्विशतिं विना । एतदङ्गिरसां प्रोक्तं तेषामारण्यकं पुनः ॥ १,३५.८२ ॥ इति संख्या प्रसंख्याता शाखाभेदास्तथैव तु । कर्तारशचैव शाखानां भेदहेतूंस्तथैव च ॥ १,३५.८३ ॥ सर्वमन्वन्तरेष्वेवं शाखाभेदाः समाश्रिताः । प्राजापत्या श्रुतिर्नित्या तद्विकल्पास्त्विमे स्मृताः ॥ १,३५.८४ ॥ अनित्यभावाद्देवानां मन्त्रोत्पत्तिः पुनः पुनः । द्वापरेषु पुनर्भेदाः श्रुतीनां परिकीर्त्तिताः ॥ १,३५.८५ ॥ एवं वेदं तदाप्यस्य भगवानृषिसत्तमः । शिष्चेब्यश्च प्रदत्त्वा तु तपस्तप्तु वन गतः ॥ १,३५.८६ ॥ तस्य शिष्यप्रशिष्यैस्तु शाखाभेदास्त्विमे कृताः । अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ॥ १,३५.८७ ॥ धर्मशास्त्रं पुराणं च विद्याश्चेमाश्चतुर्दश । आयुर्वेदो धनुर्वेदो गान्धर्वश्चेति ते त्रयः ॥ १,३५.८८ ॥ अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशैव हि । ज्ञेया ब्रह्मर्षयः पूर्वं तेभ्यो देवर्षयः पुनः ॥ १,३५.८९ ॥ राजर्षयः पुनस्तेभ्य ऋषिप्रकृतयस्त्रिधा । काश्यपेषु वसिष्ठेषु तथा भृग्वङ्गिरोऽत्रिषु ॥ १,३५.९० ॥ पञ्चस्वेतेषु जायन्ते गोत्रेषु ब्रह्मवादिनः । यस्मादृषन्ति ब्रह्माणं ततो ब्रह्मर्षयः स्मृताः ॥ १,३५.९१ ॥ धर्मस्याथ पुलस्त्यस्य क्रतोश्च पुलहस्य च । प्रत्यूषस्य च देवस्य कश्यपस्य तथा पुनः ॥ १,३५.९२ ॥ देवर्षयः सुतास्तेषां नामतस्तान्निबोधत । देवार्षी धर्मपुत्रौ तु नरनारायणवुभौ ॥ १,३५.९३ ॥ वालखिल्याः क्रतोः पुत्राः कर्दमः पुलहस्य तु । कुबेरश्चैव पौलस्त्यः प्रत्यूषस्य दलः सुत ॥ १,३५.९४ ॥ नारदः पर्वतश्चैव कश्यपस्यात्मजावुभौ । ऋषन्ति वेदान्यस्मात्ते तस्माद्देवर्षयः स्मृताः ॥ १,३५.९५ ॥ मानवे चैव ये वंशे ऐलवंशे च ये नृपाः । ये च ऐक्ष्वाकनाभागा ज्ञेया राजर्षयस्तु ते ॥ १,३५.९६ ॥ ऋषन्ति रञ्जनाद्यस्मात्प्रजा राजर्षयस्ततः । ब्रह्मलोकप्रतिष्ठास्तु समृता ब्रह्मर्षयोऽमलाः ॥ १,३५.९७ ॥ देवलोकप्रतिष्ठास्तु ज्ञेया देवर्षयः शुभाः । इन्द्रलोकप्रतिष्ठास्तु सर्वे राजर्षयो मताः ॥ १,३५.९८ ॥ अभिजात्याथ तपसा मन्त्रव्याहरणैस्तथा । ये च ब्रह्मर्षयः प्रोक्ता दिव्या देवर्षयश्च ये ॥ १,३५.९९ ॥ राजर्षयस्तथा चैव तेषां वक्ष्यामि लक्षणम् । भूतं भव्यं भवज्ज्ञानं सत्याभि व्यात्दृतं तथा ॥ १,३५.१०० ॥ संतुष्टाश्च स्वयं ये तु संबुद्धा ये च वै स्वयम् । तपसेह प्रसिद्धा ये गर्भे यैश्च प्रवेदितम् ॥ १,३५.१०१ ॥ मन्त्रव्याहारिणो ये च ऐश्वर्यात्सर्वगाश्च ये । एते राजर्षयो युक्ता देवाद्विजनृपाश्च ये ॥ १,३५.१०२ ॥ एतान्भावानधिगता ये वै त ऋषयो मताः । सप्तैते सप्तभिश्चैव गुणैः सप्तर्षयः स्मृताः ॥ १,३५.१०३ ॥ दीर्घायुषो मन्त्रकृत ईश्वराद्दिव्यचक्षुषः । बुद्धाः प्रत्यक्ष धर्माणो गोत्रप्रावर्त्तकाश्च ते ॥ १,३५.१०४ ॥ षट्कर्मनिरता नित्यं शालीना गृहमेधिनः । तुल्यैर्व्यवहरन्ति स्म ह्यदुष्टैः कर्महेतुभिः ॥ १,३५.१०५ ॥ अग्राम्यैर्वर्त्तयन्ति स्म रसैश्चैव स्वयङ्कृतैः । कुटुंबिनो बुद्धिमन्तो वनान्तरनिवासिनः ॥ १,३५.१०६ ॥ कृतादिषु युगाख्यासु सर्वैरेव पुनः पुनः । वर्णाश्रमव्यवस्थानं क्रियते प्रथमं तु वै ॥ १,३५.१०७ ॥ प्राप्ते त्रेतायुगमुखे पुनः सप्तर्षयस्त्विह । प्रवर्त्तयन्ति ये वर्णानाश्रमांश्चैव सर्वशः ॥ १,३५.१०८ ॥ तेषामेवान्वये वीरा उत्पद्यन्ते पुनः पुनः । जायमाने पितापुत्रे पुत्रः पितरि चैव हि ॥ १,३५.१०९ ॥ एवं संतत्य विच्छेदाद्वर्तयन्त्यायुगक्षयात् । अष्टाशीतिसहस्राणि प्रोक्तानि गृहमेधिनाम् ॥ १,३५.११० ॥ अर्यम्णो दक्षिणं ये तु पितृयानं समाश्रिताः । दाराग्निहोत्रिणस्ते वै यै प्रजाहेतवः स्मृताः ॥ १,३५.१११ ॥ गृहमेधिनस्त्वसंख्येयाः श्मशानान्याश्रयन्ति ते । अष्टाशीतिसहस्राणि निहिता उत्तरापथे ॥ १,३५.११२ ॥ ये श्रूयन्ते दिवं प्राप्ता ऋषयो ह्यूर्ध्वरेतसः । मन्त्रब्राह्मणकर्त्तारो जायन्ते च युगक्षयात् ॥ १,३५.११३ ॥ एवमावर्त्तमानास्तेद्वापरेषु पुनः पुनः । कल्पानामार्षविद्यानां नानाशास्त्रकृतश्च ये ॥ १,३५.११४ ॥ क्रियते यैर्व्यवत्दृतिर्वैदिकानां च कर्मणाम् । वैवस्वतेऽन्तरे तस्मिन्द्वापरेषु पुनः पुनः ॥ १,३५.११५ ॥ अष्टाविंशतिकृत्वो वै वेदा व्यस्ता महर्षिभिः । सप्तमे द्वापरे व्यमताः स्वयं वेदाः स्वयंभुवा ॥ १,३५.११६ ॥ द्वितीये द्वापरे चैव वेदव्यासः प्रजापतिः । तृतीये चोशना व्यासश्चतुर्थे च बृहस्पतिः ॥ १,३५.११७ ॥ सविता पञ्चमे व्यासो मृत्युः षष्ठे स्मृतः प्रभुः । सप्तमे च तथैवेन्द्रो वसिष्ठश्चाष्टमे स्मृतः ॥ १,३५.११८ ॥ सारस्वतस्तु नवमे त्रिधामा दशमे स्मृतः । एकादशे तु त्रिवर्षा सनद्वाजस्ततः परम् ॥ १,३५.११९ ॥ त्रयोदशे चान्तरिक्षो धर्मश्चापि चतुर्दशे । त्रैय्यारुणिः पञ्चदशे षोडशे तु धनञ्जयः ॥ १,३५.१२० ॥ कृतञ्जयः सप्तदशे ऋजीषोऽष्टादशे स्मृतः । ऋजीषात्तु भरद्वाजो भरद्वाजात्तु गौतमः ॥ १,३५.१२१ ॥ गौतमादुत्तमश्चैव ततो हर्यवनः स्मृतः । हर्यवनात्परो वेनः स्मृतो वाजश्रवास्ततः ॥ १,३५.१२२ ॥ अर्वाक्च वाजश्रवसः सोममुख्यायनस्ततः । तृणबिन्दुस्ततस्तस्मात्ततजस्तृणबिन्दुतः ॥ १,३५.१२३ ॥ ततजाच्च स्मृतः शक्तिः शक्तेश्चापि पराशरः । जातूकर्णो भवत्तस्मात्त स्माद्द्वैपायनः स्मृतः ॥ १,३५.१२४ ॥ अष्टाविंशतिरित्येते वेदव्यासाः पुरातनाः । भविष्ये द्वापरे चैव द्वोणिर्द्वैपायनेऽपि च ॥ १,३५.१२५ ॥ वेदव्यासे ह्यतीतेऽस्मिन्भविता सुमहातपाः । भविष्यन्ति भविष्येषु शाखाप्रमयनानि तु ॥ १,३५.१२६ ॥ तस्यैव ब्रह्मणो ब्रह्म तपसः प्राप्तमव्ययम् । तपसा कर्म च प्राप्तं कर्मणा चापि ते यशः ॥ १,३५.१२७ ॥ पुनश्च तेजसा सत्यं सत्येनानन्दमव्ययम् । व्याप्तं ब्रह्मामृतं शुक्रं ब्रह्मैवामृतमुच्यते ॥ १,३५.१२८ ॥ ध्रुवमेकाक्षरमिदमोमित्येव व्यवस्थितम् । बृहत्वाद्बृंहणाच्चैव तद्ब्रह्मेत्यभिधीयते ॥ १,३५.१२९ ॥ प्रमवा वस्थितं भूयो भूर्भुवः स्वरिति स्मृतम् । अथर्वऋग्यजुः साम्नि यत्तस्मै ब्रह्मणे नमः ॥ १,३५.१३० ॥ जगतः प्रलयोत्पत्तौ यत्तत्कारणसंज्ञितम् । महतः परमं गुह्यं तस्मै सुब्रह्मणे नमः ॥ १,३५.१३१ ॥ अगाधापारमक्षय्यं जगत्संबोहसंभवम् । संप्रकाशप्रवृत्तिभ्यां पुरुषार्थप्रयोजनम् ॥ १,३५.१३२ ॥ सांख्यज्ञानवतां निष्ठा गतिः शमदमात्मनाम् । यत्तदव्यक्तमतं प्रकृतिर्ब्रह्म शाश्वतम् ॥ १,३५.१३३ ॥ प्रधानमात्मयोनिश्च गृह्यं सत्त्वं च शस्यते । अविभागस्तथा शुक्रमक्षरं बहुधात्मकम् ॥ १,३५.१३४ ॥ परमब्रह्मणे तस्मै नित्यमेव नमोनमः । कृते पुनः क्रिया नास्ति कुत एवाकृतक्रियाः ॥ १,३५.१३५ ॥ सकृदेव कृतं सर्वं यद्वै लोके कृताकृतम् । श्रोतव्यं वा श्रुतं वापि तथैवासाधु साधु वा ॥ १,३५.१३६ ॥ ज्ञातव्यं वाप्यमन्तव्यं सप्रष्टव्यं भोज्यमेव च । द्रष्टव्यं वाथ श्रोतव्यं घ्रातव्यं वा कथञ्चन ॥ १,३५.१३७ ॥ दर्शितं यदनेनैव ज्ञातं तद्वै सुरर्षिभिः । यन्न दर्शितवानेष कस्तदन्वेष्टुमर्हति ॥ १,३५.१३८ ॥ सर्वाणि सर्वं सर्वांश्च भगवानेव सोऽब्रवीत् । यदा यत्क्रियते येन तदा तस्मोऽभिमन्यते ॥ १,३५.१३९ ॥ यत्रेदं क्रियते पूर्वं न तदन्येन भाषितम् । यदा च क्रियते किञ्चित्केनचिद्वा कथं क्वचित् ॥ १,३५.१४० ॥ तनैव तत्कृतं कृत्यं कर्त्तॄणां प्रतिभाति वै । विरिक्तं चातिरिक्तं च ज्ञानाज्ञानेप्रियाप्रिये ॥ १,३५.१४१ ॥ धर्माधर्मौं सुशं दुःखं मृत्युश्चामृतमेव च । ऊर्द्ध्वं तिर्य्यगधोभावस्तस्यैवादृष्टकारिणः ॥ १,३५.१४२ ॥ स्वयंभुवोऽथ ज्येष्ठस्य ब्रह्मणः परमेष्ठिनः । प्रत्येकवेद्यंभवति त्रेतास्विह पुनः पुनः ॥ १,३५.१४३ ॥ व्यस्यते ह्येकवेद्यं तु द्वापरेषु पुनः पुनः । ब्रह्मा चैतानुवाचादौ तस्मिन्वैवस्वतेऽन्तरे ॥ १,३५.१४४ ॥ आवर्त्तमाना ऋषयो युगाख्यासु पुनः पुनः । कुर्वन्ति संहिता ह्येते जायमानाः परस्परम् ॥ १,३५.१४५ ॥ अष्टाशीतिसहस्राणि श्रुतर्षीणां समृतानि वै । अतीतेषु व्यतीतानि वर्त्तन्ते पुनः पुनः ॥ १,३५.१४६ ॥ श्रिता दक्षिणपन्थानं ये श्मशानानि भेजिरे । युगे युगे तु ताः शाखा व्यस्यन्ते तै पुनः पुनः ॥ १,३५.१४७ ॥ द्वापरेष्विह सर्वेषु संहितास्तु श्रुतर्षिभिः । तेषां गोत्रेष्विमाः शाखा भवन्ति हि पुनः पुनः ॥ १,३५.१४८ ॥ ताः शाखास्ते च कर्त्तारो भवं तीहायुगक्षयात् । एवमेव तु विज्ञेया अतीतानागतेष्वपि ॥ १,३५.१४९ ॥ मन्वन्तरेषु सर्वेषु शाखाप्रणयनानि वै । अतीतेषु व्यतीतानि वर्त्तन्ते सांप्रतेऽन्तरे ॥ १,३५.१५० ॥ भविष्यन्ति च यानि स्युर्वर्त्स्यन्तेऽनागतेष्वपि । पूर्वेण पश्चिमं ज्ञेयं वर्तमानेन चोभयम् ॥ १,३५.१५१ ॥ एतेन क्रमयोगेन मन्वन्तरविनिश्चयः । एवं देवाः सपितर ऋषयो मनवश्च वै ॥ १,३५.१५२ ॥ मन्त्रैः सहोर्ध्वं गच्छन्ति ह्यावर्त्तन्ते च तैः सह । जनलोकात्सुराः सर्वे दशकल्पान्पुनः पुनः ॥ १,३५.१५३ ॥ पर्यायकाले संप्राप्ते संभूता निधनस्य ते । अवश्यभाविनार्ऽथेन संभध्यन्ते तदा तु ते ॥ १,३५.१५४ ॥ ततस्ते दोषवज्जन्म पश्यन्तो रोगपूर्वकम् । निवर्त्तते तदा वृत्तिः सा तेषां दोषदर्शनात् ॥ १,३५.१५५ ॥ एवं देवयुगानीह दशकृत्वो विवर्त्य वै । जनलोकात्तपोलोकं गच्छन्तीहानिवर्त्तकम् ॥ १,३५.१५६ ॥ एवं देवयुगानीह व्यती तानि सहस्रशः । निधनं ब्रह्मलोके वै गतानि ऋषिभिः सह ॥ १,३५.१५७ ॥ न शक्य आनुपूर्व्येण तेषां वक्तुं सुविस्तरः । अनादित्वाच्च कालस्य संख्यानां चैव सर्वशः ॥ १,३५.१५८ ॥ मन्वन्तराण्यतीतानि यानि कल्पैः पुरा सह । पितृभिर्मुनिभिर्देवैः सार्द्धं च ऋषिभिः सह ॥ १,३५.१५९ ॥ कालेन प्रतिसृष्टानि युगानां च विवर्त्तनम् । एतेन क्रमयोगेन कल्पमन्वन्तराणि च ॥ १,३५.१६० ॥ सप्रजानि व्यतीतानि शतशोऽथ सहस्रशः । मन्वन्तरान्ते संहारः संहारान्ते च संभवः ॥ १,३५.१६१ ॥ देवतानामृषीणां च मनोः पितृगणस्य च । न शक्य आनुपूर्व्येण वक्तुं वर्षशतैरपि ॥ १,३५.१६२ ॥ विस्तरस्तु निसर्गस्य संहारस्य च सर्वशः । मन्वन्तरस्य संख्या तु मानुषेण निबोधत ॥ १,३५.१६३ ॥ मन्वन्तरास्तु संख्याताः संख्यानार्थविशारदैः । त्रिंशत्कोट्यस्तु संपूर्णा संख्याताः संख्याया द्विजैः ॥ १,३५.१६४ ॥ सप्तषष्टिस्तन्थान्यानि नियुतानि च संख्याया । विंशतिश्च सहस्रामि कालोऽयं साधिकं विना ॥ १,३५.१६५ ॥ मन्वन्तरस्य संख्येयं मानुषेण प्रकीर्त्तिता । वर्षाग्रेणापि दिव्येन प्रवक्ष्याम्युत्तरं मनोः ॥ १,३५.१६६ ॥ अष्टौ शतसहस्राणि दिव्यया संख्यया स्मृतम् । द्विपञ्चाशत्तथान्यानि सहस्राण्यधिकानि तु ॥ १,३५.१६७ ॥ चतुर्दशगुणो ह्येष कालो ह्याभूतसंप्लवम् । पूर्णं युगसहस्रं स्यात्तदहर्ब्रह्मणः स्मृतम् ॥ १,३५.१६८ ॥ ततः सर्वाणि भूतानि दग्धान्यादित्यरश्मिभिः । ब्रह्माणामग्रतः कृत्वा सह देवर्षिदानवैः ॥ १,३५.१६९ ॥ प्रविशन्ति सुरश्रेष्ठं देवं नारायणं प्रभुम् । स स्रष्टा सर्व भूतानां कल्पादिषु पुनः पुनः ॥ १,३५.१७० ॥ इत्येष स्थितिकालो वै मतो देवर्षिभिः सह । सर्वमन्वन्तराणां हि प्रतिसंधिं निबोधत ॥ १,३५.१७१ ॥ युगख्या या समुद्दिष्टा प्रागेतस्मिन्मयानघाः । कृतत्रेतादिसंयुक्तं चतुर्युगमिति स्मृतम् ॥ १,३५.१७२ ॥ तच्चैकसप्ततिगुणं परिवृत्तं तु साधिकम् । मनोरेतमधीकारं प्रोवाच भगवान्प्रभुः ॥ १,३५.१७३ ॥ एवं मन्वन्तराणां च सर्वेषामेव लक्षणम् । अतीतानागतानां वै वर्त्तिमानेन कीर्त्तितम् ॥ १,३५.१७४ ॥ इत्येष कीत्तितः सर्गो मनोः स्वायंभुवस्य ते । प्रतिसंधिं तु वक्ष्यामि तस्य चैवापरस्य च ॥ १,३५.१७५ ॥ मन्वन्तरं यथा पूर्वमृषिभिर्दैवतैः सह । अवश्यभाविनार्थेन यथावद्विनिवर्त्तते ॥ १,३५.१७६ ॥ एतस्मिन्नन्तरे पूर्वं त्रैलाक्यस्ये श्वरास्तु ये । सप्तर्षयश्च देवाश्च पितरो मनवस्तथा ॥ १,३५.१७७ ॥ मन्वन्तरस्य काले तु संपूर्णे साधिके तदा । क्षीणेऽधिकारे संविग्ना बुद्ध्वा पर्ययमात्मनः ॥ १,३५.१७८ ॥ महर्लोकाय ते सर्वे उन्मुखा दधिरे मतिम् । ततो मन्वन्तरे तस्मिन्प्रक्षीणे देवतास्तु ताः ॥ १,३५.१७९ ॥ संपूर्णेस्थितिकाले तु तिष्ठेदेकं कृतं युगम् । उत्पद्यन्ते भविष्यन्तो ये वै मन्वन्तरेश्वराः ॥ १,३५.१८० ॥ देवताः पितरश्चैव ऋषयो मनुरेव च । मन्वन्तरे तु संपूर्णे तद्वदन्ते कलौ युगे ॥ १,३५.१८१ ॥ संपद्यते कृतं तेषु कलिशिष्टेषु वै तदा । यथा कृतस्य संतानः कलिपूर्वः स्मृतो बुधैः ॥ १,३५.१८२ ॥ तथा मन्वन्तरान्तेषु आदिर्मन्वन्तरस्य च । क्षीणे मन्वन्तरे पूर्वे प्रवृत्ते चापरे पुनः ॥ १,३५.१८३ ॥ मुखे कृतयुगस्याथ तेषां शिष्टास्तु ये तदा । सप्तर्षयो मनुश्चैव कालापेक्षास्तु ये स्थिताः ॥ १,३५.१८४ ॥ मन्वन्तरप्रतीक्षास्ते क्षीयमाणास्तपस्विनः । मन्वन्तरोत्सवस्यार्थे संतत्यर्थे च सर्वदा ॥ १,३५.१८५ ॥ पूर्ववत्संप्रवर्त्तन्ते प्रवृत्ते वृष्टिसर्जने । द्वन्द्वेषु संप्रवृत्तेषु उत्पन्नास्वौषधीषु च ॥ १,३५.१८६ ॥ प्रजासु चानिकेतासु संस्थितासु क्वचित्क्वचित् । वार्त्तायां संप्रवृत्तायां धर्मे चैवोपसंस्थिते ॥ १,३५.१८७ ॥ निरानन्दे चापि लोके नष्टे स्थावरजङ्गमे । अग्रामनगरे चैव वर्णाश्रमविवर्जिते ॥ १,३५.१८८ ॥ पूर्वमन्वन्तरे शिष्टा ये भवन्तीह धार्मिकाः । सप्तर्षयो मनुश्चैव संतानार्थं व्यवस्थिताः ॥ १,३५.१८९ ॥ प्रजार्थं तपतां तेषां तपः परमदुश्चरम् । उत्पद्यन्ते हि पूर्वेषां निधनेष्विह पूर्ववत् ॥ १,३५.१९० ॥ देवासुराः पितृगणा ऋषयो मानुषास्तथा । सर्पा भूतपिशाचाश्च गन्धर्वा यक्षराक्षसाः ॥ १,३५.१९१ ॥ ततस्तेषां तु ये शिष्टाः शिष्टाचारान्प्रजक्षते । सप्तर्षयो मनुश्चव ह्यादौ मन्वन्तरस्य हि ॥ १,३५.१९२ ॥ प्रारभन्ते च कर्माणि मनुष्यो दैवतैः सह । ऋषीणां ब्रह्मचर्येण गत्वानृण्यं तु व तदा ॥ १,३५.१९३ ॥ पितॄणां प्रजाया चैव देवानामिज्यया तथा । शतंवर्षसहस्राणां धर्मे वर्णात्मके स्थिताः ॥ १,३५.१९४ ॥ त्रयी वार्त्ता दण्डनीतिर्धर्मान्वर्णाश्रमांस्तथा । स्थापयित्वाश्रमांश्चैव स्वर्गाय देधिरे मनः ॥ १,३५.१९५ ॥ पूर्वदेवेषु तेष्वेवं स्वर्गाया भिमुखेषु वै । पूर्वदेवास्ततस्ते वै स्थिता धर्मेण कृत्स्नशः ॥ १,३५.१९६ ॥ मन्वन्तरे पुरावृत्ते स्थानान्युत्सृज्य सर्वशः । मन्त्रैः सहोर्ध्वं गच्छन्ति महर्लोकमनामयम् ॥ १,३५.१९७ ॥ विनिवृत्ताधिकारास्ते मानसीं सिद्धिमास्थिताः । अवेक्षमाणा वशिनस्तिष्ठन्त्या भूतसंप्लवात् ॥ १,३५.१९८ ॥ ततस्तेषु व्यतीतेषु पूर्वदेवेषु वै तदा । शून्येषु देवस्थानेषु त्रैलोक्ये तेषु सर्वशः ॥ १,३५.१९९ ॥ उपस्थिता इहान्ये वै ये देवाः स्वर्गवासिनः । ततस्ते तपसा युक्ताः स्थानान्यापूरयन्ति च ॥ १,३५.२०० ॥ सत्येन ब्रह्मचर्येण श्रुतेन च समन्विताः । सप्तर्षीणां मनोश्चैव देवानां पितृभिः सह ॥ १,३५.२०१ ॥ निधनानीह पूर्वेषामादितां च भविष्यताम् । तेषां संतत्यविच्छेद इहामन्वन्तरक्षयात् ॥ १,३५.२०२ ॥ एवं पूर्वानुपूर्व्येण स्थितिस्तेषामवस्थिता । मन्वन्तरेषु सर्वेषु यावदाभूतसंप्लवम् ॥ १,३५.२०३ ॥ पूर्वमन्वन्तराणां तु प्रतिसंधानलक्षणम् । अतीतानागतानां वै प्रोक्तं स्वायंभुवेन तु ॥ १,३५.२०४ ॥ मन्वन्तरेष्वतीतेषु भविष्याणां तु साधनम् । एवं संतत्यविच्छेदो भवत्याभूतसंप्लवात् ॥ १,३५.२०५ ॥ मन्वन्तराणां परिवर्त्तनानि ह्येकान्ततस्तानि महर्गतानि । महाजनं चैव जनान्तपश्च चैकान्तगानि प्रभवन्ति सत्ये ॥ १,३५.२०६ ॥ तद्भाविनां तत्र तु दर्शनेन नानात्वदृष्टेन च प्रत्ययेन । स्त्ये स्थिता नित्यतया तु नित्यं प्राप्ते विकारे प्रतिसर्ग काले ॥ १,३५.२०७ ॥ मन्वन्तराणां परिवर्त्तनानि मुञ्चन्ति सत्यं तु ततोऽपरान्त । ततोऽभियोगा विषयप्रहाणाद्विशन्ति नारायणमेव देवम् ॥ १,३५.२०८ ॥ मन्वन्तराणां परिवर्त्तनेषु चिरप्रवृत्तेषु विधिस्वभावात् । क्षणं न वै तिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्तमानः ॥ १,३५.२०९ ॥ इत्यन्तराण्येवमृषिस्तुतानां धर्मात्मनां दिव्यदृशां मनूनाम् । वायुप्रणीतान्युपलभ्य दृश्याद्दिव्यौजसां व्याससमासयोगैः ॥ १,३५.२१० ॥ सर्वाणि राजर्षिसुरर्थिमन्ति ब्रह्मर्षिदेवोरगवन्ति चैव । सुरेशसप्तर्षिपितृप्रजेशैर्युक्तानि सम्यक्परिवर्त्तनानि ॥ १,३५.२११ ॥ उदारवंशाभिजन श्रुतीनां प्रकृष्टमेधाभिसमेधितानाम् । कीर्तिद्युतिख्यातिभिरर्चितानां पुण्यं हि विश्यापनमीश्वराणाम् ॥ १,३५.२१२ ॥ स्वर्गीयमेतत्परमं पवित्रं पुत्रीयमेतच्च परं रहस्यम् । जप्यं महापर्वसु चैतदग्र्यं दुःखापशान्तिप्रदमायुषीयम् ॥ १,३५.२१३ ॥ प्रजशदवर्षिमनुप्रधानां पुण्यां प्रसूतिं प्रथितामजस्य । ममापि विख्यापयतः समासात्सिद्धिं प्रजेशाः प्रदिशन्तु युक्ताः ॥ १,३५.२१४ ॥ इत्येतदन्तरं प्रोक्तं मनोः स्वायंभुवस्य च । विस्तरेणानुपूर्व्या च भूयः किं वर्णयाम्यहम् ॥ १,३५.२१५ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुष्गपादे वेदव्यसनाख्यानं स्वायंभुवमन्वन्तरवर्णनं च नाम पञ्चत्रिंशत्तमोऽध्यायः _____________________________________________________________ शांशपायन उवाच मन्वन्तराणि शेषाणि श्रोतुमिच्छाम्यनुक्रमात् । मन्वन्तराधिपांश्चैव शक्रदेवपुरोगमान् ॥ १,३६.१ ॥ सूत उवाच मन्वन्तराणि यानि स्युरतीतानागतानि ह । समासा द्विस्तराच्चैव ब्रुवतो मे निबोधत ॥ १,३६.२ ॥ स्वायंभुवो मनुः पूर्वं मनुः स्वारोचिषस्तथा । उत्तमस्तामसश्चैव रैवतश्चाक्षुषस्तथा ॥ १,३६.३ ॥ षडेते मनवोऽतीता वक्ष्याम्यष्टावनागतान् । सावर्णिश्चैव रौच्यश्च भौत्यो वैवस्वतस्तथा ॥ १,३६.४ ॥ वक्ष्याम्येतान्पुरस्तात्तु मनोर्वेवस्वतस्य च । मनवः पञ्च येऽतीता मानसांस्तान्निबोधत ॥ १,३६.५ ॥ मन्वन्तरं मया वोऽध्य क्रान्तं स्वायंभुवस्य ह । अत ऊर्ध्वं प्रवक्ष्यामि मनाः स्वारोचिषस्य ह ॥ १,३६.६ ॥ प्रजासर्गं समासेन द्वितीयस्य महात्मनः । आसन्वै तुषिता देवा मनोः स्वारोचिषेऽन्तरे ॥ १,३६.७ ॥ पारावताश्च विद्वांसो द्वावेव तु गणौ स्मृतौ । तुषितायां समुत्पन्नाः क्रतोः पुत्राः स्वरोचिषः ॥ १,३६.८ ॥ पारावताश्च वासिष्ठा द्वादश द्वौ गणौ स्मृतौ । छन्दजाश्च चतुर्विंशद्देवास्ते वै तदा स्मृताः ॥ १,३६.९ ॥ दिवस्पर्शोऽथ जामित्रो गोपदो भासुरस्तथा । अजश्च भगवाश्चैव द्रविणश्य महा बलः ॥ १,३६.१० ॥ आयश्चापि महाबाहुर्महौजाश्चापि वीर्यवान् । चिकित्वान्विश्रुतो यस्तु चांशो यश्चैव पठ्यते ॥ १,३६.११ ॥ ऋतश्चद्वादशस्तेषां तुषिताः परिकीर्त्तिताः । इत्येते क्रतुपुत्रास्तु तदासन्सोमपायिनः ॥ १,३६.१२ ॥ प्रचेताश्चैव यो देवो विश्वदेवस्तथैव च । समञ्जो विश्रुतो यस्तु ह्यजिह्मश्चारिमर्द्दनः ॥ १,३६.१३ ॥ आयुर्दानो महामानो दिव्यमानस्तथैव च । अजेयश्च महाभागो यवीयांश्च महाबलः ॥ १,३६.१४ ॥ होता यज्वा तथा ह्येते परिक्रान्ताः परावताः । इत्येता देवता ह्यासन्मनोः स्वारोचिषान्तरे ॥ १,३६.१५ ॥ सोमपास्तु तदा ह्येताश्चतुर्विशति देवताः । तेषामिन्द्रस्तदा ह्यासीद्विपश्चिल्लोकविश्रुतः ॥ १,३६.१६ ॥ ऊर्जा वसिष्ठपुत्रश्च स्तंबः काश्यप एव च । भार्गवश्च तधा प्राम ऋषभोंऽङ्गिरसस्तथा ॥ १,३६.१७ ॥ पौलस्त्यश्चैव दत्तोऽत्रिरात्रेयो निश्चलस्तथा । पौलहोऽथार्वरीवांश्च एते सप्तर्षयस्तथा ॥ १,३६.१८ ॥ चैत्रः किंपुरुष श्चैव कृतान्तो विभृतो रविः । बृहदुक्थो नवः सेतुः श्रुतश्चेति नव स्मृताः ॥ १,३६.१९ ॥ मनोः स्वारोचिषस्यैते पुत्रा वंशकराः प्रभो । पुराणे परिसंख्याता द्वितीयं वै तदन्तरम् ॥ १,३६.२० ॥ सप्तर्षयो मनुर्देवाः पितरश्च चतुष्टयम् । मूलं मन्वन्तरस्यैते तेषां चैवान्वयाः प्रजाः ॥ १,३६.२१ ॥ ऋषीणां देवताः पुत्राः पितरो देवसूनवः । ऋषयो देवपुत्राश्च इति शास्त्रे विनिश्चयः ॥ १,३६.२२ ॥ मनोः क्षत्रं विशश्चैव सप्तर्षिभ्यो द्विजा तयः । एतन्मन्वन्तरं प्रोक्तं समासाच्च न विस्तरात् ॥ १,३६.२३ ॥ स्वायंभुवे न विस्तारो ज्ञेयः स्वारोचिषस्य च । न शक्यो विस्तरस्तस्य वक्तुं वर्षशतैरपि ॥ १,३६.२४ ॥ पुनरुक्तबहुत्वात्तु प्रजानां वै कुलेकुले । तृतीये त्वथ पर्याये उत्तमस्यान्तरे मनोः ॥ १,३६.२५ ॥ पञ्च देवगणा प्रोक्तास्तान्वक्ष्यामि निबोधत । सुधामानश्च ये देवा ये चान्ये वशवर्त्तिनः ॥ १,३६.२६ ॥ प्रतर्दनाः शिवाः सत्यागणा द्वादशकाः स्मृताः । सत्यो धृतिर्दमो दान्तः क्षमः क्षामो ध्वनिः शुचिः ॥ १,३६.२७ ॥ इषोर्ज्जश्च तथा श्रेष्ठः सुपर्णो द्वादशस्तथा । इत्येते द्वादश प्रोक्ताः सुधामानस्तु नामभिः ॥ १,३६.२८ ॥ सहस्रधारो विश्वायुः समितारो वृहद्वसुः । विश्वधा विश्वकर्मा च मानसस्तु विराजसः ॥ १,३६.२९ ॥ ज्योतिश्चैव विभासश्च कीर्त्तिता वंशवर्तिनः । अवध्योऽवरतिर्देवो वसुर्धिष्ण्यो विभावसुः ॥ १,३६.३० ॥ वित्तः क्रतुः सुधर्मा च धृतधर्मा यशस्विजः । रथोर्मिः केतुमाञ्छ्चैव कीर्त्तितास्तु प्रतर्दनाः ॥ १,३६.३१ ॥ हंसस्वारौ वदान्यौ च प्रतर्दनयशस्करौ । सुदानो वसुदानश्च सुमञ्जसविषावुभौ ॥ १,३६.३२ ॥ यमो वह्निर्यतिश्चैव सुचित्रः सुतपास्तथा । शिवा ह्येते तु विज्ञेया यज्ञिया द्वादशापराः ॥ १,३६.३३ ॥ सत्यानामपि नामानि निबोधत यथातथम् । दिक्पतिर्वाक्पतिश्चैव विश्वः शंभुस्तथैव च ॥ १,३६.३४ ॥ स्वमृडीको दिविश्चैव वर्चोधामा बृहद्वपुः । अश्वश्चैव सदश्वश्च क्षेमानन्दौ तथैव च ॥ १,३६.३५ ॥ सत्या ह्येते परिक्रान्ता यज्ञिया द्वादशापराः । इत्येता देवता ह्यासन्नौत्तमस्यान्तरे मनोः ॥ १,३६.३६ ॥ तेषामिन्द्रस्तु देवानां सुशान्तिर्नाम विश्रुतः । पुत्रास्त्तवङ्गिरसस्ते वै उत्तमस्य प्रजापतेः ॥ १,३६.३७ ॥ वशिष्ठपुत्राः सप्तासन्वाशिष्ठा इति विश्रुताः । सप्तर्षयस्तु ते सर्व उत्तमस्यान्तरे मनोः ॥ १,३६.३८ ॥ आचश्च परशुश्चैव दिव्यो दिव्यौषधिर्नयः । देवाम्वुजश्चाप्रतिमौ महोत्साहो गजस्तथा ॥ १,३६.३९ ॥ विनीतश्च सुकेतुश्च सुमित्रः सुमतिः श्रुतिः । उत्तमस्य मनोः पुत्रास्त्रयोदश महात्मनः ॥ १,३६.४० ॥ एते क्षत्रप्रणेतारस्तृतीयं चैतदन्तरम् । औत्तमः परिसंख्यातः सर्गः स्वारोचिषेण तु ॥ १,३६.४१ ॥ विस्तरेणानुपूर्व्या च तामसस्य निबोधत । चतुर्थे त्वथ पर्याये तामसस्यातरे मनोः ॥ १,३६.४२ ॥ सत्याः सुरूपाः सुधियो हरयश्च गणाः स्मृताः । पुलस्त्यपुत्रास्ते देवास्तामसस्यान्तरे मनोः ॥ १,३६.४३ ॥ गणस्तु तेषां देवानामेकैकः पञ्चविंशकः । इन्द्रियाणां प्रतीयेत ऋषयः प्रतिजानते ॥ १,३६.४४ ॥ सप्रमाणास्तु शीर्षण्यं मनश्चैवाष्टमं तथा । इन्द्रियाणि तथा देवा मनोस्तस्यान्तरे स्मृताः ॥ १,३६.४५ ॥ तेषां बभूव देवानां शिबिरिन्द्रः प्रतापवान् । सप्तर्षयोंऽतरे ये च तान्निबोधत सत्तमाः ॥ १,३६.४६ ॥ काव्य आङ्गिरसश्चैव काश्यपः पृथुरेव च । अत्रेयस्त्वग्निरित्येव ज्योतिर्धामा च भार्गवः ॥ १,३६.४७ ॥ पौलहश्चरकश्चात्र वाशिष्ठः पीवरस्तथा । चैत्रस्तथैव पौलस्त्य ऋषयस्तामसेंऽतरे ॥ १,३६.४८ ॥ जानुजङ्घस्तथा शान्तिर्नरः ख्यातिः शुभस्तथा । प्रियभृत्यो परीक्षिच्च प्रस्थलोऽथ दृढेषुधिः ॥ १,३६.४९ ॥ कृशाश्वः कृतबन्धुश्च तामसस्य मनोः सुताः । पञ्चमेत्वथ पर्याये मनोः स्वारोचिषेंऽतरे ॥ १,३६.५० ॥ गुणास्तु ये समाख्याता देवानां तान्निबोधत । अमिताभा भूतरयो वैकुण्ठाः ससुमेधसः ॥ १,३६.५१ ॥ वरिष्ठाश्च शुभाः पुत्रा वसिष्ठस्य प्रजापतेः । चतुर्दश तु चत्वारो गणास्तेषां सुभास्वराः ॥ १,३६.५२ ॥ उग्रः प्रज्ञोऽग्निभावश्च प्रज्योतिश्चामृतस्तथा । सुमतिर्वा विरावश्च धामा नादः श्रवास्तथा ॥ १,३६.५३ ॥ वृत्तिराशी च वादश्च शबरश्च चतुर्दश । अमिताभाः स्मृता ह्येते देवाः स्वारोचिषेंऽतरे ॥ १,३६.५४ ॥ मतिश्च सुमतिश्चैव ऋतसत्यौ तथैधनः । अधृतिर्विधृतिश्चैव दमो नियम एव च ॥ १,३६.५५ ॥ व्रतो विष्णुः सहश्चैव द्युतिमान्सुश्रवास्तथा । इत्येतानीह नामानि आभूतयसां विदुः ॥ १,३६.५६ ॥ वृषो भेत्ता जयो भीमः शुचिर्दान्तो यशो दमः । नाथो विद्वानजेयश्च कृशो गौरो ध्रुवस्तथा ॥ १,३६.५७ ॥ कीर्त्तितास्तु विकुण्ठा वै सुमेधांस्तु निबोधत । मेधा मेधा तिथिश्चैव सत्यमेधास्तथैव च ॥ १,३६.५८ ॥ पृश्निमेधाल्पमेधाश्च भूयोमेधाश्च यः प्रभुः । दीप्तिमेधा यशोमेधा स्थिरमेधास्तथैव च ॥ १,३६.५९ ॥ सर्वमेधा सुमेधाश्च प्रतिमेधाश्च यः स्मृतः । मेधजा मेधहन्ता च कीर्त्तितास्ते सुमेधसः ॥ १,३६.६० ॥ विभुरिन्द्रस्तथा तेषामासीद्वि क्रान्तपौरुषः । पौलस्त्यो दवबाहुश्च सुधामा नाम काश्यपः ॥ १,३६.६१ ॥ हिरण्यरोमाङ्गिरसो वेदश्रीश्चैव भार्गवः । ऊर्ध्वबाहुश्च वाशिष्ठः पर्जन्यः पौलहस्तथा ॥ १,३६.६२ ॥ सत्यनेत्रस्तथात्रेय ऋषयो रैवतेंऽतरे । महावीर्यः सुसंभाव्यः सत्यको हरहा शुचिः ॥ १,३६.६३ ॥ बलबन्धुर्निरामित्रः कंबुः शृगो धृतव्रतः । रैवतस्य च पुत्रास्ते पञ्चमं वै तदन्तरम् ॥ १,३६.६४ ॥ स्वारोचिषश्चोत्तमोऽपि तामसो रैवतस्तथा । प्रियव्रतान्वया ह्येते चत्वारो मनवः स्मृताः ॥ १,३६.६५ ॥ षष्ठे खल्वपि पर्याये देवा ये चाक्षुषेंऽतरे । आद्याः प्रसूता भाव्यश्च पृथुकाश्च दिवौकसः ॥ १,३६.६६ ॥ महानुभावा लेखास्छ पञ्च देवगणाः स्मृताः । दिवौकसः सर्व एव प्रोच्यन्ते मातृनामभिः ॥ १,३६.६७ ॥ अत्रेः पुत्रस्य नप्तारो ह्यारण्यस्य प्रजापतेः । गणस्तु तेषां देवानामेकैको ह्यष्टकः स्मृतः ॥ १,३६.६८ ॥ अन्तरिक्षो वसुर्हव्यो ह्यतिथिश्च प्रियव्रतः । श्रोता मन्तानुमन्ता च त्वाद्या ह्येते प्रकीर्त्तिताः ॥ १,३६.६९ ॥ श्येनभद्रस्तथा चैव श्वेतचक्षुर्महायशाः । सुमनाश्च प्रचेताश्च वनेनः सुप्रचेत्सौ ॥ १,३६.७० ॥ मुनिश्चैव महासत्त्वः प्रसूताः परिकीर्त्तिताः । विजयः सुजयश्चैव मनस्योदौ तथैव च ॥ १,३६.७१ ॥ मतिः परिमतिश्चैव विचेताः प्रियनिश्चयः । भव्या ह्येते स्मृता देवाः पृथुकांश्च निबोधत ॥ १,३६.७२ ॥ ओजिष्ठः शकुनो देवो वानत्दृष्टस्तथैव च । सत्कृतः सत्यदृष्टिश्च जिगीषुर्विजयस्तथा ॥ १,३६.७३ ॥ अजितश्च महाभागः पृथुकास्ते दिवौकसः । लेशास्तथा प्रवक्ष्यामि नामतस्तान्निबोधत ॥ १,३६.७४ ॥ मनोजवः प्रघासश्च प्रचेताश्च महायशाः । ध्रुवो ध्रुवक्षितिश्चैव अत्युतश्चैव वीर्यवान् ॥ १,३६.७५ ॥ युवना बृहस्पतिश्चैव लेखाः संपरिकीर्त्तिताः । मनोजवो महावीर्यस्तेषामिन्द्रस्तदाभवत् ॥ १,३६.७६ ॥ उत्तमो भार्गवश्चैव हविष्मानङ्गिरःसुतः । सुधामा काश्यपश्चैव वशिष्ठो विरजास्तथा ॥ १,३६.७७ ॥ अतिनामा च पौलस्त्यः सहिष्णुः पौलहस्तथा । मधुरात्रेय इत्येते सप्त वै चाक्षुषेंऽतरे ॥ १,३६.७८ ॥ ऊरुः पुरुः शतद्युम्नस्तपस्वी सत्यवाक्कृतिः । अग्निष्टुदतिरात्रश्च सुद्युम्नशचेति ते नव ॥ १,३६.७९ ॥ अभिमन्युश्च दशमो नाड्वलेया मनोः सुताः । चाक्षुषस्य सुताः ह्येते षष्ठं चैव तदन्तरम् ॥ १,३६.८० ॥ वैवस्वतेन संख्यातस्तत्सर्गः सांप्रतेन तु । विस्तरेणानुपूर्व्या च चाक्षुषस्यान्तरे मनोः ॥ १,३६.८१ ॥ ऋषय ऊचुः चाक्षुषः कस्य दायादः संभूतः सक्य वान्वये । तस्यान्ववाये येऽप्यन्येतान्नो ब्रूहि यथातथम् ॥ १,३६.८२ ॥ सूत उवाच चाक्षुषस्य विसर्गं तु समासाच्छृणुत द्विजाः । यस्यान्ववाये संभूतः पृथुर्वैन्यः प्रतापवान् ॥ १,३६.८३ ॥ प्रजानां पतयश्चान्ये दक्षः प्राचेतसस्तथा । उत्तानपादं जग्राह पुत्रमत्रिप्रजापतिः ॥ १,३६.८४ ॥ दत्तकः स तु पुत्रोऽस्य राजा ह्यासीत्प्रजापतिः । स्वायंभुवेन मनुना दत्तोऽत्रेः कारणं प्रति ॥ १,३६.८५ ॥ मन्वन्तरमथासाद्य भविष्यच्चाक्षुषस्य ह । षष्ठं तदनु वक्ष्यामि उपोद्धातेन वै द्विजाः ॥ १,३६.८६ ॥ उत्तानपादाच्चतुरः सूनृतासूत भामिनी । धर्मस्य कन्या सुश्रोणी सूनृता नाम विश्रुता ॥ १,३६.८७ ॥ उत्पन्ना जापि धर्मेम ध्रुवस्य जननी शुभा । धर्मस्य पत्न्यां लक्ष्मयां वै उत्पन्ना सा शुचिस्मिता ॥ १,३६.८८ ॥ ध्रुवं च कीर्त्तिमन्तं च त्वायुष्मन्तं वसुं तथा । उत्तानपादोऽजनयत्कन्ये द्वे च शुचिस्मिते ॥ १,३६.८९ ॥ स्वरामनस्विनी चैव तयोः पुत्राः प्रकीर्त्तिताः । ध्रुवो वर्षसहस्राणि दश दिव्यानि वीर्यवान् ॥ १,३६.९० ॥ तपस्तेपे निराहारः प्रार्थयन्विपुलं यशः । त्रेतायुगे तु प्रथमे पौत्रः स्वायंभुवस्य तु ॥ १,३६.९१ ॥ आत्मानं धारयन्योगान्प्रार्थयन्सुमहद्यशः । तस्मै ब्रह्मा ददौ प्रीतो ज्योतिषां स्थानमुत्तमम् ॥ १,३६.९२ ॥ आभूतसंप्लवाद्दिव्यमस्तोदयविवार्जितम् । तस्यातिमात्रामृद्धिं च महिमानं निरीक्ष्य तु ॥ १,३६.९३ ॥ दैत्या सुराणामाचार्यः श्लोकमप्युशाना जगौ । अहोऽस्य तपसो वीर्यमहो श्रुतमहो व्रतम् ॥ १,३६.९४ ॥ कृत्वा यदेनमुपरि ध्रुवं सप्तर्षयः स्थिताः । द्रुवे त्रिदिवमासक्तमीश्वरः स दिवस्पतिः ॥ १,३६.९५ ॥ ध्रुवात्सृष्टिं च भव्यं च भूमिस्तौ सुषुवे नृपौ । स्वां छायामाह वै सृष्टिर्भवनारीति तां प्रभुः ॥ १,३६.९६ ॥ सत्याभिव्यहृतेस्तस्य सद्यः स्त्री साभवत्तदा । दिव्यसंहनना छाया दिव्याभरणभूषिता ॥ १,३६.९७ ॥ छायायां सृष्टिराधत्त पञ्च पुत्रानकल्मषान् । प्राजीनगर्भं वृषभं वृकञ्च वृकलं धृतिम् ॥ १,३६.९८ ॥ पत्नी प्राचीनगर्भस्य सुवर्चा सुषुवे नुपम् । नाम्नोदारधियं पुत्रमिन्द्रो यः पूर्वजन्मनि ॥ १,३६.९९ ॥ संवत्सरसहस्रान्ते सकृदाहारमाहरन् । एवं मन्वन्तरं युक्त इन्द्रत्वं प्राप्तवान्प्रभुः ॥ १,३६.१०० ॥ उदारधेः सुतं भद्राजनयत्सा दिवञ्जयम् । रिपुं रिपुञ्जयाज्जज्ञे वराङ्गी तु दिवञ्जयात् ॥ १,३६.१०१ ॥ रिपोराधत्त बृहती वक्षुषं सर्वतेजसम् । तस्य पुत्रो मनुर्विद्वान् ब्रह्मक्षत्त्रप्रवत्तकः । व्यजीजनत्पुष्करिणी वारुणी चाक्षुषं मनुम् ॥ १,३६.१०२ ॥ ऋषय ऊचुः प्रजापतेः सुता कस्माद्वारुणी प्रोच्यतेऽनघ । एतदाचक्ष्व तत्वेन कुशलो ह्यसि विस्तरे ॥ १,३६.१०३ ॥ सूत उवाच अरण्यस्योदकः पुत्रो वरुणत्वमुपागतः । तेन सा वारुणी ज्ञेया भ्रात्रा ख्यातिमुपागता ॥ १,३६.१०४ ॥ मनोरजायन्त दश नड्वलायां सुताः शुभाः । कन्यायां सुमहावीर्या विरजस्य प्रजापतेः ॥ १,३६.१०५ ॥ ऊरुः पुरुः शतद्युम्नस्तपस्वी सत्यवाक्कृतिः । अग्निष्टुदतिरात्रश्च सुद्युम्नश्चेति वै नव ॥ १,३६.१०६ ॥ अभिमन्युश्च दशमो नड्वलायां मनोः सुताः । ऊरोरजनयत्पुत्रान्षडाग्नेयी महाप्रभान् ॥ १,३६.१०७ ॥ अङ्गं सुमनसं ख्यातिङ्गयं शुक्रं व्रजाजिनौ । अङ्गात्सुनीथापत्यंवै वेनमेकं व्यजायत ॥ १,३६.१०८ ॥ तस्यापराधाद्वेनस्य प्रकोपस्तु महानभूत् । प्रजार्थमृषयो यस्यममन्थुर्दक्षिणां करम् ॥ १,३६.१०९ ॥ जनितस्तस्य पाणौ तु मथिते रूपवान्पृथुः । जनयित्वा सुतं तस्य पृथुं प्रथितपौरुषम् ॥ १,३६.११० ॥ अब्रु वंस्त्वेष वो राजा ऋषयो मुदिताः प्रजाः । स धन्वी कवची जज्ञे तेजसा निर्दहन्निव ॥ १,३६.१११ ॥ वृत्तीनामेष वो दाता भविष्यति नराधिपः । पृथुर्वैन्यस्तदा लोकान्ररक्ष क्षत्रपूर्वजः ॥ १,३६.११२ ॥ राजसूयाभिषिक्तानामाद्यस्स वसुधाधिपः । तस्य स्तवार्थमुत्पन्नौ निपुणौ सूतमागधौ ॥ १,३६.११३ ॥ तेनेयं गौर्महाराज्ञा दुग्धा सस्यानि धीमता । प्रजानां वृत्तिकामानां देवैश्चर्षिगणैः सह ॥ १,३६.११४ ॥ पितृभिर्दानवैश्चैव गन्धर्वैश्चाप्सरोगणैः । सर्पैः पुण्यजनैश्चैव पर्वतैर्वृक्षवीरुधैः ॥ १,३६.११५ ॥ तेषु तेषु तु पात्रेषु दुह्यमाना वसुंधरा । प्रादाद्यथेप्सि तं क्षीरं तेन प्राणानधारयन् ॥ १,३६.११६ ॥ शांशपायन उवाच विस्तरेण पृथोर्जन्म कीर्त्तयस्व महाव्रत । यथा महात्मना तेन पूर्वं दुग्धा वसुंधरा ॥ १,३६.११७ ॥ यथा देवैश्च नागैश्च यथा ब्रह्मर्षिभिः सह । यक्षै राक्षसगन्धर्वैरप्सरोभिर्यथा पुरा ॥ १,३६.११८ ॥ यथा यथा च वै सूत विधिना येन येन च । तेषां पात्रविशेषांश्च दोग्धारं क्षीरमेव च ॥ १,३६.११९ ॥ तथा वत्सविशेषांश्च त्वंनः प्रब्रूहि पृच्छताम् । यथा क्षीरविशेषांश्च सर्वानेवानुपूर्वशः ॥ १,३६.१२० ॥ यस्मिंश्च कारणे पाणिर्वनस्य मथितः पुरा । कुद्धैर्महर्षिभिः पूर्वैः कारणं ब्रूहि तद्धि नः ॥ १,३६.१२१ ॥ सूत उवाच कथयिष्यामि वो विप्राः पृथोर्वैन्यस्य संभवम् । एकाग्राः प्रयताश्चैव शुश्रूषध्वं द्विजोत्तमाः ॥ १,३६.१२२ ॥ नाशुद्धाय न पापाय नाशिष्यायाहिताय च । वर्त्तनीयमिदं ब्रह्म नाव्रताय कथञ्चन ॥ १,३६.१२३ ॥ धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च संमितम् । रहस्यमृषिभिः प्रोक्तं शृणुयाद्योऽनसूयकः ॥ १,३६.१२४ ॥ यश्चैवं श्रावयेन्मर्त्यः पृथोर्वैन्यस्य संभवम् । ब्राह्मणेभ्यो नमस्कृत्य न स शोचेत्कृताकृतम् ॥ १,३६.१२५ ॥ गोप्ता धर्मस्य राजासौ बभूवात्रिसमः प्रभुः । अत्रिवंशसमुत्पन्नो ह्यङ्गो नाम प्रजापतिः ॥ १,३६.१२६ ॥ तस्य पुत्रोऽभवद्वेनो नात्यर्थं धार्मिकस्तथा । जातो मृत्युसुतायां वै सुनीथायां प्रजापतिः ॥ १,३६.१२७ ॥ स मातामहदोषेण वेनः कालात्म जात्मजः । स धर्मं वृष्ठतः कृत्वा कामाल्लोकेष्वर्तत ॥ १,३६.१२८ ॥ स्थापनां स्थापयामास धर्मायेतां स पार्थिवः । वेदशास्त्राण्यतिक्रम्य सोऽधर्मे निरतोऽभवत् ॥ १,३६.१२९ ॥ निःस्वाध्यायवष्ट्कारे तस्मिन्राज्यं प्रशासति । न पिबन्ति तदा सोमं महायज्ञेषु देवताः ॥ १,३६.१३० ॥ न यष्टव्यं न दातव्यमिति तस्य प्रजापतेः । आसीत्प्रतिज्ञा क्रूरेयं विनाशे प्रत्युपस्थिते ॥ १,३६.१३१ ॥ अहमीज्यश्च पूज्यश्च यज्ञे देवद्विजातिभिः । मयि यज्ञा विधातव्या मयि होतव्यमित्यपि ॥ १,३६.१३२ ॥ तमतिक्रान्तमर्यादमवदानसुसंवृतम् । ऊचुर्महर्षयः सर्वे मरीचिप्रमुखास्तदा ॥ १,३६.१३३ ॥ वयं दीक्षां प्रवेक्ष्यामः संवत्सरशतं नृप । त्वं मा कार्षीरधर्मं वै नैष धर्मः सनातनः ॥ १,३६.१३४ ॥ निधने संप्रसूतस्त्वं प्रजापतिरसंशयः । पालयिष्ये प्रजाश्चेति पूर्वं ते समयः कृतः ॥ १,३६.१३५ ॥ तां स्तथा वादिनः सर्वान्ब्रह्मर्षीनब्रवीत्तदा । वेनः प्रहस्य दुर्बुद्धिर्विदितेन च कोविदः ॥ १,३६.१३६ ॥ स्रष्टा धर्मस्य कश्चान्यः श्रोतव्यं कस्य वा मया । वीर्यण तपसा सत्यैर्मया वा कः समो भुवि ॥ १,३६.१३७ ॥ मन्दात्मानो न नूनं मां यूयं जानीत तत्त्वतः । प्रभवं सर्वलोकानां धर्माणां च विशेषतः ॥ १,३६.१३८ ॥ इच्छन्दहेयं पृथिवीं प्लावयेयं जलेन वा । सृजेयं वा ग्रसेयं वा नात्र कार्या विचारणा ॥ १,३६.१३९ ॥ यदा न शक्यते स्तंभादानार्य्यभृशसंहितः । अनुनेतुं तदा वेनस्ततः क्रुद्धा महर्षयः ॥ १,३६.१४० ॥ निगृह्य तं च बाहुभ्यां विस्फुरन्तं महा बलम् । ततोऽस्य वामहस्तं ते ममन्थुर्भृशकोपिताः ॥ १,३६.१४१ ॥ तस्मात्प्रमथ्यमानाद्वै जज्ञ पूर्वमिति श्रुतिः । ह्रस्वोऽतिमात्रं पुरुषः कृष्णश्चापि बभूव ह ॥ १,३६.१४२ ॥ स भीतः प्राञ्जलिश्चैव तस्थिवानाकुलेन्द्रियः । तमार्त्तं विह्वलं दृष्ट्वा निषीदेत्यब्रुवन्किल ॥ १,३६.१४३ ॥ निषादवंशकर्तासौ बभूवानन्तविक्रमः । धीवरानसृजच्चापि वेनकल्मषसंभवान् ॥ १,३६.१४४ ॥ ये चान्ये विन्ध्यनिलयास्तंबुरास्तुबुराः खशाः । अधर्मरुचयश्चापि विद्धि तान्वेनकल्मषान् ॥ १,३६.१४५ ॥ पुनर्महर्षयस्तस्य पाणिं वेनस्य दक्षिणम् । अरणीमिव संरब्धा ममन्थुर्जातमन्यवः ॥ १,३६.१४६ ॥ पृथुस्तस्मात्समुत्पन्नः कराज्जलजसन्निभात् । पृथोः करतलाद्वापि यस्माज्जातः पृषुस्ततः ॥ १,३६.१४७ ॥ दीप्यमानश्च वपुषा साक्षादग्निरिव ज्वलन् । आद्यमाजगवं नाम धनुर्गृह्य महारवम् ॥ १,३६.१४८ ॥ शारांश्च बिभ्रद्रक्षार्थ कवचं च महाप्रभम् । तस्मिञ्जा तेऽथ भूतानि संप्रहृष्टानि सर्वशः ॥ १,३६.१४९ ॥ समापेतुर्महाराजं वेनश्च त्रिदिवं गतः । समुत्पन्नेन राजर्षिः सत्पुत्रेण महात्मना ॥ १,३६.१५० ॥ त्रातः स पुरुषव्याघ्रः पुन्नाम्नो नरकात्तदा । तं नद्यश्च समुद्राश्च रत्नान्यादाय सर्वशः ॥ १,३६.१५१ ॥ अभिषेकाय तोयं च सर्व एवोपत स्थिरे । पितामहश्च भगवानङ्गिरोभिः सहामरैः ॥ १,३६.१५२ ॥ स्थावराणि च भूतानि जङ्गमानि च सर्वशः । समागम्य तदा वैन्यमभ्य षिञ्चन्नराधिपम् ॥ १,३६.१५३ ॥ महता राजराजेन प्रजापालं महाद्युतिम् । सोऽभिषिक्तो महाराजो देवैरङ्गिरसः सुतैः ॥ १,३६.१५४ ॥ आदि राजो महाभागः पृथुर्वैन्यः प्रतापवान् । पित्रापरञ्जितास्तस्य प्रजास्तेनानुरञ्जिताः ॥ १,३६.१५५ ॥ ततो राजेति नामास्य ह्यनुरागादजायत । आपस्तस्तंभिरे तस्य समुद्रमभियास्यतः ॥ १,३६.१५६ ॥ पर्वताश्चावदीर्यन्त ध्वजभङ्गश्च नाभवत् । अकृष्टपच्या पृथिवी सिद्ध्यन्त्यन्नानि चिन्तया ॥ १,३६.१५७ ॥ सर्वकामदुघा गावः पृटके पुटके मधु । एतस्मिन्नेव काले तु यजतस्तस्य वै मखे ॥ १,३६.१५८ ॥ सोमे सुते समु त्पन्नः सूतः सौत्ये तदाहनि । तस्मिन्नेवं समुत्पन्ने पुनर्जज्ञेऽथ मागधः ॥ १,३६.१५९ ॥ सामगेषु च गायत्सु शुभाण्डे वैश्वदेविके । समागते समुत्पन्नस्तस्मान्मागध उच्यते ॥ १,३६.१६० ॥ ऐन्द्रेण हविषा चापि हविः पृक्तं बृहस्पतेः । जुहावेन्द्राय दैवेन ततः सूतो व्यजायत ॥ १,३६.१६१ ॥ प्रमादस्तत्र संजज्ञ प्रायश्चित्तं च कर्मसु । शिष्यहव्येन यत्पृक्तमभिभूतं गुरोर्हविः ॥ १,३६.१६२ ॥ अधरोत्तरचारेण जज्ञे तद्वर्णवैकृतम् । यच्च क्षत्रात्समभवद्ब्राह्मण्यां हीनयोनितः ॥ १,३६.१६३ ॥ सूतः पूर्वेण साधर्म्यात्तुल्यधर्मः प्रकीर्त्तितः । मध्यमो ह्येष सूतस्य धर्मः क्षेत्रोपजीवनम् ॥ १,३६.१६४ ॥ रथनागाश्वचरितं जघन्यं च चिकित्सितम् । पृथुस्तवार्थं तौ तत्र समाहूतौ महर्षिभिः ॥ १,३६.१६५ ॥ तावूचुर्मुनयः सर्वे स्तूयतामेष पार्थिवः । कर्मैतदनुरूपं च पात्रं चायं नराधिपः ॥ १,३६.१६६ ॥ तावूचतुस्ततः सर्वांस्तानृषीन्सूतमागधौ । आवां देवानृषींश्चैव प्रीणयावः स्वकर्मतः ॥ १,३६.१६७ ॥ न चास्य विद्वो वै कर्म न तथा लक्षणं यशः । स्तोत्रं येनास्य कुर्याव प्रोचुस्तेजस्विनो द्विजाः ॥ १,३६.१६८ ॥ एष कर्मरतो नित्यं सत्यवाक्संयतेन्द्रियः । ज्ञानशीलो वदान्यश्च संग्रामेष्वपरजितः ॥ १,३६.१६९ ॥ ऋषिभिस्तौ नियुक्तौ तु भविष्यैः स्तूयतामिति । यानि कर्माणि कृतवान् पृथुः पश्चान्महाबलः ॥ १,३६.१७० ॥ तानि गीतनिबद्धानि ह्यस्तुतां सूतमागधौ । ततस्तवान्ते सुप्रीतः पृथुः प्रादात्प्रजेश्वरः ॥ १,३६.१७१ ॥ अनूपदेशं सूताय मगधं मागधाय च । तदादि पृथिवीपालाः स्तूयन्ते सूतमागधैः ॥ १,३६.१७२ ॥ आशीर्वादैः प्रबोध्यन्ते सूतमागधबन्दिभिः । तं दृष्ट्वा परमप्रीताः प्रजा ऊचुर्महर्षयः ॥ १,३६.१७३ ॥ एष वृत्तिप्रदो वैन्यो भविष्यति नराधिपः । ततो वैन्यं महाभागं प्रजाः समभिदुद्रुवुः ॥ १,३६.१७४ ॥ त्वं नो वृत्तिं विधत्स्वेति महार्षिवच नात्तदा । सोऽभिद्रुतः प्रजाभिस्तु प्रजाहितचिकीर्षया ॥ १,३६.१७५ ॥ धनुर्गृहीत्वा बाणांश्च वसुधामाद्रवद्बली । ततो वैन्यभयत्रस्ता गौर्भूत्वा प्राद्रवन्मही ॥ १,३६.१७६ ॥ तां पृथुर्धनुरादाय द्रवन्तीमन्वधावत । सा लोकान्ब्रह्मलोकादीन्गत्वा वैन्यभयात्तदा ॥ १,३६.१७७ ॥ संददर्शाग्रतो वैन्यं कार्मुकोद्यतपाणिकम् । ज्वलद्भिर्निशितैर्बाणैर्दीप्ततेजसमच्युतम् ॥ १,३६.१७८ ॥ महायोगं महात्मानं दुर्द्धर्षममरैरपि । अलबन्ती तु सा त्राणं वैन्यमेवान्वपद्यत ॥ १,३६.१७९ ॥ कृताञ्जलिपुटा देवी पूज्या लोकैस्त्रिभिः सादा । उवाच वैनं नाधर्मः स्त्रीवधे परिपश्यति ॥ १,३६.१८० ॥ कथं धारयिता चासि प्रजा या वर्द्धिता मया । मयि लोकाः स्थिता राजन्मयेदं धार्यते जगत् ॥ १,३६.१८१ ॥ मत्कृते न विनश्येयुः प्रजाः पार्थिव वर्द्धिताः । स मां नर्हसि वै हन्तुं श्रेयस्त्वं च चिकीर्षसि ॥ १,३६.१८२ ॥ प्रजानां पृथिवीपाल शृणु चेदं वचो मम । उपायतः समारब्धा सर्वे सिद्ध्यन्त्युपक्रमाः ॥ १,३६.१८३ ॥ हत्वापि मां न शक्तस्त्वं प्रजानां पालने नृप । अन्तर्भूता भविष्यामि जहि कोपं महाद्युते ॥ १,३६.१८४ ॥ अवध्यश्च स्त्रियः प्राहुस्तिर्यग्योनिगतेष्वपि । सत्त्वषु पृथिवीपाल धम न त्यक्तुमर्हसि ॥ १,३६.१८५ ॥ एवं बहुविधं वाक्यं श्रुत्वा तस्या महामनाः । क्रोधं निगृह्य धर्मात्मा वसुधामिदमब्रवीत् ॥ १,३६.१८६ ॥ एकस्यार्थाय यो हन्यादात्मनो वा परस्य च । एकं प्राणी बहून्वापि कर्म तस्यास्ति पातकम् ॥ १,३६.१८७ ॥ यस्मिंस्तु निहते भद्रे जीवन्ते बहवः सुखम् । तस्मिन्हते नास्ति शुभे पातकं चोपपातकम् ॥ १,३६.१८८ ॥ सोऽहं प्रजानिमित्तं त्वां हनिष्यामि वसुन्धरे । यदि मे वचनं नाद्य करिष्यसि जगद्धितम् ॥ १,३६.१८९ ॥ त्वां निहत्याशु बाणेन मच्छासनपराङ्मुखीम् । आत्मानं प्रथयित्वेह प्रजा धारयिता स्वयम् ॥ १,३६.१९० ॥ सा त्वं वचनमास्थाय मम धर्मभृतां वरे । संजीवय प्रजा नित्यं शक्ता ह्यसि न संशयः ॥ १,३६.१९१ ॥ दुहितृत्वं च मे गच्छ चैवमेतमहं शरम् । नियच्छेयं त्वद्वधार्थमुद्यन्तं घोरदर्शनम् ॥ १,३६.१९२ ॥ प्रत्युवाच ततो वैन्यमेवमुक्ता सती मही । सर्वमेतदहं राजन्विधास्यामि न संशयः ॥ १,३६.१९३ ॥ वत्सं तु मम तं पश्य क्षरेयं येन वत्सला । समां च कुरु सर्वत्र मां त्वं धर्म्मभृतां वर । यथा विस्पन्दमानं मे क्षीरं सर्वत्र भावयेत् ॥ १,३६.१९४ ॥ सूत उवाच तत उत्सारयामास शिलाजालनि सर्वशः । धनुष्कोट्या तथा वैन्यस्तेन शैला विवर्द्धिताः ॥ १,३६.१९५ ॥ मन्वन्तरेष्वतीतेषु विषमासीद्वसुन्धरा । स्वभावेना भवत्तस्याः समानि विषमाणि च ॥ १,३६.१९६ ॥ न हि पूर्वनिसर्गे वै विषमे पृथिवीतले । प्रविभागः पुराणां वा ग्रामाणां वापि विद्यते ॥ १,३६.१९७ ॥ न सस्यानि न गोरक्षं न कृषिर्न वणिक्पथः । चाक्षुषस्यान्तरे पूर्वमासीदेतत्पुरा किल ॥ १,३६.१९८ ॥ वैवस्वतेंऽतरे तस्मिन्सर्व स्यैतस्य संभवः । समत्वं यत्र यत्रासीद्भूमेः कस्मिंश्चिदेव हि ॥ १,३६.१९९ ॥ तत्र तत्र प्रजास्ता वै निवसंति च सर्वशः । आहारः फल मूले तु प्रजानामभवत्किल ॥ १,३६.२०० ॥ कृच्छ्रेणैव तदा तासामित्येवमनुशुश्रुम । वैन्यात्प्रभृति लोकेऽस्मिन्सर्वस्यैतस्य संभवः ॥ १,३६.२०१ ॥ स कल्पयित्वा वत्सं तु चाक्षुषं मनुमीश्वरः । पृथुर्दुदोह सस्यानि स्वे तले पृथिवीं ततः ॥ १,३६.२०२ ॥ तेनान्नेन ततस्ता वै वर्त्तयन्ति शुभाः प्रजाः । ऋषिभिः श्रूयते चापि पुनर्दुग्धा वसुंधरा ॥ १,३६.२०३ ॥ वत्सः सोमस्त्वभूत्तेषां दोग्धा चापि बृहस्पतिः । छन्दासिपात्रमासीत्तु गायत्र्यादीनि सर्वशः ॥ १,३६.२०४ ॥ क्षीरमासीत्तदा तेषां तपो ब्रह्म च शाश्वतम् । पुनस्ततो देवगणैः पुरन्दरपुरोगमैः ॥ १,३६.२०५ ॥ सौवर्णं पात्रमादाय दुग्धा संश्रूयते मही । वत्सस्तु मघवानासीद्दोग्धा च सविता विभुः ॥ १,३६.२०६ ॥ क्षीरमूर्जं च मधु च वर्त्तन्ते तेन देवताः । पितृभिः श्रूयते चापि पुनर्दुग्धा वसुन्धरा ॥ १,३६.२०७ ॥ राजतं पात्रमादाय स्वधामाशु वितृप्तये । वैवस्वतो यमस्त्वासीत्तेषां वत्सः प्रतापवान् ॥ १,३६.२०८ ॥ अन्तकश्चाभवद्दोग्धा पितॄणां बलवान्प्रभुः । असुरैः श्रूयते चापि पुनर्दुग्धा वसुन्धरा ॥ १,३६.२०९ ॥ आयसं पात्रमादाय किल मायश्च सर्वशः । विरोचनस्तु प्राह्रादिर्वत्सस्तेषां महायशाः ॥ १,३६.२१० ॥ त्रत्विग्द्विमूर्द्धा दैत्यानां दोग्धाभूद्दितिनन्दनः । पायसा ते च मायाभिः सर्वे मायाविनोऽसुराः ॥ १,३६.२११ ॥ वर्त्तयन्ति महावीर्यास्तदेषां परमं बलम् । नागैस्तु श्रूयते दुग्धा वत्सं कृत्वा तु तक्षकम् ॥ १,३६.२१२ ॥ अलाब५ आत्रमादाय विषं क्षीरं तदा मही । तेषां वै वासुकिर्देग्धा काद्रवेयः प्रतापवान् ॥ १,३६.२१३ ॥ नागानां वै द्विजश्रेष्ठ सर्पाणां चैव सर्वशः । तेनैव वर्त्तयन्त्युग्रा महाकाया विषोल्बणाः ॥ १,३६.२१४ ॥ तदाहारास्तदाचारास्त द्वीर्यास्तदुपाश्रयाः । आमपात्रे पुनर्दुग्धा त्वन्तर्धानप्रियं मही ॥ १,३६.२१५ ॥ वत्सं वैश्रवणं कृत्वा यक्षैः पुण्यजनैस्तथा । दोग्धा रजतनाभस्तु पिता मणिधरस्य यः ॥ १,३६.२१६ ॥ यज्ञात्मजो महातेजा वशी च सुमहायशाः । तेन ते वर्त्तयन्तीति परमर्थतया च ह ॥ १,३६.२१७ ॥ राक्षसैश्च पिशाचैश्च पुनर्दुग्धा वसुन्धरा । ब्रह्मा ब्राह्यास्तु वै दोगधा तेषामासीत्कुबेरकः ॥ १,३६.२१८ ॥ वत्सः सुमाली बलवान्क्षीरं रुधिरमेव च । कपालपात्रे निर्दुग्धा ह्यन्तर्द्धनं च राक्षसैः ॥ १,३६.२१९ ॥ तेन क्षीरेण रक्षांसि वर्त्तयन्तीह सर्वशः । पद्मपात्रे पुनर्दुग्धा गन्धर्वैश्चाप्स रोगणैः ॥ १,३६.२२० ॥ वत्सं चित्ररथं कृत्वा शुचीन्गन्धामही तदा । तेषां वसुरुचिस्त्वासीद्दोग्धा पुत्रो मुनेः शुभः ॥ १,३६.२२१ ॥ गन्धर्वराजोऽतिबलो महात्मा सूर्यसन्निभः । शैलैश्च श्रूयते दुग्धा पुनर्देवी वसुन्धरा ॥ १,३६.२२२ ॥ तदौषधीर्मूर्तिमती रत्नानि विविधानि च । वत्सस्तु हिमवानासीद्दोग्धा मेरुर्महागिरिः ॥ १,३६.२२३ ॥ पात्रं तु शैलमेवासीत्तेन शैलाः प्रतिष्ठिताः । श्रूयते वृक्षवीरुद्भिः पुनर्दुग्धा वसुन्धरा ॥ १,३६.२२४ ॥ पालाशं पात्रमादाय छिन्नदग्धप्ररोहणम् । कामधुक्पुष्पितः शालः प्लक्षो वत्सो यशस्विनाम् ॥ १,३६.२२५ ॥ सर्वकामदुघा दोग्ध्री पृथिवी भूतभाविनी । सैव धात्री विधात्री च धारणी च वसुन्धरा ॥ १,३६.२२६ ॥ दुग्धा हितार्थं लोकानां पृथुनेति हि नः श्रुतम् । चराचरस्य लोकस्य प्रतिष्ठा योनिरेव च ॥ १,३६.२२७ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्ग पादे शेषमन्वन्तराश्यानं पृथिवीदोहनं च नाम षट्त्रिंशत्तमोऽध्यायः _____________________________________________________________ सूत उवाच आसीदिह समुद्रान्ता वसुधेति यथा श्रुतम् । वसु धत्ते यतस्तस्माद्वसुधा सेति गीयते ॥ १,३७.१ ॥ मधुकैटभयोः पूर्वं मेदसा संपरिप्लुता । तेनेयं मेदिनीत्युक्ता निरुक्त्या ब्रह्मवादिभिः ॥ १,३७.२ ॥ ततोऽभ्युपगमाद्राज्ञः पृथोर्वैन्यस्य धीमतः । दुहितृत्वमनुप्राप्ता पृथिवी पठ्यते ततः ॥ १,३७.३ ॥ पृथुना प्रविभागश्चधरायाः साधितः पुरा । तस्याकरवती राज्ञः पत्तनाकरमालिनी ॥ १,३७.४ ॥ चातुर्वर्णमयसमाकीर्णा रक्षिता तेन धीमता । एवंप्रभावोराजासीद्वैन्यः सद्विजसत्तमाः ॥ १,३७.५ ॥ नमस्यश्चैव पूच्यश्च भूतग्रामेण सर्वशः । ब्राह्मणैश्च महाभागैर्वेदवेदाङ्गपारगैः ॥ १,३७.६ ॥ पृथुरेव नमस्कार्यो ब्रह्मयोनिः सनातनः । पार्थिवैश्च महाभागैः प्रार्थयद्भिर्महद्यशः ॥ १,३७.७ ॥ आदिराजो नमस्कार्यः पृथुर्वैन्यः प्रतापवान् । योधैरपि च संग्रामे प्राप्तुकामैर्जयं युधि ॥ १,३७.८ ॥ आदिकर्त्तारणानां वै नमस्यः पृथुरेव हि । यो हि योद्धा रणं याति कीर्त्तयित्वा पृथुं नृपम् ॥ १,३७.९ ॥ स घोररूपात्संग्रामात्क्षेमी तरति कीर्त्तिमान् । वैश्यैरपि च राजर्षिर्वेश्यवृत्तिमिहास्थितैः ॥ १,३७.१० ॥ पृथुरेव नमस्कार्यो वृत्तिदानान्महायशाः । एते वत्सविशेषाश्च दोग्धारः क्षीरमेव च ॥ १,३७.११ ॥ पात्राणि च मयोक्तानि सर्वाण्येव यथाक्रमम् । ब्रह्मणा प्रथमं दुग्धा पुरा पृथ्वी महात्मना ॥ १,३७.१२ ॥ वायुं कृत्वा तथा वत्सं बीजानि वसुधातले । ततः स्वायंभुवे पूर्वं तदा मन्वन्तरे पुनः ॥ १,३७.१३ ॥ वत्सं स्वायंभुवं कृत्वा सर्वसस्यानि चैव हि । ततः स्वारोचिषे वापि प्राप्ते मन्वन्तरेऽधुना ॥ १,३७.१४ ॥ वत्सं स्वारोचिषं कृत्वा दुग्धा सस्यानि मेदिनी । उत्तमेन तु तेनापि दुग्धा देवानु जेन तु ॥ १,३७.१५ ॥ मनुं कृत्वोत्तमं वत्सं सर्वसस्यानि धीमता । पुनश्च पञ्चमे पृथ्वी तामसस्यान्तरे मनोः ॥ १,३७.१६ ॥ दुग्धेयं तामसं वत्सं कृत्वा वै बलबन्धुना । चारिष्टवस्य वै षष्ठे संप्राप्ते चान्तरे मनोः ॥ १,३७.१७ ॥ दुग्धा मही पुराणेन वत्सं चारिष्टवं प्रति । चाक्षुषे चापि संप्राप्ते तदा मन्वन्तरे पुनः ॥ १,३७.१८ ॥ दुग्धा मही पुराणेन वत्सं कृत्वा तु चाक्षुषम् । चाक्षुषस्यान्तरेऽतीते प्राप्ते वैवस्वते पुनः ॥ १,३७.१९ ॥ वैन्येनेयं पुरा दुग्धा यथा ते कथितं मया । एतैर्दुग्धा पुरा पृथ्वी व्यतीतेष्वन्तरेषु वै ॥ १,३७.२० ॥ देवादिभिर्मनुष्यैश्च ततो भूतादिभिश्च ह । एवं सर्वेषु विज्ञेया अतीतानागतेष्विह ॥ १,३७.२१ ॥ देवा मन्वन्तरे स्वस्थाः पृथोस्तु शृणुत प्रजाः । पृथोस्तु पुत्रौ विक्रान्तौ जज्ञातेऽन्तर्द्धिपाषनौ ॥ १,३७.२२ ॥ शिखण्डिनी हविर्धानमन्तर्द्धानाव्द्यजायत । हविर्धानात्षडाग्नेयी धिषणाजनयत्सुतान् ॥ १,३७.२३ ॥ प्राचीनबर्हिषं शुक्लं गयं कृष्णं प्रजाचिनौ । प्राचीनबर्हिर्भगवान्महानासीत्प्रजापतिः ॥ १,३७.२४ ॥ बलश्रुततपोवीर्यैः पृथिव्यामेकराडसौ । प्राचीनाग्राः कुशास्तस्य तस्मात्प्राचीनबर्ह्यसौ ॥ १,३७.२५ ॥ समुद्रतनयायां तु कृतदारः स वै प्रभुः । महतस्तपसः पारे सवर्णायां प्रजापतिः ॥ १,३७.२६ ॥ सवर्णाधत्त सामुद्री दश प्राचीनबर्हिषः । सर्वान्प्रचेतसो नाम धनुर्वेदस्य पारगान् ॥ १,३७.२७ ॥ अपृथग्धर्मचरणास्तेऽतप्यन्त महात्तपः । दशवर्ष सहस्राणि समुद्रसलिलेशयाः ॥ १,३७.२८ ॥ तपश्चतेषु पृथिवीं तप्यत्स्वथ महीरुहाः । अरक्ष्यमाणामावब्रुर्बभूवाथ प्रजाक्षयः ॥ १,३७.२९ ॥ प्रत्याहृते तदा तस्मिञ्चाक्षुषस्यान्तरे मनोः । नाशकन्मारुतो वातुं वृत्तं खमभवद्द्रुमैः ॥ १,३७.३० ॥ दशवर्षसहस्राणि न शेकुश्चेष्टितुं प्रजाः । तदुपश्रुत्य तपसा सर्वे युक्ताः प्रचेतसः ॥ १,३७.३१ ॥ मुखेभ्यो वायुमग्निं च ससृजुर्जातमन्यवः । उन्मूलानथ वृक्षांस्तान्कृत्वा वायुरशोषयत् ॥ १,३७.३२ ॥ तानग्निरदहद्धोर एवमासीद्दुमक्षयः । द्रुमक्षयमथो बुद्ध्वा किञ्चिच्छिष्टेषु शाखिषु ॥ १,३७.३३ ॥ उपगम्याब्रवी देतान्राजा सोमः प्रचेतसः । दृष्ट्वा प्रयोजनं सत्यं लोकसंतानकारणात् ॥ १,३७.३४ ॥ कोपं त्यजत राजानः सर्वे प्राचीनबर्हिषः । वृक्षाः क्षित्यां जनिष्यन्ति शाम्यतामग्निमारुतौ ॥ १,३७.३५ ॥ रत्नभूता च कन्येयं वृक्षाणां वरवर्णिनीः । भविष्यज्जनता ह्येषा धृता गर्भेण वै मया ॥ १,३७.३६ ॥ मारिषा नाम नाम्नैषा वृक्षैरेव विनिर्मिता । भार्या भवतु वो ह्येषा सोमगर्भा विवर्द्धिता ॥ १,३७.३७ ॥ युष्माकं तेजसार्द्धेन मम चार्धेन तेजसा । अस्यामुत्पत्स्यते विद्वान्दक्षो नाम प्रजापतिः ॥ १,३७.३८ ॥ स इमां दग्धभूयिष्ठां युष्मत्तेजोमयेन वै । अग्निनाग्निसमो भूयः प्रजाः संवर्द्धयिष्यति ॥ १,३७.३९ ॥ ततः सोमस्य वचनाज्जगृहुस्ते प्रचेतसः । संत्दृत्य कोपं वृक्षेभ्यः पत्नीं धर्मेण मारिषाम् ॥ १,३७.४० ॥ मारिषायां ततस्ते वै मनसा गर्भमादधुः । दशभ्यस्तु प्रचेतोभ्यो मारिषायां प्रजापतिः ॥ १,३७.४१ ॥ दक्षो जज्ञे महातेजाः सोमस्यांशेन वीर्यवान् । असृजन्मनसा त्वादौ प्रजा दक्षोऽथ मैथुनात् ॥ १,३७.४२ ॥ अचरांश्च चरांश्चैव द्विपदोऽथ चतुष्पदः । विसृज्य मनसा दक्षः पश्चादसृजत स्त्रियः ॥ १,३७.४३ ॥ ददौ स दश धर्माय कश्यपाय त्रयां दश । कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे ॥ १,३७.४४ ॥ एभ्यो दत्त्वा ततोऽन्या वै चतस्रोऽरिष्टनेमिने । द्वे चैव बहुपुत्राय द्वे चैवाङ्गिरसे तथा ॥ १,३७.४५ ॥ कन्यामेकां कृशाश्वाय तेभ्योऽपत्यं बभूव ह । अन्तरं चाक्षुषस्याथ मनोः षष्ठं तु गीयते ॥ १,३७.४६ ॥ मनोर्वैवस्वतस्यापि सप्तमस्य प्रजापतेः । वसुदेवाः खगा गावो नागा दितिजदानवाः ॥ १,३७.४७ ॥ गन्धर्वाप्सरसश्चैव जज्ञिरेऽन्याश्च जातयः । ततः प्रभृति लोकेऽस्मिन्प्रजा मैथुनसंभवाः । संकल्पाद्दर्शनात्स्पर्शात्पूर्वासां सृष्टिरुच्यते ॥ १,३७.४८ ॥ ऋषिरुवाच देवानां दानवानां च देवर्षिणां च ते शुभः । संभवः कथितः पूर्वं दक्षस्य च महात्मनः ॥ १,३७.४९ ॥ प्राणात्प्रजापतेर्जन्म दक्षस्य कथितं त्वया । कथं प्राचे तस्त्वं च पुनर्लेभे महातपाः ॥ १,३७.५० ॥ एतं नः संशयं सूत व्याख्यातुं त्वमिहार्हसि । दौहित्रश्चैव सोमस्य कथं श्र्वशुरतां गतः ॥ १,३७.५१ ॥ सूत उवाच उत्पत्तिश्च निरोधश्च नित्यं भूतेषु सत्तमाः । ऋषयोऽत्र न सुह्यन्ति विद्यावन्तश्च ये जनाः ॥ १,३७.५२ ॥ युगे युगे भवन्त्येते सर्वे दक्षादयो द्विजाः । पुनश्चैव निरुध्यन्ते विद्वांस्तत्र न मुह्यति ॥ १,३७.५३ ॥ ज्यैष्ठ्यकानिष्ठ्यमप्येषां पूर्वमासीद्द्विजोत्तमाः । तप एव गरीयोऽभूत्प्रभावश्चैव कारणम् ॥ १,३७.५४ ॥ इमां विसृष्टिं यो वेद चाक्षुषस्य चराचरम् । प्रजावानायुषस्तीर्णः स्वर्गलोके महीयते ॥ १,३७.५५ ॥ एवं सर्गः समाख्यातश्चाक्षुषस्य समासतः । इत्येते षट्निसर्गाश्च क्रान्ता मन्वन्तरात्मकाः ॥ १,३७.५६ ॥ स्वायंभुवाद्याः संक्षेपाच्चाशुषान्ता यथाक्रमम् । एते सर्गा यथा प्राज्ञैः प्रोक्ता ये द्विजसत्तमाः ॥ १,३७.५७ ॥ वैवस्वतनिसर्गेण तेषां ज्ञेयस्तु विस्तरः । अन्यूनानतिरिक्तास्ते सर्वे सर्गा विवस्वतः ॥ १,३७.५८ ॥ आरोग्यायुः प्रमाणेभ्यो धर्मतः कामतोर्ऽथतः । एतानेव गुणानेति यः पठन्ननसूयकः ॥ १,३७.५९ ॥ वैवस्वतस्य वक्ष्यामि सांप्रतस्य महात्मनः । समासव्यासतः सर्गं ब्रुवतो मे निबोधत ॥ १,३७.६० ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे चाक्षुषसर्गवर्णनं नाम सप्तत्रिंशत्तमोऽध्यायः _____________________________________________________________ सूत उवाच सप्तम त्वथ पर्याये मनोर्वैवस्वतस्य ह । मारीचात्कश्यपाद्देवा जज्ञिरे परमर्षयः ॥ १,३८.१ ॥ आदित्या वसवी रुद्राः साध्या विश्वे मरुद्गणाः । भृगवोंऽगिरसश्चैव तेऽष्ठौ देवगणाः स्मृताः ॥ १,३८.२ ॥ आदित्या मरुतो रुद्रा विज्ञेयाः कश्यपात्मजाः । साध्याश्य वसवो विश्वे धर्मपुत्रास्त्रयो गणाः ॥ १,३८.३ ॥ भृगोस्तु भृगवो देवा ह्यङ्गिरसोंऽगिरः सुताः । वैवस्वतेंऽतरे ह्यस्मिन्नित्ये ते छन्दजा मताः ॥ १,३८.४ ॥ एतेऽपि च गमिष्यन्ति महान्तं कालपर्ययात् । एवं सर्गस्तु मारीचो विज्ञेयः सांप्रतः शुभः ॥ १,३८.५ ॥ तेजस्वी सांप्रतस्तेषामिन्द्रो नाम्ना महाबलः । अतीतानागता ये च वर्त्तन्ते सांप्रतं च ये ॥ १,३८.६ ॥ सर्वे मन्वन्तरेद्रास्ते विज्ञेयास्तुल्यलक्षणाः । भूतभव्यभवन्नाथाः सहस्राक्षाः पुरन्दराः ॥ १,३८.७ ॥ सघवन्तश्चते सर्वे शृङ्गिणो वज्रपाणयः । सर्वैः क्रतुशतेनेष्टं पृथक्छतगुणेन तु ॥ १,३८.८ ॥ त्रैलोक्ये यानि सत्त्वानि गतिमन्ति ध्रुवाणि च । अभिभूयावतिष्ठन्ति धर्माद्यैः कारणैरपि ॥ १,३८.९ ॥ तेजसा तपसा बुद्ध्या बलश्रुतपराक्रमैः । भूतभव्यभवन्नाथा यथा ते प्रभविष्णवः ॥ १,३८.१० ॥ एतत्सर्वं प्रवक्ष्यामि ब्रुवतो मे निबोधत । भूतभव्यभवद्ध्येत त्समृतं लोकत्रयं द्विजैः ॥ १,३८.११ ॥ भूर्लोकोऽयं स्मृतो भूतमन्तरिक्षं भवत्स्मृतम् । भव्यं स्मृतं दिवं ह्येतत्तेषां वक्ष्यामि साधनम् ॥ १,३८.१२ ॥ ध्यायता लोकनामानि ब्रह्मणाग्रे विभाषितम् । भूरिति व्याहृतं पूर्वं भूर्लोकोऽयमभूत्तदा ॥ १,३८.१३ ॥ भू सत्तायां स्मृतो धातुस्तथासौ लोकदर्शने । भूतत्वाद्दर्शनाच्चैव भूर्लोकोऽयमभूत्ततः ॥ १,३८.१४ ॥ अतोऽयं प्रथमो लोको भूतत्वाद्भूर्द्वजैः स्मृतः । भूतेऽस्मिन्भवदित्युक्तं द्वितीयं ब्रह्मणा पुनः ॥ १,३८.१५ ॥ भवदित्यत्पद्यमाने काले शब्दोऽयमुच्यते । भवनात्तु भुवल्लोको निरुत्तया हि निरुच्यते ॥ १,३८.१६ ॥ अन्तरिक्षं भवत्तस्माद्द्वितीयो लोक उच्यते । उत्पन्ने तु तथा लोके द्वितीये ब्रह्मणा पुनः ॥ १,३८.१७ ॥ भव्येति व्याहृतं पश्चाद्भव्यो लोकस्ततोऽभवत् । अनागते भव्य इत शब्द एष विभाव्यते ॥ १,३८.१८ ॥ तस्माद्भव्यो ह्यसौ लोको नामतस्त्रिदिवं स्मृतम् । भूरितीयं स्मृता भूमिरन्तरिक्षं भुवः स्मृतम् ॥ १,३८.१९ ॥ दिवं स्मृतं तथा भव्यं त्रलोक्यस्यैष निर्णयः । त्रैलोक्ययुक्तैर्व्याहारैस्तिस्रो व्याहृतयोऽभवन् ॥ १,३८.२० ॥ नाथ इत्येष धातुर्वै धातुज्ञैः पालने स्मृतः । यस्माद्भूतस्य लोकस्य भव्यस्य भवतस्तथा ॥ १,३८.२१ ॥ लोकत्रयस्य नाथास्ते तस्मादिन्द्राद्विजैः स्मृताः । प्रधानभूता देवेन्द्रा गुणभूतास्तथैव च ॥ १,३८.२२ ॥ मन्वन्तरेषु ये देवा यज्ञभाजो भवन्ति हि । यज्ञगन्धर्वरक्षांसि पिशाचो रगमानुषाः ॥ १,३८.२३ ॥ महिमानः स्मृता ह्येते देवेन्द्राणां तु सर्वशः । देवेन्द्रा गुरवो नाथा राजानः पितरो हि ते ॥ १,३८.२४ ॥ रक्षन्तीमाः प्रजा ह्येते धर्मेणेह सुरोत्तमाः । इत्येतल्लक्षणं प्रोक्तं देवेन्द्राणां समासतः ॥ १,३८.२५ ॥ सप्तर्षीन्संप्रवक्ष्यामि सांप्रतं ये दिवं श्रिताः । गाधिजः कौशिको धीमान्विश्वामित्रो महातपाः ॥ १,३८.२६ ॥ भार्गवो जमदग्निश्च ह्यौर्वपुत्रः प्रतापवान् । बृहस्पतिसुतश्चापि भरद्वाजो महा यशाः ॥ १,३८.२७ ॥ औतथ्यो गौतमो विद्वाञ्शरद्वान्नाम धार्मिकः । स्वायंभुवोऽत्रिर्भगवान्ब्रह्मकोशः सपञ्चमः ॥ १,३८.२८ ॥ षष्ठो वसिष्ठपुत्रस्तु वसुमांल्लोकविश्रुतः । वत्सरः काश्यपश्यैव सप्तैते साधुसंमताः ॥ १,३८.२९ ॥ एते सप्तर्षयश्योक्ता वर्त्तन्ते सांप्रतेंऽतरे । इक्ष्वाकुश्च नृगश्चैव धृष्टः शर्यातिरेब च ॥ १,३८.३० ॥ नरिष्यन्तश्चविख्यातो नाभागो दिष्ट एव च । करूषश्च पृषध्रश्च पांशुश्चनवमः स्मृतः ॥ १,३८.३१ ॥ मनोर्वैवस्वतस्यैते नव पुत्राः सुधार्मिकाः । कीर्तिता वै तथा ह्येते सप्तमं चैतदन्तरम् ॥ १,३८.३२ ॥ इत्येष ह मया पादो द्वितीयः कथितोद्विजाः । विस्तरेणानुपूर्व्या च भूयः किं कथयाम्यहम् ॥ १,३८.३३ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे मन्वन्तरवर्णनं नामाष्टात्रिंशत्तमोऽध्यायः समाप्तोऽयं ब्रह्माण्डमहापुराणपूर्वभागः श्रीगणेशाय नमः अथ ब्रह्माण्डमहापुराणमध्यभागप्रारम्भः । शांशपायन उवाच पादः शेक्तो द्वितीयस्तु अनुषङ्गेन नस्त्वया । तृतीयं विस्तरात्पादं सोपोद्धातं प्रवर्त्तय ॥ २,१.१ ॥ सूत उवाच कीर्त्तयिष्ये तृतीयं वः सोपोद्धातं सविस्तरम् । पादं समुच्चयाद्विप्रा गदतो मे निबोधत ॥ २,१.२ ॥ मनोर्वैवस्वतस्येमं सांप्रतं तु महात्मनः । विस्तरेणानुपूर्व्या च निसर्गं शृणुत द्विजाः ॥ २,१.३ ॥ चतुर्युगैकस प्तत्या संख्यातं पूर्वमेव तु । मह देवगणैश्चैव ऋषिभिर्दानवैस्सह ॥ २,१.४ ॥ पितृगन्धर्वयक्षैश्च रक्षोभूतमहोरगैः । मानुषैः पशुभिश्चैव पक्षिभिः स्थावरैः सह ॥ २,१.५ ॥ मन्वादिकं भविष्यान्तमाख्यानैर्बहुभिर्युतम् । वक्ष्ये वैवस्वतं सर्गं नमस्कृत्य विवस्वते ॥ २,१.६ ॥ आद्ये मन्वन्तरेऽतीताः सर्गप्रावर्त्तकास्तु ये । स्वायंभुवेंऽतरे पूर्वं सप्तासन्ये महर्षयः ॥ २,१.७ ॥ चाक्षुषस्यान्तरेऽतीते प्राप्ते वैवस्वते पुनः । दक्षस्य च ऋषीणां च भृग्वादीनां महौजसाम् ॥ २,१.८ ॥ शापान्महेश्वरस्यासीत्प्रादुर्भावो महात्मनाम् । भूयः सप्तर्षयस्त्वेवमुत्पन्नाः सप्त मानसाः ॥ २,१.९ ॥ पुत्रत्वे कल्पिताश्चैव स्वयमेव स्वयंभुवा । प्रजासंतानकृद्भिस्तैरुत्पदद्भिर्महात्मभिः ॥ २,१.१० ॥ पुनः प्रवर्त्तितः सर्गो यथापूर्वं यथाक्रमम् । तेषां प्रसूतिं वक्ष्यामि विशुद्धज्ञानकर्मणाम् ॥ २,१.११ ॥ समासव्यासयोगाभ्यां यथावदनुपूर्वशः । येषामन्वयसंभूतैलरेकोऽयं सचराचरः । पुनरापूरितः सर्वो ग्रहनक्षत्रमण्डितः ॥ २,१.१२ ॥ ऋषय ऊचुः कथं सप्तर्षयः पूर्वमुत्पन्नाः सप्त मनसाः । पुत्रत्वे कल्पिताश्चैव तन्नो निगद सत्तम ॥ २,१.१३ ॥ सूत उवाच पूर्वं सप्तर्षयः प्रोक्ता ये वै स्वायंभुवेंऽतरे । मनोरन्तरमासाद्य पुनर्वैवस्वतं किल ॥ २,१.१४ ॥ भवाभिशाप संविद्धा अप्राप्तास्ते तदा तपः । उपपन्ना जने लोके सकृदागमनास्तु त ॥ २,१.१५ ॥ ऊचुः सर्वे सदान्योन्यं जनलोके महार्षयः । एत एव महाभागा वरुणे विततेऽध्वरे ॥ २,१.१६ ॥ सर्वे वयं प्रसूयामश्चाक्षुषस्यान्तरे मनोः । पितामहात्मजाः सर्वे तन्नः श्रेयो भविष्यति ॥ २,१.१७ ॥ एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः । स्वायंभुवेन्तरे प्राप्ताः सृष्ट्यर्थं ते भवेन तु ॥ २,१.१८ ॥ जज्ञिरे ह पुनस्ते वै जनलोकादिहागताः । देवस्य महतो यज्ञे वारुणीं बिभ्रतस्तनुम् ॥ २,१.१९ ॥ ब्रह्मणो जुह्वतः शुक्रमग्रौ पूर्वं प्रजेप्सया । ऋषयो जज्ञिरे दीर्घे द्वितीयमिति नः श्रुतम् ॥ २,१.२० ॥ भृग्वङ्गिरा मरीचिश्च पुलस्त्यः पुलहः क्रतुः । अत्रिश्चैव वसिष्ठश्च ह्यष्टौ ते ब्रह्मणः सुताः ॥ २,१.२१ ॥ तथास्य वितते यज्ञे देवाः सर्वे समागताः । यज्ञाङ्गानि च सर्वाणि वषठ्कारश्च मूर्त्तिमान् ॥ २,१.२२ ॥ मूर्त्तिमन्ति च सामानि यजूंषि च सहस्रशः । ऋग्वेदश्चाभवत्तत्र यश्च क्रमविभूषितः ॥ २,१.२३ ॥ यजुर्वेदश्च वृत्ताढ्य ओङ्कारवदनोज्ज्वलः । स्थितो यज्ञार्थसंपृक्तः सूक्तब्राह्मणमन्त्रवान् ॥ २,१.२४ ॥ सामवेदश्च वृत्ताढ्यः सर्वगेयपुरः सरः । विश्वावस्वादिभिः सार्द्धं गन्धर्वैः संभृतोऽभवत् ॥ २,१.२५ ॥ ब्रह्मवेदस्तथा घोरैः कृत्वा विधिभिरन्वितः । प्रत्यङ्गिरसयोगैश्च द्विशरीरशिरोऽभवत् ॥ २,१.२६ ॥ लक्षणा विस्तराः स्तोभा निरुक्तस्वर भक्तयः । आश्रयस्तु वषट्कारो निग्रहप्रग्रहावपि ॥ २,१.२७ ॥ दीप्तिमूर्त्तिरिलादेवी दिशश्चसदिगीश्वराः । देवकन्याश्च पत्न्यश्च तथा मातर एव च ॥ २,१.२८ ॥ आययुः सर्व एवैते देवस्य यजतो मखे । मूर्तिमन्तः सुरूपाख्या वरुणस्य वपुर्भृतः ॥ २,१.२९ ॥ स्वयंभु वस्तु ता दृष्ट्वा रेतः समपतद्भुवि । ब्रह्मर्षिभाविनोर्ऽथस्य विधानाच्च न संशयः ॥ २,१.३० ॥ धृत्वा जुहाव हस्ताभ्यां स्रुवेण परिगृह्य च । आस्रवज्जुहुयां चक्रे मन्त्रवच्च पितामहः ॥ २,१.३१ ॥ ततः स जनयामास भूतग्रामं प्रजापतिः । तस्यार्वाक्तेजसश्चैव जज्ञे लोकेषु तैजसम् ॥ २,१.३२ ॥ तमसा भावि याप्यत्वं यथा सत्त्वं तथा रजः । आज्यस्थाल्यामुपादाय स्वशुक्रं हुतवांश्च ह ॥ २,१.३३ ॥ शुक्रे हु तेऽथ तस्मिंस्तु प्रादुर्भूता महर्षयः । ज्वलन्तो वपुषा युक्ताः सप्रभावैः स्वकैर्गुणैः ॥ २,१.३४ ॥ हुते चाग्नौ सकृच्छुक्रे ज्वालाया निसृतः कविः । हिरण्यगर्भस्तं दृष्ट्वा ज्वालां भित्त्वा विनिर्गतम् ॥ २,१.३५ ॥ भृगुस्त्वमिति चोवाच यस्मात्तस्मात्स वै भृगुः । महादेवस्तथोद्भूतो दृष्ट्वा ब्रह्माणमब्रवीत् ॥ २,१.३६ ॥ ममैष पुत्रकामस्य दीक्षितस्य त्वया प्रभो । विजज्ञे प्रथमं देव मम पुत्रो भवत्वयम् ॥ २,१.३७ ॥ तथेति समनुज्ञातो महादेवः स्वयंभुवा । पुत्रत्वे कल्पयामास महादेव स्तदा भृगुम् ॥ २,१.३८ ॥ वारुणा भृगवस्तस्मात्तदपत्यं च स प्रभुः । द्वितीयं च ततः शुक्रमङ्गारेष्वजुहोत्प्रभुः ॥ २,१.३९ ॥ अङ्गारेष्वङ्गिरोऽङ्गानि संहतानि ततोङ्गिराः । संभूतिं तस्य तां दृष्ट्वा वह्निर्ब्रह्माणमब्रवीत् ॥ २,१.४० ॥ रेतोधास्तुभ्यमेवाहं द्वितीयोऽयं ममास्त्विति । एवमस्त्विति सोऽप्युक्तो ब्रह्मणा सदसस्पतिः ॥ २,१.४१ ॥ जग्रा हाग्निस्त्वङ्गिरस आग्नेया इति नः श्रुतम् । षट्कृत्वा तु पुनः शुक्रे ब्रह्मणा लोककारिणा ॥ २,१.४२ ॥ हुते समभवंस्तस्मिन्यद्ब्रह्माण इति श्रुतिः । मरीचिः प्रथमं तत्र मरीचिभ्यः समुत्थितः ॥ २,१.४३ ॥ क्रतौ तस्मिन्क्रतुर्जज्ञे यतस्तस्मात्स वै क्रतुः । अहं तृतीय इत्यत्रिस्तस्मादत्रिः स कीर्त्यते ॥ २,१.४४ ॥ केशैस्तु निचितैर्भूतः पुलस्त्यस्तेन स स्मृतः । केशैर्लंबैः समुद्भूतस्तस्मात्स पुलहः स्मृतः ॥ २,१.४५ ॥ वसुमध्यात्समुत्पन्नो वशी च वसुमान् स्वयम् । वसिष्ठ इति तत्त्वज्ञैः प्रोच्यते ब्रह्मवादिभिः ॥ २,१.४६ ॥ इत्येते ब्रह्मणः पुत्रा मानसाः षण्महर्षयः । लोकस्य सन्तानकरा यैरिमा वर्द्धिताः प्रजाः ॥ २,१.४७ ॥ प्रजापतय इत्येवं पठ्यन्ते ब्रह्मणःसुताः । अपरे पितरो नाम एतैरेव महर्षिभिः ॥ २,१.४८ ॥ उत्पादिता देवगणाः सप्त लोकेषु विश्रुताः । अजेयाश्च गणाः सप्त सप्तलोकेषु विश्रुताः ॥ २,१.४९ ॥ मारीया भार्गवाश्चैव तथैवाङ्गिरसोऽपरे । पौलस्त्याः पौलहाश्चैव वासिष्ठाश्चैव विश्रुताः ॥ २,१.५० ॥ आत्रेयाश्च गणाः प्रोक्ता पितॄणां लोकवर्द्धनाः । एते समासतः ख्याताः पुनरन्ये गणास्त्रयः ॥ २,१.५१ ॥ अमर्त्ताश्चाप्रकाशाश्च ज्योतिष्मन्तश्च विश्रुताः । तेषां राजायमो देवो यमैर्विहतकल्मषः ॥ २,१.५२ ॥ अपरं प्रजानां यतयस्ताञ्छृमुध्वमतन्द्रिताः । कश्यपः कर्दमः शेषो विक्रान्तः सुश्रवास्तथा ॥ २,१.५३ ॥ बहुपुत्रः कुमारश्च विवस्वान्स शुचिव्रतः । प्रचेतसोरिष्टनेमिर्बहुलश्च प्रजापतिः ॥ २,१.५४ ॥ इत्येवमादयोऽन्येऽपि बहवो वै प्रजेश्वराः । कुशोच्चया वालखिल्याः सभूताः परमर्षयः ॥ २,१.५५ ॥ मनोजवाः सर्वगताः सर्वभोगाश्च तेऽभवन् । जाताश्च भस्मनो ह्यन्ये ब्रह्मर्षिगणसंमताः ॥ २,१.५६ ॥ वैखानसा मुनिगणास्तपः श्रुतपरायणाः । नस्तो द्वावस्य चोत्पन्नावश्विनौ रूपसंमतौ ॥ २,१.५७ ॥ विदुर्जन्मर्क्षरजसो तथा तन्नेत्रसंचरात् । अन्ये प्रजानां पतयः श्रोतोभ्यस्तस्य जज्ञिरे ॥ २,१.५८ ॥ ऋषयो रोमकूपेभ्यस्तथा स्वेदमलोद्भवाः । अयने ऋतवो मासर्द्धमासाः पक्षसंधयः ॥ २,१.५९ ॥ वत्सरा ये त्वहोरात्राः पित्तं ज्योतिश्च दारुणम् । रौद्रं लोहितमित्याहुर्लोहितं कनकं स्मृतम् ॥ २,१.६० ॥ तत्तैजसमिति प्रोक्तं धूमाश्च पशवः स्मृताः । येऽर्चिषस्तस्य ते रुद्रास्तथादित्याः समृद्गताः ॥ २,१.६१ ॥ अङ्गारेभ्यः समुत्पन्ना अर्चिषो दिव्यमानुषाः । आदिभूतोऽस्य लोकस्य ब्रह्मा त्वं ब्रह्मसंभवः ॥ २,१.६२ ॥ सर्वकामदमित्याहुस्तथा वाक्यमुदाहरन् । ब्रह्मा सुरगुरुस्तत्र त्रिदशैः संप्रसादितः ॥ २,१.६३ ॥ इमेवै जनयिष्यन्ति प्रजाः सर्वाः प्रचेश्वराः । सर्वे प्रजानां पतयः सर्वे चापि तपस्विनः ॥ २,१.६४ ॥ त्वत्प्रसादादिमांल्लोकान्धारयेयुरिमाः क्रियाः । त्वद्वंशवर्द्धनाः शश्वत्तव तेजोविवर्द्धनाः ॥ २,१.६५ ॥ भवेयुर्वेदविद्वांसः सर्वे वाक्पतयस्तथा । वेदमन्त्रधराः सर्वे प्रजापतिसमुद्भवाः ॥ २,१.६६ ॥ श्रयन्तु ब्रह्मसत्यं तु तपश्च परमं भुवि । सर्वे हि वयमेते च तवैव प्रसवः प्रभो ॥ २,१.६७ ॥ ब्रह्म च ब्रह्माणाश्चैव लोकश्चैव चराचराः । मरीचिमादितः कृत्वा देवाश्च ऋषिभिः सह ॥ २,१.६८ ॥ अपत्यानीति संचिन्त्य तेऽपत्ये कामयामहे । तस्मिन् यज्ञे महाभागा देवाश्च ऋषयश्च ये ॥ २,१.६९ ॥ एते त्वद्वंशसंभूताः स्थानकालाभिमानिनः । तव तेनैव रूपेण स्थापयेयुरिमाः प्रजाः ॥ २,१.७० ॥ युगादिनिधनाश्चापि स्थापयन्तु इति द्विजाः । ततोऽब्रवील्लोकगुरुः परमित्यभिधार यन् ॥ २,१.७१ ॥ एतदेव विनिश्चित्य मया सृष्टा न संशयः । भवतां वंशसंभूताः पुनरेते महर्षयः ॥ २,१.७२ ॥ तेषां भृगोः कीर्त्तयिष्ये वंशं पूर्वं महात्मनः । विस्तरेणानुपूर्व्या च प्रथमस्य प्रजापतेः ॥ २,१.७३ ॥ भार्ये भृगोरप्रतिमे उत्तमाभिजने शुभे । हिरण्यकशिपो कन्या दिव्या नाम परिश्रुता ॥ २,१.७४ ॥ पुलोम्नश्चव पौलोमी दुहिता वरवर्णिनी । भृगोस्त्वजनयद्दिव्या पुत्रं ब्रह्मविदां वरम् ॥ २,१.७५ ॥ देवासुराणामाचार्यं शुक्रं कविवरं ग्रहम् । शुक्र एवोशना नित्यमतः काव्योऽपि नामतः ॥ २,१.७६ ॥ पितॄणां मानसी कन्या सोमपानां यशस्विनी । शुक्रस्य भार्या गौर्नाम विजज्ञे चतुरः सुतान् ॥ २,१.७७ ॥ त्वष्टा चैव वरत्री च शण्डामकारै च तावुभौ । तेजसादित्यसंकाशा ब्रह्मकल्पाः प्रभावतः ॥ २,१.७८ ॥ रजतः पृथुरश्मिश्च विद्वान्यश्च बृहङ्गिराः । वरत्रिणः सुता ह्येते ब्रह्मिष्ठा दैत्ययाजकाः ॥ २,१.७९ ॥ इज्याधर्मविनाशार्थं मनुमेत्याभ्ययाजयन् । निरस्यमानं वै धर्मं दृष्ट्वेन्द्रो मनुमाब्रवीत् ॥ २,१.८० ॥ एतैरेव तु कामं त्वां प्रापयिष्यामि याजनम् । श्रुत्वेन्द्रस्य तु तद्वाक्यं तस्माद्देशादपाक्रमन् ॥ २,१.८१ ॥ तिरोभूतेषु तेष्विन्द्रो मनुपत्नीमचेतनाम् । ग्रहेण मोचयित्वा च ततश्चानुससार ताम् ॥ २,१.८२ ॥ तत इन्द्रविनाशाय यतमानान्मुनींस्तु तान् । तानागतान्पुनर्दृष्ट्वा दुष्टानिन्द्रो विहस्य तु ॥ २,१.८३ ॥ ततस्ता नदहत्क्रुद्धो वेद्यर्द्धे दक्षिणे ततः । तेषां तु धृष्यमाणानां तत्र शालावृकैः सह ॥ २,१.८४ ॥ शीर्षाणि न्यपतंस्तानि खर्जूरा ह्यभवंस्ततः । एवं वरत्रिणः पुत्रा इन्द्रेण निहताः पुरा ॥ २,१.८५ ॥ जयन्त्यां देवयानी तु शुक्रस्य दुहिताभवत् । त्रिशिरा विश्वरूपस्तु त्वष्टुः पुत्रोऽभवन्महान् ॥ २,१.८६ ॥ यशोधरायामुत्पन्नो वैरोचन्यां महायशाः । विश्वरूपानुजश्चैव विश्वकर्मा च यः स्मृतः ॥ २,१.८७ ॥ भृगोस्तु भृगवो देवा जज्ञिरे द्वादशात्मजाः । दिव्यानुसुषुवे कन्या काव्यस्यैवानुजा प्रभोः ॥ २,१.८८ ॥ भुवनोभावनश्चैव अन्त्यश्चान्त्यायनस्तथा । क्रतुः शुचिः स्वमूर्द्धा च व्याजश्च वसुदश्च यः ॥ २,१.८९ ॥ प्रभवश्चाव्ययश्चैव द्वादशोऽधिपतिः स्मृतः । इत्येते भृगवो देवाः स्मृता द्वादश यज्ञियाः ॥ २,१.९० ॥ पौलोम्यजनयत्पुत्रं ब्रह्मिष्ठं वशिनं द्विजम् । व्यादितः सोऽष्टमे मासिगर्भः क्रूरेण रक्षसा ॥ २,१.९१ ॥ च्यवनाच्च्यवनः सोऽथ चेतनात्तु प्रचेतनः । प्रचेताः श्च्यवनः क्रोधाद्दग्धवान्पुरुषादकान् ॥ २,१.९२ ॥ जनयामास पुत्रौ द्वौ सुकन्यायां सभार्गवः । आप्रवानं दधीचं च तावुभौ साधुसंमतौ ॥ २,१.९३ ॥ सारस्वतः सरस्वत्यां दधीचस्योदपद्यत । ऋची पत्नी महाभागा अप्रवानस्य नाहुषी ॥ २,१.९४ ॥ तस्यामौर्व ऋषिर्जज्ञे ऊरुं भित्तवा महायशाः । और्वस्यासीदृचीकस्तु दीप्तोऽग्निसमतेजसा ॥ २,१.९५ ॥ जमदग्निरृचीकस्य सत्यवत्यामजायत । भृगोश्चरुविपर्यासे रौद्रवैष्णवयौः पुरा ॥ २,१.९६ ॥ जमनाद्वैष्मवस्याग्नेर्जमदग्निरजायत । रेणुकाजमदग्नेश्च शक्रतुल्यपराक्रमम् ॥ २,१.९७ ॥ ब्रह्मक्षत्रमयं रामं सुषुवेऽमिततेजसम् । ओर्वस्यासीत्पुत्रशतं जमदग्निपुरोगमम् ॥ २,१.९८ ॥ तेषां पुत्र सहस्राणि भार्गवाणां परस्परात् । ऋष्यतरेषु वै बाह्या बहवो भार्गवाः स्मृताः ॥ २,१.९९ ॥ वत्सा विदा आर्ष्टिषेणा यस्का वैन्याश्च शौनकाः । मित्रेयुः सप्तमा ह्येते पक्षा ज्ञेयास्तु भार्गवाः ॥ २,१.१०० ॥ शृणुताङ्गिरसो वंशमग्नेः पुत्रस्य धीमतः । यस्यान्ववाये संभूता भारद्वाजाः सगौतमाः ॥ २,१.१०१ ॥ देवाश्चाङ्गिरसो मुख्यास्त्त्विषिमन्तो महौजसः । सुरूपा चैव मारीची कार्दमी च तथा स्वराट् ॥ २,१.१०२ ॥ पथ्या च मानवी कन्या तिस्रो भार्या ह्यथर्वणः । अथर्वणस्तु दायादास्तासु जाताः कुलोद्वहाः ॥ २,१.१०३ ॥ उत्पन्ना महता चैव तपसा भावितात्मनः । बृहस्पतिं सुरूपायां गौतमं सुषुवे स्वराट् ॥ २,१.१०४ ॥ अयास्यं वामदेवं च उतथ्यमुशितिं तथा । धृष्णिः पुत्रस्तु पथ्यायाः संवर्त्तश्चैव मानसः ॥ २,१.१०५ ॥ कितवश्चाप्ययास्यस्य शरद्वांश्चप्युतथ्यजः । अथोशिजो दीर्घतमा बृहदुक्थो वामदेवजः ॥ २,१.१०६ ॥ धृष्णेः पुत्रः सुधन्वा तु ऋषभश्च सुधन्वनः । रथकाराः स्मृता देवा ऋभवो ये परिश्रुताः ॥ २,१.१०७ ॥ बृहस्पतेर्भरद्वाजो विश्रुतः सुमहायशाः । बृहस्पतिं सुरूपायां गौतमं सुषुवे स्वराट् ॥ २,१.१०८ ॥ औरसांगिरसः पुत्राः सुरूपायां विजज्ञिरे । आधार्यायुर्द्दनुर्दक्षो दमः प्राणस्त थैव च ॥ २,१.१०९ ॥ हविष्यांश्च हविष्णुश्च ऋतः सत्यश्च ते दश । अयास्याश्चप्युतथ्याश्च वामदेवास्तथौशिजाः ॥ २,१.११० ॥ भारद्वाजाः सांकृतयो गर्गाः कण्वरथीतराः । मुद्गला विष्णुवृद्धाश्च हरिताः कपयस्तथा ॥ २,१.१११ ॥ तथा रूक्षभरद्वाजा आर्षभाः कितवस्तथा । एते चाङ्गिरसां पक्षा विज्ञेया दश पञ्च च ॥ २,१.११२ ॥ ऋष्यन्तरेषु वै बाह्या बहवोङ्गिरसः स्मृताः । मरीचेरपि वक्ष्यामि भेद मुत्तमपूरुषम् ॥ २,१.११३ ॥ यस्यान्ववाये संभूतं जगत्स्थावरजङ्गमम् । मरीचिरापश्चकमे नाभिध्यायन्प्रजेप्सया ॥ २,१.११४ ॥ पुत्रः सर्वगुणोपेतः प्रजावान्प्रभवेदिति । संयुज्यात्मानमेवन्तु तपसा भावितः प्रभुः ॥ २,१.११५ ॥ आहताश्च ततः सर्वा आपः समभवंस्तदा । तासु प्रणिहितात्मानमेकं सोऽजनयत्प्रभुः ॥ २,१.११६ ॥ पुत्रमप्रतिमं नाम्नारिष्टनेमिं प्रजापतिम् । पुत्रं मरीचिस्तपसि निरतः सोऽप्स्वतीतपत् ॥ २,१.११७ ॥ प्रध्याय हि सतीं वाचं पुत्रार्थी सरिरे स्थितः । सप्तवर्षसहस्राणि ततः सोऽप्रतिमोऽभवत् ॥ २,१.११८ ॥ कश्यपः सवितुर्विद्वांस्तेजसा ब्रह्मणा समः । मन्वन्तरेषु सर्वेषु ब्रह्मणोंऽशेन जायते ॥ २,१.११९ ॥ कन्यानिमित्तमत्युक्तो दक्षेण कुपितः प्रभुः । अपिबत्स तदा कश्यं कश्यं मद्यमिहोच्यते ॥ २,१.१२० ॥ हास्ये कशिर्हि विज्ञेयो वाङ्मनः कश्यमुच्यते । कश्यं मद्यं स्मृतं विप्रैः कश्यपानां तु कश्यपः ॥ २,१.१२१ ॥ कशेति नाम यद्वाचो वाचा क्रूरमुदात्दृतम् । दक्षाभिशप्तः कुपितः कश्यपस्तेन सोऽभवत् ॥ २,१.१२२ ॥ तस्माच्च कश्यपायोक्तो ब्रह्मणा परमेष्ठिना । तस्मै प्राचेतसो दक्षः कन्यास्ताः प्रत्यपादयत् ॥ २,१.१२३ ॥ सर्वाश्च ब्रह्मवादिन्यः सर्वा वै लोकमातरः । इत्येतमृषिसर्गं तु पुण्यं यो वेद वारुणम् ॥ २,१.१२४ ॥ आयुष्मान्पुण्यवाञ्छुद्धः सुखमाप्नोति शाश्वतम् । धारणाच्छ्रवणाद्वापि सर्वपापैः प्रमुच्यते ॥ २,१.१२५ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे ऋषिसर्गवर्णनं नाम प्रथमोऽध्यायः _____________________________________________________________ सूत उवाच विनिवृत्ते प्रजासर्गे षष्ठे वै चाक्षुषस्य ह । प्रजाः सृजेति व्यदिष्टः स्वयं दक्षः स्वयंभुवा ॥ २,२.१ ॥ ससर्ज सर्वभूतानि गतिमन्ति ध्रुवाणि च । मानसानि च भूतानि स पूर्वमसृजत्प्रभुः ॥ २,२.२ ॥ ऋषीन्देवांश्च गन्धर्वान्मनुष्योरगराक्षसान् । यक्षभूतपिशाचांश्च वयः पशुमृगांस्तथा ॥ २,२.३ ॥ यदास्य मनसा सृष्टा न व्यवर्द्धन्त ताः प्रजाः । अपध्याता भगवता महादेवेन धीमता ॥ २,२.४ ॥ स मैथुनेन भावेन सिसृक्षुर्विविधाः प्रजाः । असिक्रीमावहद्भार्यां वीरणस्य प्रजापतेः ॥ २,२.५ ॥ सुतां सुमहता युक्तां तपसा लोक धारिणीम् । यया धृतमिदं सर्वं जगत्स्थावरजङ्गमम् ॥ २,२.६ ॥ अत्राप्युदाहरन्तीमौ श्लोकौ प्राचेतसां प्रति । दक्षस्योद्वहतो भार्यांमसिक्रीं वैरणीं पुरा ॥ २,२.७ ॥ कृपानां नियुतं दक्षं सर्पिणां साभिमानिनाम् । नदीगिरिष्बसज्जन्तं पृष्ठतोऽनुययौ प्रभुम् ॥ २,२.८ ॥ तं दृष्ट्वा ऋषिभिः प्रोक्तं प्रतिष्ठास्यति वै प्रजाः । प्रथमोऽत्र द्वितीयस्तु दक्षः स हि प्रजापतिः ॥ २,२.९ ॥ अथागच्छद्यथाकालं प्रहीनां नियुतं तु यत् । असिक्रीं वैरणीं तत्र दक्षः प्राचेतसोऽवहत् ॥ २,२.१० ॥ अथ पुत्रसहस्रं स वैरण्याममितौजसम् । असिक्न्यां जनयामास दक्षः प्राचे तसः प्रभुः ॥ २,२.११ ॥ तांस्तु दृष्ट्वा महातेजाः स विवर्द्धयिषुः प्रजाः । देवर्षिप्रियसंवादो नारदो ब्रह्मणः सुतः ॥ २,२.१२ ॥ नाशाय वचनं तेषां शापयैवात्मनोऽब्रवीत् । यः कश्यपसुतस्याथ परमेष्ठी व्यजायत ॥ २,२.१३ ॥ मानसः कश्यपस्यासीद्दक्षशापवशात्पुनः । तस्मात्स काश्यपस्याथ द्वितीयो मानसोऽभवत् ॥ २,२.१४ ॥ स हि पूर्वं समुत्पन्नो नारदः परमेष्ठिनः । तेन वृक्षस्य पुत्रा वै हर्यश्वा इति विश्रुताः ॥ २,२.१५ ॥ धर्मार्थं नाशिताः सर्वे विधिना च न संशयः । तस्योद्यतस्तदा दक्षः क्रुद्धः शापाय वै प्रभुः ॥ २,२.१६ ॥ ब्रह्मर्षीन्वै पुरस्कृत्य याचितः परमेष्ठिना । ततोऽभिसंधिं चक्रे वै दक्षश्च परमेष्ठिना ॥ २,२.१७ ॥ कन्यायां नारदो मह्यं तव पुत्रो भवेदिति । ततो दक्षः सुतां प्रदात्प्रियां वै परमेष्ठिने । तस्मात्स नारदो जज्ञे भूयः शापभयदृषिः ॥ २,२.१८ ॥ शांशपायन उवाच कथं वै नाशिताः पूर्वं नारदेन सुरर्षिणा । प्रजापतिसुतास्ते वै श्रोतुमिच्छामि तत्त्वतः ॥ २,२.१९ ॥ सूत उवाच दक्षपुत्राश्च हर्यश्वा विवर्धयिषवः प्रजाः । समागता महावीर्या नारदस्तानुवाच ह ॥ २,२.२० ॥ बालिशा बत यूयं वै न प्रजानीथ भूतलम् । अन्तरूर्ध्वमधश्चैव कथं स्रक्ष्यथ वै प्रजाः ॥ २,२.२१ ॥ ते तु तद्वचन श्रुत्वा प्याताः सर्वतो दिशम् । अधापि म निवर्त्तन्ते समुद्रस्था इवापगाः ॥ २,२.२२ ॥ अथ तेषु प्रणष्टेषु दक्षः प्राचे तसः पुनः । वैरण्यामेव पुत्राणां सहस्रमसृजत्प्रभुः ॥ २,२.२३ ॥ प्रजा विवर्द्धयिषवः शबलाश्वाः पुनस्तु ते । पूर्वमुक्तं वचस्तद्वै श्राविता नारदेन ह ॥ २,२.२४ ॥ अन्योन्यमूचुस्ते सर्वे सम्यगाह ऋषिः स्वयम् । भ्रातॄणां पदवीं चैव गन्तव्या नात्र संशयः ॥ २,२.२५ ॥ ज्ञात्वा प्रमाणं पृथ्व्या वै सुखं स्रक्ष्यामहे प्रजाः । प्रकाशाः स्वस्थमनसा यथावदनुशासिताः ॥ २,२.२६ ॥ तेऽपि तेनैव मार्गेण प्रयाताः सर्वतो दिशम् । अद्यापि न निवर्त्तन्ते विस्तारायमलिप्सवः ॥ २,२.२७ ॥ ततः प्रभृति वै भ्राता भ्रातुरन्वेषणे रतः । प्रयतो नश्यति क्षिप्रं तन्न कार्यं विजानता ॥ २,२.२८ ॥ नष्टेषु शबलाश्वेषु दक्षः क्रुद्धोऽशपद्विभुः । नारदं नाशमेहीति गर्भवासं वसेति च ॥ २,२.२९ ॥ तदा तेष्वपि नष्टेषु महात्मा स प्रभुः किल । षष्टिं दक्षोऽसृजत्कन्या वैरण्यामेव विश्रुताः ॥ २,२.३० ॥ तास्तदा प्रतिजग्राह पत्न्यर्थं कश्यपः सुताः । धर्मः सोमश्च भगवांस्तथा चान्ये महर्षयः ॥ २,२.३१ ॥ इमां विसृष्टिं दक्षस्य कृत्स्नां यो वेद तत्त्वतः । आयुष्मान्कीर्त्तिमान्धन्यः प्रजावाश्च भवत्युत ॥ २,२.३२ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे प्रजापतिवंशानुकीर्त्तनं नाम द्वितीयोऽध्यायः _____________________________________________________________ ऋषय ऊचु । देवानां दानवानां च दैत्यानां चैव सर्वशः । उत्पत्तिं विस्तरेणैव ग्रूहि वैवस्वतेंऽतरे ॥ २,३.१ ॥ सूत उवाच धर्म्मस्यैव प्रवक्ष्यामि निसर्गन्तं निबोधत । अरुन्धतीवसुर्जामालंबा भानुर्मरुत्वती ॥ २,३.२ ॥ संकल्पा च मुहूर्त्ता च साध्या विश्वा तथैव च । धर्मस्य पत्न्यो दश ता दक्षः प्राचेतसो ददौ ॥ २,३.३ ॥ साध्यापुत्रास्तु धर्मस्य साध्या द्वादशजज्ञिरे । देवेभ्यस्तान्परान्देवान्दैवज्ञाः परिचक्षते ॥ २,३.४ ॥ ब्राह्मणा वै मुखात्सृष्टा जया देवाः प्रजेप्सया । सर्वे मन्त्रशरीरस्ते समृता मन्वन्तरेष्विह ॥ २,३.५ ॥ दर्शश्च पौर्णमासश्च बृहद्यच्च रथन्तरम् । वित्तिश्चैव विवित्तिश्च आकूतिः कूतिरेव च ॥ २,३.६ ॥ विज्ञाता चैव विज्ञातो मनो यज्ञस्तथैव च । नामान्येतानि तेषां वै यज्ञानां प्रथितानि च ॥ २,३.७ ॥ ब्रह्मशापेन तेजाताः पुनः स्वायंभुवे जिताः । स्वारोचिषे वै तुषिताः सत्यश्चैवोत्तमे पुनः ॥ २,३.८ ॥ तामसे हरयो नाम वैकुण्ठा रेवतान्तरे । ते साध्याश्चाक्षुषे नाम्ना छन्दजा जज्ञिरे सुराः ॥ २,३.९ ॥ धर्मपुत्रा महाभागाः साध्या ये द्वादशामराः । पूर्वं समनुसूयन्ते चाक्षुषस्यान्तरे मनोः ॥ २,३.१० ॥ स्वारोचिषेंऽतरेऽतीता देवा ये वै महौजसः । तुषिता नाम तेऽन्योन्यमूचुर्वै चाक्षुषेंऽतरे ॥ २,३.११ ॥ किञ्चिच्छिष्टे तदा तस्मिन्देवा वै तुषिताब्रुवन् । एतामेव महाभागां वयं साध्यां प्रविश्य वै ॥ २,३.१२ ॥ मन्वन्तरे भविष्यामस्तन्नः श्रेयो भविष्यति । एवमुक्त्वा तु ते सर्वे चाक्षुषस्यान्तरे मनोः ॥ २,३.१३ ॥ तस्यां द्वादश संभूता धर्मात्स्वायंभुवात्पुनः । नरनारायणो तत्र जज्ञाते पुनरेव हि ॥ २,३.१४ ॥ विपश्चिदिन्द्रो यश्चाभूत्तथा सत्यो हरिश्च तौ । स्वारोचिषेंऽतरे पूर्वमास्तां तौ तुषितासुतौ ॥ २,३.१५ ॥ तुषितानां तु साध्यात्वे नामान्येतानि चक्षते । मनोऽनुमन्ता प्राणश्च नरोऽपानश्च वीर्यवान् ॥ २,३.१६ ॥ वितिर्नयो हयश्चैव हंसो नारायणस्तथा । विभुश्चापि प्रभुश्चापि साध्या द्वादश जज्ञिरे ॥ २,३.१७ ॥ स्वायंभुवैंऽतरे पूर्वं ततः स्वारो चिषे पुनः । नामान्यासन्पुनस्तानि तुषितानां निबोधत ॥ २,३.१८ ॥ प्राणापानावुदानश्च समानो व्यान एव च । चक्षुः श्रोत्रं रसो घ्राणं स्पर्शो बुद्धिर्मनस्तथा ॥ २,३.१९ ॥ नामान्येतानि वै पूर्वं तुषितानां स्मृतानि च । वसोस्तु वसवः पुत्राः साध्यानामनुजाः स्मृताः ॥ २,३.२० ॥ धरो ध्रुवश्च सोमश्च आयुश्चैवानलोऽनिलः । प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्तिताः ॥ २,३.२१ ॥ धरस्य पुत्रो द्रविणो हुतहव्यो रजस्तथा । ध्रुवपुत्रोऽभवत्तात कालो लोकाप्रकालनः ॥ २,३.२२ ॥ सोमस्य भगवान्वर्चा बुधश्च ग्रहबौधनः । धरोर्मी कलिलश्चैव पञ्च चन्द्रमसः सुताः ॥ २,३.२३ ॥ आयस्य पुत्रो वैतण्ड्यः शमः शान्तस्तथैव च । स्कन्दः सनत्कुमारश्च जज्ञे पादेन तेजसः ॥ २,३.२४ ॥ अग्नेः पुत्रं कुमारं तु स्वाहा जज्ञे श्रिया षृतम् । तस्य शाखो विशाखश्च नैगमेयश्च प्रष्टजाः ॥ २,३.२५ ॥ अनिलस्य शिवा भार्या तस्याः पुत्रो मनोजवः । अविज्ञान गतिश्चैव द्वौ पुत्रावनिलस्य च ॥ २,३.२६ ॥ प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाथ देवलम् । द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ ॥ २,३.२७ ॥ बृहस्पतेश्तु भगिनी भुवना ब्रह्मवादिनी । योगसिद्धा जगत्कृत्स्नमशक्ता चरति स्म ह ॥ २,३.२८ ॥ प्रभासस्य तु भार्या सा वसूनामष्टमस्य ह । विश्वकर्मा सुतस्तस्याः प्रजापतिपतिर्विभुः ॥ २,३.२९ ॥ विश्वेदेवास्तु विश्वाया जज्ञिरे दश विश्रुताः । क्रतुर्दक्षः श्रवः सत्यः कालः मुनिस्तथा ॥ २,३.३० ॥ पुरूरवो मार्द्रवसो रोचमानश्च ते दश । धर्मपुत्राः सुरा एते विश्वायां जज्ञिरे शुभाः ॥ २,३.३१ ॥ मरुत्वत्यां मरुत्वन्तो भानवो भानुजाः स्मृताः । मुहूर्ताश्च मुहूर्ताया घोषलंबा ह्यजायत ॥ २,३.३२ ॥ संकल्पायां तु संजज्ञे विद्वान्संकल्प एव तु । नव वीथ्यस्तु जामायाः पथत्रयमुपाश्रिताः ॥ २,३.३३ ॥ पृथिवी विषयं सर्वमरुन्धत्यामजायत । एष सर्गः समाख्यातो विद्वान्धर्मस्य शाश्वतः ॥ २,३.३४ ॥ मुहूर्ताश्चैव तिथ्याश्च प्रतिभिः सह सुव्रताः । नामतः संप्रवक्ष्यामि ब्रुवतो मे निबोधत ॥ २,३.३५ ॥ अहोरात्रविभागश्च नक्षत्राणि समाश्रितः । मुहुर्त्ताः सर्वनक्षत्रा अहोरात्रभिदस्तथा ॥ २,३.३६ ॥ अहोरात्रकलानां तु षडशीत्यधिकाः स्मृताः । रवेर्गति विशेषेण सर्वर्त्तुषु च नित्यशः ॥ २,३.३७ ॥ ततो वेदविदश्चैतां गतिमिच्छन्ति पर्वसु । अविशेषेषु कालेषु ज्ञेयः सवितृमानतः ॥ २,३.३८ ॥ रौद्रः सार्पस्तथा मैत्रः पित्र्यो वासव एव च । आप्योऽथ वैश्वदेवश्च ब्राह्मो मध्याह्नसंश्रितः ॥ २,३.३९ ॥ प्राजापत्यस्तथैवेन्द्र इन्द्राग्नी निरृतिस्तथा । वारुणश्च यथार्यम्णो भगश्चापि दिनश्रिताः ॥ २,३.४० ॥ एते दिनमुहूर्ताश्च दिवाकरविनिर्मिताः । शङ्कुच्छाया विशेषेण वेदितव्याः प्रमाणतः ॥ २,३.४१ ॥ अजैकपादहिर्बुध्न्यः पूषाश्वियमदेवताः । आग्नेयश्चापि विज्ञेयः प्राजापत्यस्तथैव च ॥ २,३.४२ ॥ सौम्यश्चापि तथादित्यो बार्हस्पत्यश्च वैष्मवः । सावित्रश्च तथा त्वाष्ट्रो वायव्यश्चेति संग्रहः ॥ २,३.४३ ॥ एते रात्रेर्मुहूर्त्ताः स्युः क्रमोक्ता दश पञ्च च । इन्दोर्गत्युदया ज्ञेया नाडिका आदितस्तथा ॥ २,३.४४ ॥ कालावस्थास्त्विमास्त्वेते मुहूर्त्ता देवताः स्मृताः । सर्वग्रहाणां त्रीण्येव स्थानानि विहितानि च ॥ २,३.४५ ॥ दक्षिणोत्तरमध्यानि तानि विद्याद्यथाक्रमम् । स्थानं जारद्गवं सध्ये तथैरावतमुत्तरम् ॥ २,३.४६ ॥ वैश्वानरं दक्षिणतो निर्दिष्टमिह तत्त्वतः । अश्विनी कृत्तिका याम्यं नागवीथीति विश्रुता ॥ २,३.४७ ॥ ब्राह्मं सौम्यं तथार्द्रा च गजवीथीति शब्दिता । पुष्याश्लेषे तथादित्यं वीथी चैरावती मता ॥ २,३.४८ ॥ तिस्रस्तु विथयो ह्येता उत्तरो मार्ग उच्यते । पूर्वोत्तरे च फल्गुन्यौ मघा चैवार्षभी स्मृता ॥ २,३.४९ ॥ हस्तश्चित्रा तथा स्वाती गोवीथीति तु शब्दिता । ज्येष्ठा विशाखानुराधा वीथी जारद्गवी मता ॥ २,३.५० ॥ एतास्तु वीथयस्तिस्रो मध्यमो मार्ग उच्यते । मूलं पूर्वोत्तराषाढे अजवीथ्याभिशब्दिते ॥ २,३.५१ ॥ श्रवणं च धनिष्ठा च मार्गी शतभिषक्तथा । वैश्वानरी भाद्रपदे रेवती चैव कीर्त्तिता ॥ २,३.५२ ॥ एतास्तु वीथयस्तिस्रो दक्षिणे मार्ग उच्यते । अष्टाविशति याः कन्या दक्षः सोमाय ता ददौ ॥ २,३.५३ ॥ सर्वा नक्षत्रनाम्न्यस्ता ज्यौतिषे परिकीर्त्तिताः । तासामपत्यान्यभवन्दीप्तयोऽमिततेजसः ॥ २,३.५४ ॥ यास्तु शेषास्तदा कन्याः प्रतिजग्राह कश्यपः । चतुर्दशा महाभागाः सर्वास्ता लोकमातरः ॥ २,३.५५ ॥ अदितिर्दितिर्दनुः काष्ठारिष्टानायुः खशा तथा । सुरभिर्विनता ताम्रा मुनिः क्रोधवशा तथा ॥ २,३.५६ ॥ कद्रूर्माता च नागानां प्रजास्तासां निबोधत । स्वायंभुवेऽन्तरे तात ये द्वादश सुरोत्तमाः ॥ २,३.५७ ॥ वैकुण्ठा नाम ते साध्या बभूवुश्चाक्षुषेंऽतरे । उपस्थितेंऽतरे ह्यस्मिन्पुनर्वैवस्वतस्य ह ॥ २,३.५८ ॥ आराधिता आदित्या ते समेत्योचुः परस्परम् । एतामेव महाभागामदितिं संप्रविश्य वै ॥ २,३.५९ ॥ वैवस्वतेंऽतरे ह्यस्मिन्योगादर्द्धेन तेजसा । गच्छेम पुत्रतामस्यास्तन्नः श्रेयो भविष्यति ॥ २,३.६० ॥ एवमुक्त्वा तु ते सर्वे वर्त्तमानेंऽतरे तदा । जज्ञिरे द्वादशादित्या मारीयात्कश्यपात्पुनः ॥ २,३.६१ ॥ शतक्रतुश्च विष्णुश्च जज्ञाते पुनरेव हि । वैवस्वतेंऽतरे ह्यस्मिन्नरनारायणौ तदा ॥ २,३.६२ ॥ तेषामपि हि देवानां निधनोत्पत्तिरुच्यते । यथा सूर्यस्य लोकेऽस्मिन्नुदयास्तमयावुभौ ॥ २,३.६३ ॥ दृष्टानुश्रविके यस्मात्सक्ताः शब्दादिलक्षणे । अष्टात्मकेऽणिमाद्ये च तस्मात्ते जज्ञिरे सुराः ॥ २,३.६४ ॥ इत्येष विषये रागः संभूत्याः कारणं स्मृतम् । ब्रह्मशापेन संभूता जयाः स्वायंभुवे जिताः ॥ २,३.६५ ॥ स्वारोचिषे वै तुषिताः सत्यश्चैवोत्तमे पुनः । तामसे हरयो देवा जाताश्चा रिष्टवे तु वै ॥ २,३.६६ ॥ वैकुण्ठाश्चाश्रुषे साध्या आदित्याः सप्तमे पुनः । धातार्यमा च मित्रश्च वरुणोंऽशो भगस्तथा ॥ २,३.६७ ॥ इन्द्रो विवस्वान्पूषा च पर्जन्यो दशमः स्मृतः । ततस्त्वष्टा ततो विष्णुरजघन्यो जघन्यजः ॥ २,३.६८ ॥ इत्येते द्वादशादित्याः कश्यपस्य सुता विभोः । सुरभ्यां कश्यपाद्रुद्रा एकादश विजज्ञिरे ॥ २,३.६९ ॥ महादेवप्रसादेन तपसा भाविता सती । अङ्गारकं तथा सर्पं निरृतिं सदसत्पतिम् ॥ २,३.७० ॥ अचैकपादहिर्बुध्न्यौ द्वावेकं च ज्वरं तथा । भुवनं चेश्वरं मृत्युं कपालीति च विशुतम् ॥ २,३.७१ ॥ देवानेकादशैतांस्तु रुद्रांस्त्रिभुवनेश्वरान् । तपसोग्रेण महाता सुरभिस्तानजीजनत् ॥ २,३.७२ ॥ ततो दुहितरावन्ये सुरभिर्देव्यजायत । रोहिणी चैव सुभगां गान्धवी च यशस्विनीम् ॥ २,३.७३ ॥ रोहिण्या जज्ञिरे कन्याश्चतस्रो लोकविश्रुताः । सुरूपा हंसकाली च भद्रा कामदुघा तथा ॥ २,३.७४ ॥ सुषुवे गाः कामदुघा सुरूपा तनयद्वयम् । हंसकाली तु महिषान्भद्रायस्त्वविजातयः ॥ २,३.७५ ॥ विश्रुतास्तु महाभागा गान्धर्व्या वाजिनः सुताः । उच्चैःश्रवादयो जाताः खेचरास्ते मनोजवाः ॥ २,३.७६ ॥ श्वेताः शोणाः पिशङ्गास्च सारङ्गा हरि तार्जुनाः । उक्ता देवोपवाह्यास्ते गान्धर्वियोनयो हयाः ॥ २,३.७७ ॥ भूयो जज्ञे सुरभ्यास्तु श्रीमांश्चन्द्रप्रभो वृषः । स्रग्वी ककुद्मान्द्युतिमा नमृतालयसंभवः ॥ २,३.७८ ॥ सुरभ्यनुमते दत्तो ध्वजो माहेश्वरस्तु सः । इत्येते कश्यपसुता रुद्रादित्याः प्रकीर्त्तिताः ॥ २,३.७९ ॥ धर्मपु पुत्राः स्मृताः साध्या विश्वे च वसवस्तथा । यथेन्धनवशाद्वह्निरेकस्तु बहुधा भवेत् ॥ २,३.८० ॥ भवत्येकस्तथा तद्वन्मूर्त्तीनां स पिता महः । एको ब्रह्मान्तकश्चैव पुरुषश्चैति तत्र यः ॥ २,३.८१ ॥ एकस्यैताः स्मृतास्तिस्रस्तनवस्तु स्वयंभुवः । ब्राह्मी च पौरुषी चैव कालाख्या चेति ताः स्मृताः ॥ २,३.८२ ॥ या तत्र राजसी तस्य तनुः सा वै प्रजाकरी । मता सा या तु कालाख्या प्रजाक्षयकरी तु सा ॥ २,३.८३ ॥ सात्त्विकी पौरुषी या तु सा तनुः पालिका स्मृता । राजसी ब्रह्मणो या तु मारीचः कश्यपोऽभवत् ॥ २,३.८४ ॥ तामसी चान्तकृद्या तु तदंशो विष्णुरुच्यते ॥ २,३.८५ ॥ त्रैलोक्ये ताः स्मृतास्तिस्रस्तनवो वै प्रजाकरी । मता सा या तु कालाख्या प्रजाक्षयकरी तु सा ॥ २,३.८६ ॥ सृजत्यथानुगृह्णाति तथा संहरति प्रजाः । एवमेताः स्मृतास्तिस्रस्तनवो हि स्वयंभुवः ॥ २,३.८७ ॥ प्राजापत्या च रौद्रा च वैष्णवी चेति तास्त्रिधा । एतास्तन्वः स्मृता देवा धर्मशास्त्रे पुरातने ॥ २,३.८८ ॥ सांख्ययोगरतैर्धीरैः पृथगेकार्थदर्शिभिः । अभिजातिप्रभावज्ञैर्मुनिभिस्तत्त्वदर्शिभिः ॥ २,३.८९ ॥ एकत्वेन पृथक्त्वेन तासु भिन्नाः प्रजास्त्विमाः । इदं परमिदं नेति ब्रुवते भिन्नदर्शिनः ॥ २,३.९० ॥ ब्रह्माणां कारणं के चित्केचिदाहुः प्रजापतिम् । केचिद्भवं परत्वेन प्राहुर्विष्णुं तथापरे ॥ २,३.९१ ॥ अभिज्ञानेन संभूताः सक्तारिष्टविचेतसः । सत्त्वं कालं च देशं च कार्यं चावेक्ष्य कर्म च ॥ २,३.९२ ॥ कारणं तु स्मृता ह्येते नानार्थेष्विह देवताः । एकं प्रशंसमानस्तु सर्वानेवप्रशसति ॥ २,३.९३ ॥ एकं निन्दति यस्त्वेषां सर्वानेव स निन्दति । न प्रद्वेषस्ततः कार्यो देवतासु विजानता ॥ २,३.९४ ॥ न शक्या ईश्वराज्ञातुमैश्वर्येण व्यवस्थिताः । एकत्वात्स त्रिधा भूत्वा संप्रमोहयति प्रजाः ॥ २,३.९५ ॥ एतेषां वै त्रयाणां तु विचिन्वन्त्यन्तरं जनाः । जिज्ञासवः परीहन्ते सक्ता दुष्टा विचेतसः ॥ २,३.९६ ॥ इदं परमिदं नेति संरंभाद्भिन्नदर्शिनः । यातुधाना विशेषा ये पिशाचाश्चैव नान्तरम् ॥ २,३.९७ ॥ एकः स तु पृथक्त्वेन स्वयं भूत्वा च तिष्ठति । गुणमात्रात्मिकाभिस्तु तनुभिर्मोहयन्प्रजाः ॥ २,३.९८ ॥ तेष्वेकं यजते यो वै स तदा यजते त्रयम् । तस्माद्देवास्त्रयो ह्येते नैरन्तर्येणधिष्टताः ॥ २,३.९९ ॥ तस्मात्पृथक्त्वमेकत्वं संख्या संख्ये गतागतम् । अल्पत्वं वा बहुत्वं वा तेषु को ज्ञातुमर्हति ॥ २,३.१०० ॥ तस्मात्सृष्ट्वानुगृह्णति ग्रसते चैव सर्वशः । गुणात्मकत्ववै कल्पये तस्मादेकः स उच्यते ॥ २,३.१०१ ॥ रुद्रं ब्रह्माणमिन्द्रं च लोकपालानृषीन्मनून् । देवं तमेकं बहुधा प्राहुर्नारायणं द्विजाः ॥ २,३.१०२ ॥ प्राजापत्या च रौद्री च तनुर्या चैव वैष्णवी । मन्वन्तरेषु वै तिस्र आवर्त्तन्ते पुनः पुनः ॥ २,३.१०३ ॥ क्षेत्रज्ञा अपि चान्येऽस्य विभोर्जायन्त्यनुग्रहात् । तेजसा यशसा बुद्ध्या श्रुतेन च बलेन च ॥ २,३.१०४ ॥ जायन्ते तत्समाश्चैव तानपीमान्निबोधत । राजस्या ब्रह्मणोंऽशेन मारीचः कश्यपोऽभवत् ॥ २,३.१०५ ॥ तामस्यास्तस्य चांशेन कालो रुद्रः स उच्यते । सात्त्विक्याश्च तथांशेन यज्ञो विष्णुरजा यत ॥ २,३.१०६ ॥ त्रिषु कालेषु तस्यैता ब्रह्ममस्तनवो द्विजाः । मन्वन्तरेष्विह स्रष्टुमावर्त्तन्ते पुनः पुनः ॥ २,३.१०७ ॥ मन्वन्तरेषु सर्वेषु प्रजाः स्थावरजङ्गमाः । युगादौ सकृदुत्पन्नास्तिष्ठन्तीहाप्रसंयमात् ॥ २,३.१०८ ॥ प्राप्ते प्राप्ते तु कल्पान्ते रुद्रः संहरति प्रजाः । कालो भूत्वा युगात्मासौ रुद्रः संहरते पुनः ॥ २,३.१०९ ॥ संप्राप्ते चैव कल्पान्ते सप्तरशिमर्दिवाकरः । भूत्वा संवर्त्तकादित्यस्त्रींल्लोकांश्च दहत्युत ॥ २,३.११० ॥ विष्णुः प्रजानुग्रहकृत्सदा पालयति प्रजाः । तस्यां तस्यामवस्थायां तत उत्पाद्य कारणम् ॥ २,३.१११ ॥ सत्त्वोद्रिक्ता तु या प्रोक्ता ब्रह्मणः पौरुषी तनुः । तस्याशेन च विज्ञेयो मनोः स्वायंभुवेन्तरे ॥ २,३.११२ ॥ आकृत्यां मनसा देव उत्पन्नः प्रथमं विभुः । ततः पुनः स वै देवः प्राप्ते स्वारोचिषेऽन्तरे ॥ २,३.११३ ॥ तुषितायां समुत्पन्नो ह्यजितस्तुषितैः सह । औत्तमे ह्यन्तरे वापि ह्यजितस्तु पुनः प्रभुः ॥ २,३.११४ ॥ सत्यायामभवत्सत्यः सह सत्यैः सुरोत्तमैः । तामसस्यातरे चापि स देवः पुनरेव हि ॥ २,३.११५ ॥ हरिण्यां हरिभिः सार्द्धं हरिरेव बभूव ह । वैवस्वतेन्तरे चापि हरिर्देवेः पुनस्तु सः ॥ २,३.११६ ॥ वैकुण्ठो नामतो जज्ञे विधूतरजसैः सह । मरीचात्कश्यपाद्विष्णुरदित्यां संबभूव ह ॥ २,३.११७ ॥ त्रिभिः क्रमैरिमांल्लोकञ्जित्वा विष्णुस्त्रिविक्रमः । प्रत्यपादयदिन्द्राय दैवतैश्चैव स प्रभुः ॥ २,३.११८ ॥ इत्येतास्तनवो जाता व्यतीताः सप्तसप्तसु । मन्वन्तरेष्वतीतेषु याभिः संरक्षिताः प्रजाः ॥ २,३.११९ ॥ यस्माद्विश्वमिदं सर्वं जायते लीयते पुनः । यस्यांशेनामराः सर्वे जायन्ते त्रिदिवेश्वराः ॥ २,३.१२० ॥ वर्द्धन्ते तेजसा बुद्ध्या श्रुतेन च बलेन च । यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा ॥ २,३.१२१ ॥ तत्तदेवावगच्छध्वं विष्णोस्तेजोंऽशसंभवम् । स एव जायतेंऽशेन केचिदिच्छन्ति मानवाः ॥ २,३.१२२ ॥ एके विवदमानास्तु दृष्टान्ताच्च ब्रुवन्ति हि । एषां न विद्यते भेदस्त्रयाणां द्युसदामिह ॥ २,३.१२३ ॥ जायन्ते पोहयन्त्यं शैरीश्वरा योगमायया ॥ २,३.१२४ ॥ तस्मात्तेषां प्रचारे तु युक्तायुक्तं न विद्यते । भूतानुवादिना माद्या मध्यस्था भूतवादिनाम् ॥ २,३.१२५ ॥ भूतानुवादिनः सक्तस्त्रयश्चैव प्रवादिनाम् । परीक्ष्य चानुगृह्णन्ति निगृह्णन्ति खलान्स्वयम् ॥ २,३.१२६ ॥ मत्तः पूर्व्वे च ते तस्मात्प्रभवश्च ततोऽधिकाः । तथाधिकरणैरतैर्यथा तत्त्वनिदर्शकाः ॥ २,३.१२७ ॥ देवानां देवभूताश्च ते वै सर्वप्रवर्त्तकाः । कर्म्मणां महतां ते हि कर्त्तारो जगदीश्वराः ॥ २,३.१२८ ॥ श्रुतिज्ञैः कारणैरेतैश्चतुर्भिः परिकीर्त्तिताः । बालिशास्ते न जानन्ति दैवतानि प्रभागशः ॥ २,३.१२९ ॥ इमं चोदाहरन्त्यत्र श्लोकं योगेश्वरान्प्रति । कुर्याद्योगबलं प्राप्य तैश्च सर्वैर्महांश्चरेत् ॥ २,३.१३० ॥ प्राप्नुयाद्विषयांश्चैव पुनश्चोर्द्ध्व तपश्चरेत् । संहरेत पुनः सर्व्वान्सूर्य्यो ज्योतिर्गणानिव ॥ २,३.१३१ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे स्वयंभूत्रैगुण्यस्वरूपवर्णनं नाम तृतीयोऽध्यायः _____________________________________________________________ सूत उवाच ब्रह्मणा वै मुखात्सृष्टा जया देवाः प्रजेप्सया । सर्वे मन्त्रशरीरास्ते स्मृता मन्वन्तरेष्विह ॥ २,४.१ ॥ दर्शश्च पौर्णमासश्च बृहत्साम रथन्तरम् । चितिश्च सुचितिश्चैव ह्याकूतिः कूतिरेव च ॥ २,४.२ ॥ विज्ञातश्चैव विज्ञाता मना यज्ञश्च द्वादशः । दाराग्निहोत्रसंबन्धं वितत्य यजतेति च ॥ २,४.३ ॥ एवमुक्त्वा तु तान्ब्रह्मा तत्रैवान्तरधात्प्रभुः । ततस्ते नाभ्यनन्दन्त तद्वाक्यं परमेष्ठिनः ॥ २,४.४ ॥ संन्यस्येह च कर्माणि वासनाः कर्मजाश्च वै । यमेष्वंवावन्तिष्ठन्ते दोषं दृष्ट्वा तु कर्मसु ॥ २,४.५ ॥ क्षयाति शययुक्तं च ते दृष्ट्वा कर्मणां फलम् । जुगुप्संतः प्रसूतिं च निःसत्त्वा निर्ममाभवन् ॥ २,४.६ ॥ अजन्म काङ्क्षमाणास्ते निर्मुक्ता दोषदर्शिनः । अर्थं धर्मं च कामं च हित्वा ते वै व्यवस्थिताः ॥ २,४.७ ॥ परमं ज्ञानमास्थाय तत्संक्षिप्य सुसंस्थिताः । तेषां तु तमभिप्रायं ज्ञात्वा ब्रह्मा तु कोपितः ॥ २,४.८ ॥ तानब्रवीत्ततो ब्रह्मा निरुत्साहान्सुरानथ । प्रजार्थमिह यूयं वै मया सृष्टाः स्थ नान्यथा ॥ २,४.९ ॥ प्रसूयध्वं यजध्वं चेत्युक्तवानस्मि वः पुरा । यस्माद्वाक्यमनादृत्य मम वैराग्यमास्थिताः ॥ २,४.१० ॥ जुगुप्समानाः स्वं जन्म संततिं नाभ्यनन्दत । कर्मणां न कृतोऽभ्यासो ह्यमृतत्वाभिकाङ्क्षया ॥ २,४.११ ॥ तस्माद्यूयमिहावृत्तिं सप्तकृत्वो ह्यवाप्स्यथ । ते शप्ता ब्रह्मणा देवा जयास्तं वै प्रसादयन् ॥ २,४.१२ ॥ क्षमास्माकं महादेव यदज्ञानात्मकं प्रभो । प्रणतान्वै सानुनयं ब्रह्मा तानब्रवीत्पुनः ॥ २,४.१३ ॥ लोकेऽप्यथानुभुञ्जीत कः स्वातन्त्र्यमिहार्हति । मयागतं तु सर्वं हि कथमच्छन्दतो मम ॥ २,४.१४ ॥ प्रतिपत्स्यन्ति भूतानि शुभं वा यदि वोत्तरम् । लोके यदपि किञ्चिद्वैशं वा शं वा व्यवस्थितम् ॥ २,४.१५ ॥ बुद्ध्यात्मना मया व्याप्तं को मां लोकेऽतिवर्त्तयेत् । भूताना मीहितं यच्च यच्चाप्येषां विचिन्तितम् ॥ २,४.१६ ॥ तथोपचरितं यच्च तत्सर्वं विदितं मम । मया बद्धमिदं सर्वं चजगत्स्थावरजङ्गमम् ॥ २,४.१७ ॥ आशामयेन बन्धेन कस्तं छेत्तुमिहोत्सहेत् । यस्माद्वहति दृप्तो वै सर्वार्थमिह नान्यथा ॥ २,४.१८ ॥ इति कर्माण्यनारभ्य कामं छन्दाद्विमोक्षते । एवं संभाष्य तान्देवान् जयानध्यात्मचेतसः ॥ २,४.१९ ॥ अथ वीक्ष्य पुनश्चाह ध्रुवं दड्यान्प्रजापतिः । यस्मान्मानभिसंधाय सन्यासादिः कृतः सुराः ॥ २,४.२० ॥ तस्मात्स विपुलायत्तो व्यापारस्त्वथ मत्कृतः । भविता च सुखोदर्के दिव्यभावेन जायताम् ॥ २,४.२१ ॥ आत्मच्छन्देन वो जन्म भविष्यति सुरोत्तमाः । मन्वन्तरेषु संसिद्धाः सप्तस्वाविर्भविष्यथ ॥ २,४.२२ ॥ वैवस्वतान्तेषु सुरास्तथा स्वायंभुवादिषु । एवं च ब्रह्मणा तत्र श्लोको गीतः पुरातनः ॥ २,४.२३ ॥ त्रयी विद्या ब्रह्ममयप्रसूतिः श्राद्धं तपो यज्ञमनुप्रदानम् । एतानि नित्यैः महसा रजोभिर्भूत्वा विभुर्वसतेऽन्यत्प्रशस्तम् ॥ २,४.२४ ॥ एवं श्लोकार्थमुक्त्वा तु जयान्देवानथाब्रवीत् । वैवस्वतेंऽतरेतीते मत्समीपमिहैष्यथ ॥ २,४.२५ ॥ ततो देवस्तिरोभूत ईश्वरो ङ्यकुतोभयः । प्रपन्नाधारणामाद्यां युक्त्वा योगबलान्विताम् ॥ २,४.२६ ॥ ततस्तेन रुषा शप्तास्तेऽभवन्द्वादशाजिताः । जया इति समाख्याताः कृता एवं विसन्निभाः ॥ २,४.२७ ॥ ततः स्वायंभुवे तस्मिन्सर्गेऽतीते तु वै सुराः । पुनस्ते तुषिता देवा जाताः स्वारोचिषेंऽतरे ॥ २,४.२८ ॥ उत्तमस्य मनोः पुत्राः सत्यायां जज्ञिरे तदा । ततः सत्याः स्मृता देवा औत्तमे चान्तरे मनोः ॥ २,४.२९ ॥ हरिण्यां नाम तुषिता जज्ञिरे द्वादशेव तु । हरयोनाम ते देवा यज्ञभाजस्तदाभवन् ॥ २,४.३० ॥ ततस्ते हरयो देवाः प्राप्ते चारिष्ठवेन्तरे?॥ विकुण्ठायां पुनस्ते वै वरिष्ठा जज्ञिरे सुराः ॥ २,४.३१ ॥ वैकुण्ठा नाम ते देवाः पञ्चमस्यान्तरे मानोः । ततस्ते वै पुनर्देवा वैकुण्ठाः प्राप्य चाक्षुषम् ॥ २,४.३२ ॥ ततस्ते वै पुनः साध्याः संक्षीणे चाक्षुषेन्तरे । उपस्थिते पुनः सर्गे मनोर्वैवस्वतस्य ह ॥ २,४.३३ ॥ अंशेन साध्यास्तेऽदित्यां मारीचात्कश्यपात्पुनः । जज्ञिरे द्वादशादित्या वर्त्तमानेन्तरं सुराः ॥ २,४.३४ ॥ यदा चैते समुत्पन्नाश्चाक्षुषस्यान्तरे मनोः । शप्ताः स्वयंभुवा साध्या जज्ञिरे द्वादशामराः ॥ २,४.३५ ॥ एवं शृणोति यो मर्त्योजयस्तस्य भवेत्सदा । जयानां श्रद्धया युक्तः प्रत्यध्यायं तु गच्छति ॥ २,४.३६ ॥ इत्येता वृत्तयः सप्त देवानां जन्मलक्षणाः । परिक्रान्ता मया वोऽद्या किं भूयः श्रोतुमिच्छथ ॥ २,४.३७ ॥ इति ब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यामभागे तृतीय उपोद्धातपादे जयाभिव्याहारो नाम चतुर्थोऽध्यायः _____________________________________________________________ ऋषिरुवाच दैत्यानां दानवानां च गन्धर्वोरगरक्षसाम् । सर्पभूतापिशा चानां वसूनां पक्षिवीरुधाम् ॥ २,५.१ ॥ उत्पत्तिं निधनं चैव विस्तारात्कथयस्व नः । एवमुक्तस्तदा सूतः प्रत्युवाचर्षिसत्तमम् ॥ २,५.२ ॥ सूत उवाच दितेः पुत्रद्वयं जज्ञे कन्या चैका महाबला । कश्यपस्यात्मजौ तौ तु सर्वेभ्यः पूर्वजौ स्मृतौ ॥ २,५.३ ॥ सौत्येऽहन्यतिरा त्रस्य कश्यपस्याश्वमेधिकाः । हिरण्यकशिपुर्नाम प्रथितं पृथगासनम् ॥ २,५.४ ॥ दित्या गर्भाद्विनिः सृत्य तत्रासीनः समन्ततः । हिरण्य कशिपुस्तस्मात्कर्मणा तेन स समृतः ॥ २,५.५ ॥ ऋषय ऊचुः हिरण्यकशिपोर्जन्म नाम चैव महात्मनः । प्रभावं चैव दैत्यस्य विस्ताराद्ब्रूहि नः प्रभो ॥ २,५.६ ॥ सूत उवाच कश्यपस्याश्वमेधोऽभूत्पुण्ये वै पुष्करे तदा । ऋषिभिदेंवताभिश्च गन्धर्वैरुपशोभितः ॥ २,५.७ ॥ उत्सृष्टे स्वे च विधिना आख्यानादौ यथाविधि । आसनान्युपकॢप्तानि सौवर्णानि तु पञ्च वै ॥ २,५.८ ॥ कुलस्पदापि? त्रीण्यत्र कूर्चः फलकमेव च । मुख्यर्त्विजस्तु चत्वारस्तेषां तान्युपकल्पयन् ॥ २,५.९ ॥ कॢप्त तत्रासनं चैकं होतुरर्थे हिरण्यम् । निषसाद सगर्भोऽत्र तत्रासीनः शशंस च ॥ २,५.१० ॥ आख्यानमानुपूर्व्येण महर्षिः कश्यपो यथा । तं दृष्ट्वा ऋषयस्तस्य नाम कुर्वन्ति वर्द्धितम् ॥ २,५.११ ॥ हिरण्यकशिपुस्तस्मात्कर्मणा तेन स स्मृतः । हिरण्यक्षोऽनुजस्तस्य सिंहिका तस्य चानुजा ॥ २,५.१२ ॥ राहोः सा जननी देवी विप्र चित्तेः परिग्रहः । हिरण्यकशिपुर्दैत्यश्चचार परमं तपः ॥ २,५.१३ ॥ शतं वर्षसहस्राणां निराहारो ह्यधःशिराः । वरयामास ब्रह्माणं तुष्टं दैत्यो वरेण तु ॥ २,५.१४ ॥ सर्वामरत्वमवधं सर्वभूतेभ्य एव हि । योगद्देवान् विनिर्जित्य सर्वदेवत्वमास्थितः ॥ २,५.१५ ॥ कारयेऽहमिहैश्वर्यं बलवीर्यसमन्वितः । दानवास्त्वसुराश्चैव देवाश्च सह चारणैः ॥ २,५.१६ ॥ भवन्तु वशगाः सर्वे मत्समीपानुभोजनाः । आर्द्रशुष्कैरवध्यश्च दिवा रात्रौ तथैव च । एवमुक्तस्तदा ब्रह्मानुजज्ञे सांतरं वरम् ॥ २,५.१७ ॥ ब्रह्मोवाच । महानयं वरस्तात वृतो दितिसुत त्वया । एही दानीं प्रतिज्ञानं भविष्यत्येवमेव तु ॥ २,५.१८ ॥ दत्त्वा चाभिमतं तस्मै तत्रेवान्तरधादथ । सोऽपि दैत्यस्तदा सर्वं जगत्स्थावरजङ्गमम् ॥ २,५.१९ ॥ महिम्ना व्याप्य संतस्थे बहुमूर्त्तिरमित्रजित् । स एव तपति व्योम्नि चन्द्रसूर्यत्वमास्थितः ॥ २,५.२० ॥ स एव वायुर्भूत्वा च ववौ जगति सर्वदा । स गोपालोऽविपालश्च कर्षकश्च स एव ह ॥ २,५.२१ ॥ स ज्ञाता सर्वलोकेषु मन्त्रव्याख्याकरस्तथा । नेता गोप्ता गोपयिता दीक्षितो याजकः स तु ॥ २,५.२२ ॥ तस्य देवाः सुराः सर्वे तदासन्सोमपायिनः । एवंप्रभावो दैत्योऽसावतो भूयो निबोधत ॥ २,५.२३ ॥ तस्मै सर्वे नमस्कारं कुर्वन्तीज्यः स एव च । हिरण्यकशिपोर्दैत्यैः श्लोको गीतः पुरा त्विह ॥ २,५.२४ ॥ हिरण्यकशिपू राजा यां यामाशां निरैक्षत । तस्यै तस्यै तदा देवा नमश्चक्रुर्महर्षिभिः ॥ २,५.२५ ॥ तस्यासीन्नरसिंहस्तु मृत्युर्विष्णुः पुरा किल । नरात्तु यस्माज्जन्मास्य नरमूर्त्तिश्च यत्प्रभुः ॥ २,५.२६ ॥ तस्मात्स नरसिंहो वै गीयते वेदवादिभिः । सागरस्य च वेलायामुच्छ्रित स्तपसो विभुः ॥ २,५.२७ ॥ शरीरं तस्य देवस्य ह्यासीद्देवमयं प्रभो । नाम्ना सुदर्शनं चैव विश्रुतश्च महाबलः ॥ २,५.२८ ॥ ततः स बाहुयुद्धेन दैत्येन्द्रं तं महाबलम् । नखैर्बिभद संक्रुद्धो नार्द्राः शुष्का नखा इति ॥ २,५.२९ ॥ हिरण्याक्षसुताः पञ्च विक्रान्ताः सुमहाबलाः । शंबरः शकुनिश्चैव कालनाभस्तथैव च ॥ २,५.३० ॥ महानाभः सुविक्रान्तो सुत संतापनस्तथा । हिरण्यक्षसुता ह्येते देवैरपि दुरासदाः ॥ २,५.३१ ॥ तेषां पुत्राश्च पौत्राश्च दैतेयाः सगणाः स्मृताः । स शतानि सहस्राणि निहतास्तारकामये ॥ २,५.३२ ॥ हिरण्यकशिपोः पुत्राश्चत्वारः सुमहाबलाः । प्रह्लादः पूर्वजस्तेषामनुह्ना दस्तथापरः ॥ २,५.३३ ॥ संह्रादश्चैव ह्रादश्च ह्रादपुत्रौ निबोधत । सुंदो निसुन्दश्च तथा ह्रादपुतौ बभूवतुः ॥ २,५.३४ ॥ ब्रह्यघ्नौ तौ महावीरौ मूकस्तु ह्राददायकः । मारीचः सुन्दपुत्रस्तु ताडकायामजायत ॥ २,५.३५ ॥ दण्डके निहतः सोऽथ राघवेण बलीयसा । मूको विनिहतश्चापि कैराते सव्यसाचिना ॥ २,५.३६ ॥ संह्रादस्य तु दैत्यस्य निवातकवचाः कुले । उत्पन्ना महता चैव तपसा भाविताः स्वयम् ॥ २,५.३७ ॥ अरयो देवतानां ते जंभस्य शतदुन्दुभिः । तथा दक्षो सुरश्चण्डश्चत्वारो देत्यनायकाः ॥ २,५.३८ ॥ बाष्कलस्य सुता ह्येते काल नेमेः सुताञ्छृणु । ब्रह्मजित्क्रतुजिच्चैव देवान्तकनरान्तकौ ॥ २,५.३९ ॥ कालनेमिसुता ह्येते शभोस्तु शृणुत प्रजाः । राजाजश्चैव गोमश्च शंभोः पुत्रौ प्रकीर्त्तितौ ॥ २,५.४० ॥ विरोजनस्य पुत्रश्च बलिरेकः प्रतापवान् । बलेः पुत्रशतं जज्ञे राजानः सर्व एव ते ॥ २,५.४१ ॥ तेषां प्रधानाश्चत्वारो विक्रान्ताः सुमहाबलाः । सहस्रबाहुः श्रेष्ठोऽभूद्बाणो राजा प्रतापवान् ॥ २,५.४२ ॥ कुंभगर्त्तो दयो भोजः कुञ्चिरित्येवमा दयः । शकुनी पूतना चैव कन्ये द्वे तु बलेः स्मृते ॥ २,५.४३ ॥ बलेः पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः । बालेया नाम विख्याता गणा विक्रान्तपौरुषाः ॥ २,५.४४ ॥ बाणस्य चैन्द्रधन्वा तु लोहिन्यामुदपद्यत । दितिर्विहितपुत्रा वै तोषयामास कश्यपम् ॥ २,५.४५ ॥ तां कश्यपः प्रसन्नात्मा सम्यगाराधितस्त्वथ । वरेण छन्दयामास सा च वव्रे वरं तत ॥ २,५.४६ ॥ अथ तस्यै वरं प्रादात्प्रार्थितो भगवान्पुनः । उक्ते वरे तु मा तुष्टा दितिस्तं समभाषत ॥ २,५.४७ ॥ मारीचं कण्यपं देवी भर्त्तारं प्राञ्जलिस्तदा । हतपुत्रास्मि भगवन्नादित्यैस्तव सूनुभिः ॥ २,५.४८ ॥ शक्रहन्तारमिच्छमि पुत्रं दीर्घतपोऽर्जितम् । साहं तपश्चरिष्यामि गर्भमाधातुमर्हसि ॥ २,५.४९ ॥ पुत्रमिन्द्रवधे युक्तं त्वं मै वै दातुमर्हसि । तस्यास्तद्वचनं श्रुत्वा मारीचः कश्यपस्तदा ॥ २,५.५० ॥ प्रत्युवाच महातेजा दितिं परमदुः खितः । एवं भवतु गर्भे तु शुचिर्भव तपोधने ॥ २,५.५१ ॥ जनयिष्यसि पुत्रं त्वं शक्रहन्तारमाहवे । पूर्णं वर्षसहस्रं तु शुचिर्यदि भविष्यसि ॥ २,५.५२ ॥ पुत्रं त्रिलोकप्रवरं मन्मथं जनयिष्यसि । एवमुक्त्वा महातेजास्तथा समभावत्तदा ॥ २,५.५३ ॥ तामालभ्य स्वभवनं जगाम भगवानृषिः । गते भर्त्तरि सा देवी दितिः परमहर्षिता ॥ २,५.५४ ॥ कुशप्लवनमासाद्य तपस्तेपे सुदारुणम् । शक्रस्तु समुपश्रुत्य संवादं तं तयोः प्रभुः ॥ २,५.५५ ॥ कुशप्लवनमागम्य दितिं वाक्यमभाषत । शुश्रूषां ते करिष्यामि मानुज्ञां दातुमर्हसि ॥ २,५.५६ ॥ समिधश्चाहरिष्यामि पुष्पाणि च फलानि च । यथा त्वं मन्यसे वत्स सुश्रूषाभिरतो भव ॥ २,५.५७ ॥ सर्वकर्मसु निष्णात आत्मनो हितमाचर । वरं श्रुत्वा तु त द्वाक्यं मातुः शक्रः प्रहर्षितः ॥ २,५.५८ ॥ शुश्रूषाभिरतो भूत्वा कलुषेणान्तरात्मना । शुश्रूषते तु तां शक्रः सर्वकालमनुव्रतः ॥ २,५.५९ ॥ फलपुष्पाण्युपादाय समिधश्च दृढव्रतः । गात्रसंवाहनं काले श्रमापनयने तथा ॥ २,५.६० ॥ शक्रः सर्वेषु कालेषु दितिं परिचचार ह । किञ्चिच्छिष्टे व्रते देवी तुष्टा शक्रमुवाच ह ॥ २,५.६१ ॥ प्रतीताहं ते सुरश्रेष्ठ दशवर्षाणि पुत्रक । अवशिष्ठानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः ॥ २,५.६२ ॥ तमहं त्वत्कृते पुत्र सह धास्ये जयैषिणम् । त्रैलोक्यविजयं पुत्र भोक्ष्यसे सह तेन वै ॥ २,५.६३ ॥ नाहं पुत्राभिजानामि मद्भक्तिगतमानसम् । एवमुक्त्वा दितिः शक्रं मध्यं प्राप्ते दिवाकरे ॥ २,५.६४ ॥ निद्रयापहृता दवी शिरः कृत्वा तु जानुनि । केशान्कृत्वा तु पादस्थान्सा सुष्वाप च देवता ॥ २,५.६५ ॥ अधस्ताद्यत्तु नाभेर्वै सर्वं तदशुचि स्मृतम् । ततस्तामशुचिं ज्ञात्वा सोंतरं तदमन्यत ॥ २,५.६६ ॥ दृष्ट्वा तु कारणं सर्वं तस्य बुद्धिरजायत । गर्भं निहन्तु वै देव्या स हि दोषोऽत्र दृश्यते ॥ २,५.६७ ॥ ततो विवेश दित्या वै ह्युपस्थेनोदरं वृषा । प्रविश्य चापि तं दृष्ट्वा गभमिन्द्रो महौजसम् ॥ २,५.६८ ॥ भीतस्तं सप्तधा गभ बिभेद रिपुमात्मनः । म गर्भो भिद्यमानस्तु वज्रणशतपर्वणा ॥ २,५.६९ ॥ रुरोद सुस्वरं भीमं वेपमानः पुनः पुनः । मारोद मारोद इति गर्भं शक्रोऽभ्यभाषत ॥ २,५.७० ॥ तं गर्भं सप्तधा कृत्वा ह्येकैकं सप्तधा पुनः । कुलिशेन बिभेदेन्द्रस्ततो दितिरबुध्यता ॥ २,५.७१ ॥ न हन्तव्यो न हन्तव्य इत्येवं दितिरब्रवीत् । निष्पपात ततो वज्री मातुर्वचनगौरवात् ॥ २,५.७२ ॥ प्राञ्जलिर्वज्रसहितो दितिं शक्रोऽभ्यभाषत । अशुचिर्देवि सुप्तासि पादयोर्गतमूर्द्धजा ॥ २,५.७३ ॥ तदं तरमनुप्राप्य गर्भं हेतारमाहवे । भिन्नवानहमेतं ते बहुधा क्षन्तुमर्हसि ॥ २,५.७४ ॥ तस्मिंस्तु विफले गर्भे दितिः परमदुःखिता । सहस्राक्षं दुराधर्षं वाक्यं सानुनयाब्रवीत् ॥ २,५.७५ ॥ ममापराधाद्गर्भोऽयं यदि ते विफलीकृतः । नापराधोऽस्ति देवेश तव पुत्र महाबल ॥ २,५.७६ ॥ शत्रोर्वधे न दोषोऽस्ति भेतव्यं न च ते विभो । प्रियं तु कृतमिच्छामि श्रेयो गर्भस्य मे कुतः ॥ २,५.७७ ॥ भवन्तु मम पुत्राणां सप्त स्थानानि वै दिवि । वातस्कन्धानिमान्सप्त चरन्तु मम पुत्रकाः ॥ २,५.७८ ॥ मरुतस्ते तु विख्याता गतास्ते सप्तसप्तकाः । पृथिव्यां प्रथमस्कन्धो द्वितीयश्चापि भास्करे ॥ २,५.७९ ॥ सोमे तृतीयो विज्ञेयश्चतुर्थो ज्योतिषां गणे । ग्रहेषु पञ्चमस्चैव षष्ठः सप्तर्षिमण्डले ॥ २,५.८० ॥ ध्रुवे तु सप्तमश्चैव वातस्कन्धाश्चसप्त ये । तानेते विचरन्त्वद्य कालेकाले ममात्मजाः ॥ २,५.८१ ॥ वातस्कन्धाधिपा भूत्वा चरन्तु मम पुत्रकाः । पृथिव्यां प्रथमस्कन्ध आ मेघेब्यो य आवहः ॥ २,५.८२ ॥ चरन्तु मम पुत्रास्ते सप्त ये प्रथमे गणे । द्वितीयश्चापि मेघेभ्य आसूर्यात्प्रवहस्ततः ॥ २,५.८३ ॥ वातस्कन्धो हि विज्ञेयो द्वितीयश्चरतां गणः । सूर्यादूर्ध्वमधः सोमादुद्वहोऽथ स वै स्मृतः ॥ २,५.८४ ॥ वातस्कन्धस्तृतीयश्च पुत्राणां चरता गणः । सोमादूर्द्ध्वमधर्क्षेभ्यश्चतुर्थ संवहस्तु सः ॥ २,५.८५ ॥ चतुर्थो मम पुत्राणां गणस्तु चरतां विभो । ऋक्षेभ्यश्च तथैवोर्द्ध्वमा ग्रहाद्विवहस्तु यः ॥ २,५.८६ ॥ वातस्कन्धः पञ्चमस्तु पुत्राणां चरतां गणः । ग्रहेभ्य ऊर्द्ध्वमार्षिभ्यः षष्ठो ह्यनुवहश्च यः ॥ २,५.८७ ॥ वातस्कन्धस्तत्र मम पुराणां चरता गणः । ऋषिभ्य ऊर्द्ध्वमाध्रौवं सप्तमो यः प्रकीर्त्तितः ॥ २,५.८८ ॥ वातस्कन्धः परिवहस्तत्र तिष्ठन्तु मे सुताः । एतान्सर्वाश्चरन्त्वन्ते कालेकाले ममात्मजाः ॥ २,५.८९ ॥ त्वत्कृतेन च नाम्ना वै भवतु मरुतस्त्विमे । ततस्तेषां तु नामानि मत्पुत्राणां शतक्रतो ॥ २,५.९० ॥ तद्विधैः कर्मभिश्चैव समवेहि पृथक्पृथक् । शक्रज्योतिस्तथा सत्यः सत्यज्योतिस्तथापरः ॥ २,५.९१ ॥ चित्रज्योतिश्च ज्योतिष्मान् सुतपश्चैत्य एव च । प्रथमोऽयं गणः प्रोक्तो द्वितीयं तु निबोधत ॥ २,५.९२ ॥ ऋतजित्सत्यजिश्चैव सुषेणः सेनजित्तथा । सुतमित्रो ह्यमित्रश्च सुरमित्रस्तथापरः ॥ २,५.९३ ॥ गण एष द्वितीयस्तु तृतीयं च निबोधत । धातुश्च धनदश्चैव ह्युग्रो भीमस्तथैव च ॥ २,५.९४ ॥ वरुणश्च तृतीयं च मया प्रोक्तं निबोधत । अभियुक्ताक्षिकश्चैव साह्वायश्च गणः स्मृतः ॥ २,५.९५ ॥ ईदृक्चैव तथान्यादृक्समरिद्द्रुमवृचक्षकाः । मितश्च समितश्चैव पञ्चमश्च तथा गणः ॥ २,५.९६ ॥ ईदृक्च पुरुषश्चैव नान्यादृक्समचेतनः । संमितः समवृत्तिश्च प्रतिहर्ता च षड्गणाः ॥ २,५.९७ ॥ यज्ञैश्चित्वास्तुवन्सर्वे तथान्ये मानुषा विशः । दैत्यदेवाः समाख्याताः सप्तैते सप्तसप्तकाः ॥ २,५.९८ ॥ एते ह्येकोनपञ्चाशन्मरुतो नामतः स्मृताः । प्रसंख्यातास्तदा ताभ्यां दित्या शक्रेण चैव वै ॥ २,५.९९ ॥ कृत्वा चैतानि नामानि दितिरिन्द्रमुवाच ह । वातस्कन्धांश्चरन्त्वेते भ्रतरो मम पुत्रकाः ॥ २,५.१०० ॥ विचरन्तु च भद्रं ते देवैः सह ममात्मजाः । तस्यास्तद्वचनं श्रुत्वा महस्राक्षः पुरन्दरः ॥ २,५.१०१ ॥ उवाच प्राञ्जलिर्भूत्वा मातर्भवतु तत्तथा । सर्व मेतद्यथोक्तं ते भविष्यति न संशयः ॥ २,५.१०२ ॥ एवंभूता महात्मानः कुमारा लोकसंमताः । देवैः सह भविष्यन्ति यज्ञभाजस्तवात्म जाः ॥ २,५.१०३ ॥ तस्मात्ते मरुतो देवाः सर्वे चेन्द्रानुजा वराः । विज्ञेयाश्चामराः सर्वे दितिपुत्रास्तरस्विनः ॥ २,५.१०४ ॥ एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोवने । जग्मतुस्त्रिदिवं त्दृष्टौ शक्रमाभूद्गतज्वरः ॥ २,५.१०५ ॥ मरुतां च शुभं जन्म शृणुयाद्यः पठेच्च वा । वादे विजयमाप्नोति लब्धात्मा च भवत्युत ॥ २,५.१०६ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे _____________________________________________________________ सूत उवाच अभवन्दनुपुत्रास्तु वंशे ख्याता महासुराः । विप्रचित्तिप्रधा नास्तेऽचिन्तनीयपराक्रमाः ॥ २,६.१ ॥ सर्वे लब्धवराश्चैव ते तप्ततपसस्तथा । सत्यसंधाः पराक्रान्ताः क्रूरा मायाविनश्च ते ॥ २,६.२ ॥ महाबलास्ते जवना ब्रह्मिष्ठा ये च साग्नयः । कीर्त्यमानान्मया सर्वान्प्राधान्येन निबोधत ॥ २,६.३ ॥ द्विमूर्द्धा शंबरश्चैव तथा शङ्कुरथो विभुः । शङ्कुकर्णो विपादश्च गविष्ठो दुन्दुभिस्तथा ॥ २,६.४ ॥ अयोमुखस्तु मघवान्कपिलो वामनो मयः । मरीचिरसिपाश्चैव महा मायोऽशिरा भृशी ॥ २,६.५ ॥ विक्षोभश्च सुकेतुश्च केतुवीर्यशताह्वयौ । इन्द्रजिद्विविदश्चैव तथा भद्रश्च देवजित् ॥ २,६.६ ॥ एकचक्रो महा बाहुस्तारकश्च महाबलः । वैश्वानरः पुलोमा च प्रापणोऽथ महाशिराः ॥ २,६.७ ॥ स्वर्भानुर्वृषपर्वा च पुरुण्डश्च महासुरः । धृतराष्ट्रश्च सूर्यश्चचन्द्रमा इन्द्रतापनः ॥ २,६.८ ॥ सूक्ष्मश्चैव निचन्द्रश्च चूर्णनाभो महागिरिः । असिलोमा सुकेशश्च शठश्च मूलकोदरः ॥ २,६.९ ॥ जम्भो गगनमूर्द्धा चकुंभमानो महोदकः । प्रमदोऽद्मश्च कुपथो ह्यश्वग्रीवश्च वीर्यवान् ॥ २,६.१० ॥ वैमृगः सविरूपाक्षः सुपथश्च हला हलौ । अक्षो हिरण्मयश्चैव शतग्रीवश्च शंबरः ॥ २,६.११ ॥ शरभः श्वलभश्चैव सूर्याचन्द्रमसावुभौ । असुराणां स्मृतावेतौ सुराणां च प्रभाविणौ ॥ २,६.१२ ॥ इति पुत्रा दनोर्वंशप्रधानाः परिकीर्त्तिताः । तेषामपरिसंख्येयं पुत्रपौत्रमनन्तकम् ॥ २,६.१३ ॥ इत्येत असुराः तक्रान्ता दैतेया दानवास्तथा । सुत्वानस्तु स्मृता दैत्या असुत्वानो दनोः सुताः ॥ २,६.१४ ॥ इमे च वंशानुगता दनोः पुत्रान्वयाः स्मृताः । एकाक्षेश्वप्रभारिष्टः प्रलंबनरकावपि ॥ २,६.१५ ॥ इन्द्रबाधनकेशी च पुरुषः शेषवानुरुः । गरिष्ठश्च गवाक्षश्च तालकेतुश्च वीर्यवान् ॥ २,६.१६ ॥ एते मनुष्या वध्यास्तु दनुपुत्रान्वयाः स्मृताः । दैत्यदानवसंयोगे जाता भीमपराक्रमाः ॥ २,६.१७ ॥ सिंहिकायामथोत्पन्ना विप्रचित्तेः सुता इमे । सैंहिकेयाः समाख्याताश्चतुर्दश महासुराः ॥ २,६.१८ ॥ शलश्च शलभश्चैव सव्यसिव्यस्तथैव च । इल्वलो नमुचिश्चैव वातापिस्तु सुपुञ्जिकः ॥ २,६.१९ ॥ रहकल्पः कालनाभो भौमश्च कनकस्तथा । राहुर्ज्येष्ठस्तु तेषां वै सूर्यचन्द्रप्रमर्द्दनः ॥ २,६.२० ॥ इत्योते सिंहिकापुत्रा देवैरपि दुरासदाः । दारुणाभिजनाः क्रूराः सर्वे ब्रह्महणश्च ते ॥ २,६.२१ ॥ दश तानि सहस्राणिसैंहिकेया गणाः स्मृताः । निहता जामदग्न्येन भार्गवेण बलीयसा ॥ २,६.२२ ॥ स्वर्भानोस्तु प्रभा कन्या पुलोम्नस्तु शची सुता । उपदानवी सदस्याथ शर्मिष्ठा वृषपर्वणः ॥ २,६.२३ ॥ पुलोमा कालिका चैव वैश्वानरसुते उभे । प्रभायां नहुषः पुत्रो जयन्तस्तु शचीसुतः ॥ २,६.२४ ॥ पुरुं जज्ञेऽथ शर्मिष्ठा दुष्यन्तसुपदानवी । वैश्वानरसुते एते पुलोमा कालका तथा ॥ २,६.२५ ॥ बह्वपत्ये उभे कन्ये मारीचस्य परिग्रहः । तयोः पुत्रसहस्राणि षष्टिर्दानवपुङ्गवाः ॥ २,६.२६ ॥ चतुर्दश तथान्यानि हिरण्यपुरवासिनाम् । पौलोमाः कालकेयाश्च दानवाः सुमरा बलाः ॥ २,६.२७ ॥ अवध्या देवतानां ते निहताः सव्यमाचिना । मयस्य जाता रंभायां पुत्राः षट्च महाबलाः ॥ २,६.२८ ॥ मायावी दुन्दुभिश्चैव पुत्रश्च महिषस्तथा । कालिकश्चाजकर्णश्चकन्या मन्दोदरी तथा ॥ २,६.२९ ॥ दैत्यानां दानवानां च सर्ग एष प्रकीर्त्तितः । अनायुषायाः पुत्रास्ते स्मृताः पञ्च महाबलाः ॥ २,६.३० ॥ अररुर्बलवृत्रौ च विज्वरश्च वृषस्तथा । अररोस्तनयः क्रूरो धुन्धुर्नाम महासुरः ॥ २,६.३१ ॥ निहतः कुवलाश्वेन उत्तङ्कवचनाद्बिले । बलपुत्रौ महावीर्यौं तेजसाप्रतिमावुभौ ॥ २,६.३२ ॥ निकुंभश्चक्रवर्मा च स कर्णः पूर्वजन्मनि । विजरस्यापि पुत्रौ द्वौ कालकश्च खरश्च तौ ॥ २,६.३३ ॥ वृषस्य तु पुनः पुत्राश्चत्वारः क्रूरकर्मणः । श्राद्धादो यज्ञहा चैव ब्रह्महा पशुहा तथा ॥ २,६.३४ ॥ क्रान्ता ह्यनायुषः पुत्रा वृत्र स्यापि निबोधत । जज्ञिरेऽसुमहाघोरा वृत्रस्येन्द्रेण युध्यता ॥ २,६.३५ ॥ बका नाम समाख्याता राक्षसाः सुमहाबलाः । शतं तानि सहस्राणि महेन्द्रानुचराः स्मृताः ॥ २,६.३६ ॥ सर्वे ब्रह्मविदः सौम्या धार्मिकाः सूक्ष्ममूर्त्तयः । प्रजास्वन्तर्गताः सर्वे निवसंति क्रुधावृताः ॥ २,६.३७ ॥ क्रोधा त्वप्रतिमान्पुत्रान् जज्ञे वै गायनोत्तमान् । सिद्धः पूर्णश्च वह्वीच पूर्णाशश्चैव वीर्यवान् ॥ २,६.३८ ॥ ब्रह्मचारी शतगुणः सुपर्णश्चैव मप्तमः । विश्वावसुश्च भानुश्च सुचन्द्रो दशमस्तथा । इत्येते देवगन्धर्वाः क्रोधायाः परिरीर्त्तिताः ॥ २,६.३९ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे दनुवंशकीर्त्तनं नाम षष्ठोऽध्याय _____________________________________________________________ सूत उवाच गन्धर्वाप्सरसः पुत्रा मौनेयास्तान्निबोधत । भीमसेनेग्रसेनौ च सुपर्णो वरुणस्तथा ॥ २,७.१ ॥ धृतराष्ट्रश्च गोमांश्च सूर्यवर्चास्तथैव च् । पत्रवानर्कपर्णश्च प्रयुतश्च तथैव हि ॥ २,७.२ ॥ भीमश्चित्ररथश्चैव विख्यातः सर्वजीद्वशी । त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः ॥ २,७.३ ॥ कलिः पञ्च दशस्तेषां नारदश्चैव षोडशः । इत्येते देवगन्धर्वा मौनेयाः परिकीर्त्तिताः ॥ २,७.४ ॥ चतुर्विंशाश्चावरजास्तेषामप्सरसः शुभाः । अरुणा चानपाया च विमनुष्या वरांबरा ॥ २,७.५ ॥ मिश्रकेशी तथाचासिपर्णिनी चाप्यलुंबुषा । मरीचिः शुचिका चैव विद्युत्पर्णा तिलोत्तमा ॥ २,७.६ ॥ अद्रिका लक्ष्मणा क्षेमा दिव्या रंभा मनोभवा । असिता च सुबाहूश्च सुप्रिया सुभुजा तथा ॥ २,७.७ ॥ पुण्डरीकाजगन्धा च सुदती सुरसा तथा । तथैवास्याः सुबाहूश्च विख्यातौ च हहाहुहू ॥ २,७.८ ॥ तुंबुरुश्चेति चत्वारः स्मृतागन्धर्वसत्तमाः । गन्धर्वाप्सरसो ह्येते मौनेयाः परिकीर्त्तिताः ॥ २,७.९ ॥ हंसा सरस्वती चैव सूता च कमलाभया । सुमुखी हंसपादी च लौकिक्योऽप्सरसः स्मृताः ॥ २,७.१० ॥ हंसो ज्योतिष्टमो मध्य आचारस्त्विह दारुणः । वरूथोऽथ वरेण्यश्य ततो वसुरुचिः स्मृतः ॥ २,७.११ ॥ अष्टमः सुरुचिस्तेषां ततो विश्वा वसुः स्मृतः । सुषुवे सा महाभागा रिष्टा देवर्षिपूजिता ॥ २,७.१२ ॥ अरूपां सुभगां भासीमिति त्रेधा व्यजायत । मनुवन्ती सुकेशी च तुंबरोस्तु सुते शुभे ॥ २,७.१३ ॥ पञ्चचूडास्त्विमा विद्यादेवमप्सरसो दश । मेनका सहजन्या च पर्णिनी पुञ्जिकस्थला ॥ २,७.१४ ॥ कृतस्थला द्यृताची च विश्वाची पूर्वचित्त्यपि । प्रम्लोचेत्यभिविख्यातानुम्लोचैव तु ता दश ॥ २,७.१५ ॥ अनादिनिधनस्याथ जज्ञे नारायणस्य या । कुलोचितानवद्याङ्गी उर्वश्चेकादशी स्मृता ॥ २,७.१६ ॥ मेनस्य मेनका कन्या जज्ञे सर्वाङ्गसुंदरी । सर्वाश्च ब्रह्मवादिन्यो महाभागाश्च ताः स्मृताः ॥ २,७.१७ ॥ गणास्त्वप्सरसां ख्याताः पुण्यास्ते वै चतुर्दश । आहृत्यः शोभवत्यश्च वेगवत्यस्तथैव च ॥ २,७.१८ ॥ ऊर्ज्जाश्चैव युवत्यश्च स्रुचस्तु कुरवस्तथाश्च । वर्हयश्चामृताश्चैव मुदाश्च मृगवो रुचः ॥ २,७.१९ ॥ भीरवः शोभयन्त्यश्च गाणा ह्येते चतुर्दश । ब्रह्मणो मानसाहृत्यः शोभवत्यो मरुत्सुताः ॥ २,७.२० ॥ वेगवत्यश्च रिष्टाया ऊर्ज्जाश्चैवाग्निसंभवाः । युवत्यश्च तथा सूर्यरश्मिजाताः सुशोभनाः ॥ २,७.२१ ॥ गभस्तिभिश्च सोमस्य जज्ञिरे कुरवः शुभाः । यज्ञोत्पन्ना स्रुचो नाम कुशवत्यां च बर्हयः ॥ २,७.२२ ॥ वारिजा ह्यमृतोत्पन्ना अमृता नामतः स्मृताः । वायूत्पनाना मुदा नाम भूमिजा मृगवस्तथा ॥ २,७.२३ ॥ विद्युतोऽत्र रुचो नाम मृत्योः कन्याश्च भीरवः । शोभयन्त्यश्च कामस्य गणाः प्रोक्ताश्चतुर्दश ॥ २,७.२४ ॥ इत्येते बहुसाहस्रा भास्वरा अप्सरोगणाः । देवतानामृषीणां च पत्न्यश्च मातरश्च ह ॥ २,७.२५ ॥ सुगन्धाश्चाथ निष्पन्दा सर्वाश्चाप्सरसः समाः । संप्रयोगस्तु कामेन माद्यं दिवि हरं विना ॥ २,७.२६ ॥ तासां देवर्षि संस्पर्शा जाताः साधारणा यतः । पर्वतस्तत्र संभूतो नारदश्चैव तावुभौ ॥ २,७.२७ ॥ ततो यवीयसी चैव तृतीयारुन्धती स्मृता । देवर्षिभ्यस्तयोर्जन्म यस्मान्नारदपर्वतौ ॥ २,७.२८ ॥ तस्मात्तौ तत्सनामानौ स्मृतौ नारदपर्वतौ । विनतायाश्च पुत्रौ द्वौ अरुणौ गरुडश्च ह ॥ २,७.२९ ॥ गायत्र्यादीनि छन्दांसि सौपर्णेयानि पक्षिणाः । व्यवहार्याणि सर्वाणि ऋजुसन्निहितानि च ॥ २,७.३० ॥ क्रद्रूर्नागसहस्रं वै विजज्ञे धरणीधरम् । अनेकशिरसां तेषां खेचराणां महात्मनाम् ॥ २,७.३१ ॥ बहुत्वान्नामधेयानां प्रधानांश्च निबोधत । तेषां प्रधाना नागानां शेषवासुकितक्षकाः ॥ २,७.३२ ॥ अकर्णो हस्तिकर्णश्च पिजरश्चार्यकस्तथा । ऐरावतो महापद्मः कंबलाश्वतरावुभौ ॥ २,७.३३ ॥ एलापत्रश्च शङ्खश्च कर्केटकधनञ्जयौ । महाकर्णमहानीलौ धृतराष्ट्रबलाहकौ ॥ २,७.३४ ॥ करवीरः पुष्पदंष्ट्रः सुमुखो दुर्मुखस्तथा । सूनामुखो दधिमुखः कालियश्चालिपिण्डकः ॥ २,७.३५ ॥ कपिलश्चांबरीषश्च अक्रूरश्च कपित्थकः । प्रह्रादस्तु ब्रह्मणाश्च गन्धर्वोऽथ मणिस्थकः ॥ २,७.३६ ॥ नहुषः कररोमा च मणिरित्येवमादयः । काद्रवेयाः समाख्याताः खशायास्तु निबोधत ॥ २,७.३७ ॥ खशा विजज्ञे द्वौ पुत्रौ विकृतौ परुषव्रतौ । श्रेष्ठं पश्चिमसंध्यायां पूर्वस्यां च कनीयसम् ॥ २,७.३८ ॥ विलोहितैककर्णं च पूर्वं साजनयत्सुतम् । चतुर्भुजं चतुष्पादं किञ्चित्स्पन्दं द्विधागतिम् ॥ २,७.३९ ॥ सर्वङ्गकेशं स्थूलाङ्गं शुभनासं महोदरम् । स्वच्छशीर्षं महाकर्णं मुञ्जकेशं महाबलम् ॥ २,७.४० ॥ ह्रस्वास्यं दीर्घजिह्वं च बहुदंष्ट्रं महाहनुम् । रक्तपिङ्गाक्षपादं च स्थूलभ्रूदीर्घनासिकम् ॥ २,७.४१ ॥ गुह्यकं शितिकण्ठं च महापादं महामुखम् । एवंविधं खशापुत्रं जज्ञेऽसावतिभीषणम् ॥ २,७.४२ ॥ तस्यानुजं द्वितीयं सा ह्युषस्यन्ते व्यजायत । त्रिशीर्षं च त्रिपादं च त्रिहस्तं कृष्णलोचनम् ॥ २,७.४३ ॥ ऊर्द्ध्वकेशं हरिच्छ्मश्रुं शिलासंहननं दृढम् । ह्रस्वकायं प्रबाहुं च महाकाय महारवम् ॥ २,७.४४ ॥ आकर्णदारितास्यं च बलवत्सथूलनासिकम् । स्थूलौष्ठमष्टदंष्ट्र च जिह्मास्यं शङ्कुकर्णकम् ॥ २,७.४५ ॥ पिङ्गलोद्वत्तनयनं जटिलं द्वन्द्वपिण्डकम् । महास्कन्धं महोरस्कं पृथुघोणं कृशोदरम् ॥ २,७.४६ ॥ अस्थूलं लोहितं ग्रीवलंबमेढ्राण्डपिडकम् । एवंविधं कुमारं सा कनिष्ठं समसूयत ॥ २,७.४७ ॥ सद्यः प्रसूतमात्रौ तौ विवृद्धौ च प्रमादतः । उपयौगसमर्थाभ्यां शरीराभ्यां व्यवस्थितौ ॥ २,७.४८ ॥ सद्योजातौ विवृद्धाङ्गौ मातरं पर्यकर्षताम् । तयोः पूर्वस्तु यः क्रूरो मातरं सोऽभ्य कर्षत ॥ २,७.४९ ॥ ब्रुवंश्च मातर्भक्षाव रक्षार्थं क्षुधयार्दितः । न्यषेधयत्पुनर्ह्येनं स्वयं स तु कनिष्ठकः ॥ २,७.५० ॥ पूर्वेषां क्षेमकृत्त्वं वै रक्षैतां मातरं स्वकाम् । बाहुभ्यां परिगृह्यैनं मातरं सोऽभ्यभाषयत् ॥ २,७.५१ ॥ एतस्मिन्नेव काले तु प्रादुर्भूतस्तयोः पिता । तौ दृष्ट्वा विकृता कारौ खशां तामभ्यभाषत ॥ २,७.५२ ॥ तौ सुतौ पितरं दृष्ट्वा ह्येकभूतौ भयान्वितौ । मातुरेव पुनश्चाङ्गे प्रलीयेतां स्वमायया ॥ २,७.५३ ॥ अथाब्रवीदृषिर्भार्यां किमाभ्यामुक्तवत्यसि । सर्वमाचक्ष्व तत्त्वेन तवैवायं व्यतिक्रमः ॥ २,७.५४ ॥ मातृतुल्यश्च जनने पुत्रो भवति कन्यका । यथाशीला भवेन्माता तथाशीलो भवेत्सुतः ॥ २,७.५५ ॥ यद्वर्णा तु भवेद्भूमिस्तद्वर्णं सलिलं ध्रुवम् । मातॄणां शीलदोषेण तथा रूपगुणैः पुनः ॥ २,७.५६ ॥ विभिन्नास्तु प्रजाः सर्वास्तथा ख्यातिवशेन च । इत्येवमुक्त्वा भगवान्खशामप्रतिमस्तदा ॥ २,७.५७ ॥ पुत्रावाहूय साम्ना वै चक्रे ताभ्यां तु नामनी । पुत्राभ्यां यत्कृतं तस्यास्तदाचष्ट खशा तदा ॥ २,७.५८ ॥ माता यथा समाख्याता तर्माभ्यां च पृथक्पृथक् । तेन धात्वर्थयोगेन तत्तदर्थे चकार ह ॥ २,७.५९ ॥ मातर्भक्षेत्यथोक्तो वै खादने भक्षणे च सः । भक्षावेत्युक्तवानेष तस्माद्यक्षोऽभवत्त्वयम् ॥ २,७.६० ॥ रक्ष इत्येष धातुर्यः पालने स विभाव्यते । उक्तवांश्चैष यस्मात्तु रक्षेमां मातरं स्वकाम् ॥ २,७.६१ ॥ नाम्ना रक्षोऽपरस्तस्माद्भविष्यति तवात्मजः । स तदा तद्विधां दृष्ट्वा विक्रियां च तयोः पिता ॥ २,७.६२ ॥ तदा भाविनमर्थं च बुद्ध्वा मात्रा कृतं तयोः । तावृभौ क्षुधितौ दृष्ट्वा विस्मितः परिमृष्टधीः ॥ २,७.६३ ॥ तयोः प्रादिशदाहारं खशापतिरसृग्वसे । पिता तौ क्षुधितौ दृष्ट्वा वर मेतं तयोर्ददौ ॥ २,७.६४ ॥ युवयोर्हस्तसंस्पर्शाद्रक्तधाराश्च सर्वशः । सृङ्मांसवसाभूता भविष्यन्तीह कामतः ॥ २,७.६५ ॥ नक्ताहारविहारौ च द्विजदेवादिभोजनौ । नक्तं चैव बलीयांसौ दिवा वै निर्बलौ युवाम् ॥ २,७.६६ ॥ मातरं रक्षत इमां धर्मश्चैवानुशिष्यते । इत्युक्त्वा काश्यपः पुत्रौ तत्रैवान्तरधीयत ॥ २,७.६७ ॥ गते पितरि तौ क्रूरौ निसर्गादेव दारुणौ । विपर्ययेषु वर्त्तेतेऽकृतज्ञौ प्राणिहिंसकौ ॥ २,७.६८ ॥ महाबलौ महासत्त्वौ महाकायौ दुरासदौ । मायाविदावदृश्यौ तावन्तर्धानगतावुभौ ॥ २,७.६९ ॥ तौ कामरूपिणौ घोरौ नीरुजौ च स्वभावतः । रूपा नुरूपैराचारैः प्रचरन्तौ प्रबाधकौ ॥ २,७.७० ॥ देवानृषीन्पितॄंश्चैव गन्धर्वान्किन्नरानपि । पिशाचांश्चमनुष्यांश्चपन्नगान्पक्षिणः पशून् ॥ २,७.७१ ॥ भक्षार्थमिह लिप्संतौ चेरतुस्तौ निशाचरौ । इन्द्रस्यानुचरौ चैव क्षुब्धौ दृष्ट्वा ह्यतिष्ठताम् ॥ २,७.७२ ॥ राक्षसं तं कदाचिद्वै निशीथे ह्येक मीश्वरम् । आहारं स परीप्सन्वै शब्देनानुससार ह ॥ २,७.७३ ॥ आससाद पिशाचौ वै त्वजः शण्ढश्च ताबुभौ । कपिपुत्रौ महावीर्यौं कूष्माडौ पूर्वजावुभौ ॥ २,७.७४ ॥ पिङ्गाक्षावूर्द्ध्वरोमाणौ वृत्ताक्षौ च सुदारुणौ । कन्याभ्यां सहितौ तौ तु ताभ्यां भर्तुश्चिकीर्षया ॥ २,७.७५ ॥ ते कन्ये कामरूपिण्यौ तदाचारमुभे च तम् । आहारार्थे समीहन्तौ सकन्यौ तु बुभुक्षितौ ॥ २,७.७६ ॥ अपश्यतां रक्षसं तौ कामरूपिणमग्रतः । सहसा सन्निपातेन दृष्ट्वा चैव परस्परम् ॥ २,७.७७ ॥ ईक्षमाणाः स्थितान्योन्यं परस्परजिघृक्षवः । पितरावूचतुः कन्ये युवा मानयत द्रुतम् ॥ २,७.७८ ॥ जीवग्राहं निगृह्यैनं विस्फुरन्तं पदेपदे । ततस्तमभिसृत्यैनं कन्ये जगृहतुस्तदा ॥ २,७.७९ ॥ संगृहीत्वा तु हस्ताभ्यामानीतः पितृसंसदि । ताभ्यां कन्यागृहीतं तं पिशाचौ वीक्ष्य रक्षसम् ॥ २,७.८० ॥ अपृच्छतां च कस्य त्वं स च सर्वमभाषत । तस्य कर्माभिजाती च श्रुत्वा तौ रक्षसस्तदा ॥ २,७.८१ ॥ अजः शण्डश्च तस्मै ते कन्यके प्रत्यपादयत् । तौ तुष्टौ कर्मणा तस्य कन्ये ते ददतुस्तु वै ॥ २,७.८२ ॥ पैशाचैन विवाहेन रुदन्त्यावुद्ववाह सः । अजः शण्डः सुताभ्यां तु तदा श्रावयतां धनम् ॥ २,७.८३ ॥ इयं ब्रह्मधना नाम कन्या या सहिता शुभा । ब्रह्म तस्यापराहार इति शण्डोऽभ्यभाषत ॥ २,७.८४ ॥ इयं जन्तुधना नाम कन्या सर्वाङ्गजन्तिला । जन्तुभाव धनादाना इत्यजौऽश्रावयद्धनम् ॥ २,७.८५ ॥ सर्वाङ्गकेशापाशा च कन्या जन्तुधना तु या । यातुधानप्रसूता सा कन्या चैव महारवा ॥ २,७.८६ ॥ अरुणा चाप्यलोमा च कन्या ब्रह्मधना तु या । ब्रह्मधानप्रसूता सा कन्या चैव महारवा ॥ २,७.८७ ॥ एवं पिशाचकन्ये ते मिथुने द्वे प्रसूयताम् । तयोः प्रजानिसर्गं च कथयिष्ये निबोधत ॥ २,७.८८ ॥ हेतिः प्रहेतिरुग्रश्च पौरुषेयौ वधस्तथा । विद्युत्स्फूर्जश्च वातश्च आयो प्याघ्रस्तथैव च ॥ २,७.८९ ॥ सूर्यश्च राक्षसा ह्येते यातुधानात्मजा दश । माल्यवांश्च सुमाली च प्रहेतितनयौ शृणु ॥ २,७.९० ॥ प्रहेतितनयः श्रीमानपुलोमा नाम विश्रुतः । मधुः परो महोग्रस्तु लवणस्तस्य चात्मजः ॥ २,७.९१ ॥ महायोगबलोपेतो महा देवमुपस्थितः । उग्रस्य पुत्रौ विक्रान्तो वज्रहा नाम विश्रुतः ॥ २,७.९२ ॥ पौरुषेयसुताः पञ्च पुरुषादा महाबलाः । कूरश्च विकृतश्चैव रुधिरादस्तथैव च ॥ २,७.९३ ॥ मेदाशश्चवपाशश्च नामभिः परिकीर्त्तिताः । वधपुत्रौ दुराचारौ विघ्नश्च शामनश्च ह ॥ २,७.९४ ॥ विद्युत्पुत्रो दुराचारो रसनो नाम राक्षसः । स्फूर्जक्षेत्रे निकुंभस्तु जातो वै ब्रह्मराक्षसः ॥ २,७.९५ ॥ वातपुत्रो विरोधस्तु तथा यस्य जनातकः । व्याघ्र पुत्रो निरानन्दः क्रतूनां विघ्नकारकः ॥ २,७.९६ ॥ सर्वस्य चान्वये जाता पूराः सर्पाश्च राक्षसाः । यातुधानाः परिक्रान्ता ब्रह्म धानान्निबोधत ॥ २,७.९७ ॥ यज्ञापेतो धृतिः क्षेमो ब्रह्मपेतश्च यज्ञहा । श्वातोंऽबुकः केलिसर्पौं ब्रह्मधानात्मजा नव ॥ २,७.९८ ॥ स्वसारो ब्रह्मराक्षस्यस्तेषां चेमाः सुदारुणाः । रक्तकर्णी महाजिह्वा क्षमा चेष्टापहारिणी ॥ २,७.९९ ॥ एतासामन्वये जाताः पृथिव्यां ब्रह्मराक्षसाः । इत्येते राक्षसाः क्रान्ता यक्षस्यविनिबोधत ॥ २,७.१०० ॥ चकमे सरसं यक्षः पञ्चचूडां क्रतुस्थलाम् । तल्लिप्सुश्चिन्तयानः स देवोद्यानानि मार्गते ॥ २,७.१०१ ॥ वैभ्राजं सुरभिं चैव तथा चैत्ररथं च यत् । विशोकं सुमनं चैव नन्दनं च वनोत्तमम् ॥ २,७.१०२ ॥ बहूनि रमणीयानि मार्गते जातलालसः । दृष्ट्वा तां नन्दने सोऽथ अप्सरोभिः सहासिनीम् ॥ २,७.१०३ ॥ नोपायं विन्दते तत्र तस्या लाभाय चिन्तयन् । दूषितः स्वेन रूपेण कर्मणा चैव दूषितः ॥ २,७.१०४ ॥ ममोद्विजन्ति हिंस्रस्य तथाभूतानि सर्वशः । तत्कथं नाम चार्वगीं प्राप्नुयामहमङ्गनाम् ॥ २,७.१०५ ॥ दृष्ट्वोपायं ततः सोऽथ शीघ्रकारी व्यवर्त्तयत् । कृत्वा रूपं वसुरुचेर्गन्धर्वस्य च गुह्यकः ॥ २,७.१०६ ॥ ततः सोऽप्सरसां मध्ये ता जचग्राह क्रतुस्थलाम् । बुद्ध्वा वसुरुचिं तं सा भावेनैवाभ्यावर्त्तत ॥ २,७.१०७ ॥ संभूतः स तया सार्द्धं दृश्यमानोऽप्सरोगणैः । जगाम मैथुनं यक्षः पुत्रार्थं स तया सह ॥ २,७.१०८ ॥ दृश्यमानोऽप्सरो लिप्सुः शङ्कां नैव चकार सः । ततः संसिद्धकारणः सद्यो जातः सुतस्तु वै ॥ २,७.१०९ ॥ उछ्रयात्परिणाहेन सद्यो वृद्धः श्रिया ज्वलन् । राजाहमिति नाभिर्हि पितरं सोऽभ्यवादयत् ॥ २,७.११० ॥ भवान् रजतनाभेति पिता तं प्रत्युवाच ह । मात्रानुरूपो रूपेम पितुर्वीर्येणजायते ॥ २,७.१११ ॥ जाते तस्मिन्कुमारे तु स्वरुपं प्रयपद्यत । स्वरूपं प्रतिपद्यन्ते गूहन्तो यक्षराक्षसाः ॥ २,७.११२ ॥ सुप्ता म्रियन्तः क्रुद्धाश्च भीतास्ते हर्षितास्तथा । ततोऽब्रवीत्सोऽप्सरसं स्मयमानस्तु गुह्यकः ॥ २,७.११३ ॥ गृहं मे गच्छ भद्रं ते सपुत्रा त्वं वरानने । इत्युक्त्वा सहसा तत्र दृष्ट्वा स्वं रूपमास्थितम् ॥ २,७.११४ ॥ विभ्रान्ताः प्रद्रुताः सर्वाः समेत्याप्सरसस्तदा । गच्छन्तीमन्वगच्छत्तां पुत्रस्तप्तां त्वयन्शिरा ॥ २,७.११५ ॥ गन्धर्वाप्सरसां मध्ये नयित्वा स न्यवर्त्तत । तां च दृष्ट्वा समुत्पत्तिं यक्षस्याप्सरसां गणाः ॥ २,७.११६ ॥ यक्षाणां तु जनित्री त्वं इत्यूचुस्तां क्रतुस्थलाम् । जगाम सह पुत्रेण ततो यक्षः स्वमालयम् ॥ २,७.११७ ॥ न्यग्रोधो रोहिणो नाम्ना शेरते तत्र गुह्यकाः । तस्मिन्निवासो यक्षाणां न्यग्रोधे रोहिणे स्मृतः ॥ २,७.११८ ॥ यक्षो रजतनाभश्च गुह्यकानां पितामहः । अनुह्रादस्य दैत्यस्य भद्रां मणिवरां सुताम् ॥ २,७.११९ ॥ उपयेमेऽनवद्याङ्गीं तस्यां मणिवरो वशी । जज्ञे सा मणिभद्रं च शक्रतुल्यपराक्रममम् ॥ २,७.१२० ॥ तयोः पत्न्यौ भगिन्यौ च क्रतुस्थस्यात्मजे शुभे । नाम्ना पुण्यजनी चैव तथा देवजनी च या ॥ २,७.१२१ ॥ विजज्ञे पणिभद्रातु पुत्रान्पुण्यजनी शुभा । सिद्धार्थं सूर्यतेजश्च सुमनं नन्दनं तथा ॥ २,७.१२२ ॥ मण्डूकं रुचकं चैव मणिमन्तं वसुं तथा । सर्वानुभूतं शङ्खं च पिङ्गाक्षं भीरुमेव च ॥ २,७.१२३ ॥ असोमं दूरसोमं च पद्मं चन्द्रप्रभं तथा । मेघवर्णं सुभद्रं च प्रद्योतं च महाद्युतिम् ॥ २,७.१२४ ॥ द्युति मन्तं केतुमन्तं दर्शनीयं सुदर्शनम् । चत्वारो विंशतिश्चैव पुत्राः पुण्यजनीभवाः ॥ २,७.१२५ ॥ जज्ञिरे मणिभद्रस्य सर्वे ते पुण्यलक्षणाः । तेषां पुत्राश्च पौत्राश्च यक्षाः पुण्यजनाः शुभाः ॥ २,७.१२६ ॥ विजज्ञे वै देवजनी पुत्रान्मणिवराञ्छुभा । पूर्णभद्रं हैमवन्तं मणिमन्त्रविवर्द्धनौ ॥ २,७.१२७ ॥ कुसुं चरं पिशङ्गं च स्थूलकर्णं महामुदम् । स्वेतं च विमलं चैव पुष्पदन्तं चयावहम् ॥ २,७.१२८ ॥ पद्मवर्णं सुचन्द्रं च पक्षञ्च बलकं तथा । कुमुदाक्षं सुकमलं वर्द्धमानं तथा हितम् ॥ २,७.१२९ ॥ पद्मनाभं सुगन्धं च सुवीरं विजयं कृतम् । पूर्ममासं हिरण्याक्षं सारणं चैव मानसम् ॥ २,७.१३० ॥ पुत्रा मणिवरस्यैते यक्षा वै गुह्यकाः स्मृताः । सुरुपाश्च सुवेषाश्च स्रग्विणः प्रियदर्शनाः ॥ २,७.१३१ ॥ तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः । खशायास्त्वपरे पुत्रा राक्षसाः कामरूपिणः ॥ २,७.१३२ ॥ तेषां यथा प्रधानान्वै वर्ण्यमा नान्निबोधत । लालाविः क्रथनो भीमः सुमाली मधुरेव च ॥ २,७.१३३ ॥ विस्फूर्जनो बृहज्जिह्वो मातङ्गो धूम्रितस्तथा । चन्द्रार्कभीकरो बुध्नः कपिलोमा प्रहासकः ॥ २,७.१३४ ॥ पीडापरस्त्रिनाभश्च वक्राक्षश्च निशाचरः । त्रिशिराः शतदंष्ट्रश्च तुण्डकोशश्च राक्षसः ॥ २,७.१३५ ॥ अश्वश्चाकंपनश्चैव दुर्मुखश्च निशाचरः । इत्येते राक्षसवारा विक्रान्ता गणरूपिमः ॥ २,७.१३६ ॥ सर्वलोकचरास्ते तु त्रिदशानां समक्रमाः । सप्त चान्या दुहितरस्ताः शृणुध्वं यथाक्रमम् ॥ २,७.१३७ ॥ यासां च यः प्रजासर्गो येन चोत्पादिता गणाः । आलंबा उत्कचोत्कृष्टा निरृता कपिला शिवा ॥ २,७.१३८ ॥ केशिनी च महाभागा भगिन्यः सप्त याः स्मृताः । ताभ्यो लोकनिकायस्य हन्तारो युद्धदुर्मदाः ॥ २,७.१३९ ॥ उदीर्णा राक्षसगणा इमे चोत्पादिताः शुभाः । आलंबेयो गणः क्रूर औत्कचेयो गणस्तथा ॥ २,७.१४० ॥ तथौ त्कार्ष्टेयशैवेयौ रक्षसां ह्युत्तमा गणाः । तथैव नैरृतो नाम त्र्यंबकानुचरेण ह ॥ २,७.१४१ ॥ उत्पादितः प्रजाकर्गे गणेश्वरवरेण तु । विक्रान्ताः शौर्यसंपन्ना नैरृता देवराक्षसाः ॥ २,७.१४२ ॥ येषामधिपतिर्युक्तो नाम्ना ख्यातो विरूपकः । तेषां गणशतानीका उद्धतानां महात्मनाम् ॥ २,७.१४३ ॥ प्रायेणानुचरन्त्येते शङ्करं जगतः प्रभुम् । दैत्यराजेन कुम्भेन महाकाया महात्मना ॥ २,७.१४४ ॥ उत्पादिता महावीर्या महाबलपराक्रमाः । कापिलेया महावीर्या उदीर्णा दैत्यराक्षसाः ॥ २,७.१४५ ॥ कपिलेन च यक्षेण केशिन्यां ह्यपरे जनाः । उत्पादिता बलावता उदीर्णा यक्षराक्षसाः ॥ २,७.१४६ ॥ केशिनी दुहिता चैव नीला या श्रुद्रराक्षसी । आलंबेयेन जनिता नैकाः सुरसिकेन हि ॥ २,७.१४७ ॥ नैला इति समाख्याता दुर्जया घोरविक्रमाः । चरन्ति पृथिवीं कृत्स्नां तत्र ते देवलौकिकाः ॥ २,७.१४८ ॥ बहुत्वाच्चैवसर्गस्य तेषां वक्तुं न शक्यते । तस्यास्त्वपि च नीलाया विकचा नाम राक्षसी ॥ २,७.१४९ ॥ दुहिता सुताश्च विकया महा सत्त्वपराक्रमाः । विरूपकेन तस्यां वै नैरृतेन इह प्रजाः ॥ २,७.१५० ॥ उत्पादिताः सुघोराश्च शृणु तास्त्वनुपूर्वशः । दंष्ट्राकराला विकृता महाकर्णा महोदराः ॥ २,७.१५१ ॥ हारका भीषकाश्चैव तथैव क्लामकाः परे । रेरवाकाः पिशाचाश्च वाहकास्त्रासकाः परे ॥ २,७.१५२ ॥ भूमिराक्षसका ह्येते मन्दाः परुपविक्रमाः । चरन्त्यदृष्टपूर्वास्तु नानाकारा ह्यनेकशः ॥ २,७.१५३ ॥ उत्कृष्टबलसत्त्वा ये तेषां वैखेचराः स्मृताः । लक्षमात्रेण चाकाशं स्वल्पात्स्वल्पं चरन्ति वै ॥ २,७.१५४ ॥ एतैर्व्याप्तमिदं विश्वं शतशोऽथ सहस्रशः । भूमिराक्षसकैः सर्वैरनेकैः क्षुद्रराक्षसैः ॥ २,७.१५५ ॥ नानाप्रकारैराक्रान्ता नाना देशाः समन्ततः । समासाभिहिताश्चैवह्यष्टौ राक्षसमातरः ॥ २,७.१५६ ॥ अष्टौ विभागा ह्येषां हि व्याख्याता अनुपूर्वशः । भद्रका निकराः केचिदज्ञनिष्पत्तिहेतुकाः ॥ २,७.१५७ ॥ सहस्रशतसंख्याता मर्त्य लोकविचारिणः । पूतरा मातृसामान्यास्तथा भूतभयङ्कराः ॥ २,७.१५८ ॥ बालानां मानुषे लोके ग्रहा मरणहेतुकाः । स्कन्दग्रहादयो हास्या आपकास्त्रासकादयः ॥ २,७.१५९ ॥ कौमारास्ते तु विज्ञेया बालानां गृहवृत्तयः । स्कन्दग्रहविशेषाणां मायिकानां तथैव च ॥ २,७.१६० ॥ पूतना नाम भूतानां ये च लोकविनायकाः । एवं गणसहस्राणि चरन्ति पृथिवीमिमाम् ॥ २,७.१६१ ॥ यक्षाः पुण्यजना नामपूर्णभद्राश्च ये स्मृताः । यक्षाणां राक्षसानां च पौलस्त्यागस्तयश्च ये ॥ २,७.१६२ ॥ नैरृतानां च सर्वेषां राजभूदलकाधिपः । यक्षादृष्ट्या पिबन्तीह नॄणां मांसमसृग्वसे ॥ २,७.१६३ ॥ रक्षांस्यनुप्रवेशेन पिशाचैः परिपीडनैः । सर्वलक्षणसंपन्नाः समामैश्चापि दैवतैः ॥ २,७.१६४ ॥ भास्वरा बलवन्तश्च ईश्वराः कामरूपिणः । अनाभिभाव्या विक्रान्ताः सर्वलोकनमस्कृताः ॥ २,७.१६५ ॥ सूक्ष्माश्चौजस्विनोमेध्या वरदा याज्ञिकाश्च वै । देवानां लक्षणं ह्येतदसुराणां तथैव च ॥ २,७.१६६ ॥ हीना देवैस्त्रिभिः पादैर्गन्धर्वाप्सरसः स्मृताः । गन्धर्वेभ्यस्त्रिभिः पादैर्हीना गुह्यकराक्षसाः ॥ २,७.१६७ ॥ ऐश्वर्यहीना रक्षोभ्यः पिशाचास्त्रिगुणां पुनः । एवन्धनेन रूपेण आयुषा च बलेन च ॥ २,७.१६८ ॥ धर्मैश्वर्येण बुद्ध्या च तपःश्रुतपराक्रमैः । देवासुरेभ्यो हीयन्ते त्रींस्त्रीन्पादान्परस्परम् ॥ २,७.१६९ ॥ गन्धर्वाद्याः पिशाचान्ताश्चतस्रो देवयोनयः । अतः शृणुत भद्रं वः प्रजाः क्रोधवशान्वयाः ॥ २,७.१७० ॥ क्रोधायाः कन्यका जज्ञे द्वादशैवात्मसंभवाः । ता भार्या पुलहस्यासन्नामतो मे निबोधत ॥ २,७.१७१ ॥ मृगी च मृगमन्दा च हरिभद्रा त्विरावती । भूता च कपिशा दंष्ट्रा ऋषा तिर्या तथैव च ॥ २,७.१७२ ॥ श्वेता च सरमा चैव सुरसा चेति विश्रुता । मृग्यास्तु हरिगाः पुत्रा मृगश्चान्ये शशास्तथा ॥ २,७.१७३ ॥ न्यङ्कवःशरभा ये च रुरवः पृषताश्च ये । ऋक्षाश्च मृगमन्दाया गवयाश्चापरे तथा ॥ २,७.१७४ ॥ महिषोष्ट्रवराहश्च खड्गा गौरमुखास्तथा । हर्य्या स्तु हरयः पुत्रा गोलाङ्गूलास्तरक्षवः ॥ २,७.१७५ ॥ वानराः किन्नराश्चैव मायुः किंपुरुषास्तथा । सिंहाव्याघ्राश्च नीलाश्चद्वीपिनः क्रोधिताधराः ॥ २,७.१७६ ॥ सर्पाश्चाजगरा ग्राहा मार्जारा मूषिकाः परे । मण्डूका नकुलाश्चैव वल्कका वनगोचराः ॥ २,७.१७७ ॥ हंसं तु प्रथमं जज्ञे पुलहस्य वरं शुभा । रणचन्द्रं शतमुखं दरीमुखमथापि च ॥ २,७.१७८ ॥ हरितं हरिवर्माणं भीषणं शुभलक्षणम् । प्रथितं मथितं चैव हरिणं लाङ्गलिं तथा ॥ २,७.१७९ ॥ श्वेताया जज्ञिरे वीरा दश वानरपुङ्गवाः । ऊर्द्ध्वदृष्टिः कृताहारः सुव्रतो विनतो बुधः ॥ २,७.१८० ॥ पारिजातः सुजातश्च हरिदासो गुणाकरः । क्षेममूर्तिश्च बलवान् राजानः सर्व एव ते ॥ २,७.१८१ ॥ तेषां पुत्राश्च पौत्राश्च बलवन्तः सुदुःसहाः । अशक्याः समरेजेतुं देवदानवमानवैः ॥ २,७.१८२ ॥ यक्षभूतपिशाचैश्च राक्षसैः सुभुजङ्गमैः । नाग्निशस्त्रविषैरन्यैर्मृत्युरेषां विधीयते ॥ २,७.१८३ ॥ असंगगतयः सर्वे पृथिव्यां व्योम्नि चैव हि । पाताले च जले वायौ ह्यविनाशिन एव ते ॥ २,७.१८४ ॥ दशकोटिसहस्राणि दशार्बुदशतानि च । महापद्मसहस्राणि महापद्मशतानि च ॥ २,७.१८५ ॥ दशार्बुदानि कोटीनां सहस्राणां शतं शतम् । नियुतानां सहस्राणि निखर्वाणां तथै व च ॥ २,७.१८६ ॥ दशार्बुदानि कोटीनां षष्टिकोटिस्तथैव च । अर्बुदानां च लक्षं तु कोटीशतमथापरम् ॥ २,७.१८७ ॥ दश पद्मानि चान्यानि महापद्मानि वै नव । संख्यातानि कुलीनानां वानराणां तरस्विनाम् ॥ २,७.१८८ ॥ सर्वे तेजस्विनः शूराः कामरूपा महा बलाः । दिव्याभरणवेषाश्च ब्रह्मण्याश्चाहितग्नयः ॥ २,७.१८९ ॥ यष्टारः सर्वयज्ञानां सहस्रशतदक्षिणाः । मुकुटैः कुण्डलैर्हारैः केयूरैः समलङ्कृताः ॥ २,७.१९० ॥ वेदवेदाङ्गविद्वांसो नीतिशास्त्रविचक्षणाः । अस्त्राणां मोचने चापि तथा संहारकर्मणि ॥ २,७.१९१ ॥ दिव्यमं त्रपुरस्कारा दिव्यमन्त्रपुरस्कृताः । समर्था बलिनः शूराः सर्वशस्त्रप्रहारिणः ॥ २,७.१९२ ॥ दिव्यरूपधराः सौम्या जरामरणवर्जिताः । कुलानां च सहस्राणि दश तेषां महात्मनाम् ॥ २,७.१९३ ॥ चतुर्षु मेरुपार्श्वेषु हेमकूटे हिमाह्वये । नीले श्वेतनगे चैव निषधे गन्धमादने ॥ २,७.१९४ ॥ द्वीपेषु सप्तसु तथा या गुहा ते च पर्वताः । निलयास्तेषु ते प्रोक्ता विश्वकर्मकृता स्वयम् ॥ २,७.१९५ ॥ पुरैश्च विविधाकारैः प्रकारैश्च विभूषिताः । सर्वर्तुरमणीयास्ते ह्युद्यानानि च सर्वशः ॥ २,७.१९६ ॥ गृहभूमिषु शय्यासु पुष्पगन्धसुखोदिताः । आलेपनैश्च विविधैर्दिव्यभक्तिकृतैस्तथा ॥ २,७.१९७ ॥ सर्वरत्नसमाकीर्णा मानसीं सिद्धिमास्थिताः । वानरा वानरीभिस्ते दिव्याभरणभूषिताः ॥ २,७.१९८ ॥ पिबन्तो मधु माध्वीकं सुधाभक्षानुमिश्रितम् । क्रियामयाः समुदिता दिवि देवगणा इव ॥ २,७.१९९ ॥ देवगन्धर्वमुख्यानां पुत्रास्ते वै सुखे रताः । धार्मिकाश्च वरोत्सिक्ता युद्धशैण्डा महाबलाः ॥ २,७.२०० ॥ अक्षुद्राः सर्वसत्त्वानां देवद्विजपरायणाः । अम्लानिनः सत्यसंधा नानार्थे बहुजल्पिनः ॥ २,७.२०१ ॥ मितभाषाः क्षमावन्तो ह्याचारपरिनिष्ठिताः । वनालङ्कारभूतो हि सृष्टा वै ब्रह्मणा स्वयम् ॥ २,७.२०२ ॥ भक्त्या निमित्तं लोकेषु रामस्यार्थे गुणाकरः । कपीनामवतारोऽयं सर्वपापविनाशनः ॥ २,७.२०३ ॥ धन्यः पुण्यो यशस्यश्च रमणीयः सुखावहः । तदेव कीर्तयिष्यामि तच्छृणुध्वमतन्द्रिताः ॥ २,७.२०४ ॥ ऊर्द्ध्वदृष्टेश्च तनयो प्याघ्रो नामाभवद्भली । व्याघ्रस्य भ्रातरः पञ्च स्वसारश्च तथास्य वै ॥ २,७.२०५ ॥ तांस्तथा स्वानुरूपेषु वानरेषु कृतात्मसु । प्रतिपादिता स्वयं भ्रात्रा भातृदारास्तथैव च ॥ २,७.२०६ ॥ व्याघ्रस्य तु सुतो जज्ञे शरभोलोकविश्रुतः । शरभस्यापि विद्धांसो भ्रातरो वीर्यसंमताः ॥ २,७.२०७ ॥ राजानो वानराणां च सर्वधर्मप्रतिष्ठिताः । शरभस्य सुतो धीमाञ्शुको नाम महाबलः ॥ २,७.२०८ ॥ तस्यापि पुत्रो बलवान्व्यघ्री जठरसंभवः । संमतः सर्वशूराणां चक्रवर्ति दुरासदः ॥ २,७.२०९ ॥ ऋक्षोनाम महातेजाः सर्ववानरयूथपः । इन्ता सदैव शत्रूणां सर्वास्त्रविधिपारगः ॥ २,७.२१० ॥ तस्मै तादृग्विशिष्टाय सुतां गुणगणैर्युताम् । प्रजापतिरुपादाय कन्यां हेमविभूषिताम् ॥ २,७.२११ ॥ विरजौ विरजां तस्मै प्रत्यपादयदं जसा । पाणिं जग्राह तस्यास्तु ऋक्षो वानरयूथपः ॥ २,७.२१२ ॥ दर्शनीयानवद्याङ्गी सा कन्या चारुहासिनी । चकमे तां महेन्द्रस्तु दृष्ट्वा वै प्रियदर्शनाम् ॥ २,७.२१३ ॥ तेन तस्यां सुतो जातो वाली विक्रमपौरुषः । विरजायां महेन्द्रेण महेन्द्रसमविक्रमः ॥ २,७.२१४ ॥ तथा स्वांशो भानुना वै तस्यामेव यधाविधि । रहस्युत्पादितः पुत्रः सुग्रीवो हरियूथपः ॥ २,७.२१५ ॥ ऋक्षो दृष्ट्वा तु तनयौ बलरूपश्रिया युतौ । हर्ष चक्रे सुविपुलं सर्ववानरयूथपः ॥ २,७.२१६ ॥ सोऽब्यषिञ्चत्सुतं ज्येष्ठं वालिनं हेममालिनम् । अभिषिक्तस्ततो वाली सुग्रीवानुगतो बली ॥ २,७.२१७ ॥ कारयामास राज्यं च दिवि देवेश्वरो यथा । सुषेणास्य सुता चापि भार्या तस्य महात्मनः ॥ २,७.२१८ ॥ तारा नाम महाप्राज्ञा ताराधिपनिभानना । सुषुवे सापि तनयमङ्गदं कनकाङ्गदम् ॥ २,७.२१९ ॥ अङ्गदस्यापि तनयो जातो भीमपरा क्रमः । मैन्दस्य च्येष्ठकन्यायां ध्रुवो नाम महायशाः ॥ २,७.२२० ॥ सुग्रीवस्य रुमा भार्या पनसस्य सुता शुभा । तस्यापि च सुता जातास्त्रयः परमकीर्त्तयः ॥ २,७.२२१ ॥ तेषां दारांस्तथासाद्य सुस्वरूपान्बली ततः । वालिनः पार्श्वतोऽतिष्ठत्सुग्रीवः सह वानरैः ॥ २,७.२२२ ॥ बहून्वर्षगणानग्रो भ्रात्रा सह यथामरः । केसरी कुञ्जरस्याथ सुतां भार्यामविन्दत ॥ २,७.२२३ ॥ अञ्जना नाम सुभागा गत्वा पुंसवने शुचिः । पर्युपास्ते च तां वायुर्यौंवनादेव गर्विताम् ॥ २,७.२२४ ॥ तस्यां जातस्तु हनुमान्वायुना जगदायुना । ये ह्यन्ये केसरिसुता विख्याता दिवि चेह वै ॥ २,७.२२५ ॥ ज्येष्ठस्तु हनुमांस्तेषां मतिमांस्तु ततः स्मृतः । श्रुतिमान्केतुमांश्चैव मतिमान्धृतिमानपि ॥ २,७.२२६ ॥ हनुमद्भ्रातरो ये वै ते दारैः सुप्रतिष्ठताः । स्वानरूपैः सुताः पित्रा पुत्रपौत्रसमन्विताः ॥ २,७.२२७ ॥ ब्रह्मचारी च हनुमान्नासौदारैश्च योजितः । सर्वलोकानपि रणे यो योद्धुं च समुत्सहेत् ॥ २,७.२२८ ॥ जवे जवे च वितते वैनतेय इवापरः । अग्निपुत्रश्च बलवान्नलः परमदुर्ज्जयः ॥ २,७.२२९ ॥ क्षेत्रे कनकबिन्दोस्तु जातो वानरपुङ्गवः । तथात्वन्ये महाभागा बलवन्तश्च वानराः ॥ २,७.२३० ॥ सप्रधानास्तु विज्ञेया हरियूथप यूथपाः । तारश्च कुसुमश्चैव पनसो गन्धमादनः ॥ २,७.२३१ ॥ रूपश्रीर्विभवश्चैव गवयो विकटः सरः । सुषेणः सुधनुश्चैव सुबन्धुः शतदुन्दुभिः ॥ २,७.२३२ ॥ विकचः कपिलो रौद्रः परियात्रः प्रभञ्जनः । कुञ्जरः शरभो दंष्ट्री कालमूर्तिर्महासुखः ॥ २,७.२३३ ॥ नन्दः कन्दरसेनश्च नलो वारुणिरेव च । चिरवः करवस्ताम्रश्चित्रयोधी रथीतरः ॥ २,७.२३४ ॥ भीमः शतबलिश्चैव कालचक्रोऽनलो नलः । यक्षास्यो गहनश्चैव धूम्रः पञ्चरथस्तथा ॥ २,७.२३५ ॥ पारिजातो महादीप्तः सुतपा बलसागरः । श्रुतायुर्विजयाकाङ्क्षी गुरुसेवी यथार्थकः ॥ २,७.२३६ ॥ धर्मचेतास्सुहोत्रश्च शालिहोत्रोऽथ सर्पगः । पुण्ड्रश्चावरगात्रश्च चारुरूपश्च शतुजित् ॥ २,७.२३७ ॥ विकटः कवटो मैन्दो बिन्दुकारोऽसुरान्तकः । मन्त्री भीमरथः संगो विभ्रान्तश्चारुहासवान् ॥ २,७.२३८ ॥ क्षणक्षणामताहारी दृढभक्तिः प्रमर्दनः । जाजलिः पञ्चमुकुटो बलबन्धुः समाहितः ॥ २,७.२३९ ॥ पयः कीर्त्तिः शुभः क्षेत्रो बिन्दुकेतुः सहस्रपात् । नवाक्षे हरिनेत्रश्च जीमूतोऽथ बलाहकः ॥ २,७.२४० ॥ गजो गवयनामा च सुबाहुश्च गुणाकरः । वीरबाहुः कृती कुण्डो कृतकृत्यः शुभेक्षणः ॥ २,७.२४१ ॥ द्विविदः कुमुदो भासः सुमुखः सुरुवुर्वृकः । विकटः कवकश्चैव जवसेनो वृषाकृतिः ॥ २,७.२४२ ॥ गवाक्षो नरदेवश्च सुकेतुर्विमलाननः । सहस्वारः शुभक्षेत्रः पुष्पध्वंसो विलोहितः ॥ २,७.२४३ ॥ नवचन्द्रो बहुगुणः सप्तहोत्रो मरीचिमान् । गोधामा च धनेशश्च गोलाङ्गूलश्च नेत्रवान् ॥ २,७.२४४ ॥ इत्येते हरयः क्रान्ताः प्राधान्येन यथार्थतः । बहुत्वान्नामधेयानां न शक्यमभिवर्णितुम् ॥ २,७.२४५ ॥ नागकोटीदशबले एकैकस्य प्रतिष्ठितम् । सर्ववानरसैन्यस्य सप्तद्वीपस्थितस्य तु ॥ २,७.२४६ ॥ किष्किन्धामाश्रितो वाली राजासीच्छत्रुतापनः । रणे निगूङ्य वामेन भुजेन स महाबलः ॥ २,७.२४७ ॥ विष्टभ्य पार्श्वेसंस्थाप्य रावणन्ध्यानमस्थितः । मौहूर्तिकीं गतिं गत्वा चतुः परशर्वानुपस्पृशन् ॥ २,७.२४८ ॥ समुद्रं दक्षणं पूर्वपश्चिमं च तथोत्तरम् । मनोवायुगतिर्भूत्वा वाली व्यपगतक्रमः ॥ २,७.२४९ ॥ स निर्जित्य महावीर्यो रावणं लोकरावणम् । वाली बाहुविनिर्मुक्तं विह्वलं नष्टचेतसम् ॥ २,७.२५० ॥ वृक्षमूलप्रदेशे च स्थापयित्वा बलोत्कटः । सिच्यांभसा सुशीतेन ह्यापादतलमस्तकात् ॥ २,७.२५१ ॥ स च तं लब्धसंज्ञं च कृत्वा विस्मयमास्थितः । उवाच रणचण्डं तं राक्षसेंद्रं कपीश्वरः ॥ २,७.२५२ ॥ भो भो राक्षसाजेन्द्र महेन्द्रसमविक्रम । असंख्येयं बलं जित्वा यमं ससचिवं रणे ॥ २,७.२५३ ॥ वरुणं च कुबेरं च शशिनं भास्करं तथा । मरुद्गणं तथा रुद्रानादित्यानश्विनौ वसून् ॥ २,७.२५४ ॥ दैतेयान्कालकेयांश्च दानवान्सुमहाबलान् । सिद्धांस्तथैव गन्धर्वान्यक्षरक्षोभुजङ्गमान् ॥ २,७.२५५ ॥ पक्षिणां प्रवरांश्चैव ग्रहनक्षत्रतारकाः । तथा भूतपिशाचांश्च विवृद्धबलदर्पितान् ॥ २,७.२५६ ॥ मानुषाणां नृपांश्चैव शतशोऽथ सहस्रशः । कथमीदृग्गुणो भूत्वा मनोवायुसमो जवे ॥ २,७.२५७ ॥ शक्तोऽसि चालनि मेरोः कृतान्त इव दुर्जयः । विद्राव्य सर्वोंल्लोकेषु वीरान्परपुरञ्ज्यः ॥ २,७.२५८ ॥ बलैरशनिकल्पैश्च समीकृत्य च पर्वतान् । विक्षोभ्य सागरान्सप्त सप्तकृत्वो महारथः ॥ २,७.२५९ ॥ निर्विकारो जयप्रेप्सुः स्मयमानो बलाद्बली । दुर्बलेन मया क्रान्तो वानरेण विशेषतः ॥ २,७.२६० ॥ किमर्थमीदृशं शप्तो बलवानपि दुर्जयः । प्रब्रूहि हेतुना केन ब्रह्मन्राक्षसपुङ्गव ॥ २,७.२६१ ॥ अभयं ते मया दत्तं विश्वस्तो भव ते न भीः । वयनं वालिनः श्रुत्वा दशग्रीवः प्रतापवान् ॥ २,७.२६२ ॥ उवाच भयसंविग्नः सांत्वपूर्वमिदं वचः । असंशयं जिताः सर्वे मया देवासुरा रणे ॥ २,७.२६३ ॥ एवं विधस्तु बलवान्न मयासादितः क्वचित् । तदिच्छामि त्वया सार्द्धं सौहृदं भयवर्जितम् ॥ २,७.२६४ ॥ मत्तो भवेन्न ते वीर कदाचिद्वै रणाजिरम् । एवमुक्तोऽब्रवीद्वाली भवत्येतद्वचस्तव ॥ २,७.२६५ ॥ समये स्थापयित्वा तु रावणो वालिनं पुरा । जगाम लङ्कां सगणः प्रहृष्टेनान्तरात्मना ॥ २,७.२६६ ॥ वाली विजित्य बलवान् पुष्करे राक्षसेश्वरम् । आजहार बहून्यज्ञानन्नपानसमावृतान् ॥ २,७.२६७ ॥ दक्षिणाभिः प्रवृद्धाभिः शतशोऽथ सहस्रशः । अग्निष्टोमाश्वमेधांश्च राजसूयान्नृमेधकान् ॥ २,७.२६८ ॥ सर्वमेधानपि बहून्सर्वदानसमन्वितान् । तर्पयित्वाथ देवांश्च देवेन्द्रंबहुभिस्तथा ॥ २,७.२६९ ॥ ब्रह्माणं तेषयित्वा च हुत्वाग्रिं बहुवार्षिकम् । सुग्रीवेण सह भ्रात्रा सुखी भूत्वा यवीयसा ॥ २,७.२७० ॥ राज्यं च पालयित्वा स कपीनामकुतोभयः । ब्रह्मण्यो ब्रह्मपरमो धर्मसेतुः क्रियापरः ॥ २,७.२७१ ॥ बहून्वर्षगणान्रेमे सर्वशास्त्रविशारदः । यस्य देवमुनिर्गाथां जगौ यज्ञेषु नारदः ॥ २,७.२७२ ॥ न यज्ञहवने दानेजवेनापि पराक्रमे । तुल्योऽस्ति त्रिषु लोकेषु वालिनोहेममालिनः ॥ २,७.२७३ ॥ शांशपायन उवाच अहो महाप्रभा वस्तु महेन्द्रतनयो बली । वाली यज्ञसहस्राणां यज्वा परमदुर्जयः ॥ २,७.२७४ ॥ चक्रवर्त्ती महाप्राज्ञे वाली च कथितस्त्वया । मार्त डस्य तु नो ब्रूहि कथं मार्त्तण्डता स्मृता । निरुक्तमस्य तु विभो याथातथ्येन सुव्रत ॥ २,७.२७५ ॥ सूत उवाच सृत्यमानेषु भूतेषु प्रजापतिरथ स्वयम् ॥ २,७.२७६ ॥ त्रैलोक्याद्यत्परं तेजस्तदाहृत्यादितेर्त्दृदि । प्रवेशायामास तदा योगेन महता वृताः ॥ २,७.२७७ ॥ पूर्वमण्डं तु भगवानस्याश्चक्रे तथोदरे । तत्रावर्त्तत गर्भो वै अण्डस्याभ्यन्तरे बली ॥ २,७.२७८ ॥ वर्द्धमानोऽतिमात्रं वै देवा निस्तेजसोऽभवन् । सर्वतो निर्मितं ज्ञात्वा गर्भं ते त्दृततेजसः ॥ २,७.२७९ ॥ ऊचुः प्रजापतिं भीता कथं नो भविता त्विदम् । बलं तेजोऽस्य भविता निर्मितस्याधिकं विभो ॥ २,७.२८० ॥ नुनं कथं भविष्यामो नूनं नष्टा हि शाश्वत । सर्वभूतानि यानीह स्यावराणि चरणि च ॥ २,७.२८१ ॥ तानि दग्धानि न चिराद्भविष्यन्ति न संशयः । यदेडे स्थापितं तेजो बलं च द्विजसत्तम ॥ २,७.२८२ ॥ तत्संहर विचिन्त्येह यन्नः श्रेय स्करं भवेत् । श्रुतितेजः प्रभावश्च धक्षते सर्वतोंऽजसा ॥ २,७.२८३ ॥ स चिन्तयित्वा भगवान्प्रजापतिरथाक्षिपत् । बलं चाण्डे चकाराथ ततस्त्वण्डान्तरे शिशुः ॥ २,७.२८४ ॥ यदण्डं तद्बलं प्राहुर्यत्तेजः स शिशुर्मतः । तत्तूदराद्विनिष्क्रान्तं मृतपिण्डोपमं स तु ॥ २,७.२८५ ॥ प्रजापतिस्ततो दृष्ट्वा तदण्डं वै द्विधाकरोत् । शकले द्वे समास्थाय स एकस्मिन्नपश्यत ॥ २,७.२८६ ॥ गर्भं दुर्बलभावेन युक्तं तेजोमयं सकृत् । तत्समुद्यम्य चोत्थायादिन्युत्संगे निवेद्य च ॥ २,७.२८७ ॥ उवाचादित्यभावच्च यस्मादण्डेन वै स्मृतः । तेन मार्त्तण्ड इति वै कथ्यते सविता बुधैः ॥ २,७.२८८ ॥ तेजश्चैवाधिकं तस्मै निर्ममे प्रपितामहः । ये ते अण्डकपाले द्वे तद्बलं परमं मतम् ॥ २,७.२८९ ॥ नाभौ पृथग्व्य वस्थाप्य इरावत्यै ददौ प्रभुः । उदरे प्रवेशयामास तस्याः स जननेच्छया ॥ २,७.२९० ॥ इरावत्यास्तथा जाताश्चत्वारो लोकसंमताः । देवोपवाह्या राजानो हस्तिनो बलवत्तराः ॥ २,७.२९१ ॥ ऐरावणोऽथ कुमुदौ ह्यञ्जनो वामनस्तथा । उत्तरत्र च वो भूयस्तेषां वक्ष्यामि विस्तरम् ॥ २,७.२९२ ॥ योऽयं प्रधानो लोकेऽस्मिन्नधिकेनामितौजसा । भगवान्सविता साक्षात्प्रभासयति रश्मिभिः ॥ २,७.२९३ ॥ निरालोकं जगदिदं लोकालोकान्तरं द्विजाः । बाह्यं तमोवृतं सर्वं तत्प्रमाणमशेषतः ॥ २,७.२९४ ॥ एतदुक्तं मया सर्वं यथावद्द्विजसत्तमाः । श्रुतं भगवतो व्यासात्पाराशर्यान्महात्मनः ॥ २,७.२९५ ॥ सनत्कुमारेण पुरा प्रोक्तं वै वायुना पुरा । विमृश्य बहुधा तत्तु पुनरन्यैः पृथक्पृथक् ॥ २,७.२९६ ॥ पुराणामृतकं श्रुत्वा पुण्यं सर्वार्थसाधकम् । अभयो विचरत्येव जात्यन्तरशतं गतः ॥ २,७.२९७ ॥ मार्तण्डजननं ह्येतद्गेहे यस्य व्यवस्थितम् । कथ्यते वा कथा यस्य न तं विद्धि समानकम् ॥ २,७.२९८ ॥ न चाकाले म्रियन्तेऽस्य बाला अपि कदाचन । ऋक्षस्य भगिनी रक्षा वानरस्य बलीयसः ॥ २,७.२९९ ॥ प्रजापतिसकाशात्सा जज्ञे शूरपरिग्रहम् । ऋक्षराजं महाप्राज्ञं जांबवन्तं यशस्विनम् ॥ २,७.३०० ॥ तस्य जांबवती नाम सुता व्याध्र्यामजायत । वासुदेवस्य सा दत्ता पित्रा राजीवलोचना ॥ २,७.३०१ ॥ तथान्ये ऋक्षराजस्य सुता जाता महाबलाः । जयन्तोऽथ च सर्वज्ञो मृगराट्संकृतिर्जयः ॥ २,७.३०२ ॥ मार्जारो बलिबाहुश्च लक्षणज्ञः श्रुतार्थकृत् । भोजो राक्षसजिच्चैव पिशाचवनगोचरौ ॥ २,७.३०३ ॥ शरभः शलभश्चैव व्याघ्रः सिंहस्तथैव च । तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ॥ २,७.३०४ ॥ ऋक्षाणामेव तु गणो देवदानवपूजितः । मार्जारस्य तु मार्जारा वाद्याः पुत्रा महाबलाः ॥ २,७.३०५ ॥ बभूवुः शतसाहस्राः सर्वे वीर्यसमन्विताः । आचार्याः श्वापदादीनां शरभाणां महौजसः ॥ २,७.३०६ ॥ स्वादकाः पृषतादीनां मूषिकाणां च पक्षिणाम् । लाघवे प्लवने युक्ताः सर्वसत्त्वावसादकाः ॥ २,७.३०७ ॥ ग्रामेषु वनशण्डेषु कोटरेषु गुहासु च । गृहेषु गृहगर्भेषु गृहवासावलंबिनः ॥ २,७.३०८ ॥ नानागतिषु संचाराः कुशला ग्रामगोचराः । तथा वनचराश्चैव स्वभावात्समवस्थिताः ॥ २,७.३०९ ॥ रात्रौ दिवाचराश्चैव संध्यासु च चरन्ति ते । नीलजीमूतवर्णाश्च कपिला केकरारुणाः ॥ २,७.३१० ॥ कृष्णवर्णास्तथा पिङ्गाभक्तिचित्रास्तथापरे । नखदंष्ट्रायुधा घोरा मयूरसमभाषणाः ॥ २,७.३११ ॥ सरमायाः सुतौ जातौ शूरौ परमदुःसहौ । श्यामश्च शबलश्चैव यमस्यानुचरौ स्मृतौ ॥ २,७.३१२ ॥ तयोः पुत्रा दुराधर्षाः पुत्रपौत्रसमन्विताः । श्रुतिमाप्तः पुनर्वंशः सारमेयेषु सर्वदा ॥ २,७.३१३ ॥ सांप्रतं तत्सजातीया घोररूपा महाबलाः । विषादयन्ति च नरान्सर्वजातिसमन्वितान् ॥ २,७.३१४ ॥ ग्रामासक्तो निवासस्तु तेषामेव भवत्युत । य इदं शृणुयाज्जन्म दंष्ट्रिणां श्रावयेत्तु यः ॥ २,७.३१५ ॥ दंष्ट्रिभ्यो न भयं तस्य न चोरेभ्यो नवान्यतः । तात्कालमरणं चैव भवतीति विनिर्णयः ॥ २,७.३१६ ॥ न च बन्धनमाप्नोति न वियोनिं न संकरम् । वानप्रस्था श्रितं धर्ममाप्नोति मुनिसेवितम् ॥ २,७.३१७ ॥ संपन्नश्चैव दिव्येन धनेन च बलेन च । च्यवते न च ज्ञानेन जायते देवयोनिषु ॥ २,७.३१८ ॥ द्वीपिनः शरभाः सिंहा व्याघ्रा नीलाश्च शल्यकाः । ऋक्षा मार्जारलोहासा वानरा मायवस्तथा ॥ २,७.३१९ ॥ एता एकादश मता वानराणां तु जातयः । एषां प्रणेता सर्वेषां वाली राजा प्रतापवान् ॥ २,७.३२० ॥ देवासुरविमर्देषु जिघ्नता नित्यमानिनाम् । प्रसह्य हन्ता रौद्राणामसुराणां बलीयसाम् ॥ २,७.३२१ ॥ उत्सिक्तबलनाशाय विचिन्त्य तु महात्मना । पक्ष एष समुद्दिष्टो महेन्द्रस्य सहायवान् ॥ २,७.३२२ ॥ विहितः पूर्वमेवात्र ब्रह्मणा लोकधारिणा । इत्येते हरयः प्रोक्ता इरावत्या निबोधत ॥ २,७.३२३ ॥ सूर्यस्याण्डकपाले द्वे समानीय तु भौवनः । हस्ताभ्यां परिगृह्याथ रथन्तरमगायत ॥ २,७.३२४ ॥ साम्ना प्रस्तूयमाने तु सद्य एव गतोऽभवत् । संप्रायच्छदिरावत्यै पुत्रार्थं स तु भौवनः ॥ २,७.३२५ ॥ इरावत्याः सुतो यस्मात्तस्मादैरावतः स्मृतः । देवराजोपवाह्यत्वात्प्रथमः स मतङ्गराट् ॥ २,७.३२६ ॥ श्वेताभ्राभश्चतुर्दन्तः श्रीमानैरावतो गजः । अञ्जनस्यैकमूलस्य सुवर्णाभस्य हस्तिनः ॥ २,७.३२७ ॥ षड्दन्तस्य हि भद्रस्य ह्यौपवाह्यस्य वै बलेः । तस्य पुत्रोंऽजनश्चैव सुप्रतीकश्च वामनः ॥ २,७.३२८ ॥ पद्मश्चैव चतुर्थोऽभूद्धस्तिनी चाभ्रमुस्तथा । दिग्गजान्बलिनश्चैवाभ्रमुर्ज नयताप्सुगान् ॥ २,७.३२९ ॥ भद्रं मृगं च मन्दं च संकीर्णं चतुरः सुतान् । संकीर्णो ह्यञ्जनो योऽसावौपवाह्यो यमस्य सः ॥ २,७.३३० ॥ भद्रो यः सुप्रतीकस्तु हस्तिः स ह्यपांपतेः । पद्मो मन्दस्तु यो गौरो द्विपो ह्यैलविलस्य च ॥ २,७.३३१ ॥ मृगश्यामस्तु यो हस्ती चौप वाह्यः स पावकेः । पद्मोत्तमः पद्मागुल्मो गजो वातगजो गजः ॥ २,७.३३२ ॥ चपलोऽरिष्टसंज्ञश्च तस्याष्टौ जज्ञिरे सुताः । उदग्रभावेनो पेता जायन्ते तस्य चान्वये ॥ २,७.३३३ ॥ श्वेतबालनखाः पिङ्गा वर्षावन्तो मतङ्गजाः । सामजांस्तु प्रवक्ष्यामि नागानन्यानपि क्रमात् ॥ २,७.३३४ ॥ कपिलः पुण्डरीकश्च सुनामानौ रथन्तरात् । जातौ नाम्ना श्रुतौ ताभ्यां सुप्रतीकप्रमर्दनौ ॥ २,७.३३५ ॥ शूराः स्थूलशिरोदन्ताः शुद्धबालनखास्तथा । बलिनः शङ्किताश्चैव स्मृतास्तद्वंशिनो गजाः ॥ २,७.३३६ ॥ पुष्पदन्तो बृहत्साम्नः षड्दन्तः पद्मपुच्छवान् । ताम्र पर्णश्च तत्पुत्राः संघचारिविषाणिनः ॥ २,७.३३७ ॥ अन्वये चास्य जायन्ते लंबोष्ठाश्चारुदर्शनाः । श्यामत्वग्रसनाशुण्डा नागाः पीनायता ननाः ॥ २,७.३३८ ॥ वामदेवोंऽजनः श्यामः साम्नो जज्ञेऽथ वामनः । भार्या चैवाङ्गना तस्य नीलवल्लक्षणौ सुतौ ॥ २,७.३३९ ॥ चण्डाश्चारु शिरोग्रीवा व्यूढोरस्कास्तरस्विनः । नीचैर्बद्धाः कुले तस्य जायन्ते निबिडा गजाः ॥ २,७.३४० ॥ सुप्रतीकस्तु वैरूप्यात्साम्नः सारूप्य मागतः । तस्य प्रहारी संपातिः पृथुश्चेति सुतास्त्रयः ॥ २,७.३४१ ॥ प्रांशवो दीर्घताल्वोष्ठाः सुविभक्तशिरोरुहाः । जायन्ते मृदुसंभोगा वंशे तस्य मतङ्गजाः ॥ २,७.३४२ ॥ अञ्जनादञ्जनः साम्नो विजज्ञे जाञ्जनावती । सुतौ जातौ तयोश्चापि प्रमाथिपुरुषौ स्मृतौ ॥ २,७.३४३ ॥ महाविभक्तशिरसः स्निग्धजीमूतसन्निभाः । सुदर्शनाः सुवर्ष्माणः पद्माभाः परिमण्डलाः ॥ २,७.३४४ ॥ शूरा दीनायतमुखा गजास्तस्यान्वयेऽभवन् । जज्ञे चान्द्रमसः साम्नः कुमुदः कुमुदद्युतिः ॥ २,७.३४५ ॥ पिङ्गलायां सुतौ तस्य महापद्मोर्मिमालिनौ । शैलजीमूतसंकाशान्सुबुद्धान्बलिनो वरान् ॥ २,७.३४६ ॥ हस्तियुद्धप्रियान्नागान्विद्धि तस्य कुलोद्भवान् । एतान्देवासुरे युद्धे जयार्थं जगृहुः सुराः ॥ २,७.३४७ ॥ कृतार्थैश्च विसृष्टास्ते पूर्वोक्ताः प्रययुर्द्दिशः । एतेषां चान्वये जातान्विनीतांस्त्रिदशा ददुः ॥ २,७.३४८ ॥ अङ्गाय लोमपादाय सूत्रकाराय वै द्विपान् । द्विरदो रदनद्वाभ्यां हस्ती हस्तात्करात्करी ॥ २,७.३४९ ॥ वारणो वारणाद्दन्ती दन्ताभ्यां गर्जनाद्गजः । कुञ्जरः कुञ्जचारित्वान्नागो नगम्यमस्य यत् ॥ २,७.३५० ॥ मत्तं यातीति मातङ्गो द्विपो द्वाभ्यां पिबन्स्मृतः । सामजः सामजातत्वादिति निर्वचनक्रमः ॥ २,७.३५१ ॥ एषां जिह्वापरावृत्तिर्ह्युक्ता वै चाग्निशापजा । बलस्यानवबोधो यो या चैषां गूढमुष्कता ॥ २,७.३५२ ॥ उभयं दन्तिनामेतज्ज्ञेयं तु सुरशापजम् । देवदानगन्धर्वपिशाचोरगरक्षसाम् ॥ २,७.३५३ ॥ कन्यासु जाता दिग्नागैर्नानासत्त्वास्ततो गजाः । संभूतिश्च प्रसूतिश्च नामनिर्वचनं तथा ॥ २,७.३५४ ॥ एतद्गजानां विज्ञेयमेषां राजा स चाभ्रमः । कौशिक्या ह्यासमुद्रात्तु गङ्गायश्च यदुत्तरम् ॥ २,७.३५५ ॥ अञ्जनस्यैकमूलस्य विज्ञेयं गहनं तु तत् । उत्तरं चैव विध्यस्य गङ्गाया दक्षिणं च यत् ॥ २,७.३५६ ॥ गङ्गोद्भेदे सकेरुभ्यः सुप्रतीकस्य पत्तनम् । अपरेणोत्कलं चैव कावेरीभ्यश्च पश्चिमम् ॥ २,७.३५७ ॥ एकसूकात्मजस्यैतद्वामनस्यवनंस्मृतम् । अपरेणतु लौहित्यमासिंधोः पश्चिमेन तु ॥ २,७.३५८ ॥ पद्मस्यैतद्वनं प्रोक्तमनुपर्वतमेव तत् । भूता विजज्ञे भूतांस्तु रुद्रस्यानुचरानिह ॥ २,७.३५९ ॥ स्थूलान्कृशांश्च दीर्घांश्च वामनान्ह्रस्वकान्समान् । लंबकर्णान्प्रलंबौष्ठान् लंबजिह्वांस्तनूदरान् ॥ २,७.३६० ॥ एकनेत्रान्विरूपांश्च लंबस्फिक्स्थूलपिण्डिकान् । सकृष्णगौरान्नीलांश्च श्वेतान्वै लोहिताननान् ॥ २,७.३६१ ॥ बभ्रून्वै शबलान्धूम्रान्विकद्रून्नासमारूणान् । मुञ्जकेशान्त्दृष्टरोम्णः सर्वयज्ञोपवीतिनः ॥ २,७.३६२ ॥ बहुशीर्षान्विपादांश्च ह्येकशीर्षानशीर्षकान् । चण्डांश्च विकटांश्चैव निर्मितांश्च द्विजिह्वकान् ॥ २,७.३६३ ॥ मुण्डांश्च जटिलांश्चैव कुब्जान्वक्रान्सवामनान् । सरः श्रेष्ठसमुद्राद्रिनदीपुलिनसेविनः ॥ २,७.३६४ ॥ एककर्णान्महाकर्णाञ्छङ्कुकर्णानकर्णकान् । दंष्ट्रिणो नखिनश्चैव निर्दन्तांश्च विजिह्वकान् ॥ २,७.३६५ ॥ एकहस्तान्द्विहस्तांश्च त्रिहस्तांश्चाप्यहस्तकान् । एकपादान्द्विपादांश्च त्रिपादान्बहुपादकान् ॥ २,७.३६६ ॥ महायोगान्महासत्त्वान्सुमनस्कान्महाबलान् । सर्वत्रगातप्रतिघातब्रह्मज्ञान्कामरूपिणः ॥ २,७.३६७ ॥ घोरान्क्रूरांश्च मेध्यांश्च मद्यमेध्यान्सुधार्मिकान् । कूटदन्तान्महाजिह्वान्विकेशान्विकृताननान् ॥ २,७.३६८ ॥ हस्तादांश्च मुखादांश्च शिरोदांश्च कपालिनः । धन्विनो मुद्गरधरा नसिशूलधरांस्तथा ॥ २,७.३६९ ॥ दिग्वाससश्चित्रवेषांश्चित्रमाल्यानुलेपनान् । अन्नादान्पिशितादांश्च सुरापान्सोमपांस्तथा ॥ २,७.३७० ॥ केचित्संध्याचरा घोराः केचित्सौम्या दिवाचराः । नक्तञ्चराः खरस्पर्शा घोरास्तेषां निशाचराः ॥ २,७.३७१ ॥ परत्वेन भवं देवं सर्वे ते गतमानसाः । नैषां भार्यास्ति पुत्रा वा सर्वे ते ह्यूर्ध्वरेतसः ॥ २,७.३७२ ॥ शतं तानि सहस्राणि भूतानामात्मयोगिनाम् । भवपारिषदास्ते वै सर्वे भूताः प्रकीर्त्तिताः ॥ २,७.३७३ ॥ कपिशायाश्च कूष्माण्डा जज्ञिरे च पुनः पुनः । मिथुनेन पिशाचांश्च वर्णेन कपिशेन तु ॥ २,७.३७४ ॥ कपिशत्वात्पिशाचास्ते सर्वे च पिशिताशनाः । युग्मानि षोडशाद्यानि वर्त्तमानस्तदन्वयः ॥ २,७.३७५ ॥ नामतस्तान्प्रवक्ष्यामि रूपतश्च तदन्वयम् । छगलश्छगला चैव वक्रो वक्रमुखी तथा ॥ २,७.३७६ ॥ दुष्पूरः पूरणा चैव सूची सूचीमुखस्तथा । विपादश्च विपादी च ज्वाला चाङ्गारकस्तथा ॥ २,७.३७७ ॥ कुंभपात्रश्च कुंभी च प्रतुन्दश्च प्रतुन्दिका । उपवीरश्च वीरा च ह्युलूखल उलूखली ॥ २,७.३७८ ॥ अकर्मकः कर्मकी च कुषण्डश्च कुषण्डिका । पाणिपात्रः पाणिपात्री पांशुः पांशुमती तथा ॥ २,७.३७९ ॥ नितुन्दश्च नितुन्दी च निपुणो निपुणी तथा । बालादः केषणादी च प्रस्कन्दः स्कन्दिका तथा ॥ २,७.३८० ॥ षोडशानां पिशाचानां गणाः प्रोक्तास्तु षोडश । अजामुखा पक्रमुखाः पूरणः स्कन्दिनस्तथा ॥ २,७.३८१ ॥ विपादाङ्गारिकाश्चैव कुंभपात्राः प्रतुन्दकाः । उपवीरोलूखलिका अर्कमर्काः कुषण्डिकाः ॥ २,७.३८२ ॥ पांशवः पाणिपत्राश्च नैतुन्दा निपुणास्तथा । सूजीमुखोच्छेषणादाः कलान्येतानि षोडश ॥ २,७.३८३ ॥ इत्येता ह्यभि जातास्तु कूष्माण्डानां प्रकीर्त्तिताः । पिशाचास्ते पिशाच्यस्ताः सकुल्याः संप्रजज्ञिरे ॥ २,७.३८४ ॥ बीभत्सं विकृताकारं पुत्रपौत्रमनेतकम् । अतस्तेषां पिशाचानां लक्षणानि निबोधत ॥ २,७.३८५ ॥ सर्वाङ्गकेशा वत्ताक्षा दंष्ट्रिणो नखिनस्तथा । तिर्य्यगङ्गाः पारुषदाः पिशाचास्ते ह्यजामुखाः ॥ २,७.३८६ ॥ अकर्णका ह्यरोमाणोऽवाससश्चर्मवाससः । कुषण्डिकपिशाचास्ते प्रियभक्षाः सदामिषाः ॥ २,७.३८७ ॥ वक्राङ्गहस्तापादाश्च वक्रशीलमतास्तथा । ज्ञेया वक्राः पिशाचास्ते वक्रगाः कामरूपिणः ॥ २,७.३८८ ॥ लंबोदरास्तुण्डनासा ह्रस्वकाय शिरोभुजाः । नितुन्दकाः पिशाचास्ते तिलभक्षाः प्रियासृजाः ॥ २,७.३८९ ॥ वानराकृतयश्चैव वाचालाः प्लुतगामिनः । पिशाचार्कमर्कास्ते वृक्षवासोदनप्रियाः ॥ २,७.३९० ॥ ऊर्ध्वबाहूर्द्ध्वरोमाण उद्धृताक्षा यथालयाः । मुञ्चन्ति पांशुमङ्गेभ्यः पिशाचाः पांशवस्तु ते ॥ २,७.३९१ ॥ भ्रमरीसन्निभाः शुष्कासशूलाश्चीरवाससः । उपवीराः पिशाचास्ते श्मशानायतनाः सदा ॥ २,७.३९२ ॥ निष्टब्धाक्षा महाजिह्वा लेलिहाना ह्युलूखलाः । उलूखलैराभरणा रत्नधाराश्च ते खलाः ॥ २,७.३९३ ॥ पाणिपात्राः पिशाचास्ते निसृष्टबलिभोजनाः । हस्त्युष्ट्रस्थूलशिरसो विनतोद्धतपिण्डिकाः ॥ २,७.३९४ ॥ पिशाचाः कुंभपात्रास्ते अदृष्टान्नानि भुञ्जते । सूक्ष्मास्तु रोमशाः पिङ्गा दृष्टादृष्टाश्चरन्ति ये ॥ २,७.३९५ ॥ अयुक्तान्प्रचरन्तीह निपुणास्ते पिशाचकाः । आकर्णाद्दारितास्याश्च लंबभ्रूस्थूलनासिकाः ॥ २,७.३९६ ॥ शून्यागारप्रियाः स्थूलाः पिशाचास्ते तु पूरणाः । हस्तपादाक्रान्ततुण्डा ह्रस्वकाः क्षितिदृष्टयः ॥ २,७.३९७ ॥ बालादास्ते पिशाचा वै सूतिकागृहसेविनः । पृष्ठतः पाणि पादाश्च पृष्ठतो वातरंहसः ॥ २,७.३९८ ॥ विपादकाः पिशाचास्ते संग्रामे रुधिराशनाः । नग्नका ह्यनिकेताश्च लंबशेफ आण्डपिडकाः ॥ २,७.३९९ ॥ पिशाचाः स्कन्दिनस्ते वै अन्य उच्छेषणादिनः । षोडशैता हि जात्यस्ताः पिशाचानां प्रकीर्त्तिताः ॥ २,७.४०० ॥ एवंविधान्पिशाचांस्तु दीनान्दृष्ट्वानुकंपया । ब्रह्मा तेभ्यो वरं प्रादात्कारुण्यादल्पचेतसः ॥ २,७.४०१ ॥ अन्तर्धानं प्रजायां हि कामरूपित्वमेव च । संध्ये उभे प्रचारं च स्थानान्याजीवमेव च ॥ २,७.४०२ ॥ गृहाणि यानि भग्नानि शून्यान्यल्पजलानि च । विध्वस्तानि च यानि स्युरनाचारोषिता नि च ॥ २,७.४०३ ॥ असंमृष्टोपलिप्तानि संस्कारैर्वर्जितानि तु । राजमार्गोपरथ्याश्च निष्कुटाश्चत्वराणि च ॥ २,७.४०४ ॥ द्वाराण्यट्टालकांश्चैव निर्गमास्संक्रमास्तथा । पथो नद्योऽथ तीर्थानि चैत्यवृक्षा महापथम् ॥ २,७.४०५ ॥ पिशाचा विनिविष्टा वै स्थानेष्वेतेषु सर्वशः । अधार्मिको जनस्तेषामा जीवो विहितः सुरैः ॥ २,७.४०६ ॥ वर्णाश्रमाः संकरिकाः कारुशिल्पिजनास्तथा । प्रकृतोपधिसंधानाश्चोरा विश्वासघातिनः ॥ २,७.४०७ ॥ एतैरन्यैश्च बहुभिरन्यायोपार्जितैरपि । आरभ्यन्ते क्रियायास्तु पिशाचास्तत्र दैवतम् ॥ २,७.४०८ ॥ मधुमांसोदनैर्दध्ना तिलचूर्णैः सुरासवैः । धूपैर्हारिद्रकृसरैस्तिलभक्षगुडौदनैः ॥ २,७.४०९ ॥ कृष्णानि चैव वासांसि धूपः सुमनमोऽक्षयः । एवसुक्तास्तु बलयस्त्वेषां वै पर्वसंधिषु ॥ २,७.४१० ॥ पिशाचानामनुज्ञाय ब्रह्मा चाधिपतिं ददौ । सर्वभूतपिशाचानां गिरीणां शूलपाणिनाम् ॥ २,७.४११ ॥ दंष्ट्रा त्वजनयत्पुत्रान्सिंहान्व्याघ्रांश्च भामिनी । द्वीपिनश्च सुतास्तस्याः श्वापदाश्चामिषाशिनः ॥ २,७.४१२ ॥ ऋषायास्त्वपि कार्त्स्न्ये प्रजासर्गं निबोधत । तस्या दुहितरः पञ्च तासां नामानि मे शृणु ॥ २,७.४१३ ॥ मीनामीना तथा वृत्ता परि वृत्ता तथैव च । अनुवृत्ता च विज्ञेया तासां वै शृणुत प्रजाः ॥ २,७.४१४ ॥ सहस्रदंष्ट्रा मकराः पाठीनास्तिमिरोहिताः । इत्येवमादिर्हि गणो मैनो विस्तीर्ण उच्यते ॥ २,७.४१५ ॥ ग्राहाश्चतुर्विधा ज्ञेया मद्गुराःशङ्कवस्तथा । उग्राश्च शिशुमाराश्चामीनाश्चैतान्व्यजायत ॥ २,७.४१६ ॥ वृत्ता कर्मविकाराणि नैकानि जलचारिणाम् । तथा शङ्खविकाराणि जनयामास नैकशः ॥ २,७.४१७ ॥ मण्डूकानां विकाराणि ह्यनुवृत्ता व्यजायत । ऐणेयानां विकाराणि शंबूकानां तथैव च ॥ २,७.४१८ ॥ तथा शुक्तिविकारणि वराटविकृतानि च । तथा शङ्खविकाराणि परिवृत्ता व्यजायत ॥ २,७.४१९ ॥ कालकण्ठविकाराणि जलूकाविकृतानि च । इत्येष हि ऋषावंशः पञ्चशाखः प्रकीर्त्तितः ॥ २,७.४२० ॥ तिर्याहेतुक मप्याहुर्वहुलं वंशविस्तरम् । संस्वेदजविकाराणि यथा येभ्यो भवन्ति ह ॥ २,७.४२१ ॥ स्वेदक्लिन्नशरीरेभ्यो यूकालिक्षादिका द्विजाः । मनुष्यस्वेदमलजा उशना नाम जन्तवः ॥ २,७.४२२ ॥ नानापिपीलिकगणाः कीटका बहुपादकाः । शङ्खोपलविकाराणि कीलकावरकाणि च ॥ २,७.४२३ ॥ इत्येवमादिबहुलाः स्वेदजाः पार्थिवा गणाः । यथा घर्मदितप्पाभ्यश्चाभ्द्यो वृष्टिभ्य एव ॥ २,७.४२४ ॥ नैका मृगशरीरेभ्यो जायन्ते जन्तवस्त्विमे । मक्षिकाः पिच्छला देशास्तथा तित्तिरिपुत्तिकाः ॥ २,७.४२५ ॥ नीलाचत्राश्च जायन्ते मलजा बहुविस्तराः । जलजाः स्वेदजाश्चैव जायन्ते जन्तस्त्विमे ॥ २,७.४२६ ॥ काशतोयजकाः कीटा नलदा बहुपादकाः । सिंहला रोमलाश्चैव पिच्छिलाः परिकीर्त्तिताः ॥ २,७.४२७ ॥ इत्येवमादिर्हि गणो जलजस्वेदजः स्मृतः । शिंबिभ्यो माषमुद्गानां जायन्ते कृमयस्तथा ॥ २,७.४२८ ॥ बिल्वजं ब्वाम्रपूमेभ्यः फलेभ्यश्चैव जन्तवः । मुद्गेभ्यः पनसेभ्यश्च तण्डुलेभ्यस्तथैव च ॥ २,७.४२९ ॥ तथा कोटरशुष्केभ्यो निहितेभ्यो भवन्ति हि । अन्येभ्योऽपि च जायन्ते न हि तेभ्यश्चिरं सदा ॥ २,७.४३० ॥ जन्तवस्तुरगादिभ्यो विषादिभ्यस्तथैव च । बहून्यहानि निक्षिप्ते संभवन्ति च गोमये ॥ २,७.४३१ ॥ जायन्ते कृमयो विप्राः काष्ठेभ्यश्चापि सर्वशः । संस्वेदजाश्च जायन्ते वृश्चिकाः शुष्कगोमयात् ॥ २,७.४३२ ॥ गोभ्यो हि महिषेभ्यश्च तथान्येभ्यश्च जन्तवः । मत्स्याद्यिश्च विविधा अन्नकूटे विशेषतः ॥ २,७.४३३ ॥ वैकारिकाश्च जायन्ते तथा गाजकुलानि च । तथन्यानि च सक्ष्माणि जलौकादीनि जातयः ॥ २,७.४३४ ॥ कपोतकुररादिभ्यः सूक्ष्माः शूकास्तथैव च । माक्षिकाणां विकाराणि जायन्ते जातयोऽपरे ॥ २,७.४३५ ॥ प्रायेणानुवसंत्यस्मिन्नुच्छिष्टोदककर्द्दमे । मशकानां विकाराणि भ्रमराणां तथैव च ॥ २,७.४३६ ॥ गोभ्यः समभिजायन्ते पुत्तिकापुत्रसप्तकाः । मणिच्छेदाः स्मृता व्यालाः पोतजाः परिकीर्त्तिताः ॥ २,७.४३७ ॥ शतवेरिविकाराणि करीषेभ्यो भवन्ति हि । एवमादिरसंख्यातो गणः संस्वेदजो मया ॥ २,७.४३८ ॥ समासाभिहितो ह्येष प्राक्कर्मवशजः स्मृतः । ये चान्ये नैरृताः सत्त्वास्ते स्मृता उपसर्गजाः ॥ २,७.४३९ ॥ भूतास्तु योनिजाः केचित्केचिदौत्पत्तिकाः स्मृताः । प्रायेण देवाः सर्वे वै विज्ञेया ह्युपपत्तिजाः ॥ २,७.४४० ॥ केचित्तु योनिजा देवाः केचिद्देवा निमित्ततः । दुल्लोलकं ललोहं च सरमा द्वौ व्यजायत ॥ २,७.४४१ ॥ त्योरपत्यं चत्वारो विज्ञेयाः सृमरादयः । श्यामाश्च शबलाश्चैव लोहिता अञ्जनास्तथा ॥ २,७.४४२ ॥ कृष्णधूम्ररुणास्चैव दुल्लो लस्याष्ट कद्रुकाः । सर्पाणां सुरसा जज्ञे शन्त नैकशिरोभृताम् ॥ २,७.४४३ ॥ सर्पाणां तक्षको राजा नागानां चापि वासुकिः । तमोबहुल इत्येष गणः क्रोधवशान्वयः ॥ २,७.४४४ ॥ पुलहस्यात्मजः सर्गस्ताम्रायास्तु निबोधत । षट्कन्यास्त्वभिविख्यातास्ता म्रायाश्च विजज्ञिरे ॥ २,७.४४५ ॥ गृध्री भासी शुकी क्रैञ्ची श्येनी च धृतराष्ट्रिका । अरुणस्य च गृद्री तु वीर्यवन्तौ महाबलौ ॥ २,७.४४६ ॥ संपातिं च जटायुं च प्रसूता पक्षिसत्तमौ । संपातेर्विजयाः पुत्रा द्विरास्याः प्रसहश्च ये ॥ २,७.४४७ ॥ जटायुषः पुराः पुत्राः ककगृध्राश्च कर्णिकाः । भार्या गरुत्मतश्चैव भासी क्रैञ्ची तथा शुकी ॥ २,७.४४८ ॥ धृतराष्ट्री तथा श्येनी तास्वपत्यानि वच्मिते । शुकीगरुत्मतः पुत्रान्सुषुवे षट्परिश्रुतान् ॥ २,७.४४९ ॥ सुखं सुनेत्रं विशिखं सुरूपं सुरसं बलम् । तेषां पुत्राश्च पौत्राश्च गरुडानां महात्मनाम् ॥ २,७.४५० ॥ चतुर्दश सहस्राणि पुराणां पन्नगाशिनाम् । पुत्रपौत्रविसर्गाच्च तेषां वै वंशविस्तरैः ॥ २,७.४५१ ॥ व्याप्तानि यानि स्थानानि तानि वक्ष्ये यथाक्रमम् । शाल्मलिद्वीपमखिलं देवकूटं च पर्वतम् ॥ २,७.४५२ ॥ मणिमन्तं च शैलेन्द्रं महस्रशिखरं तथा । पर्णमालं सुकेशं च शतशृङ्गं तथाचलम् ॥ २,७.४५३ ॥ कौररं पञ्चशिखरं हेमकूटं च पर्वतम् । प्रचण्डवायुप्रजवैर्दीपितैः पद्मरागिभिः ॥ २,७.४५४ ॥ शैलशृङ्गाणि व्याप्तानि गारुडैस्तैर्महात्मभिः । भासीपुत्राः स्मृता भासा उलूकाः काककुक्कुटाः ॥ २,७.४५५ ॥ मयूराः कलविङ्काश्च कपोतालावतित्तिराः । क्रैञ्चा वाध्रीणसाः श्येनाः कुरराः सारसा बकाः ॥ २,७.४५६ ॥ इत्येवमादयोऽन्येऽपि क्रव्यादा ये च पक्षिणः । धृतराष्ट्री तु हंसाश्च कलहंसांश्च भामिनी ॥ २,७.४५७ ॥ चक्रवाकांश्च विहगान्सर्वांश्चैवौदकान्द्विचान् । श्येन्यनन्तं विजज्ञे तु पुत्रपौत्रं द्विजोत्तमाः ॥ २,७.४५८ ॥ गरुडस्यात्मजाः प्रोक्ता इरायाः शृणुत प्रजाः । इरा विजज्ञे कन्या वै तिस्रः कमललोजनाः ॥ २,७.४५९ ॥ वनस्पतीनां वृक्षाणां वीरुधां चैव मातरः । लता चैवालता चैति वीरुधा चैति तत्र या ॥ २,७.४६० ॥ लता वनस्पतिर्ज्जज्ञेपुष्पादपि फलावहान् । पुष्पैः फलग्रहैर्वृक्षानलता समसूयत ॥ २,७.४६१ ॥ गुल्मास्तथा लतावल्ल्यस्त्वकूसारास्तृणजातयः । वीरुधस्तदपत्यं हि वंशश्चात्र समाप्यते ॥ २,७.४६२ ॥ एते कश्यपदायादा व्याख्याताः स्थाणुजङ्गमाः । तेषां पुत्राश्च पौत्राश्च यैरिदं संततं जगत् ॥ २,७.४६३ ॥ एष सर्गैकदेशस्य कीर्तितोऽवयवो मया । मारीचो वः प्रजासर्गः समासेन प्रकीर्त्तितः ॥ २,७.४६४ ॥ न शक्यं व्यासतो वक्तुं वर्षाणां च शतैरपि । अदितिर्धर्मशीला तु बलशीला दितिस्तथा ॥ २,७.४६५ ॥ तपःशीला तु सुरभिर्मायाशीला दनुस्तथा । गन्धशीला मुनिश्चैव क्रोधाध्यायनशीलिनी ॥ २,७.४६६ ॥ गीतशीला ह्यरिष्टा तु क्रूरशीला खशा स्मृता । क्रोधशीला तथा कदूः क्रोधा च शुचिशीलिनी ॥ २,७.४६७ ॥ वाहशीला तु विनता ताम्रा वै घातशीलिनी । इरानुग्रहशीला तु ह्यनायुर्भक्षणे रता ॥ २,७.४६८ ॥ अभवंल्लोकमातॄणां शीलान्येतानि सर्वशः । धर्मतः शीलतो बुद्ध्या क्षमया बलरूपतः ॥ २,७.४६९ ॥ रजः सत्त्व तमोद्रिक्ता धार्मिकाधार्मिकाश्च वै । मातुस्तुल्याभिजाताश्च कश्यपस्यात्मजाः प्रभोः ॥ २,७.४७० ॥ देवतासुरगन्धर्वा यक्षराक्षसपन्नगाः । पिशाचाः पशवश्चैव मृगाः पतगवीरुधः ॥ २,७.४७१ ॥ यस्माद्दाक्षायणीष्वेते जज्ञिरे मानुषीष्पिह । मनुष्यप्रकृतीस्तस्माद्देवादींश्च विजानते ॥ २,७.४७२ ॥ यस्माच्च संभवः कृत्स्नो देवानां मानुषेष्विह । मन्वन्तरेषु सर्वेषु तस्माच्छ्रेष्ठास्तु मानुषाः ॥ २,७.४७३ ॥ धर्मार्थकाममोक्षाणां मानुषाः साधकास्तु वै । ततोर्ऽवाक्स्रोतसस्ते वै उत्पद्यन्ते सुरासुराः ॥ २,७.४७४ ॥ जायन्ते कार्यसिद्ध्यर्थं मानुषेषु पुनः पुनः । इत्येष वंशप्रभवः प्रसंख्यातस्तु विस्तरात् ॥ २,७.४७५ ॥ सुराणामसुराणां च गन्धर्वाप्सरसां तथा । यक्षरक्षः पिशाचानां सुपर्णोरगपक्षिणाम् ॥ २,७.४७६ ॥ व्यालानां शिखिनां चैव औषधीनां च सर्वशः । कृमिकीटपतङ्गानां क्षुद्राणां जलचारिणाम् ॥ २,७.४७७ ॥ पशूनां ब्राह्मणानां च श्रीमतां पुण्यलक्षणः । आयुष्यश्चैव धन्यश्च श्रीमान् हितसुखावहः । श्रोतव्यश्चैव सततं ग्राह्यश्चैवानसूयतः ॥ २,७.४७८ ॥ इमं तु वंशं नियमेन यः पठेन्महात्मनां ब्राह्मणवन्द्यसंसदि । अपत्यलाभं लभते च पुष्कलं प्रियं धनं प्रेत्य च शोभनां गतिम् ॥ २,७.४७९ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे काश्यपेयवर्णनं नाम सप्तमोऽध्यायः _____________________________________________________________ सूत उवाच एवं प्रजासु सृष्टासु कश्यपेन महात्मना । प्रतिष्ठितासु सर्वासु चरासु स्थावरासु च ॥ २,८.१ ॥ अभिषिच्याधिपत्येषु तेषां मुख्यान्प्रजापतिः । ततः क्रमेण राज्यानि आदेष्टुमुपचक्रमे ॥ २,८.२ ॥ द्विजानां वीरुधां चैव नक्षत्राणां ग्रहैः सह । यज्ञानां तपसां चैव सोमं राज्येऽभ्यषेचयत् ॥ २,८.३ ॥ बृहस्पतिं तु विश्वेषां ददावङ्गिरसां पतिम् । भृगूणामधिपं चैव काव्यं राज्येऽभ्यषेचयत् ॥ २,८.४ ॥ आदित्यानां पुनर्विष्णुं वसूनामथ पावकम् । प्रजापतीनां दक्षं च मरुतामथ वासवम् ॥ २,८.५ ॥ दैत्यानामथ राजानं प्रह्रादं दितिनन्दनम् । नारायणं तु साध्यानां रुद्रणां च वृषध्वजम् ॥ २,८.६ ॥ विप्रचित्तिं च राजानं दानवानामथादिशत् । अपां च वरुणं राज्ये राज्ञां वैश्रवणं तथा ॥ २,८.७ ॥ यक्षाणां राक्षसानां च पार्थिवानां धनस्य च । वैवस्वतं पितॄणां च यमं राज्येऽभ्यषेचयत् ॥ २,८.८ ॥ सर्वभूतपिशाचाना गिरिशं शूलपाणिनम् । शैलानां हिमवन्तं च नदीनामथ सागरम् ॥ २,८.९ ॥ गन्धर्वाणामधिपतिं चक्रे चित्ररथं तथा । उच्चैःश्रवसमश्वानां राजानं चाभ्यषेचयत् ॥ २,८.१० ॥ मृगाणामथ शार्दूलं गोवृषं च ककुद्मिनाम् । पक्षिणामथ सर्वेषां गरुडं पततां वरम् ॥ २,८.११ ॥ गन्धानां मरुतां चैव भूतानामशरीरिणाम् । समकालबलानां च वायुं बलवतां वरम् ॥ २,८.१२ ॥ सर्वेषां दंष्ट्रिणां शेषं नागानामथ वासुकिम् । सरीसृपाणां सर्पाणां पन्नगानां च तक्षकम् ॥ २,८.१३ ॥ सागराणां नदीनां च मेघानां वर्षितस्य च । आदित्यानामन्यतमं पर्जन्यमभिषिक्तवान् ॥ २,८.१४ ॥ सर्वाप्सरोगणानां च कामदेवं तथा प्रभुम् । ऋतूनामथ मासानामार्त्तवानां तथैव च ॥ २,८.१५ ॥ यक्षाणां च विपक्षाणां मुहूर्त्तानां च पर्वणाम् । कलाकाष्ठाप्रमाणानां गतेरयनयोस्तथा ॥ २,८.१६ ॥ गणितस्याथ योगस्य चक्रे संवत्सरं प्रभुम् । प्रजापतेर्विरजसः पूर्वस्यां दिशि विश्रुतम् ॥ २,८.१७ ॥ पुत्रं नाम्ना सुधन्वानं राजानं सोऽभ्यषेचयत् । दक्षिणास्यां दिशि तथा कर्दमस्य प्रजापतेः ॥ २,८.१८ ॥ पुत्रां शङ्खपदं नाम राजानं सोभ्यषेचयत् । पस्चिमस्यां दिशि तथा रजसः पुत्रमच्युतम् ॥ २,८.१९ ॥ केतुमन्तं महात्मानं राजानं चाभ्यषेचयत् । तथा हिरण्यरोमाणं पर्जन्यस्य प्रजापतेः ॥ २,८.२० ॥ उदीच्यां दिशि दुर्द्धर्षपुत्रं राज्येऽभ्यषेचयत् । मनुष्याणामधिपतिं चक्रे वैवस्वतं मनुम् ॥ २,८.२१ ॥ तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना । यथाप्रदेशमद्यापि धर्मेण परिपाल्यते ॥ २,८.२२ ॥ स्वायंभुवेन्तरे पूर्वं ब्रह्मणा तेऽभिषेचिताः । नृपाश्चैतेऽभिषिच्यन्ते मनवो ये भवन्ति वै ॥ २,८.२३ ॥ मन्वन्तरेष्वतीतेषु गता ह्येतेषु पार्थिवाः । एवमन्येऽभिषिच्यन्ते प्राप्ते मन्वन्तरे पुनः ॥ २,८.२४ ॥ अतीतानागताः सर्वे स्मृता मन्वन्तरेश्वराः । राजसूयेऽभिषिक्तश्च पृथु रेभिर्नरोत्तमः ॥ २,८.२५ ॥ वेददृष्टेन विधिना ह्यधिराजः प्रतापवान् । एतानुत्पाद्य पुत्रांस्तु प्रजासन्तानकारणात् ॥ २,८.२६ ॥ पुनरेव महा भागः प्रजानां पतिरीश्वरः । कश्यपो गोत्रकामस्तु चचार परमं तपः ॥ २,८.२७ ॥ पुत्रौ गोत्रकरौ मह्यं भवेतामिति चिन्तयन् । तस्यप्रध्यायमानस्य कश्यपस्य महात्मनः ॥ २,८.२८ ॥ ब्रह्मणोंऽशौ सुतौ पश्चात्प्रादुर्भूतौ महौजसौ । वत्सारश्चासितश्चैव तावुभौ ब्रह्म वादना ॥ २,८.२९ ॥ वत्सारान्निध्रुवो जज्ञे रेभ्यश्च सुहमायशाः । रेभ्यस्य रैभ्यो विज्ञेयो निध्रुवस्य निबोधत ॥ २,८.३० ॥ च्यवनस्य सुकन्याया सुमेधाः समपद्यत । निध्रुवस्य तु या पत्नी माता वै कुण्डपायिराम् ॥ २,८.३१ ॥ असितस्यैकपर्णायां ब्रह्मिष्ठः समपद्यत । शाण्डिल्यानां वरः श्रीमान् देवलः सुमहायशाः ॥ २,८.३२ ॥ निध्रुवाः शाण्डिला रैभ्यास्त्रयः पक्षास्तु काश्यपाः । वज्रिप्रभृतयो देवा देवास्तस्य प्रजा स्विमाः ॥ २,८.३३ ॥ चतुर्युगे त्वतिक्रान्ते मनोर्ह्येकादशे प्रभोः । अथावशिष्टे तस्मिंस्तु द्वापरे संप्रर्त्तिते ॥ २,८.३४ ॥ मरुत्तस्य नरिष्यं तस्तस्य पुत्रो दमः किल । राज्यवर्द्धनकस्तस्य सुधृतिस्तत्सुतो नरः ॥ २,८.३५ ॥ केवलश्च ततस्तस्य बन्धुमान्वेगवांस्ततः । बुधस्तस्या भवद्यस्या तृणबिन्दुर्महीपतिः ॥ २,८.३६ ॥ त्रेतायुगमुखे राजा तृतीये स बभूव ह । तस्य चेलविला कन्यालंबुषागर्भसंभवा ॥ २,८.३७ ॥ तस्यां जातो विश्रवास्तु वौलस्त्यकुलवर्द्धनः । बृहस्पतिबृर्हत्कीर्तिर्देवाचार्यस्तु कीर्त्तितः ॥ २,८.३८ ॥ कन्यां तस्योपयेमे स नाम्ना वै देववर्णिनीम् । पुष्पोत्कटां च वाकां च सुते माल्यवतस्तथा ॥ २,८.३९ ॥ कैकसीं मालिनः कन्यां तासां तु शृणुत प्रजाः । ज्येष्ठं वैश्रवणं तस्य सुषुवे देववर्णिनी ॥ २,८.४० ॥ दिव्येन विधिना युक्तमार्षेण च श्रुतेन च । राक्षसेन च रूपेण आसुरेण बलेन च ॥ २,८.४१ ॥ त्रिपादं सुमहा कायं स्थूलशीर्षं महाहनुम् । अष्टदंष्ट्रं हरिछ्मश्रुं शङ्कुकर्णं विलोहितम् ॥ २,८.४२ ॥ ह्रस्वबाहुं प्रबाहुं च पिगलं सुद्विभीषणम् । वैवर्त्तज्ञानसंपन्नं संबुद्धं चैव संभवात् ॥ २,८.४३ ॥ पिता दृष्ट्वाब्रवीत्तं तु कुबेरोऽयमिति स्वयम् । कुत्सायां क्विति शब्दोऽयं शरीरं बेरमुच्यते ॥ २,८.४४ ॥ कुबेरः कुशरीरत्वान्नाम्ना वै तेन सोंऽकितः । यस्माद्विश्रवसोऽपत्यं सादृश्याद्विश्रवा इव ॥ २,८.४५ ॥ तस्माद्वैश्रवणो नाम नाम्ना तेन भविष्यति । ऋद्रयां कुबेरोऽजनयद्विश्रुतं नलकूबरम् ॥ २,८.४६ ॥ रावणं कुम्भकर्णं च कन्यां शूर्पणखीं तथा । विभीषणचतुर्थांस्तु कैकस्यजनयत्सुतान् ॥ २,८.४७ ॥ शङ्कुकर्णो दशग्रीवः पिङ्गलो रक्तमूर्द्धजः । चतुष्पाद्विंशतिभुजो महाकायो महाबलः ॥ २,८.४८ ॥ जात्यञ्ज ननिभो दंष्ट्री लोहितग्रीव एव च । राक्षसेनौजसा युक्तो रूपेण च बलेन च ॥ २,८.४९ ॥ सत्त्वबुद्धिजितैर्चङ्क्षरा असैरेव रावणः । विसर्गदारुणः क्रूरो रावणो द्रावणस्तु सः ॥ २,८.५० ॥ हिरण्यकशिपुर्ह्यासीद्रावणः पूर्वजन्मनि । चतुर्युगानि राजाभूत्त्रयोदश स राक्षसः ॥ २,८.५१ ॥ ताः पञ्चकोट्यो वर्षाणां संख्याताः संख्यया द्विजाः । नियुतान्येकषष्टिं च शरदां गणितानि वै ॥ २,८.५२ ॥ षष्टिं चैव सहस्राणि वर्षाणां वै स रावणः । देवतानामृषीणां च घोरं कृत्वा प्रजागरम् ॥ २,८.५३ ॥ त्रेतायुगे चतुर्विंशे रावणस्तपसः क्षयात् । रामं दाशरथिं प्राप्य सगणः क्षयमीयिवान् ॥ २,८.५४ ॥ महोदरः प्रहस्तश्च महापार्श्वः खरस्तथा । पुष्पोत्कटायाः पुत्रास्ते कन्या कुम्भीनसी तथा ॥ २,८.५५ ॥ त्रिशिरा दूषणश्चैव विद्युज्जिह्वः सराक्षसः । कन्यानुपालिका चैव वाकायाः प्रसवः स्मृतः ॥ २,८.५६ ॥ इत्येते क्रूर कर्माणः पौलस्त्या राक्षसा दश । दारुणाभिजनाः सर्वे देवैरपि दुरासदाः ॥ २,८.५७ ॥ सर्वे लब्धवराः शूराः पुत्रपौत्रैः समन्विताः । यक्षाणां चैव सर्वेषां पौलस्त्या चे च राक्षसाः ॥ २,८.५८ ॥ आगस्त्यवैश्वामित्राणां क्रूराणां ब्रह्मरक्षसाम् । वेदाध्ययनशीलानां तपोव्रतनिषेविणाम् ॥ २,८.५९ ॥ तेषामैडविडो राजा पौलस्त्यः सव्यपिङ्गलः । इतरे ये यज्ञजुषस्ते वै रक्षोगणास्त्रयः ॥ २,८.६० ॥ यातुधाना ब्रह्मधाना वार्त्ताश्चैव दिवाचराः । निशाचरगणास्तेषां चत्वारः कविभिः स्मृताः ॥ २,८.६१ ॥ पौलस्त्या नैरृताश्चैव आगस्त्याः कौशिकास्तथा । इत्येताः सप्त तेषां वै जातयो राक्षसाः स्मृताः ॥ २,८.६२ ॥ तेषां रुपं प्रवक्ष्यामि स्वाभाव्येन व्यवस्थितम् । वृत्ताक्षाः पिङ्गलाश्चैव महाकाया महोदराः ॥ २,८.६३ ॥ अष्टदंष्ट्राः शङ्कुकार्णा ऊर्द्ध्वरोमाण एव च । आकर्णा हारितस्याश्च मुञ्जधूम्रोर्ध्वमूर्धजाः ॥ २,८.६४ ॥ स्थूलशीर्षाः सिताभाश्च ह्रस्वसक्थिप्रबाहवः । ताम्रास्या लंबजिह्वोष्ठा लंबभ्रूस्थूलनासिकाः ॥ २,८.६५ ॥ नीलाङ्गा लोहितग्रीवा गंभीराक्षा विभीषणाः । महाघोरस्वराश्चैव विकटोद्बद्धपिण्डिकाः ॥ २,८.६६ ॥ स्थूलाश्च तुङ्गनासाश्च शिलासंहनना दृढाः । दारुणाभिजनाः क्रूराः प्रायशः क्लिष्टकर्मिणः ॥ २,८.६७ ॥ सकुण्डलाङ्गदापीडा मुकुटोष्णीषधारिणः । विचित्राभरणाश्चित्रमाल्यगन्धानुलेपनाः ॥ २,८.६८ ॥ अन्नादाः पिशितादाश्च पुरुषादाश्च ते स्मृताः । इत्येतद्रूपसाधर्म्यं राक्षसानां स्मृतं बुधैः ॥ २,८.६९ ॥ न समास्ते बले बुद्धौ युद्धे माया कृते तदा । पुलहस्य मृगाः पुत्राः सर्वे व्यालाश्च दंष्ट्रिणः ॥ २,८.७० ॥ भूताः सर्प्पाः पिशाचाश्च सृमरा हस्तिनस्तथा । वानराः किन्नराश्चेव मायुः किंपुरुषास्तथा ॥ २,८.७१ ॥ प्रागप्येते परिक्रान्ता मया क्रोधवशान्वयाः । अनपत्यः क्रतुर्ह्यस्मिन्स्मृतो वैवस्वतेंऽतरे ॥ २,८.७२ ॥ न तस्य पत्न्यः पुत्रा वा तेजः संक्षिव्य च स्थितः । अत्रेर्वशं प्रवक्ष्यामि तृतीयस्य प्रजापतेः ॥ २,८.७३ ॥ तस्य पत्न्यस्तु सुन्दर्यों दशैवासन्पतिव्रताः । बद्राश्वस्य घृताच्यां वै दशाप्सरसि सूनवः ॥ २,८.७४ ॥ भद्रा शूद्रा च मद्रा च शालभा मलदा तथा । बला हला च सप्तैता या च गोचपलाः स्मृताः ॥ २,८.७५ ॥ तथा तामरसा चैव रत्नकूटा च तादृशः । तत्र यो वंशकृच्चासौ तस्य नाम प्रभाकरः ॥ २,८.७६ ॥ मद्रायां जनयामास सोमं पुत्रं यशस्विनम् । स्वर्भानुना हते सूर्ये पतमाने दिवो महीम् ॥ २,८.७७ ॥ तमोऽभिभूते लोकेऽस्मिन्प्रभा येन प्रवर्त्तिता । स्वस्ति तेस्त्विति चौक्तो वै पतन्निह दिवाकरः ॥ २,८.७८ ॥ ब्रह्मर्षेर्वचनात्तस्य न पपात दिवो महीम् । अत्रिश्रेष्ठानि गोत्राणि यश्चकार महातपाः ॥ २,८.७९ ॥ यज्ञेष्वनिधनं चैव सुरैर्यस्य प्रवर्तितम् । स तासु जनयामास पुत्रानात्मसमानकान् ॥ २,८.८० ॥ दश तान्वै सुमहता तपसा भावितः प्रभुः । स्वस्त्यात्रेया इति ख्याता ऋषयो वेदपारगाः ॥ २,८.८१ ॥ तेषां द्वौ ख्यातयशसौ ब्रह्मिष्ठौ सुमहौजसौ । दत्तो ह्यनुमतो ज्येष्ठो दुर्वासास्तस्य चानुजः ॥ २,८.८२ ॥ यवीयसी सुता तेषामबला ब्रह्मवादिनी । अत्राप्युदाहरन्तीमं श्लोकं पौराणिकाः पुरा ॥ २,८.८३ ॥ अत्रेः पुत्रं महात्मानं शान्तात्मानमकल्मषम् । दत्तात्रेयं तनुं विषणोः पुराणज्ञाः प्रजक्षते ॥ २,८.८४ ॥ तस्य गोत्रान्वयज्जाताश्चत्वारः प्रथिता भुवि । श्यावाश्वा मुद्गलाश्चैव वाग्भूतकगवि स्थिराः ॥ २,८.८५ ॥ एतेऽत्रीणां तु चत्वारः स्मृताः पक्षा महौजसः । काश्यपो नारदश्चैव पर्वतोऽरुन्धती तथा ॥ २,८.८६ ॥ जज्ञिरे मानसा ह्येतेऽरुधत्यास्तन्निबोधत । नारदस्तु वसिष्ठायारुन्धती प्रत्यपादयत् ॥ २,८.८७ ॥ ऊर्द्ध्वरेता महातेजा दक्षशापात्तु नारदः । पुरा देवासुरे तस्मिन्संग्रामे तारकामये ॥ २,८.८८ ॥ अनावृष्ट्या हते लोके व्यग्रे शस्ते सुरैः सह । वसिष्ठस्तपसा धीमाञ्जीवयामास वै प्रजाः ॥ २,८.८९ ॥ अनेकफलमूलिन्य औषधीश्च प्रवर्तयन् । तास्तेन जीवयामास कारुण्यादौषधेन सः ॥ २,८.९० ॥ अरुन्धत्यां वसिष्टस्तु शक्तिमुत्पादय त्सुतम् । स्वाङ्गज जनयच्छक्तिरदृश्यन्त्यां पराशरम् ॥ २,८.९१ ॥ काल्यां पराशराज्जज्ञे कृष्णद्वैपायनः प्रभुः । द्वैपायनादरण्यां वै शुको जज्ञे गुणान्वितः ॥ २,८.९२ ॥ उदपद्यन्त षडिमे पीवर्यां शुकसूनवः । भूरिश्रवाः प्रभुः शंभुः कृष्णो गौरश्च पञ्चमः ॥ २,८.९३ ॥ कन्या कीर्तिमती चैव योगमाता धृतव्रता । जननी ब्रह्मदत्तस्य पत्नी सा त्वणुहस्य च ॥ २,८.९४ ॥ श्वेताः कृष्णाश्च पौराश्च श्यामधूम्राश्च चण्डिनः । ऊष्मादा दारिकाश्चैव नीलाश्चैव पराशराः ॥ २,८.९५ ॥ पराशराणामष्टौ ते पक्षाः प्रोक्ता महात्मनाम् । अत ऊर्द्ध्व निबोध त्वमिन्द्रप्रमति संभवम् ॥ २,८.९६ ॥ वसिष्ठस्य कपिञ्जल्यां घृताच्यामुदपद्यत । कुणीति यः समाख्यात इन्द्रप्रमतिरुच्यते ॥ २,८.९७ ॥ पृथोः सुतायां संभूतः पुत्रस्तस्याभवद्वसुः । उपमन्युः सुतस्तस्य यस्येमे ह्यौपमन्यवः ॥ २,८.९८ ॥ मित्रावरुणयोश्चैव कुण्डिनेयाः परिश्रुताः । एकार्षेयास्तथा चान्ये वसिष्ठा नाम विश्रुताः ॥ २,८.९९ ॥ एते पक्षा वसिष्ठानां स्मृता ह्येकादशैव तु । इत्येते ब्रह्मणः पुत्रा मानसा अष्ट विश्रुताः ॥ २,८.१०० ॥ भ्रातरः सुमहाभागा येषां वंशाः प्रतिष्ठिताः । त्रींल्लोकान्धारयन्तीमान्देवर्षिगणसंकुलान् ॥ २,८.१०१ ॥ तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः । व्याप्ता येस्तु त्रयो लोकाः सूर्यस्येव गभस्तिभिः ॥ २,८.१०२ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे ऋषिवंशवर्णनं नामाष्टमोऽध्यायः ॥ ८॥ _____________________________________________________________ ऋषय ऊचुः कथं द्विवारावुत्पन्ना भवानी प्राक्सती तु या । आसीद्दाक्षायणी पूर्वमुमा कथमजायत ॥ २,९.१ ॥ मेनायां पितृकन्यायां जनयञ्छैलराट्स्वयम् । के वै ते पितरो नाम येषां मेना तु मानसी ॥ २,९.२ ॥ मैनाकश्चैव दोहित्रो दौहित्री च तथा ह्युमा । एकपर्णा तथा चैव तथा चैवैकपाटला ॥ २,९.३ ॥ गङ्गा चापि सरिच्छ्रेष्ठा सर्वासां पूर्वजा तथा । सर्वमेतत्वयोद्दिष्टं निर्देशं तस्य नो वद ॥ २,९.४ ॥ श्रोतुमिच्छामि भद्रं ते श्राद्धस्य च विधिं परम् । पुत्राश्च के स्मृतास्तेषां कथं च पितरस्तु ते ॥ २,९.५ ॥ कथं वा ते समुत्पन्नाः किंना मानः किमात्मकाः । स्वर्गे वै पितरो ह्येते देवानामपि देवताः ॥ २,९.६ ॥ एवं वेदितुमिच्छामि पितॄणां सर्गमुत्तममा । यथा च दत्तमस्माभिः सार्द्धं प्रीणाति वै पितॄन् ॥ २,९.७ ॥ यदर्थं ते न दृश्यन्ते तत्र किं कारणं स्मृतम् । स्वर्गे तु के च वर्त्तन्ते पितरो नरके व के ॥ २,९.८ ॥ अभिसंभाष्य पितरं पितुश्च पितरं तथा । प्रतितामहं तथा चैव त्रिषु पिण्डेषु नामतः ॥ २,९.९ ॥ नाम्ना दत्तानि श्राद्धानि कथं गच्छन्ति वै पितॄन् । कथं च शक्तास्ते दातुं नरकस्थाः फलं पुनः ॥ २,९.१० ॥ के च ते पितरो नाम कान्यजामो वयं पुनः । देवा अपि पितॄन् स्वर्गे यजन्तीति हि नः श्रुतम् ॥ २,९.११ ॥ एतदिच्छामि वै श्रोतुं विस्तरेण बहुश्रुतम् । स्पष्टाभिधान मपि वै तद्भवान्वक्तुमर्हसि ॥ २,९.१२ ॥ सूत उवाच अत्र वो कीर्तयिष्यामि यथाप्रज्ञं यथाश्रुतम् । मन्वन्तरेषु जायन्ते पितरो देवसूनवः ॥ २,९.१३ ॥ अतीतानागताः श्रेष्ठाः कनिष्ठाः क्रमशस्तु वै । देवैः सार्द्धं पुरातीताः पितरोऽन्येन्तरेषु वै ॥ २,९.१४ ॥ वर्तन्ते सांप्रतं चे तु तान्वै पक्ष्यामि निश्चयात् । श्राद्धक्रियां मनुश्चैषां श्राद्धदेवः प्रवर्त्तयेत् ॥ २,९.१५ ॥ देवान्सृजत ब्रह्मा मां यक्ष्यन्तीति च प्रभुः । तमुत्सृज्य तदात्मानमयजंस्ते फलार्थिनः ॥ २,९.१६ ॥ ते शप्ता ब्रह्मणा मूढा नष्टसंज्ञा भविष्यथ । तस्मात्किञ्चिन्न जानीत ततो लोकेषु मुह्यत ॥ २,९.१७ ॥ ते भूयः प्रणताः सर्वे याचन्ति स्म पितामहम् । अनुग्रहाय लोकानां पुनस्तानब्रवीत्प्रभुः ॥ २,९.१८ ॥ प्रायश्चित्तं चरध्वं वै व्यभिचारो हि वः कृतः । पुत्रान्स्वान्परिपृच्छध्वं ततो ज्ञानमवाप्स्यथ ॥ २,९.१९ ॥ ततस्त स्वसुतांश्चैव प्रयश्चित्तजि घृक्षवः । अपृच्छन्संयतात्मानो विधिवच्च मिथो मिथः ॥ २,९.२० ॥ तेभ्यस्ते नियतात्मानः पुत्राः शंसुरनेकधा । प्रयश्चित्तानि धर्मज्ञावाङ्मनः कर्मजानि च ॥ २,९.२१ ॥ ते पुत्रानब्रुवन्प्रीता लब्धसंज्ञा दिवौकसः । यूयं वै पितरोऽस्माकं यैर्वयं प्रतिबोधिताः ॥ २,९.२२ ॥ धर्मं ज्ञानं च वैराग्यं को वरो वः प्रदीयताम् । पुस्तानब्रवीद्ब्रह्मा यूयं वै सत्यवादिनः ॥ २,९.२३ ॥ तस्माद्यदुक्तं युष्माभिस्तत्तथा न तदन्यथा । उक्तं च पितरोऽस्माकं चेति वै तनयाः स्वकाः ॥ २,९.२४ ॥ पितरस्ते भविष्यन्ति तेभ्योऽयं दीयतां वरः । तेनैव वचसा ते वै ब्रह्मणः परमेष्ठिनः ॥ २,९.२५ ॥ पुत्राः पितृत्वमाजग्मुः पुत्रत्वं पितरः पुनः । तस्मात्ते पितरः पुत्राः पितृत्वं तेषु तत्स्मृतम् ॥ २,९.२६ ॥ एवं स्मृत्वा पितॄन्पुत्राः पुत्रांश्चैव पितॄंस्तथा । व्याजहार पुनर्ब्रह्मा वितॄनात्मविवृद्धये ॥ २,९.२७ ॥ यो ह्य निष्टान्पितॄञ्श्राद्धि क्रियां काञ्चितकरिष्यति । राक्षसा दानवाश्बैव फलं प्राप्स्यन्ति तस्य तत् ॥ २,९.२८ ॥ श्राद्धैराप्यायिताश्चैव पितरः सोममव्ययम् । आप्यायमाना युष्माभिर्वर्द्धयिष्यन्ति नित्यशः ॥ २,९.२९ ॥ श्राद्धैराप्यायितः सोमो लोकानाप्याययिष्यति । कृत्स्नं सपर्वतवनं जङ्गमाजङ्गमैर्वृतम् ॥ २,९.३० ॥ श्राद्धानि पुष्टिकामाश्च ये करिष्यन्ति मानवाः । तेभ्यः पुष्टिं प्रजाश्चैव दास्यन्ति पितरः सदा ॥ २,९.३१ ॥ श्राद्धे येभ्यः प्रदास्यन्ति त्रीन्पिण्डान्नामगोत्रतः । सर्वत्र वर्तमानास्ते पितरः प्रपितामहाः ॥ २,९.३२ ॥ तेषामाप्याययिष्यन्ति श्राद्धदानेन वै प्रजाः । एवमाज्ञा कृता पूर्वं ब्रह्मणा परमेष्ठिना ॥ २,९.३३ ॥ तेनैतत्सर्वथा सिद्धं दानमध्ययनं तपः । ते तु ज्ञानप्रदातारः पितरो वो न संशयः ॥ २,९.३४ ॥ इत्येते पितरो देवा देवाश्च पितरः पुनः । अन्योन्यपितरो ह्येते देवाश्च पितरश्च ह ॥ २,९.३५ ॥ एतद्ब्रह्मवचः श्रुत्वा सूतस्य विदितात्मनः । पप्रच्छुर्मुनयो भूयः सूतं तस्माद्यदुत्तरम् ॥ २,९.३६ ॥ ऋषय ऊचुः कियन्तो वै मुनिगणाः कस्मिन्काले च ते गणाः । पूर्वे तु देवप्रवरा देवानां सोमवर्द्धनाः ॥ २,९.३७ ॥ सूत उवाच एतद्वोऽहं प्रवक्ष्यामि पितृसर्गमनुत्तमम् । शंयुः पप्रच्छ यत्पूर्वं पितरं वै बृहस्पतिम् ॥ २,९.३८ ॥ बृहस्पतिमुपासीनं सर्वज्ञानार्थकोविदम् । पुत्रः शंयुरिमं प्रश्नं पप्रच्छ विनयान्वितः ॥ २,९.३९ ॥ क एते पितरो नाम कियन्तः के च नामतः । समुद्भूताः कथं चैते पितृत्वं समुपागताः ॥ २,९.४० ॥ कस्माच्च पितरः पूर्वं यज्ञं पुष्णन्ति नित्यशः । क्रियाश्च सर्वा वर्त्तन्ते श्राद्धपूर्वा महात्मनाम् ॥ २,९.४१ ॥ कस्मै श्राद्धानि देयानि किं च दत्ते महाफलम् । केषु चाप्यक्षयं श्राद्धं तीर्थेषु च नदीषु च ॥ २,९.४२ ॥ केषु वै सर्वमाप्तोति श्राद्धं कृत्वा द्विजोत्तमः । कश्च कालो भवेच्छ्राद्धे विधिः कश्चानुवर्त्तते ॥ २,९.४३ ॥ एतदिच्छामि भगवन्विस्तरेण यथा तथा । व्याख्यातमानुपूर्व्येण यत्र चोदाहृतं मया ॥ २,९.४४ ॥ बृहस्पतिरिदं सम्यगेवं पृष्टो महामतिः । व्याजहारानुपूर्व्येण प्रश्नं प्रश्नविदां वरः ॥ २,९.४५ ॥ बृहस्पतिरुवाच कथ यिष्यामि ते तात यन्मां त्वं परिपृच्छसि । विनयेन यथान्यायं गम्भीरं प्रश्नमुत्तमम् ॥ २,९.४६ ॥ द्यौरंरिक्षं पृथिवी नक्षत्राणि दिशस्त था । सूर्याचन्द्रमसौ चैव तथाहोरात्रमेव च ॥ २,९.४७ ॥ न बभूवुस्तदा तात तमोभूतमभूज्जगत् । ब्रह्मैको दुश्चरं तत्र तताप परमं तपः ॥ २,९.४८ ॥ शंयुस्तमब्रवीद्भूयः पितरं ब्रह्मवित्तमम् । सर्ववेदव्रतस्नातः सर्वज्ञानविदां वरः । कीदृशं सर्वभूतेशस्तपस्तेपे प्रजा पतिः ॥ २,९.४९ ॥ बृहस्पतिरुवाच सर्वेषां तपसां यत्तत्तपो योगमनुत्तमम् । ध्यायंस्तदा स भगवांस्तेन लोकानवासृजत् ॥ २,९.५० ॥ ज्ञानानि भूतभव्यानि लोका वेदाश्च सर्वशः । योगामृतास्तदा सृष्टा ब्रह्मणा लोकचक्षुषा ॥ २,९.५१ ॥ लोकाः संतानका नाम यत्र तिष्ठन्ति भास्वराः । वैराजा इति विख्याता देवानां दिवि देवता। ॥ ५२॥ योगेन तपसा युक्तः पूर्वमेव तदा प्रभुः । देवानसृजत ब्रह्मा योगयुक्तान्सनातनान् ॥ २,९.५३ ॥ आदिदेवा इति ख्याता महासत्त्वा महौजसः । सर्वकामप्रदाः पूज्या देवादानवमानवैः ॥ २,९.५४ ॥ तेषां सप्त समाख्याता गणास्त्रैलोक्यपूजिताः । अमूर्त्तयस्त्रयस्तेषां चत्वारस्तु समूर्त्तयः ॥ २,९.५५ ॥ उपरिष्टात्त्रयस्तेषां वर्त्तन्ते भावमूर्त्तयः । तेषामधस्ताद्वर्त्तन्ते चत्वारः सूक्ष्ममूर्त्तयः ॥ २,९.५६ ॥ ततो देवास्ततो भूमिरेषा लोकपरंपरा । लोके वर्षन्ति ते ह्यस्मिंस्तेभ्यः पर्जन्यसंभवः ॥ २,९.५७ ॥ अन्नं भवति वै वृष्ट्या लोकानां संभवस्ततः । आप्याययन्ति ते यस्मात्सोमं चान्नं च योगतः ॥ २,९.५८ ॥ ऊचुस्तान्वै पितॄंस्त स्माल्लोकानां लोकसत्तमाः । मनोजवाः स्वधाभक्ष्यः सर्वकामपरिष्कृताः ॥ २,९.५९ ॥ लोभमोहभयोपेता निश्चिन्ताः शोक वर्जिताः । एते योगं परित्यज्य प्राप्ता लोकान्सुदर्शनान् ॥ २,९.६० ॥ दिव्याः पुण्या विपाप्मानो महात्मानो भवन्त्युत । ततो युगसहस्रान्ते जायन्ते ब्रह्मवादिनः ॥ २,९.६१ ॥ प्रतिलभ्य पुनर्योगं मोक्षं गच्छन्त्यमूर्त्तयः । व्यक्ताव्यक्तं परित्यज्य महायोगबलेन च ॥ २,९.६२ ॥ नश्यन्त्युल्केव गगने क्षणद्विद्युत्प्रभेव च । उत्सृज्य देहजालानि महायोगबलेन च ॥ २,९.६३ ॥ निराख्योपास्यता यान्ति सरितं सागरं यथा । क्रियया गुरुपूजाभिर्यागं कुर्वन्ति यत्नतः ॥ २,९.६४ ॥ श्राद्धे प्रीतास्ततः सोमं पितरो योगमास्थिताः । आप्याययन्ति योगेन त्रैलोक्यं येन जीवति ॥ २,९.६५ ॥ तस्माच्छ्राद्धानि देयानि योगानां यत्नतः सदा । पितॄणां हि बलं योगो योगात्सोमः प्रवर्त्तते ॥ २,९.६६ ॥ सहस्रशतविप्रान्वै भोजयेद्यावदागतान् । एकस्तानपि मन्त्रज्ञः सर्वानर्हति तच्छृणु ॥ २,९.६७ ॥ एतानेव च मन्त्रज्ञान्भोजयेद्यः समागतान् । एकस्तान्स्नातकः प्रितः सर्वानर्हति तच्छृणु ॥ २,९.६८ ॥ मन्त्रज्ञानां सहस्रेण स्नातकानां शतेन च । योगाचार्येण यद्भुक्तं त्रायते महातो भयात् ॥ २,९.६९ ॥ गृहस्थानां सहस्रेण वानप्रस्थशतेन च । ब्रह्मचारिसहस्रेण योग एव विशिष्यते ॥ २,९.७० ॥ नास्तिको वाप्यधर्मो वा संकीर्मस्तस्करोऽपि वा । नान्यत्र तारणं दानं योगेष्वाह प्रजापतिः ॥ २,९.७१ ॥ पितरस्तस्य तुष्यन्ति सुवृष्टेनैव कर्षकाः । पुत्रो वाप्यथ वा पौत्रो ध्यानिनं भोजयिष्यति ॥ २,९.७२ ॥ अलाभे ध्याननिष्ठानां भोजयेद्ब्रह्मचारिणम् । तदलाभे उदसीनं गूहस्थमपि भोजयेत् ॥ २,९.७३ ॥ यस्तिष्ठेदेकपादेन वायुभक्षः शतं समाः । ध्यानयोगी परस्तस्मादिति ब्रह्मानुशासनम् ॥ २,९.७४ ॥ आद्य एष गणः प्रोक्तः पितॄणाममितौजसाम् । भावयन्सर्वलोकान्वै स्थित एष गणः सदा ॥ २,९.७५ ॥ अत ऊर्ध्वं प्रवक्ष्यामि सर्वानपि गणान्पुनः । संततिं संस्थितिं चैव भावनां च यथाक्रमम् ॥ २,९.७६ ॥ एति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे पितृकल्पो नाम नवमोऽध्यायः ॥ ९॥ _____________________________________________________________ बृहस्पतिरुवाच सप्तैते जयतां श्रेष्ठाः स्वर्गे पितृगणाः स्मृताः । चत्वारो मुर्त्तिमन्तश्च त्रयस्तेषाममूर्त्तयः ॥ २,१०.१ ॥ तेषां लोकान्विसर्गं च कीर्त्तयिष्ये निबोधत । यावै दुहितरस्तेषां दौहित्राश्चेव ये स्मृताः ॥ २,१०.२ ॥ लोकाः संतानका नाम यत्र तिष्ठन्ति भास्वराः । अमूर्त्तयः पितृगणास्ते वै पुत्राः प्रजापतेः ॥ २,१०.३ ॥ विराजस्य द्विजश्रेष्ठा वैराजा इति विश्रुताः । एते वै पितरस्तात योगानां योगवर्धनाः ॥ २,१०.४ ॥ अप्याययन्ति ये नित्यं योगायोगबलेन तु । श्राद्धैराप्यायितास्ते वै सोममाप्याययन्ति च ॥ २,१०.५ ॥ आप्यायितस्ततः सोमो लोकानाप्याययत्युत । एतेषां मानसी कन्या मेना नाम महागिरेः ॥ २,१०.६ ॥ पत्नी हिमवतः पुत्रो यस्या मैनाक उच्यते । पर्वतप्रवरः सोऽथ क्रैञ्चश्चास्य गिरेः सुतः ॥ २,१०.७ ॥ तिस्रः कन्यास्तु मेनायां जनयामास शैलाराट् । अपर्णामेकपर्णां च तृतीयामेकपाटलाम् ॥ २,१०.८ ॥ न्यग्रोधमे कपर्णा तु पाठलं त्वेकपाटला । आशिते द्वे अपर्णा तु ह्यनिकेता तपोऽचरत् ॥ २,१०.९ ॥ शतं वर्षसहस्राणां दुश्चरं देवदानवैः । आहारमेकपर्णेन ह्येकपर्णा समाचरत् ॥ २,१०.१० ॥ पाटलेनैव चैकेन व्यदधादेकपाटला । पूर्णे वर्षसहस्रे द्वे चाहारं वै प्रजक्रतुः ॥ २,१०.११ ॥ एका तत्र निराहारा तां माता प्रत्यभाषत । निषेधयन्ती सोमेति मातृस्रेहेन दुःखिता ॥ २,१०.१२ ॥ सा तथोक्ता तदापर्णा देवी दुश्चरचारिणी । उमेति हि महाभागा त्रिषु लोकेषु विश्रुता ॥ २,१०.१३ ॥ तथैव नाम्ना तेनासौ निरुक्तोक्तेन कर्मणा । एतत्तु त्रिकुमारीकं जगत्स्थावरजङ्ग मम् ॥ २,१०.१४ ॥ एतासां तपसा सृष्टं यावद्भूमिर्द्धरिष्यति । तपःशरीरास्ताः सर्वास्थिस्रो योगबलान्विताः ॥ २,१०.१५ ॥ सर्वास्ताः सुमहाभागाः सर्वाश्च स्थिरयौवनाः । सर्वाश्च ब्रह्मवादिन्यः सर्वाश्चैवोर्ध्वरेतसः ॥ २,१०.१६ ॥ उमा तासां वरिष्ठा च श्रेष्ठा च वरवर्णिनी । महायोगबलोपेता महादेवमुपस्थिता ॥ २,१०.१७ ॥ दत्तकश्चोशान्स्तस्याः पुत्रो वै भृगुनन्दनः । असितस्यैकपर्णा तु पत्नी साध्वी पतिव्रता ॥ २,१०.१८ ॥ दत्ता हिमवता तस्मै योगाचार्याय धीमते । देवलं सुषुवे सा तु ब्रह्मिष्ठं ज्ञानसंयुता ॥ २,१०.१९ ॥ या वै तासां कुमारीणां तृतीया चैकपाटला । पुत्रं शतशलाकस्य जैगीषव्यमुपस्थिता ॥ २,१०.२० ॥ तस्यापि शङ्खलिशितौ स्मृतौ पुत्रावयोनिजौ । इत्येता वै महाभागाः कन्या हिमवतः शुभाः ॥ २,१०.२१ ॥ रुद्राणी सा तु प्रवरा स्वैर्गुणैरतिरिच्यते । अन्योन्यप्रीतमनसोरुमाशङ्करयोरथ ॥ २,१०.२२ ॥ श्लेषं संसक्तयोर्ज्ञात्वा शङ्कितः किल वृत्रहा । ताभ्यां मैथुनशक्ताभ्यामपत्योद्भवभीरुणा ॥ २,१०.२३ ॥ तयोः सकाशमिन्द्रेण प्रेषितो हव्यवाहनः । अनायो रतिविघ्नं च त्वमाचर हुताशन ॥ २,१०.२४ ॥ सर्वत्र गत एव त्वं न दोषो विद्यते तव । इत्येवमुक्ते तु तदा वह्निना च तथा कृतम् ॥ २,१०.२५ ॥ उमां देवः समुत्सृज्य शुक्रं भूमौ व्यसर्जयत् । ततो रुषितया सद्यः शप्तोऽग्निरुमया तया ॥ २,१०.२६ ॥ इदं चोक्तवती वह्निं रोषगद्गदया गिरा । यस्मान्नाववितृप्ताभ्यां रतिविघ्नं हुताशन ॥ २,१०.२७ ॥ कृतवानस्य कर्त्तव्यं तस्मात्त्वमसि दुर्मतिः । यदेवं विगतं गर्भं रौद्रं शुक्रं महाप्रभम् ॥ २,१०.२८ ॥ गर्भे त्वं धारयस्वैवमेषा ते दण्डधारणा । स शापदोषाद्रुद्राण्या अन्तर्गर्भो हुताशनः ॥ २,१०.२९ ॥ बहून्वर्षगणान्गर्भं धारयामास वै द्विज । स गङ्गामभिगम्याह श्रूयतां सरिदुत्तमे ॥ २,१०.३० ॥ सुमहान्परिखेदो मे जायते गर्भधारणात् । मद्धितार्थ मथो गर्भमिमं धारय निम्नगे ॥ २,१०.३१ ॥ मत्प्रसादाच्च तनयो वरदस्ते भविष्यति । तथेत्युक्त्वा तदा सा तु संप्रत्दृष्टा महानदी ॥ २,१०.३२ ॥ तं गर्भं धारयामास दह्यमानेन चेतसा । सापि कृच्छ्रेण महता खिद्यमाना महानदी ॥ २,१०.३३ ॥ प्रकृष्टं व्यसृजद्गर्भं दीप्यमान मिवानलम् । रुद्राग्निगङ्गातनयस्तत्र जातोऽरुणप्रभः ॥ २,१०.३४ ॥ आदित्यशतसंकाशो महातेजाः प्रतापवान् । तस्मिञ्जाते महाभागे कुमारे जाह्नवीसुते ॥ २,१०.३५ ॥ विमानयानैराकाशं पतत्र्रिभिरिवावृतम् । देवदुन्दुभयो नेदुराकाशे मधुरस्वनाः ॥ २,१०.३६ ॥ मुमुचुः पुष्पवर्षं च खेचराः सिद्धचारणाः । जगुर्गन्धर्वमुख्याश्च सर्वशस्तत्र तत्र ह ॥ २,१०.३७ ॥ यक्षा विद्याधराः सिद्धाः किन्नराश्चैव सर्वशः । महानागसहस्राणि प्रवराश्च पतत्र्रिणः ॥ २,१०.३८ ॥ उपतस्थुर्महाभागमाग्नेयं शङ्करात्मजम् । प्रभावेण हतास्तेन दैत्यवानरराक्षसाः ॥ २,१०.३९ ॥ स हि सप्तर्षिभार्याभिरारादेवाग्निसंभवः । अभिषेकप्रयाताभिर्दृष्टो वर्ज्य त्वरुन्धतीम् ॥ २,१०.४० ॥ ताभिः स बालार्कनिभो रौद्रः परिवृतः प्रभुः । स्निह्यमानाभिरत्यर्थं स्वकभिरिव मातृभिः ॥ २,१०.४१ ॥ युगपत्सर्वदेवीभिर्दिधित्सुर्जाह्नवीं सुतः । षण्मुखान्यसृजच्छ्रीमांस्तेनायं षण्मुखः स्मृतः ॥ २,१०.४२ ॥ तेन जातेन महाता देवानामसहिष्णवः । स्कन्दिता दानवगणास्तस्मात्स्कन्दः प्रतापवान् ॥ २,१०.४३ ॥ कृत्तिकाभिस्तु यस्मात्स वर्द्धितो हि पुरातनः । कार्त्तिकेय इति ख्यातस्तस्मादसुरसूदनः ॥ २,१०.४४ ॥ जृंभतस्तस्य दैत्यारेर्ज्वाला मालाकुला तदा । मुखाद्विनिर्गता तस्य स्वशक्तिरपराजिता ॥ २,१०.४५ ॥ क्रीडार्थं चैव स्कन्दस्य विष्णुना प्रभविष्णुना । गरुडादतिसृष्टौ हि पक्षिणौ द्वौ प्रभद्रकौ ॥ २,१०.४६ ॥ मयूरः कुक्कुटश्चैव पताका चैव वायुना । यस्य दत्ता सरस्वत्या महावीणा महास्वना ॥ २,१०.४७ ॥ अजः स्वयंभुवा दत्तो मेषो दत्तश्च शंभुना । मायाविहरणे विप्र गिरौ क्रैञ्चे निपातिते ॥ २,१०.४८ ॥ तारके चासुरवरे समुदीर्णे निपातिते । सेंद्रोपेन्द्रैर्महाभागैर्देवैरग्निसुतः प्रभुः ॥ २,१०.४९ ॥ सेनापत्येन दैत्यारिरभिषिक्तः प्रतापवान् । देवसेनापतिस्त्वेष पठ्यते सुरनायकः ॥ २,१०.५० ॥ देवारिस्कन्दनः स्कन्दः सर्वलोकेश्वरः प्रभुः । प्रमथैर्विधैर्देवस्तथा भूतगणैरपि ॥ २,१०.५१ ॥ मातृभिर्विविधाभिश्च विनायकगणैस्ततः । लोकाः सोमपदा नाम मरीचेर्यत्र वै सुताः ॥ २,१०.५२ ॥ तत्र ते दिवि वर्त्तन्ते देवास्तान्पूजयन्त्युत । श्रुता बर्हिषदो नाम पितरः सोमपास्तु ते ॥ २,१०.५३ ॥ एतेषां मानसी कन्या अच्छोदा नाम निम्नगा । अच्छौदं नाम तद्दिव्यं सरो यस्मात्समुत्थिता ॥ २,१०.५४ ॥ तथा न दृष्टपूर्वास्तु वितरस्ते कदाचन । संभूता मानसी तेषां पितॄन्स्वान्नाभिजानती ॥ २,१०.५५ ॥ सा त्वन्यं पितरं वव्रे तानतिक्रम्य वै पितॄन् । अमावसुमिति ख्यातमैलपुत्रं नभश्चरम् ॥ २,१०.५६ ॥ अद्रिकाप्सरसा युक्तं विमानाधिष्ठितं दिवि । सा तेन व्यभिचारेण गगने नाप्रजारिणी ॥ २,१०.५७ ॥ पितरं प्रार्थयित्वान्यं योगभ्रष्टा पपात ह । त्रीण्यवश्यद्विमानानि पतन्ती सा दिवश्च्युता ॥ २,१०.५८ ॥ त्रसरेणुप्रमाणानि तेषु चावस्थितान्पितॄन् । सुसूक्ष्मानपरिव्यक्तानग्नीनग्निष्विवाहितान् ॥ २,१०.५९ ॥ त्रायध्वमित्युवाचार्ता पतती चाप्यवाक्शिराः । तैरुका सा तु मा भैषी रित्यतोऽधिष्ठिताभवत् ॥ २,१०.६० ॥ ततः प्रसादयत्सा वै सीदन्ती त्वनया गिरा । ऊचुस्ते पितरः कन्यां भ्रष्टैश्वर्यां व्यतिक्रमात् ॥ २,१०.६१ ॥ भ्रष्टैश्वर्यां स्वदोषेण पतसि त्वं शुचिस्मिते । यैराचरन्ति कर्मणि शरीरैरिह देवताः ॥ २,१०.६२ ॥ तैरेव तत्कर्मभलं प्राप्नुवन्ति सदा स्म ह । सद्यः फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे ॥ २,१०.६३ ॥ तस्मात्स्वतपसः पुत्रि प्रेत्य संप्राप्स्यसे फलम् । इत्युक्तया तु पितरः पुनस्ते तु प्रसादिताः ॥ २,१०.६४ ॥ ध्यात्वा प्रसादं ते चक्रुस्तस्यास्तदनुकंपया । अवश्यं भाविनं दृष्ट्वा ह्यर्थमूचुस्तदा तु ताम् ॥ २,१०. ६५ ॥ सोमपाः पितरः कन्यां रज्ञोऽस्यैव त्वमावसोः । उत्पन्नस्य पृथिव्यां तु मानुषेषु महात्मनः ॥ २,१०.६६ ॥ कन्या भूत्वा त्विमांल्लोकान्पुनः प्राप्स्यसि भामिनि । अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा ॥ २,१०.६७ ॥ अस्यैव राज्ञो दुहिता ह्यद्रिकायाममावसोः । पराशरस्य दायादमृषिं त्वं जनयिष्यसि ॥ २,१०.६८ ॥ स वेदमेकं ब्रह्मर्षि श्चतुर्द्धा विभजिष्यति । महाभिषस्य पुत्रौ द्वौ शन्तनोः कीर्त्तिवर्द्धनौ ॥ २,१०.६९ ॥ विचित्रवीर्यं धर्मज्ञं त्वमेवोत्पादयिष्यसि । चित्राङ्गदं च राजानं सर्वसत्त्वबलान्वितम् ॥ २,१०.७० ॥ एतानुत्पादयित्वाथ पुनर्लोकानवा प्स्यसि । व्यभिचारात्पितॄणां त्वं प्राप्स्यसे जन्म कुत्सितम् ॥ २,१०.७१ ॥ तस्यैव राज्ञस्त्वं कन्या अद्रिकायां भविष्यसि । कन्या भूत्वा ततश्च त्वमिमांल्लोकानवाप्स्यसि ॥ २,१०.७२ ॥ एवमुकत्वा तु दाशेयी जाता सत्यवती तु सा । अद्रिकायाः सुता मत्स्या सुता जाता ह्यमावसोः ॥ २,१०.७३ ॥ अदिकामत्स्यसंभूता गङ्गायमुनसंगमे । तस्या राज्ञो हि सा कन्या राज्ञो वीर्येण चैव हि ॥ २,१०.७४ ॥ विरजानाम ते लोका दिवि रोचन्ति ते गणाः । अग्निष्वात्ताः स्मृतास्तत्र पितरो भास्करप्रभाः पुलहस्य प्रजापतेः । एतेषां मानसी कन्या पीवरी नाम विश्रुता ॥ २,१०.७७ ॥ योगिनी योगपत्नी च योगमाता तथैव च । भविता द्वापरं प्राप्य अष्टाविंशतिमेव तु ॥ २,१०.७८ ॥ श्रीमान्व्यासो महायोगी योगस्तस्मिन्द्विजोत्तमाः । व्यासादरण्यां संभूतो विधूम इव पावकः ॥ २,१०.७९ ॥ पराशरकुलोद्भूतः शुको नाम महातपाः । स तस्यां पितृकन्यायां पीवर्यां जनयद्विभुः ॥ २,१०.८० ॥ पुत्रान्पञ्च योगचर्यापरिबुर्णान्परिश्रुतान् । कृष्णा गौरं प्रभुं शंभुं तथा भूरिश्रुतं च वै ॥ २,१०.८१ ॥ कन्यां कीर्तिमतीं चैव योगिनीं योगमातरम् । ब्रह्मदत्तस्य चननी महिषी त्वणुहस्य सा ॥ २,१०.८२ ॥ आदित्यकिरणोपेतमपुनर्मार्गमास्थितः । सर्वव्यापी विनिर्मुक्तो भविष्यति महामुनिः ॥ २,१०.८३ ॥ त्रय एते गाणाः प्रोक्ताश्चतुः शेषान्निबोधत । तान्वक्ष्यामि द्विजश्रेष्ठाः प्रभामूर्त्तिमतो गणान् ॥ २,१०.८४ ॥ उत्पन्नास्तु स्वधायां ते काव्या ह्यग्नेः कवेः सुताः । पितरो देवलोकेषु ज्योतिर्भासिषु भास्वराः ॥ २,१०.८५ ॥ सर्वकामसमृद्धेषु द्विजास्तान्भावयन्त्युत । एतेषां मानसी कन्या योगोत्पत्तिरितिश्रुता ॥ २,१०.८६ ॥ दत्ता सनत्कुमारेण शुक्रस्य महिषी तु या । एकशृङ्गेति विख्याता भृगूणां कीर्तिवर्द्धिनी ॥ २,१०.८७ ॥ मरीचि गर्भास्ते लोकाः समावृत्य दिवि स्थिताः । एते ह्यङ्गिरसः पुत्राः साध्यैः संवर्द्धिताः पुरा ॥ २,१०.८८ ॥ उपहूताः स्मृतास्ते वै पितरो भास्वरा दिवि । तान्क्षत्रियगणाः सप्त भावयन्ति फलार्थिनः ॥ २,१०.८९ ॥ एतेषां मानसी कन्या यशोदा नाम विश्रुता । मता या जननी देवी खट्वाङ्गस्य महात्मनः ॥ २,१०.९० ॥ यज्ञे यस्य पुरा गीता गाथागीतैर्महर्षिभिः । अग्नेर्जन्म तदा दृष्ट्वा शाण्डिल्यस्य महात्मनः ॥ २,१०.९१ ॥ यजमानं दिलीपं ये पश्यन्त्यत्र समाहिताः । सत्यव्रतं महात्मानं तेऽपि स्वर्गजितो नराः ॥ २,१०.९२ ॥ आज्यपा नाम पितरः कर्दमस्य प्रजा पतेः । समुत्पन्नस्य पुलहादुत्पन्नास्तस्य ते सुताः ॥ २,१०.९३ ॥ लकिषु तेषु वैवर्ताः कामगोषु विहङ्गमाः । एतान्वैश्यगणाः श्राद्धे भाव यन्ति फलार्थिनः ॥ २,१०.९४ ॥ एतेषां मानसी कन्या विरजा नाम विश्रुता । ययातेर्जननी साध्वी पत्नी सा नहुषस्य च ॥ २,१०.९५ ॥ सुकाला नाम पितरो वसिष्ठस्य महात्मनः । हैरण्यगर्भस्य सुताः शूद्रास्तां भावयन्त्युत ॥ २,१०.९६ ॥ मानसा नाम ते लोका वर्तन्ते यत्र ते दिवि । एतेषां मानसी कन्या नर्मदा सरितां वरा ॥ २,१०.९७ ॥ सा भावयति भूतानि दक्षिणापथगामिनी । जननी सात्रसद्दस्योः पुरुकुत्सपरिग्रहः ॥ २,१०.९८ ॥ एतेषामभ्युपगमान्मनुर्मन्वन्तरेश्वरः । मन्वन्तरादौ श्राद्धानि प्रवर्तयति सर्वशः ॥ २,१०.९९ ॥ पितॄणामानुपूर्व्येण सर्वेषां द्विजसत्तमाः । तस्मादेतत्स्वधर्मेण देयं श्राद्धं च श्रद्धया ॥ २,१०.१०० ॥ सर्वेषां राजतैः पात्रैरपि वा रजतान्वितैः । दत्तं स्वधां पुरोधाय श्राद्धं प्रीणाति वै पितॄन् ॥ २,१०.१०१ ॥ सौम्यायने वाग्रयणे ह्यश्वमेधं तदप्नुयात् । सोमश्चाप्यायनं कृत्वा ह्यगनेर्वेवस्वतस्य च ॥ २,१०.१०२ ॥ पितॄन्प्रीणाति यो वंश्यः पितरः प्रीणयन्ति तम् । पितरः पुष्टिकामस्य प्रजाकामस्य वा पुनः ॥ २,१०.१०३ ॥ पुष्टिं प्रजास्तथा स्वर्गं प्रयच्छन्ति न संशयः । देवकार्यादपि सदा पितृकार्यं विशिष्यते ॥ २,१०.१०४ ॥ देवताभ्यः पितॄणां हि पूर्वमाप्यायनं स्मृतम् । न हि योग गतिः सूक्ष्मा पितॄणां न पितृक्षयः ॥ २,१०.१०५ ॥ तपसा विप्रसिद्धेन दृश्यते मासचक्षुषा । इत्येते पितरश्चैव लोका दुहितरश्च वै ॥ २,१०.१०६ ॥ दौहित्रा यजमानाश्च प्रोक्ता ये भावयन्ति यान् । चत्वारो मूर्तिमन्तस्तु त्रयस्तेषाममूर्तयः ॥ २,१०.१०७ ॥ तेभ्यः श्राद्धानि सत्कृत्य देवाः कुर्वन्ति यत्नतः । भक्त्या प्राञ्जलयः सर्वेसेंद्रास्तद्गतमानसाः ॥ २,१०.१०८ ॥ विश्वे च सिकताश्चैव पृश्निजाः शृङ्गिणस्तथा । कृष्णाः श्वेतांबुजाश्चैव विधिव त्पूजयन्त्युत ॥ २,१०.१०९ ॥ प्रशस्ता वातरसना दिवाकृत्यास्तथैव च । मेघाश्च मरुतश्चैव ब्रह्माद्याश्च दिवौकसः ॥ २,१०.११० ॥ अत्रिभृग्वङ्गिराद्याश्च ऋषयः सर्व एव ते । यक्षा नागाः सुपर्णाश्च किन्नरा राक्षसैः सह ॥ २,१०.१११ ॥ पितॄंस्तेऽपूजयन्सर्वे नित्यमेव फलार्थिनः । एवमेते महात्मानः श्राद्धे सत्कृत्य पूजिताः ॥ २,१०.११२ ॥ सर्वान्कामान्प्रयच्छन्ति शतशोऽथ सहस्रशः । हित्वा त्रैलोक्यसंसारं जरामृत्युमयं तथा ॥ २,१०.११३ ॥ मोक्षं योगमथैश्वर्यं सूक्ष्मदेहमदेहिनाम् । कृत्स्नं वैराग्यमानन्त्यं प्रयच्छन्ति पितामहाः ॥ २,१०.११४ ॥ एश्वर्यं विहितं योगमेश्वर्यं योग उच्यते । योगैश्वर्यमृते मोक्षः कथञ्चिन्नोपपद्यते ॥ २,१०.११५ ॥ अपक्षस्येव गमनं गगने पक्षिणो यथा । वरिष्ठः सर्वधर्माणां मोक्षधर्मः सनातनः ॥ २,१०.११६ ॥ पितॄणां हि प्रसादेन प्राप्यते स महात्मनाम् । मुक्तावैडूर्यवासांसि वाजिनागायुतानि च ॥ २,१०.११७ ॥ कोटिशश्चापि रत्नानिप्रयच्छन्ति पितामहाः । हंसबर्हिणयुक्तनि मुक्तावैढूर्यवन्ति च ॥ २,१०.१११८ ॥ किङ्किणीजालनद्धानि सदा पुष्पफलानि च । विमानानां सहस्राणि युक्तान्यप्सरसां गणैः ॥ २,१०.११९ ॥ सर्वकामसमृद्धानि प्रयच्छन्ति पितामहाः । प्रजां पुष्टिं स्मृतिं मेधां राज्यमारोग्यमेव च । प्रीता नित्यं प्रयच्छन्ति मानुषाणां पितामहाः ॥ २,१०.१२० ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीये उपोद्धातपादे पितृराज्य कल्पो नाम दशमोऽध्यायः ॥ १०॥ _____________________________________________________________ बृहस्पतिरुवाच राजतं राजताक्तं वा पितॄणां पात्रमुच्यते । राजतस्य कथावापि दर्शनं दान मेव वा ॥ २,११.१ ॥ अनन्तमक्षयं स्वर्गे राजते दानमुच्यते । पितॄनेतेन दानेन सत्पुत्रास्तारयन्त्युत ॥ २,११.२ ॥ राजते हि स्वधा दुग्धा पात्रे तैः पृथिवी पुरा । स्वधां वा पार्थिभिस्तात तस्मिन् दत्तं तदक्षयम् ॥ २,११.३ ॥ कृष्णाजिनस्य सांनिध्यं दर्शनं दानमेव च । रक्षोघ्नं ब्रह्म वर्चस्यं पशून्पुत्रांश्च तारयेत् ॥ २,११.४ ॥ कनकं राजतं पात्रं दौहित्रं कुतुपस्तिलाः । वस्तूनि पावनीयानि त्रिदण्डीयोग एव वा ॥ २,११.५ ॥ श्राद्धकर्मण्ययं श्रेष्ठो विधिर्ब्राह्मः सनातनः । आयुःकीर्तिप्रजैश्वर्यप्रज्ञासंततिवर्द्धनः ॥ २,११.६ ॥ दिशिदक्षिणपूर्वस्यां वेदिस्थानं निवेदयेत् । सर्वतोऽरत्निमात्रं च चतुरस्रं सुसंस्थितम् ॥ २,११.७ ॥ वक्ष्यामि विधिवत्स्थानं पितॄणामनुशासितम् । धन्यमायुष्यमारोग्यं बलवर्णविवर्द्धनमा ॥ २,११.८ ॥ तत्र गर्तास्त्रयः कायार्स्त्रयो दण्डाश्च खादिराः । अरत्निमात्रास्ते कार्या रजतैः प्रविभूषिताः ॥ २,११.९ ॥ ते वितस्त्यायता गर्त्ताः सर्वतश्चतुरङ्गुलाः । प्राग्दक्षिणमुखान्कुर्यात्स्थिरानशुषिरांस्तथा ॥ २,११.१० ॥ अद्भिः पवित्रयुक्ताभिः पावयेत्सततं शुचिः । पयसा ह्याज गव्येन शोधनं चाद्भिरेव च ॥ २,११.११ ॥ सततं तर्पणं ह्येतत्तृप्तिर्भवति शास्वती । इह वामुत्र य वशी सर्वकामसमन्वितः ॥ २,११.१२ ॥ एवं त्रिषवणस्नातो योर्ऽचयेत्प्रयतः पितॄन् । मन्त्रेण विधिवत्सम्यगश्वमेधफलं लभेत् ॥ २,११.१३ ॥ तान्स्थापयेदमावास्यां गर्त्तान्वै चतुरङ्गुलान् । त्रिःसप्तसंस्थास्ते यज्ञास्त्रैलोक्यं धार्यते तु यः ॥ २,११.१४ ॥ तस्य पुष्टिस्तथैश्वर्यमायुः संततिरेव च । दिवि च भ्राजतेलक्ष्म्या मोक्षं च लभते क्रमात् ॥ २,११.१५ ॥ पाप्मापहं पावनीयं ह्यश्वमेधफलं लभेत् । अश्वमेधफलं ह्येत्तद्द्विजैः संस्कृत्य पूजितम् ॥ २,११.१६ ॥ मन्त्रं वक्ष्याम्यहं तस्मादमृतं ब्रह्मनिर्मितम् । देंवतेभ्यः पितृभ्यश्च महायोगिभ्य एव च ॥ २,११.१७ ॥ नमः स्वाहयै स्वधायै नित्यमेव भवत्युत । आद्धेऽवसाने श्राद्धस्य त्रिरावृत्तं जपेत्सदा ॥ २,११.१८ ॥ पिण्डनिर्वपणे वापि जपेदेतं समाहितः । क्षिप्रमायान्ति पितरो रक्षांसि प्रद्रवन्ति च ॥ २,११.१९ ॥ पित्र्यं तु त्रिषु कालेषु मन्त्रोऽयं तारयत्युत । पठ्यमानः सदा श्राद्धे नियतैर्ब्रह्मवादिभिः ॥ २,११.२० ॥ राज्यकामो जपेदेतं सदा मन्त्रमतन्द्रितः । वीर्यशौर्यार्थसत्त्वाशीरायुर्बुद्धिविवर्द्धनम् ॥ २,११.२१ ॥ प्रीयन्ते पितरो येन जपेन नियमेन च । सप्तर्चिषं प्रवक्ष्यामि सर्वकामप्रदं शुभम् ॥ २,११.२२ ॥ अमूर्त्तीनां समूर्त्तिनां पितॄणां दीप्ततेजसाम् । नमस्यामि सदा तेषां ध्यानिनां योगचक्षुषाम् ॥ २,११.२३ ॥ इन्द्रादीनां च नेतारो दशमारीचयोस्तथा । सप्तर्षीणां पितॄणां च तान्नमस्यामि कामदान् ॥ २,११.२४ ॥ मन्वादिनां च नेतारः सूर्याचन्द्रमसोस्तथा । तान्नमस्कृत्य सर्वान्वै पितृमत्सु विधिष्वपि ॥ २,११.२५ ॥ नक्षत्राणां ग्रहाणां च वाय्वग्न्योश्च पितॄनथ । द्यावापृथिव्योश्च सदा नामस्यामि कृताञ्जलिः ॥ २,११.२६ ॥ देवर्षीणां च नेतारः सर्वलोकनमस्कृताः । त्रातारः सर्वभूतानां नमस्यामि पितामहान् ॥ २,११.२७ ॥ प्रजापतेर्गवां वह्नेः सोमाय च यमाय च । योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलिः ॥ २,११.२८ ॥ पितृगणेभ्यः सप्तभ्यो नमो लोकेषु सप्तसु । स्वयंभुवे नमश्चैव ब्रह्मणे योगचक्षुषे ॥ २,११.२९ ॥ एतदुक्तं च सप्तार्चिर्ब्रह्मर्षिगणसेवितम् । पवित्रं परमं ह्येतच्छ्रीमद्रोगविनाशनम् ॥ २,११. ३० ॥ एतेन विधिना युक्तस्त्रीन्वरांल्लभते नरः । अन्नमायुः सुताश्चैव ददते पितरो भुवि ॥ २,११.३१ ॥ भक्त्या परमया युक्तः श्रद्धधानो जितेन्द्रियः । सप्तार्चि षं जपेद्यस्तु नित्यमेव समाहितः ॥ २,११.३२ ॥ सप्तद्वीपसमुद्रायां पृथिव्यामेकराड्भवेत् । यत्किञ्चित्पच्यते गेहे भक्ष्यं वा भोज्यमेव वा ॥ २,११.३३ ॥ अनिवेद्य न भोक्तव्यं तस्मिन्नयतने सदा । क्रमशः कीर्तयिष्यामि बलिपात्राण्यतः परम् ॥ २,११.३४ ॥ येषु यच्च फलं प्रोक्तं तन्मे निगदतः श्रुणु । पलाशे ब्रह्मवर्चस्त्वमश्वत्थे वसुभावना ॥ २,११.३५ ॥ सर्वभूताधिपत्यं च प्लक्षे नित्यभुदात्दृतम् । पुष्टिः प्रजाश्च न्यग्रोधे बुद्धिः प्रज्ञा धृतिः स्मृतिः ॥ २,११.३६ ॥ रशोध्नं च यशस्यं च काश्मरीपात्रमुच्यते । सौभाग्यमुत्तमं लोके माधूके समुदात्दृतम् ॥ २,११.३७ ॥ फलगुपात्रेषु कुर्वाणः सर्वान्कामानवाप्नुयात् । परां द्युतिमथार्केतु प्राकाश्यं च विशेषतः ॥ २,११.३८ ॥ बैल्वे लक्ष्मीन्तथा मेधां नित्यमायुस्तथैव च । क्षेत्रारामतडागेषु सर्वसस्येषु चैव ह ॥ २,११.३९ ॥ वर्षत्य जस्रं पर्जन्यो वेणुपात्रेषु कुर्वतः । एतेष्वेव सुपात्रेषु भोजनाग्रमशेषतः ॥ २,११.४० ॥ सदा दद्यात्स यज्ञानां सर्वेषां फलमाप्नुयात् । पितृभ्यः पुष्पमाल्यानि सुगन्धानि च तत्परः ॥ २,११.४१ ॥ सदा दद्यात्क्रियायुक्तः श विभाति दिवाकरः । गुग्गुलादींस्तथा धूपान्पितृभ्यो यः प्रयच्छति ॥ २,११.४२ ॥ संयुक्तान्मधुसर्पिर्भ्यं सोऽग्निष्टोमफलं लभेत् । धूपं गन्धगुणोपेतं कृत्वा पितृपरायणः ॥ २,११.४३ ॥ लभते च सुशर्माणि इह चामुत्र चोभयोः । दद्यादेवं पितृभ्यास्तु नित्यमेव ह्यतन्द्रितः ॥ २,११.४४ ॥ दीपं पितृभ्यः प्रयतः सदा यस्तु प्रयच्छति । गतिं चाप्रतिमं चक्षुस्तस्मात्सलभते शुभम् ॥ २,११.४५ ॥ तेजसा यशसा चैव कान्त्या चापि बलेन च । भुवि प्रकाशो भवति ब्राजते च त्रिविष्टपे ॥ २,११.४६ ॥ अप्सरोभिः परिवृतो विमानाग्रे च मोदते । गन्धपुष्पैश्च धूपैश्व जपाहुतिभिरेव च ॥ २,११.४७ ॥ फलमूलनमस्कारैः पितॄणां प्रयतः शुचिः । पूजां कृत्वा द्विजान्पश्चात्पूजयेदन्नसंपदा ॥ २,११.४८ ॥ श्राद्धकालेषु नियतं वायुभूताः पितामहाः । आविशन्ति द्विजाञ्छ्रेष्ठांस्तस्मादेतद्ब्रवीमि ते ॥ २,११.४९ ॥ वस्त्रै रत्नप्रदानैश्च भक्ष्यैः पेयैस्तथैव च । गोभिरश्वैस्तथा ग्रामैः पूजयेद्द्विजसत्तमान् ॥ २,११.५० ॥ भवन्ति पितरः प्रीताः पूजितेषु द्विजातिषु । तस्माद्यत्नेन विधिवत्पूजयेत द्विजान्सदा ॥ २,११.५१ ॥ सव्योत्तराभ्यां पाणिभ्यां कुर्यादुल्लेखनं द्विजाः । प्रोक्षणं च ततः कुर्याच्छ्राद्धकर्मण्यतन्द्रितः ॥ २,११.५२ ॥ दर्भान्पिण्डांस्तथा भक्ष्यान्पुष्पाणि विविधानि च । गन्धदानमलङ्कारमेकैकं निर्वपेद्बुधः ॥ २,११.५३ ॥ पेषयित्वाञ्जनं सम्यग्विश्वेषामुत्तरोत्तरम् । अभ्यङ्गं दर्भविञ्जूलैस्त्रिभिः कुर्याद्यथाविधि ॥ २,११.५४ ॥ अपसव्यं वितृभयश्च दद्यादञ्जनमुत्तमम् । निपात्य जानु सर्वेषां वस्त्रार्थं सूत्रमेव वा ॥ २,११.५५ ॥ खण्डनं प्रोक्षणं चैव तथैवोल्लेखनं द्विजः । सकृद्देवपितॄणां स्यात्पितॄणां त्रिभिरुच्यते ॥ २,११.५६ ॥ एकं पवित्रं हस्तेन पितॄनसर्वान्सकृत्सकृत् । चैलमन्त्रेण पिण्डेभ्यो दत्त्वादर्शाञ्जिने हि तम् ॥ २,११.५७ ॥ सदा सर्पिस्तिलैर्युक्तांस्त्रीन्पिण्डान्निर्वपेद्भुवि । जानु कृत्वा तथा सव्यं भूमौ पितृपरायणः ॥ २,११.५८ ॥ पितॄन्पितामहांश्चैव तथैव प्रपितामहान् । आहूय च पितॄन्प्राञ्चः पितृतीर्थेन यत्नतः ॥ २,११.५९ ॥ पिण्डान्परिक्षिपेत्सम्यगपसव्यमतन्द्रितः । अन्नाद्यैरेव मुख्यैश्चभक्ष्यैश्चैव पृथग्विधैः ॥ २,११.६० ॥ पृथङ्मातामहानां तु केचिदिच्छन्ति मानवाः । त्रीन्पिण्डानानुपूर्व्येण सांगुष्ठान्पुष्टिवर्द्धनान् ॥ २,११.६१ ॥ जान्वन्तराभ्यां यत्नेन पिण्डान्दद्याद्यथाक्रमम् । सव्योत्तराभ्यां पाणिभ्यां धारार्थं मन्त्रमुच्चरन् ॥ २,११.६२ ॥ नमो वः पितरः शोषायेति सर्वमतन्द्रितः । दक्षिणस्यां तु पाणिभ्यां प्रथमं पिण्डमुत्सृजेत् ॥ २,११.६३ ॥ नमो वः पितरः सौम्यः पठन्नेवमतन्द्रितः । सव्योत्तराभ्यां पाणिभ्यां धर्मेर्ऽधं समतन्द्रितः ॥ २,११.६४ ॥ उलूखलस्य लेखायामुदपात्रावसेचनम् । क्षौमं सूत्रं नवं दद्याच्छाणं कार्पासकं तथा ॥ २,११.६५ ॥ पत्रोर्णं पट्टसूत्रं च कौशेयं परिवर्जयेत् । वर्जयेद्यक्षणं यज्ञे यद्यप्यहतवस्त्रजाम् ॥ २,११.६६ ॥ न प्रीणन्ति तथैतानि दातु श्चाप्यहितं भवेत् । श्रेष्ठमाहुस्त्रिककुदमञ्जनं नित्यमेव च ॥ २,११.६७ ॥ कृष्णेभ्यश्च तेलैस्तैलं यत्नात्सुपरिरक्षितम् । चन्दनागुरुणी चोभे तमालोशीरपद्मकम् ॥ २,११.६८ ॥ धूपश्च गुग्गलः श्रेष्टस्तुरुष्कः श्वेत एव च । शुक्लाः सुमनसः श्रेष्ठास्तथा पद्मोत्पलानि च ॥ २,११.६९ ॥ गन्धरूपोपपन्नानि चारण्यानि च कृत्स्नशः । तथा हि सुमना नाडीरूपिकास्मकुरण्डिका ॥ २,११.७० ॥ पुष्पाणि वर्जनीयानि श्राद्धकर्मणि नित्यशः । यथा गन्धादपेतानि चोग्रगन्धानि यानि च ॥ २,११.७१ ॥ वर्जनीयानि पुष्पाणि पुष्टिमन्विच्चता सदा । द्विजातयो यथोद्दिष्टा नियताः स्युरुदङ्मुखाः ॥ २,११.७२ ॥ पूजयेद्यजमानस्तु विधिवद्यक्षिणामुखः । तेषामभिमुखो दद्याद्दर्भत्पिण्डांश्च यत्नतः ॥ २,११.७३ ॥ अनेन विधिना साक्षादर्चिताः स्युः पितामहाः । हरिता वै स पिञ्जालाः पुष्टाः स्निग्धाः समाहिताः ॥ २,११.७४ ॥ रत्निमात्राः प्रमाणेन वितृतीर्थेन संस्मृताः । उपमूले तथा नीला विष्टरार्थं कुशोत्तमाः ॥ २,११.७५ ॥ तथा श्यामाकनीवारा दूर्वा च समुदाहृता । पूर्वं कीर्त्तिमतां श्रेष्ठो बभूवाश्वः प्रजापतिः ॥ २,११.७६ ॥ तस्य बाला निपतिता भूमौ काशत्वामागताः । तस्माद्देयाः सदा काशाः श्राद्धकर्मसु पूजिताः ॥ २,११.७७ ॥ पिण्डनिर्वपणं तेषु कर्त्तव्यं भूतिमिच्छता । प्रजाः पुष्टिद्युतिप्रज्ञाकीर्त्तिकान्तिसमन्विताः ॥ २,११.७८ ॥ भवन्ति रुचिरा नित्यं विपाप्मानोऽघवर्जिताः । सकृदेवास्तरेद्यर्भान्पिण्डार्थे दक्षिणामुखः ॥ २,११.७९ ॥ प्राग्दक्षिणाग्रान्नियतो विधि चाप्यत्र वक्ष्यति । न दीनो नापि वा क्रुद्धो न चैवान्यमना नरः । एकत्र चाधाय मनः श्राद्धं कुर्यात्समाहितः ॥ २,११.८० ॥ निहन्मि सर्वं यदमेध्यवद्भवेद्धतश्च सर्वे सुरदानवा मया । रक्षांसि यक्षाः सपिशाचसंघा हता मया यातुधानाश्च सर्वे ॥ २,११.८१ ॥ एतेन मन्त्रेण तु संयतात्मा तां वै वेदिं सकृदुल्लिख्य धीरः । शिवां हि बुद्धिं ध्रुवमिच्छमानः क्षिपेद्द्विचातिर्दिशमुत्तरां गतः ॥ २,११.८२ ॥ एवं पित्र्यं दृष्टमन्त्रं हि यस्यतस्यासुरा वर्जयन्तीह सर्वे । यस्मिन्देशे पठ्यते मन्त्र एष तं वै देशं राक्षसा वर्जयन्ति ॥ २,११.८३ ॥ अन्नप्रकारानशुचीनसाधून्संवीक्षते नो स्पृशंश्वापि दद्यात् । पवित्रपाणिश्च भवेन्न वा हि यः पुमान्न कार्यस्य फलं समश्नुते ॥ २,११.८४ ॥ अनेन विधिना नित्यं श्राद्धं कुर्याद्धि यः सदा । मनसा काङ्क्षते यद्यत्तत्तद्यद्युः पितमहाः ॥ २,११.८५ ॥ पितरो हृष्टमनसो रक्षांसि विमनांसि च । भवन्त्येवं कृते श्राद्धे नित्यमेव प्रयत्नतः ॥ २,११.८६ ॥ शूद्राः श्राद्धेष्वविक्षीरं बल्वजा उपलास्तथा । विरणाश्चोतुवालाश्च लड्वा वर्ज्याश्च नित्यशः ॥ २,११.८७ ॥ एवमादीन्ययज्ञानि तृणानि परिवर्जयेत् । अञ्जनाभ्यजनं गन्धान्सूत्रप्रणयनं तथा ॥ २,११.८८ ॥ काशेः पुनर्भवैः कार्यमश्वमेधफलं लभेत् । काशाः पुनर्भवा ये च बर्हिणो ह्युपबर्हिणः ॥ २,११.८९ ॥ इत्येते पितरो देवा देवाश्च पितरः पुनः । पुष्पगन्धविभूषाणामेष मन्त्र उदाहृतः ॥ २,११.९० ॥ आहृत्य दक्षिणाग्निं तु होमार्थं वै प्रयत्नतः । अन्यार्थे लौकिकं वापि जुहुयात्कर्मसिद्धये ॥ २,११.९१ ॥ अन्तर्विधाय समिधस्ततो दीप्तो विधीयते । समाहितेन मनसा प्रणीयाग्निं समन्ततः ॥ २,११.९२ ॥ अग्नये कव्यवाहाय स्वधा अङ्गिरसे नमः । सोमाय वै पितृमते स्वधा अङ्गिरसे पुनः ॥ २,११.९३ ॥ यमाय वैवस्वतये स्वधानम इति ध्रुवम् । इत्येते होममन्त्रास्तु त्रयाणामनुपूर्वशः ॥ २,११.९४ ॥ दक्षिणेनाग्नये नित्यं सोमायोत्तरतस्तथा । एतयोरन्तरे नित्यं जुहुयाद्वै विवस्वते ॥ २,११.९५ ॥ उपहारः स्वधाकारस्तथैवोल्लेखनं च यत् । होमजप्ये नमस्कारः प्रोक्षणं च विशेषतः ॥ २,११.९६ ॥ बहुहव्येन्धने चाग्नौ सुसमिद्धे तथैव च । अञ्जनाब्यञ्जनं चैव पिण्डनिर्वपणं तथा ॥ २,११.९७ ॥ अश्वमेधफलं चैतत्समिद्धे यत्कृतं द्विजैः । क्रिया सर्वा यथोद्दिष्टाः प्रयत्नेन समाचरेत् ॥ २,११.९८ ॥ बहुहव्येन्धने चाग्नौ सुसमिद्धे विशेषतः । विधूमे लेलिहाने च होतव्यं कर्मसिद्धये ॥ २,११.९९ ॥ अप्रबुद्धे समिद्धे वा जुहुयाद्यो हुताशने । यजमानो भवे दन्धः सोऽमुत्रेति हि नः श्रुतम् ॥ २,११.१०० ॥ अल्पेन्धनो वा रूक्षोऽग्निर्वस्फुलिङ्गश्च सर्वशः । ज्वालाधूमापसव्यश्च स तु वह्निरसिद्धये ॥ २,११.१०१ ॥ दुर्गन्धश्चैव नीलश्च कृष्णश्चैव विशेषतः । भूमिं वगाहते यत्र तत्र विद्यात्पराभवत् ॥ २,११.१०२ ॥ अर्चिष्मान् पिण्डितशिखः सर्प्पिकाञ्जनसन्निभः । स्निग्धः प्रदक्षिणश्चैव वह्निः स्यात्कार्यसिद्धये ॥ २,११.१०३ ॥ नरनारीगणेभ्यश्च पूजां प्राप्नोति शाश्वतीम् । अक्षयं पूजितास्तेन भवन्ति पितरोऽग्नयः ॥ २,११.१०४ ॥ बिल्वोदुंबरपत्राणि फलानि समिधस्तथा । श्राद्धे महापवित्राणि मेध्यानि च विशेषतः ॥ २,११.१०५ ॥ पवित्रं च द्विजश्रेष्ठाः शुद्धये जन्मकर्मणाम् । पात्रेषु फलमुद्दिष्टं यन्मया श्राद्धकर्मणि ॥ २,११.१०६ ॥ तदेव कृत्स्नं विज्ञेयं समित्सु च यथाक्रमम् । कृत्वा समाहितं चित्तमाग्नेयं वै करोम्यहम् ॥ २,११.१०७ ॥ अनुज्ञातः कुरुष्वेति तथैव द्विजसत्तमैः । घृतमादाय पात्रे च जुहुयाद्धव्यवाहने ॥ २,११.१०८ ॥ पलाशप्लक्षन्यग्रोधप्लक्षाश्वत्थविकङ्कताः । उदुंबरस्तथाबिल्वश्चन्दनो यज्ञियाश्च ये ॥ २,११.१०९ ॥ सरलो देवदारुश्च शालश्च कदिरस्तथा । समिदर्थे प्रशस्ताः स्युरेते वृक्षा विशेषतः ॥ २,११.११० ॥ ग्राम्याः कण्टकिनश्चैव याज्ञिया ये च केचन । पूजिताः समिदर्थं ते पितॄणां वचनं यथा ॥ २,११.१११ ॥ समिद्भिः षट्फलेयाभिर्जुहुयाद्यो हुताशनम् । फलं यत्कर्मणस्तस्य तन्मे निगदतः शृणु ॥ २,११.११२ ॥ अक्षयं सर्वकामीयमश्वमेधफलं हि तत् । श्लेष्मान्तको नक्तमालः कपित्थः शाल्मलिस्तथा ॥ २,११.११३ ॥ नीपो विभीतकश्चैव श्राद्धकर्मणि गर्हिताः । चिरबिल्वस्तथा कोलस्तिदुकः श्राद्धकर्मणि ॥ २,११.११४ ॥ बल्वजः कोविदारश्च वर्जनीयाः समन्ततः । शकुनानां निवासांश्च वर्जयेत महीरुहान् ॥ २,११.११५ ॥ अन्यांश्चैवंविधान्सर्वान्नयज्ञीयांश्च वर्जयेत् । स्वधेति चैव मन्त्राणां पितॄणां वचनं यथा । स्वाहेति चैव देवानां यज्ञकर्मण्युदाहृतम् ॥ २,११.११६ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीये उपोद्धातपादे श्राद्धकल्पे समिद्वर्णन नामैकादशोऽध्यायः ॥ ११॥ _____________________________________________________________ सूत उवाच देवाश्चपितरश्चैव अन्योन्यं नियताः स्मृताः । आथर्वणस्त्वेष विधिरित्युवाच बृहस्पतिः ॥ २,१२.१ ॥ पूजयेत पितॄन्पूर्वं देवांश्च तदनन्तरम् । देवा अपि पितॄन्पूर्वमर्च्चयन्ति हि यत्नतः ॥ २,१२.२ ॥ दक्षस्य दुहिता नाम्ना विश्वा नामेति विश्रुता । विश्वाख्यास्तु सुतास्तस्यां धर्मतो जज्ञिरे दश ॥ २,१२.३ ॥ प्रख्याता स्त्रिषु लोकेषु सर्वलोकनमस्कृताः । समस्तास्ते महात्मानश्चेरुरुग्रं महत्तपः ॥ २,१२.४ ॥ हिमवच्छिखरे रम्ये देवर्षिगणसेविते । शुद्धेन मन्सा प्रीता ऊचुस्तान्पितरस्तदा ॥ २,१२.५ ॥ वरं वृणीध्वं प्रीताः स्म कं कामं कखामहे । एवमुक्ते तु पितृभिस्तदा त्रैलोक्यभावनः ॥ २,१२.६ ॥ ब्रह्मोवाच महातेजास्तपसा तैस्तु तोषितः । प्रीतोऽस्मि तपसानेन कं कामं करवाणि वः ॥ २,१२.७ ॥ एवमुक्तास्तदा विश्वे ब्रह्मणा विश्वकर्मणा । ऊचुस्ते सहिताः सर्वे ब्रह्माणां लोकभावनम् ॥ २,१२.८ ॥ श्राद्धेऽस्माकं भवेदंशो ह्येष नः काङ्क्षितो वरः । प्रत्युवाच ततो ब्रह्मा तान्वै त्रिदशपूजितः ॥ २,१२.९ ॥ भविष्यत्येवमेवं तु काङ्क्षितो वो वरस्तु यः । पितृभिश्च तथेत्युक्तमेवमेतन्न संशयः ॥ २,१२.१० ॥ सहस्माभिस्तु भोक्तव्यं यत्किं चिद्दृश्यते त्विह । अस्माकं कल्पिते श्राद्धे युष्मानप्राशनं हि वै ॥ २,१२.११ ॥ भविष्यति मनुष्येषु सत्यमे तद्ब्रुवामहे । माल्यैर्गन्धैस्तथान्नेन युष्मानग्रेऽर्च्चयिष्यति ।१ १२.१२॥ अग्रे दत्त्वा तु युष्माकमस्माकं दास्यते ततः । विसर्जनमथास्माकं पूर्वं पश्चात्तु दैवतम् ॥ २,१२.१३ ॥ रक्षणं चैव श्राद्धस्य आतिथ्यस्य विधिद्वयम् । भूतानां देवतानां च पितॄणां चैव कर्मणि ॥ २,१२.१४ ॥ एवं कृते सम्यगेतत्सर्वमेव भविष्यति । एवं दत्त्वा वरं तेषां ब्रह्मा पितृगणैः सह ॥ २,१२.१५ ॥ क्षमानुग्रहकृद्देवः संचकार यथोदितम् । वेदे पञ्च महायज्ञा नराणां समुदाहृताः ॥ २,१२.१६ ॥ एतान्पञ्च महायज्ञान्निर्वपेत्सततं नरः । यत्र स्थास्यन्ति दातारस्तत्स्थानं वै निबोधत ॥ २,१२.१७ ॥ निर्भयं विरजस्कं च निःशोकं निर्व्यथक्लमम् । ब्राह्मं स्थानमवाप्नोति सर्वलोकपुरस्कृतम् ॥ २,१२.१८ ॥ शूद्रेणापि च कर्त्तव्याः पञ्चैते मन्त्रवर्जिताः । अतोऽन्यथा तु यो भुङ्क्ते स ऋणं नित्यमश्नुते ॥ २,१२.१९ ॥ ऋणं भुङ्क्ते स पापात्मा यः पचेदात्मकारणात् । तस्मान्निर्वर्तयेत्पञ्च महायज्ञान्सदा बुधः ॥ २,१२.२० ॥ उदक्पूर्वे बलिं कुर्यादुदकान्ते तथैव च । बलिं सुविहितं कुर्या दुच्चैरुच्चतरं क्षिपेत् ॥ २,१२.२१ ॥ परशृङ्गं गवां मूत्रं बलिं सूत्रं समुत्क्षिपेत् । तन्निवेद्यो भवेत्पिण्डः पितॄणां यस्तु जीवति ॥ २,१२.२२ ॥ इष्टेनान्नेन भक्ष्यैश्च भोजयेच्च यथाविधि । निवेद्यं केचिदिच्छन्ति जीवन्त्यपि हि यत्नतः ॥ २,१२.२३ ॥ देवदेवा महात्मानो ह्येते पितर इत्युत । इच्छन्ति केचिदाचार्यः पश्चात्पिण्डनिवेदनम् ॥ २,१२.२४ ॥ पूजनं चैव विप्रणां पूर्वमेवेह नित्यशः । तद्धिधर्मार्थकुशलो नेत्युवाच बृहस्मतिः ॥ २,१२.२५ ॥ पूर्वं निवेदयेत्पिण्डान्पश्चाद्विप्रांश्च भोजयेत् । योगात्मानो महात्मानः पितरो योग संभवाः ॥ २,१२.२६ ॥ सोममाप्याययन्त्येते पितरो योगसंस्थिताः । तस्माद्दद्याच्छुचिः पिण्डान्योगेभ्यस्तत्परायणः ॥ २,१२.२७ ॥ पितॄणां हि भवेदेतत्साक्षादिव हुतं हविः । ब्रह्मणानां सहस्रस्य योगस्थं ग्रासयेद्यदि ॥ २,१२.२८ ॥ यजमानं च भोक्तॄंश्च नौरिवाम्भसि तारयेत् । असतां प्रग्रहो यत्र सतां चैव विमानता ॥ २,१२.२९ ॥ दण्डो दैवकृतस्तत्र सद्यः पतति दारुणः । इत्वा मम सधर्माणं बालिशं यस्तु भोजयेत् ॥ २,१२.३० ॥ आदिकर्म समुत्सृज्य दाता तत्र विनश्यति । पिण्डमग्नौ सदा दद्यद्भोगार्थी प्रथमं नरः ॥ २,१२.३१ ॥ दद्यात्प्रजार्थी यत्नेन मध्यमं मन्त्रपूर्वकम् । उत्तमां कान्तिमन्विच्छन्गोषु नित्यं प्रयच्छति ॥ २,१२.३२ ॥ प्रज्ञां चैव यशः कीर्त्तिमप्सु वै संप्रयच्छति । प्रार्थयन्दीर्घामायुश्च वायसेभ्यः प्रयच्छति ॥ २,१२.३३ ॥ सोकुमार्यमथान्विच्छन्कुक्कुटेभ्यः प्रयच्छति । एवमेतत्समुद्दिष्टं पिण्डनिर्वपणे फलम् ॥ २,१२.३४ ॥ आकाशे गमयेद्वापि अप्सु वा दक्षिणामुखः । पितॄणां स्थानमाकाशं दक्षिणा चैव दिग्भेवेत् ॥ २,१२.३५ ॥ एके विप्राः पुनः प्राहुः पिण्डोद्धरणमग्रतः । अनुज्ञातस्तु तैर्विप्रैः कामसुद्ध्रियतामित् ॥ २,१२.३६ ॥ पुष्पाणां च फलानां च भक्ष्याणामन्नतस्तथा । अग्रमुद्धृत्य सर्वेषां जुहुयाद्धव्यवाहने ॥ २,१२.३७ ॥ भङ्यमन्नं तथा पेयं मूलानि च फलानि च । हुत्वाग्नौ च ततः पिण्डान्निर्वपेद्दक्षिणा मुखः ॥ २,१२.३८ ॥ वैवस्वताय सोमाय हुत्वा पिण्डान्निवेद्य च । उदकान्नयनं कृत्वा पश्चाद्विप्रांश्च भोजयेत् ॥ २,१२.३९ ॥ अनुपूर्वं ततो विप्रान्भक्ष्यैरन्नैश्च शक्तितः । स्निग्धैरुष्णैः सुगन्धैश्च तर्पयेत्तान्रसैरपि ॥ २,१२.४० ॥ एकाग्रः पर्युपासीनः प्रयतः प्राञ्जलिः स्थितः । तत्परः श्रद्दधानश्च कामानाप्नोति मानवः ॥ २,१२.४१ ॥ अक्षुद्रत्वं कृतज्ञत्वं दाक्षिण्यं संस्कृतं वचः । तपो यज्ञांश्च दानं च प्रयच्छन्ति पितामहाः ॥ २,१२.४२ ॥ अतः परं विधिं सौम्यं भुक्तवत्सु द्विजातिषु । आनुपूर्व्येण विहितं तन्मे निगदतः शृणु ॥ २,१२.४३ ॥ प्रोक्ष्य भूमिमथोद्धृत्य पूर्वं पितृपरायणः । ततोऽन्निविकिरं कुर्याद्विधिदृष्टेन कर्मणा ॥ २,१२.४४ ॥ स्वधा वाच्य ततो विप्रान् विधिवद्भूरितक्षिणान् । अन्नशेषमनुज्ञाप्य सत्कृत्य द्विजसत्तमान् ॥ २,१२.४५ ॥ प्राञ्जलिः प्रयतश्चैव अनुगम्य विसर्जयेत् ॥ २,१२.४६ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीये उपोद्धातपादे श्राद्धकल्पे द्वादशोऽध्यायः ॥ १२॥ _____________________________________________________________ बृहस्पतिरुवाच सकृदभ्यर्चिताः प्रीता भवन्ति पितरोऽव्ययाः । योगात्मानो महात्मानो विपाप्मानो महौजसः ॥ २,१३.१ ॥ प्रेत्य च स्वर्गलोकाय कामैश्च बहुलं भुवि । येषु वाप्यनुगृह्णन्ति मोक्षप्राप्तिः क्रमेण तु ॥ २,१३.२ ॥ तानि वक्ष्याम्यहं सौम्य सरांसि सरितस्तथा । तीर्थानि चैव पुण्यानि देशांश्छैलांस्तथाश्रमान् ॥ २,१३.३ ॥ पुण्यो हि त्रिषु लोकेषु सदैवामरकण्टकः । पर्वतप्रवरः पुण्यः सिद्धयारणसेवितः ॥ २,१३.४ ॥ यत्र वर्षसहस्राणि प्रयुतान्यर्बुदानि च । तपः सुदुश्चरं तेपे भगवानङ्गिराः पुरा ॥ २,१३.५ ॥ यत्र मृत्योर्गतिर्न्नास्ति तथैवासुररक्षसाम् । न भयं नैव चालक्ष्मीर्यावद्भूमिर्द्धरिष्यति ॥ २,१३.६ ॥ तपसा तेजसा तस्य भ्रजते स नगोत्तमः । शृङ्गे माल्यवतो नित्यं वह्निः संवर्त्तको यथा ॥ २,१३.७ ॥ मृदवस्तु सुगन्धाश्च हेमाभाः प्रियदर्शनाः । शान्ताःकुशा इति ख्याताः परिदक्षिणनर्मदाम् ॥ २,१३.८ ॥ दृष्टवान्स्वर्गसोपानं भगवानङ्गिराः पुरा । अग्निहोत्रे महातेजाः प्रस्तारार्थं कुशोत्तमान् ॥ २,१३.९ ॥ तेषु दर्भेषु यः पिण्डान्मरकण्टटकपर्वते । दद्यात्सकृदपि प्राज्ञस्तस्य वक्ष्यामि यत्फलम् ॥ २,१३.१० ॥ तद्भवत्यक्षयं श्राद्धं पितॄणां प्रीतिवर्धनम् । अन्तर्द्धानं च गच्छन्ति क्षेत्रमासाद्य तत्सदा ॥ २,१३.११ ॥ तत्र ज्वालासरः पुण्यं दृश्यते चापि पर्वसु । सशल्यानां च सत्त्वानां विशल्यकरणी नदी ॥ २,१३.१२ ॥ प्राग्दक्षिणायतावर्त्ता वापी सा सुनगोत्तमे । कलिङ्गदेशपश्चार्द्धे शृङ्गे माल्यवतो विभोः ॥ २,१३.१३ ॥ सिद्धिक्षेत्रमृषिश्रेष्ठा यदुक्तं परमं भुवि । संमतं देवदैत्यानां श्लोकं चाप्युशना जगौ ॥ २,१३.१४ ॥ धन्यास्ते पुरुषा लोके ये प्राप्यामरकण्टकम् । पितॄन्संतर्पयिष्यन्तिश्राद्धे पितृपरायणाः ॥ २,१३.१५ ॥ अल्पेन तपसा सिद्धिं गमिष्यन्ति न संशयः । सकृदेवार्चितास्तत्र स्वर्गमामरकण्टके ॥ २,१३.१६ ॥ महेन्द्रःपर्वतः पुण्यो रम्यः शक्रनिषेवितः । तत्रारुह्य भवेत्पूतः श्राद्धं चैव महाफलम् ॥ २,१३.१७ ॥ वैलाटशिखरे युक्त्वा दिव्यं चक्षुः प्रवर्तते । अधृष्यश्चैव भूतानां देववच्चरते महीम् ॥ २,१३.१८ ॥ सप्तगोदावरे चैव गोकर्णे च तपोवने । अश्वमेधफलं स्नात्वा तत्र दत्त्वा भवेत्ततः ॥ २,१३.१९ ॥ धूतपापस्थलं प्राप्य पूतः स्नात्वा भवेन्नरः । रुद्रस्तत्र तपस्तेपे देवदेवो महेश्वरः ॥ २,१३.२० ॥ गोकर्णे निहितं देवैर्नास्तिकानां निदर्शनम् । अब्राह्मणस्य सावित्रीं पठतस्तु प्रणश्यति ॥ २,१३.२१ ॥ देवर्षिभवने शृङ्गे सिद्धचारणसेविते । आरुह्यतं निय मवांस्ततो याति त्रिविष्टपम् ॥ २,१३.२२ ॥ दिव्यैश्चन्दनवृक्षैश्च पादपैरुपशोभितम् । आपश्चन्दनसंयुक्ताः स्पन्देति सततं ततः ॥ २,१३.२३ ॥ नदी प्रवर्तते ताभ्यस्ताम्रपर्णीति नामतः । या चन्दनमहाखण्डाद्दक्षिणं याति सागरम् ॥ २,१३.२४ ॥ नद्यास्तस्याश्च ताम्रायास्तूह्यमाना महोदधौ । शङ्खा भवन्ति शुक्त्यश्च जायते यासु मौक्तिकम् ॥ २,१३.२५ ॥ उदकानयनं कृत्वा शङ्खमौक्तिकसंयुतम् । आधिभिर्व्याधिभिश्चैव मुक्ता यान्त्यमरावतीम् ॥ २,१३.२६ ॥ चन्दनेभ्यः प्रसूतानां शङ्खानां मौक्तिकस्य वा । पापकर्त्तॄनपि पितॄंस्तारयन्ति यथाश्रुति ॥ २,१३.२७ ॥ चन्द्रतीर्थे कुमार्यां च कावेरीप्रभवे क्षये । श्रीपर्वतस्य तीर्थेषु वैकृते च तथा गिरौ ॥ २,१३.२८ ॥ एकस्था यत्र दृश्यन्ते वृक्षाह्यौशीरपर्वते । पलाशाः खदिरा बिल्वाः प्लक्षाश्वत्थविकङ्कताः ॥ २,१३.२९ ॥ एवं द्विमण्डलाविद्धं विज्ञेयं द्विजसत्तमाः । अस्मिंस्त्यक्त्वा जनोंऽगाति क्षिप्रं यात्यमरावतीम् ॥ २,१३.३० ॥ श्रीपर्वतस्य तीर्थे तु वैकृते च तथा गिरौ । कर्माणि तु प्रयुक्ता नि सिद्ध्यन्ति प्रभवाप्यये ॥ २,१३.३१ ॥ दुष्प्रयुक्ता हि पितृषु सुप्रयोगा भवन्त्युत । पितॄणां दुहिता पुण्या नर्मदा सरितां वरा ॥ २,१३.३२ ॥ यत्र श्राद्धानि दत्तांनि ह्यक्षयाणि भवन्त्युत । माठरस्य वने पुण्ये सिद्धचारणसेविते ॥ २,१३.३३ ॥ अन्तर्द्धानेन गच्छन्ति युक्त्वा तस्मिन्महा गिरौ । विन्ध्ये चैव गिरौ पुण्ये धर्माधर्मनिदर्शनीम् ॥ २,१३.३४ ॥ धारां पापा न पश्यन्ति धारां पश्यन्ति साधवः । तत्र तद्दृश्यते पापं केषां चित्पापकर्मणाम् ॥ २,१३.३५ ॥ कैलासे या मतङ्गस्य वापी पापनिषूदनी । स्नात्वा तस्या दिवं यान्ति कामचारा विहङ्गमाः ॥ २,१३.३६ ॥ शौर्पारके तथा तीर्थे पर्वते पालमञ्जरे । पाण्डुकूपे समुद्रान्ते पिण्डारकतटे तथा ॥ २,१३.३७ ॥ विमले च विपापे च संकल्पं प्राप्य चाक्षयम् । श्रीवृक्षे चित्रकूटे च जंबूमार्गे च नित्यशः ॥ २,१३.३८ ॥ असितस्य गिरौ पुण्ये योगाचार्यस्य धीमतः । तत्रापि श्राद्धमानन्त्यमसितायां च नित्यशः ॥ २,१३.३९ ॥ पुष्करेष्वक्षयं श्राद्धं तपश्चैव महाफलमा । महोदधौ प्रभासे च तद्वदेव विनिर्दिशेत् ॥ २,१३.४० ॥ देविकायां वृषो नाम कूपः सिद्धनिषेवितः । समुत्पतन्ति तस्यापो गवां शब्देन नित्यशः ॥ २,१३.४१ ॥ योगेश्वरैः सदा जुष्टः सर्वपापबहिष्कृतः । दद्याच्छ्राद्धं तु यस्तस्मिंस्तस्य वक्ष्यामि यत्फलम् ॥ २,१३.४२ ॥ अक्षयं सर्वकामीयं श्राद्धं प्रीणाति वै पितॄन् । जातवेदः शिला तत्र साक्षादग्नेः सनातनात् ॥ २,१३.४३ ॥ श्राद्धानि चाग्निकार्यं च तत्र कुर्यात्सदा क्षयम् । यस्त्वग्निं प्रविशेत्तत्र नाकपृष्ठे स मोदते ॥ २,१३.४४ ॥ अग्निशान्तः पुनर्जातस्तत्र दत्तं ततोऽक्षयम् । दशाश्वमेधिके तीर्थे तीर्थे पञ्चाश्वमेधिके ॥ २,१३.४५ ॥ यथोद्दिष्टफलं तेषां क्रतूनां नात्र संशयः । ख्यातं हयशिरो नाम तीर्थं सद्यो वरप्रदम् ॥ २,१३.४६ ॥ श्राद्धं तत्र सदाक्षय्यं दाता स्वर्गे च मोदते । श्राद्धं सुंदनिसुंदे च देयं पापनिषू दनम् ॥ २,१३.४७ ॥ श्राद्धं तत्राक्षयं प्रोक्तं जपहोमतपांसि च । जतुङ्गे शुभे तीर्थे तर्पयेत्सततं पितॄन् ॥ २,१३.४८ ॥ दृश्यते पर्वसु च्छाया यत्र नित्यं दिवौकसाम् । पृथिव्यामक्षयं दत्तं विरजा यत्र पादपः ॥ २,१३.४९ ॥ योगेश्वरैः सदा जुष्टः सर्वपापबहिष्कृतः । दद्याच्छ्राद्धं तु यस्तस्मिंस्तस्य वक्ष्यामि यत्फलम् ॥ २,१३.५० ॥ अर्चितास्तेन वै साक्षाद्भवन्ति पितरः सदा । अस्मिंल्लोके वशी च स्यात्प्रेत्य स्वर्गे मही यते ॥ २,१३.५१ ॥ प्रायशो मद्रवा पुण्या शिवो नाम ह्रदस्तथा । तत्र व्याससरः पुण्यं दिव्यो ब्रह्मह्रदस्तथा ॥ २,१३.५२ ॥ ऊर्ज्जन्तः पर्वतः पुण्यो यत्र योगेश्वरालयः । अत्रैव चाश्रमः पुण्यो वसिष्ठस्य महात्मनः ॥ २,१३.५३ ॥ ऋग्यजुः सामशिरसः कपोताः पुष्पसाह्वयाः । आख्यान पञ्चमा वेदाः सृष्टा ह्येते स्वयंभुवा ॥ २,१३.५४ ॥ गत्वैतान्मुच्यते पापद्द्विजो वह्निं समाश्रयन् । श्राद्धं चानन्त्यमेतेषु जपहोमतपांसि च ॥ २,१३.५५ ॥ पुण्डरीके महातीर्थे पुण्डरीकसमं फलम् । ब्रह्मतीर्थे महाप्राज्ञ सर्वयज्ञसमं फलम् ॥ २,१३.५६ ॥ सिंधुसागरसंभेदे तथा पञ्चनदे क्षयम् । विरजायां तथा पुण्यं मद्रवायां च पर्वते ॥ २,१३.५७ ॥ देयं सप्तनदे श्राद्धं मानसे वा विशेषतः । महाकूटे ह्यनन्ते च गिरौ त्रिककुदे तथा ॥ २,१३.५८ ॥ संध्यायां च महानद्यां दृश्यते महादद्भुतम् । अश्रद्दधानं नाभ्येति सा चाभ्येति धृतव्रतम् ॥ २,१३.५९ ॥ संश्रयित्वैकमेकेन सायाह्नं प्रति नित्यशः । तस्मिन्देयं सदा श्राद्धं पितॄणामक्षयार्थिनाम् ॥ २,१३.६० ॥ कृतात्मा वाकृतात्मा च यत्र विज्ञायते नरः । स्वर्गमार्गप्रदं नाम तीर्थं सद्यो वरप्रदम् ॥ २,१३.६१ ॥ चीराण्युत्सृज्य यस्मिंस्तु दिवं सप्तर्षयो गाताः । अद्यापि तानि दृश्यन्ते चीराण्यंभोगतानि तु ॥ २,१३.६२ ॥ स्नात्वा स्वर्गमवाप्नोति तस्मिंस्तीर्थेत्तमे नरः । ख्यातमायतनं तत्र नन्दिनः सिद्धसेवितम् ॥ २,१३.६३ ॥ नन्दीश्वरस्य सा मूर्त्तिर्निराचारैर्नदृश्यते । दृश्यन्ते काञ्चना युपास्त्वर्चिषो भास्करोदये ॥ २,१३.६४ ॥ कृत्वा प्रदक्षिणं तांस्तु गच्छन्त्यानन्दिता दिवम् । सर्वतश्च कुरुक्षेत्रं सुतीर्थं तु विशेषतः ॥ २,१३.६५ ॥ पुण्यं सनत्कुमारस्य योगेशस्य महात्मनः । कीर्त्यते च तिलान्दत्त्वा पितृभ्योवै सदाक्षयम् ॥ २,१३.६६ ॥ उक्तमेवाक्षयं श्राद्धं धर्मराजनिषेवितम् । श्राद्धं दत्तममावास्यां विधिना च यथाक्रमम् ॥ २,१३.६७ ॥ पुंसः सन्निहितायां तु कुरूक्षेत्रे विशेषतः । अर्चयित्वा पितॄंस्तत्र स पुत्रस्त्वनृणो भवेत् ॥ २,१३.६८ ॥ सरस्वत्यां विनशने प्लक्षप्रश्रवणे तथा । व्यासतीर्थे दृषद्वत्यां त्रिप्लक्षे च विशेषतः ॥ २,१३.६९ ॥ देयमोङ्कारपवने श्राद्धमक्षयमिच्छता । शक्रावतारे गङ्गायां मैनाके च नगोत्तमे ॥ २,१३.७० ॥ यमुनाप्रभवे चैव सर्वपापैः प्रमुच्यते । अत्युष्णाश्चातिशीताश्च आपस्तस्मिन्निदर्शनम् ॥ २,१३.७१ ॥ यमस्य भगिनी पुष्या मार्त्तण्डदुहिता शुभा । तत्राक्षयं सदा श्राद्धं पितृभिः पूर्वकीर्त्तितम् ॥ २,१३.७२ ॥ ब्रह्मतुण्डह्रदे स्नात्वा सद्दयो भवति ब्राह्मणः । तस्मिंस्तु श्राद्धमानन्त्यं जपहोमतपांसि च ॥ २,१३.७३ ॥ स्थाणुभूतोऽचरत्तत्र वसिष्टो वै महातपाः । अद्यापि तत्र दृश्यन्ते पादपा मणिबर्हणाः ॥ २,१३.७४ ॥ तुला तु दृश्यते तत्र धर्मान्धर्मनिधर्शिनी । यथा वै तोलितं विप्रैस्तीर्थानां फलमुत्तमम् ॥ २,१३.७५ ॥ पितॄणां दुहिता योगा गन्धकालीति विश्रुता । चतुर्थो ब्रह्मणस्त्वंशः पराशरकुलोद्भवः ॥ २,१३.७६ ॥ व्यसिष्यति चतुर्द्धा वै वेदं धीमान्महामुनिः । महायोगं महात्मानं या व्यासं जनयिष्यति ॥ २,१३.७७ ॥ अच्छोदकं नामसरस्तत्राच्छोदासमुद्भवः । मत्स्ययोनौ पुनर्जाता नियोगात्कारणेन तु ॥ २,१३.७८ ॥ तस्यास्त्वाद्याश्रमे पुण्ये पुण्यकृद्भिर्निषेविते । दत्तं सकृदपि श्राद्धमक्षयं समुदाहृतम् ॥ २,१३.७९ ॥ नद्यां योगसमाधानं दत्तं युगपदुद्भवेत् । कुबेरतुङ्गे पापघ्नं व्यासतीर्थेतथैव च ॥ २,१३.८० ॥ पुण्यायां ब्रह्मणो वेद्यां श्राद्धमानन्त्यमिष्यते । सिद्धैस्तु सेविता नित्यं दृश्यते तु कृतात्मभिः ॥ २,१३.८१ ॥ अनिवर्तनं तु नन्दायां वेद्याः प्रागुत्तरदिशि । सिद्धिक्षेत्रं सुरैर्जुष्टं यत्प्राप्य न निवर्त्तते ॥ २,१३.८२ ॥ महालये पदं न्यस्तं महादेवेन धीमता । भूतानामनुकंपार्थं नास्तिकानां निदर्शनम् ॥ २,१३.८३ ॥ विरजे त्वक्षयं श्राद्धं पूर्वमेव महालये । नन्दायां विरजे चैव तथैव च महालये ॥ २,१३.८४ ॥ आत्मानं तारयन्तीह दशपूर्वान्दशापरान् । काकह्रदे जातिस्मर्यं सुवर्णममितौजसम् ॥ २,१३.८५ ॥ कौमारं च सरः पुण्यं नागभोगाभिरक्षितम् । कुमारतीर्थे स्नात्वा तु त्रिदिवं याति मानवः ॥ २,१३.८६ ॥ देवालये तपस्तस्वा एकपादेन दुश्चरम् । निराहारो युगं दिव्यमुमातुङ्गो स्थितो ज्वलन् ॥ २,१३.८७ ॥ उमातुङ्गे भृगोस्तुङ्गे ब्रह्मतुङ्गे महालये । तत्र श्राद्धानि देयानि नित्यमक्षयमिच्छता ॥ २,१३.८८ ॥ अक्षयं तु सदा श्राद्धं शालग्रामे समन्ततः । दुष्कृतं दृश्यते तत्र प्रत्यक्षमकृतात्मनाम् ॥ २,१३.८९ ॥ प्रत्यदेशो ह्यशिष्टानां शिष्टानां च विशेषतः । तत्र देवह्रदः पुण्यो ब्रह्मणो नागराट्शुचिः ॥ २,१३.९० ॥ पिण्डं गृह्णति हि सतां न गृह्णात्यसतां सदा । अतिप्रदीप्तैर्भुजगैर्भोक्तुमन्नं न शक्यते ॥ २,१३.९१ ॥ प्रत्यक्षं दृश्यते धर्मस्तीर्थयोर्नतयोर्द्वयोः । कारवत्यां च शाण्डिल्यां गुहायां वामनस्य च ॥ २,१३.९२ ॥ गत्वा चैतानि पूतःस्याच्छ्रदद्धमक्षयमेव च । जपो होमस्तपो ध्यानं यत्किञ्चित्सुकृतं भवेत् ॥ २,१३.९३ ॥ ब्रह्मचर्यं च यौ धत्ते गुरुभक्तिं शतं समाः । एवमाद्यास्सरिच्छ्रेष्ठा यत्स्नानादघमोक्षणम् । कुमारधारा तत्रैव दृष्टा पापं प्रणश्यति ॥ २,१३.९४ ॥ ध्यानासनं तु तत्रैव व्यासस्याद्यापि दृश्यते । शैलः कान्तिपुराभ्याशे प्रागुदीच्यां दिशि स्थितः ॥ २,१३.९५ ॥ पुण्य पुष्करिणी तत्र किरातगणरक्षिता । यस्यां स्नात्वा सकृद्विप्रः कामानाप्नोति शाश्वतान् ॥ २,१३.९६ ॥ अदृश्यः सर्वभूतानां देववच्चरते महीम् ॥ २,१३.९७ ॥ काश्यपस्य महातीर्थं कालसर्पिरिति श्रुतम् । तत्र श्राद्धानि देयानि नित्यमक्षयमिच्छता ॥ २,१३.९८ ॥ देवदारुवने वापि धारायास्तु निदर्शनम् । निर्धूतानि तु पापानि दृश्यन्ते सुकृतात्मनाम् ॥ २,१३.९९ ॥ भागीरथ्यां प्रयागे तु नित्यमक्षयमुच्यते । कालञ्जरे दशार्णायां नैमिषे कुरुजाङ्गले ॥ २,१३.१०० ॥ वाराणस्यां नगर्यां च देयं श्राद्धं प्रयत्नतः । तत्र योगेश्वरो नित्यं तस्यां दत्तमथाक्षयम् ॥ २,१३.१०१ ॥ गत्वा चैतानि पूर्तः स्याच्छ्राद्धमक्षय्यमेव च । जबो होमस्तथा ध्यानं यत्किञ्चित्सुकृतं भवेत् ॥ २,१३.१०२ ॥ लौहित्ये वैतरण्यां चस्वर्गवेद्यां तथैव च । सा तु देवी समुद्रान्ते दृश्यते चैव नामभिः ॥ २,१३.१०३ ॥ गयायां धर्मवृष्ठे तु सरसि ब्रह्मणस्तथा । गयां गृध्रवटे चैव श्राद्धं दत्तं महाफलम् ॥ २,१३.१०४ ॥ हिमं च पतते तत्र समन्तात्पञ्चयो जनम् । भरतस्याश्रमे पुण्येऽरण्यं पुण्यतमं स्मृतम् ॥ २,१३.१०५ ॥ मतङ्गस्य वनं तत्र दृश्यते सर्वमानुषैः । स्थापितं धर्मसर्वस्वं लोकस्यास्य निदर्शनम् ॥ २,१३.१०६ ॥ यद्दण्डकवनं पुण्यं पुण्यकृद्भिर्निषेवितम् । यस्मिन्प्राहुर्विशल्येति तीर्थं सद्यो निदर्शनम् ॥ २,१३.१०७ ॥ तुलामानैस्तथा चापि शास्त्रैश्च विविधैस्तथा । उन्मच्चन्ति तथा लग्न ये वै पापकृतो जनाः ॥ २,१३.१०८ ॥ तृतीयायां तथा पादे निराधायां तु मण्डले । महाह्रदे च कौशिक्यां दत्तं श्राद्धं महाफलम् ॥ २,१३.१०९ ॥ मुण्डपृष्टे पदं न्यस्तं महादेवेन धीमता । बहुदेवयुगांस्तप्त्वा तपस्तीव्रं सुदश्चरम् ॥ २,१३.११० ॥ अल्पेनाप्यत्र कालेन नरो धर्मपरायणः । पाप्मानमुत्सृजत्याशु जीर्णां त्वचमिवोरगः ॥ २,१३.१११ ॥ सिद्धानां प्रीतिजननं पपानां च भयङ्करम् । लेलिहानैर्महाघोरै रक्ष्यते सुमहोरगैः ॥ २,१३.११२ ॥ नाम्ना कनकनन्दीति तीर्थं जगति विश्रुतम् । उदीच्यां मुण्डपृष्टस्य ब्रह्मर्षिगणसेवितम् ॥ २,१३.११३ ॥ तत्र स्नात्वा दिवंयान्ति स्वशरीरेण मानवाः । दत्तं वापि सदा श्राद्धमक्षय्यं समुदाहृतम् ॥ २,१३.११४ ॥ ऋणैस्त्रिभिस्ततः स्नात्वा निष्क्रीणाति नरस्तनुम् । मानसे सरसि स्नात्वा श्राद्धंनिर्वर्त्तयेत्ततः ॥ २,१३.११५ ॥ तीरे तु सरसस्तस्य देवस्या यतनं महत् । आरुह्य तु जपंस्तत्र सिद्धो याति दिवं ततः ॥ २,१३.११६ ॥ उत्तरं मानसं गत्वासिद्धिं प्राप्नोत्यनुत्तमाम् । स्नात्वा तस्मिन्सरश्रेष्ठे दृश्यते महादद्भुतम् ॥ २,१३.११७ ॥ दिवश्च्युता महाभागा ह्यन्तरिक्षे विराजते । गङ्गा त्रिपथगा देवी विष्णुपादाच्च्युता सती ॥ २,१३.११८ ॥ आकाशे दृश्यते तत्र तोरणं सूर्यसन्निभम् । जांबूनदमयं पुण्यं स्वगद्वारमिवायतम् ॥ २,१३.११९ ॥ ततः प्रवर्त्तते भूयः सर्वसागरमण्डिका । पावनी सर्वभूतानां धर्मज्ञानां विशेषतः ॥ २,१३.१२० ॥ चन्द्रभागा च सिद्धुश्च शुभे मानससंभवे । सागरं पश्चिमं यातो दिव्यः सिंधुनदो वरः ॥ २,१३.१२१ ॥ पर्वतो हिमवान्नाम नानाधातुविभूषितः । आयतो वै सहस्राणि योजनानां बहुनि तु ॥ २,१३.१२२ ॥ सिद्धचारणसंकीर्णा देवर्षिगणसेविता । तत्र पुष्करिणी रम्या सुषुम्णा नाम नामतः ॥ २,१३.१२३ ॥ दशवर्षसहस्राणि तस्यां स्नातस्तु जीवति । श्राद्धं भवति चानन्तं तत्र दत्तं महोदयम् ॥ २,१३.१२४ ॥ तारयेच्च सदा श्राद्धे दशपूर्वान्दशापरान् । सर्वत्र हिमवान्पुण्यो गङ्गा पुण्या समन्ततः ॥ २,१३.१२५ ॥ समुद्रगाः समुद्राश्च सर्वे पुण्याः समन्ततः । एवमादिषु चान्येषु श्राद्धं निर्वर्तयेद्बुधः ॥ २,१३.१२६ ॥ पुतो भवति वै स्नात्वा हुत्वा दत्त्वा तथैव च । शेलसानुषु शृङ्गेषु कन्दरेषु गुहासु च ॥ २,१३.१२७ ॥ उपह्वरनितंबेषु तथा प्रस्रवणेषु च । पुलिनेष्वापगानां च तथैव प्रभवेषु च ॥ २,१३.१२८ ॥ महोदधौ गवां गोष्टे संगमेषु वनेषु च । सुसंमृष्टोपलिप्तेषु त्दृद्येषु सुरभिष्वथ ॥ २,१३.१२९ ॥ गोमयेनोपलिप्तेषु विविक्तेषु गृहेषु च । कुर्याच्छ्राद्धमथैतेषु नित्यमेव यथाविधि ॥ २,१३.१३० ॥ प्राग्दक्षिणां दिशं गत्वा सर्वकामचिकीर्षया । एवमेतेषु सर्वेषु श्राद्धं कुर्यादतन्द्रितः ॥ २,१३.१३१ ॥ एतेष्वेव तु मेधावी ब्राह्मीं सिद्धिमवाप्नुयात् । त्रैवर्णविहितैः स्थाने धर्मे वर्णाश्रमे रतैः ॥ २,१३.१३२ ॥ कौपस्थानं च संत्यागात्प्राप्यते पितृपूजनम् । तीर्थान्यनुसरन्वीरः श्रद्दधानः समाहितः ॥ २,१३.१३३ ॥ कृतपापोऽपि शुध्येत किं पुनः शुभकर्मकृत् । तिर्यग्योनिं न गच्छेच्च कुदेशे च न जायते ॥ २,१३.१३४ ॥ स्वर्गी भवति विप्रो वै मोक्षोपायं च विन्दति । अश्रद्दधानः पापायुर्नास्तिकोऽच्छिन्नसंशयः ॥ २,१३.१३५ ॥ हेतुनिष्ठश्च पञ्चैते न तीर्थे फलभागिनः । गुरुतीर्थे परा सिद्धिस्तीर्थानां परमं पदम् ॥ २,१३.१३६ ॥ ध्यानं तीर्थं परं तस्माद्ब्रह्मतीर्थं सनातनम् । उपवासात्परं ध्यानमिन्द्रियाणां निवर्त्तनम् ॥ २,१३.१३७ ॥ उपवासनिबद्धैर्हि प्राणैरेव पुनः पुनः । प्राणापानौ वशे कृत्वा वशगानीन्दियाणि च ॥ २,१३.१३८ ॥ बुद्धिं मनसि संयम्य सर्वेषां तु निवर्त्तनम् । प्रत्याहारं कृतं विद्धि मोक्षोपायमसंशयम् ॥ २,१३.१३९ ॥ इन्द्रियाणां मनो घोरं बुद्ध्यादीनां विवर्त्तनम् । अना हारो क्षयं याति विद्यादनशनं तपः ॥ २,१३.१४० ॥ निग्रहे बुद्धिमन्सोरन्यबुद्धिर्न जायते । क्षीणेषु सर्वदोषेषु क्षीणेष्वेवेन्द्रियेषु च ॥ २,१३.१४१ ॥ परिनिर्वाति शुद्धात्मा यथा वह्निरनिधनः । कारणेभ्यो गुणेभ्यश्च व्यक्ताव्यक्ताच्च कुत्स्नशः ॥ २,१३.१४२ ॥ नियोजयति क्षेत्रज्ञं तेभ्योयोगेन योगवित् । तस्य नास्ति गतिः स्थानं व्यक्ताव्यक्ते च सर्वशः । न सन्नासन्न सदसन्नैव किञ्चिदवस्थितः ॥ २,१३.१४३ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे श्राद्धकल्पे पुण्यदेशानुकीर्त्तनं नाम त्रयोदशोऽध्यायः ॥ १३॥ _____________________________________________________________ बृहस्पतिरुवाच अतः परं प्रवक्ष्यामि सर्वदानफलानि च । श्राद्धकर्मणि मेध्यानि वर्जनीयानि यानि च ॥ २,१४.१ ॥ हिमप्रपतने कुर्यादा हरेद्वा हिमं ततः । अग्निहोत्रमुपायुष्यं पवित्रं परमं हितम् ॥ २,१४.२ ॥ नक्तं तु वर्जयेच्छ्राद्धं राहोरन्यत्र दर्शनात् । सर्वस्वेनापि कर्त्तव्यङ्क्षिप्रं वै राहुदर्शने ॥ २,१४.३ ॥ उपरागे न कुर्याद्यः पङ्के गौरिव सीदति । कुर्वाणस्तत्तरेत्पापं सती नौरिव सागरे ॥ २,१४.४ ॥ वैश्वदेवं च सौम्यं च खड्गमांसं परं हविः । विषाणवर्जं खड्गस्य मात्सर्यान्नाशयामहे ॥ २,१४.५ ॥ त्वाष्ट्रा वै यजमानेन देवेशेन महात्मना । पिबञ्छचीपतिः सोमं पृथिव्यां मध्यगः पुरा ॥ २,१४.६ ॥ श्यामाकास्तत्र उत्पन्नाः पित्रर्थमपरजिताः । विप्रुषस्तस्य नासाभ्यामासक्ताभ्यां तथेक्षवः ॥ २,१४.७ ॥ श्रेष्मलाः शीतलाः स्निग्धा मधुराश्च तथेक्षवः । श्यामाकैरिक्षुभिश्चैव पितॄणां सर्वकामिकम् ॥ २,१४.८ ॥ कुर्यादाग्रयणं यस्तु स शीघ्रं सिद्धिमाप्नुयात् । श्यामाकास्तु द्विनामानो विहिता यजनेस्मृते ॥ २,१४.९ ॥ यस्मात्तेदेवसृष्टास्तु तस्मात्ते चाक्षयाः स्मृताः । प्रसातिकाः प्रियङ्गुश्च मुद्गाश्च हरितास्तथा ॥ २,१४.१० ॥ एतान्यपि समानानि श्यामाकानां गुणैस्तु तैः । कृष्णमाषास्तिलाश्चैव श्रेष्ठास्तु यवशालयः ॥ २,१४.११ ॥ महायवाश्च निष्पावास्तथैव च मधूलिकाः । कृष्णाश्चैवान्नलोहाश्च गर्ह्याः स्युः श्राद्धकर्मणि ॥ २,१४.१२ ॥ राजमाषास्तथान्ये वै वर्जनीयाः प्रयत्नतः । मसूराश्चैव पुण्याश्च कुसुंभं श्रीनिकेतनम् ॥ २,१४.१३ ॥ वर्षास्वतियवा नित्यं तथा वृषकवासकौ । बिल्वामलकमृद्वीकापनसाम्रातदाडिमाः ॥ २,१४.१४ ॥ तवशोलंयताक्षौद्रखर्जूराम्रलानि च । खशेरुकोविदार्यश्च तालकन्दं तथा विसम् ॥ २,१४.१५ ॥ तमालं शतकन्दं च मद्वसूचान्तकान्दिकी । कालेयं कालशाकं च भूरिपूर्णा सुवर्चला ॥ २,१४.१६ ॥ मांसाक्षं दुविशाकं च बुबुचेता कुरस्तथा । कफालकं कणा द्राक्षा लकुचं चोचमेव च ॥ २,१४.१७ ॥ अलाबुं ग्रीवकं वीरं कर्कन्धूमधुसाह्वयम् । वैकङ्कतं नालिकेरशृङ्गज पकरूषकम् ॥ २,१४.१८ ॥ पिप्पली मरिचं चैव पठोलं बृहतीफलम् । सुगन्धमांसपीवन्ति कषायाः सर्व एव च ॥ २,१४.१९ ॥ एवमादीनि चान्यानि वराणि मधुराणि च । नागरं चात्र वै देयं दीर्घमूलकमव च ॥ २,१४.२० ॥ वंशः करीरः सुरसः सर्जकं भूस्तृणानि च । वर्जनीयानि वक्ष्यामि श्राद्धकर्मणि नित्यशः ॥ २,१४.२१ ॥ लशुनं गृञ्जनं चैव तथा वै पल्वलोदकम् । करंभाद्यानि चान्यानि हीनानि रसगन्धतः ॥ २,१४.२२ ॥ श्राद्धकर्मणि वर्ज्यानि कारणं चात्र वक्ष्यते । पुरा देवासुरे युद्धे निर्जितस्य बलेः सुरैः ॥ २,१४.२३ ॥ शरैस्तु विक्षतादङ्गात्पतिता रक्तबिन्दवः । तत एतानि जातानि लशुनादीनि सर्वशः ॥ २,१४.२४ ॥ तथैव रक्तनिर्यासा लवणान्यौषरणि च । श्रद्धकर्मणि वर्ज्यानि याश्च नार्यो रजस्वलाः ॥ २,१४.२५ ॥ दुर्गन्धं फेनिलं चैव तथा वै पल्वलोदकम् । लभेद्यत्र न गौस्तृप्तिं नक्तं यच्चैव गुह्यते ॥ २,१४.२६ ॥ आविकं मार्गमौष्ट्रं च सर्वमेकशफं च यत् । माहिषं चामरं चैव पयो वर्ज्यं विजानता ॥ २,१४.२७ ॥ अतः परं प्रवक्ष्यामि वर्ज्यान्देशान्प्रयत्नतः । न द्रष्टव्यं च यैः श्राद्धं शौचाशौचं च कृत्स्नशः ॥ २,१४.२८ ॥ वन्यमूलफलैर्भक्ष्यैः श्राद्धं कुर्यात्तु श्रद्धया । राजनिष्ठामवाप्नोति स्वर्गमक्षयमेव च ॥ २,१४.२९ ॥ अनिष्टशब्दां संकीर्णां जन्तुप्याप्तामथाविलाम् । पूतिगन्धां तथा भूमिं वर्जयेच्छ्राद्धकर्मणि ॥ २,१४.३० ॥ नद्यः सागरपर्यन्ता द्वारं दक्षिणपूर्वतः । त्रिशङ्कोर्वर्जयेद्देशं सर्वं द्वादश योजनम् ॥ २,१४.३१ ॥ उत्तरेण महानद्या दक्षिणेन च वैकटम् । देशास्त्रिशङ्कवो नाम वर्ज्या वै श्राद्धकर्मणि ॥ २,१४.३२ ॥ कारस्कराः कलिङ्गश्च सिधोरुत्तरमेव च । प्रनष्टाश्रमधर्माश्च वर्ज्या देशाः प्रयत्नतः ॥ २,१४.३३ ॥ नग्नादयो न पश्येयुः श्राद्धकर्म व्यवस्थितम् । गच्छन्त्येतैस्तु दृष्टानि न पितॄंश्च पितामहांन ॥ २,१४.३४ ॥ शंयुरुवाच नग्नादीन्भगवन्सम्यगाचक्ष्व परिपृच्छतः । बृहस्पतिरुवाच सर्वेषामेव भूतानां त्रयीसंवरणं स्मृतम् ॥ २,१४.३५ ॥ तां ये त्यजन्ति संमोहात्ते वै नग्नादयो जनाः । प्रलीयते वृषो यस्मिन्निरालंबश्च यो बृषे ॥ २,१४.३६ ॥ वृषं यस्तु परित्यज्य मोक्षमन्यत्र मार्गति । वृषो वेदाश्रमस्तस्मिन्यो वै सम्यङ्न पश्यति ॥ २,१४.३७ ॥ ब्राह्मणः क्षत्रियो वैश्यो वृषलः स न संशयः । पुरा देवासुरे युद्धे निर्जितैरसुरैस्तथा ॥ २,१४.३८ ॥ पाशण्डा वै कृतास्तात तेषां सृष्टिः प्रजायते । वृद्धश्रावकिनिर्ग्रन्थाः शाक्या जीवककार्पटाः ॥ २,१४.३९ ॥ ये धर्मं नानुवर्त्तन्ते ते वै नग्नादयो जनाः । वृथा जटी वृथा मुण्डी वृथा नग्नश्च यो द्विजः ॥ २,१४.४० ॥ वृथा व्रती वृथा जापी ते वै नग्नादयो जनाः । कुलधर्मातिगाः शश्वद्वृथा वृत्तिकलत्रकाः ॥ २,१४.४१ ॥ कृतकर्मदिशस्त्वेते कुपथाः परिकीर्त्तिताः । एतैर्हि दत्तं दृष्टं वै श्राद्धं गच्छति दानवान् ॥ २,१४.४२ ॥ ब्रह्मघ्नश्च कृतघ्नश्च नास्तिको गुरुतल्पगः । दस्युश्चैव नृशंसश्च दर्णने तान्विसर्जयेत् ॥ २,१४.४३ ॥ पतिताः क्रूरकर्माणः सर्वांस्तान्परिवर्जयेत् । देवतानामृषीणां च विवादे प्रवदन्ति ये ॥ २,१४.४४ ॥ देवांश्च ब्राह्मणांश्चैव आम्नायं यस्तु निन्दति । असुरान्यातुधानांश्च दृष्टमेभिर्व्रजत्युत ॥ २,१४.४५ ॥ ब्राह्मं कृतयुगं प्रोक्तं त्रेता तु क्षत्र्रियं युगम् । वैश्यं द्वापरमित्याहुः शूद्रं कलियुगं स्मृतम् ॥ २,१४.४६ ॥ कृतेऽपूज्यन्त पितरस्त्रेतायां तु सुरास्तथा । युद्धानि द्वापरे नित्यं पाखण्डाश्च कलौ युगे ॥ २,१४.४७ ॥ अपमानापविद्धश्च कुक्कुटो ग्रामसूकरः । श्वा चैव हन्ति श्राद्धानि दर्शनादेव सर्वशः ॥ २,१४.४८ ॥ श्वसूकरोप संसृष्टं दीर्घरोगिभिरेव च । पतितैर्मलिनैश्चैव न द्रष्टव्यं कथञ्चन ॥ २,१४.४९ ॥ अन्नं पश्येयुरेते यत्तन्नार्हं हव्यकव्ययोः । उत्स्रष्टव्याः प्रधा नार्थैः संस्कारस्त्वापदो भवेत् ॥ २,१४.५० ॥ हविषां संहतानां च पूर्वमेव विवर्जयेत् । सृष्टं युक्ताभिरद्भिश्च प्रोक्षणं च विधीयते ॥ २,१४.५१ ॥ सिद्धार्थकैः कृष्णतिलैः कार्यं वाप्यपवारणम् । गुरुसूर्याग्निवास्राणां दर्शनं वापि यत्नतः ॥ २,१४.५२ ॥ आसनारूढमन्नाद्यं पादोपहतमेव च । अमेध्यैर्जङ्गमैर्दृष्टं शुष्कं पर्युषितं च यत् ॥ २,१४.५३ ॥ अस्विन्नं परिदग्धं च तथैवाग्नावलेहितम् । शर्कराकीटपाषाणैः केशैर्यच्चाप्यु पाहृतम् ॥ २,१४.५४ ॥ पिण्याकं मथितं चैव तथा तिलयवादिषु । सिद्धीकृताश्च ये भक्ष्याः प्रत्यक्षलवणीकृताः ॥ २,१४.५५ ॥ दृष्ट्वा चैव तथा दोषोपात्तश्वोपहतं तथा । वाससा चावधूतानि वर्ज्यानि श्राद्धकर्मणि ॥ २,१४.५६ ॥ संति वेदविरोधेन केचिद्विज्ञाभिमानिनः । अयज्ञय तयो नाम ते ध्वंसंति यथा रजः ॥ २,१४.५७ ॥ दधिशाकं तथा भक्ष्यं तथा चौषधिवर्जितम् । वार्त्ताकं वर्जयेच्छ्राद्धे सर्वानभिषवानपि । सैन्धवं लवणं चैव तथा मानससंभवम् ॥ २,१४.५८ ॥ पवित्रे परमे ह्येते प्रत्यक्षमपि वर्तिते । अग्नौ प्रक्षिप्य गृङ्णीयाद्धस्तौ प्रक्षिप्य यत्नतः ॥ २,१४.५९ ॥ गमयेन्मस्तकं चैव ब्रह्मतीर्थं हि तत्स्मृतम् । द्रव्याणां प्रोक्षणं कार्यं तथैवावपनं पुनः ॥ २,१४.६० ॥ निधाय चाद्भिः सिंचेत्त त्तथा चासु निवेशनम् । अश्ममूलफलेक्षूणां रज्जूनां चर्मणामपि ॥ २,१४.६१ ॥ वैदलानां च सर्वेषां पूर्ववच्छौचमिष्यते । तथा दन्तास्थि दारुणां शृङ्गाणां चावलेखनम् ॥ २,१४.६२ ॥ सर्वेषां मृन्मयानां च पुनर्दाहो विधीयते । मणिमुक्ताप्रवालानां जलजानां च सर्वशः ॥ २,१४.६३ ॥ सिद्धार्थकानां कल्केन तिलकल्केन वा पुनः । स्याच्छौचं सर्वबालानामाविकानां च सर्वशः ॥ २,१४.६४ ॥ द्विपदां चैव सर्वेषां मृद्भिरद्भिर्विधीयते । आद्यन्तयोस्तु शौचानामद्भिः प्रक्षालनं विधिः ॥ २,१४.६५ ॥ तथा कार्पासिकानां च भस्मना समुदाहृतम् । फलपुष्पपलाशानां प्लावनं चाद्भिरिष्यते ॥ २,१४.६६ ॥ प्रोक्षणं ह्युपलेपश्च भूमेश्चैवावलेखनम् । निषेको गोक्रमो दाहः खननं शुद्धिरिष्यते ॥ २,१४.६७ ॥ निष्क्रमोऽध्वगतो ग्रामाद्वायुपूता वसुंधरा । पुंसां चतुष्पदां चव मृद्भिः शौचं विधीयते ॥ २,१४.६८ ॥ एवमेव समुद्दिष्टः शौचानां विधिरुत्तमः । अनिर्दिष्टमतो यद्यत्तन्मे निगदतः शृणु ॥ २,१४.६९ ॥ प्रातर्गृहाद्दक्षिणपश्चिमेन गत्वा चेषुक्षेपमात्रं पदं वै । कुर्यात्पुरीषं हि शिरोऽवगुण्ठ्य न वै स्पृशेज्जातु शिरः करेण ॥ २,१४.७० ॥ शुक्लैस्तृणैर्वा कार्ष्ठैर्वा पर्णैर्वेणुदलैन च । सुसंवृत्ते प्रदेशे च णन्तर्धाय वसुंधराम् ॥ २,१४.७१ ॥ उद्धृत्योदकमादाय मृत्तिकां चैव वाग्यतः । दिवा उदङ्मुखः कुर्याद्रात्रौ वै दक्षिणामुखः ॥ २,१४.७२ ॥ दक्षिणेन तु हस्तेन गृहीत्वाथ कमण्डलुम् । शौचं वामेन हस्तेन गुदे तिस्रस्तु मृत्तिकाः ॥ २,१४.७३ ॥ दश चापि शनैर्दद्याद्वामहस्ते क्रमेण तु । उभाभ्यां वा पुनर्दद्याद्द्वाभ्यां सप्त तु मृत्तिकाः ॥ २,१४.७४ ॥ मृदा प्रक्षाल्य पादौ तु आचम्य च यथाविधि । आपस्त्वाद्यास्त्रयश्चैव सुर्याग्न्यनिलदेवताः ॥ २,१४.७५ ॥ कुर्यात्संनिहितो नित्यमच्छिद्रे द्वे कमण्डलू । ःंसवार्यवनैरेव यथावत्पादधावनम् ॥ २,१४.७६ ॥ आचमनं द्वितीयं च देवकार्ये ततोऽपरम् । उपवासस्त्रिरात्रं तु दुष्टमुक्ते ह्युदात्दृतः ॥ २,१४.७७ ॥ विप्रकृष्टेषु कृच्छ्रं च प्राय श्चित्तमुदाहृतम् । स्पृष्ट्वा श्वानं श्वपाकं च तप्तकृच्छ्रं समाचरेत् ॥ २,१४.७८ ॥ मानुषास्थीनि संस्पृश्य उपोष्यं शुचिकारणात् । त्रिरात्रमुक्तं सस्नेहान्येकरात्रमतोऽन्यथा ॥ २,१४.७९ ॥ कारस्कराः कलिङ्गाश्च तथान्ध्रशबरादयः । पीत्वा चापोभूतिलपा गत्वा चापि युगं धरम् ॥ २,१४.८० ॥ सिंधोरुत्तरपर्यन्तं तथोदीच्यन्तरं नरः । पापदेशाश्च ये केचित्पापैरध्युषिता जनैः ॥ २,१४.८१ ॥ शिष्टैस्तु वर्जिता ये वै ब्राह्मणैल्वेदपारगैः । गच्छतां रागसंमोहात्तेषां पापं न गच्छति ॥ २,१४.८२ ॥ गत्वा देशानपुण्यांस्तु कृत्स्नं पापं समश्नुते । आरुह्य भृगुतुङ्गं तु गत्वा पुण्यां सरस्वतीम् ॥ २,१४.८३ ॥ आपगां च नदीं रम्यां गङ्गां देवीं महानदीम् । हिमवत्प्रभवा नद्यो याश्चान्या ऋषिपूचिताः ॥ २,१४.८४ ॥ सरस्तीर्थानि सर्वाणि नदीः प्रस्रवणानि च । गत्वैतान्मुच्यते पापैः स्वर्गे चात्यन्तमश्नुते ॥ २,१४.८५ ॥ दशरात्रमशौचं तु प्रोक्तं मृतकमूतके । ब्रह्मणस्य द्वादशाहं क्षत्रियस्य विधीयते ॥ २,१४.८६ ॥ अर्द्धमासं तु वैश्यस्य मासं शूद्रस्य चैव ह । उदक्या सर्ववर्णानां चतूरात्रेण शुध्यति ॥ २,१४.८७ ॥ उदक्यां सूतिकां चैव श्वानमन्तावसायिनम् । नग्नादीन्मृतहारांश्च स्पृष्ट्वा शौचं विधीयते ॥ २,१४.८८ ॥ स्नात्वा सचैलो मृद्भिस्तु शुद्धो द्वादशभिर्द्विजः । एतदेव भवेच्छौचं मैथुने वमने तथा ॥ २,१४.८९ ॥ मृदा प्रक्षाल्यहस्तौ तु कुर्याच्छौचं च मानवः । प्रक्षाल्य चाद्भिः स्नात्वा तु हस्तौ चैव पुनर्मृदा ॥ २,१४.९० ॥ त्रिः कृत्वा द्वादशान्तानि यथा लेपस्तथा भवेत् । एवं शौचविधिर्दृष्टः सर्वकृत्येषु नित्यदा ॥ २,१४.९१ ॥ परिदद्यान्मृदस्तिस्रस्तिस्रः पादावसेचने । अरण्ये शौचमेतत्तु ग्राम्यं वक्ष्याम्यतः परम् ॥ २,१४.९२ ॥ मृदः पञ्चदशामेध्या हस्तादीनां विशेषतः । अतिरिक्तमृदं दद्यान्मृदन्ते त्वद्भिरेव च ॥ २,१४.९३ ॥ अद्भिरव्यक्तके शौचमेतच्चैतेषु कृत्स्नशः । कण्ठं शिरो वा आवृत्य रथ्यापणगतोऽपि वा ॥ २,१४.९४ ॥ अकृत्वा पादयोः शौचमाचान्तोऽप्यशुचिर्भवेत् । पक्षाल्य पात्रं निक्षिप्य आचम्याभ्युक्षणं ततः ॥ २,१४.९५ ॥ द्रव्यस्यान्यस्य तु तथा कुर्यादभ्युक्षणं ततः । पुष्पादीनां तृणानां च प्रोक्षणं हविषां तथा ॥ २,१४.९६ ॥ परात्दृतानां द्रव्याणां निधायाभ्युक्षणं तथा । नाप्रोक्षितं स्पृशेत्किञ्चिच्छ्रद्धे दैवेऽथ वा पुनः ॥ २,१४.९७ ॥ उत्तरोणाहरेद्द्रव्यं दक्षिणेन विसर्जयेत् । संवृते यजमानस्तु सर्वश्राद्धे समाहरेत् ॥ २,१४.९८ ॥ उच्छिष्टे स्याद्विपर्यासोदैवे पित्र्येतथैव च । दक्षिणेन तु हस्तेन दक्षिणां वेदिमालभेत् ॥ २,१४.९९ ॥ कराभ्यामेव देवानां पितॄणां विकरं तथा । क्षरणं स्वप्नयोश्चैव तथा मूत्रपुरीषयो ॥ २,१४.१०० ॥ निष्ठीविते तथाभ्यङ्गे भुत्क्वा विपरिधाय च । उच्छिष्टानां च संस्पर्शे तथा पादावसेचने ॥ २,१४.१०१ ॥ उच्छिष्टस्य च संभाषादशित्वा प्रयतस्य वा । संदेहेषु च सर्वेषु शिखां मुक्त्वा तथैव च ॥ २,१४.१०२ ॥ विना यज्ञोपवीतेन मोघं तत्समुपस्पृशेत् । उष्ट्रस्यावेश्च संस्पर्शे दर्शनेऽवाच्यवाचिनाम् ॥ २,१४.१०३ ॥ जिह्वया चैव संस्वृश्य देतासक्तं तथैव च । सशब्दमेगुलीभिर्वा पतितं वा विलोकयन् ॥ २,१४.१०४ ॥ स्थितो यश्चाचमेन्मोहदाचान्तोऽप्यशुचिर्भवेत् । उपविश्य शुचौ देशे प्रयतः प्रागुदङ्मुखः ॥ २,१४.१०५ ॥ पादौ प्रक्षाल्य हस्तौ च अन्तर्जानु त्वपः स्पृशेत् । प्रसन्नस्त्रिः पिबेद्वारि प्रयतः सुसमाहितः ॥ २,१४.१०६ ॥ द्विरेव मार्जनं कुर्यात्सकृदभ्युक्षणं ततः । खानि मूर्द्धानमात्मानं हस्तौ पादौ तथैव च ॥ २,१४.१०७ ॥ अभ्युक्षयेत्ततस्तस्य यद्यन्मीमांसित भवेत् । एवमाचमतस्तस्य वेदा यज्ञास्तपांसि च ॥ २,१४.१०८ ॥ दानानि व्रतचर्याश्च भवन्ति सफलानि वै । क्रियां यः कुरुते मोहादनासम्येह नास्तिकः ॥ २,१४.१०९ ॥ भवन्ति हि वृथा तस्य क्रिया ह्येता न संशयः । वाक्कायबुद्धिपूतानि अस्पृष्टं वाप्यनिन्दितम् ॥ २,१४.११० ॥ ज्ञेयान्येतानि मेध्यानि दुष्टमेध्यो विपर्यये । मनोवाक्कायमग्निश्च कालश्चैवोपलेखनम् ॥ २,१४.१११ ॥ विख्यापनं च शौचानां नित्यमज्ञानमेव वा । अतोऽन्यथा तु यः कुर्यान्मोहाच्छौचस्य संकरम् ॥ २,१४.११२ ॥ पिशाचान्यातुधानांश्च फलं गच्छत्यसंशयम् । शौचे चाश्रद्दधानो हि म्लेच्छजातिषु जायते १४.११३॥ अयज्वा चैव पापश्च तिर्यग्योनिगतोऽपि च । शौचेन मोक्षं कुर्वाणः स्वर्गवासी भवेन्नरः ॥ २,१४.११४ ॥ शुचिकामा हि देवा वै देवैश्चैतदुदाहृतम् । बीभत्सानशुचींश्चैव वर्जयन्ति सुराः सदा ॥ २,१४.११५ ॥ त्रीणि शौचानि कुर्वन्ति न्यायतः शुभकर्मिणः । ब्रह्मण्यायाति थेयाय शौचयुक्ताय धीमते ॥ २,१४.११६ ॥ पितृभक्ताय दान्ताय सानुक्रोशाय च द्विजाः । तस्मै देवाः प्रयच्छन्ति पितरः श्रीविवर्द्धनाः । मनसाकाङ्क्षितान्कामांस्त्रैलोक्यप्रवरानपि ॥ २,१४.११७ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे श्राद्धकल्पेऽशौचविधिर्नाम चतुर्दशोऽध्योयः ॥ १४॥ _____________________________________________________________ ऋषय ऊचुः अहो धन्यस्त्वया सूत श्राद्धकल्पः प्रकीर्तितः । श्रुता नः श्राद्धकल्पास्तु ऋषिभिर्ये प्रकीर्त्तिताः ॥ २,१५.१ ॥ अतीव विस्तरो ह्यस्य विशेषेण तु कीर्त्तितः । देवाशेषं महाप्राज्ञ ऋषेस्तस्य मतं यथा ॥ २,१५.२ ॥ सूत उवाच कीर्त्तयिष्यामि वो विप्रा ऋषेस्तस्य मतं तु यत् । श्राद्धं प्रति महाभागस्तन्मे श्रुणुत विस्तरात् ॥ २,१५.३ ॥ उक्तं श्राद्धंमया पूर्वं विधिश्च श्राद्धकर्मणि । परिशिष्टं प्रवक्ष्यामि ब्रह्मणानां परिक्षणम् ॥ २,१५.४ ॥ न मीमांस्याः सदा विप्राः पवित्रंह्येतदुत्तमम् । दैवे पित्र्ये च नियतं श्रूयते वै परीक्षणम् ॥ २,१५.५ ॥ यस्मिन्दोषाः प्रदृश्येरम्स हि कार्येषु वर्जितः । जानीयाद्वापि संवासाद्वर्जयेत्तं प्रयत्नतः ॥ २,१५.६ ॥ अविज्ञातं द्विजं श्राद्धे न परीक्षेत पण्डितः । सिद्धा हि विप्ररूपेण चरन्ति पृथिवीमिमाम् ॥ २,१५.७ ॥ तस्मादतिथिमायान्तमभिगच्छेत्कृताञ्जलिः । पूजयेच्चार्घ्यपाद्याभ्यां तथाभ्यञ्जनभोजनैः ॥ २,१५.८ ॥ उर्वी सागरपर्यन्तां देवा योगेश्वरः सदा । नानारूपैश्चरन्त्येते प्रजा धर्मेण योजयन् ॥ २,१५.९ ॥ तस्माद्दद्यात्सदा दान्तः समभ्यार्च्यातिथिं नरः । व्यञ्जनानि तु वक्ष्यामि फलं तेषां तथैव च ॥ २,१५.१० ॥ अग्निष्टोमं पयसा प्राप्नुयाद्वै फलं तथोक्थस्य च पायसेन । सषोडशी सत्रफलं घृतेन मध्वातिरात्रस्य फलं तथैव ॥ २,१५.११ ॥ तथाप्नुयाच्छ्रद्दधा नो नरो वै सर्वैः कामैर्भोजयेद्यस्तु विप्रान् । सर्वार्थदं सर्वविप्रातिथेयं फलं च भुङ्क्ते सर्वमेधस्य नित्यम् ॥ २,१५.१२ ॥ यस्तु श्राद्धेऽतिथिं प्राप्तं दैवे चाप्यवमन्यते । तं वै देवा निरस्यन्ति हतो यद्वत्परावसुः ॥ २,१५.१३ ॥ देवाश्च पितरश्चैव तेमेवान्तर्हिता द्विजम् । आविश्य विप्रं मोक्ष्यन्ति लोकानुग्रहकारणात् ॥ २,१५.१४ ॥ अपूजितो दहत्येष दिशेत्कामांश्च पूजितः । सर्वस्वेनापि तस्माद्धि पूजयेदतिथिं सदा ॥ २,१५.१५ ॥ वानप्रस्थो गृहस्थश्च सतामभ्यागतो यथा । वालखिल्यो यतिश्चैव विज्ञेयो ह्यतिथिः सदा ॥ २,१५.१६ ॥ अभ्यागतः पाकचारदतिथिः स्यादपावकः । अतिथेरतिथिः प्रोक्तः सोऽतिथिर्योग उच्यते ॥ २,१५.१७ ॥ नाव्रती न च संकीर्णो नाविद्यो नाविशेषवित् । न च संतानसंबद्धो न देवी नागसेऽतिथिः ॥ २,१५.१८ ॥ पिपासिताय श्रान्ताय भ्रान्तायातिबुभुक्षते । तस्मै सत्कृत्य दातव्यं यज्ञम्य फलमिच्छता ॥ २,१५.१९ ॥ न वक्तव्यं सदा विप्र क्षुधिते नास्ति किञ्चन । तस्मै सत्कृत्य दातव्यं सदापचितिरेव सः ॥ २,१५.२० ॥ अक्लिष्ट मव्रणं युक्तं कृशवृत्तिमयाचकम् । एकान्तशीलं धीमन्तं सदा श्राद्धेषु भोजयेत् ॥ २,१५.२१ ॥ नो ददामि तमित्येवं ब्रूयाद्यो वै दुरात्मवान् । अपि जातिशतं गत्वा न स मुच्येत किल्बिषात् ॥ २,१५.२२ ॥ समोदं भोजयेद्विप्रानेकपङ्क्त्यां तु यो नरः । नियुक्तो ह्यनि युक्तो वा पङ्क्त्या हरति किल्बिषम् ॥ २,१५.२३ ॥ पाप्मानं गृह्यते क्षिप्रमिष्टापूर्त्तं च नश्यति । यतिस्तु सर्वविप्राणां सर्वेषामग्रतो भवेत् ॥ २,१५.२४ ॥ पञ्च वेदान्सेतिहासान्यः पठेद्द्विजसत्तमः । योगादनन्तरं सोऽथ नियोक्तव्यो विजानता ॥ २,१५.२५ ॥ त्रिवेदोऽनन्तरं तस्य द्विवेदस्तदनन्तरम् । एकवेदस्ततः पश्चादुपाध्यायस्ततः परम् ॥ २,१५.२६ ॥ पावना येऽत्र संख्यातास्तान्प्रवक्ष्ये निबोधत । य एते पूर्वनिर्द्दिष्टाः सर्वे ते ह्यनुपूर्वशः ॥ २,१५.२७ ॥ षडङ्गविद्ध्यानयोगौ सर्वतत्रस्तथैव च । यायावरश्च पञ्चैते विज्ञेयाः पङ्क्तिपावनाः ॥ २,१५.२८ ॥ श्राद्धकल्पे भवेद्यस्तु सन्निपत्य तु पावनः । चतुर्दशानां विद्यानामेकस्यामपि पारगाः ॥ २,१५.२९ ॥ यथावद्वर्त्तमानाश्च सर्वे ते पङ्क्तिपावनाः । असंदेहस्तु सौपर्णाः पञ्चाग्नेयाश्च सामगाः ॥ २,१५.३० ॥ यश्चरेद्विधिवद्विप्र समा द्वादश संततः । त्रिनाचिकेतस्त्रै विद्यो यश्च धर्मान्द्विजः पठेत् ॥ २,१५.३१ ॥ बार्हस्पत्ये महाशास्त्रे यश्च पारङ्गतो द्विजः । सर्वे ते पावना विप्राः पङ्क्तीनां समुदात्दृताः ॥ २,१५.३२ ॥ आमन्त्रितस्तु यः श्राद्धे योषितं सेवते द्विजः । पितरस्तस्य तन्मासं तस्मिन्रितसि शेरते ॥ २,१५.३३ ॥ ध्याननिष्ठाय दातव्यं सानुक्रोशाय धीमते । यतिं वा वालखिल्यं वा भोजयेच्छ्राद्दकर्मणि ॥ २,१५.३४ ॥ वानप्रस्थाय कुर्वाणः पूजामात्रेण तुष्यते । गृहस्थं भोजयेद्यस्तु विश्वेदेवास्तु पूजिताः ॥ २,१५.३५ ॥ वानप्रस्थेन ऋषयो वालखिल्यैः पुरन्दरः । यतीनां तु कृता पूजा साक्षाद्ब्रह्मा तुं पूजितः ॥ २,१५.३६ ॥ आश्रमोऽपावनो यस्तु पञ्चमस्संकरात्मकः । चत्वारस्त्वाश्रमाः पूच्याः श्राद्धे देवे तथैव च ॥ २,१५.३७ ॥ चतुराश्रमबाह्येभ्य स्तेभ्यः श्राद्धे न दापयेत् । यस्तिष्ठेद्वायुभक्षश्च चातुराश्रमबाह्यतः ॥ २,१५.३८ ॥ अनाश्रमीतपस्तेपे न तं तत्र निमन्त्रयेत् । अयतिर्मोक्षवादी च श्रुतौ तौ पङ्क्तिदूषकौ ॥ २,१५.३९ ॥ उग्रेण तपसा युक्ता बहुज्ञाश्चित्रवादिनः । निन्दन्ति च द्विजातिभ्यः सर्वे ते पङ्क्तिदूषकाः ॥ २,१५.४० ॥ औपवस्तास्तथा सांख्या नास्तिका वेदनिन्दकाः । ध्यानं निन्दन्ति ये केचित्सर्वे ते पङ्क्तिदूषकाः ॥ २,१५.४१ ॥ वृथा मुण्डाश्च जटिलाः सर्वे कार्पटिकास्तथा । निर्घृणान्भिन्नवृत्तांश्च सर्वभक्षांश्च वर्जयेत् ॥ २,१५.४२ ॥ कारुकादीननाचारांल्लोकवेदबहिष्कृतान् । गाय नान्वेदवृत्तांश्च हव्यकव्ये न भोजयेत् ॥ २,१५.४३ ॥ एतैस्तु वर्त्तयेद्यस्तु कृष्णवर्णं स गच्छति । योऽश्नाति सह शूद्रेणा सर्वे ते पङ्क्तिदूषणाः ॥ २,१५.४४ ॥ व्याकर्षणं सत्त्वनिबर्हणं च कृषिर्वणिज्या पशुपालनं च । शुश्रूषणं चाप्यगुरोररेर्वाप्यकार्यमेतद्धि सदा द्विजानाम् ॥ २,१५.४५ ॥ मिथ्यासंकल्पिनः सर्वानुद्वृत्तांश्च विवर्जयेत् । मिथ्याप्रवादी निन्दाकृत्तथा सूचकदांभिकौ ॥ २,१५.४६ ॥ उपपातकसंयुक्ताः पातकैश्च विशेषतः । वेदे नियोगदातारो लोभमोहफलर्थिनः ॥ २,१५.४७ ॥ ब्रह्मविक्रयिणस्तान्वै श्राद्धकर्मणि वर्जयेत् । न वियोगास्तु वेदानां यो नियुङ्क्ते स पापकृत् ॥ २,१५.४८ ॥ वक्ता वेदफलाद्भ्रश्येद्दाता दानफलात्तथा । भृतकोऽध्यापयेद्यस्तु भृतकाध्यापितस्तु यः ॥ २,१५.४९ ॥ नार्हतस्तावपि श्राद्धे ब्रह्माणः क्रयविक्रयी । क्रयश्च विक्रयश्चैवाजीवितार्थे विगर्हितौ ॥ २,१५.५० ॥ वृत्तिरेषा तु वैश्यस्य ब्राह्मणस्य तु पातकम् । आहरेद्भृतितो वेदान् वेदेभ्यश्चोपजीवति ॥ २,१५.५१ ॥ उभौ तौ नार्हतः श्राद्धं पुत्रिकापतिरेव च । वृथा दारांश्च यो गच्छेद्यो यजेत वृथाध्वरैः ॥ २,१५.५२ ॥ नार्हतस्तावपि श्राद्धं द्विजो यश्चैव वार्धुषी । स्त्रियो रक्तान्तरा येषां परदारपराश्च ये ॥ २,१५.५३ ॥ अर्थकामरताश्चैव न ताञ्छ्राद्धेषु भोजयेत् । वर्णाश्रमाणां धर्मेषु विरुद्धाःसर्वकर्मणि ॥ २,१५.५४ ॥ स्तेनश्च सर्वयाजी च सर्वे ते पङ्क्तिदूषकाः । यश्च सूकरवद्भुङ्क्ते यश्च पाणितले द्विजः ॥ २,१५.५५ ॥ न तदश्नन्ति पितरो यश्च वाच्यं समश्नुते । स्त्रीशूद्रायान्नमेतद्वै श्राद्धोच्छिष्टं न दापयेत् ॥ २,१५.५६ ॥ यो दद्याच्चानुसंमोहान्न तद्गच्छति वै पितॄन् । तस्मान्न देयमन्नाद्यमुच्छिष्टं श्राद्धकर्मणि ॥ २,१५.५७ ॥ अन्यच्च दधिसर्पिर्भ्यां शिष्टं पुत्राय नान्यथा । अवशेषं तु दातव्यमन्नाद्यं तु विशेषतः ॥ २,१५.५८ ॥ पुष्पमूलफलैर्वापि तुष्टा गच्छेयुरन्ततः । यावन्न श्रपितं चान्नं यावतौष्ण्यं न मुञ्चति ॥ २,१५.५९ ॥ तावदश्नन्ति पितरो यावदश्नन्ति वाग्यताः । दत्तं प्रतिग्रहो होमो भोजनं बलिरेव च ॥ २,१५.६० ॥ सांगुष्ठेन तथा पाद्यं नासुरेभ्यो यथा भवेत् । एतान्येव च सर्वाणि दानानि च विशेषतः ॥ २,१५.६१ ॥ अन्तर्जानूपविष्टेन तद्वदाचमनं भवेत् । मुण्डाञ्जटिलकाषायाञ्श्राद्धकर्मणि वर्जयेत् ॥ २,१५.६२ ॥ ये तु वृत्ते स्थिता नित्यं ज्ञानिनो ध्यानिनस्तथा । देवभक्ता महात्मानः पुनीयुर्दर्शनादपि ॥ २,१५.६३ ॥ शिखिभ्यो धातुरक्तेभ्यस्त्रिदण्डेभ्यः प्रदापयेत् । सर्वं योगेश्वरैर्व्याप्तं त्रैलोक्यं हि निरन्तरम् ॥ २,१५.६४ ॥ तस्मात्पश्यन्ति ते सर्वं यत्किञ्चिज्जगतीगतम् । व्यक्ताव्यक्तं वशे कृत्वा सर्वस्यापि च यत्परम् ॥ २,१५.६५ ॥ सत्यासत्यं च यद्दृष्टं सद सच्च महात्मभिः । सर्वज्ञानानि सृष्टानि मोक्षादीनिमहात्मभिः ॥ २,१५.६६ ॥ तस्मात्तेषां सदा भक्तः फलं प्राप्नोति वोत्तमम् ॥ २,१५.६७ ॥ ऋचश्च यो वेद स वेद वेदान्यजूंषि यो वेद यज्ञम् । सामानि यो वेद स वेद ब्रह्म यो मानसं वेद स वेद सर्वम् ॥ २,१५.६८ ॥ इति श्री ब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे श्राद्धकल्पे ब्राह्मणपरीक्षा नाम पञ्चदशोऽध्यायः ॥ १५॥ _____________________________________________________________ बृहस्पतिरुवाच अतः परं प्रवक्ष्यामि दानानि च फलानि च । तारणं सर्वभूतानां स्वर्गमार्गसुखावहम् ॥ २,१६.१ ॥ लोके श्रेष्ठतं सर्वमात्मनश्चैव यत्प्रियम् । सर्वं पितॄणां दातव्यं तेषामेवाज्ञयार्थिना ॥ २,१६.२ ॥ जांबूनदमयं दिव्यं विमानं सूर्यसन्निभम् । दिव्याप्सरोभिः संपूर्णमन्नदो लभतेऽक्षयम् ॥ २,१६.३ ॥ सव्यञ्जनं तु यो दद्यादहतं श्राद्धकर्मणि । आयुः प्राकाश्यमैश्वर्यं रूपं च लभते शुभम् ॥ २,१६.४ ॥ यज्ञोपवीतं यो दद्याच्छ्राद्धकाले तु यज्ञवित् । पावनं सर्व विप्राणां ब्रह्मदानस्य तत्फलम् ॥ २,१६.५ ॥ प्लुतं विप्रेषु यो दद्याच्छ्राद्धकाले कमडलुम् । मधुक्षीराज्यदधिभिर्दातारमुपतिष्ठते ॥ २,१६.६ ॥ चक्राविद्धं च यो दद्याच्छ्राद्धकाले कमण्डलुम् । धेनुं सलभते दिव्यां पयोदां सुखदो हिनीम् ॥ २,१६.७ ॥ तूलपूर्णे च यो दद्यात्पादुके श्राद्धकर्मणि । शोभनं लभते यानं पादयोः सुखमेधते ॥ २,१६.८ ॥ व्यचनं तालवृन्तं च दत्त्वा विप्राय सत्कृतम् । प्राप्नुयात्सर्वपुष्पाणि सुगन्धीनि मृदूनि च ॥ २,१६.९ ॥ श्राद्धे ह्युपानहौ दत्त्वा ब्राह्मणेभ्यः सदा बुधः । दिव्यं स लभते यानं वाजियुक्तं नवं तथा ॥ २,१६.१० ॥ श्राद्धे छत्रं तु यो दद्यात्पुष्पमालान्वितं तथा । प्रासादो ह्युत्तमो भूत्वा गच्छन्तमनुगच्छति ॥ २,१६.११ ॥ शरणं रत्नसंपूर्णं सशय्याभोजनं बुधः । श्राद्धे दत्त्वा यतिभ्यस्तु नाकपृष्ठे महीयते ॥ २,१६.१२ ॥ सुक्तावैदूर्यवासांसि रत्नानि विविधानि च । वाहनानि च दिव्यानि प्रयुतान्यर्बुदानि च ॥ २,१६.१३ ॥ सुमहद्व्योमगं पुण्यं सर्वकामसमन्वितम् । चन्द्रसूर्यनिभं दिव्यं विमानं लभतेऽक्षयम् ॥ २,१६.१४ ॥ अप्सरोभिः परिवृतं कामगं सुमनोजवम् । वसेत्स तु विमानाग्रे स्तूयमानः समन्ततः ॥ २,१६.१५ ॥ दिव्यैःपुष्पैश्चितश्चाहुर्दानानां परमं बुधाः । सुश्लक्ष्मानि सुवर्णानि श्राद्धे पात्राणि दापयेत् ॥ २,१६.१६ ॥ रसास्तमुपतिष्ठन्ति भक्ष्यं सौभाग्यमेव च । तिलानिक्षूंस्तथा श्राद्धे द्विजेभ्यः संप्रयच्छति ॥ २,१६.१७ ॥ मित्राणि लभते लोके स्त्रीषु सौभाग्यमेव च । यः पात्रं तैजसं दद्यान्मनोज्ञ श्राद्धभोजनैः ॥ २,१६.१८ ॥ पात्रं भवति कामाना रूपस्य च धनस्य च । राजतं काञ्चनं वापि यो दद्याच्छ्राद्धकर्मणि ॥ २,१६.१९ ॥ दानात्तु लभते कामान्प्राकाश्यं धनमेव च । धेनुं श्राद्धे तु यो दद्याद्गृष्टिं कुम्भापदोहनीम् ॥ २,१६.२० ॥ गावस्तमुपतिष्ठन्ति नरं पुष्टिस्तथैव च । दद्याद्यः शिशिरे चाग्निं बहुकाष्ठं प्रयत्नतः ॥ २,१६.२१ ॥ कायाग्निदीप्तिं प्राकाश्यं सौभाग्यं तभते नरः । इन्धनानि तु यो दद्या द्द्विजेभ्यः शिशिरागमे ॥ २,१६.२२ ॥ नित्यं जयति संग्रामे श्रिया जुष्टस्तु जायते । सुरभीणि च माल्यानि गन्धवन्ति तथैव च ॥ २,१६.२३ ॥ पूजयित्वा तु पात्रेभ्यः श्राद्धे सत्कृत्य दापयेत् । गन्धमाल्यं महात्मानं सुखानि विविधानि च ॥ २,१६.२४ ॥ दातारमुपतिष्ठन्ति युवत्यश्च पतिव्रताः । शयनासनयानानि भूमयो वाहनानि च ॥ २,१६.२५ ॥ श्राद्धेष्वेतानि यो दद्यादश्वमेधफलं लभेत् । श्राद्धकाले गुणवति विप्रे वै समुपस्थिते ॥ २,१६.२६ ॥ इष्टद्रव्यं च यो दद्यात्स्मृतिं मेधां च विन्दति । सर्पिःपूर्णानि पात्राणि श्राद्धे सत्कृत्य दापयेत् ॥ २,१६.२७ ॥ कुम्भोपदोहगृष्टीनां बह्वीनां फलमश्नुते । श्राद्धे यथेप्सितं दत्त्वा पुण्डरीकफलं लभेत् ॥ २,१६.२८ ॥ वनं पुष्पफलोपेतं दत्त्वा गोसवमश्नुते । कूपारामतडागानि क्षेत्रगोष्ठगृहाणि च ॥ २,१६.२९ ॥ दत्त्वा मोदन्ति ते स्वर्गे नित्यमाचन्द्रतारकम् । स्वास्तीर्णं शयनं दत्त्वा श्राद्धेरत्नविभूषितम् ॥ २,१६.३० ॥ पितरस्तस्य तुष्यन्ति स्वर्गलोकं समशनुते । अस्मिंल्लोके च संपन्नं स्यन्दनं च सुवाहनैः ॥ २,१६.३१ ॥ अष्टाभिः पूज्यते चात्र धनधान्यैश्च वर्द्धते । पर्णकौशेयपट्टोर्णे तथा प्रावारकंबलौ ॥ २,१६.३२ ॥ अजिनं काञ्चनं पट्टं प्रवेणीं मृगलोमकम् । दद्यादेतानि विप्राणां भोजयित्वा यथाविधि ॥ २,१६.३३ ॥ प्राप्नोति श्रद्धधानस्तु वाजपेयफलं नरः । बहुभार्याः सुरूपाश्च पुत्रा भृत्याश्च किङ्कराः ॥ २,१६.३४ ॥ वशे तिष्ठन्ति भूतानि लोके चास्मिन्निरामयम् । कौशेयं क्षौमकार्पासं दुकूलं गहनं तथा ॥ २,१६.३५ ॥ श्राद्धे चैतानि यो दद्यात्कामानाप्नोत्यनुत्तमान् । अलक्ष्मीं नाशयन्त्येते तमः सूर्योदयो यथा ॥ २,१६.३६ ॥ भ्राजते य विमानाग्रे नक्षत्रेष्विव चन्द्रमाः । वासो हि सर्वदैवत्ये सर्वदेवैरभिष्टुतम् ॥ २,१६.३७ ॥ वस्त्राभावे क्रिया नास्ति य५ आनतपांसि च । तस्माद्वस्त्राणि देयानि श्राद्धकाले तु नित्यशः ॥ २,१६.३८ ॥ तानि सर्वाण्यवाप्नोति श्राद्धे दत्त्वा तु मानवः । नित्यश्राद्धे तु यो दद्यात्प्रयतस्तत्परायणः ॥ २,१६.३९ ॥ सर्वकामानवाप्नोति राज्यं स्वगे तथव च । सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते ॥ २,१६.४० ॥ भक्ष्यजातं तु सुकृतं स्वस्तिकाद्यं सशर्करम् । कृसर मधुसर्पिश्च पयः पायसमेव च ॥ २,१६.४१ ॥ स्निग्धप्रायाश्च यो दद्यादग्निष्टोमफलं लभेत् । दधिगव्यमसंसृष्टं भक्ष्यान्नानाविधांस्तथा ॥ २,१६.४२ ॥ दत्त्वा न शोचते श्राद्धे वर्षासु च मघासु च । घृतेन भोजयेद्विप्रान्घृतं भूमौ समुत्सृजोत् ॥ २,१६.४३ ॥ छायायां हस्तिनश्चैव दत्त्वा श्राद्धेन शोचते । ओदनं पायसं सर्पिर्मधुमूलफलानि च ॥ २,१६.४४ ॥ भक्ष्यांश्च विविधान्दत्त्वा परत्रेह च मोदते । शर्कराक्षीरसंयुक्ताः पृथुका नित्यमक्षयाः ॥ २,१६.४५ ॥ स्यात्तु संवत्सरं प्रीतिः शाकैर्मांसरसेन च । सक्तुलाजास्तथापूपाः कुल्माषा व्यञ्जनैः सह ॥ २,१६.४६ ॥ सर्पिःस्निग्धानि सर्वाणि दध्ना संस्कृत्य भोजयेत् । श्राद्धेष्वेतानि यो दद्यात्पद्मं स लभते निधिम् ॥ २,१६.४७ ॥ नवसस्यानियो दद्याच्छ्राद्धे सत्कृत्य यत्नतः । सर्वभोगानवाप्नोति पूज्यते च दिवं गतः ॥ २,१६.४८ ॥ भक्ष्यभोज्यानि पेयानि चोष्यलेङ्यवराणि च । भोजनाग्रासनं दत्त्वा अतिथिभ्यः कृताञ्जलिः ॥ २,१६.४९ ॥ सर्वयज्ञक्रतूनां हि फलं प्राप्नोत्यनुत्तमम् । क्षिप्रमत्युष्णमक्लिष्टं दद्यादन्नं बुभुक्षते ॥ २,१६.५० ॥ सव्यञ्जनं तथा स्निग्धं भक्त्या सत्कृत्य यत्नतः । तरुणादित्यसंकाशं विमानं हंसवाहनम् ॥ २,१६.५१ ॥ अन्नदो लभते नित्यं कन्याकोटीस्तथैव च । अन्नदानात्परं दानं नान्यत्किञ्चित्तु विद्यते ॥ २,१६.५२ ॥ अन्नाद्भूतानि जायन्ते जीवन्ति प्रभवन्ति च । जीवदानात्परं दानं नान्यत्किञ्चन विद्यते ॥ २,१६.५३ ॥ अन्नाल्लोकाः प्रतिष्ठन्ति लोकदानस्य तत्फलम् । अन्नं प्रजापतिः साक्षात्ते न सर्वमिदं ततम् ॥ २,१६.५४ ॥ तस्मादन्नसमं दानं न भूतं न भविष्यति । यानि रत्नानि मेदिन्यां वाहनानि स्त्रियस्तथा ॥ २,१६.५५ ॥ क्षिप्रं प्राप्नोति तत्सर्वं पितृभक्तस्तु यो नरः । प्रतिश्रयं च यो दद्यादतिथिब्यः कृताञ्जलिः ॥ २,१६.५६ ॥ देवास्तं संप्रतीच्छन्ति दिव्यातिथ्यैः सहस्रशः । सर्वाण्येतानि यो दद्यात्पृथिव्यामेकराड्भवेत् ॥ २,१६.५७ ॥ त्रिभिर्द्वाभ्यामथैकेन दानेन तु सुखी भदेत् । दानानि परमो धर्मः सद्भिः सत्कृत्य पूजितः ॥ २,१६.५८ ॥ त्रैलोक्यस्या धिपत्यं हि दानेनैव ध्रुवं स्थितम् । अराजा लभते राज्यमधनश्चोत्तमं धनम् । क्षीणायुर्लभते चायुः पितृभक्तः सदा नरः ॥ २,१६.५९ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे श्राद्धकल्पे दानप्रशंसा नाम षोडशोऽध्यायः ॥ १६॥ _____________________________________________________________ बृहस्पतिरुवाच अत ऊर्द्ध्वं प्रवक्ष्यामि श्राद्धकर्मणि पूजितम् । काम्यं नैमित्तिकाजस्रं श्राद्धकर्मणि नित्यशः ॥ २,१७.१ ॥ पुत्रदारनिमित्ताः स्युरष्टकास्तिस्न एव तु । कृष्णपक्षे वरिष्ठा हि पूर्वाखण्डलदेवता ॥ २,१७.२ ॥ प्राजापत्या द्वितीया स्यात्तृतीया वैश्वदेविका । आद्यापूपैः सदाकार्या मांसैरन्या सदा भवेत् ॥ २,१७.३ ॥ शाकैः कार्या तृतीया स्यादेवं द्रव्यगतो विधिः । अत्रापीष्टं पितॄणां वै नित्यमेव विधीयते ॥ २,१७.४ ॥ या चाप्यन्या चतुर्थी स्यात्तां च कुर्याद्विशेषतः । आसु श्राद्धं बुधः कुर्वन्सर्वस्वेनापि नित्यशः ॥ २,१७.५ ॥ क्षिप्रमाप्नोति हि श्रेयः परत्रेह च मोदते । पितरः पर्वकालेषु तिथिकालेषु देवताः ॥ २,१७.६ ॥ सर्वेषु पुरुषा यान्ति निपातमिव धेनवः । मासांते प्रतिगच्छेयुरष्टकासु ह्यपूजिताः ॥ २,१७.७ ॥ मोघास्तस्य भवन्त्याशाः परत्रेह च सर्वशः । पूजकानां समुत्कर्षो नास्तिकानामधोगतिः ॥ २,१७.८ ॥ देवास्तु दायिनो यान्ति तिर्यग्गच्छन्त्यदायिनः । पुष्टिं प्रजां स्मृतिं मेधां पुत्रानैश्वर्यमेव च ॥ २,१७.९ ॥ कुर्वाणः पूजनं चासु सर्वं पूर्णं समश्नुते । प्रतिपद्धनलाभाय लब्धं चास्य न नश्यति ॥ २,१७.१० ॥ द्वितीयायां तु यः कुर्याद्द्विपदाधिंपतिर्भवेत् । वरार्थिनां तृतीया तु शत्रुघ्नी पापनाशिनी ॥ २,१७.११ ॥ चतुर्थ्यां तु प्रकुर्वाणः शत्रुच्छिद्राणि पश्यति । पञ्चम्यां चापिकुर्वाणः प्राप्नोति महतीं श्रियम् ॥ २,१७.१२ ॥ षष्ठ्यां श्राद्धानि कुर्वाणः संपूज्यः स्यात्प्रयत्नतः । कुरुते यस्तु सप्तम्यां श्राद्धानि सततं नरः ॥ २,१७.१३ ॥ महीशत्वमवाप्नोति गणानां चाधिपो भवेत् । संपूर्णामृद्धिमाप्नोति योऽष्टम्यां कुरुते नरः ॥ २,१७.१४ ॥ श्राद्धं नवम्यां कर्त्तव्यमैश्वर्यं स्त्रीश्च काङ्क्षता । कुर्वन्दशम्यां तु नरो ब्राह्मीं श्रियमवाप्नुयात् ॥ २,१७.१५ ॥ वेदांश्चैवाप्नुयात्सर्वान्विप्राणां समतां व्रजेत् । एकादश्यां परं दानमैश्वर्य सततं तथा ॥ २,१७.१६ ॥ द्वादश्यां जयलाभं च राज्यमायुर्वसूनि च । प्रजावृद्धिं पशून्मेधां स्वातन्त्र्यं पुष्टिमुत्तमाम् ॥ २,१७.१७ ॥ दीर्घमायुरथैश्वर्यं कुर्वाणस्तु त्रयोदशीम् । युवानश्च गृहे यस्य मृतास्तेभ्यः प्रदापयेत् ॥ २,१७.१८ ॥ शस्त्रेण वा हता ये च तेषां दद्याच्चतुर्दशीम् । अमावास्यां प्रयत्नेन श्राद्धं कुर्यात्सदा शुचिः ॥ २,१७.१९ ॥ सर्वकामानवाप्नोति स्वर्गं चानन्तमश्नुते । तथाविषमजातानां यमलानां च सर्वशः ॥ २,१७.२० ॥ श्राद्धं दद्यादमावास्यां सर्वकामानवाप्नुयात् । मघासु कुर्वञ्छ्राद्धानि सर्वकामानवाप्नुयात् ॥ २,१७.२१ ॥ प्रत्यक्षमर्चितास्तेन भवन्ति पितरस्तदा । पितृदवा मघा यस्मात्तस्मात्तास्वक्षयं स्मृतम् ॥ २,१७.२२ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे श्राद्धकल्पे तिथिश्राद्धवर्णनं नाम सप्तदशोऽध्यायः ॥ १७॥ _____________________________________________________________ बृहस्पतिरुवाच यमस्तु यानि श्राद्धानि प्रोवाच शशबिन्दवे । तानि मे शृणु कार्याणि नक्षत्रेषु पृथक्पृथक् ॥ २,१८.१ ॥ श्राद्धं यः कृत्तिकायोगं कुरुते सततं नरः । अग्नीनाधाय स स्वर्गे राजते सुदृढव्रतः ॥ २,१८.२ ॥ अपत्यकामो रोहिण्यां सौम्ये तेजस्विना भवेत् । प्रायशः क्रूरकर्माणि आर्द्रायां श्राद्धमाचरन् ॥ २,१८.३ ॥ क्षेत्रभागी भवेत्पुत्री श्राद्धं कृत्वा पुनर्वसौ । पुष्टिकामः पुनस्तिष्ये श्राद्धं कुर्वीत मानवः ॥ २,१८.४ ॥ आश्लेषासु पितॄनर्चन्वीरान्पुत्रानवाप्नुयात् । जातीनां भवति श्रेष्ठो मघासु श्राद्धमाचरन् ॥ २,१८.५ ॥ फाल्गुनीषु पितॄनर्चन्सौभाग्यं लभते नरः । प्रदानशीलः सापत्य उत्तरासु करोति यः ॥ २,१८.६ ॥ संसत्सु मुख्यो भवति हस्तेऽभ्यर्च्य पितॄनपि । चित्रायां चैव यः कुर्यात्पश्येद्रूपवतः सुतान् ॥ २,१८.७ ॥ स्वातिना चैव यः कुर्याद्वाणिज्ये लाभमाप्नुयात् । पुत्रार्थी तु विशाखासु श्राद्धमीहेत मालवः ॥ २,१८.८ ॥ अनुराधासु कुर्वाणो नरश्चक्रं प्रवर्त्तयेत् । आधिपत्यं भवेच्छ्रेष्ठं ज्येष्ठायां सततं तु यः ॥ २,१८.९ ॥ मूलेनारोग्यमिच्छन्ति ह्याषाढासु महद्यशः । उत्तरासु तु कुर्वाणो वीतशोको भवेन्नरः ॥ २,१८.१० ॥ श्रवणेन तु लोकेषु प्राप्नुयात्परमां गतिम् । राज्यभागी धनिष्ठासु प्राप्नुया द्विपुलं धनम् ॥ २,१८.११ ॥ श्राद्धनिर्जितलोकश्च वेदान् सांगानवाप्नुयात् । नक्षत्रैर्वारुणैः कुर्वन्भिषक्सिद्धिमवाप्नुयात् ॥ २,१८.१२ ॥ पूर्वप्रौष्ठ पदे कुर्वन्विन्देताजीविकान्बहून् । उत्तरास्वनतिक्रम्य विन्देद्गा वै सहस्रशः ॥ २,१८.१३ ॥ बहुकुप्यकृतं द्रव्यं विन्देत्कुर्वन्सुरेवतीम् । अश्वानश्वयुजा भक्तो भरण्यां साधुसत्तमः ॥ २,१८.१४ ॥ इमं श्राद्धविधिं कुर्वञ्छशबिन्दुर्महीमिमाम् । कृत्स्नां बलेन सोऽक्लिष्ठो लभ्ध्वा च प्रशशास ह ॥ २,१८.१५ ॥ इति श्री ब्रहामाण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे श्राद्धकल्पे नक्षत्रश्राद्धं नाम अष्टादशोऽध्यायः ॥ १८॥ _____________________________________________________________ शंयुरुवाच किं स्विद्दत्तं पितॄणां तु तृप्तिदं वदतां वर । किंस्वित्स्याच्चिररात्राय किं वानन्त्याय कल्पते ॥ २,१९.१ ॥ बृहस्पतिरुवाच हवीषि श्राद्धकल्पे तु यानि श्राद्धविदो विदुः । तानि मे शृणु सर्वाणि फलं चैषां यथातथम् ॥ २,१९.२ ॥ तिलैर्व्रीहियवैमाषैरद्भिर्मूलफलैस्तथा । दत्तेन मासं प्रीयन्ते श्राद्धेन हि पितामहाः ॥ २,१९.३ ॥ मत्स्यैः प्रीणन्ति द्वौ मासौ त्रीन्मासान्हारिणेन तु । शाशेन चतुरो मासान्पञ्च प्रीणाति शाकुनैः ॥ २,१९.४ ॥ वाराहेण तु षण्मासाञ्छागलं सप्तमासिकम् । अष्टमासिकमित्युक्तं यच्च पार्वतकं भवेत् ॥ २,१९.५ ॥ रौरवेण तु प्रीयन्ते नव मासान्पितामहाः । गवयस्य तु मांसेन तृप्तिः स्याद्दशमासिकी ॥ २,१९.६ ॥ औरभ्रेण च मांसेन मासानेकादशैव तु । श्राद्धे च तृप्तिदं गव्यं पयः संवत्सरं द्विजाः ॥ २,१९.७ ॥ आनन्त्याय भवेत्तद्वत्खड्गमांसं पितृक्षये । पायसं मधुसर्पिर्भ्यां छायायां कुञ्जरस्य च ॥ २,१९.८ ॥ कृष्णच्छागस्य मासेन तृप्तिर्भवति शाश्वती । अत्र गाथाः पितृगीताः कीर्तयन्ति पुराविदः ॥ २,१९.९ ॥ तास्तेऽहं कीर्त्तयिष्यामि यथावत्सन्निबोध मे । अपि नः स कुले यायाद्यो नो दद्यात्त्रयोदशीम् ॥ २,१९.१० ॥ आजेन सर्वलोहेन वर्षासु च मघासु च । एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् । गौरीं वाप्युद्वहेद्भार्यां नालं वा वृषमुत्सृजेत् ॥ २,१९.११ ॥ शंयुरुवाच गयादीनां फलं तात ब्रूहि मे परिपृच्छतः । दातॄणां चैव यत्पुण्यं निखिलेन प्रवीहि मे ॥ २,१९.१२ ॥ बृहस्पतिरुवाच गयायामक्षयं श्राद्धञ्जपहोमतपांसि च । पितृक्षये हि तत्पुत्र तस्मात्तत्राक्षयं स्मृतम् ॥ २,१९.१३ ॥ पूर्णायामेकविंशं तु गौर्यामुत्पादितः सुतः । महामहांश्च जुहुयादिति तस्य फलं स्मृतम् । फलं वृषस्य वक्ष्यामि गदतो मे निबोधत ॥ २,१९.१४ ॥ वृषोत्स्रष्टा पुनात्येव दशातीतान्दशावरान् ॥ २,१९.१५ ॥ यत्किञ्चित्स्पृशते तोयमवतीर्णो नदीजले । वृषोत्सर्ग्गत्पितॄणां तु ह्यक्षयं समुदाहृतम् ॥ २,१९.१६ ॥ येनयेन स्पृशेत्तोयं लाङ्गूलादिभिरङ्गशः । सर्वं तदक्षयं तस्य पितॄणां नात्र संशयः ॥ २,१९.१७ ॥ शृङ्गैः खुरैर्वा भूमिं यामुल्लिखत्यनिशं वृषः । मधुकुल्याः पितॄंस्तस्य ह्यक्षयाश्च भवन्ति वै ॥ २,१९.१८ ॥ सहस्रनल्वमात्रेण तडागेन यथास्रुतिः । तृप्तिस्तु या पितॄणां वै सा वृषेणेह कल्पते ॥ २,१९.१९ ॥ यो ददाति गुडोन्मिश्रतिलानि श्राद्धकर्मणि । मधु वामधुमिश्रं वा सर्वमेवाक्षयं भवेत् ॥ २,१९.२० ॥ न ब्राह्मणं परिक्षेत सदा देयं हि मानवैः । दैवेकर्मणि पित्र्ये च श्रूयते वै परीक्षणम् ॥ २,१९.२१ ॥ सर्ववेदव्रतस्नाताः पङ्क्तीनां पावना द्विजाः । ये च भाषाविदः केचिद्ये च व्याकरणे रताः ॥ २,१९.२२ ॥ अधीयते पुराणं वै धर्मशास्त्रमथापि च । त्रिणाचिकेतः पञ्चाग्निः स सौपर्णः षडङ्गवित् ॥ २,१९.२३ ॥ ब्रह्मदेवसुतश्चैव च्छन्दोगो ज्येष्ठसामगः । पुण्येषु यश्च तीर्थेषु कृतस्नानः कृतव्रतः ॥ २,१९.२४ ॥ मखेषु ये च सर्वेषु भवन्त्यवभृथाप्लुताः । ये च सत्यव्रता नित्यं स्वधर्मनिरताश्च ये ॥ २,१९.२५ ॥ अक्रोधना लोभपरास्ताञ्छ्राद्धेषु निमन्त्रयेत् । एतेभ्यो दत्तमक्षय्यमेते वै पङ्क्तिपावनाः ॥ २,१९.२६ ॥ श्राद्धीया ब्रह्मणा ये तु योगव्रतसुनिष्ठिताः । त्रयोऽपि पूजितास्तेन ब्रह्मविष्णुमहेश्वराः ॥ २,१९.२७ ॥ पितृभिः सह लोकाश्च यो ह्येतान्पूजयेन्नरः । पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम् ॥ २,१९.२८ ॥ प्रथमः सर्वधर्माणां योगधर्मो निगद्यते । अपाङ्क्तेयान्प्रवक्ष्यमि गदतो मे निबोधत ॥ २,१९.२९ ॥ कितवो मद्यपो यश्च पशुपालो निराकृतः । ग्रामप्रेष्यो वार्धुषिको ह्यापणो वणिजस्तथा ॥ २,१९.३० ॥ अगार दाही गरदो वृषलो ग्रामयाजकः । काण्डपृष्ठोऽथ कुण्डाशी मधुपः सोमविक्रयी ॥ २,१९.३१ ॥ समुद्रान्तरितो भृत्यः पिशुनः कूटसाक्षिकः । पित्रा विवदमानश्च यस्य चोपपतिर्गृहे ॥ २,१९.३२ ॥ अभिशस्तस्तथा स्तेनः शिल्पं यश्चोपजीवति । स्तवकः सूपकारश्च यश्च मित्राणि निन्दति ॥ २,१९.३३ ॥ काणश्च खञ्जकश्चैव नास्तिको वेदवर्जितः । उन्मत्तोऽप्यथ षण्ढश्च भ्रूणहा गुरुतल्पगः ॥ २,१९.३४ ॥ भिषग्जीवी प्राशनिकः परस्त्रीं यश्च सेवते । विक्रीणाति च यो ब्रह्मव्रतानि नियमांस्तथा ॥ २,१९.३५ ॥ नष्टं स्यान्नास्तिके दत्तं व्रतघ्ने चापवर्जितम् । यच्चवाणिजके दत्तं नेह नामुत्र संभवेत् ॥ २,१९.३६ ॥ निक्षेपहारके चैव कृतघ्ने विदवर्जिते । तथा पाणविके वै च कारुके धर्मवर्जिते ॥ २,१९.३७ ॥ क्रीणाति यो ह्यपण्यानि विक्रीणाति प्रशंसति । अन्यत्रास्य समाधानं न वणिकूछ्राद्धमर्हति ॥ २,१९.३८ ॥ भस्मनीव हुतं हव्यं दत्तं पौनर्भवे द्विजः । षष्टिं काणः शतं षण्ढः श्वित्री पञ्चशतान्यपि ॥ २,१९.३९ ॥ पापरोगी सहस्रं वै दातुर्नाशयते फलम् । भ्रश्येद्धि स फलात्तस्मात्प्रदाता यस्तु बालिशः ॥ २,१९.४० ॥ यद्विष्टितशिरा भुङ्क्ते यद्भुङ्क्ते दक्षिणामुखः । सोपानत्कश्च यद्भुङ्क्ते यच्च दत्तमसत्कृतम् ॥ २,१९.४१ ॥ सर्वं तदसुरेद्राय ब्रह्मा भागमकल्पयत् । श्वा चैव ब्रह्महा चैव नावेक्षेत कथञ्चन ॥ २,१९.४२ ॥ तस्मात्परिवृतैर्दद्यात्तिलैश्चान्नं विकीर्य च । राक्षसानां तिलाः प्रोक्ताः शुनां परिवृतास्तथा ॥ २,१९.४३ ॥ दर्शनात्सूकरो हन्ति पक्षवातेन कुक्कुटः । रजस्वलायाः स्पर्शेन क्रुद्धोयश्च प्रयच्छति ॥ २,१९.४४ ॥ नदीतीरेषु रम्येषु सरित्सु च सरस्सु च । विविक्तेषु च प्रीयन्ते दत्तेनेह पितामहाः ॥ २,१९.४५ ॥ नासव्यंपातयेज्जानु न युक्तो वाचमीरयेत् । तस्मात्परिवृतेनेह विधिवद्दर्भपाणिना ॥ २,१९.४६ ॥ पित्रोराराधनं कार्यमेवं प्रीणयते पितॄन् । अनुमान्य द्विजान्पूर्वमर्गौं कुर्याद्यथाविधि ॥ २,१९.४७ ॥ पितॄणां निर्वपेद्भूमौ सूर्ये वा दर्भसंस्तरे । शुक्लपक्षे च पूर्वाङ्णे श्राद्धं कुर्याद्यथाविधि ॥ २,१९.४८ ॥ कृष्णपक्षेऽपरङ्णे तु रौहिणं वै न लङ्घयेत् । एवमेते महात्मानो महायोगा महौजसः ॥ २,१९.४९ ॥ सदा वै पितरः पूज्याः सं प्राप्तौ देशकालयोः । पितृभक्त्यैव तु नरो योगं प्राप्नोति दुर्ल्लभम् ॥ २,१९.५० ॥ ध्यानेन मोक्षं गच्छेद्धि हित्वा कर्म शुभाशुभम् । यज्ञहेतोस्तदुद्धृत्य मोहयित्वा जगत्तथा ॥ २,१९.५१ ॥ गुहायां निहितं ब्रह्म कश्यपेन महात्मना । अमृतं गुह्यमुद्धृत्य योगे योगविदां वराः ॥ २,१९.५२ ॥ प्रोक्तः सनत्कुमारेण महातो ब्रह्मणः पदम् । देवानां परमं गुह्यमृषीणां च परायणम् ॥ २,१९.५३ ॥ पितृभक्त्या प्रयत्नेन प्राप्य ते तन्मनीषिभिः । पितृभक्तः समासेन पितृपूर्वपरश्च यः ॥ २,१९.५४ ॥ अयत्नात्प्राप्नुयादेव सर्वमेतन्न संशयः ॥ २,१९.५५ ॥ बृहस्पतिरुवाच यस्मैश्राद्धानि देयानि यच्च दत्तं महत्फलम् । येषु चाप्यक्षयं श्राद्धं तीर्थेषु च गुहासु च ॥ २,१९.५६ ॥ येषु स्वर्गमवाप्नोति तत्ते प्रोक्तं ससंग्रहम् । श्रुत्वेमं श्राद्धकल्पं च न कुर्याद्यस्तु मानवः ॥ २,१९.५७ ॥ स मज्जेन्नरके घोरे नास्तिकस्तमसावृते । परिवादो न कर्त्तव्यो योगिनां तु विशेषतः ॥ २,१९.५८ ॥ परिवादात्क्रिमिर्भूत्वा तत्रैव परिवर्त्तते । योगान्परिवदेद्यस्तु ध्यानिनो मोक्षकाङ्क्षिणः ॥ २,१९.५९ ॥ स गच्छेन्नरकं घोरं श्रोताप्यस्य न संशयः । आवृतं तमसः सर्वं नरकं घोरदर्शनम् । योगीश्वरपरीवादान्न स्वर्गं याति मानवः ॥ २,१९.६० ॥ योगेश्वराणामा क्रोशं शृणुयाद्यो यतात्मनाम् । सहि कालं चिरं मज्जेन्नरके नात्र संशयः । कुंभीपाकेषु पच्यन्ते जिह्वाच्छेदे पुनः पुनः ॥ २,१९.६१ ॥ समुद्रे च यथा लोषटस्तद्बत्सीदन्ति ते नराः । मनसा कर्मणा वाचा द्वेषं योगेषु वर्जयेत् । प्रोत्यानन्तं फलं भुङ्क्त इह वापि न संशयः ॥ २,१९.६२ ॥ न पारगो विन्दति परमात्मनस्त्रिलोकमध्ये चरति स्वकर्ममिः । ऋचो यजुः साम तदङ्गपारगेऽविकारमेतं ह्यनवाप्य सीदति ॥ २,१९.६३ ॥ विकारपारं प्रकृतेश्च पारगस्त्रयीगुणाना त्रिगुणस्य पारगः । यः स्याच्चतुर्विशतितत्त्वपारगः स पारगो नाध्ययनस्य पारगः ॥ २,१९.६४ ॥ कृत्स्नं यथावत्समुपैति तत्परस्तथैव भूयः प्रलयत्वमात्मनः । प्रत्याहरेद्योगपथं न यो द्विजो न सर्वपार क्रमपारगोचरः ॥ २,१९.६५ ॥ वेदस्य वेदितव्यं च वेद्यं विन्दति योगवित् । तं वै वेदविदः प्राहुस्तमाहुर्वेदपारगम् ॥ २,१९.६६ ॥ वेदं च वेदितव्यं च विदित्वा वै यथास्थितः । एवं वेदविदः प्राहुरन्यं वै वेदपारगम् ॥ २,१९.६७ ॥ यज्ञान्वेदांस्तथा कामांस्तपांसि विविधानि च । प्राप्नोत्यायुः प्रजाश्चैव पितृभक्तो न सशयः ॥ २,१९.६८ ॥ श्रद्धया श्राद्धकल्पं तु यस्त्विमं नियतः पठेत् । सर्वाण्येतानि वाप्नोति तीर्थदानफलानि च ॥ २,१९.६९ ॥ स पङ्क्तिपावनश्चैव द्विजानामग्रभुग्भवेत् । आश्राव्य च द्विजान्सोऽथ सर्वकामानवाप्नुयात् ॥ २,१९.७० ॥ यश्चैतच्छृणुयान्नित्यम न्यांश्च श्रावयेद्द्विजः । अनसूयुर्जितक्रोधो लोभमोहविवर्जितः ॥ २,१९.७१ ॥ तीर्थादीनां फलं प्राप्य दानादीनां च सर्वशः । मोक्षोपायं लभेच्छ्रेष्ठं स्वर्गोपायं न संशयः । इह चापि परा पुष्ठिस्तस्मात्कुर्वीत नित्यशः ॥ २,१९.७२ ॥ इमं विधिं यो हि पठेदतन्द्रितः समाहितः संसदि पर्वसंधिषु । अपत्यभागी च परेण तेजसा दिवौकसां स व्रजते सलोकताम् ॥ २,१९.७३ ॥ येन प्रोक्तस्त्वयं कल्पो नमस्तस्मै स्वयंभुवे । महायोगेश्वरेभ्यश्च सदा च प्रणतोऽस्म्यहम् ॥ २,१९.७४ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे श्राद्धकल्पे ब्रह्मणपरीक्षा नाम एकोनविंशोऽध्यायः ॥ १९॥ _____________________________________________________________ बृहस्पतिरुवाच इत्येते पितरो देवा देवानामपि देवताः । सप्तस्वेते स्थिता नित्यं स्थानेषु पितरोऽव्ययाः ॥ २,२०.१ ॥ प्रजापतिसुता ह्येते सर्वेषां तु महात्मनाम् । आद्यो गणस्तु योगानामनुयोगविवर्द्धनः ॥ २,२०.२ ॥ द्वितीयो देवतानां तु तृतीयो दानवादिनाम् । शेषास्तु वर्णिंनां ज्ञेया इति सर्वे प्रकीर्त्तिताः ॥ २,२०.३ ॥ देवास्छैतान्यजन्ते वै सर्वज्ञानेष्ववस्थितान् । आश्रमश्च यजन्त्येनांश्चत्वारस्तु यथाक्रमम् ॥ २,२०.४ ॥ सर्वे वर्णा यजन्त्येनांश्चत्वारस्तु यथागमम् । तथा संकरजात्यश्च म्लेच्छाश्चापि यजन्ति वै ॥ २,२०.५ ॥ पितृंस्तु यो यजेद्भक्त्या पितरः प्रीणयन्ति ते । पितरः पुष्टिकामस्य प्रजाकामस्य वा पुनः ॥ २,२०.६ ॥ पुष्टिं प्रजां तु स्वर्गं च प्रयच्छन्ति पितामहाः । देवकार्यादपि तथा पितृकार्यं विशिष्यते ॥ २,२०.७ ॥ देवतानां हि पितरः पूर्वमाप्यायनं स्मृताः । न हि योगगतिः सूक्ष्मा पितॄणां ज्ञायते नरैः ॥ २,२०.८ ॥ तपसा हि प्रसिद्धेन किं पुनर्मांसचक्षुषा । सर्वेषां राजतं पात्रमथ वा रजतान्वितम् ॥ २,२०.९ ॥ पावनं ह्युत्तमं प्रोक्तं देवानां पितृभिः सह । येषां दास्यन्ति पिण्डांस्त्रीन्बान्धवा नामगोत्रतः ॥ २,२०.१० ॥ भूमौ कुशोत्तरायां च अपसव्यविधानतः । सर्वत्र वर्त्तमानास्ते पिण्डाः प्रीणन्ति वै पितॄन् ॥ २,२०.११ ॥ यदाहारो भवेज्जन्तुराहारः सोऽस्य जायते । यथा गोष्ठे प्रनष्टां वै वत्सो विन्दति मातरम् ॥ २,२०.१२ ॥ तथा तं नयते मन्त्रो जन्तुर्यत्रावतिष्ठति । नामगोत्रं च मन्त्रं च दत्तमन्नं नयन्ति तम् ॥ २,२०.१३ ॥ अपि योनिशतं प्राप्तांस्तृप्तिस्ताननुगच्छति । एवमेषा स्थिता सत्ता ब्रह्मणः परमेष्ठिनः ॥ २,२०.१४ ॥ पितॄणमादिसर्गेतु लोकानामक्षयार्थिनाम् । इत्येते पितरश्चैव लोका दुहितरस्तथा ॥ २,२०.१५ ॥ दौहित्रा यजमानश्च प्रोक्ताश्चैव मयानघ । कीर्त्तिताः पितरस्ते वै तव पुत्र यथाक्रमम् ॥ २,२०.१६ ॥ शंयुरुवाच अहो दिव्यस्त्वया तात पितृसर्गस्तु कीर्तितः । लोका दुहितरश्चैव दोहित्राश्च श्रुतास्तथा ॥ २,२०.१७ ॥ दानानि सह शौचेन कीर्त्तितानि फलानि च । अक्षय्यत्वं द्विजांश्चैव सर्वमेतदुदाहृतम् । अद्यप्रभृति कर्त्तास्मि सर्वमेतद्यथातथम् ॥ २,२०.१८ ॥ बृहस्पतिरुवाच इत्येतदङ्गिराः पूर्वमृषीणामुक्तवान्प्रभुः । पृष्टश्च संशयान्सर्वानृषीनाह नृसंसदि ॥ २,२०.१९ ॥ सत्रे तु वितते पूर्वं तथा वर्षसहस्रके । यस्मिन्सदस्पतिस्नातो ब्रह्मा सीद्देवताप्रभुः ॥ २,२०.२० ॥ गतानि तत्र वर्षाणां पञ्चाशच्च शतानि वै । श्लोकाश्चात्र पुरा गीता ऋषिभिर्ब्रह्मवादिभिः ॥ २,२०.२१ ॥ दीक्षितस्य पुरा सत्रे ब्रह्ममः परमात्मनः । तत्रैव दत्तमन्नाग्रं पितॄणामक्षयर्थिनाम् । लोकानां च हितार्थाय ब्रह्मणा परमेष्ठिना ॥ २,२०.२२ ॥ सूत उवाच एवं बृहस्पतिः पूर्वं पृष्टः पुत्रेण धीमता । प्रोवाच पितृसर्गं तु यश्चैव समुदाहृत ॥ २,२०.२३ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे श्राद्धकल्पो नाम विंशतितमोऽध्यायः ॥ २०॥ _____________________________________________________________ समाप्तश्चायं श्राद्धकल्पः । वसिष्ठ उवाच इत्थं प्रवर्त्तमानस्य जमदग्नेर्महात्मनः । वर्षाणि कतिचिद्राजन्व्यतीयुरमितौजसः ॥ २,२१.१ ॥ रामोऽपि नृपशार्दूल सर्वधर्मभृतां वरः । वेदवेदाङ्गतत्त्वज्ञः सर्वशास्त्रविशारदः ॥ २,२१.२ ॥ पित्रोश्चकार शुश्रूषां विनीतात्मा महामतिः । प्रीतिं च निजचेष्टाभिरन्वहं पर्यवर्त्तयत् ॥ २,२१.३ ॥ इत्थं प्रवर्त्तमानस्य वर्षाणि कतिचिन्नृप । पित्रोः शुश्रूषयानैषीद्रामो मतिमतां वरः ॥ २,२१.४ ॥ स कदाचिन्महातेजाः पितामह गुहं प्रति । गन्तुं व्यवसितो राजन्दैवेन च नियोजितः ॥ २,२१.५ ॥ निपीड्य शिरसा पित्रोश्चरणौ भृगुपुङ्गवः । उवाच प्राञ्जलिर्भूतवा सप्रश्रयमिदं वचः ॥ २,२१.६ ॥ कञ्चिदर्थमहं तात मातरं त्वां च साम्प्रतम् । विज्ञापयितुमिच्छामि मम तच्छ्रोतुमर्हथः ॥ २,२१.७ ॥ पितामहमहं द्रष्टुमुत्कण्ठितमनाश्चिरम् । तस्मात्तत्पार्श्वमधुना गमिष्ये वामनुज्ञया ॥ २,२१.८ ॥ आहूतश्चासकृत्तात सोत्कण्ठं प्रीयमाणया । पितामह्या बहुमुखैरिच्छन्त्या मम दर्शनम् ॥ २,२१.९ ॥ पितॄन्पितामहस्यापि प्रियमेव प्रदर्शनम् । सदीयं तेन तत्पार्श्वं गन्तुं मामनुजानत ॥ २,२१.१० ॥ वसिष्ठ उवाच इति तस्य वचः श्रुत्वा संभ्रान्तं समुदीरितम् । हर्षेण महता युक्तौ साश्रुनेत्रौ बभूवतुः ॥ २,२१.११ ॥ तमालिङ्ग्य महाभागं मूर्ध्न्युपाघ्राय सादरम् । अभिनन्द्याशिषा तात ह्युभौ ताविदमाहतुः ॥ २,२१.१२ ॥ पितामहगृहं तात प्रयाहि त्वं यथासुखम् । पितामहपितामह्योः प्रीतये दर्शनाय च ॥ २,२१.१३ ॥ तत्र गत्वा यथान्यायं तं शुश्रूषा परायणः । कञ्चित्कालं तयोर्वत्स प्रीतये वस तद्गृहे ॥ २,२१.१४ ॥ स्थित्वा नातिचिरं कालं तयोर्भूयोऽप्यनुशय । अत्रागच्छ महाभाग क्षेमेणास्मद्दिदृक्षया ॥ २,२१.१५ ॥ क्षणार्द्धमपि शक्ताः स्थो न विना पुत्रदर्शनम् । तस्मात्पितामह गृहे न चिरात्स्थातुमर्हसि ॥ २,२१.१६ ॥ तदाज्ञयाथ वा पुत्र प्रपितामहसन्निधिम् । गतोऽपि शीघ्रमागच्छ क्रमेण तदनुज्ञया ॥ २,२१.१७ ॥ वसिष्ठ उवाच इत्युक्तस्तौ परिक्रम्य प्रणम्य च महामतिः । पितरावप्यनुज्ञाप्य पितामहगृहं ततः ॥ २,२१.१८ ॥ स गत्वा भृगुवर्यस्य ऋचीकस्य महात्मनः । प्रविवेशाश्रमं रामो मुनिशिष्योपशोभितम् ॥ २,२१.१९ ॥ स्वाध्यायघोषैर्विपुलैः सर्वतः प्रतिनादितम् । प्रशान्तवैर सत्त्वाढ्यं सर्वसत्त्वमनोहरम् ॥ २,२१.२० ॥ स प्रविश्यश्रमं रम्यमृचीकं स्थितमासने । ददर्श रामो राजेन्द्र स पितामहमग्रतः ॥ २,२१.२१ ॥ जाज्वल्यमानं तपसा धिष्ण्यस्थमिव पावकम् । उपासितं सत्यवत्या यथा दक्षिणायऽध्वरम् ॥ २,२१.२२ ॥ स्वसमीपमुपायान्तं राममालोक्य तौ नृप । सुचिरं तं विमर्शेतां समाज्ञापूर्वदर्शनौ ॥ २,२१.२३ ॥ कोऽयमेष तपोराशिः सर्वलत्रणपूजितः । बालोऽयं बलवान्भातिगांभीर्यात्प्रश्रयेण च ॥ २,२१.२४ ॥ एवं तयोश्चिन्तयतोः सहर्षं हृदि कौतुकात् । आससाद शनै रामः समीपे विनयान्वितः ॥ २,२१.२५ ॥ स्वनामगोत्रे मतिमानुक्त्वा पित्रोर्मुदान्वितः । संस्पृशंश्चरणौ मूर्ध्ना हस्ताभ्यां चाभ्यवादयत् ॥ २,२१.२६ ॥ ततस्तौ प्रीतमनसौ समुथाप्य च सत्तमम् । आशीर्भिरभिनन्देतां पृथक्पृथगुभावपि ॥ २,२१.२७ ॥ तमाश्लिष्याङ्कमारोप्य हर्णाश्रुप्लुतलोचनौ । वीक्षन्तौ तन्मुखांभोजं परं हर्षमवापतुः ॥ २,२१.२८ ॥ ततः सुखोपविष्टं तमात्मवंशसमुद्वहम् । अनामयमपृच्छेतां तावुभौ दंपती तदा ॥ २,२१.२९ ॥ पितरौ ते कुशलिनो वत्स किंभ्रातरस्तथा । अनायासेन ते वृत्तिर्वर्तते चाथ कर्हिचित् ॥ २,२१.३० ॥ समस्ताभ्यां ततो राजन्नाचचक्षे यथोदितः । तथा स्वानुगतं पित्रोर्भ्रातॄणां चैव चेष्टितम् ॥ २,२१.३१ ॥ एवं तयोर्महाराज सत्प्रीतिजनितैगुणैः । प्रीयमाणोऽवसद्रामः पितुः पित्रोर्न्निवेशने ॥ २,२१.३२ ॥ स तस्मिन्सर्वभूतानां मनोनयननन्दनः । उवास कतिचिन्मासांस्तच्छुश्रूषापरायणः ॥ २,२१.३३ ॥ अथानुज्ञाप्य तौ राजन्भृगुवर्यो महामनाः । पितामहगुरोर्गन्तुमियेषाश्रयमाश्रमम् ॥ २,२१.३४ ॥ स ताभ्यां प्रीतियुक्ताभ्यामाशीर्भिरभिनन्दितः । यथा चाभ्यां प्रदिष्टेन यया वौर्वाश्रमं प्रति ॥ २,२१.३५ ॥ तं नमस्कृत्य विधिवच्च्यवनं च महातपाः । सप्रहर्षं तदाज्ञातः प्रययावाश्रमं भृगोः ॥ २,२१.३६ ॥ स गत्वामुनिमुख्यस्य भृगोराश्रममण्डलम् । ददर्श शान्तचेतोभिर्मुनिभिः सर्वतो वृतम् ॥ २,२१.३७ ॥ सुस्निग्धशीतलच्छायैः सर्वर्तुकगुणान्वितैः । तरुभिः संवृतं प्रीतः फलपुष्पोत्तरान्वितैः ॥ २,२१.३८ ॥ नानाखगकुलारावैर्मनःश्रोत्रसुखावहैः । ब्रह्मघोषैश्च विविधैः सर्वतः प्रतिनादितम् ॥ २,२१.३९ ॥ समन्त्राहुतिहोमोत्थधूमगन्धेन सर्वतः । निरस्तनिखिलाघौघं वनान्तरविसर्पिणा ॥ २,२१.४० ॥ समित्कुशाहरैर्दण्डमेखलाजिनमण्डितैः । अभितः शोभितं राजन्रम्यैर्मुनिकुमारकैः ॥ २,२१.४१ ॥ प्रसूनजलसंपूर्मपात्रहस्ताभिरन्तरा । शोभितं मुनिकल्याभिश्चरन्तीभिरितस्ततः ॥ २,२१.४२ ॥ सपोतहरिणीयूथैर्विस्रंभादविशङ्किभिः । उटजाङ्गणपर्यन्ततरुच्छायास्वधिष्ठितम् ॥ २,२१.४३ ॥ रोमन्थतः परामृष्टियूथ साक्षिकमुत्प्रदैः । प्रारब्धताण्डवं केकीमयूरैर्मधुरस्वरैः ॥ २,२१.४४ ॥ प्रविकीर्णकणोद्देशं मृगशब्दैः समीपगैः । अनालीढातपच्छायाशुष्यन्नीवारराशिभिः ॥ २,२१.४५ ॥ हूयमानानलं काले पूज्यमानातिथिव्रजम् । अभ्यस्यमानच्छन्दौघं चिन्त्यमानगमोदितम् ॥ २,२१.४६ ॥ पठ्यमानाखिलस्मार्त्तं श्रौतार्थप्रविचारणम् । प्रारब्धपितृदेवेज्यं सर्वभूतमनोहरम् ॥ २,२१.४७ ॥ तपस्विजनभूयिष्ठमाकापुरुषसेवितम् । तपोवृद्धिकरं पुण्यं सर्वसत्त्वसुखास्पदम् ॥ २,२१.४८ ॥ तपोधनानन्दकरं ब्रह्मलोकमिवापरम् । प्रसूनसौरभभ्राम्यन्मधुपारावनादितम् ॥ २,२१.४९ ॥ सर्वतो वीज्यमानेन विविधेन नभस्वता । एवंविधगुणोपेतं पश्यन्नाश्रममुत्तमम् ॥ २,२१.५० ॥ प्रविवेश विनीतात्मा सुकृतीवामरालयम् । संप्रविश्यश्रमोपान्तं रामः स्वप्रपितामहम् ॥ २,२१.५१ ॥ ददर्श परितो राजन्मुनिशिष्यशतावृतम् । व्याख्यानवेदिकामध्ये निविष्टं कुशविष्टरे । सितश्मश्रुजटाकूर्चब्रह्मसूत्रोपशोभितम् ॥ २,२१.५२ ॥ वामेतरोरुमध्यास्त वामजङ्घेन जानुना ॥ २,२१.५३ ॥ योगपट्टेन संवीतस्वदेहमृषिपुङ्गवम् । व्याख्यानमुद्राविलसत्सव्यपाणितलांबुजम् ॥ २,२१.५४ ॥ योगपट्टोपरिन्यस्तविभ्राजद्वामपाणिकम् । सम्यगारण्यवाक्यानां सूक्ष्मतत्त्वार्थसंहतिम् ॥ २,२१.५५ ॥ विवृत्य मुनिमुख्येभ्यः श्रावयन्तं तपोनिधिम् । पितुः पितामहं द्दष्ट्वा रामस्तस्य महात्मनः ॥ २,२१.५६ ॥ शनैरिवमहाराज समीपं समुपागमत् । तमागतमुपालक्ष्य तत्प्रभावप्रधर्षिताः ॥ २,२१.५७ ॥ शङ्कामवापुर्मुनयो दूरादेवाखिला नृप । तावदूभृगुरमेयात्मा तदागमनतोषितः ॥ २,२१.५८ ॥ निवृत्तान्यकथालापस्तं पश्यन्नास पार्थिव । रामोऽपि तमुपागम्य विनयावनताननः ॥ २,२१.५९ ॥ अवन्दत यथान्ययमुपेन्द्र इव वेधसम् । अभिवाद्य यथान्यायं ख्यातिं च विनयान्वितः ॥ २,२१.६० ॥ तांश्च संभावयामास मुनीन्रामोयथावयः । तैश्च सर्वैर्मुदोपेतैराशीर्भिरभिवर्द्धितः ॥ २,२१.६१ ॥ उपाविवेश मेधावी भूमौ तेषामनुज्ञया । उपविष्टं ततो राममाशीर्भिरभिनन्दितम् ॥ २,२१.६२ ॥ पप्रच्छकुशलप्रश्नं तमालोक्य भृगुस्तदा । कुशलं खलु ते वत्स पित्रोश्च किमनामयम् ॥ २,२१.६३ ॥ भ्रातॄणां चैव भवतःपितुः पित्रोस्तथैव च । किमर्थमागतोऽत्र त्वमधुनामम सन्निधिम् ॥ २,२१.६४ ॥ केनापि वा त्वमादिष्टः स्वयमेवाथवागतः । ततोरामो यथान्यायं तस्मै सर्वमशेषतः ॥ २,२१.६५ ॥ कथयामास यत्पृष्टं तदा तेन महात्मना । पितुर्मातुश्च वृत्तान्त भ्रातॄणां च महात्मनाम् ॥ २,२१.६६ ॥ पितुः प्रित्रोश्चकौशल्य दर्शनं च तयोर्नृप । एतदन्यच्च सकलं भृगोः सप्रश्रयं मुदा ॥ २,२१.६७ ॥ न्यवेदयद्यथान्यायमात्मनश्च समीहितम् । श्रुत्वैतदखिलं राजन्रामेण समुदीरितम् ॥ २,२१.६८ ॥ तं च दृष्ट्वा विशेषेण भृगुः प्रीतोऽभ्यनन्दत । एवं तस्य प्रियं कुर्वन्नुत्कृष्टैरात्मकर्मभिः ॥ २,२१.६९ ॥ तत्राश्रमेऽवसद्रामो दिनानि कतिचिन्नृप । ततः कदाचिदेकान्ते रामं मुनिवरोत्तमः ॥ २,२१.७० ॥ वत्सागच्छेति तं राजन्नुपाह्वयदुपह्वरे । सोऽभिगम्य तमासीनमभिवाद्य कृताञ्जलिः ॥ २,२१.७१ ॥ तस्थौ तत्पुरतो रामः सुप्रीतेनान्तरात्मना । आशीर्भिरभिनन्द्याथ भृगुस्तं प्रीत मानसः ॥ २,२१.७२ ॥ प्राह नाधिगताशङ्कं राममालोक्य सादरम् । श्रुणु वत्स वचो मह्य यत्त्वां वक्ष्यामि सांप्रतम् ॥ २,२१.७३ ॥ हितार्थं सर्वलोकानां तव चास्माकमेव च । गच्छ पुत्र ममादेशाद्धिमवन्तं महागिरिम् ॥ २,२१.७४ ॥ अधुनैवाश्रमादस्मात्तपसे धृतमानसः । तत्रगत्वा महाभाग कृत्वाश्रमापदं शुभम् ॥ २,२१.७५ ॥ आराधय महादेवं तपसा नियमेन च । प्रीतिमुत्पाद्य तस्य त्वं भक्त्यानन्यगया चिरात् ॥ २,२१.७६ ॥ श्रेयो महदवाप्नोषि नात्र कार्या विजारणा । तरसा तव भक्त्या च प्रीतो भवति शङ्करः ॥ २,२१.७७ ॥ करिष्यति च ते सर्वं मनसा यद्यदिच्छसि । तुष्टे तस्मिञ्जगन्नाथे शङ्करे भक्तवत्सले ॥ २,२१.७८ ॥ अस्त्रग्राममशेषं त्वं वणु पुत्र यथेप्सितम् । त्वया हितार्थं देवानां करणीयं सुदुष्करम् ॥ २,२१.७९ ॥ विद्यतेऽभ्यधिकं कर्म शस्त्रसाध्यमनेकशः । तस्मात्त्वं देवदेवेशं समाराधय शङ्करम् ॥ २,२१.८० ॥ भक्त्या परमया युक्तस्ततोऽभीष्टमवाप्स्यसि ॥ २,२१.८१ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे एकविंशति तमौध्यायः ॥ २१॥ _____________________________________________________________ वसिष्ठ उवाच इत्येवमुक्तो भृगुणा तथेत्युक्त्वा प्रणम्य च । रामस्तेनाभ्यनुज्ञातश्चकार गमने मनः ॥ २,२२.१ ॥ भृगुं ख्यातिं च विधिवत्परिक्रम्य प्रणम्यच । परिष्वक्तस्तथा ताभ्यामाशीर्भिराभिनन्दितः ॥ २,२२.२ ॥ मुनींश्च तान्नमस्कृत्य तैः सर्वैरनुमोदितः । निश्चक्रमाश्रमात्तस्मात्तपसे कृतनिश्चयः ॥ २,२२.३ ॥ ततो गुरुनियोगेन तदुक्तेनैव वर्त्मना । हिमवन्तं गिरिवरं ययौ रामो महामनाः ॥ २,२२.४ ॥ सोऽतीत्य विविधान्देशान्पर्वतान्सरितस्तथा । वनानि मुनिमुख्यानामावासांश्चात्यगाच्छनैः ॥ २,२२.५ ॥ तत्रतत्र निवासेषु मुनीनां निवसन्पथि । तीर्थेषु क्षेत्रमुख्येषु निवसन्वा ययौ शनैः ॥ २,२२.६ ॥ अतीत्य सुबहून्देशान्पश्यन्नपि मनोरमान् । आससादच लश्रेष्ठं हिमवन्तमनुत्तमम् ॥ २,२२.७ ॥ स गत्वा पर्वतवरं नानाद्रुमलतास्थितम् । ददर्श विपुलैः शृङ्गैरुल्लिखन्तमिवांबरम् ॥ २,२२.८ ॥ नानाधातुविचित्रैश्च प्रदेशैरुपशोभितम् । रत्नौषधीभिरभितः स्फुरद्भिरभिशोभितम् ॥ २,२२.९ ॥ मरुत्संघट्टनाघृष्टनीरसांघ्रिपजन्मना । सानिलेनानलेनोच्छैर्दह्यमानं नवं क्वचित् ॥ २,२२.१० ॥ क्वचिद्रविकरामर्शज्वलदर्केपलाग्निभिः । द्रवद्धिमाशिलाजातुजलशान्तदवानलम् ॥ २,२२.११ ॥ स्फटिकाञ्जनदुर्वर्णस्वर्णराशिप्रभाकरैः । स्फुरत्परस्परच्छायाशरैर्द्दीप्तवनं क्वचित् ॥ २,२२.१२ ॥ उपत्यकशिलापृष्ठवालातपनिषेविभिः । तुषारक्लिन्नसिद्धौघौरुद्भासितवनं क्वचित् ॥ २,२२.१३ ॥ क्वचिदर्काशुसंभिन्नश्चामीकरशिलाश्रितैः । यक्षौघैर्भासितोपान्तं विशद्भिरिवपावकम् ॥ २,२२.१४ ॥ दरीमुखविनिष्क्रान्ततरक्षूत्पतनाकुलैः । मृगयूथार्त्तसन्नादैरापूरितगुहं क्वचित् ॥ २,२२.१५ ॥ युद्ध्यद्वराहशार्दूलयूथपैरित स्तेरम् । प्रसभोन्मृष्टकान्तोरुशिलातरुतटं क्वचित् ॥ २,२२.१६ ॥ कलभोन्मेषणाकृष्टकरिणीभिरनुद्रुतैः । गवयैः खुरसंक्षुण्णशिलाप्रस्थतटङ्क्वचित् ॥ २,२२.१७ ॥ वासितर्थेऽभिसंवृद्धमदोन्मत्तमतङ्गजैः । युद्ध्यद्भिश्चूर्णितानेकगण्डशैलवनं क्वचित् ॥ २,२२.१८ ॥ बृंहितश्रवणामर्षान्मातं गानभिधावताम् । सिंहानां चरणक्षुण्णनखभिन्नोपरं क्वचित् ॥ २,२२.१९ ॥ सहसा निपतत्सिंहनखनिर्भिन्नमस्तकैः । गजैराक्रन्दनादेन पूर्यमामं वनं क्वचित् ॥ २,२२.२० ॥ अष्टपादबलाकृष्टकेसरा दारुणाखैः । भेद्यमानाखिलशिलागंभीरकुहरं क्वचित् ॥ २,२२.२१ ॥ संरब्धा नेकशबरप्रसक्तैरृयूथपैः । इतरेतरसंमर्दं विप्रभग्नदृषत्क्वचित् ॥ २,२२.२२ ॥ गिरिकुञ्जेषु संक्रीडत्करिणीमद्विपं क्वचित् । करेणुमाद्रवन्मत्तगजाकलितकाननम् ॥ २,२२.२३ ॥ स्वपत्सिंहमुखश्वासमरुत्पुर्मदरीशतम् । गहनेषु गुरुत्राससाशङ्कविहरन्मृगम् ॥ २,२२.२४ ॥ कण्टाकश्लिष्टलाङ्गूललोमत्रुटनकातरैः । क्रीडितं चमरीयूथैर्मन्दमन्दविचारिभिः ॥ २,२२.२५ ॥ गिरिकन्दरसंसक्तकिन्नरीसमुदीरितैः । सतालनादैरुदिनैर्भृताशेषदिशामुखम् ॥ २,२२.२६ ॥ अरण्यदेवतानां च चरेतीनामितस्ततः । अलक्तकरसक्लिन्नचरणाङ्कितभूतलम् ॥ २,२२.२७ ॥ मयूरकेकिरीवृन्दैः संगीत मधुरस्वरैः । प्रवृत्तनृत्तं परितो विततोदग्रबर्हिभिः ॥ २,२२.२८ ॥ जलस्थलरुहानेककुसुमोत्करवर्षिभिः । गात्राह्लादकरैर्मन्दं वीज्यमानं वनानिलैः ॥ २,२२.२९ ॥ भूतार्त्तवरसास्वादमाद्यत्पुंस्कोकिलारवैः । आकुलीकृतपर्यन्तसहकारवनान्तरम् ॥ २,२२.३० ॥ नानापुष्पासवोन्माद्यद्भृङ्गसंगीतनादितम् । अनेकविहगारावबधिरीकृतकाननम् ॥ २,२२.३१ ॥ मधुद्रवार्द्राविरलप्रत्यग्रकुसुमोत्करैः । वनान्तमारुताकीर्णैरलङ्कृतमहीतलम् ॥ २,२२.३२ ॥ उपरिष्टान्निपततां विषमोपलसंकटे । निर्झराणां महारावैः समन्ताद्बधिरीकृतम् ॥ २,२२.३३ ॥ विततानेकसंसक्तशाखाग्राविरलच्छदैः । पाटलैर्विटपच्छायैरुपशल्यसमुत्थितैः ॥ २,२२.३४ ॥ कदंबनिंबहिन्तालसर्जबेधूकतिन्दुकैः । कपित्थपनसाशोकसहकारेगुदाशनैः ॥ २,२२.३५ ॥ नागचंपकपुन्नागकोविदारप्रियङ्गुभिः । प्रियालनीपबकुलबन्धूकाक्षतमालकैः ॥ २,२२.३६ ॥ द्राक्षामधूकामलकजंबूकङ्कोलजातिभिः । बिल्वार्जुनकरञ्जाम्रबीजपूराङ्घ्रिपैरपि ॥ २,२२.३७ ॥ पिचुलांबष्ठकनकवैकङ्कतशमीधवैः । पुत्रजीवाभयारिष्टलोहोदुंबरपिप्पलैः ॥ २,२२.३८ ॥ अन्यैश्च विविधैर्वृक्षैः समन्तादुपशोभितम् । निरन्तरतरुच्छायासुदूरविनिवारितैः ॥ २,२२.३९ ॥ समन्तादर्ककिरणैरनासादितभूतलम् । नानापक्वफलास्वादबलपुष्टैः प्लवेगमैः ॥ २,२२.४० ॥ आक्रान्तचकितानेकवनपङ्क्तिशताकुलम् । तत्र तत्रातिरम्यैश्च शिलाकुहरनिर्गतैः ॥ २,२२.४१ ॥ प्रतापविषमैराजन्ह्रास्यमानं सरिच्छतैः । सारोवरैश्च विपुलैः कुमुदोत्पलमण्डितैः ॥ २,२२.४२ ॥ नानाविहगसंघुष्टैः समन्तादुपशोभितम् । समासाद्यथ शैलेन्द्रं तुषारशिशिरं गिरिम् ॥ २,२२.४३ ॥ आरुरोह भगुश्रेष्ठस्तरसा तं मुदान्वितः । तस्य प्रविश्य गहनं वनं रामो महामनाः ॥ २,२२.४४ ॥ विचचार शनै राजन्नुपशल्यमहीरुहम् । स तत्र विचरन्दिक्षु हरिणीभिः समन्ततः ॥ २,२२.४५ ॥ विक्ष्यमाणो मुदं लेभे साशङ्कं मुग्धदृष्टिभिः । स तत्र कुसुमामोदगन्धिभिर्वनवायुभिः ॥ २,२२.४६ ॥ वीज्यमानो जहर्षे स वीक्ष्योदारां वनश्रियम् । विविधाश्च स्थरीः सूक्ष्ममुपरिक्रम्य भार्गवः ॥ २,२२.४७ ॥ द्वन्द्वांश्च धातून्विविधान्पश्यन्नेवमतर्कयत् । अहोऽयं सर्वशैलानामाधिपत्येऽभिषेचितः ॥ २,२२.४८ ॥ ब्रह्मणा यज्ञभाक्चैव स्थाने संप्रतिपादितः । अस्य शैलाधिराजत्वं सुव्यक्तमभिलक्ष्यते ॥ २,२२.४९ ॥ रवैः कीचकवेणुनां मधुरीकृतकाननः । नितंबस्थलसंसक्ततुषारनिचयैग्यम् ॥ २,२२.५० ॥ विभातीवाहितस्वच्छपरीतधवलांशुकः । निबिडश्रितनीहारनिकरेण तथोपरि ॥ २,२२.५१ ॥ नानावर्णोत्तरासंगावृत्ताङ्ग इवल्क्ष्यते । चन्दनागुरुकर्पूरकस्तूरीकुङ्कुमादिभिः ॥ २,२२.५२ ॥ अलङ्कृतागः सुव्यक्तं दृश्यतेऽही विलासिवत् । मृगेन्द्राहतदन्तीन्द्रकुंभस्थलपरिच्युतैः ॥ २,२२.५३ ॥ स्थूलमुक्तोत्करैरेष विभाति परितो गिरिः । नानावृक्षलतावल्लीपुष्पालङ्कृतमूर्द्धजः ॥ २,२२.५४ ॥ नीरन्ध्राञ्चितमे घौघवितानसमलङ्कृतः । नानाधातुविचित्राङ्गः सर्वरत्नविभूषितः ॥ २,२२.५५ ॥ कैलासव्याजविलसत्सितच्छत्रविराजितः । गजाश्वमुखयूथैश्च समन्तात्परिवारितः ॥ २,२२.५६ ॥ रत्नद्वीपमहाद्वारशिलाकन्दरमन्दिरः । विविक्तगह्वरास्थानमध्यसिंहासनाश्रयः ॥ २,२२.५७ ॥ समन्तात्प्रतिसंसक्ततरुवेत्रवतां शनैः । दृष्ट्वा जनैरनासाद्यो महाराजाधिराजवत् ॥ २,२२.५८ ॥ दोधूयमानो विचरच्चमरीचा रुचामरैः । मयूरैरुपनृत्यद्भिर्गायद्भिश्चैव किन्नरैः ॥ २,२२.५९ ॥ सत्त्वजातैरनेकैश्च सेव्यमानो विराजते । व्यक्तमेवाचलेन्द्राणामधिराज्यपदे स्थितः ॥ २,२२.६० ॥ भुनक्त्याक्रम्य वसुधां समग्रां श्रियमोजसा । एवं संचिन्तयानः स हिमाद्रिवनगह्वरे ॥ २,२२.६१ ॥ विचचार चिरं रामो मुदा परमया युतः । आससाद वने तस्मिन्विपुले भृगुपुङ्गवः ॥ २,२२.६२ ॥ सरोवरं महाराज विपुलं विमलोदकम् । कुमुदोत्पलकह्लारनिकरैरुपसोभितम् ॥ २,२२.६३ ॥ पङ्कजैरुत्पलैश्चैव रक्तपीतैः सितासितैः । अन्यैश्च जलचैर्वक्षैः सर्वतः समलङ्कृतम् ॥ २,२२.६४ ॥ हंससारसदात्यूहकारण्डवशतैरपि । जीवजीवकचक्राह्वकुररभ्रमरोत्करैः ॥ २,२२.६५ ॥ संघुष्यमाणं परितः सेवितं मन्दवायुना । शफरीमत्स्यसंघैश्च विचरद्भिरितस्ततः ॥ २,२२.६६ ॥ अन्तर्जनितकल्लोलैर्नृत्यमानमिवाभितः । आससाद भृगुश्रेष्ठस्तत्सरोवरमुत्तमम् ॥ २,२२.६७ ॥ नानापतत्र्रिविरुतैर्मधुरीकृतदिक्तटम् । स तस्य तीरे विपुलं कृत्वाश्रमपदं शुभम् ॥ २,२२.६८ ॥ रामो मतिमतां श्रेष्ठस्तपसे च मनो दधे । शाकमूलफलाहारो नियतं नियतेन्द्रियः ॥ २,२२.६९ ॥ तपश्चचार देवेशं विनिवेश्यात्ममानसे । भृगूपदिष्टमार्गेण भक्त्या परमया युतः ॥ २,२२.७० ॥ पूजयामास देवेशमेकाग्रमनसा नृप । अनिकेतः स वर्षासु शिशिरे जलसंश्रयः ॥ २,२२.७१ ॥ ग्रीष्मे पञ्जाग्निमध्यस्थश्चचारैवं तपश्चिरम् । रिपून्निर्जित्य कामादीनूर्मिषषट्कं विधूय च ॥ २,२२.७२ ॥ द्वन्द्वैरनुद्वेजितधीस्तापदोषैरनाकुलः । यमैः सनियमैश्चैव शुद्धदेहः समाहितः ॥ २,२२.७३ ॥ वशी चकार पवनं प्राणायामेन देहगम् । जितपद्मासनो मौनी स्थिरचित्तो महामुनिः ॥ २,२२.७४ ॥ वशी चकार चाक्षाणि प्रत्याहारपरायणः । धारणाभिः स्थिरीचक्रे मनश्चञ्चलमात्मवान् ॥ २,२२.७५ ॥ ध्यानेन देवदेवेशं ददर्श परमेश्वरम् । स्वस्थान्तः करणो मैत्रः सर्वबाधाविवर्जितः ॥ २,२२.७६ ॥ चिन्तयामास देवेशं ध्याने दृष्ट्वा जगद्गुरुम् । ध्येयावस्थि तचित्तात्मा निश्चलेद्रियदेहवान् ॥ २,२२.७७ ॥ आकालावधि सोऽतिष्ठन्निवातस्थप्रदीपवत् । जपंश्च देवदेवेशं ध्यायंश्च स्वमनीषया ॥ २,२२.७८ ॥ आराधयदमेयात्मा सर्वभावस्थमीश्वरम् । ततः स निष्फलं रूपमैश्वरं यन्निरञ्जनम् ॥ २,२२.७९ ॥ परं ज्योतिरचिन्त्यं यद्योगिध्येयमनुत्त मम् । नित्यं शुद्धं सदा शान्तमतीन्द्रियमनौपमम् । आनन्दमात्रमचलं व्याप्ताशेषचराचरम् ॥ २,२२.८० ॥ चिन्तयामास तद्रूपं देवदेवस्य भार्गवः । नित्यं शुद्धं सदा शान्तमतीन्द्रियमनौपमम् ॥ २,२२.८१ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीये उपोद्धातपादे वसिष्ठसगरसंवादे अर्चुनोपाख्याने जामदग्न्यतपश्चरणं नाम द्वाविंशतितमोऽध्यायः ॥ २२॥ _____________________________________________________________ वसिष्ठ उवाच तपस्विनं तदा राममेकाग्रमनसं भवे । रहस्येकान्तनिरतं नियतं शंसितव्रतम् ॥ २,२३.१ ॥ श्रुत्वा तमृषयः सर्वे तपोनिर्धूतकल्मषाः । ज्ञानकर्मवयोवृद्धा महान्तः शंसितव्रताः ॥ २,२३.२ ॥ दिदृक्षवः समाजग्मुः कुतूहलसमन्विताः । ख्यापयन्तस्तपः श्रेष्ठं तस्य राजन्महात्मनः ॥ २,२३.३ ॥ भृग्वत्रिक्रतुजाबालिवामदेवमृकण्डवः । संभावयन्तस्ते रामं मुनयो वृद्धसंमताः ॥ २,२३.४ ॥ आजग्मुराश्रमं तस्य रामस्य तपसस्तपः । दूरादेव महान्तस्ते पुण्यक्षेत्रनिवासिनः ॥ २,२३.५ ॥ गरीयः सर्वलोकेषु तपोऽग्र्यं ज्ञानमेव च । प्रशस्य तस्य ते सर्वेप्रययुः स्वं स्वमाश्रमम् ॥ २,२३.६ ॥ एवं प्रवर्त्ततस्तस्य रामस्य भगवाञ्छिवः । प्रसन्नचेता नितरां बभूव नृपसत्तम ॥ २,२३.७ ॥ जिज्ञासुस्तस्य भगवान् भक्तिमात्मनि शङ्करः । मृगव्याधवपुर्भूत्वा ययौ राजंस्तदन्तिकम् ॥ २,२३.८ ॥ भिन्नाञ्जनचयप्रख्यो रक्तान्तायतलोचनः । शरचापधरः प्रांशुर्वज्रसंहननो युवा ॥ २,२३.९ ॥ उत्तुङ्गहनुबाह्वंसः पिङ्गलश्मश्रुमूर्द्धजः । मांसविस्रवसागन्धी सर्वप्राणिविहिंसकः ॥ २,२३.१० ॥ सकण्टकुलतास्पर्शक्षतारूषितविग्रहः । सामटक्संचर्वमाणश्च मांसखण्डमनेकशः ॥ २,२३.११ ॥ मांसभारद्वयालंबिविधानानतकन्धरः । आरुजंस्तरसा वृक्षानूरुवेगेन संघशः ॥ २,२३.१२ ॥ अभ्यवर्त्तत तं देशं पादचारीव पर्वतः । आसाद्य सरसस्तस्य तीरं कुसुमितद्रुमम् ॥ २,२३.१३ ॥ न्यदधान्मासभारं च स मूले कस्यचित्तरोः । निषसाद क्षणन्तत्र तरुच्छायामुपाश्रितः ॥ २,२३.१४ ॥ तिष्ठन्तं सरसस्तीरे सोऽपश्यद्भृगुनन्दनम् । ततः स शीघ्रमुत्थाय समीपमुपसृत्य च ॥ २,२३.१५ ॥ रामाय सेषुचापाभ्यां कराभ्यां विदधेंऽजलिम् । सजलांभोदसन्नादगंभीरेण स्वरेण च ॥ २,२३.१६ ॥ जगाद भृगुशार्दूलं गुहान्तरविसर्पिणा । तोषप्रवर्षव्याधोऽहं वसाम्यस्मिन्महावने ॥ २,२३.१७ ॥ ईशोऽहमस्य देशस्य सप्राणितरुवीरुधः । चरामि समचित्तात्मा नानासत्त्वा मिषाशनः ॥ २,२३.१८ ॥ समश्च सर्वभूतेषु न च पित्रादयोऽपि मे । अभक्ष्यागम्यपेयादिच्छन्दवस्तुषु कुत्रचित् ॥ २,२३.१९ ॥ कृत्याकृत्यविधौचैव न विशेषितधीरहम् । प्रपन्नो नाभिगमनं निवासमपि कस्यचित् ॥ २,२३.२० ॥ शक्रस्यापि बलेनाहमनुमन्ये न संशयः । जानते तध्यथा सर्वे देशोऽयं मदुपाश्रयः ॥ २,२३.२१ ॥ तस्मान्न कश्चिदायाति ममात्रानुमतिं विना । इत्येष मम वृत्तान्तः कार्त्स्न्येन कथितस्तव ॥ २,२३.२२ ॥ त्वं च मे ब्रूहि तत्त्वेन निजवृत्तमशेषतः । कस्त्वं कस्मादिहायातः किमर्थमिह धिष्ठितः । उद्यतोऽन्यत्र वा गन्तुं किं वा तव चिकीर्षितम् ॥ २,२३.२३ ॥ वसिष्ठ उवाच इत्येवमुक्तः प्रहसंस्तेन रामो महाद्युतिः । तूष्णीं क्षणमिव स्थित्वा दध्यौ किञ्चिदवाङ्मुखः ॥ २,२३.२४ ॥ कोऽयमेव दुराधर्षः सजलांभोदनिस्वनः । ब्रवीति च गिरोऽत्यर्थं विस्पष्टार्थपदाक्षराः ॥ २,२३.२५ ॥ किं तु मे महतीं शङ्कां तनुरस्य तनोति वै । विजातिसंश्रयत्वेन रमणीया तथा शराः ॥ २,२३.२६ ॥ एवं चिन्तयतस्तस्य निमित्तानि शुभानि वै । बभूवुर्भुवि देहे च स्वाभिप्रेतार्थदान्यलम् ॥ २,२३.२७ ॥ ततो विमृश्य बहुशो मनसाभृगुपुङ्गवः । उवाच शनकैर्व्याधं वचनं सूनृताक्षरम् ॥ २,२३.२८ ॥ जामदग्न्योऽस्मि भद्रं ते रामो नाम्ना तु भार्गवः । तपश्चर्तुमिहायातः सांप्रतं गुरुशासनात् ॥ २,२३.२९ ॥ तपसा सर्वलोकेशं भक्त्या च नियमेन च । आराधयितुमस्मिंस्तु चिरायाहं समुद्यतः ॥ २,२३.३० ॥ तस्मात्मर्वेश्वरं सर्वशरण्यमभयप्रदम् । त्रिनेत्रं पापदमनं शङ्करं भक्तवत्सलम् ॥ २,२३.३१ ॥ तपसा तोषयिष्यामि सर्वज्ञं त्रिपुरान्तकम् । आश्रमेऽस्मिनसरस्तीरे नियमं समुपाश्रितः ॥ २,२३.३२ ॥ भक्तानुकंपी भगवान्यावत्प्रत्यक्षतां हरः । उपैति तावदत्रैव स्थास्यामीति मतिर्मम ॥ २,२३.३३ ॥ तस्मादितस्त्वयाद्यैव गन्तुमन्यत्र युज्यते । न चेद्भवति मे हानिः स्वकृतेर्नियमस्य च ॥ २,२३.३४ ॥ माननीयोऽथ वाहं ते भक्त्या देशान्तरातिथिः । स्वनिवासमुपायातस्तपस्वी च तथा मुनिः ॥ २,२३.३५ ॥ त्वतसंनिधौ निवासो मे भवेत्पापाय केवलम् । तव चाप्यसुखोदर्कं मत्समीपनिषेवणम् ॥ २,२३.३६ ॥ स त्वंमदाश्रमोपान्ते परिचङ्क्रमणादिकम् । परित्यज्य सुखीभूया लोकयोरुभयोरपि ॥ २,२३.३७ ॥ वसिष्ठ उवाच इति तस्य वचः श्रुत्वा स भूयो भृगुपुङ्गवम् । उवाच रोषताम्राक्षस्ताम्राक्षमिदमुत्तरम् ॥ २,२३.३८ ॥ ब्रह्मन् किमिदमत्यर्थं समीपे वसतिं मम । परिगर्हयसे येन कृतघ्नस्येव कांप्रतम् ॥ २,२३.३९ ॥ किं मयापकृतं लोके भवतोऽन्यस्य वा क्वचित् । अनागस्कारिणं दान्तं कोऽवमन्येत नामतः ॥ २,२३.४० ॥ सन्निधिः परिहर्त्तव्यो यदि मे विप्रपुङ्गव । दर्शनं सह संवासः संभाषणमथापि च ॥ २,२३.४१ ॥ आयुष्मताधुनैवास्मादपसर्त्तव्यमाश्रमात् । स्वसंश्रयं परित्यज्य क्वाहं यास्ये बुभुक्षितः ॥ २,२३.४२ ॥ स्वाधिवासं परित्यज्य भवता योदितः कथम् । इतोऽन्यस्मिन् गामिष्यामि दूरे नाहं विशेषतः ॥ २,२३.४३ ॥ गम्यतां भवतान्यत्र स्थीयतामत्र वेच्छया । नाहं चालयितुं शक्यः स्थानादस्मात्कथञ्चन ॥ २,२३.४४ ॥ वसिष्ठ उवाच तच्छ्रुत्वा वचनं तस्य किञ्चित्कोपसमन्वितः । तमुवाच पुनर्वाक्यमिदं राजन्भृगूद्वहः ॥ २,२३.४५ ॥ व्याधजातिरियं क्रूरा सर्वसत्त्वभयावहा । खलकर्मरता नित्यं धिक्कृता सर्वजन्तुभिः ॥ २,२३.४६ ॥ तस्यां जातोऽसि पापीयान्सर्वप्राणिविहिंसकः । स कथं न परित्याज्यः सुजनैः स्यात्तु दुर्मते ॥ २,२३.४७ ॥ तस्माद्विहीनजातीयं विदित्वात्मानमब्यथ । शीघ्रमस्माद्व्रजान्यत्र नात्र कार्या विचारणा ॥ २,२३.४८ ॥ शरीरत्राणकारुण्यात्समीपं नोपसर्पसि । यथा त्वं कण्टकादीनामसहिष्णुतया व्यथाम् ॥ २,२३.४९ ॥ तथावेहि समस्तानां प्रियाः प्राणाः शरीरिणाम् । व्यथा चाभिहतानां तु विद्यते भवतोऽन्यथा ॥ २,२३.५० ॥ अहिंसा सर्वभूतानामिति धर्मः सनातनः । एतद्विरुद्धाचरणान्नित्यं सद्भिर्विगर्हितः ॥ २,२३.५१ ॥ आत्मप्राणाभिरक्षार्थं त्वमशेषशरीरिणः । हनिष्यसि कथं सत्सुनाप्नोषि वचनीयताम् ॥ २,२३.५२ ॥ तस्माच्छीघ्रं तु भोगच्छ त्वमेव पुरुषाधम । त्वया मे कृत्यदोषस्य हानिश्च न भविष्यति ॥ २,२३.५३ ॥ न चत्स्वयमितो गच्छेश्ततस्तव बलादपि । अपसर्पणताबुद्धिमहमुत्पादये स्फुटम् ॥ २,२३.५४ ॥ क्षणार्द्धमपि ते पाप श्रेयसी नेह संस्थितिः । विरुद्धाचरणो नित्यं धर्मद्रिष्को लभेच्च शाम् ॥ २,२३.५५ ॥ वसिष्ठ उवाच रामस्य वचनं श्रुत्वा प्रीतोऽपि तमिदं वचः । उवाच संक्रुद्ध इव व्याधरूपी पिनाकधृक् ॥ २,२३.५६ ॥ सर्वमेतदहं मन्यं व्यर्थं व्यवसितं तव । कुतस्त्वं प्रथमो ज्ञानी कुतः शंभुः कुतस्तपः ॥ २,२३.५७ ॥ कुतस्त्वं क्लिश्यसे मूढ तपसा तेन तेऽधुना । घ्रुवं मिथ्याप्रवृत्तस्य न हि तुष्यति शङ्करः ॥ २,२३.५८ ॥ विरुद्धलोकाचरणः शंभुस्तस्य वितुष्टये । प्रतपत्यबुधो मर्त्त्यस्त्वां विना कः मुदुर्मते ॥ २,२३.५९ ॥ अथ वा च गतं मेऽद्य युक्तमेतदसंशयम् । संपूज्य पूजकविद्धौ शंभोस्तव च संगमः ॥ २,२३.६० ॥ त्वया पूजयितुं युक्तः स एव भुवने रतः । संपूजकोऽपि तस्य त्वं योग्यो नात्र विचारणा ॥ २,२३.६१ ॥ पितामहस्य लोकानां ब्रह्मणः परमेष्ठिनः । शिरश्छित्त्वा पुनः शंभुर्ब्रह्महत्यामवाप्तवान् ॥ २,२३.६२ ॥ ब्रह्महत्याभिभूतेन प्रायस्त्वं शंभुना द्विज । उपदिष्टोऽसि तत्कर्तुं नोचेदेवं कथं कृथाः ॥ २,२३.६३ ॥ तादात्म्यगुणसंयोगान्मन्यं रुद्रस्य तेऽधुना । तपः सिद्धिरनुप्राप्ता कोलेनाल्पीयसा मुने ॥ २,२३.६४ ॥ प्रायोऽद्य मातरं हत्वा सर्वैलोङ्कैर्निराकृतः । तपोव्याजेन गहने निर्जने संप्रवर्त्तसे ॥ २,२३.६५ ॥ गुरुस्त्रीब्रह्महत्योत्थपातकक्षपणाय च । तपश्चरसि नानेन तपसा तत्प्रणश्यति ॥ २,२३.६६ ॥ पातकानां किलान्येषां प्रायश्चित्तानि संत्यपि । मातृद्रुहामवेहि त्वं न क्वचित्किल निष्कृतिः ॥ २,२३.६७ ॥ अहिंसालक्षणो धर्मो लोकेषु यदि ते मतः । स्वहस्तेन कथं राम मातरं कृत्तवानसि ॥ २,२३.६८ ॥ कृत्वा मातृवधं घोरं सर्वलोकविगर्हितम् । त्वं पुनर्धार्मिको भूत्वा कामतोऽन्यान्विनिन्दसि ॥ २,२३.६९ ॥ पश्यता हसतामोघं आत्मदोषमजानता । अपर्याप्तमहं नन्यं परं दोषविमर्शनाम् ॥ २,२३.७० ॥ स्वधर्मं यद्यहं त्यक्त्वा वर्त्तेयमकुलोभयम् । तर्हि गर्हय मां कामं निरुप्य मनसा स्वयम् ॥ २,२३.७१ ॥ मातापितृसुतादीनां भरणायैव केवलम् । क्रियते प्राणिहननं निजधर्मतया मया ॥ २,२३.७२ ॥ स्वधर्मादामिषेणाहं सकुटुम्बो दिनेदिने । वर्त्तामि सापि मे वृत्तिर्विधात्रा विहिता पुरा ॥ २,२३.७३ ॥ मांसेन यावता मे स्यान्नित्यं पित्रादि पोषणम् । हनिष्ये चेत्तदधिकं तर्हि युज्येयमेनसा ॥ २,२३.७४ ॥ यावत्पोषणघातेन न वयं स्याम निन्दिताः । तदेतत्संप्रधार्य त्वं निन्दवा मां प्रशंस वा ॥ २,२३.७५ ॥ साधु वासाधु वा कर्म यस्य यद्विहितं पुरा । तदेव तेन कर्त्तव्यमापद्यपि कथञ्चन ॥ २,२३.७६ ॥ निरूपय स्वभुद्ध्या त्वमात्मनो मम चान्तरम् । अहं तु सर्वभावेन मित्रादिभरणे रतः ॥ २,२३.७७ ॥ संत्यज्य पितरं वृद्धं विनिहत्य च मातरम् । भूत्वा तु धार्मिकस्त्वं तु तपश्चर्तुमिहागतः ॥ २,२३.७८ ॥ ये तु मूलविदस्तेषां विस्पष्टं यत्र दर्शनम् । यथाजिह्वं भवेन्नात्र वचसापि समीहितुम् ॥ २,२३.७९ ॥ अहं तु सम्यग्जानामि तव वृत्तमशेषतः । तस्मादलं ते तपसा निष्फलेन भृगूद्वह ॥ २,२३.८० ॥ सुखमिच्छसि चेत्त्यक्त्वा कायक्लेशकरं तपः । याहि राम त्वमन्यत्र यत्र वा न विदुर्जनाः ॥ २,२३.८१ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे त्रयोविंशतितमोऽध्यायः _____________________________________________________________ वसिष्ठ उवाच इत्युक्तस्तेन भूपाल रामो मतिमतां वरः । निरूप्य मनसा भूयस्तमुवाचाभिविस्मितम् ॥ २,२४.१ ॥ राम उवाच कस्त्वं ब्रूहि महाभाग न वै प्राकृतपूरुषः । इन्द्रस्येवानुभावेन वपुरालक्ष्यते तव ॥ २,२४.२ ॥ विचित्रार्थपदौदार्यगुणगांभीर्यजातिभिः । सर्वज्ञस्यैव ते वाणी श्रूयतेऽतिमनोहरा ॥ २,२४.३ ॥ इन्द्रो वह्निर्यमो धाता वरुणो वा धनाधिपः । ईशानस्तपनो ब्रह्मा वायुः सोमो गुरुर्गुहः ॥ २,२४.४ ॥ एषामन्यतमः प्रायो भवान्भवितुमर्हति । अनुभावेन जातिस्ते हृदिशङ्कां तनोति मे ॥ २,२४.५ ॥ मायावी भगवान्विष्णुः श्रूयते पुरुषोत्तमः । को वा त्वं वपुषानेन ब्रूहि मां समुपागतः ॥ २,२४.६ ॥ अथ वा जगतां नाथः सर्वज्ञः परमेश्वरः । परमात्मात्मसंभूतिरात्मारामः सनातनः ॥ २,२४.७ ॥ स्वच्छन्दचारी भगवाञ्छिवः सर्वजगन्मयः । वपुषानेन संयुक्ते भवान्भवितुमर्हति ॥ २,२४.८ ॥ नान्यस्येदृग्भवेल्लोके प्रभावानुगतं वपुः । जात्यर्थसौष्ठवोपेता वाणी चौदार्यशालिनी ॥ २,२४.९ ॥ मन्येऽहं भक्तवात्सल्याद्वानेन वपुषाहरः । प्रत्यक्षतामुपगतो संदेहोऽस्मत्परीक्षया ॥ २,२४.१० ॥ न केवलं भवान् व्याधस्तेषां नेदृग्विधाकृतिः । तस्मात्तुभ्यं नमस्तस्मै सुरुपं संप्रदर्शय ॥ २,२४.११ ॥ आविष्कुर्वन्प्रसीदात्ममहिमानुगुणं वपुः । ममानेकविधा शङ्कामुच्येत येन मानसी ॥ २,२४.१२ ॥ प्रसीद सर्वभावेन बुद्धिमोहौ ममाधुना । प्रणाशय स्वरूपस्य ग्रहणादेव केवलम् ॥ २,२४.१३ ॥ प्रार्थयेत्वां महाभाग प्रणम्य शिरसासकृत् । कस्त्वं मे दर्शयात्मानं बद्धोऽयं ते मयाञ्जलिः ॥ २,२४.१४ ॥ इत्युक्त्वा तं महाभाग ज्ञातुमिच्छन्भृगूद्वहः । उपविश्य ततो भूमौ ध्यानमास्ते समाहितः ॥ २,२४.१५ ॥ बद्धपद्मासनो मौनी यतवाक्कायमानसः । निरुद्धप्राणसंचारो दध्यौ चिरमुदारधीः ॥ २,२४.१६ ॥ सन्नियम्येन्द्रियग्रामं मनो हृदि निरुध्य च । चिन्तयामास देवेशं ध्यानदृष्ट्या जगद्गुरुम् ॥ २,२४.१७ ॥ अपश्यच्च जगन्नाथमात्मसंधानचक्षुषा । स्वभक्तानुग्रहकरं मृगव्याधस्वरूपिणम् ॥ २,२४.१८ ॥ तत उन्मील्य नयने शीघ्रमुत्थाय भार्गवः । ददर्श देवं तेनैव वपुषा पुरतः स्थितम् ॥ २,२४.१९ ॥ आत्मनोऽनुग्रहार्थाय शरण्यं भक्तवत्सलम् । आविर्भूतं महाराज दृष्ट्वा रामः ससंभ्रमम् ॥ २,२४.२० ॥ रोमाञ्छोद्भिन्नसर्वाङ्गो हर्षाश्रुप्लुतलोचनः । पपात पादयोर्भूमौ भक्त्या तस्य महामतिः ॥ २,२४.२१ ॥ स गद्गदमुवाचैनं संभ्रमाकुलया गिरा । शरणं भव शर्वेति शङ्करेत्यसकृन्नृप ॥ २,२४.२२ ॥ ततः स्वरुपधृक्शंभुस्तद्भक्तिपरितोषितः । राममुत्थापयामास प्रणा मावनतं भुवि ॥ २,२४.२३ ॥ उत्थापितो जगद्धात्रा स्वहस्ताभ्यां भृगूद्वहः । तुष्टाव देवदेवेशं पुरः स्थित्वा कृताजलिः ॥ २,२४.२४ ॥ राम उवाच नमस्ते देवदेवाय शङ्करायादिमूर्त्तये । नमः शर्वाय शान्ताय शाश्वताय नमोनमः ॥ २,२४.२५ ॥ नमस्ते नीलकण्ठाय नीललोहितमूर्त्तये । नमस्ते भूतनाथाय भूतवासाय ते नमः ॥ २,२४.२६ ॥ व्यक्ताव्यक्तस्वरूपाय महादेवाय मीढुषे । शिवाय बहुरूपाय त्रिनेत्राय नमोनमः ॥ २,२४.२७ ॥ शरणं भव मे शर्व त्वद्भक्तस्य जगत्पते । भूयोऽनन्याश्रयाणां तु त्वमेव हि परायणम् ॥ २,२४.२८ ॥ यन्मयापकृतं देव दुरुक्तं वापि शङ्कर । अजानता त्वां भगवन्मम तत्क्षन्तुमर्हसि ॥ २,२४.२९ ॥ अनन्यवेद्यरुपस्य सद्भावमिहकः पुमान् । त्वामृते तव सर्वेश सम्यक्शक्रोति वेदितुम् ॥ २,२४.३० ॥ तस्मात्त्वं सर्वभावेन प्रसीद मम शङ्कर । नान्यास्ति मे गतिस्तुभ्यं नमो भूयो नमो नमः ॥ २,२४.३१ ॥ वसिष्ठ उवाच इति संस्तूयमानस्तु कृताञ्जलिपुटं पुरः । तिष्ठन्तमाह भगवान्प्रसन्नात्मा जगन्मयः ॥ २,२४.३२ ॥ भगवानुवाच प्रीतोऽस्मि भवते तात तपसानेन सांप्रतम् । भक्त्या चैवानपायिन्या ह्यपि भार्गवसत्तम ॥ २,२४.३३ ॥ दास्ये चाभि मतं सवे भवतेऽहं त्वया वृतम् । भक्तो हि मे त्वमत्यर्थं नात्र कार्या विचारणा ॥ २,२४.३४ ॥ मयैवावगतं सर्वं त्दृदि वत्तेऽद्यवर्त्तते । तस्माद्ब्रवीमि यत्त्वाहं तत्कुरुष्वाविशङ्कितम् ॥ २,२४.३५ ॥ नास्त्राणां धारणे वत्स विद्यते शक्तिरद्य ते । रौद्राणां तेन भूयोऽपि तपो घोरं समाचर ॥ २,२४.३६ ॥ परीत्य पृथिवीं सर्वां सर्वतीर्थेषु च क्रमात् । स्रात्वा पवित्रदेहस्त्तवं सर्वाण्यस्त्राण्यवाप्स्यसि ॥ २,२४.३७ ॥ इत्युक्त्वान्तर्दधे देवस्तेनैव वपुषा विभुः । रामस्य पश्यतो राजन्क्षणेन भवभागकृत् ॥ २,२४.३८ ॥ अन्तर्हिते जगन्नाथे रामो नत्वा तु शङ्करम् । परीत्यवसुधां सर्वां तीर्थस्नानेऽकरोन्मनः ॥ २,२४.३९ ॥ ततः स पृथिवीं सर्वां परिक्रम्य यथाक्रमम् । चकार सर्वतीर्थेषु स्नानं विधिवदात्मवान् ॥ २,२४.४० ॥ तीर्थेषु क्षेत्रमुख्येषु तथा देवालयेषु च । पितॄन्देवांश्च विधिवदतर्पयदतन्द्रितः ॥ २,२४.४१ ॥ उपवासतपोहोमजपस्नानादिसुक्रियाः । तीर्थेषु विधिवत्कुर्वन्परिचक्राम मेदिनीम् ॥ २,२४.४२ ॥ एवं क्रमेण तीर्थेषु स्नात्वा चैव वसुंधराम् । प्रदक्षिणीकृत्य शनैः शुद्धदेहोऽभवन्नृप ॥ २,२४.४३ ॥ परीत्यैवं वसुमतीं भार्गवः शंभुशासनात् । जगां भूयस्तं देशं यत्र पूर्वमुवास सः ॥ २,२४.४४ ॥ गत्वा राजन्सतत्रैव स्थित्वा देवमुमापतिम् । भक्त्या संपूजयामास तपोभिर्न्नियमैरपि ॥ २,२४.४५ ॥ एतस्मिन्नेव काले तु देवानामसुरैः सह । बभूव सुचिरं राजन्संग्रामो रोमहर्षणः ॥ २,२४.४६ ॥ ततो देवान्पराजित्य युद्धेऽतिबलिनोऽसुराः । अवापुरमरैश्वर्यमशेषमकुतोभयाः ॥ २,२४.४७ ॥ युद्धे पराजिता देवाः सकला वासवादयः । शङ्करं शरणं चग्मुर्हतैश्वर्या ह्यरातिभिः ॥ २,२४.४८ ॥ तोषयित्वा जगन्नाथं प्रणामजय संस्तवैः । प्रार्थयामासुरसुरान्हन्तुं देवाः पिनाकिनम् ॥ २,२४.४९ ॥ ततस्तेषां प्रतिश्रुत्य दानवानां वधं नृप । देवानां वरदः शंभुर्महो दरमुवाच ह ॥ २,२४.५० ॥ हिमद्रेर्दक्षिणे भागे रामो नाम महातपाः । मुनिपुत्रोऽतितेजस्वी मामुद्दिश्य तपस्यति ॥ २,२४.५१ ॥ तत्र गत्वात्वमद्यैव निवेद्य मम शासनम् । महोदर तपस्यन्तं तमिहानय माचिरम् ॥ २,२४.५२ ॥ इत्याज्ञप्रस्तथेत्युक्त्वा प्रणभ्येशं महोदरः । जगाम वायुवेगेन यत्र रामो व्यवस्थितः ॥ २,२४.५३ ॥ समासाद्य स तं देशं दृष्ट्वा रामं महामुनिम् । तपस्यन्तमिदं वाक्यमुवाच विनयान्वितः ॥ २,२४.५४ ॥ द्रष्टुमिच्छति शम्भुस्त्वां भृगुवर्यं तदाज्ञया । आगतोऽहं तदागच्छ तत्पादांबुजसन्निधिम् ॥ २,२४.५५ ॥ तच्छ्रुत्वा वचनं तस्य शीघ्रमुत्थाय भार्गवः । तदाज्ञां शिरसानन्द्य तथेति प्रत्यभाषत ॥ २,२४.५६ ॥ ततो रामं त्वरोपेतः शंभुपार्श्वं महोदरः । प्रापयामास सहसा कैलासे नागसत्तमे ॥ २,२४.५७ ॥ सहितं सकलैर्भूतैरिन्द्राद्यैश्च सहामरैः । ददर्श भार्गवश्रेष्ठः शङ्करं भक्तवत्सलम् ॥ २,२४.५८ ॥ संस्तूयमानं मुनिभिर्नारदाद्यैस्तपोधनैः । गन्धर्वैरुपगायद्भिर्नृत्यद्भिश्चाप्सरोगणैः ॥ २,२४.५९ ॥ उपास्यमानं देवेशं गजचर्मधृताम्बरम् । भस्मोद्धूलितसर्वाङ्गं त्रिनेत्रं चन्द्रशेखरम् ॥ २,२४.६० ॥ धृतपिङ्गजटाभारं नागाभरमभूषितम् । प्रलम्बोष्ठभुजं सौम्यं प्रसन्नमुखपङ्कजम् ॥ २,२४.६१ ॥ आस्थितं काञ्चने पट्टे गीर्वाणसमितौ नृप । उपासर्पत्तु देवेशं भृगुवर्यः कृताञ्जलिः ॥ २,२४.६२ ॥ श्रीकण्ठदर्शनोद्वत्तरोमाञ्चाञ्चितविग्रहः । बाष्पत्तु सिक्तकायेन स तु गत्वा हरान्तिकम् ॥ २,२४.६३ ॥ भक्त्या ससंभ्रमं वाचा हर्षगद्गदयासकृत् । नमस्ते देवदेवेति व्यालपन्नाकुलाक्षरम् ॥ २,२४.६४ ॥ पपात संस्पृशन्मूर्ध्ना चरणौ पुरविद्विषः । पश्यतां देववृन्दानां मध्ये भृगुकुलोद्वहम् ॥ २,२४.६५ ॥ तमुत्थाप्य शिवः प्रीतः प्रसन्नमुखपङ्कजम् । रामं मधुरया वाचा प्रहसन्नाह सादरम् ॥ २,२४.६६ ॥ इमे दैत्यगणैः क्रान्ताः स्वाधिष्ठानात्परिच्युताः । अशक्रुवन्तस्तान्हन्तुं गीर्वाणा मामुपागताः ॥ २,२४.६७ ॥ तस्मान्ममाज्ञया राम देवानां च प्रियेप्सया । जहि दैत्यगणान्सर्वान्समर्थस्त्वं हि मे मतः ॥ २,२४.६८ ॥ ततो रामोऽब्रवीच्छर्वं प्रणिपत्य कृताञ्जलिः । शृण्वतां सर्वदेवानां सप्रश्रयमिदं वचः ॥ २,२४.६९ ॥ स्वामिन्न विदितं किं ते सर्वज्ञस्याखिलात्मनः । तथापि विज्ञापयतो वचनं मेऽवधारय ॥ २,२४.७० ॥ यदि शक्रादिभिर्देवैरखिलैरमरारयः । न शक्या हन्तुमेकस्य शक्याः स्यस्ते कथं मम ॥ २,२४.७१ ॥ अनस्त्रज्ञोऽस्मि देवेश युद्धानामप्यकोविदः । कथं हनिष्ये सकलान्सुरशत्रूननायुधः ॥ २,२४.७२ ॥ इत्युक्तस्तेन देवेशः सितं कालाग्निसप्रभम् । शैवमस्त्रमयं तेजो ददौ तस्मै महात्मने ॥ २,२४.७३ ॥ आत्मीयं परशुं दत्वा सर्वशस्त्राभिभावकम् । रामपाह प्रसन्नात्मा गीर्वाणानां तु शृण्वतम् ॥ २,२४.७४ ॥ मत्प्रसादेन सकलान्सुरशत्रून्विनिघ्नतः । शक्तिर्भवतु ते सौम्य समस्तारिदुरासदा ॥ २,२४.७५ ॥ अनेनैवायुधेन त्वं गच्छ युध्यस्व शत्रुभिः । स्वयमेव च वेत्सि त्वं यथावद्युद्धकौशलम् ॥ २,२४.७६ ॥ वसिष्ठ उवाच एवमुक्तस्ततो रामः शंभुना तं प्रणम्य च । जग्राह परशुं शैव विबुधारिवधोद्यतः ॥ २,२४.७७ ॥ ततः स शुशुभे रामो विष्णुतेर्ञ्जोऽशसंभवः । रुद्रभक्त्या समायुक्तो द्युत्येव सवितुर्महः ॥ २,२४.७८ ॥ सोऽनुज्ञातस्त्रिनेत्रेण देवैः सर्वैः समन्वितः । जगाम हन्तुमसुरान्युद्धाय कृतनिश्चयः ॥ २,२४.७९ ॥ ततोऽभवत्पुनर्युद्धं देवानामसुरैः सह । त्रैलोक्यविजयोद्युक्तै राजन्नतिभयङ्करम् ॥ २,२४.८० ॥ अथ रामो महाबाहुस्तस्मिन्युद्धे सुदारुणे । कुद्धः परशुना तेन निजघान महासुरान् ॥ २,२४.८१ ॥ प्रहारैरशनिप्रख्यैर्निघ्नन्दैत्यान्सहस्रशः । चचार समरे रामः क्रुद्धः काल इवापरः ॥ २,२४.८२ ॥ हत्वा तु सकलान्दैत्यान्देवान्सर्वानहर्षयत् । क्षणेन नाशयामास रामः प्रहरतां वरः ॥ २,२४.८३ ॥ रामेण हन्यमा नास्तु समस्ता दैत्यदानवाः । ददृशुः सर्वतो रामं हतशेषा भयान्विताः ॥ २,२४.८४ ॥ हतेष्वसुरसंघेषु विद्रुतेषु च कृत्स्नशः । राममामन्त्र्य विबुधाः प्रययुस्त्रिदिवं पुनः ॥ २,२४.८५ ॥ रामोऽपि हत्वा दितिजानभ्यनुज्ञाप्य चामरान् । स्वमाश्रमं समापेदे तपस्यासक्तमानसः ॥ २,२४.८६ ॥ मृगव्याधप्रतिकृतिं कृत्वा शम्भोर्महामतिः । भक्त्या संपूजयामास स तस्मिन्नाश्रमेवशी ॥ २,२४.८७ ॥ गन्धैः पुष्पैस्तथा हृद्यैर्नैवेद्यैरभिवन्दनैः । स्तोत्रैश्च विधिवद्भक्त्या परां प्रीतिमुपानयत् ॥ २,२४.८८ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादेर्ऽजुनोपाख्याने चतुर्विंशतितमोऽध्यायः ॥ २४॥ _____________________________________________________________ वसिष्ठ उवाच ततस्त द्रक्तियोगेन स प्रीतात्मा जगत्पतिः । प्रत्यक्षमगमत्तस्य सर्वैः सह मरुद्गणैः ॥ २,२५.१ ॥ तं दृष्ट्वा देवदेवेशं त्रिनेत्रं चन्द्रशेखरम् । वृषेन्द्रवाहनं शंभुं भूतकोटिसमन्वितम् ॥ २,२५.२ ॥ ससंभ्रमं समुत्थाय हर्षेणाकुललोचनः । प्रणाममकरोद्भक्त्या शर्वाय भुवि भार्गवः ॥ २,२५.३ ॥ उत्थायोत्थाय देवेशं प्रणम्य शिरसासकृत् । कृताञ्जलिपुटो रामस्तुष्टाव च जगत्पतिम् ॥ २,२५.४ ॥ राम उवाच नमस्ते देवदेवेश नमस्ते परमेश्वर । नमस्ते जगतो नाथ नमस्ते त्रिपुरान्तक ॥ २,२५.५ ॥ नमस्ते सकलाध्यक्ष नमस्ते भक्तवत्सल । नमस्ते सर्वभूतेश नमस्ते वृषभध्वज ॥ २,२५.६ ॥ नमस्ते सकलाधीश नमस्ते करुणाकर । नमस्ते सकलावास नमस्ते नीललोहित ॥ २,२५.७ ॥ नमः सकलदेवारिगणनाशाय शूलिने । कपालिने नमस्तुभ्यं सर्वलोकैकपालिने ॥ २,२५.८ ॥ श्मशानवासिने नित्यं नमः कैलासवासिने । नमोऽस्तु पाशिने तुभ्यं कालकूटविषाशिने ॥ २,२५.९ ॥ विभवेऽमरवन्द्याय प्रभवे ते स्वयंभुवे । नमोऽखिलजगत्कर्मसाक्षिभूताय शंभवे ॥ २,२५.१० ॥ नमस्त्रिपथ गाफेनभासिगार्द्धन्दुमौलिने । महाभोगीन्द्रहाराय शिवाय परमात्मने ॥ २,२५.११ ॥ भस्मसंच्छन्नदेहाय नमोर्ऽकाग्नीन्दुचक्षुषे । कपर्दिने नमस्तुभ्यमन्धकासुरमर्द्दिने ॥ २,२५.१२ ॥ त्रिपुरध्वंसिने दक्षयज्ञविध्वंसिने नमः । गिरिजाकुचकाश्मीरविरञ्जितमहोरसे ॥ २,२५.१३ ॥ महादेवाय मह ते नमस्ते कृत्तिवाससे । योगिध्येयस्वरूपाय शिवायाचिन्त्यतेजसे ॥ २,२५.१४ ॥ स्वभक्तहृदयांभोजकर्णिकामध्यवर्त्तिने । सकलागमसिद्धान्तसाररूपाय ते नमः ॥ २,२५.१५ ॥ नमो निखिलयोगेन्द्रबोधनायामृतात्मने । शङ्करायाखिलव्याप्तमहिम्ने परमात्मने ॥ २,२५.१६ ॥ नमः शर्वाय शान्ताय ब्रह्मणे विश्वरुपिणे । आदिमध्यान्तहीनाय नित्यायाव्यक्तमूर्त्तये ॥ २,२५.१७ ॥ व्यक्ताव्यक्तस्वरूपाय स्थूलसूक्ष्मात्मने नमः । नमो वेदान्तवेद्याय विश्वविज्ञानरूपिणे ॥ २,२५.१८ ॥ नमः सुरासुरश्रेणिमौलिपुष्पार्चिताङ्घ्रये । श्रीकण्ठाय जगद्धात्रे लोककर्त्रे नमोनमः ॥ २,२५.१९ ॥ रजोगुणात्मने तुभ्यं विश्वसृष्टिविधायिने । हिरण्यगर्भरूपाय हराय जगदादये ॥ २,२५.२० ॥ नमो विश्वात्मने लोकस्थितिव्या पारकारिणे । सत्त्वविज्ञानरुपाय पराय प्रत्यगात्मने ॥ २,२५.२१ ॥ तमोगुणविकाराय जगत्संहारकारिणे । क्ल्पान्ते रुद्ररूपाय परापर विदे नमः ॥ २,२५.२२ ॥ अविकाराय नित्याय नमः सदसदात्मने । बुद्धिबुद्धिप्रबोधाय बुद्धीन्द्रियविकारिणे ॥ २,२५.२३ ॥ वस्वादित्यमरुद्भिश्च साध्यरुद्राश्विभेदतः । यन्मायाभिन्नमतयो देवास्तस्मै नमोनमः ॥ २,२५.२४ ॥ अविकारमजं नित्यं सूक्ष्मरूपमनौपमम् । तव यत्तन्न जानन्ति योगिनोऽपि सदामलाः ॥ २,२५.२५ ॥ त्वामविज्ञाय दुर्ज्ञेयं सम्यग्ब्रह्मादयोऽपि हि । संसरन्ति भवे नूनं न तत्कर्मात्मकाश्चिरम् ॥ २,२५.२६ ॥ यावन्नोपैति चरणौ तवाज्ञानविघातिनः । तावद्भ्रमति संसारे पण्डितोऽचेतनोऽपि वा ॥ २,२५.२७ ॥ स एव दक्षः स कृती स मुनिः स च पण्डितः । भवतश्चरणांभोजे येन बुद्धिः स्थिरीकृता ॥ २,२५.२८ ॥ सुसूक्ष्मत्वेन गहनः सद्भावस्ते त्रयीमयः । विदुषामपि मूढेन स मया ज्ञायते कथम् ॥ २,२५.२९ ॥ अशब्दगोजरत्वेन महिम्नस्तव सांप्रतम् । स्तोतुमप्यनलं सम्यक्त्वा महं जडधीर्यतः ॥ २,२५.३० ॥ तस्मादज्ञानतो वापि मया भक्त्यैव संस्तुतः । प्रीतश्च भव देवेश ननु त्वं भक्तवत्सलः ॥ २,२५.३१ ॥ वसिष्ठ उवाच इति स्तुतस्तदा तेन भक्त्या रामेण शङ्करः । मेघगंभीरया वाचा तमुवाच हसन्निव ॥ २,२५.३२ ॥ भगवानुवाच रामाहं सुप्रसन्नोऽस्मि शोर्ंयशालितया तव । तपसा मयि भक्त्या च स्तोत्रेण च विशेषतः ॥ २,२५.३३ ॥ वरं वरय तस्मात्त्वं यद्यदिच्छसि चेतसा । तुभ्यं तत्तदशेषेण दास्याम्यहमशेषतः ॥ २,२५.३४ ॥ वसिष्ठ उवाच इत्युक्तो देवदेवेन तं प्रणम्य भृगूद्वहः । कृताञ्जलिपुटो भूत्वा राजन्निदमुवाच ह ॥ २,२५.३५ ॥ यदि देव प्रसन्नस्त्वं वारर्हेऽस्मि च यद्यहम् । भवतस्तदभीप्सामि हेतुमस्त्राण्यशेषतः ॥ २,२५.३६ ॥ अस्त्रे शस्त्रे च शास्त्रे च न मत्तोऽभ्यधिको भवेत् । लोकेषु मांरणेजेता न भवेत्त्वत्प्रसादतः ॥ २,२५.३७ ॥ वसिष्ठ उवाच तथेत्युक्त्वा ततः शंभुरस्त्रशस्त्राण्यशेषतः । ददौ रामाय सुप्रीतः समन्त्राणि क्रमान्नृप ॥ २,२५.३८ ॥ सप्रयोगं ससंहारमस्त्रग्रामं चतुर्विधम् । प्रसादाभिमुखो रामं ग्राहयामास शङ्करः ॥ २,२५.३९ ॥ असंगवेगं शुभ्राश्वं सुध्वजं च रथोत्तमम् । इषुधी चाक्षयशरौ ददौ रामाय शङ्करः ॥ २,२५.४० ॥ अभेद्यमजरं दिव्यं दृढज्यं विजयं धनुः । सर्वशस्त्रसहं चित्रं कवचं च महाधनम् ॥ २,२५.४१ ॥ अजेयत्वं च युद्धेषु शौर्यं चाप्रतिमं भुवि । स्वेच्छया धारणे शाक्तिं प्राणानां च नराधिप ॥ २,२५.४२ ॥ ख्यातिं च बीजमेत्रेण तन्नाम्ना सर्वलौकिकीम् । तपः प्रभावं च महत्प्रददौ भार्गवाय सः ॥ २,२५.४३ ॥ भक्ति चात्मनि रामाय दत्त्वा राजन्यथोचिताम् । सहितः सकलैर्भूतैश्चामरैश्चन्द्रशेखरः ॥ २,२५.४४ ॥ तेनैव वपुषा शंभुः क्षिप्रमन्तरधाद्धरः । कृतकृत्यस्ततो रामो लब्ध्वा सर्वमभीप्सितम् ॥ २,२५.४५ ॥ अदृश्यतां गते शर्वे महोदरमुवाच ह । महोदर मदर्थे त्वमिदं सर्वमशेषतः ॥ २,२५.४६ ॥ रथचापादिकं तावत्परिरक्षितुमर्हसि । यदा कृत्यं ममैतेन तदानीं त्वं मया स्मृतः । रथचापादिकं सर्वं प्रहिणु त्वं मदन्तिकम् ॥ २,२५.४७ ॥ वसिष्ठ उवाच तथेत्युक्त्वा गते तस्मिन्भृगुवर्यो महोदरे । कृतकृत्यो गुरुजनं द्रष्टुं गन्तुमियेष सः ॥ २,२५.४८ ॥ गच्छन्नथ तदासौ तु हिमाद्रिवनगह्वरे । विवेश कन्दरं रामो भाविकर्मप्रचोदितः ॥ २,२५.४९ ॥ स तत्र ददृशे बालं धृतप्राणमनुद्रुतम् । व्याघ्रेण विप्रतनयं रुदन्तं भीतभीतवत् ॥ २,२५.५० ॥ दृष्ट्वानुकंपहृदयस्तत्परित्राणकातरः । तिष्ठतिष्ठेति तं व्याघ्रं वदन्नुच्चैरथान्वयात् ॥ २,२५.५१ ॥ तमनुद्रुत्य वेगेन चिरादिव भृगूद्वहः । आससाद वने घोरं शार्दूलमतिभीषणम् ॥ २,२५.५२ ॥ व्याघ्रेणानुद्रुतः सोऽपि पलायन्वनगह्वरे । निपपात द्विजसुतस्त्रस्तः प्राणभयातुरः ॥ २,२५.५३ ॥ रामोऽपि क्रोधरक्ताक्षो विप्रपुत्रपरीप्सया । तृणमूलं समादाय कुशास्त्रेणाभ्यमन्त्रयत् ॥ २,२५.५४ ॥ तावत्तरक्षुर्बलवानाद्रवत्पतितं द्विजम् । दृष्ट्वा ननादसुभृशं रोदसी कम्पयन्निव ॥ २,२५.५५ ॥ दग्ध्वा त्वस्त्राग्निना व्याघ्रं प्रहरन्तं नखाङ्कुरैः । अकृतव्रणमेवाशु मोक्षयामास तं द्विजम् ॥ २,२५.५६ ॥ सोऽपि ब्रह्माग्निनिर्दग्धदेहः पाप्मा नभस्तले । गान्धर्वं वपुरास्थाय राममाहेति सादरम् ॥ २,२५.५७ ॥ विप्रशापेन भोपूर्वमहं प्राप्तस्तरक्षुताम् । गच्छामि मोचितः शापात्त्वयाहमधुना दिवम् ॥ २,२५.५८ ॥ इत्युक्त्वा तु गते तस्मिन्रामो वेगेन विस्मितः । पतितं द्विजपुत्रं तं कृपया व्यवपद्यत ॥ २,२५.५९ ॥ माभैरेवं वदन्वाणीमारादेव द्विजात्मजम् । परमृशत्तदङ्गानि शनैरुज्जीवयन्नृप ॥ २,२५.६० ॥ रामेणोत्थापितश्चैवं स तदोन्मील्य लोचने । विलोकयन्ददर्शाग्रे भृगुश्रेष्ठमवस्थितम् ॥ २,२५.६१ ॥ भस्मीकृतं च शार्दूलं दृष्टवा विस्मयमागतः । गतभीराह कस्त्वं भोः कथं वेह समागतः ॥ २,२५.६२ ॥ केन वायं निहन्तुं मामुद्यतो भस्मसात्कृतः । तरक्षुर्भीषणाकारः साक्षान्मृत्युरिवापरः ॥ २,२५.६३ ॥ भयसंमूढमनमो ममाद्यापि महामते । हतेऽपि तस्मिन्नखिला भान्ति वै तन्मया दिशः ॥ २,२५.६४ ॥ त्वामेव मन्ये सकलं पिता माता सुत्दृद्गुरू । परमापदमापन्नं त्वं मां समुपजीवयन् ॥ २,२५.६५ ॥ आसीन्मुनिवरः कश्चिच्छान्तो नाम महातपाः । पुत्रस्तस्यास्मि तीर्थार्थी शालग्राममयासिषम् ॥ २,२५.६६ ॥ तस्मात्संप्रस्थितश्शैलं दिदृक्षुर्गन्धमादनम् । नानामुनिगणैर्जुष्टं पुण्यं बदरिकाश्रमम् ॥ २,२५.६७ ॥ गन्तुकामोऽपहायाहं पन्थानं तु हिमाचले । प्रविशन्गहनं रम्यं प्रदेशालोकनाकुलम् ॥ २,२५.६८ ॥ दिशंप्राचीं समुद्दिश्य क्रोशमात्रमयासिषम् । ततो दिष्टवशेनाहं प्राद्रवं भयपीडितः ॥ २,२५.६९ ॥ पतितश्च त्वया भूयोभूमेरुत्थापितोऽधुना । पित्रेव नितरां पुत्रः प्रेम्णात्यर्थं दयालुना । इत्येष मम वृत्तान्तः साकल्येनोदितस्तव ॥ २,२५.७० ॥ वसिष्ठ उवाच इति पृष्टस्तदा तेन स्ववृत्तान्तमशेषतः । कथयामास राजेन्द्र रामस्तस्मै यथाक्रमम् ॥ २,२५.७१ ॥ ततस्तौ प्रीतिसंयुक्तौ कथयन्तौ परस्परम् । स्थित्वा नातिचिरं कालमथ गन्तुमियेष सः ॥ २,२५.७२ ॥ अन्वीयमानस्तेनाथ रामस्तस्माद्गुहामुखात् । निष्क्रम्यावसथं पित्रोः संप्रतस्थे मुदान्वितः ॥ २,२५.७३ ॥ अकृतव्रण एवासौ व्याघ्रेण भुवि पातितः । रामेण रक्षितश्चाभुद्यस्माद्ध्याघ्रं विनिघ्नता ॥ २,२५.७४ ॥ तस्मात्तदेव नामास्य बभूव प्रथितं भुवि । विप्रपुत्रस्य राजेन्द्र तदेतत्सोऽकृतव्रणः ॥ २,२५.७५ ॥ तदा प्रभृति रामस्य च्छायेवातपगा भुवि । बभूव मित्रमत्यर्थं सर्वावस्थासु पार्थिव ॥ २,२५.७६ ॥ स तेनानुगतो राजन्भृगोरासाद्य सन्निधिम् । दृष्ट्वा ख्यातिं च सोऽभ्येत्य विनयेनाभ्यवादयत् ॥ २,२५.७७ ॥ स ताभ्यां प्रियमाणाभ्यामाशीर्भिरभिनन्दितः । दिनानि कतिचित्तत्र न्यवसत्तत्प्रियेप्सया ॥ २,२५.७८ ॥ ततस्तयोरनुमते च्यवनस्य महामुनेः । आश्रमं प्रतिचक्राम शिष्यसंघैः समावृतम् ॥ २,२५.७९ ॥ नियन्त्रितान्तः करणं तं च संशान्तमानसम् । सुकन्याचापि तद्भार्यामवन्दत महामनाः ॥ २,२५.८० ॥ ताभ्यां च प्रीतियुक्ताभ्यां रामः समभिनन्दितः । और्वाश्रमं समापेदे द्रष्टुकामस्तपोनिधिम् ॥ २,२५.८१ ॥ तं चाभिवाद्य मेधावी तेन च प्रतिनन्दितः । उवास तत्र तत्प्रीत्या दिनानि कतिचिन्नृप ॥ २,२५.८२ ॥ विसृष्टस्तेन शनकैरृचीकभवनं मुदा । प्रतस्थे भार्गवः श्रीमानकृतव्रणसंयुतः ॥ २,२५.८३ ॥ अवन्दत पितुः पित्रोर्नत्वा पादौ पृथक्पृथक् । तौ च तं नृप संहर्षाच्चाशिषा प्रत्यनन्दताम् ॥ २,२५.८४ ॥ पृष्टश्च ताभ्यामखिलं निजवृत्तमुदारधीः । कथयामास राजेन्द्र यथावृत्तमनुक्रमात् ॥ २,२५.८५ ॥ स्थित्वा दिनानि कतिचित्तत्रापि तदनुज्ञया । जगामावसथं पित्रोर्मुदा परमया युतः ॥ २,२५.८६ ॥ अभ्येत्य पितरौ राजन्नासी नावाश्रमोत्तमे । अवन्दत तयोः पादौ यथावद्भृगुनन्दन ॥ २,२५.८७ ॥ पादप्रणामावनतं समुत्थाप्य च सादरम् । आश्लिष्य नेत्रसलिलैर्नन्दन्तौ पर्यषिञ्चताम् ॥ २,२५.८८ ॥ आशीर्भिरभिनन्द्याङ्के समारोप्य सुहुर्मुखम् । विक्षन्तौ तस्य चाङ्गानि परिस्पृश्यापतुर्मुदम् ॥ २,२५.८९ ॥ अपृच्छताञ्च तौ रामं कलेनैतावता त्वया । किं कृतं पुत्र को वायं कुत्र वा त्वमुपस्थितः ॥ २,२५.९० ॥ कथं सह सकाशे त्वमास्थितो वात्र वागतः । त्वयेतदखिलं वत्स कथ्यतां तथ्यमावयोः ॥ २,२५.९१ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादेर्ऽजुनोपाख्याने भार्गवचरिते पञ्चविंशतितमोऽध्यायः ॥ २५॥ _____________________________________________________________ वशिष्ठ उवाच इति पृष्टस्तदा ताभ्यां रामो राजन्कृताञ्जलिः । तयोरकथयत्सर्वमात्मना यदनुष्ठितम् ॥ २,२६.१ ॥ निदेशाद्वै कुलगुरोस्तपश्चरणमात्मनः । शंभोर्निदेशात्तीर्थानामटनं च यथाक्रमम् ॥ २,२६.२ ॥ तदाज्ञयैव दैत्यनां वधं चामरकारणात् । हरप्रसादादत्रापि ह्यकृतव्रणदर्शनम् ॥ २,२६.३ ॥ एतत्सर्वमशेषेण यदन्यच्चात्मना कृतम् । कथयामास तद्रामः पित्रोः संप्रीयमाणयोः ॥ २,२६.४ ॥ तौ च तेनोदितं सर्वं श्रुत्वा तत्कर्म विस्तरम् । हृष्टौ हर्षान्तरं भूयो राजन्नाप्नुवतावुभौ ॥ २,२६.५ ॥ एवं पित्रोर्महाराज शुश्रूषां भृगुपुङ्गवः । प्रकुर्वंस्तद्विधेयात्मा भ्रातॄणां चाविशेषतः ॥ २,२६.६ ॥ एतस्मिन्नेव काले तु कदाचिद्धैहयेश्वरः । इत्येष मृगयां गान्तुं चतुरङ्गबलान्वितः ॥ २,२६.७ ॥ संरज्यमाने गगने बन्धूककुसुमारुणैः । ताराजालद्युतिहरैः समन्तादरुणांशुभिः ॥ २,२६.८ ॥ मन्दं वीजति प्रोद्धूतकेतकीवनराजिभिः । प्राभातिके गन्धवहे कुमुदाकरसंस्पृशि ॥ २,२६.९ ॥ वयांसि नर्मदातीरतरुनीडाश्रयेषु च । व्याहरन्स्वाकुला वाचो मनःश्रोत्रसुखावहाः ॥ २,२६.१० ॥ नर्मदातीरतीर्थं तदवतीर्याघहारिणि । तत्तोये मुनिवृन्देषु गृणात्सुब्रह्म शाश्वतम् ॥ २,२६.११ ॥ विधिवत्कृतमैत्रेषु सन्निवृत्य सरित्तटात् । आशमं प्रति गच्छत्सु मुनिमुख्येषु कर्मिषु ॥ २,२६.१२ ॥ प्रत्येकं वीरपत्नीषु व्यग्रासु गृहकर्मसु । होमार्थं मुनिकल्पाभिर्दुह्यमानासु धेनुषु ॥ २,२६.१३ ॥ स्थाने मुनिकुमारेषु तं दोहं हि नयत्सु च । अग्निहोत्राकुले जाते सर्वभूतसुखावहे ॥ २,२६.१४ ॥ विकसत्सु सरोजेषु गायत्सु भ्रमरेषु च । वाशत्सु नीडान्निष्पत्य पतत्रिषु समन्ततः ॥ २,२६.१५ ॥ अनति व्यग्रमत्तेभतुरङ्गरथगामिनाम् । गात्राल्हादविवर्द्धन्यां वेलायां मन्दवायुना ॥ २,२६.१६ ॥ गच्छत्सु चाश्रमोपान्तं प्रसूनजलहारिषु । स्वाध्या यदक्षैर्बहुभिरजिनांबरधारिभिः ॥ २,२६.१७ ॥ सम्यक्प्रयोज्यमानेषु मन्त्रेषूच्चावचेषु च । प्रैषेषूच्चार्यमाणेषु हूयमानेषु वह्निषु ॥ २,२६.१८ ॥ यथा वन्मन्त्रतन्त्रोक्तक्रियासु विततासु च । ज्वलदग्निशिखाकारे तमस्तपनतेजसि ॥ २,२६.१९ ॥ प्रतिहत्य दिशः सर्वा विवृण्वाने च मेदिनीम् । सवितर्युदयं याति नैशे तमसि नश्यति ॥ २,२६.२० ॥ तारकासु विलीनासु काष्ठासु विमलासु च । कृतमैत्रादिको राजा मृगयां हैहयेश्वरः ॥ २,२६.२१ ॥ निर्ययौ नगरात्तस्मात्पुरोहितसमन्वितः । बलैः सर्वैः समुदितैः सवाजिरथकुञ्जरैः ॥ २,२६.२२ ॥ सचिवः सहितः श्रीमान् सवयोभिश्च राजभिः । महता बलभारेण नमयन्वसुधातलम् ॥ २,२६.२३ ॥ नादयन्रथघोषेण ककुभः सर्वतो नृपः । स्वबलौघपदक्षेपप्रक्षुण्णावनिरेणुभिः ॥ २,२६.२४ ॥ ययौ संच्छादयन्व्योम विमानशतसंकुलम् । संप्रवश्य वनं घोरं विन्ध्योद्रेर्बलसंचयैः ॥ २,२६.२५ ॥ भृशं विलोलया मास समन्ताद्राजसत्तमः । परिवार्य वनं तत्तु स राजा निजसैनिकैः ॥ २,२६.२६ ॥ मृगान्नानाविधान्हिंस्रान्निजघान शितैः शरैः । आकर्णकृष्टकोदण्डयोधमुक्तैः शितेषुभिः ॥ २,२६.२७ ॥ निकृत्तगात्राः शार्दूला न्यपतन्भुवि केचन । उदग्रवेगपादातखड्गखण्डितविग्रहाः ॥ २,२६.२८ ॥ वराहयूथपाः केचिद्रुधिरार्द्रा धरामगुः । प्रचण्डशाक्तिकोन्मुक्तशक्तिनिर्भिन्नमस्तकाः ॥ २,२६.२९ ॥ मृगौघाः प्रत्यपद्यन्त पर्वता इव मेदिनीम् । नाराचा विद्धसर्वाङ्गाः सिंहर्क्षशरभादयः ॥ २,२६.३० ॥ वसुधामन्वकीर्यन्त शोणितार्द्राः समन्ततः । एवं सवागुरैः कैश्चित्पतद्भिः पतितैरपि ॥ २,२६.३१ ॥ श्वभिश्चानुद्रुतैः कैश्चिद्धावमानैस्तथा मृगैः । आत्तैर्विक्रोशमानैश्च भीतैः प्राणभयातुरैः ॥ २,२६.३२ ॥ युगापाये यथात्यर्थं वनमाकुलमाबभौ । वराहसिंहशार्दूलश्वाविच्छशकुलानि च ॥ २,२६.३३ ॥ चमरीरुरुगोमायुगवयर्क्षवृकान्बहून् । कृष्णसारान्द्वीपिमृगान्रक्तखड्गमृगानवि ॥ २,२६.३४ ॥ विचित्राङ्गान्मृगानन्यान्न्यङ्कूनपि च सर्वशः । बालान्स्तनन्धयान्यूनः स्थविरान्मिथुनान्गणान् ॥ २,२६.३५ ॥ निजघ्नुर्निशितैः शस्त्रैः शस्त्रवध्यान्हि सैनिकाः । एवं हत्वा मृगान् घोरान्हिंस्रप्रायानशेषतः ॥ २,२६.३६ ॥ श्रमेण महता युक्ता बभूवुर्नृपसैनिकाः । मध्ये दिनकरे प्राप्ते ससैन्यः स तदा नृपः ॥ २,२६.३७ ॥ नर्मदां धर्मसंतप्तः पिपासुरगमच्छनैः । अवतीय ततस्तस्यास्तोये सबलवाहनः ॥ २,२६.३८ ॥ विजागाह शुभे राजा क्षुत्तृष्णापरिपीडितः । स्नात्वा पीत्वा च सलिलं स तस्याः सुखशीतलम् ॥ २,२६.३९ ॥ बिसांकुराणि शुभ्राणि स्वादूनि प्रजघास च । विक्रीड्य तोये सुचिरमुत्तीर्य सबलो नृपः ॥ २,२६.४० ॥ विशश्राम च तत्तीरे तरुखण्डोपमण्डिते । आलंबपाने तिग्मांशौ ससैन्यः सानुगो नृपः ॥ २,२६.४१ ॥ निश्चक्राम पुरं गन्तुं विन्ध्याद्रिवनगह्वरात् । स गच्छन्नेव ददृशे नर्मदा तीरमाश्रितम् ॥ २,२६.४२ ॥ आश्रमं पुण्यशीलस्य जमदग्नेर्महात्मनः । ततो निवृत्य सैन्यानि दूरेऽवस्थाप्य पार्थिवः ॥ २,२६.४३ ॥ परिचारैः कतिपथैः सहितोऽयात्तदाशमम् । गत्वा तदाश्रमं रम्यं पुरोहितसमन्वितः ॥ २,२६.४४ ॥ उपेत्य मुनिशार्दूलं ननाम शिरसा नृपः । अभिनं द्याशषा तं वै जमदग्निर्नृपोत्तमम् ॥ २,२६.४५ ॥ पूजयामास विधिवदर्घपाद्यासनादिभिः । संभावयित्वा तां पूजां विहितां मुनिना तदा ॥ २,२६.४६ ॥ निषसादासने शुभ्र पुरस्तस्य महामुनेः । तमासीनं नृपवरं कुशासनगतो मुनिः ॥ २,२६.४७ ॥ पप्रच्छ कुशलप्रश्नं पुत्रमित्रादिबन्धुषु । सह संकथयंस्तेन राज्ञा मुनिवरोत्तमः ॥ २,२६.४८ ॥ स्थित्वा नातिचिरं कालमातिथ्यार्थं न्यमन्त्रयत् । ततः स राजा सुप्रीतो जमदग्नि मभाषत ॥ २,२६.४९ ॥ महर्षे देहि मेऽनुज्ञां गमिष्यामि स्वकं पुरम् । समग्रवाहनबलो ह्यहं तस्मान्महामुने ॥ २,२६.५० ॥ कर्तु न शक्यमा तिथ्यं त्वया वन्याशिना वने । अथवा त्वं तपःशक्त्या कर्तुमातिथ्यमद्य मे ॥ २,२६.५१ ॥ शक्नोष्यपि पुरीं गन्तुं मामनुज्ञातुर्हसि । अन्यथा चेत्खलैः सैन्यैरत्यर्थं मुनिसत्तम ॥ २,२६.५२ ॥ तपस्विनां भवेत्पीडा नियमक्षयकारिका । वसिष्ठ उवाच इत्येवमुक्तः स मुनिस्तं प्राहस्थीयतां क्षणम् ॥ २,२६.५३ ॥ सर्वं संपादयिथ्येऽहमातिथ्यं सानुगस्य ते । इत्युक्त्वाहूय तां दोग्ध्रीमुवाचायं ममातिथिः ॥ २,२६.५४ ॥ उपाग तस्त्वया तस्मात्क्रियतामद्य सत्कृतिः । इत्युक्ता मुनिना दोग्ध्री सातिथेयमशेषतः । दुदोह नृपतेराशु यद्योग्यं मुनिगौरवात् ॥ २,२६.५५ ॥ अथाश्रमं तत्सुरराजसद्मनिकाशमासीद्भृगुपुङ्गवस्य । विभूतिभेदैरविचिन्त्यरुपमनन्यसाध्यं सुरभिप्रभावात् ॥ २,२६.५६ ॥ अनेकरत्नोज्ज्वलचित्रहेमप्रकाशमालापरिवीतमुच्चैः । पूर्णेन्दुशुभ्राभ्रविषक्तशृङ्गैः प्रासादसंघैः परिवीतमन्तः ॥ २,२६.५७ ॥ कांस्यारकूटारसताम्रहेमदुर्वर्णसौधो पलदारुमृद्भिः । पृथग्विमिश्रैर्भवनैरनेकैः सद्भासितं नेत्रमनोभिरामैः ॥ २,२६.५८ ॥ महार्हरत्नोज्ज्वलहेमवेदिकानिष्कूटसोपानकुटीविटङ्ककैः । तुलाकपाटर्गलकुड्यदेहलीनिशान्तशालाजिरशोभितैर्भृशम् ॥ २,२६.५९ ॥ वलभ्यलिन्दाङ्गपाचारुतोरणैरदभ्रपर्यन्तचतुष्किकादिभिः । स्तंभेषु कुड्येषु च दिव्यरत्नविचित्रचित्रैः परिशोभमानैः ॥ २,२६.६० ॥ उच्चावचै रत्नवरैर्विचित्रसुवर्णसिंहासनपीठिकाद्यैः । स भक्ष्यभोज्यादिभि रन्नपानैरुपेतभाण्डोपगतैकदेशैः ॥ २,२६.६१ ॥ गृहैरमर्त्योचितसर्वसंपत्समन्वितैर्नेत्रमनोऽभिरामैः । तस्याश्रमं सन्नगरोपमानं बभौ वधूभिश्चमनोहराभिः ॥ २,२६.६२ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादेर्ऽजुनोपाख्याने षड्विंशतितमोऽध्यायः ॥ २६॥ _____________________________________________________________ वसिष्ठ उवाच तस्मिन्पुरे सन्तुलितामरेद्रपुरीप्रभावे मुनिवर्यधेनुः । विनिर्ममे तेषु गृहेषु पश्चात्तद्योग्यनारीनरवृन्दजातम् ॥ २,२७.१ ॥ विचित्रवेषाभरणप्रसूनगन्धांशुकालङ्कृतविग्रहाभिः । सहावभावाभिरुदारचेष्टाश्रीकान्तिसौन्दर्यगुणान्विताभिः ॥ २,२७.२ ॥ मन्दस्फुरद्दन्तमरीचिजाल विद्योतिताननसरोजजितेन्दुभाभिः । प्रत्यग्रयौवनभरासवल्गुगीर्भिः स प्रेममन्थरकटाक्षनिरीक्षणाभिः ॥ २,२७.३ ॥ प्रीतिप्रसन्नहृदयाभिरतिप्रभाभिः शृङ्गारकल्पतरुपुष्पविभूषिताभिः । देवाङ्गनातुलितसौभगसौकुमार्यरूपाभिलाषमधुराकृतिरञ्जिताभिः ॥ २,२७.४ ॥ उत्तप्तहेमकलशोपमचारुपीनवक्षोरुहद्वयभरानतमध्यमाभिः । श्रोणीभराक्रमणखेदपरिश्रितास्मृगारक्तपावकरसारुणिताङ्घ्रिभूभिः ॥ २,२७.५ ॥ केयूरहारमणिकङ्कणहेम कण्ठसूत्रामलश्रवणमण्डलमण्डिताभिः । स्रग्दामचुम्बितसकुन्तलकेशपाशकाञ्चीकलापपरिशिञ्जितनूपुराभिः ॥ २,२७.६ ॥ आमृष्टरोषपरिसांत्वननर्महासकेलीप्रियालपनभर्त्सनरोषणेषु । भावेषु पार्थिवनिजप्रियधैर्यबन्धसर्वापहारचतुरेषु कृतान्तराभिः ॥ २,२७.७ ॥ तन्त्रीस्वनोपमितमञ्जुलसौम्यगेयगन्धर्वतारमधुरारवभाषिणीभिः । वीणाप्रवीणतरपाणितलाङ्गुलीभिर्गंभीरचक्रचटुवादरतोत्सुकाभिः ॥ २,२७.८ ॥ स्त्रीभिर्मदालस तराभिरतिप्रगल्भभावाभिराकुलितकामुकमानसाभिः । कामप्रयोगनिपुणाभिरहीनसंपदौदार्यरूपगुणशीलसमन्विताभिः ॥ २,२७.९ ॥ संख्यातिगाभिरनिशं गृहकृत्यकर्मव्यग्रात्मकाभिरपि तत्परिचारिकाभिः । पुंभिश्च तद्गुणगणोचितरूपशोभैरुद्भासितैर्गृहचरैः परितः परीतम् ॥ २,२७.१० ॥ सराजमार्गापणसौधसद्मसोपानदेवालयचत्वरेषु । पौरैरशेषार्थगुणैः समन्तादध्यास्यमानं परिपूर्णकामैः ॥ २,२७.११ ॥ अनेक रत्नोज्ज्वलितैर्विचित्रैः प्रासादसंघैरतुलैरसंख्यैः । रथाश्वमातङ्गखरोष्ट्रगोजायोग्यैरनेकैरपि मन्दिरैश्च ॥ २,२७.१२ ॥ नरेद्रसामन्तनिषादिसादिपदातिसेनपतिनायकानाम् । विप्रादिकानां रथिसारथीनां गृहैस्तथा मागधबन्दिनां च ॥ २,२७.१३ ॥ विविक्तरथ्यापणचित्रचत्वरैरनेकवस्तुक्रयविक्रयैश्च । महाधनोपस्करसाधुनिर्मितैर्गृहैश्च शुभ्रैर्गणिकाजनानाम् ॥ २,२७.१४ ॥ महार्हरत्नोज्ज्वलतुङ्गगोपुरैः सह श्वगृध्रव्रजनर्तनालयैः । चित्रैर्ध्वचैश्चापि पताकिकाभिः शुभ्रैः पटैर्मण्डपिकाभिरुन्नतैः ॥ २,२७.१५ ॥ कह्लारकञ्जकुमुदोत्पलरेणुवासितैश्चकाह्वहंसकुररीबकसारसानाम् । नानारवाढ्यरमणीयतटाकवापीसरोवरैश्चापि जलोपपन्नैः ॥ २,२७.१६ ॥ चूतप्रियालपनसाम्रमधूकजंबूप्लक्षैर्नवैश्च तरुभिश्च कृतालवालैः । पर्यन्तरोपितमनोरमनागकेतकीपुन्नागचंपकवनैश्च पतत्रिजुष्टैः ॥ २,२७.१७ ॥ मन्दारकुन्दकरवीरमनोज्ञयूथिकाजात्यादिकैर्विविधपुष्पफलैश्च वृक्षैः । संलक्ष्यमाणपरितोपवनालिभिश्च संशोभितं जगति विस्मयनीयरूपैः ॥ २,२७.१८ ॥ सर्वर्त्तुकप्रवरसौरभवायुमन्दमन्दप्रचारिभर्त्सितधर्मकालम् । इत्थ सुरासुरमनोरमभोगसंपद्विस्पष्टमानविभवं नगरं नरेद्र ॥ २,२७.१९ ॥ सौभाग्यभोगममितं मुनिहोमधेनुः सद्यो विधाय विनिवेदयदाशु तस्मै । ज्ञात्वा ततो मुनिवरो द्विजहोमधेन्वा संपादितं नरपते रुचिरातिथेयम् ॥ २,२७.२० ॥ आहूय कञ्चन तदन्तिक मात्मशिष्यं प्रास्थापयत्सगुणशालिनमाशु राजन् । गत्वा विशामधिपतेस्तरसा समीपं संप्रश्रयं मुनिसुतस्तमिदं बभाषे ॥ २,२७.२१ ॥ आतिथ्यमस्मदुपपादितमाशु राज्ञा संभावनीयमिति नः कुलदेशिकाज्ञा । राजा ततो मुनिवरेण कृताभ्यनुज्ञः संप्राविशत्पुरवरं स्वकृते कृतं तत् ॥ २,२७.२२ ॥ सर्वोपभोग्यनिलयं मुनिहोमधेनुसामर्थ्यसूचकमशोषबलैः समेतः । अन्तः प्रविश्य नगरर्द्धिमशेषलोकसंमोहिनीं भिसमीक्ष्य स राजवर्यः ॥ २,२७.२३ ॥ प्रीतिप्रसन्नवदनः सबलस्तु दानी धीरोऽपि विस्मयमवाप भृशं तदानीम् । गच्छन्सुरस्त्रीनयना लियूथपानैकपात्रोचितचारुमूर्त्तिः ॥ २,२७.२४ ॥ रेमे स हैहयपतिः पुरराजमार्गे शक्रः कुबेरवसताविव सामरौघः । तं प्रस्थितं राजपथात्समन्तात्पौराङ्गनाश्चन्दनवारिसिक्तैः ॥ २,२७.२५ ॥ प्रसूनलाजाप्रकरैरजस्रमवीपृषन्सौधगताः सुत्दृद्यैः । अभ्यागतार्हणसमुत्सुकपौरकान्ता हस्तारविन्दगलितामललाजवर्षैः ॥ २,२७.२६ ॥ कालेयपङ्कसुरभीकृतनन्दनोत्थशुभ्रप्रसूननिकरैरलिवृन्दगीतैः । तत्रत्यपौरवनिताञ्जनरत्नसारमुक्ताभिरप्यनुपदं प्रविकीर्यमामः ॥ २,२७.२७ ॥ व्यभ्राजतावनिपतिर्विशदैः समन्ताच्छीतांशुरश्मिनिकरैरिव मन्दराद्रिः । ब्राह्मीं तपःश्रिय मुदारगणमचिन्त्यां लोकेषु दुर्लभतरां स्पृहणीयशोभाम् ॥ २,२७.२८ ॥ पश्यन्विशामधिपतिः पुरसंपदं तामुच्चैः शशंस मनसा वचसेव राजन् । मेने च हैहयपतिर्भुवि दुर्लभेयं क्षात्री मनोहरतरा महिता हि संपत् ॥ २,२७.२९ ॥ अस्याः शतांशतुलनामपि नोपगन्तुं विप्रशियः प्रभवतीति सुरार्चितायाः । मध्येपुरं पुरजनोपचितां विभूतिमालोकयन्सह पुरोहितमन्त्रिसार्थैः ॥ २,२७.३० ॥ गच्छत्स्वपार्श्वचर दर्शितवर्णसौधो लेभे मुदं पुरजनैः परिपूज्यमानः । राजा ततो मुनिवरोपचितां सपर्यामात्मानुरूपमिह सानुचरो लभस्व ॥ २,२७.३१ ॥ इत्यश्रमेण नृपतिर्विनिवर्त्तयित्वा स्वार्थं प्राल्पितगृहाभिमुखो जगाम । पौरेः समेत्य विविधार्हणपाणिभिश्च मार्गे मुदा विरचिताजलिभिः समन्तात् ॥ २,२७.३२ ॥ संभावितोभ्यनुपदं जयशब्दघोषैस्तूर्यारवैश्च बधिरीकृतदिग्विभागैः । कक्षान्तराणि नृपतिः शनकैरतीत्य त्रीणि क्रमेण च ससंभ्रमकञ्चुकीनि ॥ २,२७.३३ ॥ दूरप्रसारितपृथग्जनसंकुलानि सद्माविवेश सचिवादरदत्तहृस्तः । तत्र प्रदीपदधिदर्पणगन्धपुष्पदूर्वाक्षतादिभिरलं पुरकामिनीभिः ॥ २,२७.३४ ॥ निर्याय राजभवनान्तरतः सलीलमानन्दितो नरपतिर्बहुमान पूर्वकम् । ताभिः समाभिविनिवेशितमाशु नानारत्नप्रवेकरुचिजालविराजमानम् ॥ २,२७.३५ ॥ सूक्ष्मोत्तरच्छदमुदारयशा मनोज्ञमध्या रुरोह कनकोत्तरविष्टरं तम् । तस्मिन्गृहे नृप तदीयपुरन्ध्रिवर्गः स्वासीनमाशु नृपतिर्विविधार्हणाभिः ॥ २,२७.३६ ॥ वाद्यादिभिस्तदनुभूषणगन्धपुष्पवस्त्राद्यलङ्कृतिभिरग्र्यमुदं ततान । तस्मिन्नशेषदिवसोचितकर्म सर्वं निर्वर्त्य हैहयपतिः स्वमतानुसारम् ॥ २,२७.३७ ॥ नाना विधालयननर्मविचित्रकेलीसंप्रेक्षितैर्दिनमशेषमलं निनाय । कृत्वा दिनान्तसमयोचितकर्म चैव राजा स्वमन्त्रिसचिवानुगतः समन्तात् ॥ २,२७.३८ ॥ आसन्नभृत्यकरसंस्थितदीपकौधसंशान्तसंतमसमाशु सदः प्रपेदे । तत्रासने समुपविश्य पुरोधमन्त्रिसामन्तनायकशतैः समुपास्यमानः ॥ २,२७.३९ ॥ अन्वास्त राजसमितौ विविधैर्विनोदैर्हृष्टः सुरेद्र इव देवगणैरुपेतः । ततश्चिरं विविधवाद्यविनोदनृत्तप्रेक्षाप्रवृत्तहसनादिकथाप्रसंगः ॥ २,२७.४० ॥ आसांचकार गणिकाजन्नर्महासक्रीडाविलासपरितोषितचित्तवृत्तिः । इत्थं विशामधिपतिर्भृशमानिशार्द्धं नानाविहारविभवानुभवैरनेकैः ॥ २,२७.४१ ॥ स्थित्वानुगान्नरपतीनपि तन्निवासं प्रस्थाप्य वासभवनं स्वयमप्ययासीत् । तद्राजसैन्यमखिलं निजवीर्यशौर्यसंपत्प्रभावमहिमानुगुणं गृहेषु ॥ २,२७.४२ ॥ आत्मानुरुपविभवेषु महार्हवस्त्रस्रग्भूषणादिभिरलं मुदितं बभूव । सैन्यानि तानि नृपतेर्विविधान्नपानसद्भक्ष्यभोज्यमधुमांसपयोघृताद्यैः ॥ २,२७.४३ ॥ तृप्तान्यवात्सुरखिलानि सुखोपभौगैस्तस्यां नरेद्रपुरि देवगणा दिवीव । एवं तदा नरपतेरनुयायिनस्ते नानाविधोचितसुखानुभवप्रतीताः ॥ २,२७.४४ ॥ अन्योन्यमूचुरिति गेहधनादिभिर्वा किं साध्यते वयमिहैव वसाम सर्वे । राजापि शार्वरविधानमथो विधाय निर्वर्त्य वासभवने शयनीयमग्र्यम् । अध्यास्य रत्ननिकरैरति शैभि भद्रं निद्रामसेवत नरेद्र चिरं प्रतीतः ॥ २,२७.४५ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादेर्ऽजुनोपाख्याने सप्तविंशतितमोऽध्यायः ॥ २७॥ _____________________________________________________________ वसिष्ठ उवाच स्वपन्तमेत्य राजानं सूतमागधवन्दिनः । प्रवोधयितुमव्यग्रा जगुरुच्चैर्निशात्यये ॥ २,२८.१ ॥ वीणावेणुरवोन्मिश्रकलतालततानुगम् । समस्तश्रुतिसुश्राव्यप्रशस्तमधुरस्वरम् ॥ २,२८.२ ॥ स्निग्धकण्ठाः सुविस्पष्टमूर्च्छनाग्रामसूचितम् । जगुर्गेयं मनोहारि तारमन्द्रलयान्वितम् ॥ २,२८.३ ॥ ऊचुश्च तं महात्मानं राजानं सूतमागधाः । स्वपन्तं विविधा वाचो बुबोधयिषवः शनेः ॥ २,२८.४ ॥ पस्यायमस्तमभ्येति राजेन्द्रेन्दुः पराजितः । विवर्द्धमानया नूनं तव वक्त्रांबुजश्रिया ॥ २,२८.५ ॥ द्रष्टुं त्वदान नांभोजं समुत्सुक इवाधुना । तमांसि भिन्दन्नादित्यः संप्राप्तो ह्युदयं विभो ॥ २,२८.६ ॥ राजन्नखिलशीतांशुवंशमौलिशिखामणे । निद्रया लं महाबुद्धे प्रतिवुध्यस्व सांप्रतम् ॥ २,२८.७ ॥ इति तेषां वचः शृण्वन्नबुध्यत महीपतिः । क्षीराब्दौ शेषशयनाद्यथापङ्कजलोचनः ॥ २,२८.८ ॥ विनिद्राक्षः समुत्थाय कर्म नैत्यकमादरात् । चकारावहितः सम्यग्जयादिकमशेषतः ॥ २,२८.९ ॥ देवतामभिवन्द्येष्टां गां दिव्यस्रग्गन्धभूषणः । कृत्वा दूर्वाञ्जनादर्शमङ्गल्यालम्बनानि च ॥ २,२८.१० ॥ दत्त्वा दानानि चार्थिभ्यो नत्वा गोब्रह्मणानपि । निष्क्रम्य च पुरात्तस्मादुपतस्थे च भास्करम् ॥ २,२८.११ ॥ तावदभ्याययुः सर्वं मन्त्रिसामन्तनायकाः । रचिताञ्जलयो राजन्नेमुश्च नृपसत्तमम् ॥ २,२८.१२ ॥ ततः स तैः परिवृतः समुपेत्य तपोनिधिम् । ननाम पादयोस्तस्य किरीटेनार्कवर्चसा ॥ २,२८.१३ ॥ आशीर्भिरभिनन्द्याथ राजानं मुनिपुङ्गवः । प्रश्रयावनतं साम्ना तमुवाचास्यतामिति ॥ २,२८.१४ ॥ तमासीनं नरपतिं महार्षिः प्रीतमानसः । उवाच रजनी व्युष्टा सुखेन तव किं नृप ॥ २,२८.१५ ॥ अस्माकमेव राजेन्द्र वने वन्येन जीवताम् । शक्यं मृगसधर्माणां येन केनापि वर्त्तितुम् ॥ २,२८.१६ ॥ अरण्ये नागराणां तु स्थितिरत्यन्तदुःसहा । अनभ्यस्तं हि राजेन्द्र ननु सर्वं हि दुष्करम् ॥ २,२८.१७ ॥ वनवासपरिक्लेशं भवान्यत्सानुगोऽसकृत् । आप्तस्तु भवतो नूनं सा गौरवसमुन्नतिः ॥ २,२८.१८ ॥ इत्युक्तस्तेन मुनिना स राजा प्रीतिपूर्वकम् । प्रहसन्निव तं भूयो वचनं प्रत्यभाषत ॥ २,२८.१९ ॥ ब्रह्मन्किमनया ह्युक्त्या दृष्टस्ते यादृशो महान् । अस्माभिमहिमा येन विस्मितं सकलं जगत् ॥ २,२८.२० ॥ भवत्प्रभावसंजातविभवाहतचेतसः । इतो न गन्तुमिच्छन्ति सैनिका मे महामुने ॥ २,२८.२१ ॥ त्वादृशानां जगन्तीह प्रभावैस्तपसां विभो । ध्रियन्ते सर्वदा नूनमचिन्त्यं ब्रह्मवर्चसम् ॥ २,२८.२२ ॥ नैव चित्रं तव विभो शक्रोति तपसा भवान् । ध्रुवं कर्त्तुं हि लोकानामवस्थात्रितयं क्रमात् ॥ २,२८.२३ ॥ सुदृष्टा ते तपःसिद्धिर्महती लोकपूजिता । गमिष्यामि पुरीं ब्रह्मन्ननुजानातु मां भवान् ॥ २,२८.२४ ॥ वसिष्ठ उवाच इत्युक्तस्तेनस मुनिः कार्त्तवीर्येण सादरम् । संभावयित्वा नितरां तथेति प्रत्यभाषत ॥ २,२८.२५ ॥ मुनिना समनुज्ञातो विनिष्क्रम्य तदाश्रमात् । सैन्यैः परिवृतः सर्वैः संप्रतस्थे पुरीं प्रति ॥ २,२८.२६ ॥ स गच्छंश्चिन्तयामास मनसा पथि पार्थिवः । अहोऽस्य तपसः सिद्धिर्लोक विस्मयदायिनी ॥ २,२८.२७ ॥ यया लब्धेदृशी धेनुः सर्वकामदुहां वरा । किं मे सकलराज्येन योगर्द्ध्या वाप्यनल्पया ॥ २,२८.२८ ॥ गोरत्नभूता यदियं धेनुर्मुनिवरे स्थिता । अनयोत्पादिता नूनं संपत्स्वर्गसदामपि ॥ २,२८.२९ ॥ ऋद्धमैन्द्रमपि व्यक्तं पदं त्रैलोक्यपूजितम् । अस्या धेनोरहं मन्ये कलां नार्हति षोडशीम् ॥ २,२८.३० ॥ इत्येवं चिन्तयानं तं पश्चादभ्येत्य पार्थिवम् । चन्द्रगुप्तोऽब्रवीन्मन्त्री कृताञ्जलि पुटस्तदा ॥ २,२८.३१ ॥ किमर्थं राजशार्दूल पुरीं प्रतिगमिष्यसि । रक्षितेन च राज्येन पुर्या वा किं फलं तव ॥ २,२८.३२ ॥ गोरत्नभूता नृपतेर्यावर्धेनुर्न चालये । वर्त्तते नार्द्धमपि ते राज्यं शून्यं तव प्रभो ॥ २,२८.३३ ॥ अन्यच्च दृष्टमाश्चर्यं मया राजञ्छृणुष्व तत् । भवनानि मनोज्ञानि मनोज्ञाश्च तथा स्त्रियः ॥ २,२८.३४ ॥ प्रासादा विविधाकारा धनं चादृष्टसंक्षयम् । धेनो तस्यां क्षणेनैव विलीनं पश्यतो मम ॥ २,२८.३५ ॥ तत्तपोवनमेवासीदिदानीं राजसत्तम । एवंप्रभावा सा यस्य तस्य किं दुर्लं भवेत् ॥ २,२८.३६ ॥ तस्माद्रत्नार्हसत्त्वेन स्वीकर्त्तव्या हि गौस्त्वया । यदि तेऽनुमतं कृत्यमाख्येयमनुजीविभिः ॥ २,२८.३७ ॥ राजोवाच । एवमेवाहमप्येनां न जानामीत्यसांप्रतम् । ब्रह्मस्वं नापहर्तव्यमिति मे शङ्कते मनः ॥ २,२८.३८ ॥ एवं ब्रुवन्तं राजानमिदमाह पुरोहितः । गर्गो मतिमतां श्रेष्ठो गर्हयन्निव भूपते ॥ २,२८.३९ ॥ ब्रह्मस्वं नापहर्त्तव्यमापद्यपि कथञ्चन । ब्रह्मस्वसदृशं लोके दुर्जरं नेह विद्यते ॥ २,२८.४० ॥ विषं हन्त्युपयोक्तारं लक्ष्यभूतं तु हैहय । कुलं समूलं दहति ब्रह्मस्वारणिपावकः ॥ २,२८.४१ ॥ अनिवार्यमिदं लोके ब्रह्मस्वन्दुर्जरं विषम् । पुत्रपौत्रान्तफलदं विपाककटु पार्थिव ॥ २,२८.४२ ॥ एश्वर्यमूढं हि मनः प्रभूममसदात्मनाम् । किन्नामासन्न कुरुते नेत्रास द्विप्रलोभितम् ॥ २,२८.४३ ॥ वेदान्यस्त्वामृते कोऽन्यो विना दानान्नृपोत्तम । आदानं चिन्तयानो हि बाह्मणेष्वभिवाञ्छति ॥ २,२८.४४ ॥ ईदृशस्त्वं महाबाहो कर्म सज्जननिन्दितम् । मा कृथास्तद्धि लोकेषु यशोहानिकरं तव ॥ २,२८.४५ ॥ वंशे महति जातस्त्वं वदान्यानां प्रहीभुजाम् । यशांशि कर्मणानेन संप्रतं माव्यनीवशः ॥ २,२८.४६ ॥ अहोऽनुजीविनः किञ्चिद्भर्तारं व्यसनार्णवे । तत्प्रसादसमुन्नद्धा मज्जयं त्यनयोन्मुखाः ॥ २,२८.४७ ॥ श्रिया विकुर्वन्पुरुषकृत्यचिन्त्ये विचेतनः । तन्मतानुप्रवृत्तिश्च राजा सद्यो विषीदति ॥ २,२८.४८ ॥ अज्ञातमुनयो मन्त्री राजानमनयांबुधौ । आत्मना सह दुर्बुद्धिर्लोहनौरिव मज्जयेत् ॥ २,२८.४९ ॥ तस्मात्त्वं राजशार्दूल मूढस्य नयवर्त्मनि । मतमस्य सुदुर्बुद्धेर्नानुवर्त्तितुमर्हसि ॥ २,२८.५० ॥ एवं हि वदतस्तस्य स्वामिश्रेयस्करं वचः । आक्षिप्य मन्त्री राजानमिदं भूयो ह्यभाषत ॥ २,२८.५१ ॥ ब्राह्मणोऽयं स्वजातीयहितमेव समीक्षते । महान्ति राजकार्याणि द्विजैर्वेत्तुं न शक्यते ॥ २,२८.५२ ॥ राज्ञैव राजकार्याणि वेद्यानि स्वमनीषया । विना वै भोजनादाने कार्यं विप्रो न विन्दति ॥ २,२८.५३ ॥ ब्राह्मणो नावमन्तव्यो वन्दनीयश्च नित्यशः । प्रतिसंग्राहयणीयश्च नाधिकं साधितं क्वचित् ॥ २,२८.५४ ॥ तस्मात्स्वीकृत्य तां धेनुं प्रयाहि स्वपुरं नृप । नोचेद्राज्यं परित्यज्य गच्छस्वतपसे वनम् ॥ २,२८.५५ ॥ क्षमावत्त्वं ब्राह्मणानां दण्डः क्षत्रस्य पार्थिव । प्रसह्य हरणे वापि नाधर्मस्ते भविष्यति ॥ २,२८.५६ ॥ प्रसह्य हरणे दोषं यदि संपश्यसे नृप । दत्त्वा मूल्यं गवाश्वाद्यमृषेर्थेनुः प्रगृह्यताम् ॥ २,२८.५७ ॥ स्वीकर्तव्या हि सा धेनुस्त्वया त्वं रत्नभागयतः । तपोधनानां हि कुतो रत्नसंग्रहणादरः ॥ २,२८.५८ ॥ तपोधन बलः शान्तः प्रीतिमान्स नृप त्वयि । तस्मात्ते सर्वथा धेनुं याचितः संप्रदास्यति ॥ २,२८.५९ ॥ अथ वा गोहिरण्यद्यं यदन्यदभिवाञ्छितम् । संगृह्य वित्तं विपुलं धेनुं तां प्रतिदास्यति ॥ २,२८.६० ॥ अनुपेक्ष्यं महद्रत्नं राज्ञा वै भूतिमिच्छता । इति मे वर्त्तते बुद्धिः कथं वा मन्यते भवान् ॥ २,२८.६१ ॥ राजोवाच । गत्वा त्वमेव तं विप्रं प्रसाद्य च विशेषतः । दत्त्वा चाभीप्सितं तस्मै तां गामानय मन्त्रिक ॥ २,२८.६२ ॥ वसिष्ठ उवाच एवमुक्तस्ततोराज्ञा स मन्त्री विधिचोदितः । निवृत्य प्रययौ शीघ्रं जमदग्नेरथाश्रमम् ॥ २,२८.६३ ॥ गते तु नृपतौ तस्मिन्नकृतव्रणसंयुतः । समिदानयनार्थाय रामोऽपि प्रययौ वनम् ॥ २,२८.६४ ॥ ततः स मन्त्री सबलः समासाद्य तदाश्रमम् । प्रणम्य मुनिशार्दूलमिदं वचनमब्रवीत् ॥ २,२८.६५ ॥ चन्द्रगुप्त उवाच ब्रह्मन्नृपतिनाज्ञप्तं राजा तु भुवि रत्नभाक् । रत्नभूता च धेनुः सा भुवि दोग्ध्रीष्वनुत्तमा ॥ २,२८.६६ ॥ तस्माद्रत्नंसुवर्णं वा मूल्यमुक्त्वा यथोचितम् । आदाय गोरत्नभूतां धेनुं मे दातुमर्हसि ॥ २,२८.६७ ॥ जमदग्निरुवाच होमधेनुरियं मह्यं न दातव्या हि कस्यचित् । राजा वदान्यः स कथं ब्रह्मस्वमभिवाञ्छति ॥ २,२८.६८ ॥ मन्त्र्युवाच रत्नभाक्त्वंन नृपतिर्द्धेनुं ते प्रतिकाङ्क्षति । गवायुतेन तस्मात्त्वं तस्मै तां दातुमर्हसि ॥ २,२८.६९ ॥ जमदग्निरुवाच क्रयविक्रययोर्नाहं कर्त्ता जातु कथञ्चन । हविर्धानीं च वै तस्मान्नोत्सहे दातुमञ्जसा ॥ २,२८.७० ॥ मन्त्र्युवाच राज्यार्धेनाथ वा ब्रह्मन्सकलेनापि भूभृतः । देहि धेनुमिमामेकां तत्ते श्रेयो भविष्यति ॥ २,२८.७१ ॥ जमदग्निरुवाच जीवन्नाहं तु दास्यामि वासवस्यापि दुर्मते । गुरुणा याचितं किं ते वचसा नृपतेः पुनः ॥ २,२८.७२ ॥ मन्त्र्युवाच त्वमेव स्वेच्छया राज्ञे देहि धेनुं सुहृत्तया । यथा बलेन नीतायां तस्यां त्वं किं करिष्यसि ॥ २,२८.७३ ॥ जमदग्निरुवाच दाता द्विजानां नृपतिः स यद्यप्याहरिष्यति । विप्रोऽहं किं करिष्यामि स्वेच्छावितरणं विना ॥ २,२८.७४ ॥ वसिष्ठ उवाच इत्येवमुक्तः संक्रुद्धः स मन्त्री पापचेतनः । प्रसह्य नेतुमारेभे मुनेस्तस्य पयस्विनीम् ॥ २,२८.७५ ॥ इति श्रीब्रह्माण्डे महापुराणे वोयुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादेऽष्टाविंशतितमोऽध्यायः ॥ २८॥ _____________________________________________________________ वसिष्ठ उवाच जमदग्निस्ततो भूयस्तमुवाच रुषान्वितः । ब्रह्मस्वं नापहर्त्तव्यं पुरुषेण विजानता ॥ २,२९.१ ॥ प्रसह्य गां मे हरतो पापमाप्स्यसि दुर्मते । आयुर्जाने परिक्षीणं न चेदेतत्करिष्यति ॥ २,२९.२ ॥ बलादिच्छसि यन्नेतुं तन्न शक्यं कथञ्चन । स्वयं वा यदि सायुच्येद्विनशिष्यति पार्थिवः ॥ २,२९.३ ॥ दानं विनापहरणं ब्राह्मणानां तपस्विनाम् । शतायुषोर्ऽजुनादन्यः को न्विच्छति जिजीविषुः ॥ २,२९.४ ॥ इत्युक्तस्तेन संक्रुद्धः स मन्त्रीकालचोदितः । बद्ध्वा तां गां दृढैः पाशैर्विचकर्ष बलान्वितः ॥ २,२९.५ ॥ जमदग्निरथ क्रोधाद्भाविकर्मप्रचोदितः । रुरोध तं यथाशक्ति विकर्षन्तं पायस्विनीम् ॥ २,२९.६ ॥ जीवन्न प्रतिमोक्ष्यामि गामेनामित्यमर्षितः । जग्राह सुदृढं कण्ठे वाहुभ्यां तां महामुनिः ॥ २,२९.७ ॥ ततः क्रोधपरीतात्मा चन्द्रगुप्तोऽतिनिर्घृणः । उत्सारयध्वमित्येनमादिदेश स्वसैनिकान् ॥ २,२९.८ ॥ अप्रधृष्यतमं लोके तमृषिं राजकिङ्कराः । भर्त्राज्ञया प्रसह्यैनं परिवव्रुः समन्ततः ॥ २,२९.९ ॥ दण्डैः कशाभिर्लकुडैर्विनिघ्नन्तश्च मुष्टिभिः । ते समुत्सारयन् धेनोः सुदूरतरमन्तिकात् ॥ २,२९.१० ॥ स तथा हन्यमोनोऽपि व्यथितःक्षमयान्वितः । न चुक्रोधाक्रोधनत्वं सतो हि परमं धनम् ॥ २,२९.११ ॥ स च शक्तः स्वतपसा संहर्त्तुमपि रक्षितुम् । जगत्सर्वं क्षयं तस्य चिन्तयन्न प्रचुक्रुधे ॥ २,२९.१२ ॥ सपूर्वं क्रोधनोऽत्यर्थं मातुरर्थे प्रसादितः । रामेणाभूत्ततो नित्यं शान्त एव महातपाः ॥ २,२९.१३ ॥ स हन्यमानः सुभृशं चूर्णिताङ्गास्थिवन्धनः । निपपात महातेजा धरण्यां गतचेतनः ॥ २,२९.१४ ॥ तस्मिन्मुनौ निपतिते स दुरात्मा विशङ्कितः । किङ्करानादिशच्छीघ्रं धेनोरानयने बलात् ॥ २,२९.१५ ॥ ततः सवत्सां ता धेनुं बद्ध्वा पाशैर्दृढैर्नृपः । कशाभिरभिहन्यन्त चकृषुश्च निनीषया ॥ २,२९.१६ ॥ आकृष्यमाणा बहुभिः कशाभिर्लगुडैरपि । हन्यमाना भृशं तैश्च चुक्रुधे च पयस्विनी ॥ २,२९.१७ ॥ व्यथितातिकशापातैः क्रोधेन महातान्विता । आकृष्य पाशान् सुदृढान् कृत्वात्मानममोचयत् ॥ २,२९.१८ ॥ विमुक्तपाशवन्धासा सर्वतोऽभिवृता बलैः । हुंहारवं प्रकुर्वाणा सर्वतोऽह्यपतद्रुषा ॥ २,२९.१९ ॥ विषाणखुरपुच्छाग्रैरभिहत्य समन्ततः । राजमन्त्रिबलं सर्वं व्यद्रावयदमर्षिता ॥ २,२९.२० ॥ विद्राव्य किङ्करान्सर्वांस्तरसैव पयस्विनी । पश्यतां सर्वभूतानां गगनं प्रत्यपद्यत ॥ २,२९.२१ ॥ ततस्ते भग्नसंकल्पाः संभग्नक्षतविग्रहाः । प्रसह्य बद्ध्वा तद्वत्सं जग्मुरेवातिनिर्घृणाः ॥ २,२९.२२ ॥ पयस्विनीं विना वत्सं गृहीत्वा किङ्करैः सह । स पापस्तरसा राज्ञः सन्निधिं समुपागमत् ॥ २,२९.२३ ॥ गत्वा समीपं नृपतेः प्रणम्यास्मै प्रशंसकृत् । तद्व्रत्तान्तमशेषेण व्याचचक्षे ससाध्वसः ॥ २,२९.२४ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादेर्ऽजुनोपाख्याने एकोनत्रिंशत्तमोऽध्यायः ॥ २९॥ _____________________________________________________________ वासिष्ठ उवाच श्रुस्वैतत्सकलं राजा जमदग्निवधादिकम् । उद्विग्नचेताः सुभृशं चिन्तयामास नैकधा ॥ २,३०.१ ॥ अहो मे सुनृसंसस्य लोकयोरुभयोरपि । ब्रह्मस्वहरणे वाञ्छा तद्धत्या चातिगर्हिता ॥ २,३०.२ ॥ अहो नाश्रौषमस्याहं ब्राह्मणस्य विजानतः । वचनं तर्हि तां जह्यां विमूढात्मा गतत्रपः ॥ २,३०.३ ॥ इति संचितयन्नंव हृदयेन विदूयता । स्वपुरं प्रतिचक्राम सबलः सानुगस्ततः ॥ २,३०.४ ॥ पुरीं प्रतिगते राज्ञि तस्मिन्सपरिवारके । आश्रमात्सहसा राजन्विनिश्चक्राम रेणुका ॥ २,३०.५ ॥ अथ सक्षतसर्वाङ्गं रुधिरेण परिप्लुतम् । निश्चेष्टं परितं भूमौ ददर्श पतिमात्मनः ॥ २,३०.६ ॥ ततः सा विहतं मत्वा भर्त्तारं गतचेतनम् । अन्वाहतेवाशनिना मूर्छितान्यपतद्भुवि ॥ २,३०.७ ॥ चिरादिव पुनर्भूमेरुत्थायातीव दुःखिता । पतित्वोत्थाय सा भूयः सुस्वरं प्ररुरोद ह ॥ २,३०.८ ॥ विललाप च सात्यर्थं धरणीधूलिधूसरा । अश्रुपूर्ममुखी दीना पतिता शोकसागरे ॥ २,३०.९ ॥ हा नाथ पिय धर्मज्ञ दाक्षिण्यामृतसागर । हा धिगत्यन्तशान्त त्वं नैव काङ्क्षेत चेदृशम् ॥ २,३०.१० ॥ आश्रमादभिनिष्क्रान्तः सहसा व्यसानर्णवे । क्षिप्त्वानाथामगाधे मां क्व च यातोऽसि मानद ॥ २,३०.११ ॥ सतां साप्तपदे मैत्रे मुषिताहं त्वया सह । यासि यत्र त्वमेकाकी तत्र मां नेतुमर्हसि ॥ २,३०.१२ ॥ दृष्ट्वा त्वामीदृशावस्थमचिराद्धृदयं मम । न दीर्यते महाभाग कठिनाः खलु योषितः ॥ २,३०.१३ ॥ इत्येवं विलपन्ती सा रुदती च मुहुर्मुहुः । चुक्रोश रामरामेति भृशं दुःखपरिप्लुता ॥ २,३०.१४ ॥ तावद्रामोऽपि स वनात्समिद्भारसमन्वितः । अकृतव्रणसंयुक्तः स्वाश्रमाय न्यवर्त्तत ॥ २,३०.१५ ॥ अपश्यद्भयशंसीनि निमित्तानि बहूनि सः । पश्यन्नुद्विग्नहृदयस्तूर्णं प्रापाश्रमं विभुः ॥ २,३०.१६ ॥ तमायान्तमभिप्रेक्ष्य रुदती सा भृशातुरा । नविभूतेव शोकेन प्रारुदद्रेणुका पुनः ॥ २,३०.१७ ॥ रामस्य पुरतो राजन्भर्तृव्यसनपीडिता । उभाभ्यामपि हस्ताभ्यामुदरं समताडयत् ॥ २,३०.१८ ॥ मार्गे विदितवृत्तान्तः सम्यग्रामोऽपि मातरम् । कुररीमिव शोकार्त्ता दृष्ट्वा दुःखमुपेयिवान् ॥ २,३०.१९ ॥ धैर्यमारोप्य मेधावी दुःशशोकपरिप्लुतः । नेत्राभ्यामश्रुपूर्णाभ्यां तस्थौ भूमावर्धोमुखः ॥ २,३०.२० ॥ तं तथागतमालोक्य रामं प्राहाकृतव्रणः । किमिदं भृगुशार्दूल नैतत्वय्युपपाद्यते ॥ २,३०.२१ ॥ न त्वादृशा महाभाग भृशं शोचन्ति कुत्रचित् । धृतिमन्तो महान्तस्तु दुःखं कुर्वति न व्यये ॥ २,३०.२२ ॥ शोकः सर्वेन्द्रियाणां हि परिशोषप्रदायकः । त्यज शोकं महाबाहो न तत्पात्रं भवदृशाः ॥ २,३०.२३ ॥ एहिकामुष्मिकार्थानां नूनमेकान्तरोधकः । शोकस्तस्यावकाशं त्वं कथं त्दृदि नियच्छसि ॥ २,३०.२४ ॥ तत्त्वं धैर्यधनो भूत्वा परिसांत्वय मातरम् । रुदतीं बत वैधव्यशं कापहतचेतनाम् ॥ २,३०.२५ ॥ नैवागमनमस्तीह व्यतिक्रान्तस्य वस्तुनः । तस्मादतीतमखिलं त्यक्त्वा कृत्यं विचिन्तय ॥ २,३०.२६ ॥ इत्येवं सांत्वमानश्च तेन दुःशसमन्वितः । रामः संस्तंभयामास शनैरात्मानमात्मना ॥ २,३०.२७ ॥ दुःखशोकपरीता हि रेणुका त्वरुदन्मुहः । त्रिःसप्तकृत्वो हस्ताभ्यामुदरं समताडयत् ॥ २,३०.२८ ॥ तावत्तदन्तिकं रामः समभ्येत्याश्रुलोचनः । रुदतीमलमंबेति सांत्वयामास मातरम् ॥ २,३०.२९ ॥ उवाचापनयन्दुःखाद्भर्तृशोकपरायणाम् । त्रिःसप्तकृत्वो यदिदं त्वया वक्षः समाहतम् ॥ २,३०.३० ॥ तावतसंख्यमहं तस्मात्क्षत्त्रजारमशेषतः । हनिष्ये भुवि सर्वत्र सत्यमेतद्ब्रविमि ते ॥ २,३०.३१ ॥ तस्मात्त्वं शोकमुत्सृज्य धैर्यमातिष्ट सांप्रतम् । नास्त्येव नूनमायातमतिक्रान्तस्य वस्तुनः ॥ २,३०.३२ ॥ इत्युक्ता रेणुका तेन भृशं दुःखान्वितापि सा । कृच्छ्राद्धैर्यं समालंब्य तथेति प्रत्यभाषत ॥ २,३०.३३ ॥ ततो रामो महाबाहुः पितुः सह सहोदरैः । अग्नौ सत्कर्त्तुमारेभे देहं राजन्यथविधि ॥ २,३०.३४ ॥ भर्तृशोकपरिताङ्गी रेणुकापि दृढव्रता । पुत्रान्सर्वान्समाहूय त्विदं वचनमब्रवीत् ॥ २,३०.३५ ॥ रेणुकोवाच । अहं वपितरं पुत्राः स्वर्गतं पुण्यशीलिनम् । अनुगन्तुमिहेच्छामि तन्मेऽनुज्ञातुमर्हथ ॥ २,३०.३६ ॥ असह्यदुःशं वैधव्यं सहमाना कथं पुनः । भर्त्रा विरहिता तेन प्रवर्त्तिष्ये विनिन्दिता ॥ २,३०.३७ ॥ तस्मादनुगमिष्यामि भर्त्तारं दयितं मम । यथा तेन प्रवर्त्तिष्ये परत्रापि सहानिशम् ॥ २,३०.३८ ॥ ज्वलन्तमिममेवाग्निं संप्रविश्य चिरादिव । भर्तुर्मम भविष्यामि पितृलोकप्रियातिथिः ॥ २,३०.३९ ॥ अनुवादमृते पुत्रा भवद्भिस्तत्र कर्मणि । प्रतिभूय न वक्तव्यं यदि मत्प्रियमिच्छथ ॥ २,३०.४० ॥ इत्येवमुक्त्वा वचनं रेणुका दृढनिश्चया । अग्निं प्रविश्य भर्त्तारमनुगन्तुं मनोदधे ॥ २,३०.४१ ॥ एतस्मिन्नेव काले तु रेणुकां तनयैः सह । समाभाष्यातिगंभीरा वागुवाचाशरीरीणी ॥ २,३०.४२ ॥ हे रेणुके स्वतनयैर्गिरं मेऽवहिता शृणु । मा कार्षीः साहसं भद्रे प्रवक्ष्यामि प्रियं तव ॥ २,३०.४३ ॥ साहसो नैव कर्त्तव्यः केनाप्यात्महितैषिणा । न मर्त्तव्यन्त्वया सर्वो जीवन्भद्राणि पश्यति ॥ २,३०.४४ ॥ तस्माद्धैर्यधना भूत्वा भव त्वं कालकाङ्क्षिणी । निमित्तमन्तरीकृत्य किञ्चिदेव शुचिस्मिते ॥ २,३०.४५ ॥ अचिरेणैव भर्त्ता ते भविष्यति सचेतनः । उत्पन्नजीवितेन त्वं कामं प्राप्स्यसि शोभने । भवित्री चिररात्राय बहुकल्याण भाजनम् ॥ २,३०.४६ ॥ वसिष्ठ उवाच इति तद्वचनं श्रुत्वा धृतिमालंब्य रेणुका । तद्वाक्यगौरवाद्धर्षमवापुस्तनयाश्च ते ॥ २,३०.४७ ॥ ततोनीत्वा पितुर्देहमाश्रमाभ्यन्तरं मुनेः । शाययित्वा निवाते तु परितः समुपाविशन् ॥ २,३०.४८ ॥ तेषां तत्रोपविष्टानामप्रहृष्टात्मचेतसाम् । निमत्तानि शुभान्यासन्ननेकानि महान्ति च ॥ २,३०.४९ ॥ तेन ते किञ्चिदाश्वस्तचेतसो मुनिपुङ्गवाः । निषेदुः सहिता मात्रा काङ्क्षन्तो जीवितं पितुः ॥ २,३०.५० ॥ एतस्मिन्नन्तरे राजन्भृगुवंशधरो मुनिः । विधेर्बलेन मतिमांस्तत्रागच्छद्यदृच्छया ॥ २,३०.५१ ॥ अथर्वणां विधिः सा क्षाद्वेदवेदाङ्गपारगः । सर्वशास्त्रार्थवित्प्राज्ञः सकलासुरवन्दितः ॥ २,३०.५२ ॥ मृतसंजीविनीं विद्यां यो वेद मुनिदुर्लभाम् । यथाहतान्मृतान्देवैरुत्थापयति दानवान् ॥ २,३०.५३ ॥ शास्त्रमोशनसं येन राज्ञां राज्यफलप्रदम् । प्रणीतमनुजीवन्ति सर्वेऽद्यापीह पार्थिवाः ॥ २,३०.५४ ॥ स तदाश्रममासाद्य प्रविष्टोऽन्तर्महामुनिः । ददर्श तदवस्थांस्तान्सर्वान्दुःखपरिप्लुतान् ॥ २,३०.५५ ॥ अथ ते तु भृगुं दृष्ट्वा वंशम्य पितरं मुदा । उत्थायास्मै ददुश्चापि सत्कृत्य परमासनम् ॥ २,३०.५६ ॥ स चाशीर्भिस्तु तान्सर्वानभिनन्द्य महामुनिः । पप्रच्छ किमिदं वृत्तं तत्सर्वं ते न्यवेदयन् ॥ २,३०.५७ ॥ तच्छ्रुत्वा स भृगुः शीघ्रं जलमादाय मन्त्रवित् । संजीविन्या विनया तं सिषेच प्रोच्चरन्निदम् ॥ २,३०.५८ ॥ यज्ञस्य तपसो वीय ममापि शुभमस्ति चेत् । तेनासौ जीवताच्छीघ्रं प्रसुप्त इवचोत्थितः ॥ २,३०.५९ ॥ एवमुक्ते शुभे वाक्ये भृगुणा साधुकारिणा । समुत्तस्थावथार्चीकः साक्षाद्ग्ररुरिवापरः ॥ २,३०.६० ॥ दृष्ट्वा तत्र स्थितं वन्द्यं भृगुं स्वस्य पितामहम् । ननाम भक्त्या नृपते कृताञ्जलिरुवाच ह ॥ २,३०.६१ ॥ जमदग्निरुवाच धन्योऽहं कृतकृत्योऽहं सफलं जीवितं च मे ॥ २,३०.६२ ॥ यत्पश्ये चरणौ तेऽद्य सुरासुरनमस्कृतौ । भगवन्किं करोम्यद्य शुश्रूषां तव मानद ॥ २,३०.६३ ॥ पुनीह्यात्मकुलं स्वस्य चरणांबुकणैर्विभो । इत्युक्त्वा सहसाऽनीतं रामेणार्ध्यं मुदान्वितः ॥ २,३०.६४ ॥ प्रददौ पादयोस्तस्य भक्त्यान मितकन्धरः । तज्जलं शिरसाधत्त सकुटुंबो महामनाः ॥ २,३०.६५ ॥ अथ सत्कृत्य स भृगुं पप्रच्छ विनयान्वितः । भगवन् किं कृतं तेन राज्ञा दुष्टेन पातकम् ॥ २,३०.६६ ॥ यस्यातिथ्यं हि कृतवानहं सम्यग्विधानतः । साधुबुद्ध्यास दुष्टात्मा किं चकार महामते ॥ २,३०.६७ ॥ वसिष्ठ उवाच एवं स पृष्टो मतिमान्भृगुः सर्वविदीश्वरः । चिरं ध्यात्वा समालोच्य कारणं प्राह भूपते ॥ २,३०.६८ ॥ भृगुरुवाच शृणु तात महाभाग बीजमस्य हि कर्मणः । यश्च वै कृतवान्पापं सर्वज्ञस्य तवानघ ॥ २,३०.६९ ॥ शप्तः पुरा वसिष्ठेन नाशार्थं स महीपतिः । द्विजापराधतो मूढ वीर्यं ते विनशिष्यते ॥ २,३०.७० ॥ तत्कथं वचनं तस्य भविष्यत्यन्यथा मुनेः । अयं रामो महावीर्यं प्रसह्यनृपपुङ्गवम् ॥ २,३०.७१ ॥ हनिष्यति महाबाहो प्रतिज्ञां कृतवान्पुरा । यस्मादुरः प्रतिहतं त्वया मातर्ममाग्रतः ॥ २,३०.७२ ॥ एकविंशतिवारं हि भृशं दुःखपरीतया । त्रिः सप्तकृत्वो निःक्षत्रां करिष्ये पृथिवीमिमाम् ॥ २,३०.७३ ॥ अतोऽयं वार्यमाणोऽपि त्वाया पित्रा निरन्तरम् । भाविनोर्ऽथस्य च बलात्करिष्यत्येव मानद ॥ २,३०.७४ ॥ स तु राजा महाभागो वृद्धानां पर्युपासिता । दत्तात्रेयाद्धरेरंशाल्लब्धबोधो महामतिः ॥ २,३०.७५ ॥ साक्षाद्भक्तो महात्मा च तद्वधे पातकं भवेत् । एवमुक्त्वा महाराज स भृगुर्ब्रह्मणः सुतः । यथागतं ययौ विद्वान्भविष्यत्कालपर्ययात् ॥ २,३०.७६ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्याभागे तृतीय उपोद्धातपादे भार्गवचरिते त्रिंशत्तमोऽध्यायः ॥ ३०॥ _____________________________________________________________ सगर उवाच ब्रह्मपुत्र महाभाग वद भार्गवचेष्टितम् । यच्चकार महावीर्य्यो राज्ञः क्रुद्धो हि कर्मणा ॥ २,३१.१ ॥ वसिष्ठ उवाच गते तस्मिन्महाभागे भृगो पितृपरायणः । रामः प्रोवाच संक्रुद्धो मुञ्चञ्छ्वासान्मुहर्मुहुः ॥ २,३१.२ ॥ परशुराम उवाच अहो पश्यत मूढत्वंराज्ञो ह्युत्पथगामिनः । कार्त्तवीर्यस्य यो विद्वांश्चक्रे ब्रह्मवधोद्यमम् ॥ २,३१.३ ॥ दैवं हि बलवन्मन्ये यत्प्रभावाच्छरीरिणः । शुभं वाप्यशुभं सर्वे प्रकुर्वन्ति विमोहिताः ॥ २,३१.४ ॥ शृणवन्तु ऋषयः सर्वे प्रतिज्ञा क्रियते मया । कार्त्तवीर्यं निहत्याजौ पितुर्वैरं प्रसाधये ॥ २,३१.५ ॥ यदि राजा सुरैः सर्वैरिन्द्राद्दैर्दानवैस्तथा । रक्षिष्यते तथाप्येनं संहरिष्यामि नान्यथा ॥ २,३१.६ ॥ एवमुक्तं समाकर्ण्य रामेण समुहात्मना । जमदग्निरुवाचेदं पुत्रं साहसभाषिणम् ॥ २,३१.७ ॥ जमदग्निरुवाच श्रुणु राम प्रवक्ष्यामि सतां धर्मं सनातनम् । यच्छ्रुत्वा मानवाः सर्वे जायन्ते धर्मकारिणः ॥ २,३१.८ ॥ साधवो ये महाभागाः संसारान्मोक्षकाङ्क्षिणाः । न कस्मैचित्प्रकुप्यन्ति निन्दितास्ताडिता अपि ॥ २,३१.९ ॥ क्षमाधना महाभागा ये च दान्तास्तपस्विनः । तेषां चैवाक्षया लोकाः सततं साधुकारिणाम् ॥ २,३१.१० ॥ यस्तु दुष्टैस्तु दण्डाद्यैर्वचसापि च ताडितः । न च क्षोभमवाप्नोति स साधुः परिकीर्त्थते ॥ २,३१.११ ॥ ताडयेत्ताडयन्तं यो न च साधुः स पापभाक् । क्षमयार्ऽहणतां प्राप्ताः साधवो ब्राह्मणा वयम् ॥ २,३१.१२ ॥ नरनाथवधे तात पातकं सुमहद्भवेत् । तस्मान्निवारये त्वाद्य क्षमां कुरु तपश्चर ॥ २,३१.१३ ॥ वसिष्ठ उवाच एवं पित्रा समादिष्टं विज्ञाय नृपनन्दन । रामः प्रोवाच पितरं क्षमाशीलमरिन्दमम् ॥ २,३१.१४ ॥ परशुराम उवाच शृणु तात महाप्राज्ञ वि५ तिं मम सांप्रतम् । भवता शम उद्दिष्टः साधूनां सुमहात्मनाम् ॥ २,३१.१५ ॥ म शमः साधुदीनेषु गुरुष्वीश्वरभावनैः । कर्त्तव्यो दुष्टचेष्टेषु न शमः सुखदो भवेत् ॥ २,३१.१६ ॥ तस्मादस्य वधः कार्यः कार्त्तवीर्यस्य वै मया । देह्याज्ञां माननीयाद्य साधये वैरमात्मनः ॥ २,३१.१७ ॥ जमदग्निरुवाच शृणु राम महाभाग वचो मम समाहितः । करिष्यसि यथा भावि तथा नैवान्यथा भवेत् ॥ २,३१.१८ ॥ इतो व्रजत्वं ब्रह्माणां बृच्छ तात हिताहितम् । स यद्वदिष्यति विभुस्तत्कर्त्ता नात्र संशयः ॥ २,३१.१९ ॥ वसिष्ठ उवाच एवमुक्तः स पितरं नमस्कृत्य महामतिः । जगाम ब्रह्मणो लोकमगम्यं प्राकृतैर्जनैः ॥ २,३१.२० ॥ ददर्श ब्रह्मणो लोकं शातकैंभविनिर्मितम् । स्वर्णप्राकारसंयुक्तं मणिस्तंभैर्विमूषितम् ॥ २,३१.२१ ॥ तत्रापश्यत्समासीनं ब्रह्माणममितौजसम् । रत्नसिंहासने रम्ये रत्नभूषणभूषितम् ॥ २,३१.२२ ॥ सिद्धेन्द्रैश्च मुनीन्द्रैश्च वेष्टितं ध्यानतत्परैः । विद्याधरीणां नृत्यं च पश्यन्तं सस्मितं मुदा ॥ २,३१.२३ ॥ तपसा फलदातारं कर्त्तारं जगतां विभुम् । परिपूर्णतमं ब्रह्म ध्यायतं यतमानसम् ॥ २,३१.२४ ॥ गुह्ययोगं प्रवोचन्तं भक्तवृन्देषु संततम् । दृष्ट्वा तमव्ययं भक्त्या प्रणनाम भृगूद्वहः ॥ २,३१.२५ ॥ स दृष्ट्वा विनतं राममाशीर्भिरभिनन्द्य च । पप्रच्छ कुशलं वत्स कथमागमनं कृथाः ॥ २,३१.२६ ॥ संपृष्टो विधिना रामः प्रोवाचाखिलमादितः । वृत्तान्तं कार्त्तवीर्यस्य पितुः स्वस्य महात्मनः ॥ २,३१.२७ ॥ तच्छ्रुत्वा सकलं ब्रह्मा विज्ञातार्थोऽपि मानद । उवाच रामं धर्मिष्ठं परिणामसुखावहम् ॥ २,३१.२८ ॥ प्रतिज्ञा दुर्लभा वत्स यां भवन्कृतवान्रुषा । सृष्टि रेषा भगवतः संभवेत्कृपया बटो ॥ २,३१.२९ ॥ जगत्सृष्टं मया तात संक्लेशेन तदाज्ञया । तन्नाशकारिणी चैव प्रतिज्ञा भवता कृता ॥ २,३१.३० ॥ त्रिःसप्तकृत्वो निर्भूपां कर्तुमिच्छसि मेदिनीम् । एकस्य राज्ञो दोषेण पितुः परिभवेन च ॥ २,३१.३१ ॥ ब्रह्मक्षत्र्रियविट्शूद्रैः सृष्टिरेषा सनातनी । आविर्भूता तिरोभूता हरेरेव पुनः पुनः ॥ २,३१.३२ ॥ अव्यर्था त्वत्प्रतिज्ञा तु भवित्री प्राक्तनेन च । यद्वायासेन ते कार्यसिद्धिर्भवितुमर्हति ॥ २,३१.३३ ॥ शिवलोकं प्रयाहि त्वं शिवस्याज्ञामवाप्नुहि । पृथिव्यां बहवो भूपाः संति शङ्करकिङ्कराः ॥ २,३१.३४ ॥ विनैवाज्ञां महेशस्य को वा तान्हन्तुमीश्वरः । बिभ्रतः कवचान्यङ्गे शक्तीश्चापि दुरासदाः ॥ २,३१.३५ ॥ उपायं कुरु यत्नेन जयबीजं शुभावहम् । उपाये तु समारब्धे सर्वे सिध्यन्त्युपक्रमाः ॥ २,३१.३६ ॥ श्रीकृष्णमन्त्रं कवचं गृह्ण वत्स गुरोर्हरात् । दुर्ल्लङ्घ्यं वैष्णवं तेजः शिवशक्तिर्विजेष्यति ॥ २,३१.३७ ॥ त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् । यथाकथं च विज्ञाप्य शङ्करं लभदुर्लभम् ॥ २,३१.३८ ॥ प्रसन्नः स गुणैस्तुभ्यं कृपालुर्दीनवत्सलः । दिव्यपाशुपतं चापि दास्यत्येव न संशयः ॥ २,३१.३९ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे भार्गवचरिते एकत्रिंशत्तमोऽध्यायः ॥ ३१॥ _____________________________________________________________ वसिष्ठ उवाच ब्रह्मणो वचनं श्रुत्वा स प्रणम्य जगद्गुरुम् । प्रसन्नचेताः सुभृशं शिवलोकं जगाम ह ॥ २,३२.१ ॥ लक्षयोजनमूर्द्ध्वं च ब्रह्मलोका द्विलक्षणम् । अथनिर्वचनीयं च योगिगम्यं परात्परम् ॥ २,३२.२ ॥ वैकुण्ठो दक्षिणे यस्माद्गौरीलोकश्च वामतः । यदधो ध्रुवलोकश्च सर्वलोकपरस्तु सः ॥ २,३२.३ ॥ तपोवीर्यगती रामः शिवलोकं ददर्श च । उपमानेन रहितं नानाकौतुकसंयुतम् ॥ २,३२.४ ॥ वसंति यत्र योगीन्द्राः सिद्धाः पाशुपताः शुभाः । कोटिकल्पतपः पुण्याः शान्ता निर्मत्सरा जनाः ॥ २,३२.५ ॥ पारिजातमुखैर्वृक्षैः शोभितं कामधेनुभिः । योगेन योगिना सृष्टं स्वेच्छया शङ्करेण हि ॥ २,३२.६ ॥ शिल्पिनां गुरुणा स्वप्ने न दृष्टं निश्वकर्मणा । सरोवरशतैर्दिव्यैः पद्मरागविराजितैः ॥ २,३२.७ ॥ शोभितं चातिरम्यं च संयुक्तं मणिवेदिभिः । सुवर्णरत्नरचितप्राकारेण समावृतम् ॥ २,३२.८ ॥ अत्यूर्द्ध्वमंबरस्पर्शि स्वच्छं क्षीरनिभंपरम् । चतुर्द्वारसमायुक्तं शोभितं मणिवेदिभिः ॥ २,३२.९ ॥ रक्तसोपानयुक्तैश्च रत्नस्तंभकपाटकैः । नानाचित्रविचित्रैश्च शोभितैः सुमनोहरैः ॥ २,३२.१० ॥ तन्मधये भवनं रम्यं सिंहद्वारोपशोभितम् । ददर्शरामो धर्मात्मा विचित्रमिव संगतः ॥ २,३२.११ ॥ तत्र स्थितौ द्वार पालौ ददर्शातिभयङ्करौ । महाकरालदन्तास्यौ विकृतारक्तलोचनौ ॥ २,३२.१२ ॥ दग्धशैलप्रतीकाशौ महाबलपराक्रमौ । विभूतिभूषिताङ्गौ च व्याघ्रचर्मांबरौ च तौ ॥ २,३२.१३ ॥ त्रिशूलपट्टिशधरौ ज्वलन्तौ ब्रह्मतेजसा । तौ दृष्ट्वा मनसा भीतः किञ्चिदाह विनीतवत् ॥ २,३२.१४ ॥ नमस्करोमि वामीशौ शङ्करं द्रष्टुमागतः । ईश्वराज्ञां समादाय मामथाज्ञप्तुमर्हथ ॥ २,३२.१५ ॥ तौतु तद्वचनं श्रुत्वा गृहीत्वाज्ञां शिवस्य च । प्रवेष्टुमाज्ञां ददतुरीश्वरानुचरौ च तौ ॥ २,३२.१६ ॥ स तदाज्ञामनुप्राप्य विवेशान्तः पुरं मुदा । तत्रातिरम्यां सिद्धौघैः समाकीर्णां सभां द्विजः ॥ २,३२.१७ ॥ दृष्ट्वा विस्मयमापेदे सुगन्धबहुलां विभोः । तत्रापश्यच्छिवं शान्तं त्रिनेत्रं चन्द्रशेखरम् ॥ २,३२.१८ ॥ त्रिशूलशोभितकरं व्याघ्रचर्मवरांबरम् । विभूतिभूषिताङ्गं च नागयज्ञोपवीतिनम् ॥ २,३२.१९ ॥ आत्मारामं पूर्णकामं कोटिसूर्यसमप्रभम् । पञ्चाननं दशभुजं भक्तानुग्रहविग्रहम् ॥ २,३२.२० ॥ योगज्ञाने प्रब्रुवन्तं सिद्धेभ्यस्तर्कमुद्रया । स्तूयमानं च योकीन्द्रैः प्रमथप्रकरैर्मुदा ॥ २,३२.२१ ॥ भैरवैर्योगिनीभिश्च वृतं रुद्रगणैस्तथा । मूर्ध्ना नमाम तं दृष्ट्वा रामः परमया मुदा ॥ २,३२.२२ ॥ वामभागे कार्त्तिकेयं दक्षिणे च गणेश्वरम् । नन्दीश्वरं महाकालं वीरभद्रं च तत्पुरः ॥ २,३२.२३ ॥ क्रोडे दुर्गां शतभुजां दृष्ट्वा नत्वाथ तामपि । स्तोतुं प्रचक्रमे विद्वान्गिरा गद्गदया विभुम् ॥ २,३२.२४ ॥ नमस्ये शिवमीशानं विभुं व्यापकमव्ययम् । भुजङ्गभूषणं चोग्रं नृकपालस्रगुज्ज्वलम् ॥ २,३२.२५ ॥ यो विभुः सर्वलोकानां सृष्टिस्थितिविनाशकृत् । ब्रह्मादिरूपधृग्ज्येष्ठस्तं त्वां वेद कृपार्णवम् ॥ २,३२.२६ ॥ वेदा न शक्ता यं स्तोतु मवाङ्मनसगोचरम् । ज्ञानबुद्ध्योरसाध्यं च निराकारं नमाम्यहम् ॥ २,३२.२७ ॥ शक्रादयः सुरगणा ऋषयो मनवोऽसुराः । न यं विदुर्यथातत्त्वं तं नमामि परात्परम् ॥ २,३२.२८ ॥ यस्यांशांशेन सृजयन्ते लोकाः सर्वे चराचराः । लीयन्ते च पुनर्यस्मिंस्तं नमामि जगन्मयम् ॥ २,३२.२९ ॥ यस्येषत्कोपसंभूतो हुताशो दहतेऽखिलम् । सोर्द्ध्वलोकं सपातालं तं नमामि हरं परम् ॥ २,३२.३० ॥ पृथ्वीपवन वह्न्यभभोनभोयज्वेन्दुभास्कराः । मूर्त्तयोऽष्टौ जगत्पूज्यास्तं यज्ञं प्रणमाम्यहम् ॥ २,३२.३१ ॥ यः कालरूपो जगदादिकर्त्ता पाता पृथग्रूपधरो जगन्मयः । रर्त्ता पुना रुद्रवपुस्तथान्ते तं कालरूपं शरणं प्रपद्ये ॥ २,३२.३२ ॥ इत्येवमुक्त्वा स तु भार्गवो मुदा पषात तस्याङ्घ्रि समीप आतुरः । उत्थाप्य तं वामकरेण लीलया दध्रे तदा मूर्ध्नि करं कृपार्णवः ॥ २,३२.३३ ॥ आशीर्भिरेनं ह्यभिनन्द्य सादरं निवेशयामास गणेशपूर्वतः । उवाच वामामभिवीक्ष्य चाप्युमां कृपार्द्रदृष्ट्याखिलकामपूरकः ॥ २,३२.३४ ॥ शिव उवाच कस्त्वं वटो कस्यकुले प्रसूतः किं कार्यमुद्दिश्य भवानिहागतः । विनिर्द्दिशाहं तव भक्तिभावतः प्रीतः प्रदद्यां भवतो मनोगतम् ॥ २,३२.३५ ॥ इत्येवमुक्तः स भृगुर्महात्मना हरेण विश्वार्त्तिहरेण सादरम् । पुनश्च नत्वा विबुधां पति गुरुं कृपासमुद्रं समुवाच सत्वरम् ॥ २,३२.३६ ॥ परशुराम उवाच भृगोश्चाहं कुले जातो जमदग्निसुतौ विभो । रामो नाम जगद्वन्द्यं त्वामहं शरणं गतः ॥ २,३२.३७ ॥ यत्कार्यार्थमहं नाथ तव सांनिध्यमागतः । तं प्रसाधय विश्वेश वाञ्छितं काममेव मे ॥ २,३२.३८ ॥ मृगयामागतस्यापि कार्त्तवीर्यस्य भूपतेः । आतिथ्यं कृतवान् देव जमदग्निः पिता मम ॥ २,३२.३९ ॥ राजा तं स बलाल्लोभात्पातयामास मन्दधीः । सा धेनुस्तं मृतं दृष्ट्वा गवां लोकं जगाम ह ॥ २,३२.४० ॥ राजा न शोचन्मरणं पितुर्मम निरागसः । जगाम स्वपुरं पश्चान्माता मे प्रारुदद्भृशम् ॥ २,३२.४१ ॥ तज्ज्ञात्वा लोकवृत्तज्ञो भृगुर्नः प्रपितामहः । आजगाम महादेव ह्यहमप्यागतो वनात् ॥ २,३२.४२ ॥ मया मह सुदुःखार्त्तान्भ्रातॄन्मात्रासहैव मे । सांत्वयित्वा स मन्त्रज्ञोऽजीवयत्पितरं मम ॥ २,३२.४३ ॥ आनागते भृगौ मातुर्दुःखेनाहं प्रकोपितः । प्रतिज्ञां कृतवान्देव सात्वयन्मातरंस्वकाम् ॥ २,३२.४४ ॥ त्रिःसप्तकृत्वो यदुरस्ताडितं मातुरात्मनः । तावत्संख्यमहं पृथ्वीं करिष्ये क्षत्रवर्जिताम् ॥ २,३२.४५ ॥ इत्येवं परिपूर्णा मे कर्त्ता देवो जगत्पतिः । महादेवो ह्यतो नाथ त्वत्सकाणमिहागतः ॥ २,३२.४६ ॥ वसिष्ठ उवाच इत्येवं तद्वचः श्रुत्वा दृष्ट्वा दुर्गामुखं हरः । बभूवानम्रवदनस्छिन्तयानः क्षणं तदा ॥ २,३२.४७ ॥ एतस्मिन्नन्तरे दुर्गा विस्मिता प्राहसद्भृशम् । उवाच च महाराज भार्गवं वैरसाधकम् ॥ २,३२.४८ ॥ तपस्विन्द्विजपुत्र क्ष्मां निर्भूपां कर्त्तुमिच्छसि । त्रिः सप्तकृत्वः कोपेन साहसस्ते महान्बटो ॥ २,३२.४९ ॥ हन्तुमिच्छसि निःशस्त्रः सहस्रार्जुनमीश्वरम् । भ्रूभङ्गलीलया येन रावणोऽपि निराकृतः ॥ २,३२.५० ॥ तस्मै प्रदत्तं दत्तेन श्रीहरेः कवचं पुरा । शक्तिरत्यर्थवीर्या च तं कथं हन्तुमिच्छसि ॥ २,३२.५१ ॥ शङ्करः करुणासिद्धः कर्त्तुं चाप्यन्यथा विभुः । न चान्यः शङ्करात्पुत्र सत्कार्यं कर्त्तुमीश्वरः ॥ २,३२.५२ ॥ अथ देव्या अनुमतिं प्राप्य शंभुर्द्दयार्णवः । अभ्यधाद्भद्रया वाया जमदग्निसुतं विभुः ॥ २,३२.५३ ॥ शिव उवाच अद्यप्रभृति विप्र त्वं मम स्कन्दसमो भव । दास्यामि मन्त्रं दिव्यं ते कवचं च महामते ॥ २,३२.५४ ॥ लीलया यत्प्रसादेन कार्त्तवीर्यं हनिष्यसि । त्रिः सप्तकृत्वो निर्भूपां महीं चापि करिष्यसि ॥ २,३२.५५ ॥ इत्युक्त्वा शङ्करस्तस्मै ददौ मन्त्रं सुदुर्लभम् । त्रैलोक्यविजयं नाम कवचं परमाद्भुतम् ॥ २,३२.५६ ॥ नागपाशं पाशुपतं ब्रह्मास्त्रं च सुदुर्ल्लभम् । नारायणास्त्रमाग्नेयं वायव्यं वारुणं तथा ॥ २,३२.५७ ॥ घान्धर्वं गारुडं चैव जृंभणास्त्रं महाद्भुतम् । गदां शक्तिं च परशुं शूलं दण्डमनुत्तमम् ॥ २,३२.५८ ॥ शस्त्रास्त्रग्राममखिलं प्रहृष्टः संबभूव ह । नमस्कृत्य शिवं शान्तं दुर्गां स्कन्दं गणेश्वरम् ॥ २,३२.५९ ॥ परिक्रम्य ययौ रामः पुष्करं तीर्थमुत्तमम् । सिद्धं कृत्वा शिवोक्तं तु मन्त्रं कवचमुत्तमम् ॥ २,३२.६० ॥ साधयामास निखिलं स्वकार्यं भृगुनन्दनः । निहत्य कार्त्तवीर्यं तं ससैन्यं सकुलं मुदा । विनिवृत्तो गृहं प्रागात्पितुः स्वस्य भृगूद्वहः ॥ २,३२.६१ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे भार्गवचरिते द्वात्रिंशत्तमोऽध्यायः ॥ ३२॥ _____________________________________________________________ सगर उवाच श्रुतं सर्वं मुनिश्रेष्ठ कीर्त्यमानं त्वया विभो । कवचं वद सर्वत्र त्रैलोक्यविजयप्रदम् ॥ २,३३.१ ॥ वसिष्ठ उवाच शृणु वत्स प्रवक्ष्यामि कवचं परमाद्भुतम् । मन्त्र च सिद्धिद शश्वत्साधकानां सुखावहम् ॥ २,३३.२ ॥ गोपीजनपदस्यात वल्लभाय समुच्चरेत् । स्वाहान्तोऽयं महामन्त्रो दशार्णो भुक्तिमुक्तिदः ॥ २,३३.३ ॥ सदाशिवस्त्वस्य ऋषिः पङ्क्तिश्छन्द उदाहृतम् । देवता कृष्ण उदितो विनियोगोऽखिलाप्तये ॥ २,३३.४ ॥ त्रैलोक्यविजयस्याथ कवचस्य प्रजापतिः । ऋषिश्छन्दश्च जगती देवो राजेश्वरः स्वयम् ॥ २,३३.५ ॥ त्रैलोक्यविजयप्राप्तौ विनियोगः प्रकीर्त्तितः । प्रणवो मेशिरः पातु श्रीकृष्णाय नमः सदा ॥ २,३३.६ ॥ पायात्कपालं कृष्णाय स्वाहेति सततं मम । कृष्णेति पातु नेत्रे मे कृष्णस्वाहेति तारकाम् ॥ २,३३.७ ॥ हरये नम इत्येष भ्रूलतां पातु मे सदा । ओं गोविन्दाय स्वाहेति नासिकां पातु संततम् ॥ २,३३.८ ॥ गोपालाय नमो गण्डं पातु मे सततं मनुः । क्लीं कृष्णाय नमः कर्णौं पातु कल्पतरुर्मम ॥ २,३३.९ ॥ श्रीं कृष्णाय नमः पातु नित्यं मेऽधरयुग्मकम् । ओं गोपीशाय स्वाहेति दन्तपङ्क्तिं ममावतु ॥ २,३३.१० ॥ श्रीकृष्णेति रदच्छिद्रं पातुमे त्र्यक्षरो मनुः । ओं श्रीकृष्णाय स्वाहेति जिह्विकां पातु मे सदा ॥ २,३३.११ ॥ रामेश्वराय स्वाहेति तालुकं पातु मे सदा । राधिकेशाय स्वाहेति कण्ठं मे पातु सर्वदा ॥ २,३३.१२ ॥ नमो गोपीगणेशाय ग्रीवां मे पातु सर्वदा । ओं गोपेशाय स्वाहेति स्कन्धौ पातु सदा मम ॥ २,३३.१३ ॥ नमः किशोरवेषाय स्वाहा पृष्ठं ममावतु । उदरं पातु मे नित्यं मुकुन्दाय नमो मनुः ॥ २,३३.१४ ॥ ह्नीं श्रीङ्क्लीङ्कृष्णाय स्वाहा करौ पातु सदा मम । ओं विष्णवे नमः स्वाहा बाहुयुग्मं ममावतु ॥ २,३३.१५ ॥ ओं ह्रींभगवते स्वाहा नखपङ्क्तिं ममावतु । नमो नारायणायेति नखरन्ध्रं ममावतु ॥ २,३३.१६ ॥ ओं ह्रींश्रींपद्मनाभाय नाभिं पातु सदा मम । ओं सर्वेशाय स्वाहेति केशान्मम सदावतु ॥ २,३३.१७ ॥ नमः कृष्णाय स्वाहेति ब्रह्मरन्ध्रं सदावतु । ओं माधवाय स्वाहेति भालं मे सर्वदावतु ॥ २,३३.१८ ॥ ओं ह्रींश्रींरसिकेशाय कटिं मम सदावतु । नमो गोपीजनेशाय ऊरू पातु सदा मम ॥ २,३३.१९ ॥ ओं नमो दैत्यनाशाय स्वाहेत्यवतु जानुनी । यशोदानन्दनायेति नमोतो जङ्घकेऽवतु ॥ २,३३.२० ॥ रासारंभप्रियायेति स्वाहान्तो हीं ममावतु । वृन्दाप्रियाय स्वाहेति सकलाङ्गानि मेऽवतु ॥ २,३३.२१ ॥ परिबुर्णमनाः कृष्मः प्राच्यां मां सर्वदावतु । स्वयं गोलोकनाथो मामाग्नेय्यां दिशि रक्षतु ॥ २,३३.२२ ॥ पूर्णब्रह्मस्वरूपश्च दक्षिणे मां सदावतु । नैरृत्यां पातु मां कृष्णाः पश्चिमे पातु मां हरिः ॥ २,३३.२३ ॥ गोविन्दः पातु वायव्यामुत्तरे रसिकेश्वरः । ऐशान्यां मे सदा पातु वृन्दावनविहार कृत् ॥ २,३३.२४ ॥ वृन्दाप्राणेश्वरः शश्वत्पातु मामूर्द्ध्वदेशतः । सदैव मामधः पातु बलिध्वंसी महाबलः ॥ २,३३.२५ ॥ जले स्थले चान्तरिक्षे नृसिंहः पातु मां सदा । स्वप्ने जागरणे चैव पातु मां माधवः स्वयम् ॥ २,३३.२६ ॥ सर्वान्तरात्मा निर्लिप्तः पातु मां सर्वतो विभुः । इति ते कथितं भूप सर्वाघौघविनाशनम् ॥ २,३३.२७ ॥ त्रैलोक्यविजयं नाम कवचं परमेशितुः । मया श्रुतं शिवमुखात्प्रवक्तव्यं न कस्यचित् ॥ २,३३.२८ ॥ गुरुमभ्यर्च्य विधिवत्कवचं धारयेत्तु यः । कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः ॥ २,३३.२९ ॥ स साधकोऽवसद्यत्र तत्र वाणीरमे स्थिते । यदि स्यात्सिद्धकवचो जीवन्मुक्तो न संशयः ॥ २,३३.३० ॥ निश्चितं कोटिवर्षाणां पूजायाः फलमाप्नुयात् । राजसूर्यसहस्राणि वाजपेयशतानि च ॥ २,३३.३१ ॥ महादानानि यान्येव भुवश्चापि प्रदक्षिणा । त्रैलोक्यविजयस्यास्य कलां नार्हन्ति षोडशीम् ॥ २,३३.३२ ॥ व्रतोपवासनियमाः स्वाध्यायाध्ययने तथा । स्नानं च सर्वतीर्थेषु नास्यार्हन्ति कलामपि ॥ २,३३.३३ ॥ सिद्धत्वममरत्वं च दासत्वं श्रीहरेरपि । यदि स्यात्सिद्धकवचः सर्वं प्राप्नोति निश्चितम् ॥ २,३३.३४ ॥ स भवेत्सिद्धकवचो दशलक्षं जपेत्तु यः । यो भवेत्सिद्धकवचो विजयी स भवेद्ध्रुवम् ॥ २,३३.३५ ॥ राज्यं देयं शिरो देयं प्राणा देयाश्च भूपते । एतत्तु कवचं वत्स न देयं संकटेऽपि च ॥ २,३३.३६ ॥ मया प्रकाशितं यत्ते चैतेषां त्राणकारणात् । ममाज्ञाकरणाच्चैव तद्विद्धि कुलभास्कर । इदं धृत्वा तु कवचं चक्रवर्त्ती भवान्भव ॥ २,३३.३७ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे भार्गवचरिते त्रयस्त्रिंशत्तमोऽध्यायः _____________________________________________________________ सगर उवाच ब्रह्मपुत्र महाभाग महान्मेऽनुग्रहः कृतः । यदिदं कवचं मह्यं प्रकाशितमनामयम् ॥ २,३४.१ ॥ और्वेणानुगृहीतोऽहं कृतास्त्रो यदनुग्रहात् । भवतस्तु कृपापात्रं जातोऽहमधुना विभो ॥ २,३४.२ ॥ रामेण भार्गवेन्द्रेण कार्त्तवीर्यो नृपो गुरो । यथा समापितो वीरस्तन्मे विस्तरतो वद ॥ २,३४.३ ॥ कृपापात्रं स दत्तस्य राजा रामः शिवस्य च । उभौ तौ समरे वीरौ जघटाते कथं गुरो ॥ २,३४.४ ॥ वसिष्ठ उवाच शृणु राजन्प्रवक्ष्यामि चरितं पापनाशनम् । कार्त्तवीर्यस्य भूपस्य रामस्य च महात्मनः ॥ २,३४.५ ॥ स रामः कवचं लब्ध्वा मन्त्रं चैव गुरोर्मुखात् । चकार माधनं तस्य भक्त्या परमया युतः ॥ २,३४.६ ॥ भूमिशागी त्रिषवण स्नानसध्यापरायणः । उवासपुष्करे राम शतवर्षमतन्द्रितः ॥ २,३४.७ ॥ समित्पुष्पकुशादीनि द्रव्याण्यहरहर्भृगोः । आनीय काननाद्भूप प्रायच्छदकृतव्रणः ॥ २,३४.८ ॥ सततं ध्यानसंयुक्तो रामो मतिमतां वरः । आराधयामास विभुं कृष्णं कल्मषनाशनम् ॥ २,३४.९ ॥ तस्यैवं यजमानस्य रामस्य जगतीपते । गतं वर्षशतं तत्र ध्यानयुक्तस्य नित्यदा ॥ २,३४.१० ॥ एकदा तु महाराज रामः स्नातुं गतो महान् । मध्यमं पुष्करं तत्र ददर्शाश्वर्यमुत्तमम् ॥ २,३४.११ ॥ मृग एकः समायातो मृग्य युक्तः पलायितः । व्याधस्य मृगयां प्राप्तो धर्मतप्तोऽतिपीडितः ॥ २,३४.१२ ॥ पिपासितो महाभाग जलपानसमुत्सुकः । रामस्य पश्यतस्तत्र सरसस्तटमागतः ॥ २,३४.१३ ॥ पश्चान्मृगी समायाता भीता सा चकितेक्षणा । उभो तौ पिबतस्तत्र जलं शङ्कितमानसौ ॥ २,३४.१४ ॥ तावत्समागतो व्याधो बाणपाणिर्धनुर्द्धरः । स दृष्ट्वा तत्र संविष्टं रामं भार्गवनन्दनम् ॥ २,३४.१५ ॥ अकृतव्रणसंयुक्तं तस्थौ दूरकृतेक्षणः । स चिन्तयामास तदा शङ्कितो भृगुनन्दनात् ॥ २,३४.१६ ॥ अयं रामो महावीरो दुष्टानामन्तकारकः । कथमेतस्य हन्म्येतौ पश्यतो मृगयामृगौ ॥ २,३४.१७ ॥ इति चिन्ता समाविष्टो व्याधो राजन्यसत्तम । तस्थौ तत्रैव रामस्य भयात्संत्रस्तमानसः ॥ २,३४.१८ ॥ रामस्तु तौ मृगों दृष्ट्वा पिबन्तौ सभ्यं जलम् । तर्कयामास मेधावी किमत्र भयकारणम् ॥ २,३४.१९ ॥ नैवात्र व्याघ्रसेनादो न च व्याधो हि दृश्यते । केनैतौ कारणेनाहो शङ्कितौ चकितेक्षणौ ॥ २,३४.२० ॥ अथ वा मृगजातिर्हि निसर्गाच्चकितेक्षणा । चेनैतौ जलपानेऽपि पश्यतश्चकितेक्षणौ ॥ २,३४.२१ ॥ नैतावत्कारणं चात्र किन्तु खेदभयातुरौ । लक्षयेते खिन्नसर्वाङ्गौ कम्पयुक्तौ यतस्त्विमौ ॥ २,३४.२२ ॥ एवं संचिन्त्य मतिमान्स तस्थौ मध्यपुष्करे । शिष्येण संयुतो रामो यावत्तौ चापि संस्थितौ ॥ २,३४.२३ ॥ पीत्वा जलं ततस्तौ तु वृक्षच्छायासमाश्रितौ । रामं दृष्ट्वा महात्मानं कथां तौ चक्रतुर्मुदा ॥ २,३४.२४ ॥ मृग्युवाच कान्त चात्रैव तिष्ठावो यावद्रामोऽत्रसंस्थितः । अस्य वीरस्य सांनिध्ये भयं नैवावयोर्भवेत् ॥ २,३४.२५ ॥ अत्राप्यागत्य चैव्द्याधौ ह्यावयोः प्रहरिष्यति । दृष्टमात्रो हि मुनिना भस्मीभूतो भविष्यति ॥ २,३४.२६ ॥ इत्युक्ते वचने मृग्या रामर्शनतुष्टया । मृगश्चोवाच हर्षेण समाविष्टः प्रियां स्वकाम् ॥ २,३४.२७ ॥ एवमेव महाभागे यद्वै वदसि भामिनि । जानेऽहमपि रामस्य प्रभावं सुमहात्मनः ॥ २,३४.२८ ॥ योऽयं संदृश्यते चास्य पार्श्वं शिष्योऽकृतव्रणः । सचाने न महाभागस्त्रातो व्याघ्रभयातुरः ॥ २,३४.२९ ॥ अयं रामो महाभागे जमदग्निसुतोऽनुजः । पितरं कार्त्तवीर्येण दृष्ट्वा चैव तिरस्कृतम् ॥ २,३४.३० ॥ चकारातितरां क्रुद्धः प्रतिज्ञां नृपघातिनीम् । तत्पूर्तिकामो ह्यगमद्ब्रह्मलोकं पुरा ह्ययम् ॥ २,३४.३१ ॥ स ब्रह्मा दिष्टवांश्चैनं शिवलोकं व्रजेति ह । तस्य त्वाज्ञां समादाय गतोऽसौ शिवसन्निधिम् ॥ २,३४.३२ ॥ प्रोवाचाखिलवृत्तान्त राज्ञश्चप्यात्मनः पितुः । स कृपालुर्महादेवः सभाज्य भृगुनन्दनम् ॥ २,३४.३३ ॥ ददौ कृष्णस्य सन्मन्त्रमभेद्यं कवचं तथा । स्वीयं पाशुपतं चास्त्रमन्यास्त्रग्राममेव च ॥ २,३४.३४ ॥ विसर्जयामास मुदा दत्त्वा शस्त्राणि चादरात् । सोऽयमत्रागतो भद्रे मेत्रसाधनतत्परः ॥ २,३४.३५ ॥ नित्यं जपति धर्मात्मा कृष्णस्य कवचं सुधीः । शतवर्षाणि चाप्यस्य गतानि सुमहात्मनः ॥ २,३४.३६ ॥ मन्त्र साधयतो भद्रे न च तत्सिद्धिरेति हि । आत्रास्ति कारणं भक्तिः साव वै त्रिविधा मता ॥ २,३४.३७ ॥ उत्तमा मध्यमा चैव कनिष्ठा तरलेक्षणे । शिवस्य नारदस्यापि शुकस्य च महात्मनः ॥ २,३४.३८ ॥ अंबरीष्स्य राजर्षे रन्तिदेवस्य मारुतेः । बलेर्विभीषणस्यापि प्रह्लादस्य महात्मनः ॥ २,३४.३९ ॥ उत्तमा भक्तिरेवास्ति गोपीनामुद्धवस्य च । वसिष्ठादिमुनीशानां मन्वादीनां शुभेक्षणे ॥ २,३४.४० ॥ मध्या च भक्तिरेवास्ति प्राकृतान्यजनेषु सा । मध्यभक्तिरयं रामो नित्यं यमपरायणः ॥ २,३४.४१ ॥ सेवते गोपिकाधीशं तेन सिद्धिं न चागतः । वसिष्ठ उवाच इत्युक्ता त्वरितं कान्तं सा मृगी हृष्टमानसा ॥ २,३४.४२ ॥ पुनः पप्रच्छ भक्तेस्तु लक्षणं प्रेमदायकम् । मृग्युवाच साधुकान्त महाभाग वचस्तेऽलौकिकं प्रिय । र्हदृग्ज्ञानं तव कथं संजातं तद्वदाधुना ॥ २,३४.४३ ॥ मृग उवाच शृणु प्रिये महाभागे ज्ञानं पुण्येन जायते ॥ २,३४.४४ ॥ तत्पुण्यमद्य संजातं भार्गवस्यास्य दर्शनात् । पुण्यात्मा भार्गवश्चायं कृष्णाभक्तो जितेन्द्रियः ॥ २,३४.४५ ॥ गुरुशुश्रूषको नित्यं नित्यनैमित्तिकादरः । अतोऽस्य दर्शनाज्जातं ज्ञानं ं द्यैव भामिनि ॥ २,३४.४६ ॥ त्रैलोक्यस्थितसत्त्वानां शुभाशुभनिदर्शकम् । अद्यैव विदितं मेऽभूद्रासस्यास्य महात्मनः ॥ २,३४.४७ ॥ चरितं पुण्यदं चैव पापघ्नं शृण्वतामिदम् । यद्यत्करिष्यते चैव तदपि ज्ञानगोचरम् ॥ २,३४.४८ ॥ योत्तमा भक्तिराख्याता तां विना नैव सिद्ध्यति । कवचं मन्त्रसहितं ह्यपि वर्षायुतायुतैः ॥ २,३४.४९ ॥ यद्ययं भार्गवो भद्रे ह्यगस्त्यानुग्रहं लभेत् । कृष्णप्रेमामृतं नाम स्तोत्रमुत्तमभक्तिदम् ॥ २,३४.५० ॥ ज्ञात्वा च लप्स्यते सिद्धिं मन्त्रस्य कवचस्य च । स मुनिर्ज्ञाततत्त्वार्थः सानुकंपोऽभयप्रदः ॥ २,३४.५१ ॥ उपदेक्ष्यति चैवैनं तत्त्वज्ञानं मुदावहम् । श्रीकृष्णचारितं सर्वं नामभिर्ग्रथितं यतः ॥ २,३४.५२ ॥ कृष्णप्रेमामृतस्तोत्राज्ज्ञास्यतेऽस्य महामतिः । ततः संसिद्ध कवचौ राजनं हैहयाधिपम् ॥ २,३४.५३ ॥ हत्वा सपुत्रामात्यं च ससुहृद्बलवाहनम् । त्रिः सप्तकृत्वो निर्भूपां करिष्यत्यवनीं प्रिय ॥ २,३४.५४ ॥ वसिष्ठ उवाच एवमुक्त्वा मृगो राजन्विरराम मृगीं ततः । आत्मनो मृगभावस्य कारणं ज्ञातवांश्च ह ॥ २,३४.५५ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे भार्गवचरिते चतुस्त्रिंशत्तमोऽध्यायः ॥ ३४॥ _____________________________________________________________ सगर उवाच मुने परमतत्त्वज्ञध्यानज्ञानार्थकोविद । भगवद्भक्तिसंलीनमानसानुग्रहः कुतः ॥ २,३५.१ ॥ त्वयापि हि महाभाग यतः शंससि सत्कथाः । श्रुत्वा मृगमुखात्सर्वं भार्गवस्य विचेष्टितम् ॥ २,३५.२ ॥ भूतं भवद्भविष्यं च नारायणकथान्वितम् । पुनः प्रपच्छ किं नाथ तन्मे वद सविस्तरम् ॥ २,३५.३ ॥ वसिष्ठ उवाच शृणु राजन्प्रवक्ष्यामि मृगस्य चरितं महत् । यथा पृष्टं तया सोऽस्यै वर्णयामास तत्त्ववित् ॥ २,३५.४ ॥ श्रुत्वा तु चरितं तस्य भार्गवस्य महात्मनः । भूयः प्रपच्छ तं कान्तं ज्ञानतत्त्वार्थमादरात् ॥ २,३५.५ ॥ मृग्युवाच साधुसाधु महाभाग कृतार्थस्त्वं न संशयः । यदस्य दर्शनात्तेऽद्य जातं ज्ञानमतीद्रियम् ॥ २,३५.६ ॥ अथातश्चात्मनः सर्वं ममापि वद कारणम् । कर्मणा येन संप्राप्तावावां तिर्यग्जनिं प्रभो ॥ २,३५.७ ॥ इति वाक्यं समाकर्ण्य प्रियायाः स मृगः स्वयम् । वर्णयामास चरितं मृग्यश्चैवात्मनस्तदा ॥ २,३५.८ ॥ मृग उवाच शृणु प्रिये महाभागे यथाऽवां मृगतां गतौ । संसारेऽस्मिन्नमहाभागे भावोऽस्य भवकारणम् ॥ २,३५.९ ॥ जीवस्य सदसभ्द्यां हि कर्मभ्यामागतः स्मृतिम् । पुरा द्रविडदेशे तु नानाऋद्धिसमाकुले ॥ २,३५.१० ॥ ब्राह्मणानां कुले वाहं जातः कौशिकगोत्रिणाम् । पिता मे शिवदत्तोऽभून्नाम्ना शास्त्रविशारदः ॥ २,३५.११ ॥ तस्य पुत्रा वयं जाताश्चत्वारो द्विजसत्तमाः । ज्येष्ठो रामोऽनुजस्तस्य धमस्तस्यानु जः पृथुः ॥ २,३५.१२ ॥ चतुर्थोऽहं प्रिये जातो सूरिरित्यभिविश्रुतः । उपनीय क्रमात्सर्वाञ्छिवदत्तो महायशाः ॥ २,३५.१३ ॥ वेदानध्यापयामास सांगांश्च सरहस्यकान् । चत्वारोऽपि वयं तत्र वेदाध्ययनतत्पराः ॥ २,३५.१४ ॥ गुरुशुश्रूषणे युक्ता जाता ज्ञानपरायणाः । गत्वारण्यं फलान्यंबुसमित्कुशमृदोऽन्वहम् ॥ २,३५.१५ ॥ आनीय पित्रे दत्त्वाथ कुर्मोऽध्ययनमेव हि । एकदा तु वयं सर्वे संप्राप्ता पर्वते वने ॥ २,३५.१६ ॥ औद्भिदं नाम लोलक्षि कृतमालातटे स्थितम् । सर्वे स्नात्वा महानद्यामुषसि प्रीतमानसाः ॥ २,३५.१७ ॥ दत्तार्घाः कृतजप्याश्च समारूढा नागोत्तमम् । शालस्तमालैः प्रियकैः पनसैः कोविदारकैः ॥ २,३५.१८ ॥ सरलार्जुनपूगैश्च खर्जूरैर्नारिकेलकैः । जंबूभिः सहकारैश्च कट्फलैर्बृहतीद्रुमैः ॥ २,३५.१९ ॥ अन्यैर्नानाविधैर्वृक्षैः परार्थप्रतिपादकैः । स्निग्धच्छायैः समाहृष्टनानापक्षिनिनादितैः ॥ २,३५.२० ॥ शार्दूल हरिभिर्भल्लैर्गण्डकैर्मृगनाभिभिः । गचैन्द्रैः शारभाद्यैश्च सेवितं कन्दरागतैः ॥ २,३५.२१ ॥ मल्लिकापाटलाकुन्दकर्णिकारकदंबकैः । सुगन्धिभिर्वृतं चान्यैर्वातोद्धूतपरगिभिः ॥ २,३५.२२ ॥ नानामणिगणाकीर्णैर्नीलपीतसितारुणैः । शृङ्गैः समुल्लिखन्तं च व्योम कौतुकसं युतम् ॥ २,३५.२३ ॥ अत्युच्चपातध्वनिभिर्निर्झरैः कन्दरोद्गतैः । गर्ज्जतमिव संसक्तं व्यालाद्यैर्मृगपक्षिभिः ॥ २,३५.२४ ॥ तत्रातिकौतुकाहृष्टदृष्टयोभ्रातरो वयम् । नास्मार्ष्म चात्मनात्मानं वियुक्ताश्च परस्परम् ॥ २,३५.२५ ॥ एतस्मिन्नन्तरे चैका मृगी ह्यगात्पिपासिता । निर्झरापात शिरसि पातुकामा जलं प्रिये ॥ २,३५.२६ ॥ तस्याः पिबन्त्यास्तु जलं शार्दूलोऽतिभयङ्करः । तत्र प्राप्तो यदृच्छातो जगृहे तां भयर्दिताम् ॥ २,३५.२७ ॥ अहं तद्ग्रहणं पश्यन्भयेन प्रपलायितः । अत्युच्चवत्त्वात्पतितो मृतश्चैणीमनुस्मरन् ॥ २,३५.२८ ॥ सा मृता त्वं मृगी जाता मृग स्त्वाहमनुस्मरन् । जातो भद्रे न जाने वै क्व गाता भ्रातरोऽग्रजाः ॥ २,३५.२९ ॥ एतन्मे स्मृतिमापन्नं चरितं तव चात्मतः । भूतं भविष्यं च तथा शृणु भद्रे वदाम्यहम् ॥ २,३५.३० ॥ योऽयं वा वृष्ठसंलग्नो व्याधो दूरस्थितोऽभवत् । रामस्यास्य भयात्सोऽपि भक्षितो हरिणा धुना ॥ २,३५.३१ ॥ प्राणांस्त्यक्त्वा विधानेन स्वर्गलोकं गमिष्यति । अवाभ्यां तु जलं पीतं मध्यमे पुष्करे त्विह ॥ २,३५.३२ ॥ संदृष्टो भार्गवश्चायं साक्षाद्विष्णुस्वरूपधृक् । तेनानेकभवोत्पन्नं पातकं नाशमागतम् ॥ २,३५.३३ ॥ अगस्त्यदर्शनं लब्ध्वा श्रुत्वा स्तोत्रं गतिप्रदम् । गमिष्यावः शुभांल्लोकान्येषु गत्वा न शोचति ॥ २,३५.३४ ॥ इत्येवमुक्त्वा स मृगः प्रियायै प्रियदर्शनः । विरराम प्रसन्नात्मा पश्यन्राममना तुरः ॥ २,३५.३५ ॥ भर्गवः श्रुतवांश्चैव मृगोक्तं शिष्यसंयुतः । विस्मितोऽभूच्च राजेन्द्र गन्तुं कृतमतिस्तथा ॥ २,३५.३६ ॥ अकृतव्रमसंयुक्तो ह्यगस्त्यस्याश्रमं प्रति । स्नात्वा नित्यक्रियां कृत्वा प्रतस्थे हर्षितो भृशम् ॥ २,३५.३७ ॥ रामेण गच्छता मार्गे दृष्टो व्याधो मृतस्तदा । सिंहस्य संप्रहारेम विस्मितेन महात्मना ॥ २,३५.३८ ॥ अध्यर्द्धयोजनं गत्वा कनिष्ठं पुष्करं प्रति । स्नात्वा माध्याह्निकीं सन्ध्यां चका रातिमुदान्वितः ॥ २,३५.३९ ॥ हितं तदात्मनः प्रोक्तं मृगेण स विचारयन् । तावत्तत्पृष्ठसंलग्नं मृगयुग्ममुपागतम् ॥ २,३५.४० ॥ पुष्करे तु जलं पीत्वाभिषिच्यात्मतनुं जलैः । पश्यतो भार्गवस्यागादगस्त्याश्रमसंमुखम् ॥ २,३५.४१ ॥ रामोऽपि सन्ध्यां निर्वर्त्त्य कुंभजस्याश्रमं ययौ । विपद्गतं पुष्करं तु पश्यमानो महामनाः ॥ २,३५.४२ ॥ विष्णोः पदानि नागानां कुण्डं सप्तर्षिसंस्थितम् । गत्वोपस्पृश्य शुच्यंभो जगामागस्त्यसंश्रयम् ॥ २,३५.४३ ॥ यच्च ब्रह्मसुता राजन्समायाता सरस्वती । त्रीन्संपूरयितुं कुण्डानग्निहोत्रस्य वै विधेः ॥ २,३५.४४ ॥ तत्र तीरे शुभं पुण्यं नानामुनिनिषेवितम् । ददर्श महदाश्चर्यं भार्गवः कुंभजाश्रमम् ॥ २,३५.४५ ॥ मृगैः सिंहैः सहगतैः सेवितं शान्तमानसैः । कुटरैरर्जुनैर्निंबैः पारिभद्रधवेगुदैः ॥ २,३५.४६ ॥ खदिरासनखर्जूरैः संकुलं बदरीद्रुमैः । तत्र प्रविश्य वै रामो ह्यकृतव्रणसंयुतः ॥ २,३५.४७ ॥ ददर्श मुनिमासीनं कुम्भजं शान्तमानसम् । स्तिमितोदसरः प्रख्यं ध्यायन्तं ब्रह्म शाश्वतम् ॥ २,३५.४८ ॥ कौश्यां वृष्यां मार्गकृत्तिं वसानं पल्लवोटजे । ननाम च महाराज स्वाभिधानं समुच्चरन् ॥ २,३५.४९ ॥ रामोऽस्मि जामदग्न्योऽहं भवन्तं द्रष्टुमागतः । ताद्विद्धि प्रणिपातेन नमस्ते लोकभावन ॥ २,३५.५० ॥ इत्युक्तवन्तं रामं तु उन्मील्य नयने शनैः । दृष्ट्वा स्वागतमुच्चार्य तस्मायासनमादिशत् ॥ २,३५.५१ ॥ मधुपर्कं समानीय शिष्येण मुनिपुङ्गवः । ददौ पप्रच्छ कुशलं तपसश्च कुलस्य च ॥ २,३५.५२ ॥ स पृष्टस्तेन वै रामो घटोद्भवमुवाच ह । भवत्संदर्शनादीश कुशलं मम सर्वतः ॥ २,३५.५३ ॥ किं त्वङ्कं संशयं जातं छिन्धि स्ववचनामृतैः । मृगश्चैको मया दृष्टो मध्यमे पुष्करे विभो ॥ २,३५.५४ ॥ तेनोक्तमखिलं वृत्तं मम भूतमनागतम् । तच्छूत्वा विस्मयाविष्टो भवच्छरणमागतः ॥ २,३५.५५ ॥ पाहि मां कृपया नाथ साधयन्त महामनुम् । शिवेन दत्तं कवच मम साधयतो गुरो ॥ २,३५.५६ ॥ कृष्मस्य समतीत तु साधिकं हि शरच्छतम् । न च सिद्धिमवाप्तोऽहं तन्मे त्वं कृपया वद ॥ २,३५.५७ ॥ वसिष्ठ उवाच एवं प्रश्नं समाकर्ण्य रामस्य सुमहात्मनः । क्षणं ध्यात्वा महाराज मृगोक्तं ज्ञातवान् हृदा ॥ २,३५.५८ ॥ मृगं चापि समायातं मृग्या सह निजाश्रमे । श्रोतुं कृष्णामृतं स्तोत्रं सर्वं तत्कारण मुनिः । विचार्याश्वासयामास भार्गवः स्ववचोमृतैः ॥ २,३५.५९ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे भार्गवच रिते पञ्चत्रिंशत्तमोऽध्यायः ॥ ३५॥ _____________________________________________________________ वसिष्ठ उवाच अवगत्य स वै सर्वं कारणं प्रीतमानसः । उवाच भार्गवं राममगस्त्यः कुंभसंभवः ॥ २,३६.१ ॥ अगस्त्य उवाच शृणु राम महाभाग कथयामि हितं तव । मन्त्रस्य सिद्धिं येन त्वं शीघ्रमेव समाप्नुयाः ॥ २,३६.२ ॥ भक्तेस्तु लक्षणं ज्ञात्वा त्रिविधाया महामते । यो यतेत नरस्तस्य सिद्धिर्भवति सत्वरम् ॥ २,३६.३ ॥ एकदाहमनुप्राप्तोऽनन्तदर्शनकाङ्क्षया । पातालं नागराचैन्द्रैः शोभितं परया मुदा ॥ २,३६.४ ॥ तत्र दृष्टा महाभाग मया सिद्धाः समन्ततः । सनकाद्या नारदश्च गौतमो जाजलिःक्रतुः ॥ २,३६.५ ॥ ऋभुर्हंसोऽरुणिश्चैव वाल्मीकिः शक्तिरासुरिः । एतेऽन्ये च महासिद्धा वात्स्यायनमुखा द्विज ॥ २,३६.६ ॥ उपासत ह्युपा सीना ज्ञानार्थं फणिनायकम् । तं नमस्कृत्य नागैन्द्रैः सह सिद्धैर्महात्मभिः ॥ २,३६.७ ॥ उपविष्टः कथात्तत्र शृण्वानो वैष्णवीर्मुदा । येयं भूमिर्महाभाग भूतधात्री स्वरूपिणी ॥ २,३६.८ ॥ निविष्टा पुरतस्तस्य शृण्वन्ती ताः कथाः सदा । यद्यत्पृच्छति सा भूमिः शेषं साक्षान्महीधरम् ॥ २,३६.९ ॥ शृण्वन्ति ऋषयः सर्वे तत्रस्था तदनुग्रहात् । मया तत्र श्रुतं वत्स कृष्णप्रेमामृतं शुभम् ॥ २,३६.१० ॥ स्तोत्रं तत्ते प्रवक्ष्यामि यस्यार्थं त्वमिहागतः । वाराहाद्यवताराणां चरितं पापनाशनम् ॥ २,३६.११ ॥ सुखदं मोक्षदं चैव ज्ञानविज्ञान कारणम् । श्रुत्वा सर्वं धरा वत्स प्रत्दृष्टा तं धराधरम् ॥ २,३६.१२ ॥ उवाच प्रणता भूयो ज्ञातुं कृष्णविचेष्टितम् । धरण्युवाच अलङ्कृतं जन्म पुंसामपि नन्दव्रजौकसाम् ॥ २,३६.१३ ॥ तस्य देवस्य कृष्णस्य लीलाविग्रहधारिणः । जयोपाधिनियुक्तानि संति नामान्यनेकशः ॥ २,३६.१४ ॥ तेषु नामानि मुख्यानि श्रोतुकामा चिरादहम् । तत्तानि ब्रूहि नामानि वासुदेवस्य वासुके ॥ २,३६.१५ ॥ नातः परतरं पुण्यं त्रिषु लोकेषु विद्यते । शेष उवाच वसुंधरे वरारोहे जनानामस्ति मुक्तिदम् ॥ २,३६.१६ ॥ सर्वमङ्गलमूर्द्धन्यमणिमाद्यष्टसिद्धिदम् । महापातककोटिघ्न सर्वतीर्थफलप्रदम् ॥ २,३६.१७ ॥ समस्तजपयज्ञानां फलदं पापनाशनम् । शृणु देवि प्रवक्ष्यामि नाम्नामष्टोतरं शतम् ॥ २,३६.१८ ॥ महस्रनाम्नां पुण्यानां त्रिरावृत्त्या तु यत्फलम् । एकावृत्त्या तु कृष्णस्य नामैकं तत्प्रयच्छति ॥ २,३६.१९ ॥ तस्मात्पुण्यतरं चैतत्स्तोत्रं पातकनाशनम् । नाम्नामष्टोत्तरशतस्याहमेव ऋषिः प्रिये ॥ २,३६.२० ॥ छन्दोऽनुष्टुब्देवता तु योगः कृष्णप्रियावहः । श्रीकृष्णः कमलानाथो वासुदेवः सनातनः ॥ २,३६.२१ ॥ वसुदेवात्मजः पुण्यो लीलामानुषविग्रहः । श्रीवत्सकौस्तभधरो यशोदावत्सलो हरिः ॥ २,३६.२२ ॥ चतुर्भुजात्तचक्रासिगदाशङ्खाद्युदायुधः । देवकीनन्दनः श्रीशो नन्दगोपप्रियात्मजः ॥ २,३६.२३ ॥ यमुनावेगसंहारी बलभद्रप्रियानुजः । पूतनाजीवितहरः शकटासुरभञ्जनः ॥ २,३६.२४ ॥ नन्दप्रजजनानन्दी सच्चिदानन्दविग्रहः । नवनीतविलिप्ताङ्गो नवनीतनटोऽनघः ॥ २,३६.२५ ॥ नवनीतलवाहारी मुचुकुन्दप्रसादकृत् । षोडशस्त्रीसहस्रेशस्त्रिभङ्गी मधुराकृतिः ॥ २,३६.२६ ॥ शुकवागमृताब्धीन्दुर्गोविन्दो गोविदांपतिः । वत्सपालनसंचारी धेनुकासुरमर्द्दनः ॥ २,३६.२७ ॥ तृणीकृततृणावर्त्तो यमलार्जुनभञ्जनः । उत्तालतालभेत्ता च तमालश्यामला कृतिः ॥ २,३६.२८ ॥ गोपगोपीश्वरो योगी सूर्यकोटिसमप्रभः । इलापतिः परञ्ज्योतिर्यादवेन्द्रो यदूद्वहः ॥ २,३६.२९ ॥ वनमाली पीतवासाः पारिजातापहरकः । गोवर्द्धनाचलोद्धर्त्ता गोपालः सर्वपालकः ॥ २,३६.३० ॥ अजो निरञ्जनः कामजनकः कञ्जलोचनः । मधुहा मथुरानाथो द्वारकानाथको बली ॥ २,३६.३१ ॥ वृन्दावनान्तसंचारी तुलसीदामभूषणः । स्यमन्तकमणेर्हर्त्ता नरनारायणात्मकः ॥ २,३६.३२ ॥ कुब्जाकृष्टांबरधरो मायी परमपूरुषः । मुष्टिकासुरचाणूरमल्लयुद्धविशारदः ॥ २,३६.३३ ॥ संसारवैरी कंसारिर्मुरारिर्नरकान्तकः । अनादि ब्रह्मचारी च कृष्णाव्यसनकर्षकः ॥ २,३६.३४ ॥ शिशुपालशिरस्छेत्ता दुर्योधनकुलान्तकृत । विदुराक्रूरवरदो विश्वरूपप्रदर्शकः ॥ २,३६.३५ ॥ सत्यवाक्सत्यसंकल्पः सत्यभामारतो जयी । सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः ॥ २,३६.३६ ॥ जगद्गुरुर्जगन्नाथो वेणुवाद्य विशारदः । वृषभासुरविध्वंसी बकारिर्बाणबाहुकृत् ॥ २,३६.३७ ॥ युधिष्टिरप्रतिष्ठाता बर्हिबर्हावतंसकः । पार्थसारथिरव्यक्तो गीतामृतमहोदधिः ॥ २,३६.३८ ॥ कालीयफणिमाणिक्यरञ्जितः श्रीपदांबुजः । दामोदरो यज्ञभोक्ता दानवैद्रविनाशनः ॥ २,३६.३९ ॥ नारायणः परं ब्रह्म पन्नगाशनवाहनः । जलक्रीडासमासक्तगोपीवस्त्रापहारकः ॥ २,३६.४० ॥ पुण्यश्लोकस्तीर्थपादो वेदवेद्यो दयानिधिः । सर्वतीर्थान्मकः सर्वग्रहरूपी परात्परः ॥ २,३६.४१ ॥ इत्येवं कृष्णदेवस्य नाम्नामष्टोत्तरं शतम् । कृष्णोन कृष्णभक्तेन श्रुत्वा गीतामृतं पुरा ॥ २,३६.४२ ॥ स्तोत्रं कृष्णप्रियकरं कृतं तस्मान्मया श्रुतम् । कृष्णप्रेमामृतं नाम परमानन्ददायकम् ॥ २,३६.४३ ॥ अत्युपद्रवदुः खघ्नं परमायुष्य वर्द्धनम् । दानं व्रतं तपस्तीर्थं यत्कृतं त्विह जन्मनि ॥ २,३६.४४ ॥ पठतां शृण्वतां चैव कोटिकोटिगुणं भवेत् । पुत्रप्रदमपुत्राणामगती नां गतिप्रदम् ॥ २,३६.४५ ॥ धनवाहं दरिद्राणां जयेच्छूनां जयावहम् । शिशूनां गोकुलानां च पुष्टिदं पुण्यवर्द्धनम् ॥ २,३६.४६ ॥ बालरोगग्रहादीनां शमनं शान्तिकारकम् । अन्ते कृष्णस्मरणदं भवतापत्रयापहम् ॥ २,३६.४७ ॥ असिद्धसाधकं भद्रे जपादिकरमात्मनाम् । कृष्णाय यादवेन्द्राय ज्ञानमुद्राय योगिने ॥ २,३६.४८ ॥ नाथाय रुक्मिणीशाय नमो वेदान्तवेदिने । इमं मन्त्रं महादेवि जपन्नेव दिवा निशम् ॥ २,३६.४९ ॥ सर्वग्रहानुग्रहभाक्सर्वप्रियतमो भवेत् । पुत्रपौत्रैः परिवृतः सर्वसिद्धिसमृद्धिमान् ॥ २,३६.५० ॥ निषेव्य भोगानन्तेऽपिकृष्णासायुज्यमाप्नुयात् । अगस्त्य उवाच एतावदुक्तो भागवाननन्तो मूर्त्तिस्तु संकर्षणसंज्ञिता विभो ॥ २,३६.५१ ॥ धराधरोऽलं जगतां धरायै निर्दिश्य भूयो विरराम मानदः । ततस्तु सर्वे सनकादयो ये समास्थितास्तत्परितः कथादृताः । आनन्द पूर्ण्णंबुनिधौ निमग्नाः सभाजयामासुरहीश्वरं तम् ॥ २,३६.५२ ॥ ऋषय ऊचुः नमो नमस्तेऽखिलविश्वाभावन प्रपन्नभक्तार्त्तिहराव्ययात्मन् । धराधरायापि कृपार्णवाय शेषाय विश्वप्रभवे नमस्ते ॥ २,३६.५३ ॥ कृष्णामृतं नः परिपायितं विभो विधूतपापा भवता कृता वयम् । भवादृशा दीनदयालवो विभो समुद्धरन्त्येव निजान्हि संनतान् ॥ २,३६.५४ ॥ एवं नमस्कृत्य फणीश पादयोर्मनो विधायाखिलकामपूरयोः । प्रदक्षिणीकृत्य धराधराधरं सर्वे वयं स्वावसथानुपागताः ॥ २,३६.५५ ॥ इति तेऽभिहितं राम स्तोत्रं प्रेमामृताभिधम् । कृष्णस्य राधाकान्तस्य सिद्धिदम् ॥ २,३६.५६ ॥ इदं राम महाभाग स्तोत्रं परमदुर्लभम् । श्रुतं साक्षाद्भगवतः शेषात्कथयतः कथाः ॥ २,३६.५७ ॥ यावन्ति मन्त्रजालानि स्तोत्राणि कवचानि च ॥ २,३६.५८ ॥ त्रैलोक्ये तानि सर्वाणि सिद्ध्यन्त्येवास्य शीलनात् । वसिष्ठ उवाच एवमुक्त्वा महाराज कृष्णप्रेमामृतं स्तवम् । यावद्व्यरसींत्स मुनिस्तावत्स्वर्यानमागतम् ॥ २,३६.५९ ॥ चतुर्भिरद्भुतैः सिद्धैः कामरूपैर्मनोजवैः । अनुयातमथोत्प्लुत्य स्त्रीपुंसौ हरिणौ तदा । अगस्त्यचरणौ नत्वा समारुरुहतुर्मुदा ॥ २,३६.६० ॥ दिव्यदेहधरौ भूत्वा संखचक्रादिचिह्नितौ । गतौ च वैष्णवं लोकं सर्व देवन मस्कृतम् । पश्यतां सर्वभूतानां भार्गवागस्त्ययोस्तथा ॥ २,३६.६१ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे भार्गवचरिते षट्त्रिंशत्तमोऽध्यायः ॥ ३६॥ _____________________________________________________________ वसिष्ठ उवाच दृष्ट्वा परशुरामस्तु तदाश्चर्यं महाद्भुतम् । जगाद सर्ववृत्तान्तं मृगयोस्तु यथाश्रुतम् ॥ २,३७.१ ॥ तच्छ्रुत्वा भगवान्साक्षादगस्त्यः कुंभसंभवः । मोदमान उवाचेदं भार्गवं पुरतः स्थितम् ॥ २,३७.२ ॥ अगस्त्य उवाच शृणु राम महाभाग कार्याकार्विशारद । हितं वदामि यत्तेऽद्य तत्कुरुष्व समाहितः ॥ २,३७.३ ॥ इतो विदूरे सुमहत्स्थानं विष्णोः सुदुर्लभम् । पदानि यत्र दृश्यन्ते न्यस्तानि सुमाहात्मना ॥ २,३७.४ ॥ यत्र गङ्गा समुद्भूता वामस्य महात्मनः । पदाग्रात्क्रमतो लोकांस्तद्बलेस्तु विनिग्रहे ॥ २,३७.५ ॥ तत्र गत्वा स्तवं चेदं मासमैकमनन्यधीः । पठस्व नियमेनैव नियतो नियताशनः ॥ २,३७.६ ॥ यत्त्वया कवचं पूर्वमभ्यस्तं सिद्धिमिच्छता । शत्रूणां निग्रहार्थाय तच्च ते सिद्धिदं भवेत् ॥ २,३७.७ ॥ वसिष्ठ उवाच एव मुक्तो ह्यगस्त्येन रामः शत्रुनिबर्हणः । नमस्कृत्य मुनीं शान्तं निर्जगामाश्रमाद्बहिः ॥ २,३७.८ ॥ पुनस्तेनैव मार्गेण संप्राप्तस्तत्र सत्वरम् । यत्रोत्तरात्पदन्यासान्निर्गता स्वर्णदी नृप ॥ २,३७.९ ॥ तत्र वासं प्रकल्प्यासावकृतव्रणसंयुतः । समभ्यस्यत्स्तवं दिव्यं कृष्मप्रेमामृताभिधम् ॥ २,३७.१० ॥ नित्यं व्रजपतेस्तस्य स्तोत्रं तुष्टोऽभवद्धरिः । जगाम दर्शनं तस्य जामदग्न्यस्य भूपते ॥ २,३७.११ ॥ चतुर्व्यूहाधिपः साक्षात्कृष्णः कमललोचनः । किरीटंनार्कवर्णेन कुण्डलाभ्यां च राजितः ॥ २,३७.१२ ॥ कौस्तुभोद्भासितोरस्कः पीतवासा धनप्रभः । मुरलीवादनपरः साक्षान्मोहनरूपधृक् ॥ २,३७.१३ ॥ तं दृष्ट्वा सहसोत्थाय जामदग्न्यो मुदान्वितः । प्रणम्य दण्डवद्भमौ तुष्टाव प्रयतो विभुम् ॥ २,३७.१४ ॥ परशुरामुवाच नमो नमः कारणविग्रहाय प्रपन्नपालाय सुरार्त्तिहारिणे । ब्रह्मेशविष्ण्विद्रमुखस्तुताय नतोऽस्मि नित्यं परमेश्वराय ॥ २,३७.१५ ॥ यं वेदवादैर्विविधप्रकारैर्निर्णेतुमीशानमुखा न शक्नुयुः । तं त्वामनिर्देश्यमचं पुराममनन्तमीडे भव मे दयापरः ॥ २,३७.१६ ॥ यस्त्वेक ईशो निजवाञ्च्छितप्रदो धत्ते तनूर्लोकविहार रक्षणे । नाना विधा देवमनुष्यतिर्यग्यादः सु भूमेर्भरवारणाय ॥ २,३७.१७ ॥ तं त्वामहं भक्तजनानुरक्तं विरक्तमत्यन्तमपीन्दिरादिषु । स्वयं समक्षंव्यभिचारदुष्टचित्तास्वपि प्रेमनिबद्धमानसम् ॥ २,३७.१८ ॥ यं वै प्रसन्ना असुराः सुरा नराः सकिन्नरास्तिर्यकेयोनयोऽपि हि । गताः स्वरूपं निखलं विहाय ते देहस्त्र्यपत्यार्थममत्वमीश्वर ॥ २,३७.१९ ॥ तं देवदेवं भजतामभीप्सितप्रदं निरीहं गुणवर्जितं च । अचिन्त्यमव्यक्तमघौघनाशनं प्राप्तोऽरणं प्रेमनिधानमादरात् ॥ २,३७.२० ॥ तपन्ति तापैर्विविधैः स्वदेहमन्ये तु यज्ञैर्विविधैर्यजन्ति । स्वप्नेऽपि ते रूपमलौकिकंविभो पश्यन्ति नैवार्थनिबद्धवासनाः ॥ २,३७.२१ ॥ ये वै त्वदीयं चरणं भवश्रमान्निर्विण्मचित्ता विधिवत्स्मरन्ति । नमन्ति भक्त्याथ समर्चयन्ति वै परस्परं संसदि वर्णयन्ति ॥ २,३७.२२ ॥ तेनैकजन्मोद्भवपङ्कभेदनप्रसक्तचित्ता भवतोंऽघ्रिपद्मे । तरन्ति चान्यानपि तारयन्ति हि भवौषधं नाम सुधा तवेश ॥ २,३७.२३ ॥ अहं प्रभो कामनिबद्धचित्तो भवन्तमार्यं विविधप्रयत्नैः । आराधयं नाथ भवानभिज्ञः किं ते ह विज्ञाप्यमिहास्ति लोके ॥ २,३७.२४ ॥ वसिष्ठ उवाच इत्येवं जामदग्न्यं तु स्तुवन्तं प्रणतं पुरः । उवाचागाधया वाचा मोहयन्निव मायया ॥ २,३७.२५ ॥ कृष्ण उवाच हन्त राम महाभाग सिद्धं ते कार्यमुत्तमम् । कवचस्य स्तवस्यापि प्रभावादवधारय ॥ २,३७.२६ ॥ हत्वा तं कार्त्तवीर्यं हि राजानं दृप्तमानसम् । साधयित्वा पितुर्वैरं कुरु निःक्षत्रियां महीम् ॥ २,३७.२७ ॥ मम चक्रावतारो हि कार्त्तवीर्यो धरातले । कृतकार्यो द्विजश्रेष्ट तं समापय मानद ॥ २,३७.२८ ॥ अद्य प्रभृति लोकेऽस्मिन्नंशावेशेन मे भवान् । चरिष्यति यथा कालं कर्त्ता हर्त्ता स्वयं प्रभुः ॥ २,३७.२९ ॥ चतुर्विशे युगे वत्स त्रेतायां रघुवंशजः । रामो नाम भविष्यामि चतुर्व्यूहः सनातनः ॥ २,३७.३० ॥ कौसल्यानन्दजनको राज्ञो दशरथादहम् । तदा कौशिकयज्ञं तु साधयित्वा सलक्ष्मणः ॥ २,३७.३१ ॥ गमिष्यामि महाभाग जनकस्य पुर महत् । तत्रेशचापं निर्भज्य परिणीय विदेहजाम् ॥ २,३७.३२ ॥ तदा यास्यन्नयोध्यां ते हरिष्ये तेज उन्मदम् । वसिष्ठ उवाच कृष्ण एवं समदिश्य जामदग्न्यं तपोनिधिम् । पश्यतोंऽतर्दधे तत्र रामस्य मुमहात्मनः ॥ २,३७.३३ ॥ इति श्रीब्रहामाण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे भर्गवचरिते सप्तत्रिंशत्तमोऽध्यायः ॥ ३७॥ _____________________________________________________________ वसिष्ठ उवाच अन्तर्द्धानं गते कृष्णे रामस्तु सुमहायशाः । समुद्रिक्तमथात्मानं मेने कृष्णानुभावतः ॥ २,३८.१ ॥ अकृतव्रणसंयुक्तः प्रदीप्ताग्निरिव ज्वलन् । समायातो भार्गवोऽसीपुरीं महिष्मतीं प्रति ॥ २,३८.२ ॥ यत्र पापहरा पुण्या नर्मदा सरितां वरा । पुनाति दर्शनादेव प्राणिनः पापिनो ह्यपि ॥ २,३८.३ ॥ पुरा त्रय हरेणापि निविष्टेन महात्मना । त्रिपुरस्य विनाशाय कृतो यत्नो महीपते ॥ २,३८.४ ॥ तत्र किं वर्ण्यते पुण्यं नृणां देवस्वरूपिणाम् । सदृष्ट्वा नर्मदां भूप भर्गवः कुलनन्दनः ॥ २,३८.५ ॥ नमश्चकार सुप्रीतः शत्रुसाधनतत्परः । नमोऽस्तु नर्मदे तुभ्यं हरदेहसमुद्भवे ॥ २,३८.६ ॥ क्षिप्रं नाशय शत्रून्मे वरदा भव शोभने । इत्येवं स नमस्कृत्य नर्मदां पापनाशिनीम् ॥ २,३८.७ ॥ दूतं प्रस्थापयामास कार्त्तवीर्यार्जुनं प्रति । दूत राजात्वया वाच्यो यदहं वच्मि तेऽनघ ॥ २,३८.८ ॥ न संदेहस्त्वया कार्यो दूतः क्वापि न बध्यते । यद्बलं तु समाश्रित्य जमदग्निमुनिं नृपः ॥ २,३८.९ ॥ तिरस्त्वं कृतवान्मूढ तत्पुत्रो योद्धुमागतः । शीघ्रं निर्गच्छ मन्दात्मन्युद्धं रामाय देहि तत् ॥ २,३८.१० ॥ भार्गवं त्वं समासाद्य गच्छ लोकान्तरं त्वरा । इत्येवमुक्त्वा राजानं श्रुत्वा तस्य वचस्तथा ॥ २,३८.११ ॥ शीघ्रमागच्छ भद्रं ते विलंबो नेह शस्यते । तेनैवमुक्तो दूतस्तु गतो हैहयभूपतिम् ॥ २,३८.१२ ॥ रामोदितं तत्सकलं श्रावयामास संसदि । स राजात्रेयभक्तस्तु महाबलपराक्रमः ॥ २,३८.१३ ॥ चुक्रोध श्रुत्वा वाच्यं तद्दूतमुत्तरमावहत् । कार्त्तवीर्य उवाच मया भुजबलेनैव दत्तदत्तेन मेदिनी ॥ २,३८.१४ ॥ जिता प्रसह्य भूपालान्बद्ध्वानीय निजं पुरम् । तद्बलं मयि वर्त्तेत युद्धं दास्ये तवाधुना ॥ २,३८.१५ ॥ इत्युत्क्वा विससर्ज्जाशु दूतं हैहयभूपतिः । सेनाध्यक्षं समाहूय प्रोवाच वदतां वरः ॥ २,३८.१६ ॥ सज्जं कुरु महाभाग सैन्यं मे वीरसंमतः । योत्स्ये रामेण भृगुणा विलंबो मा भवत्विति ॥ २,३८.१७ ॥ एवमुक्तो महावीरः सेनाध्यक्षः प्रतापनः । सैन्यं सज्जं विधायाशु चतुरङ्ग न्यवेदयत् ॥ २,३८.१८ ॥ सैन्यं सज्जं समाकर्ण्य कार्त्तवीर्यो नृपो मुदा । सूतोपनीतं स्वरथमारुरोह विशांपते ॥ २,३८.१९ ॥ तस्य राज्ञः समन्तात्तु सामन्ता मण्डलेश्वराः । अनेकाक्षौहिणीयुक्ताः परिवार्योपतस्थिरे ॥ २,३८.२० ॥ नागास्तु कोटिशस्तत्र हयस्यन्दनपत्तयः । असंख्याता महाराज सैन्ये सागरसन्निभे ॥ २,३८.२१ ॥ दृश्यन्ते तत्र भूपाला नानावंशसमुद्भवाः । महावीरा महाकाया नानायुद्धविशारदाः ॥ २,३८.२२ ॥ नानाशस्त्रास्त्रकुशला नानावाहगता नृपाः । नानालङ्कारसंयुक्ता मत्ता दानविभूषिताः ॥ २,३८.२३ ॥ महामात्रकृतेद्देशा भान्ति नागा ह्यनेकशः । नानाज्ञातिसमुत्पन्ना हयाः पवनरंहसः ॥ २,३८.२४ ॥ प्लवन्तो भान्ति भूपाल सादिभिः कृतशिक्षणाः । स्यन्दनानि सुदीर्घाणि जवनाश्वयुतानि च ॥ २,३८.२५ ॥ चक्रनिर्घोषयुक्तानि प्रावृण्मेघोपमानि च । पदातयस्तु राजन्ते खड्गचर्मधरा नृप ॥ २,३८.२६ ॥ अहंपूर्वमहंपूर्वमित्यहंपूर्वकान्विताः । यदा प्रचलितं सैन्यं कार्त्तवीर्यार्जुनस्य वै ॥ २,३८.२७ ॥ तदा प्राच्छादितं व्योम रजसा च दिशो दश । नानावादित्रनिर्घोषैर्हयानां ह्रेषितैस्तथा ॥ २,३८.२८ ॥ गजानां बृंहितै राजन्व्याप्तं गगनमण्डलम् । मार्गे ददर्श राजेन्द्रो विपरीतानि भूपते ॥ २,३८.२९ ॥ शकुनानि रणे तस्य मृत्युदौत्यकराणि च । मुक्तकेशां छिन्ननासां रुदतीं च दिगंबराम् ॥ २,३८.३० ॥ कृष्णवस्त्रपरीधानां वनितां स ददर्श ह । कुचैलं पतितं भग्नं नग्नं काषायवाससम् ॥ २,३८.३१ ॥ अङ्गहीनं ददर्शासौ नरं दुःशितमानसम् । गोधां च शशकं शल्यं रिक्तकुम्भं सरीमृपम् ॥ २,३८.३२ ॥ कार्पासं कच्छपं तैलं लवणं चास्थिखण्डकम् । स्वदक्षिणे शृगालं च कुर्वन्तं भैर्वं रवम् ॥ २,३८.३३ ॥ रोगिणं पुंल्कसं चैव वृषं च श्येनभल्लुकौ । दृष्ट्वापि प्रययौ योद्धुं कालपाशावृतो हझात् ॥ २,३८.३४ ॥ नर्मदोत्तरतीरस्थो ह्यकृतव्रणसंयुतः । वटच्छायासमासीनो रामोऽपश्यदुपागतम् ॥ २,३८.३५ ॥ कार्त्तवीर्यं नृपवरं शतकोटिनृपान्वितम् । सहस्राक्षौहिणीयुक्तं दृष्ट्वा बभूव ह ॥ २,३८.३६ ॥ अद्य मे सिद्धिमायातं कार्यं चिरसमीहितम् । यद्दृष्टिगोचरो जातः कार्तवीर्यो नृपाधमः ॥ २,३८.३७ ॥ इत्येवमुक्त्वा चोत्थाय धृत्वा परशुमायुधम् । व्यञ्जृभतारिनाशायसिंहः क्रुद्धो यथा तथा ॥ २,३८.३८ ॥ दृष्ट्वा समुद्यतं रामं सैनिकानां वधाय च । चकंपिरे भृशं सर्वे मृत्योरिव शरीरिणः ॥ २,३८.३९ ॥ स यत्र यत्रानिलरंहसं भृगुश्चिक्षेप रोषेण युतः परश्वधम् । ततस्ततश्छिन्नभुजोरुकङ्घरा नागा हयाः शूरनरा निपेतुः ॥ २,३८.४० ॥ यथा गजेन्द्रो मदयुक्समन्ततो नालं वनं भर्द्दयति प्रधावन् । तथैव रामोऽपि मनोनिलौजा विमर्द्दयामास नृपस्य सेनाम् ॥ २,३८.४१ ॥ दृष्ट्वा तमित्थं प्रहरन्तमोजसा रामं रणे शस्त्रभृतां वरिष्ठम् । उद्यम्य चापं महदास्थितो रथं सृज्यं च कृत्वा किलमन्स्यराजः ॥ २,३८.४२ ॥ आकृष्य वाणाननलोग्रतेजसः समाकिरन्भार्गवमाससाद । दृष्ट्वा तमायान्तमथो महात्मा रामो गृहीत्वा धनुषं महोग्रम् ॥ २,३८.४३ ॥ वायव्यमस्त्रं विदधे रुषाप्लुतो निवारयन्मङ्गलबाणवर्षम् । स चापि राजातिबलो मनस्वी ससर्ज रामाय तु पर्वतास्त्रम् ॥ २,३८.४४ ॥ तस्तंभ तेनातिबलं तदस्त्रं वायव्यमिष्वस्त्रविधानदक्षः । रामोऽपि तत्रातिबलं विदित्वा तं मत्स्यराजं विविधास्त्रपूगैः ॥ २,३८.४५ ॥ किरन्तमाजौ प्रसभं सुमोच नारायणास्त्रं विधिमन्त्रयुक्तम् । नारायणास्त्रे भृगुणा प्रयुक्ते रामेण राजन्नृपतेर्वधाय ॥ २,३८.४६ ॥ दिशस्तु सर्वाः सुभृशं हि तेजसा प्रजज्वलुर्मत्स्यपतिश्चकंपे । रामस्तु तस्याथ विलक्ष्य कम्पं बाणैश्चतुर्भिर्निजघान वाहान् ॥ २,३८.४७ ॥ शरेण चैकेन ध्वजं महात्मा चिच्छेद चापं च शरद्वयेन । बाणेन चैकेन प्रसह्य सारथिं निपात्य भूमौ रथमार्द्दयत्त्रिभिः ॥ २,३८.४८ ॥ त्यक्त्वा रथं भूमिगतं च मङ्गलं परश्वधेनाशु जघान मूर्द्धनि । स भिन्नशीर्षो रुधिरं वमन्मुहुर्मर्च्छामवाप्याथ ममार च क्षणात् ॥ २,३८.४९ ॥ तत्सैन्यमस्त्रेण च संप्रदग्धं विनाशमायादथ भस्मसात्क्षणात् । तस्मिन्निपतिते राज्ञि चन्द्रवंशसमुद्भवे ॥ २,३८.५० ॥ मङ्गले नृपतिश्रेष्ठे रामो हर्षमुपागतः ॥ २,३८.५१ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यम भागे तृतीय उपोद्धातपादे भार्गवचरिते अष्टात्रिंशत्तमोऽध्यायः ॥ ३८॥ _____________________________________________________________ वसिष्ठ उवाच मत्स्यराजे निपतिते राजा युद्धविशारदः । राजेन्द्रान्प्रेरयामास कार्त्तवीर्यो महाबलः ॥ २,३९.१ ॥ बृहद्बलः सोमदत्तो विदर्भो मिथिलेश्वरः । निषधाधिपतिश्चैव मगधाधिपतिस्तथा ॥ २,३९.२ ॥ आययुः समरे योद्धं भार्गवेद्रेण भूपते । वर्षन्तः शरजालानि नानायुद्धविशारदाः ॥ २,३९.३ ॥ वीराभिमानिनः सर्वे हैहयस्याज्ञया तदा । पिनाकहस्तः स भृगुर्ज्वलदग्निशिखोपमः ॥ २,३९.४ ॥ चिक्षेप नागपाशं च आभिमन्त्र्य शरोत्तमम् । तदस्त्रं भार्गवे द्रेण क्षिप्तं संग्राममूर्द्धनि ॥ २,३९.५ ॥ चकर्त्त गारुडास्त्रेण सोमदत्तो महाबलः । ततः क्रुद्धो महाभागो रामः शत्रुविदारणः ॥ २,३९.६ ॥ रुद्रदत्तेन शूलेन सोमदत्तं जघान ह । बृहद्बलं च गदया विदर्भं मुष्टिना तथा ॥ २,३९.७ ॥ मैथिलं मुद्गरेणैव शक्त्या च निषधाधिपम् । मागधञ्चरणाघातैरस्त्रजालेन सैनिकान् ॥ २,३९.८ ॥ निहत्य निखिलां सेनां संहाराग्निसमीरणे । दुद्राव कार्त्तवीर्यं च जामदग्न्यो महाबलः ॥ २,३९.९ ॥ दृष्ट्वा तं योद्धुमायान्तं राजानोऽन्ये महारथाः । कार्य्याकार्यविधानज्ञाः पृष्टे कृत्वा च हैहयम् ॥ २,३९.१० ॥ रामेण युयुधुश्चैव दर्शयन्तश्च सौहृदम् । कान्यकुब्जाश्च शतशः सौराष्ट्रावन्तयस्तथा ॥ २,३९.११ ॥ चक्रुश्च शरजालानि रामस्य च समन्ततः । शरजालावृतस्तेषां रामः संग्राममूर्द्धनि ॥ २,३९.१२ ॥ न चादृश्यत राजेन्द्र तदा स त्वकृतव्रणः । सस्मार रामचरितं यदुक्तं हरिणेन वै ॥ २,३९.१३ ॥ कुशलं भार्गवेन्द्रस्य याचमानो हरिं मुनिः । एतस्मिन्नेव काले तु रामः शस्त्रास्त्रकोविदः ॥ २,३९.१४ ॥ विधूय शरजालानि वायव्यास्त्रेण मन्त्रवित् । उदतिष्ठद्रणाकाङ्क्षी नीहारादिव भास्करः ॥ २,३९.१५ ॥ त्रिरात्रं समरे रामस्तैः सार्द्धं युयुधे बली । द्वादशाक्षौहिणीस्तत्र चिच्छेद लघुविक्रमः ॥ २,३९.१६ ॥ रम्भास्तम्भवनं यद्वत्परश्वधवरायुधः । सर्वांस्तान्भूपवर्गांश्च तदीयश्च महाचमूः ॥ २,३९.१७ ॥ दृष्ट्वा विनिहतां तेन रामेण सुमहात्मना । आजगाम महावीर्यः सुचन्द्रः सूर्यवंशजः ॥ २,३९.१८ ॥ लक्षराजन्यसंयुक्तः सप्ताक्षौहिणिसंयुतः । तत्रानेकमहावीरा गर्जन्तस्तोयदा इव ॥ २,३९.१९ ॥ कंपयन्तो भुवं राजन् युयुधुर्भार्गवेण च । तेः प्रयुक्तानि शस्त्राणि महास्त्राणि च भूपते ॥ २,३९.२० ॥ क्षणेन नाशयामास भार्गवेन्द्रः प्रतापवान् । गृहीत्वा परशुं दिव्यं कालातकयमोपमम् ॥ २,३९.२१ ॥ कालयन्सकला सेनां चिच्छेद भुगुनन्दनः । कर्षकस्तु यथा क्षेत्रे पक्वं धान्यं तथा तृणम् ॥ २,३९.२२ ॥ निशेषयति दात्रेण तथा रामेण तत्कृतम् । लक्षराजन्यसैन्यं तददृष्ट्वा रामेण दारितम् ॥ २,३९.२३ ॥ सुचन्द्रः पृथिवीपालो युयुधे संगरे नृप । तावुभौ तत्र संक्षुब्धौ नानाशस्त्रास्त्रकोविदौ ॥ २,३९.२४ ॥ युयुधाते महावीरौ मुनीशनृपतीश्वरौ । रामोऽस्मै यानि शस्त्राणि चिक्षेपास्त्राणि चापि हि ॥ २,३९.२५ ॥ तानि सर्वाणि चिच्छेद सुचन्द्रो युद्ध पण्डितः । ततः क्रुद्धो रणे रामः सुचन्द्रं पृथिवीश्वरम् ॥ २,३९.२६ ॥ कृतप्रतिकृताभिज्ञं ज्ञात्वोपस्पृश्य वार्यथ । नारायणास्त्रं विशिखे संदधे चानिवारितम् ॥ २,३९.२७ ॥ तदस्त्रं शतसूर्याभं क्षिप्तं रामेण धीमता । हृष्टोत्तीर्य रथात्सद्यः सुचन्द्रः प्रणनाम ह ॥ २,३९.२८ ॥ सर्वास्त्रपूज्यं तच्चापि नारायणविनिर्मितम् । तमेवं प्रणतं त्यक्त्वा यथौ नारायमन्तिकम् ॥ २,३९.२९ ॥ विस्मितोऽभूत्तदा रामः समरे शत्रसूदनः । दृष्ट्वा व्यर्थं महास्त्रं तद्भूपं स्वस्थं विलोक्य च ॥ २,३९.३० ॥ रामः शक्तिं च मुसलं तोमरं पट्टिशं तथा । गदां च परशुं कोपाच्छिक्षेप नृपमूर्द्धनि ॥ २,३९.३१ ॥ जग्राह तानि सर्वाणि सुचन्द्रो लीलयैव हि । चिक्षेप शिवशूलं च रामो नृपतये यदा ॥ २,३९.३२ ॥ बभूव पुष्पमालां च तच्छूलं नृपतेर्गले । ददर्श च पुरस्तस्य भद्रकालीं जगत्प्रसूम् ॥ २,३९.३३ ॥ वहन्तीं मुण्डमालां च विकटास्यां भयङ्करीम् । सिंहस्थां च त्रिनेत्रां च त्रिशूलवरधारिणीम् ॥ २,३९.३४ ॥ दृष्ट्वा विहाय शस्त्रास्त्रं नमस्कृत्य समैडत । राम उवाच नमोस्तु ते शङ्करवल्लभायै जगत्सवित्र्यै समलङ्कृतायै ॥ २,३९.३५ ॥ नानाविभूषाभिरिभारिगायै प्रपन्नरक्षाविहितोद्यमायै । दक्षप्रसूत्यै हिमवद्भवायै महेश्वरार्द्धङ्गसमास्थितायै ॥ २,३९.३६ ॥ काल्यै कलानाथकलाधरायै भक्तप्रियायै भुवनाधिपायै । ताराभिधायै शिवतत्परायै गणेश्वराराधितपादुकायै ॥ २,३९.३७ ॥ परात्परायै परमेष्ठिदायै तापत्रयोन्मूलनचिन्तनायै । जगद्धितायास्तपुरत्रयायै बालादिकायै त्रिपुराभिधायै ॥ २,३९.३८ ॥ समस्तविद्यासुविलासदायै जगज्जनन्यै निहिताहितायै । बकाननायै बहुसाख्यदायै विध्वस्तनानासुरदान्वायै ॥ २,३९.३९ ॥ वराभयालङ्कृतदोर्लतायै समस्तगीर्वाणनमस्कृतायै । पीतांबरायै पवनाशुगायै शुभप्रदायै शिवसंस्तुतायै ॥ २,३९.४० ॥ नागारिगायै नवखण्डपायै नीलाचलाभां गलसत्प्रभायै । लघुक्रमायै ललिताभिधायै लेखाधिपायै लवणाकरायै ॥ २,३९.४१ ॥ लोलेक्षणायै लयवर्जितायै लाक्षारसालङ्कृतपङ्कजायै । रमाभिधायै रतिसुप्रियायै रोगापहायै रचिताखिलायै ॥ २,३९.४२ ॥ राज्यप्रदायै रमणोत्सुकायै रत्नप्रभायै रुचिरांबरायै । नमो नमस्ते परतः पुरस्तात्पार्श्वाधरोर्ध्वं च नमो नमस्ते ॥ २,३९.४३ ॥ सदा च सर्वत्र नमो नमस्ते नमो नमस्तेऽखिलविग्रहायै । प्रसीद देवेशि मम प्रतिज्ञां पुरा कृतां पालय भद्रकालि ॥ २,३९.४४ ॥ त्वमेव माता च पिता त्वमेव जगत्त्रयस्यापि नमो नमस्ते । वसिष्ठ उवाच एवं स्तुता तदा देवी भद्रकाली तरस्विनी ॥ २,३९.४५ ॥ उवाच भार्गवं प्रीता वरदानकृतोत्सवा । भद्रकाल्युवाच वत्स राम महाभाग प्रीतास्मि तव सांप्रतम् ॥ २,३९.४६ ॥ वरं वरय मत्तो यस्त्वया चाभ्यर्थिता हृदि । राम उवाच मातर्यदि वरो देयस्त्वया मे भक्तव त्सले ॥ २,३९.४७ ॥ तत्सुचन्द्रं जये युद्धे तवानुग्रहभाजनम् । इति मेऽभिहितं देवि कुरु प्रीतेन चेतसा ॥ २,३९.४८ ॥ येन केनाप्युपायेन जगन्मातर्नमोऽस्तु ते । भद्रकाल्युवाच आग्नेयास्त्रेण राजेन्द्रं सुचन्द्रं नय मद्गृहम् ॥ २,३९.४९ ॥ ममातिप्रियमद्यैव पार्षदो मे भवत्वयम् । वसिष्ठ उवाच इत्युक्तमाकर्ण्य स भार्गवेन्द्रो देव्याः प्रियं कर्तुमथोद्यतोऽभूत् ॥ २,३९.५० ॥ प्राणान्नियम्याचमनं च कृत्वा सुचन्द्रमुद्दिश्य च तत्समादधे । अस्त्रं प्रयुक्तं नृपतेर्वधाय रामेण राजन् प्रसभं तदा तत् ॥ २,३९.५१ ॥ दग्ध्वा वपुर्भूतमयं तदीयं निनाय लोकं परदेवतायाः । ततस्तु रामेण कृतप्रणामा सा भद्रकालो जगदादिकर्त्री ॥ २,३९.५२ ॥ अन्तर्हिताभूदथ जामदग्न्यस्तस्थौ रणेभूपवधाभिकाङ्क्षी ॥ २,३९.५३ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे भार्गवचरिते एकोनचत्वारिंशत्तमोऽध्यायः ॥ ३९॥ _____________________________________________________________ वसिष्ठ उवाच सुचन्द्रे पतिते राजन् राजेन्द्राणां शिरोमणौ । तत्पुत्रः पुष्कराक्षस्तु रामं योद्धुमथागतः ॥ २,४०.१ ॥ स रथस्थो महावीर्यः सर्वशस्त्रास्त्रकोविदः । अभिवीक्ष्य रणेत्युग्रं रामं कालातकोपमम् ॥ २,४०.२ ॥ चकार शरजालं च भार्गवेन्द्रस्य सर्वतः । मुहूर्त्तं जामदग्न्योऽपि बाणैः संझदितोऽभवत् ॥ २,४०.३ ॥ ततो निष्कम्य सहसा भार्गवेन्द्रो महाबलः । शरबन्धान्महाराज समुदैक्षत सर्वतः ॥ २,४०.४ ॥ दृष्ट्वा तं पुष्काराक्षं तु सुचन्द्रतनयं तदा । क्रोधमाहारयामास दिधक्षन्निव पावकः ॥ २,४०.५ ॥ स क्रोधेन समाविष्टो वारुणं समवासृजत् । ततो मेघाः समुत्पन्ना गर्जन्तो भैरवान्नवान् ॥ २,४०.६ ॥ ववृषुर्जलधाराभिः प्लावयन्तो धरां नृप । पुष्कराक्षो महावीर्यो वायव्यास्त्रुमवासृजत् ॥ २,४०.७ ॥ तेन तेऽदर्शनं नीताः सद्य एव बलाहकाः । अथ रामो भृशं क्रुद्धो ब्राह्मं तत्राभिसंदधे ॥ २,४०.८ ॥ पुष्कराक्षोऽपि तेनैव विचकर्ष महाबलः । ब्राह्म सोऽप्याहितं दृष्ट्वा दण्डाहत इवारगः ॥ २,४०.९ ॥ घोरं परशुमादाय निःश्वसंस्तमधावत । रामस्याधावतस्तत्र पुष्कराक्षो धनुर्धरः ॥ २,४०.१० ॥ संदधे पञ्चविशिखान्दीप्तास्यानुरगानिव । एकैकेन च बाणेन हृदि शीर्षे भुजद्वये ॥ २,४०.११ ॥ शिखायां च क्रमाद्भित्त्वा तस्तंभ भृश मातुरम् । स चैवं पीडीतो रामः पुष्कराक्षेण संयुगे ॥ २,४०.१२ ॥ क्षणं स्थित्वा भृशं धावन्परशुं मूर्ध्न्यपतयात् । शिखामारभ्य पादान्तं पुथ्कराक्षं द्विधाकरोत् ॥ २,४०.१३ ॥ पतिते शकले भूमौ तत्कालं पश्यता नृणाम् । आश्चर्यं सुमाहज्जातं दिवि चैव दिवौ कसाम् ॥ २,४०.१४ ॥ विदार्य रामस्तं क्रोधात्पुष्कराक्ष महाबलम् । तत्सैन्यमदहत्क्रुद्धः पावको विपिनं यथा ॥ २,४०.१५ ॥ यतो यतो धावति भार्गवेन्द्रो मनोऽनिलौजाः प्रहरन्परश्वधम् । ततस्ततो वाजिरथेभमानवा निकृत्तगात्राः शतशो निपेतुः ॥ २,४०.१६ ॥ रामेण तत्रा तिबलेन संगरे निहन्यमानास्तु परश्वधेन । हा तात मातस्त्विति जल्पमांना भस्मीबभूवुः सुविचूर्णितास्तदा ॥ २,४०.१७ ॥ मुहूर्त्तमात्रेण च भार्गवेण तत्पुष्कराक्षस्य बलं समग्रम् । अनेकराजन्यकुलं हतेश्वरं इतं नवाक्षौहिणिकं भृशातुरम् ॥ २,४०.१८ ॥ पतिते पुष्कराक्षे तु कार्त्तवीर्यार्जुनः स्वयम् । आजगाम महावीर्यः सुवर्णरथमास्थितः ॥ २,४०.१९ ॥ नानाशस्त्रसमाकीर्णं नानारत्नपरिच्छदम् । दशनल्वप्रमाणं च शतवाजियुतं नृपः ॥ २,४०.२० ॥ युते बाहुसहस्रेण नानायुधधरेण च । बभौ स्वर्लोकमारोक्ष्यन्देहति सुकृती यथा ॥ २,४०.२१ ॥ पुत्रास्तस्य महावीर्याः शतं युद्धविशारदाः । सेनाः संव्यूह्य संतस्थुः संग्रामे पितुराज्ञया ॥ २,४०.२२ ॥ कार्त्तवीर्यस्तु बलवान्रामं दृष्ट्वा रणाजिरे । कालान्तकयमप्रख्यं योद्धुं समुपचक्रमे ॥ २,४०.२३ ॥ दक्षे पञ्चशतं बाणान्वामे पञ्चशतं धनुः । जग्रा ह भार्गवेन्द्रस्य समरे जेतुमुद्यतः ॥ २,४०.२४ ॥ बाणवर्षं चकाराथ रामस्योपरि भूपते । यथा बलाहको वीर पर्वतोपरि वर्षति ॥ २,४०.२५ ॥ बाणवर्षेण नेनाजौ सत्कृतो भृगुनन्दनः । जग्राह स्वघनुर्दिव्यं बाणवर्षं तथाकरोत् ॥ २,४०.२६ ॥ तावुभौरणसंदृप्तौ तदा भार्गवहैहयौ । चक्रतुर्यद्धमतुलं तुमुलं लोमहर्षणम् ॥ २,४०.२७ ॥ ब्रह्मास्त्रं च सभूपालः संदधे रणमूर्द्धनि । वधाय भार्गवेन्द्रस्य सर्वशस्त्रास्त्रधृगबली ॥ २,४०.२८ ॥ रामोऽपि वार्युपस्पृश्य ब्रह्मं ब्राह्मय संदधे । ततो व्योम्नि सदा सक्ते द्वे चाप्य स्त्रे नराधिप ॥ २,४०.२९ ॥ ववृधाते जगत्प्रान्ते तेजसा ज्वलनार्कवत् । त्रयो लोकाः सपाताला दृष्ट्वा तन्महदद्भुतम् ॥ २,४०.३० ॥ ज्वलदस्त्रयुगं तप्ता मेनिरेऽस्योपसंयमम् । रामस्तदा वीक्ष्य जगत्प्रणाशं जगन्निवासोक्तमथास्मरत्तदा ॥ २,४०.३१ ॥ रक्षा विधेयाद्य मयास्य संयमो निवारणीयः परमांशधारिणा । इति व्यवस्य प्रभुरुग्रतेजा नेत्रद्वयेनाथ तदस्त्रयुगमम् ॥ २,४०.३२ ॥ पीत्वातिरामं जगदाकलय्य तस्थौ क्षणं ध्यानगतो महात्मा । ध्यानप्रभावेण ततस्तु तस्य ब्रह्मास्त्रयुग्मं विगतप्रभावम् ॥ २,४०.३३ ॥ पपात भूमौ सहसाथ तत्क्षणं सर्वं जगत्स्वास्थ्यमुपाजगाम । स जामदग्न्यो महातां महीयान्स्रष्टुं तथा पालयितुं निहन्तुम् ॥ २,४०.३४ ॥ विभुस्तथापीह निजंप्रभावं गोपायितुं लोकविधिं चकार । धनुर्द्धरः शूरतमो महस्वान्सदग्रणीः संसदि तथ्यवक्ता ॥ २,४०.३५ ॥ कलाकलापेषु कृतप्रयत्नो विद्यासु शास्त्रेषु बुधो विधिज्ञः । एवं नृलोके प्रथयन्स्वभावं सर्वाणि कल्यानि करोति नित्यम् ॥ २,४०.३६ ॥ सर्वे तु लोका विजितास्तु तेन रामेण राजन्यनिषूदनेन । एवं स रामः प्रथितप्रभावः प्रशामयित्वा तु तदस्त्रयुग्मम् ॥ २,४०.३७ ॥ पुनः प्रवृत्तो निधनं प्रकर्तुं रणागणे हैहयवंशकेतोः । तुणीरतः पत्रियुगं गृहीत्वा पुङ्खे निधायाथ धनुर्ज्यकायाम् ॥ २,४०.३८ ॥ आलक्ष्य लक्ष्यं नृपकर्णयुग्मं चकर्त्त चूडामणिहर्तुकामः । स कृत्तकर्णो नृपतिर्महात्मा विनिर्जिताशेषजगत्प्रवीरः ॥ २,४०.३९ ॥ मेने निजं वीर्यमिह प्रणष्टं रामेण भूमीशतिरस्कृतात्मा । क्षणं धराधीशतनुर्विवर्णा गतानुभावा नृपतेर्बभूव ॥ २,४०.४० ॥ लेख्येव सच्चित्रकरप्रयुक्ता सुदीनचित्तस्य विलक्ष्यतेऽग । ततः स राजा निजवीर्यवैभवं समस्तलोकाधिकतां प्रयातम् ॥ २,४०.४१ ॥ विचिन्त्य पौलस्त्यजयादिलब्धं शोचन्निवासीत्स जयाभिकाङ्क्षीं । दध्यौ पुनर्मीलितलोचनो नृपौ दत्तं तमात्रेयकुलप्रदीपम् ॥ २,४०.४२ ॥ यस्य प्रभावानुगृहीत ओजसा तिरश्चकारा खिललोकपालकान् । यदास्य हृद्येष महानुभावो दत्तः प्रयातो न हि दर्शनं तदा ॥ २,४०.४३ ॥ खिन्नोऽतिमात्रं धरणीपतिस्तदा पुनः पुनर्ध्यानपथं जगाम । स ध्यायमानोऽपि न चाजगाम दत्तो मनोगोचरमस्य राजन् ॥ २,४०.४४ ॥ तपस्विनो दान्ततमस्य साधोरनागसो दुष्कृतिकारिणो विभुः । एवं यदात्रेस्तनयो महात्मा दृष्टो न च ध्यानपथे नृपेण ॥ २,४०.४५ ॥ तदातिदुः खेन विदूयमानः शोकेन मोहेन युतो बभूव । तं शोकमग्नं नृपतिं महात्मा रामो जगादाखिलचित्तदर्शी ॥ २,४०.४६ ॥ मा शोकभावं नृपते प्रयाहि नैवानुशोचन्ति महानुभावाः । यस्ते वरायाभवमादिसर्गे स एव चाहं तंव सादनाय ॥ २,४०.४७ ॥ समागतस्त्वं भवधीरचित्तः संग्रामकाले न विषादचर्चा । सर्वो हि लोकः स्वकृतं भुनक्ति शुभाशुभं दैवकृतं विपाके ॥ २,४०.४८ ॥ अन्योनकोऽप्यस्य शुभाशुभस्य विपर्ययं कर्तुमलं नरेश । यत्ते सुपुण्यं बहुजन्मसंचितं तेनेह दत्तस्य वरार्हपात्रम् ॥ २,४०.४९ ॥ जातो भवानद्य तु दुष्कृतस्य फलं प्रभुङ्क्ष्व त्वमिहार्जितस्य । गुरुर्विमत्यापकृतस्त्वया मे यतस्ततः कर्णनिकृन्तनं ते ॥ २,४०.५० ॥ कृतं मया पश्य हरन्तमोजसा चूडामणिं मामपत्दृत्य ते यशः । इत्येवमुक्त्वा स भृगुर्महात्मा नियोज्य बाणं च विकृष्य चापम् ॥ २,४०.५१ ॥ चिक्षेप राज्ञः स तु लाघवेन च्छित्त्वा मणिं रामममुपाजगाम । तद्वीक्ष्य कर्मास्य मुनेः सुतस्य स चार्जुनो हैहयवंशधर्त्ता ॥ २,४०.५२ ॥ समुद्यतोऽभूत्पुनरप्युदायुधस्तं हन्तुमाजौ द्विजमात्मशत्रुम् । शूलशक्तिगदाचक्रखढ्गपट्टिशतोमरैः ॥ २,४०.५३ ॥ नानाप्रहरणैश्चान्यैराजघान द्विजात्मजम् । स रामो लाघवेनैव संप्रक्षिप्तान्यनेन च ॥ २,४०.५४ ॥ शूलादीनि चकर्त्ताशु मध्य एव निजाशुगैः । स राजा वार्युपस्पृश्य ससर्जाग्नेयमुत्तमम् ॥ २,४०.५५ ॥ अस्त्रं रामो वारुणेन शमयामास सत्वरम् । गान्धर्वं विदधे राजा वायव्येनाहनद्विभुम् ॥ २,४०.५६ ॥ नागास्त्रं गारुडेनापि रामश्चिच्छेद भूपते । दत्तेन दत्तं यच्छूलमव्यर्थं मन्त्रपूर्वकम् ॥ २,४०.५७ ॥ जग्राह समरे राजा भार्गवस्य वधाय च । तच्छूलं शतसूर्याभमनिवार्यं सुरासुरैः ॥ २,४०.५८ ॥ चिक्षेप राममुद्दिश्य समग्रेण बलेन सः । मूर्ध्नि तद्भार्गवस्याथ निपपात महीपते ॥ २,४०.५९ ॥ तेन शूलप्रहारेण व्यथितो भार्गवस्तदा । मूर्च्छामवाप राजेन्द्र पपात च हरिं स्मरन् ॥ २,४०.६० ॥ पतिते भार्गवे तत्र सर्वे देवा भयाकुलाः । समाजग्मुः पुरस्कृत्य ब्रह्मविष्णुमहेश्वरान् ॥ २,४०.६१ ॥ शङ्करस्तु महाज्ञानी साक्षान्मृत्युञ्जयः प्रभुः । भार्गवं जीवयामास संजीवन्या स विद्यया ॥ २,४०.६२ ॥ रामस्तु चेतनां प्राप्य ददर्श पुरतः सुरान् । प्रणनाम च राजेन्द्र भक्त्या ब्रह्मादिकांस्तु तान् ॥ २,४०.६३ ॥ ते स्तुता भार्गवेन्द्रेण सद्योऽदर्शनमागताः । स रामो वार्युस्पृश्य जजाप कवचं तु तत् ॥ २,४०.६४ ॥ उत्थितश्च सुसंरब्धो निर्दहन्निव चक्षुषा । स्मृत्वा पाशुपतं चास्त्रं शिवदत्तं स भार्गवः ॥ २,४०.६५ ॥ सद्यः संहृतवांस्तत्तु कार्त्तवीर्यं महाबलम् । स राजा दत्तभक्तस्तु विष्णोश्चक्रं सुदर्शनम् । प्रविष्टो भस्मसाज्जातं शरीरं बाहुनन्दन ॥ २,४०.६६ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे भार्गवचरिते कार्त्तवीर्यवधो नाम चत्वारिंशत्तमोऽध्यायः ॥ ४०॥ _____________________________________________________________ वसिष्ठ उवाच दृष्ट्वा पितुर्वधं घोरं तत्पुत्रास्ते शतं त्वरा । वारयामासुरत्युग्रं भार्गवं स्वबलेः पृथक् ॥ २,४१.१ ॥ एकैकाक्षैहिणीयुक्ताः सर्वे ते युद्धदुर्मदाः । संग्रामं तुमुलं चक्रुः संरब्धास्तु पितुर्वधात् ॥ २,४१.२ ॥ रामस्तु दृष्ट्वा तत्पुत्राञ्छूरान्रणविशारदान् । परश्वधं समादाय युयुधे तैश्च संगरे ॥ २,४१.३ ॥ तां सेनां भगवान्रामः शताक्षौहिणिसंमिताम् । निजघान त्वरायुक्तो मुहुर्त्तद्वयमात्रतः ॥ २,४१.४ ॥ निःशेषितं स्वसैन्यं तु कुठारेणैव लीलया । दृष्ट्वा रामेण तेसर्वे युयुधुर्वीर्यसंमताः ॥ २,४१.५ ॥ नानाविधानि दिव्यानि प्रहरन्तो महोजसः । परितो मण्डलं चक्रुर्भार्गवस्य महात्मनः ॥ २,४१.६ ॥ अथ रामोऽपि बलवांस्तेषां मण्डलमध्यगः । विरेजे भगवान्साक्षाद्यथा नाभिस्तु चक्रगा ॥ २,४१.७ ॥ नृत्यन्निवाचौ विरराज रामः शतं पुनस्ते परितो भ्रमन्तः । रेजुश्च गोपी गणमध्यसंस्थः कृष्णो यथा ताः परितो भ्रमन्त्यः ॥ २,४१.८ ॥ तदा तु सर्वे द्रुहिणप्रधानाः समागताः स्वस्वविमानसंस्थाः । समाकिरन्नन्दनमाल्यवर्षैः समन्ततो राममहीनवीर्यम् ॥ २,४१.९ ॥ यः शस्त्रपादादुदतिष्ठत ध्वनिर्हुंकारगर्भो दिवमस्पृशन्स वै । तौर्यत्रिकस्येव शरक्षतानि भान्तीव यद्वन्नखदन्तपाताः ॥ २,४१.१० ॥ क्रन्दन्ति शस्त्रैः क्षतविक्षताङ्गा गायन्ति यद्वत्किल गीतविज्ञाः । एवं प्रवृत्तं नृपयुद्धमण्डलं पश्यन्ति देवा भृशविस्मिताक्षः ॥ २,४१.११ ॥ ततस्तु रामोऽवनिपालपुत्राञ्जिघांसुराजौ विविधास्त्रपूगैः । पृथक्चकारातिब लांस्तु मण्डलद्विच्छिद्य पङ्क्तिं प्रभुरात्तचापः ॥ २,४१.१२ ॥ एकैकशस्तान्निजघान वीराञ्छतं तदा पञ्च ततः पलायिताः । शूरो वृषास्यो वृषशूरसेनौ जयध्वजश्चापि विभिन्नधैर्याः ॥ २,४१.१३ ॥ महाभयेनाथ परीतचिता हिमाद्रिपादान्तरकाननं च । पृथग्गतास्ते सुपरीप्सवो नृपा न कोऽपि कांस्विद्ददृशे भृशार्त्तः ॥ २,४१.१४ ॥ रामोऽपि हत्वा नृपचक्रमाजौ राज्ञः सहायर्थमुपागतं च । समन्वितोऽसावकृतव्रणेन सस्नौ मुदागत्य च नर्मदायाम् ॥ २,४१.१५ ॥ स्रात्वा नित्यक्रियां कृत्वा संपूज्य वृषभध्वजम् । प्रतस्थे द्रष्टुमुर्वीश शिवं कैलासवासिनम् ॥ २,४१.१६ ॥ गुरुपत्नीमुमां चापि सुतौ स्कन्दविनायकौ । मनोयायी महात्मासावकृतव्रणसंयुतः ॥ २,४१.१७ ॥ कृतकार्यो मुदा युक्तः कैलासं प्राप्य तत्क्षणम् । ददर्श तत्र नगरीं महतीमलकाभिधम् ॥ २,४१.१८ ॥ नानामणिगणाकीर्णभवनैरुपशोभिताम् । नानारुपधरैर्यक्षैः शोभितां चित्रभूषणैः ॥ २,४१.१९ ॥ नानावृक्षसमाकीणैर्वनैश्चोपवनैर्युताम् । दीर्घिकाभिः सुदीर्घाभिस्तडागैश्चोपशोभिताम् ॥ २,४१.२० ॥ सर्वतोऽप्यावृतां बाह्ये सीतयालकनन्दया । तत्र देवाङ्गनास्नानमुक्तकुङ्कुमपिञ्जरम् ॥ २,४१.२१ ॥ तृषाविर हिताश्चांभः पिबन्ति करिणो मुदा । यत्र संगीतसंनादा श्रूयन्ते तत्रतत्र ह ॥ २,४१.२२ ॥ गन्धर्वैरप्सरोभिश्च सततं सहकारिभिः । तां दृष्ट्वा भार्गवो राजन्मुदा परमया युतः ॥ २,४१.२३ ॥ ययौ तदूर्ध्वं शिखरं यत्र शेवपरं गृहम् । ततो ददर्श राजेन्द्र स्निग्धच्छायं महावटम् ॥ २,४१.२४ ॥ तस्याधस्ताद्वरावासं सुसेव्यं सिद्धसंयुतम् । ददर्ंश तत्र प्राकारं शतयोजनमण्डलम् ॥ २,४१.२५ ॥ नानारत्नाचितं रम्यं चतुर्द्वारं गणावृतम् । नन्दीश्वरं महाकालं रक्ताक्षं विकटोदरम् ॥ २,४१.२६ ॥ पिङ्गलाक्षं विशालाक्षं विरूपाक्षं घटोदरम् । मन्दारं भैरवं बाणं रुरुं भैरवमेव च ॥ २,४१.२७ ॥ वीरकं वीरभद्रं च चण्डं भृङ्गिं रिटिं मुखम् । सिद्धेन्द्रनाथरुद्रांश्च विद्याधरमहोरगान् ॥ २,४१.२८ ॥ भूतप्रेतपिशाचांश्च कूष्माण्डान्ब्रह्मराक्षसान् । वेतालान्दानवेन्द्रांश्च योगीन्द्रांश्च जटाधरान् ॥ २,४१.२९ ॥ यक्षकिंपुरुषांश्चैव डाकिनीयो गिनीस्तथा । दृष्ट्वा नन्द्या५ आ तत्र प्रविष्टोऽन्तर्मुदान्वितः ॥ २,४१.३० ॥ ददर्श तत्र भुवनैरावृतं शिवमन्दिरम् । चतुर्योजनविस्तीर्णं तत्र प्राग्द्वारसंस्थितौ ॥ २,४१.३१ ॥ दृष्ट्वा वामे कार्त्तिकेय दक्ष चैव विनायकम् । ननाम भार्गवस्तौ द्वौ शिवतुल्यपराक्रमौ ॥ २,४१.३२ ॥ पार्षदप्रवरास्तत्र क्षेत्रपालाश्च संस्थिताः । रत्नसिंहासनस्थाश्च रत्नभूषमभूषिताः ॥ २,४१.३३ ॥ भार्गवं प्रविशन्तं तु ह्यपृच्छञ्शिवमन्दिरम् । विनायको महाराज क्षणं तिष्ठेत्युवाच ह ॥ २,४१.३४ ॥ निद्रितो ह्युमया युक्तो महादेवोऽधुनेति च । ईश्वराज्ञां गृहीत्वाहमत्रागत्यक्षणान्तरे ॥ २,४१.३५ ॥ त्वया सार्द्धं प्रवेक्ष्यामि भ्रातस्तिष्ठात्र सांप्रतम् । विनायकचश्चैवं श्रुत्वा भार्गवनन्दनः ॥ २,४१.३६ ॥ प्रवक्तुमुपचक्राम गणेशं त्वरयान्वितः । राम उवाच गत्वा ह्यन्तःपुरं भ्रातः प्रणम्य जगदीश्वरौ ॥ २,४१.३७ ॥ पार्वतीशङ्करौ सद्यो यास्यामि निजमन्दिरम् । कार्त्तवीर्यः सुचन्द्रश्च सपुत्रबलबान्धवः ॥ २,४१.३८ ॥ अन्ये सहस्रशो भूपाः कांबोजाः पङ्लवाः शाकाः । कान्यकुब्जाः कोशलेशा मायावन्तो महाबलाः ॥ २,४१.३९ ॥ निहताः समरे सर्वे मया शंभुप्रसादतः । तमिमं प्रणिपत्यैव यास्यामि स्वगृहं प्रति ॥ २,४१.४० ॥ इत्युक्त्वा भार्गवस्तत्र तस्थौ गणपतेः पुरः । प्रोवाच मधुरं वाक्यं भार्गवे स गणाधिपः ॥ २,४१.४१ ॥ विनायक उवाच ज्ञणं तिष्ट महाभाग दर्शनं ते भविष्यति । अद्य विश्वेश्वरो भ्रातर्भवान्या सह वर्त्तते ॥ २,४१.४२ ॥ स्त्रीपुंसोर्युक्त योस्तात सहैकासनसंस्थयोः । करोति सुखभङ्गं यो नरकं स व्रजेद्ध्रुवम् ॥ २,४१.४३ ॥ विशेषतस्तु पितरं गुरुं वा भूपतिं द्विजः । र७ यं समुपासिनं न पश्येदिति निश्चयः ॥ २,४१.४४ ॥ कामतोऽकामतो वापि पश्येद्यः सुरतोन्मुखम् । स्त्रीविच्छेदो भवेत्तस्य ध्रुवं सप्रसु जन्मसु ॥ २,४१.४५ ॥ श्रोणिं वक्षः स्थलं वक्त्रं यः पश्यति परस्त्रियः । मातुर्वापि भगिन्या वा दुहितुः स नराधमः ॥ २,४१.४६ ॥ भार्गव उवाच अहो श्रुतमपूर्वं किं वचनं तव वक्त्रतः । ब्रान्त्या विनिर्गतं वापि हास्यार्थमथवोदितम् ॥ २,४१.४७ ॥ कामिनां सविकाराणामेतच्छास्त्रनिदर्शनम् । निर्विकारास्य च शिशोर्न दोषः कश्चिदेव हि ॥ २,४१.४८ ॥ यास्याम्यन्तः पुरं भ्रातस्तव किं तिष्ठ बालक । यथादृष्टं करिष्यामि तत्र यत्समयोचितम् ॥ २,४१.४९ ॥ तत्रैव माता तातश्च त्वया नाम निरूपितौ । जगतां पितरौ तौ च पार्वतीपरमेश्वरौ ॥ २,४१.५० ॥ इत्युक्त्वा भार्गवो राजन्नन्तर्गन्तुं समुद्यतः । विनायकस्तदोत्थाय वारयामास सत्वरम् ॥ २,४१.५१ ॥ वाग्युद्धं च तयोरासीन्मिथो हस्तविकर्षणम् । दृष्ट्वा सकन्दस्तु संभ्रान्तो बोधयामास तौ तदा ॥ २,४१.५२ ॥ बाहुभ्यां द्वौ समुद्गृह्य पृथगुत्सारितौ तथा । अथ क्रुद्धो गणेशाय भार्गवः परवीरहा । परश्वधं समादाय सप्रक्षेप्तुं समुद्यतः ॥ २,४१.५३ ॥ तं दृष्ट्वा गजाननो भृगुवरं क्रोधात्क्षिपन्तं त्वरा स्वात्मार्थं परशुं तदा निजकरेणोद्धृत्य वेगेन तु । भूर्लोकं भुवः स्वरपि तस्योर्ध्वं महर्वैजनं लोकं चापि तपोऽथ सत्यमपरं वैकुण्ठमप्यानयत् ॥ २,४१.५४ ॥ तस्योर्ध्वं च विदर्शयन्भृगुवरं गोलोकमीशात्मजो निष्पात्याधरलोकसप्तक मपीत्थं दर्शयामास च । उद्धृत्याथ ततो हि गर्भसलिले प्रक्षप्तमात्रं त्वरा भीतं प्राणपरिप्सुमानयदथो तत्रैव यत्रास्थितः ॥ २,४१.५५ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे भार्गवचरिते एकचत्वारिंशत्तमोऽध्यायः ॥ ४१॥ _____________________________________________________________ वसिष्ठ उवाच एवं संभ्रामितो रामो गणाधीशेन भूपते । हर्षशोकसमाविष्टो विचिन्त्यात्मपराभवम् ॥ २,४२.१ ॥ गणेशं चाभितो वीक्ष्य निर्विकारमवस्थितम् । क्रोधाविष्टो भृशं भूत्वा प्राक्षिपत्स्वपरश्वधम् ॥ २,४२.२ ॥ गणेशस्त्वभिवीक्ष्याथ पित्रा दत्तं परश्वधम् । अमोघं कर्त्तुकामस्तु वामे तं दशनेऽग्रहीत् ॥ २,४२.३ ॥ स तु दन्तः कुठारेण विच्छिन्नो भूतलेऽपतत् । भुवि शोणितसंदिग्धो वज्राहत इवाचलः ॥ २,४२.४ ॥ दन्तपातेन विद्वस्ता साब्धिद्वीपधरा धरा । चकंपे पृथिवीपाल लोकास्त्रासमुपागताः ॥ २,४२.५ ॥ हाहाकारो महानासी द्देवानां दिवि पश्यताम् । कार्त्तिकेयादयस्तत्र चुक्रुशुर्भृशमातुराः ॥ २,४२.६ ॥ अथ कोलाहलं श्रुत्वा दन्तपातध्वनिं तथा । पार्वतीशङ्करौ तत्र समाजग्मतुरीश्वरौ ॥ २,४२.७ ॥ हेरम्बं पुरतो दृष्ट्वा वक्रतुण्डैकदन्तिनम् । पप्रच्छ स्कन्दं पार्वती किमेतदिति कारणम् ॥ २,४२.८ ॥ स तु पृष्टस्तदा मात्रा सेनानीः सर्वमादितः । वृत्तान्तं कथयामास मात्रे रामस्य शृण्वतः ॥ २,४२.९ ॥ सा श्रुत्वोदन्तमखिलं जगतां जननी नृप । उवाच शङ्करं रुष्टा पार्वती प्राणनायकम् ॥ २,४२.१० ॥ पार्वत्युवाच अयं ते भार्गवः शंभो शिष्यः पुत्रः समोऽभवत् । त्वत्तोलब्ध्वा परं तेजो वर्म त्रैलोक्यजिद्विभो ॥ २,४२.११ ॥ कार्त्तवीर्यार्जुनं संख्ये जितवानूर्जितं नृपम् । स्वकार्यं साधयित्वा तु प्रादात्तुभ्यं च दक्षिणाम् ॥ २,४२.१२ ॥ यत्ते सुतस्य दशन कुठारेण न्यपातयत् । अनेनैव कृतार्थस्त्वं भविष्यसि न संशयः ॥ २,४२.१३ ॥ त्वमिमं भार्गवं शम्भो रक्षान्तेवासिसत्तमम् । तव कार्याणि सर्वाणि साधयिष्यति सद्गुरोः ॥ २,४२.१४ ॥ अह नैवात्र तिष्ठामि यत्त्वया विमता विभो । पुत्राभ्यां सहिता यास्ये पितुः स्वस्य निकेतनम् ॥ २,४२.१५ ॥ संतो भुजिष्यातनयं सत्कुर्वन्त्यात्मपुत्रवत् । भवता तु कृतोनैव सत्कारो वचसापि हि ॥ २,४२.१६ ॥ आत्मनस्तनयस्यास्य ततो यास्यामि दुःखिता । वसिष्ठ उवाच एतच्छ्रुत्वा तु वचनं पार्वत्या भगवान्भवः ॥ २,४२.१७ ॥ नोवाच किञ्चिद्वचनं साधु वासाधु भूपते । सस्मार मनसा कृष्णं प्रणतक्लेशनाशनम् ॥ २,४२.१८ ॥ गोलोकनाथं गोपीशं नानानुनयकोविदम् । स्मृतमात्रोऽथ भगवान् केशवः प्रणतार्त्तिहा । आजगाम दयासिंधुर्भक्तवश्योऽखिलेश्वरः ॥ २,४२.१९ ॥ मेघश्यामो विशदवदनो रत्नकेयूरहारो विद्युद्वासा मकरसदृशे कुण्डले संदधानः । बर्हापीडं मणिगणयुतं बिभ्रदीषत्स्मितास्यो गोपीनाथो गदितसुयशाः कौस्तुभोद्भासिवक्षाः ॥ २,४२.२० ॥ राधया सहितः श्रीमान् श्रीदाम्ना चापराजितः ॥ २,४२.२१ ॥ मुष्णंस्तेजांसि सर्वेषां स्वरुचा ज्ञानवारिधिः । अथैनमागतं दृष्ट्वा शिवः संहृष्टमानसः ॥ २,४२.२२ ॥ प्रणिपत्य यथान्यायं पूजयामास चागतम् । प्रवेश्याभ्यन्तरे वेश्मराधया सहितं विभुम् ॥ २,४२.२३ ॥ रत्नसिंहासने नम्ये सदारं स न्यवेशयत् । थ तत्र गता देवी पार्वती तनयान्विता ॥ २,४२.२४ ॥ ननाम चरणान्प्रभ्वोः पुत्राभ्यां सहिता मुदा । थ रामोऽपि तत्रैव गत्वा नमितकन्धरः ॥ २,४२.२५ ॥ पार्वत्याश्चरणोपान्ते पपाताकुलमानसः । सा यदा नाभ्यनन्दत्तं भार्गवं प्रणतं पुरः ॥ २,४२.२६ ॥ तदोवाच जगन्नाथः पार्वतीं प्रीणयन्गिरा ॥ २,४२.२७ ॥ श्रीकृष्म उवाच अयि नगनं दिनि निन्दितचन्द्रमुखि त्वमिमं जमदग्निसुतम् । नय निजहस्तसरोजसमर्पितम्स्तकमङ्कमनन्तगुणे ॥ २,४२.२८ ॥ भवभयहारिणि शंभुविहारिणि कल्मषनाशिनि कुंभिगते । तव चरणे पतितं सततं कृतकिल्बिषमप्यव देहि वरम् ॥ २,४२.२९ ॥ श्रुणु देवि महाभागे वेदोक्तं वचनं मम । यच्छ्रुत्वा हर्षिता नूनं भविष्यसि न संशयः । विनायकस्ते तनयो महात्मा महतां महान् ॥ २,४२.३० ॥ यं कामः क्रोध उद्वेगो भयं नाविशते कदा । वेदस्मृतिपुराणेषु संहितासु च भामिनि ॥ २,४२.३१ ॥ नामान्यस्योपदिष्टानि सुपुण्यानि महात्मभिः । यानि तानि प्रवक्ष्यामि निखिलाघहराणि च ॥ २,४२.३२ ॥ प्रमथानां गणा ये च नानारूपा महाबलाः । तेषामीशस्त्वयं यस्माद्गणेशस्तेन कीर्त्तितः ॥ २,४२.३३ ॥ भूतानि च भविष्याणि वर्त्तमानानि यानि च । ब्रह्माण्डान्यखिलान्येव यस्मिंल्लंबोदरः स तु ॥ २,४२.३४ ॥ यः स्थिरो देवयोगेन च्छिन्नं संयोजितं पुनः । गजस्य शिरसा देवितेन प्रोक्तो गजाननः ॥ २,४२.३५ ॥ चतुर्थ्यामुदितश्चन्द्रो दर्भिणा शप्त आतुरः । अनेन विधृतो भाले भालचन्द्रस्ततः स्मृतः ॥ २,४२.३६ ॥ शप्तः पुरा सप्तभिस्तु मुनिभिः संक्षयं गतः । जातवेदा दीपितोऽभूद्येनासौशूर्पकर्मकः ॥ २,४२.३७ ॥ पुरा देवासुरे युद्धे पूजितो दिविषद्गणैः । विघ्नं निवारयामास विघ्ननाशस्ततः स्मृतः ॥ २,४२.३८ ॥ अद्यायं देवि रामेण कुठारेण निपात्य च । दशनं दैवतो भद्रे ह्येकदन्तः कृतोऽमुना ॥ २,४२.३९ ॥ भविष्यत्यथ पर्याये ब्रह्मणो हरवल्लभे । वक्रीभविष्यत्तुण्डत्वाद्वक्रतुण्डः स्मृतो बुधैः ॥ २,४२.४० ॥ एवं तवास्य पुत्रस्य संति नामानि पार्वति । स्मरणात्पापहारीणि त्रिकालानुगतान्यपि ॥ २,४२.४१ ॥ अस्मात्त्रयोदशीकल्पात्पूर्वस्मिन्दशमीभवे । मयास्मै तु वरो दत्तः सर्गदेवाग्रपूजने ॥ २,४२.४२ ॥ जातकर्मादिसंस्कारे गर्भाधानादिकेऽपि च । यात्रायां च वणिज्यादौ युद्धे देवार्चने शुभे ॥ २,४२.४३ ॥ संकष्टे काम्यसिद्ध्यर्थं पूजयेद्यो गजाननम् । तस्य सर्वाणि कार्याणि सिद्ध्यन्त्येव न संशयः ॥ २,४२.४४ ॥ वसिष्ठ उवाच इत्युक्तं तु समाकर्ण्य कृष्णेन सुमहात्मना । पार्वती जगतां नाथा विस्मितासीच्छुभानना ॥ २,४२.४५ ॥ यदा नैवोत्तरं प्रादात्पार्वती शिवसन्निधौ । तदा राधाब्रवीद्देवीं शिवरूपा सनातनी ॥ २,४२.४६ ॥ श्रीराधोवाच । प्रकृतिः पुरुषश्चोभावन्योन्याश्रयविग्रहौ । द्विधा भिन्नौ प्रकाशेते प्रपञ्चेऽस्मिन् यथा तथा ॥ २,४२.४७ ॥ त्वं चाहमावयोर्देवि भेदो नैवास्ति कश्चन । विष्णुस्त्वमहमेवास्मि शिवो द्विगुणतां गतः ॥ २,४२.४८ ॥ शिवस्य हृदये विष्णुर्भवत्या रूपमास्थितः । मम रूपं समास्थाय विष्णोश्च हृदये शिवः ॥ २,४२.४९ ॥ एष रामो महाभागे वैष्णवः शैवतां गतः । गणेशोऽयं शिवः साक्षाद्वैष्णवत्वं समास्थितः ॥ २,४२.५० ॥ एतयोरोवयोः प्रभवोश्चापि भेदो न दृश्यते । एवामुक्त्वा तु सा राधा क्रोडे कृत्वा गजाननम् ॥ २,४२.५१ ॥ मूर्ध्न्युपाघ्राय पस्पर्श स्वहस्तेन कपोलके । स्पृष्टमात्रे कपोले तु क्षतं पूर्त्तिमुदागतम् ॥ २,४२.५२ ॥ पार्वती मुप्रसन्नाभूदनुनीताथ राधया । पादयोः पतितं राममुत्थाप्य निजपाणिना ॥ २,४२.५३ ॥ क्रोडीचकार सुप्रीता मूर्ध्न्यु पाघ्राय पार्वती । एवं तयोस्तु सत्कारं दृष्ट्वा रामगणेशयोः ॥ २,४२.५४ ॥ कृष्णः स्कन्दमुपाकृष्य स्वाङ्के प्रेम्णा न्यवेशयत् । अथ शंभुरपि प्रीतः श्रीदामानं पस्थितम् ॥ २,४२.५५ ॥ स्वोत्संगे स्थापयामास प्रेम्णा मत्कृत्य मानदः ॥ २,४२.५६ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यभागे तृतीय उपोद्धातपादे भार्गवचरिते द्विचत्वारिंशत्तमोऽध्यायः ॥ ४२॥ _____________________________________________________________ वसिष्ठ उवाच एवं सुस्निग्धचित्तेषु तेषु तिष्ठत्सु भूपते । भवान्युत्संगतो रामः समुत्थाय कृताजलिः ॥ २,४३.१ ॥ तुष्टाव प्रयतो भूत्वा निर्विशेष विशेषवत् । अद्वयं द्वैतमापन्नं निर्गुणं सगुणात्मकम् ॥ २,४३.२ ॥ राम उवाच प्रकृतिविकृतिजातं विश्वमेतद्विधातुं मम कियदनुभातं वैभवं तत्प्रमातुम् । अविदिततनुनामाभीष्टवस्त्वेकधामाभवदथ भव भामा पातु मां पूर्णकामा ॥ २,४३.३ ॥ प्रकटितगुणाभानं कालसंख्याविधानं सकलभवनिदानं कीर्त्यते यत्प्रधानम् । तदिह निखिलतातः संबभूवोक्षपातः कृतकृतकनिपातः पातु मामद्य मातः ॥ २,४३.४ ॥ दनुजकुलविनाशीलेखपाताविनाशी प्रथमकुलविकाशी सर्वविद्याप्रकाशी । प्रसभरचितकाशी भक्तदत्ताखिलाशीरवतु विजितपाशी मांसदा षण्मुखाशी ॥ २,४३.५ ॥ हरनिकट निवासी कृष्णसेवाविलासी प्रणतजनविभासी गोपकन्याप्रहासी । हरकृतबहुमानो गोपिकेशैकतानो विदितबहुविधानो जायतां कीर्तिहा नौ ॥ २,४३.६ ॥ प्रभुनियतमाना यो नुन्नभक्तान्तरायो त्दृतदुरितनिकायो ज्ञानदातापरायोः । सकलगुणगरिष्ठो राधिकाङ्केनिविष्टो मम कृतमपराधं क्षन्तुमर्हत्वगाधम् ॥ २,४३.७ ॥ या राधा जगदुद्भवस्थितिलयेष्वाराध्यते वा जनैः शब्दं बोधयतीशवक्त्रंविगलत्प्रेमामृतास्वादनम् । रासेशी रसिकेश्वरी रमणत्दृन्निष्ठानिजानन्दिनी नेत्री सा परिपातु मामवनतं राधेति य कीर्त्यते ॥ २,४३.८ ॥ यस्या गर्भसमुद्भवो ह्यतिविराड्यस्यांशभूतो विराट्यन्नाभ्यंबुरुहोद्भवेन विधिनैकान्तोपदिष्टेन वै सृष्टं सर्वमिदं चराचरमयं विश्वं च यद्रोमसु ब्रह्माण्डानि विभान्ति तस्य जननी शश्वत्प्रसन्नास्तु सा ॥ २,४३.९ ॥ पायाद्यः स चराचरस्य जगतो व्यापी विभुः सच्चिदानन्दाब्धिः प्रकटस्थितो विलसति प्रेमान्धया राधया । कृष्णः पूर्णतमो ममोपरि दयाक्लिन्नान्तरः स्तात्सदा येनाहं सुकृती भवामि च भवाम्यानन्दलीनान्तरः ॥ २,४३.१० ॥ वसिष्ठ उवाच स्तुत्वैवं जामदग्न्यस्तु विरराम ह तत्परम् । विज्ञाताखिलतत्त्वार्थो हृष्टरोमा कृतार्थवत् ॥ २,४३.११ ॥ अथोवाच प्रसन्नात्मा कृष्णः कमललोचनः । भार्गवं प्रणतं भक्त्या कृपापात्रं पुरस्थितम् ॥ २,४३.१२ ॥ कृष्म उवाच सिद्धोऽसि भार्गवेन्द्र त्वं प्रसादान्मम संप्रतम् । अद्य प्रभृति वत्सास्मिंल्लोके श्रेष्ठतमो भव ॥ २,४३.१३ ॥ तुभ्यं वरो मया दत्तः पुरा विष्णुपदाश्रमे । तत्सर्वं क्रमतो भाव्यं समा बह्वीस्त्वया विभो ॥ २,४३.१४ ॥ दया विधेया दीनेषु श्रेय उत्तममिच्छता । योगश्च सादनीयो वै शत्रूणां निग्रहस्तथा ॥ २,४३.१५ ॥ त्वत्समो नास्ति लोकेऽस्मिंस्तेजसा च बलेन च । ज्ञानेन यशसा वापि सर्वश्रेष्ठतमो भवान् ॥ २,४३.१६ ॥ अथ स्वगृहमासाद्य पित्रोः शुश्रूषणं कुरु । तपश्चर यथाकालं तेन सिद्धिः करस्थिता ॥ २,४३.१७ ॥ राधोत्संगात्समुत्थाप्य गणेशं राधिकेश्वरः । आलिङ्ग्य गाढं रासेण मैत्रीं तस्य चकार ह ॥ २,४३.१८ ॥ अथोभावपि संप्रीतौ तदा रामगणेश्वरौ । कृष्णाज्ञया महाभागौ बभूवतुररिन्दम ॥ २,४३.१९ ॥ एतस्मिन्नन्तरे देवी राधा कृष्णप्रिया सती । उभाभ्यां च वरं प्रादात्प्रसन्नास्या मुदान्विता ॥ २,४३.२० ॥ राधोवाच । सर्वस्य जगतो वन्द्यौ दुराधर्षौं प्रियावहौ । मद्भक्तौ च विशेषेण भवन्तौ भवतां सुतौ ॥ २,४३.२१ ॥ भवतोर्नाम चौच्चार्य यत्कार्यं यः समारभेत् । सिद्धिं प्रयातु ततसर्वं मत्प्रसादाद्धि तस्य तु ॥ २,४३.२२ ॥ अथोवाच जगन्माता भवानी भववल्लभा । वत्स राम प्रसन्नाहं तुभ्यं कं प्रददे वरम् । तं प्रब्रूहि महाभाग भयं त्यक्त्वा सुदूरतः । राम उवाच जन्मान्त रसहस्रेषु येषुयेषु व्रजाम्यहम् ॥ २,४३.२३ ॥ कृष्णयोर्भवयोर्भक्तो भविष्यामीति देहि मे । अभेदेन च पश्यामि कृष्णौ चापि भवौ तथा ॥ २,४३.२४ ॥ पार्वत्युवाच एवमस्तु महाभाग भक्तोऽसि भवकृष्णयोः । चिरञ्जीवी भवाशु त्वं प्रसादान्मम सुव्रत ॥ २,४३.२५ ॥ अथोवाच धराधीशः प्रसन्नस्तमुमापतिः । प्रणतं भार्गवेन्द्रं तु वरार्हं जगदीश्वरः ॥ २,४३.२६ ॥ शिव उवाच रामभक्तोऽसि मे वत्स यस्ते दत्तो वरो मया । स भविष्यति कार्त्स्येन सत्यमुक्तं न चान्यथा ॥ २,४३.२७ ॥ अद्यप्रभृति लोकेऽस्मिन् भवतो बलवत्तरः । न कोऽपि भवताद्वत्स तेजस्वी च भवत्परः ॥ २,४३.२८ ॥ वसिष्ठ उवाच अथ कृष्णोऽप्यनुज्ञाप्य शिवं च नगनन्दिनीम् । गोलोकं प्रययौ युक्तः श्रीदाम्ना चापि राधया ॥ २,४३.२९ ॥ अथ रामोऽपि धर्मात्मा भवानीं च भवं तथा । संपूज्य चाभिवाद्याथ प्रदक्षिणमुपा क्रमीत् ॥ २,४३.३० ॥ गणेशं कार्त्तिकेयं च नत्वापृच्छ्य च भूपते । अकृतव्रणसंयुक्तो निश्चक्राम गृहान्तरात् ॥ २,४३.३१ ॥ निष्क्रम्यमाणो रामस्तु नन्दीश्वरमुखैर्गणैः । नमस्कृतो ययौ राजन्स्वगृहं परया मुदा ॥ २,४३.३२ ॥ इति श्री ब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमाभागे तृतीय उपोद्धातपादे भार्गवचरिते त्रिचत्वारिंशत्तमोऽध्यायः ॥ ४३॥ _____________________________________________________________ वसिष्ठ उवाच राजन्नेवं भृगुर्विद्वान्पश्यञ्जनपदान्बहून् । समाजगाम धर्मात्माकृतव्रणसमन्वितः ॥ २,४४.१ ॥ निलिल्युः क्षत्त्रियाः सर्वे यत्र तत्र निरीक्ष्य तम् । व्रजन्तं भार्गवं मार्गे प्राणरक्षणतत्पराः ॥ २,४४.२ ॥ अथाससाद राजेन्द्र रामः स्वपितुराश्रमम् । शान्तसत्त्वसमाकीर्णं वेदध्त्रनिनिनादितम् ॥ २,४४.३ ॥ यत्र सिंहा मृगा गावो नागमार्ज्जारमूषकाः । समं च रन्ति संहृष्टा भयं त्यक्त्वा सुदूरतः ॥ २,४४.४ ॥ यत्र धूमं समीक्ष्यैव ह्यग्निहोत्रसमुद्भवम् । उन्नदन्ति मयूराश्च नृत्यन्ति च महीपने ॥ २,४४.५ ॥ यत्र सायन्तने काले सूर्यस्याभिमुखं द्विजैः । जलाञ्जलीन्प्रक्षिपद्भिः क्रियते भूर्चलाविला ॥ २,४४.६ ॥ यत्रान्तेवासिभिर्नित्यं वेदाः शास्त्राणि संहिताः । अभ्यस्यन्ते मुदा युक्तैर्ब्रह्मचर्यव्रते स्थितैः ॥ २,४४.७ ॥ अथ रामः प्रसन्नात्मा पश्यन्नाश्रमसंपदम् । प्रविवेश शनै राजन्नकृतव्रणसंयुतः ॥ २,४४.८ ॥ जयशब्दं नमःशब्दं प्रोच्चरद्भिर्द्विजात्मजैः । द्विजैश्च सत्कृतो रामः परं हर्षमुपागतः ॥ २,४४.९ ॥ आश्रमाभ्यन्तरे तत्र संप्रविश्य निजं गृहम् । ददर्श पितरं रामो जमदग्निं तपोनिधिम् ॥ २,४४.१० ॥ साक्षाद्भृगुमिवासीनं निग्रहानुग्रहक्षमम् । पपात चरणोपान्ते ह्यष्टाङ्गालिङ्गितावनिः ॥ २,४४.११ ॥ रामोऽहं तवा दासोऽस्मि प्रोच्चरन्निति भूपते । जग्राह चरणौ चापि विधिवत्सज्जनाग्रणीः ॥ २,४४.१२ ॥ अथ मातुश्च चरणवभिवाद्य कृताञ्जलिः । उवाच प्रणतो वाक्यं तयोः संहर्षकारणम् ॥ २,४४.१३ ॥ राम उवाच पितस्तव प्रभावेण तपसोऽतिदुरासदः । कार्त्तवीर्यो हतो युद्धे समुत्रबलवाहनः ॥ २,४४.१४ ॥ यस्तेऽपराधं कृतवान्दुष्टमन्त्रिप्रचोदितः । तस्य दण्डो मया दत्तः प्रसह्य मुनिपुङ्गव ॥ २,४४.१५ ॥ भवन्तं तु नमस्कृत्य गतोऽहं ब्रह्मणोंऽतिकम् । तं नमस्कृत्य विधिवत्स्वकार्यं प्रत्यवेदयम् ॥ २,४४.१६ ॥ समामुवाच भगवाञ्छ्रुत्वा वृत्तान्तमादितः । व्रज स्वकार्यसिद्ध्यर्थं शिवलोकं सनातनम् ॥ २,४४.१७ ॥ श्रुत्वाहं तद्वयस्तात नमस्कृत्य पिता महम् । गतवाञ्छिवलोकं वै हरदर्शनकाङ्क्षया ॥ २,४४.१८ ॥ प्रविश्य तत्र भगवन्नुमया सहितः शिवः । नमस्कृतो मया देवो वाञ्छितार्थ प्रदायकः ॥ २,४४.१९ ॥ तदग्रे निखिलः स्वीयो वृत्तान्तो विनिवेदितः । मया समाहितधिया स सर्वं श्रुतवानपि ॥ २,४४.२० ॥ श्रुत्वा विचार्य त त्सर्वं ददौ मह्यं कृपान्वितः । त्रैलोक्यविजयं नाम कवचं सर्वसिद्धिदम् ॥ २,४४.२१ ॥ तल्लब्ध्वा तं नमस्कृत्य पुष्करं समुपागतः । तत्राहं साधयित्वा तु कवचं हृष्टमानसः ॥ २,४४.२२ ॥ कार्त्तवीर्यं निहत्याजौ शिवलोकं पुनर्गतः । तत्र तौ तु मया दृष्टौ द्वारे स्कन्दविनायकौ ॥ २,४४.२३ ॥ तौनमस्कृत्य धर्मज्ञ प्रवेष्टुं चोद्यतोऽभवम् । स मामवेक्ष्य गामपो विशन्तं त्वरयान्वितम् ॥ २,४४.२४ ॥ वारयामास सहसा नाद्यावसर इत्यथ । मम तेन पितस्तत्र वाग्युद्धं हस्तकर्षणम् ॥ २,४४.२५ ॥ सञ्जातपरशुक्षेममतोऽभूद्भृगुनन्दन । स तज्ज्ञात्वा समुद्गृह्य मामधश्चोर्द्ध्वमेव च ॥ २,४४.२६ ॥ करेण भ्रामयामास पुनश्चानीतवांस्ततः । तं दृष्ट्वातिक्रुधा क्षिप्तः कुठारो हि मया ततः ॥ २,४४.२७ ॥ दन्तो निपति,स्तस्य ततो देव उपागतः । पार्वती तत्र रुष्टाभूत्तदा कृष्णः समागतः ॥ २,४४.२८ ॥ राधया सहितस्तेन सानुनीता वरं ददौ । मह्यं कृष्मो जगामाथ तेन मैत्रीं विधाय च ॥ २,४४.२९ ॥ ततः प्रणम्य देवेशौ पार्वतीपरमेश्वरौ । आगतस्तव सान्निध्यमकृतव्रणसंयुतः ॥ २,४४.३० ॥ वसिष्ठ उवाच इत्यक्त्वा भार्गवो रामो विरराम च भूपते । जमदग्निरुवाचेदं रामं शत्रुनिबर्हणम् ॥ २,४४.३१ ॥ जमदग्निरुवाच क्षत्रहत्याभिभूतस्त्वं तावद्दोषोपशान्तये । प्रयश्चित्तं ततस्तावद्यथावत्कर्तुमर्हसि ॥ २,४४.३२ ॥ इत्युक्तः प्राह पितरं रामो मतिमतां वरः । प्रायश्चित्तं तु तद्योग्यं त्वं मे निर्देष्टुमर्हसि ॥ २,४४.३३ ॥ जमदग्निरुवाच व्रतैश्च नियमैश्चैव कर्षयन्देहमात्मनः । शाकमूलफलाहारो द्वादशाब्दं तपश्चर ॥ २,४४.३४ ॥ वसिष्ठ उवाच इत्युक्तः प्रणिपत्यैनं मातरं च भृगूद्वहः । प्रययौ तपसे राजन्नकृतव्रणसंयुतः ॥ २,४४.३५ ॥ स गत्वा पर्वत वरं महेन्द्रमरिकर्षणः । कृत्वाऽश्रमपदं तस्मिंस्तपस्तेपे सुदुश्चरम् ॥ २,४४.३६ ॥ व्रतैस्तपोभिर्नियमैर्देवताराधनैरपि । निन्ये वर्षाणि कति चिद्रामस्तस्मिन्महामनाः ॥ २,४४.३७ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे सगरोपाख्याने भार्गवचरिते चतुश्चत्वारिंशत्तमोऽध्यायः ॥ ४४॥ _____________________________________________________________ वसिष्ठ उवाच ततः कदाचिद्विपिने चतुरङ्गबलान्वितः । मृगयामगमच्छूरः शूरसेनादिभिः सह ॥ २,४५.१ ॥ ते प्रविश्य महारण्यं हत्वा बहुविधान्मृगान् । जग्मुस्तृषार्त्ता मध्याह्ने सरितं नर्मदामनु ॥ २,४५.२ ॥ तत्र स्नात्वा च पीत्वा च वारि नद्या गतश्रमाः । गच्छन्तो ददृशुर्मार्गो जमदग्नेरथाश्रमम् ॥ २,४५.३ ॥ द्दष्ट्वाश्रमपदं रम्यं मुनीनागच्छतः पथि । कस्येदमिति पप्रच्छुर्भाविकर्मप्रचोदिताः ॥ २,४५.४ ॥ ते प्रोचुरतिशान्तात्मा जमदग्नेर्महातपाः । वसत्यस्मिन्सुतो यस्य रामः शस्त्रभृतां वरः ॥ २,४५.५ ॥ तछ्रुत्वा भीरभूत्तेषां रामनामानुकीर्त्तनात् । क्रोधं प्रसङ्यानृशंस्यं पूर्ववैरमनुस्मरन् ॥ २,४५.६ ॥ अथ ते प्रोचुरन्योन्यं पितृहन्तुर्वधात्पितुः । वैर निर्यातनं किं तु करिष्यामो दिशाधुना ॥ २,४५.७ ॥ इत्यक्त्वा खड्गहस्तास्ते संप्रविश्य तदाश्रमम् । प्रजाघ्निरे प्रयातेषु मुनिवीरेषु सर्वतः ॥ २,४५.८ ॥ तं हत्वास्य शिरो हृत्वा निषादा इव निर्दयाः । प्रययुस्ते दुरात्मानः सबलाः स्वपुरीं प्रति ॥ २,४५.९ ॥ पुत्रास्तस्य महात्मानौ दृष्ट्वा स्वपितरं हतम् । परिवार्य महाराज रुरुदुः शोककर्शिताः ॥ २,४५.१० ॥ भर्त्तारं निहतं भूमौ पतितं वीक्ष्य रेणुका । पपात मूर्च्छिता सद्यो लतेवाशनिताडिता ॥ २,४५.११ ॥ सा स्वचेतसि संमूच्छ्य शोकपावकदीपिताः । दूरप्रनष्टसंज्ञेव सद्यः प्राणैर्व्ययुज्यत ॥ २,४५.१२ ॥ अनालपन्त्यां तस्यां तु संज्ञां याता हि ते पुनः । न्यपतन्मूर्च्छिता भूमौ निमग्नाः शोकसागरे ॥ २,४५.१३ ॥ ततस्तपोधना येऽन्ये तत्त पोवनवासिनः । समेत्याश्वासयामासुस्तुल्यदुःखाः सुतान्मुने ॥ २,४५.१४ ॥ सांत्व्यमाना मुनिगणैर्जामदग्न्या यथाविधि । आधक्षुर्वचसा तेषामग्नौ पित्रोः कलेवरे ॥ २,४५.१५ ॥ चक्रुरेव तदूर्द्ध्वं वै यत्कर्त्तव्यमनन्तरम् । पित्रोर्मरणदुःखेन पीड्यमाना दिवानिशम् ॥ २,४५.१६ ॥ ततः काले गते रामः समानां द्वादशावधौ । निवृत्तस्तपसः सख्या सहागादाश्रमं पितुः ॥ २,४५.१७ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे सगरोपाख्याने भार्गवचरिते पञ्चचत्वारिंशत्तमोध्यायः ॥ ४५॥ _____________________________________________________________ वसिष्ठ उवाच सगच्छन्पथि शुश्राव मुनिभ्यस्त त्त्वमादितः । राजपुत्रव्यवसितं पित्रौः स्वर्गतिमेव च ॥ २,४६.१ ॥ पितुस्तु जीवहरणं शिरोहरणमेव च । तन्मृतेरेव मरणं श्रुत्वा मातुश्च केवलम् ॥ २,४६.२ ॥ विललाप महाबाहुर्दुःखशोकसमन्वितः । तमथाश्वासयामास तुल्यदुःखोऽकृतव्रणः ॥ २,४६.३ ॥ हेतुभिः शास्त्रनिर्दिष्टैर्वीर्यसामर्थ्यसूचकैः । युक्तिलौकिकदृष्टान्तैस्तच्छोकं संव्यशामयत् ॥ २,४६.४ ॥ सांत्वितस्तेन मैधावी धृतिमालंब्य भार्गवः । प्रययौ सहितः सख्या भ्रातॄणां तु दिदृक्षया ॥ २,४६.५ ॥ स तान्दृष्ट्वाभिवाद्यैतान्दुःखितान्दुःखकर्शितः । शोकामषयुतस्तैश्च सह त्स्थौ दिनत्रयम् ॥ २,४६.६ ॥ ततोऽस्य सुमाहान्क्रोधः स्मरतो निधनं पितुः । बभूव सहसा सर्वलोकसंहरणक्षमः ॥ २,४६.७ ॥ मातुरर्थे कृतां पूर्वं प्रतिज्ञां सत्यसंगरः । दृढीचकार हृदये सर्वक्षत्रवधोद्यतः ॥ २,४६.८ ॥ क्षत्रवंश्यानशेषेण हत्वा तद्देहलोहितैः । करिष्ये तर्पणं पित्रोरिति निश्चित्य भार्गवः ॥ २,४६.९ ॥ भ्रातॄणां चैव सर्वेषामाख्यायात्मसमीहितम् । प्रययौ तदनुज्ञातः कृत्वा संस्थांपितुः क्रियाम् ॥ २,४६.१० ॥ अकृतव्रणसंयुक्तः प्राप्य माहिष्मतीं ततः । तद्बाह्योपवने स्थित्वा सस्मार स महोदरम् ॥ २,४६.११ ॥ स तस्मै रथचापाद्यं सहसाश्वसमन्वितम् । प्रेषयामास रामाय सर्वसंहननानि च ॥ २,४६.१२ ॥ रामोऽपि रथमारुह्य सन्नद्धः सशरं धनुः । गृहीत्वापूरयच्छङ्खं रुद्रदत्तममित्रजित् ॥ २,४६.१३ ॥ ज्याघोषं च चकारोच्चै रोदसी कंपयन्निव । सहसाहोथ सारथ्यं चक्रे सारथिनां वरः ॥ २,४६.१४ ॥ रथज्याशङ्खनादैस्तु वधात्पित्रोरमर्षिणः । तस्याभून्नगरी सर्वा संक्षुब्धाश्च नरद्विपाः ॥ २,४६.१५ ॥ रामं त्वागतमाज्ञाय सर्वक्षत्रकुलान्तकम् । संक्षुब्धाश्चक्रुरुद्योगं संग्रामाय नृपात्मजाः ॥ २,४६.१६ ॥ अथ पञ्चरथाः शुराः शूरसेनादयो नृप । रामेण योद्धुं सहिता राजभिश्च क्रुरुद्यमम् ॥ २,४६.१७ ॥ चतुरङ्गवलोपेतास्ततस्ते क्षत्रियर्षभाः । राममासादयामासुः पतङ्गा इव पावकम् ॥ २,४६.१८ ॥ निवार्य तानापततो रथेनैकेन भार्गवः । युयुधे पार्थिवैः सर्वैः समरेऽमितविक्रमः ॥ २,४६.१९ ॥ ततः पुनरभूद्युद्धं रामस्य सह राजभिः । जघान यत्र संक्रुद्धो राज्ञां शतमुदारधीः ॥ २,४६.२० ॥ ततः स शूरसेनादीन्हत्वा सबलवाहनान् । त्रणेन पातयामास क्षितौ क्षत्रियमण्डलम् ॥ २,४६.२१ ॥ ततस्ते भग्नसंकल्पा हतस्वबलवाहनाः । हतशिष्टा नृपतयो दुद्रुवुः सर्वतोदिशम् ॥ २,४६.२२ ॥ एवं विद्राव्य सैन्यानि हत्वा जित्वाथ संयुगे । जघान शतशो राज्ञः शूराञ्छरवराग्निना ॥ २,४६.२३ ॥ ततः क्रोधपरीतात्मा दग्धुकामोऽखिलां पुरीम् । उदैरयद्भार्गवोऽस्त्रं कालाग्निसदृशप्रभम् ॥ २,४६.२४ ॥ ज्वालाकवलिताशेषपुरप्राकारमालिनीम् । पुरीं सहस्त्यश्वनरां स ददाहास्त्रपावकः ॥ २,४६.२५ ॥ दह्यमानां पुरीं दृष्ट्वा प्राणत्राणपरायणः । जीवनाय जगामाशु वीतिहोत्रो भयातुरः ॥ २,४६.२६ ॥ अस्त्राग्निना पुरीं सर्वां दग्ध्वा हत्वा च शात्रवान् । प्राशयानोऽखिलान् लोकान् साक्षात्काल इवान्तकः ॥ २,४६.२७ ॥ अकृतव्रणसंयुक्तः सहसाहेन चान्वितः । जगामरथघोषेण कंपयन्निव मेदिनीम् ॥ २,४६.२८ ॥ विनिघ्नन् क्षत्रियान्सर्वान् संशाम्य पृथिवीतले । महेन्द्राद्रिं ययौ रामस्तपसे धतमानसः ॥ २,४६.२९ ॥ तस्मिन्नष्टचतुष्कं च यावत्क्षत्रसमुद्गमम् । प्रत्येत्य भूयस्तद्धत्यै बद्धदीक्षो धृतव्रतः ॥ २,४६.३० ॥ क्षत्रक्षेत्रेषु भूयश्च क्षत्रमुत्पादितं द्विजैः । निजघान पुनर्भूमौ राज्ञ शतसहस्रशः ॥ २,४६.३१ ॥ वर्षद्वयेन भूयोऽपि कृत्वा निःक्षत्रियां महीम् । षट्चतुष्टयवर्षान्तं तपस्तेपे पुनश्च सः ॥ २,४६.३२ ॥ भूयोऽपि राजन् संबुद्धं क्षत्रमुत्पादितं द्विजैः । जघान भूमौ निःशेषं साक्षात्काल इवान्तकः ॥ २,४६.३३ ॥ कालेन तावता भूयः समुत्पन्नं नृपात्त्वयम् । निघ्नंश्चचार पृथिवीं वर्षद्वयमनारतम् ॥ २,४६.३४ ॥ अलं रामेण राजेन्द्र स्मरता निधनं पितुः । त्रिः सप्तकृत्वः पृथिवी तेन निःक्षत्रिया कृता ॥ २,४६.३५ ॥ त्रिःसप्तकृत्वस्तन्माता यदुरः स्वमताडयत् । तावद्रामेण तस्मात्तु क्षत्रमुत्सादितं भुवि ॥ २,४६.३६ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे भार्गवचरिते षट्चत्वारिंशत्त मोऽध्यायः ॥ ४६॥ _____________________________________________________________ वसिष्ठ उवाच ततो मूर्द्धाभिषिक्तानां राज्ञाममिततेजसाम् । षट्सहस्रद्वयं रामो जीवग्राहं गृहीतवान् ॥ २,४७.१ ॥ ततो राजसहस्राणि गृहीत्वा मुनिभिः सह । स जगाम महातेजाः कुरुक्षेत्रं तपोमयम् ॥ २,४७.२ ॥ सरसां पञ्चकं तत्र खानयित्वा भृगुद्वहः । सुखावगाहतीर्थानि तानि चक्रे समन्ततः ॥ २,४७.३ ॥ जघान तत्र वै राज्ञः शरीरप्रभवामृजा । सरांसि तानि वै पञ्च पूरयामास भार्गवः ॥ २,४७.४ ॥ स्नात्वा तेषु यथान्यायं जामदग्नयः प्रतापवान् । पितॄन्संतर्पयामास यथाशास्त्रमतन्द्रितः ॥ २,४७.५ ॥ पितुः प्रेतस्य राजेन्द्र श्राद्धादिकमशेषतः । ब्राह्मणैः सह मातुश्च तत्र चक्रे यथोदितम् ॥ २,४७.६ ॥ एवं तीर्णप्रतीकः स कुरुक्षेत्रे तपोमये । उवासातन्द्रितः सम्यक्पितृपूजापरायणः ॥ २,४७.७ ॥ ततः प्रभृत्यभूद्राजंस्तीर्थानामुत्तमोत्तमम् । विहितं जामदग्न्येन कुरुक्षेत्रे तपोवने ॥ २,४७.८ ॥ सस्यमं तपञ्चकमिति स्थानं त्रैलोक्यविश्रुतम् । यत्र यक्रे भृगुश्रेष्ठः पितॄणां तृप्तिमक्षयाम् ॥ २,४७.९ ॥ स्नानदानतपोहोमद्विजभोजनतर्पणैः । भृशमाप्यायितास्तेन यत्र ते पितरोऽखिलाः ॥ २,४७.१० ॥ अवापुरक्षयां तृप्तिं पितृलोकं च शाश्वतम् । समन्तपञ्चकं नाम तीर्थं लोके परिश्रुतम् ॥ २,४७.११ ॥ सर्वपापक्षयकरं महापुण्योपबृंहितम् । मर्त्यानां यत्र यातानामेनांसि निखिलानि तु ॥ २,४७.१२ ॥ दूरादेवापयास्यन्ति प्रवाते शुष्कपर्णवत् । तत्क्षेत्रचर्यागमनं मर्त्यानामसतामिह ॥ २,४७.१३ ॥ न लभ्यते महाराज जातु जन्मशतैरपि । समन्तपञ्चकं तीर्थं कुरुक्षेत्रेऽतिपावनम् ॥ २,४७.१४ ॥ यत्र स्नातः सर्वतीर्थैः स्नातो भवति मानवः । कृतकृत्यस्ततो रामः सम्यक्पूर्णमनोरथः ॥ २,४७.१५ ॥ उवास तत्र नियतः कञ्चित्कालं महामतिः । ततः संवत्सरस्यान्ते ब्राह्मणैः सहितो वशी ॥ २,४७.१६ ॥ पितृपिण्डप्रदानाय जामदग्न्योऽगमद्गयाम् । ततो गत्वा ततः श्राद्धे यथाशास्त्रमरिन्दमः ॥ २,४७.१७ ॥ ब्राह्मणांस्तर्पयामास पितॄनुद्दिश्य सत्कृतान् । शैवं तत्र परं स्थानं चन्द्रपादमिति स्मृतम् ॥ २,४७.१८ ॥ पितृतृप्तिकरं क्षेत्रं तादृग्लोके न विद्यते । यत्रार्चिताः स्वकुलजैर्यथाशक्ति मनागपि ॥ २,४७.१९ ॥ पितरः पिण्डदानाद्यैः प्राप्स्यन्ति गतिमक्षयाम् । पितॄनुद्दिश्य तत्रासौ तर्प्पितेषु द्विजातिषु ॥ २,४७.२० ॥ ददौ च विधिवत्पिण्डं पितृभक्तिसमन्वितः । ततस्तत्पितरः सर्वे पितृलोकादुपागताः ॥ २,४७.२१ ॥ जगृहुस्तत्कृतां पूजां जमदग्निपुरोगमाः । अथ संप्रीतमनसः समेत्य भृगुनन्दनम् ॥ २,४७.२२ ॥ ऊचुस्तत्पितरः सर्वेऽदृश्या भूत्वान्तरिक्षगाः । पितर ऊचुः महत्कर्म कृतं वीर भवतान्यैः सुदुष्करम् ॥ २,४७.२३ ॥ अस्मानपि यथान्यायं सम्यक्तर्पितवानसि । अस्माकमक्षयां प्रीतिं तथापि त्वं न यच्छसि ॥ २,४७.२४ ॥ क्षत्रहत्यां हि कृत्वा तु कृतकर्माभवद्यतः । क्षेत्रस्यास्य प्रभावेण भक्त्या च तव दर्शनम् ॥ २,४७.२५ ॥ प्राप्ताःस्म पूजिताः किं तु नाक्षय्यफलभागिनः । त्समात्त्वं वीरहत्यादिपापप्रशमनाय हि ॥ २,४७.२६ ॥ प्रायश्चित्तं यथान्यायं कुरु धर्मं च शाश्वतम् । वधाच्च विनिवर्तस्व क्षत्रियाणामतः परम् ॥ २,४७.२७ ॥ पितुर्न्न तेऽपराध्यन्ते न स्वतन्त्रं यतो जगत् । तन्निमित्तं तु मरणं पितुस्ते विहितं पुरा ॥ २,४७.२८ ॥ हन्तुं कं कः समर्थः स्याल्लोके रक्षितुमेव वा । निमित्तमात्रमेवेह सर्वः सर्वस्य चैतयोः ॥ २,४७.२९ ॥ ध्रुवं कर्मानुरूपं ते चेष्टन्ते सर्व एव हि । कालानुवृत्तं बलवान्नृलोको नात्र संशयः ॥ २,४७.३० ॥ बाधितुं भुवि भूतानि भूतानां न विधिं विना । शक्यते वत्स सर्वोऽपि यतः शक्त्या स्वकर्मकृत् ॥ २,४७.३१ ॥ क्षत्रं प्रति ततो रोषं विमुच्यास्मत्प्रियेप्सया । शममा प्नुहि भद्रं ते स ह्यस्माकं परं बलम् ॥ २,४७.३२ ॥ वसिष्ठ उवाच इत्युक्त्वान्तर्दधुः सर्वे पितरो भृगुनन्दनम् । स चापि तद्वचः सर्वं प्रतिजग्राह सादरम् ॥ २,४७.३३ ॥ अकृतव्रणसंयुक्तो मुदा परमया युतः । प्रययौ च तदा रामस्तस्मात्सिद्धवनाश्रमम् ॥ २,४७.३४ ॥ तस्मिन्स्थित्वा भृगुश्रेष्ठो ब्राह्मणैः सहितो नृप । तपसे धृतसंकल्पो बभूव स महामनाः ॥ २,४७.३५ ॥ सरथं सहसाहं च धनुःसंहननानि च । पुनरागमसंकेतं कृत्वा प्रास्थापयत्तदा ॥ २,४७.३६ ॥ ततः स सर्वतीर्थेषु चक्रे स्नानमतन्द्रितः । परीत्यपृथिवीं सर्वां पितृदेवादिबूजकः ॥ २,४७.३७ ॥ एवं क्रमेण पृथिवीं त्रिवारं भुगुनन्दनः । परिचक्राम राजेन्द्र लोकवृत्तमनुव्रतः ॥ २,४७.३८ ॥ ततः स पर्वतश्रेष्ठं महेन्द्रं पुनरप्यथ । जगाम तपसे राजन्बाह्मणैरभिसंवृतः ॥ २,४७.३९ ॥ स तस्मिंश्चिररात्राय मुनि सिद्धनिषेविते । निवासमात्मनो राजन्कल्पयामास धर्मवित् ॥ २,४७.४० ॥ मुनयस्तं तपस्यन्तं सर्वक्षेत्रनिवासिनः । द्रष्टुकामाः समाजग्मुर्नियता ब्रह्मवादिनः ॥ २,४७.४१ ॥ ददृशुस्ते मुनिगणास्तपस्यासक्तमानसम् । क्षात्रं कक्षमशेषेण दग्ध्वा शान्तमिवानलम् ॥ २,४७.४२ ॥ अथ तानागतान्दृष्ट्वा मुनीन्दिव्यांस्तपोमयान् । अर्घ्यादिसमुदाचारैः पूजयामास भार्गवः ॥ २,४७.४३ ॥ कृतकौशलसंप्रश्नपूर्वकाः सुमहोदयाः । तेषां तस्य च संवृत्ताः कथाः पुण्या मनोहराः ॥ २,४७.४४ ॥ ततस्तेषामनुमते मुनीनां भावितात्मनाम् । हयमेधं महायज्ञमाहर्तुमुपचक्रमे ॥ २,४७.४५ ॥ संभृत्य सर्वसंभारानौर्वाद्यैः सहितो नृप । विश्वामित्रभरद्वाजमार्कण्डेयादिभिस्तथा ॥ २,४७.४६ ॥ तेषा मनुमते कृत्वा काश्यपं गुरुमात्मनः । वाजिमेधं ततो राजन्नाजहार महाक्रतुम् ॥ २,४७.४७ ॥ तस्याभूत्काश्यपोऽध्वर्युरुद्गाता गौतमो मुनिः । विश्वामित्रोऽभवद्धोता रामस्य विदितात्मनः ॥ २,४७.४८ ॥ ब्रह्मत्वमकरोत्तस्य मार्कण्डेयो महामुनिः । भरद्वाजाग्निवेश्याद्या वेद वेदाङ्गपारगाः ॥ २,४७.४९ ॥ मुनयश्चक्रुरन्यानि कर्माण्यन्ये यथाक्रमम् । पुत्त्रैः शिष्यैः प्रशिष्यैश्च सहितो भगवान्भृगुः ॥ २,४७.५० ॥ सादस्यमकरोद्राजन्नन्यैश्च मुनिभिः सह । स तैः सहाखिलं कर्म समाप्य भृगुपुङ्गवः ॥ २,४७.५१ ॥ ब्रह्माणं पूजयामास यथावद्गुरुणा सह । अलङ्कृत्य यथान्याय कन्यां रूपवतीं महीम् ॥ २,४७.५२ ॥ पुरग्रामशतोपेतां समुद्रांबरमालिनीम् । आहूय भृगुशार्दूलः सशैलवनकाननाम् ॥ २,४७.५३ ॥ काश्यपाय ददौ सर्वामृते तं शैलमुत्तमम् । आत्मनः सन्निवासार्थं तं रामः पर्यकल्पयत् ॥ २,४७.५४ ॥ ततः प्रभृतिराजेन्द्र पूजयामास शास्त्रतः । हिरण्यरत्नवस्त्रश्वगोगजान्नादिभिस्तथा ॥ २,४७.५५ ॥ पुरा समाप्य यज्ञान्ते तथा चावभृथाप्लुतः । चक्रे द्रव्यपरित्यागं तेषामनुमते तदा ॥ २,४७.५६ ॥ दत्त्वा च सर्वभूतानामभयं भृगुनन्दनः । तत्रापि पर्वतवरे तपश्चर्तुं समारभत् ॥ २,४७.५७ ॥ ततस्तं समनुज्ञाय सदस्या ऋत्विजस्तथा । ययुर्यथागतं सर्वे मुनयः शंसितव्रताः ॥ २,४७.५८ ॥ गतेषु तेषु भगवानकृतव्रणसंयुतः । तपो महत्समास्थाय तत्रैव न्यवसत्सुखी ॥ २,४७.५९ ॥ काश्यपी तु ततो भूमिर्जननाथा ह्यनेकशः । सर्वदुःखप्रशान्त्यर्थं मारीचानुमतेन तु ॥ २,४७.६० ॥ तत्र दीपप्रतिष्ठाख्यव्रतं विष्णुमुखोदितम् । चचार धरणी सम्यक्दुखैर्ःमुक्ताभवच्च सा ॥ २,४७.६१ ॥ इत्येष जामदग्न्यस्य प्रादुर्भाव उदाहृतः । यस्मिञ्श्रुते नरः सर्वपातकैर्विप्रमुच्यते ॥ २,४७.६२ ॥ प्रभावः कार्त्तवीर्यस्य लोके प्रथिततेजसः । प्रसंगात्कथितः सम्यङ्नातिसंक्षेपविस्तरः ॥ २,४७.६३ ॥ एवंप्रभावः स नृपः कार्त्तवीर्योऽभवद्भुवि । न तादृशः पुमात्कश्चिद्भावी भूताथवा श्रुतः ॥ २,४७.६४ ॥ दत्तात्रेयाद्वरं वव्रे मृतिमुत्तमपूरुषात् । यत्पुरा सोऽगमन्मुक्तिं रणे रामेण घातितः ॥ २,४७.६५ ॥ तस्यासीत्पञ्चमः पुत्रः पख्यातो यो जयध्वजः । पुत्रस्तस्य महाबाहुस्तालजङ्घोऽभवन्नृप ॥ २,४७.६६ ॥ अभूत्तस्यापि पुत्राणां शतमुत्तमधन्विनाम् । तालजङ्घाभिधा येषां वीतिहोत्रोऽग्रजोऽभवत् ॥ २,४७.६७ ॥ पुत्रैः सवीतिहोत्राद्यैर्हैहयाद्यैश्च राजभिः । कालं महान्तमवसद्धिमाद्रिवानगह्वरे ॥ २,४७.६८ ॥ यः पूर्वं राम बाणेन द्रवन्पृष्ठेऽभिताडितः । तालजङ्घोऽपतद्भूमौ मूर्छितो गाढवेदनः ॥ २,४७.६९ ॥ ददर्श वीतिहोत्रस्तं द्रवन्दैववशादिव । रथमारोप्य वेगेन पलायनपरोऽभवत् ॥ २,४७.७० ॥ ते तत्र न्यवसन्सर्वे हिमाद्रौ भयपीडिताः । कृच्छ्रं महान्तमासाद्य शाकमूलफलाशनः ॥ २,४७.७१ ॥ ततः शान्तिं गते रामे तपस्यासक्तमानसे । जालजङ्घः स्वकं राज्यं सपुत्रः प्रत्यपद्यत ॥ २,४७.७२ ॥ सन्निवेश्य पुरीं भूयः पूर्ववन्नृपसत्तमः । वसंस्तदा निजं राज्यमापालयदरिन्दमः ॥ २,४७.७३ ॥ सुपुत्रः सानुगबलः पूर्ववैरमनुस्मरन् । अभ्याययौ महाराज तालजङ्घः पुरं तव ॥ २,४७.७४ ॥ चतुरङ्गबलोपेतः कंपयन्निव मेदिनीम् । रुरोदाभ्येत्य नगरीमयोध्यां स महीपतिः ॥ २,४७.७५ ॥ ततो निष्क्रम्य नगरात्फलगुतन्त्रोऽपि ते पिता । युयुधे तैर्नृपैः सर्वैर्वृद्धोऽपि तरुणो यथा ॥ २,४७.७६ ॥ निहतानेकमातगतुरङ्गरथसैनिकः । शत्रुभिर्निर्जितो वृद्धः पलायनपरोऽ भवत् ॥ २,४७.७७ ॥ त्यक्त्वा स नगरं राज्यं सकोशबलवाहनम् । अन्तर्वत्न्या च ते मात्रा सहितो वनमाविशत् ॥ २,४७.७८ ॥ तत्र चौर्वाश्रमोपान्ते निवसन्नचिरादिव । शोकामर्षसमाविष्टो वृद्धभावेन च स्वयम् ॥ २,४७.७९ ॥ विलोक्यमानो मात्रा ते बाष्पगद्गदकण्ठया । अनाथ इव राजेन्द्र स्वर्गलोकमितो गतः ॥ २,४७.८० ॥ ततस्ते जननी राजन्दुःखशोकसमन्विता । चितामारोपयद्भर्तू रुदती सा कलेवरम् ॥ २,४७.८१ ॥ अनशनादिदुःखेन भर्त्तुर्व्यसनकर्शिता । चकाराग्निप्रवेशाय सुदृढां मतिमात्मनः ॥ २,४७.८२ ॥ और्वस्तदखिलं श्रुत्वा स्वयमेव महामुनिः । निर्गत्य चाश्रमात्तां च वारयन्निदमब्रवीत् ॥ २,४७.८३ ॥ न मर्त्तव्यं त्वया राज्ञि सांप्रतं जठरे तव । पुत्रस्तिष्ठति सर्वेषां प्रवरश्चवर्त्तिनाम् ॥ २,४७.८४ ॥ इति तद्वचनं श्रुत्वा माता तव मनस्विनी । विरराम मृतेस्तां तु मुनिः स्वाश्रममानयत् । ततः सा सर्वदुःखानि नियम्य त्वन्मुखांबुजम् ॥ २,४७.८५ ॥ दिदृक्षुराश्रमोपान्ते तस्यैव न्यवसत्सुखम् । सुषाव च ततः काले सा त्वामौर्वाश्रमे तदा ॥ २,४७.८६ ॥ जातकर्मादिकं सर्वं भवतः सोऽकरोन्मुनिः । और्वाश्रमे विवृद्धश्च भवांस्तेनानुकंपितः ॥ २,४७.८७ ॥ त्वयैव विदितं सर्वमतः परमरिन्दम । एवं प्रभावो नृपतिः कार्त्तवीर्योऽभवद्भुवि ॥ २,४७.८८ ॥ व्रतस्यास्य प्रभावेण सर्वलोकेषु विश्रुतः । यद्वंशजैर्जितो युद्धे पिता ते वनमादिशत् ॥ २,४७.८९ ॥ तद्वृत्तान्तमशेषेण मया ते समुदीरितम् । एतच्च सर्वमाख्यातं व्रतानामुत्तमं तव ॥ २,४७.९० ॥ समन्त्रतन्त्रं लोकेषु सर्वलोकफलप्रदम् । न ह्यस्य कर्त्तुर्नृपतेः पुरुषार्थचतुष्टये ॥ २,४७.९१ ॥ भवत्यभीप्सितं किञ्चिद्दर्ल्लभं भुवनत्रये । संक्षेपेण मयाख्यातं व्रतं हैहयभूभुजः । जामदग्न्यस्य च मुने किमन्यत्कथयामि ते ॥ २,४७.९२ ॥ जैमिनिरुवाच ततः स सगरो राजा कृताञ्जलिपुटो मुनिम् ॥ २,४७.९३ ॥ उवाच भगवन्नेतत्कर्तुमिच्छाम्यहं व्रतम् । सम्यक्तमुपदेशेन तत्रानुज्ञां प्रयच्छ मे ॥ २,४७.९४ ॥ कर्मणानेन विप्रर्षे कृतार्थोऽस्मि न संशयः । इत्युक्तस्तेन राज्ञातु तथेत्युक्त्वा महामुनिः ॥ २,४७.९५ ॥ दीक्षयामास राजानं शस्त्रोक्तेनैव वर्त्मना । स दीक्षितो वसिष्ठेन सगरो राजसत्तमः ॥ २,४७.९६ ॥ द्रव्याण्यानीय विधिवत्प्रचचार शुभव्रतम् । पूजयित्वा जगन्नाथं विधिना तेन पार्थिवः ॥ २,४७.९७ ॥ समाप्य च यथायोग्यमनुज्ञाय गुरुं ततः । प्रतिज्ञामकरोद्राजा व्रतमेतदनुत्तमम् ॥ २,४७.९८ ॥ आजीवान्तं धरिष्यामि यत्नेनेति महामतिः । अथानुज्ञाप्य राजानं वसिष्ठो भगवानृषिः ॥ २,४७.९९ ॥ सन्निवर्त्यानुगच्छन्तं प्रजगाम निजाश्रमम् ॥ २,४७.१०० ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे सगरोपाख्याने वसिष्ठगमनं नाम सप्तचत्वारिंशत्तमोऽध्यायः _____________________________________________________________ जैमिनिरुवाच गते तस्मिन्मुनिवरे सगरो राजसत्तमः । अयोध्यायामधिवस्न्पालयामास मेदिनीम् ॥ २,४८.१ ॥ सर्वसंपद्गणोपेतः सर्वधर्मार्थतत्त्ववित् । वयसैव स बालोऽभूत्कर्मणा वृद्धसंमतः ॥ २,४८.२ ॥ तथापि न दिवा भुक्तें शेते वा निशि संस्मरन् । सुदीर्घं निःश्वसित्युष्णमुद्विग्नहृदयोऽनिशम् ॥ २,४८.३ ॥ श्रुत्वा राजा स्वराज्यं निजगुरुमवजित्यारिभिः संगृहीतं मात्रा सार्द्धं प्रयान्तं वनमतिगहनंस्वर्गतं तं च तस्मिन् । शोकाविष्टः सरोषं सकलरिपुकुलोच्छित्तये सत्प्रतिज्ञश्चके सद्यः प्रतिज्ञां परिभवमनलं सोढुमिक्ष्वाकुवंश्यः ॥ २,४८.४ ॥ स कदाचिन्महीपालः कृतकौतुकमङ्गलः । रिपुं जेतुं मनश्चक्रे दिशश्च सकलाः क्रमात् ॥ २,४८.५ ॥ अनेकरथसाहस्रैर्गजाश्वरथसैनिकैः । सर्वतः संवृतो राजा निश्चक्राम पुरोत्तमात् ॥ २,४८.६ ॥ शत्रून्हन्तुं प्रतस्थे निजबलनिवहेनोत्पतद्भिस्तुरङ्गैर्नासत्त्वोर्मिजालाकुलजलनिधिनिभेनाथ षाडङ्गिकेन । मत्तैर्मातङ्गयूथैः सकुलगिरिकुलेनैव भूमण्डलेन श्वेतच्छत्रध्वजौघैरपि शशिसुकराभातखेनैव सार्द्धम् ॥ २,४८.७ ॥ तस्याग्रेसरसैन्ययूथचरणप्रक्षुण्णशैलोच्चयक्षोदापूरितनिम्नभागमवनीपालस्य संयास्यतः । प्रत्येकं चतुरङ्गसैन्यनिकरप्रक्षोदसंभूतभूरेणुप्रावृतिरुत्स्थली समभवद्भूमिस्तु तत्रानिशम् ॥ २,४८.८ ॥ निघ्नन्दृप्ताननेकान्द्विपतुरगरथव्यूहसंभिन्नवीरान्सद्यः शोभां दधानोऽसुरनिकरचमूर्निघ्नतश्चन्द्रमौलिः । दूरादेवाभिशंसन्नरिनगरनिरोधेषु कर्माभिषङ्गे तेषां शीघ्रापयानक्षणमभिदिशति प्राणिधैर्यं विधत्ते ॥ २,४८.९ ॥ विजिगीषुर्दिशो राजा राज्ञो यस्याभियास्यति ॥ २,४८.१० ॥ विषयं स नृपस्तस्य सद्यः प्रणतिमेष्यति । विजित्य नृपतीन्सर्वान्कृत्वा च स्वपदानुगान् ॥ २,४८.११ ॥ संकेत गामिनः कांश्चित्कृत्वा राज्ये न्यवर्त्तत । एवं स विसरन्दिक्षु दक्षिणाभिमुखो नृपः ॥ २,४८.१२ ॥ स्मरन्पूर्वकृतं वैरं हैहयानभ्यवर्त्तत । ततस्तस्य नृपैः सार्द्धं समग्ररथकुञ्जरैः ॥ २,४८.१३ ॥ बभूव हैहयैर्वीरैः संग्रामो रोमहर्षणः । राज्ञां यत्र सहस्राणि स बलानि महाहवे ॥ २,४८.१४ ॥ निजघान महाबाहुः संक्रुद्धः कोसलेश्वरः । जित्वा हैहयभूपालान्भङ्क्त्वा दग्ध्वा च तत्पुरीम् ॥ २,४८.१५ ॥ निःशेषशून्या मकरोद्वैरान्तकरणो नृपः । समग्रबलसंमर्द्दप्रमृष्टाशेषभूतलः ॥ २,४८.१६ ॥ हैहयानामशेषं तु चक्रे राज्यं रजःसमम् । राज्यं पुरीं चापहाय भ्रष्टैश्वर्या हतत्विषः ॥ २,४८.१७ ॥ राजानो हतभूयिष्ठा व्यद्रवन्त समन्ततः । अभिद्रुत्य नृपांस्तांस्तु द्रवमाणान्महीपतिः ॥ २,४८.१८ ॥ जघान सानुगान्मत्तः प्रजाः क्रुद्ध इवान्तकः । ततस्तान्प्रति सक्रोधः सगरः समरेऽरिहा ॥ २,४८.१९ ॥ मुमोचास्त्रं महारौद्रं भार्गवं रीपुभीषणम् । तेनोत्सृष्टातिरौद्रत्रिभुवनभयदप्रस्फुरद्भार्गवास्त्रज्वालादन्दह्यमानावशतनुततयस्ते नृपाः साद्य एव । वाय्वस्त्रावृत्तधूमोद्गमपटलतमोमुष्टदृष्टिप्रसारा भ्रेमुर्भूपृष्टलोठद्बहुलतमरजोगूढमात्रा मुहूर्त्तम् ॥ २,४८.२० ॥ आगनेयास्त्रप्रतापप्रतिहतगतयोऽदृष्टमार्गाः समन्ता द्भूपाला नष्टसंघाः परवशतनवो व्याकुलीभूतचित्ताः । भीताः संत्युक्तवस्त्रायुधकवचविभूषादिका मुक्तकेशा विस्पष्टोन्मत्तभावान्भृश तरमनुकुर्वन्त्यग्रतः शात्रवाणाम् ॥ २,४८.२१ ॥ विजित्य हैहयान्सर्वान्समरे सगरो बली । संक्षुब्धसागराकारः कांबोजानभ्यवर्त्तत ॥ २,४८.२२ ॥ नानावादित्रघोषाहतपटहरवाकर्णनध्वस्तधैर्याः सद्यः संत्यक्तराज्यस्वबलपुरपुरन्ध्रीसमूहा विमूढाः । कांबोजास्तालजङ्घाः शकयवनकिरातादयः साकमेते भ्रेमुर्भूर्यस्त्रभीत्या दिशि दिशि रिपवो यस्य पूर्वापराधाः ॥ २,४८.२३ ॥ भीतास्तस्य नरेश्वरस्य रिपवः केचित्प्रता पानलज्वालामुष्टदृशो विसृज्य वसतिं राज्यं च पुत्रादिभिः । द्विट्सैन्यैः समभिद्रुता वनभुवं संप्राप्य तत्रापि तेऽस्तैमित्यं समुपागता गिरिगुहासुप्तोत्थितेन द्विषः ॥ २,४८.२४ ॥ तालजङ्घान्निहत्याजौ राजा स बलवाहनान् । क्रमेण नाशयामास तद्राज्यमरिकर्षणः ॥ २,४८.२५ ॥ ततो यवनकांबोजकिरातादीननेकशः । निजघान रुषाविष्टः पल्हवान्पारदानपि ॥ २,४८.२६ ॥ हन्यमानास्तु ते सर्वे राजानस्तेन संयुगे । दुद्रुवुः संघशो भीता हतशिष्टाः समन्ततः ॥ २,४८.२७ ॥ युष्माभिर्यस्य राज्यं बहुभिरपत्दृतं तस्य पुत्रोऽधुनाहं हन्तुं वः सप्रतिज्ञं प्रसभमुपगतो वैरनिर्यातनैषी । इत्युच्चैः श्रावयाणो युधि निजचरितं वैरिभिर्नागवीर्यः क्षत्रैर्विध्वंसितेजाः सगरनरपतिः स्मारयामास भूपः ॥ २,४८.२८ ॥ तं दृष्ट्वा राजवर्यं सकलरिपुकुलप्रक्षयोपात्तदीक्षं भीताः स्त्रीबालपूर्वं शरणमभिययुः स्वासुसरक्षणाय । इक्ष्वाकूणां वसिष्ठं कुलगुरुमभितः सप्त राज्ञां कलेषु प्रख्याताः संप्रसूता नृपवररिपवः पारदाः पल्हवाद्याः ॥ २,४८.२९ ॥ वसिष्ठमाश्रमोपान्ते वसंतमृषिभिर्वृतम् । उपगम्याब्रुवन्सर्वे कृताञ्जलिपुटा नृपाः ॥ २,४८.३० ॥ शरणं भंव नो ब्रह्मन्नार्त्तानामभयैषिणाम् । सगरास्त्राग्निनिर्दग्धशरीराणां मुमूर्षताम् ॥ २,४८.३१ ॥ स हन्त्यसमानशेषेण वैरान्तकरणोन्मुखः । तस्माद्भयाद्धि निष्क्रान्ता वयं जीवितकाङ्क्षिणः ॥ २,४८.३२ ॥ विभिन्नराज्यभोगर्द्धिस्वदारापत्यबान्धवाः । केवलं प्राणरक्षार्थं त्वां त्वयं शरणं गतः ॥ २,४८.३३ ॥ न ह्यन्योऽस्ति पुमांल्लोके सौहृदेन बलेन वा । यस्तं निवर्त्तयित्वास्मान्पालयेन्महतो भयात् ॥ २,४८.३४ ॥ त्वं किलार्कान्वयभुवां राज्ञां कुलगुरुर्वृतः । तद्वंशपूर्वजैर्भूपैस्त्वतप्रभावश्च तादृशः ॥ २,४८.३५ ॥ तेनायं सगरोऽप्यद्य गुरुगौरवयन्त्रितः । भवन्निदेशं नात्येति वेलामिव महोदधिः ॥ २,४८.३६ ॥ त्वं नः सुहृत्पिता माता लोकानां च गुरुर्विभो । तस्मादस्मान्महाभाग परित्रातुं त्वमर्हसि ॥ २,४८.३७ ॥ जैमिनिरुवाच इति तेषां वचः श्रुत्वा वसिष्ठो भगवानृषिः । शनैर्विलोकयामास शरणं समुपागतान् ॥ २,४८.३८ ॥ वृद्धस्त्रीबालभूयिष्ठान्हतशेषान्नृपान्वयान् । दृष्ट्वा त्वतप्यद्भगवान्सर्वभूतानुकंपकः ॥ २,४८.३९ ॥ चिरं निरूप्य मनसा तान्विलोक्य च सादरम् । उज्जीवयञ्छनैर्वाचा मा भैष्टेति महामतिः ॥ २,४८.४० ॥ अथावोचन्महाभागः कृपया परयान्वितः । समये स्थापयामास राज्ञस्ताञ्जीवितार्थिनः ॥ २,४८.४१ ॥ भूपव्या कोपदग्धं नृपकुलविहिताशेषधर्मादपेतं कृत्वा तेषां वसिष्ठः समयमवनिपालप्रतिज्ञानिवृत्त्यै । गत्वा तं राजवर्यं स्वयमथ शनकैः सांत्वयित्वा यथावत्सप्राणानामरीणामपगमनविधावभ्यनुज्ञां ययाचे ॥ २,४८.४२ ॥ सक्रोधोऽपि महीपतिर्गुरुवचः संभावयंस्तानरीन्धर्मस्य स्वकुलोचितस्य च तथा वेषस्य संत्यागतः । श्रौतस्मार्त्तविभिन्नकर्मनिरतान्विप्रैश्च दूरोञ्झितान्सासून्केवलमत्यजन्मृतसमानेकैकशः पार्थिवान् ॥ २,४८.४३ ॥ अर्द्धमुण्डाञ्छकांश्चक्रे पल्हवान् श्मश्रुधारिणः । यवनान्विगतश्मश्रून्कांबोजांश्चबुकान्वितान् ॥ २,४८.४४ ॥ एवं विरूपानन्यांश्च स चकार नृपान्वयान् । वेदोक्तकर्मनिर्मुक्तान्विप्रैश्च परिवर्जितान् ॥ २,४८.४५ ॥ कृत्वा संस्थाप्य समये जीवतस्तान्व्य सर्जयत् । ततस्ते रिपवस्तस्य त्यक्तस्वाचारलक्षणाः ॥ २,४८.४६ ॥ व्रात्यतां समनुप्राप्ताः सर्ववर्णविनिन्तिताः । धिक्कृता सततं सर्वेनृशंसा निरपत्रपाः ॥ २,४८.४७ ॥ क्रूराश्च संघशो लोके बभूवुर्म्लेछजातयः ॥ २,४८.४८ ॥ मुक्तास्तेनाथ राज्ञा शकयवनकिरातादयः सद्य एव त्यक्तस्वाचारवेषा गिरिगहनगुहाद्याशयाः संबभूवुः । एता अद्यापि सद्भिः सततमवमता जातयोऽसत्प्रवृत्त्या वर्त्तन्ते दुष्टचेष्टा जगति नरपतेः पालयन्तः प्रतिज्ञाम् ॥ २,४८.४९ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे सगरोपाख्याने सगरप्रतिज्ञापालनं नामाष्टाचत्वारिंशत्तमोऽध्यायः ॥ ४८॥ _____________________________________________________________ जैमिनिरुवाच अथानुज्ञाय सगरो वसिष्ठमृषिसत्तमम् । बलेन महता युक्तो विदर्भानभ्यवर्त्तत ॥ २,४९.१ ॥ ततो विदर्भराट्तस्मै स्वसुतां प्रीतिपूर्वकम् । केशिन्याख्यामनुपमामनुरूपां न्यवेदयत् ॥ २,४९.२ ॥ स तस्या राजशार्दूलो विधिवद्वह्निसाक्षिकम् । शुभे मुहूर्ते केशिन्याः पार्णिं जग्राह भूमिपः ॥ २,४९.३ ॥ स्थित्वा दिनानि कतिचिद्गृहे तस्यातिसत्कृतः । विदर्भराज्ञा संमन्त्र्य ततो गन्तुं प्रजक्रमे ॥ २,४९.४ ॥ अनुज्ञातस्ततस्तेन पारिबर्हैश्च सत्कृतः । निष्क्रम्य तत्पुराद्राजा शूरसेनानुपेयिवान् ॥ २,४९.५ ॥ संभावितस्ततश्चैव यादवैर्मातृसोदरैः । धनौघैस्तर्पितस्तैश्च मधुराया विनिर्ययौ ॥ २,४९.६ ॥ एवं स सगरो राजा विजित्य वसुधामिमाम् । करैश्च स नृपान्सर्वांश्चक्रे संकेतगानपि ॥ २,४९.७ ॥ ततोऽनुमान्य नृपतीन्निजराज्याय सानुगान् । अनुजज्ञे नरपतिः समस्ताननुयायिनः ॥ २,४९.८ ॥ ततो बलेन महाता स्कन्धावारसमन्वितः । शनैरपीडयन्देशान्स्वराज्यमुपजग्मिवान् ॥ २,४९.९ ॥ संभाव्यमानश्च मुहुरुपदाभिरनेकशः । नानाजनपदैस्तूर्ममयोध्यां समुपागमत् ॥ २,४९.१० ॥ तदागमनमाज्ञाय नागरः सकलो जनः । नगरीं तामलञ्चक्रे महोत्सवसमुत्सुकः ॥ २,४९.११ ॥ ततः सा नगरी सर्वा कृतकौतुकमङ्गला । सिक्तसंमृष्टभूभागा पूर्णकुम्भशतावृता ॥ २,४९.१२ ॥ समुच्छ्रितध्वजशता पताकाभिरंलकृता । सर्वत्रागरुधूपाञढ्या विचित्रकुसुमोज्ज्वला ॥ २,४९.१३ ॥ सद्रत्नतोरणोत्तुङ्गगोपुराट्टलभूषिता । प्रसूनलाजवर्षैश्च स्वलङ्कृतमहापथा ॥ २,४९.१४ ॥ महोत्सवसमायुक्ता प्रतिगेहमभूत्पुरी । संबूजिताशेषवास्तुदेवतागृहमालिनी ॥ २,४९.१५ ॥ दिक्चक्रजयिनो राज्ञः संदर्शनमुदान्वितैः । पौरजानपदैर्त्दृष्टैः सर्वतः समलङ्कृता ॥ २,४९.१६ ॥ ततः प्रकृतयः सर्वे तथान्तः पुरवासिनः । वारकाताकदबैश्च नगरीभिश्च सवृताः ॥ २,४९.१७ ॥ अभ्याययुस्ततः सर्वे समत्य पुरवासिनः । स तैः समेत्य नृपतिर्लब्धाशीर्वाद सक्त्क्रियः ॥ २,४९.१८ ॥ बधिरीकृतदिक्चक्रो जयशब्देन भूरिणा । नानावादित्रसंघोषमिश्रेण मधुरेण च ॥ २,४९.१९ ॥ सत्कृत्य तान्यथा योगं सहितस्तैर्मुदान्वितैः । आनन्दयन्प्रजाः सर्वाः प्रविवेश पुरोत्तमम् ॥ २,४९.२० ॥ वेदघोषैः सुमधुरैर्ब्राह्मणैरभिनन्दितः । संस्तूयमानः सुभृशं सूतमागधवन्दिभिः ॥ २,४९.२१ ॥ जयशब्दैश्च परितो नानाजनपदेरितैः । कलतालरवोन्मिश्रवीणावेणुतलस्वनैः ॥ २,४९.२२ ॥ गायद्भिर्गायकजनैर्नृत्यद्भिर्गणिकाजनैः । अन्वीयमानो विलसच्छ्वेतच्छत्रविराजितः ॥ २,४९.२३ ॥ विकीर्यमाणः परितः सल्लाजकुसुमोत्करैः । पुरीमयोध्यामविशत्स्वपुरीमिव वासवः ॥ २,४९.२४ ॥ दृष्टिपूतेन गन्धेन ब्राह्मणानां च वर्त्मना । जगाम मध्येनगरं गृहं श्रीमदलङ्कृतम् ॥ २,४९.२५ ॥ अवरुह्य ततो यानाद्भार्याभ्यां सहितो मुदा । प्रविवेश गृहं मातुर्हृष्टपुष्टजनायुतम् ॥ २,४९.२६ ॥ पर्यङ्कस्थामुपागम्य मातरं विनयान्वितः । तत्पादौ संस्पृशन्मूर्ध्ना प्रणाममकरोत्तदा ॥ २,४९.२७ ॥ साभिनन्द्य तमाशीर्भिर्हर्षगद्गदया गिरा । ससंभ्रमं समुत्थाय पर्यष्वजत चात्मजम् ॥ २,४९.२८ ॥ सहर्षं बहुधाशीर्भिरभ्यनन्ददुभे स्नुषे । स तां संभाव्य कथया तत्र स्थित्वा चिरादिव ॥ २,४९.२९ ॥ अनुज्ञातस्तया राजा निश्चक्राम तदालयात् । ततः सानुचरो राजा श्वेतव्यजनवीजितः ॥ २,४९.३० ॥ सुरराज इव श्रीमान्सभां समगमच्छनैः । संप्रविश्य सभां दिव्यामनेकनृपसेविताम् ॥ २,४९.३१ ॥ नत्वा गुरुजनं सर्वमाशीर्भिश्चाभिनन्दितः । सिंहासने शुभे दिव्ये निषसाद नरेश्वरः ॥ २,४९.३२ ॥ संसेव्यमानश्च नृपैर्नानाजनपदेश्वरैः । नानाविधाः कथाः कुर्वन्स तत्र नृपसत्तमः ॥ २,४९.३३ ॥ संप्रीयमामः सुतरामुवास सह बन्धुभिः । प्रतिज्ञां पालयित्वैवं जितदिङ्मण्डलो नृपः ॥ २,४९.३४ ॥ अन्वतिष्ठद्यन्थान्याय मर्थत्रयमुदारधीः । स्वप्रभावजिताशेषवैरिर्दिङ्मण्डलाधिपः ॥ २,४९.३५ ॥ एकातपत्रां पृथिवीमन्वशासद्वृषो यथा । स्वर्यातस्य पितुः पूर्वं परिभावममर्षितः ॥ २,४९.३६ ॥ स यां प्रतिज्ञामारूढस्तां सम्यक्परिपूर्य च । सप्तद्वीपाब्धिनगरग्रामायतनमालिनीम् ॥ २,४९.३७ ॥ जित्वा शत्रूनशेषेण पालयामास मेदिनीम । एवं गच्छति काले च वसिष्ठो भगवानृषिः ॥ २,४९.३८ ॥ अभ्यजगाम तं भूयो द्रष्टुकामो जरेश्वरम् । तमायान्तमतिप्रेक्ष्य मुनिवर्यं ससंभ्रमः ॥ २,४९.३९ ॥ प्रत्युज्जगामार्घहस्तः सहितस्तैर्नपैर्नृपः । अर्ध्यपाद्यादिभिः सम्यक्पूजयित्वा महामतिः ॥ २,४९.४० ॥ प्रणाममकरोत्तस्मै गुरुभक्तिसमन्वितः । आशीर्भिर्वर्द्धयित्वा तं वसिष्ठः सगरं तदा ॥ २,४९.४१ ॥ आस्यतामिति होवाच सह सर्वैर्नरेश्वरैः । उपाविशत्ततो राजा काञ्चने परमासने ॥ २,४९.४२ ॥ मुनिना समनुज्ञातः सभार्यः सह राजभिः । आपवस्तुनृपश्रेष्ठमुपासीनमुपह्वरे ॥ २,४९.४३ ॥ उवाच शृण्वतां राज्ञां शनैर्मृद्वक्षरं वचः । वसिष्ठ उवाच कुशलं ननु ते राजन्वाह्येष्वाभ्यन्तरेषु च ॥ २,४९.४४ ॥ मन्त्रिष्वमात्यवर्गेषु राज्ये वा सकलेऽधुना । दिष्ट्या च विजिताः सर्वे समग्रबलवाहनाः ॥ २,४९.४५ ॥ अयत्नेनैव युद्धेषु भवता रिपवो हि यत् । दिष्ट्यारूढप्रतिज्ञेन मम मानयता वचः ॥ २,४९.४६ ॥ अरयस्त्यक्तधर्माणस्त्वया जीवविसर्जिताः । तान्विजित्येतराञ्जेतुं पुनर्दिग्विजयेच्छया ॥ २,४९.४७ ॥ गतस्सवाहनबलस्त्वमित्यशृणवं वचः । जितदिङ्मण्डलं भूयः श्रुत्वा त्वां नगरस्थितम् ॥ २,४९.४८ ॥ प्रीत्याहमागतो द्रष्टुमिदानीं राजसत्तम । जैमिनिरुवाच वसिष्ठेनैवमुक्तस्तु सगरस्तालजङ्घजित् ॥ २,४९.४९ ॥ कृताञ्जलिपुटो भूत्वा प्रत्युवाच महामुनिम् । सगर उवाच कुशलं ननु सर्वत्र महर्षे नात्र संशयः ॥ २,४९.५० ॥ कल्याणाभिमुखाः सर्वे देवताश्च मुनेऽनिशम् । भवान्ध्यायति कल्याणं मनसा यस्य संततम् ॥ २,४९.५१ ॥ तस्य मे चोपसर्गाश्च संभवन्ति कथं मुने । भवतानुगृहीतोऽस्मि कृतार्थश्चाधुना कृतः ॥ २,४९.५२ ॥ यन्मां द्रष्टुमिहायातः स्वयमेव भवान्गुरो । यन्मह्यमाह भगवान्विपक्षविजयादिकम् ॥ २,४९.५३ ॥ तत्तथानुष्ठितं किं तु सर्वं भवदनुग्रहात् । भवत्प्रसादतः सर्वं मन्ये प्राप्तं महीक्षिताम् ॥ २,४९.५४ ॥ अन्यथा मम का शक्तिः शत्रून्हन्तुं तथाविधान् । अनल्पी कुरुते फल्यं यन्मे व्यवसितं भवान् ॥ २,४९.५५ ॥ फलमल्पमपि प्रीत्यै स्यादगस्याधिरोपितुः । जैमिनिरुवाच एवं संभावितः सम्यक्सगेरण महामुनिः ॥ २,४९.५६ ॥ अभ्यनुज्ञाय तं भूयः प्रजागाम निजाश्रमम् । वसिष्टे तु गते राजा सगरःप्रीतमानसः ॥ २,४९.५७ ॥ अयोध्यायामभिवसन्प्रशशासाखिलां भुवम् । भार्याभ्यां समुपेताभ्यां रूपशीलगुणादिभिः ॥ २,४९.५८ ॥ बुभुजे विषयान्रम्यान्यथाकामं यथासुखम् । सुमतिः केशिनी चोभे विकसद्वदनांबुजे ॥ २,४९.५९ ॥ रूपौदार्यगुणोपेते पीनवृत्तपयोधरे । नीलकुञ्चितकेशाढ्ये सर्वाभरणभूषिते ॥ २,४९.६० ॥ सर्वलक्षणसंपन्ने नवयौवनगोचरे । प्रिये सन्निहिते तस्य नित्यं प्रियहिते रते ॥ २,४९.६१ ॥ स्वाचारभावचेष्टाभिर्जह्रतुस्तन्मनोऽनिशम् । स चापि भरणोत्कर्षप्रतीतात्मा महीपतिः ॥ २,४९.६२ ॥ रममाणो यथाकामं सह ताभ्यां पुरेऽवसत् । अन्येषां भुवि राज्ञां तु राजशब्दो न चाप्यभूत् ॥ २,४९.६३ ॥ गुणेन चाभवत्तस्य सगरस्य महात्मनः । अल्पोऽपि धर्मः सततं यथा भवति मानसे ॥ २,४९.६४ ॥ रा५ तस्यार्थकामौ तु न तथा विपुलावपि । अलुब्धमानसोर्ऽथं च भेजे धर्ममपीडयन् ॥ २,४९.६५ ॥ तदर्थमेव राजेन्द्र कामं चापीडयंस्तयोः ॥ २,४९.६६ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे सगरदिग्विजयो नामैकोनपञ्चाशत्तमोऽध्यायः ॥ ४९॥ _____________________________________________________________ जैमिनिरुवाच एवं स राजा विधिवत्पालयामास मेदिनीम् । सप्तद्वीपवतीं सम्यक्साक्षाद्धर्म इवापरः ॥ २,५०.१ ॥ ब्राह्मणादींस्तथा वर्णान्स्वेस्वे धर्मे पृथक्पृथक् । स्थापयित्वा यथान्यायं ररक्षाव्याहतेन्द्रियः ॥ २,५०.२ ॥ प्रजाश्च सर्ववर्णेषु यथाश्रेष्ठानुवर्त्तिनः । वर्णाश्चैवानुलोम्येन तद्वदर्थेषु च क्रमात् ॥ २,५०.३ ॥ न सति स्थविरे बालं मृत्युरभयुपगच्छति । सर्ववर्णेषु भूपाले महीं तस्मिन्प्रशासति ॥ २,५०.४ ॥ स्फीतान्यपेतबाधानि तदा राष्ट्राणि कृत्स्नशः । तेष्वसंख्या जनपदाश्चातुर्वर्ण्यजनावृताः ॥ २,५०.५ ॥ ते चासंख्यागृहग्रामशतोपेता विभागशः । देशाश्चावासभुयिष्टा नृपे तस्मिन्प्रशासति ॥ २,५०.६ ॥ अनाश्रमी द्विजः कश्चिन्न बभूव तदाभुवि । प्रजानां सर्ववर्णेषु प्रारंभाः फलदायिनः ॥ २,५०.७ ॥ स्वोचितान्येव कर्माणि प्रारभन्ते च मानवाः । पुरुषार्थोपपन्नानि कर्माणि च तदा नृणाम् ॥ २,५०.८ ॥ महोत्सवसमुद्युक्ताः पुरग्रामव्रजाकराः । अन्योन्यप्रियकामाश्च राजभक्तिसमन्विताः ॥ २,५०.९ ॥ ननिन्दितोऽभिशस्तो वा दरिद्रो व्याधितोऽपि वा । प्रजासु कश्चिल्लुब्धो वा कृपणो वापि नाभवत् ॥ २,५०.१० ॥ जनाः परगुणप्रीताः स्वसंपर्काभिकाङ्क्षिणाः । गुरुषु प्रणता नित्यं सद्विद्याव्यसनादृताः ॥ २,५०.११ ॥ परापवादभीताश्च स्वदाररतयोऽनिशम् । निसर्गात्खलसंसर्गविरता धर्मतत्पराः ॥ २,५०.१२ ॥ आस्तिकाः सर्वशोऽभूवन् प्रजास्तस्मिन्प्रशासति । एवं सुबाहुतन्ये स्वप्रतापार्जितां महीम् ॥ २,५०.१३ ॥ ऋतवश्च महाभाग यथाकालानुवर्तिनः । शालिभूयिष्ठसस्याढ्या सदैव सकला मही ॥ २,५०.१४ ॥ बभूव नृपशार्दूले तस्मिन् राज्यानि शासति ॥ २,५०.१५ ॥ यस्याष्टादशमण्डलाधिपतिभिः सेवार्थमभ्यागतैः प्रख्यातोरुपराक्रमैर्नृपशतैर्मूर्द्धाभिषिक्तैः पृथक् । संविष्टैर्मणिविष्टरेषु नितरामध्यास्यमानामरैः शक्रस्येव विराजते दिवि सभा रत्नप्रभोद्भासिता ॥ २,५०.१६ ॥ संकेताविषयान्तराभ्युपगमाः सर्वेऽपि सोपायनाः कृत्वा सैन्यनिवेशनानि परितः पुर्याः पृथक्पार्थिवाः । द्रष्टुं काङ्क्षितराजकाः सतनयाविज्ञापयन्तो मुहुर्द्वास्थैरेव नरेश्वराय सुचिरं वत्स्यन्तमन्तःपुरे ॥ २,५०.१७ ॥ नमन्नरेद्रमुकुटश्रेणीनामतिघर्षणात् । किणीकृतौ विराजेते चरणौ तस्य भूभुजः ॥ २,५०.१८ ॥ सेवागतनरेद्रौघविनिकीर्णैः समन्ततः । रत्नैर्भाति सभा तस्य गुहा सोमे रवी यथा ॥ २,५०.१९ ॥ एवं स राजा धर्मेण भानुवंशशिखामणिः । अनन्यशासनामुर्वीमन्वशासदरिन्दमः ॥ २,५०.२० ॥ इत्थं पालयतः पृथ्वीं सगरस्य महीपतेः । न चापपात मुत्पुत्रमुखालोकनजृंभिता ॥ २,५०.२१ ॥ विना तां दुःखितोऽत्यर्थं चितयामास नैकधा । अहो कष्टमपुत्रोऽहमस्मिन्वंशे ध्रुवं तु यत् ॥ २,५०.२२ ॥ प्रयान्ति नूनमस्माकं पितरः पिण्डविप्लवम् । निरयादपि सत्पुत्रे संजाते पितरः किल ॥ २,५०.२३ ॥ प्रीत्या प्रयान्ति तद्गेहं जातकर्मक्रियोत्सुकाः । महता सुकृतेनापि संप्राप्तस्य दिवं किल ॥ २,५०.२४ ॥ अपुत्रस्यामराः स्वर्गे द्वारं नोद्धाटयन्ति हि । पिता तु लोकमुभयोः स्वर्लोकं तत्पितामहाः ॥ २,५०.२५ ॥ जेष्यन्ति किल सत्पुत्रे जाते वंशद्वयेऽपि च । अनपत्यतयाहं तु पुत्रिणां या भवेद्गतिः ॥ २,५०.२६ ॥ न तां प्राप्क्यामि वै नूनं सुदुर्लभतरा हि सा । पदादैन्द्रात्किलाभिन्नमृद्धं राज्यमखण्डितम् ॥ २,५०.२७ ॥ मम यत्तदपुण्यस्य याति निष्फलतामिह । इदं मत्पूर्वजैरेव सिंहासनमधिष्ठितम् ॥ २,५०.२८ ॥ अपुत्रत्वेन राज्यं च पराधीनत्वमेष्यति । तस्मादौर्वाश्रममहं गत्वा तं मुनिपुङ्गवम् ॥ २,५०.२९ ॥ प्रसादयिष्ये पुत्रार्थं भार्याभ्यां सहितोऽधुना । गत्वा तस्मै त्वपुत्रत्वं विनिवेद्य महात्मने ॥ २,५०.३० ॥ स यद्वक्ष्यति तत्सर्वं करिष्ये नात्र संशयः । इति सञ्चिन्त्य मनसा सगरोराजसत्तमः ॥ २,५०.३१ ॥ इत्येष कृत्यविद्राजन्गन्तुमौर्वाश्रमं प्रति । स मन्त्रिप्रवरे राज्यं प्रतिष्ठाप्य ततो वनम् ॥ २,५०.३२ ॥ प्रययौ रथमारुह्य भार्याभ्यां सहितो मुदा । जगाम रथघोषेण मेघनादातिशङ्किभिः ॥ २,५०.३३ ॥ स्तब्धेक्षणैर्लक्ष्यमाणो मार्गोपान्ते शिखण्डिभिः । प्रियाभ्यां दर्शयन्राजन्सारङ्गांस्तिमितेक्षणान् ॥ २,५०.३४ ॥ क्षममूर्ध्वमुखान्सद्यः पलायनपरान्पुनः । वृक्षान्पुष्पफलोपेतान्विलोक्य मुदितोऽभवत् ॥ २,५०.३५ ॥ अम्लानकुसुमैः स्वादुफलैः शाद्वलभूमिकैः । सुस्निग्धपल्लवच्छायैरभितः संभृतं नगैः ॥ २,५०.३६ ॥ चूताग्रपल्लवास्वादस्निग्धकण्ठपिकारवैः । श्रोत्राभिरामजनकैस्संघुष्टं सर्वतोदिशम् ॥ २,५०.३७ ॥ सर्वर्तुकुसुमोपेतं भ्रमद्भ्रमरमण्डितम् । प्रसूनस्तबकानम्रबल्लरीवेल्लितद्रुमम् ॥ २,५०.३८ ॥ कपियूथसमाक्रान्तव नस्पतिशतावृतम् । उन्मत्तशिखिसारङ्गकूजत्पक्षिगणान्वितम् ॥ २,५०.३९ ॥ गायद्विद्याधरवधूगीतिकासुमनोहरम् । संचरत्किन्नरीद्वन्द्वविराजद्वनगह्वरम् ॥ २,५०.४० ॥ हंससारसचक्राह्वकारण्डवशुकादिभिः । सुस्वरैरावृतोपान्तैः सरोभिः परिवारितम् ॥ २,५०.४१ ॥ सरः स्वंबुज कह्लारकुमुदोत्पलराशिषु । शनैः परिवहन्मन्दमारुतापूर्णदिङ्मुखम् ॥ २,५०.४२ ॥ एवंविधगुणोपेतमधिगाह्य तपोवनम् । गच्छन्रथेनाथ नृपः प्रहर्षं परमं ययौ ॥ २,५०.४३ ॥ उपशान्ताशयः सोऽथ संप्राप्याश्रममण्डलम् । भार्याभ्यां सहितः श्रीमान्वाहादवरुरोह वै ॥ २,५०.४४ ॥ धुर्यान्विश्रामयेत्युक्त्वा यन्तारमवनीपतिः । आससादाश्रमोपान्तं महर्षेर्भावितात्मनः ॥ २,५०.४५ ॥ स श्रुत्वा मुनिशिष्येभ्यः कृतनित्यक्रियादरम् । मुनिं द्रष्टुं विनीतात्मा प्रविवेशाश्रमं तदा ॥ २,५०.४६ ॥ मुनिमध्ये समासीनमृषिवृन्दैः समन्वितम् । ननाम शिरसा राजा भार्याभ्यां सहितो मुदा ॥ २,५०.४७ ॥ कृतप्रणामं नृपतिमृषिरौर्वः प्रतापवान् । उपविशेति प्रेम्णा वै सह ताभ्यां समादिशत् ॥ २,५०.४८ ॥ अर्घ्यपाद्यादिभिः सम्यक्पूजयित्वा महामुनिः । आतिथ्येन च वन्येन सभार्यं तमतोषयत् ॥ २,५०.४९ ॥ अथातिथ्योपविश्रान्तं प्रणम्या सीनमग्रतः । राजानमब्रवीदौर्वः शनैर्मृद्वक्षरं वचः ॥ २,५०.५० ॥ कुशलं ननु ते राज्ये बाह्येष्वाभ्यन्तरेषु च । अपिधर्मेण सकलाः प्रजास्त्वं परिरक्षसि ॥ २,५०.५१ ॥ अपि जेतुं त्रिवर्गं त्वमुपायैः सम्यगीहसे । फलन्ति हि गुणास्तुभ्यं त्वया सम्यक्प्रचोदिताः ॥ २,५०.५२ ॥ दिष्ट्यात्वया जिताः सर्वे रिपवो नृपसत्तम । दिष्ट्या च सकलं राज्यं त्वया धर्मेण रक्ष्यते ॥ २,५०.५३ ॥ धर्म एव स्थितिर्येषां तेषां नास्त्यत्रविप्लवः । न तं रक्षति किं धर्मः स्वयं येनाभिरक्षितः ॥ २,५०.५४ ॥ पूर्वमेवाहमश्रौषं विजित्य सकलां महीम् । सबलोनगरीं प्राप्तः कृतदारो भवानिति ॥ २,५०.५५ ॥ राज्ञां तु प्रवरो धर्मो यत्प्रजापरिपालनम् । भवन्ति सुखिनो नूनं तेनैवेह परत्र च ॥ २,५०.५६ ॥ स भवान्राज्य भरणं परित्यज्य मदन्तिकम् । भार्याभ्यां सहितो राजन्समायातोऽसि मे वद ॥ २,५०.५७ ॥ जैमिनिरुवाच एवमुक्तस्तु मुनिना सगरो राजसत्तमः । कृताञ्जलिपुटो भूत्वा प्राह तं मधुरं वचः ॥ २,५०.५८ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे सगरस्यौर्वाश्रमगमनं नाम पञ्चशत्तमोऽध्यायः ॥ ५०॥ _____________________________________________________________ सगर उवाच कुशलं मम सर्वत्र महर्षे नात्र संशयः । यस्य मे त्वमनुध्याता शमं भार्गवसत्तमः ॥ २,५१.१ ॥ यस्तथा शिक्षितः पूर्वमस्त्रे शस्त्रे च सांप्रतम् । सोऽहं कथमशक्तः स्यां सकलारिविनिग्रहे ॥ २,५१.२ ॥ त्वं मे गुरुः सुहृद्दैवं बन्धुर्मित्रं च केवलम् । न ह्यन्यमभिजानामि त्वामृते पितरं च मे ॥ २,५१.३ ॥ त्वयोपदिष्टेनास्त्रेण सकला भूभृतो मया । विजिता यदनुस्मृत्या शक्तिः सा तपसस्तव ॥ २,५१.४ ॥ तपसा त्वं जगत्सर्वं पुनासि परिपासि च । स्रष्टुं संहर्त्तुमपि च शक्नोष्येव न संशयः ॥ २,५१.५ ॥ महाननन्यसामान्यप्रभावस्तपसश्च ते । इह तस्यैकदेशोऽपि दृश्यते विस्मयप्रदः ॥ २,५१.६ ॥ पश्यसिंहासने बाल्यादुपेत्य मृगपोतकः । पिबत्यंभः शनैर्ब्रह्मन्निःशङ्कं ते तपोवने ॥ २,५१.७ ॥ धयत्यत्रातिविस्रंभात्कृशापि हरिणी स्तनम् । करोति मृगशृङ्गाग्रे गण्डकण्डूयनं रुरुः ॥ २,५१.८ ॥ नवप्रसूतां हरिणीं हत्वा वृत्त्यै वनान्तरे । व्याघ्री त्वत्तपसावासे सैव पुष्णाति तच्छिशून् ॥ २,५१.९ ॥ गजं द्रुतमनुद्रुत्य सिंहो यस्मादिदं वनम् । प्रविष्टोऽनुसरन्तौ त्वद्भयादेकत्र तिष्ठतः ॥ २,५१.१० ॥ नकुलस्त्वाशुमार्जारमयूरशशपन्नगाः । वृकसूकरशार्दूलशरभर्क्षप्लवङ्गमाः ॥ २,५१.११ ॥ सृगाला गवयागावो हरिणा महिषास्तथा । वनेऽत्र सहजं वैरं हित्वा मैत्रीमुपागताः ॥ २,५१.१२ ॥ एवंविधा तपःशक्तिर्लोकविस्मयदायिनी । न क्वापि दृश्यते ब्रह्मंस्त्वामृते भुवि दुर्लभा ॥ २,५१.१३ ॥ अहं तु त्वत्प्रसादेन विजित्य वसुधामि माम् । रिपुभिः सह विप्रर्षे स्वराज्यं समुपागतः ॥ २,५१.१४ ॥ वश्यामात्यस्त्रिवर्गेऽपि यथायोग्यकृतादरः । त्वयोपदिष्टमार्गेण सम्यग्राज्यमपालयम् ॥ २,५१.१५ ॥ एवं प्रवर्त्तमानस्य मम राज्येऽवतिष्ठतः । भवद्दिदृक्षा संजाता सापेक्षा भृगुपुङ्गव ॥ २,५१.१६ ॥ किं त्वद्य मयि पर्याप्तमनपत्यतयैव मे । पितृपिण्डप्रदानेन सह संरक्षणं भुवः ॥ २,५१.१७ ॥ तदिदं दुःशमत्यर्थमनिवार्यं मनोगतम् । नानयोऽपहर्त्तां लोकंऽस्मिन्ममेति त्वामुपागतः ॥ २,५१.१८ ॥ इत्युक्तः सगरेणाथ स्थित्वा सोऽतर्मनाः क्षणम् । उवाच भगवानौर्वः सनिदेशमिदं वचः ॥ २,५१.१९ ॥ नियम्य सह भार्याभ्यां किञ्चित्कालमिहावस । अवाप्स्यति ततोऽभीष्टं भवान्नात्र विचारमा ॥ २,५१.२० ॥ स च तत्रावसत्प्रीतस्तच्छुश्रूषापरायमः । पत्नीभ्यां सह धर्मात्मा भक्तियुक्तश्चिरं तदा ॥ २,५१.२१ ॥ राजपत्न्यौ च ते तस्य सर्वकालमतन्द्रिते । मुनेरतनुतां प्रीतिं विनयाचारभक्तिभिः ॥ २,५१.२२ ॥ भक्त्या शुश्रूषया चैव तयोस्तुष्टो महामुनिः । राजपत्न्यौ समाहूय इदं वचनम ब्रवीत् ॥ २,५१.२३ ॥ भवत्यौ वरमस्मत्तो व्रियतां काममीप्सितम् । दास्यामि तं न संदेहो यद्यपि स्यात्सुदुर्ल्लभम् ॥ २,५१.२४ ॥ ततः प्रणम्यशिरसा तेऽप्युभे तं महामुनिम् । ऊचतुर्भगवान्पुत्रान्कामयावेति सादरम् ॥ २,५१.२५ ॥ ततस्ते भगवानाह भवतीभ्यां मया पुनः । राज्ञश्चप्रियकामेन वरो दत्तोऽयमीप्सितः ॥ २,५१.२६ ॥ पुत्रवत्यौ महाभागे भवत्यौ मत्प्रसादतः । भवेतां ध्रुवमन्यच्च श्रूयतां वचनं मम ॥ २,५१.२७ ॥ पुत्रो भविष्यत्येकस्यामेकः सोऽनतिधार्मिकः । तथापि तस्य कल्पान्तं संभूतिश्च भविष्यति ॥ २,५१.२८ ॥ षष्टिः पुत्रसहस्राणामपरस्यां च जायते । अकृतार्थाश्च ते सर्वे विनङ्क्ष्यन्त्यचिरादिव ॥ २,५१.२९ ॥ एवंविधगुणेपेतो वरौ दत्तौ मया युवाम् । अभीप्सितं तु यद्यस्याः स्वेच्छया तत्प्रकीर्त्यताम् ॥ २,५१.३० ॥ एवमुक्ते तु मुनिना वैदर्भ्यान्वयवर्द्धनम् । वरयामास तनयं पुत्रानन्यास्तथा परा ॥ २,५१.३१ ॥ इति दत्त्वा वरं राज्ञे सगराय महामुनिः । सभार्यामनुमान्यैनं विससर्ज पुरीं प्रति ॥ २,५१.३२ ॥ मुनिना समनुज्ञातः कृत कृत्यो महीपतिः । रथमारुह्य वेगेन सप्रियः प्रययौ पुरीम् ॥ २,५१.३३ ॥ स प्रविश्य पुरीं रम्यां त्दृष्टपुष्टजनावृताम् । आनन्दितः पौरजनै रेमे परमया मुदा ॥ २,५१.३४ ॥ एतस्मिन्नेव काले तु राजपत्न्यावुभे नृप । राज्ञे प्रावोचतां गर्भं मुदा परमया युते ॥ २,५१.३५ ॥ ववृधे च तयोर्गर्भः शुक्लपक्षे यथोडुराट् । सह संतोषसंपत्त्या पित्रोः पौरजनस्य च ॥ २,५१.३६ ॥ संपूर्णे तु ततः काले मुहूर्ते केशिनीशुभे । असूयताग्निगर्भाभं कुमारममितद्युतिम् ॥ २,५१.३७ ॥ जातकर्मादिकं तस्य कृत्वा चैव यथाविधि । असमञ्चस इत्येव नाम तस्या करोन्नृपः ॥ २,५१.३८ ॥ सुमतिश्चापि तत्काले गर्भालाबमसूयत । संप्रसूतं तु तं त्यक्तं दृष्ट्वा राजाकरोन्मनः ॥ २,५१.३९ ॥ तज्ज्ञात्वा भगवानौर्वस्तत्रागच्छद्यदृच्छया । सम्यक्संभावितो राज्ञा तमुवाच त्वरान्वितः ॥ २,५१.४० ॥ गर्भालाबुरयं राजन्न त्यक्तुं भवतार्हति । पुत्राणां षष्टिसाहस्रबीजभूतो यतस्तव ॥ २,५१.४१ ॥ तस्मात्तत्सकलीकृत्य घृतकुंभेषु यत्नतः । निःक्षिप्य सपिधानेषु रक्षणीयं पृथक्पृथक् ॥ २,५१.४२ ॥ सम्यगेवं कृते राजन्भवतो मत्प्रसादतः । यथोक्तसंख्या पत्राणां भविष्यति न संशयः ॥ २,५१.४३ ॥ काले पूर्णे ततः कुम्भान्भित्त्वा निर्यान्ति ते पृथक् । एवं ते षष्टिसाहस्रं पुत्राणां जायते नृप ॥ २,५१.४४ ॥ इत्युक्त्वा भगवानौर्वस्तत्रैवान्तरधाद्विभुः । राजा च तत्तथा चक्रे यथौर्वेण समीरितम् ॥ २,५१.४५ ॥ ततः संवत्सरे पूर्णे घृतकुंभात्क्रमेण ते । भित्त्वाभित्त्वा पुनर्जज्ञुः सहसैवानुवासरम् ॥ २,५१.४६ ॥ एवं क्रमेण संजातास्तनयास्ते महीपते । ववृधुः संघशो राजन्षष्टिसाहस्रसंख्याया ॥ २,५१.४७ ॥ अपृथग्धर्मचरणा महाबलपराक्रमाः । बभूवुस्ते दुराधर्षाः क्रूरात्मानो विशेषतः ॥ २,५१.४८ ॥ स नातिप्रीतिमांस्तेषु राजा मतिमतां वरः । केशिनीतनयं त्वेकं बहुमान सुतं प्रियम् ॥ २,५१.४९ ॥ विवाहं विधिवत्तस्मै कारयामास पार्थिवः । सचाप्यानन्दयामास स्वगुणैः सुहृदोऽखिलान् ॥ २,५१.५० ॥ एवं प्रवर्त मानस्य केशिनीतनयस्य तु । अजायत सुतः श्रीमानंशुमानिति विश्रुतः ॥ २,५१.५१ ॥ स बाल्य एव मतिमानुदारैः स्वगुणैर्भृशम् । प्रीणयामास सुत्दृदः स्वपितामहमेव च ॥ २,५१.५२ ॥ एतस्मिन्नन्तरे राज्ञस्तस्य पुत्रोऽसमञ्जसः । आविष्टो नष्टचेष्टोऽभूत्स पिशाचेन केन चित् ॥ २,५१.५३ ॥ स तु कश्चिदभूद्वैश्यः पूर्वजन्मनि धर्मवित् । कस्याचिद्विषये राज्ञः प्रभूतधनधान्यवान् ॥ २,५१.५४ ॥ स कदाचिदरण्येषु विचरन्निधिमुत्तमम् । दृष्ट्वा ग्रहीतुमारेभे वणिग्लोभवरिप्लुतः ॥ २,५१.५५ ॥ ततस्तद्रक्षकोऽभ्येत्य पिशाचः प्राह तं तदा । क्षुधितोऽहं चिरादस्मिन्निवसन्निधिपालकः ॥ २,५१.५६ ॥ तस्मात्तत्परिहाराय मम दत्त्वा गवामिषम् । कामतः प्रतिगृह्णीष्व निधिमेनं ममाज्ञया ॥ २,५१.५७ ॥ सतस्मै तत्परिश्रुत्य दास्यामीति गवामिषम् । आदत्त च निधिं तं तु पिशाचेनानुमोदितः ॥ २,५१.५८ ॥ न प्रादाच्च ततो मौढ्यात्तस्मै यत्तत्प्रतिश्रुतम् । प्रतिश्रुताप्रदानोत्थरोषं न श्रद्दधे नृप ॥ २,५१.५९ ॥ तमेवं सुचिरं कालं प्रतीक्ष्याशनकाङ्क्षया । अपनीतधनः सोऽपि ममार व्यथितः क्षुधा ॥ २,५१.६० ॥ वैश्योऽपि बालो मरणं संप्राप्य सगरस्य तु । बभूव काले केशिन्यां तनयोऽन्वयवर्द्धनः ॥ २,५१.६१ ॥ अशरीरः पिशाचेऽपि पूर्ववैरमनुस्मरन् । वायुभूतोऽविशद्देहं राजपुत्रस्य भूपते ॥ २,५१.६२ ॥ तेनाविष्टस्ततः सोऽपि क्रूरचित्तोऽभवत्तदा । मतिविभ्रंशमासाद्य मुहुस्तेन बलात्कृतः ॥ २,५१.६३ ॥ असमञ्जसत्वं नगरे चक्रे सोऽपि नृशंसवत् । बालांश्च यूनः स्थविरान्योषितश्च सदा खलः ॥ २,५१.६४ ॥ हत्वाहत्वा प्रचिक्षेप सरय्वामतिनिर्दयः । ततः पौरजनाः सर्वे दृष्ट्वा तस्य कदर्यताम् ॥ २,५१.६५ ॥ बहुशो निकृतास्तेन गत्वा राज्ञे व्यजिज्ञापन् । राजा च तदुपश्रुत्य तमाहूय प्रयत्नतः ॥ २,५१.६६ ॥ वारयामास बहुधा दुःखेन महतान्वितः । बहुशः प्रतिषिद्धोऽपि पित्रा तेन महात्मना ॥ २,५१.६७ ॥ जले तप्ते च संतप्ताः संबभूवुर्यथा यवाः । नाशकत्तं यदा पापाद्विनिवर्त्तयितुं नृपः ॥ २,५१.६८ ॥ लोकापवादभीरुत्वाद्विषयानत्यजत्तदा ॥ २,५१.६९ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे सगरचरितेऽसमञ्जसत्यागो नामैकपञ्चाशत्तमोऽध्यायः ॥ ५१॥ _____________________________________________________________ जैमिनिरुवाच त्यक्त्वा पुत्रं स धर्मात्मा सगरः प्रेम तद्गतम् । धर्मशीले तदा वाले चकारांशुमति प्रभुः ॥ २,५२.१ ॥ एतस्मिन्नेव काले तु सुमत्यास्तनया नृप । ववृधुः सघशः सर्वे परस्परमनुव्रताः ॥ २,५२.२ ॥ वज्रसंहननाः क्रूरा निर्दया निरपत्रपाः । अधर्मशीला नितरामेकघर्माण एव च ॥ २,५२.३ ॥ एककार्याभिनिरताः क्रोधना मूढचेतसः । अधृष्याः सर्वभूतानां जनोपद्रवकारिणः ॥ २,५२.४ ॥ विनयाचा रसन्मार्गनिरपेक्षाः समन्ततः । बबाधिरे जगत्सर्वमसुरा इव कामतः ॥ २,५२.५ ॥ विध्वस्तयज्ञसन्मार्गं भुवनं तैरुपद्रुतम् । निःस्वाध्याय वषट्कारं बभूवार्तं विशेषतः ॥ २,५२.६ ॥ विध्वस्यमाने सुभृशं सागरैर्वरदर्पितैः । प्रक्षोभं परमं जग्मुर्देवासुरमहोरगाः ॥ २,५२.७ ॥ धरासा सागराक्रान्ता न चलापि तदा चला । तपः समाधिभङ्गश्च प्रबभूव तपस्विनाम् ॥ २,५२.८ ॥ हव्यकव्यपरिभ्रष्टास्त्रिदशाः पितृभिः सह । दुःशेन महाताविष्टा विरिञ्जभवनं ययुः ॥ २,५२.९ ॥ तत्र गत्वा यथान्यायं देवाः शर्वपुरोगमाः । शशंसुः सकलं तस्मै सागराणां विचेष्टितम् ॥ २,५२.१० ॥ तच्छ्रत्वा वचनं तेषां ब्रह्मा लोकपितामहः । क्षणमन्तर्मना भूत्वा जगाद सुरसत्तमः ॥ २,५२.११ ॥ देवाःशृणुत भद्रं वो वाणीमवहिता मम । विनङ्क्ष्यन्त्यचिरेमैव सागरा नात्र संशयः ॥ २,५२.१२ ॥ कालं कञ्चित्प्रतीक्षध्वं तेन सर्वं नियम्यते । निमित्तमात्रमन्यत्तु स एव सकलेशिता ॥ २,५२.१३ ॥ तस्माद्युष्मद्धितार्थाय यद्वक्ष्यामि सुरोत्तमाः । सर्वैर्भवद्भिरधुना तत्कर्त्तव्यमतं द्रितैः ॥ २,५२.१४ ॥ विष्णोरंशेन भगवान्कपिलो जयतां वरः । जातो जगद्धितार्थाय योगीन्द्रप्रवरो भुवि ॥ २,५२.१५ ॥ अगस्त्यपीतसलिले दिव्यवर्षशतावधि । ध्यायन्नास्तेऽधुनांऽभोधावेकान्ते तत्र कुत्र चित् ॥ २,५२.१६ ॥ गत्वा यूयं ममादेशात्कपिलं मुनिपुङ्गवम् । ध्यानाव सानमिच्छन्तस्तिष्ठध्वं तदुपह्वरे ॥ २,५२.१७ ॥ समाधिविरतौ तस्य स्वाभिप्रायमशेषतः । नत्वा तस्मै वदिष्यध्वं स वः श्रेयो विधास्यति ॥ २,५२.१८ ॥ समाधिभङ्गश्च मुनेर्यथा स्यात्सागरैः कृतः । कुरुध्वं च तथा यूयं प्रवृत्तिं विबुधोत्तमाः ॥ २,५२.१९ ॥ जैमिनिरुवाच इत्युक्तास्तेन विबुधास्तं प्रणम्य वितामहम् । गत्वा तं विबुधश्रेष्टं ते कृताञ्जलयोऽब्रुवन् ॥ २,५२.२० ॥ देवा ऊचुः प्रसीद नो मुनिश्रेष्ठ वयं त्वां शरणं गताः । उपद्रुतं जगत्सर्वंसागरैः संप्रणश्यति ॥ २,५२.२१ ॥ त्वं किलाखिललोकानां स्थितिसहारकारणः । विष्णोरंशेन योगीन्द्रस्वरूपी भुवि संस्थितः ॥ २,५२.२२ ॥ पुंसां तापत्रयार्त्तानामार्तिनाशाय केवलम् । स्वेच्छया ते धृतो देहो न तु त्वं तपतां वरः ॥ २,५२.२३ ॥ मनसैव जगत्सर्वं स्रष्टुं संहर्तुमेव च । विधातुं स्वेच्छया ब्रह्मन्भवाञ्छक्रोत्यसंशयम् ॥ २,५२.२४ ॥ त्वं नो धाता विधाता च त्वं गुरुस्त्वं परायणम् । परित्राता त्वमस्माकं विनिवर्त्तय चापदम् ॥ २,५२.२५ ॥ शरणं भव विप्रेन्द्र विप्रेद्राणां विशेषतः । सागरैर्दह्यमानानां लोकत्रयनिवासिनाम् ॥ २,५२.२६ ॥ ननु वै सात्त्विकी चेष्टा भवतीह भवादृशाम् । त्रातुमर्हसि तस्मात्त्वं लोकानस्मांश्च सुव्रत ॥ २,५२.२७ ॥ न चेदकाले भगवन्विनङ्क्ष्यत्यखिलं जगत् । जैमिनिरुवाच इत्युक्तः सकलैर्देवैरुन्मील्य नयने शनैः ॥ २,५२.२८ ॥ विलोक्य तानुवाचेदं कपिलः सूनृतं वचः । स्वकर्मणैव निर्दग्धाः प्रविनङ्क्ष्यन्ति सागराः ॥ २,५२.२९ ॥ काले प्राप्ते तु युष्माभिः सतावत्परिपाल्यताम् । अहं तु कारणं तेषां विनाशाय दुरात्मनाम् ॥ २,५२.३० ॥ भविष्यामि सुरश्रेष्ठा भवतामर्थसिद्धये । मम क्रोधाग्नि विप्लुष्टाः सागराः पापचेतसः ॥ २,५२.३१ ॥ भविष्यन्तु चिरेणैव कालोपहतबुद्धयः । तस्माद्गतज्वरा देवा लोकाश्चैवाकुतोभयाः ॥ २,५२.३२ ॥ भवन्तु ते दुराचाराः क्षिप्रं यास्यन्ति संक्षयम् । तद्यूयं निर्भया भूत्वा व्रजध्वं स्वां पुरीं प्रति ॥ २,५२.३३ ॥ कालं कञ्चित्प्रतीक्षध्वं ततोऽभीष्टमवाप्स्यथ । कपिलेनैवमुक्तास्ते देवाः सर्वे सवासवाः ॥ २,५२.३४ ॥ तं प्रणम्य ततो जग्मुः प्रतीताग्निदिवं प्रति । एतस्मिन्नन्तरे राजा सगरः पृथिवीपतिः ॥ २,५२.३५ ॥ वाजिमेधं महायज्ञं कर्तुं चक्रे मनोरथम् । आहृत्य सर्वसंभारान्वसिष्ठानुमते तदा ॥ २,५२.३६ ॥ और्वाद्यैः सहितो विप्रैर्यथावद्दीक्षितोऽभवत् । दीक्षां प्रविष्टो नृपतिर्हयसंचारणाय वै ॥ २,५२.३७ ॥ पुत्रान्सर्वान्समाहूय संदिदेश महयशाः । संचारयित्वा तुरगं परीत्य पृथिवीतले ॥ २,५२.३८ ॥ क्षिप्रं ममान्तिकं पुत्राः पुनराहर्तुमर्हथ । जैमिनिरुवाच ततस्ते पितुरादेशात्तमादाय तुरङ्गमम् ॥ २,५२.३९ ॥ परिचङ्क्रमयामासुः सकले क्षितिमण्डले । विधिचोदनयैवाश्वः स भूमौ परिवर्तिततः ॥ २,५२.४० ॥ न तु दिग्विजयार्थाय करादानार्थमेव च । पृथिवीभूभुजा तेन पूर्वमेव विनिर्जिता ॥ २,५२.४१ ॥ नृपाश्चोदारवीर्येण करदाः समरे कृताः । ततस्ते राजतनया निस्तोये लवणांबुधौ ॥ २,५२.४२ ॥ भूतले विविशुर्हृष्टाः परिवार्य तुरङ्गमम् ॥ २,५२.४३ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उवोद्धातपादे सगरवरितेऽश्वमोचनं नाम द्विपञ्चाशत्तमोऽध्यायः ॥ ५२॥ _____________________________________________________________ जैमिनिरुवाच तेषु तत्र निविष्टेषु वासवेन प्रचोदितः । जहारं तुरगं वायुस्तत्क्षणेन रसातलम् ॥ २,५३.१ ॥ अदृष्टमश्वं तैः सर्वैरपहृत्य सदागतिः । अनयत्तत्पथा राजन्कपिलस्यान्तिकं मुनेः ॥ २,५३.२ ॥ ततः समाकुलाः सर्वे विनष्टेऽश्वे नृपात्मजाः । परीत्य वसुधां सर्वां प्रमार्गन्तस्तुरगमम् ॥ २,५३.३ ॥ विचित्य पृथिवीं ते तु स पुराचलकाननाम् । अपश्यन्तो यज्ञपशुं दुःखं महदवाप्नुवन् ॥ २,५३.४ ॥ ततोऽयोध्यां समासाद्य ऋषिभिः परिवारिताम् । दृष्ट्वा प्रणम्य पितरं तस्मै सर्वं न्यवेदयन् ॥ २,५३.५ ॥ परीत्य पृथ्वीमस्माभिर्निविष्टे वरुणालये । रक्ष्यमाणोऽपि पश्यद्भिः केनापि तुरगो हृतः ॥ २,५३.६ ॥ इत्युक्तस्तै रुषाविष्टस्तानुवाच नृपोत्तमः । प्रयास्यध्वमधर्मिष्ठाः सर्वेऽनावृत्तये पुनः ॥ २,५३.७ ॥ कथं भवद्भिर्जीवद्भिर्विनष्टो वै दरात्मभिः । तुरगेण विना सत्यं नेहाग मनमस्ति वः ॥ २,५३.८ ॥ ततः समेत्य तस्मात्ते सप्रयाताः परस्परम् । ऊचुर्न दृश्यतेऽद्यापि तुरगः किं प्रकुमह ॥ २,५३.९ ॥ वसुधा विचितास्माभिः सशैलवनकानना । न चापि दृश्यते वाजी तद्वार्त्तापि न कुत्रचित् ॥ २,५३.१० ॥ तस्मादब्धेः समारभ्य पातालावधि मेदिनीम् । विभज्य रवात्वा पातालं विविशाम तुरङ्गमम् ॥ २,५३.११ ॥ इति कृत्वा मतिं सर्वे सागराः क्रूरनिश्चयाः । निचख्नुर्भूमिमंबोधेस्तटा दारभ्य सर्वतः ॥ २,५३.१२ ॥ तैः खन्यमाना वसुधा ररास भृशविह्वला । चुक्रुशुश्चापि भूतानि दृष्ट्वा तेषां विचेष्टितम् ॥ २,५३.१३ ॥ ततस्ते भारतं खण्डं खात्वा संक्षिब्य भूतले । भूमेर्योजनसाहस्रं योजयामासुरंबुधौ ॥ २,५३.१४ ॥ आपातालतलं ते तु खनन्तो मेदिनीतलम् । चरन्तमश्वं पाताले ददृशुर्नृपनन्दनाः ॥ २,५३.१५ ॥ संप्रहृष्टास्ततः सर्वे समेत्य च समन्ततः । संतोषाज्जहसुः केचिन्ननृतुश्च मुदान्विताः ॥ २,५३.१६ ॥ ददृशुश्च महात्मानं कपिलं दीप्ततेजसम् । वृद्धं पद्मासनासीनं नासाग्रन्यस्तलोचनम् ॥ २,५३.१७ ॥ ऋज्वायतशिरोग्रीवं पुरोविष्टब्धवक्षसम् । स्वतेजसाभिसरता परिबूर्णेन सर्वतः ॥ २,५३.१८ ॥ प्रकाश्यमानं परितो निवातस्थप्रदीपवत् । स्वान्तप्रकाशिताशेषविज्ञानमयविग्रहम् ॥ २,५३.१९ ॥ समाधिगतचित्तन्तु निभृतांभोधिसन्निभम् । आरूढयोगं विधिवद्ध्येयसंलीनमानसम् ॥ २,५३.२० ॥ च्दृदद्यत्दद्वड्ढ द्यदृ डद्धठ्ठण्थ्र्ठ्ठदड्डठ्ठथ्र्ठ्ठड्डण्न्र्ठ्ठडण्ठ्ठग्ठ्ठ योगीन्द्रप्रवरं शान्तं ज्वालामाल मिवानलम् । विलोक्य तत्र तिष्ठन्तं विमृशन्तः परस्परम् ॥ २,५३.२१ ॥ मुहूर्त्तमिव ते राजन्साध्वसं परमं गताः । ततोऽयमश्वहर्त्तेति सागरा कालचोदिताः ॥ २,५३.२२ ॥ परिवव्रुर्दुरात्मानः कपिलं मुनिसत्तमम् । ततस्तं परिवार्योचुश्वोरोऽयं नात्र संशयः ॥ २,५३.२३ ॥ अश्वहर्त्ता ततोऽह्येष वध्योऽस्माभिर्दुराशयः । तं प्राकृतवदासीनं ते सर्वे हतवुद्धयः ॥ २,५३.२४ ॥ आसन्नमरणाश्चक्रुर्धर्षितं मुनिमञ्जसा । जैमिनिरुवाच ततो मुनिरदीनात्मा ध्यानभङ्गप्रधर्षितः ॥ २,५३.२५ ॥ क्रोधेन महताऽविष्टश्चुक्षुभे कपिलस्तदा । प्रचचाल दुराधर्षो धर्षितस्तैर्दुरात्मभिः ॥ २,५३.२६ ॥ व्यजृंभत च कल्पान्ते मरुद्भिरिव चानलः । तस्य चार्णवगंभीराद्वपुषः कोपपावकः ॥ २,५३.२७ ॥ दिधक्षुरिव पातालांल्लोकान्सांकर्षणोऽनलः । शुशुभे धर्षणक्रोधपरामर्शविदीपितः ॥ २,५३.२८ ॥ उन्मीलयत्तदा नेत्रे वह्निचक्रसमद्युतिः । तदाक्षिणी क्षणं राजन्राजेतां सुभृशारुणे ॥ २,५३.२९ ॥ पूर्वसंव्यासमुदितौ पुष्पवन्ताविवांबरे । ततोऽप्युद्वर्त्तमानाभ्यां नेत्राभ्यां नृपनन्दनान् ॥ २,५३.३० ॥ अवैक्षत च गंभीरः कृतान्तः कालपर्यये । क्रुद्धस्य तस्यनेत्राभ्यां सहसा पावकार्चिषः ॥ २,५३.३१ ॥ निश्चेरुरभिलोदिक्षु कालाग्नेरिव संतताः । सधूमकवलोदग्राः स्फुलिङ्गौघमुचो मुहुः ॥ २,५३.३२ ॥ मुनिक्रोधानलज्वालाः समन्ताव्द्यानशुर्दिशः । व्यालोदरौग्रकुहरा ज्वाला स्तन्नेत्रनिर्गताः ॥ २,५३.३३ ॥ विरेजुर्निभृतांभोधेर्वडवाग्नेरिवार्चिषः । क्रोधाग्निः सुमहाराज ज्वालावव्याप्तदिगन्तरः ॥ २,५३.३४ ॥ दग्धांश्चकार तान्सर्वानावृण्वानो नभस्तलम् ॥ २,५३.३५ ॥ सशब्दमुद्भ्रान्तमरुत्प्रकोपविवर्त्तमानानलधूमजालैः । महीरजोभिश्च नितान्तमुद्धतैः समावृतं लोक मभूद्भृशातुरम् ॥ २,५३.३६ ॥ ततः स वह्निर्विलिखन्निवाभितः समीरवेगाभिहताभिरंबरम् । शिखाभिरुर्वीशसुतानशेषतो ददाह सद्यः सुर विद्विषस्तान् ॥ २,५३.३७ ॥ मिषतः सर्वलोकस्य क्तोधाग्निस्तमृते हयम् । सागरांस्तानशेषेण भस्मसादकरोत्स तान् ॥ २,५३.३८ ॥ एवं क्रोधाग्निना तेन सागराः पापचेतसः । जज्वलुः सहसा दावे तरवो नीरसा इव ॥ २,५३.३९ ॥ दृष्ट्वा तेषां तु निधनं सागराणान्दुरात्मनाम् । अन्योन्यमबुवन्देवा विस्मिता ऋषिभिः सह ॥ २,५३.४० ॥ अहोदारुणपापानां विपाको न चिरायितः । दुरन्तः खलु लोकेऽस्मिन्नराणामसदात्मनाम् ॥ २,५३.४१ ॥ यदि मे पर्वताकारा नृशंसाः क्रूरवुद्धयः । युगपद्विलयं प्राप्ताः सहसैव तृणाग्निवत् ॥ २,५३.४२ ॥ उद्वेजनीया भूतानां सद्भिरत्यन्तगर्हिताः । आजीवान्तमिमे हर्तु दिष्ट्या संक्षयमागताः ॥ २,५३.४३ ॥ परोपतापि नितरां सर्वलोकजुगुप्सितम् । इह कृत्वाशुभं कर्म कःपुमान्विन्दते सुखम् ॥ २,५३.४४ ॥ विक्रोश्य सर्वभूतानि संप्रयाताः स्वकर्मभिः । ब्रह्मदण्डहताः पापा निरयं शाश्वतीः समाः ॥ २,५३.४५ ॥ तस्मात्सदैव कर्त्तव्यं कर्म पुंसां मनीपिणाम् । दुरतश्च परित्याज्यमितरल्लोकनिन्दितम् ॥ २,५३.४६ ॥ कर्त्तव्यः श्रेयसे यत्नो यावज्जीवं विजानता । नाचरेत्कस्यचिद्द्रोहमनित्यं जीवनं यतः ॥ २,५३.४७ ॥ अनित्योऽयं सदा देहःसपदश्चातिचञ्चलाः । संसारश्चातिनिस्सारस्तत्कथं विश्वसेद्बुधः ॥ २,५३.४८ ॥ एवं सुरमुनीन्द्रेषु कथयत्सु परस्परम् । मुनिक्रोधेन्धनीभूता विनेशुः सगरात्मजाः ॥ २,५३.४९ ॥ निर्दगधदेहाः सहसा भुवं विष्टभ्य भस्मना । अवापुर्निरयं सद्यः सागरास्ते स्वकमभिः ॥ २,५३.५० ॥ सागरांस्तानशेषेण दग्धवातत्क्रोधजोऽनलः । क्षणेन लोकानखिलानुद्यतो दग्धुमञ्जसा ॥ २,५३.५१ ॥ भयभीतास्ततो देवाः समेत्य दिवि संस्थिताः । तुष्टुवुस्ते महात्मानं क्रोधाग्निशमनार्थिनः ॥ २,५३.५२ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमाभागे तृतीय उपोद्धातपादे सगरचरितेसागराविनाशो नाम त्रिपञ्चशत्तमोऽध्यायः ॥ ५३॥ _____________________________________________________________ जैमिनिरुवाच क्रोधाग्निमेनं विप्रेन्द्र सद्यः संहर्त्तुमर्हसि । नो चेदकाले लोकोऽयं सकलस्तेन दह्यते ॥ २,५४.१ ॥ दृष्टस्ते महिमानेन व्याप्तमासीच्चराचरम् । क्षमस्व संहर क्रोधं नमस्ते विप्रपुङ्गव ॥ २,५४.२ ॥ एवं संस्तूयमानस्तु भगवान्कपिलो मुनिः । तूर्णमेव क्षयं निन्ये क्रोधाग्निमतिभैरवम् ॥ २,५४.३ ॥ ततः प्रशान्तमभवज्जगत्सर्वं चराचरम् । देवास्तपस्विनश्चैव बभूवुर्विगतज्वराः ॥ २,५४.४ ॥ एतस्मिन्नेव काले तु भगवान्नारदो मुनिः । अयोध्या मगमद्राजन्देवलोकाद्यदृच्छया ॥ २,५४.५ ॥ तमागतमभिप्रेक्ष्य नारदं सगरस्तदा । अर्घ्यपाद्यादिभिः सम्यक्पूजयामास शास्त्रतः ॥ २,५४.६ ॥ परिगृह्य च तत्पूजामासीनः परमासने । नारदो राजशार्दूलमिदं वचनमब्रवीत् ॥ २,५४.७ ॥ नारद उवाच हयसंचारणार्थाय संप्रयातास्तवात्मजाः । ब्रह्मदण्डहताः सर्वे विनष्टा नृपसत्तम ॥ २,५४.८ ॥ संरक्ष्यमाणस्तैः सर्वैर्हयस्ते यज्ञियो नृप । केनाप्य लक्षितः क्वापि नीतो विधिवशाद्दिवि ॥ २,५४.९ ॥ ततो विनष्टं तुरगं विचिन्वन्तो महीतले । प्रालभन्त न ते क्वापि तत्प्रवृत्तिं चिरान्नृप ॥ २,५४.१० ॥ ततोऽवनेरधस्तेऽश्वं विचेतुं कृतनिश्चयाः । सागरास्ते समारभ्य प्रचख्नुर्वसुधातलम् ॥ २,५४.११ ॥ खनन्तो वसुधा मश्वं पाताले ददृशुर्नृप । समीपे तस्य योगीन्द्रं कपिलं चमहामुनिम् ॥ २,५४.१२ ॥ तं दृष्ट्वा पापकर्माणस्ते सर्वे कालचोदिताः । कपिलं कोपयामासुरश्वहर्त्तायमित्यलम् ॥ २,५४.१३ ॥ ततस्तत्क्रोधसंभूतनेत्राग्नेर्दहतो दिशः । इन्धनीभूतदेहास्ते पुत्राः संक्षयमागताः ॥ २,५४.१४ ॥ क्रूराः पापसमाचाराः सर्वलोकोपरोधकाः । यतस्ते तेन राजेन्द्र न शोकं कर्तुमर्हसि ॥ २,५४.१५ ॥ स त्वं धैर्यधनो भूत्वा भवित व्यतयात्मनः । नष्टं मृतमतीतं च नानुशोचन्ति पण्डिताः ॥ २,५४.१६ ॥ तस्मात्पौत्रमिमं बालमंशुमन्तं महामतिम् । तुरगानयनार्थाय नियुङ्क्ष्व नृपसत्तम ॥ २,५४.१७ ॥ इत्यक्त्वा राजशार्दूलं सदस्यर्त्विक्समन्वितम् । क्षणेन पश्यतां तेषां नारदोऽन्तर्दधे मुनिः ॥ २,५४.१८ ॥ तच्छ्रत्वा वचन तस्य नारदस्य नृपोत्तमः । दुःखशोकपरातात्मा दध्यौ चिरमुदारधीः ॥ २,५४.१९ ॥ तं ध्यानयुक्तं सदसि समासीनमवाङ्मुखम् । वसिष्ठः प्राह राजानं सांत्वयन्देशकालवित् ॥ २,५४.२० ॥ किमिदं धैर्यसाराणामवकाशं भवदृशाम् । लभते हृदि चेच्छोकः प्राप्तं धीर तया फलम् ॥ २,५४.२१ ॥ दौर्मनस्यं शिथिलयन्सर्वं दिष्टवशानुगम् । मन्वानोऽनन्तरं कृत्यं कर्तुमर्हस्यसंशयम् ॥ २,५४.२२ ॥ वसिष्ठेनैवमुक्तस्तु राजा कार्यार्थतत्त्ववित् । धृतिं सत्त्वं समालंब्य तथेति प्रत्यभाषत ॥ २,५४.२३ ॥ अंशुमन्तं समाहूय पौत्रं विनयशालिनम् । ब्रह्मक्षत्त्रसभामध्ये शनैरिदमभाषत ॥ २,५४.२४ ॥ ब्रह्मदण्डहताः सर्वे पितरस्तव पुत्रक । पतिताः पापकर्माणो निरये शाश्वतीः समाः ॥ २,५४.२५ ॥ त्वमेव संततिर्मह्यं राज्यस्यास्य च रक्षिता । त्वदायत्तमशेषं मे श्रेयोऽमुत्र परत्र च ॥ २,५४.२६ ॥ स त्वं गच्छ ममादेशात्पाताले कपिलान्तिकम् । तुरगानयनार्थाय यत्नेन महातान्वितः ॥ २,५४.२७ ॥ तं प्रार्थयित्वा विधिवत्प्रसाद्य च विशेषतः । आदाय तुरगं वत्स शीघ्रमागन्तुमर्हसि ॥ २,५४.२८ ॥ जैमिनिरुवाच एवमुक्तोंऽशुमांस्तेन प्रणम्य पितरं पितुः । तथेत्युक्त्वा महाबुद्धिः प्रययौ कपिलान्तिकम् ॥ २,५४.२९ ॥ तमुपागम्य विधिवन्नमस्कृत्य यथामति । प्रश्रयावनतो भूत्वा शनैरिदमुवाच ह ॥ २,५४.३० ॥ प्रसीद विप्रशार्दूल त्वामहं शरणं गतः । कोपं च संहर क्षिप्रं लोकप्रक्षयकारकम् ॥ २,५४.३१ ॥ त्वयि क्रुद्धे जगत्सर्वं प्रणाशमुपयास्यति । प्रशान्तिमुपयाह्याशुलोकाः संतु गतव्यथाः ॥ २,५४.३२ ॥ प्रसन्नोऽस्मान्महाभाग पश्य सौम्येन चक्षुषा । ये त्वत्क्रोधाग्निनिर्दग्धास्तत्संततिमवेहि माम् ॥ २,५४.३३ ॥ नाम्नांशुमन्तं नप्तारं सगरस्य महीपतेः । सोऽहं तस्य नियोगेन त्वत्प्रसादाभिकाङ्क्षया ॥ २,५४.३४ ॥ प्राप्तो दास्यसि चेद्ब्रह्मंस्तुरगानयनाय च । जैमिनिरुवाच इति तद्वचनं श्रुत्वा योगीन्द्रप्रवरो मुनिः ॥ २,५४.३५ ॥ अंशुमन्तं समालोक्य प्रसन्न इदमब्रवीत् । स्वागतं भवतो वत्स दिष्ट्या च त्वमिहागतः ॥ २,५४.३६ ॥ गच्छ शीघ्रं हयश्चायं नीयतां सगरान्तिकम् । अधिक्षिप्तोऽस्य यज्ञोऽपि प्रागतः संप्रवर्त्तताम् ॥ २,५४.३७ ॥ व्रियतां च वरो मत्तस्त्वया यस्ते मनोगतः । दास्ये सुदुर्लभमपि त्वद्भक्तिपरितोषितः ॥ २,५४.३८ ॥ एषां तु संप्रमाशं हि गत्वा वद पितामहम् । पापानां मरणं त्वेषां न च शोचितुमर्हसि ॥ २,५४.३९ ॥ ततः प्रणाम्य चोगीन्द्रमंशुमानिदमब्रवीत् । वरं ददासि चेन्मह्यं वरये त्वां महामुने ॥ २,५४.४० ॥ वरमर्हामि चेत्त्वत्तः प्रसन्नो दातुमर्हसि । त्वद्रोषपावकप्लुष्टाः पितरो ये ममाखिलाः ॥ २,५४.४१ ॥ संप्रयास्यन्ति ते ब्रह्मन्निरयं शास्वतीः समाः । ब्रह्मदण्डहतानां तु न हि पिण्डोदकक्रियाः ॥ २,५४.४२ ॥ पिण्डोदकविहीनानामिह लोके महामुने । विद्यते पितृसालोक्यं न खलु श्रुतिचोदितम् ॥ २,५४.४३ ॥ अक्षयः स्वर्गवासोऽस्तु तेषां तु त्वत्प्रसादतः । वरेणानेन भगवन्कृतकृत्यो भावाम्यहम् ॥ २,५४.४४ ॥ तत्प्रसीद त्वमेवैषां स्वर्गतेर्वद कारणम् । येनोद्धारणमेतेषां वह्नेः कोपस्य वै भवेत् ॥ २,५४.४५ ॥ ततस्तमाह योगीन्द्रःसुप्रसन्नेन चेतसा । निरयोद्धारणं तेषां त्वया वत्स न शक्यते ॥ २,५४.४६ ॥ तैश्चापि नरके तावद्वस्तव्यं पापकर्मभिः । कालः प्रतीक्ष्यतां तावद्यावत्त्वत्पौत्रसंभवः ॥ २,५४.४७ ॥ कालान्ते भविता वत्स पौत्रस्तव महामतिः । राजा भगीरथो नाम सर्वधर्मार्थतत्त्ववित् ॥ २,५४.४८ ॥ स तु यत्नेन महता पितृगौरवयन्त्रितः । आनेष्यति दिवो गङ्गां तपस्तप्त्वा महाद्ध्रुवम् ॥ २,५४.४९ ॥ तदंभसा पावितेषु तेषां गात्रास्थिभस्मसु । प्राप्नुवन्ति गतिं स्वर्गे भवतः पितरोऽखिलाः ॥ २,५४.५० ॥ तथेति तस्या माहात्म्यं गङ्गाया नृपनन्दन । भागीरथीति लोकेऽस्मिन्सा विख्यातिमुपैष्यति ॥ २,५४.५१ ॥ यत्तोयप्लावितेष्वस्थिभस्मलोमनखेष्वपि । निरयादपि संयाति देही स्वर्लोकमक्षयम् ॥ २,५४.५२ ॥ तस्मात्त्वं गच्छ भद्रं ते नशोकं कर्त्तुमर्हसि । पितामहाय चैवैनमश्वं संप्रतिपादय ॥ २,५४.५३ ॥ जैमिनिरुवाच ततः प्रणम्य तं भक्त्या तथेत्युक्त्वा महामतिः । ययौ तेनाभ्यनुज्ञातः साकेतनगरं प्रति ॥ २,५४.५४ ॥ सगरं स समासाद्य तं प्रणम्य यथाक्रमम् । न्यवेदयच्च वृत्तान्तं मुनेस्तेषां तथान्मनः ॥ २,५४.५५ ॥ प्रददौतुरगं चापि समानीतं प्रयत्नतः । अतः परमनुष्ठेयमब्रवीत्किं मयेति च ॥ २,५४.५६ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे कपिलाश्रमस्थाश्वानयनं नाम चतुष्पञ्चाशत्तमोऽध्यायः ॥ ५४॥ _____________________________________________________________ Žः अभिनन्द्याशिषात्यर्थं लालयन्प्रशशंस ह ॥ २,५५.१ ॥ अथ ऋत्विक्सदस्यैश्च सहितो राजसत्तमः । उपाक्रमत तं यज्ञे विधिवद्वेदपारगैः ॥ २,५५.२ ॥ ततः प्रववृते यज्ञः सर्वसंपद्गुणान्वितः । सम्यगौर्ववसिष्ठाद्यैर्मुनिभिः संप्रवर्त्तितः ॥ २,५५.३ ॥ हिरण्मयमयी वेदिः पात्राण्युच्चावचानि च । सुसमृद्धं यथाशास्त्रं यज्ञे सर्वं बभूव ह ॥ २,५५.४ ॥ एवं प्रवर्त्तितं यज्ञमृत्विजः सर्व एव ते । क्रमात्समापयामासुर्यजमानपुरस्सराः ॥ २,५५.५ ॥ समापयित्वा तं यज्ञं राजा विधिविदां वरः । यथावद्दक्षिणां चैव ऋत्विजां प्रददौ तदा ॥ २,५५.६ ॥ अथ ऋत्विक्सदस्यानां ब्राह्मणानां तथार्थिनाम् । तत्काङ्क्षितादभ्यधिकं प्रददौ वसु सर्वशः ॥ २,५५.७ ॥ एवं संतर्प्य विप्रादीन्दक्षिणाभिर्यथाक्रमम् । क्षमापयामास गुरून्सदस्यान्प्रणिपत्य च ॥ २,५५.८ ॥ ब्राह्मणाद्यैस्ततो वर्णैरृत्विग्भिश्च समन्वितः । वारकीयाकदंबैश्च सूतमागधवन्दिभिः ॥ २,५५.९ ॥ अन्वीयमानः सस्त्रीकः श्वेतच्छत्रविराजितः । दोधूयमानचमरो वालव्यजनराजितः ॥ २,५५.१० ॥ नानावादित्रनिर्घोषैर्बधिरीकृतदिङ्मुखः । स गत्वा सरयूतीरं यथाशाश्त्रं यथाविधि ॥ २,५५.११ ॥ चकारावभृथस्नानं मुदितः सहबन्धुभिः । एवं स्नात्वा सपत्नीकः सुहृद्भिर्ब्राह्मणैः सह ॥ २,५५.१२ ॥ वीणावेणुमृदङ्गादिनानावादित्रनिःस्वनैः । मङ्गल्यैर्वेदघोषैश्च सह विप्रजनेरितैः ॥ २,५५.१३ ॥ संस्तूयमानः परितः सूतमागधबन्दिभिः । प्रविवेश पुरीं रम्यां हृष्टपुष्टजनायुतम् ॥ २,५५.१४ ॥ श्वेतव्यजन सच्छत्रपताकाध्वजमालिनीम् । सिक्तसंमृष्टभूभागापणशोभासमन्विताम् ॥ २,५५.१५ ॥ कैलासाद्रिप्रकाशाभिरुज्ज्वलां सौधपङ्क्तिभिः । स तत्रागरुधूपोत्थगन्धामोदितदिङ्मुखम् ॥ २,५५.१६ ॥ विकीर्यमाणः परितः पौरनारीजनैर्मुहुः । लाजवर्षेण सानन्दं वीक्षमाणश्च नागरैः ॥ २,५५.१७ ॥ उपदाभिरनेकाभिस्तत्रतत्र वणिग्जनैः । संभाव्यमानः शनकैर्जगम स्वपुरं प्रति ॥ २,५५.१८ ॥ स प्रविश्य गृहं रम्यं सर्वमण्डलमण्डितम् । सम्यक्संभावयामास सुहृदो ब्राह्मणानपि ॥ २,५५.१९ ॥ संसेव्यमानश्च तदा नानादेशेश्वरैर्नृपैः । सभायां राजशार्दूलो रेमे शक्र इवापरः ॥ २,५५.२० ॥ एवं सुहृद्भिः सहितः पूरयित्वा मनोरथम् । सगरः सह भार्याभ्यां रेमे नृपवरोत्तमः ॥ २,५५.२१ ॥ अंशुमन्तं ततः पौत्रं मुदा विनयशालिनम् । वसिष्ठानुमते राजा यौवराज्येऽभ्यषेचयत् ॥ २,५५.२२ ॥ पौरजानपदानां तु बन्धूनां सुहृदामपि । स प्रियोऽभवदत्यर्थमुदारैश्च गुणैर्नृपः ॥ २,५५.२३ ॥ प्रजास्तमन्वरज्यन्त बालमप्यमितौजसम् । नवं च शुक्लपक्षादौशीतांशुमचिरोदितम् ॥ २,५५.२४ ॥ स तेन सहितः श्रीमान्सुत्दृद्भिश्च नृपोत्तमः । भार्याभ्यामनुरूपाभ्यां रममाणोऽवसच्चिरम् ॥ २,५५.२५ ॥ युवैव राजशार्दूलः साक्षाद्धर्म इवापरः । पालयामास वसुधां सशैलवनकाननाम् ॥ २,५५.२६ ॥ एवं महानहिमदीधितिवंशमौलिरत्नाय यमानवपुरुत्तरकोसलेशः । पूर्णेन्दुवत्सकललोकमनोऽभिरामः सार्द्ध प्रजाभिरखिलाभिरलं जहर्ष ॥ २,५५.२७ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमाभागे तृतीय उपोद्धातपादे सागरोपाख्यानेशुमतो राज्यप्राप्तिर्नाम पञ्चपञ्चशत्तमोऽध्यायः ॥ ५५॥ _____________________________________________________________ जैमिनिरुवाच एतत्ते चरितं सर्वं सगरस्य महात्मनः । संक्षेपविस्तराभ्यां तु कथितं पापनाशनम् ॥ २,५६.१ ॥ खण्डोंऽयं भारतो नाम दक्षिणोत्तरमायतः । नवयोजनसाहस्रं विस्तारपरिमण्डलम् ॥ २,५६.२ ॥ पुत्रैस्तस्य नरेद्रस्य मृगयद्भिस्तुरङ्गमम् । योजनानां सहस्रं तु खात्वाष्टौ विनिपातिताः ॥ २,५६.३ ॥ सागरस्य सुतैर्यस्माद्वर्द्धितो मकरालयः । ततः प्रभृति लोकेषु सागराख्यामवाप्तवान् ॥ २,५६.४ ॥ ब्रह्मपादावधि महीं सतीर्थक्षेत्रकाननाम् । अब्धिः संक्रमयामास परिक्षिप्य निजांभसा ॥ २,५६.५ ॥ ततस्तन्निलयाः सर्वे सदेवासुरमानवाः । इतस्ततश्च संजाता दुःखेन महतान्विताः ॥ २,५६.६ ॥ गोकर्णं नाम विख्यातं क्षेत्रं सर्वसुरार्चितम् । सार्द्धयोजनविस्तारं तीरे पश्चिम वारिधेः ॥ २,५६.७ ॥ तत्रासंख्यानि तीर्थानि मुनिदेवालयाश्च वै । वसंति सिद्धसंघाश्च क्षेत्रे तस्मिन्पुरा नृप ॥ २,५६.८ ॥ क्षेत्रं तल्लोकविख्यातं सर्वपापहरं शुभम् । तत्तीर्थमब्धेरपतद्भागे दक्षिणपश्चिमे ॥ २,५६.९ ॥ यत्र सर्वे तपस्तप्त्वा मुनयः संशितव्रताः । निर्वाणं परमं प्राप्ताः पुनरावृत्तिवर्जितम् ॥ २,५६.१० ॥ तत्त्रेत्रस्य प्रभावेण प्रीत्या भूतगणैः सह । देव्या च सकलैर्देवैर्नित्यं वसति शङ्करः ॥ २,५६.११ ॥ एनांसि यत्समुद्दिश्य तीर्थयात्रां प्रकुर्वताम् । नृणामाशु प्रणश्यन्ति प्रवाते शुष्कपर्णवत् ॥ २,५६.१२ ॥ तत्क्षेत्रसेवनरतिर्नैव जात्वभिजायते । समीपे वसमानोनामपि पुंसां दुरात्मनाम् ॥ २,५६.१३ ॥ महाता सुकृतेनैव तत्क्षेत्रगमने रतिः । नृणां संजायते राजन्नान्यथा तु कथञ्चन ॥ २,५६.१४ ॥ निर्बन्धेन तु ये तस्मिन्प्राणिनः स्थिरजङ्गमाः । म्रियन्ते नृप सद्यस्ते स्वर्गं प्राप्स्यन्ति शाश्वतम् ॥ २,५६.१५ ॥ स्मृत्यापि सकलैः पापैर्यस्य मुच्येत मानवः । क्षेत्राणामुत्तमं क्षेत्रं सर्वतीर्थनिकेतनम् ॥ २,५६.१६ ॥ स्नात्वा चैतेषु तीर्थेषु यजन्तश्च सदाशिवम् । सिद्धिकामा वसंति स्म मुनयस्तत्र केचन ॥ २,५६.१७ ॥ कामक्रोधविनिर्मुक्ता ये तस्मिन्वीतमत्सराः । निवसंत्यचिरेणैव तत्सिद्धिंप्राप्नुवन्ति हि ॥ २,५६.१८ ॥ जपहोमरताः शान्ता निपता ब्रह्मचारिणः । वसंति तस्मिन्ये ते हि सिद्धिं प्राप्स्यन्त्यभीप्सिताम् ॥ २,५६.१९ ॥ दानहोमजपाद्यं वै पितृदेवद्विजार्चनम् । अन्यस्मात्कोटिगुणितं भवेत्तस्मिन्फलं नृप ॥ २,५६.२० ॥ अंभोधिसलिले मग्न तस्मिन् क्षेत्रेऽतिपावने । महता तपसा युक्ता मुनयस्तन्निवासिनः ॥ २,५६.२१ ॥ सह्यं शिखरिणं श्रेष्ठं निलयार्थं समारुहन् । वसंतस्तत्र ते सर्वे संप्रधार्य परस्परम् ॥ २,५६.२२ ॥ सहेन्द्राद्रौ तपस्यन्तं रामं गन्तुं प्रचक्रमुः । राजोवाच । अगस्त्यपीततोयेऽब्धौ परितो राजनन्दनैः ॥ २,५६.२३ ॥ खात्वाधः पातिते क्षेत्रे सतीर्थाश्रमकानने । भूभागेषु तथान्येषु पुरग्रमाकरादिषु ॥ २,५६.२४ ॥ विनाशितेषु देशेषु समुद्रोपान्तवर्त्तिषु । किमकार्षुर्मुनिश्रेष्ठ जनास्तन्निलयास्ततः ॥ २,५६.२५ ॥ तत्रैव चावसन्कृच्छ्रात्प्रस्थितान्यत्र वा ततः । कियता चैव कालेन संपूर्णोऽभूदपांनिधिः । केन वापि प्रकारेण ब्रह्मन्नेतद्वदस्व मे ॥ २,५६.२६ ॥ जैमिनिरुवाच अनूपेषु प्रदेशेषु नाशितेषु दुरात्मभिः ॥ २,५६.२७ ॥ जनास्तन्निलयाः सर्वे संप्रयाता इतस्ततः । तत्रैव चावसन्कृच्छ्रात्केचित्क्षेत्रनिवासिनः ॥ २,५६.२८ ॥ एतस्मिन्नेव काले तु राजन्नंशुमतः सुतः । बभूव भुविधर्मात्मा दिलीप इति विश्रुतः ॥ २,५६.२९ ॥ राज्येऽभिषिच्य तं सम्यग्भुक्तभोगोंऽशुमान्नृपः । वनं जगाम मेधावी तपसे धृतमानसः ॥ २,५६.३० ॥ दिलीपस्तु ततःश्रीमानशेषां पृथिवीमिमाम् । पालयामास धर्मेण विजित्य सकलानरीन् ॥ २,५६.३१ ॥ भगीरथो नाम सुतस्तस्यासील्लोकविश्रुतः । सर्वधर्मार्थकुशलः श्रीमानमितविक्रमः ॥ २,५६.३२ ॥ राज्येऽभिषिच्य तं राजा दिलीपोऽपि वनं ययौ । स चापि पालयन्नुर्वीं सम्यग्विहतकण्टकाम् ॥ २,५६.३३ ॥ मुमुदे विविधैर्भोगैर्दिवि देवपतिर्यथा । स शुश्रावात्मनः पूर्वं पूर्वजानां महीपतिः ॥ २,५६.३४ ॥ निरये पतनं घोरं विप्रकोपसमुद्भवम् । ब्रह्मदण्डहतान्सर्वान्पितञ्छ्रुत्वातिदुःखितः ॥ २,५६.३५ ॥ राज्ये बन्धुषु भोगे वा निर्वेदं परमं ययौ । स मन्त्रिप्रवरे राज्यं विन्यस्य तपसे वनम् ॥ २,५६.३६ ॥ प्रययौ स्वपितॄन्नाकं निनीषुर्नृपसत्तमः । तपसा महाता पूर्वमायुषे कमलोद्भवम् ॥ २,५६.३७ ॥ आराध्य तस्माल्लेभे च यावदायुर्निजेप्सितम् । ततो गङ्गां महाराज समाराध्य प्रसाद्य च ॥ २,५६.३८ ॥ वरमागमनं वव्रे दिवस्तस्या महींप्रति । ततस्तां शिरसा धर्त्तु तपसाऽराधयच्छिवम् ॥ २,५६.३९ ॥ स चापि तद्वरं तस्मै प्रददौ भक्तवत्सलः । मेरोर्मूर्ध्नस्ततो गङ्गां पतं ती शिरसात्मनः ॥ २,५६.४० ॥ सग्राहनक्रमकरां जग्राह जगतां पतिः । सा तच्छिरः समासाद्य महावेगप्रवाहिनी ॥ २,५६.४१ ॥ तज्जटामण्डले शुभ्रे विलिल्ये सातिगह्वरे । चुलकोदकवच्छंभोर्विलीनां शिरसि प्रभोः ॥ २,५६.४२ ॥ विलोक्य तत्प्रमोक्षाय पुनराराधयद्धरम् । स तां शर्वप्रसादेन लब्ध्वा तु भुवमागताम् ॥ २,५६.४३ ॥ आनिन्ये सागरा दग्धा यत्र तां वै दिशं प्रति । सऽनुव्रजन्ती राजानं राजर्षेर्यजतः पथि ॥ २,५६.४४ ॥ तद्यज्ञवाटमखिलं प्लावयामास सर्वतः । स तु राजऋषिः क्रुद्धो यज्ञवाटेऽखिले तया ॥ २,५६.४५ ॥ मग्ने गण्डूषजलवत्स पपौ तामशेषतः । अतन्द्रितो वर्षशतं शुश्रूषितवा स तं पुनः ॥ २,५६.४६ ॥ तस्मात्प्रसन्नान्नृपतिर्लेमे गङ्गां महात्मनः । उषित्वा सुचिरं तस्यनिसृता जठराद्यतः ॥ २,५६.४७ ॥ प्रथितं जाह्नवीत्यस्यास्ततो नामाभवद्भुवि । भगीरथानुगा भूत्वा तत्पितॄणामशेषतः ॥ २,५६.४८ ॥ निजांभसास्थिभस्मानि सिषेच सुरनिम्नगा । ततस्तदंभसा सिक्तेष्वस्थिभस्मसु तत्क्षणात् ॥ २,५६.४९ ॥ निरयात्सागराः सर्वे नष्टपापा दिवं ययुः । एवं सा सागरान्सर्वान्दिवं नीत्वा महान्दी ॥ २,५६.५० ॥ तेनैव मार्गेण जवात्प्रयाता पूर्वसागरम् । सेनोर्मूर्ध्नश्चतुर्भेदा भूत्वा याता चतुर्द्दिशम् ॥ २,५६.५१ ॥ चतुर्भेदतया चाभूत्तस्या नाम्नां चतुष्टयम् । सीता चालकनन्दा च सुचक्षुर्भद्रवत्यपि ॥ २,५६.५२ ॥ अगस्त्यपीतसलिलाच्चिरं शुष्कोदका अपि । गङ्गांभसा पुनः पूर्णाश्चत्वारोऽम्बुधयोऽभवन् ॥ २,५६.५३ ॥ पूर्वमाणे समुद्रे तु सागरैः परिवर्द्धिते । अन्तर्हिताभवन्देशा बहवस्तत्समीपगाः ॥ २,५६.५४ ॥ समुद्रोपान्तवर्त्तीनि क्षेत्राणि च समन्ततः । इतस्ततः प्रयाताश्च जनास्तन्निलया नृप ॥ २,५६.५५ ॥ गोकर्णमिति च क्षेत्रं पूर्वं प्रोक्तं तु यत्तव । अर्मवोपात्तवर्त्तित्वात्समुद्रेऽतर्द्धिमागमत् ॥ २,५६.५६ ॥ ततस्तन्निलयाः सर्वे तदुद्धाराभिकाङ्क्षिणः । सह्याद्रेर्भृगुशार्दूलं द्रष्टुकामा ययुर्नृप ॥ २,५६.५७ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमाभागे तृतीय उपोद्धातपादे गङ्गानयनं नाम षट्पञ्चशत्तमोऽध्यायः _____________________________________________________________ जैमिनिरुवाच ततः शुष्कसुमित्राद्या मुनयः शंसितव्रताः । ययुर्दिदृक्षवो रामं महेन्द्रमचलं प्रति ॥ २,५७.१ ॥ अतीत्य सुबहून्देशान्वनानि सरितस्तथा । आसेदुरचलश्रेष्ठं क्रमेण मुनिपुङ्गवाः ॥ २,५७.२ ॥ तमारुह्य शनैस्तस्यख्यातमाश्रममण्डलम् । प्रशान्तक्रूरसत्त्वाढ्यं शुभं मध्ये तपोवनम् ॥ २,५७.३ ॥ सर्वर्त्तुफलपुष्पाढ्यतरुखण्डमनोहरम् । स्निग्धच्छायमनौपम्यं स्वामोदिसुखमारुतम् ॥ २,५७.४ ॥ तं तदाश्रममासाद्य ब्रह्मघोषेण नादितम् । विविशुर्त्दृष्टमनसो यथावृद्धपुरस्सरम् ॥ २,५७.५ ॥ ब्रह्मासने सुखासीनं मृदुकृष्णाजिनोत्तरे । शिष्यैः परिवृतं शान्तं ददृशुस्ते तपोधनाः ॥ २,५७.६ ॥ कालाग्निमिव लोकांस्त्रीन्दग्ध्वा पूर्वं निजेच्छया । तद्दोषशान्त्यै तपसि प्रवृत्तमिव्देहिनम् ॥ २,५७.७ ॥ ते समेत्य भृगुश्रेष्ठं विनयाचारशालिनः । ववन्दिरे महामौनं भक्तिप्रणतकन्धराः ॥ २,५७.८ ॥ ततस्तानागतान्दृष्ट्वा मुनीन्भृगुकुलोद्वहः । अर्घपाद्यादिभिः सम्यक्पूजयामास सादरम् ॥ २,५७.९ ॥ तानासीनान्कृतातिथ्यानृषीन्देशान्तरागतान् । उवाच भृगुशार्दूलः स्मितपूर्वमिदं वचः ॥ २,५७.१० ॥ स्वागतं वो महाभागा यूयं सर्वे समागताः । करणीयं किमस्माभिर्वदध्वमविचारितम् ॥ २,५७.११ ॥ ततस्ते मुनयो रामं प्रणम्येदमथाब्रुवन् । अवेह्यस्मान्मुनिश्रेष्ठ गोकर्णनिलयान्मुनीन् ॥ २,५७.१२ ॥ खनद्भिः सागरैर्भूमिं कस्मिंश्चित्कारणान्तरे । सतीर्थं तन्महाक्षेत्रं पतितं सागरांभसि ॥ २,५७.१३ ॥ उत्सारितार्मवजलं क्षेत्रं तत्सर्वपावनम् । उपलब्धुमभीप्सामो भवतस्तु न संशयः ॥ २,५७.१४ ॥ विष्णोरंशेन संजातो भवान्भृगुकुले किल । तस्मात्कर्तुमशक्यं ते त्रैलोक्येऽपि न किञ्चन ॥ २,५७.१५ ॥ वाञ्छितार्थप्रदो लोके त्वमेवेत्यनुशुश्रुम । वयं त्वामागताः सर्वे रामैतदभियाचितुम् ॥ २,५७.१६ ॥ स त्वमात्मप्रभावेण क्षेत्रप्रवरमद्य तत् । दातुमर्हसि विप्रेन्द्र समुत्सार्यार्मवोदकम् ॥ २,५७.१७ ॥ राम उवाच एतत्सर्वमशेषण विदितं मे तपोधनाः । करणीयं च वः कृत्यं मया नात्र विचारणा ॥ २,५७.१८ ॥ किं तु युष्मदभिप्रेतं कर्म लोके सुदारुणम् । शस्त्रसंग्रहणाच्छक्यं मयापि न तदन्यथा ॥ २,५७.१९ ॥ दत्तसर्वाभयोऽहं वै न्यस्तशस्त्रः शमान्वितः । तपः समास्थितश्चर्तु प्रागेव पितृ शासनात् ॥ २,५७.२० ॥ न जातु शस्त्रग्रहणं करिष्यामीत्यहं पुरा । प्रतिश्रुत्य सतां मध्ये तपः कर्त्तुमिहानघाः ॥ २,५७.२१ ॥ शस्त्रग्रहणसाध्यत्वाद्युष्मदीप्सितवस्तुनः । किङ्कर्त्तव्यं मयात्रेति मम डोलायते मनः ॥ २,५७.२२ ॥ शुष्क उपाच । सतां संरक्षणार्थाय शस्त्रसंग्रहणं तु यत् । तन्नच्यावयते सत्यद्यथोक्तं ब्रह्मणा पुरा ॥ २,५७.२३ ॥ तस्मादस्मद्धितार्थाय भवता ग्राह्यमायुधम् । धर्म एव महांस्तेन चरितस्ते भविष्यति ॥ २,५७.२४ ॥ जैमिनिरुवाच एवं संप्रार्थ्यमानस्तु मुनिभिर्भृगुपुङ्गवः । तमनुद्रुत्य मेधावी धर्ममुद्दिश्य केवलम् ॥ २,५७.२५ ॥ स तैः सह मुनिश्रेष्ठो दिशं दक्षिणपश्चिमाम् । समुद्दिश्य चचौ राजन्द्रष्टुकामः सरित्पतिम् ॥ २,५७.२६ ॥ स सह्यमचलश्रेष्ठमवतीर्य भृगूद्वहः । तत्परं सरितां पत्युस्तीरं प्राप महामनाः ॥ २,५७.२७ ॥ स ददर्श महाभागः परितो मारुताकुलम् । आकरं सर्वरत्नानां पूर्यमाणमनारतम् ॥ २,५७.२८ ॥ अपरिज्ञेयगांभीर्यं महातामिव मानसम् । दुष्पारपारं सर्वस्य विविधग्रहसंहतिम् ॥ २,५७.२९ ॥ अप्रधृष्य तमं लोके धातारमिव केवलम् । आत्मानमिव चात्मत्वे न्यक्कृताखिलमुद्धतम् ॥ २,५७.३० ॥ आश्रयं सर्वसत्त्वानामापगानां च पार्थिवः । अत्यर्थचपलोत्तुगतरङ्गशतमालिनम् ॥ २,५७.३१ ॥ उपान्तोपलसंघातकुहरान्तरसंश्रयात् । विशीर्यमाणलहरीशतफेनौघसोभितम् ॥ २,५७.३२ ॥ गंभीरघोषं जलधिं पश्यन्मुनिगणैः सह । संसेव्यमानस्तरलैर्लहरीकणशीतलैः ॥ २,५७.३३ ॥ मुहूर्त्तमिव राजेन्द्र तीरेनदनदीपतेः । विशश्रमे महाबाहुर्द्रष्टुकामः प्रचेतसम् ॥ २,५७.३४ ॥ ततो रामः समुत्थाय दक्षिणाभिमुखः स्थितः । मेघगंभिरया वाचा वरुणं वाक्यमब्रवीत् ॥ २,५७.३५ ॥ अहं मुनिगणैः सार्द्धमागतस्त्वद्दिदृक्षया । तस्मात्स्वरूपधृङ्मह्यं प्रचेतो देहि दर्शनम् ॥ २,५७.३६ ॥ इति श्रुत्वापि तद्वाक्यं वरुणो यादसां पतिः । न चचाल निजस्थानान्नृप धीरतरस्त्वयम् ॥ २,५७.३७ ॥ पुनः पुनश्च रामेण समाहूतोऽपि तोयराट् । न ददौ दर्शनं तस्मै प्रतिवाच्यं च नाभ्यधात् ॥ २,५७.३८ ॥ अलङ्घनीयं तद्वाक्यं वरुणेनावधीरितम् । अत्यन्तमिति कार्यार्थी विदुषा समुपेक्षितम् ॥ २,५७.३९ ॥ ततः प्रचेतसा वाक्यं मन्यमानोऽवधीरितम् । चुकोप तमभिप्रेक्ष्य रामः शस्त्रभृतां वरः ॥ २,५७.४० ॥ संक्षुब्धसागराकारः स तदा स्वबलाश्रयात् । निस्तोयमर्णवं कर्तुमियेष रुषितो भृशम् ॥ २,५७.४१ ॥ ततो जलमुपस्पृश्य समीपे विजयं धनुः । ततः प्रणम्य मनसा शर्वं रामो महाद्धनुः ॥ २,५७.४२ ॥ गृहीत्वारोपयामास क्रोधसंरक्तलोचनः । अभिमृश्य धनुःश्रेष्ठं सगुणं भृगुसत्तमः ॥ २,५७.४३ ॥ पश्यतां सर्वभूतानां ज्याघोषमकरोत्तदा । ज्याघोषः शुश्रुवे तस्य दिविस्पृगतिनिष्ठुरः ॥ २,५७.४४ ॥ चचाल निखिलायेन सप्तद्वीपार्मवा मही । ततः सरभसं रामश्चापे कालानलोपमम् ॥ २,५७.४५ ॥ सुवर्मपुङ्खं विशिखं संदधे शरसत्तमम् । तस्मिन्नस्त्रं महाघोरं भार्गवं वह्निदैवतम् ॥ २,५७.४६ ॥ युयोज भृगुशार्दूलः समन्त्राभ्यासमोक्षणम् । ततश्चचाल वसुधा सशैलवनकानना ॥ २,५७.४७ ॥ प्रक्षोभं परमं जग्मुर्देवासुरमहोरगाः । संधितास्त्रं भृगुश्रेष्ठं क्रोधसंरक्तलोचनम् ॥ २,५७.४८ ॥ दृष्ट्वा संभ्रान्तमनसो बभूवुः सचराचराः । सदिग्दाहभ्रपटलैरभवन्संवृता दिशः ॥ २,५७.४९ ॥ ववुश्च परुषा वाता रजोव्याप्ता महारवाः । मन्दरश्मिरशीतांशुरभूतसंरक्तमण्डलः ॥ २,५७.५० ॥ सोल्कापाताशनिर्वृष्टिर्बभूव रुधिरोदका । किमेतदिति संभ्रान्ता धूमोद्गारातिभीषणम् ॥ २,५७.५१ ॥ अधिरोपितदिव्यास्त्रं प्रचकर्ष महाशरम् । धनुर्विकर्षमाणं तं स्फुरज्ज्वालाग्रसायकम् ॥ २,५७.५२ ॥ ददृशुर्मुनयो रामं कल्पान्तानलसन्निभम् । आकर्णाकृष्टकोदण्डमण्डलाभ्यं तरस्थितम् ॥ २,५७.५३ ॥ तस्य प्रतिभयाकारं दुष्प्रापमभवद्वपुः । विकृष्टधनुषस्तस्य रूपमुग्रं रवेरिव ॥ २,५७.५४ ॥ कल्पान्तेऽभ्युदितस्येव मण्डलं परिवेषितम् । कल्पान्ताग्नसमज्वालाभीषणं स्फुरतो वपुः ॥ २,५७.५५ ॥ तस्यालक्ष्यत चक्रम्य हरेरिव च मण्डलम् । स्फुरत्क्रोधानलज्वालापरीतस्यातिरौद्रताम् ॥ २,५७.५६ ॥ अवाप विष्णोः स तदा नरसिंहाकृतेरिव । वपुर्विकृष्टचापस्य भृकुटीकुटिलाननम् ॥ २,५७.५७ ॥ रामस्याभूद्भवस्येव दिधक्षोस्त्रिपुरं पुरा । जाज्वल्यमानवपुषं तं दृष्ट्वा सहसा भयात् ॥ २,५७.५८ ॥ प्रसीद जय रामेति तुष्टुवुर्मुनयोऽखिलाः । ततोऽस्त्राग्निस्फुरद्धूमपटलैः शकलीकृतम् ॥ २,५७.५९ ॥ बभूव च्छन्नमंभोधेरन्तः पुरमशैषतः । ज्वलदस्त्रानलज्वालाप रितापपराहतः ॥ २,५७.६० ॥ अत्यरिच्यत संभ्रान्तसलिलौघ उदन्वतः । तिमिङ्गिलतिमिग्राहनक्रमत्स्याहिकच्छपाः ॥ २,५७.६१ ॥ प्रजग्मुः परमामार्त्तिं प्राणिनः सलिलेशयाः । उत्पतन्निपतत्ताम्यन्नानासत्त्वोद्धतोर्मिभिः ॥ २,५७.६२ ॥ प्रक्षोभं भृशमंभोधिः सहसा समुपागमत् । त्रासरासं च विपुलमंभसा प्लवता सह ॥ २,५७.६३ ॥ उद्वेलतामितस्तप्ताः सलिलान्तरचारिणः । ततस्तस्माच्छराज्ज्वालाः फूत्कृताशेष भीषणाः ॥ २,५७.६४ ॥ निरूपितमिव व्यक्तं निश्चेरुः सर्वतो दिशम् । ततः प्रचण्डपवनैः सर्वतः परिवर्त्तितम् ॥ २,५७.६५ ॥ अग्निज्वालामयं रक्तवितानाभमलक्ष्यत । प्रलयाब्धेरिवात्यर्थमस्त्राग्निव्याकुलांभसः ॥ २,५७.६६ ॥ समुद्रिक्ततया तस्य तरङ्गास्तीरमभ्ययुः । अस्त्राग्निविद्धाकुलितजलघोषेण भूयसा ॥ २,५७.६७ ॥ ककुभो बधिरीकुवन्नलक्ष्यत पयोनिधिः । परितोऽस्त्रानलज्वालापरिवीतजलाविलः ॥ २,५७.६८ ॥ जगाम परमामार्त्तिं सह्यः सद्यस्तदाश्रयः । आकर्णाकृष्टकोदण्डं दृष्ट्वा रामं पयोनिधिः ॥ २,५७.६९ ॥ विषादमगमत्तीव्रं यमं दृष्ट्वेव पातकी । भयकंपितसर्वाङ्गस्ततो नदनदीपतिः ॥ २,५७.७० ॥ विहाय सहजं धैर्यं भीरुत्वं समुपागमत् । ततः स्वरूपमास्थाय सर्वाभरणभूषितः ॥ २,५७.७१ ॥ उत्तीर्यमाणः स्वजलं वरुणः प्रत्यदृश्यत । कृताञ्जलिः सार्वहस्तः प्रचेता भार्गवान्तिकम् ॥ २,५७.७२ ॥ त्वरयाभ्यायायौ शीघ्रसायकाद्भीतभीतवत् । अभ्येत्याकृष्टधनुषः स तस्य चरणाब्जयोः ॥ २,५७.७३ ॥ अब्रवीच्च भृशं भीतः संभ्रमाकुलिताक्षरम् । रक्ष मां भृगुशार्दूल कृपया शरणागतम् ॥ २,५७.७४ ॥ अपराधमिमं राम मया कृतमजानता । स्थितोऽस्मि तव निर्देशेशाधि किं करवाणि वै ॥ २,५७.७५ ॥ इति श्रीब्रह्माण्डे महापुराणे मध्यमभागे तृतीये उपोद्धातपादे भार्गवं प्रति वरुणागमनं नाम सप्तपञ्चशत्तमोऽध्यायः ॥ ५७॥ _____________________________________________________________ जैमिनिरुवाच एवं ब्रुवाणं वरुणं विलोक्य पतितं भुवि । संजहार पुनर्धीमानस्त्रं मृगुकुलोद्वहः ॥ २,५८.१ ॥ संत्दृतास्त्रस्ततो रामो वरुणं पुरतः स्थिरम् । विलोक्य बिगतक्रोधस्तमुवाच हसन्निव ॥ २,५८.२ ॥ गोकर्णनिलयाः पूर्वमिमेमां मुनिपुङ्गवाः । समायाता महेन्द्राद्रौ निवसंतं सरित्पते ॥ २,५८.३ ॥ त्वत्तोये मेदिनीं पूर्वं खनद्भिः सगरात्मजैः । अधो निपातितं क्षेत्रं गोकर्णमृषिसेवितम् ॥ २,५८.४ ॥ उपलब्धुमिमे भूयः क्षेत्रं तद्भववल्लभम् । अधावन्मामुपागम्य मुनयस्तीर्थवासिनः ॥ २,५८.५ ॥ एषामर्थे ततः सोऽहं महेन्द्रादचलोत्तमात् । भवन्तमागतो द्रष्टुं सहैभिर्मुनिपुङ्गवैः ॥ २,५८.६ ॥ तस्मान्मदर्थे सलिलं समुत्सार्यात्मनो भवान् । दातुमर्हति तत्क्षेत्रमेषां तोये च पूर्ववत् ॥ २,५८.७ ॥ जैमिनिरुवाच इति तस्य वचः श्रुत्वा वरुणो यादसां पतिः । निरूप्य मनसा राममिद भूयोऽब्रवीद्वचः ॥ २,५८.८ ॥ वरुण उवाच न शक्यमुत्सारयितुं मदंभः केनचिद्भवेत् । तथा हि मे वरो दत्तः पुरानेन विरिञ्चिना ॥ २,५८.९ ॥ सोऽहं त्वत्तेजसेदारीं विहाय सहजां धृतिम् । कातरं समुपायातो वशतां तव भार्गव ॥ २,५८.१० ॥ एषामर्थे विशेषण भवता परिचोदितः । कथं न कुर्यां कर्मेदमहं क्षत्त्रकुलान्तक ॥ २,५८.११ ॥ तस्माद्यावत्प्रमाणं मे भवान्संकल्पयिष्यति । तावत्संघारयिष्यामि भूमौ सलिलमात्मनः ॥ २,५८.१२ ॥ इति तस्य वचः श्रुत्वा तथेत्युक्त्वा स सायकम् । यथागतं प्रचिक्षेप धनुर्निर्भिद्य भार्गवः ॥ २,५८.१३ ॥ ततो निरूप्य सीमानं दर्शयानो महीपते । स्रुवं जग्राह मतिमान्क्षप्तुकामो जलाशये ॥ २,५८.१४ ॥ प्रसन्नचेतसं रामं गतरोषमथात्मनि । अन्तर्हिते सरिन्नाथे रामः सुवमुदङ्मुखः ॥ २,५८.१५ ॥ भ्रामयित्वातिवेगेन चिक्षेप लवणार्णवे । क्षिप्तत्वेन समुद्रे तु दिशमुत्तरपश्चिमाम् ॥ २,५८.१६ ॥ गत्वा स्रुवोपतद्राजन्योजनानां शतद्वयम् । तीर्थं शुर्पारकं नाम सर्वपापविमोचनम् ॥ २,५८.१७ ॥ विश्रुतं यत्त्रिलोकेषु तीरे नदनदीपतेः । तीर्थं तदन्तरीकृत्य स्रुवो रामकराच्च्युतः ॥ २,५८.१८ ॥ निपपात महाराज सूचयन्रामविक्रमम् । यत्राभूद्रामसृष्टाया भुवो निष्ठाथ पार्थिव ॥ २,५८.१९ ॥ तीर्थं शूर्पारकं तत्तु श्रीमल्लोकपरिश्रुतम् । उत्सारयित्वा सलिलं समुद्रस्तावदात्मनः ॥ २,५८.२० ॥ अतिष्ठदपसृत्योर्वीं दत्त्वा रामाय पार्थिव । अनतिक्रान्तमर्यादो यथाकालं भृगूद्वहः ॥ २,५८.२१ ॥ समयं स्वापयामास तस्यैवानुमते भुवि । विज्ञाय पूर्वसीमान्तां भुवमभ्युत्ससर्ज ह ॥ २,५८.२२ ॥ व्यस्मयन्त सुराः सर्वे दृष्ट्वा रामस्य विक्रमम् । नगरग्रमसीमानः किञ्चित्किञ्चित्क्वचित्क्वचित् ॥ २,५८.२३ ॥ सह्ये तु पूर्ववत्तस्मिन्नब्धेरपसृतेंऽभसि । तत्र दैवात्तथा स्थानान्निम्नत्वात्स प्रलक्ष्य तु ॥ २,५८.२४ ॥ ततस्तेषां भृगुश्रेष्ठो मुनीनां भावितात्मनाम् । यथाभिलषितं स्थानं प्रददौ प्रीतिपूर्वकम् ॥ २,५८.२५ ॥ ततस्ते मुनयः सर्वे हर्षेण महातान्विताः । कृतकृत्या भृशं राममाशिषा समपूजयन् ॥ २,५८.२६ ॥ अथैतैरभ्यनुज्ञातो ययौ प्राप्तमनोरथः । गते मुनिवरे रामे देशात्तस्मान्निजाश्रमम् ॥ २,५८.२७ ॥ संभूय मुनयः सर्वे प्रजग्मुस्तीरमंबुधेः । परिचङ्क्रम्य तां भूमिं यत्नेन महातान्विताः ॥ २,५८.२८ ॥ ददृशुः सर्वतो राजन्ह्यर्मवान्तः स्थितां महीम् । नित्यत्वा त्सर्वदेवानामधिष्ठानतया तथा ॥ २,५८.२९ ॥ कातमब्धौ निपतितं नष्टतोयं चिरोषितम् । अपि रुद्रप्रभावेम प्रायान्नात्यन्तविप्लवम् ॥ २,५८.३० ॥ तत्तेयनिःसृतं क्षेत्रमभूत्पूर्ववदेव हि । एतद्धि देवसामर्थ्यमचिन्त्यं नृपसत्तम ॥ २,५८.३१ ॥ एवं रामेण जलधेः पुनः सृष्टा वसुंधरा । दक्षिणोत्तरतो राजनयोजनानां चतुःशतम् ॥ २,५८.३२ ॥ नातिक्रामति सोऽद्यापि सीमानं पयसां निधिः । कृतं रामेण महता न तु सज्जं महद्धनुः ॥ २,५८.३३ ॥ एवं प्रभावो रामोऽसौ सगरश्च महीपतिः । यस्य पुत्रैरयं खण्डो भारतोऽब्धौ निपतितः ॥ २,५८.३४ ॥ योजनानां सहस्रन्तु वर्द्धितश्च महोदधिः । रामेणाभूत्पुनः सृष्टं योजनानां तु षट्शतम् ॥ २,५८.३५ ॥ सगरस्य सुतैर्यस्माद्वर्द्धितो मकरालयः । ततः प्रभृति लोकेषु सागराख्यामवाप्तवान् ॥ २,५८.३६ ॥ एतत्तेऽभिहितं सम्यङ्महतश्चरितं मया । रामस्य कार्त्तवीर्यस्य सगरस्य महीपतेः ॥ २,५८.३७ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्त मध्यमभागे तृतीय उपाद्धातपादेऽष्टपञ्चशत्तमोऽध्यायः ॥ ५८॥ _____________________________________________________________ बृहस्पतिरुवाच ऋषयस्त्वेव मुक्तास्तु परं हर्षमुपागताः । परं शुश्रूषया भूयः पप्रच्छुस्तदनन्तरम् ॥ २,५९.१ ॥ ऋषय ऊचुः वंशानामानुपूर्व्येण राज्ञां चामिततेजसाम् । स्थितिं चैषां प्रभावं च ब्रूहि नः परिपृच्छताम् ॥ २,५९.२ ॥ एवमुक्तस्ततस्तैस्तु तदासौ लोमहर्षणः । शृण्वतामुत्तराख्याने ऋषीणां वाक्य कोविदः ॥ २,५९.३ ॥ अख्यानकुशलो भूयः परं वाक्यमुवाच ह । ब्रुवतो मे निबोधंश्च ऋषिराह यथा मम ॥ २,५९.४ ॥ वंशानामानुपूर्व्येण राज्ञां चामिततेजसाम् । स्थितिं चैषां प्रभावं च क्रमतो मे निबोधत ॥ २,५९.५ ॥ वरुणस्य सपत्नीकान् स्तुता देवी उदाहृता । तस्याः पुत्रौ कलिर्वैद्यः स्तुता च सुरसुंदरी ॥ २,५९.६ ॥ कलिपुत्रौ महावीर्यौं जयश्च विजयश्च ह । वैद्यपुत्रौ घृणिश्चैव मुनिश्चैव महाबलौ ॥ २,५९.७ ॥ प्रत्तानामनु कामानामन्योन्यस्य प्रभक्षिणौ । भक्ष्यित्वा तावन्योन्यं विनाशं समवाप्नुतः ॥ २,५९.८ ॥ कलिः सुरायाः संज्ञेयस्तस्य पुत्रो मदः स्मृतः । स्मृता हिंसा कलेर्भार्या श्रेष्ठा या निकृतस्मृतिः ॥ २,५९.९ ॥ प्रसूतान्ये कलेः पुत्राश्चत्वारः पुरुषादकाः । नाके विघ्नश्च विख्यातो भद्रमोविधमस्तथा ॥ २,५९.१० ॥ अशिरस्कतया विघ्नो नाकश्चैवाशरीरवान् । भद्रमश्चैकहस्तोऽभूद्विधमश्चैकपात्स्मृतः ॥ २,५९.११ ॥ भद्रमस्य तथापत्नी तामसी पूतना तथा । रेवती विधमस्यापि तयोः पुत्राः सहस्रशः ॥ २,५९.१२ ॥ नाकस्य शकुनिः पत्नी विघ्नस्य च अयो मुखी । राक्षसास्तु महावीर्याः संध्याद्वयविचारिमः ॥ २,५९.१३ ॥ रेवतीपूतनापुत्रा नैऋता नामतः स्मृताः । ग्रहस्ते राक्षसाः सर्वे बालानां तु विशेषतः ॥ २,५९.१४ ॥ स्कन्दस्तेषामधिपतिर्ब्रह्मणोऽनुमतः प्रभुः । बृहस्पतेर्या भगिनी वरस्त्री ब्रह्मचारिणी ॥ २,५९.१५ ॥ योगसिद्धा जगत्कृत्स्नमसक्ता चरते सदा । प्रभासस्य तु सा भार्या वसूनामष्टमस्य च ॥ २,५९.१६ ॥ विश्वकर्मा सुरस्तस्या जातः शिल्पिप्रजापतिः । त्वष्टा विराजो रूपाणि धर्मपौत्र उदारधीः ॥ २,५९.१७ ॥ कर्त्ता शिल्पिसहस्राणां त्रिदशानां तु योगतः । यःसर्वेषां विमानानि देवतानां चकार ह ॥ २,५९.१८ ॥ मानुषाश्चोपजीवन्ति यस्य शिल्पं महात्मनः । प्रह्रादी विश्रुता तस्य पत्नी त्वष्टुर्विरोचना ॥ २,५९.१९ ॥ विरोचनस्य भगिनी माता त्रिशिरसस्तथा । देवाचार्यस्य महतो विश्वरूपस्य धीमतः ॥ २,५९.२० ॥ विश्वकर्मात्मजश्वैव विश्वकर्मा मयः स्मृतः । सुरेणुरिति विख्याता स्वसा तस्य यवीयसी ॥ २,५९.२१ ॥ त्वाष्ट्री या सवितुर्भार्या पुनः संज्ञेति विश्रुता । प्रासूत सा महाभागं मनुं ज्येष्ठं विवस्वतः ॥ २,५९.२२ ॥ यमौ प्रासूत च पुनर्यमं च यमुनां च ह । सा तु गत्वा कुरून्देवी वडवा रूपधारिणी ॥ २,५९.२३ ॥ सवितुश्चास्य रूपस्य नासिकाभ्यां तु तौ स्मृतौ । प्रासूत सा महाभाग त्वन्तरिक्षेऽश्विनौ किल ॥ २,५९.२४ ॥ नासत्यं चैव दस्रं च मार्त्तण्डस्यात्मजावुभौ । ऋषय ऊचुः कस्मान्मार्त्तण्ड इत्येष विवस्वानुदितो बुधैः ॥ २,५९.२५ ॥ किमर्थं सासुरूपा वै नासिकाभ्यामसूयत । एतद्वेदितुमिच्छामो सर्वं नो ब्रूहि पृच्छताम् ॥ २,५९.२६ ॥ सूत उवाच चिरोत्पन्नमतिर्भिन्नमण्डं त्वष्ट्रा विदारितम् । गर्भवधं भ्रान्तः कश्यपो विद्रुतो भवेत् ॥ २,५९.२७ ॥ अण्डे द्विधाकृते त्वण्डं दृष्ट्वा त्वष्टेदमब्रवीत् । नैतन्न्यूनं भवादण्डं मार्त्तण्डस्त्वं भवानघ ॥ २,५९.२८ ॥ न खल्वयं मृतोंऽडस्थ इति स्नेहात्पिताब्रवीत् । तस्य तद्वचनं श्रुत्वा नामान्वर्थमुदाहरन् ॥ २,५९.२९ ॥ यन्मार्त्तण्डो भवेत्युक्तस्त्वण्डात्सोंडे द्विधाकृते । तस्माद्विवस्वान्मार्त्तण्डः पुराणज्ञैर्विभाव्यते ॥ २,५९.३० ॥ ततः प्रजाः प्रवक्ष्यामि मार्त्तण्डस्य विवस्वतः । विजज्ञे सवितुर्भार्या संज्ञा पुत्रांस्तु त्रीन्पुनः ॥ २,५९.३१ ॥ मनुं यमीं यमं चैव छाया सा तपती तथा । शनैश्चरं तथैवैते मार्त्तण्डस्यात्मजाः स्मृताः ॥ २,५९.३२ ॥ विवस्वान्कश्यपाज्जज्ञे दाक्षायिण्यां महायशाः । तस्य संज्ञाभवद्भार्या त्वाष्ट्री देवी विवस्वतः ॥ २,५९.३३ ॥ सुरेणुरिति विख्याता पुनः संज्ञेति विश्रुता । सा तु भार्या भगवतो मार्त्तण्डस्यातितेजसः ॥ २,५९.३४ ॥ न खल्वये मृतो ह्यण्डे इति स्नेहात्तमब्रवीत् । अजानन्कश्यपः स्नेहात्मार्त्तण्ड इति चोच्यते ॥ २,५९.३५ ॥ तेजस्त्वभ्यधिकं तस्य नित्यमेव विवस्वतः । येनापि तापयामास त्रील्लोङ्कान्कश्यपात्मजः ॥ २,५९.३६ ॥ त्रीण्यपत्यानि संज्ञायां जनयामास वै रविः । द्वौ सुतौ तु महावीर्यौं कन्यैका विदितैव च ॥ २,५९.३७ ॥ मनुर्वैवस्वतो ज्येष्ठः श्राद्धदेवः प्रजापतिः । ततो यमो यमी चैव यमजौ संबभूवतुः ॥ २,५९.३८ ॥ असह्यतेजस्तद्रूपं दृष्ट्वा संज्ञा विवस्वतः । असहन्ती स्वकां छायां सवर्णां निर्ममे पुनः ॥ २,५९.३९ ॥ महाभागा तु सा नारी तस्याश्छायासमुद्गता । प्राञ्जलिः प्रयता भूत्वा पुनः संज्ञामभाषत ॥ २,५९.४० ॥ वदस्व किं मया कार्यं सा संज्ञा तामथाब्रवीत् । अहं यास्यापि भद्रं ते स्वमेव भवनं पितुः ॥ २,५९.४१ ॥ त्वयेह भवने मह्यं वस्तव्यं निर्विशङ्कया । इमौ च बालकौ मह्यं कन्या च वरवर्णिनी ॥ २,५९.४२ ॥ भर्त्तव्या नैवमाख्येयमिदं भगवते त्वया । इमौ च बालकौ मह्यं तथेत्युक्ता तथा च सा ॥ २,५९.४३ ॥ त्वष्टुः समीपमगमद्व्रीडितेव तपस्विनी । पिता तामागतां दृष्ट्वा क्रुद्धः संज्ञामथाब्रवीत् ॥ २,५९.४४ ॥ भर्त्तुः समीपं गच्छेति नियुक्ता च पुनः पुनः । अगमद्वडवा भूत्वाच्छाद्य रूपमनिन्दिता ॥ २,५९.४५ ॥ उत्तरान्सा कुरून्गत्वा तृणान्यथ चचार सा । द्वितीयायां तु संज्ञायां संज्ञेयमिति चिन्त्य ताम् ॥ २,५९.४६ ॥ आदित्यो जनयामास पुत्रावादित्यवर्चसौ । पूर्वजस्य मनोस्तुल्यौ सादृश्येन तु तौ प्रभू ॥ २,५९.४७ ॥ श्रुतश्रवा मनुस्ताभ्यां सावर्णिर्वै भविष्यति ॥ २,५९.४८ ॥ श्रुतकर्मा तु विज्ञेयो ग्रहो वै यः शनैश्चरः । मनुरेवाभवत्सोऽपि सावर्णिरिति चोच्यते ॥ २,५९.४९ ॥ संज्ञा तु पार्थिवी सा वै स्वस्य पुत्रस्य वै तदा । चकाराभ्यधिकं स्नेहं त तथा पूर्वजेषु वै ॥ २,५९.५० ॥ मनुस्तच्छाक्षमत्सर्वं यमस्तद्वै न चाक्षमत् । बहुशो जल्पमानस्तु सापत्न्यादतिदुःखितः ॥ २,५९.५१ ॥ तां वै रोषाच्च बालाच्च भाविनोर्ऽथस्य वै बलात् । यदा संतर्जयामास च्छायां वैवस्वतो यमः ॥ २,५९.५२ ॥ सा शशाप ततः क्रोधात्सार्णिजननी यमम् । यदा तर्जयसेऽकस्मात्पितृभार्यां यशस्विनीम् ॥ २,५९.५३ ॥ तस्मात्तवैष चरमः पतिष्यति न संशयः । यमस्तु तेन शापेन भृशं पीडितमानसः ॥ २,५९.५४ ॥ मनुना सह धर्मात्मा पितुः सर्वं न्यवेदयत् । भृशं शापभयोद्विग्नः संज्ञावाक्यैर्विनिर्जितः ॥ २,५९.५५ ॥ तस्यां मयोद्यतः पादो न तु देहे निपातितः । बाल्याद्वा यदि वा मोहात्तद्भवान्क्षन्तुमर्हति ॥ २,५९.५६ ॥ शप्तोऽहमस्मि लोकेश जनन्या तपतां वर । तव प्रसादो नस्त्रातुमेतस्मान्महतो भयात् ॥ २,५९.५७ ॥ विवस्वानेवमुक्तस्तु यमं प्रोवाच वै प्रभुः । असंशयं पुत्र महद्भविष्यत्यत्र कारणम् ॥ २,५९.५८ ॥ येन त्वामाविशत्क्रोधो धर्मज्ञं सत्यवादिनम् । न शक्यमेतन्मिथ्य तु कर्त्तुं मातुर्वचस्तव ॥ २,५९.५९ ॥ कृमयो मांसमादाय यास्यन्ति च महीं तव । ततः पादं महाप्राज्ञ पुनः सांप्राप्स्यसे सुखम् ॥ २,५९.६० ॥ कृतमेवं वचः सत्यं मातुस्तव भविष्यति । शापस्य परिहारेण त्वं च त्रातो भविष्यसि ॥ २,५९.६१ ॥ आदित्यस्त्वब्रवीत्संज्ञां किमर्थं तनयेषु तु । तुल्येष्वभ्यधिकस्नेह एकस्मिन्क्रियते त्वया ॥ २,५९.६२ ॥ सा तत्परिहरन्ती वै नाचचक्षे विवस्वतः । आत्मना स समाधाय योगात्तत्त्वमपश्यत ॥ २,५९.६३ ॥ तां शप्तुकामो भगवान्नाशाय कुपितः प्रभुः । सा तत्सर्वं यथा तत्त्वमाचचक्षे विवस्वतः ॥ २,५९.६४ ॥ विवस्वांस्तु यथा श्रुत्वा क्रुद्धस्त्वष्टारमभ्ययात् । त्वष्टा तु तं यथान्यायमर्चयित्वा विभावसुम् ॥ २,५९.६५ ॥ निर्दग्धुकामं रोषेण सांत्वयामास वै शनैः । तवातितेजसा युक्तमिदं रूपं न शोभते ॥ २,५९.६६ ॥ असहन्ती तु तत्संज्ञा वने चरति शाद्वले । द्रक्ष्यते तां भवनद्य स्वां भार्यां शुभचारिणीम् ॥ २,५९.६७ ॥ श्लाघ्ययौवनसंपन्नां योगमास्थाय गोपते । अनुकूलं भवेदेवं यदि स्यात्समयो मतः ॥ २,५९.६८ ॥ रूपं निवर्त्तयेयं ते ह्याद्यं श्रेष्ठमरिन्दम । रूपं विवस्वतस्त्वासीत्तिर्यगूर्द्ध्वमधस्तथा ॥ २,५९.६९ ॥ तेनासौ पीडिता देवी रूपेण तु दिवस्पतेः । तस्मात्ते समचक्रं तु वर्तते रूपमद्भुतम् ॥ २,५९.७० ॥ अनुज्ञातस्ततस्त्वष्ट्रा रूपनिर्वर्त्तनाय वै । ततोऽभ्युपागमत्त्वष्टा मार्त्तण्डस्य विवस्वतः ॥ २,५९.७१ ॥ भ्रमिमारोप्य तत्तेजः शातयामास तस्य वै । तं निर्मूलित तेजस्कं तेजसापहृतेन तु ॥ २,५९.७२ ॥ कान्तां प्रभाकरो द्रष्टुमियेष शुभदर्शनः । ददर्श योगमास्थाय स्वां भार्यां वडवां तथा ॥ २,५९.७३ ॥ अदृश्यां सर्वभूतानां तेजसा नियमेन च । अश्वरूपेण मार्त्तण्डस्तां मुखे समभावयत् ॥ २,५९.७४ ॥ मैथुनान्तनिविष्टा च परपुंसोऽभिशङ्कया । सा तं निःसारयामास नोभ्यां शुक्रं विवस्वतः ॥ २,५९.७५ ॥ देवौ तस्मादजायेतामश्विनौ भिषजां वरौ । नासत्यश्चैव दस्रश्च स्मृतौ द्वादशमूर्तितः ॥ २,५९.७६ ॥ मार्त्तण्डस्य सुतावेतावष्टमस्य प्रजापतेः । तां तु रूपेण कान्तेन दर्शयामास भास्करः ॥ २,५९.७७ ॥ स तां दृष्ट्वा तदा भार्यां तुतो षैतामुवाच ह । यमस्तु तेन शापेन भृशं पीडितमानसः ॥ २,५९.७८ ॥ धर्मेण रञ्जयामास धर्मराजस्ततस्तु सः । सोऽलभत्कर्मणां तेन शुभेन परमां द्युतिम् ॥ २,५९.७९ ॥ पितॄणामाधिपत्यं च लोकपालत्वमेव च । मनुः प्रजापतिस्त्वेष सावर्णिः स महायशाः ॥ २,५९.८० ॥ भाव्यः सोऽनागते तस्मिन्मनुः सावर्णिकेन्तरे । मेरुपृष्ठे तपो घोरमद्यापि चरते प्रभुः ॥ २,५९.८१ ॥ भ्राता शनैश्चरस्तत्रग्रहत्वं स तु लब्धवान् । त्वष्टा तु तेन रूपेण विष्णोश्चक्रमकल्पयत् ॥ २,५९.८२ ॥ महामहोऽप्रतिहतं दानवान्प्रतिवारणम् । यवीयसी तयोर्या तु यमुनाच यशस्विनी ॥ २,५९.८३ ॥ अभवत्सा सरिच्छ्रेष्ठा यमुना लोकपावनी । यस्तु ज्येष्ठो महातेजाः सर्गो यस्येति सांप्रतम् ॥ २,५९.८४ ॥ विस्तरं तस्य वक्ष्यामि मनोर्वैवस्वतस्य ह । इदं तु जन्म देवानां शृणुयाद्वा पठेच्च वा ॥ २,५९.८५ ॥ वैवस्वतस्य पुत्राणां सप्तानां तु महौजसाम् । आपदं प्राप्य मुच्येत प्राप्नुयाच्च महद्यशः ॥ २,५९.८६ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते तृतीय उपोद्धातपादे वैवस्वतोत्पत्तिर्नामैकोनषष्टितमोध्यायः ॥ ५९॥ _____________________________________________________________ सूत उवाच ततो मन्वन्तरेऽतीते चाक्षुषे दैवतैः सह । वैवस्वताय महते पृथिवीराज्यमादिशत् ॥ २,६०.१ ॥ तस्माद्वैवस्वतात्पुत्रा जज्ञिरे दश तत्समाः । इक्ष्वाकुश्च नृगश्चैव धृष्टः शर्यातिरेवच ॥ २,६०.२ ॥ नरिष्यन्तस्तथा प्रांशुर्नाभागो दिष्ट एव च । करूषश्च पृषध्रश्च नवैते मानवाः स्मृताः ॥ २,६०.३ ॥ ब्रह्मणा तु मनुः पूर्वं चोदितस्तु प्रबोधितम् । यष्टुं प्रजक्रमे कामं हयमेधेन भूपतिः ॥ २,६०.४ ॥ अथाकरोत्पुत्रकामः परामिष्टिं प्रजापतिः । मित्रावरुणयोरंशे अनलाहुतिमेव यत् ॥ २,६०.५ ॥ तत्र दिव्यांबरधरा दिव्याभरणभूषिता । दिव्यासंहनना चैव इला जज्ञ इति श्रुतम् ॥ २,६०.६ ॥ तामिलेत्यथ होवाच मनुर्दण्डधरस्ततः । अनुगच्छस्व भद्रं ते तमिला प्रत्युवाच ह ॥ २,६०.७ ॥ धर्मयुक्तमिदं वाक्यं पुत्रकामं प्रजापतिम् । मित्रावरुणयोरंशे जातास्मि वदतां वर ॥ २,६०.८ ॥ तयोः सकाशं यास्यामि मातो धर्मो हतो वधीत् । एवमुक्त्वा पुनर्देवी तयोरन्तिकमागमत् ॥ २,६०.९ ॥ गत्वान्तिकं वरारोहा प्राञ्जलिर्वाक्यमब्रवीत् । अंशेऽस्मिन्युवयोर्जाता देवौ किं करवाणि वाम् ॥ २,६०.१० ॥ मनुनैवाहमुक्तास्मि अनुगच्छस्व मामिति । तथा तु ब्रुवतीं साध्वीमिडामाश्रित्य तावुभौ ॥ २,६०.११ ॥ देवौ च मित्रावरुणाविदं वचनमूचतुः । अनेन तव धर्मज्ञे प्रश्रयोण दमेन च ॥ २,६०.१२ ॥ सत्येन चैव सुश्रोणि प्रीतौ स्वौ वरवर्णिनि । आवयोस्त्वं महाभागे ख्यातिं कन्ये प्रयास्यसि ॥ २,६०.१३ ॥ सुद्युम्न इति विख्यातस्त्रिषु लोकेषु पूजितः । जगत्प्रियो धर्मशीलो मनोर्वंशविवर्द्धनः ॥ २,६०.१४ ॥ मानवः स तु सुद्युम्नः स्त्रीभावमगमत्प्रभुः । सा तु देवी वरं लब्ध्वा निवृत्ता पितरं प्रति ॥ २,६०.१५ ॥ बुधेनोत्तरमासाद्य मैथुनायोपमन्त्रिता । सोमपुत्राद्बुधाच्चास्यामैलो जज्ञे पुरूखाः ॥ २,६०.१६ ॥ बुधात्सा जनयित्वा तु सुद्युम्नत्वं पुनर्गताः । सुद्युम्नस्य तु दायादास्त्रयः परमधार्मिकाः ॥ २,६०.१७ ॥ उत्कलश्च गयश्चैव विनतश्च तथैव च । उत्कलस्योत्कलं राष्ट्रं विनतस्यापि पश्चिमम् ॥ २,६०.१८ ॥ दिक्पूर्वा तस्य राजर्षेर्गयस्य तु गया पुरी । प्रविष्टेतु मनौ तस्मिन्प्रजाः सृष्ट्वा दिवाकरम् ॥ २,६०.१९ ॥ दशधा तदधात्क्षत्त्रमकरोत्पृथिवीमिमाम् । इक्ष्वाकुरेव दायादो भागं दशममाप्तवान् ॥ २,६०.२० ॥ कन्याभावत्तु सुद्युम्नो नैव भागमवाप्तवान् । वसिष्ठवचनाच्चासीत्प्रतिष्ठाने महाद्युतिः ॥ २,६०.२१ ॥ प्रतिष्ठां धर्मराजस्य सुद्युम्नस्य महात्मनः । एतच्छ्रुत्वा तु ऋषयः पप्रच्छुः सूतजं प्रति । मानवः स तु सुद्यम्नः स्त्रीभावमगमत्कथम् ॥ २,६०.२२ ॥ सूत उवाच पुरा महेश्वरं द्रष्टुं कुमारास्सनकादयः । इलावृतं समाजग्मुर्ददृशुर्वृषभध्वजम् ॥ २,६०.२३ ॥ उमया रममाणं तं विलोक्य पिहितेस्थले । प्रतिजग्मुस्ततः सर्वे व्रीडिताभूच्छिवाप्यथ ॥ २,६०.२४ ॥ प्रोवाच वचनं देवी प्रियहेतोः प्रियं प्रिया । इमं ममाश्रमं देव यः पुमान्सं प्रवेक्ष्यति ॥ २,६०.२५ ॥ भविष्यति ध्रुवं नारी स तुल्याप्सरसां शुभा । तत्र सर्वाणि भूतानि पिशाचाः पशवश्च ये ॥ २,६०.२६ ॥ स्त्रीभूताः सहरुद्रेण क्रोडन्त्यप्सरसो यथा । उमावनं प्रविष्टस्तु स राजा मृगयां गतः ॥ २,६०.२७ ॥ पिशाचैः सह भूतैस्तु रुद्रे स्त्रीभावमास्थिते । तस्मात्सराजा सुद्युम्नः स्त्रीभावं लब्धवान्पुनः । महादेवप्रसादाच्च मानवत्वमवाप्तवान् ॥ २,६०.२८ ॥ इति श्रीब्रह्माण्डे महापुराणे मध्यमभागे वायुप्रोक्ते वैवस्वतमनोः सृष्टिर्नाम षष्टितमोऽध्यायः ॥ ६०॥ _____________________________________________________________ सूत उवाच विसर्गं मनुपुत्राणां विस्तरेण निबोधत । पृषध्रो हिंसयित्वा तु गुरोर्गां निशि तत्क्षये ॥ २,६१.१ ॥ शापाच्छूद्रत्वमापन्नश्च्यवनस्य महात्मनः । करूषस्य तु कारूषाः क्षत्त्रिया युद्धदुर्मदाः ॥ २,६१.२ ॥ सहस्रं क्षत्त्रियगणो विक्रान्तः संबभूव ह । नाभागो दिष्टपुत्रस्तु विद्वानासीद्भलन्दनः ॥ २,६१.३ ॥ भलन्दनस्य पुत्रोऽभूत्प्रांशुर्नाम महाबलः । प्रांशोरेकोऽभवत्पुत्रः प्रजापतिसमो नृपः ॥ २,६१.४ ॥ संवर्तेन दिवं नीतः ससुहृत्सहबान्धवः । विवादोऽत्र महानासीत्संवर्त्तस्य बृहस्पतेः ॥ २,६१.५ ॥ ऋद्धिं दृष्ट्वा तु यज्ञस्य क्रुद्धस्तस्य बृहस्पतिः । संवर्त्तेन तते यज्ञे चुकोप स भृशं तदा ॥ २,६१.६ ॥ लोकानां सहि नाशाय दैवतैर्हि प्रसादितः । मरुत्तश्चक्रवर्त्ती स नरिष्यन्तमवासवान् ॥ २,६१.७ ॥ नरिष्यन्तस्य दायादो राजा दण्डधरो दमः । तस्य पुत्रस्तु विज्ञातो राजासीद्राष्ट्रवर्द्धनः ॥ २,६१.८ ॥ सुधृतिस्तस्य पुत्रस्तु नरः सुधृतितः पुनः । केवलस्य पुत्रस्तु बन्धुमान्केवलात्मजः ॥ २,६१.९ ॥ अथ बन्धुमतः पुत्रोधर्मात्मा वेगवान्नृप । बुधो वेगवतः पुत्रस्तृणबिन्दुर्बुधात्मजः ॥ २,६१.१० ॥ त्रेतायुगमुखे राजा तृतीये संबभूव ह । कन्या तु तस्येडविडामाता विश्रवसो हि सा ॥ २,६१.११ ॥ पुत्रो योऽस्य विशालोऽभूद्राजा परमधार्मिकः । दाश्वान्प्रख्यातवीर्य्यौजा विशाला येन निर्मिता ॥ २,६१.१२ ॥ विशालस्य सुतो राजा हेमचन्द्रो महाबलः । सुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरः ॥ २,६१.१३ ॥ सुचन्द्रतनयो राजा धूम्राश्व इति विश्रुतः । धूम्राश्वतनयो विद्वान्सृंजयः समपद्यत ॥ २,६१.१४ ॥ सृञ्जयस्य सुतः श्रीमान्सहदेवः प्रतापवान् । कृशाश्वः सहदेवस्य पुत्रः परमधार्मिकः ॥ २,६१.१५ ॥ कृशाश्वस्य महातेजा सोमदत्तः प्रतापवान् । सोमदत्तस्य राजर्षेः सुतोऽभूज्जनमेजयः ॥ २,६१.१६ ॥ जनमेजयात्मजश्चैव प्रमतिर्नाम विश्रुतः । तृणबिन्दुप्रभावेण सर्वे वैशालका नृपाः ॥ २,६१.१७ ॥ दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः । शर्यातेर्मिथुनं त्वासीदानर्त्तो नाम विश्रुतः ॥ २,६१.१८ ॥ पुत्रः सुकन्या कन्या च भार्या या च्यवनस्य च । आनर्त्तस्य तु दायादो रेवो नाम सुवीर्यवान् ॥ २,६१.१९ ॥ आनर्त्तविषयो यस्य पुरी चापि कुशस्थली । रेवस्य रैवतः पुत्रः ककुद्मी नाम धार्मिकः ॥ २,६१.२० ॥ ज्येष्ठो भ्रातृशतस्यासीद्राज्यं प्राप्य कुशस्थलीम् । कन्यया सह श्रुत्वा च गान्धर्वं ब्रह्मणोंऽतिके ॥ २,६१.२१ ॥ मुहर्त्तं देवदेवस्य मार्त्यं बहुयुगं विभो । आजगाम युवा चैव स्वां पुरीं यादवैर्वृताम् ॥ २,६१.२२ ॥ कृतां द्वारवतीं नाम बहुद्वारां मनोरमाम् । भोजवृष्ण्यन्धकैर्गुप्तां वसुदेवपुरोगमैः ॥ २,६१.२३ ॥ तां कथां रेवतः श्रुत्वा यथातत्त्वमरिन्दमः । कन्यां तु बलदेवाय सुव्रतां नाम रेवतीम् । दत्त्वा जगाम शिखरं मेरोस्तपसि संस्थितः ॥ २,६१.२४ ॥ रेमे रामश्च धर्मात्मा रेवत्या सहितः किल । तां कथामृषयः श्रुत्वा पप्रच्छुक्तदनन्तरम् ॥ २,६१.२५ ॥ ऋषय ऊचुः कथं बहुयुगे काले समतीते महामते । न जरा रेवतीं प्राप्ता रैवतं वा ककुद्मिनम् । एतच्छुश्रूषमाणान्नो गान्धर्वं वद चैव हि ॥ २,६१.२६ ॥ सूत उवाच न जरा क्षुत्पिपासे वा न च मृत्युभयं ततः । न च रोगः प्रभवति ब्रह्मलोकं गतस्य ह ॥ २,६१.२७ ॥ गान्धर्वं प्रति यच्चापि पृष्टस्तु मुनिसत्तमाः । ततोऽहं संप्रवक्ष्यामि याथातथ्येन सुव्रताः ॥ २,६१.२८ ॥ सप्त स्वरास्त्रयो ग्रामा मूर्छनास्त्वेकविंशतिः । तानाश्चैकोनपञ्चाशदित्येत्स्वरमण्डलम् ॥ २,६१.२९ ॥ षड्जषभौ च गान्धारो मध्यमः पञ्चमस्तथा । धैवतश्चापि विज्ञेयस्तथा चापि निषादकः ॥ २,६१.३० ॥ सौवीरा मध्यमा ग्रामा हरिणाश्च तथैव च ॥ २,६१.३१ ॥ तस्याः कालोयनोपेताश्चतुर्थाशुद्धमध्यमाः । नग्निं च पौषा वै देव दृष्ट्वा काञ्च यथाक्रमः ॥ २,६१.३२ ॥ मध्यमग्रामिकाख्याता षड्जग्रामा निबोधत । उत्तरं मन्द्रा रजनी तथा वाचोन्नरायताः ॥ २,६१.३३ ॥ मध्यषड्जा तथा चैव तथान्या चाभिमुद्गणा । गान्धारग्रामिका श्यामा कीर्तिमाना निबोधत ॥ २,६१.३४ ॥ अग्निष्टोमं तु माद्यं तु द्वितीयं वाजपेयिकम् । यवरातसूयस्तु षष्ठवत्तु सुवर्मकम् ॥ २,६१.३५ ॥ सप्त गौसवना नाम महावृष्टिकताष्टमाम् । ब्रह्मदानं च नवमं प्राजापत्यमनन्तरम् । नागयक्षाश्रयं विद्वान् तद्गोत्तरतथैव च ॥ २,६१.३६ ॥ पदक्रान्तमृगक्रान्तं विष्णुक्रान्तमनोहरा । सूर्यकान्तधरेण्यैव संतकोकिलविश्रुतः ॥ २,६१.३७ ॥ तेनवानित्यपवशपिशाचातीवनह्यपि । सावित्रमर्धसावित्रं सर्वतोभद्रमेव च ॥ २,६१.३८ ॥ मनोहरमधात्र्यं च गन्धर्वानुपतश्च यः । अलंबुषेसेष्टमथो विष्णुवैणवरावुभौ ॥ २,६१.३९ ॥ सागराविजयं चैव सर्वभूतमनोहरः । हतोत्सृष्टो विजानीत स्कन्धं तु प्रियमेव च ॥ २,६१.४० ॥ मनोहरमधात्र्यं च गन्धर्वानुपतश्च यः । अलंबुसेष्टस्य तथा नारदप्रिय एव च ॥ २,६१.४१ ॥ कथितो भीमसेनेन नगरातानयप्रियः । विकलोपनीतविनताश्रीराख्यो भार्गवप्रियः ॥ २,६१.४२ ॥ चतुर्दश तथा पञ्चदशेच्छन्तीह नारदः । ससौवीरां सुसोवीरा ब्रह्मणो ह्यपगीयते ॥ २,६१.४३ ॥ उत्तरादिस्वरश्चैव ब्रह्मा वै देवतास्त्रयः । हरिदेशसमुत्पन्ना हरिणस्याव्यजायत ॥ २,६१.४४ ॥ मूर्छना हरिणा ते वै चन्द्रस्यास्याधिदैवतम् । करोपनीता विवृतावनुद्रिः स्वरमण्डले ॥ २,६१.४५ ॥ साकलोपनतातस्मान्मनुतस्यान्नदैवतः । मनुदेशाः समुत्पन्ना मूर्च्छनाशुद्धमात्मना ॥ २,६१.४६ ॥ तस्मात्तस्मान्मृगामर्गीमृगेन्द्रोस्याधिदैवता । सावश्रमसमाद्युम्ना अनेकापौरुषानखान् ॥ २,६१.४७ ॥ मूर्च्छनायोजनाह्येषास्याद्रजसारजनीततः । तानि उत्तर मद्रांसपद्गदैवतकं विदुः ॥ २,६१.४८ ॥ तस्मादुत्तरतायावत्प्रथमं स्वायमं विदुः । तमोदुत्तरमैद्रोयदेवतास्याद्रुवेन च ॥ २,६१.४९ ॥ अपामदुत्तरत्वावधैवतस्योत्तरायणः । स्यादिजमूर्छनाह्येच पितरः श्राद्धदेवताः ॥ २,६१.५० ॥ शुद्धषड्जस्वर कृत्वा यस्मादग्निमहर्षयः । उपैति तस्मान्नजानी याच्छुद्धयच्छिकरासभा ॥ २,६१.५१ ॥ इत्येता मूर्छनाः कृत्वा यस्यामीदृशभावनः । पक्षिणां मूर्छनाः श्रुत्वा पक्षोका मूर्छनाः स्मृताः ॥ २,६१.५२ ॥ नागादृष्टिविषागीतानोपसर्पन्तिमूर्छनाः । नानासाधारमश्चैववडवात्रिविदस्तथा ॥ २,६१.५३ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमाभागे तृतीय उपोद्धातपादे गान्धर्वमूर्छनालक्षणवर्णनं नामैकषष्टितमोऽध्यायः ॥ ६१॥ _____________________________________________________________ पूर्वाचार्यमतं बुद्ध्वा प्रवक्ष्याम्यनुपूर्वशः । विख्यातान्वै अलङ्कारांस्तन्मे निगदतः श्रुणु ॥ २,६२.१ ॥ अलङ्कारास्तु वक्तव्याः स्वैः स्वैर्वर्णैः प्रहेतवः । संस्था नयोगैश्च तथा सदा नाढ्याद्यवेक्षया ॥ २,६२.२ ॥ वाक्यार्थपदयोगार्थैरलङ्कारैश्च पूरणम् । पदानि गीतकस्याहुः पुरस्तात्पृष्ठतोऽथ वा ॥ २,६२.३ ॥ स्थातोनित्रीनरो नीड्डीमनःकण्ठशिरस्थया । एतेषु त्रिषु स्थानेषु प्रवृत्तो विधिरुत्तमः ॥ २,६२.४ ॥ चत्त्वारः प्रकृतौ वर्णाः प्रविचारस्य नुर्विधा । विकल्पमष्टधा चैव देवाः षोडशधा विदुः ॥ २,६२.५ ॥ सृष्टो वर्मः प्रसंचारी तृतीयमवरोहणम् । आरोहणं चतुर्थं तु वर्णं वर्मविदो विदुः ॥ २,६२.६ ॥ तत्रैकः संचरस्थायी संचरस्तु चरोऽभवत् । अवरोहणवर्णानामवरोहं विनिर्दिशेत् ॥ २,६२.७ ॥ आरोहणेन वारोहान्वर्णान्वर्णविदो विदुः । एतेषामेव वर्णानामलङ्कारन्निबोधत ॥ २,६२.८ ॥ अलङ्कारास्तु चत्वारस्थापनी क्रमरेजनः । प्रमादस्याप्रमादश्च तेषां वक्ष्यामि लक्षणम् ॥ २,६२.९ ॥ विस्वरोऽष्टकलाश्चैव स्थानं द्व्येकतरागतः । आवर्त्तस्याक्रमो त्वाक्षी वेकार्यां परिमाणतः ॥ २,६२.१० ॥ कुमारं संपरं विद्धि द्विस्तरं वामनं गतः । एष वै एष चैवस्यकुतरेकः कुलाधिकः ॥ २,६२.११ ॥ स्वेत स्वे कातरे जातकलामग्नितरैषितः । तस्मिंश्चैव स्वरे वृद्धिर्निष्टप्ते तद्विचक्षणः ॥ २,६२.१२ ॥ स्येनस्तु अपरो हस्त उत्तरः कमलाकलः । प्रमाणघसबिन्दुर्ना जायते विदुरे पुनः ॥ २,६२.१३ ॥ कला कार्या तु वर्णानां तदा नुः स्थापितो भवेत् । विपर्ययस्य रोपिस्या द्यस्य प्रादुर्घटी मम ॥ २,६२.१४ ॥ एकोत्तरः स्वरस्तु स्यात्षड्जतः परमः स्वरः । अक्षेपस्कन्दनाकार्यं काकस्योयचपुष्कलम् ॥ २,६२.१५ ॥ संतारौ तौनुसर्वाय्यौ कार्यं वा कारणं तथा । आक्षिप्तमवरोह्यासीत्प्रोक्षमद्यस्तथैव च ॥ २,६२.१६ ॥ द्वादशे च कलास्थानामेकान्तरगतस्तथा । प्रेशोल्लिखितमलङ्कारमेवस्वरसमन्विता ॥ २,६२.१७ ॥ स्वरस्वरबहुग्रामकाप्रयोष्टनुपत्कला । प्रक्षिप्तमेव कलयाचोपादानारयो भवेत् ॥ २,६२.१८ ॥ द्विकथंवावथाभूतयत्रभाषितमुच्यते । उच्चराद्विश्वरारूढातथायाष्टस्वरातथा ॥ २,६२.१९ ॥ वापः स्यादवरोहेण नारतो भवति ध्रुवम् । एकान्तरं च ह्येतेवैतमेवस्वरसत्तमः ॥ २,६२.२० ॥ सक्षिप्रच्छेदनामाचचतुष्कलगणः स्मृतः । अलङ्कारा भवन्त्येते त्रिंशद्देवैः प्रकीर्त्तिताः ॥ २,६२.२१ ॥ वर्णास्थानप्रयोगेण कलामात्राप्रमाणतः । संस्थानं च प्रमाणं च विकारो लक्षणस्तथा ॥ २,६२.२२ ॥ चतुर्विधमिदं ज्ञेय मलङ्कारप्रयोजनम् । यथात्मनो ह्यलङ्कारो विपयस्तो विगर्हितः ॥ २,६२.२३ ॥ वर्ममेवाप्यलङ्कर्त्तुं विषमाह्यात्मसंभवाः । नानाभरणसंयोगा यथा नार्या विभूषणम् ॥ २,६२.२४ ॥ वर्मस्य चैवालङ्कारो विभूषा ह्यात्मसंभवः । न पादे कुण्डलं दृष्टं न कण्ठे रसना तथा ॥ २,६२.२५ ॥ एवमेवाद्यलङ्कारे विपर्यस्तो विगर्हितः । क्रियमाणोऽप्यलङ्कारो नागं यश्चैव दर्शयत् ॥ २,६२.२६ ॥ यथादृष्टस्य मार्गस्यकर्त्तव्यस्यविधीयते । लक्षणंपर्यवस्यापिवर्त्तिका मपिवर्त्तते ॥ २,६२.२७ ॥ याथातथ्येन वक्ष्यामि मासोद्भवमुखोद्भव । त्रयोविंशतिशीतिस्तु विज्ञातपवदैवतम् ॥ २,६२.२८ ॥ नगोनातुपुरस्तानुमध्यमांशस्तु पर्ययः । तयोर्विभागो देवानां लावण्ये मार्गसंस्थितः ॥ २,६२.२९ ॥ अनुषङ्गमयो दृष्टं स्वसारं वस्वरातर । विपर्ययः संवर्त्तो च सप्तस्वरपदक्रमम् ॥ २,६२.३० ॥ गान्धारसेतुगीयन्ते वरोमद्भगवानिच । पञ्चमंमध्यमञ्चैवधैवतं तु निषादतः ॥ २,६२.३१ ॥ षड्जर्षभश्चजानीमोमद्रकेष्वेवनान्तरे । द्वेव्द्यपरतुकिंविद्याद्द्वयमुष्णन्तिकस्यतु ॥ २,६२.३२ ॥ प्राकृते वैकृते चैव गान्धारः स प्रयुज्यते । पदस्यात्ययरूपन्तुसप्तरूपन्तुकौशिकीम् ॥ २,६२.३३ ॥ गान्धारस्येनकार्त्स्येन चायं यस्यविधिः स्मृतः । एषचैवक्रमोद्दिष्टोमध्यमांशस्य मध्यमः ॥ २,६२.३४ ॥ यानि प्रोक्तानि गीतानिवतुरूपं विशेषतः । ततः सप्तस्वरङ्कार्यंसप्तरूपञ्चकौशिकी ॥ २,६२.३५ ॥ अगदर्शनमित्याहुर्मानुद्वैममकेतथा । द्वितीयामासमात्राणाभिः सर्वाः प्रतिष्ठिताः ॥ २,६२.३६ ॥ उत्तरेवप्रकृत्येवंमाताब्राह्मतलायत । तथाहतानोपिडकेयत्रमायांनिवर्त्तते ॥ २,६२.३७ ॥ पादेनैकेनमायात्रा पादोनामतिवारिमः । संख्यापनोपहूतांवैतत्रपानमिति स्मृतम् ॥ २,६२.३८ ॥ द्वितीयपादभङ्गञ्चग्रहेनामप्रतिष्ठितम् । पूर्वमष्ठतीटती नद्वितीयं चापरान्तिकैः ॥ २,६२.३९ ॥ पादभागसपादं तु प्रकृत्यमपि संस्थितम् । चतुर्थमुत्तरं चैवमद्रवत्पावमद्रकौ ॥ २,६२.४० ॥ मद्रकोदक्षिणस्यापि यथोक्ता वर्त्तते कला । सर्वमेवानुयोगं तु द्वितीयं बुद्धिमिष्यते ॥ २,६२.४१ ॥ पादौवाहरणं चास्यात्पारं नात्र विधीयते । एकत्वं मुनुयोगस्य द्वयोर्यद्यद्द्विजोत्तम ॥ २,६२.४२ ॥ अनेकसमवायस्तु पातका हरिणा स्मृताः । तिसृणां चैव वृत्तीनां वृत्तौ वृत्ते च दक्षिणः ॥ २,६२.४३ ॥ अष्टौ तु समवायस्तु वीरा संमूर्छना तथा । कस्यनासुतराचैव स्वरशाखा प्रकीर्त्तिता ॥ २,६२.४४ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे भार्गवचरिते गान्धर्वलक्षणं नाम द्विषष्टितमोऽध्यायः ॥ ६२॥ _____________________________________________________________ सूत उवाच कुकुद्मिननस्तु तं लोकं रैवतस्य गतस्य ह । त्दृता पुण्यजनैः सर्वा राक्षसैः साकुशस्थली ॥ २,६३.१ ॥ तद्वै भ्रातृशतं तस्य धार्मिकस्य महात्मनः । निबध्यमानं नाराचैर्विदिशः प्राद्रवद्भयात् ॥ २,६३.२ ॥ तेषां तु तद्भयक्रान्तक्षत्रियाणां च विद्रुताम् । अन्ववायस्तु सुमहांस्तत्र तत्र द्विजोत्तमाः ॥ २,६३.३ ॥ शार्याता इति विख्याता दिक्षु सर्वासु धर्मिकाः । धृष्टस्य धर्ष्टिकं सर्वं रणधृष्टं बभूव ह ॥ २,६३.४ ॥ त्रिसाहस्रं तु स गणः क्षत्रियाणां महात्मनाम् । नभगस्य च दायादो नाभादो नाम वीर्यवान् ॥ २,६३.५ ॥ अंबरीषस्तु नाभागिर्विरूपस्तस्य चात्मजः । पृषदश्वो विरूपस्य तस्य पुत्रो रथीतरः ॥ २,६३.६ ॥ एते क्षत्रप्रसूता वै पुनश्चाङ्गिरसः स्मृताः । रथीतराणां प्रवराः क्षेत्रोपेता द्विजातयः ॥ २,६३.७ ॥ क्षुवतस्तु मनोः पूर्वमिक्ष्वाकुरभिनिःसृतः । तस्य पुत्रशतं त्वासीदिक्ष्वाकोर्भूरिदक्षिमम् ॥ २,६३.८ ॥ तेषां श्रेष्ठो विकुक्षिस्तु निमिर्दण्डश्च ते त्रयः । शकुनिप्रमुखास्तस्य पुत्राः पञ्चाशतस्तु ते ॥ २,६३.९ ॥ उत्तरापथदेशस्य रक्षितारो महीक्षितः । चत्वारिंशत्तथाष्टौ च दक्षिणस्यां तु वै दिशि ॥ २,६३.१० ॥ विराटप्रमुखास्ते च दक्षिणापथरक्षिणः । इक्ष्वाकुस्तु विकुक्षिं वै अष्टकायामथा दिशत् ॥ २,६३.११ ॥ राजोवाच । मांसमानय श्राद्धे त्वं मृगान्हत्वा महाबल । श्राद्धं मम तु कर्त्तव्यमष्टकानां न संशयः ॥ २,६३.१२ ॥ स गतो मृगयां चैव वचनात्तस्य धीमतः । मृगान्सहस्रकान्हत्वा परिश्रान्तश्च वीर्यवान् ॥ २,६३.१३ ॥ भक्षयच्छशकं तत्र विकुक्षिर्मृगयां गतः । आगते हि विकुक्षै तु समांसे महसैनिके ॥ २,६३.१४ ॥ वसिष्ठं चोदयामास मांस प्रोक्षयतामिति । तथेति चोदितो राज्ञा विधिवत्तदुपस्थितम् ॥ २,६३.१५ ॥ स दृष्ट्वोपहतं मांसं क्रुद्धो राजानमब्रवीत् । अनेनोपहतं मांसं पुत्रेण तव पार्थिव ॥ २,६३.१६ ॥ शशभक्षाददुष्टं वै नैव मांसं महाद्युते । शशो दुरात्मना पूर्वममना भक्षितोऽनघ ॥ २,६३.१७ ॥ तेन मांसमिदं दुष्टं पितॄणां नृपसत्तम । इक्ष्वाकुस्तु ततः क्रुद्धो विकुक्षिमिदमब्रवीत् ॥ २,६३.१८ ॥ पितृकर्मणि निर्दिष्टो मया च मृगयां गतः । शशं भक्षयसेऽरण्ये निर्घृणः पूर्वमद्य तु ॥ २,६३.१९ ॥ तस्मात्परित्यजामि त्वां गच्छ त्वं स्वेन कर्मणा । एवमिक्ष्वाकुणा त्यक्तो वसिष्ठवचनात्सुतः ॥ २,६३.२० ॥ इक्ष्वाकौसंस्थिते तस्मिञ्छशादः पृथिवीमिमाम् । प्राप्तः परगधर्मात्मा स चायोध्याधिपोऽभवत् ॥ २,६३.२१ ॥ तदाकरोत्स राज्यं वै वसिष्ठपरिनोदितः । ततस्तेनैनसा पूर्णो राज्यावस्थो महीपतिः ॥ २,६३.२२ ॥ कालेन गतवान्सोऽथ शकृन्मूत्रतरङ्गितम् । ज्ञात्वैवमेतदाख्यानं ना विधिर्भक्षयेद्बुधः ॥ २,६३.२३ ॥ मांसभक्षयितामुत्र यस्य मांसमिहाद्म्यहम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥ २,६३.२४ ॥ शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान् । इन्द्रस्य वृषभूतस्य ककुत्स्थो जयते पुरा ॥ २,६३.२५ ॥ पूर्वमाडीबके युद्धे ककुत्स्थस्तेन संस्मृतः । अनेनास्तु ककुत्स्थस्य पृथुश्चानेन स स्मृतः ॥ २,६३.२६ ॥ दृषदश्वः पृथोः पुत्रस्तस्मादन्ध्रस्तु वीर्यवान् । अन्ध्रात्तु युवनाश्वस्तु शावस्तस्तस्य चात्मजः ॥ २,६३.२७ ॥ जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता । श्रावस्तस्य तु दायादो बृहदश्वो महायशाः ॥ २,६३.२८ ॥ बृहदश्वसुतश्चापि कुवलाश्व इति श्रुतः । यस्तु धुन्धुवधाद्राजा धुन्धुमारत्वमागतः ॥ २,६३.२९ ॥ ऋषय ऊचुः धुन्धोर्वधं महाप्राज्ञ घोतुमिच्छाम विस्तरात् । यदर्थं कुवलाश्वस्य धुन्धुमारत्वमागतम् ॥ २,६३.३० ॥ सूत उवाच कुवलाश्वस्य पुत्राणां सहस्राण्येकविंशतिः । सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः ॥ २,६३.३१ ॥ बभूवुर्धार्मिकाः सर्वे यज्वानो भूरिदक्षिणाः । कुवलाश्वं महावीर्यं शूरमुत्तमधार्मिकम् ॥ २,६३.३२ ॥ बृहदश्वो ह्यभ्यषिञ्चत्तस्मिन्राज्ये नराधिपः । पुत्रसंक्रामितश्रीस्तु वनं राजा विवेश ह ॥ २,६३.३३ ॥ बृहदश्वं महाराजं शूरमुत्तमधार्मिकम् । प्रयास्यन्तमुतङ्कस्तु ब्रह्मर्षिः प्रत्यवारयत् ॥ २,६३.३४ ॥ उत्तङ्क उवाच भवता रक्षणं कार्यं तत्तावत्कर्त्तुमर्हति । निरुद्विग्नस्तपस्छर्तुं न हि शक्रोऽपि पार्थिव ॥ २,६३.३५ ॥ ममाश्रमसमीपेषु मेरोर्हि परितस्तु वै । समुद्रो वालुकापूर्णस्तत्र तिष्ठति भूपते ॥ २,६३.३६ ॥ देवतानामवध्यस्तु महाकायो महाबलः । अन्तर्भूमिगतस्तत्र वालुकान्तर्हितो महान् ॥ २,६३.३७ ॥ राक्षसस्य मधोः पुत्रो धुन्धुर्नाम महासुरः । शेते लोकविनाशाय तप आस्थाय दारुणम् ॥ २,६३.३८ ॥ संवत्सरस्य पर्यन्ते स निश्वासं विमुञ्चति । यदा तदा मही तत्र चलति स्म सकानना ॥ २,६३.३९ ॥ तस्य निश्वासवातेन रज उद्धूयते महत् । आदित्यपथमावृत्य सप्ताहं भूमिकंपनम् ॥ २,६३.४० ॥ सविस्फुलिङ्गं सज्वारं सधूममतिदारुणम् । तेन राजन्न शक्नोमि तस्मिन्स्थातुं स्व आश्रमे ॥ २,६३.४१ ॥ तं वारय महाबाहो लोकानां हितकाम्यया । तेजस्ते सुमहद्विष्मुस्तेजसाप्याययिष्यति ॥ २,६३.४२ ॥ लोकाः स्वस्था भवन्त्वद्य तस्मिन्विनिहते सुरे । त्वं हि तस्य वधार्थाय समर्थः पृथिवीपते ॥ २,६३.४३ ॥ विष्णुना च वरो दत्तो मम पूर्व यतोऽनघ । न हि धुन्धुर्महावीर्यस्तेजसाल्पेन शाक्यते ॥ २,६३.४४ ॥ निर्दग्धुं पृथिवीपालैरपि वर्षशतैरपि । वीर्यं हि सुमहत्तस्य देवैरपि दुरासदम् ॥ २,६३.४५ ॥ एवमुक्तस्तु राजर्षिरुत्तङ्केन महात्मना । कुवलाश्वं तु तं प्रादात्तस्मिन् धुन्धुनिवारणे ॥ २,६३.४६ ॥ भगवन्न्यस्तशस्भोऽहमयं तु तनयो मम । भविष्यति द्विजश्रेष्ठ धुन्धुमारो न संशयः ॥ २,६३.४७ ॥ स तमादिश्य तनयं धुन्धुमाग्णमच्युतम् । जगाम स वनायैव तपसे शंसितव्रतः ॥ २,६३.४८ ॥ कुवलाश्वस्तु धर्मात्मा पितुर्वचनमाश्रितः । सहक्रैरेकविंशत्या पुत्राणां सह पार्थिवः ॥ २,६३.४९ ॥ प्रायादुत्तङ्कसहितो धुन्धोस्तस्य निवारणे । तमाविशत्ततो विष्णुर्भगवान्स्वेन तेजसा ॥ २,६३.५० ॥ उत्तङ्कस्य नियोगात्तु लोकानां हितकाम्यया । तस्मिन्प्रयाते दुर्धर्षे दिवि शब्दो महानभूत् ॥ २,६३.५१ ॥ अद्य प्रभृत्येष नृपो धुन्धुमारो भविष्यति । दिव्यैः पुष्पैश्च तं देवाः संमतात्समवाकिरन् ॥ २,६३.५२ ॥ देवदुन्दुभयश्चैव प्रणेदुर्हि तदा भृशम् । स गत्वा पुरुषव्याघ्रस्तनयैः सह वीर्यवान् ॥ २,६३.५३ ॥ समुद्रं खानयामास वालुकापूर्णमव्ययम् । तस्य पुत्रैः खनद्भिश्च वालुकान्तर्हितस्तदा ॥ २,६३.५४ ॥ धुन्धुरासादितस्तत्र दिशमाश्रित्य पश्चिमाम् । मुखजेनाग्निना क्रुद्धो लोकानुद्वर्तयन्निव ॥ २,६३.५५ ॥ वारि सुस्राव चोगेन महोदधिरिवोदये । सोमस्य सोऽसुरश्रेष्ठो धारोर्मिकलिलो महान् ॥ २,६३.५६ ॥ तस्य पुत्रास्तु निर्दग्धास्त्रय उर्वरिता मृधे । ततः स राजातिबलो राक्षसं तं महाबलम् ॥ २,६३.५७ ॥ आससाद महातेजा धुन्धुं बन्धुनिबर्हणम् । तस्य वारिमयं वेगमपि वत्स नराधिपः ॥ २,६३.५८ ॥ योगी योगेन वह्निं च शमयामास वारिणा । निरस्यन्तं महाकायं बलेनोदकराक्षसम् ॥ २,६३.५९ ॥ उत्तङ्कं दर्शयामास कृतकर्मा नराधिपः । उत्तङ्कश्च वरं प्रादात्तस्मै राज्ञे महात्मने ॥ २,६३.६० ॥ ददतश्चाक्षयं वित्तं शत्रुभिश्चाप्य धुष्यताम् । धर्मे रतिं च सततं स्वर्गे वासं तथाक्षयम् ॥ २,६३.६१ ॥ पुत्राणां चाक्षयांल्लोकान्स्वर्गे ये रक्षसा हताः । तस्य पुत्रास्त्रयः शिष्टा दृढाश्वो ज्येष्ठ उच्यते ॥ २,६३.६२ ॥ भद्राश्वः कपिलाश्वश्च कनीयांसौ तु तौ स्मृतौ । धैन्धुमारिर्दृढाश्वश्च हर्यश्वस्तस्य चात्मजः ॥ २,६३.६३ ॥ हर्यश्वस्य निकुंभोऽभूत्क्षात्रधर्मरतः सदा । संहताश्वो निकुंभस्य सुतो रणविशारदः ॥ २,६३.६४ ॥ कृशाश्वश्चाकृताश्वश्च संहताश्वसुतावुभौ । तस्य पत्नी हैमवती सती माता दृषद्वती ॥ २,६३.६५ ॥ विख्याता त्रिषु लोकेषु पुत्रश्चास्य प्रसेनजित् । युवनाश्वसुतस्तस्य त्रिषु लोकेषु विश्रुतः ॥ २,६३.६६ ॥ अत्यन्तधार्मिका गौरी तस्य पत्नी पतिव्रता । अभिशस्ता तु सा भर्त्रा नदी सा बाहुदा कृता ॥ २,६३.६७ ॥ तस्यास्तु गौरिकः पुत्रश्चक्रवर्ती बभूव ह । मान्धाता यौवनाश्वो वै त्रैलोक्यविजयी नृपः ॥ २,६३.६८ ॥ अत्राप्युदाहरन्तीमं श्लोकं पौराणिका द्विजाः । यावत्सूर्य उदयते यावच्च प्रतितिष्ठति ॥ २,६३.६९ ॥ सर्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते । तस्य चैत्ररथी भार्या शशबिन्दोः सुताभवत् ॥ २,६३.७० ॥ साध्वी बिन्दुमती नाम रूपेणाप्रतिमा भुवि । पतिव्रता च ज्येष्ठा च भातॄणामयुतस्य सा ॥ २,६३.७१ ॥ तस्यामुत्पादयामास मान्धाता त्रीन्सुतन्प्रभुः । पुरुकुत्समंबरीषं मुचुकुन्दं च विश्रुतम् ॥ २,६३.७२ ॥ अंबरीषस्य दायादो युवनाश्वोऽपरः स्मृतः । नर्मदायां समुत्पन्नः संभूतस्तस्य चात्मजः ॥ २,६३.७३ ॥ संभूतस्यात्मजः पुत्रो ङ्यनरण्यः प्रतापवान् । रावणेन हतो येन त्रैलोक्यं विजितं पुरा ॥ २,६३.७४ ॥ तेन दृश्योनरण्यस्य हर्यश्वस्तस्य चात्मजः । हर्यश्वात्तु दृषद्वत्यां जज्ञे च सुमतिर्नृपः ॥ २,६३.७५ ॥ तस्य पुत्रोऽभवद्राजा त्रिधन्वा नाम धार्मिकः । आसीत्त्रिधन्वनश्चापि विद्वांस्त्रय्यारुणिः प्रभुः ॥ २,६३.७६ ॥ तस्य सत्यव्रतो नाम कुमारोऽभून्महाबलः । तेन भार्या विदर्भस्य त्दृता हत्वा दिवौकसः ॥ २,६३.७७ ॥ पाणिग्रहणमन्त्रेषु निष्टानं प्रापितेष्विह । कामाद्बलाच्च मोहाच्च संहर्षेण बलेन च ॥ २,६३.७८ ॥ भाविनोर्ऽथस्य च बलात्तत्कृतं तेन धीमता । तमधर्मेण संयुक्तं पिता भय्यारुणोऽत्यजत् ॥ २,६३.७९ ॥ अपध्वंसेति बहुशो वदन्क्रोधसमन्वितः । पितरं सोऽब्रवीदेकः क्व गच्छामीति वै मुहुः ॥ २,६३.८० ॥ पिता चैनमथोवाच श्वपाकैः सह वर्त्तय । नाहं पुत्रेण पुत्रार्थी त्वयाद्य कुलपांसन ॥ २,६३.८१ ॥ इत्युक्तः स निराक्रामन्नगराद्वचना द्विभोः । न चैनं वारयामास वसिष्ठो भगवानृषिः ॥ २,६३.८२ ॥ स तु सत्यव्रतो धीमाञ्श्वपाकावसथान्तिके । पित्रा त्यक्तोऽवसद्धीरः पिता चास्य वनं ययौ ॥ २,६३.८३ ॥ तस्मिंस्तु विषये तस्य नावर्षत्पाकशासनः । समा द्वादश संपूर्मास्तेनाधर्मेण वै तदा ॥ २,६३.८४ ॥ दारांस्तु तस्य विषये विश्वामित्रो महातपाः । संन्यस्य सागरानूपे चचार विपुलं तपः ॥ २,६३.८५ ॥ तस्य पत्नी गले बद्ध्वा मध्यमंपुत्रमौरसम् । शिष्टानां भरणार्थाय व्यक्रीणाद्गोशतेन वै ॥ २,६३.८६ ॥ तं तु बद्धं गले दृष्टवा विक्रयार्थं नरोत्तमः । महर्षिपुत्रं धर्मात्मा मोक्षयामास सुव्रतः ॥ २,६३.८७ ॥ सत्यव्रतो महाबुद्धिर्भरणं तस्य चाकरोत् । विश्वामित्रस्य तुष्ट्यर्थमनुकंपार्थमेव च ॥ २,६३.८८ ॥ सोऽभवद्गालवो नाम गले बद्धो महातपाः । महर्षिः कौशिकस्तात तेन वीरेण मोक्षितः ॥ २,६३.८९ ॥ तस्य व्रतेन भक्त्या च कृपया च प्रतिज्ञया । विश्वामित्रकलत्रं च बभार विनये स्थितः ॥ २,६३.९० ॥ हत्वा मृगान्वराहांश्च महिषांश्च जलेचरान् । विश्वामित्राश्रमाभ्यासे तन्मांसमनयत्ततः ॥ २,६३.९१ ॥ उपांशुव्रतमास्थाय दीक्षां द्वादशवार्षिकीम् । पितुर्नियोगादभजन्नृपे तु वनमास्थिते ॥ २,६३.९२ ॥ अयोध्यां चैव राष्ट्रं च तथैवान्तः पुरं पुनिः । याज्योत्थान्यायसंयोगाद्वसिष्ठः पर्यरक्षत ॥ २,६३.९३ ॥ सत्यव्रतः सुबाल्यात्तु भाविनोर्ऽथस्य वै बलात् । वसिष्ठेऽभ्यधिकं मन्युं धारयामास मन्युना ॥ २,६३.९४ ॥ पित्रा तु तं तदा राष्ट्रात्परित्यक्तं स्वमात्मजम् । न वारयामास मुनिर्वसिष्ठः कारणेन वै ॥ २,६३.९५ ॥ पाणिग्रहममन्त्राणां निष्ठा स्यात्सप्तमे पदे । एवं सत्यव्रतस्तां वै हृतवान्सप्तमे पदे ॥ २,६३.९६ ॥ जानन्धर्मान्वसिष्ठस्तु नवमन्त्रानिहेच्छति । इति सत्यव्रतो रोषं वसिष्ठे मनसाकरोत् ॥ २,६३.९७ ॥ गुणबुद्ध्या तु भगवान्वसिष्ठः कृतवांस्तपः । न तु सत्यव्रतोऽबुध्यदुपांशुव्रतमस्य वै ॥ २,६३.९८ ॥ तस्मिंस्तु परमो रोषः पितुरासीन्महात्मनः । तेन द्वादश वर्षाणि नावर्षत्पाकशासनः ॥ २,६३.९९ ॥ तेन त्विदानीं वहता दीक्षां तां दुर्वहां भुवि । कुलस्य निष्कृतिः स्वस्य सृतेयं च भवेदिति ॥ २,६३.१०० ॥ ततो वसिष्ठो भगवान्पित्रा त्यक्तं न वारयत् । अभिषेक्ष्याम्यहं नष्टे पश्चादेनमिति प्रभुः ॥ २,६३.१०१ ॥ स तु द्वादशवर्षाणि दीक्षां तामुद्वहन्बली । अविद्यमाने मांसे तु वसिष्ठस्य महात्मनः ॥ २,६३.१०२ ॥ सर्वकामदुघां धेनुं स ददर्श नृपात्मजः । तां वै क्रोधाच्च मोहाच्च श्रमच्चैव क्षुधान्वितः ॥ २,६३.१०३ ॥ दस्युधर्मगतो दृष्ट्वा जघान बलिनां वरः । सतु मांसं स्वयं चैव विश्वामित्रस्य चात्मजान् ॥ २,६३.१०४ ॥ भोजयामास तच्छ्रुत्वा वसिष्ठस्तं तदात्यजत् । प्रोवाच चैव भगवान्वसिष्ठस्तं नृपात्मजम् ॥ २,६३.१०५ ॥ पातयेयमहं क्रूर तव शङ्कुम पोह्य वै । यदि ते त्रीणि शङ्कूनि न स्युर्हि पुरुषाधम ॥ २,६३.१०६ ॥ पितुश्चापारितोषेण गुरोर्देगध्रीवधेन च । अप्रोक्षितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः ॥ २,६३.१०७ ॥ एवं स त्रीणि शङ्कूनि दृष्ट्वा तस्य महातपाः । त्रिशङ्कुरिति होवाच त्रिशङ्कुस्तेन स स्मृतः ॥ २,६३.१०८ ॥ विश्वामित्रस्तु दाराणामागतो भरणे कृते । ततस्तस्मै वरं प्रादात्तदा प्रीतस्त्रिशङ्कवे ॥ २,६३.१०९ ॥ छन्द्यमानो वरेणाथ गुरुं वव्रेनृपात्मजः । सशरीरो व्रजे स्वर्गमित्येवं याचितो वरः ॥ २,६३.११० ॥ अनावृष्टिभये तस्मिञ्जाते द्वादशवार्षिके । अभिषिच्य राज्ये पित्र्ये योजयामास तं मुनिः ॥ २,६३.१११ ॥ मिषतां देवतानां च वसिष्ठस्य च कौशिकः । सशरीरं तदा तं वै दिवमारोपयत्प्रभुः ॥ २,६३.११२ ॥ मिषतस्तु वसिष्ठस्य तदद्भुतमिवाभवत् । अत्राप्युदाहरन्तीमं श्लोकं पौराणिका जनाः ॥ २,६३.११३ ॥ विश्वामित्रप्रसादेन त्रिशङ्कुर्दिविराजते । देवैः सार्द्धं महातेजानुग्रहात्तस्य धीमतः ॥ २,६३.११४ ॥ तस्य सत्यरता नाम भार्या कैकयवंशजा । कुमारं जनयामास हरिश्चन्द्रमकल्मषम् ॥ २,६३.११५ ॥ स तु राजा हरिश्चन्द्रस्त्रैशङ्कव इति श्रुतः । अहर्ता राजसूयस्य सम्रडिति परिश्रुतः ॥ २,६३.११६ ॥ हरिश्चन्द्रस्य तु सुतो रोहितो नाम वीर्यवान् । हरितो रोहितस्याथ चञ्चुर्हरीत उच्यते ॥ २,६३.११७ ॥ विनयश्च सुदेवश्च चञ्चुपुत्रौ बभूवतुः । चैता सर्वस्य क्षत्रस्य विजयस्तेन स स्मृतः ॥ २,६३.११८ ॥ रुरुकस्तनयस्तस्य राजा धर्मार्थकोविदः । रुरुकात्तु वृकः पुत्रस्तस्माद्बाहुर्विजज्ञिवान् ॥ २,६३.११९ ॥ हैहयैस्तालजङ्घैश्च निरस्तो व्यसनी नृपः । शकैर्यवनकांबोजैः पारदैः पह्लवैस्तथा ॥ २,६३.१२० ॥ नात्यर्थं धार्मिकोऽभूत्स धर्म्ये सति युगे तथा । सगरस्तु सुतो बाहोर्जज्ञे सह गरेण वै ॥ २,६३.१२१ ॥ भृगोराश्रममासाद्य ह्यौर्वैण परिरक्षितः । अग्नेयमस्त्रं लब्ध्वा तु भार्गवात्सगरो नृपः ॥ २,६३.१२२ ॥ जघान पृथिवीं गत्वा तालजङ्घान्सहैहयान् । शकानां पह्लवानां च धर्मं निरसदच्युतः ॥ २,६३.१२३ ॥ क्षत्रियाणां तथा तेषां पारदानां च धर्मवित् । ऋषय ऊचुः कथं स सगरो राजा गरेण सह जज्ञिवान् ॥ २,६३.१२४ ॥ किमर्थं वा शकादीनां क्षत्रियाणां महौजसाम् । धर्मान्कुलोचितान्क्रुद्धो राजा निरसदच्युतः ॥ २,६३.१२५ ॥ सुत उवाच बाहोर्व्यसनिनस्तस्य त्दृतं राज्यं पुरा किल । हैहयैस्तालजङ्घैश्च शकैः सार्द्धं समागतैः ॥ २,६३.१२६ ॥ यवनाः पारदाश्चैव कांबोजाः पह्लवास्तथा । हैहयार्थं पराक्रान्ता एते पञ्च गणास्तदा ॥ २,६३.१२७ ॥ त्दृतराज्यस्तदाबाहुः संन्यस्य स तदा गृहम् । वनं प्रविश्य धर्मात्मा सह पत्न्या तपोऽचरत् ॥ २,६३.१२८ ॥ कदाचिदप्यकल्पः स तोयार्थं प्रस्थितो नृपः । वृद्धत्वाद्दुर्बलत्वाच्च ह्यन्तरा स ममार च ॥ २,६३.१२९ ॥ पत्नी तु यादवी तस्य सगर्भा पृष्ठतोऽप्यगात् । सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया ॥ २,६३.१३० ॥ सा तु भर्तुश्चितां कृत्वा वह्निं तं समारोहयत् । और्वस्तं भार्गवो दृष्ट्वा कारुण्याद्धि न्यवर्त्तयत् ॥ २,६३.१३१ ॥ तस्याश्रमे तु गर्भं सा गरेण च तदा सह । व्यजायत महाबाहुं सगरं नाम धर्मिकम् ॥ २,६३.१३२ ॥ और्वस्तु जातकर्मादीन्कृत्वा तस्य महात्मनः । अध्याप्य वेदाञ्छास्त्राणि ततोऽस्त्रं प्रत्यपादयत् ॥ २,६३.१३३ ॥ ततः शकान्स यवनान्कांबोजान्पारदांस्तथा । पह्लवांश्चैव निःशेषान्कर्तुं व्यवसितो नृपः ॥ २,६३.१३४ ॥ ते हन्यमाना वीरेण सगरेण महात्मना । वसिष्ठं शरणं सर्वे संप्राप्ताः शरणैषिणः ॥ २,६३.१३५ ॥ वसिष्ठो वीक्ष्य तान्युक्तान्विनयोन महामुनिः । सगरं वारयामास तेषां दत्त्वाभयं तथा ॥ २,६३.१३६ ॥ सगरः स्वां प्रतिज्ञां च गुरोर्वाक्यं निशम्य च । जघान धर्मं वै तेषां वेषान्यत्वं चकार ह ॥ २,६३.१३७ ॥ अर्द्धं शाकानां शिरसो मुण्डयित्वा व्यसर्जयत् । यवनानां शिरः सर्वं कांबोजानां तथैव च ॥ २,६३.१३८ ॥ पारदा मुक्तकेशाश्च पह्लवाः श्मश्रुधारिणः । निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना ॥ २,६३.१३९ ॥ शका यवन कांबोजाः पह्लवाः पारदैः सह । कलिस्पर्शा महिषिका दार्वस्छोलाः खशास्तथा ॥ २,६३.१४० ॥ सर्वे ते क्षत्रियगणा धर्मस्तेषां निराकृतः । वसिष्ठवचनात्पूर्वं सगरेण महात्मना ॥ २,६३.१४१ ॥ स धर्मविजयी राजा विजित्येमां वसुन्धराम् । अश्वं वै चारयामास वाजिमेधाय दीक्षितः ॥ २,६३.१४२ ॥ तस्य चारयतः सोऽश्वः समुद्रे पूर्वदक्षिणे । वेलासमीपेऽपहृतो भूमिं चैव प्रवेशितः ॥ २,६३.१४३ ॥ स तं देशं सुतैः सर्वैः खानयामास पार्थिवः । आसेदुश्च ततस्तस्मिन्खनन्तस्ते महार्मवे ॥ २,६३.१४४ ॥ तमादिपुरुषं देवं हरिं कृष्णं प्रजापतिम् । विष्णुं कपिलरूपेण हंसं नारायणं प्रभुम् ॥ २,६३.१४५ ॥ तस्य चक्षुः समासाद्य तेजस्तत्प्रतिपद्यते । दग्धाः पुत्रास्तदा सर्वेचत्वारस्त्ववशेषिताः ॥ २,६३.१४६ ॥ बर्हिकेतुः सुकेतुश्च तथा धर्मरथश्च यः । शूरः पञ्चजनश्चैव तस्य वंशकराः प्रभोः ॥ २,६३.१४७ ॥ प्रादाच्च तस्य भगवान्हरिर्नारायणो वरान् । अक्षयत्वं स्ववंशस्य वाजिमेधशतं तथा ॥ २,६३.१४८ ॥ विभुः पुत्रं समुद्रं च स्वर्गे वासं तथाक्षयम् । तं समुद्रोऽश्वमादाय ववन्दे सरितांपतिः ॥ २,६३.१४९ ॥ सागरत्वं च लेभे स कर्मणा तेन तस्य वै । तं चाश्वमेधिकं सोऽश्वं समुद्रात्प्राप्य पार्थिवः ॥ २,६३.१५० ॥ आजहाराश्वमेधानां शतं चैव पुनः पुनः । षष्टिं पुत्रसहस्राणि दग्धान्यस्य रुषा विभो ॥ २,६३.१५१ ॥ तेषां नारायणं तेजः प्रविष्टानि महात्मनाम् । पुत्राणां तु सहस्राणि षष्टिस्तु इति नः श्रुतम् ॥ २,६३.१५२ ॥ ऋषय ऊचुः सगरस्यात्मजा नाना कथं जाता महाबलाः । विक्रान्ताः षष्टिसाहस्रा विधिना केन वा वद ॥ २,६३.१५३ ॥ सुत उवाच द्वेपत्न्यौ सगरस्यास्तां तपसा दगधकिल्बिषे । ज्येष्ठा विदर्भदुहिता केशिनी नाम नामतः ॥ २,६३.१५४ ॥ कनीयसी तु या तस्यपत्नी परमधर्मिणी । अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि ॥ २,६३.१५५ ॥ और्वस्ताभ्यां वरं प्रादात्तपसाराधितः प्रभुः । एका जनिष्यते पुत्रं वंशकर्त्तारमीप्सितम् ॥ २,६३.१५६ ॥ षष्टिं पुत्रसहस्राणि द्वितीया जनयिष्यति । मुनेस्तु वचनं श्रुत्वा केशिनी पुत्रमेककम् ॥ २,६३.१५७ ॥ वंशस्य कारणं श्रेष्ठं जग्राह नृप संसदि । षष्टिं पुत्रसहस्राणि सुपर्णभगिनी तथा ॥ २,६३.१५८ ॥ महाभागा प्रमुदिता जग्राह सुमतिस्तथा । अथ काले गते ज्येष्ठा ज्येष्ठं पुत्रं व्यजायत ॥ २,६३.१५९ ॥ असमञ्ज इति ख्यातं काकुत्स्थं सगरात्मजम् । सुमतिस्त्वपि जज्ञे वै गर्भतुंबं यशस्विनी ॥ २,६३.१६० ॥ षष्टिः पुत्रसहस्राणां तुंबमध्याद्विनिस्सृताः । घृतपूर्णेषु कुंभेषु तान्गर्भान्यदधात्ततः ॥ २,६३.१६१ ॥ धात्रीश्चैकैकशः प्रादात्तावतीः पोषणे नृपः । ततो नवसु मासेषु समुत्तस्थुर्यथासुखम् ॥ २,६३.१६२ ॥ कुमारास्ते महाभागाः सगरप्रीतिवर्द्धनाः । कालेन महाता चैव यैवनं समुपाश्रिताः ॥ २,६३.१६३ ॥ केशिन्यास्तनयो योऽन्यः सगरस्यात्मसंभवः । असमञ्ज इति ख्यातो वर्हिकेतुर्महाबलः ॥ २,६३.१६४ ॥ पौराणामहिते युक्तः पित्रा निर्वासितः पुरात् । तस्य पुत्रोंऽशुमान्नाम असमञ्जस्य वीर्यवान् ॥ २,६३.१६५ ॥ तस्य पुत्रस्तु धर्मात्मा दिलीप इति विश्रुतः । दिलीपात्तु महातेजा वीरो जातो भगीरथः ॥ २,६३.१६६ ॥ येन गङ्गा सरिच्छ्रेष्ठा विमानैरुपशोभिता । इहानीता सुरेशाद्वै दुहितृत्वे च कल्पिता ॥ २,६३.१६७ ॥ अत्राप्युदाहरन्तीमं श्लोकं पौराणिका जनाः । भगीरथस्तु तां गङ्गामानयामास कर्मभिः ॥ २,६३.१६८ ॥ तस्माद्भागीरथी गङ्गा कथ्यते वंशवित्तमैः । भगीरथसुतश्चापि श्रुतो नाम बभूवह ॥ २,६३.१६९ ॥ नाभागस्तस्य दायादो नित्यं धर्मपरायणः । अम्बरीषः सुतस्तस्य सिंधुद्वीपस्ततोऽभवत् ॥ २,६३.१७० ॥ पूर्वे वंशपुराणज्ञा गायन्तीति परिश्रुतम् । नाभागेरंबरीषस्य भुजाभ्यां परिपालिता ॥ २,६३.१७१ ॥ बभूव वसुधात्यर्थं तापत्रयविवर्जिता । अयुतायुः सुतस्तस्य सिंधुद्वीपस्य वीर्यवान् ॥ २,६३.१७२ ॥ अयुतायोस्तु दायाद ऋतुपर्णो महायशाः । दिव्याक्षहृदयज्ञोऽसौ राजा नलसखो बली ॥ २,६३.१७३ ॥ नलौ द्वाविति विख्यातौ पुराणेषु दृढव्रतौ । वीरसेनात्मजश्चैव यश्चेक्ष्वाकुकुलोद्वहः ॥ २,६३.१७४ ॥ ऋतुपर्णस्य पुत्रोऽभूत्सर्वकामो जनेश्वरः । सुदासस्तस्य तनयो राजा इन्द्रसखोऽभवत् ॥ २,६३.१७५ ॥ सुदासस्य सुतः प्रोक्तः सौदासो नाम पार्थिवः । ख्यातः कल्माषपादो वै नाम्ना सित्रसहश्च सः ॥ २,६३.१७६ ॥ वसिष्ठस्तु महातेजाः क्षेत्रे कल्माषपादके । अश्मकं जनयामास त्विक्ष्वाकुकुलवृद्धये ॥ २,६३.१७७ ॥ अश्मकस्यौरसो यस्तु मूलकस्तत्सुतोऽभवत् । अत्राप्युदाहरन्तीमं मूलकं वै नृपं प्रति ॥ २,६३.१७८ ॥ स हि रामभयाद्राजा स्त्रीभिः परिवृतोऽवसत् । विवस्त्रस्त्राणमिच्छन्वै नारीकवच ईश्वरः ॥ २,६३.१७९ ॥ मूलकस्यापि धर्मात्मा राजा शतरथः स्मृतः । तस्माच्छतरथाज्जज्ञे राजा त्विडविडो बली ॥ २,६३.१८० ॥ आसीत्त्वैडविडः श्रीमान्कृशशर्मा प्रतापवान् । पुत्रो विश्वसहस्रस्य पुत्रीकस्यां व्यजायत ॥ २,६३.१८१ ॥ दिलीपस्तस्य पुत्रोऽभूत्खट्वाङ्ग इति विश्रुतः । येन स्वर्गादिहागत्य मुहूर्त्तं प्राप्य जीवितम् ॥ २,६३.१८२ ॥ त्रयोऽभिसंहिता लोका बुद्ध्या सत्येन चैव हि । दीर्घबाहुः सुतस्तस्य रघुस्तस्मादजायत ॥ २,६३.१८३ ॥ अजः पुत्रो रघोश्चापि तस्माज्जज्ञे स वीर्यवान् । राजा दशरथो नाम इक्ष्वाकुकुलनन्दनः ॥ २,६३.१८४ ॥ रामो दाशरथिर्वीरो धर्मज्ञो लोकविश्रुतः । भरतो लक्ष्मणश्चैव शत्रुघ्नश्च महाबलः ॥ २,६३.१८५ ॥ माधवं लवणं हत्वा गत्वा मधुवनं च तत् । शत्रुघ्रेन पुरी तत्र मथुरा विनिवेशिता ॥ २,६३.१८६ ॥ सुबाहुः शूरसे नश्च शत्रुघ्नस्य सुतावुभौ । पालयामासतुस्तौ तु वैदेह्यौ मथुरां पुरीम् ॥ २,६३.१८७ ॥ अङ्गदश्चन्द्रकेतुश्च लक्ष्मणस्यात्मजावुभौ । हिमवत्पर्वतस्यान्ते स्फीतौ जनपदौ तयोः ॥ २,६३.१८८ ॥ अङ्गदस्याङ्गदाख्याता देशे कारयते पुरी । चन्द्रकेतोस्तु विख्याता चन्द्रचक्रा पुरी शुभा ॥ २,६३.१८९ ॥ भरतस्यात्मजौ वीरौ तक्षः पुष्कर एव च । गान्धारविषये सिद्धे तयोः पुर्यो महात्मनोः ॥ २,६३.१९० ॥ तक्षस्य दिक्षु विख्याता नाम्ना तक्षशिला पुरी । पुष्करस्यापि वीरस्य विख्याता पुष्करावती ॥ २,६३.१९१ ॥ गाथां चैवात्र गायन्ति ये पुराण विदो जनाः । रामेण बद्धां सत्यार्थां महात्म्यात्तस्य धीमतः ॥ २,६३.१९२ ॥ श्यामो युवा लोहिताक्षो दीप्तास्यो मीतभाषितः । आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः ॥ २,६३.१९३ ॥ दशवर्षसहस्राणि रामो राज्यमकारयत् । ऋक्सामयजुषां घोषो यो घोषश्च महास्वनः ॥ २,६३.१९४ ॥ अव्युच्छिन्नोऽभवद्राज्ये दीयतां भुज्यतामिति । जनस्थाने वसन्कार्यं त्रिदशानां चकार सः ॥ २,६३.१९५ ॥ तमागस्कारिणं पूर्वं पौलस्त्यं मनुजर्षभः । सीतायाः पदमन्विच्छन्निजघान महायशाः ॥ २,६३.१९६ ॥ सत्त्ववान्गुणसंपन्नो दीप्यमानः स्वतेजसा । अतिसूर्यं च वह्निं च रामो दाशरथिर्बभौ ॥ २,६३.१९७ ॥ एवमेष महाबाहोस्तस्य पुत्रौ बभूवतुः । कुशो लव इति ख्यातो तयोर्देशौ निबोधत ॥ २,६३.१९८ ॥ कुशस्य कोशला राज्यं पुरी चापि कुशस्थली । रम्या निवेशिता तेन विन्ध्यपर्वतसानुषु ॥ २,६३.१९९ ॥ उत्तराकोशले राज्य लवस्य च महात्मनः । श्रावस्तिर्लोकविख्याता कुशवंशं निबोधत ॥ २,६३.२०० ॥ कुशस्य पुत्रो धर्मात्मा ह्यतिथिः सुप्रियातिथिः । अतिथेरपि विख्यातो निषधो नाम पार्थिवः ॥ २,६३.२०१ ॥ निषधस्य नलः पुत्रो नलस्य तु नाभाः सुतः । नभसः पुण्डरीकस्तु क्षेम धन्वा ततः स्मृतः ॥ २,६३.२०२ ॥ क्षेमधन्वसुतो राजा देवानीकः प्रतापवान् । आसीदहीनगुर्नाम देवानीकात्मजः प्रभुः ॥ २,६३.२०३ ॥ अहीन गोस्तु दायादः पारियात्रो महायशाः । दलस्तस्यात्मजश्चापि तस्माज्जज्ञे बलो नृपः ॥ २,६३.२०४ ॥ उलूको नाम धर्मात्मा बलपुत्रो बभूव ह । वज्रनाभः सुतस्तस्य शङ्खणस्तस्य चात्मजः ॥ २,६३.२०५ ॥ शङ्खणस्य सुतो विद्वान् व्युषिताश्व इति श्रुतः । व्युषिताश्वसुतश्चापि राजा विश्वसहः किल ॥ २,६३.२०६ ॥ हिरण्यनाभः कौशल्यो वरिष्ठस्तत्सुतोऽभवत् । पौष्यञ्जेश्च स वै शिष्यः स्मृतः प्राच्येषु सामसु ॥ २,६३.२०७ ॥ शतानि संहितानां तु पञ्च योऽधीतवांस्ततः । तस्मादधिगतो योगो याज्ञवल्क्येन धीमता ॥ २,६३.२०८ ॥ पुष्पस्तस्य सुतो विद्वान्ध्रुवसंधिश्च तत्सुतः । सुदर्शनस्तस्य सुतो ह्यग्निवर्मः सुदर्शनात् ॥ २,६३.२०९ ॥ अग्निवर्णस्य शीघ्रस्तु शीघ्रकस्य मरुः स्मृतः । मरुस्तु योगमास्थाय कलापग्राममास्थितः ॥ २,६३.२१० ॥ एकोनविंशप्रयुगे क्षत्रप्रावर्त्तकः प्रभुः । प्रभुसुतो मरोः पुत्रः सुसंधिस्तस्य चात्मजः ॥ २,६३.२११ ॥ सुसंधेश्च तथा मर्षः सहस्वान्नाम नामतः । आसीत्सहस्वतः पुत्रो राजा विश्रुतवानिति ॥ २,६३.२१२ ॥ तस्यासीद्विश्रुतवतः पुत्रो राजा बृहद्बलः । एते हीक्ष्वाकुदायादा राजानः शतशः स्मृताः ॥ २,६३.२१३ ॥ वंशे प्रधाना ये तस्मिन्प्राधान्येन तु कीर्त्तिताः । पठन्सम्यगिमां सृष्टिमादित्यस्य विवस्वतः ॥ २,६३.२१४ ॥ प्रजावानेति सायुज्यं मनोर्वेवस्वतस्य सः । श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च ॥ २,६३.२१५ ॥ विपाप्मा विरजाश्चैव आयुष्माञ्जायतेऽच्युतः ॥ २,६३.२१६ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धात पादे भार्गवचरिते इक्ष्वाकुवंशकीर्त्तनं नाम त्रिषष्टितमोऽध्यायः ॥ ६३॥ _____________________________________________________________ सूत उवाच अनुजस्य विकुक्षेस्तु निमेर्वंशं निबोघत । योऽसौ निवेशयामास पुरं देवपुरोपमम् ॥ २,६४.१ ॥ जयन्तमिति विख्यातं गौतमस्याश्रमान्तिकम् । यस्यान्ववाये जज्ञे वै जनको नृपसत्तमः ॥ २,६४.२ ॥ निमिर्नाम सुधर्मात्मा सर्वसत्त्वनमस्कृतः । आसीत्पुत्रो महाराज चैक्ष्वाकोर्भूरितेजसः ॥ २,६४.३ ॥ स शापेन वसिष्ठस्यविदेहः समपद्यत । तस्य पुत्रो मिथिर्नाम जनितः पर्वभिस्त्रिभिः ॥ २,६४.४ ॥ अरण्यां मथ्यमानाया प्रादुर्भूतो महायशाः । नाम्ना मिथिरिति ख्यातो जननाज्जनकोऽभवत् ॥ २,६४.५ ॥ मिथिर्नाम महावीर्यो येनासौ मिथिलाभवत् । राजासौ नाम जनको जनकाच्चा प्युदावसुः ॥ २,६४.६ ॥ उदावसोस्तु धर्मात्मा जातोऽसौ नन्दिवर्द्धनः । नन्दिवर्धनतः शूरः सुकेतुर्नाम धार्मिकः ॥ २,६४.७ ॥ सुकेतोरपि धर्मात्मा देवरातो महाबलः । देवरातस्य धर्मात्मा बृहदुक्थ इति श्रुतः ॥ २,६४.८ ॥ बृहदुक्थस्य तनयो महावीर्यः प्रतापवान् । महावीर्यस्य धृतिमान् सुधृति स्तस्य चात्मजः ॥ २,६४.९ ॥ सुधृतेरपि धर्मात्मा धृष्टकेतुः परन्तपः । धृष्टकेतुसुतश्चापि हर्यश्वो नाम विश्रुतः ॥ २,६४.१० ॥ हर्यश्वस्य मरुः पुत्रो मरोः पुत्रः प्रतिंबकः । प्रतिंबकस्य धर्मात्मा राजा कीर्त्तिरथः स्मृतः ॥ २,६४.११ ॥ पुत्रः कीर्त्तिरथस्यापि देवमीढ इति श्रुतः । देवमीढस्य विबुधो विबुधस्य महाधृतिः ॥ २,६४.१२ ॥ महाधृतिसुतो राजा कीर्त्तिरातः प्रतापवान् । कीर्तिरातात्मजो विद्वान्महारोमेति विश्रुतः ॥ २,६४.१३ ॥ महारोम्णस्तु विख्यातः स्वर्णरोमा व्यजायत । स्वर्णरोमात्मजश्चापि ह्रस्वरोमाभवन्नृपः ॥ २,६४.१४ ॥ ह्रस्वरोमान्मजो विद्वान् सरिद्ध्वज इति श्रुतः । उद्भिन्ना कर्षता येन सीता राज्ञा यशस्विनी ॥ २,६४.१५ ॥ रामस्य महिधी साध्वी सुव्रता नियतव्रता । वैशंपायन उवाच कथं सीता समुत्पन्न कृष्यमाण यशस्विनी ॥ २,६४.१६ ॥ किमर्थं वाकृषद्राजा क्षेत्रं यस्मिन् बभूव ह । सूत उवाच अग्निक्षेत्रे कृष्यमाणे अश्वमेधे महात्मनः ॥ २,६४.१७ ॥ विधिना सुप्रयत्नेन तस्मात्सा तु समुत्थिता । सीरध्वजानुजातस्तु भानुमान्नाम मैथिलः ॥ २,६४.१८ ॥ भ्राता कुशध्वजस्तस्य स काश्यधिपतिर्नृपः । तस्य भानुमतः पुत्रः प्रद्युम्नश्च पतापवान् ॥ २,६४.१९ ॥ मुनिस्तस्य सुतश्चापि तस्मादूर्जवहः स्मृतः । ऊर्जवहात्सनद्वाजः शकुनिस्तस्य चात्मजः ॥ २,६४.२० ॥ स्वागतः शकुनेः पुत्रः सुवर्चास्तत्सुतः स्मृतः । सुतोपस्तस्य दायादः सुश्रुतस्तस्य चात्मजः ॥ २,६४.२१ ॥ सुश्रुतस्य जयः पुत्रो जयस्य विजयः सुतः । विजयस्य क्रतुः पुत्र क्रतोश्च सुनयः स्मतः ॥ २,६४.२२ ॥ सुनयाद्वीतहव्यस्तु वीतहव्यात्मजो धृतिः । धृतेस्तु बहुलाश्वोऽभूद्बहुलाश्वसुतः कृतिः ॥ २,६४.२३ ॥ तस्मिन्संतिष्ठते वंशो चनकानां महात्मनाम् । इत्येते मैथिलाः प्रोक्ताः सोमस्यापि निबोधत ॥ २,६४.२४ ॥ एति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीये उपोद्धातपादे निमिवंशानुकीर्तनं नाम चतुःषष्टितमोऽध्यायः ॥ ६४॥ _____________________________________________________________ सूत उवाच पिता सोमस्य वै विप्रा जज्ञेऽत्रिर्भगवानृषिः । तत्रात्रिः सर्वलोकानां तस्थौ स्वेनौजसा वृतः ॥ २,६५.१ ॥ कर्मणा मनसा वाचा शुभान्येव समाचरन् । काष्ठकुड्यशिलाभूत ऊर्द्ध्वबाहुर्महाद्युतिः ॥ २,६५.२ ॥ सुदुश्चरं नाम तपो येन तप्तं महात्पुरा । त्रीणि वर्षसहस्राणि दिव्यानीति हि नः श्रुतम् ॥ २,६५.३ ॥ तस्योर्द्ध्वरेतसस्तत्र स्थितस्यानिमिषस्य ह । सोमत्वं तनुरापेदे महाबुद्धिः स वै द्विजः ॥ २,६५.४ ॥ ऊर्द्ध्वमाचक्रमे तस्य सोमत्वं भावितात्मनः । नेत्राभ्या मस्रवत्सोमो दशधा द्योतयन् दिशः ॥ २,६५.५ ॥ तं गर्भं विधिना हृष्टा दश देव्यो दधुस्तदा । समेत्य धारयामासुर्न च ताः समशक्नुवन् ॥ २,६५.६ ॥ स ताभ्यः सहसैवाथ दिग्भ्यो गर्भः प्रसाधितः । पपात भासयंल्लोकाञ्छीतांशुः सर्वभावनः ॥ २,६५.७ ॥ यदा न धारणे शक्तास्तस्य गर्भस्य ताः स्त्रियः । ततः सहाभिः शीतांशुर्निपपात वसुंधराम् ॥ २,६५.८ ॥ पतन्तं सोममालोक्य ब्रह्मा लोकपितामहः । रथमारोपयामास लोकानां हितकाम्यया ॥ २,६५.९ ॥ स हि वेदमयो विप्रा धर्मात्मा सत्यसंगरः । युक्ते वाजिसहस्रेण रथेऽध्यास्तेति नःश्रुतम् ॥ २,६५.१० ॥ तस्मिन्निपतिते देवाः पुत्रेऽत्रेः परमात्मनः । तुष्टुवुर्ब्रह्मणः पुत्रा मानसाः सप्त विश्रुताः ॥ २,६५.११ ॥ तत्रैवाङ्गिरसास्तस्य भृगोश्चैवात्मजास्तथा । ऋग्भिर्यजुर्भिर्बहुभिरथर्वाङ्गिरसैरपि ॥ २,६५.१२ ॥ ततः संस्तूयमानस्य तेजः सोमस्य भास्वतः । आप्यायमानं लोकांस्त्रीन्भावयामास सर्वशः ॥ २,६५.१३ ॥ स तेन रथमुख्येन सागरान्तां वसुंधराम् । त्रिःसप्तकृत्वोऽतियशाश्चकाराभिप्रदक्षिणम् ॥ २,६५.१४ ॥ तस्य यद्वर्द्धितं तेजः पृथिवीमन्वपद्यत । ओषध्यस्ताः समुद्भूतास्तेजसा खं ज्वलत्युत ॥ २,६५.१५ ॥ ताभिः पुण्यात्ययं लोकान्प्रजाश्चापि चतुर्विधाः । पोष्टा हि भगवान्सोमो जगतो हि द्विजोत्तमाः ॥ २,६५.१६ ॥ स लब्धतेजास्तपसा संस्तवैस्तैः स्वकर्मभिः । तवस्तेपे महाभागः समानां नवतीर्दश ॥ २,६५.१७ ॥ इरण्यवर्णा या देव्यो धारयन्त्यात्मना जगत् । विभुस्तासां मुदा सोमः प्रख्यातःस्वेन कर्मणा ॥ २,६५.१८ ॥ ततस्तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदां वरः । बीजौषधीनां विप्राणामपां च द्विजसत्तमाः ॥ २,६५.१९ ॥ सोऽभिषिक्तो महातेजा महाराज्येन राजराट् । लोकान्वै भावयामास तेजस्वी तपतां वरः ॥ २,६५.२० ॥ सप्तविंशतिरिन्दोस्तु दाक्षायण्यो महाव्रताः । ददौ प्राचेतसो दक्षो नक्षत्राणीति या विदुः ॥ २,६५.२१ ॥ स तत्प्राप्य महाद्राज्यं सोमः सोमवतां प्रभुः । समारेभे राजसूयं सहस्रशतदक्षिणम् ॥ २,६५.२२ ॥ हिरण्यगर्भश्चोद्गाता ब्रह्मा ब्रह्मत्वमीयिवान् । सदस्यस्तत्र भगवान्हरिर्नारायणः प्रभुः ॥ २,६५.२३ ॥ सनत्कुमारप्रमुखैराद्यैर्ब्रह्मर्षिभिर्वृतः ॥ २,६५.२४ ॥ दक्षिणामददात्सोमस्त्रींल्लोकानिति नः श्रुतम् । तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश्च वै द्विजाः ॥ २,६५.२५ ॥ तं सिनी च कुहूश्चैव वपुः पुष्टिः प्रभा वसुः । कीर्त्तिर्धृतिश्च लक्ष्मीश्च नव देव्यः सिषेविरे ॥ २,६५.२६ ॥ प्राप्यावभृथमव्यग्रः सर्वदेवर्षिपूजितः । अतिरेजे हि राजेन्द्रो दशधा भासयन्दिशः ॥ २,६५.२७ ॥ तस्य तत्प्राप्य दुष्प्रापमैश्वर्यमृषिसंस्तुतम् । विबभ्राम मतिर्विप्रा विनयादनयावृता ॥ २,६५.२८ ॥ बृहस्पतेः सवै भार्यां तारां नाम यशस्विनीम् । जहार सहसा सर्वानवमत्याङ्गिरःसुतान् ॥ २,६५.२९ ॥ स याच्यमानो देवैश्च तथा देवर्षिभिश्च ह । नैव व्यसर्जयत्तारां तस्मा अङ्गिरसे तदा ॥ २,६५.३० ॥ उशनास्तस्य जग्राह पार्ष्णिमङ्गिरसो भवः । स हि शिष्यो महातेजाः पितुः पूर्वं बृहस्पतेः ॥ २,६५.३१ ॥ तेन स्नेहेन भगवान्रुद्रस्तस्य बृहस्पतेः । पार्ष्मिग्राहोऽभवद्देवः प्रगृह्याजगवं धनुः ॥ २,६५.३२ ॥ तेन ब्रह्मशिरो नाम परमास्त्रं महात्मना । उद्दिश्य देवानुत्सृष्टं येनैषां नाशितं यशः ॥ २,६५.३३ ॥ तत्र तद्युद्धमभवत्प्रख्यातं तारकामयम् । देवानां दानवानां च लोकक्षयकरं महत् ॥ २,६५.३४ ॥ तत्र शिष्टास्तु ये देवास्तुषिताश्चैव ते स्मृताः । ब्रह्माणं शरणं जग्मुरादिदेवं पितामहम् ॥ २,६५.३५ ॥ ततो निवार्योशनसं रुद्रं ज्येष्ठं च शङ्करम् । ददावाङ्गिरसे तारां स्वयमेत्य पितामहः ॥ २,६५.३६ ॥ अन्तर्वत्नीं च तां दृष्ट्वा तारां ताराधिपाननाम् । गर्भमुत्सृज सद्यस्त्वं विप्रः प्राह बृहस्पतिः ॥ २,६५.३७ ॥ मदीयायां न ते योनौ गर्भो धार्यः कथञ्चन । अथो तारासृजद्गर्भं ज्वलन्तमिव पावकम् ॥ २,६५.३८ ॥ जातमात्रोऽथ भगवान्देवानामाक्षिपद्वपुः । ततः संशयमापन्नस्तारामकथयन्सुराः ॥ २,६५.३९ ॥ सत्यं ब्रूहि सुतः कस्य सोमस्याथ बृहस्पतेः । ह्रीयमाणा यदा देवान्नाह सा साध्वसाधु वा ॥ २,६५.४० ॥ तदा तां शप्तुमारब्धः कुमारो दस्युहन्तमः । तं निवार्य तदाब्रह्मा तारां पप्रच्छ संशयम् ॥ २,६५.४१ ॥ यदत्र तथ्यं तद्ब्रूहि तारे कस्य सुतस्त्वयम् । सा प्राञ्जलिरुवाचेदं ब्रह्माणं वरदं प्रभुम् ॥ २,६५.४२ ॥ सोमस्यति महात्मानं कुमारं दस्युहन्तमम् । ततः सुतमुपाघ्राय सोमो राजा प्रजापतिः ॥ २,६५.४३ ॥ बुध इत्यकरोन्नाम तस्य पुत्रस्य धीमतः । प्रतिघस्रं च गगने समभ्युत्तिष्ठते बुधः ॥ २,६५.४४ ॥ उत्पादयामास तदा पुत्रं वे राजपुत्रिका । तस्य पुत्रो महातेजा बभूवैलः पुरूरवाः ॥ २,६५.४५ ॥ उर्वश्यां जज्ञिरे तस्य पत्राः षट्सुमहौजसः । प्रसह्य धर्षितस्तत्र विवशो राजयक्ष्मणा ॥ २,६५.४६ ॥ ततो यक्ष्माभिभूतस्तु सोमः प्रक्षिणमण्डलः । जगाम शरणायाथ पितरं सोऽत्रिमेव तु ॥ २,६५.४७ ॥ तस्य तत्पापशमनं चकारात्रिर्महायशाः । स राजयक्ष्मणा मुक्तः श्रीया जजवाल सर्वशः ॥ २,६५.४८ ॥ एतत्सोमस्य वै जन्म कीर्त्तितं द्विजसत्तमाः । वंशं तस्य द्विजश्रेष्ठा कीर्त्यमानं निबोधत ॥ २,६५.४९ ॥ धन्यमारोग्यमायुष्यं पुण्यं कल्मषशोधनम् । सौम्यस्य चन्म श्रुत्वैवं सर्वपापैः प्रमुच्यते ॥ २,६५.५० ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे सोमसौम्ययोर्जन्मकथनं नाम पञ्चषष्टितमोऽध्यायः ॥ ६५॥ _____________________________________________________________ सूत उवाच सोमस्य तु बुधः पुत्रो बुधस्य तु पुरूरवाः । तेजस्वी दानशीलश्च यज्वा विपुलदक्षिणः ॥ २,६६.१ ॥ ब्रह्मवादी पराक्रान्तः शत्रुभिर्युधि दुर्जयः । आहर्त्ता जाग्निहोत्रस्य यज्ञानां च महीपतिः ॥ २,६६.२ ॥ सत्यवाग्धर्मबुद्धिश्च कान्तः संवृत्तमैथुनः । अतीव त्रिषु लोकेषु रूपेणाप्रतिमोऽभवत् ॥ २,६६.३ ॥ तं ब्रह्मवादिनं दान्तं धर्मज्ञं सत्यवादिनम् । उर्वशी वरयामास हित्वा मानं यशस्विनी ॥ २,६६.४ ॥ तया सहावसद्राजा दश वर्षाणि चाष्ट च । सप्त षट्सप्त चाष्टौ च दश चाष्टौ च वीर्यवान् ॥ २,६६.५ ॥ वने चैत्ररथे रम्ये तथा मन्दाकिनीतटे । अलकायां विशालायां नन्दने च वनोत्तमे ॥ २,६६.६ ॥ गन्धमादनपादेषु मेरुशृङ्गे नगोत्तमे । उत्तरांश्च कुरून्प्राप्य कलापग्राममेव च ॥ २,६६.७ ॥ एतेषु वनमुख्येषु सुरैराचरितेषु च । उर्वश्या महितो राजा रेमे परमया मुदा ॥ २,६६.८ ॥ ऋषय ऊचुः गन्धर्वी चोर्वशी देवी राजानं मानुषं कथम् । उत्सृज्य तं च संप्राप्ता तन्नो ब्रूहि च दुष्कृतम् ॥ २,६६.९ ॥ सूत उवाच ब्रह्मशापाभिभूता सा मानुषं समुपस्थिता । आत्मनः शापमोक्षार्थं नियमं सा चकार तु ॥ २,६६.१० ॥ अनग्नदर्शनं चैव अकामात्सह मैथुनम् । द्वौ मेषौ शयनाभ्याशे सा तावद्ध्यवतिष्ठते ॥ २,६६.११ ॥ घृतमात्रं तथाऽहारः कालमेकं तु पार्थिव । यद्येष समयो राजन्यावत्कालश्च ते दृढः ॥ २,६६.१२ ॥ तावत्कालं तु वत्स्यामि एष नः समयः कृतः । तस्यास्तं समयं सर्वं स राजा पर्यपालयत् ॥ २,६६.१३ ॥ एवं सा चावसत्तेन सहेलेना भिगामिनी । वर्षाण्यथ चतुःषष्टिं तद्भक्त्या शापमोहिता ॥ २,६६.१४ ॥ उर्वशी मानुषं प्राप्ता गन्धर्वाश्चिन्तयान्विताः । गन्धर्वा ऊचुः चिन्तयध्वं महाभागा यथा सा तु वराङ्गना ॥ २,६६.१५ ॥ आगच्छेत्तु पुनर्देवानुर्वशी स्वर्गभूषणम् । ततो विश्वापसुर्नाम गन्धर्वः सुमहामतिः ॥ २,६६.१६ ॥ जहारोरणकौ तस्यास्तत्पश्चात्सा दिवं गता । तस्यास्तु विरहेणासौ भ्रममाणस्त्वथोर्वशीम् ॥ २,६६.१७ ॥ ददर्श च कुरुक्षेत्रे तया संभाषितोऽप्ययम् । गन्धर्वानुपधावेति स तच्चक्रेऽथ ते ददुः ॥ २,६६.१८ ॥ अग्निस्थालीं तया राजा गतः स्वर्गं महारथः । एकोऽग्निः पूर्वमासीद्वै ऐलस्तं त्रीनकल्पयत् ॥ २,६६.१९ ॥ एवंप्रभावो राजासीदैलस्तु द्विजसत्तमाः । देशे पुण्यतमे चैव महर्षिभिरलङ्कृते ॥ २,६६.२० ॥ राज्यं स कारयामास प्रयागे पृथिवीपतिः । उत्तरे यामुने तीरे प्रतिष्ठाने महायशाः ॥ २,६६.२१ ॥ तस्य पुत्रा बभूवुर्हि षडिन्द्रोपमतेजसः । गन्धर्वलोके विदिता आयुर्द्धीमानमावसुः ॥ २,६६.२२ ॥ विश्वावसुः श्रतायुश्च घृतायुश्चोवर्शीसुताः । अमाव सोस्तु वै जाते भीमो राजाथ विश्वचित् ॥ २,६६.२३ ॥ श्रीमान्भीमस्य दायादो राजासीत्काञ्चनप्रभः । विद्वांस्तु काञ्चनस्यापि सुहोत्रोऽभून्महाबल ॥ २,६६.२४ ॥ सुहोत्रस्याभवज्जह्नुः केशिनीगर्भसंभवः । प्रतिगत्य ततो गङ्गा वितते य५ अर्मणि ॥ २,६६.२५ ॥ सादयामास तं देशं भाविनोर्ऽथस्य दर्शनात् । गङ्गया प्लावितं दृष्ट्वा यज्ञवाटं समन्ततः ॥ २,६६.२६ ॥ सौहोत्रिरपि संक्रुद्धो गङ्गां राजा द्विजोत्तमाः । तदाराजर्षिणा पीतां गङ्गां दृष्ट्वा सुरर्षयः ॥ २,६६.२७ ॥ उपनिन्युर्महाभागा दुहितृत्वेन जाह्नवीम् । यौवनाश्वस्य पौत्रीं तु कावेरीं जह्नुरावहत् ॥ २,६६.२८ ॥ युवनाश्वस्य शापेन गङ्गार्द्धेन विनिर्ममे । कावेरीं सरितां श्रेष्ठ जह्नुभार्यामनिन्दिताम् ॥ २,६६.२९ ॥ जह्नुस्तु दयितं पुत्रं सुनहं नाम धार्मिकम् । कावेर्यां जनयामास अजकस्तस्य चात्मजः ॥ २,६६.३० ॥ अजकस्य तु दायादो बलाकाश्वो महायशाः । बभूव मृग शीलः सुशस्तस्यात्मजः स्मृतः ॥ २,६६.३१ ॥ कुशपुत्रा बभूवुश्च चत्वारो देववर्चसः । कुशांबः कुशानाभश्च अमूर्तरयमो वसुः ॥ २,६६.३२ ॥ कुशिकस्तु तपस्तेपे पुत्रार्थी राजसत्तमः । पूर्णे वर्षसहस्रे वै शतक्रतुरपश्यत ॥ २,६६.३३ ॥ तमुग्रतपसं दृष्ट्वा सहस्राक्षः पुरन्दरः । समर्थः पुत्रजनने स्वयमेवास्य शाश्वतः ॥ २,६६.३४ ॥ पुत्रत्वं कल्पयामास स्वयमेव पुरन्दरः । गाधिर्नामाभवत्पुत्रः कौशिकः पाकशासनः ॥ २,६६.३५ ॥ पौरुकुत्स्यभवद्भार्या गाधेस्तस्यामजायत । पूर्वं कन्या महाभागा नाम्ना सत्यवती शुभा ॥ २,६६.३६ ॥ तां गाधिः पुत्रकामाय ऋचीकाय ददौ प्रभुः । तस्याः प्रीतस्तु वै भर्त्ता भार्गवो भृगुनन्दनः ॥ २,६६.३७ ॥ पुत्रार्थे साधयामास चरुं गाधेस्तथैव च । अथावोचत्प्रियां तत्र ऋचीको भार्गवस्तदा ॥ २,६६.३८ ॥ उपभोज्यश्चरुरयं त्वया मात्रा च ते शुभा । तस्या जनिष्यते पुत्रो दीप्तिमान्क्षत्त्रियर्षभः ॥ २,६६.३९ ॥ अजेयः क्षत्त्रियैर्युद्धे क्षत्रियर्षभसूदनः । तवापि पुत्रं कल्याणि धृतिमन्तं तपोधनम् ॥ २,६६.४० ॥ शमात्मकं द्विजश्रेष्ठं चरुरेष विधास्यति । एवमुक्त्वा तु तां भार्यामृचीको भृगुनन्दनः ॥ २,६६.४१ ॥ तपस्यभिरतो नित्यमरण्यं प्रविशेश ह । गाधिः सदारस्तु तदा ऋचीकाश्रममभ्यगात् ॥ २,६६.४२ ॥ तीर्थयात्राप्रसंगेन सुतां द्रष्टुं नरेश्वरः । चरुद्वयं गृहीत्वा तु ऋषेः स्त्यवती तदा ॥ २,६६.४३ ॥ भर्तुर्वचनमव्यग्रा हृष्टा मात्रे न्यवेदयत् । माता तु तस्यै दैवैन दुहित्रे स्वचरुं ददौ ॥ २,६६.४४ ॥ तस्याश्चरुमथाज्ञानादात्मनः सा चकार ह । अथ सत्यवती गर्भं क्षत्रियान्तकरं शुभम् ॥ २,६६.४५ ॥ धारयामास दीप्तेन वपुषा घोरदर्शना । तामृचीकस्ततो दृष्ट्वा योगेनाप्यवमृश्य च ॥ २,६६.४६ ॥ तदाब्रवीद्द्विजश्रेष्ठः स्वां भार्यां वरवर्णिनीम् । मात्रासि वञ्चिता भद्रे चरुव्यत्यासहेतुना ॥ २,६६.४७ ॥ जनिष्यति हि पुत्रस्ते क्रूरकर्मातिदारुमः । माता जनिष्यते चापि तथा भूतं तपोधनम् ॥ २,६६.४८ ॥ विश्वं हि ब्रह्मतपसा मया तत्र समर्पितम् । एवमुक्ता महाभागा भर्त्रा सत्यवती तदा ॥ २,६६.४९ ॥ प्रसादयामास पतिं सुतो मे नेदृशो भवेत् । ब्राह्मणापसदस्त्वत्त इत्युक्तो मुनिमब्रवीत् ॥ २,६६.५० ॥ नैव संकल्पितः कामो मया भद्रे तथा त्वया । उग्रकर्मा भवेत्पुत्रः पितुर्मातुश्च कारणात् ॥ २,६६.५१ ॥ पुनः सत्यवती वाक्यमेवमुक्ताब्रवीदिदम् । इच्छंल्लोकानपि मुने सृजेथाः किं पुनः सुतम् ॥ २,६६.५२ ॥ शमात्मकमृजुं भर्त्तः पुत्रं मे दातुमर्हसि । काममेवंविधः पौत्रो मम स्यात्तव सुव्रत ॥ २,६६.५३ ॥ यद्यन्यथा न सक्यं वै कर्तुंमेवं द्विजोत्तम । ततः प्रसादमकरोत्स तस्यास्तपसो बलात् ॥ २,६६.५४ ॥ पुत्रे नास्ति विशेषो मे पौत्रे वा वरवर्णिनि । त्वया यथोक्तं वचनं तथा भद्रेभविष्यति ॥ २,६६.५५ ॥ तस्मात्सत्यवती पुत्रं जनयामास भार्गवम् । तपस्यभिरतं दान्तं जमदग्निं शमात्मकम् ॥ २,६६.५६ ॥ भृगोश्चरुविपर्यासे रौद्रवैष्णवयोः पुरा । जमनाद्वैष्णवस्याग्नेर्जमदग्निरजायत ॥ २,६६.५७ ॥ विश्वामित्रं तु दायादं गाधिः कुशिकनन्दनः । प्राप्य ब्रह्मर्षिसमतां जगाम ब्रह्मणा वृतः ६६.५८॥ सा हि सत्यवती पुण्या सत्यव्रतपरायणा । कौशिकी तु समाख्याता प्रवृत्तेयं महानदी ॥ २,६६.५९ ॥ परिस्रुता महाभागा कौशिकी सरितां वरा । इक्ष्वाकुवंशप्रभवो रेणुको नाम पार्थिवः ॥ २,६६.६० ॥ तस्य कन्या महाभागा कमली नाम रेणुका । रेणुकायां कमल्यां तु तपोधृतिसमाधिना ॥ २,६६.६१ ॥ आर्चीको जनयामाम जमदग्निः सुदारुणम् । सर्वविद्यान्तगं श्रेष्ठं धनुर्वेदस्य पारगम् ॥ २,६६.६२ ॥ रामं क्षत्त्रियहन्तारं प्रदीप्तमिव पावकम् । और्वस्यैवमृचीकस्य सत्यवत्यां महामनाः ॥ २,६६.६३ ॥ जमदग्निस्तपोवीर्याज्जज्ञे ब्रह्मविदां वरः । मध्यमश्च शुनःशेफः शुनः पुच्छः कनिष्ठकः ॥ २,६६.६४ ॥ विश्वामित्रस्तु धर्मात्मा नाम्ना विश्वरथः स्मृतः । जज्ञे भृगुप्रसादेन कौशिकान्वयवर्द्धनः ॥ २,६६.६५ ॥ विश्वामित्रस्य पुत्रस्तु शुनःशेफोऽभवन्मुनिः । हरिश्चन्द्रस्य यज्ञे तु पशुत्वे नियतः स वै ॥ २,६६.६६ ॥ देवैर्दत्तः शुनःशेफो विश्वामित्राय वै पुनः । देवैर्दत्तः स वै यस्माद्देवरातस्ततोऽभवत् ॥ २,६६.६७ ॥ विश्वामित्रस्य पुत्राणां शुनःशेफोऽग्रजः स्मृतः । मधुच्छन्दादयश्चैव कृतदेवौ ध्रुवाष्टकौ ॥ २,६६.६८ ॥ कच्छपः पूरणश्चैव विश्वामित्रसुतास्तु वै । तेषाङ्गोत्राणि बहुधा कौशिकानां महात्मनाम् ॥ २,६६.६९ ॥ पार्थिवा देवराताश्च जाज्ञवल्क्याः समर्पणाः । उदुंबराश्च वातड्यास्तलकायनचान्द्रवाः ॥ २,६६.७० ॥ लोहिण्यो रेणवस्छैव तथा कारिषवः स्मृताः । बभ्रवः पणिनस्छैव ध्यानजप्यास्तथैव च ॥ २,६६.७१ ॥ श्यामायना हिरण्याक्षाः सांकृता गालवाः स्मृताः । देवला यामदूताश्च शालङ्कायनबाष्कलाः ॥ २,६६.७२ ॥ लालाढ्या बादराश्चान्ये विश्वामित्रस्य धीमतः । ऋष्यन्तरविवाह्यास्ते बहबः कौशिकाः स्मृताः ॥ ६५.७३॥ कौशिकाः सौश्रुताश्चैव तथान्ये सैन्धवायनाः । योगेश्वरस्य पुण्यस्य बह्मर्षेः कौशिकस्य वै । विश्वामित्रस्य पुत्राणां शुनःशेफोऽग्रजः स्मृतः ॥ २,६६.७४ ॥ दृषद्वती सुतश्चापि विश्वामित्रात्तथाष्टकः । अष्टकस्य सुतो लौहिः प्रोक्तो जह्नुगणो मया ॥ २,६६.७५ ॥ ऋषय ऊचुः किंलक्षणेन धर्मेण तपसेह श्रुतेन वा ॥ २,६६.७६ ॥ ब्राह्मण्यं समनुप्राप्तं विश्वामित्रादिभिर्नृपैः । येनयेनाभिधानेन ब्राह्मण्यं क्षत्रिया गताः ॥ २,६६.७७ ॥ विशेषं ज्ञातुमिच्छामि तपसो दानतस्तथा । एवमुक्तस्ततो वाक्यमब्रवीदिदमर्थवत् ॥ २,६६.७८ ॥ अन्यायोपगतैर्द्रव्यैराहूय द्विजसत्तमान् । धर्माभिकाङ्क्षी यजते न धर्मफलमश्नुते ॥ २,६६.७९ ॥ जपं कृत्वा तथा तीव्रं धनलोभान्निरङ्कुशः । रागमोहान्वितो ह्यन्ते पावनार्थं ददाति यः ॥ २,६६.८० ॥ तेन दत्तानि दानानि ह्यफलानि भवन्त्युत । तस्य धर्मप्रवृत्तस्य हिंसकस्य दुरात्मनः ॥ २,६६.८१ ॥ एवं लब्ध्वा धने मोहाद्ददतो यजतश्च ह । संक्लिष्टं कर्मणा दानं न तिष्ठति दुरात्मनः ॥ २,६६.८२ ॥ न्यायागतानां द्रव्याणां तीर्थं संप्रतिपादनम् । कामाननभि संधाय यजते च ददाति च ॥ २,६६.८३ ॥ स दानफलमाप्नोति तच्च दानं सुखोदयम् । दानेन भोगानाप्नोति स्वर्गं सत्येन गच्छति ॥ २,६६.८४ ॥ तपसा तु सुतप्तेन लोकान्विष्टभ्य तिष्ठति । सत्यं तु तपसः श्रेयस्तस्माज्ज्ञानं गुरु स्मृतम् ॥ २,६६.८५ ॥ श्रूयते हि तपस्सिद्धाः क्षत्त्रोपेता द्विजातयः । विश्वामित्रो नरपतिर्मान्धाता संकृतिः कपिः ॥ २,६६.८६ ॥ काश्यश्च पुरुकुत्सश्च शलो गृत्समदः प्रभुः । आर्ष्टिषेणोऽजमीढश्च भार्गव्योमस्तथैव च ॥ २,६६.८७ ॥ कक्षीवांश्चैवौशिजश्च नृपश्च शिशिरस्तथा । रथान्तरः शौनकश्च विष्णुवृद्धादयो नृपाः ॥ २,६६.८८ ॥ क्षत्रोपेताः स्मृता ह्येते तपसा ऋषितां गताः । एते राजर्षयः सर्वे सिद्धिं तु महतीं गताः ॥ २,६६.८९ ॥ अत ज्ञर्ध्वं प्रवक्ष्यामि आयोर्वंशं महात्मनः ॥ २,६६.९० ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उवोद्धात पादे भार्गवचरिते अमावसुवंशानुकीर्त्तनं नाम षट्षष्टितमोऽध्यायः ॥ ६६॥ _____________________________________________________________ आयोः पुत्रा महात्मानः पञ्चैवासन्महाबलाः । स्वर्भानुत नयायां ते प्रभायां जज्ञिरे नृपाः ॥ २,६७.१ ॥ नहुषः प्रथमस्तेषां क्षत्रवृद्धस्ततः स्मृतः । रंभो रजिरनेनाश्च त्रिषु लोकेषु विश्रुताः ॥ २,६७.२ ॥ क्षत्रवृद्धात्मजश्चैव सुनहोत्रो महायशाः । सुनहोत्रस्य दायादास्त्रयः परमधार्मिकाः ॥ २,६७.३ ॥ काशः शलश्च द्वावेतौ तथा गृत्समदः प्रभुः । पुत्रो गृत्समदस्यापि शुनको यस्य शौनकः ॥ २,६७.४ ॥ ब्राह्मणाः क्षत्रियाश्चैव वैश्याः शूद्रास्तथैव च । एतस्य वंशेसंभूता विचित्रैः कर्मभिर्द्विजाः ॥ २,६७.५ ॥ शलात्मजो ह्यार्ष्टिषेणः शिशिरस्तस्य जात्मजः । शौनकाश्चार्ष्टिषेणाश्च क्षत्रोपेता द्विजातयः ॥ २,६७.६ ॥ काश्यस्य काशिपो राजा पुत्रो दीर्घतपास्तथा । धन्वश्च दीर्घतपसो विद्वान्धन्वन्तरीस्ततः ॥ २,६७.७ ॥ तपसोंऽते महातेजा जातो वृद्धस्य धीमतः । अथैनमृषयः प्रोचुः सूतं वाक्यमिद पुनः ॥ २,६७.८ ॥ ऋषय ऊचुः कश्च धन्वन्तरिर्देवो मानुषेष्विह जज्ञिवान् । एतद्वेदितुमिच्छामस्तन्नोब्रूहि परन्तप ॥ २,६७.९ ॥ सूत उवाच धन्वन्तरेः संभवोऽयं श्रूयतामिह वै द्विजाः । स संभूतः समुद्रान्ते मथ्यमानेऽमृते पुरा ॥ २,६७.१० ॥ उत्पन्नः कलशात्पूर्वं सर्वतश्च श्रिया वृतः । सद्यःसंसिद्धकार्यं तं दृष्ट्वा विष्णुखस्थितः ॥ २,६७.११ ॥ अब्जस्त्वमिति होवाच तस्मादब्जस्तु स स्मृतः । अब्जः प्रोवाच विष्णुं तं तनयोऽस्मि तव प्रभो ॥ २,६७.१२ ॥ विधत्स्व भागं स्थानं च मम लोके सुरोत्तम । एवमुक्तः स दृष्ट्वा तु तथ्यं प्रोवाच स प्रभुः ॥ २,६७.१३ ॥ कृतो यज्ञविभागस्तु दैतेयैर्हि सुरैस्तथा । वेदेषु विधियुक्तं च विधिहोत्रं महर्षिभिः ॥ २,६७.१४ ॥ न सक्यमिह होमं वै तुभ्यं कर्तुं कदायन । अर्वाक्सूतोऽसि हे देव तव मन्त्रो न वै प्रभो ॥ २,६७.१५ ॥ द्वितीयायां तु संभूत्यां लोके ख्यातिं गमिष्यसि । अणिमादियुतां सिद्धिं गतस्तत्र भविष्यसि ॥ २,६७.१६ ॥ एतेनैव शरीरेण देवत्वं प्राप्स्यसि प्रभो । चा (च) तुर्मन्त्रैर्घृतैर्गव्यैर्यक्ष्यन्ते त्वां द्विजातयः ॥ २,६७.१७ ॥ अथ वा त्वं पुनश्चैव ह्यायुर्वेदं विधास्यसि । अवश्यभावीह्यर्थोऽयं प्राग्दृष्टस्त्वब्जयोनिना ॥ २,६७.१८ ॥ द्वितीयं द्वापर प्राप्य भविता त्वं न संशयः । तस्मात्तस्मै वरं दत्त्वा विष्णुरन्तर्दधे ततः ॥ २,६७.१९ ॥ द्वितीये द्वापरे प्राप्ते सौनहोत्रः स काशिराट् । पुत्रकामस्तपस्तेपे नृपो दीर्घतपास्तथा ॥ २,६७.२० ॥ अब्जं देवं तु पुत्रार्थे ह्यारिराधयिषुर्नृपः । वरेण च्छन्दयामास ततो धन्वन्तरिर्नृपम् ॥ २,६७.२१ ॥ नृप उवाच भगवन्यदि तुष्टस्त्वं पुत्रो मे गतिमान्भवेः । तथेति समनुज्ञाय तत्रैवान्तरधात्प्रभुः ॥ २,६७.२२ ॥ तस्य गेहे समुत्पन्नो देवो धन्वन्तरिस्तदा । काशिराजो महाराजः सर्व रोगप्रणाशनः ॥ २,६७.२३ ॥ आयुर्वेदं भरद्वाजात्प्राप्येह सभिषक्क्रियम् । तमष्टधा पुनर्व्यस्य शिष्येभ्यः प्रत्यपादयत् ॥ २,६७.२४ ॥ धन्वन्तरिसुतश्चापि केतुमानिति विश्रुतः । अथ केतुमतः पुत्रो जज्ञे भीमरथो नृपः ॥ २,६७.२५ ॥ पुत्रो भीमरथस्यापि जातो धीमान्प्रजेश्वरः । दिवोदास इति ख्यातो वाराणस्यधिपोऽभवत् ॥ २,६७.२६ ॥ एतस्मिन्नेव काले तु पुरीं वारामसीं पुरा । शून्यां निवेशयामास क्षेमको नाम राक्षसः ॥ २,६७.२७ ॥ शप्ता हि सा पुरी पूर्वं निकुंभेन महात्मना । शून्या वर्षसहस्रं वै भवित्रीति पुनः पुनः ॥ २,६७.२८ ॥ तस्यां तु शप्तमात्रायां दिवोदासः प्रजेश्वरः । विषयान्ते पुरीं रम्यां गोमत्यां संन्यवेशयत् ॥ २,६७.२९ ॥ ऋषय ऊचुः वाराणसीं किमर्थं तां निकुंभः शप्तवान्पुरा । निकुंभश्चापि धर्मात्मा सिद्धक्षेत्रं शशाप यः ॥ २,६७.३० ॥ सूत उवाच दिवोदासस्तु राजर्षिर्नगरीं प्राप्य पार्थिवः । वसते स महातेजाः स्फीतायां वै नराधिपः ॥ २,६७.३१ ॥ एतस्मिन्नेव काले तु कृतदारो महेश्वरः । देव्याः स प्रियकामस्तु वसन्वै श्वशुरान्तिके ॥ २,६७.३२ ॥ देवाज्ञया पारिषदा विश्वरुपास्तपोधनाः । पूर्वोक्तरूपसंवेषैस्तोषयन्ति महेश्वरीम् ॥ २,६७.३३ ॥ हृष्यते तैर्महादेवो मेना नैव तु तुष्यति । जुगुप्सते सा नित्यं वै देवं देवीं तथैव च ॥ २,६७.३४ ॥ मम पार्श्वे त्वनाचारस्तव भर्त्ता महेश्वरः । दरिद्रः सर्वथैवेह हा कष्टं लज्जते न वै ॥ २,६७.३५ ॥ मात्रा तथोक्ता वचसा स्त्रीस्वभावान्न चक्षमे । स्मितं कृत्वा तु वरदा हरपार्श्वमथागमत् ॥ २,६७.३६ ॥ विषण्णवदना देवी महादेवमभाषत । नेह वत्स्याम्यहं देव नय मां स्वं निवेशनम् ॥ २,६७.३७ ॥ तथोक्तस्तु महादेवः सर्वांल्लोकान्निरीक्ष्य ह । वासार्थं रोचयामास पृथिव्यां तु द्विजोत्तमाः ॥ २,६७.३८ ॥ वाराणसीं महातेजाः सिद्धक्षेत्रं महेश्वरः । दिवोदासेन तां ज्ञात्वा निविष्टां नगरीं भवः ॥ २,६७.३९ ॥ पार्श्वस्थं स समाहूय गणेशं क्षेममब्रवीत् । गणेश्वर पुरीं गत्वा शून्यां वाराणसीं कुरु ॥ २,६७.४० ॥ मृदुना चाभ्युपायेन अतिवीर्यः स पार्थिवः । ततो गत्वा निकुंभस्तु पुरीं वाराणसीं पुरा ॥ २,६७.४१ ॥ स्वप्ने संदर्शयामास मङ्कनं नामतो द्विजम् । श्रेयस्तेऽहं करिष्यामि स्थानं मे रोचयानघ ॥ २,६७.४२ ॥ मद्रूपां प्रतिमां कृत्वा नगर्यन्ते निवेशय । तथा स्वप्ने यथा दृष्टं सर्वं कारितवान्द्विजः ॥ २,६७.४३ ॥ नगरीद्वार्यनुज्ञाप्य राजानं तु यथाविधि । पूजा तुमहती चैव नित्यमेव प्रयुज्यते ॥ २,६७.४४ ॥ गन्धैर्धूपैश्च वाल्यैश्च प्रेक्षणीयेस्तथैव च । अन्नप्रदानयुक्तैश्च ह्यत्यद्भुतमिवाभवत् ॥ २,६७.४५ ॥ एवं संपूज्यते तत्र नित्यमेव गणेश्वरः । ततो वरसहस्राणि नागराणां प्रयच्छति ॥ २,६७.४६ ॥ पुत्रान्हिरण्यमायूंषि सर्वकामांस्तथैव च । राज्ञस्तु महिषी श्रेष्टा सुयशा नाम विश्रुता ॥ २,६७.४७ ॥ पुत्रार्थमागता साध्वी राज्ञा देवी प्रचोदिता । पूजां तु विपुलां कृत्वा देवी पुत्रानयाचत ॥ २,६७.४८ ॥ पुनः पुनरथागत्य बहुशः पुत्रकारणात् । न प्रयच्छति पुत्रांस्तु निकुंभः कारणेन तु ॥ २,६७.४९ ॥ क्रुध्यते यदि राजा तु तत किञ्चित्प्रवर्त्तते । अथ दीर्घेण कालेन क्रोधो राजानमाविशत् ॥ २,६७.५० ॥ भूतं त्विदं मंहद्द्वारि नागराणां प्रयच्छति । प्रीत्या वरांश्च शतशो न किञ्चिन्नः प्रयच्छति ॥ २,६७.५१ ॥ मामकैः पूज्यते नित्यं नगर्यां मम चैव तु । स याचितश्च बहुशो देव्या मे पुत्रकारणात् ॥ २,६७.५२ ॥ न ददाति च पुत्रं मे कृतघ्नो बहुभोजनः । अतो नार्हति पूजा तु मत्सकाशात्कथञ्चन ॥ २,६७.५३ ॥ तस्मात्तु नाशयिष्यामितस्य स्थानं दुरात्मनः । एवं तु स विनिश्चित्य दुरात्मा राजकिल्बिषी ॥ २,६७.५४ ॥ स्थानं गणपतेश्तस्य नाशयामास दुर्मतिः । भग्नमायतनं दृष्ट्वा राजानमशपत्प्रभुः ॥ २,६७.५५ ॥ यस्माद्विनापराधं मे त्वया स्थानं विनाशितम् । अकस्मात्तु पुरी शून्या भवित्रीते नराधिप ॥ २,६७.५६ ॥ ततस्तेन तु शापेन शून्या वाराणसी तदा । शप्त्वा पुरीं निकुंभस्तु महादेवमथानयत् ॥ २,६७.५७ ॥ शून्यां पुरीं महा देवो निर्ममे पदमात्मनः । तुल्यां देवविभूत्या तु देव्याश्चैव महामनाः ॥ २,६७.५८ ॥ रमते तत्र वै देवी ह्यैश्वर्यात्सा तु विस्मिता । देव्या क्रीडार्थमीशानो देवो वाक्यमथाब्रवीत् ॥ २,६७.५९ ॥ नाहं वेश्म विमोक्ष्यामि ह्यविमुक्तं हि मे गृहम् । प्रहस्यैनामथोवाच ह्यविमुक्तं हि मे गृहम् । नाहं देवि गमिष्यामि त्वन्यत्रेदं विहाय वै ॥ २,६७.६० ॥ मया सह रमस्वेह क्षेत्रे भामिन्यनुत्तमे । तस्मात्तदविमुक्तं हि प्रोक्तं देवेन वै स्वयम् ॥ २,६७.६१ ॥ एवं वाराणसी शप्ता ह्यविमुक्तं च कीर्त्तिता । यस्मिन्वसेद्भवो देवः सर्वदेवनमस्कृतः ॥ २,६७.६२ ॥ युगेषु त्रिषु धर्मात्मा सह देव्या महेश्वरः । अन्तर्द्धानं कलौ याति तत्पुरं तु महात्मनः ॥ २,६७.६३ ॥ अन्तर्हिते पुरे तस्मिन्पुरी सा वसते पुनः । एवं वाराणसी शप्ता निवेशं पुनरागता ॥ २,६७.६४ ॥ भद्रसेनस्य पुत्राणां शतमुत्तमधन्विनाम् । हत्वा निवेशयामास दिवोदासो नराधिपः ॥ २,६७.६५ ॥ भद्रसेनस्य राज्यं तु हतं तेन बलीयसा । भद्रसेनस्य पुत्रस्तु दुर्मदो नाम नामतः ॥ २,६७.६६ ॥ दिवोदासेन बालेति घृणया स विसर्जितः । दिवोदासाद्दृषद्वत्यां वीरो जज्ञे प्रतर्द्दनः ॥ २,६७.६७ ॥ तेन पुत्रेण बालेन प्रहृतं तस्य वै पुनः । वैरस्यान्त महाराज तदा तेन विधित्सता ॥ २,६७.६८ ॥ प्रतर्दनस्य पुत्रौ द्वौ वत्सो गर्गश्च विश्रुतौ । वत्सपुत्रो ह्यलर्कस्तु सन्नतिस्तस्य चात्मजः ॥ २,६७.६९ ॥ अलर्कं प्रति राजर्षिं श्रोकों गीतः पुरातनैः । षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ॥ २,६७.७० ॥ युवा रूपेण संपन्नो ह्यलर्कः काशिसत्तमः । लोपामुद्राप्रसादेन परमायुरवाप्तवान् ॥ २,६७.७१ ॥ शापस्यान्ते महाबाहुर्हत्वा क्षेमकराक्षसम् । रम्यामावासयामास पुरीं वाराणसीं नृपः ॥ २,६७.७२ ॥ सन्नतेरपि दायादः सुनीथो नाम धार्मिकः । सुनीथस्य तु दायादः क्षैमाख्यो नाम धार्मिकः ॥ २,६७.७३ ॥ क्षेमस्य केतुमान्पुत्रः सुकेतुस्तस्य चात्मजः । सुकेतुतनयश्चापि धर्मकेतुरिति श्रुतः ॥ २,६७.७४ ॥ धर्मकेतोस्तु दायादः सत्यकेतुर्महारथः । सत्यकेतुसुतश्चापि विभुर्नाम प्रजेश्वरः ॥ २,६७.७५ ॥ सुविभुस्तु विभोः पुत्रः सुकुमारस्ततः स्मृतः । सुकुमारस्य पुत्रस्तु धृष्टकेतुः सुधार्मिकः ॥ २,६७.७६ ॥ धृष्टकेतोस्तु दायादो वेणुहोत्रः प्रजेश्वरः । वेणुहोत्रसुतश्चापि गार्ग्यो वै नाम विश्रुतः ॥ २,६७.७७ ॥ गार्ग्यस्य गर्गभूमिस्तु वंशो वत्सस्य धीमतः । ब्राह्मणाः क्षत्रियाश्चैव तयोः पुत्राः सुधार्मिकाः ॥ २,६७.७८ ॥ विक्रान्ता बलवन्तश्च सिहतुल्यपराक्रमाः । इत्येते काश्यपाः प्रोक्ता रजेरपि निबोधत ॥ २,६७.७९ ॥ रजेः पुत्रशतान्यासन्पञ्च वीर्यवतो भुवि । राजेयमिति विख्यातं क्षत्र सिंद्रभयावहम् ॥ २,६७.८० ॥ तदा देवासुरे युद्धे समुत्पन्ने सुदारुणे । देवाश्चैवासुराश्चैव पितामहमथाब्रुवन् ॥ २,६७.८१ ॥ आवयोर्भगवन्युद्धे विजेता को भविष्यति । ब्रूहि नः सर्वलोकेश श्रोतुमिच्छामहे वयम् ॥ २,६७.८२ ॥ ब्रह्मोवाच । येषामर्थाय संग्रामे रजिरात्तायुधः प्रभुः । योत्स्यते ते विजष्यन्ते त्रींल्लोकान्नात्र संशयः ॥ २,६७.८३ ॥ रजिर्यतस्ततो लक्ष्मीर्यतो लक्ष्मीस्ततो धृतिः । यतो धृतिस्ततो धर्मो यतो धर्मस्ततो जयः ॥ २,६७.८४ ॥ ते देवा दानवाः सर्वे ततः श्रुत्वा रजेर्जयम् । अभ्ययुर्जयमिच्छन्तः स्तुवन्तो राजसत्तमम् ॥ २,६७.८५ ॥ ते हृष्टमनसः सर्वे राजानं देवदानवाः । ऊचुरस्मज्जयाय त्वं गृहाम वरकार्मुकम् ॥ २,६७.८६ ॥ रजिरुवाच अहं जेष्यामि भो दैत्या देवाञ्च्छ क्रपुरोगमान् । इन्द्रो भवामि धर्मात्मा ततो योत्स्ये रणाजिरे ॥ २,६७.८७ ॥ दानवा ऊचुः अस्माकमिन्द्रः प्रह्लादस्तस्यार्थे विजयामहे । अस्मिन्तु समये राजंस्तिष्ठेथा देवनोदिते ॥ २,६७.८८ ॥ स तथेति ब्रुवन्नेव देवैरप्यभिनोदितः । भविष्यसींद्रो जित्वेति देवैरपि निमन्त्रितः ॥ २,६७.८९ ॥ जघान दानवान्सर्वान्येऽवध्या वज्रपाणयः । स विप्रनष्टां देवानां परमश्रीः श्रियं वशी ॥ २,६७.९० ॥ निहत्य दानवान्सर्वा नाजहार रजिः प्रभुः । तं तथाह रजिं तत्र देवैः सह शतक्रतुः ॥ २,६७.९१ ॥ रजिपुत्रोऽहमित्युक्त्वा पुनरेवाब्रहवीद्वचः । इन्द्रोऽसि राजन्देवानां सर्वेषां नात्र संशयः ॥ २,६७.९२ ॥ यस्याहमिन्द्रः पुत्रस्ते ख्यातिं यास्यामि शत्रुहन् । स तु शक्रवचः श्रुत्वा वञ्चितस्तेन मायया ॥ २,६७.९३ ॥ तथेत्येवाह वै राजा प्रीयमाणः शतक्रतुम् । तस्मिंस्तु देवसदृशे दिवं प्राप्ते महीपतौ ॥ २,६७.९४ ॥ दायाद्यमिन्द्रादा जह्नुराचार्यतनया रजेः । तानि पुत्रशतान्यस्य तच्च स्थानं शचीपतेः ॥ २,६७.९५ ॥ समाक्रामन्त बहुधा स्वर्गलोकं त्रिविष्टपम् । ततः काले बहुतिथे समतीते महाबलः ॥ २,६७.९६ ॥ हतराज्योऽब्रवीच्छक्रो हतभागो बृहस्पतिम् । बदरी फलमात्रं वै पुरोडाशं विधत्स्व मे ॥ २,६७.९७ ॥ ब्रह्मर्षे येन तिष्ठेयं तेजसाप्यायितस्ततः । ब्रह्मन्कृशोऽहं विमना त्दृतराज्यो हृतासनः ॥ २,६७.९८ ॥ हतौजा दुर्बलो युद्धे रजिपुत्रेः प्रसीद मे । बृहस्पतिरुवाच यद्येवं चोदितःशक्र त्वयास्यां पूर्वमेव हि ॥ २,६७.९९ ॥ नाभविष्यत्त्वत्प्रियार्थमकर्त्तव्यं ममानघ । प्रयतिष्यामि देवेन्द्र त्वद्धितार्थं महाद्युते ॥ २,६७.१०० ॥ यज्ञभागं च राज्यं च अचिरात्प्रतिपत्स्यसे । तथा शक्र गमिष्यामि मा भूत्ते विक्लवं मनः ॥ २,६७.१०१ ॥ ततः कर्म चकारास्य तेजःसंवर्द्धनं महत् । तेषां च बुद्धिसंमोहमकरोद्बुद्धिसत्तमः ॥ २,६७.१०२ ॥ ते यदा तु सुसंमूडा रागान्मत्तो विधर्मिणः । ब्रह्मद्विषश्च संबृत्ता हतवीर्यपराक्रमाः ॥ २,६७.१०३ ॥ ततो लेभेऽसुरैश्वर्यमैन्द्रस्थानं तथोत्तमम् । हत्वा रजिसुतान्सर्वान्कामक्रोधपरायणान् ॥ २,६७.१०४ ॥ य इदं च्यवनं स्थानात्प्रतिष्ठां च शतक्रतोः । शृणुयाच्छ्रावयेद्वापि न स दौरात्म्यमाप्नुयात् ॥ २,६७.१०५ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे धन्वन्तरिसंभवादिवर्णनं नाम सप्तषष्टितमोऽध्यायः ॥ ६७॥ _____________________________________________________________ ऋषय ऊचुः मरुतेन कथं कन्या राज्ञे दत्ता महात्मना । किंवीर्याश्च महात्मानो जाता मरुतकन्यया ॥ २,६८.१ ॥ सूत उवाच आहरत्स मरुत्सोममन्नकामः प्रजेश्वरः । मासिमासि महातेजाः षष्टिसंवत्सरान्नृप ॥ २,६८.२ ॥ तेन ते मरुतस्तस्य मरुत्सोमेन तोषिताः । अक्षय्यान्नं ददुः प्रीताः सर्वकामपरिच्छदम् ॥ २,६८.३ ॥ अन्नं तस्य सकृद्भुक्तमहोरात्रं न क्षीयते । कोटिशो दीय मानं च सूर्यस्योदयनादपि ॥ २,६८.४ ॥ मित्रज्योतेस्तु कन्याया मरितस्य च धीमतः । तस्माज्जाता महासत्त्वा धर्मज्ञा मोक्षदर्शिनः ॥ २,६८.५ ॥ संन्यस्य गृहधर्माणि वैराग्यं समुपस्थिताः । यतिधर्ममवाप्येह ब्रह्मभूयाय ते गताः ॥ २,६८.६ ॥ अनेनसः सुतो जातः क्षत्रधर्मः प्रतापवान् । क्षत्रधर्मसुतो जातः प्रतिपक्षो महातपाः ॥ २,६८.७ ॥ प्रतिपक्षसुतश्चापि सृंजयो नाम विश्रुतः । सृंजयस्य जयः पुत्रो विजयस्तस्य जज्ञिवान् ॥ २,६८.८ ॥ विजयस्य जयः पुत्रस्तस्य हर्यश्वकः स्मृतः । इर्यश्वस्य सुतो राजा सहदेवः प्रतापवान् ॥ २,६८.९ ॥ सहदेवस्य धर्मात्मा अहीन इति विश्रुतः । अहीनस्य चयत्सेनस्तस्य पुत्रोऽथ संकृतिः ॥ २,६८.१० ॥ संकृतेरपि धर्मात्मा कृतधर्मा महायशाः । इत्येते क्षत्रधर्माणो नहुषस्य निबोधत ॥ २,६८.११ ॥ नहुषस्य तु दायादाः षडिन्द्रोपमतेजसः । यतिर्ययातिः संयातिरायतिर्वियतिः कृतिः ॥ २,६८.१२ ॥ यतिर्ज्येष्ठस्तु तेषां वै ययातिस्तु ततोऽवरः । काकुत्स्थकन्यां गां नाम लेभे पत्नीं यतिस्तदा ॥ २,६८.१३ ॥ स यतिर्मोक्षमास्थाय ब्रह्मभूतोऽभवन्मुनिः । तेषां मध्ये तु पञ्चानां ययातिः पृथिवीपतिः ॥ २,६८.१४ ॥ देवयानीमुशनसः सुतां भार्यामवाप ह । शर्मिष्ठामासुरीं चैव तनयां वृषपर्वणः ॥ २,६८.१५ ॥ यदुं च तुर्वसुं चैव देवयानो व्यजायत । द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ॥ २,६८.१६ ॥ अजीजनन्महावीर्यान्सुतान्देवसुतोपमान् । रथं तस्मै ददौ शक्रः प्रीतः परमभास्वरम् ॥ २,६८.१७ ॥ असंगं काञ्चनं दिव्यमक्षयौ च महेषुधी । युक्तं मनोजवैरश्वैर्येन कन्यां समुद्वहत् ॥ २,६८.१८ ॥ स तेन रथमुख्येन जिगाय सततं महीम् । ययातिर्युधि दुर्द्धर्षो देवदानवमानवैः ॥ २,६८.१९ ॥ पौरवाणां नृपाणां च सर्वेषां सोऽभवद्रथी । यावत्सुदेशप्रभवः कौरवो जनमेजयः ॥ २,६८.२० ॥ कुरोः पौत्रस्य राज्ञरतु राज्ञः पारीक्षितस्य ह । जगाम सरथो नाशं शापाद्गार्ग्यस्य धीमतः ॥ २,६८.२१ ॥ गार्ग्यस्य हि सुतं बालं स राजा जनमेजयः । दुर्बुद्धिर्हिंसया मास लोहगन्धी नराधिपः ॥ २,६८.२२ ॥ स लोहगन्धी राजर्षिः परिधावन्नितस्ततः । पौरजानपदैस्त्यक्तो न लेभे शर्म कर्हिचित् ॥ २,६८.२३ ॥ ततः स दुःखसंतप्तो नालभत्संविदं क्वचित । स प्रायाच्छौनकमृषिं शरणं व्यथितस्तदा ॥ २,६८.२४ ॥ इन्द्रोतोनाम विख्यातो योऽसौ मुनि रुदारधीः । योजयामास चैन्द्रोतः शौनको जनमेजयम् ॥ २,६८.२५ ॥ अश्वमेधेन राजानं पावनार्थं द्विजोत्तमाः । स लोहगन्धो व्यनशत्त स्यावभृथमेत्य ह ॥ २,६८.२६ ॥ स वै दिव्यो रथस्तस्माद्वसोश्चेदिपतेस्तथा । दत्तः शक्रेन तुष्टेन लेभे तस्माद्बृहद्रथः ॥ २,६८.२७ ॥ ततो हत्वा जरासंधं भीमस्तं रथमुत्तमम् । प्रददौ वासुदेवाय प्रीत्या कौरवनन्दनः ॥ २,६८.२८ ॥ स जरां प्राप्य राजर्षिर्ययातिर्नहुषात्मजः । पुत्रं श्रेष्टं वरिष्ठं च यदुमित्यब्रवीद्वचः ॥ २,६८.२९ ॥ जरावली च मां तात पलितानि च पर्ययुः । काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ॥ २,६८.३० ॥ त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह । जरां मे प्रतिगृह्णीष्व तं यदुः प्रत्युवाच ह ॥ २,६८.३१ ॥ अनिर्दिष्टा हि मे भिक्षा ब्राह्मणस्य प्रतिश्रुता । सा तु व्यायामसाध्या वै न ग्रहीष्यामि ते जराम् ॥ २,६८.३२ ॥ जरायां बहवो दोषाः पानभोजनकारिताः । तस्माज्जरां न ते राजन्ग्रहीतुमहमुत्सहे ॥ २,६८.३३ ॥ सितश्मश्रुधरो दीनो जरया शिथिलीकृतः । वलीसंततगात्रश्च निराशो दुर्बलाकृतिः ॥ २,६८.३४ ॥ अशक्तः कार्यकरणे परिबूतस्तु यौवने । सहोपवीतिभिश्चैव तां जरां नाभिकामये ॥ २,६८.३५ ॥ संति ते बहवः पुत्रा मत्तः प्रियतरा नृप । प्रतिगृह्णन्तु धर्मज्ञ पुत्रमन्यं वृणीष्व वै ॥ २,६८.३६ ॥ स एवमुक्तो यदुना दीव्रकोपसमन्वितः । उवाच वदतां श्रेष्टो ज्येष्ठं तं गर्हयन्सुतम् ॥ २,६८.३७ ॥ आश्रमः कस्तवान्योऽस्ति को वा धर्मविधिस्तव । मामनादृत्य दुर्बुद्धे यदहं तव देशिकः ॥ २,६८.३८ ॥ एवमुक्त्वा यदुं राजा शशापैनं स मन्युमान् । यस्त्वं मे त्दृदयाज्जातो वयः स्वं न प्रयच्छसि ॥ २,६८.३९ ॥ तस्मान्न राज्यभाङ्मूढ प्रजा ते वै भविष्यति । तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह ॥ २,६८.४० ॥ तुर्वसुरुवाच न कामये जरां तात कामभोगप्रणाशिनीम् । जरायां बहवो दोषाः पानभोजन कारिताः ॥ २,६८.४१ ॥ तस्माज्जरां न ते राजन्ग्रहीतुमहमुत्सहे । ययातिरुवाच यस्त्वं मे त्दृदयाज्जातो वयः स्वं न प्रयच्छसि ॥ २,६८.४२ ॥ तस्मात्प्रजानु विच्छेदं तुर्वसो तव यास्यति । संकीर्णेषु च धर्मेण प्रतिलोमनरेषु च ॥ २,६८.४३ ॥ पिशिताशिषु चान्येषु मूढ राजा भविष्यसि । गुरुदारप्रसक्तेषु तिर्यग्योनिगतेषु वा । वासस्ते पाप म्लेच्छेषु भविष्यति न संशयः ॥ २,६८.४४ ॥ सूत उवाच एवं तु तुर्वसुंशप्त्वा ययातिः सुतमात्मनः ॥ २,६८.४५ ॥ शर्मिष्ठायाः सुतं द्रुह्युमिदं वचनमब्रवीत् । द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् ॥ २,६८.४६ ॥ जरा वर्षसहस्रंवै यौवनं स्वं ददस्व मे । पूर्णे वर्षसहस्रे ते प्रतिदास्यामि यौवनम् ॥ २,६८.४७ ॥ स्वं चादास्यामि भूयोऽहं पाप्मानं जरया सह । द्रुह्युरुवाच नारोहेत रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम् । न सुखं चास्य भवति न जरां तेन कामये ॥ २,६८.४८ ॥ ययातिरुवाच यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ॥ २,६८.४९ ॥ तस्माद्द्रुह्यो प्रियः कामो न ते संपत्स्यते क्वचित् । नौप्लवोत्तरसंचारस्तव नित्यं भविष्यति ॥ २,६८.५० ॥ अराजा राजवंशस्त्वं तत्र नित्यं वसिष्यसि । अनो त्वं प्रतिपाद्यस्व पाप्मानं जरया सह ॥ २,६८.५१ ॥ एवं वर्षसहस्रं तु चरेयं यौवनेन ते । अनुरुवाच जीर्णः शिशुरिवाशक्तो जरया ह्यशुचिः सदा । न जुहोति स कालेऽग्निं तां जरां नाभिकामये ॥ २,६८.५२ ॥ ययातिरूवाच । यस्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि ॥ २,६८.५३ ॥ जरादोष स्त्वयोक्तोऽयं तस्मात्त्वं प्रतिपत्स्यसे । प्रजा च यौवनं प्राप्ता विनशिष्यत्यनो तव ॥ २,६८.५४ ॥ अग्निप्रस्कन्दनपरास्त्वं वाप्येवं भविष्यसि । पूरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह ॥ २,६८.५५ ॥ जरावली च मां तात पलितानि च पर्ययुः । काव्यस्योशनसः शापान्न च तृप्तोऽस्मियौवने ॥ २,६८.५६ ॥ कञ्चित्कालं चरेयं वै विषयान्वयसा तव । पूर्णे वर्षसहस्रे ते प्रतिदास्यामि यौवनम् ॥ २,६८.५७ ॥ स्वं चैव प्रतिपत्स्येऽहं पाप्मानं जरया सह । सूत उवाच एवमुक्तः प्रत्युवाच पुत्रः पितरमञ्जसा ॥ २,६८.५८ ॥ यथा तु मन्यसे तात करिष्यामि तथैव च । प्रतिपत्स्ये च ते राजन्पाप्मानं जरया सह ॥ २,६८.५९ ॥ गृहाण यौवनं मत्तश्चर कामान्यथेप्सितान् । जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव ॥ २,६८.६० ॥ यौवनं भवते दत्त्वा चरिष्यामि यथार्थवत् । ययातिरुवाच पूरो प्रीतोऽस्मि भद्रं ते प्रीतश्चेदं ददामि ते ॥ २,६८.६१ ॥ सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति । सूत उवाच पूरोरनुमतो राजा ययातिः स्वजरां ततः ॥ २,६८.६२ ॥ संक्रामयामास तदा प्रासादद्भार्गवस्य तु । गौरवेणाथ वयसा ययातिर्नहुषात्मजः ॥ २,६८.६३ ॥ प्रीतियुक्तो नरश्रेष्ठश्चचार विषयान्स्वकान् । यथाकामं यथोत्साहं यथाकालं यथासुखम् ॥ २,६८.६४ ॥ धर्माविरोधी राजेन्द्रो यथाशक्ति स एव हि । देवानतर्पयद्यज्ञैः पितॄञ्श्राद्धैस्तथैव च ॥ २,६८.६५ ॥ दाराननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् । अतिथीनन्नपानैश्च वैश्यंश्च परिपालनैः ॥ २,६८.६६ ॥ आनृशंस्येन शूद्रांश्च दस्यून्संनिग्रहेण च । धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयत् ॥ २,६८.६७ ॥ ययातिः पालयामास साक्षादिन्द्र इवापरः । स राजा सिंहविक्रान्तो युवा विषयगोचरः ॥ २,६८.६८ ॥ अविरोधेन धर्मस्य चचार सुखमुत्तमम् । स मार्गमाणः कामानामतद्दोषनिदर्शनात् ॥ २,६८.६९ ॥ विश्वाच्या सहितो रेमे वैब्राजे नन्दने वने । अपश्यत्स यदा तान्वै वर्द्धमानान्नृपस्तदा ॥ २,६८.७० ॥ गत्वा पूरोः सकाशं वै स्वां जरां प्रत्यपद्यत । संप्राप्य स तु तान्कामांस्तृप्तः खिन्नश्च पार्थिवः ॥ २,६८.७१ ॥ कालं वर्षसहस्रं वै सस्मार मनुजाधिपः । परिसंख्याय काले च कलाः काष्ठास्तथैव च ॥ २,६८.७२ ॥ पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह । यथा सुखं यथोत्साहं यथाकालमरिन्दम ॥ २,६८.७३ ॥ सेविता विषयः पुत्र यौवनेन मया तव । पूरो प्रीतोऽस्मि भद्रं ते गृहाण त्वं स्वयौवनम् ॥ २,६८.७४ ॥ राज्यं च त्वं गृहाणेदं त्वं हि मे प्रियकृत्सुतः । प्रतिपेदे जरां राजा ययातिर्नहुषात्मजः ॥ २,६८.७५ ॥ यौवनं प्रतिपेदे च पूरुः स्वं पुनरात्मनः । अभिषेक्तुकामं च नृपं पूरुं पुत्रं कनीयसम् ॥ २,६८.७६ ॥ ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् । कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो ॥ २,६८.७७ ॥ ज्येष्ठं यदुमतिक्रम्य राज्यं दास्यसि पूरवे । यदुर्ज्येष्ठस्तव सुतो जातस्तमनुदतुर्वसुः ॥ २,६८.७८ ॥ शर्मिष्ठायाः सुतो द्रुह्युस्ततोऽनुः पूरुरेव च । कथं ज्येष्ठानतिक्रम्य कनीयान्राज्यमर्हति । सुतः संबोधयामस्त्वां धर्मं समनुपालय ॥ २,६८.७९ ॥ ययातिरुवाच ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः ॥ २,६८.८० ॥ ज्येष्ठं प्रति यथा राज्यं न देयं मे कथञ्चन । मातापित्रोर्वचनकृद्वीरः पुत्रः प्रशस्यते ॥ २,६८.८१ ॥ मम ज्येष्ठेन यदुना नियोगो नानुपालितः । प्रतिकूलः पितुर्यश्च न स पुत्रः सतांमतः ॥ २,६८.८२ ॥ स पुत्रः पुत्रवद्यश्च वर्त्तते पितृमातृषु । यदुनाहमवज्ञातस्तथा तुर्वसुनापि च ॥ २,६८.८३ ॥ द्रुह्युना चानुना चैव मय्यवज्ञा कृता भृशम् । पूरुणा तु कृतं वाक्यं मानितश्च विशेषतः ॥ २,६८.८४ ॥ कनीयान्मम दायादो जरा येन धृता मम । सर्वे कामा मम कृताः पूरुणा पुण्यकारिणा ॥ २,६८.८५ ॥ शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम् । पुत्रो यस्त्वानुवर्त्तेत स राजा तु महामते ॥ २,६८.८६ ॥ प्रजा ऊचुः भवतोऽनुमतोऽप्येवं पूरू राज्येऽभिषिच्यताम् । यः पुत्रो गुणसंपन्नो मातापित्रोर्हितः सदा ॥ २,६८.८७ ॥ सर्वमर्हति कल्याणं कनीयानपि स प्रभुः । अर्हेऽस्य पूरू राज्यस्य यः प्रियः प्रियकृत्तव ॥ २,६८.८८ ॥ वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम् । पौरजान पदैस्तुष्टैरित्युक्ते नाहुषस्तदा ॥ २,६८.८९ ॥ अभिषिच्य ततः पूरुं स राज्ये सुतमात्मनः । दिशि दक्षिणपूर्वस्यां तुर्वसुं तु न्यवेशयत् ॥ २,६८.९० ॥ दक्षिणापरतो राजा यदुं ज्येष्ठं न्यवेशयत् । प्रतीच्यामुत्तरस्यां च द्रुह्युं चानुं च तावुभौ ॥ २,६८.९१ ॥ सप्तद्वीपां ययातिस्तु जित्वा पृथ्वीं ससागराम् । व्यभजत्पञ्चधा राजा पुत्रेभ्यो नाहुषस्तदा ॥ २,६८.९२ ॥ तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना । यथाप्रदेशं धर्मज्ञैर्धर्मेण प्रतिपान्यते ॥ २,६८.९३ ॥ एवं विभज्य पृथिवीं पुत्रेभ्यो नाहुषस्तदा । पुत्रसंक्रामितश्रीस्तु प्रीतिमा नभवन्नृपः ॥ २,६८.९४ ॥ धनुर्न्यस्य पृषत्कांश्च राज्यं चैव सुतेषु तु । प्रीतिमानभवद्राजा भारमावेश्य बन्धुषु ॥ २,६८.९५ ॥ अत्र गाथा महाराज्ञा पुरा गीता ययातिना । याभिः प्रत्याहरेत्कामात्कूर्मौंऽगानीव सर्वशः ॥ २,६८.९६ ॥ न जातु कामः कामानमुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्द्धते ॥ २,६८.९७ ॥ यत्पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः । नालमेकस्य तत्सर्वमिति पश्यन्न मुह्यति ॥ २,६८.९८ ॥ यदा न कुरुते भावं सर्वभूतेष्वमङ्गलम् । कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥ २,६८.९९ ॥ यदा परान्न बिभेति यदान्यस्मान्न बिभ्यति । यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा ॥ २,६८.१०० ॥ या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः । यैषा प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥ २,६८.१०१ ॥ जीर्यन्ति जीर्यतः केशा दन्ता जीर्यन्ति जीर्यतः । जीविताशा धनाशा च जीर्यतोऽपि न जीर्यति ॥ २,६८.१०२ ॥ यच्च कामसुखं लोके यच्छ दिव्यं महत्सुखम् । कृष्णाक्षयसुखस्यैतत्कलां नर्हन्ति षोडशीम् ॥ २,६८.१०३ ॥ एवमुक्त्वा स राजर्षिः सदारः प्रस्थितो वनम् । भृगुतुङ्गे तपस्तप्त्वा तत्रैव च महायशाः ॥ २,६८.१०४ ॥ पालयित्वा व्रतं चार्षं तत्रैव स्वर्ग माप्तवान् । तस्य वंशास्तु पञ्चैते पुण्या देवर्षिसत्कृताः ॥ २,६८.१०५ ॥ यैर्व्याप्ता पृथिवी कृत्स्ना सूर्यस्येव गभस्तिभिः । धन्यः प्रजावा नायुष्मान्कीर्त्तिमांश्च भवेन्नरः ॥ २,६८.१०६ ॥ ययातेश्चारितं सर्वं पठञ्छृण्वन्द्विजोत्तमाः ॥ २,६८.१०७ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे अष्टषष्टितमोऽध्यायः ॥ ६८॥ _____________________________________________________________ सूत उवाच यदोर्वंशं प्रवक्ष्यामि ज्येष्ठस्योत्तमतेजसः । विस्तरेणानुपूर्व्या च गदतो मे निबोधत ॥ २,६९.१ ॥ यदोः पुत्रा बभूवुर्हि पञ्च देवसुतोपमाः । सहस्रजिदथ श्रेष्ठः क्रोष्टुर्नीलोञ्जिको लघुः ॥ २,६९.२ ॥ सहस्रजित्सुतः श्रीमाञ्छतजिन्नाम पार्थिवः । शतजित्तनयाः ख्यातस्त्रयः परमधार्मिकाः ॥ २,६९.३ ॥ हैहयश्च हयस्छैव राजा वेणु हयस्तथा । हैहयस्य तु दायादो धर्मनेत्र इति श्रुतः ॥ २,६९.४ ॥ धर्मनेत्रस्य कुन्तिस्तु संक्षेयस्तस्य चात्मजः । संज्ञेयस्य तु दायादो महिष्मान्नाम पार्थिवः ॥ २,६९.५ ॥ आसीन्महिष्मतः पुत्रो भद्रमेनः प्रतापवान् । वाराणस्यधिपो राजा कथितः पूर्व एव हि ॥ २,६९.६ ॥ भद्र सेनस्य दायादो दुर्मदो नाम पार्थिवः । दुर्मदस्यसुतो धीमान्कनको नाम विश्रुतः ॥ २,६९.७ ॥ कनकस्य तु दायादाश्चत्वारो लोकविश्रुताः । कृतवीर्यः कृताग्निश्च कृतवर्मा तथैव च ॥ २,६९.८ ॥ कृतौजाश्च चतुर्थोऽभूत्कृतवीर्यात्मजोर्ऽजुनः । जज्ञे बाहुसहस्रेण सप्तद्वीपेश्वरो नृपः ॥ २,६९.९ ॥ स हि वर्षायुतं तप्त्वा तपः परमदुश्चरम् । दत्तमाराधयामास कार्त्तवीर्योऽत्रिसंभवम् ॥ २,६९.१० ॥ तस्मै दत्तो वरान्प्रादाच्च तुरो भूरितेजसः । पूर्वं बाहुसहस्रं तु स वव्रे प्रथमं वरम् ॥ २,६९.११ ॥ अधर्मं ध्यायमानस्य सहसास्मान्निवारणम् । धर्मेण पृथिवीं जित्वा धर्मेणैवानुपालनम् ॥ २,६९.१२ ॥ संग्रामांस्तु बहुञ्जित्वा हत्वा चारीन्सहस्रशः । संग्रामे युध्यमानस्य वधः स्यात्प्रधने मम ॥ २,६९.१३ ॥ तेनेयं पृथिवी कृत्स्ना सप्तद्वीपा सपत्तना । सप्तोदधिपरिक्षिप्ता क्षत्रेण विधिना जिता ॥ २,६९.१४ ॥ तस्य बाहुसहस्रं तु युध्यतः किलयोगतः । योगो योगेश्वरस्येव प्रादुर्भवति मायया ॥ २,६९.१५ ॥ तेन सप्तसु द्वीपेषु सप्तयज्ञशतानि वै । कृतानि विधिना राज्ञा श्रूयते मुनिसत्तमाः ॥ २,६९.१६ ॥ सर्वे यज्ञा महाबाहोस्तस्यामन्भूरितेजसः । सर्वे काञ्चनवेदीकाः सर्वे यूपैश्च काञ्चनैः ॥ २,६९.१७ ॥ सर्वैर्देवैर्महाभागै र्विमानस्थैरलङ्कृताः । गन्धर्वैरप्सरोभिश्च नित्यमेवोपशोभिताः ॥ २,६९.१८ ॥ तस्य राज्ञो जगौ गाथां गन्धर्वो नारदस्तदा । चरितं तस्य राजर्षेर्महिमानं निरीक्ष्य च ॥ २,६९.१९ ॥ न नूनं कार्त्तवीर्यस्य गतिं यास्यन्ति मानवाः । यज्ञैर्दानैस्तपोभिश्च विक्रमेण श्रुतेन च ॥ २,६९.२० ॥ द्वीपेषु सप्तसु स वै धन्वी खड्गी शारासनी । रथी राजा सानुचरो योगाच्चैवानुदृश्यते ॥ २,६९.२१ ॥ अनष्टद्रव्यता चासीन्न क्लेशो न च विभ्रमः । प्रभावेण महाराज्ञः प्रजा धर्मेण रक्षितः ॥ २,६९.२२ ॥ पञ्चाशीतिसहस्राणि वर्षाणां स नराधिपः । स सर्वरत्नभाक्स म्राट्चक्रवर्ती बभूव ह ॥ २,६९.२३ ॥ स एष पशुपालोऽभूत्क्षेत्रपालस्तथै व च । स एव वृष्ट्या पर्जन्यो योगित्वादर्जुनोऽभवत् ॥ २,६९.२४ ॥ स वे बाहुसहस्रेण ज्याघातकठिनेन च । भाति रश्मिसहस्रेण शारदेनैव भास्करः ॥ २,६९.२५ ॥ स हि नागसहक्रेण माहिष्मत्यां नराधिपः । कर्कोटकसभां जित्वा पुरीं तत्र न्यवेशयत् ॥ २,६९.२६ ॥ स वै वेगं समुद्रस्य प्रावृट्कालेंबुजेक्षणः । क्रीडन्नेव सुखोद्विग्नः प्रावृट्कालं चकार ह ॥ २,६९.२७ ॥ लुलिता क्रीडता तेन हेमस्रग्दाममालिनी । ऊर्मिमुक्तार्त्तसन्नादा शङ्किताभ्येति नर्मदा ॥ २,६९.२८ ॥ पुरा भुज सहस्रेण स जगाहे महार्मवम् । चकारोद्वृत्तवेलं तमकाले मारुतोद्धतम् ॥ २,६९.२९ ॥ तस्य बाहुसहस्रेण क्षोभ्यमाणे महोदधौ । भवन्ति लीना निश्चेष्टाः पातालस्था महासुराः ॥ २,६९.३० ॥ चूर्णीकृतमहावीचिलीनमीनमहाविषम् । पतिताविद्धफेनौघमावर्त्तक्षिप्तदुस्सहम् ॥ २,६९.३१ ॥ चकार क्षोभयन्राजा दोःसहस्रेण सागरम् । देवासुरपरिक्षिप्तं क्षीरोदमिव सागरम् ॥ २,६९.३२ ॥ मन्दरक्षोभणभ्रान्तममृतोत्पत्ति हेतवे । सहसा विद्रुता भीता भीमं दृष्ट्वा नृपोत्तमम् ॥ २,६९.३३ ॥ निश्चितं नतमूर्द्धानो बभूवुश्च महोरगाः । सायाह्ने कदलीखञ्च निवातेस्तमिता इव ॥ २,६९.३४ ॥ ज्यामारोप्य दृढे चापे सायकैः पञ्चभिः शतैः । लङ्केशं मोहयित्वा तु सबलं रावणं बलात् ॥ २,६९.३५ ॥ निर्जित्य वशमानीय माहिष्मत्यां बबन्ध तम् । ततो गत्वा पुलस्त्यस्तमर्जुनं च प्रसाधयत् ॥ २,६९.३६ ॥ मुमोच राजा पौलस्त्यं पुलस्त्येना नुयाचितः । तस्य बाहुसहस्रस्य बभूव ज्यातलस्वनः ॥ २,६९.३७ ॥ युगान्तेंबुदवृन्दस्य स्फुटितस्याशनेरिव । अहो मृधे महावीर्यो भार्गवस्तस्य योऽच्छिनत् ॥ २,६९.३८ ॥ मृधे सहस्रं बाहुनां हेमतालवनं यथा । तृषितेन कदाचित्स भिक्षितश्चित्रभानुना ॥ २,६९.३९ ॥ सप्तद्वीपांश्चित्रभानोः प्रादद्भिक्षां विशांपतिः । पुराणि घोषान्ग्रामांश्च पत्तनानि च सर्वशः ॥ २,६९.४० ॥ जज्वाल तस्य बाणेषु चित्राभानुर्दिधक्षया । स तस्य पुरुषेन्द्रस्य प्रतापेन महायशाः ॥ २,६९.४१ ॥ ददाह कार्त्तवीर्यस्य शैलांश्चापि वनानि च । स शून्यमाश्रमं सर्वं वरुणस्यात्मजस्य वै ॥ २,६९.४२ ॥ ददाह सवनाटोपं चित्रभानुः स हैहयः । यं लेभे वरुणः पुत्रं पुरा भास्वन्तमुत्तमम् ॥ २,६९.४३ ॥ वसिष्ठनामा स मुनिः ख्यात आपव इत्युत । तत्रापवस्तदा क्रोधादर्जुनं शप्तवान्विभुः ॥ २,६९.४४ ॥ यस्मान्नवर्जितमिदं वनं ते मम हैहय । तस्मात्ते दुष्करं कर्म कृतमन्यो हनिष्यति ॥ २,६९.४५ ॥ अर्जुनो नाम कैन्तेयः स च राजा भविष्यति । अर्जुनं च महावीर्यो रामः प्रहरतां वरः ॥ २,६९.४६ ॥ छित्त्वा बाहुसहस्रं वै प्रमथ्य तरसा बली । तपस्वी ब्राह्मणश्चैव वधिष्यति महाबलः ॥ २,६९.४७ ॥ तस्य रामस्तदा ह्यासीन्मृत्युः शापेन धीमतः । राज्ञा तेन वरश्चैव स्वयमेव वृतः पुरा ॥ २,६९.४८ ॥ तस्य पुत्रशतं त्वासीत्पञ्च तत्र महारथाः । कृतास्त्रा बलिनः शूरा धर्मात्मानो यशस्विनः ॥ २,६९.४९ ॥ शूरश्च शूरसेनश्च वृषास्यो वृष एव च । जयध्वजो वंशकर्त्ता अवन्तिषु विशांपतिः ॥ २,६९.५० ॥ जयध्वजस्य पुत्रस्तु तालजङ्घः प्रतापवान् । तस्य पुत्रशतं त्वेवं तालजङ्घा इतिश्रुतम् ॥ २,६९.५१ ॥ तेषां पञ्च गणाः ख्याता हैहयानां महात्मनाम् । वीतिहोत्राश्च संजाता भोजाश्चावन्तयस्तथा ॥ २,६९.५२ ॥ तुण्डिकेराश्च विक्रान्तास्तालजङ्घास्तथैव च । वीतिहोत्रसुतश्चापि अनन्तो नाम पार्थिवः ॥ २,६९.५३ ॥ दुर्जयस्तस्य पुत्रस्तु बभूवामित्रकर्शनः । अनष्ट द्रव्यता चैव तस्य राज्ञो बभूव ह ॥ २,६९.५४ ॥ प्रभावेण महाराजः प्रजास्ताः पर्यपालयत् । न तस्य वित्तनाशः स्यान्नष्टं प्रतिलभेच्च सः ॥ २,६९.५५ ॥ कार्त्तवीर्यस्य यो जन्म कथयेदिह धीमतः । वर्द्धन्ते विभवाश्शश्वद्धर्मश्चास्य विवर्द्धते ॥ २,६९.५६ ॥ यथा यष्टा यथा दाता तथा स्वर्गे महीपते ॥ २,६९.५७ ॥ इति श्रीब्रह्माण्डे महोपुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे भार्गवचरिते कार्त्तवीर्यसंभवो नाम एकोनसप्ततितमोऽध्यायः _____________________________________________________________ ऋषय ऊचुः किमर्थं तु वनं दग्धमापवस्य महात्मनः । कार्त्तवीर्येण विक्रम्य तन्नः प्रब्रूहि पृच्छताम् ॥ २,७०.१ ॥ रक्षिता सतु राजर्षिः प्रजानामिति नः श्रुतम् । कथं सरक्षिता भूत्वा नाशयेत तपोवनम् ॥ २,७०.२ ॥ [वेर्सेस्२,७०.३ ४९ नोतवैलब्ले अत्प्रेसेन्त्] _____________________________________________________________ सूत उवाच सात्त्वताज्जज्ञिरे पुत्राः कौशल्यायां महाबलाः । भजमानो भजिर्द्दिव्यो वृष्णिर्देवावृधोऽन्धकः ॥ २,७१.१ ॥ महाभोजश्च विख्यातो ब्रह्मण्यस्सत्यसंगरः । तेषां हि सर्गाश्चत्वारः शृणुध्वं विस्तरेण वै ॥ २,७१.२ ॥ भजमानस्य सृंजय्यो बाह्यका चोपवाह्यका । सृंज यस्य सुते द्वे तु बाह्यके ते उदावहत् ॥ २,७१.३ ॥ तस्य भार्ये भगिन्यौ ते प्रसूते तु सुतान्बहून् । निम्लोचिः किङ्कणश्चैव धृष्टिः पर पुरञ्जयः ॥ २,७१.४ ॥ ते बाह्यकाया सृंजय्या भजमानाद्विजज्ञिरे । अयुताजित्सहस्राजिच्छताजिदिति नामतः ॥ २,७१.५ ॥ बाह्यकायां भगिन्यां ते भजमानाद्विजज्ञिरे । तेषां देवावृधो राजा चचार परमं तपः । पुत्रः सर्वगुणोपेतो मम भूयादिति स्म ह ॥ २,७१.६ ॥ संयोज्या त्मानमेवं स पर्णाशजलमस्पृशत् ॥ २,७१.७ ॥ सा चोपस्पर्शनात्तस्य चकार प्रियमापगा । कल्याणत्वान्नरपतेस्तस्य सा निम्नगोत्तमा ॥ २,७१.८ ॥ चिन्तयाभिपरीताङ्गी जगामाथ विनिश्चयम् । नाभिगच्छामि तां नारीं यस्यामेवंविधः सुतः ॥ २,७१.९ ॥ भवेत्सर्वगुणोपेतो राज्ञो देवावृधस्य हि । तस्मादस्य स्वयं चाहं भवाम्यद्य सहव्रता ॥ २,७१.१० ॥ जज्ञे तस्याः स्वयं हृत्स्थो भावस्तस्य यथेरितः । अथ भूत्वा कुमारी तु सा चिन्तापरमेव च ॥ २,७१.११ ॥ वरयामास राजानं तामियेष स पार्थिवः । तस्यामाधत्त गर्भे स तेजस्विनमुदा रधीः ॥ २,७१.१२ ॥ अथ सा नवमे मासि सुषुवे सरिता वरा । पुत्रं सर्वगुणोपेतं बभ्रुं देवावृधत्तदा ॥ २,७१.१३ ॥ तत्र वंशे पुराणज्ञा गाथां गायन्ति वै द्विजाः । गुणान्देवावृधस्यापि कीर्तयन्तो महात्मनः ॥ २,७१.१४ ॥ यथैव शृणुमो दूरात्सपंश्यामस्तथान्तिकात् । बभ्रुः श्रेष्ठो मनुष्याणां देवैर्देवावृथः समः ॥ २,७१.१५ ॥ पुरुषाः पञ्चषष्टिश्च सहस्राणि च सप्ततिः । येमृतत्वमनुप्राप्ता बब्रोर्देवावृधादपि ॥ २,७१.१६ ॥ यज्वा दानपतिर्धीरो ब्रह्मण्यः सत्यवाग्बुधः । कीर्त्तिमांश्च महाभोजः सात्त्वतानां महारथः ॥ २,७१.१७ ॥ तस्यान्ववायः सुमहान्भोजा ये भुवि विश्रुताः । गान्धारी चैव माद्री च धृष्टैर्भार्ये बभूवतुः ॥ २,७१.१८ ॥ गान्धारी जनयामास सुमित्रं मित्रनन्दनम् । साद्री युधाजितं पुत्रं ततो मीढ्वांसमेव च ॥ २,७१.१९ ॥ अनमित्रं शिनं चैव ताबुभौ पुरुषोत्तमौ । अनमित्रसुतो निघ्नो निघ्नस्य द्वौ बभूवतुः ॥ २,७१.२० ॥ प्रसेनश्च महाभागः सत्राजिच्च सुताबुभौ । तस्य सत्राजितः सूर्यः सखा प्राणसमोऽभवत् ॥ २,७१.२१ ॥ स कदाचिन्निशापाये रथेन रथिनां वरः । तोयं कूलात्समुद्धर्तुमुपस्थातुं ययौरविम् ॥ २,७१.२२ ॥ तस्योपतिष्ठतः सूर्यं विवस्वानग्रतः स्थितः । सुस्पष्टमूर्त्तिर्भगवांस्तेजोमण्डलवान्विभुः ॥ २,७१.२३ ॥ अथ राजा विवस्वन्तमुवाच स्थितमग्रतः । यथैव व्योम्नि पश्यामि त्वामहं ज्योतिषां पते ॥ २,७१.२४ ॥ तेजोमण्डलिनं चैव तथैवाप्यग्रतः स्थितम् । को विशेषो विवस्वंस्ते सख्येनोपगतस्य वै ॥ २,७१.२५ ॥ एतच्छ्रुत्वा स भगवान्मणिरत्नं स्यमन्तकम् । स्वकण्ठादवमुच्याथ बबन्ध नृपतेस्तदा ॥ २,७१.२६ ॥ ततो विग्रहवन्तं तं ददर्श नृपतिस्तदा । प्रीतिमानथ तं दृष्ट्वा मुहूर्त्तं कृतवान्कथाम् ॥ २,७१.२७ ॥ तमभिप्रस्थितं भूयो विवस्वन्तं स सत्रजित् । प्रोवाचाग्निसवर्णं त्वां येन लोकः प्रपश्यति ॥ २,७१.२८ ॥ तदेतन्मणिरत्नं मे भगवन्दातुमर्हसि । स्यमं तकं नाममणिं दत्तवांस्तस्य भास्करः ॥ २,७१.२९ ॥ स तमामुच्य नगरीं प्रविवेश महीपतिः । विस्मापयित्वाथ ततः पुरीमन्तःपुरं ययौ ॥ २,७१.३० ॥ स प्रसेनाय तद्दिव्यं मणिरत्नं स्यमन्तकम् । ददौ भ्रात्रे नरपतिः प्रेम्णा सत्राजिदुत्तमम् ॥ २,७१.३१ ॥ स्यमन्तको नाम मणिर्यस्मिन्राष्ट्रे स्थितो भवेत् । कामवर्षी च पर्जन्यो न च व्याधिभयं तथा ॥ २,७१.३२ ॥ लिप्सां चक्रे प्रसेनात्तु मणिरत्नं स्यमन्तकम् । गोविन्दो न च तं लेभे शक्तोऽपि न जहार च ॥ २,७१.३३ ॥ कधाचिन्मृगयां यातः प्रसेनस्तेन भूषितः । स्यमन्तककृते सिंहाद्वधं प्राप सुदारुणम् ॥ २,७१.३४ ॥ जांबवानृक्षराजस्तु तं सिंहं निजघान वै । आदाय च मणिं दिव्यं स्वबिलं प्रविवेश ह ॥ २,७१.३५ ॥ तत्कर्म कृष्णस्य ततो वृष्ण्यन्धकमहत्तराः । मणिं गृध्नोस्तु मन्वानास्तमेव विशशङ्किरे ॥ २,७१.३६ ॥ मिथ्यापवादं तेभ्यस्तं बलवानरिसूदनः । अमृष्यमाणो भगवान्वनं स विचचार ह ॥ २,७१.३७ ॥ स तु प्रोसेनो मृगयामचरद्यत्र चाप्यथ । प्रसेनस्य पदं ग्राह्यं पुरं पौराप्तकारिभिः ॥ २,७१.३८ ॥ ऋक्षवन्तं गिरिवरं विन्ध्यं च नगमुत्तमम् । अन्वेषयत्परिश्रान्तः स ददर्श महामनाः ॥ २,७१.३९ ॥ साश्वं हतं प्रसेनं तं नाविन्दत्तत्र वै मणिम् । अथ सिंहः प्रसेनस्य शरीरस्याविदूरतः ॥ २,७१.४० ॥ ऋक्षेण निहतो दृष्टः पदैरृक्षस्य सूचितः । पदैरन्वेषयामास गुहामृक्षस्य यादवः ॥ २,७१.४१ ॥ महत्यन्तर्बिले वाणीं शश्राव प्रमदेरिताम् । धात्र्या कुमारमादाय सुतं जांबवतो द्विजाः । क्रीडयन्त्याथ मणिना मारोदीरित्युदीरितम् ॥ २,७१.४२ ॥ धात्र्युवाच प्रसेनमवधीत्सिंहः सिंहो जांबवता हतः ॥ २,७१.४३ ॥ सुकुमारक मारो दीस्तव ह्यें स्यमन्तकः । व्यक्तीकृतश्च शब्दः स तूर्णं चापि ययौ बिलम् ॥ २,७१.४४ ॥ अपश्यच्च बिलाभ्याशे प्रसेन मवदारितम् । प्रविश्य चापि भगवान्स ऋक्षबिलमञ्जसा ॥ २,७१.४५ ॥ ददर्श ऋक्षराजानं जांबवन्तमुदारधीः । युयुधे वासुदेवस्तु बिले जांबवता सह ॥ २,७१.४६ ॥ बाहुभ्यामेव गोविन्दो दिवसानेकविंशतिम् । प्रविष्टे च बिलं कृष्णे वसुदेवापुरस्सराः ॥ २,७१.४७ ॥ पुनर्द्वारवतीं चैत्य हतं कृष्णं न्यवेदयन् । वासुदेवस्तु निर्जित्य जांबवन्तं महाबलम् ॥ २,७१.४८ ॥ लेभे जांबवन्तीं कन्यामृक्षराजस्य सम्मनाम् । भगवत्तेजसा ग्रस्तो जांबवांन्प्रसभं मणिम् ॥ २,७१.४९ ॥ सुतां जांबवतीमाशु विष्वक्सेनाय दत्तवान् । मणिं स्यमन्तकं चैव जग्रहात्मविशुद्धये ॥ २,७१.५० ॥ अनुनीयर्क्षराजं तं निर्ययौ च तदा बिलात् । एवं स मणिमाहृत्य विशोध्यात्मानमात्मना ॥ २,७१.५१ ॥ ददौ सत्राजिते रत्नं मणिं सात्त्वतसन्निधौ । कन्यां पुनर्जांबवतीमुवाह मधुसूदनः ॥ २,७१.५२ ॥ तस्मान्मिथ्याभिशापात्तु व्यशुध्यन्मधुसूदनः । इमां मिथ्याभिशप्तिं यः कृष्णस्येह व्यपोहिताम् ॥ २,७१.५३ ॥ वेद मिथ्याभिशप्तिं स नाभिस्पृशति कर्हिचित् । दश त्वासन्सत्रजितो भार्यास्तस्यायुतं सुताः ॥ २,७१.५४ ॥ ख्यातिमन्तस्त्रयस्तेषां भङ्गकारस्तु पूर्वजः । वीरो वातपतिश्चैव तपस्वी च बहुप्रियः ॥ २,७१.५५ ॥ अथ वीरमती नाम भङ्गकारस्य तु प्रसूः । सुषुवे सा कुमारीस्तु तिस्रो रूपगुणान्विताः ॥ २,७१.५६ ॥ सत्यभामोत्तमा स्त्रीणां व्रतिनी च दृढव्रता । तथा तपस्विनी चैव पिता कृष्णय तां ददौ ॥ २,७१.५७ ॥ न च सत्राजितः कृष्णो मणिरत्नं स्यमन्तकम् । आदत्त तदुपश्रुत्य भोजेन शतधन्वना ॥ २,७१.५८ ॥ तदा हि प्रार्थयामास सत्यभामामनिन्दिताम् । अक्रूरो धनमन्विच्छन्मणिं चैव स्यमन्तकम् ॥ २,७१.५९ ॥ सत्राजितं ततो इत्वा शतधन्वा महाबलः । रात्रौ तं मणिमादाय ततोऽक्रूराय दत्तवान् ॥ २,७१.६० ॥ अक्रूरस्तु तदा रत्नमादाय स नरर्षभः । समयं कारयाञ्चक्रे बोध्यो नान्यस्य चेत्युत ॥ २,७१.६१ ॥ वयमभ्युपयोत्स्यामः कृष्णेन त्वां प्रधर्षितम् । मम वै द्वारका सर्वा वेशे तिष्ठत्य संशयम् ॥ २,७१.६२ ॥ हते पितरि दुःखार्त्ता सत्यभामा यशस्विनी । प्रययौ रथमारुह्य नगरं वारणावतम् ॥ २,७१.६३ ॥ सत्यभामा तु तद्वृत्तं भोजस्य शतधन्वनः । भर्तुर्निवेद्य दुःखार्त्ता पार्श्वस्थाश्रूण्यवर्त्तयत् ॥ २,७१.६४ ॥ पाण्डवानां तु दग्धानां हरिः कृत्वोदकक्रियाम् । कल्यार्थे चैव भ्रातॄणां न्ययोजयत सात्यकिम् ॥ २,७१.६५ ॥ ततस्त्वरितमागत्य द्वारकां मधुसूदनः । पूर्वजं हलिनं श्रीमानिदं वचनमब्रवीत् ॥ २,७१.६६ ॥ हतः प्रसेनः सिंहेन सत्राजिच्छतधन्वना । स्यमन्तको मार्गणीयस्तस्य प्रभुरहं प्रभो ॥ २,७१.६७ ॥ तहारोह रथं शीघ्रं भोजं हत्वा महाबलम् । स्यमन्तकं महाबाहो सामान्यं वो भविष्यति ॥ २,७१.६८ ॥ ततः प्रवृत्ते युद्धे तु तुमुले भोजकृष्णयोः । शतधन्वा तमक्रूरमवैक्षत्सर्वतो दिशम् ॥ २,७१.६९ ॥ अनालब्धावहारौ तु कृत्वा भोजजनार्द्दनौ । शक्तोऽपि शाठ्याद्धार्दिक्यो नाक्रूरोऽभ्युपपद्यत ॥ २,७१.७० ॥ अपयोते ततो बुद्धिं भूयश्चक्रे भयान्वितः । योजनानां शतं साग्रं हृदया प्रत्यपद्यत ॥ २,७१.७१ ॥ विख्याता हृदया नाम शतयोजनगामिनी । भोजस्य वडवा दिव्या यया कृष्णमयोधयत् ॥ २,७१.७२ ॥ क्षीणां जवेन त्दृदयामध्वनः शतयोजने । दृष्ट्वा रथस्य तां वृद्धिं शतधन्वा समुद्रवत् ॥ २,७१.७३ ॥ ततस्तस्या हयायास्तु श्रमात्खेदाच्च वै द्विजाः । खमुत्पेतुरथ प्राणाः कृष्णो राममथाब्रवीत् ॥ २,७१.७४ ॥ तिष्ठस्वेह महाबाहो दृष्टदोषा मया हयी । पद्भ्यां गत्वा हरिष्यामि मणिरत्नं स्यमन्तकम् ॥ २,७१.७५ ॥ पद्भ्यामेव ततो गत्वा शतधन्वानमच्युतः । मिथिलोपवने तं वै जघान परमास्त्रवित् ॥ २,७१.७६ ॥ स्यमन्तकं न चापश्यद्धत्वा भोजं महाबलम् । निवृत्तं चाब्र वीत्कृष्णं रत्नं देहीति लाङ्गली ॥ २,७१.७७ ॥ नास्तीति कृष्णश्चोवाच ततो रामो रुषान्वितः । धिक्छब्दपूर्वमसकृत्प्रत्युवाच जनार्द्दनम् ॥ २,७१.७८ ॥ भातृत्वान्मर्षयाम्वेष स्वस्ति तेऽस्तु व्रजाम्यहम् । कृत्यं न मे द्वारकया न त्वया न च वृष्णिभिः ॥ २,७१.७९ ॥ प्रविवेश ततो रामो मिथिलामरिमर्द्दनः । सर्वकामैरुपहृतैर्मैथिलेनैव पूजितः ॥ २,७१.८० ॥ एतस्मिन्नेव काले तु बभ्रुर्मतिमतां वरः । नानारूपान्क्रतून्सर्वा नाजहार निरर्गलान् ॥ २,७१.८१ ॥ दीक्षामयं सकवचं रक्षार्थं प्रविवेश ह । स्यमन्तककृते प्राज्ञो कान्दिनीजो महामनाः ॥ २,७१.८२ ॥ अकूर यज्ञा इति ते ख्यातास्तस्य महात्मनः । बह्वन्नदक्षिणाः सर्वे सर्वकामप्रदायिनः ॥ २,७१.८३ ॥ अथ दुर्योधनो राजा गत्वाथ मिथिलां प्रभुः । गदाशिक्षां ततो दिव्यां बलभद्रादवाप्तवान् ॥ २,७१.८४ ॥ प्रसाद्य तु ततो रामो वृष्ण्यन्धकमहारथैः । आनीतो द्वारकामेव कृष्णेन च महात्मना ॥ २,७१.८५ ॥ अक्रूरश्चान्धकैः सार्द्धमथायात्पुरुषर्षभः । युद्धे हत्वा तु शत्रुघ्नं सह बन्धुमता बली ॥ २,७१.८६ ॥ सुयज्ञतनयायां तु नरायां नरसत्तमौ । भङ्गकारस्य तनयौ विश्रुतौ सुमहाबलौ ॥ २,७१.८७ ॥ जज्ञातेंऽधकमुख्यस्य शक्रघ्नो बन्धुमांश्च तौ । वधे च भङ्गकारस्य कृष्णो न प्रीतिमानभूत् ॥ २,७१.८८ ॥ ज्ञातिभेदभयाद्भीतस्तमुबेक्षितवानथ । अपयाते ततोऽक्रूरे नावर्षत्पाकशासनः ॥ २,७१.८९ ॥ अनावृष्ट्या हतं राष्ट्रमभवद्बहुधा यतः । ततः प्रसादयामासुरक्रूरं कुकुरान्धकाः ॥ २,७१.९० ॥ पुनर्द्वारवतीं प्राप्ते तदा दानपतौ तथा । प्रववर्ष सहस्राक्षः कुक्षौ जलनिधेस्ततः ॥ २,७१.९१ ॥ कन्यां वै वासुदेवाय स्वसारं शीलसंमताम् । अक्रूरः प्रददौ श्रीमान्प्रीत्यर्थं मुनिपुङ्गवाः ॥ २,७१.९२ ॥ अथ विज्ञाय योगेन कृष्णो बभ्रुगतं मणिम् । सभामध्ये तदा प्राह तमक्रूरं जनार्द्दनः ॥ २,७१.९३ ॥ यत्तद्रत्नं मणिवरं तव हस्तगतं प्रभो । तत्प्रयच्छ स्वमानार्ह मयि मानार्यकं कृथाः ॥ २,७१.९४ ॥ षष्टिवर्षगते काले यद्रोषोऽभूत्तदा मम । सुसंरूढोऽसकृत्प्राप्तस्तदा कालात्ययो महान् ॥ २,७१.९५ ॥ ततः कृष्णस्य वचनात्सर्वसात्त्वतसंसदि । प्रददौ तं मणिं बभ्रुरक्लेशेन महामतिः ॥ २,७१.९६ ॥ ततस्तमार्जवप्राप्तं बभ्रोर्हस्तादरिन्दमः । ददौ हृष्टमनास्तुष्टस्तं मणिं बभ्रवे पुनः ॥ २,७१.९७ ॥ स कृष्णहस्तात्संप्राप्य मणिरत्नं स्यमन्तकम् । आबध्य गान्दिनीपुत्रो विरराजांशुमानिव ॥ २,७१.९८ ॥ इमां मिथ्याभिशाप्तिं यो विशुद्धिमपि चोत्तमाम् । वेद मिथ्याभिशप्तिं स न लभेत कथञ्चन ॥ २,७१.९९ ॥ अनमित्राच्छिनिर्जज्ञे कनिष्ठाद्वृष्णिनन्दनात् । सत्यवान्सत्यसंपन्नः सत्यकस्तस्य चात्मजः ॥ २,७१.१०० ॥ सात्यकिर्युयुधानश्च तस्य भूतिः सुतोऽभवत् । भूतेर्युगन्धरः पुत्र इति भौत्यः प्रकीर्त्तितः ॥ २,७१.१०१ ॥ माड्याः सुतस्य जज्ञे तु सुतो वृष्णिर्युधाजितः । जज्ञाते तनयौ वृष्णेः श्वफल्कश्चित्रकश्च यः ॥ २,७१.१०२ ॥ श्वफल्कस्तु महाराजो धर्मात्मा यत्र वर्तते । नास्ति व्याधिभयं तत्र न चावृष्टिभयं तथा ॥ २,७१.१०३ ॥ कादाचित्काशिराजस्य विभोस्तु द्विजसत्तमाः । त्रीणि वर्षाणि विषये नावर्षत्पाकशासनः ॥ २,७१.१०४ ॥ स तत्रवासयामास श्वफल्कं परमार्चितम् । श्वफल्कपरिवासेन प्रावर्षत्पाकशासनः ॥ २,७१.१०५ ॥ श्वफल्कः काशिराजस्य सुतां भार्यामविन्दत । गान्दिनींनाम गां सा हि ददौ विप्राय नित्यशः ॥ २,७१.१०६ ॥ सा मातुरुदरस्था वै बहून्वर्षशातान्किल । निवसंती न वै जज्ञे गर्भस्थां तां पिताब्रवीत् ॥ २,७१.१०७ ॥ जायस्व शीघ्रं भद्रं ते किमर्थं वापि तिष्ठसि । प्रोवाच चैनं गर्भस्था सा कन्या गां दिने दिने ॥ २,७१.१०८ ॥ यदि दद्यास्ततो गर्भाद्बहिः स्यां हायनैस्त्रिभिः । तथेत्युवाच तां तस्याः पिता काममपूरयत् ॥ २,७१.१०९ ॥ दाता यज्वा च शुरश्च श्रुतवानतिथिप्रियः । तस्याः पुत्रः स्मृतोऽक्रूरः श्वाफल्को भूरिदक्षिणः ॥ २,७१.११० ॥ उपमङ्गुस्तथा मङ्गुर्मृदुरश्चारिमेजयः । गिरिरक्षस्ततो यक्षः शत्रुघ्नोऽथारिमर्दनः ॥ २,७१.१११ ॥ धर्मवृद्धः सुकर्मा च गन्धमादस्तथापरः । आवाहप्रतिवाहौ च वसुदेवा वराङ्गना ॥ २,७१.११२ ॥ अक्रूरादौग्रसेन्यां तु सुतौ द्वौ कुलनन्दिनौ । देववानुपदेवश्च जज्ञाते देवसंनिभौ ॥ २,७१.११३ ॥ चित्रकस्याभवन्पुत्राः पृथुर्विपृथुरेव च । अश्वग्रीवोऽश्ववाहश्च सुपार्श्वकगवेषणौ ॥ २,७१.११४ ॥ अरिष्टनेमिरश्वास्यः सुवार्मा वर्मभृत्तथा । अभूमिर्बहुभूमिश्च श्रविष्ठाश्रवणे स्त्रियौ ॥ २,७१.११५ ॥ सत्यकात्काशिदुहिता लेभे या चतुरः सुतान् । कुकुरं भजमानं च शुचिं कंबल बर्हिषम् ॥ २,७१.११६ ॥ कुकुरस्य सुतो वृष्णिर्वृष्णेस्तु तनयोऽभवत् । कपोतरोमा तस्याथ विलोमाभवदात्मजः ॥ २,७१.११७ ॥ तस्यासीत्तुंबुरुसखा विद्वान्पुत्रोंऽधकः किल । ख्यायते यस्य नामान्यच्चन्दनोदकदुन्दुभिः ॥ २,७१.११८ ॥ तस्याभिजित्ततः पुत्र उत्पन्नस्तु पुनर्वसुः । अश्वमेधं तु पुत्रार्थमाजहार नरोत्तमः ॥ २,७१.११९ ॥ तस्य मध्येऽतिरात्रस्य सदोमध्यात्ससुच्छ्रितः । ततस्तु विद्वान्धर्मज्ञो दाता यज्वा पुनर्वसुः ॥ २,७१.१२० ॥ तस्याथ पुत्रमिथुनं बभूवाभिजितः किल । आहुकश्चाहुकी चैव ख्यातौ मतिमतां वरौ ॥ २,७१.१२१ ॥ इमांश्चोदा हरन्त्यत्र श्लोकान्प्रति तमाहुकम् । सोपासांगानुकर्षाणां सध्वजानां वरूथिनाम् ॥ २,७१.१२२ ॥ रथानां मेघघोषाणां महस्राणि दशैव तु । नासत्यवादी चासीत्तु नायज्ञो नासहस्रदः ॥ २,७१.१२३ ॥ नाशुचिर्नाप्यधर्मात्मा नाविद्वान्न कृशोऽभवत् । आर्द्रकस्य धृतिः पुत्र इत्येवमनुशुश्रुम् ॥ २,७१.१२४ ॥ स तेन परिवारेण किशोरप्रतिमान्हयान् । अशीतिमश्वनियुतान्याहुकोऽप्रतिमो व्रजन् ॥ २,७१.१२५ ॥ पूर्वस्यां दिशि नागानां भोजस्य त्वतिभावयन् । रूप्यकाञ्चनकक्षाणां स्रहस्राण्येकविंशतिः ॥ २,७१.१२६ ॥ तावन्त्येव सहस्राणि उत्तरस्यां तथादिशि । भूमिपालस्य भोजस्य उत्तिष्टेत्किङ्कणी किल ॥ २,७१.१२७ ॥ आहुकश्चाप्यवन्तीषु स्वसारं त्वाहुकीं ददौ । आहुकात्काश्यदुहितुर्द्वै पुत्रौ संबभूवतुः ॥ २,७१.१२८ ॥ देवकश्चोग्रसेनश्च देवगर्भसमावुभौ । देवकस्य सुता वीरा जज्ञिरे त्रिदशोपमाः ॥ २,७१.१२९ ॥ देववानुपदेवश्च सुदेवो देवरक्षितः । तेषां स्वसारः सप्तासन्वसुदेवाय ता ददौ ॥ २,७१.१३० ॥ धृतदेवोपदेवा च तथान्या देवरक्षिता । श्रीदेवा शान्तिदेवा च सहदेवा तथापरा ॥ २,७१.१३१ ॥ सप्तमी देवकी तासां सानुजा चारुदर्शना । नवोग्रसेनस्य सुताः कंसस्तेषां तु पूर्वजः ॥ २,७१.१३२ ॥ न्यग्रो दश्च सुनामा च कङ्कशङ्कुसुभूमयः । सुतनू राष्ट्रपालश्च युद्धतुष्टश्च तुष्टिमान् ॥ २,७१.१३३ ॥ तेषां स्वसारः पञ्चैव कंसा कंसवती तथा । सुतनू राष्ट्रपाली च कङ्का चैव वराङ्गना ॥ २,७१.१३४ ॥ उग्रसेनो महापत्यो व्याख्यातः कुकुरोद्भवः । कुकुराणामिमं वंशं धारयन्नमितौजसाम् ॥ २,७१.१३५ ॥ आत्मनोविपुलं वंशं प्रजावांश्च भवेन्नरः । भजमानस्य पुत्रस्तु रथिमुख्यो विदूरथः ॥ २,७१.१३६ ॥ राजाधिदेवः शूरश्च विदूरथसुतोऽभवत् । तस्य शूरस्य तु सुता जज्ञिरे बलवत्तराः ॥ २,७१.१३७ ॥ वातश्चैव निवातश्च शोणितः श्वेतवाहनः । शमी च गदवर्मा च निदान्तः खलु शत्रुजित् ॥ २,७१.१३८ ॥ शमीपुत्रः प्रतिक्षत्रः प्रतिक्षत्रस्य चात्मजः । स्वयंभोजः स्वयंभोजाद्धृदिकः संबभूव ह ॥ २,७१.१३९ ॥ हृदिकस्य सुतास्त्वासन्दश भीमपराक्रमाः । कृतवर्माग्रजस्तेषां शतधन्वा तु मध्यमः ॥ २,७१.१४० ॥ देवबाहुस्सुबाहुश्च भिषक्श्वेतरथश्च यः । सुदान्तश्चाधिदान्तश्च कनकः कनकोद्भवः ॥ २,७१.१४१ ॥ देवबाहोस्सुतो विद्वाञ्जज्ञे कंबलबर्हिषः । असमौजाः सुतस्तस्य सुसमौजाश्च विश्रुतः ॥ २,७१.१४२ ॥ अजातपुत्राय ततः प्रददावसमौजसे । सुचन्द्रं वसुरूपं च कृष्ण इत्यन्धकाः स्मृताः ॥ २,७१.१४३ ॥ अन्धकानामिमं वंशं कीर्त्तयेद्यस्तु नित्यशः । आत्मनो विपुलं वंशं लभते नात्र संशयः ॥ २,७१.१४४ ॥ अश्मक्यां जनयामास शूरं वै देव मीढुषम् । मारिष्यां जज्ञिरे शूराद्भोजायां पुरुषा दश ॥ २,७१.१४५ ॥ वसुदेवो महाबाहुः पूर्वमानकदुन्दुभिः । जज्ञे तस्य प्रसूतस्य दुन्दुभिः प्राणदद्दिवि ॥ २,७१.१४६ ॥ आनकानां च संह्नादः सुमहानभवद्दिवि । पपात पुष्पवर्षं च शरस्य भवने महत् ॥ २,७१.१४७ ॥ मनुष्यलोके कृत्स्नेऽपि रूपे नास्ति समो भुवि । यस्यासीत्पुरुषाग्र्यस्य कान्तिश्चन्द्रमसो यथा ॥ २,७१.१४८ ॥ देवभागस्ततो जज्ञे ततो देवश्रवाः पुनः । अनाधृष्टिवृकश्चैव नन्दनश्चैव सृंजयः ॥ २,७१.१४९ ॥ श्यामः शमीको गण्डूषः स्वसारस्तु वरागनाः । पृथा च श्रुतदेवा च श्रुतकीर्तिः श्रुत श्रवाः ॥ २,७१.१५० ॥ राजाधिदेवी च तथा पञ्चैता वीरमातरः । पृथां दुहितरं शूरः कुन्तिभोजाय वै ददौ ॥ २,७१.१५१ ॥ तस्मात्सा तु स्मृता कुन्ती कुन्तिभोजात्मजा पृथा । कुरुवीरः पाण्डुमुख्यस्तस्माद्भार्यामविन्दत ॥ २,७१.१५२ ॥ पुथा जज्ञे ततः पुत्रांस्त्रीनग्निसमतेजसः । लोके प्रतिरथान्वीराञ्छक्रतुल्यपराक्रमान् ॥ २,७१.१५३ ॥ धर्माद्युधिष्टिरं पुत्रं मारुताच्च वृकोदरम् । इन्द्राद्धनञ्जयं चैव पृथा पुत्रानजीचनत् ॥ २,७१.१५४ ॥ माद्रवत्या तु जनितावश्विनाविति विश्रुतम् । नकुलः सहदेवश्च रुपसत्त्वगुणान्वितौ ॥ २,७१.१५५ ॥ जज्ञे तु श्रुतदेवायां तनयो वृद्धशर्मणः । करूषाधिपतेर्ंवीरो दन्तवक्रो महाबलः ॥ २,७१.१५६ ॥ कैकयाच्छ्रुतिकीर्त्यं तु जज्ञे संतर्दनो बली । चेकितानबृहत्क्षत्रौ तथैवान्यौ महाबलौ ॥ २,७१.१५७ ॥ विन्दानुविन्दावावन्त्यौ भ्रातरौ सुमहाबलौ । श्रुतश्रवायां चैद्यस्तु शिशुपालो बभूव ह ॥ २,७१.१५८ ॥ दमघोषस्य राजर्षेः पुत्रो विख्यातपौरुषः । यः पुरा सदशग्रीवः संबभूवारिमर्दनः ॥ २,७१.१५९ ॥ वैश्रवाणानुजस्तस्य कुंभकर्णोऽनुजस्तथा पत्न्यस्तु वसुदेवस्य त्रयोदश वराङ्गनाः ॥ २,७१.१६० ॥ पौरवी रोहिणी चैव मदिरा चापरा तथा । तथैव भद्रवैशाखी सुनाम्नी पञ्चमी तथा ॥ २,७१.१६१ ॥ सहदेवा शान्तिदेवा श्रीदेवा देवरक्षिता । धृतदेवोपदेवा च देवकी सप्तमी तथा ॥ २,७१.१६२ ॥ सुगन्धा वनराजी च द्वेचान्ये परिचारिके । रोहिणी पौरवी चैव बाह्लीकस्यानुजाभवत् ॥ २,७१.१६३ ॥ ज्येष्ठा पत्नी महाभागदयिताऽनकदुन्दुभेः । ज्येष्ठे लेभे सुतं रामं सारणं हि शठं तथा ॥ २,७१.१६४ ॥ दुर्दमं दमनं शुभ्रं पिण्डारककुशीतकौ । चित्रां नाम कुमारीं च रोहिण्यष्टौ व्यजायत ॥ २,७१.१६५ ॥ पुत्रौ रामस्य जज्ञाते विज्ञातौ निशठोल्मुकौ । पार्श्वी च पार्श्वमर्दी च शिशुः सत्यधृतिस्तथा ॥ २,७१.१६६ ॥ मन्दबाह्योऽथ रामणाङ्गिरिको गिरिरेव च । शुल्कगुल्मोऽतिगुल्मश्च दरिद्रान्तक एव च ॥ २,७१.१६७ ॥ कुमार्यश्चापि पञ्जान्या नामतस्ता निबोधत । अर्चिष्मती सुनन्दा च सुरसा सुवचास्तथा ॥ २,७१.१६८ ॥ तथा शतबला चैव सारणस्य सुतास्त्विमाः । भद्राश्वो भद्रगुप्तिश्च भद्रविष्टस्तथैव च ॥ २,७१.१६९ ॥ भद्रबाहुर्भद्ररथो भद्रकल्पस्तथैव च । सुपार्श्वकः कीर्त्तिमांश्च रोहिताश्वः शठात्मजाः ॥ २,७१.१७० ॥ दुर्मदस्याभिभूतश्च रोहिण्याः कुलजाः स्मृताः । नन्दोपनन्दौ मित्रश्च कुक्षिमित्रस्तथा बलः ॥ २,७१.१७१ ॥ चित्रोपचित्रौ कृतकस्तुष्टिः पुष्टिरथापरः । मदिरायाः सुता एते वसुदेवाद्धिजज्ञिरे ॥ २,७१.१७२ ॥ उपबिंबोऽथ बिंबश्च सत्त्वदन्तमहौजसौ । चत्वार एते विख्याता भद्रापुत्रा महाबलाः ॥ २,७१.१७३ ॥ वैशाल्यामदधाच्छौरिः पुत्रं कौशिकमुत्तमम् । देवक्यां जज्ञिरे सौरेः सुषेणः कीर्त्तिमानपि ॥ २,७१.१७४ ॥ उदर्षिर्भद्रसेनश्च ऋजुदायश्च पञ्चमः । षष्ठो हि भद्रदेवश्च कंसः सर्वाञ्जघान तान् ॥ २,७१.१७५ ॥ अथ तस्या मवस्थाया आयुष्मान्संबभूव ह । लोकनाथः पुनर्विष्णुः पूर्वं कृष्णः प्रजापतिः ॥ २,७१.१७६ ॥ अनुजाताभवकृष्णात्सुभद्रा भद्रभाषिणी । कृष्णा सुभद्रेति पुनर्व्याख्याता वृष्णिनन्दिनी ॥ २,७१.१७७ ॥ सुभद्रायां रथी पार्थादभिमन्युरजायत । वसुदेवस्य भार्यासु महाभागासु सप्तसु ॥ २,७१.१७८ ॥ ये पुत्रा जज्ञिरे शुरा नामतस्तान्निबोधत । पूर्वाद्याः सहदेवायां शूराद्वै जज्ञिरे सुताः ॥ २,७१.१७९ ॥ शान्तिदेवा जनस्तम्बं शौरेर्जज्ञे कुलोद्वहम् । आगावहो महात्मा च वृकदेव्या मजायत ॥ २,७१.१८० ॥ श्रीदेवायां स्वयं जज्ञे मन्दको नाम नामतः । उपासंगं वसुं चापि तनयौ देवरक्षिता ॥ २,७१.१८१ ॥ एवं दश सुतास्तस्य कंसस्तानप्यघातयत् । विजयं रोचनं चैव वर्द्धमानं च देवलम् ॥ २,७१.१८२ ॥ एतान्महात्मनः पुत्रान्सुषाव शिशिरावती । सप्तमी देवकी पुत्रं सुनामानमसूयत ॥ २,७१.१८३ ॥ गवेषणं महाभागं संग्रामे चित्रयोधिनम् । श्राद्धदेव्यां पुरोद्याने वने तु विचरन्द्विजाः ॥ २,७१.१८४ ॥ वैश्यायामदधाच्छौरिः पुत्रं कौशिकमव्ययम् । सुगन्धी वनराजी च शौरेरास्तां परिग्रहौ ॥ २,७१.१८५ ॥ पुण्डश्च कपिलश्चैव सुगन्ध्याश्चात्मजौ तु तौ । तयो राजाभवत्पुण्ड्रः कपिलस्तु वनं ययौ ॥ २,७१.१८६ ॥ अन्यस्यामभवद्वीरो वसुदेवात्मजो बली । जरा नाम निषादोऽसौ प्रथमः स धनुर्द्धरः ॥ २,७१.१८७ ॥ विख्यातो देवभाग्यस्य महाभागः सुतोऽभवत् । पण्डितानां मतं प्राहुर्देवश्रवसमुद्भवम् ॥ २,७१.१८८ ॥ अश्मक्यां लभते पुत्रमनाधृष्टिर्यशास्विनम् । निवृत्तशत्रुं शत्रुघ्नं श्राद्धदेवं महाबलम् ॥ २,७१.१८९ ॥ व्यजायत श्राद्धदेवो नैषादिर्यः पारिश्रुतः । एकलव्यो महाभागो निषादैः परिवर्द्धितः ॥ २,७१.१९० ॥ गण्डूषायानपत्याय कृष्णस्तुष्टोऽददात्सुतौ । चारुदेष्णं च सांबं च कृतास्त्रौ शस्तलक्षणौ ॥ २,७१.१९१ ॥ रन्तिश्च रन्तिपालश्च द्वौ पुत्रौ नन्दनस्य च । वृकाय वै त्वपुत्राय वसुदेवः प्रतापवान् ॥ २,७१.१९२ ॥ सौमिं ददौ सुत वीरं शौरिः कौशिकमेव च । सृंजयस्य धनुश्चैव विरजाश्च सुताविमौ ॥ २,७१.१९३ ॥ अनपत्योऽभवच्छ्यामः शमीकस्तु वनं ययौ । जुगुप्समानो भोजत्वं राजर्षित्वमवाप्तवान् ॥ २,७१.१९४ ॥ य इदं जन्म कृष्णस्य पठते नियतव्रतः । श्रावयेद्ब्राह्मणंवापि स महात्सुखमवाप्नुयात् ॥ २,७१.१९५ ॥ देवदेवो महातेजाः पूर्वं कृष्णः प्रजापतिः । विहारार्थं मनुष्येषु जज्ञे नारायणः प्रभुः ॥ २,७१.१९६ ॥ देवक्यां वसुदेवेन तपसा पुष्करेक्षणः । चतुर्बाहुस्तु संजज्ञे दिव्यरूपश्रियान्वितः ॥ २,७१.१९७ ॥ प्रकाश्यो भगवान्योगी कृष्णो मानुषतां गतः । अव्यक्तो व्यक्तलिङ्गश्च स एव भगवान्प्रभुः ॥ २,७१.१९८ ॥ नारायणो यतश्चक्रे व्ययं चैवाव्ययं हि यत् । देवो नारायणो भूत्वा हरिरासीत्सनातनः ॥ २,७१.१९९ ॥ योऽबुञ्जाच्चादिपुरुषं पुरा चक्रे प्रजापतिम् । अदितेरपि पुत्रत्वमेत्य यादवनन्दनः ॥ २,७१.२०० ॥ देवो विष्णुरिति ख्यातः शक्रादवरजोऽभवत् । प्रासादयन्यं च विभुं ह्यदित्याः पुत्रकारणे ॥ २,७१.२०१ ॥ वधार्थं सुरशत्रूणां दैत्यदानवरक्षसाम् । ययातिवंशजस्याथ वसुदेवस्य धीमतः ॥ २,७१.२०२ ॥ कुलं पुण्यं यतो जन्म भेजे नारायमः प्रभुः । सागराः समकंपत चेलुश्च धरणीधराः ॥ २,७१.२०३ ॥ जज्वलुस्त्वग्निहोत्राणि जायमाने जनार्द्दने । शिवाश्च प्रववुर्वाताः प्रशान्तमभवद्रजः ॥ २,७१.२०४ ॥ ज्योतींष्यभ्यधिकं रेजुर्जायमाने जनार्द्दने । अभिजिन्नाम नक्षत्रं जयन्ती नाम शर्वरी ॥ २,७१.२०५ ॥ मुहूर्त्तो विजयो नाम यत्र जातो जनार्द्दनः । अव्यक्तः शाश्वतः कृष्णो हरिर्नारायणः प्रभुः ॥ २,७१.२०६ ॥ जज्ञे तथैव भगवान्मायया मोहयन्प्रजाः । आकाशात्पुष्पवृष्टिं च ववर्ष त्रिदशेश्वरः ॥ २,७१.२०७ ॥ गीर्भिर्मङ्गलयुक्ताभिस्तुवन्तो मधुसूदनम् । महर्षयः सगन्धर्वा उपतस्थुः सहस्रशः ॥ २,७१.२०८ ॥ वसुदेवस्तु तं रात्रौ जातं पुत्रमधोक्षजम् । श्रीवत्सलक्षणं दृष्ट्वा हृदि दिव्यैः स्वलक्षणैः ॥ २,७१.२०९ ॥ उवाच वसुदेवस्तं रूपं संहर वै प्रभो । भीतोऽहं कंसतस्तात तस्मादेवं ब्रवीम्यहम् ॥ २,७१.२१० ॥ मम पुत्रा हतास्तेन ज्येष्ठास्तेऽद्भुतदर्शनाः । वसुदेववचःश्रुत्वा रूपं संहृतवान्प्रभुः ॥ २,७१.२११ ॥ अनुज्ञातः पिता त्वेनं नन्दगोपगृहं नयत् । उग्रसेनगृहेऽतिष्ठद्यशोदायै तदा ददौ ॥ २,७१.२१२ ॥ तुल्यकालं तु गर्भिण्यौ यशोदा देवकी तथा । यशोदा नन्दगोपस्य पत्नी सा नन्दगोपतेः ॥ २,७१.२१३ ॥ यामेव रजनीं कृष्णो जज्ञे वृष्णिकुले प्रभुः । तामेव रजनीं कन्या यशोदायां व्यजायत ॥ २,७१.२१४ ॥ तं जात रक्षमाणस्तु वसुदेवो महायशाः । प्रादात्पुत्रं यशोदायै कन्यां तु जगृहे स्वयम् ॥ २,७१.२१५ ॥ दत्त्वेमं नन्दगोपस्य रक्षेममिति चाब्रवीत् । सुतस्ते सर्वकल्याणो यादवानां भविष्यति ॥ २,७१.२१६ ॥ अयं स गर्भा देवक्या मम क्लेशान्हरिष्यति । उग्रसेनात्मजायाथ कन्यामानकदुन्दुभिः ॥ २,७१.२१७ ॥ निवेदयामास तदा कन्येति शुभलक्षणा । स्वसुस्तु तनयं कंसो जातं नैवावधारयत् ॥ २,७१.२१८ ॥ अथ तामपि दुष्टात्मा ह्युत्ससर्ज मुदान्वितः । तवैषा हि यथा कन्या तथा मम न संशयः । न हन्मीमां महाबाहो व्रजत्वेषा यथारुचि ॥ २,७१.२१९ ॥ कन्या सा ववृधे तत्र वृष्मिसद्मनि पूजिता । पुत्रवत्पालयामास देवी देवीं मुदा तदा ॥ २,७१.२२० ॥ तमेवं विधिनोत्पन्नमाहुः कृष्णं प्रजापतिम् । एकादशा तु जज्ञे वै रक्षार्थं केशवस्य ह ॥ २,७१.२२१ ॥ एतां चैकाग्रमनसः पूजयिष्यन्ति यादवाः । देवदेवो दिव्यवपुः कृष्णः संरक्षितोऽनया ॥ २,७१.२२२ ॥ ऋषय ऊचुः किमर्थं वसुदेवस्य भोजः कंसो नराधिपः । जघान पुत्रान्बालान्वै तन्नो व्याख्यातुमर्हसि ॥ २,७१.२२३ ॥ सूत उवाच शृणुध्वं वै यथा कंसः पुत्रानानकदुन्दुभेः । जाताञ्जातास्तु तान्सर्वान्निष्पिपेष वृथामतिः ॥ २,७१.२२४ ॥ भयाद्यथा महाबाहो जातः कृष्णो विवासितः । यथा च गोषु गोविन्दः संवृद्धः पुरुषोत्तमः ॥ २,७१.२२५ ॥ उद्वाहे किल देवक्या वसुदेवस्य धीमतः । सारथ्यं कृतवान्कंसो युवराजस्तदाभवत् ॥ २,७१.२२६ ॥ ततोंऽतरिक्षे वागासीद्दिव्याभूद्यस्य कस्यचित् । कंसस्य नाममात्रेण पुष्कला लोकसाक्षिणी ॥ २,७१.२२७ ॥ यामेतं वहसे कंस रथेन प्रियकारणात् । तस्या यश्चाष्टमो गर्भः स ते मृत्युर्भबिष्यति ॥ २,७१.२२८ ॥ तां श्रुत्वा व्यथितो वाणीं तदा कंसो वृथामतिः । निष्कृष्य खड्गं तां कन्यां हन्तुकामोऽभवत्तदा ॥ २,७१.२२९ ॥ तमुवाच महाबाहुर्वसुदेवः प्रतापवान् । उग्रसेनात्मजं कसं सौत्दृदात्प्रणयेन वा ॥ २,७१.२३० ॥ न स्त्रियं क्षत्रियो जातु हन्तुमर्हसि कश्चन । उपायः परिदृष्टोऽत्र मया यादवनन्दन ॥ २,७१.२३१ ॥ योऽस्याः संजायते गर्भो ह्यष्टमः पृथिवीपते । तमहं ते प्रयच्छामि तत्र कुर्या यथाक्रमम् ॥ २,७१.२३२ ॥ न त्विदानीं यथेष्टं त्वं वर्त्तेथा भूरिदक्षिण । सर्वानप्यथ वा गर्भान्पृथङ्नेष्यामि ते वशम् ॥ २,७१.२३३ ॥ एवं मिथ्या नरश्रेष्ठ वागेषा न भविष्यति । एवमुक्तोऽनुनीतः स जग्राह वचनं तदा ॥ २,७१.२३४ ॥ वसुदेवश्च तां भार्यामवाप्य मुदितोऽभवत् । कंसस्तस्यावधीत्पुत्रान्पापकर्मा वृथामतिः ॥ २,७१.२३५ ॥ ऋषय ऊचुः क एष वसुदेवस्तु देवकी च यशस्विनी । नन्दगोपस्तु कस्त्वेष यशोदा य महायशाः ॥ २,७१.२३६ ॥ यो विष्णुं जनयामास यं च तातेत्यभाषत । या गर्भं जनयामास या वैनं याभ्यवर्द्धयत् ॥ २,७१.२३७ ॥ सूत उवाच पुरुषः कश्यपस्त्वासी ददितिस्तत्प्रिया तथा । कश्यपो ब्रह्मणोंऽशश्च पृथिव्या आदितिस्तथा ॥ २,७१.२३८ ॥ नन्दो द्रोणः समाख्यातो यशोदा च धराभवत् । अथ कामान्महाबाहुर्देवक्याः संप्रवर्द्धयन् ॥ २,७१.२३९ ॥ अचरत्स महीं देवः प्रविष्टो मानुषीं तनुम् । मोहयन्सर्वभूतानि योगात्मा योगमायया ॥ २,७१.२४० ॥ नष्टे धर्मे तदा जज्ञे विष्णुर्वृष्णिकुले स्वयम् । कर्त्तुं धर्मव्यवस्थानमसुराणां प्रणाशनम् ॥ २,७१.२४१ ॥ वैदर्भी रुक्मिणी कन्या सत्या नग्नजितस्तदा । सत्राजितः सत्यभामा जांबवत्यपि रोहिणी ॥ २,७१.२४२ ॥ शैब्या धन्यानि देवीनां सहस्राणि च षोडश । चतुर्दश तु ये प्रोक्ता गणास्त्वप्सरसां दिवि ॥ २,७१.२४३ ॥ विचार्य देवैः शक्रेण विशिष्टास्त्विह प्रेषिताः । पत्न्यर्थं वासुदेवस्य उत्पन्ना राजवेश्मसु ॥ २,७१.२४४ ॥ एताः पत्न्यो महाभागा विष्वक्सेनस्य विश्रुताः । प्रद्युम्नश्चारुदेष्णश्च सुदेवः शरभस्तथा ॥ २,७१.२४५ ॥ चारुश्च चारुभद्रश्च भद्रचारुस्तथापरः । चारुविद्यश्च रुक्मिण्यां कन्या चारुमती तथा ॥ २,७१.२४६ ॥ सानुर्भानुस्तथाक्षश्च रोहितो मन्त्रवित्तथा । जरोऽधकस्ताम्रचक्रौ सौभरिश्च जरेधरः ॥ २,७१.२४७ ॥ चतस्रो जज्ञिरे तेषां स्वसारो गरुडध्वजात् । भानुः सौभरिका चैव ताम्रपर्णी जरन्धरः ॥ २,७१.२४८ ॥ सत्यभामासुता एते जांबवत्याः प्रजाः श्रुणु । भद्रश्च भद्रगुप्तश्च भद्रचित्रस्तथैव च ॥ २,७१.२४९ ॥ बध्रबाहुश्च विख्यातः कन्या भद्रवती तथा । संबोधनी च विख्याता ज्ञेया जांबवतीसुताः ॥ २,७१.२५० ॥ संग्रामजिच्च शतजित्तथैव च सहस्र जित् । एते पुत्राः सुदेव्यां च विष्वक्सेनस्य कीर्त्तिताः ॥ २,७१.२५१ ॥ वृको वृकाश्वो वृकजिद्वृजिनी च वराङ्गना । मित्रबाहुः सुनीथश्च नाग्नजित्या प्रजास्त्विह ॥ २,७१.२५२ ॥ एवमादीनि पुत्राणां सहस्राणि निबोधत । प्रयुतं तु समाख्यातं वासुदेवस्य ये सुताः ॥ २,७१.२५३ ॥ अयु तानि यथाष्टौ च शूरा रणविशारदाः । जनार्दनस्य वंशो वः कीर्तितोऽयं यथातथम् ॥ २,७१.२५४ ॥ बृहती पुरुभार्यासीत्सुमध्या सुगतिस्तथा । कन्या सा बृहदुक्थस्य शैनेयस्य महात्मनः ॥ २,७१.२५५ ॥ तस्याः पुत्रास्तु विख्यातास्त्रयः समितिशोभनाः । आनन्दः कनकः श्वेतः कन्या श्वेता तथैव च ॥ २,७१.२५६ ॥ अगावहस्य चित्रश्च शूरश्चित्ररथश्च यः । चित्रसेनः स्मृतश्चास्य कन्या चित्रवती तथा ॥ २,७१.२५७ ॥ तुम्बश्च तुम्बंवर्चाश्च जातौ तुम्बस्य तावुभौ । उपासंगसुतौ द्वौ तु वज्रारः क्षिप्र एव च ॥ २,७१.२५८ ॥ भूरीन्द्रसेनो भूरिश्च गवेषणसुतापुभौ । युधिष्टिरस्य कन्यायां सुधनुस्तस्य चात्मजः ॥ २,७१.२५९ ॥ काश्यां तु पञ्च तनयांल्लेभे सांबात्तरस्विनः । सत्यप्रकृतयो देवाः पञ्च वीराः प्रकीर्त्तिताः ॥ २,७१.२६० ॥ तिस्रः कोट्यस्तु पौत्राणां यादवानां महात्मनाम् । सर्वमेव कुलं यच्च वर्त्तन्ते चैव ये कुले ॥ २,७१.२६१ ॥ विष्णुस्तेषां प्रमाणे च प्रभुत्वे च व्यवस्थितः । निदेशस्थायिभिस्तस्य बध्यन्ते सुरमानुषाः ॥ २,७१.२६२ ॥ देवासुराहवहता असुरा ये महाबलाः । इहोत्पन्ना मनुष्येषु बाधन्ते ते तु मानवान् ॥ २,७१.२६३ ॥ तेषामुत्सादनार्थाय उत्पन्ना यादवे कुले । समुत्पन्नं कुलशतं यादवानां महात्मनाम् ॥ २,७१.२६४ ॥ इति प्रसूतिर्वृष्णीनां समासव्यासयोगतः । कीर्त्तिता कीर्त्तनीया स कीर्त्तिसिद्धिमभीप्सता ॥ २,७१.२६५ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपदे वृष्णिवंशानुकीर्त्तनं नामैकसप्ततितमोऽध्यायः ॥ ७१॥ _____________________________________________________________ सूत उवाच मनुष्यप्रकृतीन्देवान्कीर्त्यमानान्निबोधत । संकर्षणो वासुदेवः प्रद्युम्नः सांब एव च ॥ २,७२.१ ॥ अनिरुद्धश्च पञ्चैते वंशवीराः प्रकीर्त्तिताः । सप्तर्ष्यः कुबेरश्च यज्ञे मणिवरस्तथा ॥ २,७२.२ ॥ शालूकिर्नारदश्चैव विद्वान्धन्वन्तरिश्तथा । नन्दिनश्च महादेवः सालकायन एव च । आदिदेव स्तदा विष्णुरेभिश्च सह दैवतैः ॥ २,७२.३ ॥ ऋषय ऊचुः विष्णुः किमर्थं संभूतः स्मृताः संभूतयः कति । भविष्याः कति चान्ये च प्रादुर्भावा महात्मनः ॥ २,७२.४ ॥ ब्रह्मक्षत्रेषु शस्तेषु किमर्थमिह जायते । पुनः पुनर्मनुष्येषु तन्नः प्रब्रूहि पृच्छताम् ॥ २,७२.५ ॥ विस्तरेणैव सर्वाणि कर्माणि रिपुघातिनः ॥ २,७२.६ ॥ श्रोतुमिच्छामहे सम्यग्वद कृष्णस्य धीमतः । कर्मणामानुपूर्वीं च प्रादुर्भावाश्च ये प्रभो ॥ २,७२.७ ॥ या वास्य प्रकृतिस्तात तां चास्मान्वक्तुमर्हसि । कथं स भगवान्विष्णुः सुरेष्वरिनिषूदनः ॥ २,७२.८ ॥ वसुदेवकुले धीमान्वासुदेवत्वमागतः । अमरैरावृतं पुण्यं पुण्यकृद्भिरलङ्कृतम् ॥ २,७२.९ ॥ देवलोकं किमुत्सृज्य मर्त्यलोकमिहागतः । देवमानुषयोर्नेता धातुर्यः प्रसवो हरिः ॥ २,७२.१० ॥ किमर्थं दिव्यमात्मानं मानुष्ये समवेशयत् । यश्चक्रं वर्त्तयत्येको मनुष्याणां मनोमयम् ॥ २,७२.११ ॥ मानुष्ये स कथं बुद्धिं चक्रे चक्रभृतां वरः । गोपायन यः कुरुते जगतः सर्वकालिकम् ॥ २,७२.१२ ॥ स कथं गां गतो विष्णुर्गोपत्वमकरोत्प्रभुः । महाभूतानि भूतात्मा यो दधार चकार ह ॥ २,७२.१३ ॥ श्रीगर्भः स कथं गर्भे स्त्रिया भूचरया वृतः । येन लोकान्क्रमैर्जित्वा सश्रीकास्त्रिदशाः कृताः ॥ २,७२.१४ ॥ स्थापिता जगतो मार्गास्त्रिक्रमं वपुराहृतम् । ददौ जितां वसुमतीं सुराणां सुरसत्तमः ॥ २,७२.१५ ॥ येन सैंहं वपुः कृत्वा द्विधाकृत्वा च तत्पुनः । पूर्वदैत्यो महावीर्यो हिरण्यकशिपुर्हतः ॥ २,७२.१६ ॥ यः पुरा ह्यनलो भूत्वा त्वौर्वः संवर्त्तको विभुः । पातालस्थोर्ऽणवगतः पपौ तोयमयं हविः ॥ २,७२.१७ ॥ सहस्रचरणं देवं सहस्रांशुं सहस्रशः । सहस्रशिरसं देवं यमाहुर्वै युगे युगे ॥ २,७२.१८ ॥ नाभ्यरण्यां समुद्भूतं यस्य पैतामहं गृहम् । एकार्णवगते लोके तत्पङ्कजमपङ्कजम् ॥ २,७२.१९ ॥ येन ते निहता दैत्याः संग्रामे तारकामये । सर्वदेवमयं कृत्वा सर्वायुधधरं वपुः ॥ २,७२.२० ॥ महाबलेन वोत्सिक्तः कालनेमिर्निपातितः । उत्तरांशे समुद्रस्य क्षीरोदस्यामृतोदधेः । यः शेतेशश्वतं योगमाच्छाद्य तिमिरं महत् ॥ २,७२.२१ ॥ सुरारणीगर्भमधत्त दिव्यं तपःप्रकर्षाददितिः पुरायम् । शक्रं च यो दैत्यगणं च रूद्धं गर्भावमानेन भृशं चकार ह ॥ २,७२.२२ ॥ पदानि यो लोकपदानि कृत्वा चकार दैत्यान्सलिलेशयांस्तान् । कृत्वा च देवांस्त्रिदिवस्य देवांश्चक्रे सुरेशं पुरुहूतमेव ॥ २,७२.२३ ॥ गार्हपत्येन विधिना अन्वाहार्येण कर्मणा ॥ २,७२.२४ ॥ अग्निमाहवनीयं च वेदीं चैव कुशं स्रुवम् । प्रोक्षणीयं श्रुतं चैव आवभृथ्यं तथैव च ॥ २,७२.२५ ॥ अथर्षींश्चैव यश्चक्रे हव्यभागप्रदान्मखे । हव्यादांश्च सुरांश्चक्रे कव्यादांश्च पितॄनपि । भोगार्थं यज्ञविधिना यो यज्ञो यज्ञकर्मणि ॥ २,७२.२६ ॥ यूपान्समित्स्रुवं सोमं पवित्रं परिधीनपि । यज्ञियानि च द्रव्याणि यज्ञियांश्च तथानलान् ॥ २,७२.२७ ॥ सदस्यान्यजमानांश्च ह्यश्वमेधान्क्रतुत्तमान् । विचित्रान्राजसूयदीन्पारमेष्ठ्येन कर्मणा ॥ २,७२.२८ ॥ उद्गात्रादींश्च यः कृत्वा यज्ञांल्लोकाननुक्रमम् । क्षणा निमेषाः काष्ठाश्च कलास्त्रैकाल्यमेव च ॥ २,७२.२९ ॥ मुहूर्त्तास्तिथयो मासा दिनं संवत्सरं तथा । ऋतवः कालयोगाश्च प्रमाणं त्रिविधं त्रिषु ॥ २,७२.३० ॥ आयुः क्षेत्राण्यथ बलं क्षणं यद्रूपसौष्ठवम् । मेधावित्वं च शौर्यं च शास्त्रस्येव च पारणम् ॥ २,७२.३१ ॥ त्रयो वर्णास्त्रयो लोकास्त्रैविद्यं पावकास्त्रयः । त्रैकाल्यं त्रीणि कर्माणि तिस्रो मात्रा गुणास्त्रयः ॥ २,७२.३२ ॥ सृष्टा लोकेश्वराश्चैव येन येन च कर्मणा । सर्वभूतगणाः सृष्टाः सर्वभूतगणात्मना ॥ २,७२.३३ ॥ क्षणं संधाय पूर्वेण योगेन रमते च यः । गतागतानां यो नेता सर्वत्र विविधेश्वरः ॥ २,७२.३४ ॥ यो गतिर्द्धर्मयुक्तानामगतिः पापकर्मणाम् । चातुर्वर्ण्यस्य प्रभवश्चातुर्वर्ण्यस्य रक्षिता ॥ २,७२.३५ ॥ चातुर्विद्यस्य यो वेत्ता चातुराशम्यसंश्रयः । दिगन्तरं नभो भूमिरापो वायुर्विभावसुः ॥ २,७२.३६ ॥ चन्द्रसूर्यद्वयं ज्योतिर्युगेशाः क्षणदाचराः । यः परं श्रुयते देवो यः परं श्रूयते तपः ॥ २,७२.३७ ॥ यः परं तमसः प्राहुर्यः परं परमात्मवान् । आदित्यादिस्तु यो देवो यश्च दैत्यान्तको विभुः ॥ २,७२.३८ ॥ युगान्तेष्वन्तको यश्च यश्च लोकान्तकान्तकः । सेतुर्यो लोकसेतूनां मेधो यो मध्यकर्मणाम् ॥ २,७२.३९ ॥ वेद्यो यो वेदविदुषां प्रभुर्यः प्रभवात्मनाम् । सोमभूतस्तु भूतानामग्निभूतोऽग्निवर्चसाम् ॥ २,७२.४० ॥ मनुष्याणां मनुर्भूतस्तपोभूतस्तपस्विनाम् । विनयो नयतृप्तानां तेजस्तेजस्विनामपि ॥ २,७२.४१ ॥ विग्रहो विग्रहाणां यो गतिर्गतिमतामपि । आकाशप्रभवो वायुर्वायुप्राणो हुताशनः ॥ २,७२.४२ ॥ देवा हुताशनप्राणाः प्राणोऽग्नेर्मधुसूदनः । रसाच्छोणितसंभूतिः शोणितान्मासमुच्यते ॥ २,७२.४३ ॥ मांसात्त मेदसो जन्म मेदसोऽस्थि निरुच्यते । अस्य्नो मज्जा समभवन्मज्जातः शुक्रसंभवः ॥ २,७२.४४ ॥ शुक्राद्गर्भः समाभव द्रसमूलेन कर्मणा । तत्रापां प्रथमावापः स सौम्यो राशिरुच्यते ॥ २,७२.४५ ॥ गर्भोऽश्मसंभवो ज्ञेयो द्वितीयो राशिरुच्यते । शुक्रं सोमात्मकं विद्यादार्त्तवं पावकात्मकम् ॥ २,७२.४६ ॥ भावौ रसानुगावेतौ वीर्ये च शशिपावकौ । कफवर्गे भवेच्छुक्रं पित्तवर्गे च शोणितम् ॥ २,७२.४७ ॥ कफस्य त्दृदयं स्थानं नाभ्यां पित्तं प्रतिष्ठितम् । देहस्य मध्ये त्दृदयं स्थानं तु मनसः स्मृतम् ॥ २,७२.४८ ॥ नाभिश्चोदर संस्था तु तत्र देवो हुताशनः । मनः प्रजापतिर्ज्ञेयः कफः सोमो विभाव्यते ॥ २,७२.४९ ॥ पित्तमग्निः स्मृतो ह्येतदग्नीषोमात्मकं जगत् । एवं प्रवर्त्तिते गर्भे वृत्ते कर्कन्धुसंनिभे ॥ २,७२.५० ॥ वायुः प्रवेशनं चक्रे संगतः परमात्मना । स पञ्चधा शरीरस्थो विद्यते वर्द्धयेत्पुनः ॥ २,७२.५१ ॥ प्राणापानौ समानश्च ह्युदानो व्यान एव च । प्राणोऽस्य परमात्मानं वर्द्धयन्परिवर्त्तते ॥ २,७२.५२ ॥ अपानः पश्चिमं कायमु दानोऽर्द्धं शरीरिणः । व्यानो व्यानीयते येन समानः सर्वसंधिषु ॥ २,७२.५३ ॥ भूतावाप्तिस्ततस्तस्य जायतेन्द्रियगोचरा । पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ २,७२.५४ ॥ सर्वेद्रियनिविष्टास्ते स्वस्वयोगं प्रचक्रिरे । पार्थिवं देहमाहुस्तु प्राणात्मानं च मारुतम् ॥ २,७२.५५ ॥ छिद्राण्याकाशयोनीनि जलात्स्रावः प्रवर्त्तते । ज्योतिश्चक्षुषि कोष्ठोऽस्मात्तेषां यन्नामतः स्मृतम् ॥ २,७२.५६ ॥ संग्राह्य विषयांश्चैव यस्य वीर्यात्प्रवर्तिताः । इत्येतान्पुरुषः सर्वान्सृजत्येकः सनातनः ॥ २,७२.५७ ॥ नैधनेऽस्मिन्कथं लोके नरत्वं विष्णुरागतः । एष नः संशयो धीमन्नेष वै विस्मयो महान् ॥ २,७२.५८ ॥ कथं गतिर्गतिमतामापन्नो मानुषीं तनुम् । श्रोतुमिच्छामहे विष्णोः कर्माणि च यथाक्रमम् ॥ २,७२.५९ ॥ आश्चर्यं परमं विष्णुर्वेदैर्देवश्चै कथ्यते । विष्णोरुत्पत्तिमाश्चय कथयस्व महामते ॥ २,७२.६० ॥ एतदाश्चर्यमाख्यातं कथ्यतां वै सुखावहम् । प्रख्यातबलवीर्यस्य प्रादुर्भावन्महात्मनः । कर्मणाश्चर्यभूतस्य विष्णोः सत्त्वमिहोच्यते ॥ २,७२.६१ ॥ सूत उवाच अहं वः कीर्त्तयिष्यामि प्रादुर्भावं महात्मनः ॥ २,७२.६२ ॥ यथा बभूव भगवान्मानुषेषु महातपाः । भृगुस्त्रीवधदोषेण भृगुशापेन मानुषे ॥ २,७२.६३ ॥ जायते च युगान्तेषु देवकार्यार्थसिद्धये । तस्य दिव्यां तनुं विष्णोर्गदतो मे निबोधत ॥ २,७२.६४ ॥ युगधर्मे परावृत्ते काले च शिथिले प्रभुः । कर्त्तुं धर्मव्यवस्थानं जायते मानुषेष्विह । भृगोः शापनिमित्तेन देवासुरकृतेन च ॥ २,७२.६५ ॥ ऋषय ऊचुः कथं देवासुरकृते तद्व्याहारमवाप्तवान् । एतद्वेदितुमिच्छामो वृत्तं देवासुरं कथम् ॥ २,७२.६६ ॥ सूत उवाच देवासुरं यथावृत्तं ब्रुवतस्तन्निबोधत ॥ २,७२.६७ ॥ हिरण्यकशिपुर्दैत्यस्त्रैलोक्यं प्राक्प्रशासति । बलिनाधिष्ठितं राज्यं पुनर्लोकत्रये क्रमात् ॥ २,७२.६८ ॥ सख्यमासीत्परं तेषां देवानामसुरैः सह । युगाख्या दश संपूर्णा ह्यासीदव्याहतं जगत् ॥ २,७२.६९ ॥ निदेशस्थायिनश्चैव तयोर्देवासुराभवन् । बद्धे बलौ विवादोऽथ संप्रवृत्तः सुदारुणः ॥ २,७२.७० ॥ देवासुराणां च तदा घोरः क्षयकरो महान् । तेषां द्वीपनिमित्तं वै संग्रामा बहवोऽभवेन् ॥ २,७२.७१ ॥ वराहेऽस्मिन्दश द्वौ च षण्डामर्कान्तगाः स्मृताः । नामतस्तु समासेन शृणुध्वं तान्विवक्षतः ॥ २,७२.७२ ॥ प्रथमो नारसिंहस्तु द्वितीयश्चापि वामनः । तृतीयः स तु वाराहश्चतुर्थोऽमृतमन्थनः ॥ २,७२.७३ ॥ संग्रामः पञ्चमश्चैव सुघोरस्तारकामयः । षष्ठो ह्याडीबकस्तेषां सप्तमस्त्रैपुरः स्मृतः ॥ २,७२.७४ ॥ अन्धकारोऽष्टमस्तेषां ध्वजश्च नवमः स्मृतः । वार्त्रश्च दशमो घोरस्ततो हालाहलः स्मृतः ॥ २,७२.७५ ॥ स्मृतो द्वादशकस्तेषां घोरः कोलाहलोऽपरः । हिरण्यकशिपुर्दैत्यो नरसिंहेन सूदितः ॥ २,७२.७६ ॥ वामनेन बलिर्बद्धस्त्रैलोक्याक्रमणे कृते । हिरण्याक्षो हतो द्वन्द्वे प्रतिवादे च दैवते ॥ २,७२.७७ ॥ महाबलो महासत्त्वः संग्रामेष्वपराजितः । दंष्ट्रया तु वराहेण स दैत्यस्तु द्विधाकृतः ॥ २,७२.७८ ॥ प्रह्लादो निर्जितो युद्धे इन्द्रेणामृतमन्थने । विरोचनस्तु प्राह्लादिर्नित्यमिन्द्रवधोद्यतः ॥ २,७२.७९ ॥ इन्द्रेणैव स विक्रम्य निहतस्तारकामये । भवादवध्यतां प्राप्य विशेषास्त्रादिभिस्तु यः ॥ २,७२.८० ॥ स जंभो निहतः षष्ठे शक्राविष्टेन विष्णुना । अशक्नुवत्सु देवेषु परं सोढुमदैवतम् ॥ २,७२.८१ ॥ निहता दानवाः सर्वे त्रिपुरे त्र्यंबकेण तु । अथ दैत्याः सुराश्चैव राक्षसास्त्वन्धकारिके ॥ २,७२.८२ ॥ जिता देवमनुष्येस्ते पितृभिश्चैव संगताः । सवृत्रान्दानवांश्चैव संगतान्कृत्स्नशश्च तान् ॥ २,७२.८३ ॥ जघ्ने विष्णुसहायेन महेन्द्रस्तेन वर्द्धितः । हतो ध्वजे महेन्द्रेण मयाछत्रश्च योगवित् ॥ २,७२.८४ ॥ ध्वजलक्षं समाविश्य विप्रचित्तिः महानुजः । दैत्यांश्च दानवांश्चैव संहतान्कृत्स्नशश्च तान् ॥ २,७२.८५ ॥ जयद्धालाहले सर्वैर्देवैः परिवृतो वृषा । रजिः कोलाहले सर्वान्दैत्यान्परिवृतोऽजयत् ॥ २,७२.८६ ॥ यज्ञस्यावभृथे जित्वा षण्डामकारै तु दैवतैः । एते देवासुरा वृत्ताः संग्रामा द्वादशैव तु ॥ २,७२.८७ ॥ सुरासुरक्षयकराः प्रजाना मशिवश्च ह । हिरण्यकशिपू राजा वर्षाणामर्बुदं बभौ ॥ २,७२.८८ ॥ तथा शतसहस्राणि ह्यधिकानि द्विसफतिः । अशीतिश्च सहस्राणि त्रैलोक्यस्येश्वरोऽभवत् ॥ २,७२.८९ ॥ पारंपर्येण राजा तु बलिर्वर्षार्बुधं पुनः । षष्टिश्चैव सहस्राणि त्रिंशच्च नियुतानि च ॥ २,७२.९० ॥ बले राज्याधिकारस्तु यावत्कालं बभूव ह । प्रह्लादो निर्जितोऽभूच्च तावत्कालं सहासुरैः ॥ २,७२.९१ ॥ इन्द्रास्त्रयस्ते विख्याता ह्यसुराणां महौ जसः । दैत्यसंस्थमिदं सर्वमासीद्दशयुगं किल ॥ २,७२.९२ ॥ अशपत्तु ततः शुक्रो राष्ट्रं दशयुगं पुनः । त्रैलोक्यमिदमव्यग्रं महेन्द्रो ह्यभ्ययाद्बलेः ॥ २,७२.९३ ॥ प्रह्लादस्य हृते तस्मिंस्त्रैलोक्ये कालपर्ययात् । पर्यायेणैव संप्राप्तं त्रैलोक्यं पाकशासनम् ॥ २,७२.९४ ॥ ततोऽसुरान्परित्यज्य यज्ञो देवानुपागमत् । यज्ञे देवानथ गते काव्यं ते ह्यसुरां ब्रुवन् ॥ २,७२.९५ ॥ किं तन्नो मिषतां राष्ट्रं त्यक्त्वा यज्ञः सुरान्गतः । स्थातुं न शक्रुमो ह्यद्य प्रविशाम रसातलम् ॥ २,७२.९६ ॥ एवमुक्तोऽब्रवीदेतान्विषण्णः सांत्वयन्गिरा । माभैष्ट धारयिष्यामि तेजसा स्वेन वः सुराः ॥ २,७२.९७ ॥ वृष्टिरोषधयश्चैव रसा वस्तु च यत्परम् । कृत्स्नानि ह्यपि तिष्ठन्तु पापस्तेषां सुरेषु वै ॥ २,७२.९८ ॥ युष्मदर्थं प्रदास्यामि तत्सर्व धार्यते मया । ततो देवासुरान्दृष्ट्वा धृतान्काव्येन धीमता ॥ २,७२.९९ ॥ अमन्त्रयंस्तदा ते वै संविघ्ना विजिगीषया । एष काव्य इदं सर्वं व्यावर्त्तयति नो बलात् ॥ २,७२.१०० ॥ साधु गच्छामहे तूर्णं यावन्नाप्याययेत्तु तान् । प्रसह्य हत्वा शिष्टांस्तु पातालं प्रापयामहे ॥ २,७२.१०१ ॥ ततो देवास्तु संरब्धा दानवानभिसृत्य वै । जघ्नुस्तैर्वध्यमानास्ते काव्यमेवाभिदुद्रुवुः ॥ २,७२.१०२ ॥ ततः काव्यस्तु तान्दृष्ट्वा तूर्णं देवैरभिद्रुतान् । समारक्षत संत्रस्तान्देवेभ्यस्तान्दितेः सुतान् ॥ २,७२.१०३ ॥ काव्यो दृष्ट्वा स्थितान्देवांस्तत्र दैवमचिन्तयत् । तानुवाच ततो ध्यात्वा पूर्ववृत्तमनुस्मरन् ॥ २,७२.१०४ ॥ त्रैलोक्यं विजितं सर्वं वामनेन त्रिभिःक्रमैः । बलिर्बद्धो हतो जंभो निहतश्च विरोचनः ॥ २,७२.१०५ ॥ महासुरा द्वादशसु संग्रामेषु सुरैर्हताः । तैस्तैरुपायैर्भूयिष्ठा निहता ये प्रधानतः ॥ २,७२.१०६ ॥ किञ्चिच्छिष्टास्तु वै यूयं युद्धे स्वल्पे तु वै स्वयम् । नीतिं वो हि विधास्यामि कालः कश्चित्प्रतीक्ष्यताम् ॥ २,७२.१०७ ॥ यास्याम्यहं महादेवं मन्त्रार्थे विजयाय च । अग्निमाप्याययेद्धोता मेत्रैरेष दहिष्यति ॥ २,७२.१०८ ॥ ततो यास्याम्यहं देवं मन्त्रार्थे नीललोहितम् । युष्माननुग्रहीष्यामि पुनः पश्चादिहागतः ॥ २,७२.१०९ ॥ यूयं तपश्चरध्वं वै संवृता वल्कलैर्वने । न वै देवा वाधिष्यन्ति यावदागमनं मम ॥ २,७२.११० ॥ अप्रतीपांस्ततो मन्त्रान्देवात्प्राप्य महेश्वरात् । योत्स्यामहे पुनर्देवांस्ततः प्राप्स्यथ वै जयम् ॥ २,७२.१११ ॥ ततस्ते कृतसंवादा देवानूचुस्ततोऽसुराः । न्यस्तशस्त्रा वयं सर्वे लोकान्यूयं क्रमन्तु वै ॥ २,७२.११२ ॥ वयं तपश्चरिष्यामः संवृत्ता वल्कलैर्वने । प्रह्लादस्य वचः श्रुत्वा सत्यानुव्यात्दृतं तु तत् ॥ २,७२.११३ ॥ ततो देवा न्यवर्त्तन्त विज्वरा मुदिताश्च ह । न्यस्तशस्त्रेषु दैत्येषु स्वान्वै जग्मुर्यथागतान् ॥ २,७२.११४ ॥ ततस्तानब्रवीत्काव्यः कञ्चित्कालं प्रतीक्ष्यताम् । निरुत्सुकास्तपोयुक्ताः कालः कार्यार्थसाधकः ॥ २,७२.११५ ॥ पितुर्ममाश्रमस्था वै संप्रतीक्षत दानवाः । स संदिश्यसुरान्काव्यो महोदेवं प्रपद्य च ॥ २,७२.११६ ॥ प्रणम्यैवमुवाचायं जगत्प्रभवमीश्वरम् । मन्त्रानिच्छामि हे देव ये न संति बृहस्पतौ ॥ २,७२.११७ ॥ पराभवाय देवानामसुरेष्वभयावहान् । एवमुक्तोऽब्रवीद्देवो मन्त्रानिच्छसि वै द्विज ॥ २,७२.११८ ॥ व्रतं चर मयोद्दिष्टं ब्रह्मचारी समाहितः । पूर्मं वर्षसहस्रं वै कुण्डधूममवाक्शिराः ॥ २,७२.११९ ॥ यदि पास्यति भद्रं ते मत्तो मन्त्रमवाप्स्यसि । तथोक्तो देवदेवेन स शुक्रस्तु महातपाः ॥ २,७२.१२० ॥ पादौ संस्पृश्य देवस्य बाढमित्यभाषत । व्रतं चराम्यहं देव यथोद्दिष्टोऽस्मि वैप्रभो ॥ २,७२.१२१ ॥ ततो नियुक्तो देवेन कुण्डधारोऽस्य धूमकृत् । असुराणां हितार्थाय तस्मिञ्छुक्रे गते तदा ॥ २,७२.१२२ ॥ मन्त्रार्थं तत्र वसति ब्रह्म चर्यं महेश्वरे । तद्बुद्ध्वा नीतिपूर्वं तु राष्ट्रं न्यस्तं तदासुरैः ॥ २,७२.१२३ ॥ तस्मिञ्छिद्रे तदामर्षाद्देवास्तान्समभिद्रवन् । प्रगृहीतायुधाः सर्वे बृहस्पतिपुरोगमाः ॥ २,७२.१२४ ॥ दृष्ट्वासुरगणा देवान्प्रगृहीतायुधान्पुनः । उत्पेतुः सहसा सर्वे संत्रस्तास्ते ततोऽभवन् ॥ २,७२.१२५ ॥ न्यस्ते शस्त्रेऽभये दत्ते ह्याचार्ये व्रतमास्थिते । संत्यज्य समयं देवास्ते सपत्नजिघांसवः ॥ २,७२.१२६ ॥ अनाचार्यास्तु भद्रं वो विश्वस्तास्तपसे स्थिताः । चीरवल्काजिनधरा निष्क्रिया निष्परिग्रहाः ॥ २,७२.१२७ ॥ रणे विजेतुं देवान्वै न शक्ष्यामः कथञ्चन । अयुद्धेन प्रपद्यामः शरणं काव्यमातरम् ॥ २,७२.१२८ ॥ प्रापद्यन्त ततो भीतास्तया चैव तदाभयम् । दत्तं तेषां तु भीतानां दैत्यानामभयार्थिनाम् ॥ २,७२.१२९ ॥ तया चाभ्युपपन्नांस्तान्दृष्ट्वा देवास्तदासुरान् । अभिजघ्नुः प्रसह्यैतान्विचार्य च बलाबलम् ॥ २,७२.१३० ॥ तत स्तान्वध्यमानांस्तु देवैर्दृष्ट्वासुरांस्तदा । देवी क्रुद्धाब्रवीदेनाननिन्द्रत्वं करोम्यहम् ॥ २,७२.१३१ ॥ संस्तभ्य शीघ्रं संरंभादिन्द्रं साभ्यचरत्ततः । ततः संस्तंभितं दृष्ट्वा शक्रं देवास्तु मूढवत् ॥ २,७२.१३२ ॥ व्यद्रवन्त ततो भीता दृष्ट्वा शक्रं वशीकृतम् । गतेषु सुरसंघेषु विष्मुरिन्द्रमभाषत ॥ २,७२.१३३ ॥ मां त्वं प्रविश भद्रं ते नेष्यामि त्वां सुरेश्वर । एवमुक्तस्ततो विष्णुः प्रविवेश पुरन्दरः ॥ २,७२.१३४ ॥ विष्मुना रक्षितं दृष्ट्वा देवी क्रुद्धा वचोऽवदत् । एषा त्वां विष्णुना सार्द्ध दहामि मघवन्बलात् ॥ २,७२.१३५ ॥ मिषता सर्वभूतानां दृश्यतां मे तपोबलम् । तयाभिभूतौ तौ देवाविन्द्राविष्णू जजल्पतुः ॥ २,७२.१३६ ॥ कथं मुच्येव सहितौ विष्णुरिन्द्रमभाषत । इन्द्रोऽब्रवीज्जहि ह्येनां यावन्नो न दहे द्विभो ॥ २,७२.१३७ ॥ विशेषेणाभिभूतोऽहमिमां तज्जहि माचिरम् । ततः समीक्ष्य तां विष्णुः स्त्रीवधं कर्त्तुमास्थितः ॥ २,७२.१३८ ॥ अभिध्याय ततश्शक्रमापन्नं सत्वरं प्रभुः । तस्याः संत्वरमाणायाः शीघ्रङ्कारी मुरारिहा ॥ २,७२.१३९ ॥ त्रिधा विष्णुस्ततो देवः क्रूरं बुद्ध्वा चिकीर्षितम् । क्रुद्धस्तदस्त्रमाविध्य शिरश्चिच्छेद माधवः ॥ २,७२.१४० ॥ तं दृष्ट्वा स्त्रीवधं घोरं चुकोप भृगुरीश्वरः । ततोऽभिशप्तो भृगुणा विष्णुर्भार्यावधे तदा ॥ २,७२.१४१ ॥ यस्मात्ते जानता धर्ममवध्या स्त्री निषूदिता । तस्मात्त्वं सप्तकृत्वो वै मनुष्येषु प्रपद्यसे ॥ २,७२.१४२ ॥ ततस्तेनाभिशापेन नष्टे धर्मे पुनः पुनः । सर्वलोक हितार्थाय जायते मानुषेष्विह ॥ २,७२.१४३ ॥ अनुव्याहृत्य विष्मुं स तदादाय शिरः स्वयम् । समानीय ततः काये समायोज्येदमब्रवीत् ॥ २,७२.१४४ ॥ एतां त्वां विष्णुना सत्यं हतां संजीवयाम्यहम् । यदि कृत्स्नो मया धर्मश्चरितो ज्ञायतेऽपि वा ॥ २,७२.१४५ ॥ तेन सत्येन जीवस्व यदि सत्यं ब्रवीम्यहम् । सत्याभिव्यहृतात्तस्य देवी संजीविता तदा ॥ २,७२.१४६ ॥ तदा तां प्रोक्ष्य शीताभिरद्भिर्जीवेति सोऽब्रवीत् । ततस्तां सर्वभूतानां दृष्ट्वा सुप्तोत्थितामिव ॥ २,७२.१४७ ॥ साधुसाध्वित्यदृश्यानां वाचस्ताः सस्वनुर्दिशः । दृष्ट्वा संजीवितामेवं देवीं तां भृगुणा तदा ॥ २,७२.१४८ ॥ मिषतां सर्वभूतानां तदद्भुतमिवाभवत् । असंभ्रान्तेन भृगुणा पत्नी संजीवितां ततः ॥ २,७२.१४९ ॥ दृष्ट्वा शक्रो न लेभेऽथ शर्म काव्यभयात्ततः । प्रजागरे ततश्चेन्द्रो जयन्तीमात्मनः सुताम् ॥ २,७२.१५० ॥ प्रोवाच मतिमान्वाक्यं स्वां कन्यां पाकशासनः । एष काव्यो ह्यनिन्द्राय चरते दारुणं तपः ॥ २,७२.१५१ ॥ तेनाहं व्याकुलः पुत्रि कृतो धृतिमना दृढम् । गच्छ संभावयस्वैनं श्रमापनयनैः शुभे ॥ २,७२.१५२ ॥ तैस्तैर्मनोऽनुकूलैश्च ह्युपचारैरतद्रिता । देवी सारीन्द्रदुहिता जयन्ती शुभचारिणी ॥ २,७२.१५३ ॥ सुस्वरूपधरागात्तं दुर्वहं व्रतमास्थितम् । पित्रा यथोक्तं वाक्यं सा काव्ये कृतवती तदा ॥ २,७२.१५४ ॥ गीर्भिश्चैवानुकूलाभिः स्तुवन्ती वल्गुभाषिणी । गात्रसंवाहनैः काले सेवमाना त्वचासुखैः ॥ २,७२.१५५ ॥ शुश्रूषन्त्यनुकूला च उवास बहुलाः समाः । पूर्णं धूमव्रते चापि घोरे वर्षसहस्रके ॥ २,७२.१५६ ॥ वरेण च्छन्दयामास काव्यं प्रीतोऽभवस्तदा । एवं व्रतं त्वयैकेन चीर्णं नान्येन केन चित् ॥ २,७२.१५७ ॥ तस्मात्त्वं तपसा बुद्ध्या श्रुतेन च बलेन च । तेजसा वापि विबुधान्सर्वानभिभविष्यसि ॥ २,७२.१५८ ॥ यच्च किञ्चिन्ममब्रह्म विद्यते भृगुनन्दन । सांग च सरहस्यं च यज्ञोपनिषदस्तथा ॥ २,७२.१५९ ॥ प्रतिभाति ते सर्वं तद्वाच्यं तु न कस्यचित् । सर्वाभिभावी तेन त्वं द्विजश्रेष्ठो भविष्यसि ॥ २,७२.१६० ॥ एवं दत्त्वा वरं तस्यै भार्गवाय भवः पुनः । प्रजेशत्वं धनेशत्वमवध्यत्वं च वै ददौ ॥ २,७२.१६१ ॥ एतांल्लब्ध्वा वरान्काव्यः संप्रहृष्टतनूरुहः । हर्षात्प्रादुर्बभौ तस्य दिव्यं स्तोत्रं महेशितुः ॥ २,७२.१६२ ॥ तदा तिर्यक्स्थितस्त्वेवं तुष्टुवे नीललोहितम् । नमोऽस्तु शितिकण्ठाय सुराद्याय सुवर्चसे ॥ २,७२.१६३ ॥ लेलिहानाय लेह्याय वत्सराय जगत्पते । कपर्दिने ह्यूर्द्ध्वरोम्णे हर्यक्षवरदाय च ॥ २,७२.१६४ ॥ संस्तुताय सुतीर्थाय देवदेवाय रंहसे । उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे ॥ २,७२.१६५ ॥ वसुरेताय रुद्राय तपसे चीरवाससे । निस्वाय मुक्तकेशाय सेनान्ये रोहिताय च ॥ २,७२.१६६ ॥ कवये राजवृद्धाय तक्षकक्रीडनाय च । गिरिशायार्कनेत्राय यतये चाज्यपाय च ॥ २,७२.१६७ ॥ सुवृत्ताय सुहस्ताय धन्विने भार्गवाय च । सहस्रबाहवे चैव सहस्रामलचक्षुषे ॥ २,७२.१६८ ॥ सहस्रकुक्षये चैव सहस्रचरणाय च । सहस्रशिरसे चैव बहुरूपाय वेधसे ॥ २,७२.१६९ ॥ भवाय विश्वरूपाय श्वेताय पुरुषाय च । निषङ्गिणे कवचिने सूक्ष्माय क्षपणाय च ॥ २,७२.१७० ॥ ताम्राय चैव भीमाय उग्राय च शिवाय च । महादेवाय सर्वाय विश्वरूपशिवाय च ॥ २,७२.१७१ ॥ हिरण्याय वसिष्ठाय वर्षाय मध्यमाय च । धाम्ने चैव पिशङ्गाय पिङ्गलायारुणाय च ॥ २,७२.१७२ ॥ पिनाकिने चेषुमते चित्राय रोहिताय च । दुन्दुभ्यायैकपादाय अर्हाय बुद्धये तथा । मृगव्याधाय सर्वाय स्थाणवे भीषणाय च ॥ २,७२.१७३ ॥ बहुरूपाय चोग्राय त्रिनेत्रायेश्वराय च । कपिलोयैकवीराय मृत्यवे त्र्यंबकाय च ॥ २,७२.१७४ ॥ वास्तोष्पते पिनाकाय शङ्कराय शिवाय च । आरण्याय गृहस्थाय यतिने बह्मचारिणे ॥ २,७२.१७५ ॥ सांख्याय चैव योगाय ध्यानिने दीक्षिताय च । अन्तर्हिताय सर्वाय तप्याय व्यापिने तथा ॥ २,७२.१७६ ॥ बुद्धाय चैव शुद्धाय मुक्ताय केवलाय च । रोधसे चैकितानाय ब्रह्मिष्ठाय महार्षये ॥ २,७२.१७७ ॥ चतुष्पादाय मेध्याय वर्मिणे शीघ्रगाय च । शिखण्डिने कपालाय दण्डिने विश्वमेधसे ॥ २,७२.१७८ ॥ अप्रतीताय दीप्ताय भास्कराय सुमेधसे । क्रूराय विकृतायैव बीभत्साय शिवाय च ॥ २,७२.१७९ ॥ शुचये परिधानाय सद्योजाताय मृत्यवे । पिशिताशाय शर्वाय मेघाय वैद्युताय च ॥ २,७२.१८० ॥ दक्षाय च जघन्याय लोकानामीश्वराय च । अनामयाय चेध्माय हिरण्यायैकचक्षुषे ॥ २,७२.१८१ ॥ श्रेष्ठाय वामदेवाय ईशानाय च धीमते । महाकल्पाय दीप्ताय रोदनाय हसाय च ॥ २,७२.१८२ ॥ दृढधन्विने कवचिने रथिने च वरूथिने । भृगुनाथाय शुक्राय गह्वरिष्ठाय धीमते ॥ २,७२.१८३ ॥ अमोघाय प्रशान्ताय सदा विप्रप्रियाय च । दिग्वासः कृत्तिवासाय भगघ्नाय नमोऽस्तु ते ॥ २,७२.१८४ ॥ पशूनां पतये चैव भूतानां पतये नमः । प्रभवे ऋग्यजुःसाम्ने स्वाहायै च सुधाय च ॥ २,७२.१८५ ॥ वषट्कारतमायैव तुभ्यं मन्त्रात्मने नमः । स्रष्ट्रे धात्रे तथा कर्त्रे हर्त्रे च क्षपणाय च ॥ २,७२.१८६ ॥ भूतभव्यभवेशाय तुभ्यं कर्मात्मने नमः । वसवे चैव साध्याय रुद्रादित्याश्विनाय च ॥ २,७२.१८७ ॥ विश्वाय मरुते चैव तुभ्यं देवात्मने नमः । अग्नीषोमविधिज्ञाय पशुमन्त्रौ षधाय च ॥ २,७२.१८८ ॥ दक्षिणावभृथायैव तुभ्यं यज्ञात्मने नमः । तपसे चैव सत्याय त्यागाय च शमाय च ॥ २,७२.१८९ ॥ अहिंसायाथ लोभाय सुवेषायानिशाय च । सर्वभूतात्प्रभूताय तुभ्यं योगात्मने नमः ॥ २,७२.१९० ॥ पृथिव्यै चान्तरिक्षाय महासे त्रिदिवाय च । जनस्तपाय सत्याय तुभ्यं लोकात्मने नमः ॥ २,७२.१९१ ॥ अव्यक्तायाथ महते भूतायैवेन्द्रियाय च । तन्मात्रायाथ महते तुभ्यं तत्त्वात्मने नमः ॥ २,७२.१९२ ॥ नित्याय चाप्यलिङ्गाय सूक्ष्माय चेतराय च । शुद्धाय विभवे चैव तुभ्यं नित्यात्मने नमः ॥ २,७२.१९३ ॥ नमस्ते त्रिषु लोकेषु स्वरन्तेषु भुवादिषु । सत्यान्तमहराद्येषु चतुर्षु च नमोऽस्तु ते ॥ २,७२.१९४ ॥ नामस्तोत्रे मया ह्यस्मिन्यदसद्व्याहृतं प्रभो । मद्भक्त इतिब्रह्मण्य सर्वं तत्क्षन्तुमर्हसि ॥ २,७२.१९५ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे स्तवसमाप्तिर्नाम द्विसप्ततितमोऽध्यायः ॥ ७२॥ _____________________________________________________________ सूत उवाच एवमाराध्य देवेशमीशानं नीललोहितम् । प्रह्वोऽतिप्रणतस्तस्मै प्राञ्जलिर्वाक्यमब्रवीत् ॥ २,७३.१ ॥ काव्यस्य गात्रं संस्पृश्य हस्तेन प्रीतिमान्भवः । निकामं दर्शनं दत्त्वा तत्रैवान्तरधाद्धरः ॥ २,७३.२ ॥ ततः सोऽतर्हिते तास्मिन्देवे सानुचरे तदा । तिष्ठन्तीं प्राजलिर्भूत्वा जयन्तीमिदमब्रवीत् ॥ २,७३.३ ॥ कस्य त्वं सुभगे का वा दुःखिते मयि दुःखिता । सहता तपसा युक्तं किमर्थं मां जिगीष्सि ॥ २,७३.४ ॥ अनया सततं भक्त्या प्रश्रयेण दमेन च । स्नेहेन चैव सुश्रोणि प्रीतोऽस्मि वरवर्णिनि ॥ २,७३.५ ॥ किमिच्छसि वरारोहे कस्ते कामः समृद्ध्यताम् । तं ते संपूरयाम्यद्य यद्यपि स्यात्सुदुर्लभः ॥ २,७३.६ ॥ एवमुक्ताब्रवीदेनं तपसा ज्ञातुमर्हसि । चिकीर्षितं मे ब्रह्मिष्ठ त्वं हि वेत्थ यथातथम् ॥ २,७३.७ ॥ एवमुक्तोऽब्रवीदेनां दृष्ट्वा दिव्येन चक्षुषा । माहेन्द्री त्वं वरारोहे मद्धितार्थमिहागता ॥ २,७३.८ ॥ मया सह त्वं सुश्रोणि दशवर्षाणि भामिनि । अदृश्यं सर्वभूतैस्तु संप्रयोगमिहेच्छसि ॥ २,७३.९ ॥ देवीन्द्रनीलवर्णाभेवरारोहे सुलोचने । इमं वृणीष्व कामं त्वं मत्तो वै वल्गुभाषिणि ॥ २,७३.१० ॥ एवं भवतु गच्छावो गृहान्मत्तेभगामिनि । ततः स्वगृहमागम्य जयत्या सहितः प्रभुः ॥ २,७३.११ ॥ स तया चावसद्देव्या दश वर्षाणि भार्गवः । अदृश्यः सर्वभूतानां मायया संवृतस्तदा ॥ २,७३.१२ ॥ कृतार्थमामतं ज्ञातवा काव्यं सर्वे दितेः सुताः । अभिजग्सुर्गृहं तस्य मुदितास्तं दिदृक्षवः ॥ २,७३.१३ ॥ गता यदा न पश्यन्ति जयत्या संवृतं गुरुम् । लक्षमं तस्य तद्बुद्ध्वा प्रतिजग्मुर्यथागतम् ॥ २,७३.१४ ॥ बृहस्पतिस्तु संरुद्धं ज्ञात्वा काव्यं वरेण ह । प्रीत्यर्थे दश वर्षाणि जयन्त्या हितकाम्यया ॥ २,७३.१५ ॥ बुद्ध्वा तदन्तरं सोऽथ देवानां मन्त्रचोदितः । काव्यस्य रूपमास्थाय सोऽसुरान्समभाषत ॥ २,७३.१६ ॥ ततः सोऽभ्यागतान्दृष्ट्वा बृहस्पतिरुवाच तान् । स्वागतं मम याज्यानां संप्राप्तोऽस्मि हिताय च ॥ २,७३.१७ ॥ अहं वोऽध्यापयिष्यामि प्राप्ता विद्या मया हि याः । ततस्ते हृष्टमनसो विद्यार्थमुपपेदिरे ॥ २,७३.१८ ॥ पूर्णे काव्यस्तदा तस्मिन्समये दशवार्षिके । समयान्ते देवयाजी सद्यो जातमतिस्तदा ॥ २,७३.१९ ॥ बुद्धिं चक्रे ततश्चापि याज्यानां प्रत्यवेक्षणे । शुक्र उवाच देवि गच्छाम्यहं द्रष्टुं तव याज्याञ्छुचिस्मिते ॥ २,७३.२० ॥ विभ्रान्तप्रेक्षिते साध्वि त्रिवर्णायतलोचने । एवमुक्ताब्रवीद्देवी भज भक्तां महाव्रत । एष ब्रह्मन्सतां धर्मो न धर्मं लोपयामि ते ॥ २,७३.२१ ॥ सूत उवाच ततो गत्वा सुरान्दृष्ट्वा देवाचार्येण धीमता ॥ २,७३.२२ ॥ वञ्चितान्काव्यरूपेण वचसा पुनरब्रवीत् । काव्यं मामनुजानीध्वमेष ह्याङ्गिरसो मुनिः ॥ २,७३.२३ ॥ वञ्चिता बत यूयं वै मयि सक्ते तु दानवाः । श्रुत्वा तथा ब्रुवाणं तं संभ्रान्ता दितिजास्ततः ॥ २,७३.२४ ॥ संप्रैक्षन्तावुभौ तत्र स्थिरासीनौ शुचिस्मितौ । संप्रमूढाः स्थिताः सर्वे प्रापद्यन्त न किञ्चन ॥ २,७३.२५ ॥ ततस्तेषु प्रमूढेषु काव्यस्तान्पुनरब्रवीत् । आचार्यो यो ह्ययं काव्यो देवायार्योऽयमङ्गिराः ॥ २,७३.२६ ॥ अनुगच्छत मां सर्वे त्यजतैनं बृहस्पतिम् । एवमुक्ते तु ते सर्वे तावुभौ समवेक्ष्य च ॥ २,७३.२७ ॥ तदासुरा विशेष तु न व्यजानंस्तयोर्द्वयोः । बृहस्पतिरुवाचैनामं भ्रातोऽयमङ्गिराः ॥ २,७३.२८ ॥ काव्योऽहं वो गुरुर्दैत्या मद्रूपोऽयं बृहस्पतिः । संमोहयति रूपेण मामकेनैष वोऽसुराः ॥ २,७३.२९ ॥ श्रुत्वा तस्य वचस्ते वै संमन्त्र्याथ वचोऽब्रुवन् । अयं नो दशवर्षाणि सततं शास्ति वै प्रभुः ॥ २,७३.३० ॥ एष वै गुरुरस्माकमन्तरेप्सुरयं द्विजाः । ततस्तेदानवाः सर्वे प्रणिपत्याभिवाद्य च ॥ २,७३.३१ ॥ वचनं जगृहुस्तस्य विद्याभ्यासेन मोहिताः । ऊचुस्तमसुराः सर्वे क्रुद्धाः संरक्तलोचनाः ॥ २,७३.३२ ॥ अयं गुरुर्हितोऽस्माकं गच्छ त्वं नासि नो गुरुः । भार्गवोऽगिरसो वायं भवत्वेषैव नो गुरुः ॥ २,७३.३३ ॥ स्थिता वयं निदेशेऽस्य गच्छ त्वं साधु मा चिरम् । एवमुक्त्वा सुराः सर्वे प्रापद्यन्त बृहस्पतिम् ॥ २,७३.३४ ॥ यदा न प्रतिपद्यन्ते तेनोक्तं तन्महद्धितम् । चुकोप भार्गवस्ते षामवलेपेन वै तदा ॥ २,७३.३५ ॥ बोधितापि मया यस्मान्न मां भजत दानवाः । तस्मात्प्रणष्टसंज्ञा वै पराभवमवाप्स्यथ ॥ २,७३.३६ ॥ इति व्याहृत्य तान्काव्यो जगामाथ यथागतम् । शप्तांस्तानसुराञ्ज्ञात्वा काव्येन तु बृहस्पतिः ॥ २,७३.३७ ॥ कृतार्थः स तदा हृष्टः स्वरूपं प्रत्यपद्यत । बुद्ध्वासुरांस्तदा ब्रष्टान्कृतार्थोंऽतर्द्धिमागमत् ॥ २,७३.३८ ॥ ततः प्रनष्टे तस्मिंस्ते विभ्रान्ता दानवास्तदा । अहो धिग्वञ्चिताः स्नेहात्परस्परमथाब्रुवन् ॥ २,७३.३९ ॥ धर्मतोऽविमुखाश्चैव कारिता वेधसा वयम् । दग्धाश्चैवोपधायोगात्स्वेस्वे कार्ये तु मायया ॥ २,७३.४० ॥ ततोऽसुराः परित्रस्ता देवेभ्यस्त्वरिता ययुः । प्रह्लादमग्रतः कृत्वा काव्यस्यानुगमं पुनः ॥ २,७३.४१ ॥ ततः काव्यं समासाद्य ह्यभितस्थु रवाङ्मुखाः । तानागतान्पुनर्दृष्ट्वा काव्यो याज्यानुवाच ह ॥ २,७३.४२ ॥ मया संबोधिताः काले यतो मां नाभ्यनन्दथ । ततस्तेनावलेपेन गता यूयं पराभवम् ॥ २,७३.४३ ॥ प्रह्लादस्तमथोवाच मानस्त्वं त्यज भार्गव । स्वान्याज्यान्भजमानांश्च भक्तांश्चैव विशेषतः ॥ २,७३.४४ ॥ त्वय्यदृष्टे वयं तेन देवाचार्येण मोहिताः । भक्तानर्हसि नस्त्रातुं ज्ञात्वा दीर्घेण चक्षुषा ॥ २,७३.४५ ॥ यदि नस्त्वं न कुरुषे प्रसादं भृगुनन्दन । अपध्यातास्त्वया ह्यद्य प्रवेक्ष्यामोरसातलम् ॥ २,७३.४६ ॥ सूत उवाच ज्ञात्वा काव्यो यथातत्त्वं कारुण्येन महीयसा । एवं शुक्रोऽनुनीतः संस्ततः कोपं न्यवर्त्तयत् ॥ २,७३.४७ ॥ उवाचेदं न भेतव्यं गन्तव्यं न रसातलम् । अवश्यंभावीह्यर्थोऽयं प्राप्तो वो मयि जाग्रति ॥ २,७३.४८ ॥ न शक्यमन्यथाकर्त्तुं दिष्टं हि बलवत्तरम् । संज्ञा प्रनष्टा या चेयं कामं तां प्रतिलप्स्यथ ॥ २,७३.४९ ॥ प्राप्तः पर्यायकालो वा इति ब्रह्माभ्यभाषत । मत्प्रसादाच्च युष्माभिर्भुक्तं त्रैलोक्यमूर्ज्जितम् ॥ २,७३.५० ॥ युगाख्या दश संपूर्णा देवानाक्रम्य मूर्द्धनि । तावन्तमेव कालं वै ब्रह्मा राज्यमभाषत ॥ २,७३.५१ ॥ सावर्णिके पुनस्तुभ्यं राज्यं किल भविष्यति । लोकानामीश्वरो भावी पौत्रस्तव पुनर्बलिः ॥ २,७३.५२ ॥ एवं कालमयं प्रोक्तः पौत्रस्ते ब्रह्मणा स्वयम् । तथाहृतेषु लोकेषु न शोको न किलाभवत् ॥ २,७३.५३ ॥ यस्मात्प्रवृत्तयश्चास्य न कामैरभिसंधिताः । तस्मादजेन प्रीतेन दत्तं सावर्णिकेऽन्तरे ॥ २,७३.५४ ॥ देवराज्यं बलेर्भाव्यमिति मामीश्वरोऽब्रवीत् । तस्माददृश्यो भूतानां कालाकाङ्क्षी स तिष्ठति ॥ २,७३.५५ ॥ प्रीतेन चामरत्वं वै दत्तं तुभ्यं स्वयंभुवा । तस्मान्निरुत्सुकस्त्वं वै पर्यायं सहसाकुलः ॥ २,७३.५६ ॥ न च शक्यं मया तुभ्यं पुर स्ताद्वै विसर्पितुम् । ब्रह्मणा प्रतिषिद्धोऽस्मि भविष्यं जानता प्रभो ॥ २,७३.५७ ॥ इमौ च शिष्यौ द्वौ मह्यं तुल्यावेतौ बृहस्पतेः । दैवतैः सह संरब्धान्सर्वान्वो धारयिष्यतः ॥ २,७३.५८ ॥ सूत उवाच एवमुक्तास्तु दैतेया काव्येनाक्लिष्टकर्मणा । ततस्ताभ्यां ययुः सार्द्धं प्रह्लादप्रमुखास्तदा ॥ २,७३.५९ ॥ अवश्यभाव्यमर्थं तं श्रुत्वा दैतेयदानवाः । सहसा शंसमानास्ते जयं काव्येन भाषितम् ॥ २,७३.६० ॥ दंशिताः सायुधाः सर्वे ततो देवान्समाह्वयन् । अथ देवासुरान्दृष्ट्वा संग्रामे समुपस्थितान् ॥ २,७३.६१ ॥ ततः संवृतसन्नाहा देवास्तान्समयोधयन् । देवासुरे ततस्तस्मिन्वर्त्तमाने शतं समाः । अजयन्तासुरा देवान्नग्रा देवा अमन्त्रयन् ॥ २,७३.६२ ॥ देवा ऊचुः शण्डामर्कप्रभावेण जिताः स्मस्त्वसुरैर्वयम् । तस्माद्यज्ञं समुद्दिश्य कार्यं चात्महितं च यत् ॥ २,७३.६३ ॥ यज्ञेनोपाह्वयिष्यामस्ततो जेष्यामहेऽसुरान् । अथोपामन्न्रयन्देवाः शण्डामकारै तु तावुभौ ॥ २,७३.६४ ॥ यज्ञे चाहूय तौ प्रोक्तौ त्यजन्तामसुरा द्विजौ ॥ २,७३.६५ ॥ ग्रहं तु वां ग्रहीष्यामो ह्यनुजित्य तु दानवान् । एवं तत्यजतुस्तौ तु षण्डामकारै तदा सुरान् ॥ २,७३.६६ ॥ ततो देवा जयं प्राप्ता दानवाश्च पराभवम् । देवासुरान्पराभाव्य शण्डामर्कावुपागमन् ॥ २,७३.६७ ॥ काव्यशापभिभूताश्च अनाधाराश्च ते पुनः । बाध्यमानास्तदा देवैर्विविशुस्ते रसातलम् ॥ २,७३.६८ ॥ एवं निरुद्यमास्ते वै कृता शक्रेण दानवाः । ततः प्रभृति शापेन भृगुनैमित्तिकेन च ॥ २,७३.६९ ॥ यज्ञे पुनः पुनर्विष्णुर्यज्ञेऽथ शिथिले प्रभुः । कर्तुं धर्मव्यवस्थान मधर्मस्य प्रणाशनम् ॥ २,७३.७० ॥ प्रह्नादस्य निदेशे तु येऽसुरा न व्यवस्थिताः । मनुष्यवध्यांस्तान्सर्वान्ब्रह्मा व्याहरत प्रभुः ॥ २,७३.७१ ॥ धर्मान्नारायणस्तस्मात्संभूतश्चाक्षुषेऽन्तरे । यज्ञं प्रवर्त्तयामास वैन्यो वैवस्वतेऽन्तरे ॥ २,७३.७२ ॥ प्रादुर्भावे तु वैन्यस्य ब्रह्मैवासीत्पुरोहितः । चतुर्थ्यां तु युगाख्यायामापन्नेषु सुरेष्वथ ॥ २,७३.७३ ॥ संभुतः स समुद्रान्तर्हिरण्यकशिपोर्वधे । द्वितीयो नरसिंहोऽभूद्रौद्रः सुतपुरस्सरः ॥ २,७३.७४ ॥ यजमानं तु दैत्येन्द्रमदित्याः कुलनन्दनः । द्विजो भूत्वा शुभे काले बलिं वैरोचनं जगौ ॥ २,७३.७५ ॥ त्रैलोक्यस्य भवान्राजा त्वयि सर्वं प्रतिष्ठितम् । दातुमर्हसि मे राजन्विक्रमांस्त्रीनिति प्रभुः ॥ २,७३.७६ ॥ ददामीत्येव तं राजा बलिर्वैरोचनोऽब्रवीत् । वामनं तं च विज्ञाय ततोऽदान्मुदितः स्वयम् ॥ २,७३.७७ ॥ स वामनो दिवं खं च पृथिवीं च द्विजोत्तमाः । त्रिभिः क्रमैर्विश्वमिदं जगदाक्रामत प्रभुः ॥ २,७३.७८ ॥ अत्यरिच्यत भूतात्मा भास्करं स्वेन तेजसा । प्रकाशयन्दिशः सर्वाः प्रदिशश्च महायशाः ॥ २,७३.७९ ॥ शुशुभे स महाबाहुः सर्वलोकान्प्रकाशयन् । आसुरीं श्रियमाहृत्य त्रींल्लोकांश्च जनार्द्दनः ॥ २,७३.८० ॥ स पुत्रपौत्रानसुरान्पातालतलमानयन् । नमुचिः शंबरश्चैव प्रह्रादश्चैव विष्णुना ॥ २,७३.८१ ॥ क्रूरा हता विनिर्दूता दिशः संप्रतिपेदिरे । महाभूतानि भूतात्मा सविशेषाणि माधवः ॥ २,७३.८२ ॥ बलिं चं सबलं विप्रास्तत्राद्भुतमदर्शयत् । तस्य गात्रे जगत्सर्वमात्मानमनुपश्यति ॥ २,७३.८३ ॥ न किञ्चिदस्ति लोकेषु यदव्याप्तं महात्मना । तद्वै रूपमुपेन्द्रस्य देवादानवमानवाः ॥ २,७३.८४ ॥ दृष्ट्वा संमुमुहुः सर्वे विष्णुतेजोविमोहिताः । बलिः सितो महापाशैः सबन्धुः ससुत्दृद्गणः ॥ २,७३.८५ ॥ विरोचनकुलं सर्वं पाताले सन्निवेशितम् । ततः सर्वामरैश्वर्यं दत्त्वेन्द्राय महात्मने ॥ २,७३.८६ ॥ मानुषेषु महाबाहुः प्रादुरास जनार्द्दनः । एतास्तिस्रः समृतास्तस्य दिव्याः संभूतयः शुभाः ॥ २,७३.८७ ॥ मानुष्यः सप्त यास्तस्य साग्रगास्ता निबोधत । त्रेतायुगे तु दशमे दत्तात्रेयो बभूव ह ॥ २,७३.८८ ॥ नष्टे धर्मे चतुर्थश्च मार्कण्डेयपुः सरः । पञ्चमः पञ्चदश्यां तु त्रेतायां संबभूव ह ॥ २,७३.८९ ॥ मान्धाता चक्रवर्त्तित्वे तस्योतथ्यः पुरस्सरः । एकोनविंशयां त्रेतायां सर्वक्षत्रान्तकृद्विभुः ॥ २,७३.९० ॥ जामदग्न्यस्तदा षष्ठे विश्पामित्रपुरस्सरः । चतुर्विंशे युगे रामो वसिष्ठेन पुरोधसा ॥ २,७३.९१ ॥ सप्तमो रावणस्यार्थे जज्ञे दशरथात्मजः । अष्टमो द्वापरे विष्णुरष्टाविंशे पराशरात् ॥ २,७३.९२ ॥ वेदव्यासस्ततो जज्ञे जातूकर्ण्यपुरस्सरः । तथैव नवमे विष्णुरदित्याः कश्यपात्मजः ॥ २,७३.९३ ॥ देवक्यां वसुदेवात्तु जातो गार्ग्यपुरस्सरः । अप्रमेयो नियोगश्च यतकामवरो वशी ॥ २,७३.९४ ॥ क्रीडते भगवांल्लोके बालः क्रीडनकेरिव । न प्रमातुं महाबाहुं शक्योऽसौ मधुसूदनः ॥ २,७३.९५ ॥ परं ह्यवरमेतस्माद्विश्वरूपान्न विद्यते । अष्टाविंशतिके तद्वद्द्वापरस्याथ संक्षये ॥ २,७३.९६ ॥ नष्टे धर्मे तदा जज्ञे विष्णुर्वृष्णिकुले प्रभुः । कर्तुं धर्मव्यवस्थानमसुराणां प्रणाशनम् । माहयन्सर्वभूतानि योगात्मा योगमायया ॥ २,७३.९७ ॥ प्रविष्टो मानुषीं योनिं प्रच्छन्नश्चरते महीम् ॥ २,७३.९८ ॥ विहारार्थं मनुष्येषु सांदीपनिपुरस्सरः । यत्र कंसं च शाल्वं च द्विविदं च महासुरम् ॥ २,७३.९९ ॥ अरिष्ठं वृषभं चैव पूतनां केशिनं हयम् । नागं कुवलयापीडं मल्लं राजगृहाधिपम् ॥ २,७३.१०० ॥ दैत्यान्मानुषदेहस्थान्सूदयामास वीर्यवान् । छिन्नं बाहुसहस्रं च बाणस्याद्भुतकर्मणा ॥ २,७३.१०१ ॥ नरकश्च हतः संख्ये यवनश्च महाबलः । हृतानि च महीपानां सर्वरत्नानि तेजसा ॥ २,७३.१०२ ॥ कुरुवीराश्च निहताः पार्थिवा ये रसातले । एते लोकहितार्थाय प्रादुर्भावा महात्मनः ॥ २,७३.१०३ ॥ अस्मिन्नेव युगे क्षीणे संध्याशिष्टे भविष्यति । कल्किर्विष्णुयशा नाम पाराशर्यः प्रतापवान् ॥ २,७३.१०४ ॥ दशमो भाव्यसंभूतो याज्ञवल्क्यपुरस्सरः । अनुकर्षन्स वै सेनां हस्त्यश्वरथसंकुलाम् ॥ २,७३.१०५ ॥ प्रगृहीतायुधैर्विप्रैर्वृतः शतसहस्रशः । नात्यर्थं धार्मिका ये च ये च धर्मद्विषः क्वचित् ॥ २,७३.१०६ ॥ उदीच्यान्मध्यदेशांश्च तथा विन्ध्या परान्तिकान् । तथैव दाक्षिणात्यांश्च द्रविडान्सिंहलैः सह ॥ २,७३.१०७ ॥ गान्धारान्पारदांश्चैव पह्लवान्पवनाञ्छकान् । तुबराञ्छबरांश्चैव पुलिन्दान्बरदान् वसान् ॥ २,७३.१०८ ॥ लंपाकानाङ्घ्रकान्पुण्ड्रान्किरातांश्चैव स प्रभुः । प्रवृत्तचक्रो बलवान्म्लेच्छानामन्तकृद्बली ॥ २,७३.१०९ ॥ अदृश्यः सर्वभूतानां पृथिवीं विचरिष्यति । मानवः स तु संजज्ञे देवसेनस्य धीमतः ॥ २,७३.११० ॥ पूर्वजन्मनि विष्णुर्यः प्रमितिर्नाम वीर्यवान् । गोत्रेण वै चन्द्रमसः पूर्णे कलियुगेऽभवत् ॥ २,७३.१११ ॥ इत्येतास्तस्य देवस्य दक्षसंभूतयः स्मताः । तन्तं कालं च कायं च तत्तदुद्दिश्य कारणम् ॥ २,७३.११२ ॥ अंशेन त्रिषु लोकेषु तास्ता योनीः प्रपत्स्यते । पञ्चविंशे स्थितः कल्पे पञ्चविंशत्स वै समाः ॥ २,७३.११३ ॥ विनिघ्नन्सर्वभूतानि मानुषानेव सर्वशः । कृत्वा बीजावशेषां तु महीं क्रूरेण कर्मणा ॥ २,७३.११४ ॥ शान्तयित्वा तु वृषलान्प्रायशस्तान धार्मिकान् । ततः स वै तदा कल्किश्चरितार्थः ससैनिकः ॥ २,७३.११५ ॥ कर्मणा निहता ये तु सिद्धास्ते तु पुनः स्वयम् । अकस्मात्कुपितान्योन्यं भविष्यन्ति च मोहिताः ॥ २,७३.११६ ॥ क्षपयित्वा तु तान्सर्वान्भाविनार्थेन चोदितः । गङ्गायमुनयोर्मध्ये निष्ठां प्राप्स्यति सानुगः ॥ २,७३.११७ ॥ ततो व्यतीते कल्पे तु समाप्ते सहसैनिके । नृपेष्वथ विनिष्टेषु तदा त्वप्रग्रहाः प्रजाः ॥ २,७३.११८ ॥ रक्षणे विनिपृत्ते तु हत्वा चान्योन्यमाहवे । परस्परत्दृतस्वाश्च निरानन्दाः सुदुःखिताः ॥ २,७३.११९ ॥ पुराणि हित्वा ग्रामांश्च तुल्यास्ता निष्परिग्रहाः । प्रनष्टश्रुतिधर्माश्चनष्टधर्माश्रमास्तथा ॥ २,७३.१२० ॥ ह्रस्वा अल्पायुषश्चैव भविष्यन्ति वनौकसः । सरित्पर्वतसेविन्यः पत्रमूलफलाशनाः ॥ २,७३.१२१ ॥ चीरपत्राजिनघराः संकरं घोरमास्थिताः । अल्पायुषो नष्टवार्ता बह्वाबाधाः सुदुःखिताः ॥ २,७३.१२२ ॥ एवं काष्ठामनुप्राप्ताः कलिसंध्यांशके तदा । प्रजाः क्षयं प्रयास्यन्ति सार्द्धं कलियुगेन तु ॥ २,७३.१२३ ॥ क्षीणे कलियुगे तस्मिन्प्रवृत्ते च कृते पुनः । प्रपत्स्यन्ते यथान्यायं स्वभावादेव नान्यथा ॥ २,७३.१२४ ॥ इत्येतत्कीर्त्तितं सर्वं देवासुरविचेष्टितम् । यदुवंशप्रसंगेन महद्वो वैष्मवं यशः ॥ २,७३.१२५ ॥ तुर्वसोस्तु प्रवक्ष्यामि पूरोर्द्रुह्योरनोस्तथा ॥ २,७३.१२६ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे विष्णुमाहात्म्यवर्णनं नाम त्रिसप्ततितमोऽध्यायः ॥ ७३॥ _____________________________________________________________ सूत उवाच तुर्वसोस्तु सुतो वह्निर्वह्नेर्गोभानुरात्मजः । गोभानोस्तु सुतो वीर स्त्रिसानुरपाजितः ॥ २,७४.१ ॥ करन्धमस्तु त्रैसानो मरुत्तस्तस्य चात्मजः । अन्यस्त्वाविज्ञितो राजा मरुत्तः कथितः पुरा ॥ २,७४.२ ॥ अनपत्यो मरुत्तस्तु स राजासीदिति श्रुतम् । दुष्कन्तं पौरवं चापि स वै पुत्रमकल्पयत् ॥ २,७४.३ ॥ एवं ययातिशापेन जरासंक्रमणे पुरा । तुर्वसोः पौरवं वंशं प्रविवेश पुरा किल ॥ २,७४.४ ॥ दुष्कन्तस्य तु दायादः सरूप्यो नाम पार्थिवः । सरूप्यात्तु तथाण्डीरश्चत्वारस्तस्य चात्मजाः ॥ २,७४.५ ॥ पाण्ड्यश्च केरलश्चैव चोलः कुल्यस्तथैव च । तेषां जनपदाः कुल्याः पाण्ड्याश्चोलाः सकेरलाः ॥ २,७४.६ ॥ द्रुह्योश्च तनयौ वीरौ बभ्रुः सेतुश्च विश्रुतौ । अरुद्धः सेतुपुत्रस्तु बाब्रवो रिपुरुच्यते ॥ २,७४.७ ॥ यौवनाश्वेन समितौ कृच्छेण निहतो बली । युद्धं सुमहदासीत्तु मासान्परिचतुर्दश ॥ २,७४.८ ॥ अरुद्धस्य तु दायादो गान्धारो नाम पार्थिवः । ख्यायते यस्य नाम्ना तु गान्धारविषयो महान् ॥ २,७४.९ ॥ गान्धारादेशजाश्चापि तुरगा वाजिनां वराः । गान्धारपुत्रो धर्मस्तु धृतस्तस्य सुतोऽभवत् ॥ २,७४.१० ॥ धृतस्य दुर्दमो जज्ञे प्रचेतास्तस्य चात्मजः । प्रचेतसः पुत्रशतं राजानः सर्व एव ते ॥ २,७४.११ ॥ म्लेच्छराष्ट्राधिपाः सर्वे ह्युदीचीं दिशमास्थिताः । अनोश्चैव सुता वीरास्त्रयः परमधार्मिकाः ॥ २,७४.१२ ॥ सभानरः कालचक्षुः पराक्षस्चेति विश्रुताः । सभानरस्य पुत्रस्तु विद्वान्कालानलो नृपः ॥ २,७४.१३ ॥ कालानलस्य धर्मात्मा सृंजयो नाम विश्रुतः । सृंजयस्याभवत्पुत्रो वीरो नाम्ना पुरञ्जयः ॥ २,७४.१४ ॥ आसीदिन्द्रसमो राजा प्रतिष्टितयशादिवि । महामनाः सुतस्तस्य महाशालस्य धार्मिकः ॥ २,७४.१५ ॥ सप्तद्वीपेश्वरो राजा चक्रवर्त्ती महायशाः । महामनास्तु द्वौ पुत्रौ जनयामास विश्रुतौ ॥ २,७४.१६ ॥ उशीनरं च धर्मज्ञं तितिक्षुं चैव धार्मिकम् । उशीनरस्य पत्न्यस्तु पञ्च राजर्षिवंशजाः ॥ २,७४.१७ ॥ नृगा कृमी नवा दर्वा पञ्चमी च दृषद्वती । उशीनरस्य पुत्र्यस्तु पञ्च तासु कुलोद्वहाः ॥ २,७४.१८ ॥ तपस्यतः सुमहतो जाता वृद्धस्य धार्मिकाः । नृगायास्तु नृगः पुत्रो नवाया नव एव तु ॥ २,७४.१९ ॥ कृम्याः कृमिस्तु दर्वायाः सुव्रतो नाम धार्मिकः । दृषद्वती सुतश्चापि शिबिरौशीनरो द्विजाः ॥ २,७४.२० ॥ शिबे शिवपुरं ख्यातं यौधेयं तु नृगस्य च । नवस्य नवराष्ट्रं तु कृमेस्तु कृमिला पुरी ॥ २,७४.२१ ॥ सुव्रतस्य तथांबष्टा शिबिपुत्रान्निबोधत । शिबेस्तु शिबयः पुत्राश्चत्वारो लोकसंमताः ॥ २,७४.२२ ॥ वृषदर्भः सुवीरस्तु केकयो मद्रकस्तथा । तेषां जनपदाः स्फीताः केकया मद्रकास्तथा ॥ २,७४.२३ ॥ वृषदर्भाः सुवीराश्च तितिक्षोः शृणुत प्रजाः । तितिक्षुरभवद्राजा पूर्वस्यां दिशि विश्रुतः ॥ २,७४.२४ ॥ उशद्रथो महाबाहुस्तस्य हेमः सुतोऽभवत् । हेमस्य सुतपा जज्ञे सुतः सुतपसो बलिः ॥ २,७४.२५ ॥ जातो मनुष्ययोन्यां वै क्षीणे वंशे प्रजेप्सया । महायोगी स तु बलिर्बद्धो यः स महामनाः ॥ २,७४.२६ ॥ पुत्रानुत्पादयामास जातुर्वर्ण्यकरान्भुवि । अङ्गं स जनयामास वङ्गं सुह्मं तथैव च ॥ २,७४.२७ ॥ युद्धं कलिङ्गं च तथा वालेयं क्षत्रमुच्यते । वालेया ब्राह्मणाश्चैव तस्य वंशकराः प्रभोः ॥ २,७४.२८ ॥ बलेस्तु ब्रह्मणा दत्ता वराः प्रीतेन धीमतः । महायोगित्वमायुश्च कल्पस्य परिमाणकम् ॥ २,७४.२९ ॥ संग्रामे वाप्यजेयत्वं धर्मे चैव प्रभावतः । त्रैलोक्यदर्शनं चैव प्राधान्यं प्रसवे तथा ॥ २,७४.३० ॥ बलेश्चा प्रतिमत्वं वे धर्मतत्त्वार्थदर्शनम् । चतुरो नियतान्वर्णांस्त्वं वै स्थापयितेति वै ॥ २,७४.३१ ॥ इत्युक्तो विभुना राजा बलिः शान्ति पराययौ । कालेन महता विद्वान्स्वं च स्थानमुपागतः ॥ २,७४.३२ ॥ तेषां जनपदाः स्फीता अङ्गवङ्गाश्च सुह्मकाः । पुण्ड्राः कलिङ्गश्च तथा तेषां वंशं निबोधत ॥ २,७४.३३ ॥ तस्य ते तनयाः सर्वे क्षेत्रजा मुनिसंभवाः । संभूता दीर्घतमसः सुदेष्णायां महौजसः ॥ २,७४.३४ ॥ ऋषय ऊचुः कथं बलेः सुताः पञ्च जनिताः क्षेत्रजाः प्रभो । ऋषिणा दीर्घतमसा ह्येतत्प्रब्रूहि पृच्छताम् ॥ २,७४.३५ ॥ सूत उवाच उशिजो नाम विख्यात आसीद्धीमानृषिः पुरा । भार्या वै ममता नाम बभूवास्य महात्मनः ॥ २,७४.३६ ॥ उशिजस्य कनीयांस्तु पुरोधा यो दिवौकसाम् । बृहस्पतिर्बृहत्तेजा ममतां सोऽभ्यपद्यत ॥ २,७४.३७ ॥ उवाच ममता तं तु बृहस्पतिमनिच्छती । अन्तर्वत्न्यस्मि ते भ्रातुर्ज्येष्ठस्यास्य च भामिनी ॥ २,७४.३८ ॥ अयं हि मे महान्गर्भो रोरवीति बृहस्पते । अजस्रं ब्रह्म चाभ्यस्य षडङ्गं वेदमुद्गिरन् ॥ २,७४.३९ ॥ अमोघरे तास्त्वं चापि न मां भजितुमर्हसि । अस्मिन्नेव यथाकाले यथा वा मन्यसे विभो ॥ २,७४.४० ॥ एवमुक्तस्तया सम्यग्बृहतेजा बृहस्पतिः । कामात्मानं महात्मापि नात्मानं सोऽभ्यधारयत् ॥ २,७४.४१ ॥ संबभूवैव धर्मात्मा तया सार्द्धं बृहस्पति । उत्सृजन्तं तदा रेतो गर्भस्थः सोऽस्य भाषत ॥ २,७४.४२ ॥ शुक्रं त्याक्षीश्च मा जीव द्वयोर्नेहास्ति संभवः । अमोघरेतास्त्वं वापि पूर्वं चाहमिहागतः ॥ २,७४.४३ ॥ शशाप तं तदा क्रुद्ध एवमुक्तो बृहस्पतिः । उशिजस्य सुतं भ्रातुर्गर्भस्थं भगवानृषिः ॥ २,७४.४४ ॥ यस्मात्त्वमीदृशे काले सर्वभूतेप्सिते सति । मामेवमुक्तवान्मोहात्तमो दीर्घं ग्रवेक्ष्यसि ॥ २,७४.४५ ॥ ततो दीर्घतमा नाम शापादृषिरजायत । अथौशिजो बृहत्कीर्तिर्बृहस्पतिरिबौजसा ॥ २,७४.४६ ॥ ऊर्द्ध्वरेतास्ततश्चापि न्यवसद्भ्रातुराश्रमे । गोधर्मं सौरभेयात्तु वृषभाच्छतवान्प्रभोः ॥ २,७४.४७ ॥ तस्य भ्राता पितृव्यस्तु चकार भवनं तदा । तस्मिन्हि तत्र वसति यदृच्छाभ्यागतो वृषः ॥ २,७४.४८ ॥ दर्शार्थमास्तृतान्दर्भाञ्चचार सुरभीसुतः । जग्राह तं दीर्घ तमा विस्फुरन्तं तु शृङ्गयोः ॥ २,७४.४९ ॥ स तेन निगृहीतस्तु न चचाल पदात्पदम् । ततोऽब्रवीद्वृषस्तं वै सुंच मां बलिनां वर ॥ २,७४.५० ॥ न मया सादितस्तात बलवांस्तद्विधः क्वचित् । त्र्यंबकं वहता देवं यतो जातोऽस्मि भूतले ॥ २,७४.५१ ॥ सुंच मां बलिनां श्रेष्ठ प्रतिस्नेहं वरं वृणु । एवमुक्तोऽब्रवीदेनं जीवंस्त्वं मे क्व यास्यसि ॥ २,७४.५२ ॥ तेन त्वाहं न मोक्ष्यामि परस्वादं चतुष्पदम् । ततस्तं दीर्घतमसं स वृषः प्रत्युवाच ह ॥ २,७४.५३ ॥ नास्माकं विद्यते तात पातकं स्तेयमेव च । भक्ष्याभक्ष्यं न जानीमः पेयापेयं च सर्वशः ॥ २,७४.५४ ॥ कार्या कार्यं च वै विप्र गम्यगम्यं तथैव च । न पाप्मानो वयं विप्र धर्मो ह्येष गवां श्रुतः ॥ २,७४.५५ ॥ गवां नाम स वे श्रुत्वा संभ्रान्तस्त ममुञ्चत । भक्त्या चानुश्रविकया गोसुतं वै प्रसादयन् ॥ २,७४.५६ ॥ प्रसादतो वृषेन्द्रस्य गोधर्मं जगृहेऽथ सः । मनसैव तदा दध्रे तद्विधस्तत्परायणः ॥ २,७४.५७ ॥ ततो यवीयसः पत्नीमौतथ्यस्याभ्यमन्यत । विचेष्टमानां रुदतीं दैवात्संमूढचेतनः ॥ २,७४.५८ ॥ अवलेपं तु तंमत्वा सुरद्वांस्तस्य नाक्षमत् । गोधर्म वै बलं कृत्वा स्नुषां स ह्यभ्यमन्यत ॥ २,७४.५९ ॥ विपर्ययं तु तं दृष्ट्वा शरद्वान्प्रविचिन्त्य च । भविष्यमर्थं ज्ञात्वा च महात्मा त्ववमत्य तम् ॥ २,७४.६० ॥ प्रोवाच दीर्घतमसं क्रोधात्संरक्तलोचनः । गम्यागम्यं न जानीषे गोधर्मात्प्रार्थयन्स्रुषाम् ॥ २,७४.६१ ॥ दुर्वृत्तं त्वां त्यजाम्येष गच्छ त्वं स्वेन कर्मणा । यस्मात्त्वमन्धो वृद्धश्च भर्त्तव्यो दुरनुष्ठितः ॥ २,७४.६२ ॥ तेनासि त्वं परित्यक्तो दुराचारोऽसि मे मतः । सूत उवाच कर्मण्यस्मिंस्ततः क्रूरे तस्य बुद्धिरजायत ॥ २,७४.६३ ॥ निर्भर्त्स्य चैव बहुशो बाहुभ्यां परिगृह्य च । कोष्टे समुद्रे प्रक्षिप्य गङ्गांभसि समुत्सृजत् ॥ २,७४.६४ ॥ उह्यमानः समुद्रस्तु सप्ताहं श्रोतसा तदा । तं सस्त्रीको बलिर्नाम राजा धर्मार्थतत्त्ववित् ॥ २,७४.६५ ॥ अपश्यन्मज्जमानं तु स्रोतसोभ्यासमागतम् । तं गृहीत्वा स धर्मात्मा बलिर्वैरोचनस्तदा ॥ २,७४.६६ ॥ अन्तःपुरे जुगोपैनं भक्ष्यैर्भोज्यैश्च तर्पयन् । प्रीतः स वै वरेणाथ च्छन्दयामास वै बलिम् ॥ २,७४.६७ ॥ स च तस्माद्वरं वव्रे पुत्रार्थी दानवर्षभः । बलिरुवाच संतानार्थं महाभाग भार्यायां मम मानद ॥ २,७४.६८ ॥ पुत्रान्धर्मार्थसंयुक्तानुत्पादयितुमर्हसि । एवमुक्तस्तुतेनर्षिस्तथास्त्वित्युक्तवान्हितम् ॥ २,७४.६९ ॥ सुदेष्णां नाम भार्यां स्वां राजास्मै प्राहिणोत्तदा । अन्धं वृद्धं च तं दृष्ट्वा न सा देवी जगाम ह ॥ २,७४.७० ॥ स्वां च धात्रेयिकां तस्मै भूषयित्वा व्यसर्जयत् । कक्षीवच्चक्षुषौ तस्यां शूद्रयोन्यामृषिर्वशी ॥ २,७४.७१ ॥ जनया मास धर्मात्मा पुत्रावेतौ महौजसौ । कक्षीवच्चक्षुषौ तौ तु दृष्ट्वा राजा बलिस्तदा ॥ २,७४.७२ ॥ अधीतौ विधिवत्सम्य गीश्वरौ ब्रह्मवादिनौ । सिद्धौ प्रत्यक्षधर्माणौ बुद्धौ श्रेष्ठतमावपि ॥ २,७४.७३ ॥ ममैताविति होवाच बलिर्वैरोचनस्त्वृषिम् । नेत्युवाच ततस्तं तु ममैताविति चाब्रवीत् ॥ २,७४.७४ ॥ उत्पन्नौ शूद्रयोनौ तु भवतः क्ष्मासुरोत्तमौ । अन्धं वृद्धं च मां मत्वा सुदेष्णा महिषी तव ॥ २,७४.७५ ॥ प्राहिणोदवमानीय शूद्रीं धात्रेयिकां मम । ततः प्रसादयामास पुनस्तमृषिसत्तमम् ॥ २,७४.७६ ॥ बलिर्भार्यां सुदेष्णा च भर्त्सयामास वै प्रभुः । पुनश्चैनामलङ्कृत्य ऋषये प्रत्यपादयत् ॥ २,७४.७७ ॥ तां स दीर्घतमा देवीमब्रवीद्यदि मां शुभे । दध्ना लवणमिश्रेण स्वभ्यक्तं नग्नकं तथा ॥ २,७४.७८ ॥ लेहिष्यस्यजुगुप्सन्ती ह्यापादतलमस्तकम् । ततस्त्वं प्राप्स्यसे देवि पुत्रांश्च मनसेप्सितान् ॥ २,७४.७९ ॥ तस्य सा तद्वचो देवी सर्वं कृतवती तथा । अपानं च समासाद्य जुगुप्संती ह्यवर्जयत् ॥ २,७४.८० ॥ तमुवाच ततः सर्षिर्यस्ते परिहृतं शुभे । विनापानं कुमारं त्वं जनयिष्यसि पूर्वजम् ॥ २,७४.८१ ॥ ततस्तं दीर्घतमसं सा देवी प्रत्युवाच ह ॥ नार्हसि त्वं महाभाग पुत्रं दातुं ममेदृशम् ॥ २,७४.८२ ॥ ऋषिरुवाच तवापरधो देव्येष नान्यथा भविता तु वै । देवीदृशं च ते पौत्रमहं दास्यामि सुप्रते ॥ २,७४.८३ ॥ तस्यापानं विना चैव योग्यभावो भविष्यति । तां स दीर्घतमाश्चैव कुक्षौ स्पृष्ट्वदमब्रवीत् ॥ २,७४.८४ ॥ प्राशितं दधियत्तेऽद्य ममाङ्गाद्वै शुचिस्मिते । तेन ते पूरितो गर्भः पौर्णमास्यामिवोदधिः ॥ २,७४.८५ ॥ भविष्यन्ति कुमारास्ते पञ्च देवसुतोपमाः । तेजस्विनः पराक्रान्ता यज्वानो धार्मिकास्तथा ॥ २,७४.८६ ॥ ततोंऽगस्तु सुदेष्णाया ज्येष्ठपुत्रो व्यजायत । वङ्गस्तस्मात्कलिङ्गस्तु पुण्ड्रः सुह्मस्तथैव च ॥ २,७४.८७ ॥ वंशभाजस्तु पञ्चैते बलेः क्षेत्रेऽभवंस्तदा । इत्येते दीर्घतमसा बलेर्दत्ताः सुताः पुरा ॥ २,७४.८८ ॥ प्रजा ह्युपहतास्तस्य ब्रह्मणा कारणं प्रति । अपत्यमस्य दारेषु स्वेषु माभून्महात्मनः ॥ २,७४.८९ ॥ ततो मनुष्ययोन्यां वै जनयामास स प्रजाः । सुरभिर्दीर्घत मसमथ प्रीतो वचोऽब्रवीत् ॥ २,७४.९० ॥ विचार्य यस्माद्गोधर्मं त्वमेवं कृतवानसि । भक्त्या चानन्ययास्मासु मुने प्रीतास्मि तेन ते ॥ २,७४.९१ ॥ तस्मात्तव तमो दीर्घं निस्तदाम्यद्य पश्य वै । बार्हस्पत्यं च यत्तेऽन्यत्पापं संतिष्ठते तनौ ॥ २,७४.९२ ॥ जरामृत्युभयं चैव ह्याघ्राय प्रणुदामि ते । आघ्रातमात्रोऽसा पश्यत्सद्यस्तमसि नाशिते ॥ २,७४.९३ ॥ आयुष्मांश्च युवा चैव चक्षुष्मांश्च ततोऽभवत् । गवा हृततमाः सोऽथ गौतमः समपद्यत ॥ २,७४.९४ ॥ कक्षीवांस्तु ततो गत्वा सह पित्रा गिरिव्रजम् । यथोद्दिष्टं हि पित्राथ चचार विपुलं तपः ॥ २,७४.९५ ॥ ततः कालेन महता तपसा भावितः स वै । विधूय सानुजो दोषान्ब्राह्मण्यं प्राप्तवान्प्रभुः ॥ २,७४.९६ ॥ ततोऽब्रवीत्पिता त्वेनं पुत्रवानस्म्यहं प्रभो । सुपुत्रेण त्वया तात कृतार्थश्च यशस्विना ॥ २,७४.९७ ॥ युक्तात्मानं ततः सोऽथ प्राप्तवान्ब्रह्मणः क्षयम् । ब्राह्मण्यं प्राप्य कक्षीवान्सहस्रमसृजत्सुतान् ॥ २,७४.९८ ॥ कूष्माण्डा गौतमास्ते वै स्मृताः कक्षीवतः सुताः । इत्येष दीर्घतमसो बलेर्वैरोचनस्य वै ॥ २,७४.९९ ॥ समागमः समाख्यातः संतानश्चोभयोस्तथा । बलिस्तानभिषिच्येह पञ्च पुत्रानकल्मषान् ॥ २,७४.१०० ॥ कृतार्थः सोऽपि योगात्मा योगमाश्रित्य च प्रभुः । अदृश्यः सर्वभूतानां कालाकाक्षी चरत्युत ॥ २,७४.१०१ ॥ तत्राङ्गस्य तु राजर्षे राजासीद्दधिवाहनः । सोऽपराधात्सुदेष्णाया अनपानोऽभवन्नृपः ॥ २,७४.१०२ ॥ अनपानस्य पुत्रस्तु राजा दिविरथः स्मृतः । पुत्रो दिविरथस्यासीद्विद्वान्धर्मरथो नृपः ॥ २,७४.१०३ ॥ एते एक्ष्वाकवः प्रोक्ता भवितारः कलौ युगे । बृहद्बलान्वये जाता महावीर्यपराक्रमाः ॥ २,७४.१०४ ॥ शूराश्च कृतविद्याश्च सत्यसंधा जितेन्द्रियाः । अत्रानुवंशश्लोकोऽयं भविष्यज्ज्ञैरुदाहृतः ॥ २,७४.१०५ ॥ इक्ष्वाकूणामयं वंशः सुमित्रान्तो भविष्यति । सुमित्रं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ ॥ २,७४.१०६ ॥ इत्येतन्मानवं क्षत्रमैलं च समुदात्दृतम् । अत ऊर्ध्वं प्रवक्ष्यामि मगधो यो बृहद्रथः ॥ २,७४.१०७ ॥ जरासंधस्य ये वंशे सहदेवान्वये नृपाः । अतीता वर्त्तमानाश्च भविष्याश्च तथा पुनः ॥ २,७४.१०८ ॥ प्राधान्यतः प्रवक्ष्यामि गदतो मे निबोधत । संग्रामे भारते तस्मिन्सहदेवो निपातितः ॥ २,७४.१०९ ॥ सोमापिस्तस्य तनयो राजर्षिः स गिरिव्रजे । पञ्चाशतं तथाष्टौ च समा राज्यमकारयत् ॥ २,७४.११० ॥ श्रुतश्रवाः सप्तषष्टिः समास्तस्य सुतोऽभवत् । अयुतायुस्तु षड्विंशद्राज्यं वर्षाण्यकारयत् ॥ २,७४.१११ ॥ समाः शतं निरामित्रो महीं भुक्त्वा दिवं गतः । पञ्चाशतं समाः षट्च सुक्षत्रः प्राप्तवान्महीम् ॥ २,७४.११२ ॥ त्रयोविंशद्बृहत्कर्मा राज्यं वर्षाण्यकारयत् । सेनाजित्सांप्रतं चापि एता वै भोक्ष्यते समाः ॥ २,७४.११३ ॥ श्रुतञ्जयस्तु वर्षाणि चत्वारिंशद्भविष्यति । रिपुञ्जयो महाबाहुर्महाबुद्धिपराक्रमः ॥ २,७४.११४ ॥ पञ्जत्रिंशत्तु वर्षाणि महीं पालयिता नृपः । अष्टपञ्जाशतं जाब्दान्राज्ये स्थास्यति वै शुचिः ॥ २,७४.११५ ॥ अष्टाविंशत्समाः पूर्णाः क्षेमो राजा भविष्यति । सुव्रतस्तु चतुःषष्टिं राज्यं प्राप्स्यति वीर्यवान् ॥ २,७४.११६ ॥ पञ्च वर्षाणि पूर्णानि धर्मनेत्रो भविष्यति । भोक्ष्यते नृपतिश्चेमा अष्टपञ्चाशतं समाः ॥ २,७४.११७ ॥ अष्टत्रिंशत्समाराष्ट्रं सुश्रमस्य भविष्यति । चत्वारिंशद्दशाष्टौ च दृढसेनो भविष्यति ॥ २,७४.११८ ॥ त्रयस्त्रिंशत्तु वर्षाणि सुमतिः प्राप्स्यते ततः । चत्वारिंशत्समा राजा सुनेत्रो भोक्ष्यते ततः ॥ २,७४.११९ ॥ सत्यजित्पृथिवी राष्ट्रं त्र्यशीतिं भोक्ष्यते समाः । प्राप्येमं विश्वाजिच्चापि पञ्चविंशद्भविष्यति ॥ २,७४.१२० ॥ अरिञ्जयस्तु वर्षाणां पञ्चाशत्प्राप्यते महीम् । द्वाविंशच्च नृपा ह्येते भवितारो बृहद्रथाः ॥ २,७४.१२१ ॥ पूर्मं वर्षसहस्रं वै तेषां राज्यं भविष्यति । बृहद्रथेष्वतीतेषु वीरहन्तृष्ववर्त्तिषु ॥ २,७४.१२२ ॥ शुनकः स्वामिनं हत्वा पुत्रं समभिषेक्ष्यति । मिषतां क्षत्रियाणां हि प्रद्योतिं नृपतिं बलात् ॥ २,७४.१२३ ॥ स वै प्रणतसामन्तो भविष्येण प्रवर्त्तितः । त्रयोविंशत्समा राजा भविता स नरोत्तमः ॥ २,७४.१२४ ॥ चतुर्विंशत्समा राजा पालको भविता ततः । विशाखयूपो भविता नृपः पञ्चाशतं समाः ॥ २,७४.१२५ ॥ एकविंशत्समा राज्य मजकस्य भविष्यति । भविष्यति समा विंशत्तत्सुतो नन्दिवर्द्धनः ॥ २,७४.१२६ ॥ अष्टत्रिंशच्छतं भाव्याः प्राद्योताः पञ्च ते नृपाः । हत्वा तेषां यशः कृत्स्नं शिशुनागो भविष्यति ॥ २,७४.१२७ ॥ वाराणस्यां सुतस्तस्य संयास्यति गिरिव्रजम् । शिशुनागश्च वर्षाणि चत्वारिंशद्भविष्यति ॥ २,७४.१२८ ॥ काकवर्णः सुतस्तस्य पट्त्रिंशच्च भविष्यति । ततस्तु विंशतिं राजा क्षेमधर्मा भवष्यति ॥ २,७४.१२९ ॥ चत्वारिंशत्समा राष्ट्रं क्षत्रौजाः प्राप्स्यते ततः । अष्टत्रिंशत्समा राजाविधिसारो भविष्यति ॥ २,७४.१३० ॥ अजातशत्रुर्भविता पञ्चविंशत्समा नृपः । पञ्चत्रिंशत्समा राजा दर्भकस्तु भविष्यति ॥ २,७४.१३१ ॥ उदयी भविता तस्मात्त्रयस्त्रिंशत्समा नृपः । स वै पुरवरं राजा वृथिव्यां कुसुमाह्वयम् ॥ २,७४.१३२ ॥ गगाया दक्षिणे कूले चतुर्थेऽह्नि कारिष्यति । चत्वारिशत्समा भाव्यो राजा वै नन्दिवर्द्धनः ॥ २,७४.१३३ ॥ चत्वारिशत्त्रयश्चैव सहानन्दिर्भविष्यति । भविष्यन्ति च वर्षाणि षष्ट्युत्तरशतत्रयम् ॥ २,७४.१३४ ॥ शिशुनागा दशैवैते राजानः क्षत्रबन्धवः । एतैः सार्द्धं भविष्यन्ति तावत्कालं नृपाः परे ॥ २,७४.१३५ ॥ एक्ष्वाकवश्चतुर्विंशत्पञ्चालाः पञ्चविंशतिः । कालकास्तु चतुर्विंशच्चतुर्विंशत्तु हैहयाः ॥ २,७४.१३६ ॥ द्वात्रिंशदेकलिङ्गास्तु पञ्चविंशत्तथा शकाः । कुरवश्चापि षट्त्रिंशदष्टाविंशति मैथिलाः ॥ २,७४.१३७ ॥ शूरसेनास्त्रयोविंशद्वीतिहोत्राश्च विंशतिः । तुल्यकालं भविष्यन्ति सर्वं एव महीक्षितः ॥ २,७४.१३८ ॥ महानन्दिसुतश्चापि शूद्रायाः कालसंवृतः । उत्पत्स्यते महा पद्मः सर्वक्षत्रान्तकृन्नृपः ॥ २,७४.१३९ ॥ ततः प्रभृति राजानो भविष्यः शूद्रयोनयः । एकराट्स महापद्म एकच्चत्रो भविष्यति ॥ २,७४.१४० ॥ अष्टाशीति तु वर्षाणि पृथिवीं पालयिष्यति । सर्वक्षत्रं समुद्धृत्य भाविनोर्ऽथस्य वै बलात् ॥ २,७४.१४१ ॥ तत्पश्चात्तत्सुता ह्यष्टौ समाद्वादश ते नृपाः । महापद्मस्य पर्याये भविष्यन्ति नृपाः क्रमात् ॥ २,७४.१४२ ॥ उद्धरिष्यति तान्सर्वान्कौटिल्यो वै द्विजर्षभः । भुक्त्वा महीं वर्षशतं नरेद्रः स भविष्यति ॥ २,७४.१४३ ॥ चन्द्रगुप्तं नृपं राज्ये कौटिल्यः स्थापयिष्यति । चतुर्विंशत्समा राजा चन्द्रगुप्तो भविष्यति ॥ २,७४.१४४ ॥ भविता भद्रसारस्तु पञ्चविंशत्समा नृपः । षट्त्रिंशत्तु समा राजा अशोकानां च तृप्तिदः ॥ २,७४.१४५ ॥ तस्य पुत्रः कुलालस्तु वर्षाण्यष्टौ भविष्यति । कुशालसूनुरष्टौ च भोक्ता वै बन्धुपालितः ॥ २,७४.१४६ ॥ बन्धुपालितदायादो भविता चेन्द्रपालितः । भविता सप्त वर्षाणि देववर्मा नराधिपः ॥ २,७४.१४७ ॥ राजा शतधनुश्चापि तस्य पुत्रो भविष्यति । बृहद्रथश्च वर्षाणि सप्त वै भविता नृपः ॥ २,७४.१४८ ॥ इत्येते नव मौर्या वै भोक्ष्यन्ति च वसुंधराम् । सप्तत्रिंशच्छतं पूर्णं तेभ्यः शुङ्गो गमिष्यति ॥ २,७४.१४९ ॥ पुष्पमित्रस्तु सेनानीरुद्धृत्यतु बृहद्रथम् । कारयिष्यति वै राज्यं समाः षष्टिं स चैव तु ॥ २,७४.१५० ॥ अग्निमित्रो नृपश्चाष्टौ भविष्यति समा नृपः । भविता चापि सुज्येष्टः सप्त वर्षाणि वै ततः ॥ २,७४.१५१ ॥ वसुमित्रस्ततो भाव्यो दशवर्षाणि पार्थिवः । ततो भद्रः समे द्वे तु भविष्यति नृपश्च वै ॥ २,७४.१५२ ॥ भविष्यति समास्तस्मात्तिस्र एव पुलिन्दकः । राजा घोषस्ततश्चापि वर्षाणि भविता त्रयः ॥ २,७४.१५३ ॥ सप्त वै वज्र मित्रंस्तु समा राजा ततः पुनः । द्वात्रिंशद्भविता वापि समा भागवतो नृपः ॥ २,७४.१५४ ॥ भविष्यति सुतस्तस्य देवभूमिः समा दश । दशैते शुङ्गराजानो भोक्ष्यन्तीमां वसुंधराम् ॥ २,७४.१५५ ॥ शतं पूर्मं दश द्वे च तेभ्यः कण्वं गमिष्यति । अमात्यो वसुदेवस्तु बाल्याद्व्यसनिनं नृपम् ॥ २,७४.१५६ ॥ देवभूमिं ततो हत्वा शुङ्गेषु भविता नृपः । भविष्यति समा राजा पञ्च कण्वायनस्तु सः ॥ २,७४.१५७ ॥ भूमिमित्रः सुतस्तस्य चतुर्विंशद्भविष्यति । भविता द्वादश समास्तस्मान्नारायणो नृपः ॥ २,७४.१५८ ॥ सुशर्मा तत्सुतश्चापि भविष्यति चतुःसमाः । कण्वायनास्तु चत्वारश्चत्वारिंशच्च पञ्च च ॥ २,७४.१५९ ॥ समा भोक्ष्यन्ति वृथिवीं पुनरन्ध्रान्गमिष्यति । कण्वायनमथोद्धृत्य सुशर्माणं प्रसह्य तम् ॥ २,७४.१६० ॥ सिंधुको ह्यन्ध्रजातीयः प्राप्स्यतीमां वसुंधराम् । त्रयोविंशत्समा राजा सिंधुको भविता त्वथ ॥ २,७४.१६१ ॥ कृष्णो भ्रातास्य वर्षाणि सोऽस्माद्दश भविष्यति । श्रीशान्तकर्णिर्भविता तस्य पुत्रस्तु वै महान् ॥ २,७४.१६२ ॥ पञ्चाशत्तु समाः षट्च शान्तकर्णिर्भविष्यति । आपोलवोद्वादश वै तस्य पुत्रो भविष्यति ॥ २,७४.१६३ ॥ चतुर्विंशत्तु वर्षाणि पटुमांश्च भविष्यति । भवितानिष्टकर्मा तु वर्षाणां पञ्चविंशतिम् ॥ २,७४.१६४ ॥ ततः संवत्सरं पूर्णं हालो राजा भविष्यति । पञ्चपत्तल्लको नाम भविष्यति महाबलः ॥ २,७४.१६५ ॥ भाव्यःपुरीषभीरुस्तु समाः सोऽप्येकविंशतिम् । शातकर्णिर्वर्षमेकं भविष्यति नराधिपः ॥ २,७४.१६६ ॥ अष्टविंशतिवर्षाणि शिवस्वातिर्भविष्यति । राजा च गौतमी पुत्र एकविंशत्समा नृपः ॥ २,७४.१६७ ॥ एकोनविंशति राजा यज्ञः श्रीशातकर्ण्यथ । षडेव भविता त्समाद्विजयस्तु समानृपः ॥ २,७४.१६८ ॥ देडश्रीशातकर्णी च तस्य पुत्रः समास्त्रयः । पुलोमारिः समाः सप्त ततश्चैषां भविष्यति ॥ २,७४.१६९ ॥ इत्येते वै नृपास्त्रिंशदन्ध्रा भोक्ष्यन्ति वै महीम् । समाः शतानि चत्वारि पञ्चाशत्षट्तथैव च ॥ २,७४.१७० ॥ अन्ध्राणां संस्थिताः पञ्च तेषां वंश्याश्च ये पुनः । सप्तैव तु भविष्यन्ति दशाभीरास्ततो नृपाः ॥ २,७४.१७१ ॥ सप्त गर्दभिनश्चापि ततोऽथ दश वै शकाः । यवनाष्टौ भविष्यन्ति तुषारास्तु चतुर्दश ॥ २,७४.१७२ ॥ त्रयोदश गुरुण्डाश्च मौना ह्येकादशैव तु । अन्ध्रा भोक्ष्यन्ति वसुधां शते द्वे च शतञ्च वै ॥ २,७४.१७३ ॥ सप्तषष्टिं च वर्षाणि दशाभीरास्ततो नृपाः । सप्त गर्दभिनश्चैव भोक्ष्यन्तीमां द्विसप्ततिम् ॥ २,७४.१७४ ॥ शतानि त्रीण्यशीतिं च भोक्ष्यन्ति वसुधां शकाः । आशीती द्वे च वर्षाणि भोक्तारो यवना महीम् ॥ २,७४.१७५ ॥ पञ्चवर्षशतानीह तुषाराणां मही स्मृता । शतान्यर्द्धचतुर्थानि भवितारस्त्रयोदश ॥ २,७४.१७६ ॥ गुरुण्डा वृषलैः सार्द्धं भोक्ष्यन्ते म्लेच्छजातयः । शतानि त्रीणि भोक्ष्यन्ते मौना एकादशैव तु ॥ २,७४.१७७ ॥ तेषु च्छिन्नेषु कालेन ततः किलकिलो नृपः । ततः किलकिलेभ्यश्च विन्ध्यशक्तिर्भविष्यति ॥ २,७४.१७८ ॥ समाः षण्णवतिं चैव पृथिवीं तु समेष्यति । नृपान्वैदिशकांश्चाथ भविष्यांस्तु निबोधत ॥ २,७४.१७९ ॥ शेषस्य नागराजस्य पुत्रः सुर पुरञ्जयः । भोगी भविष्यते राजा नृपो नागकुलोद्वहः ॥ २,७४.१८० ॥ सदाचन्द्रस्तु चन्द्राशुर्द्वितीयो नखवांस्तथा । धनधर्मा ततश्चापि चतुर्थो वंशजः स्मृतः ॥ २,७४.१८१ ॥ भूतिनन्दस्ततश्चापि वैदिशे तु भविष्यति । तस्य भ्राता यवीयांस्तु नाम्ना नन्दियशाः किल ॥ २,७४.१८२ ॥ तस्यान्वयो भविष्यन्ति राजानस्ते त्रयस्तु वै । दैहित्रः शिशिको नाम पूरिकायां नृपोऽभवत् ॥ २,७४.१८३ ॥ विन्ध्यशक्तिसुतश्चापि प्रवीरो नाम वीर्यवान् । भोक्ष्यते च समाः षष्टिं पुरीं काञ्चनकां च वै ॥ २,७४.१८४ ॥ यक्ष्यते वाजपेयैश्च समाप्तवरदक्षिणैः । तस्य पुत्रास्तु चत्वारो भविष्यन्ति नराधिपाः ॥ २,७४.१८५ ॥ विन्ध्यकानां कुलानां ते नृपा वैवाहिकास्त्रयः । सुप्रतीको गभीरश्च समा भोक्ष्यति विंशतिम् ॥ २,७४.१८६ ॥ शङ्कमानोऽभवद्राजा महिषीणां महीपतिः । पुष्पमित्रा भविष्यन्ति षट्स्त्रिमित्रास्त्रयोदश ॥ २,७४.१८७ ॥ मेकलायां नृपाः सप्त भविष्यन्ति च सप्ततिः । कोमलायां तु राजानो भविष्यन्ति महाबलाः ॥ २,७४.१८८ ॥ मेघा इति समाख्याता बुद्धिमन्तो नवैव तु । नैषधाः पार्थिवाः सर्वे भविष्यन्त्यामनुक्षयात् ॥ २,७४.१८९ ॥ नलवंशप्रसूतास्ते वीर्यवन्तो महाबलाः । मगधानां महावीर्यो विश्वस्फाणिर्भविष्यति ॥ २,७४.१९० ॥ उत्साद्य पार्थिवान्सर्वान्सोऽन्यान्वर्णान्करिष्यति । कैवर्त्तान्मद्रकांश्चेव पुलिन्दान्ब्राह्मणांस्तथा ॥ २,७४.१९१ ॥ स्थापयिष्यन्ति गजानो नानादेशेषु ते जनान् । विश्वस्फाणिर्महासत्त्वो युद्धे विष्णुसमप्रभः ॥ २,७४.१९२ ॥ विश्वस्फाणिर्नरपतिः क्लीबाकृतिरिवोच्यते । उत्सादयित्वा क्षत्रं तु क्षत्रमन्यत्करिष्यति ॥ २,७४.१९३ ॥ नव नागास्तु भोक्ष्यति पुरीं चंपावतीं नृपाः । मथुरां च पुरा रम्यां नागा भोक्ष्यन्ति सप्त वै ॥ २,७४.१९४ ॥ अनुगङ्गाप्रयागं च साकेतं मगधांस्तथा । एताञ्जनपदान्सर्वान्भोक्ष्यन्ते सप्तवंशजाः ॥ २,७४.१९५ ॥ नैष धान्य दुकांश्चैव शैशीतान् कालतोयकान् । एताञ्जनपदान्सर्वान्भोक्ष्यन्ते मणिधान्यजान् ॥ २,७४.१९६ ॥ कोशलांश्चान्ध्रपैण्ड्रांश्च ताम्रलिप्तान्ससागरान् । चंपां चैव पुरीं रम्यां भोक्ष्यन्ते देवरक्षिताः ॥ २,७४.१९७ ॥ कलिङ्गा महिषाश्चैव महेन्द्रनिलयाश्च ये । एताञ्जनपदान्सर्वान् पालयिष्यति वै गुहः ॥ २,७४.१९८ ॥ स्त्रीराष्ट्रभोजकांश्चैव भोक्ष्यते कनकाह्वयः । तुल्यकालं भविष्यन्ति सर्वे ह्यते महीक्षितः ॥ २,७४.१९९ ॥ अल्पप्रसादा ह्यनृता महाक्रोधा ह्यधार्मिकाः । भविष्यन्तीह यवना धर्मतः कामतोर्ऽथतः ॥ २,७४.२०० ॥ नैव मूर्द्धाभिषिक्तास्ते भविष्यन्ति नराधिपाः । युगदोषदुराचारा भविष्यन्ति नृपास्तु ते ॥ २,७४.२०१ ॥ भविष्यन्तीह पयाये कालेन वृथिवीक्षितः । विहीनास्तु भविष्यन्ति धर्मतः काम तोर्ऽथतः ॥ २,७४.२०२ ॥ तैर्विमिश्रा जनपदा म्लेच्छाचाराश्च सर्वशः । विपर्ययेण वर्तन्ते नाशायिष्यन्ति वै प्रजाः ॥ २,७४.२०३ ॥ लुब्धा अनृतवाचश्च भवितारस्तदा नृपाः । तेषां वर्त्तति पर्याये बहुस्त्रीके युगे तदा ॥ २,७४.२०४ ॥ लवाल्लवं भ्रश्यमाना आयुरूपबलश्रुतैः । तथा गतासु वै काष्ठं प्रजासु जगतीश्वराः ॥ २,७४.२०५ ॥ राजानः संप्रणश्यति कालेनोपहतास्तदा । कल्किना व्याहताः सर्वे म्लेच्छा यास्यन्ति संक्षयम् ॥ २,७४.२०६ ॥ अधार्मिकाश्च येऽत्यर्थं पाखण्डाश्चैव सर्वशः । प्रनष्टे नृपशब्दे च संध्याशिष्टे कलौ युगे ॥ २,७४.२०७ ॥ किञ्चिच्छिष्टाः प्रजास्ता वै धर्मे नष्टे परिग्रहाः । असाधना हतस्वाश्च व्याधिशोकनिपीडिताः ॥ २,७४.२०८ ॥ अनावृष्टिहताश्चैव परस्परवधेन च ॥ २,७४.२०९ ॥ अनाधाराः परित्रस्ता वार्तामुत्सृज्य दुःखिताः । त्यक्त्वा पुराणि ग्रामांश्च भविष्यन्ति वनौकसः ॥ २,७४.२१० ॥ एवंरूपेषु नष्टेषु प्रजास्त्यक्त्वा गृहाणि तु । नष्टे स्नेहे दुरापन्ना भ्रष्टस्नेहाः सुहृज्जनः ॥ २,७४.२११ ॥ वर्णाश्रमपरिभ्रष्टाः संकरं घोरमास्थिताः । सरित्पर्वतसेविन्यो भविष्यन्ति प्रजास्तदा ॥ २,७४.२१२ ॥ सरितः सागरानूपान्सेवन्ते पर्वतानथ । अङ्गान्कलिङ्गान्वङ्गांश्च काश्मीरान्काशिकोशलान् ॥ २,७४.२१३ ॥ ऋषिकान्तागिरिद्रोणीः संश्रयिष्यन्ति मानवाः । कृत्स्नं हिमवतः पृष्ठं कूलं च लवणांभसः ॥ २,७४.२१४ ॥ अरण्यमभिपत्स्यन्ते आर्या म्लेच्छजनैः सह । मृगैर्मीनैर्विहङ्गैश्च श्वापदैश्चेक्षुभिस्तथा ॥ २,७४.२१५ ॥ मधुशाकफलैर्मूलैर्वर्तयिष्यन्ति मानवाः । चीरं पर्णं च विविधं वल्कलान्यजिनानि च ॥ २,७४.२१६ ॥ स्वयं कृत्वा पिधास्यन्ति यथा मुनिजनस्तथा । बीजान्नानि तथा निम्नेष्वी हन्तः काष्ठशङ्कुभिः ॥ २,७४.२१७ ॥ अजैडकं खरोष्ट्रं च पालयिष्यन्ति यत्नतः । नदीर्वत्स्यन्ति तोयार्थे नूनमाश्रित्य मानवाः ॥ २,७४.२१८ ॥ पार्थिवा व्यवहारेण विबाधन्ते परस्परम् । बहुमन्याः प्रजाहीनाः शौचाचारविवर्जिताः ॥ २,७४.२१९ ॥ एवं भविष्यन्ति नरास्तदाधर्म व्यवस्थिताः । हीनान्दीनांस्तथाधर्मान्प्रजा समनुवर्त्स्यति ॥ २,७४.२२० ॥ आयुस्तदा त्रयोविंशन्न कश्चिदतिवर्तते । दुर्बला विषयग्लाना जराया संपरिप्लुताः ॥ २,७४.२२१ ॥ पत्रमूलफलाहाराश्चीरकृष्णाजिनांबराः । वृत्त्यर्थमभिलिप्स्यन्तश्चरिष्यन्ति वसुंधराम् ॥ २,७४.२२२ ॥ एतत्कालमनुप्राप्ताः प्रजाः कलियुगान्तके । क्षीणे कलियुगे तस्मिन्दिव्ये वर्षसहस्रके ॥ २,७४.२२३ ॥ निःशेषास्तु भविष्यन्ति सार्द्धं कलियुगेन तु । स संध्यांशे तु निःशेषे कृतं वै प्रतिपत्स्यते ॥ २,७४.२२४ ॥ यदा यन्द्रश्च सूर्यश्च तथा तिष्यबृहस्पती । एकराशौ भविष्यन्ति तदा कृतयुगं भवेत् ॥ २,७४.२२५ ॥ एष वंशक्रमः कृत्स्नः कीर्तितो वो यथाक्रमम् । अतीता वर्तमानाश्च तथैवानागताश्च ये ॥ २,७४.२२६ ॥ महानन्दाभिषेकान्त जन्म यावत्परीक्षितः । एतद्वर्षसहस्रं तु ज्ञेयं पञ्चाशदुत्तरम् ॥ २,७४.२२७ ॥ प्रमाणं वै तथा वक्तुं महापद्मोत्तरं च यत् । अन्तरं च शतान्यष्टौ षट्त्रिंशच्च समाः स्मृताः ॥ २,७४.२२८ ॥ एतत्कालान्तर भाव्यमन्ध्रान्ताद्याः प्रकीर्त्तिताः । भविष्यैस्तत्र संख्याताः पुराणज्ञैः श्रुतार्षिभिः ॥ २,७४.२२९ ॥ सप्तर्षयस्तदा प्राप्ताः पित्र्ये पारीक्षिते शतम् । सप्तविंशैः शतैर्भाव्या अन्ध्राणां तेऽन्वयाः पुनः ॥ २,७४.२३० ॥ सप्तविंशतिपर्यन्ते कृत्स्ने नक्षत्रमण्डले । सप्तर्षयस्तु तिष्ठन्ति पर्यायेण शतंशतम् ॥ २,७४.२३१ ॥ सप्तर्षीणां युगं त्वेतद्दिव्यया संख्यया स्मृतम् । मासा दिव्याः स्मृताः षट्च दिव्याब्दाश्चैव सप्त हि ॥ २,७४.२३२ ॥ तेभ्यः प्रवर्तते कालो दिव्यः सप्तर्षिभिस्तु तैः । सप्तर्षीणां तु यौ पूर्वौ दृश्येते उत्तरादिशि ॥ २,७४.२३३ ॥ तयोर्मध्ये च नक्षत्रं दृश्यते यत्समं दिवि । तेन सप्तर्षयो युक्ता ज्ञेया व्योम्नि शतं समाः ॥ २,७४.२३४ ॥ नक्षत्राणामृषीणां च भोगस्यैतन्निदर्शनम् । सप्तर्षयो ह्यथायुक्ताः काले परीक्षिते शतम् ॥ २,७४.२३५ ॥ अन्ध्रांशे सचतुर्विंशे भविष्यन्ति शतं समाः । इमास्तदा तु प्रकृतीर्व्यापत्स्यन्ते प्रजा भृशम् ॥ २,७४.२३६ ॥ अनृतोपहताः सर्वा धर्मतः कामतोर्ऽथतः । श्रौतस्मार्त्ते प्रशिथिले धर्मे वर्णाश्रमे तदा ॥ २,७४.२३७ ॥ संकरं दुर्बलात्मानः प्रतियास्यन्ति मोहिताः । संसक्ताश्च भविष्यन्ति शूद्राः सार्द्धं द्विजातिभिः ॥ २,७४.२३८ ॥ ब्राह्मणाः शूद्रयष्टारः शूद्रा वै मन्त्रयोनयः । उपस्थास्यन्ति तान्विप्रांस्तदा दौर्वृत्त्यलिप्सवः ॥ २,७४.२३९ ॥ लवाल्लवं भ्रश्यमानाः प्रजाः सर्वाः क्रमेण तु । क्षयमेव गमिष्यन्ति क्षीणशेषा युगक्षये ॥ २,७४.२४० ॥ यस्मिन्कृष्णो दिव्यं यातस्त स्मिन्नेव तदा दिने । प्रतिपन्नः कलियुगस्तस्य संख्यां निबोधत ॥ २,७४.२४१ ॥ सहस्राणां शतानीह त्रीणि मानुषसंख्यया । षष्टिं चैव सहस्राणि वर्षाणां तूच्यते कलिः ॥ २,७४.२४२ ॥ दिव्यं वर्षसहस्रं तु तत्संध्यांशे हि कीर्तिते । निःशेषे च तदा तस्मिन्कृतं वै प्रतिपत्स्यते ॥ २,७४.२४३ ॥ एलश्चेक्ष्वाकुवंशश्च सह भेदैः प्रकीर्तितौ । इक्ष्वाकोस्तु समृतं क्षत्त्रं सुमित्रान्तं विवस्वतः ॥ २,७४.२४४ ॥ ऐलं क्षत्त्रं क्षेमकान्तं सोम वंशविदो विदुः । एते विवस्वतः पुत्राः कीर्तिताः कीर्त्तिवर्द्धनाः ॥ २,७४.२४५ ॥ अतीता वर्तमानाश्च तथैवानागताश्च ये । ब्राह्मणाः क्षत्त्रिया वैश्यः शूद्राश्चैवात्र ये स्मृताः ॥ २,७४.२४६ ॥ युगेयुगे महात्मानः समतीताः सहस्रशः । बहुत्वान्नामधेयानां परिसंख्या कुलेकुले ॥ २,७४.२४७ ॥ पुनरुक्तिबहुत्वाच्च न मया परिकीर्त्तिता । वैवस्वतंऽतरे ह्यस्मिन्न निमिवंशः समाप्यते ॥ २,७४.२४८ ॥ एतस्यां तु युगाख्यायां यतः क्षत्त्रं प्रपत्स्यते । तथा हि कथयिष्यामि गदतो मे निबोधत ॥ २,७४.२४९ ॥ देवापिः पौरवो राजा ऐक्ष्वाकुश्चैव यो मरुः । माहायोगबलोपेतौ कलापग्राममास्थितौ ॥ २,७४.२५० ॥ एतौ क्षत्त्रप्रणेतारौ चतुर्विंशे चतुर्युगे । सुवर्चा नाम पुत्रस्तु इक्ष्वाकोस्तु भविष्यति ॥ २,७४.२५१ ॥ नवविंशे युगे सोऽथ वंशस्यादिर्भविष्यति । देवापेश्च सपौलस्तु एलादिर्भविता नृपः ॥ २,७४.२५२ ॥ क्षत्रप्रवर्त्तकौ ह्येतौ भविष्येते चतुर्युगे । एवं सर्वत्र विज्ञेयं संतानार्थे तु लत्रणम् ॥ २,७४.२५३ ॥ क्षीणे कलियुगे तस्मिन्भविष्ये त कृते युगे । सप्तर्षिभिस्तु तैः सार्द्धमाद्ये त्रेतायुगे पुनः ॥ २,७४.२५४ ॥ गोत्राणां क्षत्रियाणां च भविष्येते प्रवर्त्तकौ । द्वापरांशेन तिष्ठन्ति क्षत्रिया ऋषिभिः सह ॥ २,७४.२५५ ॥ भविष्ये तु ततः सर्गे काले कृतयुगे पुनः । बीजार्थं ते भविष्यन्ति ब्रह्मक्षत्रस्य वै पुनः ॥ २,७४.२५६ ॥ एवमेव तु सर्वेषु तिष्ठन्तीहासुरेषु वै । सप्तर्षयो नृपैः सार्द्धं संतानार्थं युगेयुगे ॥ २,७४.२५७ ॥ क्षत्रस्यैव समुच्छेदसंबन्धो वै द्विजैः स्मृतः । मन्वन्तराणां सप्तानां संतानश्च श्रुतश्च ते ॥ २,७४.२५८ ॥ परस्पराद्युगानां च ब्रह्मक्षत्रस्य चोद्भवः । यथा प्रवृत्तिस्तेषां वै प्रवृत्तानां तथा क्षयः ॥ २,७४.२५९ ॥ सप्तर्षयो विदुस्तेषां दीर्घायुष्ट्वाद्भवाभवौ । एतेन क्रमयोगेन ऐलेक्ष्वाक्वन्वया द्विजाः ॥ २,७४.२६० ॥ उत्पद्यमानास्त्रेतायां क्षीयमाणाः कलौ पुनः । अनुयान्ति युगाख्यां तु यावन्मन्वन्तरक्षयः ॥ २,७४.२६१ ॥ जामदग्न्येन रामेण क्षत्रे निरवशेषिते । कृतेयं संकुला सर्वा क्षत्रियैर्वसुधाधिपैः ॥ २,७४.२६२ ॥ द्विपंशकारणञ्चैव कीर्तयिष्ये निबोधत । ऐलस्येक्ष्वाकुनन्दस्य प्रकृतिः परिवर्त्तते ॥ २,७४.२६३ ॥ राजानः श्रेणिबद्धास्तु तथान्ये क्षत्रिया नृपाः । एलवंशस्य ये ख्यातास्तथैवेक्ष्वाकवो नृपाः ॥ २,७४.२६४ ॥ तेषामेकशतं पूर्णं कुलानामभिषेकितम् । तावदेव तु भोजानां विस्तरो द्विगुणः स्मृतः ॥ २,७४.२६५ ॥ भजते त्र्यंशकं क्षत्त्रं चतुर्थात्त द्यथा दिशम् । तेष्वतीताः समाना ये ब्रुवतस्तान्निबोधत ॥ २,७४.२६६ ॥ शतं वै प्रतिविन्ध्यानां शतं नागाः सहैहयाः । धृत राष्ट्रश्चैकशतमशीतिर्जनमेजयाः ॥ २,७४.२६७ ॥ शतं च ब्रह्मदत्तानां शारिणां विरिणां शतम् । ततः शतं तु पौलानां श्वेतकाश्य कुशादयः ॥ २,७४.२६८ ॥ ततोऽपरे सहस्रं वै येऽतीताः शशविन्दवः । ईजिरे चाश्वमेधैस्ते सर्वे नियुतदक्षिणैः ॥ २,७४.२६९ ॥ एवं राजर्षयोऽतीता शतशोऽथ सहस्रशः । मनोर्वैवस्वतस्यास्मिन्वर्त्तमानेंऽतरे तु ये ॥ २,७४.२७० ॥ तेषां निबोधतोत्पन्ना लोके संततयः स्मृताः ॥ न शक्येविस्तरस्तासां संततीनां परस्परम् ॥ २,७४.२७१ ॥ तत्पूर्वापरयोगेन वक्तुं वर्षशतैरपि । अष्टाविंशद्युगाख्यास्तु गता वैवस्वतेन्तरे ॥ २,७४.२७२ ॥ एतै राजर्षिभिः सार्द्धं शष्टायास्ता निबोधत । चत्वारिंशत्त्रयश्चैव भविष्याः सह राजभिः ॥ २,७४.२७३ ॥ युगाख्यानाव शिष्टास्तु ततो वैवस्वतक्षयः । एतद्वः कथितं सर्वे समासव्यासयोगतः ॥ २,७४.२७४ ॥ पुनरुक्तिबहुत्वाच्च न शक्य तु युगैः सह । एते ययातिपुत्राणां पञ्च वंशा विशां हिताः ॥ २,७४.२७५ ॥ कीर्त्तिताश्च व्यतीता ये ये लोकान्धारयन्त्युत । लभते च वरान्पञ्च दुर्लभा निह लौकिकान् ॥ २,७४.२७६ ॥ आयुः कीर्त्तिं धनं पुत्रान्स्वर्गं चानन्त्यमश्नुते । धारणाच्छ्रवणाच्चैव पञ्चवंशस्य धीमतः ॥ २,७४.२७७ ॥ इत्येष वो मया पादस्तृतीयः कथितो द्विजाः । विस्तरेणानुपूर्व्या च किं भूयो वर्णयाम्यहम् ॥ २,७४.२७८ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते मध्यमभागे तृतीय उपोद्धातपादे वंशानुवर्णनं नाम चतुःसप्ततितमोऽध्यायः ॥ ७४॥ समाप्तश्चायं तृतीयः पादः अथोत्तरभागप्रारमभः श्रुत्वा पादं तृतीयं तु क्रान्तं सूतेन धीमता । ततश्चतुर्थं पप्रच्छुः पादं वै ऋषिसत्तमाः ॥ ३,१.१ ॥ पादः क्रान्तस्तृतीयोऽयमनुषङ्गेण नस्त्वया । चतुर्थं विस्तरात्पादं संहारं पारिकीर्त्तय ॥ ३,१.२ ॥ मन्वन्तराणि सर्वाणि पूर्वाण्येवापरैः सह । सप्तर्षीणामथैतेषां सांप्रतस्यान्तरे मनोः ॥ ३,१.३ ॥ विस्तरावयवं चैव निसर्गस्य महात्मनः । विस्तरेणानुपूर्व्या च सर्वमेव ब्रवीहि नः ॥ ३,१.४ ॥ सूत उवाच भवतां कथयिष्यामि सर्वमेतद्यथातथम् । पादं त्विमं ससंहारं चतुर्थं मुनिसत्तमाः ॥ ३,१.५ ॥ मनोर्वैवस्वतस्येमं सांप्रतस्य महात्मंनः । विस्तरेणानुपूर्व्या च निसर्गं शृणुत द्विजाः ॥ ३,१.६ ॥ मन्वन्तराणां संक्षेपं भविष्यैः सह सप्तभिः । प्रलयं चैव लोकानां ब्रुवतो मे निबोधत ॥ ३,१.७ ॥ एतान्युक्तानि वै सम्यक्सप्तसप्तसु वै प्रजाः । मन्वन्तराणि संक्षेपाच्छृणुता नागतानि मे ॥ ३,१.८ ॥ सावर्णस्य प्रवक्ष्यामि मनोर्वैवस्वतस्य ह । भविष्यस्य भविष्यं तु समासात्तन्निबोधत ॥ ३,१.९ ॥ अनागताश्च सप्तैव स्मृतास्त्विह महर्षयः । कौशिको गालवश्चैव जामदग्न्यश्च भार्गवः ॥ ३,१.१० ॥ द्वैपायनो वशिष्टश्च कृपः शारद्वतस्तथा । आत्रेयो दीप्तिमांश्चैव ऋषयशृङ्गस्तु काश्यपः ॥ ३,१.११ ॥ भरद्वाजस्तथा द्रौणिरश्वत्थामा महायशाः । एते सप्त महात्मानो भविष्याः परमर्षयः । सुतपाश्चामिताभाश्च सुखाश्चैव गणास्त्रयः ॥ ३,१.१२ ॥ तेषां गणस्तु देवानामेकैको विंशकः स्मृतः । नामतस्तु प्रवक्ष्यामि निबोधध्वं समाहिताः ॥ ३,१.१३ ॥ ऋतुस्तपश्च शुक्रश्च कृतिर्नेमिः प्रभाकरः । प्रभासो मासकृद्धर्मस्तेजोरश्मिः क्रतुर्विराट् ॥ ३,१.१४ ॥ अर्चिष्मान् द्योतनो भानुर्यशः कीर्त्तिर्बुधो धृतिः ॥ ३,१.१५ ॥ विंशतिः सुतपा ह्येते नामभिः परिकीर्त्तिताः । प्रभुर्विभुर्विभासश्च जेता हन्ता रिहा ऋतुः ॥ ३,१.१६ ॥ सुमतिः प्रमतिर्दीप्तिः समाख्यातो महो महान् । देही मुनिरिनः पोष्टा समः सत्यश्च विश्रुतः ॥ ३,१.१७ ॥ इत्येतेह्यमिताभास्तु विंशतिः परिकीर्त्तिताः । दामो दानी ऋतः सोमो वित्तं वैद्यो यमो निधिः ॥ ३,१.१८ ॥ होमो हव्यं हुतं दानं देयं दाता तपः शमः । ध्रुवं स्थानं विधानं च नियमश्चेति विंशतिः ॥ ३,१.१९ ॥ सुखा ह्येते समाख्याताः सावर्ण्ये प्रथर्मेतरे । मारीचस्यैव ते पुत्राः कश्यपस्य महात्मनः ॥ ३,१.२० ॥ सांप्रतस्य भविष्यन्ति षष्टिर्देवास्तदन्तरे । सावर्णस्य मनोः पुत्रा भविष्यन्ति नवैव तु ॥ ३,१.२१ ॥ विरजाश्चार्वरीवांश्च निर्मोकाद्यास्तथा परे । नव चान्येषु वक्ष्यामि सावर्णेष्वन्तरेषु वै ॥ ३,१.२२ ॥ सावर्णमनवश्चान्ये भविष्या ब्रह्मणः सुताः । मेरुसावर्णितस्ते वै चत्वारो दिव्यदृष्टयः ॥ ३,१.२३ ॥ दक्षस्य ते हि वौहित्राः क्रियाया दुहितुः सुताः । महता तपसा युक्ता मेरुपृष्ठे महौ जसः ॥ ३,१.२४ ॥ ब्रह्मादिभिस्तेजनिता दक्षेणैव च धीमता । महर्लोकं गता वृत्ता भविष्या मेरुमाश्रिताः ॥ ३,१.२५ ॥ महानुभावास्ते पूर्वं जज्ञिरे चाक्षुषेन्तरे । जज्ञिरे मनवस्ते हि भविष्यानागतान्तरे ॥ ३,१.२६ ॥ प्राचेतसस्य दक्षस्य दौहित्रा मनवस्तु ये । सावर्णा नामतः पञ्च चत्वारः परमर्षिजाः ॥ ३,१.२७ ॥ संज्ञापुत्रस्तु सावर्णिरेको वैवस्वतस्तथा । ज्येष्ठः संज्ञासुतो नाम मुर्वैवस्वतः प्रभुः ॥ ३,१.२८ ॥ वैवस्वतेंऽतरे प्राप्ते समुत्पत्तिस्तयोः शुभा । चतुर्दशैते मनवः कीर्तिता कीर्तिवर्द्धनाः ॥ ३,१.२९ ॥ वेदे स्मृतौ पुराणे च सर्वे ते प्रभविष्णवः । प्रजानां पतयः सर्वे भूतानां पतयः स्थिताः ॥ ३,१.३० ॥ तैरियं पृथिवी सर्वा सप्तद्वीपा सपत्तना । पूर्णं युगसहस्रं वै परिपाल्या नरेश्वरैः ॥ ३,१.३१ ॥ प्रजाभिस्तपसा चैव विस्तरस्तेषु वक्ष्यते । चतुर्द्दशैते विज्ञेयाः सर्गाः स्वायंभुवादयः ॥ ३,१.३२ ॥ मन्वन्तराधिकारेषु वर्त्तन्तेऽत्र सकृत्सकृत् । विनिवृत्ताधिकारास्ते महार्लोकं समाश्रिताः ॥ ३,१.३३ ॥ समतीतास्तु ये तेषामष्टौ षट्च तथापरे । पूर्वेषु सांप्रतश्चायं शास्ति वैवस्वतः प्रभुः ॥ ३,१.३४ ॥ ये शिष्टास्तान्प्रवक्ष्यामि सह देवर्षिदानवैः । सह प्रजा निसर्गेण सर्वांस्तेऽनागतान्द्विजः ॥ ३,१.३५ ॥ वैवस्वत निसर्गेण तेषां ज्ञेयस्तु विस्तरः । अनूना नातिरिक्तास्ते यस्मात्मर्वे विवस्वतः ॥ ३,१.३६ ॥ पुनरुक्तबहुत्वात्तु न वक्ष्ये तेषु विस्तरम् । मन्वन्तरेषु भाव्येषु भूतेष्वपि तथैव च ॥ ३,१.३७ ॥ कुलेकुले निसर्गास्तु तस्माज्ज्ञेया विभागशः । तेषामेव हि सिद्ध्यर्थं विस्तरेण क्रमेण च ॥ ३,१.३८ ॥ दक्षस्य कन्या धर्मिष्ठा सुव्रता नाम विश्रुता । सर्वकन्यावरिष्ठा तु ज्येष्ठा या वीरिणीसुता ॥ ३,१.३९ ॥ गृहीत्वा तां पिता कन्यां जगाम ब्रह्मणोऽतिके । वैराजस्थमुपासीनं धर्मेण च भवेन च ॥ ३,१.४० ॥ भवधर्मसमीपस्थं दक्षं ब्रह्माभ्यभाषत । दक्ष कन्या तवेयं वै जनयिष्यति सुव्रता ॥ ३,१.४१ ॥ चतुरो वै मनून्पुत्रांश्चातुर्वर्ण्यकराञ्छुभान् । ब्रह्मणो वचनं श्रुत्वा दक्षो धर्मो भवस्तदा ॥ ३,१.४२ ॥ तां कन्यां मनसा जग्मुस्त्रयस्ते ब्रह्मणा सह । सत्याभिध्यायिनां तेषां सद्यः कन्या व्यजायत ॥ ३,१.४३ ॥ सदृशानूपतस्तेषां चतुरो वै कुमारकान् । संसिद्धाः कार्यकरणे संभूतास्ते श्रियान्विताः ॥ ३,१.४४ ॥ उपभोगासमर्थैश्च सद्योजातैः शरीरकैः । ते दृष्ट्वा तान्स्वयंभूतान्ब्रह्मव्याहारिणस्तदा ॥ ३,१.४५ ॥ सरंब्धा वै व्यकर्षन्त मम पुत्रो ममेत्युत । अभिध्यायात्मनोत्पन्नानूचुर्वै ते परस्परम् ॥ ३,१.४६ ॥ यो यस्य वपुषा तुल्यो भजतां सततं सुतम् । यस्य यः सदृशश्चापि रूपे वीर्ये च मानतः ॥ ३,१.४७ ॥ तं गृह्णातु स भद्रं वो वर्णतो यस्य यः समः । ध्रुवं रूपं पितुः पुत्रः सोऽनुरुध्यति सर्वदा ॥ ३,१.४८ ॥ तस्मादात्मसमः पुत्रः पितुर्मातुश्च वीर्यतः । एवं ते समयं कृत्वा सर्वेषां जगृहः सुतान् ॥ ३,१.४९ ॥ चाक्षुषस्यान्तरेऽतीते प्राप्ते वैवस्वतस्य ह । रुचेः प्रजापतेः पुत्रो रौच्यो नामाभवत्सुतः ॥ ३,१.५० ॥ भूत्यामुत्पादितो यस्तु भौत्यो नाम कवेः सुतः । वैवस्वतेंऽतरे जातौ द्वौ मनू तु विवस्वतः ॥ ३,१.५१ ॥ वैवस्वतो मनुर्यश्च सावर्णो यश्च वै श्रुतः । ज्ञेयः संज्ञासुतो विद्वान्मनुर्वैवस्वतः प्रभुः ॥ ३,१.५२ ॥ सवर्णायाः सुतश्चान्यः स्मृतो वैवस्वतो मनुः । सावर्णम नवो ये च चत्वारस्तु महर्षिजाः ॥ ३,१.५३ ॥ तपसा संभृतात्मानः स्वेषु मन्वन्तरेषु वै । भविष्येषु भविष्यन्ति सर्वकार्यार्थसाधकाः ॥ ३,१.५४ ॥ प्रथमे मेरुसावर्णेदक्षपुत्रस्य वै मनोः । परामरीचिगर्भाश्च सुधर्माणश्च ते त्रयः । संभूताश्च महात्मानः सर्वे वैवस्वतेन्तरे ॥ ३,१.५५ ॥ दक्षपुत्रस्य पुत्रास्ते रोहितस्य प्रजापतेः । भविष्यन्ति भविष्यास्तु एकैको द्वादशो गणः ॥ ३,१.५६ ॥ ऐश्वरश्च ग्रहो राहुर्वाकुर्वंशस्तथैव च । पारा द्वादश विज्ञेया उत्तरांस्तु निबोधत ॥ ३,१.५७ ॥ वाजिपो वाजिजिच्चैव प्रभूतिश्च ककुद्यथ । दधिक्रावा विपक्वश्च प्रणीतो विजयो मधुः ॥ ३,१.५८ ॥ उतथ्योत्तमकौ द्वौ तु द्वादशैते मरीचयः । सुधर्माणस्तु वक्ष्यामि नामतस्तान्निबोधत ॥ ३,१.५९ ॥ वर्णस्तथाथगर्विश्च भुरण्यो व्रजनोऽमितः । अमितो द्रवकेतुश्च जंभोऽथाजस्तु शक्रकः ॥ ३,१.६० ॥ सुनेमिर्द्युतयश्चैव सुधर्माणः प्रकीर्तिताः । तेषामिन्द्रस्तदा भाव्यो ह्यद्भुतो नाम नामतः ॥ ३,१.६१ ॥ स्कन्दोऽसौ पार्वतीयो वै कार्तिकेयस्तु पावकिः । मेधातिथिश्च पौलस्त्यो वसुः काश्यप एवं च ॥ ३,१.६२ ॥ ज्योतिष्मान्भार्गवाश्चैव द्युतिमानङ्गिरास्तथा । वसिनश्चैव वासिष्ठ आत्रेयो हव्यवाहनः ॥ ३,१.६३ ॥ सुतपाः पौलहश्चैव सप्तैते रोहितेतरे । धृतिकेतुर्दीप्तिकेतुः शापहस्तनिरामयाः ॥ ३,१.६४ ॥ पृथुश्रवास्तथानीको भूरिद्युम्नो बृहद्यशः । प्रथमस्य तु सावर्णेर्नव पुत्राः प्रकीर्तिताः ॥ ३,१.६५ ॥ दशमे त्वथ पर्याये धर्मपुत्रस्य वै मनोः । द्वीतीयस्य तु सावर्णेर्भाव्यस्यैवान्तरे मनोः ॥ ३,१.६६ ॥ सुधामानो विरुद्धाश्च द्वावेव तु गणौ स्मृतौ । दीप्तिमन्तश्च ते सर्वे शतसंख्याश्च ते समाः ॥ ३,१.६७ ॥ प्राणानां यच्छतं प्रोक्तं ऋषिभिः पुरषेति वै । देवास्ते वै भविष्यन्ति धर्मपुत्रस्य वै मनोः ॥ ३,१.६८ ॥ तेषामिन्द्रस्तथा विद्वान्भविष्यः शान्तिरुच्यते । हविष्मान्पौलहः श्रीमान्सुकीर्तिश्चाथ भार्गवः ॥ ३,१.६९ ॥ आपोमूर्तिस्तथात्रेयो वसिष्ठश्चापवः स्मृतः । पौलस्त्योऽप्रतिमश्चापि नाभागश्चैव काश्यपः ॥ ३,१.७० ॥ अभिमन्युश्चाङ्गिरसः सप्तैते परमर्षयः । सुक्षेत्रश्चोत्तमौजाश्च भूरिसेनश्च वीर्यवान् ॥ ३,१.७१ ॥ शतानीको निरामित्रो वृषसेनो जयद्रथः । भूरिद्युम्नः सुवर्चाश्च दशैतेमानवाः स्मृताः ॥ ३,१.७२ ॥ एकादशे तु पर्याये सावर्णे वै तृतीयके । निर्वाणरतयो देवाः कामगा वै मनोजवाः ॥ ३,१.७३ ॥ गणास्त्वेते त्रयः ख्याता देवातानां महात्मनाम् । एकैकस्त्रिंशतस्तेषां गणस्तु त्रिदिवौकसाम् ॥ ३,१.७४ ॥ मासस्याहानि त्रिंशत्तु यानि वै कवयो विदुः । निर्वाणरतयो देवा रात्रयस्तु विहङ्गमाः ॥ ३,१.७५ ॥ गणस्तृतीयो यः प्रोक्ते देवतानां भविष्यति । मनोजवा मूरूर्त्तास्तु इति देवाः प्रकीर्तिताः ॥ ३,१.७६ ॥ एते हि ब्रह्मणः पुत्रा भविष्या मानवाः स्मृताः । तेषामिद्रो वृषा नाम भविष्यः सुरराट्ततः ॥ ३,१.७७ ॥ तेषां सप्तऋषींश्चापि कीर्त्यमानान्निवौधत । हविष्मान्काश्यपश्चापि वपुष्मांश्चैव भार्गवः ॥ ३,१.७८ ॥ आरुणिश्च तथात्रेयो वसिष्ठो नग एव च । पुष्टिराङ्गिरसो ज्ञेयः पौलस्त्यो निश्चरस्तथा ॥ ३,१.७९ ॥ पौलहो ह्यतितेजश्च देवा ह्येकादशेन्तरे । सर्ववेगः सुधर्मा च देवानीकः पुरोवहः ॥ ३,१.८० ॥ क्षेमधर्मा ग्रहेषुश्च आदर्शः पैण्ड्रको मरुः । सावर्णस्य तु ते पुत्राः प्राजापत्यस्य वै नव ॥ ३,१.८१ ॥ द्वादशे त्वथ पर्याये रुद्रपुत्रस्य वै मनोः । चतुर्थो रुद्रसावर्णो देवांस्तस्यान्तरे शृणु ॥ ३,१.८२ ॥ पञ्चैव तुगणाः प्रोक्ता देवतानामनागताः । हरिता रोहिताश्चैव देवाः सुमनसस्तथा ॥ ३,१.८३ ॥ सुकर्माणः सुतरश्च विद्वांश्चैव सहस्रदः । पर्वतोऽनु चरश्चैव अपाशुश्च मनोजवः ॥ ३,१.८४ ॥ ऊर्जा स्वाहा स्वधा तारा दशेते हरिताः स्मृताः । तपो ज्ञानी मृतिश्चैव वर्चा बन्धुश्च यः स्मृतः ॥ ३,१.८५ ॥ रजश्चैव तु राजश्च स्वर्णपादस्तथैव च । पुष्टिर्विधिश्च वै देवा दशैते रोहिताः स्मृताः ॥ ३,१.८६ ॥ तुष्ताद्यास्तु ये देवास्त्रय स्त्रिंशत्प्रकीर्तिताः । ते वै सुमनसो वेद्यान्निबोधत सुकर्मणः ॥ ३,१.८७ ॥ सुपर्वा वृषभः पृष्टा कपिद्युम्नविपश्चितः । विक्रमश्च क्रमश्चैव विभृतः कान्त एव च ॥ ३,१.८८ ॥ एते देवाः सुकर्माणः सुतरांश्च निबोधत । वर्षो दिव्यस्तथाञ्जिष्ठो वर्चस्वी द्युतिमान्कविः ॥ ३,१.८९ ॥ शुभो हविः कृतप्राप्तिर्व्यापृतो दशमस्तथा । सुतारा नामतस्त्वेते देवा वै संप्रकीर्तिताः ॥ ३,१.९० ॥ तेषामिन्द्रस्तु विज्ञेयो ऋतधामा महायशाः । द्युतिर्वसिष्ठपुत्रस्तु आत्रेयः सुतपास्तथा ॥ ३,१.९१ ॥ तपोमूर्तिस्त्वाङ्गिरसस्तपस्वी काश्यपस्तथा । तपोधनश्च पौलस्त्यः पौलहश्च तपोरतिः ॥ ३,१.९२ ॥ भार्गवः सप्तमस्तेषां विज्ञेयस्तु तपोधृतिः । एते सप्तर्षयः सिद्धा अन्त्ये सावर्णिकेंऽतरे ॥ ३,१.९३ ॥ देववानुपदेवश्च देवश्रेष्ठो विदूरथः । मित्रवान्मित्रसेनोऽथ चित्रसेनो ह्यमित्रहा ॥ ३,१.९४ ॥ मित्रबाहुः सुवर्चाश्च द्वादशस्य मनोः सुताः । त्रयोदशेतु पर्याये भाव्ये रौच्येन्तरे पुनः ॥ ३,१.९५ ॥ त्रय एव गणाः प्रोक्ता देवानां तु स्वयंभुवा । ब्रह्मणो मानसाः पुत्रास्ते हि सर्वे महात्मनः ॥ ३,१.९६ ॥ सुत्रामाणः सुधर्माणः सुकर्माणश्च ते त्रयः । त्रिदशानां गणाः प्रोक्ता भविष्याः सोमपायिनाम् ॥ ३,१.९७ ॥ त्रयस्त्रिशद्देवता याः पृथगिज्यास्तु याज्ञिकैः । आज्येन पृषदाज्येन ग्रहश्रेष्टेन चैव ह ॥ ३,१.९८ ॥ ये वै देवास्त्रयस्त्रिंशत्पृथक्त्वेन निबोधत । सुत्रामाणः प्रयाज्यास्तु आज्याशा ये तु सांप्रतम् ॥ ३,१.९९ ॥ सुकर्माणोऽनुयाज्याख्याः पृषदाज्याशिनस्तु ये । उपयाज्याः सुधर्माण इति देवाः प्रकीर्त्तिताः ॥ ३,१.१०० ॥ दिवस्पतिर्महासत्वस्तेषामिन्द्रो भविष्यति । पुलहात्मजपुत्रास्ते विज्ञेयास्तु रुचेः सुताः ॥ ३,१.१०१ ॥ अङ्गिराश्चैव धृतिमान् पौलस्त्योऽप्यव्ययस्तु सः । पौलहस्तत्त्वदर्शी छ भार्गवश्च निरुप्सुकः ॥ ३,१.१०२ ॥ निष्प्रकंप्यस्तथात्रेयो निर्मोहः काश्यपस्तथा । सुतपाश्चैव वासिष्ठः सप्तैते तु त्रयोदश ॥ ३,१.१०३ ॥ चित्रसेनो विचित्रश्च नयो धर्मो धृतो भवः । अनेकः क्षत्रविद्धश्च सुरसो निर्भयो दश ॥ ३,१.१०४ ॥ रौच्यस्यैते मनोः पुत्रा ह्यन्तरे तु त्रयोदशे । चतुर्दशे तु पर्याये भौत्यस्याप्यन्तरे मनोः ॥ ३,१.१०५ ॥ देवतानां गणाः पञ्च प्रोक्ता ये तु भविष्यति । चाक्षुषाश्च पवित्राश्च कनिष्ठा भ्राजितास्तथा ॥ ३,१.१०६ ॥ वाचावृद्धाश्च इत्येते पञ्च देवगणाः स्मृताः । निषादाद्याः स्वराः सप्त सप्त तान्विद्धि चाक्षुषान् ॥ ३,१.१०७ ॥ बृहदाद्यानि सामानि कनिष्ठान्सप्त तान्विदुः । सप्त लोकाः पवित्रास्ते भ्राजिताः सप्तसिंधवः ॥ ३,१.१०८ ॥ वाचावृद्धानृषीन्विद्धि मनोः स्वायभुवस्य ये । सर्वे मन्वन्तरेद्राश्च विज्ञेयास्तुल्यलक्षणाः ॥ ३,१.१०९ ॥ तेजसा तपसा वुद्ध्या बलश्रुतपराक्रमैः । त्रैलोक्ये यानि सत्त्वानि गतिमन्ति ध्रुवाणि च ॥ ३,१.११० ॥ सर्वशः सर्वैर्गुणैस्तानि इन्द्रास्तेऽभिभवन्ति वै । भूतापवादिनो हृष्टा मध्यस्था भूतवादिनः ॥ ३,१.१११ ॥ भूताभवादिनः शक्तास्त्रयो वेदाः प्रवादिनाम् । अग्नीध्रः काश्यपश्चैव पौलस्त्यो मागधश्च यः ॥ ३,१.११२ ॥ भार्गवो ह्यग्निवाहुश्च शुचिराङ्गिरसस्तथा । शुक्रश्चैव तु वासिष्ठः पौलहो मुक्त एव च ॥ ३,१.११३ ॥ आत्रेयः श्वाजितः प्रोक्तो मनुपुत्रानतः शृणु । उरुर्गुरुश्च गंभीरो बुद्धः शुद्धः शुचिः कृती ॥ ३,१.११४ ॥ ऊर्जस्वी सुबलश्चैव भौत्यस्यैते मनोः सुताः । सावर्णा मनवो ह्येते चत्वारो ब्रह्मणः सुताः ॥ ३,१.११५ ॥ एको वैवस्वतश्चैव सावर्णो मनुरुच्यते । रौच्यो भौत्यश्च यौ तौ तु मतौ पौलहभार्गवौ । भौत्यस्यैवाधिपत्ये तु तूर्णं कल्पस्तु पूर्यते ॥ ३,१.११६ ॥ सूत उवाच निःशेषेषु तु सर्वेषु तदा मन्वन्तरेष्विह ॥ ३,१.११७ ॥ अन्तेऽनेकयुगे तस्मिन्क्षीणे संहार उच्यते । सप्तैते भार्गवा देवा अन्ते मन्वन्तरे तदा ॥ ३,१.११८ ॥ भुक्त्वा त्रैलोक्यम ध्यस्था युगाख्या ह्येकसप्ततीः । पितृभिर्मनुभिः सार्द्धं क्षीणे मन्वन्तरे तदा ॥ ३,१.११९ ॥ अनाधारमिदं सर्वं त्रैलोक्यं वै भविष्यति । ततः स्थाना नि शुभ्राणि स्थानिनां तानि वै तदा ॥ ३,१.१२० ॥ प्रभ्रशयन्ते विमुक्तानि तारा ऋक्षग्रहैस्तथा । ततस्तेषु व्यतीतेषु त्रैलोक्यस्येश्वरेष्विह ॥ ३,१.१२१ ॥ संप्रप्तेषु महर्लोकं यस्मिंस्ते कल्पवासिनः । अजिताद्या गणा यत्र आयुष्मन्तश्चतुर्दश ॥ ३,१.१२२ ॥ मन्वन्तरेषु सर्वेषु देवास्ते वै चतुर्द्दश । सशरीराश्च श्रूयन्ते जनलोके सहानुगाः ॥ ३,१.१२३ ॥ एवं देवेष्वतीतेषु महर्लोकाज्जनं प्रति । भूतादिष्ववशिष्टेषु स्थावरां तेषु तेषु वै ॥ ३,१.१२४ ॥ शून्येषु लोकस्थानेषु महान्तेषु भुवादिषु । देवेषु च गतेष्वूर्द्ध्वं सायुज्यं कल्पवासिनाम् ॥ ३,१.१२५ ॥ संहृत्य तास्ततो ब्रह्मा देवर्षिपितृदानवान् । संस्थापयति वै सर्गमहर्दृष्ट्वा युगक्षये ॥ ३,१.१२६ ॥ चतुर्युगसहस्रान्तमहर्यद्ब्रह्मणो विदुः । रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ ३,१.१२७ ॥ नैमित्तिकः प्राकृतिको यश्चैवात्यन्तिकोर्ऽथतः । त्रिविधिः सर्वभूतानामित्येष प्रतिसंचरः ॥ ३,१.१२८ ॥ ब्राह्मो नैमित्तिकस्तस्य कल्पदाहः प्रसंयमः । प्रतिसर्गे तु भूतानां प्राकृतः करणक्षयः ॥ ३,१.१२९ ॥ ज्ञानाच्चात्यन्तिकः प्रोक्तः कारणानामसंभवः । ततः संहृत्य तान्ब्रह्मा देवांस्त्रैलोक्यवासिनः ॥ ३,१.१३० ॥ प्रहरति प्रकुरुते सर्गस्य प्रलयं पुनः । सुषुप्सुर्भगवान्ब्रह्मा प्रजाः संहरते तदा ॥ ३,१.१३१ ॥ ततो युगसहस्रान्ते संप्राप्ते च युगक्षये । तत्रात्मस्थाः प्रजाः कर्तुं प्रपेदे स प्रजापतिः ॥ ३,१.१३२ ॥ तदा भवत्यनावृष्टिः संतता शतवार्षिकी । तया यान्यल्पसाराणि सत्त्वानि वृथिवीतले ॥ ३,१.१३३ ॥ तान्येवात्र प्रलीयन्ते भूमित्वमुपयान्ति च । सप्तरश्मिरथो भूत्वा उदत्तिष्ठद्विभावसुः ॥ ३,१.१३४ ॥ असह्यरश्मिर्भगवान्पिबत्यंभो गनस्तिभिः । हरीतारश्मयस्तस्यदीप्यमानास्तु सप्ततिः ॥ ३,१.१३५ ॥ भूय एव विवर्त्तन्ते व्याप्नुवन्तोंबरं शनैः । भौमं काष्ठेन्धनं तेजो भृशमद्भिस्तु दीप्यते ॥ ३,१.१३६ ॥ तस्मादुदकभृत्सूर्यस्तपतीति हि कथ्यते । नावृष्ट्या तपते सूर्य्यो नावृष्ट्या परिषिच्यते ॥ ३,१.१३७ ॥ नावृष्ट्या परिविश्येत वारिणा दीप्यते रविः । तस्मादपः पिबन्यो वै दीप्यते रविरंबरे ॥ ३,१.१३८ ॥ तस्य ते रश्मयः सप्त पिबन्त्यंभो महार्णवात् । तेनाहारेण संदीप्ताः सूर्याः सप्त भवन्त्युत ॥ ३,१.१३९ ॥ ततस्ते रश्मयः सप्त सूर्यभूताश्चतुर्द्दिशम् । चतुर्लोकमिमं सर्वं दहन्ति शिखिनस्तदा ॥ ३,१.१४० ॥ प्राप्नुवन्ति च ताभिस्तु ह्यूर्द्ध्वं चाधश्च रश्मिभिः । दीप्यन्ते भास्कराः सप्त युगान्ताग्निप्रतापिनः ॥ ३,१.१४१ ॥ ते वारिणा प्रदीप्ताश्च बहुसाहस्ररश्मयः । स्वं समावृत्य तिष्ठन्ति निर्दहन्तो वसुंधराम् ॥ ३,१.१४२ ॥ ततस्तेषां प्रतापेन दह्यमाना वसुंधरा । साद्रिनद्यर्णवा पृथ्वी निस्नेहा समपद्यत ॥ ३,१.१४३ ॥ दीप्ताभिः संतताभिश्च चित्राभिश्च समन्ततः । अधश्चोर्ध्वं च तिर्यक्च संरूद्धा सूर्यरश्मिभिः ॥ ३,१.१४४ ॥ सूर्याग्नीनां प्रवृद्धानां संसृष्टानां परस्परम् । एकत्वमुपयातानामेकज्वाला भवत्युत ॥ ३,१.१४५ ॥ सर्वलोकप्रणाशश्च सोऽग्निर्भूत्वानुमण्डली । चतुर्लोकमिदं सर्वं निर्दहत्याशु तेजसा ॥ ३,१.१४६ ॥ ततः प्रलीने सर्वस्मिञ्जङ्गमे स्थावरे तथा । निर्वृक्षा निस्तृणा भूमिः कूर्मपृष्ठसमा भवेत् ॥ ३,१.१४७ ॥ अंबरीषमिवाभाति सर्वमप्यखिलं जगत् । सर्वमेव तदर्चिर्भिः पूर्णं जाज्वल्यते घनः ॥ ३,१.१४८ ॥ भूतले यानि सत्त्वानि महोदधिगतानि च । ततस्तानि प्रलीयन्ते भूमित्वमुपयान्ति च ॥ ३,१.१४९ ॥ द्वीपाश्च पर्वताश्चैव वर्षाण्यथ महोदधिः । सर्वं तद्भस्मसाच्चक्रे सर्वात्मा पावकस्तु सः ॥ ३,१.१५० ॥ समुद्रेभ्यो नदीभ्यश्च पातालेभ्यश्च सर्वशः । पिबत्यपः समिद्धोऽग्निः पृथिवीमाश्रितो ज्वलन् ॥ ३,१.१५१ ॥ ततः संवर्द्धितः शैलानति क्रम्य ग्रहांस्तथा । लोकान्संहरते दीप्तो घोरः संवर्त्तकोऽनलः ॥ ३,१.१५२ ॥ ततः स पृथिवीं भित्त्वा रसातलमशोष्यत् । निर्दह्यान्ते तु पातालं वायुलोकमथादहत् ॥ ३,१.१५३ ॥ अधस्तात्पृथिवीं दग्ध्वा तूर्द्ध्वं स दहतो दिवम् । योजनानां सहस्राणि प्रयुतान्यर्बुदानि च ॥ ३,१.१५४ ॥ उदतिष्ठञ्शिखास्तस्य बह्व्यः संवर्त्तकस्य तु । गन्धर्वांश्च पिशाचांश्च समहोरगराक्षसान् ॥ ३,१.१५५ ॥ तदा दहति संदीप्तो गोलकं चैव सर्वशः । भूर्लोकं च भुवर्ल्लोकं स्वर्लोकं च महस्तथा ॥ ३,१.१५६ ॥ घोरो दहति कालाग्निरेवं लोकचतुष्टयम् । व्याप्तेषु तेषु लोकेषु तिर्यगूर्द्ध्वमथाग्निना ॥ ३,१.१५७ ॥ तत्तेजः समनुप्राप्य कृत्स्नं जगदिदं शनैः । अयोगुडनिभं सर्वं तदा ह्येवं प्रकाशते ॥ ३,१.१५८ ॥ ततो गजकुलाकारास्तडिद्भिः समलङ्कृताः । उत्तिष्ठन्ति तदा घोरा व्योम्नि संवर्तका घनाः ॥ ३,१.१५९ ॥ केचिन्नीलोत्पलश्यामाः केचित्कुमुदसन्निभाः । केचिद्वैडूर्यसंकाशा इन्द्रनीलनिभाः परे ॥ ३,१.१६० ॥ शङ्खकुन्दनिभाश्चान्ये जात्यञ्जननिभास्तथा । धूम्रवर्णा घनाः केचित्केचित्पीताःपयोधराः ॥ ३,१.१६१ ॥ केचिद्रासभवर्णाभा लाक्षारसनिभास्तथा । मनशिलाभास्त्वपरे कपोताभास्तथांबुदाः ॥ ३,१.१६२ ॥ इन्द्रगोपनिभाः केचिद्धरितालनिभास्तथा । चाषपत्रनिभाः केचिदुत्तिष्ठन्ति घना दिवि ॥ ३,१.१६३ ॥ केचित्पुरवराकाराः केचिद्गजकुलोपमाः । केचित्पर्वतसंकाशाः केचित्स्थलनिभा घनाः ॥ ३,१.१६४ ॥ क्रीडागारनिभाः केचित्केचिन्मीनकुलोपमाः । बहुरूपा घोररूपा घोरस्वरनिनादिनः ॥ ३,१.१६५ ॥ तदा जलधराः सर्वे पूरयन्ति नभस्तलम् । ततस्ते जलदा घोरराविणो भास्करात्मकाः ॥ ३,१.१६६ ॥ सप्तधा संवृतात्मानस्तमग्निं शमयन्त्युत । ततस्ते जलदा वर्षं मुञ्चन्ति च महौघवत् ॥ ३,१.१६७ ॥ सुघोरमशिवं सर्वं नाशयन्ति च पावकम् । प्रवृष्टैश्च तथात्यर्थं वारिणा पूर्यते जगत् ॥ ३,१.१६८ ॥ अद्भिस्तेजोभिभूतं च तदाग्निः प्रविशत्यपः । नष्टे चाग्नौ वर्षगते पयोदाः पावकोद्भवाः ॥ ३,१.१६९ ॥ प्लावयन्तो जगत्सर्वं बृहज्जलपरिस्रवैः । धाराभिः पूरयन्तीमं चोद्यमानाः स्वयंभुवा ॥ ३,१.१७० ॥ अन्ये तु सलिलौघैस्तु वेलामभिभवन्त्यपि । साद्रिद्वीपान्तरं पीतं जलमन्नेषु तिष्ठति ॥ ३,१.१७१ ॥ पुनः पतति भूमौ तत्पयोधस्तान्नभस्तले । संवेष्टयति घोरात्मा दिवि वायुः समततः ॥ ३,१.१७२ ॥ तस्मिन्नेकार्मवे घोरे नष्टे स्थावारजङ्गमे । पूर्मे युगसहस्रे वै निःशेषः कल्प उच्यते ॥ ३,१.१७३ ॥ अथांभसऽऽवृते लोके प्राहुरेकार्मवं बुधाः । अथ भूमिर्जलं खं च वायुश्चैकार्मवे तदा ॥ ३,१.१७४ ॥ नष्टेऽनलेऽन्धभूते तु प्राज्ञायत न किञ्चन । पार्थिवास्त्वथ सामुद्रा आपो दैव्याश्च सर्वशः ॥ ३,१.१७५ ॥ असरन्त्यो व्रजन्त्यैक्यं सलिलाख्यां भजन्त्युत । आगतागतिके चैव तदा तत्सलिलं स्मृतम् ॥ ३,१.१७६ ॥ प्रच्छाद्यति महीमेतामर्णवाख्यं तु तज्जलम् । आभाति यस्मात्तद्भाभिर्भाशब्दो व्याप्तिदीप्तिषु ॥ ३,१.१७७ ॥ भस्म सर्वमनुप्राप्य तस्मादंभो निरुच्यते । नानात्वे चैव शीघ्रे च धातुर्वै अर उच्यते ॥ ३,१.१७८ ॥ एकार्मवे तदा ह्यो वै न शीघ्रस्तेन ता नराः । तस्मिन्युगसहस्रान्ते दिवसे ब्रह्मणो गते ॥ ३,१.१७९ ॥ तावन्तं कालमेवं तु भवत्येकार्मवं जगत् । तदा तु सर्वे व्यापारा निवर्त्तन्ते प्रजापतेः ॥ ३,१.१८० ॥ एकमेकार्णवे तस्मिन्नष्टे स्थावरजङ्गमे । तदा स भवति ब्रह्मा सहस्राक्षः सहस्रपात् ॥ ३,१.१८१ ॥ सहस्रशीर्षा सुमनाः सहस्रपात्सहस्रचक्षुर्वदनः सहस्रवाक् । सहस्रबाहुः प्रथमः प्रजापतिस्त्रयी मयो यः पुरुषो निरुच्यते ॥ ३,१.१८२ ॥ आदित्यवर्मा भुवनस्य गोप्ता अपूर्व एकः प्रथमस्तुराषाट् । हिरण्यगर्भः पुरुषो महान्वै संपठ्यते वै रजसः परस्तात् ॥ ३,१.१८३ ॥ चतुर्युगसहस्रान्ते सर्वतः सलिलाप्लुते । सुषुप्सुरप्रकाशेप्सुः स रात्रिं कुरुते प्रभुः ॥ ३,१.१८४ ॥ चतुर्विधा यदा शेते प्रजाः सर्वा लयं गताः । पश्यन्ति तं महात्मानं कालं सप्त महर्षयः ॥ ३,१.१८५ ॥ जनलोकं विवर्त्तास्ते तपसा लब्धचक्षुषः ॥ ३,१.१८५ ॥ भृग्वादयो महात्मानः पूर्वे व्याख्यातलक्षणाः ॥ ३,१.१८६ ॥ सत्यादीन्सप्तलोकान्वै ते हि पश्यन्ति चक्षुषा । ब्रह्माणं ते तु पश्यन्ति सदा ब्राह्मीषु रात्रिषु ॥ ३,१.१८७ ॥ सप्तर्षयः प्रपश्यन्ति स्वप्नं कालं स्वरात्रिषु । कल्पानां परमेष्टि त्वात्तस्मादाद्यः स पठ्यते ॥ ३,१.१८८ ॥ स स्रष्टा सर्वभूतानां कल्पादिषु पुनः पुनः । एवमेशायित्वा तु ह्यात्मन्येव प्रजापतिः ॥ ३,१.१८९ ॥ अथात्मनि महातेजाः सर्वमादाय सर्वकृत् । ततः स वसते रात्रिं तमस्येकार्णवे जले ॥ ३,१.१९० ॥ ततो रात्रिक्षये प्राप्ते प्रति बुद्धः प्रजापतिः । मनः सिसृक्षया युक्तः सर्गाय निदधे पुनः ॥ ३,१.१९१ ॥ एवं स लोके निर्वृत्त उपशान्ते प्रजापतौ । ब्राह्मे नैमित्तिके तस्मिन्कल्पिते वै प्रसंयमे ॥ ३,१.१९२ ॥ देहैर्वियोगः सत्त्वानां तस्मिन्वै कृत्स्नशः स्मृतः । ततो धग्धेषु भूतेषु सर्वेष्वादित्यरशिमभिः ॥ ३,१.१९३ ॥ देवर्षिमनुवर्येषु तस्मिन्नंबुप्लवे तदा । गन्धर्वादीनि सत्त्वानि पिशायान्तानि सर्वशः ॥ ३,१.१९४ ॥ कल्पादावप्रतप्तानि जनमेवाश्रयन्ति वै । तिर्यग्योनीनि नरके यानि यानि गतान्यपि ॥ ३,१.१९५ ॥ तदा तान्यापि दग्धानि धूतपापानि सर्वशः । जले तान्युपपद्यन्ते यावत्संप्लवते जगत् ॥ ३,१.१९६ ॥ व्युष्टायां च रचन्यां तु ब्रह्मणोऽव्यक्तयोनितः । जायन्ते हि पुनस्तानि सर्वभूतानि कृतस्नशः ॥ ३,१.१९७ ॥ ऋषयो मनवो देवाः प्रजाः सर्वाश्चतुर्विधाः । तेषामपि च सिद्धानां निधनोत्पत्तिरुच्यते ॥ ३,१.१९८ ॥ यथासूर्यस्य लोकेऽस्मिन्नुदयास्तमने स्मृते । तथा जन्मनिरोधश्च भूतानामिह दृश्यते ॥ ३,१.१९९ ॥ आभूतसंप्लवात्तस्माद्भवः संसार उच्यते । यथा सर्वाणि भूतानां जायन्ते वर्षणेष्विह ॥ ३,१.२०० ॥ स्थावरादीनि नियमात्कल्पे कल्पे तथा प्रजाः । यथार्त्तावृतुलिङ्गानि नानारूपाणि पर्यये ॥ ३,१.२०१ ॥ दृश्यन्ते तानि तान्येव तथा ब्रह्मद्युरात्रिषु । प्रत्याहारे विसर्गे च गतिमन्ति ध्रुवाणि च ॥ ३,१.२०२ ॥ निष्क्रमन्ते विशन्ते च प्रजाः काले प्रजापतिम् । ब्रह्माणं सर्वभूतानि महायोगं महेश्वरम् ॥ ३,१.२०३ ॥ स स्रष्टा सर्वभूतानां कल्पादिषु पुनः पुनः । व्यक्तोऽव्यक्तो महादेवस्तस्य सर्वमिदं जगत् ॥ ३,१.२०४ ॥ येनैव सृष्टाः प्रथमं प्रयाता आपो हि मार्गेण महीतलेऽस्मिन् । पूर्वं प्रयातेन यथात्वथापस्तेनैव तेनैव तु स्वर्व्रजन्ति ॥ ३,१.२०५ ॥ यथा शूभेन त्वशुभेन चैव तत्रैव तत्रैव विवर्त्तमानाः । मर्त्यास्तु देहान्तरभावितत्वाद्रवेर्वशादूर्ध्वमधश्चरन्ति ॥ ३,१.२०६ ॥ ये चापि देवा मनवः प्रजेशा अन्येऽपि ये स्वर्गगताश्च सिद्धाः । तद्भाविताः ख्यातिवशाश्च धर्म्याः पुनर्विसर्गेण भवन्ति सत्त्वाः ॥ ३,१.२०७ ॥ अत ऊर्ध्वं प्रवक्ष्यामि कालमाभूतसंप्लवम् । मन्वन्तराणि यानि स्युर्व्याख्यातानि मया द्विजाः ॥ ३,१.२०८ ॥ सह प्रजानिसर्गेण सह देवैश्चतुर्द्दश । सा युगाख्या सहस्रं तु सर्वाण्येवान्तराणि वै ॥ ३,१.२०९ ॥ अस्याः सहस्रे द्व पूर्ण विशेषः कल्प उच्यते । एतद्ब्राह्ममहर्ज्ञेयं तस्य सख्यां निबोधत ॥ ३,१.२१० ॥ निमेषतुल्यमात्रा हि कृता लब्दक्षणेन तु । मानुषाक्षिनिमेषास्तु काष्ठा पञ्चदश स्मृताः ॥ ३,१.२११ ॥ नव क्षणस्तु पञ्जैव विंशत्काष्ठा तु ते त्रयः । प्रस्था सप्तो दकाश्चैव साधिकाक्तु लवः स्मृतः ॥ ३,१.२१२ ॥ लवास्त्रिंशत्कला ज्ञेया मुहूर्त्तस्त्रिंशतः कलाः । मुहूर्त्तास्तु पुनस्त्रिंशदहोरात्रमिति स्थितिः ॥ ३,१.२१३ ॥ अहोरात्रं कलानां तु अधिकानि शतानि षट् । ताश्चैव संख्याया ज्ञेयाश्चन्द्रादित्यगतिर्यथा ॥ ३,१.२१४ ॥ निमेषा दशपञ्चैवं काष्ठा स्तास्त्रिंशतः कला । त्रिंशत्कला मुहूर्त्तं तु दशभागं कला स्मृतम् ॥ ३,१.२१५ ॥ चत्वारिंशत्कलाः पञ्च मुहूर्त्त इति संज्ञितः । मुहूर्त्ताश्च लवाश्चापि प्रमाणज्ञैः प्रकल्पिताः ॥ ३,१.२१६ ॥ तथानेनांभसश्चापिं पलान्यथ त्रयोदश । मागधेनैव मानेन जलप्रस्थो विधीयते ॥ ३,१.२१७ ॥ एते वाराप्लुतप्रस्थाश्चत्वारो नालिकोच्चयः । हेममाषैः कृतच्छिद्रश्चतुर्भिश्चतुरङ्गुलैः ॥ ३,१.२१८ ॥ समाहनि च रात्रौ च मुहूर्त्ता वै द्विनालिकाः । रवेर्गतिविशेषेण सर्वेष्वेतेषु नित्यशः ॥ ३,१.२१९ ॥ अधिकं षट्शतं यच्च कलानां प्रविधीयते । तदहर्मानुषं ज्ञेयं नाक्षत्रं तु दशाधिकम् ॥ ३,१.२२० ॥ सावनेन तु मानेन अब्दोऽयं मानुषः स्मृतः । एतद्दिव्यमहोरात्रमिति शास्त्रविनिश्चयः ॥ ३,१.२२१ ॥ अह्लानेन तु या संख्या मासर्त्वयनवार्षिकी । तदा बद्धमिदं ज्ञानं संज्ञया ह्युपलक्षितम् ॥ ३,१.२२२ ॥ कलानां तु परिमाणं कला इत्यभिधीयते । यदहो ब्रह्मणः प्रोक्तं दिव्या कोटी तु सा स्मृता ॥ ३,१.२२३ ॥ शतानां च सहस्राणि दशद्विगुणितानि च । नवतिं च सहस्राणि तथैवान्यानि यानि तु ॥ ३,१.२२४ ॥ एतच्छ्रुत्वा तु ऋषयो विस्मयं परमाद्भुतम् । संख्यासंभजनं ज्ञानमपृच्छन्सुतरां तदा ॥ ३,१.२२५ ॥ ऋषय ऊचुः संप्रकालन मानं तु मानुषेणैव सम्मतम् । मानेन श्रोतुमिच्छामः संक्षेपार्थपादाक्षरम् ॥ ३,१.२२६ ॥ तेषां श्रुत्वा स देवस्तु वायुर्लोकहिते रतः । संक्षेपाद्दिव्यचक्षुष्ट्वा त्प्रोवाच वचनं प्रभुः ॥ ३,१.२२७ ॥ एते रात्र्यहनी पूर्वं कीर्तिते त्विह लौकिके । तासां संख्याथ वर्षाग्रं ब्राह्मे वक्ष्याम्यहःक्षये ॥ ३,१.२२८ ॥ कोडीशतानि चत्वारि वर्षाणि मानुषाणि तु । द्वात्रिंशच्च तथा कोट्यः संख्याताः संख्यया द्विजैः ॥ ३,१.२२९ ॥ तथा शतसहस्राणि एकोननवतिः पुनः । अशीतिश्च सहस्राणि एष कालः प्लवस्य तु ॥ ३,१.२३० ॥ मानुषाख्येन संख्यातः कालो ह्याभूतसं प्लवः । सप्तसूर्यप्रदग्धेषु तदा लोकेषु तेषु वै । महाभूतषु लीयन्त प्रजाः सर्वाश्चतुर्विधाः ॥ ३,१.२३१ ॥ सलिलेनाप्लुते लोके नष्टे स्थावरजङ्गमे ॥ ३,१.२३२ ॥ विनिवृत्ते च संहारे उपशान्ते प्रजापतौ । निरालोके प्रदग्धे तु नैशेन तमसा वृते ॥ ३,१.२३३ ॥ ईश्वराधिष्ठिते त्वस्मिं स्तदा ह्येकार्मवे किल । तावदेकार्मवे ज्ञेयं यावदासीदहः प्रभोः ॥ ३,१.२३४ ॥ रात्रिस्तु सलिलावस्था निवृत्तौ वाप्यहः स्मृतम् । अहोरात्रस्तथैवास्य क्रमेण परिवर्तते ॥ ३,१.२३५ ॥ आभूतसंप्लवो ह्येष अहोरात्रः स्मृतः प्रभोः । त्रैलोक्ये यानि सत्त्वानि गतिमन्तिध्रुवाणि च ॥ ३,१.२३६ ॥ आभूतेभ्यः प्रलीयन्ते तस्मादाभूतसंप्लवः । अतीता वर्तमानाश्च तथैवानागताः प्रजाः ॥ ३,१.२३७ ॥ दिव्यसंख्या प्रसंख्याता अपरार्धगुणीकृताः । परार्द्धं द्विगुणं चापि परमायुः प्रकीर्त्ततम् ॥ ३,१.२३८ ॥ एतावान्स्थितिकालस्तु ह्यजस्येह प्रजापतेः । स्थित्यन्तं प्रतिसर्गश्च ब्रह्मणः परमेष्ठिनः ॥ ३,१.२३९ ॥ यथा वायुप्रवेगेन दीपार्चिरुपशम्यति । तथैव प्रतिसर्गेण ब्रह्मा समुपशाम्यति ॥ ३,१.२४० ॥ तथा स्वप्रतिसंसृष्टे महदादौ महेश्वरे । महत्प्रलीयते व्यक्ते गुणसाम्यं ततो भवेत् ॥ ३,१.२४१ ॥ इत्येष वः समाख्यातो मया ह्याभूतसंप्लवः । ब्रह्मनैमित्तिको ह्येष संप्रक्षालनसंयमः । समासेन समाख्यातो भूयः किं वर्मयामि वः ॥ ३,१.२४२ ॥ य इदं धारयेन्नित्यं शृणुयाद्वाप्यभीक्ष्णशः । कीर्त्तयेद्वर्णयेद्वापि महतीं सिद्धिमाप्नुयात् ॥ ३,१.२४३ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते उत्तरभागे चतुर्थ उपसंहारपादे आभूतसंप्लवाख्यवर्णनं नाम प्रथमोऽध्यायः _____________________________________________________________ वायुरुवाच असाधारणवृत्तैस्तु हुतशेषादिभिर्जनैः । धर्मा वैशेषिकाश्चैव आचीर्णाः सूक्ष्मदर्शिभिः ॥ ३,२.१ ॥ ते देवैः सह तिष्ठन्ति महर्लोकनिवासिनः । चतुर्दशैते मनवः कीर्तिताः कीर्तिवर्द्धनाः ॥ ३,२.२ ॥ अतीता वर्त्तमानाश्च तथैवानागताश्च ये । देवाश्च ऋषयश्चैव मनवः पितरस्तथा ॥ ३,२.३ ॥ सर्वे ह्युक्ता मयातीत महर्लोकं समाश्रिताः । ब्राह्मणैः क्षत्रियैर्वैश्यैर्धार्मिकैः सहितैः सरैः ॥ ३,२.४ ॥ तैस्तथाकारिभिर्युक्तैः श्रद्धावद्भिरदर्पितैः । वर्णाश्रमाणान्धर्मेषु श्रौतस्मार्त्तेषु संस्थितैः । विनिवृत्ताधिकारास्ते यावन्मन्वन्तरक्षयः ॥ ३,२.५ ॥ ऋषय ऊचुः महर्ल्लोकेति यत्प्रोक्तं मातरिश्वंस्त्वया विभोः ॥ ३,२.६ ॥ प्रतिलोके तु कर्त्तव्यं तत्रकिं समधिष्ठितम् । प्रोवाच मधुरं वाक्यं यथा तत्त्वेन तत्त्ववित् ॥ ३,२.७ ॥ वायुरुवाच चतर्दशैव स्थानानि निर्मितानि महर्षिभिः । लोकाख्यानि तु यानि स्युर्येषां तिष्ठन्ति मानवाः ॥ ३,२.८ ॥ सप्त तेषु कृतान्याहुरकृतानि तु सप्त वै । भूरादयस्तु सत्यान्ताः सप्त लोकाः कृतास्त्विह ॥ ३,२.९ ॥ अकृतानि तु सप्तैव प्राकृतानि तु यानि वै । स्थानानि स्थानिभिः सार्द्धं कृतानि तु निबन्धनम् ॥ ३,२.१० ॥ पृथिवी चान्तरीक्षं च दिव्यं यच्च महः स्मृतम् । स्थानान्येतानि चत्वारि स्मृतान्यावर्णकानि च ॥ ३,२.११ ॥ क्षयातिशययुक्तानि तथायुक्तानि चक्षते । यानि नैमित्तिकानि स्युस्तिष्ठन्त्याभूतसंप्लवात् ॥ ३,२.१२ ॥ जनस्तपश्च सत्यं च स्थानान्येतानि त्रीणि तु । एकान्तिकानि तानि स्युस्तिष्ठन्तीहाप्रसंयमात् ॥ ३,२.१३ ॥ व्यक्तानि तु प्रवक्ष्यामि स्थानान्येतानि सप्त वै । भूर्लोकः प्रथमस्तेषां द्वितीयस्तु भुवः स्मृतः ॥ ३,२.१४ ॥ स्वस्तृतीयस्तु विज्ञेयश्चतुर्थो वै महः स्मृतः । जनस्तु पञ्चमो लोकस्तपः षष्ठो विभाव्यते ॥ ३,२.१५ ॥ सत्यस्तु सप्तमो लोको निरालोकस्ततः परम् । भूरिति व्याहृतेः पूर्व भूर्लोकश्च ततोऽभवत् ॥ ३,२.१६ ॥ द्वीतीयो भुव इत्युक्त अन्तरिक्षं ततोऽभवत् । तृतीयं स्वरितीत्युक्तो दिवं प्रादुर्बभूव ह ॥ ३,२.१७ ॥ व्याहारैस्त्रिभिरेतैस्तु ब्रह्मा लोकमकल्पयत् । ततो भूः पार्थिवो लोको ह्यन्तरिक्षं भूवः स्मृतम् ॥ ३,२.१८ ॥ स्वर्लोकं वै दिवं ह्येष पुराणे निश्चयो गतः । भूतस्याधिपतिश्चाग्निस्ततो भूतपतिः स्मृतः ॥ ३,२.१९ ॥ वायुर्भुवश्चाधिपतिस्तेन वायुर्भुवस्पतिः । दिवस्य सूर्योऽधिपतिस्तेन सूर्यो दिवस्पतिः ॥ ३,२.२० ॥ महेति व्यात्दृतेनैव महर्लोकस्ततोऽभवत् । विनिवृत्ताधिकारणां देवानां तत्र वै क्षयः ॥ ३,२.२१ ॥ जनस्तु पञ्चमो लोकस्तस्माज्जायन्ति वै जनाः । तासां स्वायंभुवाद्यानां प्रजानां जननाज्जनः ॥ ३,२.२२ ॥ ये ते स्वायंभुवाद्या हि पुरस्तात्परिकीर्त्तिताः । कल्प एते यदा लोके प्रतिष्ठन्ति तदा तपः ॥ ३,२.२३ ॥ ऋभुः सनत्कुमाराद्या यत्रासन्नूर्द्ध्वरेतसः । तपसा भावितात्मानस्तत्र संतीति वा तपः ॥ ३,२.२४ ॥ सत्येति ब्रह्मणः शब्दः सत्तामात्रस्तु स स्मृतः । ब्रह्मलोकस्ततः सत्यः सप्तमः स तु भास्वरः ॥ ३,२.२५ ॥ गन्धर्वाप्सरसो यक्षा गुह्यकास्तु सराक्षसाः । सर्वभूतपिशाचाश्च नागाश्च सह मानुषैः ॥ ३,२.२६ ॥ स्वर्लोकवासिनः सर्वे देवा भुवि निवासिनः । मरुतो मातरिश्वानो रुद्रा देवास्तथाश्विनौ ॥ ३,२.२७ ॥ अनिकेतान्तरिक्षास्ते भुवर्लोका दिवौकसः । आदित्या ऋभवो विश्वे साध्याश्च पितरस्तथा ॥ ३,२.२८ ॥ ऋषयोङ्गिर सश्चैव भुवर्लोकं समाश्रिताः । एते वैमानिका देवास्ताराग्रहनिवासिनः ॥ ३,२.२९ ॥ आरंभन्ते तु तन्मात्रैः शुद्धास्तेषां परस्परम् । शुक्राद्याश्चक्षुषान्ताश्च ये व्यतीता भुवं श्रिताः ॥ ३,२.३० ॥ महर्लोकश्चतुर्थस्तु तस्मिंस्ते कल्पवासिनः । इत्येते क्रमशः प्रोक्ता ब्रह्मव्याहारसंभवाः ॥ ३,२.३१ ॥ भूर्लोकप्रथमा लोका महरन्ताश्च ते स्मृताः । तान्सर्वान्सप्तसूर्यास्ते अर्चिभिर्निर्दहन्ति वै ॥ ३,२.३२ ॥ मारीचिः कश्यपो दक्षस्तथा स्वायंभुवोङ्गिराः । भृगुः पुलस्त्यः पुलहः क्रतुरित्येवमादयः ॥ ३,२.३३ ॥ प्रजानां पतयः सर्वे वर्त्तंन्ने तत्र तैः सह । निःसत्त्वा निर्ममाश्चैव तत्र ते ह्यूर्द्वरेतसः ॥ ३,२.३४ ॥ ऋभुः सनत्कुमाराद्या वैराजास्ते तपोधनाः । मन्वन्तराणां सर्वेषां सावर्णानां ततः स्मृताः ॥ ३,२.३५ ॥ चतुर्दशानां सर्वेषां पुनरावृत्तिहेतवः । योगं तपश्च सत्त्वं च समाधाय तदात्मनि ॥ ३,२.३६ ॥ षष्ठे काले निवर्त्तते तदा प्राहुर्विपर्ययात् । सत्यस्तु सप्तमो लोको ह्यपुनर्मार्गगामिनाम् ॥ ३,२.३७ ॥ ब्रह्मलोकः समाख्यातो ह्यप्रतीघातलक्षणः । पर्यासपरिमाणेन भूर्लोकः समभिस्मृतः ॥ ३,२.३८ ॥ भूम्यन्तरं यदादित्यादन्तरिक्षं भुवः स्मृतम् । सूर्यध्रुवान्तरं यच्च स्वर्गलोको दिवः स्मृतः ॥ ३,२.३९ ॥ ध्रुवाज्जनान्तरं यच्च महर्लोकः स उच्यते । व्याख्याताः सप्तलोकास्तु तेषां वक्ष्यामि सिद्धयः ॥ ३,२.४० ॥ भूर्लोकवासिनः सर्वे उन्नादास्तु रसात्मकाः । भुवि स्वर्गे च ये सर्वे सोमपा आज्यपाश्च ते ॥ ३,२.४१ ॥ चतुर्थे येऽपि वर्त्तन्ते महर्लोकं समाश्रिताः । विज्ञेया मानसी तेषां सिद्धिर्वै पञ्चलक्षणा ॥ ३,२.४२ ॥ सद्यश्चोत्पद्यते तेषां मनसा सर्वमीप्सितम् । एते देवा यजन्ते वै यज्ञैः सर्वैः परस्परम् ॥ ३,२.४३ ॥ अतीता वर्त्तमानाश्च तथा ये चाप्यनागताः । प्रथमानन्तरोद्दिष्टा अन्तराः सांप्रतैः पुनः ॥ ३,२.४४ ॥ निवर्त्तते हि संबन्धोऽतीते देवगणे तपः । विनिवृत्ताधिकाराणां सिद्धस्तेषां तु मानसी ॥ ३,२.४५ ॥ तषां तु मानसी ज्ञेया शुद्धा सिद्धिः परस्परात् । उक्ता लोकास्तु चत्वारो जनस्यानुविधिस्तथा । समासेन मया विप्रा भूयस्तं वर्त्तयामि वः ॥ ३,२.४६ ॥ वायुरुवाच मरीचिः कश्यपो दक्षो वसिष्ठश्चाङ्गिरा भृगुः ॥ ३,२.४७ ॥ पुलस्त्यः पुलहस्छैव क्रतुरित्येवामादयः । पूर्वं ते संप्रसूयन्ते ब्रह्मणो मानसा इह ॥ ३,२.४८ ॥ ततः प्रजाः प्रतिष्ठाप्य जनमेवाश्रयन्ति ते । कल्पदाहेषु तु सदा तथा कालेषु तेषु वै ॥ ३,२.४९ ॥ भूरादिषु महान्तेषु भृशं व्याप्ते यथाग्निना । शिखाः संवर्त्तकाग्नेर्याः प्राप्नुवन्ति सवासनाः ॥ ३,२.५० ॥ यामादयो गणाः सर्वे महर्लोकनिवासिनः । महर्लोकेषु दीप्तेषु जनमेवाश्रयन्ति ते ॥ ३,२.५१ ॥ सर्वे सूक्ष्मशरीरास्ते तत्रस्थाश्च भवन्ति ते । तेषां ते तुल्यसामर्थ्या स्तुल्यमूर्त्तिधरास्तथा ॥ ३,२.५२ ॥ जनलोके विवर्त्तन्ते संवर्त्तः प्लवते जगत् । व्युष्टायां तु रजन्यां वै ब्रह्मणोऽव्यक्तयोनितः ॥ ३,२.५३ ॥ अहरादौ प्रसूयन्ते पूर्ववत्क्रमशस्त्विह । स्वायंभुवादयः सर्वे मरीच्यन्तास्तु साधकाः ॥ ३,२.५४ ॥ देवास्ते वै पुनस्तेषां जायन्ते निधनेष्विह । यामादयः क्रमेणैव कनिष्ठाद्याः प्रजापतेः ॥ ३,२.५५ ॥ पूर्वं पूर्वे प्रसूयन्ते पश्चिमे पश्चिमास्तथा । देवान्वये देवता हि सप्त संभूत यः स्मृताः ॥ ३,२.५६ ॥ व्यतीताः कल्पजास्तेषां तिस्रः शिष्टास्तथापरे । आवर्त्तमाना देवास्ते क्रमेणैतेन सर्वशः ॥ ३,२.५७ ॥ गत्वा जव जवीभावं दशकृत्वाः पुनः पुनः । ततस्ते वै गणाः सर्वे दृष्ट्वा भावेष्वनित्यताम् ॥ ३,२.५८ ॥ भाविनोर्ऽथस्य च बलात्पुण्यख्यातिबलेन च । निवृत्तवृत्त्यः सर्वेऽत्रस्थाः सुमनसस्तथा ॥ ३,२.५९ ॥ वैराजमुपपद्यन्ते लोकानुत्सृज्य तं गताः । ततोऽनेनैव कालेन नित्ययुक्तास्तपस्विनः ॥ ३,२.६० ॥ कथनाच्चैव धर्मस्य तेषां ते जज्ञिरेऽन्वये । इहोत्पन्नास्ततस्ते वै स्थानान्यापूरयन्त्युत ॥ ३,२.६१ ॥ देवत्वे च ऋषित्वे च मनुष्यत्वे च सर्वशः । एवं देवगणाः सर्वे दशकृत्वो निवर्त्यवै ॥ ३,२.६२ ॥ वैराजेषूपपन्नास्ते दश तिष्ठन्त्युपप्लवान् । पूर्णोपूर्णो ततः कल्पेस्थित्वा वैराजके पुनः ॥ ३,२.६३ ॥ ब्रह्मलोके विवर्त्तन्ते पूर्वपूर्वक्रमेण तु । एतस्मिन्ब्रह्मलोके तु कल्पे वैराजके गते ॥ ३,२.६४ ॥ वैराजः पुनरव्यक्ते कल्पस्थानमकल्पयत् । एवं पूर्वानुपूर्व्येण ब्रह्मलोकगतेन वै ॥ ३,२.६५ ॥ वैराजेषूपपद्यन्ते दशकृत्वो विवर्त्यत । एवं देवयुगानीह व्यतीतानि सहस्रशः ॥ ३,२.६६ ॥ निधनं ब्रह्मलोके तु गतानामृषिभिः सह । न शक्यमानुपूर्व्येण तेषां वक्तुं प्रविस्तरम् ॥ ३,२.६७ ॥ अनादित्वाच्च कालस्य ह्यसंख्यानाच्च सर्वशः । एवमेव न संदेहो यथावत्कथितं मया ॥ ३,२.६८ ॥ तदुपश्रुत्य वाक्यार्थमृषयः संशयान्विताः । सूतमाहुः पुराणज्ञं व्यासशिष्यं महामतिम् ॥ ३,२.६९ ॥ ऋषय ऊचुः वैराजास्ते यदाहारा यत्सत्त्वाश्च यदाश्रयाः । तिष्ठन्ति चैव यत्कालं तन्नो ब्रूहि यथातथम् ॥ ३,२.७० ॥ तदुक्तमृषिभिर्वाक्यं श्रुत्वा लोकार्थतत्त्ववित् । सूतः पौराणिको वाक्यं विनयेनेदम ब्रवीत् ॥ ३,२.७१ ॥ ततः प्राप्य तु सर्वेशं शुद्धबुद्धिं तमाश्रयत् । आभूतसंप्लवास्तत्र दश तिष्ठन्ति तेऽज्वराः ॥ ३,२.७२ ॥ सर्वे सूक्ष्मशरीरास्ते विद्वांसो घनमूर्तयः । स्थितलोकस्थितत्वाच्च तेषां भूतं न विद्यते ॥ ३,२.७३ ॥ ऊचुः सनत्कुमाराद्याः सिद्धास्ते योगधर्मिणः । एवमेव महाभागाः प्रणवं संप्रविश्य ह ॥ ३,२.७४ ॥ ब्रह्मलोके प्रवर्त्तामस्तन्नः श्रेयो भविष्यते । एवमुक्त्वा तदा सर्वे ब्रह्माण्डाध्यवसायि नः ॥ ३,२.७५ ॥ याजयित्वा तदात्मानो वर्त्तन्ते योगधर्मिणः । तत्रैव संप्रलीयन्ते शान्ता दीपर्चिषो यथा ॥ ३,२.७६ ॥ ब्रह्मकायमवर्त्तन्त पुन रावृत्तिदुर्लभम् । लोकं तं समनुप्राप्य सर्वे ते भावनामयम् ॥ ३,२.७७ ॥ आनन्दं ब्रह्मणः प्राप्य अमृतत्वाय ते गताः । वैराजेभ्यस्तथैवोर्द्ध्व मन्तरे षड्गुणे ततः ॥ ३,२.७८ ॥ ब्रह्मलोकः समाख्यातो यत्र ब्रह्मा पुरोहितः । ते सर्वे प्रणवात्मानो बुद्धिशुद्धतया स्थिताः ॥ ३,२.७९ ॥ आनन्दं ब्रह्मणः प्राप्य ह्यमृतत्वं भजन्त्युत । द्वन्द्वैस्ते नाभिभूयन्ते भावत्रयविवर्जिताः ॥ ३,२.८० ॥ आधिपत्यं विना तुल्या ब्रह्मणस्ते महौजसः । प्रभावविजयैश्वर्यस्थितिवैराग्यदर्शनः ॥ ३,२.८१ ॥ ते ब्रह्मलौकिकाः सर्वे गतिं प्राप्यानिवर्त्तिनीम् । ब्रह्मणा सहदेवैश्च संप्राप्ते प्रतिसंचरे ॥ ३,२.८२ ॥ तपसोंऽते क्रियात्मानो बुद्धावस्था मनीषिणः । अव्यक्ते संप्रलीयन्ते सर्वे ते क्षणदर्शिनः ॥ ३,२.८३ ॥ इत्येतदमृतं शुक्रं नित्यमक्षयव्ययम् । देवर्षयो ब्रह्मसत्रं सनातनमुपासते ॥ ३,२.८४ ॥ अपुनर्मारकादीनां तेषां चैवोद्ध्वरेतसाम् । कर्माभ्यासकृतां श्रद्धां वेदान्तेषूपलक्ष्यते ॥ ३,२.८५ ॥ तत्र तेऽभ्यासिनो युक्ताः परां काष्ठामुपासते । हित्वा शरीरं पाप्मानममृतत्वाय ते गाताः ॥ ३,२.८६ ॥ वीतरागा जितक्रोधा निर्मोहाः सत्यवादिनः । शान्ताः प्रणिहितात्मानो दयावन्तो जितेन्द्रियाः ॥ ३,२.८७ ॥ निःसंगाः शुचयश्चैव ब्रह्मसायुज्यगाः स्मृताः । अकामयुक्तैर्ये वीरास्तपोभिर्दग्धकिल्बिषाः ॥ ३,२.८८ ॥ तेषांमभ्रंशिनो लोका अप्रमेयसुखाः स्मृताः । एतद्ब्रह्मपदं दिव्यं परमे व्योम्नि भास्वरम् । यत्र गत्वा न शोचन्ति ह्यमरा ब्रह्मणा सह ॥ ३,२.८९ ॥ ऋषय ऊचुः कस्मादेषु परार्द्धंश्च कश्चैव पर उच्यते । एतद्वेदितुमिच्छामस्तन्नो निगद सत्तम ॥ ३,२.९० ॥ सूत उवाच शृणुध्वं मे परार्द्धस्य परिसंख्यां परस्यच ॥ ३,२.९१ ॥ एकं दशशतं चैव सहस्रं चैव संख्याया । विज्ञेयमासहस्रं तु सहस्राणि दशायुतम् ॥ ३,२.९२ ॥ एकं शतसहस्रं तु नियुतं प्रोच्यते बुधैः । तथा शतसहस्राणां दशप्रयुतमुच्यते ॥ ३,२.९३ ॥ तथा दशसहस्राणामयुतं कोटिरुच्यते । अर्बुदं दशकोट्यस्तु ह्यब्जं कोटिशतं विदुः ॥ ३,२.९४ ॥ सहस्रमापि कोटीनां खर्वमाहुर्मनीषिणः । दशकोटिसहस्राणि निखर्वमिति तं विदुः ॥ ३,२.९५ ॥ शतं कोटि सहस्राणां शङ्कुरित्यभिधीयते । सहस्रं तु सहस्राणां कोटीनां पद्ममुच्यते ॥ ३,२.९६ ॥ सहस्राणि सहस्राणां कोटीनां दशधा पुनः । गुणितानि समुद्रं वै प्राहुः संख्याविदो जनाः ॥ ३,२.९७ ॥ कोटीसहस्रनियुतमन्त्यमित्यभिधीयते । कोटीसहस्रप्रयुतं मध्यमित्यभिसंज्ञितम् ॥ ३,२.९८ ॥ कोटिकोटिसहस्रं तु परार्द्ध इति कीर्त्यते । परार्द्धं द्विगुणं चापि परमाहुर्मनीषिणः ॥ ३,२.९९ ॥ शतमाहुः परिवृढं सहस्रं परिपद्मकम् । विज्ञेयमयुतं तस्मान्नियुतं प्रयुतं ततः ॥ ३,२.१०० ॥ अर्बुदं न्यर्बुदं चैव खर्बुदं च ततः स्मृतम् । खर्वं चैव निखर्वं च शङ्कुः पद्मन्तथैव च ॥ ३,२.१०१ ॥ समुद्रमन्त्यं मध्यं च परार्द्धं च परं ततः । एवमष्टादशैतानि स्थानानि गणनाविधौ ॥ ३,२.१०२ ॥ शतादीनि विजानीयात्संज्ञितानि महर्षिभिः । कल्पसंख्याप्रवृत्तस्य परार्द्धो ब्रह्ममः स्मृतः ॥ ३,२.१०३ ॥ तावच्छेषोऽपि कालोऽस्य तस्यान्ते प्रतितिष्ठते । पर एव परार्द्धश्च संख्यातः संख्याया मया ॥ ३,२.१०४ ॥ यस्मादस्य परं विर्यं परमायुः परं तपः । परा शक्तिः परो धर्मः पराविद्या परा धृतिः ॥ ३,२.१०५ ॥ परं ब्रह्म परं ज्ञानं परमैश्वर्यमेव च । तस्मात्परतरं भूतं ब्रह्मणो यन्न विद्यते ॥ ३,२.१०६ ॥ परे स्थितो ह्येष परः सर्वार्थेवु ततः परम् । संख्यातस्तु परो ब्रह्मा तस्यार्द्धस्य परार्द्धता ॥ ३,२.१०७ ॥ संख्येयं चाप्यसंख्येयं सततं चापि तान्त्रिकम् । संख्येयं संख्यया दृष्टमपरार्द्धाद्विभाष्यते ॥ ३,२.१०८ ॥ राशौ दृष्टे न संख्यास्ति तदसंख्यास्तु लक्ष्णम् । आनन्त्यं सिकता द्येषु हृष्टं चान्यं त्वलक्षणम् ॥ ३,२.१०९ ॥ ईश्वरैस्तत्प्रसंख्यानं शुद्धत्वाद्दिव्यदृष्टिभिः । एवं ज्ञानप्रतिष्ठत्वात्सर्वं ब्रह्मानुपश्यति ॥ ३,२.११० ॥ एतच्छ्रुत्वा तु ते सर्वे नैमिषेयास्तपस्विनः । बाष्पपर्याकुलाक्षास्तु प्रहर्षाद्गद्गदस्वराः ॥ ३,२.१११ ॥ पप्रच्छुर्मातारिश्वानं सर्वे ते ब्रह्मवादिनः । ब्रह्मलोकस्तु भगवन्यावन्मात्रान्तरे प्रभो ॥ ३,२.११२ ॥ योजनाग्रेण संख्यातः साधनं योजनस्य तु । क्रोशस्य च परीमाणं श्रोतुमीच्छाम तत्त्वतः ॥ ३,२.११३ ॥ तेषां तद्वचनं श्रुत्वा मातरिश्वा विनीतवत् । उवाच मधुरं वाक्यं यथादृष्टं यथाक्रमम् ॥ ३,२.११४ ॥ वायुरुवाच एतद्वोऽहं प्रवक्ष्यामि श्रुणुध्वं मे विवक्षितम् । अव्यक्ताद्व्यक्तभागो वै महान्स्थूलो विभाष्यते ॥ ३,२.११५ ॥ दशैव महतो भागा भूतादिः स्थूल उच्यते । दशभागाधिकं चापि भूतादिपरिमाणकम् ॥ ३,२.११६ ॥ परमाणुः सुसूक्ष्मस्तु भावग्राह्यो न चक्षुषा । यदभेद्यतमं लोके विज्ञेयं परमाणुवत् ॥ ३,२.११७ ॥ जालान्तरगते भानैं यत्सूक्ष्मं दृश्यते रजः । प्रथमं तत्प्रमाणानां परमाणुं प्रचक्षते ॥ ३,२.११८ ॥ अष्टानां परमाणूनां समावायो यदा भवेत् । त्रसरेणुः समाख्यातस्तत्पद्मरज उच्यते ॥ ३,२.११९ ॥ त्रसरेणवोऽथ येऽप्यष्टौ रथरेणुस्तु सस्मृतः । तेऽप्यष्टौ समवायस्था बालाग्रं तत्स्मृतं बुधैः ॥ ३,२.१२० ॥ बालाग्राण्यष्टलिक्षा स्याद्यूकालिक्षाष्टकं भवेत् । यूकाष्टकं यवप्राहुरङ्गुलं तु यवाष्टकम् ॥ ३,२.१२१ ॥ द्वादशाङ्गुलपर्वाणि वितस्तिस्थानमुच्यते । रत्निश्चागुलिपर्वाणि विज्ञेयो ह्येकविंशतिः ॥ ३,२.१२२ ॥ चत्वारो विंशतिश्चैव हस्तः स्यादङ्गुलानि तु । किष्कुर्द्विरत्निर्विज्ञेयो द्विचत्वारिंशदङ्गुलः ॥ ३,२.१२३ ॥ षण्णवत्यङ्गुलं चैव धनुराहुर्मनीषिणः । एतद्गव्यूतिसंख्यायामादानं धनुषः स्मृतम् ॥ ३,२.१२४ ॥ धनुर्दण्डयुगं नाली तुल्यान्यस्तैस्तथाङ्गुलैः । धनुषां त्रिशतं नल्वमाहुः संख्याविदो जनाः ॥ ३,२.१२५ ॥ धनुः सहस्रे द्वे चापि गव्यूतिरुपदिश्यते । अष्टौ धनुः सहस्राणि योजनं तु विधीयते ॥ ३,२.१२६ ॥ एतेन धनुषा चैव योजनं तु समाप्यते । एतत्सहस्रं विज्ञेयं शक्रकोशान्तरं तथा ॥ ३,२.१२७ ॥ योजनानां च संख्यातं संख्याज्ञानविशारदैः । एतेन योजनाग्रेण शृणुध्वं ब्रह्मणोंऽतरे ॥ ३,२.१२८ ॥ महीतलात्सहस्राणां रातादूर्ध्वं दिवाकरः । दिवाकरात्सहस्रे तु शते चौर्द्ध्वं निशाकरः ॥ ३,२.१२९ ॥ पूर्णं शतसहस्रं तु योजनानां निशाकरात् । नक्षत्रमण्डलं कृत्स्नमुपरिष्टात्प्रकाशत ॥ ३,२.१३० ॥ शतं सहस्रं संख्यातमेतद्द्विगुणितं पुनः । ग्रहान्तरमथैकैकमूर्द्ध्वं नक्षत्रमण्डरात् ॥ ३,२.१३१ ॥ ताराग्रहाणां सर्वेषामध्यस्ताच्चरते बुधः । तस्योर्द्ध्वं चरते शुक्रस्तस्मादूर्द्ध्वं च लोहितः ॥ ३,२.१३२ ॥ ततो बृहस्पतिश्चोर्द्ध्वं तस्मादूर्द्ध्वं शनैश्चरः । उर्द्ध्वं शतसहस्रं तु योजनानां शनैश्चरात् ॥ ३,२.१३३ ॥ सप्तर्षिमण्डलं कृत्स्नमुपरिष्टात्प्रकाशते । ऋषिभ्यस्तु सहस्राणां शतादूर्द्ध्वं विभाष्यते ॥ ३,२.१३४ ॥ योऽसौ तारामये दिव्ये विमाने ह्रस्वरूपके । उत्तानपादपुत्रोऽसौ मेढीभूतो ध्रुवो दिवि ॥ ३,२.१३५ ॥ त्रैलोक्यस्यैष उत्सेधो व्याख्यातो योजनैर्मया । मन्वन्तरेषु देवानामिज्या यत्रैव लौकिकी ॥ ३,२.१३६ ॥ वर्णाश्रमेभ्य इष्टा तु लोकेऽस्मिन्संप्रवर्त्तते । सर्वासां देवयोनीनां स्थितिहेतुः स वै स्मृतः ॥ ३,२.१३७ ॥ त्रैलोक्यमेतद्व्याख्यातमत ऊर्द्ध्वं निबोधत । ध्रुवादूर्द्ध्वं महर्लोको यस्मिंस्ते कल्पवासिनः ॥ ३,२.१३८ ॥ एकायोजनकोटीशा इत्येवं निश्चयोगतः । द्वीकोट्यां तु महर्लोकाज्जनलोको व्यवस्थितः ॥ ३,२.१३९ ॥ यत्र ते ब्रह्मणः पुत्रा दक्षाद्याः साधकाः स्मृताः ॥ ३,२.१४० ॥ वै राजा यत्र ते देवा भूतदाहविवर्जिताः । षड्गुणं तु तपोलोकात्सत्यलोकान्तरं स्मृतम् ॥ ३,२.१४१ ॥ अपुनर्मारको नाम ब्रह्मलोकः स उच्यते । यस्मिन्न च्यवते भूयो ब्रह्मणं य उपासते ॥ ३,२.१४२ ॥ एककोटिर्योजनानां पञ्चाशन्नियुतानि तु । ऊर्द्ध्वभागस्ततोंऽडस्य ब्रह्मलोकात्परः स्मृतः ॥ ३,२.१४३ ॥ चतुर्दशैव कोट्यस्तु नियुतानि च पञ्च षट् । स चौर्द्ध्व संप्रचारोऽस्य गत्यन्तश्चपरः स्मृतः ॥ ३,२.१४४ ॥ ध्रुवाग्रमेतद्व्याख्यातं योजनग्राद्यथाश्रुतम् । अधोगतीनां वक्ष्यामि भूतानां स्थानकल्पनाम् ॥ ३,२.१४५ ॥ गच्छन्ति घोरकर्माणः प्राणिनो यत्र कर्मभिः । नरको रौरवो घोरः शूकरस्ताल एवं च ॥ ३,२.१४६ ॥ तप्तकुम्भो महाज्वालः शबलोऽथ विमोहनः । कृमी च कृमिभक्षश्च लालाभक्षो विशंसनः ॥ ३,२.१४७ ॥ अधःशिराः पूयवहो रुधिरान्धुस्तथैवच । विष्टाकीर्णश्च नरको मूत्रकीर्ण स्तथैव च ॥ ३,२.१४८ ॥ तथा वैतरणी कृष्णमसिपत्रवनं तथा । अग्निज्वालो महाघोरः संदंशोऽथाश्वभोजनः ॥ ३,२.१४९ ॥ तमश्चकृष्णसूत्रश्च लोहश्चाप्यभिजस्तथा । अप्रतिष्ठोऽथ वीचिश्च नरका ह्येवमादयः ॥ ३,२.१५० ॥ तामसा नरकाः सर्वे यमस्य विषये स्थिताः । येषु दुष्कृतकर्माणः पतन्तीह वृथक्पृथक् ॥ ३,२.१५१ ॥ भूमेरधस्तात्ते सर्वे रौरवाद्यः प्रकीर्त्तिताः । रौरवे कूटसाक्षे तुमिथ्या यश्चाभिशसति ॥ ३,२.१५२ ॥ क्रूरग्रह पक्षवादी ह्यसक्तः पतते नरः । राधो गोध्रो भ्रूणहा च ह्यग्निदाता पुरस्य च ॥ ३,२.१५३ ॥ शूकरे ब्रह्महा मज्जेत्सुरापः स्वर्णतस्करः । ताले पतेत्क्षत्रियहा हत्वा वैश्यं च मज्जति ॥ ३,२.१५४ ॥ ब्रह्महत्या च यः कुर्याद्यश्च स्याद्गुरुतल्पगः । सप्तकुम्भेष्वसौ गामी तथा राजभटश्च यः ॥ ३,२.१५५ ॥ संताप्यते वाश्वणिक्तथाच धनरक्षिता । साध्वीविक्रयकर्त्ता च यस्तु भक्तं परित्यजेत् ॥ ३,२.१५६ ॥ महाज्वाले दुहितरं स्नुषां गच्छति यस्तु वै । वेदं विक्रीणतेये च वेदं वै दूषयन्ति ये ॥ ३,२.१५७ ॥ गुरुंश्चैवावमन्यन्ते वाक्शरैस्ताडयन्ति च । अगम्यगामी च नरो नरकं शबलं व्रजेत् ॥ ३,२.१५८ ॥ विमोहे पतते घोरे मर्यादां योभिनत्ति वै । दुरिष्टं कुरुते यस्तु कीडलोहं प्रपद्यते ॥ ३,२.१५९ ॥ देवब्राह्मणविद्वेष्टा गुरूणां वाप्यपूजकः । रत्नं दूषयते यस्तु कृमिभक्षे प्रपद्यते ॥ ३,२.१६० ॥ पर्यश्नाति य एकोऽन्नं ब्राह्मणान्सुहृदो विना । लालाभक्षे स तिष्ठेत्तु दुर्गन्धे नरके गतः ॥ ३,२.१६१ ॥ काण्डकर्त्ता कुलालश्च निष्कहर्ता चिकित्सकः । आरामेऽप्यग्निदाता यः पतते स विशंसनि ॥ ३,२.१६२ ॥ असत्प्रतिग्रही यश्च तथैवायाज्ययाजकः । नक्षत्रैर्जीवते यश्च नरो गच्छत्यधोमुखम् ॥ ३,२.१६३ ॥ क्षीरं सुरां च लवणं लाक्षां गन्धं रसं तिलानेवमादीनि विक्रीणन्घोरे पूयवहे पतेत् ॥ ३,२.१६४ ॥ यः कुक्कुटान्निबद्नाति मार्जारान्सूकरांस्तथा । पक्षिणश्च मृगाञ्छागान्सोऽप्येनं नरकं व्रजेत् ॥ ३,२.१६५ ॥ अजाविको माहिषिकस्तथा चक्रध्वजी च यः । रङ्गोपजीवको विप्रः शाकनिर्ग्रामयाजकः ॥ ३,२.१६६ ॥ अगारदाही गरदः कुण्डाशी सोमविक्रयी । सुरापो मासभक्षश्च तथा च पशुघातकः ॥ ३,२.१६७ ॥ विशस्ता महिषादीनां मृगहन्ता तथैव च । पर्वकारश्च मूची च यश्च स्यान्मित्रघातकः ॥ ३,२.१६८ ॥ रुधिरान्धौ पतन्त्येते ह्येवमाहुर्मनीषिणः । उपविष्टं भोक्तुमथ पङ्क्त्यां वै वञ्चयन्ति ये ॥ ३,२.१६९ ॥ पतन्ति नरके घोरे विड्भुजे नात्र संशयः । मृषावादी नरो यश्च तथा प्राक्रोशकोऽशुभः ॥ ३,२.१७० ॥ पतते नरके घोरे मूत्राकीर्णे स पापकृत । मधुग्राहाभिहन्तारो यान्ति वैतग्णीं नराः ॥ ३,२.१७१ ॥ उन्मत्ताश्चित्तभग्नाश्चशौचाचारविवर्जिताः । क्रोधना दुःखदा ये च कुहकाः कृष्णगामिनः ॥ ३,२.१७२ ॥ असिपत्र वनच्छदकृतो ह्योरभ्रिकाश्च ये । कर्त्तनषु विकृत्यन्त मृगव्याधः सुदारुणैः ॥ ३,२.१७३ ॥ आश्रम प्रत्यवसिता ह्यग्निज्वाले पतन्ति वै । भक्ष्यन्ते श्यामशबलैरयस्तुडश्व वायसैः ॥ ३,२.१७४ ॥ इष्टापूर्तव्रतालोपात्संदंशे नरके पतेत् । स्कन्दन्ते ये दिवास्वप्ने व्रतिनो ब्रह्मचारिणः ॥ ३,२.१७५ ॥ पुत्रैरध्यापिता ये च पुत्रैराक्षापिताश्च ये । ते सर्व नरकं यान्ति नियतं तु श्वभोजनम् ॥ ३,२.१७६ ॥ वर्णाश्रमविरुद्धा ये क्रोधहर्षसमन्विताः । कर्माणि ये तु कुर्वन्ति सर्वे निरयवासिनः ॥ ३,२.१७७ ॥ उपरिष्टात्स्थितो घोर उष्णात्मा रौरवो महान् । सुदारुणस्तु शीतात्मा तस्याधस्तात्तपः स्मृतः ॥ ३,२.१७८ ॥ एवमादिक्रमेणैव वर्ण्यमानान्निबोधत । भूमेरधस्तात्सप्तैव नरकाः परिकीर्त्तिताः ॥ ३,२.१७९ ॥ अधर्मसूतयस्ते स्युरन्धतामिस्रकादयः । रौरवः प्रथमस्तेषां महारौरव एव च ॥ ३,२.१८० ॥ अस्याधः पुनरप्यन्यः शीतस्तप इति स्मृतः । तृतीयः कालसूत्रः स्यान्महाहिर्विविधः स्मृतः ॥ ३,२.१८१ ॥ अप्रतिष्ठश्चतुर्थः स्याद वीचिः पञ्चमः स्मृतः । लोहः षष्ठः स्मृतस्तेषामविधेयस्तु सप्तमः ॥ ३,२.१८२ ॥ घोरात्वाद्रौरवः प्रोक्तः सोष्णको दहनः स्मृतः । सुदारुणस्तु शीतात्मा त्स्याधस्तात्तपोऽधमः ॥ ३,२.१८३ ॥ सवां निकृन्तनः प्रोक्तो कालसूत्रोऽतिदारुणः । अप्रतिष्ठे स्थितिर्नास्ति भ्रमस्तस्मिन्सदा स्मृतः ॥ ३,२.१८४ ॥ अवीचिर्दारुणः प्रोक्तो यन्त्रसंपीडनाच्च सः । तस्मात्सुदारुणो लोहः कर्मणां श्रयणाच्च सः ॥ ३,२.१८५ ॥ तथाभूतशरीत्वादविधेयस्तु स स्मृतः । पीडाबन्धवधासंगादप्रतीकारलक्षणः ॥ ३,२.१८६ ॥ ऊर्द्ध्वाधः संगतास्ते तु निरालोकाश्च ते स्मृताः । दुःखोत्कर्षस्तु सर्वेषु ह्यधर्मस्य निमित्ततः ॥ ३,२.१८७ ॥ ऊर्द्ध्वलोकैः समावेतौ निरालोकौ च तावुभौ । कूटागारप्र माणैश्च शरीरैस्तत्र नारकाः ॥ ३,२.१८७ ॥ उपभोगसमर्थैस्तु सद्यो जायन्ति कर्मभिः । दुःखप्रकर्षश्चोग्रस्तु तेषु सर्वेषु वै स्मृतः ॥ ३,२.१८८ ॥ उपभोगसमर्थैस्तु सद्यो जायन्ति कर्मभिः । दुःखप्रकर्षश्चोग्रस्तु तेषु सर्वेषु वै स्मृतः ॥ ३,२.१८९ ॥ यातनाश्चाप्यसंख्येया नारकाणां तथा स्मृताः । तत्रानुभूयते दुःखं क्षीणे कर्मणि वै पुनः ॥ ३,२.१९० ॥ तिर्यग्योनौ प्रसूयन्ते कर्मशेषेण तेंऽततः । देवांश्च तारकाश्चैव ह्यूर्द्ध्वं चाधश्च संस्थिताः ॥ ३,२.१९१ ॥ धर्माधर्मनिमित्तेन सद्यो जायन्ति मूर्त्तयः । उपभोगार्थमुत्पत्तिरौपपत्तिककर्मतः ॥ ३,२.१९२ ॥ पश्यन्ति नारकान्देवा ह्यधोवक्त्रा ह्यघोगतान् । नारकांश्च तथा देवान्सर्वान्पश्यं त्यधेमुखान् ॥ ३,२.१९३ ॥ अनयोस्तुल्यता यस्माद्धारमाश्च स्वभावतः । तस्मादूर्द्ध्वमधोभावो लोकालोके न विद्यते ॥ ३,२.१९४ ॥ एषा स्वाभाविकी संज्ञा लोकालोके प्रवर्त्तते । अथाब्रुवन्पुनर्वायुंब्राह्मणाः सत्रिणस्तदा ॥ ३,२.१९५ ॥ ऋषय ऊचुः सर्वेषामेव भूतानां लोकालोकनिवासिनाम् । संसारे संसरन्तीह यावन्तः प्राणिनश्च ते ॥ ३,२.१९६ ॥ संख्याया परिसंख्याय तान्नः प्रब्रूहि कृत्स्नशः । ऋषीणां तद्वचः श्रुत्वा मरुतो वाक्यमब्रवीत् ॥ ३,२.१९७ ॥ वायुरुवाच न शक्यं दिव्यया दृष्ट्या ज्ञातुं ज्ञानेन वा पुनः । चक्षुषा वै प्रसंख्यातुमतो ह्यन्ते न च द्विजाः ॥ ३,२.१९८ ॥ अनाध्यानादमेयत्वान्नैव प्रश्नो विधीयते । ब्रह्मणा संज्ञितं यत्तु संख्यया तन्निबोधत ॥ ३,२.१९९ ॥ यः सहस्रतमो भागः स्थावराणां भवेदिह । पार्थिवाः कृमयस्तावत्संसेकाद्येषु संभवः ॥ ३,२.२०० ॥ संसेकजानां भागेन सहस्रेणैव संमिताः । औदका जन्तवः सर्वे निश्चयात्तन्निधार्यताम् ॥ ३,२.२०१ ॥ सहस्रेणैव भागेन सत्त्वानां सलिलौकसाम् । विहङ्गमास्तु विज्ञेया लौकिकास्ते च सर्वशः ॥ ३,२.२०२ ॥ यः सहस्रतमो भागस्तेषां वै पक्षिमां भवेत् । पशवस्तत्समा ज्ञेया लौकिकास्तु चतुष्पदाः ॥ ३,२.२०३ ॥ चतुष्पदानां सर्वेषां सहस्रेणैव संमिताः । द्विपदास्तत्सहस्रेण संमिता धार्मिकाः पुनः ॥ ३,२.२०४ ॥ सहस्रेणैव भागेन धार्मिकेभ्यो दिवं गताः । यः सहस्रतमो भागो धार्मिकाणां भवेद्दिवि ॥ ३,२.२०५ ॥ संमितास्तेन भागेन मोक्षिणस्तावदेव हि । स्वर्गोपपादकैस्तुल्या यातनास्थानवासिनः ॥ ३,२.२०६ ॥ पतिताधर्मविद्वेषाद्दुरात्मानो म्रियन्ति ये । रौरवे तमसि ह्येते शीतोष्णं प्राप्नुवन्ति ते ॥ ३,२.२०७ ॥ वेदनाः कटुकाः स्तब्धा यातनास्थानमागताः । उष्णस्तु रौरवो ज्ञेयस्तेजोघोररसात्मकः ॥ ३,२.२०८ ॥ ततोंऽधनामकश्चापि शीतान्मा सततं तपः । एवं सुदुर्लभाः संतः स्वर्गे वा धार्मिका नराः ॥ ३,२.२०९ ॥ एषा संज्ञीकृता संख्या चेश्वरेण स्वयंभुवा । गणाना दिनिवृत्तैषा संख्या ब्राह्मी त्वमानुषी ॥ ३,२.२१० ॥ ऋषय ऊचुः महाञ्जनस्तपः सत्यो भूतो भव्यो भवस्तथा । उक्ता ह्येते त्वया लाका लाकानामन्तरण च ॥ ३,२.२११ ॥ लोकान्तरं च यादृक्च तन्नो ब्रूहि यथा तथा । तेषां तद्वचन श्रुत्वा ऋषीणामूर्द्ध्वरेतसाम् । स वायुर्दृष्टतत्त्वार्थ इदं तत्त्वमुवाच ह ॥ ३,२.२१२ ॥ वायुरुवाच व्यक्तं तर्केण पश्यन्ति योगात्प्रत्यक्षदर्शिनः ॥ ३,२.२१३ ॥ प्रत्याहारेण ध्यानेन तपसा क्षयमात्मनः । ऋभुः सनत्कुमाराद्याः संबुद्धाः शुद्धबुद्धयः ॥ ३,२.२१४ ॥ व्यपेतकोशा विरजाः संतो ब्रह्मैव सत्तमाः । अक्षयाः प्रीतिसंयुक्ता ब्राह्मे तिष्ठन्ति योगिनः ॥ ३,२.२१५ ॥ ऋषीणां बालशिल्यानां तैर्यथाकृतमीश्वरैः । यथात्रैव सया दृष्टं सांनिध्यं तत्र कुर्वता ॥ ३,२.२१६ ॥ अग्राह्यमकृतार्थानामालयं चेश्वरस्य यत् । ईश्वरः परमाणुत्वाद्भावग्राह्यो मनीषिणाम् ॥ ३,२.२१७ ॥ ज्ञानं वैराग्यमैश्वर्यं तपः सत्यं क्षमा धृतिः । द्रष्टृत्वमात्मसंबन्धमधिष्टातृत्वमेव च ॥ ३,२.२१८ ॥ अव्ययानि दशैतानि तस्मिस्तिंष्ठन्ति शङ्करे । विभुत्वात्खलु योगाढ्यो ब्रह्मणोऽनुग्रहे रतः ॥ ३,२.२१९ ॥ स लोकविग्रहो भूत्वा साहाय्यमुपतिष्ठते । अक्षरं ध्रुवमव्यग्रमष्टमं त्वौपसर्गिकम् ॥ ३,२.२२० ॥ तस्येश्वरस्य चिन्मात्रं स्थानं मायामयं परम् । मायया कृतमाचष्टे मायी देवो महेश्वरः ॥ ३,२.२२१ ॥ देवानामुपसंहारस्तत्प्रमाणं हि कीर्त्यते । विस्तरेणानुपूर्व्या च ब्रुवतो मे निबोधत ॥ ३,२.२२२ ॥ त्रयोदशैव कोट्यस्तु नियुतानि दशेषवः । भूलोकाद्ब्रह्मलोको वै योजनैः संप्रकीर्त्यते ॥ ३,२.२२३ ॥ एका योजनकोटी तु पञ्चाशन्नियुतानि च । ऊर्द्ध्व भागवतोऽडं तु ब्रह्मलोकात्परं स्मृतम् ॥ ३,२.२२४ ॥ एषोर्द्ध्वगः प्रचारस्तु गत्यन्तश्च ततः स्मृतः । नित्या ह्यपरिसंक्षाताः परस्परगुणाश्रयात् ॥ ३,२.२२५ ॥ सूक्ष्माः प्रसवधर्मिण्यस्ततः प्रकृतयः स्मृताः । येभ्योऽधिकर्त्ता संजज्ञे क्षेत्रज्ञो ब्रह्मसंज्ञितः ॥ ३,२.२२६ ॥ तासु प्रकृतिमत्सूक्ष्ममधिष्ठातृत्वमव्ययम् । अनुत्पाद्यं परं धाम परमाणु परेशयम् ॥ ३,२.२२७ ॥ अक्षयश्चाप्यनूह्यश्च त्वमूर्त्तिर्मूर्त्तिमानसौ । प्रादुर्भावस्तिरोभावः स्थितिश्चैवाप्यनुग्रहः ॥ ३,२.२२८ ॥ विधिरन्यैरनौपम्यः परमाणुमहेश्वरः । सतेजा एष तमसो यः पुरस्तात्प्रकाशकः ॥ ३,२.२२९ ॥ यदण्डमासीत्सौवर्मं प्रथमं त्वौपसर्गिकम् । बृहत्तु सर्वतो वृत्तमीश्वरात्तद्व्यजायते ॥ ३,२.२३० ॥ ईश्वराद्बीजनिर्भेदः क्षेत्रज्ञो बीजमिष्यते । योनिं प्रकृति माचष्टे सा च नारायणात्मिका ॥ ३,२.२३१ ॥ विभुर्लोकस्य सृष्ट्यर्थं लोकसंस्थानमेव च । सन्निसर्गः सतत्त्वाच्च लोकधातुर्महात्मनः ॥ ३,२.२३२ ॥ पुरस्ताद्ब्रह्मलोकस्य ह्यण्डादर्वाक्च ब्रह्मणः । त्योर्मध्ये पुरं दिव्यं मन मयमनामयम् ॥ ३,२.२३३ ॥ तद्विग्रहवतः स्थानमीश्वरस्यामितौजसः । शिवं नाम पुरं तत्र शरणं जन्मभीरुणाम् ॥ ३,२.२३४ ॥ सहस्राणां शतं पूर्वं योजनानां द्विजोत्तमाः । अभ्यन्तरं तु विस्तीर्णं महीमण्डलसंस्थितम् ॥ ३,२.२३५ ॥ मध्याह्नार्कप्रकाशेन परतेजोऽभिमर्दिना । शात कैंभेन महता प्राकारेणार्कवर्चसा ॥ ३,२.२३६ ॥ द्वारैश्चतुर्भिः सौवर्णैर्मुक्तादामविभूषितैः । तपनीयनिभैः शुभ्रैर्गाढं सुकृतवेष्टनम् ॥ ३,२.२३७ ॥ तच्चाकाशे पुरं रम्यं दिव्यं घण्टादिनादितम् । रम्ये पुरवरश्रेष्ठे तस्मिन्वैहायभूमिषु ॥ ३,२.२३८ ॥ नानारत्नविचित्रेषु पताकाबहुलेषु च । सर्वकामसमृद्धेषु वनोपवनशोभिषु ॥ ३,२.२३९ ॥ राजतेषु गृहान्तेषु शातकैंभमयेषु च । संध्याभ्रसन्निकाशेषु कैलासप्रतिमेषु च ॥ ३,२.२४० ॥ हृष्टैः शब्दादिभिर्भोगैर्ये भविष्यानुसारिणः । प्रासादवरपृष्ठेषु तेषु मोदन्ति सुव्रताः ॥ ३,२.२४१ ॥ ब्रह्मघोषैरविरताः कथाश्च विविधाः शुभाः । गीतवादित्रघोषाश्च संस्रवाश्च समन्ततः ॥ ३,२.२४२ ॥ संहताश्चैवमतुला जनाश्रयकृतस्तथा । एवमादीनि वर्तन्ते तेषां प्रासादमूर्द्धनि ॥ ३,२.२४३ ॥ सहस्रपादः प्रासादस्तपनीयमयः शुभः । अनौपम्यैर्वरै रत्नैः सर्वतः संविभूषितः ॥ ३,२.२४४ ॥ स्फाटिकैश्चन्द्रसंकाशैर्वैडूर्यमणिसप्रभैः । बालसुर्यमयैश्चापि सौवर्णैश्चाग्निसप्रभैः ॥ ३,२.२४५ ॥ चुक्रुशुर्मुनयः श्रुत्वा नैमिषेयास्तपस्विनः । आपन्नसंशयाश्चेमं वाक्यमूचुः समीरणम् ॥ ३,२.२४६ ॥ ऋषय ऊचुः के तु तत्र महात्मानो ये भवस्यानुसारिणः । अनुग्राह्यतमाः सम्यक्प्रमोदन्ते पुरोत्तमे ॥ ३,२.२४७ ॥ ऋषीणां वचनं श्रुत्वा वायुर्वाक्यमुदैरयत् । वायुरुवाच श्रूयतां देवदेवस्य भक्तिर्यैरनुकल्पिता ॥ ३,२.२४८ ॥ ह्रीमन्तस्फूर्जिता दान्ताः शौर्ययुक्ता ह्यलोलुपाः । कर्मणा मनसा वाचा विशुद्धेनान्तरात्मना ॥ ३,२.२४९ ॥ अनन्यमनसो भूत्वा प्रपन्ना ये महेश्वरम् । तैर्लब्धं रुद्रसालोक्यं शाश्वतं पदमव्ययम् ॥ ३,२.२५० ॥ भवस्य रूपसादृश्यं गताश्चैव ह्यनुत्तमम् । वैश्वानारमुखाः सर्वे विश्वरूपाः कपर्दिनः ॥ ३,२.२५१ ॥ नीलकण्ठाः शितग्रीवास्तीक्ष्णदंष्टास्त्रिलोचनाः । अर्द्धचन्द्रकृतोष्णीषा जटामुकुट धारिणः ॥ ३,२.२५२ ॥ सर्वे दशभुजा वीराः पद्मान्तरसुगन्धिनः । तरुणादित्यसंकाशाः सर्वे ते पीतवाससः ॥ ३,२.२५३ ॥ पिनाकपाणयः सर्वेश्वेत गोवृषवाहनाः । श्रियान्विताः कुण्डलिनो मुक्ताहारविभूषिताः ॥ ३,२.२५४ ॥ तेजसाभ्यधिकैर्दहैः सर्वज्ञाः सर्वदर्शिनः । विभज्य बहुधात्मानं जरामृत्युविवर्जिताः ॥ ३,२.२५५ ॥ क्रीडन्ते विविधैर्भावैर्भोगान्प्राप्य सुदुर्लभान् । स्वच्छन्दगतयः सिद्धाः सिद्धैश्चन्यैर्विबोधिताः ॥ ३,२.२५६ ॥ एकादशानां रुद्राणां कोट्यो नैका महात्मनाम् । एभिः सह महात्मा वै देवदेवो महेश्वरः ॥ ३,२.२५७ ॥ भक्तानुकंपी भगवान्मोदते पार्वतीप्रियः । नाहं तेषां तु रुद्राणां भवस्य च महात्मनः ॥ ३,२.२५८ ॥ नानात्वमनुपश्यामि सत्यमेतद्ब्रवीमि वः । मातारिश्वाब्रवीत्पुण्यमित्येतामीश्वराच्छ्रुताम् ॥ ३,२.२५९ ॥ अथ ते ऋषयः सर्वे दिवाकरसमप्रभाः । श्रुत्वेमां परमां पुण्यां कथां त्रैयंबकीन्ततः ॥ ३,२.२६० ॥ भृशं चानुग्रहं प्राप्य हर्षं चैवाप्यनुत्तमम् । संभाजयित्वा चाप्येनं वायुमूचुर्महाबलम् ॥ ३,२.२६१ ॥ ऋषय ऊचुः समीरण महाभाग त्वस्माकं च त्वया विभो । ईश्वरस्योत्तमं पुण्यमष्टमं त्वौपसार्गिकम् ॥ ३,२.२६२ ॥ तस्य स्थानं प्रमाणं च चथावत्परिकीर्तितम् । योगधर्मसमृद्धं वै परमं परमात्मनः ॥ ३,२.२६३ ॥ महादेवस्य माहात्म्यं दुर्विज्ञेयं सुरैरपि । स्वेन माहात्म्ययोगेन सहस्रस्यामितौजसः ॥ ३,२.२६४ ॥ यस्य भक्तंषु संमोहो ह्यनुकंपार्थमेव च । ब्राह्मी लक्ष्म्या स्वयं जुष्टा या साप्रतिमशालिनी ॥ ३,२.२६५ ॥ व्याप्यज्योत्स्नेव चन्द्रस्य विन्यस्ता विश्वरूपिणः । विभूतिर्भ्राजतेऽत्यर्थं देवदेवस्य वेश्मनि ॥ ३,२.२६६ ॥ महादेवस्य तुल्यानां रुद्राणां तु महात्मनाम् । तत्सर्वं निखिलेनेदं वक्त्रादमृतनिस्रवः ॥ ३,२.२६७ ॥ आपीतं खलु शर्वस्य भक्त्यास्माभिस्तु सुव्रत । नास्ति किञ्चिदविज्ञेय मन्यच्चैवानुगामिनः । प्रश्नं देववरप्राण यथावद्वक्तुमर्हसि ॥ ३,२.२६८ ॥ सूत उवाच स खलूवाच भगवान्किं भूयो वर्त्तयाम्यहम् । यन्मया चैव वक्तव्यं तद्वदिष्यामि सुव्रताः ॥ ३,२.२६९ ॥ ऋषय ऊचुः आदित्याः परिपार्श्वे ये सिंहा वै क्रोधविक्रमाः । वैश्वानरा भूतगण व्याघ्रास्चैवानुगामिनः ॥ ३,२.२७० ॥ आभुतसंप्लवे घोरे सर्वप्राणिभृतां क्षये । किमावस्था भवन्त्येते तन्नो ब्रूहि यथार्थवत् ॥ ३,२.२७१ ॥ विज्ञायेश्वरसद्भावमव्यक्तं प्रभवं तथा । वायुरुवाच यत्र पूर्वं गतास्ते तु कुमारा ब्रह्मणः सुताः ॥ ३,२.२७२ ॥ सनन्दनश्च सनकस्तृतीयश्च सनातनः । वोढुश्च कपिलस्तेषामासुरिश्च महायशाः ॥ ३,२.२७३ ॥ मुनिः पञ्जशिखश्चैव ये चान्येऽप्येवमादयः । ततः काले व्यतिक्रान्ते कल्पानां पर्यये गते ॥ ३,२.२७४ ॥ महाभूतविनाशान्ते प्रलये प्रत्युपस्थिते । अनेकरुद्रकोट्यस्तु या प्रसन्ना महेश्वरीम् ॥ ३,२.२७५ ॥ शब्दादीन्विषयान्भोगान्संत्यज्याष्टविधाश्रयात् । प्रविश्य सर्वभूतानि ज्ञानयुक्तेन तेजसा ॥ ३,२.२७६ ॥ विहाय पदमव्यग्रं भूतानाम नुकंपया । तत्र यान्ति महात्मानः परमाणुं महेश्वरम् ॥ ३,२.२७७ ॥ तरन्ति सुमहावर्त्तां जन्ममृत्यूदकां नदीम् । ततः पश्यन्त्यपर्वाणं परं ब्रह्माणामेव च ॥ ३,२.२७८ ॥ देव्या वै सहिताः सप्त या देव्यः परिकीर्त्तिताः । यत्तत्सहस्रं सिंहानामादित्यानां तथैव च ॥ ३,२.२७९ ॥ वैश्वानरा भूतगणा व्याघ्राश्चैवानुगामिनः । आवेश्यात्मनि तान्सर्वान् संख्यायोग्यभवांस्तथा ॥ ३,२.२८० ॥ लोकान्सप्त इमान्भूयो महाभूतानि पञ्च च । विष्णुना सह संयुक्तः करोति विकरोति च ॥ ३,२.२८१ ॥ स रुद्रो यः साममयस्तथैव च यजुर्मयः । स एष ओतः प्रोतश्च बहिरन्तश्च निश्चयात् ॥ ३,२.२८२ ॥ एको हि भगवान्नाथः प्रभवश्चान्तकृद्द्विजाः । ततस्ते ऋषयः सर्वे दिवाकरसमप्रभाः ॥ ३,२.२८३ ॥ सुसत्यं श्रवसः सम्यगारोप्याग्निं तथात्मनि । कर्मणा मनसा वाचा विशुद्धेनान्तरात्मना ॥ ३,२.२८४ ॥ अनन्यमनसो भूत्वा प्रपद्यन्ते महेश्वरम् । व्रतोपवासनिरताः सर्वभूतदयापराः ॥ ३,२.२८५ ॥ योगं त्वनुयमं दिव्यं प्राप्तन्तैश्छिन्नसंशयैः । प्रपद्य परया भक्त्याज्ञानयुक्तेन तेजसा ॥ ३,२.२८६ ॥ तैर्लब्धं रुद्रसालोक्यं शाश्वतं पदमव्ययम् । यः पठेत्तपसा युक्तो वायुप्रोक्तामिमां श्रुतिम् ॥ ३,२.२८७ ॥ ब्राह्मणः क्षत्रियो वापिवैश्यो वा स्वक्रियापरः । लभते रुद्रलोकं वै कारणं लोककारणम् ॥ ३,२.२८८ ॥ विनिवृत्ते तदा सर्गे प्रकृत्या वस्थितेन वै । तदात्यन्तपरोक्षत्वाददृष्टत्वाच्च कस्यचित् ॥ ३,२.२८९ ॥ अनाख्यानादबोध्यत्वादज्ञानाज्ज्ञानिनामपि । आगतागतिकत्वाच्च ग्रहणं तन्न विद्यते ॥ ३,२.२९० ॥ भावग्राह्यानुमानाच्च चिन्तयित्वेदमुच्यते । स्थिते तु कारणे तस्मिन्नित्ये सदसदात्मके ॥ ३,२.२९१ ॥ अनिर्देश्ये प्रवृत्तिर्वै स्वात्मिकाकारणेन तु । एवं सप्तद्विरभ्यस्ताः क्रमात्प्रकृतयस्तु वै ॥ ३,२.२९२ ॥ प्रत्याहारे तदा सर्गे प्रविशन्ति परस्परम् । येनेदमावृतं सर्वमण्डमप्सु प्रलीयते ॥ ३,२.२९३ ॥ सप्तद्वीपसमुद्रान्तं सप्तलोकं सपर्वतम् । उदकावरणं यच्च ज्योतिष्यालीयते तु यत् ॥ ३,२.२९४ ॥ यत्तेजसं चावरणं मारुतो ग्रसते नु यत् । यद्वायव्यं चावरणमाकाशग्रसते तु तत् ॥ ३,२.२९५ ॥ आकाशावरणं यच्च भूतादिर्ग्रसते तु तत् । भूतादिं ग्रसते चापि महान्वै बुद्धिलक्षमः ॥ ३,२.२९६ ॥ महान्तं ग्रसतेऽव्यक्तं गुणसाम्यं ततः परम् । एतौ संहारविस्तारौ ब्रह्मा व्यक्तौ ततः पुनः ॥ ३,२.२९७ ॥ सृजते ग्रसते चैव विकारात्सर्गसंयमे । संसिद्धकार्यकरणाः संसिद्धा ज्ञानिनस्तु ये ॥ ३,२.२९८ ॥ गत्वा जवं जवीभावे स्थाने स्वेषु प्रसंयमात् । प्रत्याहारेऽधियुज्यन्ते क्षेत्रज्ञाः करणैः पुनः ॥ ३,२.२९९ ॥ अव्यक्तं क्षेत्रमित्याहुर्ब्रह्मा क्षेत्रज्ञ उच्यते । साधर्म्यवैधर्म्यकृतः संयोगो नादिमास्तयोः ॥ ३,२.३०० ॥ एवं सर्गेषु विज्ञेयः क्षेत्रज्ञेष्विह ब्राह्मणाः । ब्रह्मविच्चैव विज्ञेयः क्षेत्रज्ञानात्पृथक् ॥ ३,२.३०१ ॥ विषयाविषयत्वं च क्षेत्रक्षेत्रज्ञयोः स्मृतम् । ब्रह्मा त्वविषयो ज्ञेयो विषयः क्षेत्रमुच्यते ॥ ३,२.३०२ ॥ क्षेत्रज्ञाधिष्ठितं क्षेत्रं क्षेत्रज्ञार्थं प्रचक्षते । बहुत्वाच्च शरीराणां शरीरी बहुधा स्मृतः ॥ ३,२.३०३ ॥ अव्यूहाशङ्कराच्चैव ज्योतिर्यच्च व्यवस्थितम् । यस्मात्प्रतिशरीरं हि सुखदुःखो पलब्धिता ॥ ३,२.३०४ ॥ तस्मात्पुरुषनानात्वं विज्ञेयं तु विजानता । यदा प्रवर्त्तते चैषां भेदानां चैव संयमः ॥ ३,२.३०५ ॥ स्वभावकारिताः सर्वे कालेन महता तदा । निवर्त्तन्ते तदा तस्मिन्स्थितरागाः स्वयंभुवः ॥ ३,२.३०६ ॥ सह सायुज्यकैः सर्वैर्ब्रह्मलोकनिवासिभिः । विनिवृत्तेस्तदा तेषां स्थितेरात्मनिवासिनाम् ॥ ३,२.३०७ ॥ तत्कालवासिनां तेषां तत्र वै दोषदर्शिनाम् । उत्पद्यतेऽथ वैराग्यमात्मवाद प्रणाशनम् ॥ ३,२.३०८ ॥ भोज्यभोक्तृत्वनानात्वैस्तेषां तद्भावदर्शिनाम् । पृथग्ज्ञानेन क्षेत्रज्ञास्ततस्ते ब्रह्मलौकिकाः ॥ ३,२.३०९ ॥ प्रकृतौ कारणातीताः सर्वे नानाप्रदर्शिनः । स्वात्मन्येवावतिष्ठन्ते प्रशान्तादर्शनात्मकाः ॥ ३,२.३१० ॥ शुद्धा निरञ्जनाः सर्वे चेतनाचेतनास्तथा । तत्रैव परिनिर्वाणाः स्मृतानागामिनस्तु ते ॥ ३,२.३११ ॥ निर्गुणत्वाग्निरात्मानः प्रकृत्यन्ते व्यतिक्रमात् । इत्येवं प्राकृतः प्रोक्तः प्रतिसर्गः स्वयंभुवा ॥ ३,२.३१२ ॥ वर्णाश्रमाचारयुतः प्रतिसर्गं शृणोति यः । स व्रजेच्छिवसालोक्यं भक्तिमान्विगतज्वरः ॥ ३,२.३१३ ॥ अमद्यपश्च य शूद्रो भवभक्तो जितेद्रियः । आभूतसंप्लवस्थायी अप्रतीघातलक्षणः ॥ ३,२.३१४ ॥ गाणपत्यं स लभते स्थानं वा सार्वकालिकम् । मद्यपो मद्यपैः सार्द्धं भूतसंघैश्च मोदते ॥ ३,२.३१५ ॥ सेव्यमानो महीपृष्ठे मर्त्यानां वरदो भवः । इति होवाच भगवान्वायुर्वाक्यमिदवरम् ॥ ३,२.३१६ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते उत्तरभागे चतुर्थ उपसंहारपादे शिवपुरवर्णनं नाम द्वितीयोऽध्यायः _____________________________________________________________ सूत उवाच प्रत्याहारं प्रवक्ष्यामि परस्यान्ते स्वयंभुवः । ब्रह्मणः स्थितिकाले तु क्षीणे तस्मिंस्तदा प्रभोः ॥ ३,३.१ ॥ यथेदं कुरुते व्यक्तं सुसूक्ष्मं विश्वमीश्वरः । अव्यक्तं ग्रसते व्यक्तं प्रत्याहारे च कृत्स्नशः ॥ ३,३.२ ॥ पुरान्तद्व्यणुकाद्यानां संपूर्णे कल्पसंक्षये । उपस्थिते महाघोरे ह्यप्रत्यक्षे तु कस्यचित् ॥ ३,३.३ ॥ अन्ते द्रुमस्य संप्राप्ते पश्चिमास्य मनोस्तदा । अन्ते कलियुगे तस्मिन्क्षीणे संहार उच्यते ॥ ३,३.४ ॥ संप्रक्षाले तदा वृत्ते प्रत्याहारे ह्युपस्थिते । प्रत्याहारे तदा तस्मिन्भूततन्मात्रसंक्षये ॥ ३,३.५ ॥ महदादिविकारस्य विशेषान्तस्य संक्षये । स्वभावकारिते तस्मिन्प्रवृत्ते प्रतिसंचरे ॥ ३,३.६ ॥ आपो ग्रसंति वै पूर्वं भूमेर्गन्धात्मकं गुमम् । आत्तगन्धा ततो भूमिः प्रलयत्वाय कल्पते ॥ ३,३.७ ॥ प्रणष्टे गन्धतन्मात्रे तोयावस्था धरा भवेत् । आपस्तदा प्रविष्टास्तु वेगवत्यो महास्वनाः ॥ ३,३.८ ॥ सर्वमापूरयित्वेदं तिष्ठन्ति विचरन्ति च । अपामपि गणो यस्तु ज्योतिःष्वालीयते रसः ॥ ३,३.९ ॥ नश्यन्त्यापस्तदा तत्र रसतन्मात्रसंक्षयात् । तीव्रतेजोहृतरसाज्योतिष्ट्वं प्राप्नुवन्त्युत ॥ ३,३.१० ॥ ग्रस्ते च सलिले तेजः सर्वतोमुखमीक्षते । अथाग्निः सर्वतो व्याप्त आदत्ते तज्जलं तदा ॥ ३,३.११ ॥ सर्वमापूर्यतेऽर्चिर्भिस्तदा जगदिदं शनैः । अर्चिर्भिः संतते तस्मिंस्तर्यगूर्ध्वमधस्ततः ॥ ३,३.१२ ॥ ज्योतिषोऽपि गुणं रूपं वायुरत्ति प्रकाशकम् । प्रलीयते तदा तस्मिन्दीपार्चिरिव मारुते ॥ ३,३.१३ ॥ प्रनष्टे रूपतन्मात्रे हृतरूपो विभावसुः । उपशाम्यति तेजो हिवायुराधूयते महान् ॥ ३,३.१४ ॥ निरालोके तदा लोके वायुभूते च तेजसि । ततस्तु मूलमासाद्य वायुः संबन्धमात्मनः ॥ ३,३.१५ ॥ ऊर्ध्वञ्चाधश्च तिर्यक्च दोधवीति दिशो दश । वायोरपि गुणं स्पर्शमाकाशं ग्रसते च तत् ॥ ३,३.१६ ॥ प्रशाम्यति तदा वायुः खन्तु तिष्ठत्यनावृतम् । अरूपमरसस्पर्शमगन्धं न च मूर्तिमत् ॥ ३,३.१७ ॥ सर्वमापूरयच्छब्दैः सुमहत्तत्प्रकाशते । तस्मिंल्लीने तदा शिष्टमाकाशं शब्दलक्षणम् ॥ ३,३.१८ ॥ शब्दमात्रं तदाकाशं सर्वमावृत्य तिष्ठति । तत्र शब्दं गुमं तस्य भूतदिर्ग्रसते पुनः ॥ ३,३.१९ ॥ भूतेन्द्रियेषु युगपद्भूतादौ संस्थितेषु वै । अभिमानात्मको ह्येष भूतादिस्तामसः स्मृतः ॥ ३,३.२० ॥ भूतादिर्ग्रसते चापि महान्वै बुद्धिलक्षणः । महानात्मा तु विज्ञेयः संकल्पो व्यवसायकः ॥ ३,३.२१ ॥ बुद्धिर्मनश्च लिङ्गं च महानक्षर एव च । पर्यायवाचकैः शब्दैस्तमाहुस्तत्त्व चिन्तकाः ॥ ३,३.२२ ॥ संप्रलीनेषु भूतेषु गुणसाम्ये ततो महान् । लीयन्ते गुणसाम्यं तु स्वात्मन्येवावतिष्ठते ॥ ३,३.२३ ॥ लीयन्ते सर्वभूतानां कारणानि प्रसंगमे । इत्येष संयमश्चैव तत्त्वानां कारणैः सह ॥ ३,३.२४ ॥ तत्त्वप्रसंयमो ह्येष स्मृतो ह्यावर्तको द्विजाः । धर्माधर्मौं तपो ज्ञानं शुभं सत्यानृते तथा ॥ ३,३.२५ ॥ ऊर्ध्वभावो ह्यधोभावः सुखदुःखे प्रियाप्रिये । सर्वमेतत्प्रपञ्चस्थं गुणमात्रात्मकं स्मृतम् ॥ ३,३.२६ ॥ निरिन्द्रियाणां च तदा ज्ञानिनां यच्छुभाशुभम् । प्रकृत्यां चैव तत्सर्वं पुण्यं पापं प्रतिष्ठति ॥ ३,३.२७ ॥ यात्यवस्था तु साचैव देहिनां तु निरुच्यते । जन्तूनां पापपुण्यं तु प्रकृतौ यत्प्रतिष्ठितम् ॥ ३,३.२८ ॥ अवस्थास्थानि तान्येव पुण्यपापानि जन्तवः । योजयन्ते पुनर्देहान्परत्वेन तथैव च ॥ ३,३.२९ ॥ धर्माधर्मौं तु जन्तूनां गुणमात्रात्मकावुभौ । कारणैः स्वैः प्रचीयेते कायत्वेनेह जन्तुभिः ॥ ३,३.३० ॥ सचेतनाः प्रलीयन्ते क्षेत्रज्ञाधिष्ठिता गुणाः । सर्गे च प्रतिसर्गे च संसारे चैव जन्तवः ॥ ३,३.३१ ॥ संयुज्यन्ते वियुज्यन्ते कारणैः संचरन्ति च । राजसी तामसी चैव सात्त्विकी चैव वृत्तयः ॥ ३,३.३२ ॥ गुणमात्राः प्रवर्तन्ते पुरुषाधिष्ठता स्त्रिधा । उर्द्ध्वदेशात्मकं सत्त्वमधोभागात्मकं तमः ॥ ३,३.३३ ॥ तयोः प्रवर्त्तकं मध्ये इहैवावर्त्तकं रजः । इत्येवं परिवर्तन्तेत्रयश्चेतोगुणात्मकाः ॥ ३,३.३४ ॥ लोकेषु सर्वभूतानां तन्न कार्यं विजानता । अविद्याप्रत्ययारंभा आरभ्यन्ते हि मानवैः ॥ ३,३.३५ ॥ एतास्तु गतयस्तिस्रः शुभात्पापात्मिकाः स्मृताः । तमसोऽभिभवाज्जन्तुर्याथातथ्यं न विन्दति ॥ ३,३.३६ ॥ अतत्त्वदर्शनात्सोऽथ विविधं वध्यते ततः । प्राकृतेन च बन्धेन तथ्यावैकारिकेण च ॥ ३,३.३७ ॥ दक्षिणाभिस्ततीयेन बद्धोऽत्यन्तं विवर्त्तते । इत्येते वै त्रयः प्रोक्ता बन्धा ह्यज्ञानहेतुकाः ॥ ३,३.३८ ॥ अनित्ये नित्यसंज्ञा च दुःखे च सुखदर्शनम् । अस्वे स्वमिति च ज्ञानमशुचौ शुचिनिश्चयः ॥ ३,३.३९ ॥ येषामेते मनोदोषा ज्ञानदोषा विपर्ययात् । रागद्वेषनिवृत्तिश्च तज्ज्ञानं समुदाहृतम् ॥ ३,३.४० ॥ अज्ञानं तमसो मूरं कर्मद्वयफलं रजः । कर्म जस्तु पुनर्देहो महादुःखं प्रवर्त्तते ॥ ३,३.४१ ॥ श्रोत्रजा नेत्रजा चैव त्वग्जिह्वाघ्राणजा तथा । पुनर्भवकरी दुःखात्कर्मणा जायते तृषा ॥ ३,३.४२ ॥ सतृष्णोऽभिहितो बालः स्वकृतैः कर्मणः फलैः । तैलवीडकवज्जीवस्तत्रैव परिवर्त्तते ॥ ३,३.४३ ॥ तस्मान्मूलमनर्थानामज्ञान मुपदिश्यते । तं शत्रुमवधार्यैकं ज्ञाने यत्नं समाचरेत् ॥ ३,३.४४ ॥ ज्ञानाद्धि त्यजते सर्वं त्यागाद्बुद्धिर्विरज्यते । वैराग्याच्छुध्यते चापि शुद्धः सत्त्वेन मुच्यते ॥ ३,३.४५ ॥ अत ऊर्द्ध्वं प्रवक्ष्यामि रागं भूतापहारिणम् । अभिष्वङ्गाय योगः स्याद्विषयेष्ववशात्मनः ॥ ३,३.४६ ॥ अनिष्टमिष्टमप्रीतिप्रीतितापविषादनम् । दुःखलाभे न तापश्च सुखानुस्मरणं तथा ॥ ३,३.४७ ॥ इत्येष वैषयो रागः संभूत्याः कारणं स्मृतः । ब्रह्मादौ स्थावरान्ते वै संसारेह्यादिभौतिके ॥ ३,३.४८ ॥ अज्ञानपूर्वकं तस्मादज्ञानं तु विवर्जयेत् । यस्य चार्षे न प्रमाणं शिष्टाचारं तथैव च ॥ ३,३.४९ ॥ वर्णाश्रमविरुद्धो यः शिष्टशास्त्रविरोधकः । एष मार्गो हि निरये तिर्य्यग्योनौ च कारणम् ॥ ३,३.५० ॥ तिर्य्यग्यो निगतं चैव कारणं तत्त्ररुच्यते । त्रिविधो यातनास्थाने तिर्य्यग्योनौ च षड्विधे ॥ ३,३.५१ ॥ कारणे विषये चैव प्रतिघातस्तु सर्वशः । अनैश्वर्यं तु तत्सर्वं प्रतिघातात्मकं स्मृतम् ॥ ३,३.५२ ॥ इत्येषा तामसी वृत्तिर्भूतादीनां चतुर्विधा । सत्त्वस्थमात्रकं चित्तं यथासत्त्वं प्रदर्शनात् ॥ ३,३.५३ ॥ तत्त्वानां च यथातत्त्वं दृष्ट्वा वै तत्त्वदर्शनात् । सत्त्वक्षेत्रज्ञनानात्वमेतन्नानार्थदर्शनम् ॥ ३,३.५४ ॥ नानात्वदर्शनं ज्ञानं ज्ञानाद्वै योग उच्यते । तेन बद्धस्य वै बन्धो मोक्षो मुक्तस्य तेन च ॥ ३,३.५५ ॥ संसारे विनिवृत्ते तु मुक्तो लिङ्गेन मुच्यते । निःसंबन्धो ह्यचैतन्यः स्वात्मन्येवावतिष्ठते ॥ ३,३.५६ ॥ स्वात्मन्यवस्थितश्चापि विरूपाख्येन लिख्यते । इत्येतल्लक्षणं प्रोक्तं समासाज्ज्ञान मोक्षयोः ॥ ३,३.५७ ॥ स चापि त्रिविधः प्रोक्तो मोक्षो वै तत्त्वदर्शिभिः । पूर्वं वियोगो ज्ञानेन द्वितीये रागसंक्षयात् ॥ ३,३.५८ ॥ तृष्णाक्ष यात्तृतीयस्तु व्याख्यातं मोक्षकारणम् । लिङ्गाभावात्तु कैवल्यं कैवल्यात्तु निरञ्जनम् ॥ ३,३.५९ ॥ निरञ्जनत्वाच्छुद्धस्तु नितान्यो नैव विद्यते । अत ऊर्द्ध्वं प्रवक्ष्यामि वैराग्यं दोषदर्शनात् ॥ ३,३.६० ॥ दिव्ये च मानुषे चैव विषये पञ्चलक्षणे । अप्रद्वेषोऽनभिष्वङ्गः कर्त्तव्यो दोषदर्शनात् ॥ ३,३.६१ ॥ तपप्रीतिविषादानां कार्यं तु परिवर्जनम् । एवं वैराग्यमास्थाय शरीरी निर्ममो भवेत् ॥ ३,३.६२ ॥ अनित्यमशिवं दुःखमिति वुद्ध्यानुचिन्त्य च । विशुद्धं कार्यकरणं सत्त्वस्यातिनिषैवया ॥ ३,३.६३ ॥ परिपक्वकषायो हि कृत्स्नान्दोषान्प्रपश्यति । ततः प्रयाणकाले हि दोषैर्नैमित्तिकैस्तथा ॥ ३,३.६४ ॥ ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः । स शरीरमुपाश्रित्य कृत्स्नान्दोषान्रुणद्धि वै ॥ ३,३.६५ ॥ प्राणक्थानानि भिन्दन्हि छिन्दन्मर्माण्यतीत्य च । शैत्यात्प्रकुपितो वायुरूर्द्ध्वं तूत्क्रमते ततः ॥ ३,३.६६ ॥ स चायं सर्वभूतानां प्राणस्थानेष्ववस्थितः । समासात्संवृते ज्ञाने संचृत्तेषु च कर्मसु ॥ ३,३.६७ ॥ स जीवो नाभ्यधिष्ठानः कर्मभिः स्वैः पुराकृतैः । अष्टाङ्गप्रणवृत्तिं वै स विच्यावयते पुनः ॥ ३,३.६८ ॥ शरीरं प्रजहन्सोंऽते निरुच्छ्वासस्ततो भवेत् । एवं प्राणैः परित्यक्तो मृत इत्यभिधीयते ॥ ३,३.६९ ॥ यथेह लोके स्वप्ने तं नीयमानमितस्ततः । रञ्जनं तद्विधेयस्य ते तान्यो न च विद्यते ॥ ३,३.७० ॥ नृष्णाक्षयस्तृतीयस्तु व्याख्यातं मोक्षलक्षणम् । शब्दाद्ये विषये दोषदृष्टिर्वै पञ्चलक्षणे ॥ ३,३.७१ ॥ अप्रद्वेषोऽनभिष्वङ्गः प्रीतितापविवर्जनम् । वैराग्यकारणं ह्येते प्रकृतीनां लयस्य च ॥ ३,३.७२ ॥ अष्टौ प्रकृतयो ज्ञेयाः पूर्वोक्ता वै यथाक्रमम् । अव्यक्ताद्यास्तु विज्ञेया भूतान्ताः प्रकृतेर्भवाः ॥ ३,३.७३ ॥ वर्णाश्रमाचारयुक्तः शिष्टः शास्त्राविरोधनः । वर्णाश्रमाणां धर्मोऽयं देवस्थानेषु कारणम् ॥ ३,३.७४ ॥ ब्रह्मादीनि पिशाचान्तान्यष्टौ स्थानानि देवता । ऐश्वर्यमाणिमाद्यं हि कारणं ह्यष्टलक्षणम् ॥ ३,३.७५ ॥ निमित्तमप्रतीघाते दृष्टे शब्दादिलक्षणे । अष्टावेतानि रूपाणि प्राकृतानि यथाक्रमम् ॥ ३,३.७६ ॥ क्षेत्रज्ञेष्वनुसज्जन्ते गुणमात्रत्मकानि तु । प्रावृट्काले पृथग्मेघं पश्यन्तीव सचक्षुषः ॥ ३,३.७७ ॥ पश्यन्त्येवं विधाः सिद्धा जीवं दिव्येन चक्षुषा । खादतश्चान्नपानानि योनीः प्रविशतस्तथा ॥ ३,३.७८ ॥ तिर्यगूर्ध्वमधस्ताच्च धावतोऽपि यथाक्रमम् । जीवः प्राणस्तथा लिङ्गं करणं च चतुष्टयम् ॥ ३,३.७९ ॥ पर्यायवाचकैः शब्दैरेकार्थैः सोऽभिलष्यते । व्यक्ताव्यक्तप्रमाणोऽयं स वै भुङ्क्ते तु कृत्स्नशः ॥ ३,३.८० ॥ अव्यक्तानुग्रहान्तं च क्षेत्रज्ञाधिष्ठितं च यत् । एवं ज्ञात्वा शुचिर्भूत्वा ज्ञानाद्वै विप्रमुच्यते ॥ ३,३.८१ ॥ नष्टं चैव यथा तत्त्वं तत्त्वानां तत्त्वदर्शने । यथेष्टं परिनिर्याति भिन्ने देहे सुनिर्वृते ॥ ३,३.८२ ॥ भिद्यते करणं चापि ह्यव्यक्तज्ञानिनस्ततः । मुक्तो गुणशरीरेण प्रणाद्येन तु सर्वशः ॥ ३,३.८३ ॥ नान्यच्छरीरमादत्ते दग्धे वीजे यथाङ्कुरः । ज्ञानी च सर्वसंसाराविज्ञशारीरमानसः ॥ ३,३.८४ ॥ ज्ञानाच्चतुर्द्दशाबुद्धः प्रकृतिस्थो निवर्तते । प्रकृतिं सत्यमित्याहुर्विकारोऽनृतमुच्यते ॥ ३,३.८५ ॥ असद्भावोऽनृतं ज्ञेयं सद्भावः सत्य मुच्यते । अनामरूपं क्षेत्रज्ञनामरूपं प्रचक्षते ॥ ३,३.८६ ॥ यस्मात्क्षेत्रं विजानाति तत्मात्क्षेत्रज्ञ उच्यते । क्षेत्रं प्रत्ययते यस्मात्क्षेत्रज्ञः शुभ उच्यते ॥ ३,३.८७ ॥ क्षेत्रज्ञः स्मर्यते तस्मात्क्षेत्रं तज्ज्ञैर्विभाष्यते । क्षेत्रं त्वत्प्रत्ययं दृष्टं क्षेत्रज्ञः प्रत्ययः सदा ॥ ३,३.८८ ॥ क्षपणात्कारणाच्चैव क्षतत्राणात्तथैव च । भोज्यत्वविषयत्वाच्च क्षेत्रं क्षेत्रविदो विदुः ॥ ३,३.८९ ॥ महदाद्यं विशेषान्तं सर्वैरूप्यं विलक्षणम् । विकारलक्षणं तद्वै सोऽक्षरः क्षरमेति च ॥ ३,३.९० ॥ तमेवानुविकारं तु यस्माद्वै क्षरते पुनः । तस्माच्च कारणाच्चैव ज्ञरमित्यभिधीयते ॥ ३,३.९१ ॥ संसारे नरकेभ्यश्च त्रायते पुरुषं च यत् । दुःखत्राणात्पुनश्चापि क्षेत्रमित्यभिधीयते ॥ ३,३.९२ ॥ सुखदुःखमहंभावाद्भोज्यमित्यभिधीयते । अचेतनत्वाद्विषयस्तद्विधर्मा विभुः स्मृतः ॥ ३,३.९३ ॥ न क्षीयते न क्षरति विकारप्रसृतं तु तत् । अक्षरं तेन वाप्युक्तम क्षीणत्वात्तथैव च ॥ ३,३.९४ ॥ यस्मात्पूर्यनुशेते च तस्मात्पुरुष उच्यते । पुरप्रत्ययिको यस्मात्पुरुषेत्यभिधीयते ॥ ३,३.९५ ॥ पुरुषं कथयस्वाथ कथितोऽज्ञैर्विभाष्यते । शुद्धो निरञ्जनाभासो ज्ञाता ज्ञानविवर्जितः ॥ ३,३.९६ ॥ अस्तिनास्तीति सोऽन्यो वा बद्धो मुक्तो गतःस्थितः । नैर्हेतुकात्त्वनिर्देश्यादहस्तस्मिन्न विद्यते ॥ ३,३.९७ ॥ शुद्धत्वान्न तु दृश्यो वै द्रष्टृत्वात्समदर्शनः । आत्मप्रत्ययकारित्वादन्यूनं वाप्यहेतुकम् ॥ ३,३.९८ ॥ भावग्राह्यमनुमानाच्चिन्तयन्न प्रमुह्यते । यदा पश्यति ज्ञातारं शान्तार्थं दर्शनात्मकम् ॥ ३,३.९९ ॥ दृश्यादृश्येषु निर्देश्यं तदा तद्दुर्द्धरं वरम् । विज्ञाता न च दृश्येत वृथक्त्वेनेह सर्वशः ॥ ३,३.१०० ॥ स्वेनात्मना तथात्मानं कारणात्मा नियच्छति । प्रकृतौ कारणे तत्र स्वात्मन्येवोपतिष्ठति ॥ ३,३.१०१ ॥ अस्तिनास्तीति सोऽन्यो वा इहामुत्रेति वा पुनः । एकत्वं वा पृथक्वं वा क्षेत्रज्ञः पुरुषोऽपि वा ॥ ३,३.१०२ ॥ आत्मा वा स निरात्मा वा चेतनोऽचेतनोऽपि वा । कर्त्ता वा सोऽप्यकर्त्ता वा भोक्ता वा भोज्यमेव च ॥ ३,३.१०३ ॥ यद्गत्वा न निवर्त्तन्ते क्षेत्रज्ञं तु निरञ्जनम् । अवाच्यं तदनाख्यानादग्राह्यं वादहेतुभिः ॥ ३,३.१०४ ॥ अप्रतर्क्यमचिन्त्यत्वादवा येत्वाच्च सर्वशः । नालप्य वचसा तत्त्वमप्राप्य मनसा सह ॥ ३,३.१०५ ॥ क्षेत्रज्ञे निर्गुणे शुद्धे शान्ते क्षीणे निरञ्जने । व्यपेतसुखदुःखे च निरुद्धे शान्तिमागते ॥ ३,३.१०६ ॥ निरात्मके पुनस्तस्मिन्वाच्यावाच्यं न विद्यते । एतौ संहारविस्तारौ व्यक्ताव्यक्तौ ततः पुनः ॥ ३,३.१०७ ॥ सृज्यते ग्रसते चैव व्यक्तौ पर्यवतिष्ठते । क्षेत्रज्ञाधिष्ठितं सर्वं पुनः सर्गे प्रवर्त्तते ॥ ३,३.१०८ ॥ अधिष्ठानं प्रपद्येत तस्यान्ते बुद्धिपूर्वकम् । साधर्म्यवैधर्म्यकृतः संयोगो विदितस्तयोः । अनादिमांश्च संयोगो महापुरुषजः स्मृतः ॥ ३,३.१०९ ॥ यावच्च सर्गप्रति सर्गकालस्तावज्जगत्तिष्ठति संनिरुध्य । पूर्वं हि तस्यैव च बुद्धिपूर्वं प्रवर्त्तते तत्पुरुषार्थंमेव ॥ ३,३.११० ॥ एषा निसर्गप्रतिसर्गपूर्वा प्राधानिकी चेश्वरकारिता वा । अनाद्यनन्ता ह्यभिमानपूर्वकं वित्रासयन्ती जगदभ्युपैति ॥ ३,३.१११ ॥ इत्येष प्राकृतः सर्गस्तृतीयो हेतुलक्षणः । उक्तो ह्यस्मिंस्तदात्यन्तं कालं ज्ञात्वा प्रमुच्यते ॥ ३,३.११२ ॥ इत्येष प्रतिसर्गो वस्त्रिविदः कीर्त्तितो मया । विस्तरेणानुपूर्व्याच भूयः किं वर्त्तयाम्यहम् ॥ ३,३.११३ ॥ इति श्री ब्रह्माण्डे महापुराणे वायुप्रोक्ते उत्तरभागे चतुर्थ उपसंहारपादे प्रतिसर्गो नाम तृतीयोऽध्यायः _____________________________________________________________ ऋषय ऊचुः श्रुतं सुमहदाख्यानं भवता परिकीर्त्तितम् । प्रजानां मनुभिः सार्द्धं देवानामृषिभिः सह ॥ ३,४.१ ॥ पितृगन्धर्वभूतानां पिशाचोरगरक्षसाम् । दैत्यानां दानवानां च यक्षाणामेव पक्षिणाम् ॥ ३,४.२ ॥ अत्यद्भुतानि कर्माणि विविधा धर्मनिश्चयाः । विचित्राश्च कथायोगा जन्म चाग्र्यमनुत्तमम् ॥ ३,४.३ ॥ तत्कथ्यमानमस्माकं भवता श्लक्ष्णया गिरा । मनः कर्णसुखं सौते प्रीणात्यमृतसन्निभम् ॥ ३,४.४ ॥ एवमाराध्य ते सूतं सत्कृत्य च महर्षयः । पप्रच्छुः सत्त्रिणः सर्वे पुनः सर्गप्रवर्त्तनम् ॥ ३,४.५ ॥ कथं सुत महाप्राज्ञ पुनः सर्गः प्रपत्स्यते । बन्धेषु संप्रलीनेषु गुणसाम्ये तमोमये ॥ ३,४.६ ॥ विकारेष्वविसृष्टेषु ह्यव्यक्ते चात्मनि स्थिते । अप्रवृत्ते ब्रह्मणा तु सहसा योज्यगैस्तदा ॥ ३,४.७ ॥ कथं प्रपत्स्यते सर्गस्तन्नः प्रब्रूहि पृच्छताम् । एवमुक्तस्ततः सूतस्तदासौ लोमहर्षणः ॥ ३,४.८ ॥ व्याख्यातुमुपचक्राम पुनः सर्गप्रवर्त्तनम् । अत्र वो वर्त्तयिष्यामि यथा सर्गः प्रपत्स्यते ॥ ३,४.९ ॥ पूर्ववत्स तु विज्ञेयः समासात्तन्निबोधत । दृष्टेनैवानुमेयं च तर्कं वक्ष्यामि युक्तितः ॥ ३,४.१० ॥ यस्माद्वाचो निवर्त्तन्ते त्वप्राप्य मनसा सह । अव्यक्त वत्परोक्षत्वाद्गहनं तद्दुरासदम् ॥ ३,४.११ ॥ विकारैः प्रतिसंसृष्टो गुणः साम्येन वर्त्तते । प्रधानं पुरुषाणां च साधर्म्येणैव तिष्ठति ॥ ३,४.१२ ॥ धर्माधर्मौं प्रलीयेते ह्यव्यक्ते प्राणिनां सदा । सत्त्वमात्रात्मको धर्मो गुणे सत्त्वे प्रतिष्ठितः ॥ ३,४.१३ ॥ तमोमात्रात्मको धर्मो गुणे तमसि तिष्ठति । अविभागेन तावेतौ गुणसाम्ये स्थितावुभौ ॥ ३,४.१४ ॥ सर्वं कार्यं बुद्धिपूर्वं प्रधानस्य प्रपत्स्यते । बुद्धिपूर्वं क्षेत्रज्ञ अधिष्ठास्यति तान्गुणान् ॥ ३,४.१५ ॥ एवं तानभिमानेन प्रपत्स्यति पुनस्तदा । यदा प्रवर्त्तितव्यं तु क्षेत्रक्षेत्रज्ञयोर्द्वयोः ॥ ३,४.१६ ॥ भोज्यभोक्तृत्वसंबन्धाः प्रपत्स्यन्ते च तावुभौ । तस्मादक्षरमव्यक्तं साम्ये स्थित्वा गुणात्मकम् ॥ ३,४.१७ ॥ क्षेत्रज्ञाधिष्ठितं तत्र वैपम्यं भजते तु तत् । ततः प्रपत्स्यते व्यक्तं क्षेत्रक्षेत्रज्ञयोर्द्वयोः ॥ ३,४.१८ ॥ क्षेत्रज्ञाधिष्ठितं सत्त्वं विकारं जनयिष्यति । महदाद्यं विशेषान्तं चतुर्विंशगुणात्मकम् ॥ ३,४.१९ ॥ क्षेत्रज्ञस्य प्रधानस्य पुरुषस्य प्रवर्त्स्यतः । आदिदेवः प्रधानस्यानुग्रहाय प्रजक्षते ॥ ३,४.२० ॥ अनाद्यौ वरमुत्पादौ उभौ सूक्ष्मौ तु तौ स्मृतौ । अनादिसंयोगयुतौ सर्वं क्षेत्रज्ञमेव च ॥ ३,४.२१ ॥ अबुद्धिपूर्वकं युक्तमाशक्तौ तु वरौ तदा । अप्रत्ययममोघं च स्थितावुदकमत्स्यवत् ॥ ३,४.२२ ॥ प्रवृत्तपूर्वौं तौ पूर्वं पुनः सर्वं प्रपत्स्यते । अज्ञा गुणैः प्रवर्त्तन्ते रजःसत्त्वतमोऽभिधैः ॥ ३,४.२३ ॥ प्रवृत्तिकाले रजसाभिपन्नो महत्त्वभूतादिविशेषतां च । विशेषतां चेन्द्रियतां च याति गुणावसानौषधिभिर्मनुष्यः ॥ ३,४.२४ ॥ सत्याभिध्यायिनस्तस्य ध्यायिनः सन्निमित्तकम् । रजः सत्त्वतमोव्यक्ता विधर्माणः परस्परम् ॥ ३,४.२५ ॥ आद्यन्तं वै प्रवत्स्यन्ते क्षेत्रमज्ञाम्वु सर्वशः । संसिद्धकार्यकरणा उत्पद्यन्तेऽभिमानिनः ॥ ३,४.२६ ॥ सर्वे सत्त्वाः प्रपद्यन्ते ह्यव्यक्तात्पूर्वमेव च । प्राक्सृतौ ये त्वसुवहाः साधकाश्चाप्यसाधकाः ॥ ३,४.२७ ॥ असंशान्तास्तु ते सर्वे स्थानप्रकरणैः सह । कार्याणि प्रतिपत्स्यन्ते उत्पत्स्यन्ते पुनः पुनः ॥ ३,४.२८ ॥ गुणमात्रात्मकावेव धर्माधर्मौं परस्परम् । आरप्संते हि चान्योन्यं वरेणानुग्रहेण वा ॥ ३,४.२९ ॥ शर्वस्तुल्यप्रसृष्ट्यर्थ सर्गादौ याति विक्रियाम् । गुणास्तं प्रतिधीयन्ते तस्मात्तत्तस्य रोचते ॥ ३,४.३० ॥ गुणास्ते यानि कर्माणि प्राक्सृष्ट्यां प्रतिपेदिरे । तान्येव प्रतिपद्यन्ते सृज्यमानाः पुनः पुनः ॥ ३,४.३१ ॥ हिंस्राहिंस्रे मृदुकूरे धर्माधर्मावृतानृते । तद्भाविताः प्रपद्यन्ते तस्मात्तत्तस्य रोचते ॥ ३,४.३२ ॥ महाभूतेषु नानात्वमिन्द्रियार्थेषु मूर्त्तिषु । विप्रयोगश्च भूतानां गुणेभ्यः संप्रवर्त्तते ॥ ३,४.३३ ॥ इत्येष वो मया ख्यातः पुनः सर्गः समासतः । समासादेव वक्ष्यामि ब्रह्मणोऽथ समुद्भवम् ॥ ३,४.३४ ॥ अव्यक्तात्कारणात्तस्मान्नित्यात्सदसदात्मकात् । प्रधानपुरुषाभ्यां तु जायते च महेश्वरः ॥ ३,४.३५ ॥ स पुनः संभावयिता जायते ब्रह्मसंज्ञितः । सृजते स पुनर्लोकानभिमान गुणात्मकान् ॥ ३,४.३६ ॥ अहङ्कारस्तु महतस्तस्माद्भूतानि चात्मनः । युगपत्संप्रवर्त्तन्ते भूतान्येवेन्द्रियाणि च ॥ ३,४.३७ ॥ भूतभेदाश्च भूतेभ्य इति सर्गः प्रवर्त्तते । विस्तरावयवस्तेषां यथाप्रज्ञं यथाश्रुतम् । कीर्त्त्यतो वो यथापूर्वं तथैवाप्युपधार्यताम् ॥ ३,४.३८ ॥ एतच्छ्रुत्वा नैमिषेया स्तदानीं लोकोत्पत्तिं सुस्थितिं चाप्ययं च । तस्मिन्सत्रेऽवभृथं प्राप्य शुद्धाः पुण्यं लोकमृषयः प्राप्नुवन्ति ॥ ३,४.३९ ॥ यथा यूयं विधिना देवातादीनिष्ट्वा चैवावभृथं प्राप्य शुद्धाः । त्यक्त्वा देहानायुषोंऽते कृतार्थाः पुण्यं लोकं प्राप्य मोदध्वमेवम् ॥ ३,४.४० ॥ एते ते नैमिषेया वै दृष्ट्वा स्पृष्ट्वा च वै तदा । जग्मुश्चावभृथस्नाताः स्वर्गं सर्वे तु सत्रिणः ॥ ३,४.४१ ॥ विप्रास्तथा यूयमपि इष्टा बहुविधैर्मखैः । आयुषोंऽते ततः स्वर्गं गन्तारः स्थ द्विजोत्तमाः ॥ ३,४.४२ ॥ प्रक्रिया प्रथमः पादः कथायास्तु परिग्रहः । अनुषङ्ग उपोद्धात उपसंहार एव च ॥ ३,४.४३ ॥ एवमेव चतुःपादं पुराणं लोकसम्मतम् । उवाच भागवान्सक्षाद्वायुलोकहिते रतः ॥ ३,४.४४ ॥ नैमिषे सत्रमा साद्य मुनिभ्यो मुनिसत्तम । तत्प्रसादं च संसिद्धं भूतोत्पत्तिलयान्वितम् ॥ ३,४.४५ ॥ प्राधानिकीमिमां सृष्टिं तथैवेश्वरकारिताम् । सम्यग्विदित्वा मेधावी न मोहमधिगच्छति ॥ ३,४.४६ ॥ इदं यो ब्राह्मणो विद्वानितिहासं पुरातनम् । शृणुयाच्छ्रावयेद्वापि तथाध्यापयतेऽपि च ॥ ३,४.४७ ॥ स्थानेषु स महेन्द्रस्य मोदते शाश्वतीः समाः । ब्रह्मसायुज्यगो भूत्वा ब्रह्मणा सह मोदते ॥ ३,४.४८ ॥ तेषां कीर्तिमतां कीर्तिं प्रजेशानां महात्मनाम् । प्रथयन्पृथिवीशानां ब्रह्मभूयाय गच्छति ॥ ३,४.४९ ॥ धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च संमितम् । कृष्णद्वैपायनेनोक्तं पुराण ब्रह्मवादिना ॥ ३,४.५० ॥ मन्वन्तरेश्वराणां च यः कीर्तिं प्रथयेदिमाम् । देवतानामृषीणां च भूरिद्रविमतेजसाम् ॥ ३,४.५१ ॥ स सर्वैर्मुच्यते पापैः पुण्यं च महदाप्नुयात् । यश्चेदं श्रावयेद्विद्वान्सदा पर्वणि पर्वणि ॥ ३,४.५२ ॥ धूतपाप्मा जितस्वर्गो ब्रह्मभूयाय कल्पते । यश्चेदं श्रावयेच्छ्राद्धे ब्राह्मणान् पादमन्ततः ॥ ३,४.५३ ॥ अक्षेयं सर्वकामीयं पितॄंस्तच्छोपतिष्ठते । यस्मात्पुरा ह्यणन्तीदं पुराणं तेन चोच्यते ॥ ३,४.५४ ॥ निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते । तथैव त्रिषु वर्णेषु ये मनुष्या अधीयते ॥ ३,४.५५ ॥ इतिहासमिमं श्रुत्वा धर्माय विदधे मतिम् । यावन्त्यस्य शरीरेषु रोमकूपानि सर्वशः ॥ ३,४.५६ ॥ तावत्कोटिसहस्राणि वर्षाणि दिवि मोदते । ब्रह्मसायुज्यगो भूत्वा दैवतैः सह मोदते ॥ ३,४.५७ ॥ सर्वपापहरं पुण्यं पवित्रं च यशस्वि च । ब्रह्मा ददौ शास्त्रमिदं पुराणं मातरिश्वने ॥ ३,४.५८ ॥ तस्माच्चोशनसा प्राप्तं तस्माच्चापि बृहस्पतिः । बृहस्पतिस्तु प्रोवाच सवित्रे तदनन्तरम् ॥ ३,४.५९ ॥ सविता मृत्यवे प्राह मृत्युश्चेन्द्राय वै पुनः । इन्द्रश्चापि वसिष्ठाय सोऽपि सारस्वताय च ॥ ३,४.६० ॥ सारस्वतस्त्रिधाम्नेऽथ त्रिधामा च शरद्वते । शरद्वांस्तु त्रिविष्टाय सोंऽतरिक्षाय दत्तवान् ॥ ३,४.६१ ॥ चर्षिणे चान्तरिक्षो वै सोऽपि त्रय्यारुणाय च । त्रय्यारुणाद्धनञ्जयः स वै प्रादात्कृतञ्जये ॥ ३,४.६२ ॥ कृतञ्जयात्तृणञ्जयो भरद्वाजाय सोऽप्यथ । गौतमाय भरद्वाजः सोऽपि निर्य्यन्तरे पुनः ॥ ३,४.६३ ॥ निर्य्यन्तरस्तु प्रोवाच तथा वाजश्रवाय वै । स ददौ सोमशुष्माय स चादात्तृणबिन्दवे ॥ ३,४.६४ ॥ तृणबिन्दुस्तु दक्षाय दक्षः प्रोवाच शक्तये । शक्तेः पराशरश्चापि गर्भस्थः श्रुतवानिदम् ॥ ३,४.६५ ॥ पराशराज्जातुकर्ण्यस्तस्माद्द्वैपायनः प्रभुः । द्वैपायना त्पुनश्चापि मया प्राप्तं द्विजोत्तम ॥ ३,४.६६ ॥ मया चैतत्पुनः प्रोक्तं पुत्रायामितबुद्धये । इत्येव वाक्यं ब्रह्मादिगुरुणां समुदात्दृतम् ॥ ३,४.६७ ॥ नमस्कार्याश्च गुरवः प्रयत्नेन मनीषिभिः । धन्यं यशस्यमायुष्यं पुण्यं सर्वार्थसाधकम् ॥ ३,४.६८ ॥ पापघ्नं नियमेनेदं श्रोतव्यं ब्राह्मणैः सदा । नाशुचौ नापि पापाय नाप्यसंवत्सरोषिते ॥ ३,४.६९ ॥ नाश्रद्दधानेऽविदुषे नापुत्राय कथञ्चन । नाहिताय प्रदातव्यं पवित्रमिदमुत्तमम् ॥ ३,४.७० ॥ अव्यक्तं वै यस्य योनिं वदन्ति व्यक्तं देहं कालमेतं गतिं च । वह्निर्वक्त्रं चन्द्रसूर्यौं च नेत्रेदिशः श्रोत्रे घ्राणमाहुश्च वायुम् ॥ ३,४.७१ ॥ वाचो वेदा अन्तरिक्षं शरीरं क्षितिः पादास्तारका रोमकूपाः । सर्वाणि द्यौर्मस्तकानि त्वथो वै विद्याश्चैवोपनिषद्यस्य पुच्छम् ॥ ३,४.७२ ॥ तं देवदेवं जननं जनानां यज्ञात्मकं सत्यलोकप्रतिष्ठम् । वरं वराणां वरदं महेश्वरं ब्रह्माणमादिं प्रयतो नमस्ये ॥ ३,४.७३ ॥ इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते द्वादशसाहर्स्यां संहितायां उत्तरभागे चतुर्थं उपसंहारपादे ब्रह्माण्डावर्त्तं नाम चतुर्थोऽध्यायः _____________________________________________________________ श्रीगणेशाय नमः । अथ श्रीललितोपाख्यानं प्रारभ्यते । चतुर्भुजे चन्द्रकलावतंसे कुचोन्नते कुङ्कुमरागशोणे । पुण्ड्रेक्षुपाशाङ्कुशपुष्पबाणहस्ते नमस्ते जगदेकमातः ॥ ३,५.१ ॥ अस्तु नः श्रेयसे नित्यं वस्तु वामाङ्गसुन्दरम् । यतस्तृतीयो विदुषां तृतीयस्तु परं महः ॥ ३,५.२ ॥ अगस्त्यो नाम देवर्षिर्वेदवेदाङ्गपारगः । सर्वसिद्धान्तसारज्ञो ब्रह्मानन्दरसात्मकः ॥ ३,५.३ ॥ चचाराद्भुतहेतूनि तीर्थान्यायतनानि च । शैलारण्यापगामुख्यान्सर्वाञ्जनपदानपि ॥ ३,५.४ ॥ तेषु तेष्वखिलाञ्जन्तूनज्ञानतिमिरावृतान् । शिश्नोदरपरान्दृष्ट्वा चिन्तयामास तान्प्रति ॥ ३,५.५ ॥ तस्य चिन्तयमानस्य चरतो वसुधामिमाम् । प्राप्तमासीन्महापुण्यं काञ्चीनगरमुत्तमम् ॥ ३,५.६ ॥ तत्र वारणशैलेनद्रमेकाम्रनिलयं शिवम् । कामाक्षीं करिदोषध्नीमपूजयदथात्मवान् ॥ ३,५.७ ॥ लोकहेतोर्दयार्द्रस्य धीमतश्चिन्तनो मुहुः । चिरकालेन तपसा तोषितोऽभूज्जनार्दनः ॥ ३,५.८ ॥ हयग्रीवां तनुं कृत्वा साक्षाच्चिन्मात्रविग्रहाम् । शङ्खचक्राक्षवलयपुस्तकोज्ज्वलबाहुकाम् ॥ ३,५.९ ॥ पूरयित्रीं जगत्कृत्स्नं प्रभया देहजातया । प्रादुर्बभूव पुरतो मुनेरमिततेजसा ॥ ३,५.१० ॥ तं दृष्ट्वानन्दभरितः प्रणम्य च मुहुर्मुहुः । विनयावनतो भूत्वा सन्तुष्टाव जगत्पतिम् ॥ ३,५.११ ॥ अथोवाच जगन्नाथस्तुष्टोऽस्मि तपसा तव । वरं वरय भद्रं ते भविता भूसुरोत्तमः ॥ ३,५.१२ ॥ इति पृष्टो भगवता प्रोवाच मुनिसत्तमः । यदि तुष्टोऽसि भगवन्निमे पामरजन्तवः ॥ ३,५.१३ ॥ केनोपायेन मुक्ताः स्युरेतन्मे वक्तुमर्हसि । इति पृष्टो द्विजेनाथ देवदेवो जनार्दनः ॥ ३,५.१४ ॥ एष एव पुरा प्रश्नः शिवेन चरितो मम । अयमेव कृतः प्रश्नो ब्रह्मणा तु ततः परम् ॥ ३,५.१५ ॥ कृतो दुर्वाससा पश्चाद्भवता तु ततः परम् ॥ ३,५.१६ ॥ भवद्भिः सर्वभूतानां गुरुभूतैर्महात्मभिः । ममोपदेशो लोकेषु प्रथितोऽस्तु वरो मम ॥ ३,५.१७ ॥ अहमादिर्हि भूतानामादिकर्ता स्वयं प्रभुः । सृष्टिस्थितिलयानां तु सर्वेषामपि कारकः ॥ ३,५.१८ ॥ त्रिमूर्तिस्त्रिगुणातीतो गुणहीनो गुणाश्रयः ॥ ३,५.१९ ॥ इच्छाविहारो भूतात्मा प्रधानपुरुषात्मकः । एवं भूतस्य मे ब्रह्मंस्त्रिजगद्रूपधारिणः ॥ ३,५.२० ॥ द्विधाकृतमभूद्रूपं प्रधान पुरुषात्मकम् । मम प्रधानं यद्रूपं सर्वलोकगुणात्मकम् ॥ ३,५.२१ ॥ अपरं यद्गुणातीतं परात्परतरं महत् । एवमेव तयोर्ज्ञात्वा मुच्यते ते उभे किमु ॥ ३,५.२२ ॥ तपोभिश्चिरकालोत्थैर्यमैश्च नियमैरपि । त्यागैर्दुष्कर्मनाशान्ते मुक्तिराश्वेव लभ्यते ॥ ३,५.२३ ॥ यद्रूपं यद्गुणयुतं तद्गुण्यैक्येन लभ्यते । अन्यत्सर्वजगद्रूपं कर्मभोगपराक्रमम् ॥ ३,५.२४ ॥ कर्मभिर्लभ्यते तच्च तत्त्यागेनापि लभ्यते । दुस्तरस्तु तयोस्त्यागः सकलैरपि तापस ॥ ३,५.२५ ॥ अनपायं च सुगमं सदसत्कर्मगोचरम् ॥ ३,५.२६ ॥ आत्मस्थेन गुणेनैव सता चाप्यसतापिवा । आत्मैक्येनैव यज्ज्ञानं सर्वसिद्धिग्रदायकम् ॥ ३,५.२७ ॥ वर्णत्रयविहीनानां पापिष्ठानां नृणामपि । यद्रूपध्यानमात्रेण दुष्कृतं सुकृतायते ॥ ३,५.२८ ॥ येर्ऽचयन्ति परां शक्तिं विधिनाविधिनापि वा । न ते संसारिणो नूनं मुक्ता एव न संशयः ॥ ३,५.२९ ॥ शिवो वा यां समाराध्य ध्यानयोगबलेन च । ईश्वरः सर्वसिद्धानामर्द्धनारीश्वरोऽभवत् ॥ ३,५.३० ॥ अन्येऽब्जप्रमुखा देवाः सिद्धास्तद्ध्यानवैभवात् । तस्मादशेषलोकानां त्रिपुराराधनं विना ॥ ३,५.३१ ॥ न स्तो भोगापवर्गौं तु यौगपद्येन कुत्रचित् । तन्मनास्तद्गतप्राणस्तद्याजी तद्गतेहकः ॥ ३,५.३२ ॥ तादात्म्येनैव कर्माणि कुर्वन्मुक्तिमवाप्स्यसि । एतद्रहस्यमाख्यातं सर्वेषां हितकाम्यया ॥ ३,५.३३ ॥ सन्तुष्टेनैव तपसा भवतो मुनिसत्तम । देवाश्च मुनयः सिद्धा मानुषाश्च तथापरे । त्वन्मुखांभोजतोऽवाप्यसिद्धिं यान्तु परात्पराम् ॥ ३,५.३४ ॥ इति तस्य वचः श्रुत्वा हयग्रीवस्य शार्ङ्गिणः । प्रणिपत्य पुनर्वाक्यमुवाच मधुसूदनम् ॥ ३,५.३५ ॥ भगवन्कीदृशं रूपं भवता यत्पुरोदितम् । किंविहारं किंप्रभावमेतन्मे वक्तुमर्हसि ॥ ३,५.३६ ॥ हयग्रीव उवाच एषोंऽशभूतो देवर्षे हयग्रीवो ममापरः । श्रोतुमिच्छसियद्यत्त्वं तत्सर्वं वक्तुमर्हति ॥ ३,५.३७ ॥ इत्यादिश्य जगन्नाथो हयग्रीवं तपोधनम् । पुरतः कुम्भजातस्य मुनेरन्तरधाद्धरिः ॥ ३,५.३८ ॥ ततस्तु विस्मयाविष्टो हृष्टरोमा तपोधनः । हयग्रीवेण मुनिना स्वाश्रमं प्रत्यपद्यत ॥ ३,५.३९ ॥ इति श्रीब्रह्माण्डे महापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने अगस्त्ययात्राजनार्दनाविर्भावो नाम पञ्चमोऽध्यायः _____________________________________________________________ अथोपवेश्य चैवैनमासने परमाद्भुते । हयाननमुपागत्यागस्त्यो वाक्यं समब्रवीत् ॥ ३,६.१ ॥ भगवन्सर्वधर्मज्ञ सर्वसिद्धान्तवित्तम् । लोकाभ्युदयहेतुर्हि दर्शनं हि भवादृशाम् ॥ ३,६.२ ॥ आविर्भावं महादेव्यास्तस्या रूपान्तराणि च । विहारश्चैव मुख्या ये तान्नो विस्तरतो वद ॥ ३,६.३ ॥ हयग्रीव उवाच अनादिरखिलाधारा सदसत्कर्मरूपिणी । ध्यानैकदृश्या ध्यानाङ्गी विद्याङ्गी हृदयास्पदा ॥ ३,६.४ ॥ आत्मैक्याद्व्यक्तिमायाति चिरानुष्ठानगौरवात् ॥ ३,६.५ ॥ आदौ प्रादुरभूच्छक्तिर्ब्रह्मणो ध्यानयोगतः । प्रकृतिर्नाम सा ख्याता देवानामिष्टसिद्धिदा ॥ ३,६.६ ॥ द्वितीयमुदभूद्रूपं प्रवृत्तेऽमृतमन्थने । शर्वसंमोहजनकमवाङ्मनसगोजरम् ॥ ३,६.७ ॥ यद्दर्शनादभूदीशः सर्वज्ञोऽपि विमोहितः । विसृज्य पार्वतीं शीघ्रन्तया रुद्धोऽतनोद्रतम् ॥ ३,६.८ ॥ तस्यां वै जनयामास शास्तारमसुरार्दनम् ॥ ३,६.९ ॥ अगस्त्य उवाच कथं वै सर्वभूतेशो वशी मन्मथ शासनः । अहो विमोहितो देव्या जनयामास चात्मजम् ॥ ३,६.१० ॥ हयग्रीव उवाच पुरामरपुराधीशो विजयश्रीसमृद्धिमान् । त्रैलोक्यं पालयामास सदेवासुरमानुषम् ॥ ३,६.११ ॥ कैलासशिखराकारं गजेन्द्रमधिरुह्य सः । चचाराखिललोकेषु पूज्यमानोऽखिलैरपि । तं प्रमत्तं विदित्वाथ भवानीपतिख्ययः ॥ ३,६.१२ ॥ दुर्वाससमथाहूय प्रजिघाय तदन्तिकम् । खण्डाजिनधरो दण्डीधूरिधूसरविग्रहः । उन्मत्तरूपधारी च ययौ विद्याधराध्वना ॥ ३,६.१३ ॥ एतस्मिन्नन्तरे काले काचिद्विद्याधराङ्गना । यदृच्छयागता तस्य पुरश्चारुतराकृतिः ॥ ३,६.१४ ॥ चिरकालेन तपसा तोषयित्वा परांबिकाम् । तत्समर्पितमाल्यं च लब्ध्वा संतुष्टमानसा ॥ ३,६.१५ ॥ तां दृष्ट्वा मृगुशावाक्षीमुवाच मुनिपुङ्गवः । कुत्र वा गम्यते भीरु कुतो लब्धमिदं त्वया ॥ ३,६.१६ ॥ प्रणम्य सा महात्मानमुवाच विनयान्विता । चिरेण तपसा ब्रह्मन्देव्या दत्तं प्रसन्नया ॥ ३,६.१७ ॥ तछ्रुत्वा वचनं तस्याः सोऽपृच्छन्माल्यमुत्तमम् । पृष्टमात्रेण सा तुष्टा ददौ तस्मै महात्मने ॥ ३,६.१८ ॥ कराभ्यां तत्समादाय कृतार्थोऽस्मीति सत्वरम् । दधौ स्वशिरसा भक्त्या तामुवाचातिर्षितः ॥ ३,६.१९ ॥ ब्रह्मादीनामलभ्यं यत्तल्लब्धं भाग्यतो मया । भक्तिरस्तु पदांभोजे देव्यास्तव समुज्ज्वला ॥ ३,६.२० ॥ भविष्यच्छोभनाकारे गच्छ सौम्ये यथासुखम् । सा तं प्रणम्य शिरसा ययौ तुष्टा यथागतम् ॥ ३,६.२१ ॥ प्रेषयित्वा स तां भूयो ययौ विद्याधराध्वना । विद्याधरवधूहस्तात्प्रतिजग्राह वल्लकीम् ॥ ३,६.२२ ॥ दिव्यस्रगनुलेपांश्च दिव्यान्याभरणानि च । क्वचिद्गृह्णन्क्वचिद्गा यन्क्वचिद्धसन् ॥ ३,६.२३ ॥ स्वेच्छाविहारी स मुनिर्ययौ यत्र पुरन्दरः । स्वकरस्थां ततो मालां शक्राय प्रददौ मुनिः ॥ ३,६.२४ ॥ तां गृहीत्वा गजस्कन्धे स्थापयामास देवराट् । गजस्तु तां गृहीत्वाथ प्रेषयामास भूतले ॥ ३,६.२५ ॥ तां दृष्ट्वा प्रेषितां मालां तदा क्रोधेन तापसः । उवाच न धृता माला शिरसा तु मयार्पिता ॥ ३,६.२६ ॥ त्रैलोक्यैश्वर्यमत्तेन भवता ह्यवमानिता । महादेव्या धृता या तु ब्रह्माद्यैः पूज्यतेहि सा ॥ ३,६.२७ ॥ त्वया यच्छासितो लोकः सदेवासुरमानुषः । अशोभनो ह्यतेजस्को मम शापाद्भविष्यति ॥ ३,६.२८ ॥ इति शप्त्वा विनीतेन तेन संपूजितोऽपि सः । तूष्णीमेव ययौ ब्रह्मन्भाविकार्यमनुस्मरन् ॥ ३,६.२९ ॥ विजयश्रीस्ततस्तस्य दैत्यं तु बलिमन्वगात् । नित्यश्रीर्नित्यपुरुषं वासुदेवमथान्वगात् ॥ ३,६.३० ॥ इन्द्रोऽपि स्वपुरं गत्वा सर्वदेवसमन्वितः । विषण्णचेता निःश्रीकश्चिन्तयामास देवराट् ॥ ३,६.३१ ॥ अथामरपुरे दृष्ट्वा निमित्तान्यशुभानि च । बृहस्पतिं समाहूय वाक्यमेतदुवाच ह ॥ ३,६.३२ ॥ भगवन्सर्वधर्मज्ञ त्रिकालज्ञानकोविद । दृश्यतेऽदृष्टपूर्वाणि निमित्तान्यशुभानि च ॥ ३,६.३३ ॥ किंफलानि च तानि स्युरुपायो वाथ कीदृशः । इति तद्वचनं श्रुत्वा देवेन्द्रस्य बृहस्पतिः । प्रत्युवाच ततो वाक्यं धर्मार्थसहितं शुभम् ॥ ३,६.३४ ॥ कृतस्य कर्मणो राजन्कल्पकोटिशतैरपि । प्रायश्चित्तोपभोगाभ्यां विना नाशो न जायते ॥ ३,६.३५ ॥ इन्द्र उवाच कर्म वा कीदृशं ब्रह्मन्प्रायश्चित्तं च कीदृशम् । तत्सर्वं श्रोतुमिच्छामि तन्मे विस्तरतो वद ॥ ३,६.३६ ॥ बृहस्पतिरुवाच हननस्तेयहिंसाश्च पानमन्याङ्गनारतिः । कर्म पञ्चविधं प्राहुर्दुष्कृतं धरणीपतेः ॥ ३,६.३७ ॥ ब्रह्मक्षत्रियविट्शूद्रगोतुरङ्गखरोष्ट्रकाः । चतुष्पदोऽण्डजाब्जाश्च तिर्यचोऽनस्थिकास्तथा ॥ ३,६.३८ ॥ अयुतं च सहस्रं च शतं दश तथा दश । दशपञ्चत्रिरेकार्धमानुपूर्व्यादिदं भवेत् ॥ ३,६.३९ ॥ ब्रह्मक्षत्रविशां स्त्रीणामुक्तार्थे पापमादिशेत् । पितृमातृगुरुस्वामि पुत्राणां चैव निष्कृतिः ॥ ३,६.४० ॥ गुर्वाज्ञया कृतं पापं तदाज्ञालङ्घनेर्ऽथकम् । दशब्राह्मणभृत्यर्थमेकं हन्याद्द्विजं नृपः ॥ ३,६.४१ ॥ शतब्राह्मणभृत्यर्थं ब्राह्मणो ब्राह्मणं तु वा । पञ्चब्रह्मविदामर्थे त्रैश्यमेकं तु दण्डयेत् ॥ ३,६.४२ ॥ वैश्यं दशविशामर्थे विशां वा दण्डयेत्तथा । तथा शतविशामर्थे द्विजमेकं तु दण्डयेत् ॥ ३,६.४३ ॥ शूद्राणां तु सहस्राणां दण्डयेद्ब्राह्मणं तु वा । तच्छतार्थं तु वा वैश्यं तद्दशार्द्धं तु शूद्रकम् ॥ ३,६.४४ ॥ बन्धूनां चैव मित्राणामिष्टार्थे तु त्रिपादकम् । अर्थं कलत्रपुत्रार्थे स्वात्मार्थे न तु किञ्चन ॥ ३,६.४५ ॥ आत्मानं हन्तुमारब्धं ब्राह्मणं क्षत्रियं विशम् । गां वा तुरगमन्यं वा हत्वा दोषैर्न लिप्यते ॥ ३,६.४६ ॥ आत्मदारात्मजभ्रातृबन्धूनां च द्विजोत्तम । क्रमाद्दशगुणो दोषो रक्षणे च तथा फलम् ॥ ३,६.४७ ॥ भूपद्विजश्रोत्रियवेदविद्व्रतीवेदान्तविद्वेदविदां विनाशे । एकद्विपञ्चाशदथायुतं च स्यान्निष्कृतिश्चेति वदन्ति संतः ॥ ३,६.४८ ॥ तेषां च रक्षणविधौ हि कृते च दाने पूर्वोदितोत्तरगुणं प्रवदन्ति पुण्यम् । तेषां च दर्शनविधौ नमने चकार्ये शूश्रूषणेऽपि चरतां सदृशांश्च तेषाम् ॥ ३,६.४९ ॥ सिंहव्याघ्रमृगादीनि लोकहिंसाकराणि तु । नृपो हन्याच्च सततं देवार्थे ब्राह्मणार्थके ॥ ३,६.५० ॥ आपत्स्वात्मार्थके चापि हत्वा मेध्यानि भक्षयेत् ॥ ३,६.५१ ॥ नात्मार्थे पाचयेदन्न नात्मार्थे पाचयेत्पशून् । देवार्थे ब्राह्मणार्थे वा पचमानो न लिप्यते ॥ ३,६.५२ ॥ पुरा भगवती माया जगदुज्जीवनोन्मुखी । ससर्ज सर्वदेवांश्च तथैवासुरमानुषान् ॥ ३,६.५३ ॥ तेषां संरक्षणार्थाय पशूनपि चतुर्दश । यज्ञाश्च तद्विधानानि कृत्वा चैनानुवाच ह ॥ ३,६.५४ ॥ यजध्वं पशुभिर्देवान्विधिनानेन मानवाः । इष्टानि ये प्रदास्यन्ति पुष्टास्ते यज्ञभाविताः ॥ ३,६.५५ ॥ एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः । दरिद्रो नारकश्चैव भवेज्जन्मनि जन्मनि ॥ ३,६.५६ ॥ देवतार्थे च पित्रर्थे तथैवाभ्यागते गुरौ । महदागमने चैव हन्यान्मेध्यान्पशून्द्विजः ॥ ३,६.५७ ॥ आपत्सु ब्राह्मणो मांसं मेध्यमश्नन्न दोषभाक् । विहितानि तु कार्याणि प्रतिषिद्धानि वर्जयेत् ॥ ३,६.५८ ॥ पुराभूद्युवनाश्वस्य देवतानां महाक्रतुः । ममायमिति देवानां कलहः समजायत ॥ ३,६.५९ ॥ तदा विभज्य देवानां मानुषांश्च पशूनपि । विभज्यैकैकशः प्रदाद्ब्रह्मा लोकपितामहः ॥ ३,६.६० ॥ ततस्तु परमा शक्तिर्भूतसंधसहायिनी । कुपिताभूत्ततो ब्रह्मा तामुवाच नयान्वितः ॥ ३,६.६१ ॥ प्रादुर्भूता समुद्वीक्ष्य भूतानन्दभयान्वितः । प्राञ्जलिः प्रणतस्तुत्वा प्रसीदेति पुनः पुनः ॥ ३,६.६२ ॥ प्रादुर्भूता यतोऽसि त्वं कृतर्थोऽस्मि पुरो मम । त्वयैतदखिलं कर्म निर्मितं सुशुभाशुभम् ॥ ३,६.६३ ॥ श्रुतयः स्मृतयश्चैव त्वयैव प्रतिपादिताः । त्वयैव कल्पिता यागा मन्मुखात्तु महाक्रतौ ॥ ३,६.६४ ॥ ये विभक्तास्तु पशवो देवानां परमेश्वरि । ते सर्वे तावकाः संतुभूतानामपि तृप्तये ॥ ३,६.६५ ॥ इत्युक्त्वान्तर्दधे तेषां पुर एव पितामहः । तदुक्तेनैव विधिना चकार च महाक्रतून् ॥ ३,६.६६ ॥ इयाज च परां शक्तिं हत्वा मेध्यान्पशूनपि । तत्तद्विभागो वेदेषु प्रोक्तत्वादिह नोदितः ॥ ३,६.६७ ॥ स्त्रियः शुद्रास्तथा मांसमादद्युर्ब्राह्मणं विना । आपत्सु ब्राह्मणो वापि भक्षयेद्गुर्वनुज्ञया ॥ ३,६.६८ ॥ शिवोद्भवमिद पिण्डमत्यथ शिवतां गतम् । उद्बुध्यस्व पशो त्वं हि नाशिवः सञ्छिवो ह्यसि ॥ ३,६.६९ ॥ ईशः सर्वजगत्कर्ता प्रभवः प्रलयस्तथा । यतो विश्वाधिको रुद्रस्तेन रुद्रोऽसि वै पशो ॥ ३,६.७० ॥ अनेन तुरगं गा वा गजोष्ट्रमहिषादिकम् । आत्मार्थं वा परार्थं वा हत्वा दोषैर्न लिप्यते ॥ ३,६.७१ ॥ गृहानिष्टकरान्वापि नागाखुबलिवृश्चिकान् । एतद्गृहाश्रमस्थानां क्रियाफलमभीप्सताम् । मनःसंकल्पसिद्धानां महतां शिववर्चसाम् ॥ ३,६.७२ ॥ पशुयज्ञेन चान्येषामिष्टा पूर्तिकरं भवेत् । जपहोमार्चनाद्यैस्तु तेषामिष्टं च सिध्यति ॥ ३,६.७३ ॥ इति श्रीब्रह्माण्डे महापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने हिंसाद्यस्वरूपकथनं नाम षष्ठोऽध्यायः _____________________________________________________________ इन्द्र उवाच भगवन्सर्वमाख्यातं हिंसाद्यस्य तु लक्षणम् । स्तेयस्य लक्षणं किं वा तन्मे विस्तरतो वद ॥ ३,७.१ ॥ बृहस्पतिरुवाच पापानामधिकं पापं हननं जीवजातिनाम् । एतस्मादधिकं पापं विश्वस्ते शरणं गते ॥ ३,७.२ ॥ विश्वस्य हत्वा पापिष्ठं शूद्रं वाप्यन्त्यजातिजम् । ब्रह्महत्याधिकं पापं तस्मान्नास्त्यस्य निष्कृतिः ॥ ३,७.३ ॥ ब्रह्मज्ञस्य दरिद्रस्य कृच्छ्रार्जितधनस्य च । बहुपुत्रकलत्रस्य तेन जीवितुमिच्छतः । तद्द्रव्यस्तेयदोषस्य प्रायश्चित्तं न विद्यते ॥ ३,७.४ ॥ विश्वस्तद्रव्यहरणं तस्याप्यधिकमुच्यते । विश्वस्ते वाप्यविश्वस्ते न दरिद्रधनं हरेत् ॥ ३,७.५ ॥ ततो देवद्विजातीनां हेमरत्नापहारकम् । यो हन्यादविचारेण सोऽश्वमेधफलं लभेत् ॥ ३,७.६ ॥ गुरुदेवद्विजसुहृत्पुत्रस्वात्मसुखेषु च । स्तेयादधःक्रमेणैव दशोत्तरगुणं त्वघम् ॥ ३,७.७ ॥ अन्त्यजात्पादजाद्वैश्यात्क्षत्रियाद्ब्राह्मणादपि । दशोत्तरगुणैः पापैर्लिप्यते धनहारकः ॥ ३,७.८ ॥ अत्रैवोदाहरन्तीममितिहासं पुरातनम् । रहस्यातिरहस्यं च सर्वपापप्रणाशनम् ॥ ३,७.९ ॥ पुरा काञ्चीपुरे जातो वज्राख्यो नाम चोरकः । तस्मिन्पुरवरे रम्ये सर्वैश्वर्यसमन्विताः । सर्वे नीरोगिणो दान्ताः सुखिनो दययाञ्चिताः ॥ ३,७.१० ॥ सर्वैश्वर्यसमृद्धेऽस्मिन्नगरे स तु तस्करः । स्तोकास्तोकक्रमेणैव बहुद्रव्यमपाहरत् ॥ ३,७.११ ॥ तदरण्येऽवटं कृत्वा स्थापयामास लोभतः । तद्गोपनं निशार्धायां तस्मिन्दूरं गते सति ॥ ३,७.१२ ॥ किरातः कश्चिदागत्य तं दृष्ट्वा तु दशांशतः । जहाराविदितस्तेन काष्ठभारं वहन्ययौ ॥ ३,७.१३ ॥ सोऽपि तच्छिलयाच्छाद्य मृद्भिरापूर्ययत्नतः । पुनश्च तत्पुरं प्रायाद्वज्रोऽपि धनतृष्मया ॥ ३,७.१४ ॥ एवं बहुधनं त्दृत्वा निश्चिक्षेप महीतले । किरातोऽपि गृहं प्राप्य बभाषे मुदितः प्रियाम् ॥ ३,७.१५ ॥ मया काष्ठं समाहर्तुं गच्छता पथि निर्जने । लब्धं धनमिदं भीरु समाधत्स्व धनार्थिनि ॥ ३,७.१६ ॥ तच्छ्रुत्वा तत्समादाय निधायाभ्यन्तरे ततः । चिन्तयन्ती ततो वाक्यमिदं स्वपतिमब्रवीत् ॥ ३,७.१७ ॥ नित्यं संचरते विप्रो मामकानां गृहेषु यः । मां विलोक्यैवमचिराद्बहुभाग्यवती भवेत् ॥ ३,७.१८ ॥ चातुर्वर्ण्यासु नरीषु स्थेयं चेद्राजवल्लभा । किं तु भिल्ले किराते च शैलूषे चान्त्यजातिजे । लक्ष्मीर्न तिष्ठति चिरं शापाद्वल्मीकजन्मनः ॥ ३,७.१९ ॥ तथापि बहुभाग्यानां पुण्यानामपि पात्रिणे । दृष्टपूर्वं तु तद्वाक्यं न कदाचिद्वृथा भवेत् ॥ ३,७.२० ॥ अथ वात्मप्रयासेन कृच्छ्राद्यल्लभ्यते धनम् । तदेव तिष्ठति चिरादन्यद्गच्छति कालतः ॥ ३,७.२१ ॥ स्वयमागतवित्तं तु धर्मार्थैर्विनियोजयेत् । कुरुष्वैतेन तस्मात्त्वं वापीकूपादिकाञ्छुभान् ॥ ३,७.२२ ॥ इति तद्वचनं श्रुत्वा भाविभाग्यप्रबोधितम् । बहूदकसमं देशं तत्र तत्र व्यलोकयत् ॥ ३,७.२३ ॥ निर्ममेऽथ महेन्द्रस्य दिग्भागे विमलोदकम् । सुबहुद्रव्यसं साध्यं तटाकं चाक्षयोदकम् ॥ ३,७.२४ ॥ दत्तेषु कर्मकारिभ्यो निखिलेषु धनेषु च । असंबूर्णं तु तत्कर्म दृष्ट्वा चिन्ताकुलोऽभवत् ॥ ३,७.२५ ॥ तं चोर वज्रनामानमज्ञातोऽनुचराम्यहम् । तेनैव बहुधा क्षिप्तं धनं भूरि महीतले ॥ ३,७.२६ ॥ स्तोकंस्तोकं हरिष्यामि तत्रतत्र धनं बहु । इति निश्चित्य मनसा तेनाज्ञातस्तमन्वगात् ॥ ३,७.२७ ॥ तथैवात्दृत्य तद्द्रव्यं तेन सेतुमपूरयत् । मध्ये जलावृतस्तेन प्रासादश्चापि शार्ङ्गिणः ॥ ३,७.२८ ॥ तत्तटाकमभूद्दिव्यमशोषितजलं महत् । सेतुमध्ये चकारासौ शङ्करायतनं महत् ॥ ३,७.२९ ॥ काननं च क्षयं नीतं बहुसत्त्वसमाकुलम् । तेनाग्र्याणि महार्हाणि क्षेत्राण्यपि चकार सः ॥ ३,७.३० ॥ देवताभ्यो द्विजेभ्यश्च पदत्तानि विभज्य वै । ब्राह्मणांश्च समामन्त्र्य देवव्रातमुखान्बहून् ॥ ३,७.३१ ॥ संतोष्य हेमवस्त्राद्यैरिदं वचनमब्रवीत् । क्व चाहं वीरदत्ताख्यः किरातः काष्ठविक्रयी ॥ ३,७.३२ ॥ क्व वा महासेतुबन्धः क्व देवालयकल्पना । क्व वा क्षेत्राणि कॢप्तानि ब्राह्मणायतनानि च ॥ ३,७.३३ ॥ कृपयैव कृतं सर्वं भवतां भूसुरोत्तमाः । प्रतिगृह्य तथैवैतद्देवव्रातमुखा द्विजाः ॥ ३,७.३४ ॥ द्विजवर्मेति नामास्मै तस्यै शीलवतीति च । चक्रुः संतुष्टमनसो महात्मानो महौजसः ॥ ३,७.३५ ॥ तेषां संरक्षणार्थाय बन्धुमिः सहितो वशी । तत्रैव वसतिं चक्रे मुदितो भार्यया सह ॥ ३,७.३६ ॥ पुरोहिताभिधानेन देवरातपुरन्त्विति । नाम चक्रे पुरस्यास्य तोष यन्नखिलान्द्विजान् ॥ ३,७.३७ ॥ ततः कालवशं प्राप्तो द्विजवर्मा मृतस्तदा । यमस्य ब्रह्मणो विष्णोर्दूता रुद्रस्य चागताः ॥ ३,७.३८ ॥ अन्योऽन्यमभवत्तेषां युद्धं देवासुरोपमम् । अत्रान्तरे समागत्य नारदो मुनिरब्रवीत् ॥ ३,७.३९ ॥ मा कुर्वन्तु मिथो युद्धं शृण्वन्तु वचनं मम । अयं किरातश्चैर्येण सेतुबन्धं पुराकरोत् ॥ ३,७.४० ॥ वायुभूतस्चरेदेको यावद्द्रव्यवतो मृतिः । स बहुभ्यो हरेद्द्रव्यं तेषां यावत्तथा मृतिः ॥ ३,७.४१ ॥ गतेष्वखिलदूतेषु श्रुत्वा नारदभाषितम् । चचार द्वादशाब्दं तु वायुभूतोंऽतरिक्षगः ॥ ३,७.४२ ॥ भार्यां तस्याह स मुनिस्तव दोषो न किञ्चन । त्वया कृतेन पुण्येन ब्रह्मलोकमितो व्रज ॥ ३,७.४३ ॥ वायुभूतं पतिं दृष्ट्वा नेच्छति ब्रह्ममन्दिरम् । निर्वेदं परमापन्ना मुनिमेवमभाषत ॥ ३,७.४४ ॥ विना पतिमहं तेन न गच्छेयं पितामहम् । हहैवास्ते पतिर्यावत्स्वदेहं लभते तथा ॥ ३,७.४५ ॥ ततस्तु या गतिस्तस्य तामेवानुचराम्यहम् । परिहारोऽथवा किं तु मया कार्यस्तु तेन वा ॥ ३,७.४६ ॥ इति तस्या वचः श्रुत्वा प्रीतः प्राह तपोधनः । भोगात्मकं शरीरं तु कर्म कार्यकरं तव ॥ ३,७.४७ ॥ मम प्रभावाद्भविता परिहारं वदामि ते । निराहारो महातीर्थेस्नात्वा नित्यं हि सांबिकम् ॥ ३,७.४८ ॥ पूजयित्वा शिवं भक्त्या कन्दमूलफलाशनः । ध्यात्वा हृदि महेशानं शतरुद्रमनुं जपेत् ॥ ३,७.४९ ॥ ब्रह्महा मुच्यते पापैरष्टोत्तरसहस्रतः । पापैरन्यैश्च सकलैर्मुच्यते नात्र संशयः ॥ ३,७.५० ॥ इत्यादिश्य ददौ तस्यै रुद्राध्यायं तपोधनः । अनुगृह्येति तां नारीं तत्रैवान्तर्द्धिमागमत् ॥ ३,७.५१ ॥ भर्तुः प्रियार्थे संकल्प्य जजाप परमं जपम् । विमुक्तस्तेयदोषेण स्वशरीरमवाप सः ॥ ३,७.५२ ॥ ततो वज्राभिधश्चौरः कालधर्ममुपागतः । अन्ये तद्द्रव्यवन्तोऽपि कालधर्ममुपागताः ॥ ३,७.५३ ॥ यमस्तु तान्समाहूय वाक्यं चैतदुवाच ह ॥ ३,७.५४ ॥ भवद्भिस्तु कृतं पापं दैवात्सुकृतमप्युत । किमिच्छथ फलं भोक्तुं दुष्कृतस्य शुभस्य वा ॥ ३,७.५५ ॥ इति तस्य वचः श्रुत्वा प्रोचुर्वज्रादिकास्ततः । सुकृतस्य फलं त्वादौ पश्चात्पापस्य भुज्यते ॥ ३,७.५६ ॥ पुनराह यमो यूयं पुत्रमित्र कलत्रकैः । एतस्यैव बलात्सर्वे त्रिदिवं गच्छत द्रुतम् ॥ ३,७.५७ ॥ तेऽधिरुह्य विमानाग्र्यं द्विजवर्माणमाश्रिताः । यथोचितफलोपेतास्त्रिदिवं जग्मुरञ्जसा ॥ ३,७.५८ ॥ द्विजवर्माखिलांल्लोकानतीत्य प्रमदासखः । गाणपत्यमनुप्राप्य कैलासेऽद्यापि मोदते ॥ ३,७.५९ ॥ इन्द्र उवाच तारतम्यविभागं च कथय त्वं महामते । सेतुबन्धादिकानां च पुण्यानां पुण्यवर्धनम् ॥ ३,७.६० ॥ बृहस्पतिरुवाच पुण्यस्यार्द्धफलं प्राप्य द्विजवर्मा महायशाः । वज्रः प्राप्य तदर्धं तु तदर्धेन युताः परे ॥ ३,७.६१ ॥ मनोवाक्कायचेष्टाभिश्चतुर्धाक्रियते कृतिः । विनश्येत्तेन तेनैव कृतैस्तत्परिहारकैः ॥ ३,७.६२ ॥ इन्द्र उवाच आसवस्य तु किं रूपं को दोषः कश्चवा गुणः । अन्नं दोषकरं किं तु तन्मे विस्तरतो वद ॥ ३,७.६३ ॥ बृहस्पतिरुवाच पैष्टिकं तालजं कैरं माधूकं गुडसंभवम् । क्रमान्न्यूनतरं पापं तदर्द्धार्द्धार्द्धतस्तथा ॥ ३,७.६४ ॥ क्षत्रियादित्रिवर्णानामासवं पेयमुच्यते । स्त्रीणामपि तृतीयादि पेयं स्याद्ब्राह्मणीं विना ॥ ३,७.६५ ॥ पतिहीना च कन्या च त्यजेदृतुमती तथा । अभर्तृसन्निधौ नारी मद्यं पिबति लोलुपा ॥ ३,७.६६ ॥ उन्मादिनीति साख्याता तां त्यजेदन्त्यजामिव ॥ ३,७.६७ ॥ दशाष्टषट्चतस्रस्तु द्विजातीनामयं भवेत् । स्त्रीणां मद्यं तदर्द्धं स्यात्पादं स्याद्भर्तृसङ्गमे ॥ ३,७.६८ ॥ मद्यं पीत्वा द्विजो मोहात्कृच्छ्रचान्द्रायमं चरेत् । जपेच्चायुतगायत्रीं जातवेदसमेव वा ॥ ३,७.६९ ॥ अम्बिका हृदयं वापि जपेच्छुद्धो भवेन्नरः । क्षत्रियोऽपि त्रिवर्णानां द्विजादर्धोर्ऽधतः क्रमात् ॥ ३,७.७० ॥ स्त्रीणामर्धार्धकॢप्तिः स्यात्कारयेद्वा द्विजैरपि । अन्तर्जले सहस्रं वा जपेच्छुद्धिमवाप्नुयात् ॥ ३,७.७१ ॥ लक्ष्मीः सरस्वती गौरी चण्डिका त्रिपुरांबिका । भैरवो भैरवी काली महाशास्त्री च मातरः ॥ ३,७.७२ ॥ अन्याश्च शक्तयस्तासां पूजने मधु शस्यते । ब्राह्मणस्तु विना तेन यजेद्वेदाङ्गपारगः ॥ ३,७.७३ ॥ तन्निवेदितमश्नन्तस्तदनन्यास्तदात्मकाः । तासां प्रवाहा गच्छन्ति निर्लेपास्ते परां गतिम् ॥ ३,७.७४ ॥ कृतस्याखिलपापस्य ज्ञानतोऽज्ञानतोऽपि वा । प्रायश्चित्तमिदं प्रोक्तं पराशक्तेः पदस्मृतिः ॥ ३,७.७५ ॥ अनभ्यर्च्य परां शक्तिं पिबेन्मद्यं तु योऽधमः । रौरवे नरकेऽब्दं तु निवसेद्ब्रिन्दुसंख्यया ॥ ३,७.७६ ॥ भोगेच्छया तु यो मद्यं पिबेत्स मानुषाधमः । प्रायश्चितं न चैवास्य शिलाग्निपतनादृते ॥ ३,७.७७ ॥ द्विजो मोहान्न तु पिबेत्स्नेहाद्वा कामतोऽपि वा । अनुग्रहाच्च महतामनुतापाच्च कर्मणः ॥ ३,७.७८ ॥ अर्चनाच्च पराशक्तेर्यमैश्च नियमैरपि । चान्द्रायणेन कृच्छ्रेण दिनसंख्याकृतेन च । शुद्ध्येच्च ब्राह्मणो दोषाद्द्विगुणाद्बुद्धिपूर्वतः ॥ ३,७.७९ ॥ इति ब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने स्तेयपानकथनं नाम सप्तमोऽध्यायः _____________________________________________________________ इन्द्र उवाच अगम्यागमनं किं वा को दोषः का च निष्कृतिः । एतन्मे मुनिशार्दूल विस्तराद्वक्तुमर्हसि ॥ ३,८.१ ॥ बृहस्पतिरुवाच अगम्यागमनं नाम मातृस्वसृगुरुस्त्रियः । मातुलस्य प्रिया चेति गत्वेमा नास्ति निष्कृतिः ॥ ३,८.२ ॥ मातृसङ्गे तु यदघं तदेव स्वसृसङ्गमे । गुरुस्त्रीसंगमे तद्वद्गुरवो बहवः स्मृताः ॥ ३,८.३ ॥ ब्रह्मोपदेशमारभ्य यावद्वेदान्तदर्शनम् । एकेन वक्ष्यते येन स महागुरुरुच्यते ॥ ३,८.४ ॥ ब्रह्मोपदेशमेकत्र वेदशास्त्राण्यथैकतः । आचार्यः स तु विज्ञेयस्तदेकैकास्तु देशिकाः ॥ ३,८.५ ॥ गुरोरात्मान्तमेव स्यादायार्यस्य प्रियागमे । द्वादशाब्दं चरेत्कृच्छ३ एकैकं तु षडब्दतः ॥ ३,८.६ ॥ मातुलस्य प्रियां गत्वा षडब्दं कृच्छ्रमाचरेत् । ब्राह्मणस्तु सजातीयां प्रमदां यदि गच्छति ॥ ३,८.७ ॥ उपोषितस्त्रिरात्रं तु प्राणायामशतं चरेत् । कुलटां तु सजातीयां त्रिरात्रेण विशुध्यति ॥ ३,८.८ ॥ पञ्चाहात्क्षत्रियाङ्गत्वा सप्ताहा द्वैश्यजामपि । चक्रीकिरातकैवर्तकर्मकारादियोषितः ॥ ३,८.९ ॥ शुद्धिः स्याद्द्वादशाहेन धराशक्त्यर्चनेन च । अनन्त्यजां ब्राह्मणो गत्वा प्रमादादब्दतः शुचिः ॥ ३,८.१० ॥ देवदासी ब्रह्मदासी स्वतन्त्राशूद्रदासिका । दासी चतुर्विधा प्रोक्ता द्वे चाद्ये क्षत्रियासमे ॥ ३,८.११ ॥ अन्यावेश्याङ्गनातुल्या तदन्या हीनजातिवत् । आत्मदासीं द्विजो मोहादुक्तार्थे दोषमाप्नुयात् ॥ ३,८.१२ ॥ स्वस्त्रीमृतुमतीं गत्वा प्राजापत्यं चरेद्व्रतम् । द्विगुणेन परां नारीं चतुर्भिः क्षत्रियाङ्गनाम् ॥ ३,८.१३ ॥ अष्टभिर्वैश्यनारीं च शूद्रां षौडशभिस्तथा । द्वात्रिंशता संकरजां वेश्यां शूद्रामिवाचरेत् ॥ ३,८.१४ ॥ रजस्वलां तु यो भार्यां मोहतो गन्तुमिच्छति । स्नात्वान्यवस्त्रसंयुक्तमुक्तार्थेनैव शुध्यति ॥ ३,८.१५ ॥ उपोष्य तच्छेषदिनं स्नात्वा कर्म समाचरेत् । तथैवान्याङ्गनां गत्वा तदुक्तार्थं समाचरेत् ॥ ३,८.१६ ॥ पित्रोरनुज्ञया कन्यां यो गच्छेद्विधिना विना । त्रिरात्रोपोषणाच्छुद्धिस्तामेवोद्वाहयेत्तदा ॥ ३,८.१७ ॥ कन्यां दत्त्वा तु योऽन्यस्मै दत्ता यश्चानुयच्छति । पित्रोरनुज्ञया पाददिनार्धेन विशुध्यति ॥ ३,८.१८ ॥ ज्ञातः पितृभ्यां यो मासं कन्याभावे तु गच्छति । वृषलः स तु विज्ञेयः सर्वकर्मबहिष्कृतः ॥ ३,८.१९ ॥ ज्ञातः पितृभ्यां यो गत्वा परोढां तद्विनाशने । विधवा जायते नेयं पूर्वगन्तारमाप्नुयात् ॥ ३,८.२० ॥ अनुग्रहाद्द्विजातीनामुद्वाहविधिना तथा । त्यागकर्माणि कुर्वीत श्रौतस्मार्तादिकानि च ॥ ३,८.२१ ॥ आदावुद्वाहिता वापि तद्विनाशेऽन्यदः पिता । भोगेच्छोः साधनं सा तु न येग्याखिलकर्मसु ॥ ३,८.२२ ॥ ब्रह्मादिपिपीलकान्तं जगत्स्थावरजङ्गमम् । पञ्चभूतात्मकं प्रोक्तं चतुर्वासनयान्वितम् ॥ ३,८.२३ ॥ जन्माद्याहारमथननिद्राभीत्यश्च सर्वदा । आहारेण विना जन्तुर्नाहारो मदनात्स्मृतः ॥ ३,८.२४ ॥ दुस्तरो मदनस्तस्मात्सर्वेषां प्राणिनामपि । पुन्नारीरूपवत्कृत्वा मदननेनैव विश्वसृक् ॥ ३,८.२५ ॥ प्रवृत्तिमकरोदादौ सृष्टिस्थितिलयात्मिकाम् । तत्प्रवृत्त्या प्रवर्तन्ते तन्निवृत्त्याक्षयां गतिम् ॥ ३,८.२६ ॥ प्रवृत्त्यैव यथा मुक्तिं प्राप्नुयुर्ये न धीयुताः । तद्रहस्यं तदोपायं शृणु वक्ष्यामि सांप्रतम् ॥ ३,८.२७ ॥ सर्वात्मको वासुदेवः पुरुषस्तु पुरातनः । इयं हि मूलप्रकृतिर्लक्ष्मीः सर्वजगत्प्रसूः ॥ ३,८.२८ ॥ पञ्चापञ्चात्मतृप्त्यर्थं मथनं क्रियतेतराम् । एवं मन्त्रानुभावात्स्यान्मथनं क्रियते यदि ॥ ३,८.२९ ॥ तावुभौ मन्त्रकर्माणौ न दोषो विद्यते तयोः ॥ ३,८.३० ॥ तपोबलवतामेतत्केवलानामधोगतिः । स्वस्त्रीविषय एवेदं तयोरपि विधेर्बलात् ॥ ३,८.३१ ॥ परस्परात्म्यैक्यहृदोर्देव्या भक्त्यार्द्रचेतसोः । तयोरपि मनाक्चेन्न निषिद्धदिवसेष्वघम् ॥ ३,८.३२ ॥ इयमंबा जगद्धात्री पुरुषोऽयं सदाशिवः । पञ्चविंशतितत्त्वानां प्रीतये मथ्यतेऽधुना ॥ ३,८.३३ ॥ एतन्मन्त्रानुभावाच्च मथनं क्रियते यदि । तावुभौ पुण्यकर्माणौ न दोषो विद्यते तयोः ॥ ३,८.३४ ॥ इदं च शृणु देवेन्द्र रहस्यं परमं महत् । सर्वेषामेव पापानां यौगपद्येन नाशनम् ॥ ३,८.३५ ॥ भक्तिश्रद्धासमायुक्तः स्नात्वान्तर्जलसंस्थितः । अष्टोत्तरसहस्रं तु जपेत्पञ्चदशाक्षरीम् ॥ ३,८.३६ ॥ आराध्य च परां शक्तिं मुच्यते सर्वकिल्बिषैः । तेन नश्यन्ति पापानि कल्पकोटिकृतान्यपि । सर्वापद्भ्यो विमुच्येत सर्वाभीष्टं च विन्दति ॥ ३,८.३७ ॥ इन्द्र उवाच भगवन्सर्वधर्मज्ञ सर्वभूतहिते रत । संयोगजस्य पापस्य विशेषं वक्तुमर्हसि ॥ ३,८.३८ ॥ बृहस्पतिरुवाच संयोगजं तु यत्पापं तच्चतुर्धा निगद्यते । कर्ता प्रधानः सहकृन्निमित्तोऽनुमतः क्रमात् ॥ ३,८.३९ ॥ क्रमाद्दशांशतोऽघं स्याच्छुद्धिः पूर्वोक्तमार्गतः ॥ ३,८.४० ॥ मद्यं कलञ्जं निर्यासं छत्राकं गृञ्जनं तथा । लशुनं च कलिङ्गं च महाकोशातकीं तथा ॥ ३,८.४१ ॥ बिंबीं च कवकं चैव हस्तिनीं शिशुलंबिकाम् । औदुंबरं च वार्ताकं कतकं बिल्वमल्लिका ॥ ३,८.४२ ॥ क्रमाद्दशगुणं न्यूनमघमेषां विनिर्दिशेत् । पुरग्रामाङ्गवैश्याङ्गवेश्योपायनविक्रयी ॥ ३,८.४३ ॥ सेवकः पुरसंस्थश्च कुग्रामस्थोऽभिशस्तकः । वैद्यो वैखानसः शैवो नारीजीवोऽन्नविक्रयी ॥ ३,८.४४ ॥ शस्त्रजीवी परिव्राट्च वैदिकाचारनिन्दकः । क्रमाद्दशगुणान्न्यूनमेषामन्नादने भवेत् ॥ ३,८.४५ ॥ स्वतन्त्रं तैलकॢप्तं तु ह्युक्तार्थं पापमादिशेत् । तैरेव दृष्टं तद्भुक्तमुक्तपापं विनिर्दिशेत् ॥ ३,८.४६ ॥ ब्रह्मक्षत्रविशां चैव सशूद्राणां यथौदनम् । तैलपक्वमदृष्टं च भुञ्जन्पादमघं भवेत् ॥ ३,८.४७ ॥ द्विजात्मदासीकॢप्तं च तया दृष्टे तदर्धके । वेश्यायास्तु त्रिपादं स्यात्तथा दृष्टे तदोदने ॥ ३,८.४८ ॥ शूद्रावत्स्यात्तु गोपान्नं विना गव्यचतुष्टयम् । तैलाज्यगुडसंयुक्तं पक्वं वैश्यान्न दुष्यति ॥ ३,८.४९ ॥ वैश्यावद्ब्राह्मणी भ्रष्टा तया दृष्टेन किञ्चन ॥ ३,८.५० ॥ ब्रुवस्यान्नं द्विजो भुक्त्वा प्राणायामशतं चरेत् । अथवान्तर्जले जप्त्वाद्रुपदां वा त्रिवारकम् ॥ ३,८.५१ ॥ इदं विष्णुस्त्र्यंबकं वा त्थैवान्तर्जले जपेत् । उपोष्य रजनीमेकां ततः पापाद्विशुध्यति ॥ ३,८.५२ ॥ अथवा प्रोक्षयेदन्नमब्लिङ्गैः पावमानिकैः । अन्नसूक्तं जपित्वा तु भृगुर्वै वारुणीति च ॥ ३,८.५३ ॥ ब्रह्मार्पणमिति श्लोकं जप्त्वा नियममाश्रितः । उपोष्य रजनीमेकां ततः शुद्धो भविष्यति ॥ ३,८.५४ ॥ स्त्री भुक्त्वा तु ब्रुवाद्यन्नमेकाद्यान्भोजये द्द्विजान् । आपदि ब्राह्मणो ह्येषामन्नं भुक्त्वा न दोषभाक् ॥ ३,८.५५ ॥ इदं विष्णुरिति मन्त्रेण सप्तवाराभिमन्त्रितम् । सोऽहंभावेन तद्ध्यात्वा भुक्त्वा दोषैर्न लिप्यते ॥ ३,८.५६ ॥ अथवा शङ्करं ध्यायञ्जप्त्वा त्रैय्यंबकं मनुम् । सोऽहंभावेन तज्ज्ञानान्न दोषैः प्रविलिप्यते ॥ ३,८.५७ ॥ इदं रहस्यं देवेन्द्र शृणुष्व वचनं मम । ध्यात्वा देवीं परां शक्तिं जप्त्वा पञ्चदशाक्षरीम् ॥ ३,८.५८ ॥ तन्निवेदितबुद्ध्यादौ योऽश्नाति प्रत्यहं द्विजः । नास्यान्नदोषजं किञ्चिन्न दारिद्रयभयं तथा ॥ ३,८.५९ ॥ न व्याधिजं भयं तस्य न च शत्रुभयं तथा । जपतो मुक्तिरेवास्य सदा सर्वत्र मङ्गलम् ॥ ३,८.६० ॥ एष ते कथितः शक्र पापानामपि विस्तरः । प्रायश्चित्तं तथा तेषां किमन्यच्छ्रोतुमिच्छसि ॥ ३,८.६१ ॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्यानेऽष्टमोऽध्यायः _____________________________________________________________ इन्द्र उवाच भगवन्सर्व धर्मज्ञ त्रिकालज्ञानवित्तम । दुष्कृतं तत्प्रतीकारो भवता सम्यगीरितः ॥ ३,९.१ ॥ केन कर्मविपाकेन ममापदि यमागता । प्रायश्चित्तं च किं तस्य गदस्व वदतां वर ॥ ३,९.२ ॥ बृहस्पतिरुवाच काश्यपस्य ततो जज्ञे दित्यां दनुरिति स्मृतः । कन्या रूपवती नाम धात्रे तां प्रददौ पिता ॥ ३,९.३ ॥ तस्याः पुत्रस्ततो जातो विश्वरूपो महाद्युतिः । नारायणपरो नित्यं वेदवेदाङ्गपारगः ॥ ३,९.४ ॥ ततो दैत्येश्वरो वव्रे भृगुपुत्रं पुरोहितम् । भवानधिकृतो राज्ये देवानामिव वासवः ॥ ३,९.५ ॥ ततः पूर्वे च काले तु सुधर्मायां त्वयि स्थिते । त्वया कश्चित्कृतः प्रश्न ऋषीणां सन्निधौ तदा ॥ ३,९.६ ॥ संसारस्तीर्थयात्रा वा कोऽधिकोऽस्ति तयोर्गुमः । वदन्तु तद्विनिश्चित्य भवन्तो मदनुग्रहात् ॥ ३,९.७ ॥ तत्प्रश्नस्योत्तरं वक्तुं ते सर्व उपचक्रिरे । तत्पूर्वमेव कथितं मया विधिबलेन वै ॥ ३,९.८ ॥ तीर्थ यात्रा समधिका संसारादिति च द्रुतम् । तच्छ्रुत्वा ते प्रकुपिताः शेपुर्मामृषयोऽखिलाः ॥ ३,९.९ ॥ कर्मभूमिं व्रजेः शीघ्रं दारिर्द्येण मितैः सुतैः । एवं प्रकुपितैः शप्तः खिन्नः काञ्चीं समाविशम् ॥ ३,९.१० ॥ पुरीं पुरोधसा हीनां वीक्ष्य चिन्ताकुलात्मना । भवता सह देवैस्तु पौरोहित्यार्थमादरात् ॥ ३,९.११ ॥ प्रार्थितो विश्वरूपस्तु बभूव तपतां वरः । स्वस्रीयो दानवानां तु देवानां च पुरोहितः ॥ ३,९.१२ ॥ नात्यर्थम करोद्वैरं दैत्येष्वपि महातपाः । बभूवतुस्तुल्यबलौ तदा देत्येन्द्रवासवौ ॥ ३,९.१३ ॥ ततस्त्वं कुपितो राजन्स्वक्लीयं दानवेशितुः । हन्तुमिच्छन्नगाश्चाशु तपसः साधनं वनम् ॥ ३,९.१४ ॥ तमासनस्थं मुनिभिस्त्रिशृङ्गमिव पर्वतम् । त्रयी मुखरदिग्भागं ब्रह्मानदैकनिष्ठितम् ॥ ३,९.१५ ॥ सर्वभूतहितं तं तु मत्वा चेशानुकूलितः । शिरांसि यौगपद्येन छिन्नात्यासंस्त्वयैव तु ॥ ३,९.१६ ॥ तेन पापेन संयुक्तः पीडितश्च मुहुर्मुहुः । ततो मेरुगुहां नीत्वा बहूनब्दान्हि संस्थितः ॥ ३,९.१७ ॥ ततस्तस्य वचः श्रुत्वा ज्ञात्वा तु मुनिवाक्यतः । पुत्र शोकेन संतप्तस्त्वां शशाप रुषान्वितः ॥ ३,९.१८ ॥ निःश्रीको भवतु क्षिप्रं मम शापेन वासवः । अनाथकास्ततो देवा विषण्णा दैत्यपीडिताः ॥ ३,९.१९ ॥ त्वया मया च रहिताः सर्वे देवाः पलायिताः । गत्वा तु ब्रह्मसदनं नत्वा तद्वृत्तमूचिरे ॥ ३,९.२० ॥ ततस्तु चिन्तया मास तदघस्य प्रतिक्रियाम् । तस्य प्रतिक्रियां वेत्तुं न शशाकात्मभूस्तदा ॥ ३,९.२१ ॥ ततो देवैः परिवृतो नारायणमुपागमत् ॥ ३,९.२२ ॥ नत्वा स्तुत्वा चतुर्वक्रस्तद्वृत्तान्तं व्यजिज्ञपत् । विचिन्त्य सोऽपि बहुधा कृपया लोकनायकः ॥ ३,९.२३ ॥ तदघं तु त्रिधा भित्त्वा त्रिषु स्थानेष्वथार्पयत् । स्त्रीषु भूम्यां च वृक्षेषु तेषामपि वरं ददौ ॥ ३,९.२४ ॥ तदा भर्त्तृसमायोगं पुत्रावाप्तिमृतुष्वपि । छेदे पुनर्भवत्वं तु सर्वेषामपि शाखिनाम् ॥ ३,९.२५ ॥ खातपूर्तिं धरण्यश्च प्रददौ मधुसूदनः । तेष्वघं प्रबभूवाशु रजोनिर्यासमूषरम् ॥ ३,९.२६ ॥ निर्गतो गह्वरात्तस्मात्त्वमिन्द्रो देवनायकः । राज्यश्रियं च संप्राप्तः प्रसादात्परमेष्ठिनः ॥ ३,९.२७ ॥ तेनैव सांत्वितो धाता जगाद च जनार्दनम् । मम शापो वृथा न स्यादस्तु कालान्तरे मुने ॥ ३,९.२८ ॥ भगवांस्तद्वचः श्रुत्वा मुनेरमिततेजसः । प्रहृष्टो भाविकार्यज्ञस्तूष्णीमेव तदा ययौ ॥ ३,९.२९ ॥ एतावन्तमिमं कालं त्रिलोकीं पालयन्भवान् । एश्वर्यमदमत्तत्वात्कैलासाद्रिमपीडयत ॥ ३,९.३० ॥ सर्वज्ञेन शिवेनाथ प्रेषितो भगवान्मुनिः । दुर्वासास्त्वन्मदभ्रंशं कर्त्तुकामः शशाप ह ॥ ३,९.३१ ॥ एकमेव फलं जातमुभयोः शापयोरपि । अधुना पश्यनिः श्रीकन्त्रैलोक्यं समजायत ॥ ३,९.३२ ॥ न यज्ञाः संप्रवर्त्तन्ते न दानानि च वासव । न यमा नापि नियमा न तपासि च कुत्रचित् ॥ ३,९.३३ ॥ विप्राः सर्वेऽपि निःश्रीका लोभोपहतचेतसः । निःस्त्त्वा धैर्यहीनाश्च नास्तिकाः प्रायशोऽभवन् ॥ ३,९.३४ ॥ निरौषधिरसा भूमिर्निवीर्य जायतेतराम् । भास्करो धूसराकारश्चन्द्रमाः कान्तिवर्जितः ॥ ३,९.३५ ॥ निस्तेजस्को हविर्भोक्ता मनुद्धूलिकृताकृतिः । न प्रसन्ना दिशां भागा नभो नैव च निर्मलम् ॥ ३,९.३६ ॥ दुर्बला देवताः सर्वा विभान्त्यन्यादृशा इव । विनष्टप्रयमेवास्ति त्रैलोक्यं सचराचरम् ॥ ३,९.३७ ॥ हयग्रीव उवाच इत्थं कथयतोरेव बृहस्पतिपहेन्द्रयोः । मलकाद्या महादैत्याः स्वर्गलोकं बबाधिरे ॥ ३,९.३८ ॥ नन्दनोद्यान मखिलं चिच्छिदुर्बलगर्विताः । उद्यानपालकान्सर्वानायुधैः समताडयन् ॥ ३,९.३९ ॥ प्राकारमवभिद्यैव प्रविश्य नगरान्तरम् । मन्दिरस्थान्सुरान्सर्वानत्यन्तं पर्यपीडयन् ॥ ३,९.४० ॥ आजहुरप्सरोरत्नान्यशेषाणि विशेषतः । ततो देवाः समस्ताश्च चक्रुर्भृशमबाधिताः ॥ ३,९.४१ ॥ तादृशं घोषमाकर्म्य वासवः प्रोज्झितासनः । सर्वैरनुगतो देवैः पलायनपरोऽभवत् ॥ ३,९.४२ ॥ ब्राह्मं धाम समभ्येत्य विषण्मवदनो वृषा । यथावत्कथयामास निखिलं दैत्यचेष्टितम् ॥ ३,९.४३ ॥ विधातापि तदाकर्ण्य सर्वदेवसमन्वितम् । हतश्रीकं हरिहयमालोक्येदमुवाच ह ॥ ३,९.४४ ॥ इन्द्रत्वमखिलैर्द्देवैर्मुकुन्दं शरणं व्रज । दैत्यारातिर्जगत्कर्ता स ते श्रेयो विधास्यति ॥ ३,९.४५ ॥ इत्युक्त्वा तेन सहितः स्वयं ब्रह्मा पितामहः । समस्तदेवसहितः क्षीरोदधिमुपाययौ ॥ ३,९.४६ ॥ अथ ब्रह्मादयो देवा भगवन्तं जनार्दनम् । तुष्टुवुर्वाग्वरिष्ठाभिः सर्वलोकमहेश्वरम् ॥ ३,९.४७ ॥ अथ प्रसन्नो भगवान्वासुदेवः सनातनः । जगाद स कलान्देवाञ्जगद्रक्षणलंपटः ॥ ३,९.४८ ॥ श्रीभगवानुवाच भवतां सुविधास्यामि तेजसैवोपबृंहमम् । यदुच्यते मयेदानीं युष्माभिस्त द्विधीयताम् ॥ ३,९.४९ ॥ ओषधिप्रवराः सर्वाः क्षिपत क्षीरसागरे । असुरैरपि संधाय सममेव च तैरिह ॥ ३,९.५० ॥ मन्थानं मन्दरं कृत्वा कृत्वा योक्त्रं च वासुकिम् । मयि स्थिते सहाये तु मथ्यताममृतं सुराः ॥ ३,९.५१ ॥ समस्तदानवाश्चापि वक्तव्याः सांत्वपूर्वकम् । सामान्यमेव युष्माकमस्माकं च फलं त्विति ॥ ३,९.५२ ॥ मथ्यमाने तु दुग्धाब्धौ या समुत्पद्यते सुधा । तत्पानाद्बलिनो यूयममर्त्याश्च भविष्यथ ॥ ३,९.५३ ॥ यथा दैत्याश्च पीयूषं नैतत्प्राप्स्यन्ति किञ्चन । केवलं क्लेशवन्तश्च करिष्यामि तथा ह्यहम् ॥ ३,९.५४ ॥ इति श्रीवासुदेवेन कथिता निखिलाः सुराः । संधानं त्वतुलैर्दैत्यैः कृतवन्तस्तदा सुराः । नानाविधौषधिगणं समानीय सुरासुराः ॥ ३,९.५५ ॥ श्रीराब्धिपयसि क्षिप्त्वा चन्द्रमोऽधिकनिर्मलम् । मन्थानं मन्दरं कृत्वा कृत्वा योक्त्रं तु वासुकिम् । प्रारेभिरे प्रयत्नेन मन्थितुं यादसां पतिम् ॥ ३,९.५६ ॥ वासुकेः पुच्छभागे तु सहिताः सर्वदेवताः । शिरोभागे तु दैतेया नियुक्तास्तत्र शौरिणा ॥ ३,९.५७ ॥ बलवन्तोऽपि ते दैत्यास्तन्मुखोच्छ्वासपावकैः । निर्दग्धवपुषः सर्वे निस्तेजस्कास्तदाभवन् ॥ ३,९.५८ ॥ पुच्छदेशे तु कर्षन्तो मुहुराप्यायिताः सुराः । अनुकूलेन वातेन विष्णुना प्रेरितेन तु ॥ ३,९.५९ ॥ आदिकूर्माकृतिः श्रीमान्मध्ये क्षीरपयोनिधेः । भ्रमतो मन्दराद्रेस्तु तस्या धिष्टानतामगात् ॥ ३,९.६० ॥ मध्ये च सर्वदेवानां रूपेणान्येन माधवः । चकर्ष वासुकिं वेगाद्दैत्यमध्ये परेण च ॥ ३,९.६१ ॥ ब्रह्मरूपेण तं शैलं विधार्याक्रान्तवारिधिम् । अपरेण च देवर्षिर्महता तेजसा मुहुः ॥ ३,९.६२ ॥ उपवृंहितवान्देवान्येन ते बलशालिनः । तेजसा पुनरन्येन बलात्कारसहेन सः ॥ ३,९.६३ ॥ उपबृंहितवान्नागं सर्वशक्तिजनार्दनः । मथ्यमाने ततस्तस्मिन्क्षीरब्धौ देवदानवैः ॥ ३,९.६४ ॥ आविर्बभूव पुरतः सुरभिः सुरपूजिता । मुदं जग्मुस्तदा देवा दैतेयाश्च तपोधन ॥ ३,९.६५ ॥ मथ्यमाने पुनस्तस्मिन्क्षीराब्दौ देवदानवैः । किमेतदिति सिद्धानां दिवि चिन्तयतां तदा ॥ ३,९.६६ ॥ उत्थिता वारुणी देवी मदाल्लोलविलोचना । असुराणां पुरस्तात्सा स्मयमाना व्यतिष्ठत ॥ ३,९.६७ ॥ जगृहुर्नैव तां दैत्या असुराश्चाभवंस्ततः । सुरा न विद्यते येषां तेनैवासुरशब्दिताः ॥ ३,९.६८ ॥ अथसा सर्वदेवानामग्रतः समतिष्ठत । जगृहुस्तां मुदा देवाः सूचिताः परमेष्ठिना । सुराग्रहणतोऽप्येते सुरशब्देन कीर्तिताः ॥ ३,९.६९ ॥ मथ्यमाने ततो भूयः पारिजातो महाद्रुमः । आविरासीत्सुंगधेन परितो वासयञ्जगत् ॥ ३,९.७० ॥ अत्यर्थसुंदराकारा धीराश्चाप्सरसां गणाः । आविर्भूताश्च देवर्षे सर्वलोकमनोहराः ॥ ३,९.७१ ॥ ततः शीतांशुरुदभूत्तं जग्राह महेश्वरः । विषजातं तदुत्पन्नं जगृहुर्नागजातयः ॥ ३,९.७२ ॥ कौस्तुभाख्यं ततो रत्नमाददे तज्जनार्दनः । ततः स्वपत्रगन्धेन मदयन्ती महौषधीः । विजया नाम संजज्ञे भैरवस्तामुपाददे ॥ ३,९.७३ ॥ ततो दिव्यांबरधरो देवो धन्वन्तरिः स्वयम् । उपस्थितः करे बिभ्रदमृताढ्यं कमण्डलुम् ॥ ३,९.७४ ॥ ततः प्रहृष्टमनसो देवा दैत्याश्च सर्वतः । मुनयश्चाभवंस्तुष्टास्तदानीं तपसां निधे ॥ ३,९.७५ ॥ ततो विकसितांभोजवासिनी वरदायिनी । उत्थिता पद्महस्ता श्रीस्तस्मात्क्षीरमहार्मवात् ॥ ३,९.७६ ॥ अथ तां मुनयः सर्वे श्रीसुक्तेन श्रियं पराम् । तुष्टुवुस्तुष्ट हृदया गन्धर्वाश्च जगुः परम् ॥ ३,९.७७ ॥ विश्वाजीप्रमुखाः सर्वे ननृतुश्चाप्सरोगणाः । गङ्गाद्याः पुण्यनद्यश्च स्नानार्थमुपतस्थिरे ॥ ३,९.७८ ॥ अष्टौ दिग्दन्तिनश्चैव मेध्यपात्रस्थितं जलम् । आदाय स्नापयाञ्चक्रुस्तां श्रियं पद्मवासिनीम् ॥ ३,९.७९ ॥ तुलसीं च समुत्पन्नां परार्ध्या मैक्यजां हरेः । पद्ममालां ददौ तस्यै मूर्तिमान्क्षीरसागरः ॥ ३,९.८० ॥ भूषणानि च दिव्यानि विश्वकर्मा समर्पयत् । दिव्यमाल्यां बरधरा दिव्यभूषणभूषिता । ययौ वक्षस्थलं विष्णोः सर्वेषां पश्यतां रमा ॥ ३,९.८१ ॥ तुलसी तु धृता तेन विष्णुना प्रभविष्णुना । पश्यति स्म च सा देवी विष्णुवक्षथलालया । देवान्दयार्द्रया दृष्ट्या सर्वलोकमहेश्वरी ॥ ३,९.८२ ॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने अमृतमन्थनं नाम नवमोऽध्यायः _____________________________________________________________ हयग्रीव उवाच अथ देवा महेन्द्राद्या विष्णुना प्रभविष्मुना । अङ्गीकृता महाधीराः प्रमोदं परमं ययुः ॥ ३,१०.१ ॥ मलकाद्यास्तु ते सर्वे दैत्या विष्णुपराङ्मुखाः । संत्यक्ताश्च श्रिया देव्या भृशमुद्वेगमागताः ॥ ३,१०.२ ॥ ततो जगृहिरे दैत्या धन्वन्तरिकरस्थितम् । परमामृतसाराढ्यं कलशं कनकोद्भवम् । अथासुराणां देवानामन्योन्यं कलहोऽभवत् ॥ ३,१०.३ ॥ एतस्मिन्नन्तरे विष्णुः सर्वलोकैकरक्षकः । सम्यगाराधयामासललितां स्वैक्यरूपिणीम् ॥ ३,१०.४ ॥ सुराणामसुराणां च रणं वीक्ष्य सुदारुणम् । ब्रह्मा निजपदं प्राप शंभुः कैलासमास्थितः ॥ ३,१०.५ ॥ मलकं योधयामास दैत्यानामधिपं वृषा । असुरैश्च सुराः सर्वे सांपरायमकुर्वत ॥ ३,१०.६ ॥ भगवानपि योगीन्द्रः समाराध्य महेश्वरीम् । तदेकध्यानयोगेन तद्रूपः समजायत ॥ ३,१०.७ ॥ सर्वसंमोहिनी सा तु साक्षाच्छृङ्गारनायिका । सर्वशृङ्गारवेषाढ्या सर्वाभरणभूषिता ॥ ३,१०.८ ॥ सुराणामसुराणां च निवार्य रणमुल्वणम् । मन्दस्मितेन दैतेयान्मोहयन्ती जगद ह ॥ ३,१०.९ ॥ अलं युद्धेन किं शस्त्रेर्मर्मस्थानविभेदिभिः । निष्ठुरैः किं वृथालापैः कण्ठशोषणहेतुभिः ॥ ३,१०.१० ॥ अहमेवात्र मध्यस्था युष्माकं च दिवौकसाम् । यूयं तथामी नितरामत्र हि क्लेशभागिनः ॥ ३,१०.११ ॥ सर्वेषां सममेवाद्य दास्याम्यमृतमद्भुतम् । मम हस्ते प्रदातव्यं सुधापात्रमनुत्तमम् ॥ ३,१०.१२ ॥ इति तस्या वचः श्रुत्वा दैत्यास्तद्वाक्यमोहिताः । पीयूषकलशं तस्यै ददुस्ते मुग्धचेतसः ॥ ३,१०.१३ ॥ सा तत्पात्रं समादाय जगन्मोहनरूपिणी । सुराणामसुराणां च वृथक्पङ्क्तिं चकार ह ॥ ३,१०.१४ ॥ द्वयोः पङ्क्त्योश्च मध्यस्थास्तानुवाच सुरासुरान् । तूष्णीं भवन्तु सर्वेऽपि क्रमशो दीयते मया ॥ ३,१०.१५ ॥ तद्वाक्यमुररीचक्रुस्ते सर्वे समवायिनः । सा तु संमोहिताश्लेषलोका दातुं प्रचक्रमे ॥ ३,१०.१६ ॥ क्वणत्कनकदर्वीका क्वणन्मङ्गलकङ्कणा । कमनीयविभूषाढ्या कला सा परमा बभौ ॥ ३,१०.१७ ॥ वामे वामे करांभोजे सुधाकलशमुज्ज्वलम् । सुधां तां देवतापङ्क्तौ पूर्वं दर्व्या तदादिशत् ॥ ३,१०.१८ ॥ दिशन्ती क्रमशास्तत्र चन्द्रभास्करसूचितम् । दर्वीकरेण चिच्छेद सैंहिकेयं तु मध्यगम् । पीतामृतशिरोमात्रं तस्य व्योम जगाम च ॥ ३,१०.१९ ॥ तं दृष्ट्वाप्यसुरास्तत्र तूष्णीमासन्विमोहिताः । एवं क्रमेण तत्सर्वं विबुधेभ्यो वितीर्य सा । असुराणां पुरः पात्रं सानिनाय तिरोदधे ॥ ३,१०.२० ॥ रिक्तपात्रं तु तं दृष्ट्वा सर्वे दैतेयदानवाः । उद्वेलं केवलं क्रोधं प्राप्ता युद्धचिकीर्षया ॥ ३,१०.२१ ॥ इन्द्रादयः सुराः सर्वे सुधापानाद्बलोत्तराः । दुर्वलैरसुरैः सार्धं समयुद्ध्यन्त सायुधाः ॥ ३,१०.२२ ॥ ते विध्यमानाः शतशो दानवेन्द्राः सुरोत्तमैः । दिगन्तान्कतिचिज्जग्मुः पातालं कतिचिद्ययुः ॥ ३,१०.२३ ॥ दैत्यं मलकनामानं विजित्य विबुधेश्वरः । आत्मीयां श्रियमाजह्रे श्रीकटाक्ष समीक्षितः ॥ ३,१०.२४ ॥ पुनः सिंहासनं प्राप्य महेन्द्रः सुरसेवितः । त्रैलोक्यं पालयामास पूर्ववत्पूर्वदेवजित् ॥ ३,१०.२५ ॥ निर्भया निखिला देवास्त्रैलोक्ये सचराचरे । यथाकामं चरन्ति स्म सर्वदा हृष्टचेतसः ॥ ३,१०.२६ ॥ तदा तदखिलं दृष्ट्वा मोहिनीचरितं मुनिः । विस्मितः कामचारी तु कैलासं नारदो गतः ॥ ३,१०.२७ ॥ नन्दिना च कृतानुज्ञः प्रणम्य परमेश्वरम् । तेन संभाव्यमानोऽसौ तुष्टो विष्टरमास्त सः ॥ ३,१०.२८ ॥ आसनस्थं महादेवो मुनिं स्वेच्छाविहारिणम् । पप्रच्छ पार्वतीजानिः स्वच्छस्फटिकसन्निभः ॥ ३,१०.२९ ॥ भगवन्सर्ववृत्तज्ञ पवित्रीकृतविष्टर । कलहप्रिय देवर्षे किं वृत्तं तत्र नाकिनाम् ॥ ३,१०.३० ॥ सुराणामसुराणां वा विजयः समजायत । किं वाप्यमृतवृत्तान्तं विष्णुना वापि किं कृतम् ॥ ३,१०.३१ ॥ इति पृष्टो महेशेन नारदो मुनिसत्तमः । उवाच विस्मयाविष्टः प्रसन्नवदनेक्षणः ॥ ३,१०.३२ ॥ सर्वं जानासि भगवन्सर्वज्ञोऽसि यतस्ततः । तथापि परिपृष्टेन मया तद्वक्ष्यतेऽधुना ॥ ३,१०.३३ ॥ तादृशे समरे घोरे सति दैत्यदिवौकसाम् । आदिनारायमः श्रीमान्मोहिनीरूपमादधे ॥ ३,१०.३४ ॥ तामुदारविभूषाढ्यां मूर्तां शृङ्गारदेवताम् । सुरासुराः समालोक्य विरताः समरोध्यमात् ॥ ३,१०.३५ ॥ तन्मायामोहिता दैत्याः सुधापात्रं च याचिताः । कृत्वा तामेव मध्यस्थामर्पयामासुरञ्जसा ॥ ३,१०.३६ ॥ तदा देवी तदादाय मन्दस्मितमनोहरा । देवेभ्य एव पीयूषमशेषं विततार सा ॥ ३,१०.३७ ॥ तिरोहितामदृष्ट्वा तां दृष्ट्वा शून्यं च पात्रकम् । ज्वलन्मन्युमुखा दैत्या युद्धाय पुनरुत्थिताः ॥ ३,१०.३८ ॥ अमरैरमृतास्वादादत्युल्वणपराक्रमैः । पराजिता महादैत्या नष्टाः पातालमभ्ययुः ॥ ३,१०.३९ ॥ इमं वृत्तान्तमाकर्ण्य भवानीपतिख्ययः । नारदं प्रेषयित्वाशु तदुक्तं सततं स्मरन् ॥ ३,१०.४० ॥ अज्ञातः प्रमथैः सर्वैः स्कन्दनन्दिविनायकैः । पार्वतीसहितो विष्णुमाजगाम सविस्मयः ॥ ३,१०.४१ ॥ क्षीरोदतीरगं दृष्ट्वा सस्त्रीकं वृषवाहनम् । भोगिभोगासनाद्विष्णुः समुत्थाय समागतः ॥ ३,१०.४२ ॥ वाहनादवरुह्येशः पार्वत्या सहितः स्थितम् । तं दृष्ट्वा शीघ्रमागत्य संपूज्यार्घ्यादितो मुदा ॥ ३,१०.४३ ॥ सस्नेहं गाढमालिङ्ग्य भवानीपतिमच्युतः । तदागमनकार्यं च पृष्टवान्विष्टरश्रवाः ॥ ३,१०.४४ ॥ तमुवाच महादेवो भगवन्पुरुषोत्तम । महायोगेश्वर श्रीमन्सर्वसौभाग्यसुन्दरम् ॥ ३,१०.४५ ॥ सर्वसंमोहजनकमवाङ्मनसगोचरम् । यद्रूपं भवतोपात्तं तन्मह्यं संप्रदर्शय ॥ ३,१०.४६ ॥ द्रष्टुमिच्छामि ते रूपं शृङ्गारस्याधिदैवतम् । अवश्यं दर्शनीयं मे त्वं हि प्रार्थितकामधृक् ॥ ३,१०.४७ ॥ इति संप्रार्थितः शश्वन्महादेवेन तेन सः । यद्ध्यानवैभवाल्लब्धं रूपमद्वैतमद्भुतम् ॥ ३,१०.४८ ॥ तदेवानन्यमनसा ध्यात्वा किञ्चिद्विहस्य सः । तथास्त्विति तिरोऽधत्त महायोगेश्वरो हरिः ॥ ३,१०.४९ ॥ शर्वोऽपि सर्वतश्चक्षुर्मुहुर्व्यापारयन्क्वचित् । अदृष्टपूर्वमाराममभिरामं व्यलोकयत् ॥ ३,१०.५० ॥ विकसत्कुसुमश्रेणीविनोदिमधुपालिकम् । चंपकस्तबकामोदसुरभीकृतदिक्तटम् ॥ ३,१०.५१ ॥ माकन्दवृन्दमाध्वीकमाद्यदुल्लोलकोकिलम् । अशोकमण्डलीकाण्डसताण्डवशिखण्डिकम् ॥ ३,१०.५२ ॥ भृङ्गालिनवझङ्कारजितवल्लकिनिस्वनम् । पाटलोदारसौरभ्यपाटलीकुसुमोज्ज्वलम् ॥ ३,१०.५३ ॥ तमालतालहिन्तालकृतमालाविलासितम् । पर्यन्तदीर्घिकादीर्घपङ्कजश्रीपरिष्कृतम् ॥ ३,१०.५४ ॥ वातपातचलच्चारुपल्लवोत्फुल्लपुष्पकम् । सन्तानप्रसवामोदसन्तानाधिकवासितम् ॥ ३,१०.५५ ॥ तत्र सर्वत्र पुष्पाढ्ये सर्वलोकमनोहरे । पारिजाततरोर्मूले कान्ता काचिददृश्यत ॥ ३,१०.५६ ॥ बालार्कपाटलाकारा नवयौवनदर्पिता । आकृष्टपद्मरागाभा चरणाब्जनखच्छदा ॥ ३,१०.५७ ॥ यावकश्रीविनिक्षेपपादलौहित्यवाहिनी । कलनिःस्वनमञ्जीरपदपद्ममनोहरा ॥ ३,१०.५८ ॥ अनङ्गवीरतूणीरदर्पोन्मदनजङ्घिका । करिशुण्डाकदलिकाकान्तितुल्योरुशोभिनी ॥ ३,१०.५९ ॥ अरुणेन दुकूलेन सुस्पर्शेन तनीयसा । अलङ्कृतनितंबाढ्या जघनाभोगभासुरा ॥ ३,१०.६० ॥ नवमाणिक्यसन्नद्धहेमकाञ्जीविराजिता । नतनाभिमहावर्त्तत्रिवल्यूर्मिप्रभाझरा ॥ ३,१०.६१ ॥ स्तनकुड्मलहिन्दोलमुक्तादामशतावृता । अतिपीवरवक्षोजभारभङ्गुरमध्यभूः ॥ ३,१०.६२ ॥ शिरीषकोमलभुजा कङ्कणाङ्गदशालिनी । सोर्मिकां गुलिमन्मृष्टशङ्खसुन्दरकन्धरा ॥ ३,१०.६३ ॥ मुखदर्पणवृत्ताभचुबुकापाटलाघरा । शुचिभिः पङ्क्तिभिः शुद्धैर्विद्यारूपैर्विभास्वरैः ॥ ३,१०.६४ ॥ कुन्दकुड्मलसच्छायैर्दन्तैर्दर्शितचन्द्रिका । स्थूलमौक्तिकसन्नद्धनासाभरणभासुरा ॥ ३,१०.६५ ॥ केतकान्तर्द्दलद्रोणिदीर्घदीर्घविलोचना । अर्धेन्दुतुलिताफाले सम्यक्कॢप्तालकच्छटा ॥ ३,१०.६६ ॥ पालीवतंसमाणिक्यकुण्डलामण्डितश्रुतिः । नवकर्पूरकस्तूरीरसामोदितवीटिका ॥ ३,१०.६७ ॥ शरच्चरुनिशानाथमण्डलीमधुरानना । स्फुरत्कस्तूरितिलका नीलकुन्तलसंहतिः ॥ ३,१०.६८ ॥ सीमन्तरेखाविन्यस्तसिंदूरश्रेणिभासुरा ॥ ३,१०.६९ ॥ स्फरच्चन्द्रकलोत्तंसमदलोलविलोचना । सर्वशृङ्गारवेषाढ्या सर्वाभरणमण्डिता ॥ ३,१०.७० ॥ तामिमां कन्दुकक्रीडालोलामालोलभूषणाम् । दृष्ट्वा क्षिप्रमुमां त्यक्त्वा सोऽन्वधावदथेश्वरः ॥ ३,१०.७१ ॥ उमापि तं समोवेक्ष्य धावन्तं चात्मनः प्रियम् । स्वात्मानं स्वात्मर्सोन्दर्यं निन्दन्ती चातिविस्मिता । तस्थाववाङ्मुखी तूष्णीं लज्जासूयासमन्विता ॥ ३,१०.७२ ॥ गृहीत्वा कथमप्येनामालिलिग मुहुर्मुहुः । उद्धूयोद्धूय साप्येवं धावति स्म सुदूरतः ॥ ३,१०.७३ ॥ पुनर्गृहीत्वा तामीशः कामं कामवशीसृतः । आश्र्लिष्टं चातिवेगेन तद्वीर्यं प्रच्युतं तदा ॥ ३,१०.७४ ॥ ततः समुत्थितो देवो महाशास्ता महाबलः । अनेककोटिदैत्येन्द्रगर्वनिर्वापणक्षमः ॥ ३,१०.७५ ॥ तद्वीर्यबिन्दुसंस्पर्शात्सा भूमिस्तत्रतत्र च । रजतस्वर्मवर्णाभूल्लक्षणाद्विन्ध्यमर्दन ॥ ३,१०.७६ ॥ तथैवान्तर्दधे सापि देवता विश्वमोहिनी । निवृत्तः स गिरीशोऽपि गिरिं गौरीसखो ययौ ॥ ३,१०.७७ ॥ अथाद्भुतमिदं वक्ष्ये लोपामुद्रापते शृणु । यन्न कस्यचिदाख्यातं ममैव त्दृदयेस्थितम् ॥ ३,१०.७८ ॥ पुरा भण्डासुरो नाम सर्वदैत्यशिखामणिः । पूर्वं देवान्बहुविधान्यः शास्ता स्वेच्छया पटुः ॥ ३,१०.७९ ॥ विशुक्रं नाम दैतेयं वर्गसंरक्षणक्षमम् । शुक्रतुल्यं विचारज्ञं दक्षांसेन ससर्ज सः ॥ ३,१०.८० ॥ वामांसेन विषाङ्गं च सृष्टवान्दुष्टशेखरम् । धूमिनीनामधेयां च भगिनीं भण्डदानवः ॥ ३,१०.८१ ॥ भ्रातृभ्यामुग्रवीर्याभ्यां सहितो निहताहितः । ब्रह्माण्डं खण्डयामास शौर्यवीर्यसमुच्छ्रितः ॥ ३,१०.८२ ॥ ब्रह्मविष्णुमहेशाश्च तं दृष्ट्वा दीप्ततेजसम् । पलायनपराः सद्यः स्वे स्वे धाम्नि सदावसन् ॥ ३,१०.८३ ॥ तदानीमेव तद्बाहुमंमर्द्दन विमूर्च्छिताः । श्वसितुं चापि पटवो नाभवन्नाकिनां गणाः ॥ ३,१०.८४ ॥ केचित्पातालगर्भेषु केचिदंबुधिवारिषु । केचिद्दिगन्तकोणेषु केचित्कुञ्जेषु भूभृताम् ॥ ३,१०.८५ ॥ विलीना भृशवित्रस्तास्त्यक्तदारसुतस्त्रियः । भ्रष्टाधिकारा ऋभवो विचेरुश्छन्नवेषकाः ॥ ३,१०.८६ ॥ यक्षान्महोरगान्सिद्धान्साध्यान्समरदुर्मदान् । ब्रह्माणं पद्मनाभं च रुद्रं वज्रिणमेव च । मत्वा तृणायितान्सर्वांल्लोकान्भण्डः शशासह ॥ ३,१०.८७ ॥ अथ भण्डासुरं हन्तुं त्रैलोक्यं चापि रक्षितुम् । तृतीयमुदभूद्रूपं महायागानलान्मुने ॥ ३,१०.८८ ॥ यद्रूपशालिनीमाहुर्ललिता परदेवताम् । पाशाङ्कुशधनुर्वाणपरिष्कृतचतुर्भुजाम् ॥ ३,१०.८९ ॥ सा देवी परम शक्तिः परब्रह्मस्वरूपिणी । जघान भण्डदैत्येन्द्रं युद्धे युद्धविशारदा ॥ ३,१०.९० ॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने मोहिनीप्रादुर्भावमलकासुरवधो नाम दशमोऽध्यायः समाप्तश्चोपोद्धातखण्डः । _____________________________________________________________ अगस्त्य उवाच कथं भण्डासुरो जातः कथं वा त्रिपुरांबिका । कथं बभञ्ज तं संख्ये तत्सर्वं वद विस्तरात् ॥ ३,११.१ ॥ हयग्रीव उवाच पुरा दाक्षायणीं त्यक्त्वा पितुर्यज्ञविनाशनम् ॥ ३,११.२ ॥ आत्मानमात्मना पश्यञ्ज्ञानानन्दरसात्मकः । उपास्यमानो मुनिभिरद्वन्द्वगुणलक्षणः ॥ ३,११.३ ॥ गङ्गाकूले हिमवतः पर्यन्ते प्रविवेश ह । सापि शङ्करमा राध्य चिरकालं मनस्विनी ॥ ३,११.४ ॥ योगेन स्वां तनुं त्यक्त्वा सुतासीद्धिमभूभृतः ॥ ३,११.५ ॥ स शैलो नारदाच्छ्रुत्वा रुद्राणीति स्वकन्याकाम् । तस्य शुश्रूषणार्थाय स्थापयामास चान्तिके ॥ ३,११.६ ॥ एतस्मिन्नन्तरे देवास्तारकेण हि पीडिताः । ब्रह्मणोक्ताः समाहूय मदनं चेदमब्रुवन् ॥ ३,११.७ ॥ सर्गादौ भगवान्ब्रह्म सृजमानोऽखिलाः प्रजाः । न निर्वृतिरभूत्तस्य कदाचिदपि मानसे । तपश्चचार सुचिरं मनोवाक्कायकर्मभिः ॥ ३,११.८ ॥ ततः प्रसन्नो भगवान्सलक्ष्मीको जनार्दनः । वरेण च्छन्दयामास वरदः सर्वदेहिनाम् ॥ ३,११.९ ॥ ब्रह्मोवाच । यदि तुष्टोऽसि भगवन्ननायासेन वै जगत् । चराचरयुतं चैतत्सृजामि त्वत्प्रसादतः ॥ ३,११.१० ॥ एवमुक्तो विधात्रा तु महाल क्ष्मीमुदैक्षत । तदा प्रादुरभूस्त्वं हि जगन्मोहनरूपधृक् ॥ ३,११.११ ॥ तवायुधार्थं दत्तं च पुष्पबाणेक्षुकार्मुकम् । विजयत्वमजेयत्वं प्रादा त्प्रमुदितो हरिः ॥ ३,११.१२ ॥ असौ सृजति भूतानि कारणेन स्वकर्मणा । साक्षिभूतः स्वजनतो भवान्भजतु निर्वृन्तिम् ॥ ३,११.१३ ॥ एष दत्तवरो ब्रह्मा त्वयि विन्यस्य तद्भरम् । मनसो निर्वृतिं प्राप्य वर्ततेऽद्यापि मन्मथ ॥ ३,११.१४ ॥ अमोघं बलवीर्यं ते न ते मोघः पराक्रमः ॥ ३,११.१५ ॥ सुकुमाराण्यमोघानि कुसुमास्त्राणि ते सदा । ब्रह्मदत्तवरोऽयं हि तारको नाम दानवः ॥ ३,११.१६ ॥ बाधते सकलांल्लोकानस्मानपि विशेषतः । शिवपुत्रादृतेऽन्यत्र न भयं तस्य विद्यते ॥ ३,११.१७ ॥ त्वां विनास्मिन्महाकार्ये न कश्चित्प्रवदेदपि । स्वकराच्च भवेत्कार्यं भवतो नान्यतः क्वचित् ॥ ३,११.१८ ॥ आत्म्यैक्यधयाननिरतः शिवो गौर्या समन्वितः । हिमाचलतले रम्ये वर्तते मुनिभिर्वृतः ॥ ३,११.१९ ॥ तं नियोजय गौर्यां तु जनिष्यति च तत्सुतः । ईषत्कार्यमिदं कृत्वा त्रायस्वास्मान्महाबल ॥ ३,११.२० ॥ एवमभ्यर्थितो देवैः स्तूयमानो मुहुर्मुहुः । जगामात्मविनाशाय यतो हिमवतस्तटम् ॥ ३,११.२१ ॥ किमप्याराधयान्तं तु ध्यानसंमीलितेक्षणम् । ददर्शेशानमासीनं कुसुमषुरुदायुधः ॥ ३,११.२२ ॥ एतस्मिन्नन्तरे तत्र हिमवत्तनया शिवम् । आरिराधयिषुश्चा गाद्बिभ्राणा रूपमद्भुतम् ॥ ३,११.२३ ॥ समेत्य शम्भुं गिरिजां गन्धपुष्पोपहारकैः । शुश्रूषणपरां तत्र ददर्शातिबलः स्मरः ॥ ३,११.२४ ॥ अदृश्यः सर्वभूतानान्नातिदूरेऽस्य संस्थितः । सुमनोमार्गणैरग्र्यैस्स विव्याध महेश्वरम् ॥ ३,११.२५ ॥ विस्मृत्य स हि कार्याणि बाणविद्धोऽन्तिके स्थिताम् । गौरीं विलोकयामास मन्मथाविष्टचेतनः ॥ ३,११.२६ ॥ धृतिमालंब्य तु पुनः किमेतदिति चिन्तयन् । ददर्शाग्रे तु सन्नद्धं मन्मथं कुसुमायुधम् ॥ ३,११.२७ ॥ तं दृष्ट्वा कुपितः शूली त्रैलोक्यदहनक्षमः । तार्तीयं चक्षुरुन्मील्य ददाह मकरध्वजम् ॥ ३,११.२८ ॥ शिवेनैवमवज्ञाता दुःखिता शैलकन्यका । अनुज्ञया ततः पित्रोस्तपः कर्तुमगाद्वनम् ॥ ३,११.२९ ॥ अथ तद्भस्म संवीक्ष्य चित्रकर्मा गणेश्वरः । तद्भस्मना तु पुरुषं चित्राकारं चकार सः ॥ ३,११.३० ॥ तं विचित्रतनुं रुद्रो ददर्शाग्रे तु पूरुषम् । तत्क्षणाज्जात जीवोऽभून्मूर्तिमानिव मन्मथः । महाबलोऽतितेजस्वी मध्याह्नार्कसमप्रभः ॥ ३,११.३१ ॥ तं चित्रकर्मा बाहुभ्यां समालिङ्ग्य मुदान्वितः । स्तुहि वाल महादेवं स तु सर्वार्थसिद्धिदः ॥ ३,११.३२ ॥ इत्युक्त्वा शतरुद्रीयमुपादिशदमेयधीः । ननाम शतशो रुद्रं शतरुद्रियमाजपन् ॥ ३,११.३३ ॥ ततः प्रसन्नो भगवान्महादेवो वृषध्वजः । वरेण च्छन्दयामास वरं वव्रे स बालकः ॥ ३,११.३४ ॥ प्रतिद्वन्द्विबलार्थं तु मद्बलेनोपयोक्ष्यति । तदस्त्रशस्त्रमुख्यानि वृथा कुर्वन्तु नो मम ॥ ३,११.३५ ॥ तथेति तत्प्रतिश्रुत्य विचार्य किमपि प्रभुः । षष्टिवर्षसहस्राणि राज्यमस्मै ददौ पुनः ॥ ३,११.३६ ॥ एतद्दृष्ट्वा तु चरितं धाता भण्डिति भण्डिति । यदुवाच ततो नाम्ना भण्डो लोकेषु कथ्यते ॥ ३,११.३७ ॥ इति दत्त्वा वरं तस्मै सर्वैर्मुनिगणैर्वृतः । दत्त्वास्त्राणि च शस्त्राणि तत्रैवान्तरधाच्च सः ॥ ३,११.३८ ॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने भण्डासुरप्रादुर्भावो नामैकादशोऽध्यायः _____________________________________________________________ रुद्रकोपानलाज्जातो यतो भण्डो महाबलः । तस्माद्रौद्रस्वभावो हि दानवश्चाभवत्ततः ॥ ३,१२.१ ॥ अथागच्छन्महातेजाः शुक्रो दैत्यपुरोहितः । समायाताश्च शतशो दैतेयाः सुमहाबलाः ॥ ३,१२.२ ॥ अथाहूय मयं भण्डो दैत्यवंश्यादिशिल्पिनम् । नियुक्तो भृगुपुत्रेण निजगादार्थवद्वचः ॥ ३,१२.३ ॥ यत्र स्थित्वा तु दैत्येन्द्रैस्त्रैलोक्यं शासितं पुरा । तद्गत्वा शोणितपुरं कुरुष्व त्वं यथापुरम् ॥ ३,१२.४ ॥ तच्छ्रुत्वा वचनं शिल्पी स गत्वाथ पुरं महत् । चक्रेऽमरपुरप्रख्यं मनसैवेक्षणेन तु ॥ ३,१२.५ ॥ अथाभिषिक्तः शुक्रेण दैतेयैश्च महाबलैः । शुशभे परया लक्ष्म्या तेजसा च समन्वितः ॥ ३,१२.६ ॥ हिरण्याय तु यद्दत्तं किरीटं ब्रह्मणा पुरा । सजीवमविनाश्यं च दैत्येन्द्रैरपि भूषितम् । दधौ भृगुसुतोत्सृष्टं भण्डो बालार्कसन्निभम् ॥ ३,१२.७ ॥ चामरे चन्द्रसंकाशे सजीवे ब्रह्म निर्मिते । न रोगो न च दुःखानि संदधौ यन्निषेवणात् ॥ ३,१२.८ ॥ तस्यातपत्रं प्रददौ ब्रह्मणैव पुरा कृतम् । यस्य च्छायानिषण्णास्तु बाध्यन्ते नास्त्रकोटिभिः ॥ ३,१२.९ ॥ धनुश्च विजयं नाम शङ्खं च रिपुघातिनम् । अन्यान्यपि महार्हाणि भूषणानि प्रदत्तवान् ॥ ३,१२.१० ॥ तस्य सिंहासनं प्रादादक्षय्यं सूर्यसन्निभम् । ततः सिंहासनासीनः सर्वाभरणभूषितः । बभूवातीव तेजस्वी रत्नमुत्तेजितं यथा ॥ ३,१२.११ ॥ बभूवुरथ दैतेयास्तयाष्टौ तु महाबलाः । इन्द्रशत्रुरमित्रघ्नो विद्युन्माली विभीषणः । उग्रकर्मोग्रधन्वा च विजयश्रुति पारगः ॥ ३,१२.१२ ॥ सुमोहिनी कुमुदिनी चित्राङ्गी सुंदरी तथा । चतस्रो वनितास्तस्य बभूवुः प्रियदर्शनाः ॥ ३,१२.१३ ॥ तमसेवन्त कालज्ञा देवाः सर्वे सवासवाः । स्यन्दनास्तुरगा नागाः पादाताश्च सहस्रशः ॥ ३,१२.१४ ॥ संबभूवुर्महाकाया महान्तो जितकाशिनः । बभूवुर्दानवाः सर्वे भृगुपुत्रमतानुगाः ॥ ३,१२.१५ ॥ अर्चयन्तो महादेवमास्थिताः शिवशासने । बभूवुर्दानवास्तत्र पुत्रपौत्रधनान्विताः । गृहेगृहे च यज्ञाश्च संबभूवुः समन्ततः ॥ ३,१२.१६ ॥ ऋचो यजूंषि सामानि मीमांसान्यायकादयः । प्रवर्तन्ते स्म दैत्यानां भूयः प्रतिगृहं तदा ॥ ३,१२.१७ ॥ यथाश्रमेषु मुख्येषु मुनीनां च द्विजन्मनाम् । तथा यज्ञेषु दैत्यानां बुभुजुर्हव्यभोजिनः ॥ ३,१२.१८ ॥ एवं कृतवतोऽप्यस्य भण्डस्य जितकाशिनः । षष्टिवर्षसहस्राणि व्यतीतानि क्षणार्धवत् ॥ ३,१२.१९ ॥ वर्धमानमथो दैत्यं तपसा च बलेन च । हीयमानबलं चेन्द्रं संप्रेक्ष्य कमलापतिः ॥ ३,१२.२० ॥ ससर्ज सहसा काञ्चिन्मायां लोकविमोहिनीम् । तामुवाच ततो मायां देवदेवो जनार्दनः ॥ ३,१२.२१ ॥ त्वं हि सर्वाणि भूतानि मोहयन्ती निजौजसा । विचरस्व यथाकामं त्वां न ज्ञास्यति कश्चन ॥ ३,१२.२२ ॥ त्वं तु शीघ्रमितो गत्वा भण्डं दैतेयनायकम् । मोहयित्वाचिरेणैव विषयानुपभोक्ष्यसे ॥ ३,१२.२३ ॥ एवं लब्ध्वा वरं माया तं प्रणम्य जनार्दनम् । ययाचेऽप्सरसो मुख्याः सहायार्थं तु काश्चन ॥ ३,१२.२४ ॥ तया संप्रार्थितो भूयः प्रेषयामास काश्चन । ताभिर्विश्वाचिमुख्याभिः सहिता सा मृगेक्षणा । प्रययौ मानसस्याग्यं तटमुज्ज्वलभूरुहम् ॥ ३,१२.२५ ॥ यत्र क्रीडति दैत्येन्द्रो निजनारीभिरन्वितः । तत्र सा मृगशावाक्षी मूले चंपकशाखिनः । निवासमकरोद्रम्यं गायन्ती मधुरस्वरम् ॥ ३,१२.२६ ॥ अथागतस्तु दैत्येन्द्रो बलिभिर्भन्त्रिभिर्वृतः । श्रुत्वा तु वीणानिनदं ददर्श च वराङ्गनाम् ॥ ३,१२.२७ ॥ तां दृष्ट्वा चारुसर्वाङ्गीं विद्युल्लेखामिवापराम् । मायामये महागर्ते पतितो मदनाभिधे ॥ ३,१२.२८ ॥ अथास्य मन्त्रिणोऽभूवन्त्दृदये स्मरतापि ताः ॥ ३,१२.२९ ॥ तेन दैतेयनाथेन चिरं संप्रर्थिता सती । तैश्च संप्रर्थितास्ताश्च प्रतिशूश्रुवुरञ्जसा ॥ ३,१२.३० ॥ यास्त्वलभ्या महायज्ञैरश्वमेधादिकैरपि । ता लब्ध्वा मोहिनीमुख्या निर्वृतिं परमां ययुः ॥ ३,१२.३१ ॥ विसस्मरुस्तदा वेदांस्तथा देवमुमापतिम् । विजहुस्ते तथा यज्ञक्रियाश्चान्याः शुभावहाः ॥ ३,१२.३२ ॥ अवमानहतश्चासीत्तेषामपि पुरोहितः । मुहूर्त्तमिव तेषां तु ययावब्दायुतं तदा ॥ ३,१२.३३ ॥ मोहितेष्वथ दैत्येषु सर्वे देवाः सवासवाः । विमुक्तोपद्रवा ब्रह्मन्नामोदं परमं ययुः ॥ ३,१२.३४ ॥ कदाचिदथ देवेन्द्रं वीक्ष्य सिंहासने स्थितम् । सर्वदेवैः परिवृतं नारदो मुनिराययौ ॥ ३,१२.३५ ॥ प्रणम्य मुनिशार्दूलं ज्वलन्तमिव पावकम् । कृताञ्जलिपुटो भूत्वा देवेशो वाक्यमब्रवीत् ॥ ३,१२.३६ ॥ भगवन्सर्वधर्मज्ञ परापरविदां वर । तत्रैव गमनं ते स्याद्यं धन्यं कर्तुमिच्छसि ॥ ३,१२.३७ ॥ भविष्यच्छोभनाकारं तवागमनकारणम् । त्वद्वाक्यामृतमाकर्ण्य श्रवणानन्दनिर्भरम् । अशेषदुःखान्युत्तीर्य कृतार्थः स्यां मुनीश्वर ॥ ३,१२.३८ ॥ नारद उवाच अथ संमोहितो भण्डो दैत्येन्द्रो विष्णुमायया । तया विमुक्तो लोकांस्त्रीन्दहेताग्निरिवापरः ॥ ३,१२.३९ ॥ अधिकस्तव तेजोभिरस्त्रैर्मायाबलेन च । तस्य तेजोऽपहारस्तु कर्तव्योऽतिबलस्य तु ॥ ३,१२.४० ॥ विनाराधनतो देव्याः पराशक्तेस्तु वासव । अशक्योऽन्येन तपसा कल्पकोटिशतैरपि ॥ ३,१२.४१ ॥ पुरैवोदयतः शत्रोराराधयत बालिशाः । आराधिता भगवती सा वः श्रेयो विधास्यति ॥ ३,१२.४२ ॥ एवं संबोधितस्तेन शक्रो देवगणेश्वरः । तं मुनिं पूजयामास सर्वदेवैः समन्वितः । तपसे कृतसन्नाहो ययौ हैमवतं तटम् ॥ ३,१२.४३ ॥ तत्र भागीरथीतीरे सर्वर्तुकुसुमोज्ज्वले । पराशक्तेर्महापूजां चक्रेऽखिलसुरैः समम् । इन्द्रप्रस्थमभून्नाम्रा तदाद्यखिलसिद्धिदम् ॥ ३,१२.४४ ॥ ब्रह्मात्मजोपदिष्टेन कुर्वतां विधिना पराम् । देव्यास्तु महतीं पूजां जपध्यानरतात्मनाम् ॥ ३,१२.४५ ॥ उग्रे तपसि संस्थानामनन्या र्पितचेतसाम् । दशवर्षसहस्राणि दशाहानि च संययुः ॥ ३,१२.४६ ॥ मोहितानथ तान्दृष्ट्वा भृगुपुत्रो महामतिः । भण्डासुरं समभ्येत्य निजगाद पुरोहितः ॥ ३,१२.४७ ॥ त्वामेवाश्रित्य राचैन्द्र सदा दानवसत्तमाः । निर्भयास्त्रिषु लोकेषु चरन्तीच्छविहारिणः ॥ ३,१२.४८ ॥ जातिमात्रं हि भवतो हन्ति सर्वान्सदा हरिः । तेनैव निर्मिता माया यया संमोहितो भवान् ॥ ३,१२.४९ ॥ भवन्तं मोहितं दृष्ट्वा रन्ध्रान्वेषण तत्परः । भवतां विजयार्थाय करोतीन्द्रो महत्तपः ॥ ३,१२.५० ॥ यदि तुष्टा जगद्धात्री तस्यैव विजयो भवेत् । इमां मायामयीं त्यक्त्वा मन्त्रिभिः सहितो भवान् । गत्वा हैमवतं शैलं परेषां विघ्नमाचर ॥ ३,१२.५१ ॥ एवमुक्तस्तु गुरुणा हित्वा पर्यङ्कमुत्तमम् । मन्त्रिवृद्धानु पाहूय यथावृत्तान्तमाह सः ॥ ३,१२.५२ ॥ तच्छ्रुत्वा नृपतिं प्राह श्रुतवर्मा विमृश्य च । षष्टिवर्षसहस्राणां राज्यं तव शिवार्पितम् ॥ ३,१२.५३ ॥ तस्मादप्यधिकं वीर गतमासीदनेकशः । अशक्यप्रतिकार्योऽयं यः कालशिवचोदितः ॥ ३,१२.५४ ॥ अशक्यप्रतिकार्योऽयं तदभ्यर्चनतो विना । काले तु भोगः कर्त्तव्यो दुःखस्य च सुखस्य वा ॥ ३,१२.५५ ॥ अथाह भीमकर्माख्यो नोपेक्ष्योऽरिर्यथाबलम् । क्रियाविघ्ने कृतेऽस्माभिर्विजयस्ते भविष्यति ॥ ३,१२.५६ ॥ तव युद्धे महाराज परार्थं बलहारिणी । दत्ता विद्या शिवेनैव तस्मात्ते विजयः सदा ॥ ३,१२.५७ ॥ अनुमेने च तद्वाक्यं भण्डो दानवनायकः । निर्गत्य सहसेनाभिर्ययौ हैमवतं तटम् ॥ ३,१२.५८ ॥ तपोविघ्नकरान्दृष्ट्वा दानवाञ्जगदंबिका । अलङ्घ्यमकरोदग्रे महाप्राकारमुज्ज्वलम् ॥ ३,१२.५९ ॥ तं दृष्ट्वा दानवेन्द्रोऽपि किमेतदिति विस्मितः । संक्रुद्धो दानवास्त्रेण बभञ्जातिबलेन तु ॥ ३,१२.६० ॥ पुनरेव तदग्रेऽभूदलङ्घ्यः सर्वदानवैः । वायव्यास्त्रेण तं धीरो बभञ्ज च ननाद च ॥ ३,१२.६१ ॥ पौनः पुन्येन तद्भस्म प्राभूत्पुनरुपस्थितम् । एतद्दृष्ट्वा तु दैत्येन्द्रो विषण्मः स्वपुरं ययौ ॥ ३,१२.६२ ॥ तां च दृष्ट्वा जगद्धात्रीं दृष्ट्वा प्राकारमुज्ज्वलम् । भयाद्विव्यथिरे देवा विमुक्तसकलक्रियाः ॥ ३,१२.६३ ॥ तानुवाच ततः शक्रो दैत्येन्द्रोऽयमिहागतः । अशक्यः समरे योद्धुमस्माभिरखिलैरपि ॥ ३,१२.६४ ॥ पलायितानामपि नो गतिरन्या न कुत्रचित् । कुण्डं योजनविस्तारं सम्यक्कृत्वा तु शोभनम् ॥ ३,१२.६५ ॥ महायागविधानेन प्रणिधाय हुताशनम् । यजामः परमां शाक्तिं महामासैर्वयं सुराः ॥ ३,१२.६६ ॥ ब्रह्मभूता भविष्यामो भोक्ष्यामो वा त्रिविष्टपम् । एवमुक्तास्तु ते सर्वेदेवाः सेन्द्रपुरोगमाः ॥ ३,१२.६७ ॥ विधिवज्जुहुवुर्मांसान्युत्कृत्योत्कृत्य मन्त्रतः । हुतेषु सर्वमांसेषु पादेषु च करेषु च ॥ ३,१२.६८ ॥ होतुमिच्छत्सु देवेषु कलेवरमशेषतः । प्रादुर्बभूव परमन्तेजः पुञ्जो ह्यनुत्तमः ॥ ३,१२.६९ ॥ तन्मध्यतः समुदभूच्चक्राकारमनुत्तमम् । तन्मध्ये तु महादेवीमुदयार्कसमप्रभाम् ॥ ३,१२.७० ॥ जगदुज्जीवनकरीं ब्रह्मविष्णुशिवात्मिकाम् । सौन्दर्यसारसीमां तामानन्दरससागराम् ॥ ३,१२.७१ ॥ जपाकुसुमसंकाशां दाडिमीकुसुमांबराम् । सर्वाभरणसंयुक्तां शृङ्गारैकरसालयाम् ॥ ३,१२.७२ ॥ कृपातरङ्गितापाङ्गनयनालोककौमुदीम् । पाशाङ्कुशेक्षुकोदण्डपञ्चबाणलसत्कराम् ॥ ३,१२.७३ ॥ तां विलोक्य महादेवीं देवाः सर्वे सवासवाः । प्रणेमुर्मुदितात्मानो भूयोभूयोऽखिलात्मिकम् ॥ ३,१२.७४ ॥ तया विलोकिताः सद्यस्ते सर्वे विगतज्वराः । संपूर्णाङ्गा दृढतरा वज्रदेहा महाबलाः । तुष्टुवुश्च महादेवीमंबिकामखिलार्थदाम् ॥ ३,१२.७५ ॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने ललिताप्रादुर्भावो नाम द्वादशोऽध्यायः _____________________________________________________________ देवा ऊचुः जय देवि जगन्मातर्जय देवि परात्परे । जय कल्याणनिलये जय कामकलात्मिके ॥ ३,१३.१ ॥ जयकारि च वामाक्षि जय कामाक्षि सुन्दरि । जयाखिलसुराराध्ये जय कामेशि मानदे ॥ ३,१३.२ ॥ जय ब्रह्ममये देवि ब्रह्मात्मकरसात्मिके । जय नारायणि परे नन्दिताशेषविष्टपे ॥ ३,१३.३ ॥ जय श्रीकण्ठदयिते जय श्रीललितेंबिके । जय श्रीविजये देवि विजय श्रीसमृद्धिदे ॥ ३,१३.४ ॥ जातस्य जायमानस्य इष्टापूर्तस्य हेतवे । नमस्तस्यै त्रिजगतां पालयित्र्यै परात्परे ॥ ३,१३.५ ॥ कलामुहूर्तकाष्ठाहर्मासर्तुशरदात्मने । नमः सहस्रशीर्षायै सहस्रमुखलोचने ॥ ३,१३.६ ॥ नमः सहस्रहस्ताब्जपादपङ्कजशोभिते । अणोरणुतरे देवि महतोऽपि महीयसि ॥ ३,१३.७ ॥ परात्परतरे मातस्तेजस्तेजीयसामपि । अतलं तु भवेत्पादौ वितलं जानुनी तव ॥ ३,१३.८ ॥ रसातलं कटीदेशः कुक्षिस्ते धरणी भवेत् । हृदयं तु भुवर्लोकः स्वस्ते मुखमुदाहृतम् ॥ ३,१३.९ ॥ दृशश्चन्द्रार्कदहना दिशस्ते बाहवोंबिके । मरुतस्तु तवोच्छ्वासा वाचस्ते श्रुतयोऽखिलाः ॥ ३,१३.१० ॥ क्रीडा ते लोकरचना सखा ते चिन्मयः शिवः । आहारस्ते सदानन्दो वासस्ते हृदये सताम् ॥ ३,१३.११ ॥ दृश्यादृश्य स्वरूपाणि रूपाणि भुवनानि ते । शिरोरुहा घनास्ते तु तारकाः कुसुमानि ते ॥ ३,१३.१२ ॥ धर्माद्या बाहवस्ते स्युरधर्माद्यायुधानि ते । यमाश्च नियमाश्चैव करपादरुहास्तथा ॥ ३,१३.१३ ॥ स्तनौ स्वाहास्वधाकरौ लोकोज्जीवनकारकौ । प्राणायामस्तु ते नासा रसना ते सरस्वती ॥ ३,१३.१४ ॥ प्रत्याहारस्त्विद्रिंयाणि ध्यानं ते धीस्तु सत्तमा । मनस्ते धारणाशक्तिर्हृदयं ते समाधिकः ॥ ३,१३.१५ ॥ महीरुहास्तेङ्गरुहाः प्रभातं वसनं तव । भूतं भव्यं भविष्यच्च नित्यं च तव विग्रहः ॥ ३,१३.१६ ॥ यज्ञरूपा जगद्धात्री विश्वरूपा च पावनी । आदौ या तु दयाभूता ससर्ज निखिलाः प्रजाः ॥ ३,१३.१७ ॥ हृदयस्थापि लोकानामदृश्या मोहनात्मिका ॥ ३,१३.१८ ॥ नामरूपविभागं च या करोति स्वलीलया । तान्यधिष्ठाय तिष्ठन्ती तेष्वसक्तार्थकामदा । नमस्तस्यै महादेव्यै सर्वशक्त्यै नमोनमः ॥ ३,१३.१९ ॥ यदाज्ञया प्रवर्तन्ते वह्निसूर्यैदुमारुताः । पृथिव्यादीनि भूतानि तस्यै देव्यै नमोनमः ॥ ३,१३.२० ॥ या ससर्जादिधातारं सर्गादावादिभूरिदम् । दधार स्वयमेवैका तस्यै देव्यै नमोनमः ॥ ३,१३.२१ ॥ यथा धृता तु धरिणी ययाकाशममेयया । यस्यामुदेति सविता तस्यै देव्यै नमोनमः ॥ ३,१३.२२ ॥ यत्रोदेति जगत्कृत्स्नं यत्र तिष्ठति निर्भरम् । यत्रान्तमेति काले तु तस्यै देव्यै नमोनमः ॥ ३,१३.२३ ॥ नमोनमस्ते रजसे भवायै नमोनमः सात्त्विकसंस्थितायै । नमोनमस्ते तमसे हरायै नमोनमो निर्गुणतः शिवायै ॥ ३,१३.२४ ॥ नमोनमस्ते जगदेकमात्रे नमोनमस्ते जगदेकपित्रे । नमोनमस्तेऽखिलरूपतन्त्रे नमोनमस्तेऽखिलयन्त्ररूपे ॥ ३,१३.२५ ॥ नमोनमो लोकगुरुप्रधाने नमोनमस्तेऽखिलवाग्विभूत्यै । नमोऽस्तु लक्ष्म्यै जगदेकतुष्ट्यै नमोनमः शांभवि सर्वशक्त्यै ॥ ३,१३.२६ ॥ अनादिमध्यान्तमपाञ्चभौतिकं ह्यवाङ्मनोगम्यमतर्क्यवैभवम् । अरूपमद्वन्द्वमदृष्टगोचरं प्रभावमग्र्यं कथमंब वर्णये ॥ ३,१३.२७ ॥ प्रसीद विश्वेश्वरि विश्ववन्दिते प्रसीद विद्येश्वरि वेदरूपिणि । प्रसीद मायामयि मन्त्राविग्रहे प्रसीद सर्वेश्वरि सर्वरूपिणि ॥ ३,१३.२८ ॥ इति स्तत्वा महादेवीं देवाः सर्वे सवासवाः । भूयोभूयो नमस्कृत्य शरणं जगमुरञ्जसा ॥ ३,१३.२९ ॥ ततः प्रसन्ना सा देवी प्रणतं वीक्ष्य वासवम् । वरेण च्छन्दयामास वरदाखिलदेहिनाम् ॥ ३,१३.३० ॥ इन्द्र उवाच यदि तुष्टासि कर्याणि वरं दैत्येन्द्र पीडितः । दुर्धरं जीवितं देहि त्वां गताः शरणार्थिनः ॥ ३,१३.३१ ॥ श्रीदेव्युवाच अहमेव विनिर्जित्य भण्डं दैत्यकुलोद्भवम् । अचिरात्तव दास्यामि त्रैलोक्यं सचराचरम् ॥ ३,१३.३२ ॥ निर्भया मुदिताः सन्तु सर्वे देवगणास्तथा । ये स्तोष्यन्ति च मां भक्त्या स्तवेनानेन मानवाः ॥ ३,१३.३३ ॥ भाजनं ते भविष्यन्ति धर्मश्रीयशसां सदा । विद्याविनयसंपन्ना नीरोगा दीर्घजीविनः ॥ ३,१३.३४ ॥ पुत्रमित्रकल त्राढ्या भवन्तु मदनुग्रहात् । इति लब्धवरा देवा देवेन्द्रोऽपि महाबलः ॥ ३,१३.३५ ॥ आमोदं परमं जग्मुस्तां विलोक्य मुहुर्मुहुः ॥ ३,१३.३६ ॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने ललितास्तवराजो नाम त्रयोदशोऽध्यायः _____________________________________________________________ हयग्रीव उवाच एतस्मिन्नेव काले तु ब्रह्मा लोकपितामहः । आजगामाथ देवेशीं द्रष्टुकामो महर्षिभिः ॥ ३,१४.१ ॥ आजगाम ततो विष्णुरारूढो विनतासुतम् । शिवोऽपि वृषमारूढः समायातोऽखिलेश्वरीम् ॥ ३,१४.२ ॥ देवर्षयो नारदाद्याः समाजग्मुर्महेश्वरीम् । आययुस्तां महादेवीं सर्वे चाप्सरसां गणाः ॥ ३,१४.३ ॥ विश्वावसुप्रभृतयो गन्धर्वाश्चैव यक्षकाः । ब्रह्मणाथ समादिष्टो विश्वकर्मा विशांपतिः ॥ ३,१४.४ ॥ चकार नगरं दिव्यं यथामरपुरं तथा । ततो भगवती दुर्गा सर्वमन्त्राधिदेवता ॥ ३,१४.५ ॥ विद्याधिदेवता श्यामा समाजग्मतुरंबिकाम् । ब्राहयाद्या मातरश्चैव स्वस्वभूतगणावृताः ॥ ३,१४.६ ॥ सिद्धयो ह्यणिमाद्याश्च योगिन्यश्चैव कोटिशः । भैरवाः क्षेत्रपालाश्च महाशास्ता गणाग्रणीः ॥ ३,१४.७ ॥ महागणेश्वरः स्कन्दो बटुको वीरभद्रकः । आगत्य ते महादेवीं तुष्टुवुः प्रणतास्तदा ॥ ३,१४.८ ॥ तत्राथ नगरीं रम्यां साट्टप्राकारतोरणाम् । गजाश्वरथशालाढ्यां राजवीथिविराजिताम् ॥ ३,१४.९ ॥ सामन्तानाममात्यानां सैनिकानां द्विजन्म नाम् । वेतालदासदासीनां गृहाणि रुचिराणि च ॥ ३,१४.१० ॥ मध्यं राजगृहं दिव्यं द्वारगोपुरभूषितम् । शालाभिर्बहुभिर्युक्तं सभा भिरुषशोभितम् ॥ ३,१४.११ ॥ सिंहासनसभां चैव नवरत्नमयीं शुभाम् । मध्ये सिंहासनं दिव्यं चिन्तामणिवीनिर्मितम् ॥ ३,१४.१२ ॥ स्वयं प्रकाशमद्वन्द्वमुदयादित्यसंनिभम् । विलोक्य चिन्तयामास ब्रह्मा लोकपितामहः ॥ ३,१४.१३ ॥ यस्त्वेतत्समधिष्ठाय वर्तते बालिशोऽपिवा । पुरस्यास्य प्रभावेण सर्वलोकाधिको भवेत् ॥ ३,१४.१४ ॥ न केवला स्त्री राज्यार्हा पुरुषोऽपि तया विना । मङ्गलाचार्यसंयुक्तं महापुरुषलक्षणम् । अनुकूलाङ्गनायुक्तमभिषिञ्चेदिति श्रुतिः ॥ ३,१४.१५ ॥ विभातीयं वरारोहा भूर्ता शृङ्गारदेवता । वरोऽस्यास्त्रिषु लोकेषु न चान्यः शङ्करादृते ॥ ३,१४.१६ ॥ जडिलो मुण्डधारी च विरूपाक्षः कपालभृत् । कल्माषी भस्मदिग्धाङ्गः श्मशानास्थिविभूषणः ॥ ३,१४.१७ ॥ अमङ्गलास्पदं चैनं वरयेत्सा सुमङ्गला । इति चिन्तयमानस्य ब्रह्मणोऽग्रे महेश्वरः ॥ ३,१४.१८ ॥ कोटिकन्दर्पलावण्ययुक्तो दिव्य शरीरवान् । दिव्यांबरधरः स्रग्वी दिव्यगन्धानुलेपनः ॥ ३,१४.१९ ॥ किरीटहारकेयूरकुण्डलाद्यैरलङ्कृतः । प्रादुर्बभूव पुरतो जगन्मोहन रुपधृक् ॥ ३,१४.२० ॥ तं कुमारमथालिङ्ग्य ब्रह्मा लोकपितामहः । चक्रे कामेश्वरं नाम्ना कमनीयवपुर्धरम् ॥ ३,१४.२१ ॥ तस्यास्तु परमाशक्तेरनुरूपो वरस्त्वयम् । इति निश्चित्य तेनैव सहितास्तामथाययुः ॥ ३,१४.२२ ॥ अस्तुवंस्ते परां शक्तिं ब्रह्मविष्णुमहेश्वराः । तां दृष्ट्वा मृगशावाक्षीं कुमारो नीललोहितः । अभवन्मन्मथाविष्टो विस्मृत्य सकलाः क्रियाः ॥ ३,१४.२३ ॥ सापि तं वीक्ष्य तन्वङ्गो मूर्तिंमन्तमिव स्मरम् । मदनाविष्टसर्वाङ्गी स्वात्मरूपममन्यत । अन्योन्यालोकनासक्तौ तावृभौ मदनातुरौ ॥ ३,१४.२४ ॥ सर्वभावविशेषज्ञौ धृतिमन्तौ मनस्विनौ । परैरज्ञातचारित्रौ मुहूर्तास्वस्थचेतनौ ॥ ३,१४.२५ ॥ अथोवाच महादेवीं ब्रह्मा लोकैकनायिकाम् । इमे देवाश्च ऋषयो गन्धर्वाप्सरसां गणाः । त्वामीशां द्रष्टुमिच्छन्ति सप्रियां परमाहवे ॥ ३,१४.२६ ॥ को वानुरूपस्ते देवि प्रियो धन्यतमः पुमान् । लोकसंरक्षणार्थाय भजस्व पुरुषं परम् ॥ ३,१४.२७ ॥ राज्ञी भव पुरस्यास्य स्थिता भव वरासने । अभिषिक्तां महाभागैर्देवार्षे भिरकल्मषैः ॥ ३,१४.२८ ॥ साम्राज्यचिह्नसंयुक्तां सर्वाभरणसंयुताम् । सप्रियामासनगतां द्रष्टुमिच्छामहे वयम् ॥ ३,१४.२९ ॥ इति श्रीब्रह्माण्डे महापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने मदनकामेश्वरप्रादुर्भावो नाम चतुर्दशोऽध्यायः _____________________________________________________________ तच्छ्रुत्वा वचनं देवी मन्दस्मितमुखांबुजा । उवाच स ततो वाक्यं ब्रह्मविष्णुमुखान्सुरान् ॥ ३,१५.१ ॥ स्वतन्त्राहं सदा देवाः स्वेच्छाचारविहारिणी । ममानुरूपचरितो भविता तु मम प्रियः ॥ ३,१५.२ ॥ तथेति तत्प्रतिश्रुत्य सर्वेर्देवैः पितामहः । उवाच च महादेवीं धर्मार्थसहितं वचः ॥ ३,१५.३ ॥ कालक्रीता क्रयक्रीता पितृदत्ता स्वयंयुता । नारीपुरुषयोरेवमुद्वाहस्तु चतुर्विधः ॥ ३,१५.४ ॥ कालक्रीता तु वेश्या स्यात्क्रयक्रीता तु दासिका । गन्धर्वोद्वाहिता युक्ता भार्या स्यात्पितृदत्तका ॥ ३,१५.५ ॥ समानधर्मिणी युक्ता भार्या पितृवशंवदा । यदद्वैतं परं ब्रह्म सदसद्भाववर्जितम् ॥ ३,१५.६ ॥ चिदानन्दात्मकं तस्मात्प्रकृतिः समजायत । त्वमेवासीच्च तद्ब्रह्म प्रकृतिः सा त्वमेव हि ॥ ३,१५.७ ॥ त्वमेवानादिरखिला कार्यकारणरूपिणी । त्वामेव हि विचिन्वन्ति योगिनः सनकादयः ॥ ३,१५.८ ॥ सदसत्कर्मरूपां च व्यक्ताव्यक्तो दयात्मिकाम् । त्वामेव हि प्रशंसंति पञ्चब्रह्मस्वरूपिणीम् ॥ ३,१५.९ ॥ त्वामेव हि सृजस्यादौ त्वमेव ह्यवसि क्षणात् । भजस्व पुरुषं कञ्चिल्लोकानुग्रहकाम्यया ॥ ३,१५.१० ॥ इति विज्ञापिता देवी ब्रह्मणा सकलैः सुरैः । स्रजमुद्यम्य हस्तेन चक्षेप गगनान्तरे ॥ ३,१५.११ ॥ तयोत्सृष्टा हि सा माला शोभयन्ती नभस्थलम् । पपात कण्ठदेशे हि तदा कामेश्वरस्य तु ॥ ३,१५.१२ ॥ ततो मुमुदिरे देवा ब्रह्मविष्णुपुरोगमाः । ववृषुः पुष्पवर्षाणि मन्दवातेरिता घनाः ॥ ३,१५.१३ ॥ अथोवाच विधाता तु भगवन्तं जनार्दनम् । कर्तव्यो विधिनोद्वाहस्त्वनयोः शिवयोर्हरे ॥ ३,१५.१४ ॥ मुहुर्तो देवसम्प्राप्तो जगन्मङ्गलकारकः । त्वद्रूपा हि महादेवी सहजश्च भवानपि ॥ ३,१५.१५ ॥ दातुमर्हसि कल्याणीमस्मै कामशिवाय तु । तच्छ्रुत्वा वचनं तस्य देवदेवस्त्रिविक्रमः ॥ ३,१५.१६ ॥ ददौ तस्यै विधानेन प्रीत्या तां शङ्कराय तु । देवर्षिपितृमुख्यानां सर्वेषां देवयोगिनाम् ॥ ३,१५.१७ ॥ कल्याणं कारयामास शिवयोरादिकेशवः । उपायनानि प्रददुः सर्वे ब्रह्मादयः सुराः ॥ ३,१५.१८ ॥ ददौ ब्रह्मेक्षुचापं तु वज्रसारमनश्वरम् । तयोः पुष्पायुधं प्रादादम्लानं हरिरव्ययम् ॥ ३,१५.१९ ॥ नागपाशं ददौ ताभ्यां वरुणो यादसांपतिः । अङ्कुशं च ददौ ताभ्यां विश्वकर्मा विशांपतिः ॥ ३,१५.२० ॥ किरीटमग्निः प्रायच्छत्ताटङ्कौ चन्द्रभास्करौ । नवरत्नमयीं भूषां प्रादाद्रत्नाकरः स्वयम् ॥ ३,१५.२१ ॥ ददौ सुराणामधिपो मधुपात्रमथाक्षयम् । चिन्तामणिमयीं मालां कुबेरः प्रददौ तदा ॥ ३,१५.२२ ॥ साम्राज्यसूचकं छत्रं ददौ लक्ष्मीपतिः स्वयम् । गङ्गा च यमुना ताभ्यां चामरे चन्द्रभास्वरे ॥ ३,१५.२३ ॥ अष्टौ च वसवो रुद्रा आदित्याश्चाश्विनौ तथा । दिक्पाला मरुतः साध्या गन्धर्वाः प्रमथेश्वराः । स्वानिस्वान्यायुधान्यस्यै प्रददुः परितोषिताः ॥ ३,१५.२४ ॥ रथांश्च तुरगान्नागान्महावेगान्महाबलान् । उष्टानरोगानश्वांस्तान्क्षुत्तृष्णापरिवर्जितान् । ददुर्वज्रोपमाकारान्सायुधान्सपरिच्छदान् ॥ ३,१५.२५ ॥ अथाभिषेकमातेनुः साम्राज्ये शिवयोः शिवम् । अथाकरोद्विमानं च नाम्ना तु कुसुमाकरम् ॥ ३,१५.२६ ॥ विधाताम्लानमालं वै नित्यं चाभेद्यमायुधैः । दिवि भुव्यन्तरिक्षे च कामगं सुसमृद्धिमत् ॥ ३,१५.२७ ॥ यद्गन्धघ्राणमात्रेण भ्रान्तिरोगक्षुर्धातयः । तत्क्षणादेव नश्यन्ति मनोह्लादकरं शुभम् ॥ ३,१५.२८ ॥ तद्विमानमथारोप्य तावुभौ दिव्यदंपती । चामख्याजनच्छत्रध्वजयष्टिमनोहरम् ॥ ३,१५.२९ ॥ वीणावेणुमृदङ्गादिविविधैस्तौर्यवादनैः । सेव्यमाना सुरगणैर्निर्गत्य नृपमन्दिरात् ॥ ३,१५.३० ॥ ययौ वीथीं विहारेशा शोभयन्ती निजौजसा । प्रतिहर्म्याग्रसंस्थाभिरप्सरोभिः सहस्रशः ॥ ३,१५.३१ ॥ सलाजाक्षतहस्ताभिः पुरन्ध्रीभिश्च वर्षिता । गाथाभिर्मङ्गलार्थाभिर्वीणावेण्वादिनिस्वनैः । तुष्यन्ती वीवीथिवीथीषु मन्दमन्दमथाययौ ॥ ३,१५.३२ ॥ प्रतिगृह्याप्स रोभिस्तु कृतं नीराजनाविधिम् । अवरुह्य विमानग्रात्प्रविवेश महासभाम् ॥ ३,१५.३३ ॥ सिंहासनमधिष्ठाय सह देवेन शंभुना । यद्यद्वाञ्छन्ति तत्रस्था मनसैव महाजनाः । सर्वज्ञा साक्षिपातेन तत्तत्कामानपूरयत् ॥ ३,१५.३४ ॥ तद्दृष्ट्वा चरितं देव्या ब्रह्मा लोक पितामहः । कामाक्षीति तदाभिख्यां ददौ कामेश्वरीति च ॥ ३,१५.३५ ॥ ववर्षाश्चर्यमेघोऽपि पुरे तस्मिंस्तदाज्ञया । महार्हाणि च वस्तूनि दिव्यान्याभरणानि च ॥ ३,१५.३६ ॥ चिन्तामणिः कल्पवृक्षः कमला कामधेनवः । प्रतिवेश्म ततस्तस्थुः पुरो देव्याजयाय ते ॥ ३,१५.३७ ॥ तां सेवैकरसाकारां विमुक्तान्यक्रियागुणाः । सर्वकामार्थसंयुक्ता हृष्यन्तः सार्वकालिकम् ॥ ३,१५.३८ ॥ पितामहो हरिश्चैव महादेवश्च वासवः । अन्ये दिशामधीशास्तु सकला देवतागणाः ॥ ३,१५.३९ ॥ देवर्षयो नारदाद्याः सनकाद्याश्च योगिनः । महर्षयश्च मन्वाद्या वशिष्ठाद्यास्तपोधनाः ॥ ३,१५.४० ॥ गन्धर्वाप्सरसो यक्षा याश्चान्या देवजातयः । दिवि भूम्यन्तरिक्षेषु ससंबाधं वसंति ये ॥ ३,१५.४१ ॥ ते सर्वे चाप्यसंबाधं निवसंति स्म तत्पुरे ॥ ३,१५.४२ ॥ एवं तद्वत्सला देवी नान्यत्रैत्यखिलाज्जनात् । तोषयामास सततमनुरागेण भूयसा ॥ ३,१५.४३ ॥ राज्ञो महति भूर्लोके विदुषः सकलेप्सिताम् । राज्ञी दुदोहाभीष्टानि सर्वभूतलवासिनाम् ॥ ३,१५.४४ ॥ त्रिलोकैकमहीपाले सांबिके कामशङ्करे । दशवर्षसहस्राणि ययुः क्षण इवापरः ॥ ३,१५.४५ ॥ ततः कदा चिदागत्य नारदो भगवानृषिः । प्रणम्य परमां शक्तिं प्रोवाच विनयान्वितः ॥ ३,१५.४६ ॥ पर ब्रह्म परं धाम पवित्रं परमैश्वरि । मदसद्भावसंकल्पविकल्पकलनात्मिका ॥ ३,१५.४७ ॥ जगदभ्युदयार्थाय व्यक्तभावमुपागता । असज्जनविनाशार्था सज्जनाभ्युदयार्थिनी । प्रवृत्तिस्तव कल्याणि साधूनां रक्षणाय हि ॥ ३,१५.४८ ॥ अयं भण्डोऽसुरो देवि बाधते जगतां त्रयम् । त्वयैकयैव जेतव्यो न शक्यस्त्वपरैः सुरैः ॥ ३,१५.४९ ॥ त्वत्सेवैकपरा देवाश्चिरकालमिहोषिताः । त्वदाज्ञया गमिष्यन्ति स्वानिस्वानि पुराणि तु ॥ ३,१५.५० ॥ अमङ्गलानि शून्यानि समृद्धार्थानि संत्वतः । एवं विज्ञापिता देवी नारदेनाखिलेश्वरी । स्वस्ववासनिवासाय प्रेषयामास चामरान् ॥ ३,१५.५१ ॥ ब्रह्माणं च हरिं शंभुं वासवादीन्दिशां पतीन् । यथार्हं पूजयित्वा तु प्रेषयामास चांबिका ॥ ३,१५.५२ ॥ अपराधं ततस्त्यक्तुमपि संप्रेषिताः सुराः । स्वस्वांशैः शिवयोः सेवामादिपित्रोरकुर्वत ॥ ३,१५.५३ ॥ एतदाख्यानमायुष्यं सर्वमङ्गलकारणम् । आविर्भावं महादेव्यास्तस्या राज्याभिषेचनम् ॥ ३,१५.५४ ॥ यः प्रातरुत्थितो विद्वान्भक्तिश्रद्धासमन्वितः । जपेद्धनसमृद्धः स्यात्सुधासंमितवाग्भवेत् ॥ ३,१५.५५ ॥ नाशुभं विद्यते तस्य परत्रेह च धीमतः । यशः प्राप्नोति विपुलं समानोत्तमतामपि ॥ ३,१५.५६ ॥ अचला श्रीर्भवेतस्य श्रेयश्चैव पदेपदे । कदाचिन्न भयं तस्य तेजस्वी वीर्यवान्भवेत् ॥ ३,१५.५७ ॥ तापत्रयविहीनश्च पुरुषार्थैश्च पूर्यते । त्रिसंध्यं यो जपेन्नित्यं ध्यात्वा सिंहासनेश्वरीम् ॥ ३,१५.५८ ॥ षण्मासान्महतीं लक्ष्मीं प्राप्नुयाज्जापकोत्तमः ॥ ३,१५.५९ ॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने वैवाहिकोत्सवो नाम पञ्चदशोऽध्यायः _____________________________________________________________ अथ सा जगतां माता ललिता परमेश्वरी । त्रैलोक्यकण्टकं भण्डं दैत्यं जेतुं विनिर्ययौ ॥ ३,१६.१ ॥ चकार मर्दलाकारानंभोराशींस्तु सप्त ते । प्रभूतमर्द्दलध्वानैः पूरयामासुरंबरम् ॥ ३,१६.२ ॥ मृदङ्गमुरजाश्चैव पटहोऽतुकुलीङ्गणाः । सेलुकाझल्लरीराङ्घाहुहुकाहुण्डुकाघटाः ॥ ३,१६.३ ॥ आनकाः पणवाश्चैव गोमुखाश्चार्धचन्द्रिकाः । यवमध्या मुष्टिमध्या मर्द्दलाडिण्डिमा अपि ॥ ३,१६.४ ॥ झर्झराश्च बरीताश्च इङ्ग्यालिङ्ग्यप्रभेदजाः । उद्धकाश्चैतुहुण्डाश्च निःसाणा बर्बराः परे ॥ ३,१६.५ ॥ हुङ्कारा काकतुण्डाश्च वाद्यभेदास्तथापरे । दध्वनुः शक्तिसेनाभिराहताः समरोद्यमे ॥ ३,१६.६ ॥ ललितापरमेशान्या अङ्कुशास्त्रान्समुद्गता । संपत्करी नाम देवी चचाल सह शक्तिभिः ॥ ३,१६.७ ॥ अनेककोटिमातङ्गतुरङ्गरथपङ्क्तिभिः । सेविता तरुणादित्यपाटला संपदीश्वरी ॥ ३,१६.८ ॥ मत्तमुद्दण्डसंग्रामरसिकं शैलसन्निभम् । रणकोलाहलं नाम सारुरोह मतङ्गजम् ॥ ३,१६.९ ॥ तामन्वगा ययौ सेना महती धोरराविणी । लोलाभिः केतुमालाभिरुल्लिखन्ती धनाधनात् ॥ ३,१६.१० ॥ तस्याश्च संपन्नाथायाः पीनस्तनसुसंकटः । कण्टको घनसंनाहो रुरुचे वक्षसिस्थितः ॥ ३,१६.११ ॥ कंपमाना खड्गलता व्यरुचत्तत्करे धृता । कुटिला कालनाथस्य भृकुटीव भयङ्करा ॥ ३,१६.१२ ॥ उत्पातवातसंपाताच्चलिता इव पर्वताः । तामन्वगा ययुः कोटिसंख्याकाः कुञ्जरोत्तमाः ॥ ३,१६.१३ ॥ अथ श्रीललितादेव्या श्रीपाशायुधसंभवा । अतित्वरितविक्रान्तिरश्वारूढाचलत्पुरः ॥ ३,१६.१४ ॥ तया सह हयप्रायं सैन्यं हेषातरङ्गितम् । व्यचरत्खुरकुद्दालविदारितमहीतलम् ॥ ३,१६.१५ ॥ वनायुजाश्च कांबोजाः पारदाः सिंधुदेशजाः । टङ्कणाः पर्वतीयाश्च पारसीकास्तथा परे ॥ ३,१६.१६ ॥ अजानेया घट्टधरा दरदाः काल वन्दिजाः । वाल्मीकयावनोद्भूता गान्धर्वाश्चाथ ये हयाः ॥ ३,१६.१७ ॥ प्राग्देशजाताः कैराता प्रान्तदेशोद्भवास्तथा । विनीताः साधुवोढारो वेगिनः स्थिरचेतसः ॥ ३,१६.१८ ॥ स्वामिचित्तविशेषज्ञा महायुद्धसहिष्णवः । लक्षणैर्बहुभिर्युक्ता जितक्रोधा जितश्रमाः ॥ ३,१६.१९ ॥ पञ्चधारासु शक्षढ्या विनीताश्च प्लवान्विताः ॥ ३,१६.२० ॥ फलशुक्तिश्रिया युक्ताः श्वेतशुक्तिसमन्विताः । देवपद्मं देवमणिं देवस्वस्तिकमेव च ॥ ३,१६.२१ ॥ अथ स्वस्तिकशुक्तिश्च गडुरं पुष्पगण्डिकाम् । एतानि शुभलक्ष्माणि ज्यराज्यप्रदानि च । वहन्तो वातजवना वाजिनस्तां समन्वयुः ॥ ३,१६.२२ ॥ अपराजितनामानमतितेजस्विनं चलम् । अत्यन्तोत्तुङ्गवर्ष्माणं कविकाविलसन्मुखम् ॥ ३,१६.२३ ॥ पार्श्वद्वयेऽपि पतितस्फुरत्केसरमण्डलम् । स्थूलवालधिविक्षेपक्षिप्यमाणपयोधरम् ॥ ३,१६.२४ ॥ जङ्घाकाण्डसमुन्नद्धमणिकिङ्किणिभासुरम् । वादयन्तमिवोच्चण्डैः खुरनिष्ठुरकुट्टनैः ॥ ३,१६.२५ ॥ भूमण्डलमहावाद्यं विजयस्य समृद्धये । घोषमाणं प्रति मुहुः संदर्शितगतिक्रमम् ॥ ३,१६.२६ ॥ आलोलचामरव्याजाद्वहन्तं पक्षती इव । भाण्डैर्मनोहरैर्युक्तं घर्घरीजालमण्डितम् ॥ ३,१६.२७ ॥ एषां घोषस्य कपटाद्धुङ्कुर्वतीमि वासुरान् । अश्वारूढा महादेवी समारूढा हयं ययौ ॥ ३,१६.२८ ॥ चतुर्भिर्वाहुभिः पाशमङ्कुशं वेत्रमेव च । हयवल्गां च दधती बहुविक्रमशोभिनी ॥ ३,१६.२९ ॥ तरुणादित्यसङ्काशा ज्वलत्काञ्चीतरङ्गिणी । सञ्चचाल हयारूढा नर्तयन्तीव वाजिनम् ॥ ३,१६.३० ॥ अथ श्रीदण्डनाथाया निर्याणपटहध्वनिः । उद्दण्डसिन्धुनिस्वानश्चकार बधिरं जगत् ॥ ३,१६.३१ ॥ वज्रबाणैः कठोरैश्चभिन्दन्त्यः ककुभो दश । अन्युद्धतभुजाश्मानः शक्तयः काश्चिदुच्छ्रिताः ॥ ३,१६.३२ ॥ काश्चिच्छ्रीदण्डनाथायाः सेनानासीरसङ्गताः । खड्गं फलकमादाय पुप्लुवुश्चण्डसक्तयः ॥ ३,१६.३३ ॥ अत्यन्तसैन्यसम्बाधं वेत्रसंताडनैः शतैः । निवारयन्त्यो वेत्रिण्यो व्युच्छलन्ति स्मशक्तयः ॥ ३,१६.३४ ॥ अथ तुङ्गध्वजश्रेणीर्महिषाङ्का मृगाङ्किकाम् । सिहाङ्काश्चैव बिभ्राणाः शक्तयो व्यचलन्पुरा ॥ ३,१६.३५ ॥ ततः श्रीदण्डनाथायाः श्वेतच्छत्रं सहस्रशः । स्फुरत्कराः प्रचलिताः शक्तयः काश्चिदाददुः ॥ ३,१६.३६ ॥ इति श्रीब्रह्माण्डे महापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने ससेनविजययात्रा नाम षोडशोऽध्यायः _____________________________________________________________ दण्डनाथाविनिर्याणे संख्यातीतैः सितप्रभैः । छत्रैर्गगनमारेजे निःसंख्याशशिमण्डितम् ॥ ३,१७.१ ॥ अन्योन्यसक्तैर्थवलच्छत्रैरन्तर्घनीभवत् । तिमिरं नुनुदे भूयस्तत्काण्डमणिरोचिषा ॥ ३,१७.२ ॥ वज्रप्रभाधगधगच्छायापूरितदिङ्मुखाः । तालवृन्ताः शतविधाः क्रोडमुख्या बलेऽचलन् ॥ ३,१७.३ ॥ चण्डो दण्डादयस्तीव्राभैरवाः शुलपाणयः । ज्वलत्केशापिशङ्गाभास्तडिद्भासुरदिङ्मुखाः ॥ ३,१७.४ ॥ दहत्य इव दैत्यौघांस्तीक्ष्णैर्मार्गणवह्निभिः । प्रचेलुर्दण्डनाथायास्सेना नासीरधाविताः ॥ ३,१७.५ ॥ अथ पोत्रीमुखीदेवीसमानाकृतिभूषणाः । तत्समानायुधकरास्तत्समानस्ववाहनाः ॥ ३,१७.६ ॥ तीक्ष्मदंष्ट३ इनिष्ठ्यूतवह्रिधूमामितांबराः । तमालश्यामलाकाराः कपिलाः क्रूरलोचनाः ॥ ३,१७.७ ॥ सहस्रमहिषारूढाः प्रचेलुः सूकराननाः । अथ श्रीदण्डनाथा च करिचक्ररथोत्तमात् ॥ ३,१७.८ ॥ अवरुह्य महासिंहमारुरोह स्ववाहनम् । वज्रघोष इति ख्यातं धूतकेसरमण्डलम् ॥ ३,१७.९ ॥ व्यक्तास्यं विकटाकारं विशङ्कटविलोचनम् । दंष्ट्राकटकटत्कारबधिरीकृतदिक्तटम् ॥ ३,१७.१० ॥ आदिकूर्मकठोरास्थि खर्परप्रतिमैर्नखैः । विबन्तमिव भूचक्रमापातालं निमज्जिभिः ॥ ३,१७.११ ॥ योजनत्रयमुत्तुङ्गं वगादुद्धूतवालधिम् । सिंहवाहनमारुह्य व्यचलद्दण्डनायिका ॥ ३,१७.१२ ॥ तस्यामसुरसंहारे प्रवृत्तायां ज्वलत्क्रुधि । उद्वेगं बहुलं प्राप त्रैलोक्यं सचराचरम् ॥ ३,१७.१३ ॥ किमसौ धक्ष्यति रुषा विश्वमद्यैव पोत्रिणी । किं वा मुसलघातेन भूमिं द्वेधा करिष्यति ॥ ३,१७.१४ ॥ अथ वा हलनिर्घातैः क्षोभयिष्यति वारिधीन् । इति त्रस्तहृदः सर्वे गगने नाकिनां गणाः ॥ ३,१७.१५ ॥ दूराद्रुतं विमानैश्च सत्रासं ददृशुर्गताः । ववन्दिरे च ता देवा बद्धाञ्जलिपुटान्विताः । मुहुर्द्वादशनामानि कीर्तयन्तो नभस्तले ॥ ३,१७.१६ ॥ अगस्त्य उवाच कानि द्वादशनामानि तस्या देव्या वद प्रभो । अश्वानन महाप्राज्ञ येषु मे कौतुकं महत् ॥ ३,१७.१७ ॥ हयग्रीव उवाच शृणु द्वादशनामानि तस्या देव्या घटोद्भव । यदाकर्णनमात्रेण प्रसन्ना सा भविष्यति । पञ्चमी दण्डनाथा च संकेता समयेश्वरी ॥ ३,१७.१८ ॥ तथा समयसंकेता वाराही पोत्रिणी तथा । वार्ताली च महासेनाप्याज्ञा चक्रेश्वरी तथा ॥ ३,१७.१९ ॥ अरिघ्नी चेति सम्प्रोक्तं नामद्वादशकं मुने । नामद्वादशकाभिख्यवज्रपञ्जरमध्यगः । संकटे दुःखमाप्नोति न कदाचन मानवः ॥ ३,१७.२० ॥ एतैर्नामभिरभ्रस्थाः संकेतां बहु तुष्टुवुः । तेषामनुग्रहार्थाय प्रचचालच सा पुनः ॥ ३,१७.२१ ॥ अथ संकेतयोगिन्या मन्त्रनाथा पदस्पृशः । निर्याणसूचनकरी दिवि दध्वान काहली ॥ ३,१७.२२ ॥ शृङ्गारप्रायभूषाणां शार्दूलश्यामलत्विषाम् । वीणासंयतपाणीनां शक्तीनां निर्ययौ बलम् ॥ ३,१७.२३ ॥ काश्चद्गायन्ति नृत्यन्ति मत्तकोकिलनिःस्वनाः । वीणावेणुमृदङ्गाद्याः सविलासपदक्रमाः ॥ ३,१७.२४ ॥ प्रचेलुः शक्तयः श्यामा हर्षयन्त्यो जगज्जनान् । मयूरवाहनाः काश्चित्कतिचिद्धंसवाहनाः ॥ ३,१७.२५ ॥ कतिचिन्नकुलारूढाः कतिचित्कोकिलासनाः । सर्वाश्च श्यामलाकाराः काश्चित्कर्णीरथस्थिताः ॥ ३,१७.२६ ॥ कादंबमधुमत्ताश्च काश्चिदारूढसैन्धवाः । मन्त्रनाथां पुरस्कृत्य संप्रचेलुः पुरः पुरः ॥ ३,१७.२७ ॥ अथारुह्य समुत्तुङ्गध्वजचक्रं महारथम् । बालार्कवर्णकवचा मदालोलविलोचना ॥ ३,१७.२८ ॥ ईषत्प्रस्वेदकणिकामनोहरमुखांबुजा । प्रेक्षयन्ती कटाक्षौधौः किञ्चिद्भ्रूवल्लिताण्डवैः ॥ ३,१७.२९ ॥ समस्तमपि तत्सैन्यं शक्तीनामुद्धतोद्धतम् । पिच्छत्रिकोणच्छत्रेण बिरुदेन महीयसा ॥ ३,१७.३० ॥ आसां मध्ये न चान्यासां शक्तीनामुज्ज्वलोदया । निर्जगाम घनश्यामश्यामला मन्त्रनायिका ॥ ३,१७.३१ ॥ तां तुष्टुवुः षोडशभिर्नामभिर्नाकवासिनः । तानि षोडशनामानि शृणु कुंभसमुद्भव ॥ ३,१७.३२ ॥ संगीतयोगिनी श्यामा श्यामला मन्त्रनायिका । मन्त्रिणी सचिवेशी च प्रधानेशी शुकप्रिया ॥ ३,१७.३३ ॥ वीणावती वैणिकी च मुद्रिणी प्रियकप्रिया । निपप्रिया कदंबेशी कदंबवनवासिनी ॥ ३,१७.३४ ॥ सदामदा च नामानि षोडशैतानि कुंभज । एतैर्यः सचिवेशानीं सकृत्स्तौति शरीरवान् । तस्य त्रैलोक्यमखिलं हस्ते तिष्ठत्यसंशयम् ॥ ३,१७.३५ ॥ मन्त्रिनाथा यत्रयत्र कटाक्षं विकिरत्यसौ । तत्रतत्र गताशङ्कं शत्रुसैन्यं पतत्यलम् ॥ ३,१७.३६ ॥ ललितापरमेशान्या राज्यचर्चा तु यावती । शक्तीनामपि चर्चा या सा सर्वत्र जयप्रदा ॥ ३,१७.३७ ॥ अथ संगीतयोगिन्याः करस्थाच्छुकपोतकात् । निर्जगाम धनुर्वेदो वहन्सज्जंशरासनम् ॥ ३,१७.३८ ॥ चतुर्बाहुयुतो वीरस्त्रिशिरास्त्रिविलोचनः । नमस्कृत्य प्रधानेशीमिदमाह स भक्तिमान् ॥ ३,१७.३९ ॥ देवि भण्डासुरेद्रस्य युद्धाय त्वं प्रवर्त्तसे । अतस्तव मया साह्यं कर्तव्यं मन्त्रिनायिके ॥ ३,१७.४० ॥ चत्रजीवमिमं नाम कोदण्डं सुमहत्तरम् । गृहाण जगतामंब दानवानां निबर्हणम् ॥ ३,१७.४१ ॥ इमौ चाक्षयबाणाढ्यौ तूणीरौ स्वर्णचित्रितौ । गृहाण दैत्यनाशाय ममानुग्रहहेतवे ॥ ३,१७.४२ ॥ इति प्रणम्य शिरसा धनुर्वेदेन भक्तितः । अर्पितांश्चापतूणीराञ्जग्राह प्रियकप्रिया ॥ ३,१७.४३ ॥ चित्रजीवं महाचापमादाय च शूकप्रिया । विस्फारं जनयामास मौर्वीमुद्वाद्य भूरिशः ॥ ३,१७.४४ ॥ संगीतयोगिनी चापध्वनिना पूरितं जगत् । नाकालयानां च मनोन यनानन्दसंपदा ॥ ३,१७.४५ ॥ यन्त्रिणी चेति द्वे तस्याः परिचारिके । शुकं वीणां च सहसा वहन्त्यौ परिचेरतुः ॥ ३,१७.४६ ॥ आलोलवलयक्वाणवर्धिष्णुगुणनिस्वनम् । धारयन्ती घनश्यामा चकारातिमनोहरम् ॥ ३,१७.४७ ॥ चित्रजीवशरासेन भूषिता गीतयोगिनी । कदंबिनीव रुरुचे कदम्बच्छत्रकार्मुका ॥ ३,१७.४८ ॥ कालीकटाक्षवत्तीक्ष्णो नृत्यद्भुजगभीषणः । उल्लसन्दक्षिणे पाणौ विललास शिलीमुखः ॥ ३,१७.४९ ॥ गेयचक्ररथारूढां तां पश्चाच्च सिषेविरे । तद्वच्छ्यामलशोभाढ्या देव्यो बाणधनुर्धराः ॥ ३,१७.५० ॥ सहस्राक्षौहिणीसंख्यास्तीव्रवेगा मदालसाः । आपूरयन्त्यः ककुभं कलैः किलिकिलारवैः ॥ ३,१७.५१ ॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने दण्डनाथाश्यामलासेनायात्रा नाम सप्तदशोऽध्यायः _____________________________________________________________ अथ राजनायिका श्रिताज्वलिताङ्कुशा फणिसमानपाशभृत् । कलनिक्वणद्वलयमैक्ष्वं धनुर्दधती प्रदीप्तकुसुमेषुपञ्चका ॥ ३,१८.१ ॥ उदयत्सहत्स्रमहसा सहस्रतोऽप्यतिपाटलं निजवपुः प्रभाझरम् । किरती दिशासु वदनस्य कान्तिभिः सृजतीव चन्द्रमयमभ्रमण्डलम् ॥ ३,१८.२ ॥ दशयोजनायतिमाता जगत्त्रयीमभिवृण्वता विशदमौक्तिकात्मना । धवलातपत्रवलयेन भासुरा शशिमण्डलस्य सखितामुपेयुषा ॥ ३,१८.३ ॥ अभिवीजिता च मणिकान्तशोभिना विजयादिमुख्यपरिचारिकागणैः । नवचन्द्रिकालहरिकान्तिकन्दलीचतुरेण चामरचतुष्टयेन च ॥ ३,१८.४ ॥ शक्त्यैकराज्यपदवीमभिसूचयन्ती साम्राज्यचिह्नशतमण्डितसैन्यदेशा । संगीतवाद्यरचनाभिरथामरीणां संस्तूयमानविभवा विशदप्रकाशा ॥ ३,१८.५ ॥ वाचामगोचरमगोचरमेव बुद्धेरीदृक्तया न कलनीयमनन्यतुल्यम् ॥ ३,१८.६ ॥ त्रैलोक्यगर्भपरिपूरितशक्तिचक्रसाम्राज्यसंपदभिमानमभिस्पृशन्ती । आबद्धभक्तिविपुलाञ्जलिशेखराणामारादहंप्रथमिका कृतसेवनानाम् ॥ ३,१८.७ ॥ ब्रह्मेशविष्णुवृषमुख्यसुरोत्तमानां वक्त्राणिवर्षितनुतीनि कटाक्षयन्ती । उद्दीप्तपुष्पशरपञ्चकतः समुत्थैज्योतिर्मयं त्रिभुवनं सहसा दधाना ॥ ३,१८.८ ॥ विद्युत्समद्युतिभिरप्सरसां समूहैर्विक्षिप्यमाणजयमङ्गललाजवर्षा । कामेश्वरीप्रभृतिभिः कमनीयभाभिः संग्रामवेषरचनासुमनोहराभिः ॥ ३,१८.९ ॥ दीप्तायुधद्युतितिरस्कृत भास्कराभिर्नित्याभिरङ्घ्रिसविधे समुपाक्यमाना । श्रीचक्रनामतिलकं दशयोजनातितुङ्गध्वजोल्लिखितमेघकदंबमुच्चैः ॥ ३,१८.१० ॥ तीव्राभिरावणसुशक्तिपरंपरभिर्युक्तं रथं समरकर्मणि चालयन्ती । प्रोद्यत्पिशङ्गरुचिभागमलांशुकेन वीतामनोहररुचिस्समरे व्यभासीत् ॥ ३,१८.११ ॥ पञ्चाधिकैर्विशतिनामरत्नैः प्रपञ्चपापप्रशमातिदक्षैः । संस्तूयमाना ललिता मरुद्भिः संग्राममुद्दिश्य समुच्चचाल ॥ ३,१८.१२ ॥ अगस्त्य उवाच वीजिवक्त्र महाबुद्धे पञ्चविंशतिनामभिः । ललितापरमेशान्या देहि कर्णरसायनम् ॥ ३,१८.१३ ॥ हयग्रीव उवाच सिंहासना श्रीललिता महाराज्ञी पराङ्कुशा । चापिनी त्रिपुरा चैव महात्रिपुरसुन्दरी ॥ ३,१८.१४ ॥ सुन्दरी चक्रनाथा च साम्राजी चक्रिणी तथा । चक्रेश्वरी महादेवी कामेशी परमेश्वरी ॥ ३,१८.१५ ॥ कामराजप्रिया कामकोटिगा चक्रवर्तिनी । महाविद्या शिवानङ्गवल्लभा सर्वपाटला ॥ ३,१८.१६ ॥ कुलनाथाम्नायनाथा सर्वाम्नायनिवासिनी । शृङ्गारनायिका चेति पञ्चविंशतिनामभिः ॥ ३,१८.१७ ॥ स्तुवन्ति ये महाभागां ललितां परमेश्वरीम् । ते प्राप्नुवन्ति सौभाग्यमष्टौ सिद्धीर्महद्यशः ॥ ३,१८.१८ ॥ इत्थं प्रचण्डसंरंभं चालयन्ती महद्बलम् । भण्डासुरं प्रति क्रुद्धा चचाल ललितांबिका ॥ ३,१८.१९ ॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने ललितापरमेश्वरीसेनाजय यात्रा नामाष्टादशोऽध्यायः _____________________________________________________________ अगस्त्य उवाच चक्रराजरथेन्द्रस्य याःपर्वणि समाश्रिताः । देवता प्रकटाभिख्यास्तासामाख्यां निवेदय ॥ ३,१९.१ ॥ संख्याश्च तासामखिला वर्णभेदांश्च शोभनान् । आयुधानि च दिव्यानि कथयस्व हयानन ॥ ३,१९.२ ॥ हयग्रीव उवाच नवमं पर्व दीप्तस्य रथस्य समुपस्थिताः । तश प्रोक्ता सिद्धिदेव्यस्तासां नामानि मच्छृणु ॥ ३,१९.३ ॥ अणिमा महिमाचैव लघिमा गरिमा तथा । ईशिता वशिता चैव प्राप्तिः सिद्धिश्च सप्तमी ॥ ३,१९.४ ॥ प्राकाम्यमुक्तिसिद्धिश्च सर्वकामाभिधापरा । एतादेव्यश्चतुर्बाह्व्यो जपाकुसुमसंनिभाः ॥ ३,१९.५ ॥ चिन्तामणिकपालं च त्रिशूलं सिद्धिकज्जलम् । दधाना दयया पूर्णा योगिभिश्च निषेविताः ॥ ३,१९.६ ॥ तत्र पूर्वार्द्धभागे च ब्रह्माद्या अष्ट शक्तयः । ब्राह्मी माहेश्वरी चैव कौमारी वैष्मवी तथा । वाराही चैव मांहेन्द्री चामुण्डा चैव सप्तमी ॥ ३,१९.७ ॥ महालक्ष्मीरष्टमी च द्विभुजाः शोणविग्रहाः । कपालमुत्पलं चैव बिभ्राणा रक्तवाससः ॥ ३,१९.८ ॥ अथ वान्य प्रकारेण केचिद्ध्यानं पचक्षते । ब्रह्मादिसदृशाकारा ब्रह्मादिसदृशायुधाः ॥ ३,१९.९ ॥ ब्रह्मादीनां परं चिह्नं धारयन्त्यः प्रकीर्तिताः । तासामूर्ध्वस्थानगतां मुद्रा देव्यो महत्तराः ॥ ३,१९.१० ॥ मुद्राविरचनायुक्तैर्हस्तैः कमलकान्तिभिः । दाडिमीपुष्पसङ्काशाः पीतांबरमनोहराः ॥ ३,१९.११ ॥ चतुर्भुजा भुजद्वन्द्वधृतचर्मकृपाणकाः । मदरक्तविलोलाक्ष्यस्तासां नामानि मच्छृणु ॥ ३,१९.१२ ॥ सर्वसंक्षोभिणी चैव सर्वविद्राविणी तथा । सर्वाकर्षणकृन्मुद्रा तथा सर्ववशङ्करी ॥ ३,१९.१३ ॥ सर्वोन्मादनमुद्रा च यष्टिः सर्वमहाङ्कुशा । सर्वखेचरिका मुद्रा सर्वबीजा तथापरा ॥ ३,१९.१४ ॥ सर्वयोनिश्च नवमी तथा सर्वत्रिशण्डिका । सिद्धिब्राहयादिमुद्रास्ता एताः प्रकटशक्तयः ॥ ३,१९.१५ ॥ भण्डासुरस्य संहारं कर्तुं रक्तरथे स्थिताः । या गुप्ताख्याः पूर्वमुक्तास्तासां नामानि मच्छृणु ॥ ३,१९.१६ ॥ कामाकर्षणिका चैव बुद्ध्याकर्षणिका कला । अहङ्काराकर्षिणी च शब्दाकर्षणिका कला ॥ ३,१९.१७ ॥ स्पर्शाकर्षणिका नित्या रूपाकर्षणिका कला । रसाकर्षणिका नित्या गन्धाकर्षणिका कला ॥ ३,१९.१८ ॥ चित्ताकर्षणिका नित्या धैर्याकर्षणिका कला । स्मृत्या कर्षणिका नित्या नामाकर्णणिका कला ॥ ३,१९.१९ ॥ बीजाकर्षणिका नित्या चात्मकर्षणिका कला । अमृताकर्षणी नित्या शरीराकर्षिणी कला ॥ ३,१९.२० ॥ एताः षोडश शीतांशुकलारूपाश्च शक्तयः । अष्टमं पर्व सम्प्राप्ता गुप्ता नाम्ना प्रकीर्तिताः ॥ ३,१९.२१ ॥ विद्रुमद्रुमसङ्काशा मन्दस्मित मनोहराः । चतुर्भुजास्त्रिनेत्राश्च चन्द्रार्कमुकुजोज्ज्वलाः ॥ ३,१९.२२ ॥ चापबाणौ चर्मखड्गौ दधाना दिव्यकान्तयः । भण्डासुरवधार्थाय प्रवृत्ताः कुम्भसम्भव ॥ ३,१९.२३ ॥ सायन्तनज्वलद्दीपप्रख्यचक्ररथस्य तु । सप्तमे पर्वणि कृतावासा गुप्ततराभिधाः ॥ ३,१९.२४ ॥ अनङ्गमदनानङ्गमदनातुरया सह । अनङ्गलेखा चानङ्गवेगानङ्गाङ्कुशापि च ॥ ३,१९.२५ ॥ अनङ्गमालिग्यपरा एता देव्यो जपात्विषः । इक्षुचापं पुष्पशरान्पुष्पकन्दुकमुत्पलम् ॥ ३,१९.२६ ॥ बिभ्रत्योऽदभ्रविक्रान्तिशालिन्यो ललिताज्ञया । भण्डासुरमभिक्रुद्धाः प्रज्वलन्त्य इव स्थिताः ॥ ३,१९.२७ ॥ अथ चक्ररथेन्द्रस्य षष्ठं पर्व समाश्रिताः । सर्वसंक्षोभिणीमुख्याः सम्प्रदायाख्यया युताः ॥ ३,१९.२८ ॥ वेणीकृतकचस्तोमाः सिंदूरतिलकोज्ज्वलाः । अतितीव्रस्वभावाश्च कालानलसमत्विषः ॥ ३,१९.२९ ॥ वह्निबाणं वह्निचापं वह्निरूपमसिं तथा । वह्निचक्राख्याफलकं दधाना दीप्तविग्रहाः ॥ ३,१९.३० ॥ असुरेन्द्रं प्रति क्रुद्धाः कामभस्मसमुद्भवाः । आज्ञाशक्तय एवैता ललिताया महौजसः ॥ ३,१९.३१ ॥ सर्वसंक्षोभिणी चैव सर्वविद्राविणी तथा । सर्वाकर्षणिका शक्तिः सर्वाह्लादिनिका तथा ॥ ३,१९.३२ ॥ सर्वसंमोहिनीशक्तिः सर्वस्तम्भनशक्तिका । सर्वजृंभणशक्तिश्च सर्वोन्मादनशक्तिका ॥ ३,१९.३३ ॥ सर्वार्थसाधिका शक्तिः सर्वसम्पत्तिपूरणी । सर्वमन्त्रमयी शक्तिः सर्वद्वन्द्वक्षयङ्करी ॥ ३,१९.३४ ॥ एवं तु सम्प्रदायानां नामानि कथितानि वै । अथ पञ्चमपर्वस्थाः कुलोत्तीर्णा इति स्मृताः ॥ ३,१९.३५ ॥ ताश्च सप्तटिकसङ्काशाः परशुं पाशमेव च । गदां घण्टां मणिं चैव दधाना दीप्तविग्रहाः ॥ ३,१९.३६ ॥ देवद्विषमति क्रुद्धा भ्रुकुटीकुटिलाननाः । एतासामपि नामानि समाकर्मय कुम्भज ॥ ३,१९.३७ ॥ सर्वसिद्धिप्रदा देवी सर्वसम्पत्प्रदा तथा । सर्वप्रियङ्करी देवी सर्वमङ्गलकारिणी ॥ ३,१९.३८ ॥ सर्वकामप्रदा देवी सर्वदुःखविमोचिनी ॥ ३,१९.३९ ॥ सर्वमृत्युप्रशमिनी सर्वविघ्ननिवारिणी । सर्वाङ्गसुन्दरी देवी सर्वसौभाग्यदायिनी ॥ ३,१९.४० ॥ दशैन्ताः कथिता देव्यो दयया पूरिताशयाः । चक्रे तुरीयपर्वस्था मुक्ताहारसमत्विषः ॥ ३,१९.४१ ॥ निगर्भयोगिनीनाम्ना प्रथिता दश कीर्तिताः । सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्यप्रदा तथा ॥ ३,१९.४२ ॥ सर्वज्ञानमयी देवी सर्वव्याधिविनाशिनी । सर्वाधारस्वरूपा च सर्वपापहरा तथा ॥ ३,१९.४३ ॥ सर्वानन्दमयी देवी सर्वरक्षास्वरूपिणी । दशमी देवताज्ञेया सर्वेष्सितफलप्रदा ॥ ३,१९.४४ ॥ एताश्चतुर्भुजा ज्ञेया वज्रं शक्तिं च तोमरम् । चक्रं चैवाभिबिभ्राणा भण्डासुरवधोद्यताः ॥ ३,१९.४५ ॥ अथ चक्ररथेन्द्रस्य तृतीयं पर्वसंश्रिताः । रहस्ययोगिनीनाम्ना प्रख्याता वागधीश्वराः ॥ ३,१९.४६ ॥ रक्ताशोकप्रसूनाभाबाणकार्मुकपाणयः । कवचच्छन्नसर्वाङ्गयो वीणापुस्तकशोभिताः ॥ ३,१९.४७ ॥ वशिनी चैव कामेशी भोगिनी विमला तथा । अरुणाच जविन्याख्या सर्वेशी कौलिनी तथा ॥ ३,१९.४८ ॥ अष्टावेताः स्मृता देव्यो दैत्यसंहारहेतवः । अथ चक्ररथेन्द्रस्य द्वितीयं पर्वसंश्रिताः ॥ ३,१९.४९ ॥ चापबाणौ पानपात्रं मातुरुङ्गं कृपाणिकाम् । तिस्रस्त्रिपीठनिलया अष्टबाहुसमन्विताः ॥ ३,१९.५० ॥ पलकं नागपाशं च घण्टां चैव महाध्वनिम् । विभ्राणा मदिरामत्ता अतिगुप्तरहस्यकाः ॥ ३,१९.५१ ॥ कामेशी चैव वज्रेशी भगमालिन्यथापरा । तिस्र एताः स्मृता देव्यो भण्डे कोपसमन्विताः ॥ ३,१९.५२ ॥ ललितासममाहात्म्या ललितासमतेजसः । एतास्तु नित्यं श्रीदेव्या अन्तरङ्गाः प्रकीर्तिताः ॥ ३,१९.५३ ॥ अथानन्दमहापीठे रथमध्यमपर्वणि । परितो रचितावासाः प्रोक्ताः पञ्चदशाक्षराः ॥ ३,१९.५४ ॥ तिथिनित्याः कालरूपा विश्वं व्याप्यैव संस्थिताः । भण्डासुरादिदैत्येषु प्रक्षुब्धभ्रुकुटीतटाः ॥ ३,१९.५५ ॥ देवीसमनिजाकारा देवीसमनिजायुधाः । जगतामुपकाराय वर्तमाना युगेयुगे ॥ ३,१९.५६ ॥ तासां नामानि मत्तस्त्वमवधारयकुम्भज । कामेशी भगमाला च नित्यक्लिन्ना तथैव च ॥ ३,१९.५७ ॥ भेरुण्डा वह्निवासिन्यो महावज्रेश्वरी तथा । दती च त्वरिता देवी नवमी कुलसुन्दरी ॥ ३,१९.५८ ॥ नित्या नीलपताका च विजया सर्वमङ्गला । ज्वालामालिनिकाचित्रे दश पञ्च च कीर्तिताः ॥ ३,१९.५९ ॥ एताभिः सहिता देवी सदा सेवैकबुद्धिभिः । दुष्टं भण्डासुरं जेतुं निर्ययौ परमेश्वरी ॥ ३,१९.६० ॥ मन्त्रिनाथा महाचक्रे गीतिं चक्रे रथोत्तमे । सप्तपर्वाणि चोक्तानि तत्र देव्याश्च ताः शृणु ॥ ३,१९.६१ ॥ गेयचक्ररथे पर्वमध्यपीढनिकेतना । संगीतयोगिनी प्रोक्ता श्रीदेव्या अतिवल्लभा ॥ ३,१९.६२ ॥ तदेव प्रथमं पर्व मन्त्रिण्यास्तु निवासभूः । अथ द्वितीयपर्वस्था गेयचक्रे रथोत्तमे ॥ ३,१९.६३ ॥ रतिः प्रीतिर्मनोजा च वीणाकार्मुकपाणयः । तमालश्यामलाकारा दानवोन्मूलनक्षमाः ॥ ३,१९.६४ ॥ तृतीयपर्वसंरूढा मनोभूबाणदेवता । द्राविणी शोषिणी चैव बन्धिनी मोहिनी तथा ॥ ३,१९.६५ ॥ उन्मादिनीति पञ्चैता दीप्तकार्मुकपाणयः । तत्र पर्वण्यधस्तात्तु वर्तमाना महौजसः ॥ ३,१९.६६ ॥ कामराजश्च कन्दर्पौं मन्मथो मकरध्वजः । मनोभवः पञ्चमः स्यादेते त्रैलोक्यमोहनाः ॥ ३,१९.६७ ॥ कस्तूरीतिलकोल्लासिभालामुक्ताविराजिताः । कवचच्छन्नसर्वाङ्गाः पलाशप्रसवत्विषः ॥ ३,१९.६८ ॥ पञ्चकामा इमे प्रोक्ता भण्डासुरवधार्थिनः । जेयचक्ररथेन्द्रस्य चतुर्थं पर्व संश्रिताः ॥ ३,१९.६९ ॥ ब्रह्मीमुख्यास्तु पूर्वोक्ताश्चण्डिका त्वष्टमी परा । तत्र पर्वण्यधस्ताच्च लक्ष्मीश्चैव सरस्वती ॥ ३,१९.७० ॥ रतिः प्रीतिः कीर्तिशान्ती पुष्टिस्तुष्टिश्च शक्तयः । एताश्चक्रोधरक्ताक्ष्यो दैत्यं हन्तुं महाबलम् ॥ ३,१९.७१ ॥ कुन्तचक्रधराः प्रोक्ताः कुमार्यः कुंभसंभव । पञ्चमं पर्व संप्राप्ता वामाद्याः षोडशापराः ॥ ३,१९.७२ ॥ गीतिं चक्रू रथेन्द्रस्य तासां नामानि मच्छृणु । वामा ज्येष्टा च रौद्री च शान्तिः श्रद्धा सरस्वती ॥ ३,१९.७३ ॥ श्रीभूशाक्तिश्च लक्ष्मीश्च सृष्टिश्चैव तु मोहिनी । तथा प्रमाथिनी चाश्वसिनी वीचिस्तथैव च ॥ ३,१९.७४ ॥ विद्युन्मालिन्यथ सुरानन्दाथो नागबुद्धिका । एतास्तु कुरविन्दाभा जगत्क्षोभणलंपटाः ॥ ३,१९.७५ ॥ महासरसमन्नाहमादधानाः पदेपदे । वज्रकङ्कटसंछन्ना अट्टहासोज्ज्वलाः परे । वज्रदण्डौ शतघ्नीं च संबिभ्राणा भुशुण्डिकाः ॥ ३,१९.७६ ॥ अथ गीतिरथेन्द्रस्य षष्ठं पर्व समाश्रिताः । असिताङ्गप्रभृतयो भैरवाः शस्त्रभीषणाः ॥ ३,१९.७७ ॥ त्रिशिखं पानपात्रं च बिभ्राणा नीलवर्चसः । असिताङ्गो रुरुश्चण्डः क्रोध उन्मत्तभैरवः ॥ ३,१९.७८ ॥ कपाली भीषणश्चैव संहारश्चाष्ट भैरवाः । अथ गीतिरथेन्द्रस्य सप्तमं पर्व संश्रिताः ॥ ३,१९.७९ ॥ मातङ्गी सिद्धलक्ष्मीश्च महामातङ्गिकापि च । महती सिद्धलक्ष्मीश्च शोणा बाणधनुर्धराः ॥ ३,१९.८० ॥ तस्यैव पर्वणोऽधस्ताद्गणपः क्षेत्रपस्तथा । दुर्गांबा बटुकश्चेंव सर्वे ते शस्त्रपाणयः ॥ ३,१९.८१ ॥ तत्रैव पर्वणोऽधस्ताल्लक्ष्मीश्चैव सरस्वती । शङ्खः पद्मो निधिश्चैव ते सर्वे शस्त्रपाणयः ॥ ३,१९.८२ ॥ लोकद्विषं प्रति क्रुद्धा भण्डं चण्डपराक्रमम् । शक्रादयश्च विष्म्वन्ता दश दिक्चक्रनायकाः ॥ ३,१९.८३ ॥ शक्तिरूपास्तत्र पर्वण्यधस्तात्कृतसंश्रयाः । वज्रे शक्तिं कालदण्डमकिं पाशं ध्वजं तथा ॥ ३,१९.८४ ॥ गदां त्रिशूलं दर्भास्त्रं वज्रं च दधतस्त्वमी । सेवन्ते मन्त्रिनाथां तां नित्यं भक्तिसमन्विताः ॥ ३,१९.८५ ॥ भण्डासुरान्दुर्दुरूढान्निहन्तुं विश्वकण्टकान् । मन्त्रिनाथाश्रयद्वारा ललिताज्ञापनोत्सुकाः ॥ ३,१९.८६ ॥ गीतिचक्ररथोपान्ते दिक्पालाः संश्रयं ददुः । सर्वेषां चैव देवानां मन्त्रिणी द्वारतः कृता ॥ ३,१९.८७ ॥ विज्ञापना महादेव्याः कार्यसिद्धिं प्रयच्छति । राक्षी विज्ञापना चेति प्रधानद्वारतः कृता ॥ ३,१९.८८ ॥ यथा खलु फलप्राप्तिः सेवकानां हि जायते । अन्यथा कथमेतेषां सामर्थ्यं ज्वलितौजसः ॥ ३,१९.८९ ॥ अपधृष्यप्रभावायाः श्रीदेव्या उपसर्पणे । सा हि संगीतविद्येति श्रीदेव्या अतिवल्लभा ॥ ३,१९.९० ॥ नातिलङ्घति च क्वापि तदुक्तं कार्यसिद्धिषु । श्रीदेव्याःशक्तिसाम्राज्ये सर्वकर्माणि मन्त्रिणी ॥ ३,१९.९१ ॥ अकर्त्तुमन्यथा कर्तुं कर्तुं चैव प्रगल्भते । तस्मात्सर्वेऽपि दिक्पालाः श्रीदेव्या जयकाङ्क्षिणः । तस्याः प्रधानभूतायाः सेवामेव वितन्वते ॥ ३,१९.९२ ॥ इति श्रीललितादेव्याश्चक्रराजरथोत्तमे । पर्वस्थितानां देवीनां नामानि कथितान्यलम् ॥ ३,१९.९३ ॥ भण्डासुरस्य संहारे तस्या दिव्यायुधान्यपि । प्रोक्तानि गेयचक्रस्य पर्वदेव्याश्च कीर्तिताः ॥ ३,१९.९४ ॥ इमानि सर्वदेवीनां नामान्याकर्णयन्ति ये । सर्वपापविनिर्मुक्तास्ते स्युर्विजयिनो नराः ॥ ३,१९.९५ ॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपख्याने श्रीचक्रराजरथज्ञेयचक्ररथपर्वस्थदेवतानामप्रकाशनं नामैकोनविंशोऽध्यायः _____________________________________________________________ हयग्रीव उवाच किरिचक्ररथेन्द्रस्य पञ्चपर्वसमाश्रिताः । देवताश्च शृणु प्राज्ञ नाम यच्छृण्वतां जयः ॥ ३,२०.१ ॥ प्रथमं पर्वबिन्द्वाख्यं संप्राप्ता दण्डनायिका । सा तत्र जगदुद्दण्डकण्टकव्रातघस्मरी ॥ ३,२०.२ ॥ नानाविधाभिर्ज्वालाभिर्नर्तयन्ती जयश्रियम् ॥ ३,२०.३ ॥ उद्दण्डपोत्रनिर्घातनिर्भिन्नोद्धतदानवाः । दंष्ट्राबालमृगाङ्कांशुविभावनविभावरी ॥ ३,२०.४ ॥ प्रावृषेण्यपयोवाहव्यूहनीलवपुर्ल्लता । किरिचक्ररथेन्द्रस्य सालङ्कारायते सदा । पोत्रिणी पुत्रिताशेषविश्वावर्तकदंबिका ॥ ३,२०.५ ॥ तस्यैव रथनाभस्य द्वितीयं पर्व संश्रिताः । जृंभिनी मोहिनी चैव स्तंभिनी तिस्र एव हि । उत्फुल्लदाडिमीप्रख्यं सर्वदानवमर्दनाः ॥ ३,२०.६ ॥ मुसलं च हलं हालापात्रं मणिगणर्पितम् । ज्वलन्माणिक्यवलयैर्बि भ्राणाः पाणिपल्लवैः ॥ ३,२०.७ ॥ अतितीक्ष्णकरालाक्ष्यो ज्वालाभिर्दैत्यसैनिकान् । दहन्त्य इव निःशङ्कं सेवन्ते सूकराननाम् ॥ ३,२०.८ ॥ किरिचक्ररथेन्द्रस्य तृतीयं पर्व संश्रिताः । अन्धिन्याद्याः पञ्च देव्यो देवीयन्त्रकृतास्पदाः ॥ ३,२०.९ ॥ कठोरेणाट्टहासेन भिन्दन्त्यो भुवनत्रयम् । ज्वाला इव तु कल्पग्नेरङ्गनावेषमाश्रिताः ॥ ३,२०.१० ॥ भण्डासुरस्य सर्वेषां सैन्यानां रुधिरप्लुतिम् । लिलिक्षमाणा जिह्वाभिर्लेलिहानाभिरुज्ज्वलाः ॥ ३,२०.११ ॥ सेवन्तें सततं दण्डनाथामुद्दण्डविक्रमाम् । किरिचक्ररथेन्द्रस्य चतुर्थं पर्व संश्रिताः ॥ ३,२०.१२ ॥ ब्रह्माद्याः पञ्चमीवर्ज्या अष्टमीरवर्जिता अपि । षडेव देव्यः षट्चक्रज्वलज्ज्वालाकलेवराः ॥ ३,२०.१३ ॥ महता विक्रमौघेण विबन्त्य इव दानवान् । आज्ञया दण्डनाथायास्तं प्रदेशमुपासते ॥ ३,२०.१४ ॥ तस्यैव पर्वणोऽधस्तात्त्वरिताः स्थानमाश्रिताः । यक्षिणी शङ्खिनी चैव लाकिनी हाकिनी तथा ॥ ३,२०.१५ ॥ शाकिनी डाकिनी चैव तासामैक्यस्वरूपिणी । हाकिनी सप्तमीत्येताश्चण्डदोर्दण्डविक्रमाः ॥ ३,२०.१६ ॥ पिबन्त्य इव भूतानि पिबन्त्य इव मेदिनीम् । त्वचं रक्तं तथा मांसं मेदोऽस्थि च विरोधिनाम् ॥ ३,२०.१७ ॥ मज्जानमथ शुक्रं च पिबन्तयो विकटाननाः । निष्ठुरैः सिंहनादैश्च पूरयन्त्यो दिशो दश ॥ ३,२०.१८ ॥ धातुनाथा इति प्रोक्ता अणिमाद्यष्टसिद्धिदाः । मोहने मारणे चैव स्तंभने ताडने तथा ॥ ३,२०.१९ ॥ भक्षणे दुष्टदैत्यानामामूलं च निकृन्तने । पण्डिताः खण्डिताशेषविपदो भक्तिशालिषु ॥ ३,२०.२० ॥ धातुनाथा इतिप्रोक्ताः सर्वधातुषु संस्थिताः । सप्तापि वारिधीनूर्मिमालासंचुंबितांबरान् ॥ ३,२०.२१ ॥ क्षणर्धेनैव निष्पातुं निष्पन्नबहुसाहसाः । शकटा कारदन्ताश्च भयङ्करविलोचनाः ॥ ३,२०.२२ ॥ स्वस्वामिनीद्रोहकृतां स्वकीयसमयद्रुहाम् । वैदिकद्रोहणादेव द्रोहिणां वीरवैरिणाम् ॥ ३,२०.२३ ॥ यज्ञद्रोहकृतां दुष्टदैत्यानां भक्षणे समाः । नित्यमेव च सेवन्ते पोत्रिणीं दण्डनायिकाम् ॥ ३,२०.२४ ॥ तस्यैव पर्वणः पार्श्वे द्वितीये दिव्यमन्दिरे । क्रोधिनी स्तंभिनी ख्याते वर्तेते देवते उभे ॥ ३,२०.२५ ॥ चामरे वीजयन्त्यौ च लोलकङ्कणदोर्लते । देवद्विषां चमूरक्तहालापानमहोद्धते ॥ ३,२०.२६ ॥ सदा विघूर्णमानाक्ष्यौ सदा प्रहसितानने । अथ तस्य रथेन्द्रस्य किरिचक्राश्रितस्य च ॥ ३,२०.२७ ॥ पार्श्वद्वयकृतावासमायुधद्वन्द्वमुत्तमम् । हलं च मुसलं चैव देवतारूपमास्थितम् ॥ ३,२०.२८ ॥ स्वकीयमुकुटस्थाने स्वकीयायुधविग्रहम् । आबिभ्राणं जग षिघस्मरं विबुधैः स्मृतम् ॥ ३,२०.२९ ॥ एतदायुधयुग्मेन ललिता दडनायिका । खण्डयिष्यति संग्रामं विषङ्गं नामदानहम् ॥ ३,२०.३० ॥ तस्यैव पर्वणो दण्डनाथाया अग्रसीमनि । वर्त्तमानो महाभीमः सिंहो नादैर्ध्वनन्नभः ॥ ३,२०.३१ ॥ दंष्ट्राकटकटात्कार बधिरीकृतदिङ्मुखः । चण्डोच्चण्ड इति ख्यातश्चतुर्हस्तस्त्रिलोचनः ॥ ३,२०.३२ ॥ शूलखड्गप्रेतपाशान्दधानो दीप्तविग्रहः । सदा संसेवते देवीं पश्यन्नेव हि पोत्रिणीम् ॥ ३,२०.३३ ॥ किरिचक्ररथेन्द्रस्य षष्टं पर्व समाश्रिताः । वार्त्ताल्याद्या अष्ट देव्यो दिक्ष्वष्टासूपविश्रुताः ॥ ३,२०.३४ ॥ अष्टपर्वतनिष्पातघोरनिर्घातनिःस्वनाः । अष्टनागस्फुरद्भूषा अनष्टबलतेजसः ॥ ३,२०.३५ ॥ प्रकृष्टदोष्प्रकाण्डोष्महुतदानवकोटयः । सेवन्ते ललितां देव्यो दण्डनाथामहर्निशम् ॥ ३,२०.३६ ॥ तासामाख्याश्च विख्याताः समाकर्णय कुंभज । वार्ताली चैव वाराहीसा वाराहमुखी परा ॥ ३,२०.३७ ॥ अन्धिनी रोधिनी चैव जृंभिणी चैव मोहिनी । स्तंभिनीति रिपुक्षोभस्तंभनोच्चाटनक्षमाः ॥ ३,२०.३८ ॥ तासां च पर्वणो वामभागे सततसंस्थितिः । दण्डनाथोपवाह्यस्तु कासरो धूसराकृतिः ॥ ३,२०.३९ ॥ अर्धक्रोशायतः शृङ्गद्वितये क्रोशविग्रहः । खड्गवन्निष्ठुरैर्लोमजातैः संवृतविग्रहः ॥ ३,२०.४० ॥ कालदण्डवदुच्चण्डबालकाण्डभयङ्करः । नीलाञ्जनाचलप्रख्यो विकटोन्नतरुष्टभूः ॥ ३,२०.४१ ॥ महानीलगिरिश्रेष्ठगरिष्ठस्कन्धमण्डलः । प्रभूतोष्मलनिश्वासप्रसराकंपितांबुधिः ॥ ३,२०.४२ ॥ घर्घरध्वनिना कालमहिषं विहसन्निव । वर्त्तते खुरविक्षिप्तपुष्कलावर्तवारिदः ॥ ३,२०.४३ ॥ तस्यैव पर्वणोऽधस्ताच्चित्रस्थानकृतालयाः । इन्द्रादयोऽनेकभेदा दिशामष्टकदेवताः ॥ ३,२०.४४ ॥ ललितायां कार्यसिद्धिं विज्ञापयितुमागताः । इन्द्रश्चाप्सरसश्चैव स चतुष्षष्टिकोटयः ॥ ३,२०.४५ ॥ सिद्ध अग्निश्च साध्याश्च विश्वेदेवास्तथापरे । विश्वकर्मा मयश्चैव मातरश्च बलोन्नताः ॥ ३,२०.४६ ॥ रुद्राश्च परिचाराश्च रुद्राश्चैव पिशाचकाः । क्रन्दञ्चिरक्षसां नाथा राक्षसा बहवस्तथा ॥ ३,२०.४७ ॥ मित्राश्च तत्र गन्धर्वाः सदा गानविशारदाः । विश्वावसुप्रभृतयो विख्यातास्तत्पुरोगमाः ॥ ३,२०.४८ ॥ तथा भूतगणाश्चान्ये वरुणो वासवः परे । विद्याधराः किन्नराश्च मारुतेश्वर एव च ॥ ३,२०.४९ ॥ तथा चित्ररथश्चैव रथकारक कारकाः । तुंबुरुर्नारदो यक्षः सोमोयक्षेश्वरस्तथा ॥ ३,२०.५० ॥ देवैश्च भगवांस्तत्र गोविन्दः कमलापतिः । ईशानश्च जगच्चक्रभक्षकः शूलभीषणः ॥ ३,२०.५१ ॥ ब्रह्मा चैवाश्विनीपुत्रो वैद्यविद्याविशारदौ । धन्वन्तरिश्च भगवानथान्ये गणनायकाः ॥ ३,२०.५२ ॥ कटकाण्डगलद्दान संतर्पितमधुव्रताः । अनन्तो वासुकिस्तक्षः कर्केटः पद्म एव च ॥ ३,२०.५३ ॥ महापद्मः शङ्खपालो गुलिकः सुबलस्तथा । एते नागेश्वराश्चैव नागकोटिभिरावृताः ॥ ३,२०.५४ ॥ एवंप्रकारा बहवो देवतास्तत्र जाग्रति । पूर्वादिदिशमारभ्य परितः कृतमन्दिराः ॥ ३,२०.५५ ॥ तत्रैव देवताश्चक्रे चक्राकारा मरुद्दिशः । आश्रित्य किल वर्तन्ते तदधिष्ठातृदेवताः ॥ ३,२०.५६ ॥ जृंभिणी स्तंभिनी चैव मोहिनी तिस्र एव च । तस्यैव पर्वणः प्रान्ते किरिचक्रस्य भास्वतः ॥ ३,२०.५७ ॥ कपालं च गदां बिभ्रदूर्ध्वकेशो महावपुः । पातालतलजंबालबहुला कारकालिमा ॥ ३,२०.५८ ॥ अट्टहासमहावज्रदीर्णब्रह्माण्डमण्डलः । भिन्दन्डमरुकध्वानै रोदसीकन्दरोदरम् ॥ ३,२०.५९ ॥ फूत्कारीत्रिपुरायुक्तं फणिपाशं करे वहन् । क्षेत्रपालः सदा भाति सेवमानः किटीश्वरीम् ॥ ३,२०.६० ॥ तस्यैव च समीपस्थस्तस्या वाहनकेसरी । यमा रुह्य प्रववृते भण्टासुरबधैषिणी ॥ ३,२०.६१ ॥ प्रागुक्तमेव देवेशीवाहसिंहस्य लक्षण्म् । तस्यैव पर्वणोऽधस्ताद्दण्डनाथासमत्विषः ॥ ३,२०.६२ ॥ दण्डिनीसदृशाशेषभूषणायुधमण्डिताः । शम्याः क्रोडाननाश्चन्द्ररेखोत्तंसितकुन्तलाः ॥ ३,२०.६३ ॥ हलं च मुसलं हस्ते घूर्णयन्त्यो मुहुर्मुहुः । ललिताद्रोहिणां श्यामाद्रोहिणां स्वामिनीद्रुहाम् ॥ ३,२०.६४ ॥ रक्तस्रोतोभिरुत्कूलैः पूरयन्त्यः कपालकम् । निजभक्तद्रोहकृता मन्त्रमालाविभूषणाः ॥ ३,२०.६५ ॥ स्वगोष्ठीसमायाक्षेपकारिणां मुण्डमण्डलैः । अखण्डरक्तविच्छर्दैर्बिभ्रत्यो वक्षसि क्रजः ॥ ३,२०.६६ ॥ सहस्रं देवताः प्रोक्ताः सेवमानाः किटीश्वरीम् ॥ ३,२०.६७ ॥ तासां नामानि सर्वासां दण्डिन्याः कुंभसंभव । सहस्रनामाध्याये तु वक्ष्यन्ते नाधुना पुनः ॥ ३,२०.६८ ॥ अथ तासां देवतानां कोलास्यानां समीपतः । वाहनं कृष्णसारङ्गो दण्डिन्याः समये स्थितः ॥ ३,२०.६९ ॥ क्रोशार्धार्द्धायतः शृङ्गे तदर्धार्धायतो मुखे । क्रोशप्रमाणापादश्च सदा चोद्धृतवालधिः ॥ ३,२०.७० ॥ उदरे धवलच्छायो हुङ्कारेण महीयसा । हसन्मारुतवाहस्य हरिणस्य पराक्रमम् ॥ ३,२०.७१ ॥ तस्यैव पर्वणो देशे वर्त्तते वाहनोत्तमम् । किरिचक्ररथेन्द्रस्य स्थितस्तत्रैव पर्वणि ॥ ३,२०.७२ ॥ वर्त्तते मदिरासिंधुर्देवतारूपमास्थिता । माणिक्यगिरिवच्छोणं हस्ते पिशितपिण्डकम् ॥ ३,२०.७३ ॥ दधाना घूर्णमा नाक्षी हेमांभोजस्रगावृता । मदशक्त्या समाश्लिष्टा धृतरक्तसरोजया ॥ ३,२०.७४ ॥ यदायदा भण्डदैत्यः संग्रामे संप्रवर्तते । युद्धस्वेद मनुप्राप्ताः शक्तयः स्युः पिपासिताः ॥ ३,२०.७५ ॥ तदातदा सुरासिंधुरात्मानं बहुधा क्षिपन् । रणे खेदं देवतानामञ्जसापाकरिष्यति ॥ ३,२०.७६ ॥ तदप्यद्भुतमे वर्षे भविष्यति न संशयः । तदा श्रोष्यसि संग्रामे कथ्यमानं मया मुदा ॥ ३,२०.७७ ॥ तस्यैव पर्वणोऽधस्तादष्टदिक्ष्वघ एव हि । उपर्यपि कृतावासा हेतुकाद्या दश स्मृताः ॥ ३,२०.७८ ॥ महान्तो भैरवश्रेष्ठाः ख्याता विपुलविक्रमाः । उद्दीप्तायुत तेजोभिर्द्दिवा दीपितभानवः ॥ ३,२०.७९ ॥ कल्पान्तकाले दण्डिन्या आज्ञया विश्वघस्मराः । अत्युदग्रप्रकृतयो रददष्टौष्ठसंपुटाः ॥ ३,२०.८० ॥ त्रिशूलाग्रविनिर्भिन्नमहावारिदमण्डलाः । हेतुकस्त्रिपुरारिश्च तृतीयश्चाग्निभैरवः ॥ ३,२०.८१ ॥ यमजिह्वैकपादौ च तथा कालकरालकौ । भीमरूपो हाटकेशस्तथैवाचलनामवान् ॥ ३,२०.८२ ॥ एते दशैव विख्याता दशकोटिभटान्विताः । तस्यैव किरिचक्रस्य वर्तन्ते पर्वसीमनि ॥ ३,२०.८३ ॥ एवं हि दण्डनाथायाः किरिचक्रस्य देवताः । जृंभिण्याद्यचलेन्द्रान्ताः प्रोक्तास्त्रैलोक्यपावनाः ॥ ३,२०.८४ ॥ तत्रत्यैर्देवतावृन्दैर्बहवस्तत्र संगरे । दानवा मारयिष्यन्ते पास्यन्ते रक्तवृष्टयः ॥ ३,२०.८५ ॥ इत्थं बहुविधत्राणं पर्वस्थैर्देवतागणैः । किरिचक्रं दण्डनेत्र्या रथरत्नं चचाल ह ॥ ३,२०.८६ ॥ चक्रराजरथो यत्र तत्र गेयरथोत्तमः । यत्र गेयरथस्तत्र किरिचक्ररथोत्तमः ॥ ३,२०.८७ ॥ एतद्रथ त्रयं तत्र त्रैलोक्यमिव जङ्गमम् । शक्तिसेनासहस्रस्यान्तश्चचार तदा शुभम् ॥ ३,२०.८८ ॥ मेरुमन्दरविन्ध्यानां समवाय इवाभवत् । महाघोषः प्रववृते शक्तीनां सैन्यमण्डले । चचाल वसुधा सर्वा तच्चक्ररवदारिता ॥ ३,२०.८९ ॥ ललिता चक्रराजाख्या रथनाथस्य कीर्तिताः । षट्सारथय उद्दण्डपाशग्रहणकोविदाः ॥ ३,२०.९० ॥ यत्र गेयरथस्तत्र किरिचक्ररथोत्तमम् । इति देवी प्रथमतस्तथा त्रिपुरभैरवी ॥ ३,२०.९१ ॥ संहारभैरवश्चान्यो रक्तयोगिनिवल्लभः । सारसः पञ्चमश्चैव चामुण्डा च तथा परा ॥ ३,२०.९२ ॥ एतासु देवतास्तत्र रथसारथयः स्मृताः । गेयच क्ररथेन्द्रस्य सारथिस्तु हसंतिका ॥ ३,२०.९३ ॥ किरिचक्ररथेन्द्रस्य स्तंभिनी सारथिः स्मृता । दशयोजनमुन्नम्रो ललितारथपुङ्गवः ॥ ३,२०.९४ ॥ सप्तयोजनमुच्छ्रायो गीतसक्ररथोत्तमः । षड्योजनसमुन्नम्रो किरिचक्ररथो मुने ॥ ३,२०.९५ ॥ महामुक्तातपत्रं तु दशयोजनविस्तृतम् । वर्तते ललितेशान्या रथ एव न चान्यतः ॥ ३,२०.९६ ॥ तदेव शक्तिसाम्राज्यसूचकं परिकीर्तितम् । सामान्यमातपत्रं तु तथद्वन्द्वेपि वर्तते ॥ ३,२०.९७ ॥ अथ सा ललितेशानी सर्वशक्तिमहेश्वरी । महासाम्राज्यपदवीमारूढा परमेश्वरी ॥ ३,२०.९८ ॥ चचाल भण्डदेत्यस्य क्षयसिद्ध्यभिकाङ्क्षिणी । शब्दायन्ते दिशः सर्वाः कंपते च वसुंधरा ॥ ३,२०.९९ ॥ क्षुभ्यन्ति सर्वभूतानि ललितेशाविनिर्गमे । देवदुन्दुभयो नेदुर्निपेतुः पुष्पवृष्टयः ॥ ३,२०.१०० ॥ विश्वावसुप्रभृतयो गन्धर्वाः सुरगायकाः । तुम्बुरुर्नारदश्चैव साक्षादेव सरस्वती ॥ ३,२०.१०१ ॥ जयमङ्गल पद्यानि पठन्तः पटुगीतिभिः । हर्षसंफुल्लवदनाः स्फुरत्पुलकभूषणाः । मुहुर्जयजयेत्येवं स्तुवाना ललितेश्वरीम् ॥ ३,२०.१०२ ॥ हर्षेणाढ्या मदोन्मत्ताः प्रनृत्यन्तः पदेपदे । सप्तर्षयो वशिष्ठाद्या ऋग्यजुः सामरूपिभिः ॥ ३,२०.१०३ ॥ अथर्वरूपैर्मन्त्रैश्च वर्धयन्तो जयश्रियम् । हविषेव महावह्निशिखामत्यन्तपाविनीम् ॥ ३,२०.१०४ ॥ आशीर्वादेन महता वर्धयामासुरुत्तमाः । तैः स्तूयमाना ललिता राजमाना रथोत्तमे ॥ ३,२०.१०५ ॥ भण्डासुरं विनिर्जेतुमुद्दण्डैः सह सैनिकैः ॥ ३,२०.१०६ ॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने किरिचक्ररथदेवताप्रकाशनं नाम विंशोऽध्यायः _____________________________________________________________ आकर्ण्य ललितादेव्या यात्रानिगमनिस्वनम् । महान्तं क्षोभमायाता भण्डासुरपुरालयाः ॥ ३,२१.१ ॥ यत्र चास्ति दुराशस्य भण्डदैत्यस्य दुर्धियः । महेन्द्रपर्वतोपान्ते महार्णवतटे पुरम् ॥ ३,२१.२ ॥ तत्तु शून्यकनाम्नैव विख्यातं भुवनत्रये । विषङ्गाग्रजदैत्यस्य सदावासः किलाभवत् ॥ ३,२१.३ ॥ तस्मिन्नेव पुरे तस्य शतयोजनविस्तरे । वित्रेसुर सुराः सर्वे श्रीदेव्यागमसंभ्रमात् ॥ ३,२१.४ ॥ शतयोजनविस्तीर्णं तत्सर्वं पुरमासुरम् । धूमैरिवावृतमभूदुत्पातजनितैर्मुहुः ॥ ३,२१.५ ॥ अकाल एव निर्भिन्ना भित्तयो दैत्यपत्तने । धूर्णमाना पतन्ति स्म महोल्का गगनस्थलात् ॥ ३,२१.६ ॥ उत्पातानां प्राथमिको भूकंपः पर्यवर्तत । मही जज्वाल सकला तत्र शून्यकपत्तने ॥ ३,२१.७ ॥ अकाल एव हृत्कंपं भेजुर्दैत्यपुरौकसः । ध्वजाग्रवर्तिनः कङ्कगृध्राश्चैव बकाः खगाः ॥ ३,२१.८ ॥ आदित्यमण्डले दृष्ट्वादृष्ट्वा चक्रन्दुरुच्चकैः । क्रव्यादा बहवस्तत्र लोचनैर्नावलोकिताः ॥ ३,२१.९ ॥ मुहुराकाशवाणीभिः परुषाभिर्बभाषिरे । सर्वतो दिक्षुदृश्यन्ते केतवस्तु मलीमसाः ॥ ३,२१.१० ॥ धूमायमानाः प्रक्षोभजनका दैत्यरक्षसाम् । दैत्यस्त्रीणां च विभ्रष्टा अकाले भूषणस्रजः ॥ ३,२१.११ ॥ हाहेति दूरं क्रन्दन्त्यः पर्यश्रु समरोदिषुः । दपणानां वर्मणां च ध्वजानां खड्गसंपदाम् ॥ ३,२१.१२ ॥ मणीनामंबराणां च मालिन्यमभवन्मुहुः । सौधेषु चन्द्रशालासु केलिवेश्मसु सर्वतः ॥ ३,२१.१३ ॥ अट्टालकेषु गोष्ठेषु विपणेषु सभासु च । चतुष्किकास्वलिङ्गेषु प्रग्रीवेषु वलेषु च ॥ ३,२१.१४ ॥ सर्वतोभद्रवासेषु नन्द्यावर्तेषु वेश्मसु । विच्छन्दकेषु संक्षुब्धेष्ववरोधनपालिषु । स्वस्तिकेषु च सर्वेषु गर्भागारपुटेषु च ॥ ३,२१.१५ ॥ गोपुरेषु कपाटेषु वलभीनां च सीमसु । वातायनेषु कक्ष्यासु धिष्ण्येषु च खलेषु च ॥ ३,२१.१६ ॥ सर्वत्र दैत्य नगरवासिभिर्जनमण्डलैः । अश्रूयन्त महाघोषाः परुषा भूतभाषिताः ॥ ३,२१.१७ ॥ शिथिली सवतो जाता घोरपर्णा भयानका । करटैः कटुकालापैर्वलोकि दिवाकरः । आराविषु करोटीनां कोटयश्चापतन्भुवि ॥ ३,२१.१८ ॥ अपतन्वेदिमध्येषु बिन्दवः शोणितांभसाम् । केशौघकाश्च निष्पेतुः सर्वतो धूमधूसराः ॥ ३,२१.१९ ॥ भौमान्तरिक्षदिव्यानामुत्पातानामिति व्रजम् । अवलोक्य भृशं त्रस्ताः सर्वे नगरवासिनः । निवेदयामासुरमी भण्डाय प्रथितौजसे ॥ ३,२१.२० ॥ स च भण्डः प्रचण्डोत्थैस्तैरुत्पातकदंबकैः । असंजातधृतिभ्रंशो मन्त्र स्थानमुपागमत् ॥ ३,२१.२१ ॥ मेरोरिव वपुर्भेदं बहुरत्नविचित्रितम् । अध्यासामास दैत्येन्द्रः सिंहासनमनुत्तमम् ॥ ३,२१.२२ ॥ स्फुरन्मुकुटलग्नानां रत्नानां किरणैर्घनैः । दीपयन्नखिलाशान्तानद्युतद्दानवेश्वरः ॥ ३,२१.२३ ॥ एकयोजनविस्तारे महत्यास्थानमण्डपे । तुङ्गसिंहासनस्थं तं सिषेवाते तदानुजै ॥ ३,२१.२४ ॥ विशुक्रश्च विषङ्गश्च महाबलपराक्रमौ । त्रैलोक्यकण्टकीभूतभुजदण्डभयङ्करौ ॥ ३,२१.२५ ॥ अग्रजस्य सदैवाज्ञामविलङ्घ्य मुहुर्मुहुः । त्रैलोक्यविजये लब्धं वर्धयन्तौ महद्यशः ॥ ३,२१.२६ ॥ न तेन शिरसा तस्य मृदूनन्तौ पादपीठिकाम् । कृतां जरिप्रणामौ च समुपाविशता भुवि ॥ ३,२१.२७ ॥ अथास्थाने स्थिते तस्मिन्नमरद्वेषिणां वरे । सर्वे सामन्तदैत्येन्द्रास्तं द्रष्टुं समुपागताः ॥ ३,२१.२८ ॥ तेषामे कैकसैन्यानां गणना न हि विद्यते । स्वंस्वं नाम समुच्चार्य प्रणेमुर्भण्डकेश्वरम् ॥ ३,२१.२९ ॥ म च तानसुरान्सर्वानतिधीरकनीनकैः । संभावयन्समालोकैः कियन्तं चित्क्षणं स्थितः ॥ ३,२१.३० ॥ अवोचत विशुक्रस्तमग्रजं दानवेश्वरम् । मथ्यमानमहासिंधुसमानार्गलनिस्वनः ॥ ३,२१.३१ ॥ देवत्वदीयदोर्द्दण्डविध्वस्तबलविक्रमाः । पापिनः पामराचारा दुरात्मानः सुराधमाः ॥ ३,२१.३२ ॥ शरण्यमन्यतः क्वापि नाप्नुवन्तो विषादिनः । ज्वलज्ज्वालाकुले वह्नौ पतित्वा नाशमागताः ॥ ३,२१.३३ ॥ तस्माद्देवात्समुत्पन्ना काचित्स्त्री बलगर्विता । स्वयमेव किलास्राक्षुस्तां देवा वासवादयः ॥ ३,२१.३४ ॥ तैः पुनः प्रबलोत्साहैः प्रोत्साहितपराक्रमाः । बहुस्त्रीपरिवाराश्च विविधायुधमण्डिताः ॥ ३,२१.३५ ॥ अस्माञ्जेतुं किलायान्ति हा कष्टं विधिवैशसम् । अबलानां समूहस्छेद्बलिनोऽस्मान्विजेष्यते ॥ ३,२१.३६ ॥ तर्हि पल्लवभङ्गेन पाषाणस्य विदारणम् । ऊह्यमानमिदं हन्तुं परिहासाय कल्प्यते ॥ ३,२१.३७ ॥ विडंबना न किमसौ लज्जाकरमिदं न किम् । अस्मत्सैनिकनासीरभटेभ्योऽपि भवेद्भयम् ॥ ३,२१.३८ ॥ कातरत्वं समापन्नाः शक्राद्यास्त्रिदिवौकसः । ब्रह्मादयश्च निर्विण्णविग्रहा मद्बलायुधैः ॥ ३,२१.३९ ॥ विष्णोश्च का कथैवास्ते वित्रस्तः स महेश्वरः । अन्येषामिह का वार्ता दिक्पालास्ते पलायिताः ॥ ३,२१.४० ॥ अस्माकमिषुभिस्तीक्ष्णैरदृश्यैरङ्गपातिभिः । सर्वत्र विद्धवर्माणो दुर्मदा विबुधाः कृताः ॥ ३,२१.४१ ॥ तादृशानामपि महापराक्रमभुजोष्मणाम् । अस्माकंविजयायाद्य स्त्री काचिदभिधावति ॥ ३,२१.४२ ॥ यद्यपि स्त्री तथाप्येषा नावमान्या कदाचन । अल्पोऽपि रिपुरात्मज्ञैर्नावमान्यो जिगीषुभिः ॥ ३,२१.४३ ॥ तस्मात्तदुत्सारणार्थं प्रेषणीयास्तु किङ्कराः । सकचग्रहमाकृष्य सानेतव्या मदोद्धता ॥ ३,२१.४४ ॥ देव त्वदीय शुद्धान्तर्वर्तिनीनां मृगीदृशाम् । चिरेण चेटिकाभावं सा दुष्टा संश्रयिष्यति ॥ ३,२१.४५ ॥ एकैकस्माद्भटादस्मात्सैन्येषु परिपन्थिनः । शङ्कते खलु वित्रस्तं त्रैलोक्यं सचराचरम् ॥ ३,२१.४६ ॥ अन्यद्देवस्य चित्तं तु प्रमाणमिति दानव । निवेद्य भण्डदैत्यस्य क्रोधं तस्य व्यवीवृधत् ॥ ३,२१.४७ ॥ विषङ्गस्तु महासत्त्वो विचारज्ञो विचक्षणः । इदमाह महादैत्यमग्रजन्मानमुद्धतम् ॥ ३,२१.४८ ॥ देव त्वमेव जानासि सर्वं कार्यमरिन्दम । न तु ते क्वापि वक्तव्यं नीतिवर्त्मनि वर्तते ॥ ३,२१.४९ ॥ सर्वं विचार्य कर्तव्यं विचारः परमा गतिः । अविचारेण चेत्कर्म समूलमवकृन्तति ॥ ३,२१.५० ॥ परस्य कटके चाराः प्रेषणीयाः प्रयत्नतः । तेषां बलाबलं ज्ञेयं जयसंसिद्धिमिच्छता ॥ ३,२१.५१ ॥ चारचक्षुर्दृढप्रज्ञः सदाशङ्कितमानसः । अशङ्किताकारवांश्च गुप्तमन्त्रः स्वमन्त्रिषु ॥ ३,२१.५२ ॥ षडुपायान्प्रयुञ्जानः सर्वत्रा भ्यर्हिते पदे । विजयं लभते राजा जाल्मो मक्षु विनश्यति ॥ ३,२१.५३ ॥ अविमृश्यैव यः कश्चिदारम्भः स विनाशकृत् । विमृश्य तु कृतं कर्म विशेषाज्जयदायकम् ॥ ३,२१.५४ ॥ तिर्यगित्यपि नारीति क्षुद्रा चेत्यपि राजभिः । नावज्ञा वैरिणां कार्या शक्तेः सर्वत्र सम्भवः ॥ ३,२१.५५ ॥ स्तंभोत्पन्नेन केनापि नरतिर्यग्वपुर्भृता । भूतेन सर्वभूतानां हिरण्यकशिपुर्हतः ॥ ३,२१.५६ ॥ पुरा हि चण्डिका नाम नारी मयाविजृंभिणी । निशुम्भशुंभौ महिषं व्यापादितवती रणे ॥ ३,२१.५७ ॥ तत्प्रसंगेन बहवस्तया दैत्या विनाशिताः । अतो वदामिनावज्ञा स्त्रीमात्रे क्रियतां क्वचित् ॥ ३,२१.५८ ॥ शक्तिरेव हि सर्वत्र कारणं विजयश्रियः । शक्तेराधारतां प्रप्तैः स्त्रीपुंलिङ्गैर्न नो भयम् ॥ ३,२१.५९ ॥ शक्तिस्तु सर्वतो भाति संसारस्य स्वभावतः । तर्हि तस्या दुराशायाः प्रवृत्तिर्ज्ञायतां त्वया ॥ ३,२१.६० ॥ केयं कस्मात्समुत्पन्ना किमाचारा किमाश्रया । किंबला किंसहाया वा देव तत्प्रविचार्यताम् ॥ ३,२१.६१ ॥ इत्युक्तः स विषङ्गेण को विचारो महौजसाम् । अस्मद्बले महासत्त्वा अक्षौहिण्यधिपाः शतम् ॥ ३,२१.६२ ॥ पातुं क्षमास्ते जलधीनलं दग्धुं त्रिविष्टपम् । अरे पापसमाचार किंवृथा शङ्कसे स्त्रियः ॥ ३,२१.६३ ॥ तत्सर्वं हि मया पूर्वं चारद्वारावलोकितम् । अग्रे समुदिता काचिल्ललितानामधारिणी ॥ ३,२१.६४ ॥ यथार्थनामवत्येषा पुष्पवत्पेशलाकृतिः । न स्त्त्वं न च वीर्यं वा न संग्रामेषु वा गतिः ॥ ३,२१.६५ ॥ सा चाविचारनिवहा किन्तु मायापरायणा । तत्सत्त्वेनाविद्यमानं स्त्रीकदम्बकमात्मनः ॥ ३,२१.६६ ॥ उत्पादितवती किं ते न चैवं तु विचेष्टते । अथ वा भव दुक्तेन न्यायेनास्तु महद्बलम् ॥ ३,२१.६७ ॥ त्रैलोक्योल्लङ्घिमहिमा भण्डः केन विजीयते ॥ ३,२१.६८ ॥ इदानीमपि मद्बाहुबलसंमर्दमूर्च्छिताः । श्वसितुं चापि पटवो न कदाचन नाकिनः ॥ ३,२१.६९ ॥ केचित्पातालगर्भेषु केचिदम्बुधिवारिषु । केचिद्दिगन्तकोणेषु केचित्कुञ्जेषुभूभृताम् ॥ ३,२१.७० ॥ विलीना भृशवित्रस्तास्त्यक्तदारसुतश्रियः । भ्रष्टाधिकाराः पशवश्छन्नवेषाश्चरन्ति ते ॥ ३,२१.७१ ॥ एतादृशं न जानाति मम बाहुपराक्रमम् । अबला न चिरोत्पन्ना तेनैषा दर्पमश्नुते ॥ ३,२१.७२ ॥ न जानन्ति स्त्रियो मूढा वृथा कल्पितसाहसाः । विनाशमनुधावन्ति कार्याकार्यविमोहिताः ॥ ३,२१.७३ ॥ अथ वा तां पुरस्कृत्य यद्यागच्छन्ति नाकिनः । यथा महोरगाः सिद्धाः साध्या वा युद्धदुर्मदाः ॥ ३,२१.७४ ॥ ब्रह्मा वा पद्मनाभो वा रुद्रो वापि सुराधिपः । अन्ये वा हरितां नाथास्तान्संपेष्टुमहं पटुः ॥ ३,२१.७५ ॥ अथ वा मम सेनासु सेनान्यो रणदुर्मदाः । पक्वकर्करिकापेषमवपेक्ष्यति वैरिणः ॥ ३,२१.७६ ॥ कुटिलाक्षः कुरण्डश्च करङ्कः कालवाशितः । वज्रदन्तो वज्रमुखो वज्रलोमा बलाहकः ॥ ३,२१.७७ ॥ सूचीमुखः फलमुखो विकटो विकटाननः । करालाक्षः कर्कटको मदनो दीर्घजिह्वकः ॥ ३,२१.७८ ॥ हुंबको हलमुल्लुञ्चः कर्कशः कल्किवाहनः । पुल्कसः पुण्ड३ एतुश्च चण्डबाहुश्च कुक्कुरः ॥ ३,२१.७९ ॥ जंबुकाक्षो जृंभणश्च तीक्ष्मशृङ्गस्त्रिकण्टक । चतुर्गुप्तश्चतुर्बाहुश्चकाराक्षश्चतुःशिराः ॥ ३,२१.८० ॥ वज्रघोषश्चोर्ध्वकेशो महामायामहाहनुः । मखशत्रुर्मखास्कन्दी सिंहघोषः शिरालकः ॥ ३,२१.८१ ॥ अन्धकः सिंधुनेत्रश्च कूपकः कूपलोचनः । गुहाक्षो गण्डगल्लश्च चण्डधर्मो यमान्तकः ॥ ३,२१.८२ ॥ लडुनः पट्टसेनश्च पुरजित्पूर्वमारकः । स्वर्गशत्रुः स्वर्गबलो दुर्गाख्यः स्वर्गकण्टकः ॥ ३,२१.८३ ॥ अतिमायो बृहन्माय उपमाय उलूकजित् । पुरुषेणो विषेणश्च कुन्तिषेणः परूषकः ॥ ३,२१.८४ ॥ मलकश्च कशूरश्च मङ्गलो द्रघणस्तथा । कोल्लाटः कुजिलाश्वश्च दासेरो बभ्रुवाहनः ॥ ३,२१.८५ ॥ दृष्टहासो दृष्टकेतुः परिक्षेप्तापकञ्चुकः । महामहो महादंष्ट्रो दुर्गतिः स्वर्गमेजयः ॥ ३,२१.८६ ॥ षट्केतुः षड्वसुश्चैव षड्दन्त षट्प्रियस्तथा । दुःशठो दुर्विनीतश्च छिन्नकर्णश्च मूषकः ॥ ३,२१.८७ ॥ अदृहासी महाशी च महाशीर्षो मदोत्कटः । कुम्भोत्कचः कुम्भनासः कुम्भग्रीवो घटोदरः ॥ ३,२१.८८ ॥ अश्वमेढ्रो महाण्डश्च कुम्भाण्डः पूतिनासिकः । पूतिदन्तः पूतिचक्षुः पूत्यास्यः पूतिमेहनः ॥ ३,२१.८९ ॥ इत्येवमादयः शूरा हिरण्यकशिपोः समाः । हिरण्याक्ष समाश्चैव मम पुत्रा महाबलाः ॥ ३,२१.९० ॥ एकैकस्य सुतास्तेषु जाताः शुराः परःशतम् । सेनान्यो मे मदोदुवृत्ता मम पुत्रैरनुद्रुताः ॥ ३,२१.९१ ॥ नाशयिष्यन्ति समरे प्रोद्धतानमराधमान् । ये केचित्कुपिता युद्धे सहस्राक्षौहिणी वराः । भस्मशेषा भवेयुस्तै हा हन्त किमुताबला ॥ ३,२१.९२ ॥ मायाविलासाः सर्वेऽपि तस्याः समरसीमनि । महामायाविनोदाश्च कुप्युस्ते भस्मसाद्बलम् ॥ ३,२१.९३ ॥ तद्वृथा शङ्कया खिन्नं मा ते भवतु मानसम् । इत्यक्त्वा भण्डदैत्येन्द्रः समुत्थाय नृपासनात् ॥ ३,२१.९४ ॥ उवाच निजसेनान्यं कुटिलाक्षं महाबलम् । उत्तिष्ठ रे बलं सर्वं संनाहय समन्ततः ॥ ३,२१.९५ ॥ शून्यकस्य समन्ताच्च द्वारेषु बलमर्पय । दुर्गाणि संगृहाण त्वं कुरुक्षेपणिकाशतम् ॥ ३,२१.९६ ॥ दुष्टाभिचाराः कर्तव्या मेत्रिभिश्च पुरोहितैः । सज्जीकुरु त्वं शस्त्राणि युद्धमेतदुपस्थितम् ॥ ३,२१.९७ ॥ सेनापतिषु यं केचिदग्रे प्रस्थापयाधुना । अनेकबलसंघातसहितं घोरदर्शनम् ॥ ३,२१.९८ ॥ तेन संग्रामसमये सन्निपत्य विनिर्जितम् । केशेष्वाकृष्य तां मूढां देवसत्त्वे न दर्पिताम् ॥ ३,२१.९९ ॥ इत्याभाष्य चमूनाथं सहस्रत्रितयाधिपम् । कुटिलाक्षं महासत्त्वं स्वयं चान्तः पुरं ययौ ॥ ३,२१.१०० ॥ अथापतन्त्याः श्रीदेव्या यात्रानिः साणनिःस्वनाः । अश्रूयन्त च दैत्येन्द्रैरतिकर्णज्वरावहाः ॥ ३,२१.१०१ ॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने भण्डासुराहङ्कारो नामैकविंशोऽध्यायः _____________________________________________________________ अथ श्रीललितासेनानिस्साणप्रतिनिस्वनः । उच्चचालसुरेन्द्राणां योद्धतो दुन्दुभिध्वनिः ॥ ३,२२.१ ॥ तेन मर्दितदिक्केन क्षुभ्यद्गर्भपयोधिना । बधिरीकृतलोकेन चकम्पे जगतां त्रयी ॥ ३,२२.२ ॥ मर्दयन्ककुभां वृन्दं भिन्दन्भूधरकन्दराः । पुप्रोथे गगनाभोगे दैत्य निःसाणनिस्वनः ॥ ३,२२.३ ॥ महानरहरिक्रुद्धहुङ्कारोद्धतिमद्ध्वनिः । विरसं विररासोच्चैर्विबुधद्वेषिझल्लरी ॥ ३,२२.४ ॥ ततः किलकिलारावमुखरा दैत्यकोटयः । समनह्यन्त संक्रुद्धाः प्रति तां परमेश्वरीम् ॥ ३,२२.५ ॥ कश्चिद्रत्नविचित्रेण वर्मणाच्छन्नविग्रहः । चकाशे जङ्गम इव प्रोत्तुङ्गो रोहणाचलः ॥ ३,२२.६ ॥ कालरात्रिमिवोदग्रां शस्त्रकारेण गोपिताम् । अधुनीत भटः कश्चिदतिधौतां कृपाणिकाम् ॥ ३,२२.७ ॥ उल्ला सयन्कराग्रेण कुन्तपल्लवमेकतः । आरूढतुरगो वीथ्यां चारिभेदं चकार ह ॥ ३,२२.८ ॥ केचिदारुरुहुर्योधा मातङ्गांस्तुङ्गवर्ष्मणः । उत्पात वातसंपातप्रेरितानिव पर्वतान् ॥ ३,२२.९ ॥ पट्टिशैर्मुद्गरैश्चैव भिदुरैर्भिण्डिपालकैः । द्रुहणैश्च भुशुण्डीभिः कुठारैर्मुसलैरपि ॥ ३,२२.१० ॥ गदाभिश्च शतघ्नीभिस्त्रिशिखैर्विशिखैरपि । अर्धचक्रैर्महाचक्रैर्वक्राङ्गैरुरगाननैः ॥ ३,२२.११ ॥ फणिशीर्षप्रभेदैश्च धनुर्भिः शार्ङ्गधन्विभिः । दण्डैः क्षेपणिकाशस्त्रैर्वज्रबाणैर्दृषद्वरैः ॥ ३,२२.१२ ॥ यवमध्यैर्मुष्टिमध्यैर्वललैः खण्डलैरपि । कटारैः कोणमध्यैश्च फणिदन्तैः परःशतैः ॥ ३,२२.१३ ॥ पाशायुधैः पाशतुण्डैः काकतुण्डैः सहस्रशः । एवमादिभिरत्युग्रैरायुधैर्जीवहारिभिः ॥ ३,२२.१४ ॥ परिकल्पितहस्ताग्रा वर्मिता दैत्यकोटयः । अश्वारोहा गजारोहा गर्दभारोहिणः परे ॥ ३,२२.१५ ॥ उष्ट्रारोहा वृकारोहा शुनकारोहिणः परे । काकादिरोहिणो गृध्रारोहाः कङ्कादिरोहिणः ॥ ३,२२.१६ ॥ व्याघ्रादिरोहिणश्चान्ये परे सिंहादिरोहिणः । शरभारोहिणश्चान्ये भेरुण्डारोहिणः परे ॥ ३,२२.१७ ॥ सूकरारोहिणो व्यालारूढाः प्रेतादिरोहिणः । एवं नानाविधैर्वाहवाहिनो ललितां प्रति ॥ ३,२२.१८ ॥ प्रचेलुः प्रबलक्रोधसंमूर्च्छितनिजाशयाः । कुटिलं सैन्यभर्त्तारं दुर्मदं नाम दानवम् । दशाक्षौहिणिकायुक्तं प्राहिणोल्ललितां प्रति ॥ ३,२२.१९ ॥ दिधक्षुभिरिवाशेषं विश्वं सह बलोत्कटैः । भटैर्युक्तः स सेनानी ललिताभिमुखे ययौ ॥ ३,२२.२० ॥ भिन्दन्पटहसंरावैश्चतुर्दश जगन्ति सः । अट्टहासान्वितन्वानो दुर्मदस्तन्मुखो ययौ ॥ ३,२२.२१ ॥ अथ भण्डासुराज्ञप्तः कुटिलाक्षो महाबलः । शून्यकस्य पुरद्वारे प्रचीने समकल्पयत् । रक्षणार्थं दशाक्षौ हिण्युपेतं तालजङ्घकम् ॥ ३,२२.२२ ॥ अवाचीने पुरद्वारे दशाक्षौहिणिकायुतम् । नाम्ना तालभुजं दैत्यं रक्षणार्थमकल्पयत् ॥ ३,२२.२३ ॥ प्रतीचीने पुरद्वारे दशाक्षौहिणिकायुतम् । तालग्रीवं नाम दैत्यं रक्षार्थं समकल्पयत् ॥ ३,२२.२४ ॥ उत्तरे तु पुरद्वारे तालकेतुं महा बलम् । आदिदेश स रक्षार्थं दशाक्षौहिणिकायुतम् ॥ ३,२२.२५ ॥ पुरस्य सालवलये कपिशीर्षकवेश्मसु । मण्डलाकारतो वस्तुन्दशाक्षौहिणिमादिशत् ॥ ३,२२.२६ ॥ एवं पञ्चाशता कृत्वाक्षौहिण्या पुररक्षणम् । शून्यकस्य पुरस्यैव तद्वृत्तं स्वामिनेऽवदत् ॥ ३,२२.२७ ॥ कुटिलाक्ष उवाच देव त्वदाज्ञया दत्तं सैन्यं नगररक्षणे । दुर्मदः प्रेषितः पूर्वं दुष्टां तां ललितां प्रति ॥ ३,२२.२८ ॥ अस्मत्किङ्कर मात्रेण सुनिराशा हि साबला । तथापि राज्ञामाचारः कर्त्तव्यं पुररक्षणम् ॥ ३,२२.२९ ॥ इत्युक्त्वा भण्डदैत्येन्द्रं कुबिलाक्षोऽतिगर्वितः । स्वसैन्यं सज्जयामास सेनापतिभिरन्वितः ॥ ३,२२.३० ॥ दूतस्तु प्रेषितः पूर्वं कुटिलाक्षेण दानवः । स ध्वनन्ध्वजिनीयुक्तो ललितासैन्य मावृणोत् ॥ ३,२२.३१ ॥ कृत्वा किलकिलारावं भटास्तत्र सहस्रशः । दोधूयमानैरसिभिर्निपेतुः शक्तिसैनिकैः ॥ ३,२२.३२ ॥ ताश्च शक्त्य उद्दण्डाः स्फुरिताट्टहसस्वनाः । देदीप्यमानशस्त्राभाः समयुध्यन्त दानवैः ॥ ३,२२.३३ ॥ शक्तीनां दानवानां च संशोभितजगत्त्रयः । समवर्तत संग्रामो धूलिग्रामतताम्बरः ॥ ३,२२.३४ ॥ रथवंशेषु मूर्च्छन्त्यः करिकण्ठैः प्रपञ्चिताः । अश्वनिःश्वासविक्षिप्ता धूलयः रवं प्रपेदिरे ॥ ३,२२.३५ ॥ तमापतन्तमालोक्य दशाक्षौहिणिकावृतम् । संपत्सरस्वती क्रोधादभिदुद्राव संगरे ॥ ३,२२.३६ ॥ सम्पत्करीसमानाभिः शक्तिभिः समधिष्ठिताः । अश्वाश्च दन्तिनो मत्ता व्यमर्दन्दानत्रीं चमुम् ॥ ३,२२.३७ ॥ अन्योन्यतुमुले युद्धे जाते किलिकिलारवे । धूलीषु धूयमानासु ताड्यमानासु भेरिषु ॥ ३,२२.३८ ॥ इतस्ततः प्रववृधे रक्तसिन्धुर्महीयसी । शक्तिभिः पात्यमानानां दानवानां सहस्रशः ॥ ३,२२.३९ ॥ ध्वजानि लुठितान्यासन्विलूनानि शिलीमुखैः । विस्रस्ततत्तच्छिह्नानि समं छत्रकदम्बकैः ॥ ३,२२.४० ॥ रक्तारुणायां युद्धोर्व्यां पतितैश्छत्रमण्डलैः । आलंबि तुलना संध्यारक्ताभ्रहिमरोचिषा ॥ ३,२२.४१ ॥ ज्वालाकपालः कल्पाग्निरिव चारुपयोनिधौ । दैत्यसैन्यानि निवहाः शक्तीनां पर्यवारयन् ॥ ३,२२.४२ ॥ शक्तिच्छन्दोज्ज्वलच्छस्त्रधारानिष्कृत्तकन्धराः । दानवानां रणतले निपेतुर्मुण्डराशयः ॥ ३,२२.४३ ॥ दष्टौष्ठैर्भ्रुकुटीक्रूरैः क्रोधसंरक्तलोचनैः । मुण्डैरखण्डमभवत्संग्रामधरणीतलम् ॥ ३,२२.४४ ॥ एवं प्रवृत्ते समये जगच्चक्रभयङ्करे । शक्तयो भृशसंक्रुद्धा दैत्यसेनाममर्दयन् ॥ ३,२२.४५ ॥ इतस्ततः शक्तिशस्त्रैस्ताडिता मूर्च्छिता इति । विनेशुर्दानवास्तत्र संपद्देवीबलाहताः ॥ ३,२२.४६ ॥ अथ भग्नं समाश्वास्य निजं बलमरिन्दमः । उष्ट्रमारुह्य सहसा दुर्मदोऽभ्यद्रवच्चमुम् ॥ ३,२२.४७ ॥ दीर्घग्रीवः समुन्नद्धः पृष्ठे निष्ठुरतोदनः । अधिष्ठितो दुर्मदेन वाहनोष्ट्रश्चचाल ह ॥ ३,२२.४८ ॥ तमुष्ट्रवाहनं दुष्टमन्वीयुः क्रुद्धचेतसः । दानावनश्वसत्सर्वान्भीताञ्छक्तियुयुत्सया ॥ ३,२२.४९ ॥ अवाकिरद्दिशो भल्लैरुल्लसत्फलशालिभिः । संपत्करीचमूचक्रं वनं वार्भिरिवांबुदः ॥ ३,२२.५० ॥ तेन दुःसहसत्त्वेन ताडिता बहुभिः शरैः । स्तंभितेवाभवत्सेना संपत्कर्याः क्षणं रणे ॥ ३,२२.५१ ॥ अथ क्रोधारुणं चक्षुर्दधाना संपदंबिका । रणकोलाहलगजमारूढायुध्यतामुना ॥ ३,२२.५२ ॥ आलोलकङ्कणक्वाणरमणीयतरः करः । तस्याश्चाकृष्य कोदण्डमौर्वीमाकर्णमाहवे ॥ ३,२२.५३ ॥ लघुहस्ततयापश्यन्नाकृष्टन्न च मोक्षणम् । ददृशे घनुषश्चक्रं केवलं शरधारणे ॥ ३,२२.५४ ॥ आश्वर्काबरसंपर्कस्फुटप्रतिफलत्फलाः । शराः सम्पत्करीचापच्युताः समदहन्नरीन् ॥ ३,२२.५५ ॥ दुर्मदस्याथ तस्याश्च समभूद्युद्धमुद्धतम् । अभूदन्योन्यसंघट्टाद्विस्फुलिङ्गशिलीमुखैः ॥ ३,२२.५६ ॥ प्रथमं प्रसृतैर्बाणैः सम्पद्देवीसुरद्विषोः । अन्धकारः समभवत्तिरस्कुर्वन्नहस्करम् ॥ ३,२२.५७ ॥ तदन्तरे च बाणानामतिसंघट्टयोनयः । विष्फुलिङ्गा विदधिरे दधिरे भ्रमचातुरीम् ॥ ३,२२.५८ ॥ तयाधिरूढः संश्रोण्यारणकोलाहलः करी । पराक्रमं बहुविधं दर्शयामास संगरे ॥ ३,२२.५९ ॥ करेण कतिचिद्दैत्यान्पादघातेन कांश्चन । उदग्रदन्तमुसलघातैरन्यांश्च दानवान् ॥ ३,२२.६० ॥ वालकाण्डहतैरन्यान्फेत्कारैरपरान्रिपून् । गात्रव्यामर्द्दनैरन्यान्नखघातैस्तथापरान् ॥ ३,२२.६१ ॥ पृथुमानाभिघातेन कांश्चिद्दैत्यन्व्यमर्दयत् । चतुरं चरितं चक्रे संपद्देवीमतङ्गजः ॥ ३,२२.६२ ॥ सुदुर्मदः क्रुधा रक्तो दृढेनैकेन पत्रिणा । संपत्करीमुकुटगं मणिमेकमपाहरत् ॥ ३,२२.६३ ॥ अथ क्रोधारुणदृशा तया मुक्तैः शिलीमुखैः । विक्षतो वक्षसि क्षिप्रं दुर्मदो जीवितं जहौ ॥ ३,२२.६४ ॥ ततः किलकिला रावं कृत्वा शक्तिचमूवरैः । तत्सैनिकवरास्त्वन्ये निहता दानवोत्तमाः ॥ ३,२२.६५ ॥ हतावशिष्टा दैत्यास्तु शक्तिबाणैः खिलीकृताः । पलायिता रणक्षोण्याः शून्यकं पुरमाश्रयन् ॥ ३,२२.६६ ॥ तद्वृत्तान्तमथाकर्ण्य संक्रुद्धो दानवेश्वरः ॥ ३,२२.६७ ॥ प्रचण्डेन प्रभावेण दीप्यमान इवात्मनि । स पस्पर्श नियुद्धाय खड्गमुग्रविलोचनः । कुटिलाक्षं निकटगं बभाषे पृतनापतिम् ॥ ३,२२.६८ ॥ कथं सा दुष्टवनिता दुर्मदं बलशालिनम् । निपातितवती युद्धे कष्ट एव विधेः क्रमः ॥ ३,२२.६९ ॥ न सुरेषु न यक्षेषु नोरगेन्द्रेषु यद्बलम् । अभूत्प्रतिहतं सोऽपि दुर्मदोऽबलया हतः ॥ ३,२२.७० ॥ तां दुष्टवनितां जेतुमाक्रष्टुं च कचं हठात् । सेनापतिं कुरण्डाख्यं प्रेषयाहवदुर्मदम् ॥ ३,२२.७१ ॥ एति संप्रोषितस्तेन कुटिलाक्षो महापलम् । कुरण्डं चण्डदोर्द्दण्डमाजुहाव प्रभोः पुरः ॥ ३,२२.७२ ॥ स कुरण्डः समागत्य प्रणाम स्वामिनेऽदिशत् । उवाच कुटिलाक्षस्तं गच्छ सज्जय सैनिकान् ॥ ३,२२.७३ ॥ मायायां चतुरोऽसि त्वं चित्रयुद्धविशारद । कूटयुद्धे च निपुणस्तां स्त्रियं परिमर्दय ॥ ३,२२.७४ ॥ इति स्वामिपुरस्तेन कुटिलाक्षेण देशितः । निर्जगाम पुरात्तूर्णं कुरण्डश्चण्डविक्रमः ॥ ३,२२.७५ ॥ विंशत्यक्षौहिणीभिश्च समन्तात्परिवारितः । मर्दयन्स महीगोलं हस्तिवाजिपदातिभिः । दुर्मदस्याग्रजश्चण्डः कुरण्डः समरं ययौ ॥ ३,२२.७६ ॥ दूलीभिस्तुमुलीकुर्वन्दिगन्तं धीरमानसः । शोकरोषग्रहग्रस्तो जवनाश्वगतो ययौ ॥ ३,२२.७७ ॥ शार्ङ्गं धनुः समादाय घोरटङ्कारमुत्स्वनम् । ववर्ष शरधारभिः संपत्कर्या महाचमूम् ॥ ३,२२.७८ ॥ पापे मदनुजं हत्वा दुर्मदं युद्धदुर्मदम् । वृथा वहसि विक्रान्तिलवलेशं महामदम् ॥ ३,२२.७९ ॥ इदानीं चैव भवतीमेतैर्नाराचमण्डलैः । अन्तकस्य पुरीमत्र प्रापयिष्यामि पश्य माम् ॥ ३,२२.८० ॥ अतिहृद्यमतिस्वादु त्वद्वपुर्बिलनिर्गतम् । अपूर्वमङ्गनारक्तं पिबन्तु रणपूतनाः ॥ ३,२२.८१ ॥ ममानुजवधोत्थस्य प्रत्यवायस्य तत्फलम् । अधुना भोक्ष्यसे दुष्टे पश्य मे भुजयोर्बलम् ॥ ३,२२.८२ ॥ इति संतर्जयन्संपत्करीं करिवरस्थिताम् । सैन्यं प्रोत्साहयामास शक्तिसेनाविमर्दने ॥ ३,२२.८३ ॥ अथ तां पृतनां चण्डी कुरण्डस्य महौजसः । विमर्दयितुमुद्युक्ता स्वसैन्यं प्रोदसीसहत् ॥ ३,२२.८४ ॥ अपुर्वाहवसंजातकौतुकाथ जगाद ताम् । अश्वरूढा समागत्य सस्नेहार्द्रमिदं वचः ॥ ३,२२.८५ ॥ सखि संपत्करि प्रीत्या मम वाणी निशम्यतम् । अस्य युद्धमिदं देहि मम कर्तुं गुणोत्तरम् ॥ ३,२२.८६ ॥ क्षणं सहस्व समरे मयैवैष नियोत्स्यते । याचितासि सखित्वेन नात्र संशयमाचर ॥ ३,२२.८७ ॥ इति तस्या वचः श्रुत्वा संपद्देव्या शुचिस्मिता । निवर्तयामास चमूङ्कुरुण्डाभिमुखोत्थिताम् ॥ ३,२२.८८ ॥ अथ बालार्कवर्णाभिः शक्तिभिः समधिष्ठिताः । तरङ्गा इव सैन्याब्धेस्तुरङ्गा वातरंहसः ॥ ३,२२.८९ ॥ खरैः खुरपुटैः क्षोणीमुल्लिखन्तो मुहुर्मुहुः । पेतुरेकप्रवाहेण कुरण्डस्य चमूमुखे ॥ ३,२२.९० ॥ वल्गाविभागकृत्येषु संवर्तनविवर्तने । घतिभेदेषु चारेषु पञ्चधा खुरपातने ॥ ३,२२.९१ ॥ प्रोत्साहने च संज्ञाभिः करपादाग्रयोनिभिः । चतुराभिस्तुरङ्गस्य हृदयज्ञाभिराहवे ॥ ३,२२.९२ ॥ अश्वारूढांबिकासैन्यशक्तिभिः सह दानवाः । प्रोत्साहिताः कुरण्डेन समयुध्यन्त दुर्मदाः ॥ ३,२२.९३ ॥ एवं प्रवृत्ते समरे शक्तीनां च सुरद्विषाम् । अपराजितनामानं हयमारुह्य वेगिनम् । अभ्यद्रवद्दुराचारमश्वारूढाः कुरण्डकम् ॥ ३,२२.९४ ॥ प्रचलद्वेणिसुभगा शरच्चन्द्रकलोज्ज्वला । संध्यानुरक्तशीतांशुमण्डलीसुंदरानना ॥ ३,२२.९५ ॥ स्मयमानेव समरे गृहीतमणिकार्मुका । अवाकिरच्छरासारैः कुरण्डं तुरगानना ॥ ३,२२.९६ ॥ तुरगारूढयोत्क्षिप्ताः समाक्रामन्दिगन्तरान् । दिशो दश व्यानशिरे रुक्मपुङ्खाः शिलीमुखाः ॥ ३,२२.९७ ॥ दुर्मदस्याग्रजः क्रुद्धः कुरण्डश्चण्डविक्रमः । विशिखैः शार्ङ्गनिष्ठ्यूतैरश्वारूढा मवाकिरत् ॥ ३,२२.९८ ॥ चण्डैः खुरपुटैः सैन्यं खण्डयन्नतिवेगतः । अश्वारूढातुरङ्गोऽपि मर्दयामास दानवान् ॥ ३,२२.९९ ॥ तस्या हेषारवाद्दूरमुत्पातांबुधिनिःस्वनः । अमूर्च्छयन्ननेकानि तस्यानीतानि वैरिणः ॥ ३,२२.१०० ॥ इतस्ततः प्रचलितैर्दैत्यचक्रे हयासना । निजं पाशायुधं दिव्यं मुमोच ज्वलिताकृति ॥ ३,२२.१०१ ॥ तस्मात्पाशात्कोटिशोऽन्ये पाशा भुजगभीषणाः । समस्तमपि तत्सैन्यं बद्ध्वाबद्ध्वा व्यमूर्छयन् ॥ ३,२२.१०२ ॥ थ सैनिकबन्धेन क्रुद्धः स च कुरण्डकः । सरेणैकेन चिच्छेद तस्या मणिधनुर्गुणम् ॥ ३,२२.१०३ ॥ छिन्नमौर्वि धनुस्त्यक्त्वा भृशङ्क्रुद्धा हयासना । अङ्कुशं पातयामास तस्य वक्षसि दुर्मतेः ॥ ३,२२.१०४ ॥ तेनाङ्कुशेन ज्वलता पीतजीवितशोणितः । कुरण्डो न्यपतद्भूमौ वज्ररुग्ण इव द्रुमः ॥ ३,२२.१०५ ॥ तदङ्कुशविनिष्ठ्यूताः पुतनाः काश्चिदुद्भटाः । तत्सैन्यं पाशनिष्यन्दं भक्षयित्वा क्षयं गताः ॥ ३,२२.१०६ ॥ इत्थं कुरुण्डे निहते विंशत्यक्षौहिणीपतौ । हतावशिष्टास्ते दैत्याः प्रपलायन्त वै द्रुतम् ॥ ३,२२.१०७ ॥ कुरण्डं सानुजं युद्धे शक्तिसैन्यैर्निपातितम् । श्रुत्वा शून्यकनाथोऽपि निशश्वास भुजङ्गवत् ॥ ३,२२.१०८ ॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने दुर्मदकुरण्डवधो नाम द्वाविंशोऽध्यायः _____________________________________________________________ अथाश्वरूढया क्षिप्ते कुरण्डे भण्डदानवः । कुटिलाक्षमिदं प्रोचे पुनरेव युयुत्सया ॥ ३,२३.१ ॥ स्वप्नेऽपि यन्न संभाव्यं यन्न श्रुतमितः पुरा । यच्च नो शङ्कितं चित्ते तदेतत्कष्टमागतम् ॥ ३,२३.२ ॥ कुरण्डदुर्मदौ सत्त्वशालिनौ भ्रातरौ हितौ । दुष्टदास्याः प्रभावोऽयं मायाविन्या महत्तरः ॥ ३,२३.३ ॥ इतः परं करङ्कादीन्पञ्चसेनाधिनायकान् । शतमक्षौहिणीनां च प्रस्थापय रणाङ्गणे ॥ ३,२३.४ ॥ ते युद्धदुर्मदाः शूराः संग्रामेषु तनुत्यजः । सर्वथैव विजेष्यन्ते दुर्विदग्धविलासिनीम् ॥ ३,२३.५ ॥ इति भण्डवचः श्रुत्वा भृशं चत्वरयान्वितः । कुटिलाक्षः करङ्कादीनाजुहाव चमूपतीन् ॥ ३,२३.६ ॥ ते स्वामिनं नमस्कृत्य कुटिलाक्षेण देशिताः । अग्नौ प्रविष्णव इव क्रोधान्धा निर्ययुः पुरात् ॥ ३,२३.७ ॥ तेषां प्रयाणनिःसाणरणितं भृशदुःसहम् । आकर्ण्य दिग्गजास्तूर्णं शीर्णकर्णा जुघूर्णिरे ॥ ३,२३.८ ॥ शतमक्षौहिणीनां च प्राचलत्केतुमालकम् । उत्तरङ्गतुरङ्गादि बभौ मत्तमतङ्गजम् ॥ ३,२३.९ ॥ ह्रेषमाणहयाकीर्णं क्रन्दद्भटकुलोद्भवम् । बृंहमाणगजं गर्जद्रथयक्रं चचाल तत् ॥ ३,२३.१० ॥ चक्रनेमिहतक्षोणीरेणुक्षपितरोचिषा । बभूवे तुहिनासारच्छन्नेनेव विवस्वता ॥ ३,२३.११ ॥ धूलीमयमिवाशेषमभवद्विश्वमण्डलम् । क्वचिच्छब्दमयं चैव निःसाणकठिनस्वनैः ॥ ३,२३.१२ ॥ उद्भूतैर्धूलिकाजालैराक्रान्ता दैत्यसैनिकाः । इयत्तयातः सेनायाः संख्यापि परिभाविता ॥ ३,२३.१३ ॥ ध्वजा बहुविधाकारा मीनव्यालादिचित्रिताः । प्रचेलुर्धूलिकाजाले मत्स्या इव महोदधौ ॥ ३,२३.१४ ॥ तानापतत आलोक्य ललितासैनिकं प्रति । वित्रेसुरमराः सर्वे शक्तीनां भङ्गशङ्कया ॥ ३,२३.१५ ॥ ते करङ्कमुखाः पञ्च सेनापतय उद्धताः । सर्पिणीं नाम समरे मायां चक्रुर्महीयसीम् ॥ ३,२३.१६ ॥ तैः समुत्पतिता दुष्टा सर्पिणी रमशांबरी । धूम्रवर्णा च धूम्रोष्ठी धूम्रवर्मपयोधरा ॥ ३,२३.१७ ॥ महोदधिरिवात्यन्तं गंभीरकुहरोदरी । पुरश्चचाल शक्तीनान्त्रासयन्ती मनो रणे ॥ ३,२३.१८ ॥ कद्रूरिवापरा दुष्टा बहुसर्पविभूषणा । सर्पाणामुद्भवस्थानं मायामयशरीरिणाम् ॥ ३,२३.१९ ॥ सेनापतीनां नासीरे वेल्लयन्तीमहीतले । वेल्लितं बहुधा चक्रे घोरारावविराविणी ॥ ३,२३.२० ॥ तथैव मायया पूर्वं तेऽसुरेद्रा व्यजीजयन् । करङ्काद्या दुरात्मानः पञ्चपञ्चत्त्वकामुकाः ॥ ३,२३.२१ ॥ अथ प्रववृते युद्धं शक्तीनाममरद्रुहाम् । अन्योन्यवीरभाषाभिः प्रोत्साहितघनक्रुधाम् ॥ ३,२३.२२ ॥ अत्यन्तसंकुलतया न विज्ञातपरस्पराः । शक्तयो दानवश्चैव प्रजहुः शस्त्रपाणयः ॥ ३,२३.२३ ॥ अन्योन्यशस्त्रसंघट्टसमुत्थितहुताशने । प्रवृत्तविशिखस्रोतःप्रच्छन्नहरिदन्तरे ॥ ३,२३.२४ ॥ बहुरक्तनदीपूरह्रियमाणमतङ्गजे । मांसकर्दमनिर्मग्ननिष्पन्दरथमण्डले ॥ ३,२३.२५ ॥ विकीर्णकेशशैवालविलसद्रक्तनिर्झरे । अतिनिष्ठुरविध्वंसि सिंहनादभयङ्करे ॥ ३,२३.२६ ॥ रजोऽन्धकारतु मुले राक्षसीतृप्तिदायिनि । शस्त्रीशरणिविच्छिन्नदैत्यकण्ठोत्थितासृजि ॥ ३,२३.२७ ॥ प्रवृत्ते घोरसंग्रामे शक्तीनां च सुरद्विषाम् । अथस्वबलमादाय पञ्चभिः प्रेरिता सती । सर्पिणी बहुधा सर्पान्विससर्ज शरीरतः ॥ ३,२३.२८ ॥ तक्षकर्केटकसमा वासुकिप्रमुखत्विषः । नानाविधवपुर्वर्णा नानादृष्टिभयङ्कराः ॥ ३,२३.२९ ॥ नानाविधविषज्वालानिर्दग्धभुवनत्रयाः । दारदं वत्सनाभं च कालकूटमथापरम् ॥ ३,२३.३० ॥ सौराष्ट्रं च विषं घोरं ब्रह्मपुत्रमथापरम् । प्रतिपन्नं शौक्लिकेयमन्यान्यपि विषाणि च ॥ ३,२३.३१ ॥ व्यालैः स्वकीयवदनैर्विलोलरसनाद्वयैः । विकिरन्तः शक्तिसैन्ये विसम्रुः सर्पिणीतनोः ॥ ३,२३.३२ ॥ धूम्रवर्णा द्विवदना सर्पा अतिभयङ्कराः । सर्पिण्या नयनद्वन्द्वा दुत्थिताः क्रोधदीपिताः ॥ ३,२३.३३ ॥ पीतवर्णास्त्रिफणका दंष्ट्राभिर्विकटाननाः । सर्पिण्याः कर्णकुहरादुत्थिताः सर्पकोटयः ॥ ३,२३.३४ ॥ अग्रेपुच्छे च वदनं धारयन्तः फणान्वितम् । आस्यादा नीलवपुषः सर्पिण्याः फणिनोऽभवन् ॥ ३,२३.३५ ॥ अन्यैश्च बलवर्णाश्च चतुर्वक्त्राश्चतुष्पदाः । नासिकाविवरात्तस्या उद्गता उग्ररोचिषः ॥ ३,२३.३६ ॥ लंबमानमहाचर्मावृत्तस्थूलपयोधरात् । नाभिकुण्डाच्च बहवो रक्तवर्णा भयानकाः ॥ ३,२३.३७ ॥ हलाहलं वहन्तश्च प्रोत्थिताः पन्नगाधिपाः । विदशन्तः शक्तिसेनां दहन्तो विषवह्निभिः ॥ ३,२३.३८ ॥ बध्नन्तो भोगपाशैश्च निघ्नन्तः फणमण्डलैः । अत्यन्तमाकुलां चक्रुर्ललितेशीचमूममी ॥ ३,२३.३९ ॥ खण्ड्यमाना अपि मुहुः शक्तीनां शस्त्रकोटिभिः ॥ ३,२३.४० ॥ उपर्युपरि वर्धन्ते सपिण्डप्रविसर्पिणः । नश्यन्ति बहवः सर्पा जायन्ते चापरे पुनः ॥ ३,२३.४१ ॥ एकस्य नाशसमये बहवोऽन्ये समुत्थिताः । मूलभूता यतो दुष्टा सर्पिणी न विनश्यति ॥ ३,२३.४२ ॥ अतस्तत्कृतसर्पाणां नाशे सर्पान्तरोद्भवः । ततश्चशक्तिसैन्यानां शरीराणि विषानलैः ॥ ३,२३.४३ ॥ दह्यमानानि दुःखेन विप्लुतान्यभवन्रणे । किङ्कर्तव्यविमूढेषु शक्तिचक्रेषु भोगिभिः ॥ ३,२३.४४ ॥ पराक्रमं बहुविधं चक्रुस्ते पञ्च दानवाः । करीन्द्री गर्दभशतैर्युक्तं स्यन्दनमास्थितः ॥ ३,२३.४५ ॥ चक्रेण तीक्ष्णधारेण शक्तिसेनाममर्दयत् । वज्रदन्ताभिधश्चान्यो भण्डदैत्यचमूपतिः ॥ ३,२३.४६ ॥ वज्रबाणाभिघातेन होष्ट्रतो हि रणं व्यधात् । अथ वज्रमुखश्चैव चक्रिवन्तं महत्तरम् ॥ ३,२३.४७ ॥ आरुह्य कुन्तधाराभिः शक्तिचक्रममर्दयत् । वज्रदन्ताभिधानोऽन्यश्चमूनामधिपो बली ॥ ३,२३.४८ ॥ गृध्रयुग्मरथारूढः प्रजहार शिलीमुखैः । तैः सेनापतिभिर्दुष्टैः प्रोत्साहितमथाहवे ॥ ३,२३.४९ ॥ शतमक्षौहिणीनां च निपपातैकहेलया । सर्पिणी च दुराचारा बहुमायापरिग्रहा ॥ ३,२३.५० ॥ क्षणेक्षणे कोटिसंख्यान्विससर्ज फणाधरान् । तथा विकलितं सैन्यमवलोक्य रुषाकुला ॥ ३,२३.५१ ॥ नकुली गरुडारूढा सा पपात रणाजिरे । प्रतप्तकनकप्रख्या ललितातालुसम्भवा ॥ ३,२३.५२ ॥ समस्तवाङ्मयाकारा दन्तैर्वज्रमयैर्युता । सर्पिण्यभिमुखं तत्र विससर्ज निजं बलम् ॥ ३,२३.५३ ॥ तयाधिष्ठिततुङ्गांसः पक्षविक्षिप्तभूधरः । गरुडः प्राचलद्युद्धे सुमेरुरिव जङ्गमः ॥ ३,२३.५४ ॥ सर्पिणीमायया जातान्सर्पान्दृष्ट्वा भयानकान् । क्रोधरक्तेक्षणं व्यात्तं नकुली विदधे मुखम् ॥ ३,२३.५५ ॥ अथ श्रीनकुलीदेव्या द्वात्रिंशद्दन्तकोटयः । द्वात्रिंशत्कोटयो जाता नकुलाः कनकप्रभाः ॥ ३,२३.५६ ॥ इतस्ततः खण्डयन्तः सर्पिणीसर्पमण्डलम् । निजदंष्ट्राविमर्देन नाशयन्तश्च तद्विषम् । व्यभ्रमन्समरे घोरे विषघ्नाः स्वर्णबभ्रवः ॥ ३,२३.५७ ॥ उत्कर्णाः क्रोध सम्पर्काद्धूनिताशेषलोमकाः । उत्फुल्ला नकुला व्यात्तवदना व्यदशन्नहीन् ॥ ३,२३.५८ ॥ एकैकमायासर्पस्य बभ्रुरेकैक उद्गतः । तीक्ष्णदन्तनिपातेन खण्डयामास विग्रहम् ॥ ३,२३.५९ ॥ भोगिभोगसृतै रक्तैः सृक्किणी शोणतां गते । लिहन्तो नकुला जिह्वापल्लवैः पुप्लुवुर्मृधे ॥ ३,२३.६० ॥ नकुलैर्दश्यमानानामत्यन्तचटुलं वपुः । मुहुः कुण्डलितैर्भोगैः पन्नगानां व्यचेष्टत ॥ ३,२३.६१ ॥ नकुलावलिदष्टानां नष्टासूनां फणाभृताम् । फणाभरसमुत्कीर्णा मणयो व्यरुचन्रणे ॥ ३,२३.६२ ॥ नकुलाघातसंशीर्णफणाचक्रैर्विनिर्गतैः । फणयस्तन्महाद्रोहवह्विज्वाला इवाबभुः ॥ ३,२३.६३ ॥ एवंप्रकारतो बभ्रुमण्डलैरवखण्डिते । मायामये सर्पजाले सर्पिणी कोपमादधे ॥ ३,२३.६४ ॥ तया सह महद्युद्धं कृत्वा सा नकुलेश्वरी । गारुडास्त्रमतिक्रूरं समाधत्त शिलीमुखे ॥ ३,२३.६५ ॥ तद्गारुडास्त्रमुद्दामज्वालादीपितदिङ्मुखम् । प्रविश्य सर्पिणीदेहं सर्पमायां व्यशोषयत् ॥ ३,२३.६६ ॥ मायाशक्तोर्विनाशेन सर्पिणी विलयं गता । क्रोधं च तद्विनाशेन प्राप्ताः पञ्च चमूवराः ॥ ३,२३.६७ ॥ यद्बलेन सुरान्सर्वान्सेनान्यस्तेऽवमेनिरे । सा सर्पिणी कथाशेषं नीता नकुलवीर्यतः ॥ ३,२३.६८ ॥ अतःस्वबलनाशेन भृशं क्रुद्धाश्चमूचराः । एकोद्यमेन शस्त्रौघैर्नकुलीं तामवाकिरन् ॥ ३,२३.६९ ॥ एकैव सा तार्क्ष्यरथा पञ्चभिः पृतनेश्वरी । लघुहस्ततया युद्धे चक्रे वै शस्त्रवर्षिणी ॥ ३,२३.७० ॥ पट्टिशैर्मुसलैश्चैव भिन्दिपालैः सहस्रशः । वज्रसारमयैर्दन्तैर्व्यदशन्मर्म सीमसु ॥ ३,२३.७१ ॥ ततो हाहारुतं घोरं कुर्वाणा दैत्यकिङ्कराः । उदग्रदंशनकुलैर्नकुलैराकुलीकृताः ॥ ३,२३.७२ ॥ उत्पत्य गगनात्केचिद्घोरचीत्कार कारिणः । देशन्तस्तद्द्विषां सैन्य सकुलाः प्रज्वलक्रुधः ॥ ३,२३.७३ ॥ कर्णेषु दष्ट्वा नासायामन्ये दष्टाः शिरस्तटे । पृष्ठतो प्यदशन्केचिदा गत्य व्याकृतक्रियाः ॥ ३,२३.७४ ॥ विकलाश्छिन्नवर्माणो भयविस्रस्तशस्त्रिकाः । नकुलैरभिभूतास्ते न्यपतन्नमरद्रुहः ॥ ३,२३.७५ ॥ केचित्प्रविश्यनकुला व्यात्तान्यास्यानि वैरिणाम् । भोगिभोगानि वाकृष्य व्यदशन्रसनातलम् ॥ ३,२३.७६ ॥ अन्ये कर्णेषु नकुलाः प्राविशन्देववैरिणाम् । सूक्ष्मरूपा विशन्तिस्म नानारन्ध्राणि बभ्रवः ॥ ३,२३.७७ ॥ इति तैरभिभूतानि नकुलैरवलोकयन् । निजसैन्यानि दीनानि करङ्कः कोपमास्थितः ॥ ३,२३.७८ ॥ अन्येऽपि च चमूनाथा लघुहस्ता महाबलाः ॥ ३,२३.७९ ॥ प्रतिबभ्रु शरस्तोमान्ववृषुर्वारिदा इव । दैत्यसैन्यपतिप्रौढ कोदडोत्थाः शिलीमुखाः । बभ्रूणां दन्तकोटीषु कठोरघट्टनं व्यधुः ॥ ३,२३.८० ॥ चमूपतिशख्यूहैराहतेभ्यः परःशतैः । बभ्रूणां वज्रदतेभ्यो निश्चक्राम हुताशनः । पञ्चापि ते चमूनाथविसृष्टैरेकहेलया ॥ ३,२३.८१ ॥ स्फुरत्फलैः शरकुलैर्बभ्रुसेनां व्यमर्दयत् । इतस्ततश्चमूनाथविक्षिप्तशरकोटिभिः । विशीर्णगात्रा नकुला नकुलीं पर्यवारयन् ॥ ३,२३.८२ ॥ अथ सा नकुली वाणी वाङ्मयस्यैकनायिका । नकुलानां परावृत्त्या महान्तं रोषमाश्रिता ॥ ३,२३.८३ ॥ अक्षीणनकुलं नाम महास्त्रं सर्वतोमुखम् । वह्निज्वालापरीताग्रं संदधे शार्ङ्गधन्वनि ॥ ३,२३.८४ ॥ तदस्त्रतो विनिष्ठ्यूता नकुलाः कोटिसंख्याकाः । वज्राङ्गा वज्रलोमानो वज्रदंष्ट्रा महाजवा ॥ ३,२३.८५ ॥ वज्रसाराश्च निबिडा वज्रजाल भयङ्करा । वज्राकारैर्नशैस्तूर्ण दारयन्तो महीतलम् ॥ ३,२३.८६ ॥ वज्ररत्नप्रकाशेन लोचनेनापि शोभिताः । वज्रसंपातसदृशा नासाचीत्कार कारिणः ॥ ३,२३.८७ ॥ मर्दयन्ति सुरारातिसैन्यं दशनकोटिभिः । पराक्रमं बहुविधं तेनिरे ते निरेनसः ॥ ३,२३.८८ ॥ एवं नकुलकोटीभिर्वज्रघोरैर्महाबलैः । विनष्टाः प्रत्यवयवं विनेशुर्दानवाधमाः ॥ ३,२३.८९ ॥ एवं वज्रमयैर्बभुमण्डलैः शण्डिते बले ॥ ३,२३.९० ॥ शताक्षौहिणिके संख्ये ते स्वमात्रावशेषिताः । अतित्रासेन रोषेण गृहीताश्च चमूवराः । संग्राममधिकं तेनुः समाकृष्टशरासनाः ॥ ३,२३.९१ ॥ तैः समं बहुधा युद्धं तन्वाना नकुलेश्वरी । पट्टिशेन करङ्कस्य चिच्छेद कठिनं शिरः ॥ ३,२३.९२ ॥ काकवाशितसुख्यानां चतुर्णामपि वैरिणाम् । उत्पत्योत्पत्य तार्क्ष्येण व्यलुनादसिना शिरः ॥ ३,२३.९३ ॥ तादृशं लाघवं दृष्ट्वा नकुल्या श्यामलांबिका ॥ ३,२३.९४ ॥ बहु मेने महासत्त्वां दुष्टासुरविनाशिनीम् । निजाङ्गदेवतत्त्वं च तस्यै श्यामांबिका ददौ ॥ ३,२३.९५ ॥ लोकोत्तरे गुणे दृष्टे कस्य न प्रीतिसंभवः । हतशिष्टा भीतभीता नकुलीशरणं गताः ॥ ३,२३.९६ ॥ सापि तान्वीक्ष्य कृपया मा भैष्टेति विहस्य च । भवद्राज्ञे रणोदन्तमशेषं च निबोधत ॥ ३,२३.९७ ॥ तयैवं प्रेषिताः शीघ्रं तदालोक्य रणक्षितिम् । मुदितास्ते पुनर्भीत्या शून्यकायां पलायिताः ॥ ३,२३.९८ ॥ तदुदन्तं ततः श्रुत्वा भण्डश्चण्डो रुषाभवत् ॥ ३,२३.९९ ॥ इति ब्रह्माण्डमहापुराणे उत्तरभागे ललितोपाख्याने करङ्कादिपञ्चसेनापतिवधो नाम त्रयोविंशोऽध्यायः _____________________________________________________________ हतेषु तेषु रोषान्धो निश्वसञ्छून्यकेश्वरः । कुजलाशमिति प्रोचे युयुत्साव्याकुलाशयः ॥ ३,२४.१ ॥ भद्र सेनापतेऽस्माकमभद्रं समुपागतम् । करङ्काद्यश्चमूनाथाः कन्दलद्भुजविक्रमाः ॥ ३,२४.२ ॥ सर्पिणीमायया सर्वगीर्वाणमदभञ्जनाः । पापीयस्या तया गूढमायया विनिपातिताः ॥ ३,२४.३ ॥ बलाहकप्रभृतयः सप्त ये सैनिकाधिपाः । तानुदग्रभुजासत्त्वान्प्राहिणु प्रधनं प्रति ॥ ३,२४.४ ॥ त्रिशतं चाक्षौहिणीनां प्रस्थापय सहैव तैः । ते मर्दयित्वा ललितासैन्यं मायापरायणाः ॥ ३,२४.५ ॥ अये विजयमाहार्य संप्राप्स्यन्ति ममान्तिकम् । कीकसगर्भसंजातास्ते प्रचण्डपराक्रमाः ॥ ३,२४.६ ॥ बलाहकमुखाः सप्त भ्रातरो जयिनः सदा । तेषामवश्यं विजयो भविष्यति रणाङ्गणे ॥ ३,२४.७ ॥ इति भण्डासुरेणोक्तः कुटिलाक्षः समाह्वयत् । बलाहकमुखान्सप्त सेनानाथान्मदोत्कटान् ॥ ३,२४.८ ॥ बलाहकः प्रथमतस्तस्मा त्सूचीमुखोऽपरः । अन्यः फालमुखश्चैव विकर्णो विकटाननः ॥ ३,२४.९ ॥ करालायुः करटकः सप्तैते वीर्यशालिनः । भण्डासुरं नमस्कृत्य युद्धकौतूहलोल्वणाः ॥ ३,२४.१० ॥ कीकसासूनवः सर्वे भ्रातरोऽन्योन्यमावृताः । अन्योन्यसुसहायाश्च निर्जगमुर्नगरान्तरात् ॥ ३,२४.११ ॥ त्रिशाताक्षौहिणीसेनासेनान्योऽन्वगमंस्तदा । उल्लिखन्ति केतुजालैरंबरे घनमण्डलम् ॥ ३,२४.१२ ॥ घोरसंग्रामिणीपादा घातैर्मर्दितभूतला । पिबन्ति धूलिकाजालैरशेषानपि सागरान् ॥ ३,२४.१३ ॥ भेरीनिः साणतंपोट्टपणवानकनिस्वनैः । नभोगुणमयं विश्वमादधानाः पदेपदे ॥ ३,२४.१४ ॥ त्रिशताक्षौहिणीसेनां तां गृहीत्वा मदेद्धताः । प्रवेष्टुमिव विश्वस्मिन्कैकसेयाः प्रतस्थिरे ॥ ३,२४.१५ ॥ धृतरोषारुणाः सूर्यमण्डलो द्दीप्तकङ्कटाः । उद्दीप्तशस्त्रभरणाश्चेलुर्द्दीप्तोर्ध्वकेशिनः ॥ ३,२४.१६ ॥ सप्त लोकान्प्रमथितुं प्रोषिताः पूर्वमुद्धताः । भण्डासुरेण महता जगद्विजयकारिणा ॥ ३,२४.१७ ॥ सप्तलोकविमर्देन तेन दृष्ट्वा महाबलाः । प्रोषिता ललितासैन्यं जेतुकामेन दुर्धिया ॥ ३,२४.१८ ॥ ते पतन्तो रणतलमुच्चलच्छत्रपाणयः । शक्तिसेनामभिमुखं सक्रोधमभिदुद्रुवुः ॥ ३,२४.१९ ॥ मुहुः किलकिलाराबैर्घोषयन्तो दिशो दश । देव्यास्तु सैनिकं यत्र तत्र ते जगमुरुद्धताः ॥ ३,२४.२० ॥ सैन्यं च ललितादेव्याः सन्नद्धं शास्त्रभीषणम् । अभ्यमित्रीणमभवद्बद्धभ्रुकुटिनिष्ठुरम् ॥ ३,२४.२१ ॥ पाशिन्यो मुसलिन्यश्च चक्रिण्यश्चापरा मुने । मुद्गरिण्यः पट्टिशिन्यः कोदण्डिन्यस्तथापराः ॥ ३,२४.२२ ॥ अनेकाःशक्तयस्तीव्रा ललितासैन्यसंगताः । पिबन्त्य इव दैत्याब्धिं सान्निपेतुः सहस्रशः ॥ ३,२४.२३ ॥ आयातायात हे दुष्टाः पापिन्यो वनिताधमाः । मायापरिग्रहैर्दूरं मोहयन्त्यो जडाशयान् ॥ ३,२४.२४ ॥ नेष्यामो भवतीरद्य प्रेतनाथनिकेतनम् । श्वसद्भुजगसंकाशैर्बाणैर त्यन्तभीषणैः । इति शक्तीर्भर्त्सयन्तो दानवाश्चक्रुराहवम् ॥ ३,२४.२५ ॥ काचिच्चिच्छेद दैत्येन्द्रं कण्ठे पट्टिशपातनात् । तद्गलोद्गलितो रक्तपूर ऊर्ध्वमुखोऽभवत् ॥ ३,२४.२६ ॥ तत्र लग्ना बहुतरा गृध्रा मण्डलतां गताः । तैरेव प्रेतनाथस्य च्छत्रच्छविरुदञ्चिता ॥ ३,२४.२७ ॥ काचिच्छक्तिः मुरारातिं मुक्तशक्त्यायुधं रणे । लूनतच्छक्तिनैकेन बाणेन व्यलुनीत च ॥ ३,२४.२८ ॥ एका तु गजमारूढा कस्यचिद्दैत्यदुर्मतेः । उरःस्थले स्वकरिणा वप्राघातमशिक्षयत् ॥ ३,२४.२९ ॥ काचित्प्रतिभटारूढं दन्तिनं कुंभसीमनि । खड्गेन सहसा हत्वा गजस्य स्वप्रियं व्यधात् ॥ ३,२४.३० ॥ करमुक्तेन चक्रेण कस्यचिद्देववैरिणः । धनुर्दण्डं द्विधा कृत्वा स्वभ्रुवोः प्रतिमां तनेत् ॥ ३,२४.३१ ॥ शक्तिरन्या शरैः शातैः शातयित्वा विरोधिनः । कृपाणपद्मा रोमाल्यां स्वकीयायां मुदं व्यधात् ॥ ३,२४.३२ ॥ काचिन्मुद्गरपातेन चूर्णयित्वा विरोधिनः । रथ्यक्रनितंबस्य स्वस्य तेनातनोन्मुदम् ॥ ३,२४.३३ ॥ रथकूबरमुग्रेण कस्यचिद्दानवप्रभोः । खड्गेन छिन्दती स्वस्य प्रियमुव्यास्ततान ह ॥ ३,२४.३४ ॥ अभ्यन्तरं शक्तिसेना दैत्यानां प्रविवेश ह । प्रविवेश च दैत्यानां सेना शक्तिबलान्तरम् ॥ ३,२४.३५ ॥ नीरक्षीरवदत्यन्ताश्लेषं शक्तिसुरद्विषाम् । संकुलाकारतां प्राप्तो युद्धकालेऽभवत्तदा ॥ ३,२४.३६ ॥ शक्तीनां खड्गपातेन लूनशुण्डारदद्वयाः । दैत्यानां करिणो मत्ता महाक्रोडा इवाभवन् ॥ ३,२४.३७ ॥ एवं प्रवृत्ते समरे वीराणां च भयङ्करे । अशक्ये स्मर्तुमप्यन्तं कातरत्ववतां नृणाम् । भीषणानां भीषणे च शस्त्रव्यापारदुर्गमे ॥ ३,२४.३८ ॥ बलाहको महागृध्रं वज्रतीक्ष्णमुखादिकम् । कालदण्डोपमं जङ्घाकाण्डे चण्डपराक्रमम् ॥ ३,२४.३९ ॥ संहारगुप्तनामानं पूर्वमग्रे समुत्थितम् । धूमवद्धूसराकारं पक्षक्षेपभयङ्करम् ॥ ३,२४.४० ॥ आरुह्य विविधंयुद्धं कृतवान्युद्धदुर्मदः । पक्षौ वितत्य क्रोशार्धं स स्थितो भीमनिःस्वनैः । अङ्गारकुण्डवच्चञ्चुं विदार्याभक्षयच्चमूम् ॥ ३,२४.४१ ॥ संहारगुप्तं स महागृध्रः क्रूरविलोचनः । बलाहकमुवाहोच्चैराकृष्टधनुषं रणे ॥ ३,२४.४२ ॥ बलाहको वपुर्धुन्वन्गृध्रपृष्ठकृतस्थितिः । सपक्षकूटशैलस्थो बलाहक इवाभवत् ॥ ३,२४.४३ ॥ सूचीमुखश्च दैत्येन्द्रः सूचीनिष्ठुरपक्षतिम् । काकवाहनमारुह्य कठिनं समरं व्यधात् ॥ ३,२४.४४ ॥ मत्तः पर्वतशृङ्गाभश्चञ्चूदण्डं समुद्वहन् । कालदण्डप्रमाणेन जङ्घाकाण्डेन भीषणः ॥ ३,२४.४५ ॥ पुष्कलावर्तकसमा जंबालसदृशद्यतिः । क्रोशमात्रायतौ पक्षावुभावपि समुद्वहन् ॥ ३,२४.४६ ॥ सूचीमुखाधिष्ठितोऽसौ करटः कटुवासितः । मर्दयञ्चञ्चुघातेन शक्तीनां मण्डलं महत् ॥ ३,२४.४७ ॥ अथो फलमुखः फालं गृहीत्वा निजमायुधम् । कङ्कमारुह्य समरे चकाशे गिरिसन्निभम् ॥ ३,२४.४८ ॥ विकर्णाख्यश्च दैत्येन्द्रश्चमूभर्ता महाबलः । भेरुण्डपतनारूढः प्रचण्डयुद्धमातनोत् ॥ ३,२४.४९ ॥ विकटानननामानं विलसत्पट्टिशायुधम् । उवाह समरे चण्डः कुक्कुटोऽतिभयङ्करः ॥ ३,२४.५० ॥ गर्जन्कण्ठस्थरोमाणि हर्षयञ्ज्वलदीक्षणः । पश्यन्पुरः शक्तिसैन्यं चचाल चरणायुधः ॥ ३,२४.५१ ॥ करालाक्षश्च भूभर्ता षष्ठोऽत्यन्तगरिष्ठदः । वज्रनिष्ठुरघोषश्च प्राचलत्प्रेतवाहनः ॥ ३,२४.५२ ॥ श्मशानमन्त्रशूरेणतेन संसाधितः पुरा । प्रेतो भूतसमाविष्टस्तमुवाह रणाजिरे ॥ ३,२४.५३ ॥ अवाङ्मुखो दीर्घबाहुः प्रसारितपदद्वयः । प्रोतो वाहनतां प्राप्तःकरालाक्षमथावहत् ॥ ३,२४.५४ ॥ अन्यः करटको नाम दैत्यसेनाशिखामणिः । सर्दयामास शक्तीनां सैन्यं वेतालवाहनः ॥ ३,२४.५५ ॥ योजनायतमूर्तिः सन्वेतालः क्रूरलोचनः । श्मशानभूमौ वेतालो मन्त्रेणानेन साधितः ॥ ३,२४.५६ ॥ मर्दयामास पृतनां शक्तीनां तेन देशितः । तस्य वेतालवर्यस्य वर्तमानोंससीमनि । बहुधायुध्यत तदा शक्तिभिः सह दानवः ॥ ३,२४.५७ ॥ एवमेते खलात्मानः सप्त सप्तार्णवोपमाः । शक्तीनां सैनिकं तत्र व्याकुलीचक्रुरुद्धताः ॥ ३,२४.५८ ॥ ते सप्त पूर्वं तपसा सवितारमतोषयन् । तेन दत्तो वरस्तेषां तपस्तुष्टेन भास्वता ॥ ३,२४.५९ ॥ कैकसेया महाभागा भवतां तपसाधुना । परितुष्टोऽस्मि भद्रं वो भवन्तो वृणतां वरम् ॥ ३,२४.६० ॥ इत्युक्ते दिननाथेन कैकसेयास्तपः कृशाः । प्रार्थयामासुरत्यर्थं दुर्दान्तं वरमीदृशम् ॥ ३,२४.६१ ॥ रणेषु सन्निधातव्यमस्माकं नेत्रकुक्षिषु । भवता घोरतेजोभिर्दहता प्रतिरोधिनः ॥ ३,२४.६२ ॥ त्वया यदा सन्निहितं तपनास्माकमक्षिषु । तदाक्षिविषयः सर्वो निश्चेष्टो भवतात्प्रभो ॥ ३,२४.६३ ॥ त्वत्सान्निध्यसमिद्धेन नेत्रेणास्माकमीक्षिताः । स्तब्धशस्त्रा भविष्यन्ति प्रतिरोधकसैनिकाः ॥ ३,२४.६४ ॥ ततः स्तब्धेषु शस्त्रेषु वीक्षणादेव नः प्रभो । निश्चेष्टा रिपवोऽस्माभिर्हन्तव्याः सुकरत्वतः ॥ ३,२४.६५ ॥ इति पूर्वं वरः प्राप्तः कैकसेयौर्दिवाकरात् । वरदानेन ते तत्र युद्धे चेरुर्मधोद्धताः ॥ ३,२४.६६ ॥ अथ सूर्यसमाविष्टनेत्रैस्तेस्तु निरीक्षिताः । शक्तयः स्तब्धशस्त्रौघा विफलोत्सा हतां गताः ॥ ३,२४.६७ ॥ कीकसातनयैस्तैस्तु सप्तभिः सत्त्वशालिभिः । विष्टंभितास्त्रशस्त्राणां शक्तीनां नोद्यमोऽभवत् ॥ ३,२४.६८ ॥ उद्यमे क्रियभाणेऽपि शस्त्रस्तम्भेन भूयसा । अभिभूताः सनिश्वासं शक्तयो जोषमासत ॥ ३,२४.६९ ॥ अथ ते वासरं प्राप्य नानाप्रहरणोद्यताः । व्यमर्दयञ्छक्तिसैन्यं दैत्याः स्वस्वामिदेशिताः ॥ ३,२४.७० ॥ शक्तयस्तास्तु सैन्येन निर्व्यापारा निरायुधाः । अक्षुभ्यन्त शरैस्तेषां वज्रकङ्कटभोदिभिः ॥ ३,२४.७१ ॥ शक्तयो दैत्यशस्त्रौधैर्विद्धगात्राः सृतामृजः । सुपल्लवा रणे रेजुः कङ्कोललतिका इव ॥ ३,२४.७२ ॥ हाहाकारं वितन्वत्यः प्रपन्ना ललितेश्वरीम् । चुक्रुशुः शक्तयः सर्वास्तैः स्तंभितनिजायुधाः ॥ ३,२४.७३ ॥ अथ देव्याज्ञया दण्डनाथा प्रत्यङ्गरक्षिणी । तिरस्करणिका देवी समुत्तस्थौ रणाजिरे ॥ ३,२४.७४ ॥ तमोलिप्ताह्वयं नाम विमानं सर्वतोमुखम् । महामाया समारुह्य शक्तीनामभयं व्यधात् ॥ ३,२४.७५ ॥ तमालश्यामलाकारा श्यामकञ्चुकधारिणी । श्यामच्छाये तमोलिप्ते श्यामयुक्ततुरङ्गमे ॥ ३,२४.७६ ॥ वासन्ती मोहनाभिख्यं धनुरादाय सस्वनम् । सिंहनादं विनद्येषूनवर्षत्सर्पसन्निभान् ॥ ३,२४.७७ ॥ कृष्णरूपभुजङ्ग भानधोमुसलसंनिभान् । मोहनास्त्रविनिष्ठ्यूतान्बाणान्दैत्या न सेहिरे ॥ ३,२४.७८ ॥ इतस्ततो मर्द्यमाना महामायाशिलीमुखैः । प्रकोपं परमं प्राप्ता बलाहकमुखाः खलाः ॥ ३,२४.७९ ॥ अथो तिरस्करण्यंबा दण्डनाथानिदेशतः । अन्धाभिधं महास्त्रं सा मुमोच द्विषतां गणे ॥ ३,२४.८० ॥ बलाहकाद्यास्ते सप्त दिननाथवरोद्धताः । अन्धास्त्रेण निजं नेत्रं दधिरे च्छादितं यथा ॥ ३,२४.८१ ॥ तिरस्करणिकादेव्या महामोहनधन्वनः । उद्गतेनान्धबाणेन चक्षुस्तेषां व्यधीयत ॥ ३,२४.८२ ॥ अन्धीकृताश्च ते सप्त न तु प्रैक्षन्त किञ्चन । तद्वीक्षणस्य विरहाच्छस्त्रस्तम्भः क्षयं गतः ॥ ३,२४.८३ ॥ पुनः ससिंहनादं ताः प्रोद्यतायुधपाणयः । चक्रुः समरसन्नाहं दैत्यानां प्रजिघांसया ॥ ३,२४.८४ ॥ तिरस्करणिकां देवीमग्रे कृत्वा महाबलाम् । सदुपायप्रसङ्गेन भृशं तुष्टा रणं व्यधुः ॥ ३,२४.८५ ॥ साधुसाधु महाभागे तिरस्करणिकांबिके । स्थाने कृततिरस्कारा द्विपामेषां दुरात्मनाम् ॥ ३,२४.८६ ॥ त्वं हि दुर्जननेत्राणां तिरस्कारमहौषधी । त्वया बद्धदृशानेन दैत्यचक्रेण भूयते ॥ ३,२४.८७ ॥ देवकार्यमिदं देवि त्वया सम्यगनुष्टितम् । अस्मादृशामजय्येषु यदेषु व्यसनं कृतम् ॥ ३,२४.८८ ॥ तत्त्वयैव दुराचारानेतान्सप्त महासुरान् । निहतांल्ललिता श्रुत्वा सन्तोषं परमाप्स्यति ॥ ३,२४.८९ ॥ एवं त्वया विरचिते दण्डिनीप्रीति माप्स्यति । मन्त्रिण्यपि महाभागायास्यत्येव परां मुदम् ॥ ३,२४.९० ॥ तस्मात्त्वमेव सप्तैतान्निगृहण रणाजिरे । एषां सैन्यं तु निखिलं नाशयाम उदायुधाः ॥ ३,२४.९१ ॥ इत्युक्त्वा प्रेरिता ताभिः शक्तिभियुर्द्धकौतुकान् । तमोलिप्तेन यानेन बलाहकबलं ययौ ॥ ३,२४.९२ ॥ तामायान्तीं समावेक्ष्य ते सप्ताथ सुराधमाः । पुनरेव च सावित्रं वरं सस्मरुरञ्जसा ॥ ३,२४.९३ ॥ प्रविष्टमपि सावित्रं नाशकं तन्निरोधने । तिरस्कृतं तु नेत्रस्थं तिरस्करणितेजसा ॥ ३,२४.९४ ॥ वरदानास्त्ररोषान्धं महाबलपराक्रमम् । अस्त्रेण च रुषा चान्धं बलाहकमहासुरम् । आकृष्य केशेष्वसिना चकर्तान्तर्धिदेवता ॥ ३,२४.९५ ॥ तस्य वाहनगृध्रस्य लुनाना पत्रिणा शिरः । सूचीमुखस्याभिमुखं तिरस्करणिका व्रजत् ॥ ३,२४.९६ ॥ तस्य पट्टिशपातेन विलूय कठिनं शिरः । अन्येषामपि पञ्चानां पञ्चत्वमकरोच्छनैः ॥ ३,२४.९७ ॥ तैः सप्तदैत्यमुण्डैश्चग्रथितान्योन्यकेशकैः । हारदाम गले कृत्वा ननादान्तर्धिदेवता ॥ ३,२४.९८ ॥ समस्तमपि तत्सैन्यं शक्तयः क्रोधसूर्च्छिताः । हत्वा तद्रक्तसलिलैर्बह्वीः प्रावाहयन्नदीः ॥ ३,२४.९९ ॥ तत्राश्चर्यमभूद्भूरि माहामायांबिकाकृतम् । बलाहकादिसेनान्यां दृष्टिरोधनवैभवात् ॥ ३,२४.१०० ॥ हतशिष्टाः कतिपया बहुवित्राससङ्कुलाः । शरणं जग्मुरत्यार्त्ताः क्रन्दन्तं शून्यकेश्वरम् ॥ ३,२४.१०१ ॥ दण्डिनीं च महामायां प्रशंसन्ति मुहुर्मुहुः । प्रसादमपरं चक्षुस्तस्या आदायपिप्रियुः ॥ ३,२४.१०२ ॥ साधुसाध्विति तत्रस्थाः शक्तयः कम्पमौलयः । तिरस्करणिकां देवीमश्लाघन्त पदेपदे ॥ ३,२४.१०३ ॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने बलाहकादिसप्तसेनापतिवधो नाम चतुर्विंशोऽध्यायः _____________________________________________________________ ततः श्रुत्वा वधं तेषां तपोबलवतामपि । न्यश्वसत्कृष्णसर्पेन्द्र इव भण्डो महासुरः ॥ ३,२५.१ ॥ एकान्ते मन्त्रयामास स आहूय महोदरौ । भण्डः प्रचण्डशैण्डीर्यः काङ्क्षमाणो रणे जयम् ॥ ३,२५.२ ॥ युवराजोऽपि सक्रोधो विषङ्गेण यवीयसा । भण्डासुरं नमस्कृत्य मन्त्रस्थानमुपागमत् ॥ ३,२५.३ ॥ अत्याप्तैर्मन्त्रिभिर्युक्तः कुटिलाक्षपुरःसरैः । ललिताविजये मन्त्रं चकार क्वथिताश्यः ॥ ३,२५.४ ॥ भण्ड उवाच अहो बत कुलभ्रंशः समायातः सुरद्विषाम् । उपेक्षामधुना कर्तुं प्रवृत्तो बलवान्विधिः ॥ ३,२५.५ ॥ मद्भृत्यनाममात्रेण विद्रवन्ति दिवौकसः । तादृशानामिहास्माकमागतोऽयं विपर्ययः ॥ ३,२५.६ ॥ करोति बलिनं क्लीबं धनिनं धनवर्जितम् । दीर्घायुषमनायुष्कं दुर्धाता भवितव्यता ॥ ३,२५.७ ॥ क्व सत्त्वमस्मद्बाहुनां क्वेयं दुर्ल्ललिता वधूः । अकाण्ड एव विधिना कृतोऽयं निष्ठुरो विधिः ॥ ३,२५.८ ॥ सर्पिणीमाययोदग्रास्तंया दुर्घटशौर्यया । अधिसंग्रामभूचक्रे सेनान्यो विनिपातिताः ॥ ३,२५.९ ॥ एवमुद्दामदर्पाढ्या वनिता कापि मायिनी । यदि संप्रहरत्यस्मान्धिग्बलं नो भुजार्जितम् ॥ ३,२५.१० ॥ इमं प्रसंगं वक्तुं च जिह्वा जिह्वेति मामकी । वनिता किमु मत्सैन्यं मर्द यिष्यति दुर्मदा ॥ ३,२५.११ ॥ तदत्र मूलच्छेदाय तस्या यत्नो विधीयताम् । मया चारमुखाज्ज्ञाता तस्या वृत्तिर्महाबला ॥ ३,२५.१२ ॥ सर्वेषामपि सैन्यानां पश्चादेवावतिष्ठते । अग्रतश्चलितं सैन्यं हयहस्तिरथादिकम् ॥ ३,२५.१३ ॥ अस्मिन्नेव ह्यवसरे पार्ष्णिग्राहो विधीयताम् । पार्ष्णिग्रहमिमं कर्तुं विषङ्गश्चतुरो भवेत् ॥ ३,२५.१४ ॥ तेन प्रौढमदोन्मता बहुसंग्रामदुर्मदाः । दश पञ्च च सेनान्यः सह यान्तु युयुत्सया ॥ ३,२५.१५ ॥ पृष्ठतः परिवारास्तु न तथा संति ते पुनः । अल्पैस्तु रक्षिता वै स्यात्तेनैवासौ सुनिग्रहा ॥ ३,२५.१६ ॥ अतस्त्वं बहुसन्नाहमाविधाय मदोत्कटः । विषङ्ग गुप्तरूपेण पार्ष्णिग्राहं समाचर ॥ ३,२५.१७ ॥ अल्पीयसी त्वया सार्द्धं सेना गच्छतु विक्रमात् । सज्जाश्च लन्तु सेनान्यो दिक्पालविजयोद्धताः ॥ ३,२५.१८ ॥ अक्षौहिण्यश्च सेनानां दश पञ्च चलन्तु ते । त्वं गुप्तवेषस्तां दुष्टां सन्निपत्य दृढं जहि ॥ ३,२५.१९ ॥ सैव निःशेषशक्तीनां मूलभूता महीयसी । तस्याः समूलनाशेन शक्तिवृन्दं विनश्यति ॥ ३,२५.२० ॥ कन्दच्छेदे सरोजिन्या दलजालमिवांभसि । सर्वेषामेव पश्चाद्यो रथश्चलति भासुरः ॥ ३,२५.२१ ॥ दशयोजनसंपन्ननिजदेहसमुच्छ्रयः । महामुक्तातपत्रेण सर्वोद्ध्व परिशोभितः ॥ ३,२५.२२ ॥ वहन्मुहर्वीज्यमानं चामराणां चतुष्टयम् । उत्तङ्गकेतुसंघातलिखितांबुदमण्डलः ॥ ३,२५.२३ ॥ तस्मिन्रथे समायाति सा दृष्टा हरिणेक्षणा । निबृतं संनिपत्य त्वं चिह्नेनानेन लक्षिताम् ॥ ३,२५.२४ ॥ तां विजित्य दुराचारां केशेष्वा कृष्य मर्दय । पुरतश्चलिते सैन्ये सत्त्वशालिनि सा वधूः ॥ ३,२५.२५ ॥ स्त्रीमात्ररक्षा भवतो वशमेष्यति सत्त्वरम् । भवत्सहायभूतायां सेनेन्द्राणामिहाभिधा ॥ ३,२५.२६ ॥ शृणु यैर्भवतो युद्धे साह्यकार्यमतन्द्रितैः । आद्यो मदनको नाम दीर्घजिह्वो द्वितीयकः ॥ ३,२५.२७ ॥ हुबको हुलुमुलुश्च कक्लसः कक्लिवाहनः । थुक्लसः पुण्ड्रकेतुश्च चण्डबाहुश्च कुक्कुरः ॥ ३,२५.२८ ॥ जंबुकाक्षो जंभनश्च तीक्ष्णशृङ्गस्त्रिकण्टकः । चन्द्रगुप्तश्च पञ्चैते दश चोक्ताश्चमूवराः ॥ ३,२५.२९ ॥ एकैकाक्षौहिणीयुक्ताः प्रत्येकं भवता सह । आगमिष्यन्ति सेनान्यो दमनाद्या महाबलाः ॥ ३,२५.३० ॥ परस्य कटकं नैव यथा जानाति ते गतिम् । तथा गुप्तसमाचारः पार्ष्णिग्राहं समाचर ॥ ३,२५.३१ ॥ अस्मिन्कार्ये सुमहतां प्रौढिमानं समुद्वहन् । निषङ्ग त्वं हि तभसे जयसिद्धिमनुत्तमाम् ॥ ३,२५.३२ ॥ इति मन्त्रितमन्त्रोऽयं दुर्मन्त्री भण्डदानवः । विषङ्गं प्रेषयामास रक्षितं सैन्यपालकैः ॥ ३,२५.३३ ॥ अथ श्रीललितादेव्याः पार्ष्णिग्राहकृतोद्यमे । युवराजानुजे दैत्ये सूर्योऽस्तगिरिमाययौ ॥ ३,२५.३४ ॥ प्रथमे युद्धदिवसे व्यतीते लोकभीषणे । अन्धकारः समभवत्तस्य बाह्यचिकीर्षया ॥ ३,२५.३५ ॥ महिषस्कन्धधूम्राभं वनक्रोडवपुर्द्दुति । नीलकण्ठनिभच्छायं निबिडं पप्रथे तमः ॥ ३,२५.३६ ॥ कुञ्जेषु पिण्डितमिव प्रधावदिव संधिषु । उज्जिहानमिव क्षोणीविवरेभ्यः सहस्रशः ॥ ३,२५.३७ ॥ निर्गच्छदिव शैलानां भूरि कन्दरमन्दिरात् । क्वचिद्दीपप्रभाजाले कृतकातरचेष्टितम् ॥ ३,२५.३८ ॥ दत्तावलंबनमिव स्त्रीणां कर्णोत्पलत्विषि । एकीभूतमिव प्रौढदिङ्नागमिव कज्जले । आबद्धमैत्रकमिव स्फुरच्छाद्वलमण्डले ॥ ३,२५.३९ ॥ कृतप्रियाश्लेषमिव स्फुरन्तीष्वसियष्टिषु । गुप्तप्रविष्टमिव च श्यामासु वनपङ्क्तिषु ॥ ३,२५.४० ॥ क्रमेण बहुलीभूतं प्रससार महत्तमः । त्रियामावामनयना नीलकञ्चुकरोचिषा ॥ ३,२५.४१ ॥ तिमिरेणावृतं विश्वं न किञ्चित्प्रत्यपद्यत । असुराणां प्रदुष्टानां रात्रिरेव बलावहा ॥ ३,२५.४२ ॥ तेषां मायाविलासोऽयं तस्यामेव हि वर्धते । अथ प्रचलितं सैन्यं विषङ्गेण महौजसा ॥ ३,२५.४३ ॥ धौतखड्गलताच्छायावर्धिष्णु तिमिरच्छटम् । दमनाद्याश्च सेनान्यः श्मामकङ्कटधारिणः ॥ ३,२५.४४ ॥ श्यामोष्णीषधराः श्यामवर्णसर्वपरिच्छदाः । एकत्वमिव संप्राप्तास्तिमिरेणातिभूयसा ॥ ३,२५.४५ ॥ विषङ्गमनुसंचेलुः कृताग्रजनमस्कृतिम् । कूटेन युद्धकृत्येन विजिगीषुर्महेश्वरीम् ॥ ३,२५.४६ ॥ मेघडंबरकं नाम दधे वक्षसि कङ्कटम् । यथा तस्य निशायुद्धानुरूपो वेषसंग्रहः ॥ ३,२५.४७ ॥ तथा कृतवती सेना श्यामलं कञ्चुकादिकम् । न च दुन्दुभिनिस्वानो न च मर्द्दलगर्जितम् ॥ ३,२५.४८ ॥ पणवानकभेरीणां न च घोषविजृंभणम् । गुप्ताचाराः प्रचलितास्तिमिरेण समावृताः ॥ ३,२५.४९ ॥ परैरदृश्यगतयो विष्कोशीकृतरिष्टयः । पश्चिमाभिमुखं यान्ति ललितायाः पताकिनीम् ॥ ३,२५.५० ॥ आवृतोत्तरमार्गेण पूर्वभागमशिश्रियन् । निश्वासमपि सस्वानमकुर्वन्तः पदेपदे ॥ ३,२५.५१ ॥ सावधानाः प्रचलिताः पार्ष्णिग्राहाय दानवाः । भूयः पुरस्य दिग्भागं गत्वा मन्दपराक्रमाः ॥ ३,२५.५२ ॥ ललितासैन्यमेव स्वान्सूचयन्तः प्रपृच्छतः । आगत्य निभृतं पृष्ठे कवचच्छन्नविग्रहाः ॥ ३,२५.५३ ॥ चक्रराजरथं तुङ्गं मेरुमन्दरसंनिभम् । अपश्यन्नतिदीप्ताभिः शक्तिभिः परिवारितम् ॥ ३,२५.५४ ॥ तत्र मुक्तातपत्रस्य वर्त्तमानामधःस्थले । सहस्रादित्यसंकाशां पश्चिमाभिमुखीं स्थिताम् ॥ ३,२५.५५ ॥ कामेश्वर्यादिनित्याभिः स्वसमानसमृद्धिभिः । नर्मालापविनोदेन सेव्यमानां रथोत्तमे ॥ ३,२५.५६ ॥ तां तथाभूतवृत्तान्ताम तादृशरणोद्यमाम् । पुरोगतं महत्सैन्यं वीक्षमाण सकौतुकम् ॥ ३,२५.५७ ॥ मन्वानश्च हि तामेव विषङ्गः सुदुराशयः । पृष्ठवंशे रथेन्द्रस्य घट्टयामास सैनिकैः ॥ ३,२५.५८ ॥ तत्राणि मादिशक्तीनां परिवारवरूथिनी । महाकलकलं चक्रुरणिमाद्याः परःशतम् ॥ ३,२५.५९ ॥ पट्टिशैर्द्रुघणैश्चैव भिन्दिपालैर्भुशुण्डिभिः । कठोरवज्रनिर्धातनिष्ठुरैः शक्तिमण्डलैः ॥ ३,२५.६० ॥ मर्दयन्तो महासत्त्वाः समरं बहुमेनिरे । आकस्मिकरणोत्साहविपर्याविष्टविग्रहम् ॥ ३,२५.६१ ॥ अकाण्डक्षुभितं चासीद्रथस्थं शक्तिमण्डलम् । विपाटैः पाटयामासुरदृश्यैरन्धकारिणः ॥ ३,२५.६२ ॥ ततश्चक्ररथेन्द्रस्य नवमे पर्वणि स्थिताः । अदृश्यमानशस्त्राणामदृश्यनिजवर्मणाम् ॥ ३,२५.६३ ॥ तिमिरच्छन्नरूपाणां दानवानां शिलीमुखैः । इतस्ततो बहु क्लिष्टं छन्नवर्मितमर्मवत् ॥ ३,२५.६४ ॥ शक्तीनां मण्डलं तेने क्रन्दनं ललितां प्रति । पूर्वानुक्रम तस्तत्र संप्राप्तं सुमहद्भयम् ॥ ३,२५.६५ ॥ कर्णाकर्णिकयाकर्ण्य ललिता कोपमादधे । एतस्मिन्नन्तरे भण्डश्चण्डदुर्मत्रिपण्डितः ॥ ३,२५.६६ ॥ दशाक्षौहिणिकायुक्तं कुटिलाक्षं महौजसम् । ललितासैन्यनाशाय युद्धाय प्रजिघाय सः ॥ ३,२५.६७ ॥ यथा पश्चात्कलकलं श्रुत्वाग्रेवर्तिनी चमूः । नागच्छति तथा चक्रे कुटिलाक्षो महारणम् ॥ ३,२५.६८ ॥ एवं चोभयतो युद्धं पश्चादग्रे तथाभवत् । अत्यन्ततुमुलं चासीच्छक्तीनां सैनिके महत् ॥ ३,२५.६९ ॥ नक्तसत्त्वाश्च दैत्येन्द्रास्तिमिरेण समावृताः । इतस्ततः शिथिलतां कण्टके निन्युरुद्धताः ॥ ३,२५.७० ॥ निषङ्गेण दुराशेन धमनाद्यैश्चमूवरैः । चमूभिश्च प्रणहिता न्यपतञ्छत्रुकोटयः ॥ ३,२५.७१ ॥ ताभिर्दैत्यास्त्रमालाभिश्चक्रराजरथो वृतः । बकावलीनिबिडतः शैलराज इवाबभौ ॥ ३,२५.७२ ॥ आक्रान्तपर्वणाधस्ताद्विषङ्गेण दुरात्मना । मुक्त एकः शरोदेव्यास्तालवृन्तमचूर्णयत् ॥ ३,२५.७३ ॥ अथ तेनाव्याहितेन संभ्रान्ते शक्तिमण्डले । कामेश्वरीमुखा नित्या महान्तं क्रोधमाययुः ॥ ३,२५.७४ ॥ ईषद्भृकुटिसंसक्तं श्रीदेव्या वदनांबुजम् । अवलोक्य भृशोद्विग्ना नित्या दधुरतिश्रमम् ॥ ३,२५.७५ ॥ नित्या कालस्वरूपिण्यः प्रत्येकं तिथिविग्रहाः । क्रोधमुद्वीक्ष्य सन्नाज्ञ्या युद्धाय दधुरुद्यमम् ॥ ३,२५.७६ ॥ प्रणिपत्य च तां देवीं महाराज्ञीं महोदयाम् । ऊचुर्वाचमकाण्डोत्थां युद्धकौतुकगद्गदाम् ॥ ३,२५.७७ ॥ तिथिनित्या उचुः । देवदेवी महाराज्ञी तवाग्रे ब्रेक्षितां चमूम् । दण्डिनीमन्त्रनाथादिमहाशक्त्याभपालिताम् ॥ ३,२५.७८ ॥ धर्षितु कातरा दुष्टा मायाच्छद्मपरायणाः । पार्ष्णिग्राहेण युद्धेन बाधन्ते रथपुङ्गवम् ॥ ३,२५.७९ ॥ तस्मात्तिमिरसंछन्नमूर्तीनां विबुधद्रुहाम् । शमयामो वयं दर्पं क्षणमात्रं विलोकय ॥ ३,२५.८० ॥ या वह्निवासिनी नित्या या ज्वालामालिनी परा । ताभ्यां प्रदीपिते युद्धे द्रष्टुं शक्ताः सुरद्विषः ॥ ३,२५.८१ ॥ प्रशमय्य महादर्पं पार्ष्णिग्राहप्रवर्तिनाम् । सहसैवागमिष्यामः सेवितुं श्रीपदांबुजम् । आज्ञां देहि महाराज्ञि मर्दनार्थं दुरात्मनाम् ॥ ३,२५.८२ ॥ इत्युक्ते सति नित्याभिस्तथास्त्विति जगाद सा । अथ कामेश्वरी नित्या प्रणम्य ललितेश्वरीम् । तया संप्रेषिता ताभिः कुण्डलीकृत कार्मुका ॥ ३,२५.८३ ॥ सा हन्तुं तान्दुराचारान्कूटयुद्धकृतक्षणान् । बालारुणमिव क्रोधारुणं वक्त्रं वितन्वती ॥ ३,२५.८४ ॥ रे रे तिष्ठत पापिष्ठा मायानिष्ठाश्छिनद्मि वः । अन्धकारमनुप्राप्य कूटयुद्धपरायणाः ॥ ३,२५.८५ ॥ इति तान्भर्त्सयन्ती सा तूणीरोत्खातसायकात् । पर्वावरोहणं चक्रे क्रोधेन प्रस्खलद्गतिः ॥ ३,२५.८६ ॥ सज्जकार्मुकहस्ताश्च भगमालापुरःसराः । अन्याश्च चरिता नित्याः कृत पर्वावरोहणाः ॥ ३,२५.८७ ॥ ज्वालामालिनि नित्या च या नित्या वह्निवासिनी । सज्जे युद्धे स्वतेजोभिः समदीपयतां रणे ॥ ३,२५.८८ ॥ अथ ते दुष्टदनुजाः प्रदीप्ते युद्धमण्डले । प्रकाशवपुषस्तत्र मरान्तं क्रोधमाययुः ॥ ३,२५.८९ ॥ कामेश्वर्यादिका नित्यास्ताः पञ्चदश सायुधाः । ससिंहनादास्तान्दैत्यानमृद्नन्नेव हेलया ॥ ३,२५.९० ॥ महाकलकलस्तत्र समभूद्युद्धसीमनि । मन्दरक्षोभितांभोदिवेल्लत्कल्लोलमण्डलः ॥ ३,२५.९१ ॥ ताश्च नित्यावलत्क्वाणकङ्कणैर्युधि पाणिभिः । आकृष्य प्रामकोदण्डास्तेनिरे युद्धमुद्धतम् ॥ ३,२५.९२ ॥ यामत्रितयपर्यन्तमेवं युद्धमवर्त्तत । नित्यानां निशितैर्बाणैरक्षौहिण्यश्च संहृताः ॥ ३,२५.९३ ॥ जघान दमनं दुष्टं कामेशी प्रथमं शरैः । दीर्घजिह्वं चमूनाथं भगमाला व्यदारत् ॥ ३,२५.९४ ॥ नित्यक्लिन्ना च भेरुण्डा हुम्बेकं हुलुमल्लकम् । कक्लसं वह्निवासा च निजघान शरैः शतैः ॥ ३,२५.९५ ॥ महावज्रेश्वरी बाणैरभिनत्केकिवाहनम् । पुक्लसं शिवदूती च प्राहिणोद्यमसादनम् ॥ ३,२५.९६ ॥ पुण्ड्रकेतुं भुजोद्दण्डं त्वरिता समदारयत् । कुलसुन्दरिका नित्या चण्डबाहुं च कुक्कुरम् ॥ ३,२५.९७ ॥ अथ निलपताका च विजया च जयोद्धते । जंबुकाक्षं जृंभणं च व्यतन्वातां रणे बलिम् । सर्वमङ्गलिका नित्या तीक्ष्णशृङ्गमखण्डयत् । ज्वालामालिनिका नित्या जघानोग्रं त्रिकर्णकम् ॥ ३,२५.९८ ॥ चन्द्रगुप्तं च दुःशीलं चित्रं चित्रा व्यदारत् । सेनानाथेषु सर्वेषु निहतेषु दुरात्मसु ॥ ३,२५.९९ ॥ विषङ्गः परमः कुद्धश्चचाल पुरतो बली । अथ यामावशेषायां यामिन्यां घटिकाद्वयम् ॥ ३,२५.१०० ॥ नित्याभिः सह संग्रामं विधाय स दुराशयः । अशक्यत्वं समुद्दिश्य चक्राम प्रपलायितुम् ॥ ३,२५.१०१ ॥ कामेश्वरीकराकृष्टचापोत्थौर्निशितैः शरैः । भिन्नवर्मा दृढतरं विषङ्गो विह्वलाशयः । हतावशिष्टैर्योधैश्च सार्धमेव पलायितः ॥ ३,२५.१०२ ॥ ताभिर्न निहतो दुष्टो यस्माद्वध्यः स दानवः । दण्डनाथाशरेणैव कालदण्डसमत्विषा ॥ ३,२५.१०३ ॥ तस्मिन्पलायिते दुष्टे विषङ्गे भण्डसोदरे । सा विभाता च रजनी प्रसन्नाश्चाभवन्दिशः ॥ ३,२५.१०४ ॥ पलायितं रणेवीरमनुसर्त्तुमनौचिती । इति ताः समरान्नित्यास्तस्मिन्काले व्यरंसिषुः ॥ ३,२५.१०५ ॥ दैत्यशस्त्रव्रणस्यन्दिशोणितप्लुतविग्रहाः । नित्याः श्रीललितां देवीं प्रणिपेतुर्जयोद्धताः ॥ ३,२५.१०६ ॥ इत्थं रात्रौ महद्युद्धं तत्र जातं भयङ्करम् । नित्यानां रूपजालं च शस्त्रक्षतमलोकयत् ॥ ३,२५.१०७ ॥ श्रुत्वोदन्तं महाराज्ञी कृपापाङ्गेन सैक्षत । तदालोकनमात्रेण व्रणो निर्व्रणतामगात् ॥ ३,२५.१०८ ॥ नित्यानां विक्रमैश्चापि ललिता प्रीतिमासदत् ॥ ३,२५.१०९ ॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने विषङ्गपलायनं नाम पञ्चविंशोऽध्याय _____________________________________________________________ प्रथमयुद्धदिवसः । दशाक्षौहिणिकायुक्तः कुटिलाक्षोऽपि वीर्यवान् । दण्डनाथाशरैस्तीक्ष्णै रणे भग्नः पलायितः । दशाक्षौहिणिकं सैन्यं तया रात्रौ विनाशितम् ॥ ३,२६.१ ॥ इमं वृत्तान्तमाकर्ण्य भण्डः क्षोभमथाययौ । रात्रौ कपटसंग्रामं दुष्टानां निर्जरद्रुहाम् । मन्त्रिणी दण्डनाथा च श्रुत्वा निर्वेदमापतुः ॥ ३,२६.२ ॥ अहो बत महत्कष्टं दैत्यैर्देव्याः समागतम् । उत्तानबुद्धिभिर्दूरमस्माभिश्चलितं पुरः ॥ ३,२६.३ ॥ महाचक्ररथेन्द्रस्य न जातं रक्षणं बलैः । एतं त्ववसरं प्राप्य रात्रौ दुष्टैः पराकृतम् ॥ ३,२६.४ ॥ को वृत्तान्तोऽभवत्तत्र स्वामिन्या किं रणः कृतः । अन्या वा शक्तयस्तत्र चक्रुर्युद्धं महासुरैः ॥ ३,२६.५ ॥ विम्रष्टव्यमिदं कार्यं प्रवृत्तिस्तत्र कीदृशी । महादेव्याश्च हृदये कः प्रसंगः प्रवर्तते ॥ ३,२६.६ ॥ इति शङ्काकुलास्तत्र दण्डनाथापुरोगमाः । मन्त्रिणीं पुरतः कृत्वा प्रचेलुर्ललितां प्रति ॥ ३,२६.७ ॥ शक्तिचक्रचमूनाथाः सर्वास्ताः पूजिता द्रुतम् । व्यतीतायां विभावर्यां रथेन्द्रं पर्यवारयन् ॥ ३,२६.८ ॥ अवरुह्य स्वयानाभ्यां मन्त्रिणीदण्डनायिके । अधस्तात्सैन्यमावेश्य तदारुरुहतू रथम् ॥ ३,२६.९ ॥ क्रमेण नव पर्वाणि व्यतीत्य त्वरितक्रमैः । तत्तत्सर्वगतैः शक्तिचक्रैः सम्यङ्निवेदितैः ॥ ३,२६.१० ॥ अभजेतां महाराज्ञीं मन्त्रिणीदण्डनायिके । ते व्यजिज्ञपतां देव्या अष्टाङ्गस्पृष्टभूतले ॥ ३,२६.११ ॥ महाप्रमादः समभूदिति नः श्रुतमंबिके । कूटयुद्धप्रकारेण दैत्यैरपकृतं खलैः ॥ ३,२६.१२ ॥ स दुरात्मा दुराचारः प्रकाशसमारात्त्रसन् । कुहकव्यवहारेण जयसिद्धिं तु काक्षति ॥ ३,२६.१३ ॥ दैवान्नः स्वामिनीगात्रे दुष्टानाममरद्रुहाम् । शरादिकपरामर्शो न जातस्तेन जीवति ॥ ३,२६.१४ ॥ एकावलंबनं कृत्वा महाराज्ञि भवत्पदम् । वयं सर्वा हि जीवामः साधयामः समीहितम् ॥ ३,२६.१५ ॥ अतोऽस्माभिः प्रकर्तव्यं श्रीमत्यङ्गस्य रक्षणम् । मायाविनश्च दैत्येन्द्रास्तत्र मन्त्रो विधीयताम् ॥ ३,२६.१६ ॥ आपत्कालेषु जेतव्या भण्डाद्या दानवाधमाः । कूटयुद्धं न कुर्वन्ति न विशन्ति चमूमिमाम् ॥ ३,२६.१७ ॥ तथा महेन्द्रशैलस्य कार्यं दक्षिणदेशतः । शिबिरं बहुविस्तारं योजनानां शतावधि ॥ ३,२६.१८ ॥ वह्लिप्राकारवलयं रक्षणार्थं विधीयताम् । अस्मत्सेनानिवेशस्य द्विषां दर्पशमाय च ॥ ३,२६.१९ ॥ शतयोजनमात्रस्तु मध्यतेशः प्रकल्प्यताम् । वह्निप्राकाराचक्रस्य द्वारन्दक्षिणतो भवेत् ॥ ३,२६.२० ॥ यतो दक्षिणदेशस्थं शून्यकं विद्विषां पुरम् । द्वारे च बहवः कल्प्याः परिवारा उदायुधाः ॥ ३,२६.२१ ॥ निर्गच्छतां प्रविशतां जनानामुपरोधकाः । अनालस्या अनिद्राश्च विधेयाः सततोद्यताः ॥ ३,२६.२२ ॥ एवं च सति दुष्टानां कूटयुद्धं चिकीर्षितम् । अवेलासु च संध्यासु मध्यरात्रिषु च द्विषाम् । अशक्यमेव भवति प्रौढमाक्रमणं हठात् ॥ ३,२६.२३ ॥ नो चेद्दुराशया दैत्या बहुमायापरिग्रहाः । पश्यतोहरवत्सर्वं विलुठन्ति महद्बलम् ॥ ३,२६.२४ ॥ मन्त्रिण्या दण्डनाथाया इति श्रुत्वा वचस्तदा । शुचिदन्तरुचा मुक्ता वहन्ती ललिताब्रवीत् ॥ ३,२६.२५ ॥ भवतीनामयं मन्त्रश्चारुबुद्ध्या विचारितः । अयं कुशलधीमार्गोनीतिरेषा सनातनी ॥ ३,२६.२६ ॥ स्वचक्रस्य पुरो रक्षां विधाय दृढसाधनैः । परचक्राक्रमः कार्यो जिगीषद्भिर्महाजनैः ॥ ३,२६.२७ ॥ इत्युक्त्वा मन्त्रिणीदण्डनाथे सा ललितेश्वरी । ज्वालामालिनिकां नित्यामाहूयेदमुवाच ह ॥ ३,२६.२८ ॥ वत्से त्वं वह्निरूपासि ज्वालामालामयाकृतिः । त्वया विधीयतां रक्षा बलस्यास्य महीयसः ॥ ३,२६.२९ ॥ शतयोजनविस्तारं परिवृत्य महीतलम् । त्रिंशद्योजनमुन्नद्धं ज्वालाकारत्वमाव्रज ॥ ३,२६.३० ॥ द्वारयोजनमात्रं तु मुक्त्वान्यत्र ज्वलत्तनुः । वह्निज्वालात्वमापन्ना संरक्ष सकलं बलम् ॥ ३,२६.३१ ॥ इत्युक्त्वा मन्त्रिणीदण्डनाथे सा ललितेश्वरी । महेन्द्रोत्तरभूभागं चलितुं चक्र उद्यमम् ॥ ३,२६.३२ ॥ सा च नित्यानित्यमयी ज्वलज्ज्वा लामयाकृतिः । चतुर्दशीतिथिमयी तथेति प्रणनाम ताम् ॥ ३,२६.३३ ॥ तयैव पूर्वनिर्दिष्टं महेन्द्रोत्तरभूतलम् । कुण्डलीकृत्य जज्वालशालरूपेण सा पुनः ॥ ३,२६.३४ ॥ नभोवलयजंबालज्वालामालामयाकृतिः । बभासे दण्डनाथाया मन्त्रिनाथचमूरपि ॥ ३,२६.३५ ॥ अन्या सामपि शक्तीनां महतीनां महद्बलम् । विशङ्कटोदरं सालं प्रविवेश गतक्लमा ॥ ३,२६.३६ ॥ राजचक्ररथेन्द्रं तु मध्ये संस्थाप्य दण्डिनी । वामपक्षे रथं स्वीयं दक्षिणे श्यामलारथम् ॥ ३,२६.३७ ॥ पश्चाद्भागे सम्पदेशीं पुरस्ताश्च हयासनाम् । एवं संवेश्य परितश्चक्रराजरथस्य च ॥ ३,२६.३८ ॥ द्वारे निवेशयामास विंशत्यक्षौहिणीयुताम् । ज्वलद्दण्डायुधोदग्रां स्तम्भिनीं नाम देवताम् ॥ ३,२६.३९ ॥ या देवी दण्डनाथाया विघ्नदेवीति विश्रुता । एवं सुरक्षितं कृत्वा शिबिरं योत्रिणी तथा । पूषण्युदितभूयिष्ठे पुनर्युद्धमुपाश्रयत् ॥ ३,२६.४० ॥ कृत्वा किलकिलारावं ततः शक्तिमहाचमूः । अग्निप्राकारकद्वारान्निर्जगां महारवा ॥ ३,२६.४१ ॥ इत्थं सुरक्षितं श्रुत्वा ललिताशिबिरोदरम् । भूयः संज्वरमापन्नः प्रचण्डो भण्डदानवः ॥ ३,२६.४२ ॥ मन्त्रयित्वा पुनस्तत्र कुटिलाक्षपुरोगमैः । विषङ्गेण विशुक्रेणासममात्मसुतैरपि ॥ ३,२६.४३ ॥ एकौघस्य प्रसारेण युद्धं कर्तुं महाबलः । चतुर्बाहुमुखान्पुत्रांश्चतुर्जलधिसन्निभान् ॥ ३,२६.४४ ॥ चतुरान्युद्धकृत्येषु समाहूय स दानवः । प्रेषयामास युद्धाय भण्डश्चण्डक्रुधा ज्वलन् ॥ ३,२६.४५ ॥ त्रिंशत्संख्याश्च तत्पुत्रा महाकाया महाबलाः । तेषां नामानि वक्ष्यामि समाकर्णय कुम्भज ॥ ३,२६.४६ ॥ चतुर्बाहुश्चकोराक्षस्तृतीयस्तु चतुः शिराः । वज्रघोषश्चोर्ध्वकेशो महाकायो महाहनुः ॥ ३,२६.४७ ॥ मखशत्रुर्मखस्कन्दीसिंहघोषः सिरालकः । लडुनः पट्टसेनश्च पुराजित्पूर्वमारकः ॥ ३,२६.४८ ॥ स्वर्गशत्रुः स्वर्गबलो दुर्गाख्यः स्वर्गकण्टकः । अतिमायो बृहन्माय उपमायश्च वीर्यवान् ॥ ३,२६.४९ ॥ इत्येते दुर्मदाः पुत्रा भण्डदैत्यस्य दुर्द्धियः । पितुः सदृशदोर्वीर्याः पितुः सदृशविग्रहाः ॥ ३,२६.५० ॥ आगत्य भण्डचरणावभ्यवन्दत भक्तितः । तानुद्वीक्ष्य प्रसन्नाभ्यां लोचनाभ्यां स दानवः । सगौरवमिदं वाक्यं बभाषे कुलघातकः ॥ ३,२६.५१ ॥ भो भो मदीयास्तनया भवतां कः समो भुवि । भवतामेव सत्येन जितं विश्वं मया पुरा ॥ ३,२६.५२ ॥ शक्रस्या ग्नेर्यमस्यापि निरृतेः पाशिनस्तथा । कचेषु कर्षणं कोपात्कृतं युष्माभिराहवे ॥ ३,२६.५३ ॥ अस्त्राण्यपि च शस्त्राणि जानीथ निखिलान्यपि । जाग्रत्स्वेव ही युष्मासु कुलभ्रंशोऽयमागतः ॥ ३,२६.५४ ॥ मायाविनी दुललिता काचित्स्त्री युद्धदुर्मदा । बहुभिः स्वसमानाभिः स्त्रीभिर्युक्ता हिनस्ति नः ॥ ३,२६.५५ ॥ तदेनां समरेऽवश्यमात्मवश्यां विधास्यथ । जीवग्राहं च सा ग्राह्या भवद्भिर्ज्वलदायुधैः ॥ ३,२६.५६ ॥ अप्रमेयप्रकोपान्धान्युष्मानेकां स्त्रियं प्रति । सम्प्रेषणमनौचित्यं तथाप्येष विधेः क्रमः ॥ ३,२६.५७ ॥ इममेकं सहध्वं च शौर्यकीतिविपर्ययम् । इत्युक्त्वा भण्डदैत्येन्द्रस्तान्प्रहैषीद्रणं प्रति । द्विशतं चाक्षौहिणीनां तत्सहायतयाहिनोत् ॥ ३,२६.५८ ॥ द्विशत्यक्षौहिणीसेना मुख्यस्य तिलकायिता । बद्धभ्रुकुटयः शस्त्रपाणयो निर्ययुर्गृहात् ॥ ३,२६.५९ ॥ निर्गमे भण्डपुत्राणां भूः प्रकम्पमलम्बत । उत्पाता विविधा जाता वित्रस्तं चाभवज्जगत् ॥ ३,२६.६० ॥ तान्कुमारान्महासत्त्वांल्लाजवर्षैरवाकिरन् । विथीषु यानैश्चलितान्पौरवृद्धपुरन्ध्रयः ॥ ३,२६.६१ ॥ बन्दिनो मागधाश्चैव कुमाराणां स्तुतिं व्यधुः । मङ्गलारार्तिकं चक्रुर्द्वारेद्वारे पुराङ्गनाः ॥ ३,२६.६२ ॥ भिद्यमानेव वसुधा कृष्यमाणमिवाबरम् । आसीत्तेषां विनिर्याणे घूर्णमान इवार्णवः ॥ ३,२६.६३ ॥ द्विशत्यक्षौहिणीसेनां गृहीत्वा भण्डसूनवः । क्रोधोद्यद्भ्रुकुटीक्रूरवदना निर्ययुः पुरात् ॥ ३,२६.६४ ॥ शक्तिसैन्यानि सर्वाणि भक्षयामः क्षणाद्रणे । तेषामायुधचक्राणि चूर्णयामः शितैशरैः ॥ ३,२६.६५ ॥ अग्निप्राकारवलयं शमयामश्च रंहसा । दुर्विदग्धां तां ललितां बन्दीकुर्मश्च सर्वरम् ॥ ३,२६.६६ ॥ इत्यन्योन्यं प्रवल्गन्तो वीरभाषणघोषणैः । आसेदुरग्निप्राकारसमीपं भण्डसूनवः ॥ ३,२६.६७ ॥ यौवनेन मदेनान्धा भूयसा रुद्धदृष्टयः । भ्रुकुटीकुटिलाश्चक्रुः सिंहनादंमहात्तरम् ॥ ३,२६.६८ ॥ विदीर्णमिव तेनासीद्ब्रह्माण्ड चण्डिमस्पृशा । उत्पातवारिदोत्सृष्टघोरनिर्घातरंहसा ॥ ३,२६.६९ ॥ एतस्याननुभूतस्य महाशब्दस्य डम्बरः । क्षोभयामास शक्तीनां श्रवांसि च मनांसि च ॥ ३,२६.७० ॥ आगत्य ते कलकलं चक्रुःसार्धं स्वसैनिकैः । विविधायुधसम्पातमूर्च्छद्वैमानिकच्छटम् ॥ ३,२६.७१ ॥ चतुर्बाहुमखान्भूत्वा भण्डदैत्यकुमारकान् । आगतान्युद्धकृत्याय बाला कौतूहलं दधे ॥ ३,२६.७२ ॥ कुमारी ललितादेव्यास्तस्या निकटवासिनी । समस्तशक्तिचक्राणां पूज्य विक्रमशालिनी ॥ ३,२६.७३ ॥ ललितासदृशाकारा कुमारी कोपमादधे । या सदा नववर्षेव सर्वविद्यामहाखनिः ॥ ३,२६.७४ ॥ बालारुणतनुः श्रोणीशोणवर्णवपुर्लता । महाराज्ञी पादपीठे नित्यमाहितसंनिधिः ॥ ३,२६.७५ ॥ तस्या बहिश्चराः प्राणा या चतुर्थं विलोचनम् । तानागतान्भण्डसुतान्संहरिष्यामि सत्वरम् ॥ ३,२६.७६ ॥ इति निश्चित्य बालांबा महाराज्ञ्यै व्यजिज्ञपत् । मातर्भण्डमहादैत्यसूनवो योद्धुमागताः ॥ ३,२६.७७ ॥ तैः समं योद्धुमिच्छामि कुमारित्वात्सकौतुका । सफुरन्ताविव मे बाहू युद्धकण्डूययानया ॥ ३,२६.७८ ॥ क्रीडा ममैषा हन्तव्या न भवत्या निवारणैः । अहं हि वालिका नित्यं क्रीडनेष्वनुरागिणी ॥ ३,२६.७९ ॥ क्षणं रणक्रीडया च प्रीतिं यास्यामि चैतसा । इति विज्ञापिता देवी प्रत्युवाच कुमारिकाम् ॥ ३,२६.८० ॥ वत्से त्वमतिमृद्वङ्गी नववर्षा नवक्रमा । नवीनयुद्धशिक्षा च कुमारी त्वं ममैकिका ॥ ३,२६.८१ ॥ त्वां विना क्षणमात्रं मे न निश्वासः प्रवर्तते । ममोच्छ्वसितमेवासि न त्वं याहि महाहवम् ॥ ३,२६.८२ ॥ दण्डिनी मन्त्रिणी चैव शक्तयोऽन्याश्च कोटिशः । संत्येव समरे कर्तुं वत्से त्वं किं प्रमाद्यसि ॥ ३,२६.८३ ॥ इति श्रीललितादेव्या निरुद्धापि कुमारिका । कौमारकौतुकाविष्टा पुनर्युद्धमयाचत ॥ ३,२६.८४ ॥ सुदृढं निश्चयं दृष्ट्वा तस्याः श्रीललितांबिका । अनुज्ञां कृतवत्येव गाढमाश्लिष्य बाहुभिः ॥ ३,२६.८५ ॥ स्वकीयकवचादेकमाच्छिद्य कवचं ददौ । स्वायुधेभ्यश्चायुधानि वितीर्यविससर्ज ताम् ॥ ३,२६.८६ ॥ कर्णीरथं महाराज्ञ्या चापदण्डात्समुद्धृतम् । हंसयुग्यशतैर्युक्तमारुरोह कुमारिका ॥ ३,२६.८७ ॥ तस्यां रणे प्रवृत्तायां सर्वपर्वस्थदेवताः । बद्धाञ्जलिपुटा नेमुः प्रधृतासिपरंपराः ॥ ३,२६.८८ ॥ ताभिः प्रणम्यमाना सा चक्रराजरथोत्तमात् । अवरुह्य तले सैन्यं वर्तमानमगाहत ॥ ३,२६.८९ ॥ तामायान्तीमथो दृष्ट्वा कुमारीं कोपपाटलाम् । मन्त्रिणीदण्डनाथे च सभये वाचमूचतुः ॥ ३,२६.९० ॥ किं भर्तृदारिके युद्धे व्यवसायः कृतस्त्वया । अकाण्डे किं महाराज्ञ्या प्रेषितासि रणं प्रति ॥ ३,२६.९१ ॥ तदेतदुचितंनैव वर्तमानेऽपि सैनिके । त्वं मूर्तं जीवितमसि श्रीदेव्या बालिके यतः ॥ ३,२६.९२ ॥ निवर्तस्व रणोत्साहात्प्रणामस्ते विधीयते । इति ताभ्यां प्रार्थितापि प्राचलद्दृढनिश्चया ॥ ३,२६.९३ ॥ अत्यन्तं विस्मयाविष्टे मन्त्रिणीदण्डनायिके । सहैव तस्या रक्षार्थं चेलतुः पार्श्वयोर्द्वयोः ॥ ३,२६.९४ ॥ अथाग्निवरणद्वारा ताभ्यामनुगता सती । प्रभूतसेनायुक्ताभ्यां निर्जगाम कुमारिका ॥ ३,२६.९५ ॥ सनाथशक्तिसेनानां सर्वासामनुगृह्णती । प्रणामाञ्जलिजालानि कर्णीरथकृतासना ॥ ३,२६.९६ ॥ भण्डस्य तनयान्दुष्टानभ्यद्रवदरिन्दमा । तस्याः प्रादेशिकं सैन्यं कुमार्या न हि विद्यते ॥ ३,२६.९७ ॥ सर्वं हि ललितासैन्यं तत्सैन्यं समजायत । ततः प्रववृते युद्धमत्युद्धतापराक्रमम् ॥ ३,२६.९८ ॥ ववर्ष शरजालानि दैत्येन्द्रेषु कुमारिका । भण्डासुरकुमारैस्तैर्महाराज्ञीकुमारिका । यद्युद्धमतनोत्तत्तु स्पृहणीयं सुरासुरैः ॥ ३,२६.९९ ॥ अत्यन्तविस्मिता दैत्यकुमारा नववर्षिणीम् । कर्मीरथस्थामालोक्य किरन्तींशरमण्डलम् ॥ ३,२६.१०० ॥ क्षणेक्षणे बालिकया क्रियमाणं महारणम् । व्यजिज्ञपन्महाराज्ञ्यै भ्रमन्त्यः परिचारिकाः ॥ ३,२६.१०१ ॥ मन्त्रिणीदण्डनाथे च न तां विजहतू रणे । प्रेक्षकत्व मनुप्राप्ते तृष्णीमेव बभूवतुः ॥ ३,२६.१०२ ॥ सर्वेषां दैत्यपुत्राणामेकरूपा कुमारिका । प्रत्येकभिन्ना ददृशे बिंबमालेव भास्वतः ॥ ३,२६.१०३ ॥ सायकैरग्निचूडालैस्तेषां मर्माणि भिन्दती । रक्तोत्पलमिव क्रोधसंरक्तं बिभ्रती मुखम् ॥ ३,२६.१०४ ॥ आश्चर्यं ब्रुवतो व्योम्नि पश्यतां त्रिदिवौकसाम् । साधुवादैर्बहुविधैर्मत्रिणीदण्डनाथयोः ॥ ३,२६.१०५ ॥ अर्च्यमाना रणं चक्रे लघुहस्ता कुमारिका । द्वितीयं युद्धदिवसं समस्तमपि सा रणे ॥ ३,२६.१०६ ॥ प्रकाशयामास बलं ललितादुहिता निजम् । अस्त्रप्रत्यस्त्रमोक्षेण तान्सर्वानपि भिन्दती ॥ ३,२६.१०७ ॥ नारायणास्त्रमोक्षेण महराज्ञीकुमारिका । द्विशत्यक्षौहिणीसैन्यं भस्मसादकरोत्क्षणात् ॥ ३,२६.१०८ ॥ अक्षौहिणीनां क्षयतः क्षणात्कोपमुपागताः । आकृष्टगुरुधन्वानस्तेऽपतन्नेकहेलया ॥ ३,२६.१०९ ॥ ततः कलकले जाते शक्तीनां च दिवौकसाम् । युगपत्त्रिंशतो बाणानसृजत्सा कुमारिका ॥ ३,२६.११० ॥ हस्तलाघवमाश्रित्य मुक्तैश्चन्द्रार्धसायकैः । त्रिंशता त्रिंशतो भण्डपुत्राणा साहतं शिरः ॥ ३,२६.१११ ॥ इति भण्डस्य पुत्रेषु प्राप्तेषु यमसादनम् । अत्यन्तविस्मयाविष्टा वबृषुः पुष्पमभ्रगाः ॥ ३,२६.११२ ॥ सा च पुत्री महाराज्ञ्याः विध्वस्तासुरमैनिका । मन्त्रिणीदण्डनाथाभ्यामालिङ्ग्यत भृशं मुदा ॥ ३,२६.११३ ॥ तस्याः पराक्रमोन्मेषैर्नृत्यन्त्योजयदायिभिः । शक्तयस्तुमुलं चक्रुः साधुवादैर्जगत्त्रयम् ॥ ३,२६.११४ ॥ सर्वाश्च शक्तिसेनान्यो दण्डनाथापुरःसराः । तदाश्चर्यं महाराज्ञ्यै निवेदयितुमुद्गताः ॥ ३,२६.११५ ॥ ताभिर्निवेद्यमानानि सा देवी ललितांबिका । पुत्रीभुजावदानानि श्रुत्वा प्रीतिं समाययौ ॥ ३,२६.११६ ॥ समस्तमपि तच्चक्रं शक्तीनां तत्पराक्रमैः । अदृष्टपूर्वैर्देवेषु विस्मयस्य वशं गतम् ॥ ३,२६.११७ ॥ इति श्रीब्रह्माण्डे महापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने भण्डपुत्रवधो नाम षड्विंशोऽध्यायः _____________________________________________________________ अथ नष्टेषु पुत्रेषु शोकानलपरिप्लुतः । विललाप स दैत्येन्द्रो मत्वा जातं कुलक्षयम् ॥ ३,२७.१ ॥ हा पुत्रा हा गुणोदारा हा मदेकपरायणाः । हा मन्नेत्रसुधापूरा हा मत्कुलविवर्धनाः ॥ ३,२७.२ ॥ हा समस्तसुरश्रेष्ठमदभञ्जनतत्पराः । हा समस्तसुरस्त्रीणामन्तर्मोहनमन्मथाः ॥ ३,२७.३ ॥ दिशत प्रीतिवाचं मे ममाङ्के वल्गताधुना । किमिदानीमिमं तातमवमुच्य सुखं गताः ॥ ३,२७.४ ॥ युष्मान्विना न शोभन्ते मम राज्यानि पुत्रकाः । रिक्तानि मम गेहानि रिक्ता राजसभापि मे ॥ ३,२७.५ ॥ कथमेवं विनिःशेषं हतायूयं दुराशयाः । अप्रधृष्यभुजासत्त्वान्भवतो मत्कुलाङ्कुरान् । कथमेकपदे दुष्टा वनिता संगरेऽवधीत् ॥ ३,२७.६ ॥ मम नष्टानि सौख्यानि मम नष्टाः कुलस्त्रियः । इतः परं कुले क्षीणे साहसानि सुखानि च ॥ ३,२७.७ ॥ भवतः सुकृतैर्लब्ध्वा मम पूर्वजनुःकृतैः । नाशोऽयं भवतामद्य जातो नष्टस्ततोऽस्म्यहम् ॥ ३,२७.८ ॥ हा हतोऽस्मि विपन्नोऽस्मि मन्दभाग्योऽस्मि पुत्रकाः । इति शोकात्स पर्यस्यन्प्रलपन्मुक्तमूर्धजः । मूर्च्छया लुप्तहृदयो निष्पपात नुपासनात् ॥ ३,२७.९ ॥ विशुक्रश्च विषङ्गश्च कुटिलाक्षश्च संसदि । भण्डमाश्वासयामासुर्दैवस्य कुटिलक्रमैः ॥ ३,२७.१० ॥ विशुक्र उवाच देवकि प्राकृत इव प्राप्तः शोकस्य वश्यताम् । लपसि त्वे प्रति सुतान्प्राप्तमृत्यून्महाहवे ॥ ३,२७.११ ॥ धर्मवान्विहितः पन्था वीराणामेष शाश्वतः । अशोच्यमाहवे मृत्युं प्राप्नुवन्ति यदर्हितम् ॥ ३,२७.१२ ॥ एतदेव विनाशाय शल्यवद्बाधते मनः । यत्स्त्री समागत्य हठान्नि हन्ति सुभटान्रणे ॥ ३,२७.१३ ॥ इत्युक्ते तेन दैत्येन पुत्रशोको व्यमुच्यत । भण्डेन चण्डकालाग्निसदृशः क्रोध आदधे ॥ ३,२७.१४ ॥ स कोशात्क्षिप्रमुद्धृत्य खड्गमुग्रं यमोपमम् । विस्फारिताक्षियुगलो भृशं जज्वाल तेजसा ॥ ३,२७.१५ ॥ इदानीमेव तां दुष्टां खड्गेनानेन खण्डशः । शकलीकृत्य समरे श्रमं प्राप्स्यामि बन्धुभिः ॥ ३,२७.१६ ॥ इति रोषस्खलद्वर्णः श्वसन्निव भुजङ्गमः । खड्गं विधुन्वन्नुत्थाय प्रचचाला तिमत्तवत् ॥ ३,२७.१७ ॥ तं निरुध्य च संभ्रान्ताः सर्वे दानवपुङ्गवाः । वाचमूचुरतिक्रोधाज्ज्वलन्तो ललितां प्रति ॥ ३,२७.१८ ॥ न तदर्थे त्वया कार्यः स्वामिन्संभ्रम ईदृशः । अस्माभिः स्वबलैर्युक्तै रणोत्साहो विधीयते ॥ ३,२७.१९ ॥ भवदाज्ञालवं प्राप्य समस्तभुवनं हठात् । विमर्द्दयितुमीशाः स्मः किमु तां मुग्धभामिनीम् ॥ ३,२७.२० ॥ किं चूषयामः सप्ताब्धीन्क्षोदयामोऽथ वा गिरीन् । अधरोत्तरमेवैतत्त्रैलोक्यं करवाम वा ॥ ३,२७.२१ ॥ छिनदाम सुरान्सर्वान्भिनदाम तदालयान् । पिन्षाम हरित्पालानाज्ञां देहि महामते ॥ ३,२७.२२ ॥ इत्युदीरित माकर्ण्य महाहङ्कारगर्वितम् । उवाच वचनं क्रुद्धः प्रतिघारुणलोचनः ॥ ३,२७.२३ ॥ विशुक्र भवता गत्वा मायान्तार्हितवर्ष्मणा । जयविघ्नं महायन्त्रं कर्त्तव्यं कटके द्विषाम् ॥ ३,२७.२४ ॥ इति तस्य वचः श्रुत्वा विशुक्रो रोषरूषितः । मायातिरोहितवपुर्जगाम ललिताबलम् ॥ ३,२७.२५ ॥ तस्मिन्प्रयातुमुद्युक्ते सुर्योऽस्तं समुपागतः । पर्यस्तकिरणस्तोमपाटलीकृतदिङ्मुखः ॥ ३,२७.२६ ॥ अनुरागवती संध्या प्रयान्तं भानुमालिनम् । अनुवव्राज पातालकुञ्जे रन्तुमिवोत्सुका ॥ ३,२७.२७ ॥ वेगात्प्रपततो भानोर्देहसंगात्समुत्थिताः । चरमाब्धेरिव पयःकणास्तारा विरेजिरे ॥ ३,२७.२८ ॥ अथाससाद बहुलं तमः कज्जलमेचकम् । सार्थं कर्त्तुमिवोद्युक्तं सवर्णस्यासिदुर्धिया ॥ ३,२७.२९ ॥ मायारथं समारूढो गूढशर्वरसंवृतः । अदृश्यवपुरापेदे ललिताकटकं खलः ॥ ३,२७.३० ॥ तत्र गत्वा ज्वलज्ज्वालं वह्निप्राकारमण्डलम् । शतयोजनविस्तारामालोकयत्दुर्मतिः ॥ ३,२७.३१ ॥ परितो विभ्रमञ्शालमवकाशमवाप्नुवन् । दक्षिणं द्वारमासाद्य निदध्यौ क्षणमुद्धतः ॥ ३,२७.३२ ॥ तत्रापश्यन्महासत्त्वास्सावधाना धृतायुधाः । आरूढयानाः सनद्धवर्माणो द्वारदेशतः ॥ ३,२७.३३ ॥ स्तंभिनीप्रमुखाः शक्तीर्विशत्यक्षौहिणीयुताः । सर्वदा द्वाररक्षार्थं निर्दिष्टा दण्डनाथया ॥ ३,२७.३४ ॥ विलोक्य विस्मयाविष्टो विचार्य च चिरं तदा । शालस्य बहिरेवासौ स्थित्वा यन्त्रं समातनोत् ॥ ३,२७.३५ ॥ गव्यूतिमात्रकायामे तत्समानप्रविस्तरे । शिलापट्टे सुमहति प्रालिखद्यन्त्रमुत्तमम् ॥ ३,२७.३६ ॥ अष्टदिक्ष्वष्टशूलेन संहाराक्षरमौलिना । अष्टभिर्दैवतैश्चैव युक्तं यन्त्रं समालिखत् ॥ ३,२७.३७ ॥ अलसा कृपणा दीना नितन्द्राच प्रमीलिका । क्लीबा च निरहङ्कारा चेत्यष्टौ देवताः स्मृताः ॥ ३,२७.३८ ॥ देवताष्टकमेतश्च शूलाष्टकपुटोपरि । नियोज्य लिखितं यन्त्रं मायावी सममन्त्रयत् ॥ ३,२७.३९ ॥ पूजां विधाय मन्त्रस्य बलिभिश्छागलादिभिः । तद्यन्त्रं चारिकटके प्राक्षिपत्समरेऽसुरः ॥ ३,२७.४० ॥ पाकारस्य बहिर्भागे वर्तिना तेन दुर्धिया । क्षिप्तमुल्लङ्घ्य च रणे पपात कटकान्तरे ॥ ३,२७.४१ ॥ तद्यन्त्रस्य विकारेण कटकस्थास्तुशक्तयः । विमुक्तशस्त्रसंन्यासमास्थिता दीनमानसाः ॥ ३,२७.४२ ॥ किं हतैरसुरैः कार्यं शस्त्राशस्त्रिक्रमैरलम् । जयसिद्धफलं किं वा प्राणिहिंसा च पापदा ॥ ३,२७.४३ ॥ अमराणां कृते कोऽयं किमस्माकं भविष्यति । वृथा कलकलं कृत्वा न फलं युद्धकर्मणा ॥ ३,२७.४४ ॥ का स्वामिनी महाराज्ञी का वासौ दण्डनायिका । का वा सा मन्त्रिणी श्यामा भृत्यत्वं नोऽथ कीदृशम् ॥ ३,२७.४५ ॥ इह सर्वाभिरस्माभिर्भृत्यभूताभिरेकिका । वनिता स्वामिनीकृत्ये किं फलं मोक्ष्यते परम् ॥ ३,२७.४६ ॥ परेषां मर्मभिदुरैरायुधैर्न प्रयोजनम् । युद्धं शाम्यतु चास्माकं देहशस्त्रक्षतिप्रदम् ॥ ३,२७.४७ ॥ युद्धे च मरणं भावि वृथा स्युर्जीवितानि नः । युद्धे मृत्युर्भवेदेव इति तत्र प्रमैव का ॥ ३,२७.४८ ॥ उत्साहेन फलं नास्ति निद्रैवैका सुखावहा । आलस्यसदृशं नास्ति चित्तविश्रान्तिदायकम् ॥ ३,२७.४९ ॥ एतादृशीश्च नो ज्ञात्वा सा राज्ञी किं करिष्यति । तस्या राज्ञीत्वमपि नः समवायेन कल्पितम् ॥ ३,२७.५० ॥ एवं चोपेक्षितास्माभिः सा विनष्टबला भवेत् । नष्ट सत्त्वा च सा राज्ञी कान्नः शिक्षां करिष्यति ॥ ३,२७.५१ ॥ एवमेव रणारंभं विमुच्य विधुतायुधाः । शक्तयो निद्रया द्वारे घूर्णमाना इवाभवन् ॥ ३,२७.५२ ॥ सर्वत्र मान्द्यं कार्येषु महदालस्यमागतम् । शिथिलं चाभवत्सर्वं शक्तीनां कटकं महत् ॥ ३,२७.५३ ॥ जयविघ्नं महायन्त्रमिति कृत्वा स दानवः ॥ ३,२७.५४ ॥ निर्विद्य तत्प्रभावेण कटकं प्रमिमन्थिषुः । द्वितीययुद्धदिवसस्यार्धरात्रे गते सति ॥ ३,२७.५५ ॥ निस्मृत्य नगराद्भूयस्त्रिंशदक्षौहिणीवृतः । आजगाम पुनर्दैत्यो विशुक्रः कटकं द्विषाम् ॥ ३,२७.५६ ॥ अश्रूयन्त ततस्तस्य रणनिःसाणनिस्वनाः । तथापि ता निरुद्योगाः शक्तयः कटकेऽभवन् ॥ ३,२७.५७ ॥ तदा महानुभावत्वाद्विकारैर्विघ्नयन्त्रजैः । अस्पृष्टे मन्त्रिणीदण्डनाथे चिन्तामवा पतुः ॥ ३,२७.५८ ॥ अहो बत महत्कष्टमिदमापतितं भयम् । कस्य वाथ विकारेण सैनिका निर्गतोद्यमाः ॥ ३,२७.५९ ॥ निरस्तायुधसंरंभा निद्रातन्द्राविघूर्णिताः । न मानयन्ति वाक्यानि रार्चयन्ति महेश्वरीम् । औदासीन्यं वितन्वन्ति शक्तयो निस्पृहा इमाः ॥ ३,२७.६० ॥ इति ते मन्त्रिणीदण्डनाथे चिन्तापरायणे । चक्रस्यन्दनमारूढे महाराज्ञीं समूचतुः ॥ ३,२७.६१ ॥ मन्त्रिण्युवाच देवि सक्य विकारोऽयं शक्तयो विगतोद्यमाः । न शृण्वन्ति महाराज्ञि तवाज्ञां विश्वपालिताम् ॥ ३,२७.६२ ॥ अन्योन्यं च विरक्तास्ताः पराच्यः सर्वकर्मसु । निद्रातन्द्रामुकुलिता दुर्वाक्यानि वितन्वते ॥ ३,२७.६३ ॥ का दण्डिनी मन्त्रिणी का महाराज्ञीति का पुनः । युद्धं च कीदृशमिति क्षेपं भूरि वितन्वते ॥ ३,२७.६४ ॥ अस्मिन्नेवान्तरे शत्रुरागच्छति महाबलः । उद्दण्डभेरीनिस्वानैर्विभिन्दन्निव रोदसी ॥ ३,२७.६५ ॥ अत्र यत्प्राप्तरूपं तन्महाराज्ञि प्रपद्यताम् । इत्युक्त्वा सह दण्डिन्या मन्त्रिणी प्रणतिं व्यधात् ॥ ३,२७.६६ ॥ ततः सा ललिता देवी कामेश्वरमुखं प्रति । दत्तदृष्टडिः समहसदतिरक्तरदावलिः ॥ ३,२७.६७ ॥ तस्याः स्मितप्रभापुञ्जे कुञ्जराकृतिमान्मुखे । कटक्रोडगलद्दानः कश्चिदेव व्यजृंभत ॥ ३,२७.६८ ॥ जपापटलपाटल्यो बालचन्द्रवपुर्धरः । बीजपूरगदामिक्षुचापं शूलं सुदर्शनम् ॥ ३,२७.६९ ॥ अब्जपाशोत्पलव्रीहिमञ्जरीवरदां कुशान् । रत्नकुंभं च दशभिः स्वकैर्हस्तैः समुद्वहन् ॥ ३,२७.७० ॥ तुन्दिलश्चन्द्रचूडालो मन्द्रबृंहितनिस्वनः । सिद्धिलक्ष्मीसमाश्लिष्टः प्रणनाम महेश्वरीम् ॥ ३,२७.७१ ॥ तया कृताशीः स महान्गणनाथो गजाननः । जयविघ्नमहायन्त्रंभेत्तुं वेगाद्विनिर्ययौ ॥ ३,२७.७२ ॥ अन्तरेवहि शालस्य भ्रमद्दन्तावलाननः । निभृतं कुत्रचिल्लग्नं जयविघ्नं व्यलोकयत् ॥ ३,२७.७३ ॥ स देवो घोरनिर्घातैर्दुःसहैर्दन्तपातनैः । क्षणाच्चूर्मीकरोति स्म जयविघ्नमहाशिलाम् ॥ ३,२७.७४ ॥ तत्र स्थिताभिर्दुष्टाभिर्देवताभिः सहैव सः । परागशेषतां नीत्वा तद्यन्त्रं प्रक्षिपद्दिवि ॥ ३,२७.७५ ॥ ततः किलकिलारावं कृत्वाऽलस्यविवर्जिताः । उद्यताः समरं कर्तुं शक्तयः शस्त्रपाणयः ॥ ३,२७.७६ ॥ स देतिवदनः कण्ठकलिताकुण्ठनिस्वनः । जययन्त्रं हि तत्सृष्टं तथा रात्रौ व्यनाशयत् ॥ ३,२७.७७ ॥ इमं वृत्तान्तमाकर्ण्य भण्डः स क्षोभमाययौ । ससर्जय बहूनात्मरूपान्दन्तावलाननान् ॥ ३,२७.७८ ॥ ते कटक्रोडविगलन्मदसौरभचञ्चलैः । चञ्चरीककुलैरग्रे गीयमानमहोदयाः ॥ ३,२७.७९ ॥ स्फुरद्दाडिमकिञ्जल्कविक्षेपकररोचिषः । सदा रत्नाकरानेकहेलया पातुमुद्यताः ॥ ३,२७.८० ॥ आमोदप्रमुखा ऋद्धिमुख्यशक्तिनिषेविताः । आमोदश्च प्रमोदश्च मुमुखो दुर्मुखस्तथा ॥ ३,२७.८१ ॥ अरिघ्नो विघ्नकर्त्ता च षडेते विघ्ननायकाः । ते सप्तकोटिसंख्यानां हेरंबाणामधीश्वराः ॥ ३,२७.८२ ॥ ते पुरश्चलितास्तस्य महागणपते रणे । अग्निप्राकारवलयाद्विनिर्गत्य गजाननाः ॥ ३,२७.८३ ॥ क्रोधहुङ्कारतुमुलाः प्रत्य पद्यन्त दानवान् । पुनः प्रचण्डफूत्कारबधिरीकृतविष्टपाः ॥ ३,२७.८४ ॥ पपात दैत्यसैन्येषु गणचक्रचमूगणः । अच्छिदन्निशितैर्बाणैर्गणनाथः स दानवान् ॥ ३,२७.८५ ॥ गणनाथेन तस्याभूद्विशुक्रस्य महौजसः । युद्धमुद्धतहुङ्कारभिन्नकार्मुकनिःस्वनम् ॥ ३,२७.८६ ॥ भ्रुकुटी कुटिले चक्रे दष्टोष्ठमतिपाटलम् । विशुक्रो युधि बिभ्राणः समयुध्यत तेन सः ॥ ३,२७.८७ ॥ शस्त्राघट्टननिस्वानैर्हुंकारैश्च सुरद्विषाम् । दैत्यसप्तिखुरक्रीडत्कुद्दालीकूटनिस्वनैः ॥ ३,२७.८८ ॥ फेत्कारैश्च गचेन्द्राणां भयेनाक्रन्दनैरपि । हेषया च हयश्रेण्या रथचक्रस्वनैरपि ॥ ३,२७.८९ ॥ धनुषां गुणनिस्स्वानैश्चक्रचीत्करणैरपि ॥ ३,२७.९० ॥ शरसात्कारघोषैश्च वीरभाषाकदंबकैः । अट्टहासैर्महेन्द्राणां सिंहनादैश्चभूरिशः ॥ ३,२७.९१ ॥ क्षुभ्यद्दिगन्तरं तत्र ववृधे युद्धमुद्धतम् । त्रिंशदक्षौहिणी सेना विशुक्रस्य दुरात्मनः ॥ ३,२७.९२ ॥ प्रत्येकं योधया मासुर्गणनाथा महारथाः । दन्तैर्मर्म विभिन्दन्तो विष्टंयतश्च शुण्डया ॥ ३,२७.९३ ॥ क्रोधयन्तः कर्णतालैः पुष्कलावर्त्तकोपमैः । नासाश्वासैश्च परुषैर्विक्षिपन्तः पताकिनीम् ॥ ३,२७.९४ ॥ उरोभिर्मर्दयन्तश्च शैलवप्रसमप्रभैः । पिंषन्तश्च पदाघातैः पीनैर्घ्नन्तस्तथोदरैः ॥ ३,२७.९५ ॥ विभिन्दन्तश्च शूलेन कृत्तन्तश्चक्रपातनैः । शङ्खस्वनेन महता त्रासयन्तो वरूथिनीम् ॥ ३,२७.९६ ॥ गणनाथमुखोद्भूता गजवक्राः सहस्रशः । धूलीशेषं समस्तं तत्सैन्यं चक्रुर्महोद्यताः ॥ ३,२७.९७ ॥ अथ क्रोधसमाविष्टो निजसैन्यपुरोगमः । प्रेषयामास देवस्य गजासुर मसौ पुनः ॥ ३,२७.९८ ॥ प्रचण्डसिंहनादेन गजदैत्येन दुर्धिया । सप्ताक्षौहिणियुक्तेन युयुधे स गणेश्वरः ॥ ३,२७.९९ ॥ हीयमानं समालोक्य गजासुरभुजाबलम् । वर्धमानं च तद्वीर्यं विशुक्रः प्रपलायितः ॥ ३,२७.१०० ॥ स एक एव वीरेद्रः प्रचलन्नाखुवाहनः । सप्ताक्षौहिणिकायुक्तं गजासुरममर्दयत् ॥ ३,२७.१०१ ॥ गजासुरे च निहते विशुक्रे प्रपलायिते । ललितान्तिकमापेदे महागमपतिर्मृधात् ॥ ३,२७.१०२ ॥ कालरात्रिश्च दैत्यानां सा रात्रिर्विरतिं गता । ललिता चाति मुदिता बभूवास्य पराक्रमैः ॥ ३,२७.१०३ ॥ विततार महाराज्ञीप्रीयमाणा गणेशितुः । सर्वदैवतपूजायाः पूर्वपूज्यत्वमुत्तमम् ॥ ३,२७.१०४ ॥ इति श्रीब्रह्माण्डपुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने गणनाथपराक्रमो नाम सप्तविंशोऽध्यायः _____________________________________________________________ रणेभग्नं महादैत्यं भण्डदैत्यः सहोदरम् । सेनानां कदनं श्रुत्वा सन्तप्तो बहुचिन्तया ॥ ३,२८.१ ॥ उभावपि समेतौ तौ युक्तौ सर्वैश्चसैनिकैः । प्रेषयामास युद्धाय भण्डदैत्यः सहोदरौ ॥ ३,२८.२ ॥ तावुभौ परमक्रुद्धौ भण्डदैत्येन देशितौ । विषङ्गश्च विशुक्रश्च महोद्यम मवापनुः ॥ ३,२८.३ ॥ कनिष्ठसहितं तत्र युवराजं महाबलम् । विशुक्रमनुवव्राज सेना त्रैलोक्यकम्पिनी ॥ ३,२८.४ ॥ अक्षौहिणीचतुःशत्या सेनानामावृतश्च सः । युवराजः प्रववृधे प्रतापेन महीयसा ॥ ३,२८.५ ॥ उलूकजित्प्रभृतयो भागिनेया दशोद्धताः । भण्डस्य च भगिन्यान्तु धूमिन्यां जातयोनयः ॥ ३,२८.६ ॥ कृतास्त्रशिक्षा भण्डेन मातुलेन महीयसा । विक्रमेण वलन्तस्ते सेनानाथाः प्रतस्थिरे ॥ ३,२८.७ ॥ प्रोद्गतैश्चापनिर्घोषैर्घोषयन्तो दिशो दश । द्वयोर्मातुलयोः प्रीतिं भागिनेया वितेनिरे ॥ ३,२८.८ ॥ आरूढयानाः प्रत्येकगाढाहङ्कारशालिनः । आकृष्टगुरुधन्वानो विशुक्रमनुवव्रजुः ॥ ३,२८.९ ॥ यौवराज्यप्रभाचिह्नच्छत्रचामरशोभितः । आरूढवारणः प्राप विशुक्रो युद्धमेदिनीम् ॥ ३,२८.१० ॥ ततः कलकलारावकारिण्या सेनया वृतः । विशुक्रः पटु दध्वान सिंहनादं भयङ्करम् ॥ ३,२८.११ ॥ तत्क्षोभात्क्षुभितस्वान्ताः शक्तयः संभ्रमोद्धताः । अग्निप्राकारवलयान्निर्जगमुर्बद्धपङ्कयः ॥ ३,२८.१२ ॥ तडिन्मयमिवाकाशं कुर्वन्त्यः स्वस्वरोचिषा । रक्ताम्वुजावृतमिव व्योमचक्रं रणोन्मुखाः ॥ ३,२८.१३ ॥ अथ भण्डकनीयांसावागतौ युद्धदुर्मदौ । निशम्य युगपद्योद्धं मन्त्रिणीदण्डनायके ॥ ३,२८.१४ ॥ किरिचकं ज्ञेयचक्रमारूढे रथशेखरम् । धृतातपत्रवलये चामराभ्यां च वीजिते ॥ ३,२८.१५ ॥ अप्सरोभिः प्रनृत्ताभिर्गीयमानमहोदये । निर्जगमतू रणं कर्तुमुभाभ्यां ललिताज्ञया ॥ ३,२८.१६ ॥ श्रीचक्ररथराजस्य रक्षणार्थं निवेशिते । शताक्षौहिणिकां सेनां वर्जयित्वास्त्रभीषणम् ॥ ३,२८.१७ ॥ अन्यत्सर्वं चमुजालं निर्जगाम रणोन्मुखी । पुरतः प्राचलद्दण्डनाथा रथनिषेदुषी ॥ ३,२८.१८ ॥ एकयैव कराङ्गुल्या घूर्णयन्ती हलायुधम् । मुसलं चान्यहस्तेन भ्रामयन्ती मुहुर्मुहुः ॥ ३,२८.१९ ॥ तरलेन्दुकलाचूडास्फुरत्पोत्रमुखाम्बुजा । पुरः प्रहर्त्री समरे सर्वदा विक्रमोद्धता । अस्या अनुप्रचलिता गेयचक्ररथस्थिता ॥ ३,२८.२० ॥ धनुषो ध्वनिना विश्वं पूरयन्ती महोद्धता । वेणीकृतकचन्यस्तविलसच्चन्द्रपल्लवा ॥ ३,२८.२१ ॥ स्फुरत्त्रितयनेत्रेण सिन्दूरतिलकत्विषा । पाणिना पद्मरम्येण मणिकङ्कणचारुणा ॥ ३,२८.२२ ॥ तूणीरमुखतः कृष्टं भ्रामयन्ती शिलीमुखम् । जय वर्धस्ववर्धस्वेत्यतिहर्षसमाकुले ॥ ३,२८.२३ ॥ नृत्यद्भिर्दिव्यमुनिभिर्वर्द्धिताशीर्वचोऽमृतैः । गेयचक्ररथेन्द्रस्य चक्रनेमिविघट्टनैः ॥ ३,२८.२४ ॥ दारयन्ती क्षितितलं दैत्यानां हृदयैः सह । लोकातिशायिता विश्वमनोमोहनकारिणा । गीतिबन्धेनामरीभिर्बह्वीभिर्गीतवैभवा ॥ ३,२८.२५ ॥ अक्षौहिणीसहस्राणामष्टकं समरोद्धतम् । कर्षती कल्पविश्लेषनिर्मर्यादाब्धिसंनिभम् ॥ ३,२८.२६ ॥ तस्याः शक्तिचमूचक्रे काश्चित्कनकरोचिषः । काश्चिद्दाडिमसंकाशाः काश्चिज्जीमूतरोचिषः ॥ ३,२८.२७ ॥ अन्याः सिंदूररुचयः पराः पाटलपाटलाः । काचाद्रिकाम्बराः काश्चित्पराः श्यामलकोमलाः ॥ ३,२८.२८ ॥ अन्यास्तु हीरकप्रख्याः परा गारुत्मतोपमाः । विरुद्धैः पञ्चभिर्बाणैर्मिश्रितैः शतकोटिभिः ॥ ३,२८.२९ ॥ व्यञ्जयन्त्यो देहरुचं कतिचिद्विविधायुधाः । असंख्याः शक्तयश्चेलुर्दण्डिन्यास्सैनिके तथा ॥ ३,२८.३० ॥ तथैव सैन्यसन्नाहो मन्त्रिण्याः कुम्भसम्भव । यथा भूषणवेषादि यथा प्रभावलक्षणम् ॥ ३,२८.३१ ॥ यथा सद्गुणशालित्वं यथा चाश्रितलक्षणम् । यथा दैत्यौघसंहारो यथा सर्वैश्च पूजिता ॥ ३,२८.३२ ॥ यथा शक्तिर्महाराज्ञ्या देडिन्यश्च तथाखिलम् । विशेषस्तु परं तस्याः साचिव्ये तत्करे स्थितम् । महाराज्ञीवितीर्णं तदाज्ञामुद्राङ्गुलीयकम् ॥ ३,२८.३३ ॥ इत्थं प्रचलिते सैन्ये मन्त्रिणीदण्डनाथयोः । तद्भारभङ्गुरा भूमिर्देलालीलामलंबत ॥ ३,२८.३४ ॥ ततः प्रववृते युद्धं तुमुलं रोमहर्षणम् । उद्धूतधूलिजंबालीभूतसप्तार्णवीजलम् ॥ ३,२८.३५ ॥ हयस्थैर्हयसादिन्यो रथस्थै रथसंस्थिताः । आधोरणैर्हस्तिपकाः खड्गैः पद्गाश्च सङ्गताः ॥ ३,२८.३६ ॥ दण्डनाथाविषङ्गेण समयुध्यन्त सङ्गरे । विशुक्रेण समं श्यामा विकृष्टमणिकार्मुका ॥ ३,२८.३७ ॥ अश्वरूढा चकारोच्चैः सहोलूकजिता रणम् । सम्पदीशाच जग्राह पुरुषेण युयुत्सया ॥ ३,२८.३८ ॥ विषेण नकुली देवी समाह्वास्त युयुत्सया । कुन्तिषेणेन समरं महामाया तदाकरोत् ॥ ३,२८.३९ ॥ मलदेन समं चक्रे युद्धमुन्मत्तभैरवी । लघुश्यामा चकारोच्चैः कुशूरेण समं रणम् ॥ ३,२८.४० ॥ स्वप्नेशी मङ्गलाख्येन दैत्येन्द्रेण रणंव्यधात् । वाग्वादिनी तु जघटे द्रुघणेन समं रणे ॥ ३,२८.४१ ॥ कोलाटेन च दुष्टेन चण्डकाल्यकरोद्रणम् । अक्षौहिणीभिर्दैत्यानां शताक्षौहिणिकास्तथा । महान्तं समरे चक्रुरन्योन्यं क्रोधमूर्छिताः ॥ ३,२८.४२ ॥ प्रवर्तमाने समरे विशुक्रो दुष्टदानवः । वर्धमानां शक्तिचमूं हीयमानां निजां चमूम् ॥ ३,२८.४३ ॥ अवलोक्य रुषाविष्टः स कृष्टगुरुकार्मुकः । शक्तिसैन्ये समस्तेऽपि तृषास्त्रं प्रमुमोच ह ॥ ३,२८.४४ ॥ तेन दावानलज्वालादीप्तेन मथितं बलम् । तृतीये युद्धदिवसे याममात्रं गते रवौ । विशुक्रमुक्ततर्षास्त्रव्याकुलाः शक्तयोऽवन् ॥ ३,२८.४५ ॥ क्षोभयन्निन्द्रियग्रामं तालुमूलं विशोषयन् । रूक्षयन्कर्णकुहरमङ्गदौर्वल्यमाहवन् ॥ ३,२८.४६ ॥ पातयन्पृथिवीपृष्ठे देहं विस्रंसितायुधम् । आविर्बभूव शक्तीनामतितीव्रस्तृषाज्वरः ॥ ३,२८.४७ ॥ युद्धेष्वनुद्यमकृता सर्वोत्साहविरोधिना । तर्षेण तेन क्वथितं शक्तिसैन्यं विलोक्यसा । मन्त्रिणी सह पोत्रिण्या भृशं चिन्तामवाप ह ॥ ३,२८.४८ ॥ उवाच तां दण्डनाथामत्याहितविशङ्किनीम् । रथस्थिता रथगता तत्प्रती कारकर्मणे । सखि पोत्रिणि दुष्टस्य तर्षास्त्रमिदमागतम् ॥ ३,२८.४९ ॥ शिथिलीकुरुते सैन्यमस्माकं हा विधेः क्रमः । विशुष्कतालुमूलानां विभ्रष्टायुधतेजसाम् । शक्तीनां मण्डलेनात्र समरे समुपेक्षितम् ॥ ३,२८.५० ॥ न कापि कुरुते युद्धं न धारयति चायुधम् । विशुष्कतालुमूलत्वा द्वक्तुमप्यालि न क्षमाः ॥ ३,२८.५१ ॥ ईदृशीन्नो गतिं श्रुत्वा किं वक्ष्यति महेश्वरी । कृता चापकृतिर्दैत्यैरुपायः प्रविचिन्त्यताम् ॥ ३,२८.५२ ॥ सर्वत्र द्व्यष्टसाहस्राक्षौहिण्यमत्र पोत्रिणि । एकापि शक्तिर्नैवास्ति या तर्षेण न पीडिता ॥ ३,२८.५३ ॥ अत्रैवावसरे दृष्ट्वा मुक्तशस्त्रां पताकिनीम् । रन्ध्रप्रहारिणो हन्त बाणैर्निघ्नन्ति दानवाः ॥ ३,२८.५४ ॥ अत्रोपायस्त्वया कार्यो मया च समरोद्यमे । त्वदीयरथपर्वस्थो योऽस्ति शीतमहार्णवः ॥ ३,२८.५५ ॥ तमादिश समस्तानां शक्तीनां तर्षनुत्तये । नाल्पैः पानीयपानाद्यैरेतासां तर्षसंक्षयः ॥ ३,२८.५६ ॥ स एव मदिरासिंधुः शक्त्यौघं तर्पयिष्यति । तमादिश महात्मानं समरोत्साहकारिणम् । सर्वतर्षप्रशमनं महाबलविवर्धनम् ॥ ३,२८.५७ ॥ इत्युक्ते दण्डनाथा सा सदुपायेन हर्षिता । आजुहाव सुधासिंधुमाज्ञां चक्रेश्वरी रणे ॥ ३,२८.५८ ॥ स मदालसरक्ताक्षो हेमाभः स्रग्विभूषितः ॥ ३,२८.५९ ॥ प्रणम्य दण्डनाथां तां तदाज्ञापरिपारकः ॥ ३,२८.६० ॥ आत्मानं बहुधा कृत्वा तरुणादित्यपाटलम् । क्वचित्तापिच्छवच्छ्यामं क्वचिच्च धवलद्युतिम् ॥ ३,२८.६१ ॥ कोटिशो मधुराधारा करिहस्तसमाकृतीः । ववर्ष सिंधुराजोऽयं वायुना बहुलीकृतः ॥ ३,२८.६२ ॥ पुष्कलावर्तकाद्यैस्तु कलपक्षयबलाहकैः । निषिच्यमानो मध्येऽब्धिः शक्तिसैन्ये पपात ह ॥ ३,२८.६३ ॥ यद्गन्धाघ्राममात्रेण मृत उत्तिष्ठते स्फुटम् । दुर्बलः प्रबलश्च स्यात्तद्ववर्ष सुरांबुधिः ॥ ३,२८.६४ ॥ परार्द्धसंख्यातीतास्ता मधुधारापरंपराः । प्रपिबन्त्यः पिपासार्तैर्मुखैः शक्तय उत्थिताः ॥ ३,२८.६५ ॥ यथा सा मदिरासिंधुवृष्टिर्दैत्येषु नो पतेत् । तथा सैन्यस्य परितो महाप्राकारमण्डलम् ॥ ३,२८.६६ ॥ लघुहस्ततया मुक्तैः शरजातैः सहस्रशः । चकार विस्मयकरी कदंबवनवासिनी ॥ ३,२८.६७ ॥ कर्मणा तेन सर्वेऽपि विस्मिता मरुतोऽभवन् । अथ ताः शक्तयो भूरि पिबन्ति स्म रणान्तरे ॥ ३,२८.६८ ॥ विविधा मदिराधारा बलोत्साहविवर्धनीः । यस्या यस्या मनःप्रीती रुचिः स्वादो यथायथा ॥ ३,२८.६९ ॥ तृतीये युद्धदिवसे प्रहरद्वितयावधि । संततं मध्यधाराभिः प्रववर्ष सुरांबुधिः ॥ ३,२८.७० ॥ गौडी पैष्टी च माध्वी च वरा कादंबरी तथा । हैताली लाङ्गलेया च तालजातास्तथा सुराः ॥ ३,२८.७१ ॥ कल्पवृक्षोद्भवा दिव्या नानादेशसमुद्भवाः । सुस्वादुसौरभाद्याश्च शुभगन्धसुखप्रदाः ॥ ३,२८.७२ ॥ बकुलप्रसवामोदा ध्वनन्त्यो बुद्बुदोज्ज्वलाः । कटुकाश्च कषायाश्च मधुरास्तिक्ततास्पृशः ॥ ३,२८.७३ ॥ बहुवर्मसमाविष्टाश्छेदिनीः पिच्छलास्तथा । ईषदम्लाश्च कट्वम्ला मधुराम्लास्तथा पराः ॥ ३,२८.७४ ॥ शस्त्रक्षतरुगाहन्त्री चास्थिसंधानदायिनी । रणभ्रमहरा शीता लघ्व्यस्तद्वत्कवोष्ठकाः ॥ ३,२८.७५ ॥ संतापहारिणीश्चैव वारुणीस्ता जयप्रदाः । नानाविधाः सुराधारा ववर्ष मदिरार्णवः ॥ ३,२८.७६ ॥ अविच्छिन्नं याममात्रमेकैका तत्र योगिनी । ऐरावतकर प्रख्यां सुराधारां मुदा पपौ ॥ ३,२८.७७ ॥ उत्तानं वदनं कृत्वा विलोलरसनाश्चलम् । शक्तयः प्रपपुः सीधु मुदा मीलितलोचनाः ॥ ३,२८.७८ ॥ इत्थं बहुविधं माध्वीधारापातैः सुधांबुधिः । आगतस्तर्पयित्वा तु दिव्यरूपं समास्थितः ॥ ३,२८.७९ ॥ पुनर्गत्वा दण्डनाथां प्रणम्य स सुरांबुधिः । स्निग्धगंभीरघोषेण वाक्यं चेदमुवाच ताम् ॥ ३,२८.८० ॥ देवि पश्य महाराज्ञि दण्डमण्डलनायिके । मया संतर्पिता मुग्धरूपा शक्तिवरूथिनी ॥ ३,२८.८१ ॥ काश्चिन्नृत्यन्ति गायन्त्यो कलक्वणितमेखलाः । नृत्यन्तीनां पुरः काश्चित्करतालं वितन्वते ॥ ३,२८.८२ ॥ काश्चिद्धसंति व्यावल्गद्वल्गुवक्षोजमण्डलाः । पतन्त्यन्योन्यमङ्गेषु काश्चिदानन्दमन्थराः ॥ ३,२८.८३ ॥ काश्चिद्वल्गन्ति च श्रोणिविगलन्मेखलांबराः । काश्चिदुत्थाय संनद्धा घूर्णयन्ति निरायुधाः ॥ ३,२८.८४ ॥ इत्थं निर्दिश्यमानास्ताः शक्ती मैरेय सिंधुनां । अवलोक्य भृशं तुष्टा दण्डिनी तमुवाच ह ॥ ३,२८.८५ ॥ परितुष्टास्मि मद्याब्धे त्वया साह्यमनुष्ठितम् । देवकार्यमिद किञ्च निर्विघ्नितमिदं कृतम् ॥ ३,२८.८६ ॥ अतः परं मत्प्रसादाद्द्वापरे याज्ञिकैर्मखे । सोमपानवदत्यन्तमुपयोज्यो भविष्यसि ॥ ३,२८.८७ ॥ मन्त्रेण पूतं त्वां यागे पास्यन्त्यखिलदेवताः । यागेषु मन्त्रपूतेन पीतेन भवता जनाः ॥ ३,२८.८८ ॥ सिद्धिमृद्धिं बलं स्वर्गमपवर्गं च बिभ्रतु । महेश्वरी महादेवो बलदेवश्च भार्गवः । दत्तात्रेयो विधिर्विष्णुस्त्वां पास्यन्ति महाजनाः ॥ ३,२८.८९ ॥ यागे समर्चितस्त्वं तु सर्वसिद्धिं प्रदास्यसि ॥ ३,२८.९० ॥ इत्थं वरप्रदानेन तोषयित्वा सुरांबुधिम् ॥ ३,२८.९१ ॥ मन्त्रिणीं त्वरयामास पुनर्युद्धाय दण्डिनी । पुनः प्रववृते युद्धं शक्तीनां दानवैः सह ॥ ३,२८.९२ ॥ मुदाट्टहासनिर्भिन्नदिगष्टकधरा धरम् । प्रत्यग्रमदिरामत्ताः पाटलीकृतलोचनाः । शक्तयो दैत्यचक्रेषु न्यपतन्नेकहेलया ॥ ३,२८.९३ ॥ द्वयेन द्वयमारेजे शक्तीनां समदश्रियाम् । मदरागेण चक्षूंषि दैत्यरक्तेन शस्त्रिका ॥ ३,२८.९४ ॥ तथा बभूव तुमुलं युद्धं शक्तिसुरद्विषाम् । यथा मृत्युरवित्रस्तः प्रजाः संहरते स्वयम् ॥ ३,२८.९५ ॥ संस्खलत्पदविन्यासा मदेनारक्तदृष्टयः । स्खलदक्षरसंदर्भवीरभाषा रणोद्धताः ॥ ३,२८.९६ ॥ कदंबगोलकाकारा दृष्टसर्वाङ्गदृष्टयः । युवराजस्य सैन्यानि शक्त्यः समानाशयन् ॥ ३,२८.९७ ॥ अक्षौहिणीशतं तत्र दण्डिनी सा व्यदारयत् । अक्षौहिणीसार्द्धशत नाशयामास मन्त्रिणी ॥ ३,२८.९८ ॥ अश्वारूढाप्रभृतयो मदारुणविलोचनाः । अक्षौहिणीसार्धशतं नित्युरन्तकमन्दिरम् ॥ ३,२८.९९ ॥ अङ्कुशेनातितीक्ष्णेन तुरगा रोहिणी रणे । उलूकजितमुन्मथ्य परलोकातिथिं व्यधात् ॥ ३,२८.१०० ॥ सम्पत्करीप्रभृतयः शक्तिदण्डाधिनायिकाः । परुषेण मुखान्यन्यान्यवरुद्धाव्यदारयन् ॥ ३,२८.१०१ ॥ अस्तं गते सवितरि ध्वस्तसर्वबलं ततः । विशुक्रं योधयामास श्यामला कोपशालिनी ॥ ३,२८.१०२ ॥ अस्त्रप्रत्य स्त्रमोक्षेण भीषणेन दिवौकसाम् । महता रणकृत्येन योधयामास मन्त्रिणी ॥ ३,२८.१०३ ॥ आयुधानि सुतीक्ष्णानि विशुक्रस्य महौजसः । क्रमशः खण्डयन्ती सा केतनं रथसारथिम् ॥ ३,२८.१०४ ॥ धनुर्गुणं धनुर्दण्डं खण्डयन्ती शिलीमुखैः । अस्त्रेण ब्रह्मशिरसा ज्वलत्पावकरोचिषा ॥ ३,२८.१०५ ॥ विशुक्रं मर्दयामास सोऽपतच्छूर्णविग्रहः । विषङ्गं च महादैत्यं दण्डनाथा मदोद्धता ॥ ३,२८.१०६ ॥ योधयामास चण्डन मुसलेन विनिघ्नती । सचापि दुष्टो दनुजः कालदण्डनिभां गदाम् । उद्यम्य बाहुना युद्धं चकाराशेषभीषणम् ॥ ३,२८.१०७ ॥ अन्योन्यमङ्गं मृद्नन्तौ गदायुद्धप्रवर्तिनौ । चण्डाट्टहासमुखरौ परिभ्रमणकारिणौ ॥ ३,२८.१०८ ॥ कुर्वाणौ विविधांश्चारान्घूर्णन्तौ तूर्मवेष्टिनौ । अन्योन्यदण्डहननैर्मोहयन्तौ मुहुर्मुहुः ॥ ३,२८.१०९ ॥ अन्योन्यप्रहृतौ रन्ध्रमीक्षमाणौ महोद्धतौ । महामुसलदण्डाग्रघट्टनक्षोभितांबरौ । अयुध्येतां दुराधर्षौं दण्डिनीदैत्यशेखरौ ॥ ३,२८.११० ॥ अथार्द्धरात्रिसमयपर्यन्तं कृतसंगरा । संक्रुद्धा हन्तुमारेभे विषङ्गं दण्डनायिका ॥ ३,२८.१११ ॥ तं मूर्धनि निमग्नेन हलेनाकृष्य वैरिणम् । कठोरं ताडनं चक्रे मुसलेनाथ पोत्रिणी ॥ ३,२८.११२ ॥ ततो मुसलघातेन त्यक्तप्राणो महासुरः । चूर्णितेन शताङ्गेन समं भूतलमाश्रयत् ॥ ३,२८.११३ ॥ इति कृत्वा महत्कर्म मन्त्रिणीदण्डनायिके । तत्रैव तं निशा शेषं निन्यतुः शिबिरं प्रति ॥ ३,२८.११४ ॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपख्याने विशुक्रविषङ्गवधो नामाष्टाविंशोऽध्यायः _____________________________________________________________ अगस्त्य उवाच अश्वानन महाप्राज्ञ वर्णितं मन्त्रिणीबलम् । विषङ्गस्य वधो युद्धे वर्णितो दण्डनाथया ॥ ३,२९.१ ॥ श्रीदेव्याः श्रोतुमिच्छामि रणचक्रे पराक्रमम् । सोदरस्यापदं दृष्ट्वा भण्डः किमकरोच्छुचा ॥ ३,२९.२ ॥ कथं तस्य रणोत्साहः कैः समं समयुध्यत । सहायाः केऽभवंस्तस्य हतभ्रातृतनूभुवः ॥ ३,२९.३ ॥ हयग्रीव उवाच इदं शृणु महाप्राज्ञ सर्वपापनिकृन्तनम् । ललिताचरितं पुण्यमणिमादिगुमप्रदम् ॥ ३,२९.४ ॥ वैषुवायनकालेषु पुण्येषु समयेषु च । सिद्धिदं सर्वपापघ्नं कीर्तिदं पञ्चपर्वसु ॥ ३,२९.५ ॥ तदा हतौ रणे तत्र श्रुत्वा निजसहोदरौ । शोकेन महताविष्टो भण्डः प्रविललाप सः ॥ ३,२९.६ ॥ विकीर्मकेशो धरणौ मूर्छितः पतितस्तदा । न लेभे किञ्चिदाश्वासं भ्रातृव्यसनकर्शितः ॥ ३,२९.७ ॥ पुनः पुनः प्रविलपन्कुटिलाक्षेण भूरिशः । आश्वास्यामानः शोकेन युक्तः कोपमवाप सः ॥ ३,२९.८ ॥ फालं वहन्नतिक्रूरं भ्रमद्भ्रुकुटिभीषणम् । अङ्गारपाटलाक्षश्च निःश्वसन्कृष्णसर्पवत् ॥ ३,२९.९ ॥ उवाच कुटिलाक्षं द्राक्समस्तपृतनापतिम् । क्षिप्रं मुहुर्मुहुः स्पृष्ट्वा धुन्वानः करवालिकाम् ॥ ३,२९.१० ॥ क्रोधहुङ्कारमातन्वन्गर्जन्नुत्पातमेघवत् ॥ ३,२९.११ ॥ ययैव दृष्टया मायाबलाद्युद्धे विनाशिताः । भ्रातरो मम पुत्राश्च सेनानाथाः सहस्रशः ॥ ३,२९.१२ ॥ तस्याः स्त्रियाः प्रमत्तायाः कण्ठोत्थैः शोणितद्रवैः । भ्रातृपुत्रमहाशोकवह्निं निर्वापयाम्यहम् ॥ ३,२९.१३ ॥ गच्छ रे कुटिलाक्ष त्वं सज्जीकुरु पताकिनीम् । इत्युक्त्वा कठिनं वर्म वज्रपातसहं महत् ॥ ३,२९.१४ ॥ दधानो भुजमध्येन बध्नन्पृष्ठ तथेषुधी । उद्दाममौर्विनिःश्वासकठोरं भ्रामयन्धनुः ॥ ३,२९.१५ ॥ कालाग्निरिव संक्रुद्धो निर्जगाम निजात्पुरात् । तालजङ्घादिकैः सार्द्धंपूर्वद्वारे निवेशिते ॥ ३,२९.१६ ॥ चतुर्भिर्धृतशस्त्रौघैर्धृतवर्मभिरुद्धतैः । पञ्चत्रिंशच्चमूनाथैः कुटिलाक्षपुरःसरैः ॥ ३,२९.१७ ॥ सर्वसेनापतीन्द्रेण कुटिलाक्षेण स क्रुधा । मिलितेन च भण्डेन चत्वारिंशच्चमूवराः ॥ ३,२९.१८ ॥ दीप्तायुधा दीप्तकेशा निर्जग्मुर्दीप्तकङ्कटाः । द्विसहस्राक्षौहिणीनां पञ्चाशीतिः परार्धिका ॥ ३,२९.१९ ॥ तदेनमन्वगादेकहेलया मथितुं द्विषः । भण्डासुरे विनिर्याते सर्वसैनिकसंकुले ॥ ३,२९.२० ॥ शून्यके नगरे तत्र स्त्रीमात्रमवशेषितम् । आभिलो नाम दैत्येन्द्रो रथवर्यो महारथः । सहस्रयुग्यसिंहाढ्यमारुरोह रणोद्धतः ॥ ३,२९.२१ ॥ तत्वरे विज्वलज्ज्वालाकालाग्निरिव दीप्तिमान् । घातको नाम वै खड्गश्चन्द्रहाससमाकृतिः ॥ ३,२९.२२ ॥ इतस्ततश्चलन्तीनां सेनानां धूलिरुत्थिता । वोढुं तासां भरं भूमिरक्षमेव दिवं ययौ ॥ ३,२९.२३ ॥ केचिद्भूमेरपर्याप्ताः प्रचेलुर्व्योमवर्त्मना । केषाञ्चित्स्कन्धमारूढाः केचिच्चेलुर्महारथाः ॥ ३,२९.२४ ॥ न दिक्षु न च भूचक्रे न व्योमनि च ते ममुः । दुःखदुखेन ते चेलुरन्योन्याश्लेषपीडिताः ॥ ३,२९.२५ ॥ अत्यन्त सेनासंमर्दाद्रथचक्रैर्विचूर्णिताः । केचित्पादेन नागानां मर्दिता न्यपतन्भुवि ॥ ३,२९.२६ ॥ इत्थं प्रचलिता तेन समं सर्वैश्च सैनिकैः । वज्रनिष्पेषसदृशो मेघनादो व्यधीयत ॥ ३,२९.२७ ॥ तेनातीव कठोरेण सिंहनादेन भूयसा । भण्डदैत्यमुखोत्थेन विदीर्णमभवज्जगत् ॥ ३,२९.२८ ॥ सागराः शोषमापन्नाश्चन्द्राकारै प्रपलायितौ । उडूनि न्यपतन्व्योम्नो भूमिर्देलायिताभवत् ॥ ३,२९.२९ ॥ दिङ्नागाश्चाभवंस्त्रस्ता मूर्च्छिताश्च दिवौकसः । शक्तीनां कटकं चासीदकाण्डत्रासविह्वलम् ॥ ३,२९.३० ॥ प्राणान्संधारयामासुः कथञ्चिन्मध्य आहवे । शक्तयो भयविभ्रष्टान्यायुधानि पुनर्दधुः ॥ ३,२९.३१ ॥ वह्निप्राकारवलयं प्रशान्तं पुनरुत्थितम् । दैत्येन्द्रसिंहनादेन चमूनाथधनुःस्वनैः ॥ ३,२९.३२ ॥ क्रन्दनैश्चापि योद्धॄणामभूच्छब्दमयं जगत् । तेन नादेन महता भण्डदैत्यविनिर्गमम् । निश्चित्य ललिता देवी स्वयं योद्धुं प्रचक्रमे ॥ ३,२९.३३ ॥ अशक्यमन्यशक्तीनामाकलय्य महाहवम् । भण्डदैत्येन दुष्टेन स्वयमुद्योगमास्थिता ॥ ३,२९.३४ ॥ चक्रराजरथस्तस्याः प्रचचाल महोदयः । चतुर्वेदमहाचक्रपुरुषार्थमहाभयः ॥ ३,२९.३५ ॥ आनन्दध्वजसंयुक्तो नवभिः पर्वभिर्युतः । नवपर्वस्थदेवीभिराकृष्टगुरुधन्विभिः ॥ ३,२९.३६ ॥ परार्धाधिकसंख्यातपरिवारसमृद्धिभिः । पर्वस्थानेषु सर्वेषु पालितः सर्वतो दिशम् ॥ ३,२९.३७ ॥ दशयोजनमुन्नद्धश्चतुर्योजन विस्तृतः । महाराज्ञीचक्रराजो रथेन्द्रः प्रचलन्बभौ ॥ ३,२९.३८ ॥ तस्मिन्प्रचलिते जुष्टे श्यामया दण्डनाथया । गेयचक्रं तु बालाग्रे किरिचक्रं तु बृष्ठतः ॥ ३,२९.३९ ॥ अन्यासामपि शक्तीनां वाहनानि परार्द्धशः । नृसिंहोष्ट्रनरव्यालमृगपक्षिहयास्तथा ॥ ३,२९.४० ॥ गजभेरुण्डशरभ व्याघ्रवातमृगास्तथा । एतादृशश्च तिर्यञ्चोऽप्यन्ये वाहनतां गताः ॥ ३,२९.४१ ॥ मुहुरुच्चावचाः शक्तीर्भण्डासुरवधोद्यताः । योजनायामविस्तारमपि तद्द्वारमण्डलम् । वह्निप्राकारचक्रस्य न पर्याप्तं चमूपतेः ॥ ३,२९.४२ ॥ ज्वालामालिनिका नित्या द्वारस्यात्यन्तविस्तृतिम् । विततान समस्तानां सैन्यानां निर्गमैषिणी ॥ ३,२९.४३ ॥ अथ सा जगतां माता महाराज्ञी महोदया । निर्जगामा ग्निपुरता वरद्वारात्प्रतापिनी ॥ ३,२९.४४ ॥ देवदुन्दुभयो नेदुः पतिताः पुष्पवृष्टयः । महामुक्तातपत्रं तद्दिवि दीप्तमदृश्यत ॥ ३,२९.४५ ॥ निमित्तानि प्रसन्नानि शंसकानि जयश्रियाः । अभवंल्ललितासैन्ये उत्पातास्तु द्विषां बले ॥ ३,२९.४६ ॥ ततः प्रववृते युद्धं सेन योरुभयोरपि । प्रसर्पद्विशिखैः स्तोमबद्धान्धतमसच्छटम् ॥ ३,२९.४७ ॥ हन्यमानगजस्तोमसृतशोणितबिन्दुभिः । ह्नीयमाणशिरश्छन्नदैत्यश्वेतातपत्रकम् ॥ ३,२९.४८ ॥ न दिशो न नभो नागा न भूमिर्न च किञ्चन । दृश्यते केवलं दृष्टं रजोमात्रं च सूर्च्छितम् ॥ ३,२९.४९ ॥ नृत्यत्कबन्धनिवहाविर्भूततटपादपम् । दैत्यकेशसहस्रैस्तु शैवालाङ्कुरकोमला ॥ ३,२९.५० ॥ श्वेतातपत्रयवलयश्वेतपङ्कजभासुरा । चक्रकृत्तकरिग्रामपादकूर्मपरंपरा ॥ ३,२९.५१ ॥ शक्तिध्वस्तमहादैत्यगलगण्डशिलोच्चया । विलूनकाण्डैः पतितैः सफेना बलचामरैः ॥ ३,२९.५२ ॥ तीक्ष्णासिवल्लरीजालैर्निबिडीकृततीरभूः । दैत्यवीरेक्षमश्रेणिमुक्तिंसपुटभासुरा ॥ ३,२९.५३ ॥ दैत्यवाहनसंघातन क्रमीनशताकुला । प्रावहच्छोणितनदी सेनयोर्युध्यमानयोः ॥ ३,२९.५४ ॥ इत्थं प्रववृते युद्धं मृत्योश्च त्रासदायकम् । चतुर्थयुद्धदिवसे प्रातरा रभ्यभीषणम् । प्रहरद्वयपर्यन्तं सेनयोरुभयोरपि ॥ ३,२९.५५ ॥ ततः श्रीललितादेव्या भण्डस्याथाभवद्रणः । अस्त्रप्रत्यस्त्रसंक्षोभैस्तुमुलीकृतदिक्तटः ॥ ३,२९.५६ ॥ धनुर्ज्यातलटङ्कारहुङ्कारैरतिभीषणः । तूणीरवदनात्कृष्टधनुर्वरविनिः सृतैः । विमुक्तैर्विशिशैर्भीमैराहवे प्राणहारिभिः ॥ ३,२९.५७ ॥ हस्तलाघववेगेन न प्राज्ञायत किञ्चन । महाराज्ञीकरांभोजव्यापारं शरमोक्षणे । शृणु सर्वं प्रवक्ष्यामि कुम्भसंभव सङ्गरे ॥ ३,२९.५८ ॥ संधाने त्वेकधा तस्य दशधा चापनिर्गमे । शतधा गगने दैत्यसैन्यप्राप्तौ सहस्रधा । दैत्याङ्गसंगे संप्राप्ताः कोटिसंख्याः शिलीमुखाः ॥ ३,२९.५९ ॥ परान्धकारं सृजती भिन्दती रोदसी शरैः । मर्माभिनत्प्रचण्डस्य महाराज्ञी महेषुभिः ॥ ३,२९.६० ॥ वहत्कोपारुणं नेत्रं ततो भण्डः स दानवः । ववष शरजालेन महता ललितेश्वरीम् ॥ ३,२९.६१ ॥ अन्धतामिस्रकं नाम महास्त्रं प्रमुमोच सः । महातरणिबाणेन तन्नुनोद महेश्वरी ॥ ३,२९.६२ ॥ पाखण्डास्त्रं महावीरो भण्डः प्रमुमुचे रणे । गायत्र्यस्त्रं तस्य नुत्यै ससर्ज जगदंबिका ॥ ३,२९.६३ ॥ अन्धास्त्रमसृजद्भण्डः शक्तिदृष्टिविनाशनम् । चाक्षुष्मतमहास्त्रेण शमयायास तत्प्रसूः ॥ ३,२९.६४ ॥ शक्तिनाशाभिधं भण्डो मुमोचास्त्रं महारणे । विश्वावसोरथास्त्रेण तस्य दर्पमपाकरोत् ॥ ३,२९.६५ ॥ अन्तकास्त्रं ससर्जोच्चैः संक्रुद्धो भडदानवः । महामृत्युञ्जयास्त्रेण नाशयामास तद्बलम् ॥ ३,२९.६६ ॥ सर्वास्त्रस्मृतिनाशाख्यमस्त्रं भण्डो व्यमुञ्चत । धारणास्त्रेण चक्रेशी तद्बलं समनाशयत् ॥ ३,२९.६७ ॥ भयास्त्रमसृजद्भण्डः शक्तीनां भीतिदायकम् । अभयङ्करमैन्द्रास्त्रं मुमुचे जगदंबिका ॥ ३,२९.६८ ॥ महारोगास्त्रमसृजच्छक्तिसेनासु दानवः । राजयक्ष्मादयो रोगास्ततोऽभूवन्सहस्रशः ॥ ३,२९.६९ ॥ तन्निवारणसिद्ध्यर्थं ललिता परमेश्वरी । नामत्रयमहामन्त्रमहास्त्रं सा मुमोच ह ॥ ३,२९.७० ॥ अच्युतश्चाप्यनन्तश्च गोविन्दस्तु शरोत्थिताः । हुङ्कारमात्रतो दग्ध्वारोगांस्ताननयन्मुदम् ॥ ३,२९.७१ ॥ नत्वा च तां महेशानीं तद्भक्तव्याधिमर्दनम् । विधातुं त्रिषु लोकेषु नियुक्ताः स्वपदं ययुः ॥ ३,२९.७२ ॥ आयुर्नाशनमस्त्रं तु मुक्तवान्भण्डदानवः । कालसंकर्षणीरूपमस्त्रं राज्ञी व्यमुञ्चत ॥ ३,२९.७३ ॥ महासुरास्त्रमुद्दामं व्यसृजद्भण्डदानवः । ततः सहस्रशो जाता महाकाया महाबलाः ॥ ३,२९.७४ ॥ मधुश्च कैटभश्चैव महिषासुर एव च । धूम्रलोचनदैत्यश्च चण्डमुण्डादयोऽसुराः ॥ ३,२९.७५ ॥ चिक्षुभश्चामरश्चैव रक्तबीजोऽसुरस्तथा । शुम्भश्चैव निशुम्भश्च कालकेया महाबलाः ॥ ३,२९.७६ ॥ धूम्राभिधानाश्च परे तस्मादस्त्रात्समुत्थिताः । ते सर्वे दानवश्रेष्ठाः कठोरैः शस्त्रमण्डलैः ॥ ३,२९.७७ ॥ शक्तिसेनां मर्दयन्तो नर्द्दन्तश्च भयङ्करम् । हाहेति क्रन्दमानाश्चशक्तयो दैत्यमर्दिताः ॥ ३,२९.७८ ॥ ललितां शरणं प्राप्ताः पाहि पाहीति सत्वरम् । अथ देवी भृशं क्रुद्धा रुषाट्टहासमातनोत् ॥ ३,२९.७९ ॥ ततः समुत्थिता काचिद्दुर्गा नाम यशस्विनी । समस्तदेवतेजोभिर्निर्मिता विश्वरूपिणी ॥ ३,२९.८० ॥ शूलं च शूलिना दत्तं चक्रं चक्रिसमर्पितम् । शङ्खं वरुणदत्तश्च शक्तिं दत्तां हविर्भुजा ॥ ३,२९.८१ ॥ चापमक्षयतूणीरौ मरुद्दत्तौ महामृधे । वज्रिदत्तं च कुलिशं चषकन्धनदार्पितम् ॥ ३,२९.८२ ॥ कालदण्डं महादण्डं पाशं पाशधरार्पितम् । ब्रह्मदत्तां कुण्डिकां च घण्टामैरावतार्पिताम् ॥ ३,२९.८३ ॥ मृत्युदत्तौ खड्गखेटौ हारं जलधिनार्पितम् । विश्वकर्मप्रदत्तानि भूषणानि च बिभ्रती ॥ ३,२९.८४ ॥ अङ्गैः सहस्रकिरणश्रेणिभासुररश्मिभिः । आयुधानि समस्तानि दीपयन्ति महोदयैः ॥ ३,२९.८५ ॥ अन्यदत्तैरथान्यैश्च शोभमाना परिच्छदैः । सिंहवाहनमारुह्य युद्धं नारायणीव्यधात् ॥ ३,२९.८६ ॥ तथा ते महिषप्रख्या दानवा विनिपातिताः । चण्डिकासप्तशत्यां तु यथा कर्म पुराकरोत् ॥ ३,२९.८७ ॥ तथैव समरञ्चक्रे महिषादिमदापहम् । तत्कृत्वा दुष्करं कर्म ललितां प्रणनाम सा ॥ ३,२९.८८ ॥ मूकास्त्रमसृद्दुष्टः शक्तिसेनासु दानवः । महावाग्वा दिनी नाम ससर्जास्त्रं जगत्प्रसूः ॥ ३,२९.८९ ॥ विद्यारूपस्य वेदस्य तस्करानसुराधमान् । ससर्ज तत्र समरे दुर्मदो भण्डदानवः ॥ ३,२९.९० ॥ दक्षहस्ताङ्गुष्ठनखान्महाराज्ञ्या तिरस्कृतः । अर्णवास्त्रं महादीरो भण्डदैत्यो रणेऽसृजत् ॥ ३,२९.९१ ॥ तत्रोद्दामपयः पूरे शक्तिसैन्यं ममजज च । अथ श्रीललितादक्षहस्ततर्जनिकानखात् । आदिकूर्मः समुत्पन्नो योजनायतविस्तरः ॥ ३,२९.९२ ॥ धृतास्तेन महाभोगखर्परेण प्रथीयसा । शक्तयो हर्षमापन्नाः सागरास्त्रभयं जहुः ॥ ३,२९.९३ ॥ तत्सामुद्रं च भगवान्सकलं सलिलं पपौ । हैरण्याक्षं महास्त्रं तु विजहौ दुष्टदानवः ॥ ३,२९.९४ ॥ तस्मात्सहस्रशो जाता हिरण्याक्षा गदायुधाः । तैर्हन्यमाने शक्तीनां सैन्ये सन्त्रा सविह्वले । इतस्ततः प्रचलिते शिथिले रणकर्मणि ॥ ३,२९.९५ ॥ अथ श्रीललितादक्षहस्तमध्याङ्गुलीनखात् । महावराहः समभूच्छ्वेतः कैलाससंनिभः ॥ ३,२९.९६ ॥ तेन वज्रसमानेन पोत्रिणाभिविदारिताः । कोटिशस्ते हिरण्याक्षा मर्द्यमानाः क्षयं गताः ॥ ३,२९.९७ ॥ अथभण्डस्त्वतिक्रोधाद्भुकुटीं विततान ह । तस्य भ्रुकुटितो जाता हिरण्याः कोटिसंख्यकाः ॥ ३,२९.९८ ॥ ज्वलदादित्यवद्दीप्ता दीपप्रहरणाश्व ते । अमर्दयच्चक्तिसैन्यं प्रह्लादं चाप्यमर्दयन् ॥ ३,२९.९९ ॥ यः प्रह्लादोऽस्ति शक्तीनां परमानन्दलक्षणः । स एव बालकोभूत्वा हिरण्यपरिपीडितः ॥ ३,२९.१०० ॥ ललितां शरणं प्राप्तस्तेन राज्ञी कृपामगात् । अथ शक्त्या नन्दरूपं प्रह्लादं परिरक्षितुम् ॥ ३,२९.१०१ ॥ दक्षहस्तानामिकाग्रं धुनोति स्म महेश्वरी । तस्माद्धूतसटाजालः प्रज्वलल्लोचनत्रयः ॥ ३,२९.१०२ ॥ सिंहास्यः पुरुषा कारः कण्ठस्याधो जनार्दनः । नखायुधः कालरुद्ररूपी घोराट्टहासवान् ॥ ३,२९.१०३ ॥ सहस्रसंख्यदोर्दण्डो ललिताज्ञानुपालकः । हिरण्यकशिपून्सर्वान्भण्डभ्रुकुटिसंभवान् ॥ ३,२९.१०४ ॥ क्षणाद्विदारयामास नखैः कुलिशकर्कशैः । बलीन्द्रास्त्रं महाघोरं सर्वदैवतनाशनम् । अमुञ्चल्ललिता देवी प्रतिभण्डमहासुरम् ॥ ३,२९.१०५ ॥ तदस्त्रदर्पनाशाय वामनाः शतशोऽभवन् । महाराज्ञीदक्षहस्तकनिष्ठाग्रान्महौजसः ॥ ३,२९.१०६ ॥ क्षणेक्षणे वर्धमानाः पाशहस्ता महाबलाः । बलीन्द्रानस्त्रसंभूतान्बध्नन्तः पाशबन्धनैः ॥ ३,२९.१०७ ॥ दक्षहस्तकनिष्ठाग्राज्जाताः कामेशयोषितः । महाकाया महोत्साहास्तदस्त्रं समनाशयन् ॥ ३,२९.१०८ ॥ हैहयास्त्रं समसृजद्भण्डदैत्यो रणाजिरे । तस्मात्सहस्रशोजाताः सहस्रार्जुनकोटयः ॥ ३,२९.१०९ ॥ अथ श्रीललितावामहस्ताङ्गुष्टनखादितः । प्रज्वलन्भार्गवो रामः सक्रोधः सिंहनादवान् ॥ ३,२९.११० ॥ धारया दारयन्नेतान्कुठारस्य कठोरया । सहस्रार्जुनसंख्यातान्क्षणादेव व्यनाशयन् ॥ ३,२९.१११ ॥ अथ क्रुद्धो भण्डदैत्यः क्रोधाद्धुङ्कारमातनोत् । तस्माद्धुङ्कारतो जातश्चन्द्रहासकृपाणवान् ॥ ३,२९.११२ ॥ सहस्राक्षौहिणीरक्षःसेनया परिवारितः । कनिष्ठं कुंभकर्णं च मेघनादं च नन्दनम् । गृहीत्वा शक्तिसैन्यं तदतिदूरममर्दयत् ॥ ३,२९.११३ ॥ अथ श्रीललितावामहस्ततर्जनिकानखात् । कोदण्डरामः समभूल्लक्ष्मणेन समन्वितः ॥ ३,२९.११४ ॥ जटामुकुटवान्वल्लीबन्ध्धतूणीरपृष्टभूः । नीलोत्पलदलश्यामो धनुर्विस्फारयन्मुहुः ॥ ३,२९.११५ ॥ नाशयामास दिव्यास्त्रैः क्षणाद्राक्षससैनिकम् । मर्दयामास पौलस्त्यं कुंभकर्णं च सोदरम् । लक्ष्मणो मेघनादं च महावीरमनाशयत् ॥ ३,२९.११६ ॥ द्विविदास्त्रं महाभीममसृजद्भण्डदानवः । तस्मादनेकशो जाताः कपयः पिङ्गलोचनाः ॥ ३,२९.११७ ॥ क्रोधेनात्यन्तता म्रास्याः प्रत्येकं हनुमत्समाः । व्यनाशयच्छक्तिसैन्यं क्रूरक्रेङ्कारकारिणः ॥ ३,२९.११८ ॥ अथ श्रीललितावामहस्तमध्याङ्गुलीनखात् । आविर्बभूव तालाङ्कः क्रोधमध्यारुणेक्षणः ॥ ३,२९.११९ ॥ नीलांबरपिनद्धाङ्गः कैलासाचलनिर्मलः । द्विविदास्त्रसमुद्भूतान्कपीन्सर्न्वान्व्यनाशयन् ॥ ३,२९.१२० ॥ राजासुरं नाम महत्ससर्जास्त्रं महाबलः । तस्मादस्त्रात्समुद्भूता बहवो नृपदानवाः ॥ ३,२९.१२१ ॥ शिशुपालो दन्तवक्त्रः शाल्वः काशीपतिस्तथा । पैण्ड्रको वासुदेवश्च रुक्मी डिंभकहंसकौ ॥ ३,२९.१२२ ॥ शंबरश्च प्रलंबश्च तथा बाणासुरोऽपि च । कंसश्चाणूरमल्लश्च मुष्टिकोत्पलशेखरौ ॥ ३,२९.१२३ ॥ अरिष्टो धेनुकः केशी कालियो यमलार्जुनौ । पूतना शकटश्चैव तृणावर्तादयोऽसुराः ॥ ३,२९.१२४ ॥ नरकाख्यो महावीरो विष्णुरूपी मुरासुरः । अनेके सह सेनाभिरुत्थिताः शस्त्रपाणयः ॥ ३,२९.१२५ ॥ तान्विनाशयितुंसर्वान्वासुदेवः सनातनः । श्रीदेवीवामहस्ताब्जानामिकानखसंभवः ॥ ३,२९.१२६ ॥ चतुर्व्यूहं समातेने चत्वारस्ते ततोऽभवन् । वासुदेवो द्वितीयस्तु संकर्षण इति स्मृतः ॥ ३,२९.१२७ ॥ प्रद्युम्नश्चानिरुद्धश्च ते सर्वे प्रीद्यतायुधाः । तानशेषान्दुराचारान्भूमभोरप्रवर्तकान् ॥ ३,२९.१२८ ॥ नाशयामासुरुर्वीशवेषच्छन्नान्महासुरान् ॥ ३,२९.१२९ ॥ अथ तेषु विनष्टेषु संक्रुद्धो भण्ड्रदानवः । धर्मविप्लावकं घोरं कल्यस्त्रं सममुञ्चत ॥ ३,२९.१३० ॥ ततः कल्यस्त्रतोजाता आन्ध्राः पुण्डाश्च भूमिपाः । किराताः शबरा हूणा यवनाः पापवृत्तयः ॥ ३,२९.१३१ ॥ वेद विप्लावका धर्मद्रोहिणः प्राणहिंसकाः । वर्णाश्रमेषु सांकर्यकारिणो मलिनाङ्गकाः । ललिताशक्तिसैन्यानि भूयोभूयो व्यमर्दयन् ॥ ३,२९.१३२ ॥ अथ श्रीललितावामहस्तपद्मस्य भास्वतः । कनिष्ठिकानखोद्भूतः कल्किर्नाम जनार्दनः ॥ ३,२९.१३३ ॥ अश्वारूढः प्रतीप्त श्रीरट्टहासं चकार सः । तस्यैव ध्वनिना सर्वे वज्रनिष्पेषबन्धुना ॥ ३,२९.१३४ ॥ किराता मूर्च्छिता नेशुः शक्तयश्चापि हर्षिताः । दशावतारनाथास्ते कृत्वेदं कर्म दुष्करम् ॥ ३,२९.१३५ ॥ ललितां तां नमस्कृत्य बद्धाञ्जलिपुटाः स्थिताः । प्रतिकल्पं धर्मरक्षां कर्तुं मत्स्या दिजन्मभिः । ललितांबानियुक्तास्ते वैकुण्ठाय प्रतस्थिरे ॥ ३,२९.१३६ ॥ इत्थं समस्तेष्वस्त्रंषु नाशितेषु दुराशयः । महामोहास्त्रमसृजच्छक्तयस्तेन मूर्छिताः ॥ ३,२९.१३७ ॥ शांभवास्त्रं विसृज्यांबा महामोहास्त्रमक्षिणोत् । अस्त्रप्रत्यस्त्रधाराभिरित्थं जाते महाहवे । अस्तशैलङ्गभस्तीशो गन्तुमारभतारुणः ॥ ३,२९.१३८ ॥ अथ नारायणास्त्रेण सा देवी ललितांबिका । सर्वा अक्षौहिणीस्तस्य भस्मसादकरोद्रणे ॥ ३,२९.१३९ ॥ अथ पाशुपतास्त्रेण दीप्तकालानलत्विषा । चत्वारिंशच्चमूनाथान्महाराज्ञी व्यमर्दयत् ॥ ३,२९.१४० ॥ अथैकशेषं तं दुष्टं निहताशेषबान्धवम् । क्रोधेन प्रज्वलन्तं च जगद्विप्लवकारिणम् ॥ ३,२९.१४१ ॥ महासुरं महासत्त्वं भण्डं चण्डपराक्रमम् । महाकामेश्वरास्त्रेण सहस्रादित्यवर्चसा । गतासुमकरोन्माता ललिता परमेश्वरी ॥ ३,२९.१४२ ॥ तदस्त्रज्वालयाक्रान्तं शून्यकं तस्य पट्टनम् । सस्त्रीकं च सबालं च सगोष्ठं धनधान्यकम् ॥ ३,२९.१४३ ॥ निर्दग्धमासीत्सहसा स्थलमात्रमशिष्यत । भण्डस्य संक्षयेणासीत्त्रैलोक्यं हर्षनर्तितम् ॥ ३,२९.१४४ ॥ इत्थं विधाय सुरकार्यमनिन्द्यशीला श्रीचक्रराजरथमण्डलमण्डनश्रीः । कामेश्वरी त्रिजगतां जननी बभासे विद्योतमानविभवा विज्यश्रियाढ्या ॥ ३,२९.१४५ ॥ सैन्यं समस्तमपि सङ्गरकर्मखिन्नं भण्डासुरप्रबलबाणकृशानुतप्तम् । अस्तं गते सवितरि प्रथितप्रभावा श्रीदेवता शिबिरमात्मन आनिनाय ॥ ३,२९.१४६ ॥ यो भण्डदानववधं ललितांबयेमं कॢप्तं सकृत्पठति तस्य तपोधनेन्द्र । नाशं प्रयान्ति कदनानि दृताष्टसिद्धेर्भुक्तिश्च मुक्तिरपि वर्तत एव हस्ते ॥ ३,२९.१४७ ॥ इमं पवित्रं ललितापराक्रमं समस्तपापघ्नमशेषसिद्धिदम् । पठन्ति पुण्येषु दिनेषु ये नरा भजन्ति ते भाग्यसमृद्धिमुत्तमाम् ॥ ३,२९.१४८ ॥ इति श्रीब्रह्माण्डपुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने भण्डासुरवधो नामैकोनत्रिंशोऽध्यायः _____________________________________________________________ अगस्त्य उवाच अश्वानन महाप्राज्ञ श्रुतमाख्यानमुत्तमम् । विक्रमो ललितादेव्या विशिष्टो वर्णितस्त्वया ॥ ३,३०.१ ॥ चरितैरनघैर्देव्याः सुप्रीतोऽस्मि हयानन । श्रुता सा महतीशक्तिर्मन्त्रिणीदण्डनाथयोः ॥ ३,३०.२ ॥ पश्चात्किमकरोत्तत्र युद्धानन्तरमंबिका । चतुर्थदिनशर्वर्यां विभातायां हयानन ॥ ३,३०.३ ॥ हयग्रीव उवाच शृणु कुम्भज तत्प्राज्ञ यत्तया जगदंबया । पश्चादाचरितं कर्म निहते भण्डदानवे ॥ ३,३०.४ ॥ शक्तीनामखिलं सैन्यं दैत्ययुधशतार्दितम् । मुहुराह्लादयामास लोचनैरमृताप्लुतैः ॥ ३,३०.५ ॥ ललितापरमेशान्याः कटाक्षामृतधारया । जहुर्युद्धपरिश्रान्तिं शक्तयः प्रीतिमानसाः ॥ ३,३०.६ ॥ अस्मिन्नवसरे देवा भण्डमर्दनतोषिताः । सर्वेऽपि सेवितुं प्राप्ता ब्रह्मविष्णुपुरोगमाः ॥ ३,३०.७ ॥ ब्रह्मा विष्णुश्च रुद्रश्च शक्राद्यास्त्रिदशास्तथा । आदित्या वसवो रुद्रा मरुतः साध्यदेवताः ॥ ३,३०.८ ॥ सिद्धाः किंपुरुषा यक्षा निरृत्याद्या निशाचराः । प्रह्लादाद्या महादैत्याः सर्वेऽप्यण्डनिवासिनः ॥ ३,३०.९ ॥ आगत्य तुष्टुवुः प्रीत्या सिंहासनमहेश्वरीम् ॥ ३,३०.१० ॥ ब्रह्माद्या ऊचुः नमोनमस्ते जगदेकनाथे नमोनमः श्रीत्रिपुराभिधाने । नमोनमो भण्डमहासुरघ्ने नमोऽस्तु कामेश्वरि वामकेशि ॥ ३,३०.११ ॥ चिन्तामणे चिन्तितदानदक्षेऽचिन्तये चिराकारतरङ्गमाले । चित्राम्बरे चित्रजगत्प्रसूते चित्राख्यनित्ये सुखदे नमस्ते ॥ ३,३०.१२ ॥ मोक्षप्रदे मुग्धशशाङ्कचूडे मुग्धस्मिते मोहनभेददक्षे । मुद्रेश्वरीचर्चितराजतन्त्रे मुद्राप्रिये देवि नमोनमस्ते ॥ ३,३०.१३ ॥ क्रूरान्तकध्वंसिनि कोमलाङ्गे कोपेषु कालीं तनुमादधाने । क्रोडानने पालितसैन्यचक्रे क्रोडीकृताशेषभये नमस्ते ॥ ३,३०.१४ ॥ षडङ्गदेवीपरिवारकृष्णे षडङ्गयुक्तश्रुतिवाक्यमृग्ये । षट्चक्रसंस्थे च षडूर्मियुक्ते षड्भावरूपे ललिते नमस्ते ॥ ३,३०.१५ ॥ कामे शिवे मुख्यसमस्तनित्ये कान्तासनान्ते कमलायताक्षि । कामप्रदे कामिनि कामशंभोः काम्ये कलानामधिपे नमस्ते ॥ ३,३०.१६ ॥ दिव्यौषधाद्ये नगरौघरूपे दिव्ये दिनाधीशसहस्रकान्ते । देदीप्यमाने दयया सनाथे देवाधिदेवप्रमदे नमस्ते ॥ ३,३०.१७ ॥ सदाणिमाद्यष्टकसेवनीये सदाशिवात्मोज्ज्वलमञ्चवासे । सभ्ये सदेकाल यपादपूज्ये सवित्रि लोकस्य नमोनमस्ते ॥ ३,३०.१८ ॥ ब्राह्मीमुखैर्मातृगणैर्निषेव्ये ब्रह्मप्रिये ब्राह्मणबन्धमेत्रि । ब्रह्मामृतस्रोतसि राजहंसिब्रह्मेश्वरि श्रीललिते नमस्ते ॥ ३,३०.१९ ॥ संक्षोभिणीमुख्यसमस्तमुद्रासंसेविते संसरणप्रहन्त्रि । संसारलीलाकृतिसारसाक्षि सदा नमस्ते ललितेऽधिनाथे । नित्ये कलाषोडशकेन नामाकर्षिण्यधीशि प्रमथेन सेव्ये ॥ ३,३०.२० ॥ नित्ये निरातङ्कदयाप्रपञ्चे नीलालकश्रेणि नमोनमस्ते । अनङ्गपुष्पादिभिरुन्नदाभिरनङ्गदेवीभिरजस्रसेव्ये । अभव्यहन्त्र्यक्षरराशिरूपे हतारिवर्गे ललिते नमस्ते ॥ ३,३०.२१ ॥ संक्षोभिणीमुख्यचतुर्दशार्चिर्मालावृतोदारमहाप्रदीप्ते । आत्मानमाबिभ्रति विभ्रमाढ्ये शुभ्राश्रये शुभ्रपदे नमस्ते ॥ ३,३०.२२ ॥ सशर्वसिद्धादि कशक्तिवन्द्ये सर्वज्ञविज्ञातपदारविन्दे । सर्वाधिके सर्वगते समस्तसिद्धिप्रदे श्रीललिते नमस्ते ॥ ३,३०.२३ ॥ सर्वज्ञजातप्रथमाभिरन्यदेवी भिरप्याश्रितचक्रभूमे । सर्वामराकाङ्क्षितपूरयित्रि सर्वस्य लोकस्य सवित्रि पाहि ॥ ३,३०.२४ ॥ वन्दे वशिन्यादिकवाग्विभूते वर्द्धिष्णुचक्र द्युतिवाहवाहे । बलाहकश्यामकचे वचोऽब्धे वरप्रदे सुंदरि पाहि विश्वम् ॥ ३,३०.२५ ॥ बाणादिदिव्यायुधसार्वभौमे भण्डासुरानीकवनान्तदावे । अत्युग्रतेजोज्ज्वलितांबुराशे प्रसेव्यमाने परितो नमस्ते ॥ ३,३०.२६ ॥ कामेशि वज्रेशि भगेश्यरूपे कन्ये कले कालविलोपदक्षे । कथाविशेषीकृतदैत्यसैन्ये कामेशयान्ते कमले नमस्ते ॥ ३,३०.२७ ॥ बिन्दुस्थिते बिन्दुकलैकरूपे बिन्द्वात्मिके बृंहितचित्प्रकाशे । बृहत्कुचंभोजविलोलहारे बृहत्प्रभावे ललिते नमस्ते ॥ ३,३०.२८ ॥ कामेश्वरोत्संगसदानिवासे कालात्मिके देवि कृतानुकंपे । कल्पावसानोत्थित कालिरूपे कामप्रदे कल्पलते नमस्ते ॥ ३,३०.२९ ॥ सवारुणे सांद्रसुधांशुशीते सारङ्गशावाक्षि सरोजवक्त्रे । सारस्य सारस्य सदैकभूमे समस्तविद्येश्वरि संनतिस्ते ॥ ३,३०.३० ॥ तव प्रभावेण चिदग्निजायां श्रीशंभुनाथप्रकडीकृतायाः । भण्डासुराद्याः समरे प्रचण्डा हता जगत्कण्टकतां प्रयाताः ॥ ३,३०.३१ ॥ नव्यानि सर्वाणि वपूंषि कृत्वा हि सांद्रकारुण्यसुधाप्लवैर्न्नः । त्वया समस्तं भुवनं सहर्षं सुजीवितं सुंदरि सभ्यलभ्ये ॥ ३,३०.३२ ॥ श्रीशंभुनाथस्य महाशयस्य द्वितीयतेजः प्रसरात्मके यः । स्थाण्वाश्रमे कॢप्ततया विरक्तः सतीवियोगेन विरस्तभोगः ॥ ३,३०.३३ ॥ तेनाद्रिवंशे धृतजन्मलाभां कन्यामुमां योजयितुं प्रवृत्ताः । एवं स्मरं प्रेरितवन्त एव तस्यान्तिकं घोर तपःस्थितस्य ॥ ३,३०.३४ ॥ तेनाथ वैराग्यतपोविघातक्रोधेन लालाटकृशानुदग्धः । भस्मावशेषो मदनस्ततोऽभूत्ततो हि भण्डासुर एष जातः ॥ ३,३०.३५ ॥ ततो वधस्तस्य दुराशयस्य कृतो भवत्या रणदुर्मदस्य । अथास्मदर्थे त्वतनुस्सजातस्त्वं कामसंजीवनमाशुकुर्याः ॥ ३,३०.३६ ॥ इयं रतिर्भर्तृवियोगखिन्ना वैधव्यमत्यन्तमभव्यमाप । पुनस्त्वदुत्पादितकामसंगाद्भविष्यति श्रीललिते सनाथा ॥ ३,३०.३७ ॥ तया तु दृष्टेन मनोभवेन संमोहितः पूर्ववदिन्दुमौलिः । चिरं कृतात्यन्तमहासपर्या तां पार्वतीं द्राक्परिणेष्यतीशः ॥ ३,३०.३८ ॥ तयोश्च संगाद्भविता कुमारः समस्तगीर्वाणचमूविनेता । तेनैव वीरेण रणे निरस्य स तारको नाम सुरारिराजः ॥ ३,३०.३९ ॥ यो भण्डदैत्यस्य दुराशयस्य मित्रं स लोकत्रयधूमकेतुः । श्रीकण्ठपुत्रैण रणे हतश्चेत्प्राणप्रतिष्ठैव तदा भवेन्नः ॥ ३,३०.४० ॥ तस्मात्त्वमंबत्रिपुरे जनानां मानापहं मन्मथवीरवर्यम् । उत्पाद्यरत्या विधवात्वदुःखमपाकुरु व्याकुलकुन्तलायाः ॥ ३,३०.४१ ॥ एषा त्वनाथा भवतीं प्रपन्ना भर्तृप्रणाशेन कृशाङ्गयष्टिः । नमस्करोति त्रिपुराभिधाने तदत्र कारुण्यकलां विधेहि ॥ ३,३०.४२ ॥ हयग्रीव उवाच इति स्तुत्वा महेशानी ब्रह्माद्या विबुधोत्तमाः । तां रतिं दर्शयमासुर्मलिनां शोककर्शितम् ॥ ३,३०.४३ ॥ सा पर्यश्रुमुखी कीर्णकुन्तला धूलिधूसरा । ननाम जगदंबां वै वैधव्यत्यक्तभूषणा ॥ ३,३०.४४ ॥ अथ तद्दर्शनोत्पन्नकारुण्या परमेश्वरी । ततः कटाक्षादुत्पन्नः स्मयमानसुखांबुजः ॥ ३,३०.४५ ॥ पूर्वदेहाधिकरुचिर्मन्मथो मदमेदुरः । द्विभुजः सर्वभूषाढ्यः पुष्पेषुः पुष्पकार्मुकः ॥ ३,३०.४६ ॥ आनन्दयन्कटाक्षेण पूर्वजन्मप्रियां रतिम् । अथ सापि रतिर्देवी महत्यानन्दसागरे । मज्जन्ती निजभर्तारमवरोक्य मुदं गता ॥ ३,३०.४७ ॥ आनन्दयन्कटाक्षेण पूर्वजन्मप्रियां रतिम् । अथ सापि रतिर्देवी महत्यानन्दसागरे । मज्जन्ती निजभर्तारमवलोक्य मुदं गता ॥ ३,३०.४८ ॥ श्यामले स्नापयित्वैनां वस्त्रकाञ्च्यादिभूषणैः । अलङ्कृत्य यथापूर्वं शीघ्रमानीयतामिह ॥ ३,३०.४९ ॥ तदाज्ञां शिरसा धृत्वा श्यामा सर्वं तथाकरोत । ब्रह्मर्षिभिर्वसिष्ठाद्यैर्वैवाहि कविधानतः ॥ ३,३०.५० ॥ कारयामास दंपत्योः पाणिग्रहणमङ्गलम् । अप्सरोभिश्च सर्वाभिर्नृत्यगीतादिसंयुतम् ॥ ३,३०.५१ ॥ एतद्दृष्ट्वा महेन्द्राद्या ऋषयश्च तपोधनाः । साधुसाध्विति शंसंतस्तुष्टुवुर्ललितांबिकाम् ॥ ३,३०.५२ ॥ पुष्पवृष्टिं विमुञ्चन्तः सर्वे सन्तुष्टमानसाः । बभूवुस्तौ महाभक्त्या प्रणम्य ललितेश्वरीम् ॥ ३,३०.५३ ॥ तत्पार्श्वे तु समागत्य बद्धाञ्जलिपुटौ स्थितौ । अथ कन्दर्पवीरोऽपि नमस्कृत्य महेश्वरीम् । व्यज्ञापयदिदं वाक्यं भक्तिनिर्भरमानसः ॥ ३,३०.५४ ॥ यद्दग्धमीशनेत्रेण वपुर्मे ललितांबिके । तत्त्वदीयकटाक्षस्य प्रसादात्पुनरागतम् ॥ ३,३०.५५ ॥ तव पुत्रोऽस्मि दासोऽस्मि क्वापि कृत्ये नियुङ्क्ष्व माम् । इत्युक्ता परमेशानी तमाह मकरध्वजम् ॥ ३,३०.५६ ॥ श्रीदेव्युवाच वत्सागच्छ मनोजन्मन्न भयं तव विद्यते । मत्प्रसादाज्जगत्सर्वं मोहयाव्याहताशुग ॥ ३,३०.५७ ॥ तद्बाणपातनाज्जातधैर्यविप्लव ईश्वरः । पर्वतस्य सुतां गौरीं परिणेष्यति सत्वरम् ॥ ३,३०.५८ ॥ सहस्रकोटयः कामा मत्प्रसादात्त्वदुद्भवाः । सर्वेषां देहमाविश्य दास्यन्ति रतिमुत्तमाम् ॥ ३,३०.५९ ॥ मत्प्रसादेन वैराग्यात्संक्रुद्धोऽपि स ईश्वरः । देहदाहं विधातुं ते न समर्थो भविष्यति ॥ ३,३०.६० ॥ अदृश्यमूर्तिः सर्वेषां प्राणिनां भवमोहनः । स्वभार्याविरहाशङ्की देहस्यार्धं प्रदास्यति । प्रयातोऽसौ कातरात्मा त्वद्बाणाहतमानसः ॥ ३,३०.६१ ॥ अद्य प्रभृति कन्दर्प मत्प्रसादान्महीयसः । त्वन्निन्दां ये करिष्यन्ति त्वयि वा विमुखाशयाः । अवश्यं क्लीबतैव स्यात्तेषां जन्मनिजन्मनि ॥ ३,३०.६२ ॥ ये पापिष्ठा दुरात्मानो मद्भक्तद्रोहिणश्च हि । तानगम्यासु नारीषु पातयित्वा विनाशय ॥ ३,३०.६३ ॥ येषां मदीय पूजासु मद्भक्तेष्वादृतं मनः । तेषां कामसुखं सर्वं संपादय समीप्सितम् ॥ ३,३०.६४ ॥ इति श्रीललितादेव्या कृताज्ञावचनं स्मरः । तथेति शिरसा बिभ्रत्सांजलिर्निर्ययौ ततः ॥ ३,३०.६५ ॥ तस्यानङ्गस्य सर्वेभ्यो रोमकूपेभ्य उत्थिताः । बहवः शोभनाकारा मदना विश्वमोहनाः ॥ ३,३०.६६ ॥ तैर्विमोह्य समस्तं च जगच्चक्रं मनोभवः । पुनः स्थाण्वाश्रमं प्राप चन्द्रमौलेर्जिगीषया ॥ ३,३०.६७ ॥ वसंतेन च मित्रेण सेनान्या शीतरोचिषा । रागेण पीठमर्देन मन्दानिलरयेण च ॥ ३,३०.६८ ॥ पुंस्कोकिलगलत्स्वानकाहलीभिश्च संयुतः । शृङ्गारवीरसंपन्नो रत्यालिङ्गितविग्रहः ॥ ३,३०.६९ ॥ जैत्र शरासनं धुन्वन्प्रवीराणां पुरोगमः । मदनारेरभिमुखं प्राप्य निभय आस्थितः ॥ ३,३०.७० ॥ तपोनिष्ठं चन्द्रचूडं ताडयामास सायकैः । अथ कन्दर्पबाणौधैस्ताडितश्चन्द्रशेखरः । दूरीचकार वैराग्यं तपस्तत्त्याज दुष्करम् ॥ ३,३०.७१ ॥ नियमानखिलांस्त्यक्त्वा त्यक्तधैर्यः शिवः कृतः । तामेव पार्वतीं ध्यात्वा भूयोभूयः स्मरातुरः ॥ ३,३०.७२ ॥ निशश्वास वहञ्शर्वः पाण्डुरं गण्डमण्डलम् । बाष्पायमाणो विरही संतप्तो धैर्यविप्लवात् । भूयोभूयो गिरिसुतां पूर्वदृष्टामनुस्मरन् ॥ ३,३०.७३ ॥ अनङ्गबाणदहनैस्तप्यमानस्य शूलिनः । न चन्द्ररेखा नो गङ्गा देहतापच्छिदेऽभवत् ॥ ३,३०.७४ ॥ नन्दिभृङ्गिमहाकालप्रमुखैर्गणमण्डलैः । आहृते पुष्पशयने विलुलोठ मुहुर्मुहुः ॥ ३,३०.७५ ॥ नन्दिनो हस्तमालंब्य पुष्पतल्पान्तरात्पुनः । पुष्पतल्पान्तरं गत्वा व्यचेष्टत मुहुर्मुहुः ॥ ३,३०.७६ ॥ न पुष्पशयनेनेन्दुखण्डनिर्गलितामृते । न हिमानीपयसि वा निवृत्तस्तद्वपुर्ज्वरः ॥ ३,३०.७७ ॥ स तनेरतनुज्वालां शमयिष्यन्मुहुर्मुहुः । शिलीभूतान्हिमपयः पट्टानध्यवसच्छिवः । भूयः शैलसुतारूपं चित्रपट्टे नखैर्लिखत् ॥ ३,३०.७८ ॥ तदालोकनतोऽदूरमनङ्गार्तिमवर्धयत् । तामालिख्य ह्रिया नम्रां वीक्षमाणां कटाक्षतः ॥ ३,३०.७९ ॥ तच्चित्रपट्टमङ्गेषु रोमहर्षेषु चाक्षिपत् । चिन्तासंगेन महता महात्या रतिसंपदा । भूयसा स्मरतापेन विव्यथे विषमेक्षणः ॥ ३,३०.८० ॥ तामेव सर्वतः पश्यंस्तस्यामेव मनो दिशन् । तथैव संल्लपन्सार्धमुन्मादेनोपपन्नया ॥ ३,३०.८१ ॥ तन्मात्रभूतहृदयस्तच्चित्तस्तत्परायणः । तत्कथासुधया नीतसमस्तरजनीदिनः ॥ ३,३०.८२ ॥ तच्छीलवर्णन रतस्तद्रूपालोकनोत्सुकः । तच्चारुभोगसंकल्पमालाकरसुमालिकः । तन्मयत्वमनुप्राप्तस्ततापातितरां शिवः ॥ ३,३०.८३ ॥ इमां मनोभव रुजमचिकित्स्यां स धूर्जटिः । अवलोक्य विवाहाय भृशमुद्यमवानभूत् ॥ ३,३०.८४ ॥ इत्थं विमोह्य तं देवं कन्दर्पो ललिताज्ञया । अथ तां पर्वतसुतामाशुगैरभ्यतापयत् ॥ ३,३०.८५ ॥ प्रभूतविरहज्वालामलिनैः श्वसितानलैः । शुष्यमाणाधरदलो भृशं पाण्डुकपोलभूः ॥ ३,३०.८६ ॥ नाहारे वा न शयने न स्वापे धृतिमिच्छति । मखीसहस्रैः सिषिचे नित्यं शीतोपचारकैः ॥ ३,३०.८७ ॥ पुनः पुनस्तप्यमाना पुनरेव च विह्वला । न जगाम रुजाशान्ति मन्मथाग्नेर्महीयसः ॥ ३,३०.८८ ॥ न निद्रां पार्वती भेजे विरहेणोपतापिता । स्वतनोस्तापनेनासौ पितुः खेदमवर्धयत् ॥ ३,३०.८९ ॥ अप्रतीकारपुरुषं विरहं तुहितुः शिवे । अवलोक्य स शैलेन्द्रो महादुःखमवाप्तवान् ॥ ३,३०.९० ॥ भद्रे त्वं तपसा देवं तोषयित्वा महेश्वरम् । भार्तारं तं समृच्छेति पित्रा सम्प्रेरिताथ सा ॥ ३,३०.९१ ॥ हिमवच्छैलशिखरे गौरीशिखरनामनि । वकार पतिलाभाय पार्वती दुष्करं तपः ॥ ३,३०.९२ ॥ शिशिरेषु जलावासा ग्रीष्मे दहनमध्यगा । अर्के निविष्टदृष्टिश्च सुघोरं तप आस्थिता ॥ ३,३०.९३ ॥ तेनैव तपसा तुष्टः सान्निध्यं दत्तवाञ्छिवः । अङ्गीचकार तां भार्यां वैवाहिकविधानतः ॥ ३,३०.९४ ॥ अथाद्रिपतिना दत्तां तनयां नलिनेक्षणाम् । सप्तर्षिद्वारतः पूर्वं प्रार्थितामुदवोढ सः ॥ ३,३०.९५ ॥ तया च रममाणोऽसौ बहुकालं महेश्वरः । ओषधीप्रस्थनगरे श्वशुरस्य गृहेऽवसत् ॥ ३,३०.९६ ॥ पुनः कैलासमागत्य समस्तैः प्रमथैः सह । पार्वतीमानिनायाद्रिनाथस्य प्रीतिमावहत् ॥ ३,३०.९७ ॥ रममाणस्तया सार्थं कैलासे मन्दरे तथा । विन्ध्याद्रौ हेमशैले च मलये पारियात्रके ॥ ३,३०.९८ ॥ नानाविधेषु स्थानेषु रतिं प्राप महेश्वरः । अथ तस्यां ससर्जोग्रं वीर्यं सा सोढुमक्षमा ॥ ३,३०.९९ ॥ भुव्यत्यजत्सापि वह्नौ कृत्तिकासु स चाक्षिपत् । ताश्च गङ्गाजलेऽमुञ्चन्सा चैव शरकानने ॥ ३,३०.१०० ॥ तत्रोद्भूतो महावीरो महासेनः षडाननः । गङ्गायाश्चान्तिकं नीतो धूर्जटिर्वृद्धि मागमत् ॥ ३,३०.१०१ ॥ स वर्धमानो दिवसेदिवसे तीव्रविक्रमः । शिक्षितो निजतातेन सर्वा विद्या अवाप्तवान् ॥ ३,३०.१०२ ॥ अथ तातकृतानुज्ञः सुरसैन्यपतिर्भवन् । तारकं मारयामास समस्तैः सह दानवैः ॥ ३,३०.१०३ ॥ ततस्तारकदैत्येन्द्रवधसन्तोषशालिना । शक्रेण दत्तां स गुहो देवसेनामुपानयत् ॥ ३,३०.१०४ ॥ सा शक्रतनया देवसेना नाम यशस्विनी । आसाद्यरमणं स्कन्दमानन्दं मृशमादधौ ॥ ३,३०.१०५ ॥ इत्थं संमोहिताशेषविश्वचक्रो मनोभवः । देवकार्यं सुसम्पाद्य जगाम श्रीपुरं पुनः ॥ ३,३०.१०६ ॥ यत्र श्रीनगरे पुण्ये ललिता परमेश्वरी । वर्तते जगतामृद्ध्यै तत्र तां सेवितुं ययौ ॥ ३,३०.१०७ ॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने मदनपुनर्भवो नाम त्रिंशोऽध्यायः _____________________________________________________________ अगस्त्य उवाच किमिदं श्रीपुरं नाम केन रूपेण वर्तते । केन वानिर्मितं पूर्व तत्सर्वं मे निवदय ॥ ३,३१.१ ॥ कियत्प्रमाणं किं वर्णं कथयस्व मम प्रभो । त्वमेव सर्वसन्देहपङ्कशोषणभास्करः ॥ ३,३१.२ ॥ हयग्रीव उवाच यथा चक्ररथं प्राप्य पूर्वोक्तैर्लक्षणैर्युतम् । महायागानलोत्पन्ना ललिता परमेश्वरी ॥ ३,३१.३ ॥ कृत्वा वैवाहिकीं लीलां ब्रह्माद्यैः प्रार्थिता पुनः । व्यजेष्ट भण्डनामानमसुरं लोककण्टकम् ॥ ३,३१.४ ॥ तदा देवा महेन्द्राद्याः सन्तोषं बहु भेजिरे । अथ कामेश्वरस्यापि ललितायाश्च शोभनम् । नित्योपभोगसर्वार्थं मन्दिरं कर्तुमुत्सुकाः ॥ ३,३१.५ ॥ कुमारा ललितादेव्या ब्रह्मविष्णुमहेश्वराः । वर्धकिं विश्वकर्माणं सुराणां शिल्पकोविदम् ॥ ३,३१.६ ॥ सुराणां शिल्पनं च मयं मायाविचक्षणम् । आहूय कृतसत्कारानूचिरे ललिताज्ञया ॥ ३,३१.७ ॥ अधिकारिपुरुषा ऊचुः भो विश्वकर्मञ्छिल्पज्ञ भोभो मय महोदय । भवन्तौ सर्वशास्त्रज्ञौ घटनामार्गकोविदौ ॥ ३,३१.८ ॥ संकल्पमात्रेण महाशिल्पकल्पविशारदौ । युवाभ्यां ललितादेव्या नित्यज्ञानमहोदधेः ॥ ३,३१.९ ॥ षोडशीक्षेत्रमध्येषु तत्क्षेत्रसमसंख्यया । कर्तव्या श्रीनगर्यो हि नानारत्नैरलङ्कृताः ॥ ३,३१.१० ॥ यत्र षोडशधा भिन्ना ललिता परमेश्वरी । विश्वत्राणाय सततं निवासं रचयिष्यति ॥ ३,३१.११ ॥ अस्माकं हि प्रियमिदं मरुतामपिच प्रियम् । सर्वलोकप्रियं चैतत्तन्नाम्नैव विरच्यताम् ॥ ३,३१.१२ ॥ इति कारणदेवानां वचनं सुनिशम्य तौ । विश्वकर्ममयौ नत्वा व्यभाषेतां तथास्त्विति ॥ ३,३१.१३ ॥ पुनर्नत्वा पृष्टवन्तौ तौ तान्कारण पूरुषान् । केषु क्षेत्रेषु कर्तव्याः श्रीनगर्यो महोदयाः ॥ ३,३१.१४ ॥ ब्रह्माद्याः परिपृष्टास्ते प्रोचुस्तौ शिल्पिनौ पुनः । क्षेत्राणां प्रविभागं तु कल्पयन्तौ यथोचितम् ॥ ३,३१.१५ ॥ कारणपुरुषा ऊचुः प्रथमं मेरुपृष्ठे तु निषधे च महीधरे । हेमकूटे हिमगिरौ पञ्चमे गन्धमादने ॥ ३,३१.१६ ॥ नीले मेषे च शृङ्गारे महेन्द्रे च महागिरौ । क्षेत्राणि हि नवैतानि भौमानि विदितान्यथ ॥ ३,३१.१७ ॥ औदकानि तु सप्तैव प्रोक्तान्यखिल सिन्धुषु । लवणोऽब्धीक्षुसाराब्धिः सुराब्धिर्घृतसागरः ॥ ३,३१.१८ ॥ दधिसिन्धुः क्षीरसिन्धुर्जलसिन्धुश्च सप्तमः । पूर्वोक्ता नव शैलेन्द्राः पश्चात्सप्त च सिन्धवः ॥ ३,३१.१९ ॥ आत्दृत्य षोडश क्षेत्राण्यंबाश्रीपुरकॢप्तये । येषु दिव्यानि वेश्मानि ललिताया महौजसः । सृजतं दिव्यघटनापण्डितौ शिल्पिनौ युवाम् ॥ ३,३१.२० ॥ येषु क्षेत्रेषु कॢप्तानि घ्नन्त्या देव्या महासुरान् । नामानि नित्यानाम्नैव प्रथितानि न संशयः ॥ ३,३१.२१ ॥ सा हि नित्यास्वरूपेण कालव्याप्तिकरी परा । सर्वं कलयते देवी कलनाङ्कतया जगत् ॥ ३,३१.२२ ॥ नित्यानाच महाराज्ञी नित्या यत्र न तद्भिदा । अतस्तदीयनाम्ना तु सनामा प्रथिता पुरा ॥ ३,३१.२३ ॥ कामेश्वरीपुरी चैव भगमालापुरी तथा । नित्यक्लिन्नापुरीत्यादिनामानि प्रथितान्यलम् ॥ ३,३१.२४ ॥ अतो नामानि वर्णेन योग्ये पुण्यतमे दिने । महाशिल्पप्रकारेण पुरीं रचयतां शुभाम् ॥ ३,३१.२५ ॥ इति कारणकृत्येन्द्रैर्ब्रह्मविष्णुमहेश्वरैः । प्रोक्तौ तौ श्रीपुरीस्थेषु तेषु क्षेत्रेषु चक्रतुः ॥ ३,३१.२६ ॥ अथ श्रीपुरविस्तारं पुराधिष्ठातृदेवताः । कथयाम्यहमाधार्य लोपामुद्रापते शृणु ॥ ३,३१.२७ ॥ यो मेरुरखिलाधारस्तुङ्गश्चानन्तयोजनः । चतुर्दशजगच्चक्रसंप्रोतनिजविग्रहः ॥ ३,३१.२८ ॥ तस्य चत्वारि शृङ्गाणि शक्रनैरृतवायुषु । मध्यस्थलेषु जातानि प्रोच्छ्रायस्तेषु कथ्यते ॥ ३,३१.२९ ॥ पूर्वोक्तशृङ्गत्रितयं शतयोजनमुन्नतम् । शतयोजनविस्तारं तेषु लोकास्त्रयो मताः ॥ ३,३१.३० ॥ ब्रह्मलोको विष्णुलोकः शिवलोकस्तथैव च । एतेषां गृहविन्यासान्वक्ष्याम्यवसरान्तरे ॥ ३,३१.३१ ॥ मध्ये स्थितस्य शृङ्गस्य विस्तारं चोच्छ्रयं शृणु । चतुःशतं योजनानामुच्छ्रितं विस्तृतं तथा ॥ ३,३१.३२ ॥ तत्रैव शृङ्गे महति शिल्पिभ्यां श्रीपुरं कृतम् । चतुःशतं योजनानां विस्तृत कुम्भसंभव ॥ ३,३१.३३ ॥ तत्रायं प्रविभागस्ते प्रविविच्य प्रदर्श्यते । प्राकारः प्रथमः प्रोक्तः कालायसविनिर्मितः ॥ ३,३१.३४ ॥ षट्दशाधिकसाहस्रयोजनायतवेष्टनः । चतुर्दिक्षु द्वार्युतश्च चतुर्योजनमुच्छ्रितः ॥ ३,३१.३५ ॥ शालमूलपरीणाहो योजनायुतमब्धिप । शालाग्रस्य तु गव्यूतेर्नद्धवातायनं पृथक् ॥ ३,३१.३६ ॥ शालद्वारस्य चौन्नत्यमेकयोजनमाश्रितम् । द्वारेद्वारे कपाटे द्वे गव्यूत्यर्धप्रविस्तरे ॥ ३,३१.३७ ॥ एकयोजनमुन्नद्धे कालायस विनिर्मिते । उभयोरर्गला चेत्थमर्धक्रोशसमायता ॥ ३,३१.३८ ॥ एवं चतुर्षु द्वारेषु सदृशं परिकीर्तितम् । गोपुरस्य तु संस्थानं कथये कुंभसंभव ॥ ३,३१.३९ ॥ पूर्वोक्तस्य तु शालस्य मूले योजनसंमिते । पार्श्वद्वये योजने द्वे द्वे समादाय निर्मिते ॥ ३,३१.४० ॥ विस्तारमपि तावन्तं संप्राप्तं द्वारगर्भितम् । पार्श्वद्वयं योजने द्वे मध्ये शालस्य योजनम् ॥ ३,३१.४१ ॥ मेलयित्वा पञ्च मुने योजनानि प्रमाणतः । पार्श्वद्वयेन सार्धेन क्रोशयुग्मेन संयुतम् ॥ ३,३१.४२ ॥ मेलयित्वा पञ्चसंख्यायोजनान्यायतस्तथा । एवं प्राकारतस्तत्र गोपुरं रचितं मुने ॥ ३,३१.४३ ॥ तस्माद्गोपुरमूलस्य वेष्टो विंशतियोजनः । उपर्युपरि वेष्टस्य ह्रास एव प्रकीर्त्यते ॥ ३,३१.४४ ॥ गोपुरस्योन्नतिः प्रोक्तापञ्चविंशतियोजना । योजनेयोजने द्वारं सकपाटं मनोहरम् ॥ ३,३१.४५ ॥ भूमिकाश्चापि तावन्त्यो यथोर्ध्वं ह्राससंयुताः । गोपुराग्रस्य निस्तारो योजनं हि समाश्रितः ॥ ३,३१.४६ ॥ आयामोऽपि च तावान्वै तत्र त्रिमुकुटं स्मृतम् । मुकुटस्य तु विस्तारः क्रोशमानो घटोद्भव ॥ ३,३१.४७ ॥ क्रोशद्वयं समुन्नद्धं ह्रासं गोपुरवन्मुने । मुकुटस्यान्तरे क्षोणी क्रोशार्धेन च संमिता ॥ ३,३१.४८ ॥ मुकुटं पश्चिमे प्राच्यां दक्षिणे द्वारगोपुरे । दक्षोत्तरस्तु मुकुटाः पश्चिमद्वारगोपुरे ॥ ३,३१.४९ ॥ दक्षिणद्वारवत्प्रोक्ता उत्तरद्वाःकिरीटिकाः । पश्चिमद्वारवत्पूर्वद्वारे मुकुटकल्पना ॥ ३,३१.५० ॥ कालायसाख्यशालस्यान्तरे मारुतयोजने । अन्तरे कांस्यशालस्य पूर्ववद्गोपुरोऽन्वितः ॥ ३,३१.५१ ॥ शालमूलप्रमाणं च पूर्ववत्परिकीर्तितम् । कांस्यशालोऽपि पूर्वादिदिक्षु द्वारसमन्विन्तः ॥ ३,३१.५२ ॥ द्वारेद्वारे गोपुराणि पर्वलक्षणभाञ्जि च । कालायसस्य कांस्यस्य योंऽतर्देशः समन्ततः ॥ ३,३१.५३ ॥ नानावृक्षमहोद्यानं तत्प्रोक्तं कुम्भसंभव । उद्भिज्जाद्यं यावदस्ति तत्सर्वं तत्र वर्तते ॥ ३,३१.५४ ॥ परंसहस्रास्तरवः सदापुष्पाः सदाफलाः । सदापल्लवशोभाढ्याः सदा सौरभसंकुलाः ॥ ३,३१.५५ ॥ चूताः कङ्कोलका लोध्रा बकुलाः कर्णिकारकाः । शिंशपाश्च शिरीषाश्च देवदारुनमेरवः ॥ ३,३१.५६ ॥ पुन्नागा नागभद्राश्च मुचुकुन्दाश्च कट्फलाः । एलालवङ्गास्तक्कोलास्तथा कर्पूरशाखिनः ॥ ३,३१.५७ ॥ पीलवः काकतुण्ड्यश्च शालकाश्चासनास्तथा । काञ्चनाराश्च लकुचाः पनसा हिङ्गुलास्तथा ॥ ३,३१.५८ ॥ पाटलाश्च फलिन्यश्च जटिल्यो जघनेफलाः । गणिकाश्च कुरण्टाश्च बन्धुजीवाश्च दाडिमाः ॥ ३,३१.५९ ॥ अश्वकर्णा हस्तिकर्णाश्चांपेयाः कनकद्रुमाः । यूथिकास्तालपर्ण्यश्च तुलस्यश्च सदाफलाः ॥ ३,३१.६० ॥ तालास्तमालहिन्तालखर्जूराः शरबर्बुराः । इक्षवः क्षीरिणश्चैव श्लेष्मान्तकविभीतकाः ॥ ३,३१.६१ ॥ हरीत्क्यस्त्ववाक्पुष्प्यो घोण्टाल्यः स्वर्गपुष्पिकाः । भल्लातकाश्च खदिराः शाखोटाश्चन्दनद्रुमाः ॥ ३,३१.६२ ॥ कालागुरुद्रुमाः कालस्कन्धाश्चिञ्चा वदास्तथा । उदुंबरार्जुनाश्वत्थाः शमीवृक्षा ध्रुवाद्रुमाः ॥ ३,३१.६३ ॥ रुचकाः कुटजाः सप्तपर्णाश्च कृतमालकाः । कपित्थास्तिन्तिणी चैवेत्येवमाध्याः सहस्रशः ॥ ३,३१.६४ ॥ नानाऋतुसमाविष्टा देव्याः शृङ्गारहेतवः । नानावृक्षमहोत्सेधा वर्तन्ते वरशाखिनः ॥ ३,३१.६५ ॥ कांस्यशालस्यान्तरोले सप्तयोजनदूरतः । चतुरस्रस्ताम्रशालः सिंधुयोजनमुन्नतः ॥ ३,३१.६६ ॥ अनयोरन्तरक्षोणी प्रोक्ता कल्पकवाटिका । कर्पूरगन्धिभिश्चारुरत्नबीजसमन्वितैः ॥ ३,३१.६७ ॥ काञ्चनत्वक्सुरुचिरैः फलैस्तैः फलिता द्रुमाः । पीतांबराणि दिव्यानि प्रवालान्येव शाखिषु ॥ ३,३१.६८ ॥ अमृतं स्यान्मधुरसः पुष्पाणि च विभूषणम् । ईदृशा वहवस्तत्र कल्पवृक्षाः प्रकीर्तिताः ॥ ३,३१.६९ ॥ एषा कक्षा द्वितीया स्यान्कल्पवापीति नामतः । ताम्रशालस्यान्तराले नागशालः प्रकीर्तिताः ॥ ३,३१.७० ॥ अनयोरुभयोस्तिर्यगदेशः स्यात्सप्तयोजनः । तत्र संतानवाटी स्यान्कल्पवापीसमाकृतिः ॥ ३,३१.७१ ॥ तयोर्मध्ये मही प्रोक्ता हरिचन्दनवाटिका । कल्पवाटीसमाकारा फलपुष्पसमाकुला ॥ ३,३१.७२ ॥ एषु सर्वेषु शालेषु पूर्ववद्द्वारकल्पनम् । पूर्ववद्गोपुराणां च मुकुटानां च कल्पनम् ॥ ३,३१.७३ ॥ गोपुरद्वारकॢप्तं च द्वारे द्वारे च संमितिः । आरकूटस्यान्तराले सप्तयोजनदूरतः ॥ ३,३१.७४ ॥ पञ्चलोहमयः शालः पूर्वशालसमाकृतिः । तयोर्मध्ये मही प्रोक्ता मन्दारद्रुमवाटिका ॥ ३,३१.७५ ॥ पञ्चलोहस्यान्तराले सप्तयोजनदूरतः । रौप्यशालस्तु संप्रोक्तः पूर्वोक्तैर्लक्षणैर्युतः ॥ ३,३१.७६ ॥ तयोर्मध्यमही प्रोक्ता पारिजातद्रुवाटिका । दिव्यामोदसुसंपूर्णा फलपुष्पभरोज्ज्वला ॥ ३,३१.७७ ॥ रौप्यशालस्यान्तराले सप्तयोजनविस्तरः । हेमशालः प्रकथितः पूर्ववद्द्वारशोभितः ॥ ३,३१.७८ ॥ तयोर्मध्ये महीप्रोक्ता कदम्बतरुवाटिका । तत्र दिव्या नीपवृक्षा योजनद्वयमुन्नताः ॥ ३,३१.७९ ॥ सदैव मदिरास्पन्दा मेदुरप्रसवोज्ज्वलाः । येभ्यः कादंबरी नाम योगिनी भोगदायिनी ॥ ३,३१.८० ॥ विशिष्टा मदिरोद्याना मन्त्रिण्याः सततं प्रिया । ते नीपवृक्षाः सुच्छायाः पत्रलाः पल्लवाकुलाः । आमोदलोलभृङ्गालीझङ्कारैः पूरितोदराः ॥ ३,३१.८१ ॥ तत्रैव मन्त्रिणीनाथाया मन्दिरं सुमनोहरम् । कदंबवनवाट्यास्तु विदिक्षुज्वलनादितः ॥ ३,३१.८२ ॥ चत्वारि मन्दिराण्युच्चैः कल्पितान्यादिशिल्पिना । एकैकस्य तु गे७ य विस्तारः पञ्चयोजनः ॥ ३,३१.८३ ॥ पञ्चयोजनमायामः सप्तावरणतः स्थितिः । एवमन्यविदिक्षु स्युस्सर्वत्र प्रियकद्रुमाः । निवासनगरी सेयं श्यामायाः परिकीर्तिता ॥ ३,३१.८४ ॥ सेनार्थं नगरी त्वन्या महापद्माटवीस्थले । यदत्रैव गृह तस्या बहुयोजनदूरतः ॥ ३,३१.८५ ॥ श्रीदेव्या नित्यसेवा तु मत्रिण्या न घटिष्यते । अतश्चितामणिगृहोपान्तेऽपि भवनं कृतम् । तस्याः श्रीमन्त्रनाथायाः सुरत्वष्ट्रा मयेन च ॥ ३,३१.८६ ॥ श्रीपुरे मन्त्रेणी देव्या मन्दिरस्य गुणान्बहुन् । वर्णयिष्यति को नाम यो द्विजिह्वासहस्रवान् ॥ ३,३१.८७ ॥ कादंबरीमदाताम्रनयनाः कलवीणया । गायन्त्यस्तत्र खेलन्ति मान्यमातङ्गकन्यकाः ॥ ३,३१.८८ ॥ अगस्त्य उवाच मातङ्गो नाम कःप्रोक्तस्तस्य कन्याः कथं च ताः । सेवन्ते मन्त्रिणीनाथां सदा मधुमदालसाः ॥ ३,३१.८९ ॥ हयग्रीव उवाच मतङ्गो नाम तपसामेकराशिस्तपोधनः । महाप्रभावसंपन्नो जगत्सर्जनलंपटः ॥ ३,३१.९० ॥ तपः शक्त्यात्तधिया च सर्वत्राज्ञाप्रवर्त्तकः । तस्य पुत्रस्तु मातङ्गो मुद्रिणीं मन्त्रिनायिकाम् ॥ ३,३१.९१ ॥ . घोरैस्तपोभिरत्यर्थं पूरयामास धीरधीः । मतङ्गमुनिपुत्रेण सुचिरं समुपासिता ॥ ३,३१.९२ ॥ मन्त्रिणी कृतसान्निध्या वृणीष्व वरमित्यशात् । सोऽपिसर्वमुनिश्रेष्ठो मातङ्गस्तपसां निधिः । उवाच तां पुरो दत्तसान्निध्यां श्यामलांबिकाम् ॥ ३,३१.९३ ॥ मातङ्गमहामुनिरुवाच देवी त्वत्स्मृतिमात्रेण सर्वाश्च मम सिद्धयः । जाता एवाणिमाद्यास्ताः सर्वाश्चान्या विभूतयः ॥ ३,३१.९४ ॥ प्रापणीयन्न मे किञ्चिदस्त्यंबभुवनत्रये । सर्वतः प्राप्तकालस्य भवत्याश्चरितस्मृतेः ॥ ३,३१.९५ ॥ अथापि तव सांनिध्यमिदं नो निष्फलं भवेत् । एवं परं प्रार्थयेऽहं तं वरं पूरयांबिके ॥ ३,३१.९६ ॥ पूर्वं हिमवता सार्थं सौहार्दं परिहासवान् । क्रीडामत्तेन चावाच्यैस्तत्र तेन प्रगल्भितम् ॥ ३,३१.९७ ॥ अहङ्गौरीगुरुरिति श्लाघामात्मनि तेनिवान् । तद्वाक्यं मम नैवाभूद्यतस्तत्राधिको गुणः ॥ ३,३१.९८ ॥ उभयोर्गुणसाम्ये तु मित्रयोरधिके गुणे । एकस्य कारणाज्जाते तत्रान्यस्य स्पृहा भवेत् ॥ ३,३१.९९ ॥ गौरीगुरुत्वश्लाघार्थं प्राप्तकामोऽप्यहं तपः । कृतवान्मन्त्रिणीनाथे तत्त्वंमत्तनया भव ॥ ३,३१.१०० ॥ यतो मन्नामविख्याता भविष्यसि न संशयः । इत्युक्तं वचनं श्रुत्वा मातङ्गस्य महामुनेः । तथास्त्विति तिरोघत्स च प्रीतोऽभवन्मुनिः ॥ ३,३१.१०१ ॥ मातङ्गस्य महर्षेस्तु तस्य स्वप्ने तदा मुदा । तापिच्छमञ्जरीमेकां ददौ कर्णावतंसतः ॥ ३,३१.१०२ ॥ तत्स्वप्नस्य प्रभावेण मातङ्गस्य सधर्मिणी । नाम्ना सिद्धिमती गर्भे लघुश्यामामधारयत् ॥ ३,३१.१०३ ॥ तत एव समुत्पन्ना मातङ्गी तेन कीर्तिताः । लघुश्यामेति सा प्रोक्त श्यामा यन्मूलकन्दभूः ॥ ३,३१.१०४ ॥ मातङ्गकन्यका हृद्याः कोटीनामपि कोटिशः । लघुश्यामा महाश्यामामातङ्गी वृन्दसंयुताः । अङ्गशक्तित्वमापन्नाः सेवन्ते प्रियकप्रियाम् ॥ ३,३१.१०५ ॥ इति मातङ्गकन्यानामुत्पत्तिः कुंभसंभव । कथिताः सप्तकक्षाश्च शाला लोहादिनिर्मिताः ॥ ३,३१.१०६ ॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे ललितोपाख्याने हयग्रीवागस्त्यसंवादे सप्तकक्ष्या मतङ्गकन्याप्रादुर्भावो नामैकत्रिंशोऽध्यायः _____________________________________________________________ अगस्त्य उवाच लोहादिसप्तशालानां रक्षका एव संति वै । तन्नामकीर्तय प्राज्ञ येन मे संशयच्छिदा ॥ ३,३२.१ ॥ हयग्रीव उवाच नानावृक्षमहोद्याने वर्तते कुंभसंभव । महाकालः सर्वलोकभक्षकः श्यामविग्रहः ॥ ३,३२.२ ॥ श्यामकञ्चुकधारी च मदारुणविलोचनः । ब्रह्माण्डचषके पूर्णं पिबन्विश्वरसायनम् ॥ ३,३२.३ ॥ महाकालीं घनश्यामामनङ्गार्द्रामपाङ्गयन् । सिंहासने समासीनः कल्पान्ते कलनात्मके ॥ ३,३२.४ ॥ ललिताध्यानसंपन्नो ललितापूजनोत्सुकः । वितन्वंल्लरिताभक्तेः स्वायुषो दीर्घ दीर्घताम् । कालमृत्युप्रमुख्यैश्च किङ्करैरपि सेवितः ॥ ३,३२.५ ॥ महाकालीमहाकालौ ललिताज्ञाप्रवर्त्तकौ । विश्वं कलयतः कृत्स्नं प्रथमेऽध्वनि वासिनौ ॥ ३,३२.६ ॥ कालचक्रं मतङ्गस्य तस्यैवासनतां गताम् । चतुरावरणोपेतं मध्ये बिन्दुमनोहरम् ॥ ३,३२.७ ॥ त्रिकोणंपञ्चकोणं च षोडशच्छदपङ्कजम् । अष्टारपङ्कजं चैवं महाकालस्तु मध्यगः ॥ ३,३२.८ ॥ त्रिकोणे तु महाकाल्या महासंध्या महानिशा । एतास्तिस्रो महादेव्यो महाकालस्य शक्तयः ॥ ३,३२.९ ॥ तत्रैव पञ्चकोणाग्रे प्रत्यूषश्च पितृप्रसूः । प्राह्णापराह्णमध्याह्नाः पञ्च कालस्य शक्तयः ॥ ३,३२.१० ॥ अथ षोडशपत्राब्जे स्थिता शक्तीर्मुने शृणु । दिनमिश्रा तमिस्रा च ज्योत्स्नी चैव तु पक्षिणी ॥ ३,३२.११ ॥ प्रदोषा च निशीथा च प्रहरा पूर्णिमापि च । राका चानुमतिश्चैव तथैवामावस्यिका पुनः ॥ ३,३२.१२ ॥ सिनीवाली कुहूर्भद्रा उपरागा च षोडशी । एता षोडशमात्रस्थाः शक्तयः षोडश स्मृताः ॥ ३,३२.१३ ॥ कला काष्ठा निमेषाश्च क्षणाश्चैव लवास्त्रुटिः । मुहुर्ताः कुतपाहोरा शुक्लपक्षस्तथैव च ॥ ३,३२.१४ ॥ कृष्णपक्षायनाश्चैव विषुवा च त्रयोदशी । संवत्सरा च परिवत्सरेडावत्सरापि च ॥ ३,३२.१५ ॥ एताःषोडश पत्राब्जवासिन्यः शक्तयः स्मृताः । इद्वत्सरा ततश्चेन्दुवत्सरावत्सरेऽपि च ॥ ३,३२.१६ ॥ तिथिर्वारांश्च नक्षत्रं योगाश्च करणानि च । एतास्तु शक्तयो नागपत्रांभोरुहसंस्थिताः ॥ ३,३२.१७ ॥ कलिः कल्पा च कलना काली चेति चतुष्टयम् । द्वारपालकतां प्राप्तं कालच क्रस्य भास्वतः ॥ ३,३२.१८ ॥ एता महाकालदेव्यो मदप्रहसिताननाः । मदिरापूर्णचषकमशेषं चारुणप्रभम् । दधानाः श्यामलाकाराः सर्वाः कालस्य योषितः ॥ ३,३२.१९ ॥ ललितापूजनध्यानजपस्तोत्रपरायणाः । निषेवन्ते महाकालं कालचक्रासनस्थितम् ॥ ३,३२.२० ॥ अथ कल्पकवट्यास्तु रक्षकः कुम्भसंभव । वसन्तर्तुर्महातेजा ललिताप्रियकिङ्करः ॥ ३,३२.२१ ॥ पुष्पसिंहासनासीनः पुष्पमाध्वीमदारुणाः । पुष्पायुधः पुष्पभूषः पुष्पच्छत्रेण शोभितः ॥ ३,३२.२२ ॥ मधुश्रीर्माधवश्रीश्च द्वे देव्यौ तस्य दीव्यतः । प्रसूनमदिरामत्ते प्रसूनशरलालसे ॥ ३,३२.२३ ॥ सन्तानवाटिकापालो ग्रीष्मर्तुस्तीक्ष्णलोचनः । ललिताकिङ्करो नित्यं तस्यास्त्वाज्ञाप्रवर्तकः ॥ ३,३२.२४ ॥ शुक्र श्रीश्च शुचिश्रीश्च तस्य भार्ये उभे स्मृते । हरिचन्दनवाटी तु मुने वर्षर्तुना स्थिता ॥ ३,३२.२५ ॥ स वर्षर्न्तुर्महातेजा विद्युत्पङ्गललोचनः । वज्राट्टहासमुखरो मत्तजीमूतवाहनः ॥ ३,३२.२६ ॥ जीमूतकवचच्छन्नो मणिकार्मुकधारकः । ललितापूजनध्यानजपस्तोत्रपरायणः ॥ ३,३२.२७ ॥ वर्तते विन्ध्यमथन त्रैलोक्याह्लाददायकः । नभःश्रीश्च नभस्यश्रीः स्वरस्वारस्वमालिनी ॥ ३,३२.२८ ॥ अम्बा दुला निरलिश्चाभ्रयन्ती मेघयन्त्रिका । वर्षयन्ती चिबुणिका वारिधारा च शक्तयः ॥ ३,३२.२९ ॥ वर्षन्त्यो द्वादश प्रोक्ता मदारुणविलोचनाः । ताभिः समं स वर्षर्तुः शक्तिभिः परमेश्वरीम् ॥ ३,३२.३० ॥ सदैव संजपन्नास्ते निजोत्थैः पुष्पमण्डलैः । ललिताभक्तदेशांस्तु भूषयन्स्वस्य सम्पदा ॥ ३,३२.३१ ॥ तद्वैरिणां तु वसुधामनाबृष्ट्या निपीडयन् । वर्तते सततं देवीकिङ्करौ जलदागमः ॥ ३,३२.३२ ॥ मन्दारवाटिकायां तु सदा शरदृतुर्वसन् । तां कक्षां रक्षति श्रीमांल्लोकचित्तप्रसादनः ॥ ३,३२.३३ ॥ इषश्रीश्च तथोर्जश्रीस्तस्यर्तोः प्राणनायिके । ताब्यां संजह्रतुस्तोयं निजोत्थैः पुष्पमण्डलैः । अभ्यर्चयति साम्राज्ञीं श्रीकामेश्वरयोषितम् ॥ ३,३२.३४ ॥ हेमन्तर्तुर्महातेजा हिमशीतलविग्रहः । सदा प्रसन्नवदनो ललिताप्रियकिङ्करः ॥ ३,३२.३५ ॥ निजोत्थैः पुष्पसंभारैरर्चयन्परमेश्वरीम् । पारिजातस्य वाटीं तु रक्षति ज्वलनार्दनः ॥ ३,३२.३६ ॥ सहःश्रीश्च सहस्यश्रीस्तस्य द्वे योषिते शुभे । कदम्बवनवाट्यास्तु रक्षकः शिशिराकृतिः ॥ ३,३२.३७ ॥ शिशिरर्तुर्मुनिश्रेष्ठ वर्तते कुम्भसम्भव । सा कक्ष्या तेन सर्वत्र शीशिरीकृतभूतला ॥ ३,३२.३८ ॥ तद्वासिनी ततः श्यामा देवता शिशिराकृतिः । तपःश्रीश्च तपस्यश्रीस्तस्य द्वे योषिदुत्तमे । ताभ्यां सहार्चयत्यंबां ललितां विश्वपावनीम् ॥ ३,३२.३९ ॥ अगस्त्य उवाच गन्धर्ववदन श्रीमन्नानावृक्षादिसप्तकैः । प्रथमोद्यानपालस्तु महाकालो मया श्रितः ॥ ३,३२.४० ॥ चतुरावरणं चक्रं त्वया तस्य प्रकीर्तितम् । षण्णामृतूनामन्येषां कल्पकोद्यानवाटिषु । पालकत्वं श्रुतं त्वत्तश्चक्रदेव्यस्तु न श्रुताः ॥ ३,३२.४१ ॥ अत एव वसन्तादिचक्रावरणदेवताः । क्रमेण ब्रूहि भगवन्सर्वज्ञोऽसि यतो महान् ॥ ३,३२.४२ ॥ हयग्रीव उवाच आकर्णय मुनिश्रेष्ट तत्तच्चक्रस्थदेवताः ॥ ३,३२.४३ ॥ कालचक्रं पुरा प्रोक्तं वासन्तं चक्रमुच्यते । त्रिकोणं पञ्चकोणं च नागच्छदसरोरुहम् । षोडशारं सरोजं च दशारद्वितयं पुनः ॥ ३,३२.४४ ॥ चतुरस्रं च विज्ञेयं सप्तावरणसंयुतम् । तन्मध्ये बिन्दुचक्रस्थो वसन्तर्तुर्महाद्युति ॥ ३,३२.४५ ॥ तदेकद्वयसंलग्ने मधुश्रीमाधवश्रियौ । उभाभ्यां निजहस्ताभ्यामुभयोस्तनमेककम् ॥ ३,३२.४६ ॥ निपीडयन्स्वहस्तस्य युगलेन ससौरभम् । सपुष्पमदिरापूर्मचषकं पिशितं वहन् ॥ ३,३२.४७ ॥ एवमेव तु सर्वर्तुध्यानं विन्ध्यनिषूदन । वर्षर्तोस्तु पुनर्ध्याने शक्तिद्वितयमादिमम् । अङ्कस्थितं तु विज्ञेयं शक्तयोऽन्याः समीपगाः ॥ ३,३२.४८ ॥ अथ वासन्तचक्रस्थदेवीः शृणु वदाम्यम् । मधुशुक्लप्रथमिका मधुशुक्लद्वितीयिका ॥ ३,३२.४९ ॥ मधुशुक्लतृतीया च मधुशुक्लचतुर्थिका । मधुशुक्ला पञ्चमी च मधुशुक्ला च षष्ठिका ॥ ३,३२.५० ॥ मधुशुक्ला सप्तमी च मधुशुक्लाष्टमी पुनः । नवमी मधुशुक्ला च दशमी मधुशुक्लिका ॥ ३,३२.५१ ॥ मधुशुक्लैकादशी च द्वादशी मधुशुक्लतः । मधुशुक्लत्रयोदश्यां मधुशुक्ला चतुर्दशी ॥ ३,३२.५२ ॥ मधुशुक्ला पौर्णमासी प्रथमा मधुकृष्णिका । मधुकृष्णा द्वितीया च तृतीया मधुकृष्णिका ॥ ३,३२.५३ ॥ चतुर्थी मधुकृष्णा च मधुकृष्म च पञ्चमी । षष्टी तु मधुकृष्णा स्यात्सप्तमी मधुकृष्मतः ॥ ३,३२.५४ ॥ मधुकृष्णाष्टमी चैव नवमीमधुकृष्णतः । दशमी मधुकृष्णा च विन्ध्यदर्पनिषूदन ॥ ३,३२.५५ ॥ मधुकृष्णैकादशी तु द्वादशी मधुकृष्णतः । मधुकृष्णत्रयोदश्या मधुकृष्णचतुर्दशी ॥ ३,३२.५६ ॥ मध्वमा चेति विज्ञेयास्त्रिंशदेतास्तु शक्तयः । एवमेव प्रकारेण माधवाख्यो परिस्थिताः ॥ ३,३२.५७ ॥ शुक्लप्रतिपदाद्यास्तु शक्तयस्त्रिंशदन्यकाः । मिलित्वा षष्टिसंख्यास्तु ख्याता वासन्तशक्तयः ॥ ३,३२.५८ ॥ स्वैः स्वैर्मन्त्रैस्तत्र चक्रे पूजनीया विधानतः । वासन्तचक्रराजस्य सप्तावरणभूमयः ॥ ३,३२.५९ ॥ षष्टिः स्युर्दैवतास्तासु षष्टिभूमिषु संस्थिताः । विभज्य चार्चनीयाः स्युस्तत्तन्मन्त्रैस्तु साधकैः ॥ ३,३२.६० ॥ तथा वासन्तचक्रं स्यात्तथैवान्येषु च त्रिषु । देवतास्तु परं भिन्नाः शुक्रशुच्यादिभेदतः ॥ ३,३२.६१ ॥ शक्तयः षष्टिसंख्याता ग्रीष्मचक्रे महोदयाः । एवं वर्षादिके चक्रे भेदान्नभवभस्यजान् ॥ ३,३२.६२ ॥ षष्टि षष्टिसु शक्तीनां चक्रेचक्रे प्रतिष्ठिताः । ग्रन्थविस्तारभीत्या तु तत्संख्यानाद्विरम्यते ॥ ३,३२.६३ ॥ आर्तव्याः शक्तयस्त्वेता ललिताभक्त सौख्यदाः । ललितापूजनध्यानजपस्तोत्रपरायणाः ॥ ३,३२.६४ ॥ कल्पादिवाटिकाचक्रे सञ्चरन्त्यो मदालसाः । स्वस्वपुष्पोत्थमधुभिस्तर्पयन्त्यो महेश्वरीम् ॥ ३,३२.६५ ॥ मिलित्वा चैव संख्याताः षष्ट्युत्तरशतत्रयम् । एवं सप्तसु शालेषु पालिकाश्चक्रदेवताः ॥ ३,३२.६६ ॥ नामकीर्तनपूर्वं तु प्रोक्तस्तुभ्यं प्रपृच्छते । अन्येषामपि शालानामुपादानं तु पूरकम् । विस्तारं तत्र शक्तिं च कथयाम्यवधारय ॥ ३,३२.६७ ॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसम्वादे ललितोपाख्याने श्रीनगरत्रिपुरासप्तकक्षापालकदेवताप्रकाशन कथनं नाम द्वात्रिंशोऽध्यायः _____________________________________________________________ हयग्रीव उवाच कथितं सप्तशालानां लक्षणं शिल्पिभिः कृतम् । अथ रत्नमयाः शालाः प्रकीर्त्यन्तेऽवधारय ॥ ३,३३.१ ॥ सुवर्णमयशालस्य पुष्परागमयस्य च । सप्तयोजनमात्रं स्यान्मध्येन्तरमुदात्दृतम् ॥ ३,३३.२ ॥ तत्र सिद्धाःसिद्धनार्यः खेलन्ति मदविह्वलाः । रसै रसायनैश्चापि खड्गैः पादाञ्जनैरपि ॥ ३,३३.३ ॥ ललितायां भक्तियुक्तास्तर्पयन्तो महाजनान् । वसंति विविधास्तत्र पिबन्ति मदिरारसान् ॥ ३,३३.४ ॥ पुष्परागादिशालानां पूर्ववद्द्वारकॢप्तयः । पुष्परागादिशालेषु कवाटार्गलगोपुरम् । पुष्परागादिजं ज्ञेयमुच्चेन्द्वादित्यभास्वरम् ॥ ३,३३.५ ॥ हेमप्राकारचक्रस्य पुष्परागमयस्य च । अन्तरे या स्वली सापि पुष्परागमयी स्मृता ॥ ३,३३.६ ॥ वक्ष्यमाणमहाशालाकक्षासु निखिलास्वपि । तद्वर्णाः पक्षिणस्तत्र तद्वर्णानि सरांसि च ॥ ३,३३.७ ॥ तद्वर्मसलिला नद्यस्तद्वर्णाश्च मणिद्रुमाः । सिद्धजातिषु ये देवीमुपास्य विविधैः क्रमै । त्यक्तवन्तो वपुः पूर्वं ते सिद्धास्तत्र सांगनाः ॥ ३,३३.८ ॥ ललितामन्त्रजप्तारो ललिताक्रमतत्पराः । ते सर्वे ललितादेव्या नामकीर्तनकारिणः ॥ ३,३३.९ ॥ पुष्परागमहाशालान्तरे मारुतयोजने । पद्मरागमयः शालश्चतुरस्रः समन्ततः ॥ ३,३३.१० ॥ स्थली च पद्मरागढ्या गोपुराद्यं च तन्मयम् । तत्र चारणदेशस्थाः पूर्वदेहविनाशतः । सिद्धिं प्राप्ता महाराज्ञीचरमाम्भोजसेवकाः ॥ ३,३३.११ ॥ चारणीनां स्त्रियश्चापि चार्वङ्ग्यो मदलालसाः । गायन्ति ललितादेव्या गीतिबन्धान्मुहुर्मुहुः ॥ ३,३३.१२ ॥ तत्रैव कल्पवृक्षाणां मध्यस्थवेदिकास्थिताः । भर्तृभिः सहचारिण्यः पिबन्ति मधुरं मधु ॥ ३,३३.१३ ॥ पद्मरागमहाशालान्तरे मरुतयोजने । गोमेदकमहाशालः पूर्वशालासमाकृतिः । अतितुङ्गो हीरशालस्तयोर्मध्ये च हीरभूः ॥ ३,३३.१४ ॥ तत्र देवीं समभ्यर्च्य पूर्वजन्मनि कुम्भज । वसन्त्यप्सरसां वृन्दैः साकं गन्धर्वपुङ्गवाः ॥ ३,३३.१५ ॥ महाराज्ञीगुणगणान्गायन्तो वल्लकीस्वनैः । कामभोजैकरसिकाः कामसन्निभविग्रहाः । सुकुमारप्रकृतयः श्रीदेवीभक्तिशालिनः ॥ ३,३३.१६ ॥ गोमेदकस्य शालस्तुपूर्वशालसमाकृतिः । तदन्तरे योगिनीनां भैरवाणां च कोटयः । कालसङ्कर्षणीमंबां सेवन्ते तत्र भक्तितः ॥ ३,३३.१७ ॥ गोमेदकमहाशालान्तरे मारुतयोजने । उर्वशी मेनका चैव रम्भा चालंबुषा तथा ॥ ३,३३.१८ ॥ मञ्जुघोषा सुकेशी च पूर्वचित्तिर्घृताचिका । कृतस्थला च विश्वाची पुञ्जिकस्थलया सह ॥ ३,३३.१९ ॥ तिलोत्तमेति देवानां वेश्या एतादृशोऽपराः । गन्धर्वैः सह नव्यानि कल्पवृक्षम धूनि च ॥ ३,३३.२० ॥ पिबन्त्यो ललितादेवीं ध्यायन्त्यश्च मुहुर्मुहुः । स्वसौभाग्यविवृद्ध्यर्थं गुणयन्त्यश्च तन्मनुम् ॥ ३,३३.२१ ॥ चतुर्दशसुचोत्पन्ना स्थानेष्वप्सरसोऽखिलाः । तत्रैव देवीमर्चन्त्यो वसंति मुदिताशयाः ॥ ३,३३.२२ ॥ अगस्त्य उवाच चतुर्दशापि जन्मानि तासामप्सरसां विभो । कीर्तय त्वं महाप्राज्ञ सर्वविद्यामहानिधे ॥ ३,३३.२३ ॥ हयग्रीव उवाच ब्राह्मणो हृदयं कामो मृत्युरुर्वी च मारुतः । तपनस्य कराश्चन्द्रकरो वेदाश्च पावकः ॥ ३,३३.२४ ॥ सौदामिनी च पीयूषं दक्षकन्या जलं तथा । जन्मनः कारणान्येतान्या मनन्ति मनीषिणः ॥ ३,३३.२५ ॥ गीर्वाणगण्यनारीणां स्फुरत्सौभाग्यसंपदाम् । एताः समस्ता गन्धर्वैः सार्धमर्चन्ति चक्रिणीम् ॥ ३,३३.२६ ॥ किन्नराः सह नारीभिस्तथा किंपुरुषा मुने । स्त्रीभिः सह मदोन्मत्ता हीरकस्थलमाश्रिताः ॥ ३,३३.२७ ॥ महाराज्ञीमन्त्रजापैर्विधूताशेष कल्मषाः । नृत्यन्तश्चैव गायन्तो वर्तन्ते कुंभसंभव ॥ ३,३३.२८ ॥ तत्रैव हीरकक्षोण्यां वज्रा नाम नदी मुने । वज्रकारैर्निबिडिता भासमाना तटद्रुमैः ॥ ३,३३.२९ ॥ वज्ररत्नैकसिकता वज्रद्रवमयोदका । सदा वहति सा सिंधुः परितस्तत्र पावनी ॥ ३,३३.३० ॥ ललितापरमेशान्यां भक्त ये मानवोत्तमाः । ते तस्या उदकं पीत्वा वज्ररूपकलेवराः । दीर्घायुषश्च नीरोगा भवन्ति कलशोद्भव ॥ ३,३३.३१ ॥ भण्डासुरेण गलिते मुक्ते वज्रे शतक्रतुः । तरयास्तीरे तपस्तेपे वज्रेशीं प्रति भक्तिमान् ॥ ३,३३.३२ ॥ तज्जलादुदिता देवी वज्रं दत्त्वा बलद्विषे । पुनरन्तर्दधेसोऽपि कृतार्थःस्वर्गमेयिवान् ॥ ३,३३.३३ ॥ अथ वज्राख्यशालस्यान्तरे मारुतयोजने । वैदूर्यशाल उत्तुङ्गः पूर्ववद्गोपुरान्वितः । स्थाली च तत्र वैदृर्यनिर्मिता भास्वराकृतिः ॥ ३,३३.३४ ॥ पातालवासिनो येये श्रीदेव्यर्चनसाधकाः । ते सिद्धमूर्तयस्तत्र वसन्ति सुखमेदुराः ॥ ३,३३.३५ ॥ शेषकर्केटकमहापद्मवासुकिशङ्खकाः । तक्षकः शङ्खचूडश्च महादन्तो महाफणः ॥ ३,३३.३६ ॥ इत्येवमादयस्तत्र नागा नागास्त्रयोऽपि च । बलीन्द्रप्रमुखानां च दैत्यानां धर्मवर्तिनाम् । गणस्तत्र तथा नागैः सार्धं वसति सांगनाः ॥ ३,३३.३७ ॥ ललितामन्त्र जप्तारो ललिताशास्त्रदीक्षिताः । ललितापूजका नित्यं वसन्त्यसुरभोगिनः ॥ ३,३३.३८ ॥ तत्र वैदूर्यकक्षायां नद्यः शिशिरपाथसः । सरांसिविमलांभांसि सारसालङ्कृतानि च ॥ ३,३३.३९ ॥ भवनानि तु दिव्यानि वैदूर्यमणिमन्ति च । तेषु क्रीडन्ति ते नागा असुराश्च सहाङ्गनाः ॥ ३,३३.४० ॥ वैदूर्याख्यमहाशालान्तरे मारुतयोजने । इन्द्रनीलमयः शालश्चक्रवाल इवापरः ॥ ३,३३.४१ ॥ तन्मध्यकक्षाभूमिश्च नीलरत्नमयी मुने । तत्र नद्यश्च मधुराः सरांसि शिशिराणि च । नानाविधानि भोग्यानि वस्तूनि सरसान्यपि ॥ ३,३३.४२ ॥ ये भूलोकगता मर्त्या ललितामन्त्रसाधकाः । ते देहान्ते शक्रनीलकक्ष्यां प्राप्य वसंति वै ॥ ३,३३.४३ ॥ तत्र दिव्यानि वस्तूनि भुञ्जाना वनितासखाः । पिबन्तो मधुरं मद्यं नृत्यन्तो भक्तिनिर्भराः ॥ ३,३३.४४ ॥ सरस्सु तेषु सिंधूनां कुलेषु कलशोद्भव । लतागृहेषु रम्येषु मन्दिरेषु महर्द्धिषु ॥ ३,३३.४५ ॥ सदा जपन्तः श्रीदेवी पठन्तश्चापि तद्गुणान् । निवसंति महाभागा नारीभिः परिवेष्टिताः ॥ ३,३३.४६ ॥ कर्मक्षये पुनर्यान्ति भूलोके मानुषीं तनुम् । पूर्ववासनया युक्ताः पुनरर्चन्ति चक्रिणीम् । पुनर्यान्ति श्रीनगरे शक्रनीलमहास्थलीम् ॥ ३,३३.४७ ॥ तत्स्थलस्यैव संपर्काद्रागद्वेषसमुद्भवैः । नीलैर्भावैः सदा युक्ता वर्तन्ते मनुजा मुने ॥ ३,३३.४८ ॥ ये पुनर्ज्ञानिनो मर्त्या निर्द्वन्द्वा नियतेन्द्रियाः । ते मुने विस्मयाविष्टाः संविशन्ति महेश्वरीम् ॥ ३,३३.४९ ॥ इन्द्रनीलाख्यशालस्यान्तरे मारुतयोजने । मुक्ताफलमयःशालः पूर्ववद्गोपुरान्वितः ॥ ३,३३.५० ॥ अत्यन्तभास्वरा स्वच्छा तयोर्मध्ये स्थली मुने । सर्वापि मुक्ताखचिताः शिशिरातिमनोहराः ॥ ३,३३.५१ ॥ ताम्रपर्णी महापर्णी सदा मुक्ताफलोदका । एवमाद्या महानद्यः प्रवरन्ति महास्थले ॥ ३,३३.५२ ॥ तासां तीरेषु सर्वेऽपि देवलोकनिवासिनः । वसंति पूर्वजनुषि श्रीदेवीमन्त्रसाधकाः ॥ ३,३३.५३ ॥ पूर्वाद्यष्टसु भागेषु लोकाः शक्रादिगोचराः । मुक्ताशालस्य परितः संयुज्य द्वारदेशकान् ॥ ३,३३.५४ ॥ मुक्ताशालस्य नीलस्य द्वारयोर्मध्यदेशतः । पूर्वभागे शक्रलोकस्तत्कोणे वह्निलोकभूः ॥ ३,३३.५५ ॥ याम्यभागे यमपुरं तत्र दण्डधरः प्रभुः । सर्वत्र ललितामन्त्रजापी तीव्रस्वभाववान् ॥ ३,३३.५६ ॥ आज्ञाधरो यमभटैश्चित्रगुप्तपुरोगमैः । सार्धं नियमयत्येव श्रीदेवीसमयं गुहः ॥ ३,३३.५७ ॥ गुहशप्तान्दुराचाराल्लंलिताद्वेषकारिणः । कूडभक्तिपरान्मूर्खांस्तब्धानत्यन्तदर्पितान् ॥ ३,३३.५८ ॥ मन्त्रचोरान्कुमन्त्रांश्च कुविद्यानघसंश्रयान् । नास्तिकान्पापशीलांश्च वृथैव प्राणिहिंसकान् ॥ ३,३३.५९ ॥ स्त्रीद्विष्टांल्लोकविद्विष्टान्पाषण्डानां हि पालिनः । कालसूत्रे रौरवे च कुम्भीपाके च कुम्भज ॥ ३,३३.६० ॥ असिपत्रवने घोरे कृमिभक्षे प्रतापने । लालाक्षेपे सूचिवेधे तथैवाङ्गारपातने ॥ ३,३३.६१ ॥ एवमादिषु कष्टेषु नरकेषु घटोद्भव । पातयत्याज्ञया तस्याः श्रीदेव्याः स महौजसः ॥ ३,३३.६२ ॥ तस्यैव पश्चिमे भागे निरृतिः खड्गधारकः । राक्षसं लोकमाश्रित्य वर्तते ललितार्चकः ॥ ३,३३.६३ ॥ तस्य चोत्तरभागे तु द्वारयोरन्तस्यले । वारुणं लोकमाश्रित्य वरुणे वर्तते सदा ॥ ३,३३.६४ ॥ वारुण्यास्वादनोन्मत्तः शुभ्राङ्गो झषवाहनः । सदा श्रीदेवतामं त्रजापी श्रीक्रमसाधकः ॥ ३,३३.६५ ॥ श्रीदेवतादर्शनस्य द्वेषिणः पाशबन्धनैः । बद्ध्वा नयत्यधोमार्गं भक्तानां बन्धमोचकः ॥ ३,३३.६६ ॥ तस्य चोत्तरकोणेषु वायुलोको महाद्युतिः । तत्र वायुशरीराश्च सदानन्दमहोदयाः ॥ ३,३३.६७ ॥ सिद्धा दिव्यर्षयश्चैव पवनाभ्यासिनोऽपरे । गोरक्षप्रमुखाश्चान्ये योगिनो योगतत्पराः ॥ ३,३३.६८ ॥ एतैः सह महासत्त्वक्तत्र श्रीमारुतेश्वरः । सर्वथा भिन्नमूर्तिश्च वर्तते कुम्भसम्भव ॥ ३,३३.६९ ॥ इडा च पिङ्गला चैव सुषुम्णा तस्य शक्तयः । तिस्रो मारुतनाथस्य सदा मधुमदालसाः ॥ ३,३३.७० ॥ ध्वजहस्तो मृगवरे वाहने महति स्थितः । ललितायजनध्यानक्रमपूजनतत्परः ॥ ३,३३.७१ ॥ आनन्दपूरिताङ्गीभिरन्याभिः शक्तिभिर्वृतः । स मारुतेश्वरः श्रीमान्सदा जपति चक्रिणीम् ॥ ३,३३.७२ ॥ तेन सत्त्वेन कल्पान्ते त्रैलोक्यं सचराचरम् । परागमयतां नीत्वा विनोदयति तत्क्षणात् ॥ ३,३३.७३ ॥ तस्य सत्त्वस्य सिद्ध्यर्थं तामेव ललितेश्वरीम् । पूजयन्भावयन्नास्ते सर्वाभरणभूषितः ॥ ३,३३.७४ ॥ तल्लोकपूर्वभागस्थे यक्षलोके महाद्युतिः । यक्षेन्द्रो वसति श्रीमांस्तद्द्वारद्वन्द्वमध्यगः ॥ ३,३३.७५ ॥ निधिभिश्च नवाकारैरृद्धिवृद्ध्यादिशक्तिभिः । सहितो ललिताभक्तान्पूरयन्धनसम्पदा ॥ ३,३३.७६ ॥ यक्षीभिश्च मनोज्ञाभिरनुकूलप्रवृत्तिभिः । विविधैर्मधुभेदैश्च सम्पूजयति चक्रिणीम् ॥ ३,३३.७७ ॥ मणिभद्रः पूर्णभद्रो मणिमान्माणिकन्धरः । इत्येवमादयो यक्षसेनान्यस्तत्र संति वै ॥ ३,३३.७८ ॥ तल्लोकपूर्वभागे तु रुद्रलोको महोदयः । अनर्ध्यरत्नखचितस्तत्र रुद्रोऽधिदेवता ॥ ३,३३.७९ ॥ सदैव मन्युना दीप्तः सदा बद्धमहेषुधिः । स्वसमानैर्महासत्त्वैलोङ्कनिर्वाहदक्षिणैः ॥ ३,३३.८० ॥ अधिज्यकार्मुकैर्दक्षैः षोडशावरणस्थितैः । आवृतः सततं वक्त्रैर्जपञ्छीदेवतामनुम् ॥ ३,३३.८१ ॥ श्रीदेवीध्यानसम्पन्नः श्रीदेवीपूजनोत्सुकः । अनेककोटिरुद्राणीगणमण्डितपार्श्वभूः ॥ ३,३३.८२ ॥ ताश्च सर्वाः प्रदीप्ताङ्ग्यो नवयौवनगर्विताः । ललिताध्याननिरनाः सदासवमदालसाः ॥ ३,३३.८३ ॥ ताभिश्च साकं स श्रीमान्महारुद्रस्त्रिशूलभृत् । हिरण्यबाहुप्रमुशै रुद्रैरन्यैर्निषेवितः ॥ ३,३३.८४ ॥ ललितादर्शनभ्रष्टानुद्धतान्गुरुधिक्कृतान् । शूलकोट्या विनिर्भिद्य नेत्रोत्थैः कटुपावकैः ॥ ३,३३.८५ ॥ दहंस्तेषा वधूभृत्यान्प्रजाश्चैव विनाशयन् । आज्ञाधरो महावीरो ललिताज्ञाप्रपालकः ॥ ३,३३.८६ ॥ रुद्रलोकेऽतिरुचिरे वर्तते कुम्भसम्भव । महारुद्रस्य तस्यर्षे परिवाराः प्रमाथिनः ॥ ३,३३.८७ ॥ ये रुद्रास्तानसंख्यातान्को वा वक्तुं पटुर्भवेत् । ये रुद्रा अधिभूम्यां तु सहस्राणां सहस्रशः ॥ ३,३३.८८ ॥ दिवियेऽपि च वर्तन्ते सहस्राणां सहस्रशः । येषामन्नमिषश्चव येषां वातास्तथेषवः ॥ ३,३३.८९ ॥ येषां च वर्षमिषवः प्रदीप्ताः पिङ्गलेक्षणाः । अर्णवे चान्तरिक्षे च वर्तमाना महौजसः ॥ ३,३३.९० ॥ जटावन्तो मधुष्मन्तो नीलग्रीवा विलोहिताः । ये भूतानामधिभुवो विशिखासः कपर्दिनः ॥ ३,३३.९१ ॥ ये अन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् । ये पथां रथका रुद्रा ये च तीर्थनिवासिनः ॥ ३,३३.९२ ॥ सहस्रसंख्या ये चान्ये सृकावन्तो निषङ्गिणः । ललिताज्ञाप्रणेतारो दिशो रुद्रा वितस्थिरे ॥ ३,३३.९३ ॥ ते सर्वे सुमहात्मानः क्षणाद्विश्वत्रयीवहाः । श्रीदेव्या ध्याननिषणाताञ्छ्रीदेवीमन्त्रजापिनः ॥ ३,३३.९४ ॥ श्रीदेवतायां भक्ताश्च पालयन्ति कृपालवः । षोडशावरणं चक्रं मुक्ताप्राकारमण्डले ॥ ३,३३.९५ ॥ आश्रित्य रुद्रास्ते सर्वे महारुद्रं महोदयम् । हिरण्यबाहुप्रमुखा ज्वलन्मन्युमुपासते ॥ ३,३३.९६ ॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने पुष्परागप्रकारादिभुक्ताकरान्तसप्तकक्षान्तरकथनं नाम त्रयस्त्रिंशोऽध्यायः _____________________________________________________________ अगस्त्य उवाच षोडशावरणं चक्रं किं तद्रुद्राधिदैवतम् । तत्र स्थिताश्च रुद्राः के केन नाम्ना प्रकीर्तिताः ॥ ३,३४.१ ॥ केष्वावरणबिंबेषु किन्नामानो वसंति ते । यौगिकं रौढिकं नाम तेषां ब्रूहि कृपानिधे ॥ ३,३४.२ ॥ हयग्रीव उवाच तत्र रुद्रा लयः प्रोक्तो मुक्ताजालकनिर्मितः । पञ्चयोजनविस्तारस्तत्संख्यायामशोभितः ॥ ३,३४.३ ॥ षोडशावरणैर्युक्तो मध्यपीठमनोहरः । मध्यपीठे महारुद्रो ज्वलन्मन्युस्त्रिलोचनः ॥ ३,३४.४ ॥ सच्चकार्मुकहस्तश्च सर्वदा वर्तते मुने । त्रिकोणे कथिता रुद्रास्त्रय एव घटोद्भव ॥ ३,३४.५ ॥ हिरण्य बाहुः सेनानीर्दिशांपतिरथापरः ॥ ३,३४.६ ॥ वृक्षाश्च हरिकेशाश्च तथा पशुपतिः परः । शष्पिञ्जरस्त्विषीमांश्च पथीनां पतिरेव च ॥ ३,३४.७ ॥ एते षट्कोणगाः किं च बभ्रुशास्त्वष्टकोणके । विव्याध्यन्नपतिश्चैव हरिकेशोपवीतिनौ ॥ ३,३४.८ ॥ पुष्टानां पतिरप्यन्यो भवो हेतिस्तथैव च । दशापत्रे त्वावरणे प्रथमो जगतां पतिः ॥ ३,३४.९ ॥ रुद्रातताविनौ क्षेत्रपतिः सूतस्तथापरः । अहं त्वन्यो वनपती रोहितः स्थपतिस्तथा ॥ ३,३४.१० ॥ वृक्षाणां पतिरप्यन्यश्चैते सज्जशरासनाः । मन्त्री च वाणिजश्चैव तथा कक्षपतिः परः ॥ ३,३४.११ ॥ भवन्तिस्तु चतुर्थः स्यात्पञ्चमो वारिवस्ततः । ओषधीनां पतिश्चैव षष्ठः कलशसंभव ॥ ३,३४.१२ ॥ उच्चैर्घोषाक्रन्दयन्तौ पतीनां च पतिस्तथा । कृत्स्नवीतश्च धावंश्च सत्त्वानां पतिरेव च ॥ ३,३४.१३ ॥ एते द्वादश पत्रस्थाः पञ्चमावरणस्थिताः । सहमानश्च निर्व्याधिरव्याधीनां पतिस्तथा ॥ ३,३४.१४ ॥ ककुभश्च निषङ्गी च स्तेनानां च पतिस्तथा । निचेरुश्चेति विज्ञेयाः षष्ठावरणदेवताः ॥ ३,३४.१५ ॥ अधः परिचरोऽरण्यः पतिः किं च सृकाविषः । जिघांसंतो मुष्णतां च पतयः कुंभसंभव ॥ ३,३४.१६ ॥ असीमन्तश्च सुप्राज्ञस्तथा नक्तञ्चरो मुने । प्रकृतीनां पतिश्चैव उष्णीषी च गिरेश्चरः ॥ ३,३४.१७ ॥ कुलुञ्चानां पतिश्चैवेषुमन्तः कलशोद्भव । धन्वाविदश्चातन्वानप्रतिपूर्वदधानकाः ॥ ३,३४.१८ ॥ आयच्छतः षोडशैते षोडशारनिवासिनः । विसृजन्तस्तथास्यन्तो विध्यन्तश्चापि सिंधुप ॥ ३,३४.१९ ॥ आसीनाश्च शयानाश्च यन्तो जाग्रत एव च । तिष्ठन्तश्चैव धावन्तः सभ्याश्चैव समाधिपाः ॥ ३,३४.२० ॥ अश्वाश्चैवाश्वपतय अव्याधिन्यस्तथैव च । विविध्यन्तो गणाध्यक्षा बृहन्तो विन्ध्यमर्द्दन ॥ ३,३४.२१ ॥ गृत्सश्चाष्टादशविधा देवता अष्टमावृतौ । अथ गृत्साधिपतयो व्राता व्राताधिपास्तथा ॥ ३,३४.२२ ॥ गणाश्च गणपाश्चैव विश्वरुपा विरूपकाः । महान्तः क्षुल्लकाश्चैव रथिनश्चारथाः परे ॥ ३,३४.२३ ॥ रथाश्च रथपत्त्याख्याः सेनाः सेनान्य एव च । क्षत्तारः संग्रही तारस्तक्षाणो रथकारकाः ॥ ३,३४.२४ ॥ कुलालश्चेति रुद्रास्ते नवमावृतिदेवताः । कर्माराश्चैव पुञ्जिष्ठा निषादाश्चेषुकृद्गणाः ॥ ३,३४.२५ ॥ धन्वकारा मृगयवः श्वनयः श्वान एव च । अश्वाश्चैवश्वपतयो भवो रुद्रो घटोद्भव ॥ ३,३४.२६ ॥ शर्वः पशुपतिर्नीलग्रीवश्च शितिकण्ठकः । कपर्दी व्युप्तकेशश्च सहस्रक्षस्तथापरः ॥ ३,३४.२७ ॥ शतधन्वा च गिरिशः शिपिविष्टश्च कुंभज । मीढुष्टम इति प्रोक्ता रुद्रा दशमशालगाः ॥ ३,३४.२८ ॥ अथैकादशचक्रस्था इषुमद्ध्रस्ववामनाः । बृहंश्च वर्षीयां श्चैव वृद्धः समृद्धिना सह ॥ ३,३४.२९ ॥ अग्र्यः प्रथम आशुश्चाजिरोन्यः शीघ्रशिभ्यकौ । उर्म्यावस्वन्यरुद्रौ च स्रोतस्यो दिव्य एव च ॥ ३,३४.३० ॥ ज्येष्ठश्चैव कनिष्ठश्च पूर्वजावरजौ तथा । मध्यमश्चावगम्यश्च जघन्यश्च घटोद्भव ॥ ३,३४.३१ ॥ चतुर्विंशतिराख्याता एते रुद्रा महाबलाः । अथ बुध्न्यः सोम्यरुद्रः प्रतिसर्पकयाम्यकौ ॥ ३,३४.३२ ॥ क्षेम्योवोचवखल्यश्च ततः श्लोक्यावसान्यकौ । वन्यः कक्ष्यः श्रवश्चैव ततोऽन्यस्तु प्रतिश्रवः ॥ ३,३४.३३ ॥ आशुषेणश्चाशुरथः शूरश्च तपसां निधे । अवभिन्दश्च वर्मी च वरूथी बिल्मिना सह ॥ ३,३४.३४ ॥ कवची च श्रुतश्चैव सेनो दुन्दुभ्य एव च । आहनन्यश्च धृष्णुश्च ते च षड्विंशतिः स्मृताः । द्वादशावरणस्थास्ते महाकाया महाबलाः ॥ ३,३४.३५ ॥ प्रभृशाश्चैव दूताश्च प्रहिताश्च निपङ्गिणः । अन्यस्त्विषुधिमानन्यस्तक्ष्णेषुश्च तथा युधि ॥ ३,३४.३६ ॥ स्वायुधश्च सुधन्वा च स्तुत्यः पथ्यश्च कुंभज । काप्यो नाढ्यस्तथा सूधः सरस्यो विन्ध्यमर्दन ॥ ३,३४.३७ ॥ ततश्चान्यो नाधमानो वेशन्तः कुप्य एव च । अवधवर्ष्योऽवर्ष्यश्च मेध्यो विद्युत्य एव च ॥ ३,३४.३८ ॥ इध्र्यातप्यौ तथा वात्यौ रेष्म्यश्चैव तथापरः । वास्तव्यो वास्तुपश्चैव सोमश्चेति महाबलाः ॥ ३,३४.३९ ॥ त्रयोदशावरणगाञ्छृणु रुद्रांश्च तान्मुने । रुद्रस्ताम्रारुणः शङ्गस्तथा पशुपतिर्मुने ॥ ३,३४.४० ॥ उग्रो भीमस्तथैवाग्रेवधदूरेवधावपि । हन्ता चैव हनीयांश्च वृषश्च हरिकेशकः ॥ ३,३४.४१ ॥ तारः शंभुर्मयोभूश्च शङ्करश्च मयस्करः । शिवः शिवतरश्चैव तीर्थ्यः कुल्यस्तथैव च । पार्योऽपार्यः प्रतरणस्तथा चोत्तरणो मुने ॥ ३,३४.४२ ॥ आतर्यश्च तथा लभ्यः षष्ठः फेन्यस्तथैव च । चतुर्दशावरणके कथिता रुद्रदेवताः ॥ ३,३४.४३ ॥ सिकत्यश्च प्रवाह्यश्च तथेरिण्यस्तपोनिधे । प्रपथ्यः किंशिलश्चैव क्षयणस्तदनन्तरम् ॥ ३,३४.४४ ॥ कपर्दी च पुलस्त्यंश्च गोष्ठ्यो गृह्यस्तथैव च । तल्पयो गेह्य स्तथा काट्यो गह्वरेष्ठोरुदीपकः ॥ ३,३४.४५ ॥ निवेष्ट्यश्चापि पान्तव्यो रथन्यः शुक्य एव च । हरीत्यलोथा लोप्याश्च उर्य्यसूर्म्यै तथा मुने ॥ ३,३४.४६ ॥ पयेयश्च पर्णशश्च तथा वगुरमाणकः । अभिघ्ननाशिदुश्चैव प्रखिदन किरिकास्तथा ॥ ३,३४.४७ ॥ देवानां हृदयश्चैव द्वात्रिंशद्रुद्रदेवताः । वर्तते सायुधाः प्राज्ञ नित्यं पञ्चादशावृतौ ॥ ३,३४.४८ ॥ षोडशे त्वावरणके पूर्वादिद्वारवर्तिनः । विक्षिणत्काविचिन्वत्कास्तथा निर्हतनामकाः ॥ ३,३४.४९ ॥ आमीवक्ताश्च निष्टप्ता महारुद्रमुपासते । इति षोडशशालेषु स्थितै रुद्रैः सहस्रशः ॥ ३,३४.५० ॥ सेवितस्तु महारुद्रो ललिताज्ञाप्रवर्तकः । वर्तते जगतामृद्ध्यै मुक्ताशालेशकोणके ॥ ३,३४.५१ ॥ शतरुद्रियसंख्याता एते रुद्रा महाबलाः । ललिताभक्तिमम्पन्नान्पालयन्ति दिवानिशम् । अभक्तांल्लरितादेव्याः प्रत्यूहैर्योजयन्त्यमी ॥ ३,३४.५२ ॥ इत्थं शक्रादिदिक्पाला सुक्ताशालं समाश्रिताः । ललितापरमेश्वर्याः सेवामेव वितन्वते ॥ ३,३४.५३ ॥ अथ मुक्ताख्यशालस्यान्तरे मारुतयोजने । शालोमारकताभिख्यश्चतुर्योजनमुच्छ्रितः ॥ ३,३४.५४ ॥ पूर्ववद्गोपुरादीना संस्थानैश्च सुशोभितः । तत्र श्रीदण्डनाथाया दहनादिविदिग्गताः ॥ ३,३४.५५ ॥ चत्वारो निलयाः प्रोक्ता मन्त्रिणीगृहविस्तराः । गीतिचक्ररथेन्द्रस्य याः पर्वाणि समाश्रिताः ॥ ३,३४.५६ ॥ भण्डासुरमहायुद्धे ता देव्यस्तत्र जाग्रति । सर्वाः स्थल्यो मरकतश्रेणिभिः खचिताः शुभाः ॥ ३,३४.५७ ॥ हेमतालवनाढ्याश्च सर्ववस्तुसमाकुलाः । तत्रदेव्यः समस्ताश्च दण्डनाथासमश्रियः ॥ ३,३४.५८ ॥ हलोद्धर्णहलाद्धर्णमुसलाः सञ्चरन्त्यपि । संख्यातीतास्तालवृक्षा नवस्वर्णविचित्रिताः ॥ ३,३४.५९ ॥ योजनायतकाण्डाश्च दलैर्युक्ता विशङ्कटैः । हेमत्वचोऽतिसुस्निग्धाः सच्छायाः फलभङ्गुराः ॥ ३,३४.६० ॥ आमूलाग्रं लम्बमानास्ताला हालाघटाकुलाः । वर्तन्ते दण्डनाथायाः प्रीत्यर्थं शिल्पिभिः कृताः ॥ ३,३४.६१ ॥ तं च तालरसापूरं पीत्वापीत्वा मदाकुलाः । जृंभिण्याद्याश्चक्रदेव्यो हेतुकाद्याश्च भैरवाः ॥ ३,३४.६२ ॥ सप्तनिग्रहदेव्यश्च नृत्यन्ति मदविह्वलाः । चतुर्विदिक्षु दण्डिन्या यत्रयत्र महादृशः ॥ ३,३४.६३ ॥ तत्र पूर्वादिदिग्भागे देवीसदृशवर्चसः । उन्मत्तभैरवी चव स्वप्नेशी सर्वतोदिशम् ॥ ३,३४.६४ ॥ निवासो दण्डनाथायाः केवलं त्वाभिमानिकः । तस्यास्तु सेवावासोऽन्यो महापद्माटवीस्थले । तत्कक्षातिदवीयस्त्वान्सेवार्थं तत्र तद्गृहः ॥ ३,३४.६५ ॥ अथो मरकताकारे शाले तत्सप्तयोजने । प्राकारो विद्रुमाकारः प्रातरर्यमपाटलः ॥ ३,३४.६६ ॥ तत्र स्थलास्तु सकला विद्रुमैरेव निर्मिताः । तद्वद्विद्रुमसंकाशो ब्रह्मा नलिनविष्टरः ॥ ३,३४.६७ ॥ ब्रह्मलोकात्समागत्य सार्द्धं सर्वैर्मुनीश्वरैः । सदा श्रीललितादेव्याः सेवनार्थमतन्द्रितः ॥ ३,३४.६८ ॥ मरीच्याद्यैः प्रजासृग्भिर्वर्तते साकमब्धिप । चतुर्दशापि विद्यास्ता उपविद्याः सहस्रशः ॥ ३,३४.६९ ॥ चतुष्षष्टिकलाश्चैव शरीरिण्यो महत्तराः । प्राकारे विद्रुमाकारे ब्रह्मलोकसमाश्रिताः । वर्तन्ते जगतामृद्ध्यै ललिता देवताज्ञया ॥ ३,३४.७० ॥ अथ विद्रुमशालस्यानतरे मारुतयोजने । माणिक्यमण्डपस्थाने परीतः सर्वतोदिशम् । वर्तते विष्णुलोकस्तु ललितासेवनोत्सुकः ॥ ३,३४.७१ ॥ तत्र वैष्णवलोके तु विष्णुः साक्षात्सनातनः । चतुर्घा दशधा चैव तथा द्वादशधा पुनः । विभिन्नमूर्तिः सततं वर्तते माधवः सदा ॥ ३,३४.७२ ॥ भण्डासुरमहायुद्धे ये श्रीदेवीनखोद्भवाः । दशावतारदेवास्तु तेऽपि माणिक्यमण्डपे ॥ ३,३४.७३ ॥ पूर्वकक्षान्तरेभ्यस्तु तत्कक्षायां विशेषतः । उपर्याच्छादनामात्रं माणिक्यदृषदां गणैः ॥ ३,३४.७४ ॥ तत्र कक्षान्तरे देवः शङ्खचक्रगदाधरः । भिन्नो द्वादशमूर्त्या च पूर्वाद्याशासुरक्षति ॥ ३,३४.७५ ॥ जाम्बूनदप्रभश्चक्री पूर्वस्यां दिशि केशवः । पश्चान्नारायणः शङ्खी नीलजीमूतसंनिभः ॥ ३,३४.७६ ॥ इन्दीवरदलश्या मो मधुमान्माधवोऽवति । गोविन्दो दक्षिणे पार्श्वे धन्वी चन्द्रप्रभो महान् ॥ ३,३४.७७ ॥ उत्तरे हलधृग्विष्णुः पद्मकिञ्जल्कसंनिभः । आग्नेय्यामरविन्दाभो मुसली मधुसूदनः ॥ ३,३४.७८ ॥ त्रिविक्रमः खड्गपाणिर्नैरृत्ये च्वलनप्रभः । वायव्यां वामनो वज्री तरुणादित्य दीप्तिमान् ॥ ३,३४.७९ ॥ ईशान्यां पुण्डरीकाभः श्रीधरः पट्टिशायुधः । विद्युत्प्रभो हृषीकेशो ह्यवाच्यां दिशि मुद्गरी ॥ ३,३४.८० ॥ पद्मनाभः शार्ङ्गपाणिः सहस्रार्कसमप्रभः । माणिक्यमण्डपस्थानमनुलोम्येन वेष्टते ॥ ३,३४.८१ ॥ सर्वायुधः सर्वशक्तिः सर्वज्ञः सर्वतोमुखः । इन्द्रगोपकसंकाशः पाशहस्तोऽपराजितः ॥ ३,३४.८२ ॥ दामोदरस्तु सर्वात्मा ललिताभक्तिनिर्भरः । माणिक्यमण्डपस्थानं विलोमेन विवेष्टते ॥ ३,३४.८३ ॥ इति द्वादशभिर्देहैर्भगवानम्बुजेक्षणः । माणिक्यमण्डपगतो विष्णुलोके विराजते ॥ ३,३४.८४ ॥ अथ नानारत्नशालान्तरे मारुतयोजने । सहस्रस्तम्भकं नाम मण्डपं सुमनोहरम् ॥ ३,३४.८५ ॥ नानारत्नैस्तु खचितं नानारत्नैरलङ्कृतम् । नानारत्नकृतश्शालस्तुङ्गस्तत्राभिवर्तते ॥ ३,३४.८६ ॥ एका पङ्क्तिः सहस्रैस्तु स्तम्भस्तियक्प्रवर्तते । तादृशाः पङ्क्तयो बह्व्यः स्तम्भानां तु चतुर्दिशम् ॥ ३,३४.८७ ॥ उपर्याच्छादनं चापि पूर्ववद्रत्नदारुभिः । शिवलोकस्तत्र महाञ्जागर्ति स्फुरितद्युतिः ॥ ३,३४.८८ ॥ शैवागमा मूर्तिमन्तस्तत्राष्टाविंशतिः स्मृताः । नन्दिभृङ्गिमहाकालप्रमुखास्तत्र चोत्तमाः ॥ ३,३४.८९ ॥ षड्विंशत्तत्त्वदेवाश्च गजवक्त्राः सहस्रशः । शिवलोकोत्तमे तस्मिन्सहस्रस्तम्भमण्डपे ॥ ३,३४.९० ॥ ईशानः सर्वविद्यानामधिपश्चन्द्रशेखरः । ललिताज्ञापालकश्च ललिताज्ञाप्रवर्तकः ॥ ३,३४.९१ ॥ ललितामन्त्र जापी च नित्यमानन्दमानसः । शैव्या दृष्ट्या स्वभक्तानां ललितामन्त्रसिद्धये ॥ ३,३४.९२ ॥ अन्तर्बहिस्तमः पुञ्जनिर्भेदनपटी यसीम् । महाप्रकाशरूपां तां मेधाशक्ति प्रकाशयन् ॥ ३,३४.९३ ॥ सर्वज्ञः सर्वकर्ता च सहस्रस्तम्भमण्डपे । वर्तमानो महादेव देवीः श्रीभक्तिनिर्भरः । तत्तच्छालान्समाश्रित्य वर्तते कुम्भसंभवः ॥ ३,३४.९४ ॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्य संवादे ललितोपाख्याने दिक्पालादिशिवलोकान्तरकथनं ना चतुस्त्रिंशोऽध्यायः _____________________________________________________________ हयग्रीव उवाच अथ वापीत्र यादीनां कक्ष्याभेदान्प्रचक्ष्महे । एषां श्रवणमात्रेण जायते श्रीमहोदयः ॥ ३,३५.१ ॥ सहस्रस्तम्भशालस्यातरमारुतयोजने । मनो नाम महाशालः सर्वरत्नविचित्रितः ॥ ३,३५.२ ॥ पूर्ववद्गोपुरद्वारकपाटार्गलसंयुतः । तन्मध्यकक्ष्याभागस्तु सर्वाप्यमृतवापिका ॥ ३,३५.३ ॥ यत्पीत्वा योगिनः सिद्धा वज्रकाया महाबलाः । भवन्ति पुरुषाः प्राज्ञास्तदेव हि रसायनम् ॥ ३,३५.४ ॥ वाप्याममृतमय्यां तु वर्तते तोयतां गतम् । तद्गन्धाघ्राणमात्रेण सिद्धिकान्तापतिर्भवेत् ॥ ३,३५.५ ॥ अस्पृशन्नपि विन्धयारे पुरुषः क्षीणकल्मषः । उभयोः शालयोः पार्श्वे सुधावापीतटद्वये ॥ ३,३५.६ ॥ अधक्रोशसमायामा अन्यास्सर्वाश्च वापिकाः । चतुर्योजनदूरं तु तलं तस्या जलान्तरे ॥ ३,३५.७ ॥ सोपानावलयस्तस्या नानारत्नविचित्रिताः । स्वर्णवर्णा रत्नवर्णास्तस्यां हंसाश्च सारसाः ॥ ३,३५.८ ॥ आस्फोट्यते तटद्वन्द्वतरङ्गैर्मन्दचञ्चलैः । पक्षिणस्तज्जलं पीत्वा रसायनमयं नवम् ॥ ३,३५.९ ॥ अजरामरतां प्राप्तास्तत्र विन्ध्यनिषूदन । सदाकूजितलक्षेण तत्र कारण्डवद्विजाः ॥ ३,३५.१० ॥ जपन्ति ललितादेव्या मन्त्रमेव महत्तरम् । परितो वापिकाचक्रपरिवेषणभूयसा ॥ ३,३५.११ ॥ न तत्र गन्तु मार्गोऽस्ति नौकावाहनमन्तरा । आज्ञया केवलं तत्र मन्त्रिणी दण्डनाथयोः । तारा नाम महाशक्तिर्वर्तते तोरणेश्वरी ॥ ३,३५.१२ ॥ बह्व्यस्तत्रोत्पलश्यामास्तारायाः परिचारिकाः । रत्ननौकासहस्रेण खेलन्त्यो सरसीजले ॥ ३,३५.१३ ॥ अपरं पारमायान्ति पुनर्यान्ति परं तटम् । वीणावेणुमृदङ्गादि वादयन्त्यो मुहुर्मुहुः ॥ ३,३५.१४ ॥ कोटिशस्तत्र ताराया नाविक्यो नवयौवनाः । मुहुर्गायन्ति नृत्यन्ति देव्याः पुण्यतमं यशः ॥ ३,३५.१५ ॥ अरित्रपाणयः काश्चित्काश्चिच्छूगाम्बुपाणयः । पिबन्त्यस्तत्सुधातोयं संचरन्त्यस्तरीशतैः ॥ ३,३५.१६ ॥ तासां नौकावाहिकानां शक्तीनां श्यामलत्विषाम् । प्रधानभूता तारांबा जलौघशमनक्षमा ॥ ३,३५.१७ ॥ आज्ञां विना तयोस्तारा मन्त्रिणीदण्डधारयोः । त्रिनेत्रस्यापि नो दत्ते वापिकांभसि सन्तरम् ॥ ३,३५.१८ ॥ गायन्तीनां चलन्तीनां नौकाभिर्मणिचारुभिः । महाराज्ञी महौदार्यं पतन्तीनां पदेपदे ॥ ३,३५.१९ ॥ पिबन्तीनां मधु भृशं माणिक्यचषकोदरैः । प्रतिनौकं मणिगृहे वसन्तीनां मनोहरे ॥ ३,३५.२० ॥ तारातरणिशक्तीनां समवायोऽतिसुन्दरः । काश्चिन्नौकाः सुवर्णाढ्याः काश्चिद्रत्नकृता मुने ॥ ३,३५.२१ ॥ मकराकारमापन्नाः काश्चिन्नौका मृगाननाः । काश्चित्सिंहासना नावः काश्चिद्दन्तावलाननाः ॥ ३,३५.२२ ॥ इत्थं विचित्ररूपाभिर्नौङ्काभिः परिवेष्टिता । तारांबामहतीं नौकामधिगम्य विराजते ॥ ३,३५.२३ ॥ अनुलोमविलोमाभ्यां सञ्चारं वापिकाजले । तन्वाना सततं तारा कक्ष्यामेनां हि रक्षति ॥ ३,३५.२४ ॥ मनशालस्यान्तराले सप्तयोजनदूरतः । बुद्धिशाल इति ख्यातश्चतुर्योजनमुच्छ्रितः ॥ ३,३५.२५ ॥ तन्मध्यकक्ष्याभागेऽस्ति सर्वाप्यानन्दवापिका । तत्र दिव्यं महामद्यं बकुलामोदमेदुरम् । प्रतप्तकनकच्छायं तज्जलत्वेन वर्त्तते ॥ ३,३५.२६ ॥ आनन्दवापिकागाधाः पूर्ववत्परिकीर्त्तिताः । सोपानादिक्रमश्चैव पक्षिणास्तत्र पूर्ववत् ॥ ३,३५.२७ ॥ तत्रत्यं सलिलं मद्यं पायम्पायं तटस्थिताः । विहरन्ति मदोन्मत्ताः शक्तयो मदपाटलाः ॥ ३,३५.२८ ॥ साक्षाच्च वारुणी देवी तत्र नौकाधिनायिका । यां सुधामालिनीमाहुर्यामा हुरमृतेश्वरीम् ॥ ३,३५.२९ ॥ सा तत्र मणिनौकास्थशक्तिसेनासमावृता । ईषदालोकमात्रेण त्रैलोक्यमददायिनी ॥ ३,३५.३० ॥ तरुणादित्य सङ्काश मदारक्तकपोलभूः । पारिजातप्रसूनस्रक्परिवीतकचाचिता ॥ ३,३५.३१ ॥ वहन्ती मदिरापूर्णं चषकं लोलदुत्पलम् । पक्वं पिशितखण्डं च मणिपात्रे तथान्यके ॥ ३,३५.३२ ॥ वारुणीतरणिश्रेणीनायिका तत्र राजते । साप्याज्ञयैव सर्वेषां मन्त्रिणीदण्डनाथयोः । ददाति वापीतरणं त्रिनेत्रस्यापि नान्यथा ॥ ३,३५.३३ ॥ अथ बुद्धिमहाशालान्तरे मारुतयोजने । अहङ्कारमहाशालः पूर्ववद्गोपुरान्वितः ॥ ३,३५.३४ ॥ तयोस्तु शालयोर्मध्ये कक्ष्याभूरखिला मुने । विमर्शवापिका नाम सौषुम्णामृतरूपिणी ॥ ३,३५.३५ ॥ तन्महायोगिनामन्तर्मनो मारुतपूरितम् । सुषुम्णदण्डविवरे जागर्ति परमामृतम् ॥ ३,३५.३६ ॥ तदेव तस्याः सलिलं वापिकायास्तपोधन । पूर्ववत्तटसोपानपक्षिनौका हि ताः स्मृताः ॥ ३,३५.३७ ॥ तत्र नौकेश्वरी देवी क्लरुकुल्लेतिविश्रुता । तमालश्यामलाकारा श्यामकञ्चुकधारिणी ॥ ३,३५.३८ ॥ नौकेश्वरीभिरन्याभिस्स्वसमानाभिरावृता । रत्नारित्रकरा नित्यमुल्लसन्मदमांसला ॥ ३,३५.३९ ॥ परितो भ्राम्यति मुने मणिनौकाधिरोहिणी । वापिका पयसागाधा पूर्ववत्परिकीर्तिता ॥ ३,३५.४० ॥ अहङ्कारस्य शालस्यान्तरे मारुतयोजने । सूर्यबिंबमहाशालश्चतुर्योजन मुच्छ्रितः ॥ ३,३५.४१ ॥ सूर्यस्यापि महानासीद्यदभूदरुणोदयः । तन्मध्यकक्ष्या वसुधा खचिता कुरविन्दकैः ॥ ३,३५.४२ ॥ तत्र बालातपोद्गारे ललिता परमेश्वरी । अतितीव्रतपस्तप्त्वा सूर्योऽलभत तां द्युतिम् ॥ ३,३५.४३ ॥ ग्रहराशिगणाः सर्वे नक्षत्राण्यपि तारकाः । तेऽत्रेव हि तपस्तप्त्वा लोकभासकतां गताः ॥ ३,३५.४४ ॥ मार्तण्डभैरवस्तत्र भिन्नो द्वादशधा मुने । शक्तिभिस्तैजसीभिश्च कोटिसंख्याभिरन्वितः ३५.४५ । महाप्रकाशरूपश्च मदारुणविलोचनः । कङ्कोलितरुखण्डेषु नित्यं क्रीडारसोत्सुकः । वर्तते विन्ध्यदर्पारे पारे यस्तन्मयस्थितः ॥ ३,३५.४६ ॥ महाप्रकाशनाम्रास्ति तस्य शक्तिर्महीयसी । चक्षुष्मत्यपराशक्तिश्छाया देवी परा स्मृता ॥ ३,३५.४७ ॥ इत्थं तिसृभि रिष्टाभिः शक्तिभिः परिवारितः । ललिताया महेशान्याः सदा विद्या हृदा जपन् ॥ ३,३५.४८ ॥ तद्भक्तानामिन्द्रियाणि भास्वराणि प्रकाशयन् । बहिरन्तस्तमोजालं समूलमवमर्दयन् ॥ ३,३५.४९ ॥ तत्र बालातपोद्गारे भाति मार्तण्डभैरवः । सूर्यबिम्बमहाशालान्तरे मारुतयोजने ॥ ३,३५.५० ॥ चन्द्रबिम्बमयः शालश्चतुर्योजनमुच्छ्रितः । पूर्ववद्गोपुरद्वारकपाटार्गलसंयुतः ॥ ३,३५.५१ ॥ तन्मध्यभूः समस्तापि चन्द्रिकाद्वारमुच्यते ॥ ३,३५.५२ ॥ तत्रैव चन्द्रिकाद्वारे तपस्तप्त्वा सुदारुणम् । अत्रिनेत्रसमुत्पन्नश्चन्द्रमाः कान्तिमाययौ ॥ ३,३५.५३ ॥ अत्र श्रीसोमनाथाख्यो वर्तते निर्मलाकृतिः । देवस्त्रलोक्यतिमिरध्वंसी संसारवर्तकः ॥ ३,३५.५४ ॥ पिबञ्च षकसम्पूर्णं निर्मलं चन्द्रिकामृतम् । सप्तविंशतिनक्षत्रशक्तिभिः परिवारितः ॥ ३,३५.५५ ॥ सदा पूर्णनिजाकारो निष्कलङ्को निजाकृतिः । तत्रैव चन्द्रिकाद्वारे वर्तते भगवाञ्छशी ॥ ३,३५.५६ ॥ ललिताया जपैध्यानैः स्तोत्रैः पूजाशतैरपि । अश्विन्यादियुतस्तत्र कालं नयति चन्द्रमाः ॥ ३,३५.५७ ॥ अन्याश्च शक्तयस्तारानामधेयाः सहस्रशः । सन्ति तस्यैव निकटे सा कक्षा तत्प्र पूरिता ॥ ३,३५.५८ ॥ अथ चन्द्रस्य शालस्यान्तरे मारुतयोजने । शृङ्गारो नाम शालोऽस्ति चतुर्योजनमुच्छ्रितः ॥ ३,३५.५९ ॥ शृङ्गारागाररूपैस्तु कौस्तुभैरिव निर्मितः । महाशृङ्गारपरिखा तन्मध्ये वसुधाखिला ॥ ३,३५.६० ॥ परिखावलये तत्र शृङ्गाररसपूरिते । शृङ्गारशक्तयः सन्ति नानाभूषणभासुराः ॥ ३,३५.६१ ॥ तत्र नौकासहस्रेण संचरन्त्यो मदोद्धताः । उपासते सदा सत्तं नौकास्थं कुसुमायुधम् ॥ ३,३५.६२ ॥ स तु संमोहयत्येव विश्वं सम्मोहनादिभिः । विशिखैरखिलांल्लोकांल्ललिताज्ञावशंवदः ॥ ३,३५.६३ ॥ तत्प्रभावेण संमूढा महापद्माटवीस्थलम् । वनितुं शुद्धवेषाश्च ललिताभक्तिनिर्भराः । सावधानेन मनसा यान्ति पद्माटदीस्थलम् ॥ ३,३५.६४ ॥ न गन्तुं पारयत्येव सुरसिद्धनराः सुराः । ब्रह्मविष्णुमहेशास्तु शुद्धचित्ताः स्वभावतः । तदाज्ञया परं यान्ति महापद्माटवीस्थलम् ॥ ३,३५.६५ ॥ संसारिणश्च रागान्धाबहुसंकल्पकल्पनाः । महाकुलाश्च पुरुषा विकल्पज्ञानधूसराः ॥ ३,३५.६६ ॥ प्रभूतरागगहनाः प्रौढव्यामोहदायिनीम् । महाशृङ्गारपरिखान्तरितुं न विचक्षणाः ॥ ३,३५.६७ ॥ यस्मादजेयसैन्दर्यस्त्रैलोक्यजनमोहनः । महाशृङ्गारपरिखाधिकारी वर्तते स्मरः ॥ ३,३५.६८ ॥ तस्य सर्वमतिक्रम्य महतामपि मोहनम् । महापद्माटवीं गन्तुं न कोऽपि भवति क्षमः ॥ ३,३५.६९ ॥ अथ शृङ्गारशालस्यान्तराले सप्तयोजने । चिन्तामणिगृहं नाम चक्रराजमहालयः ॥ ३,३५.७० ॥ तन्मध्यभूः समस्तापि परितो रत्नभूषिता । महापद्माटवी नाम सर्वसौभाग्यदायिनी ॥ ३,३५.७१ ॥ शृङ्गाराख्यामहाकालपर्यन्तं गोपुरं मुने । चतुर्दिक्ष्वप्येवमेव गोपुराणां व्यवस्थितिः ॥ ३,३५.७२ ॥ सर्वदिक्षु तदुक्तानि गोपुराणिशत मुने । शालास्तु विंशतिः प्रोक्ताः पञ्चसंख्याधिकाः शुभाः ॥ ३,३५.७३ ॥ सर्वेषामपि शालानां मूलं योजनसंमितम् । पद्माटवीस्थलं वक्ष्ये सावधानो मुने शृणु ॥ ३,३५.७४ ॥ समस्तरत्नखचिते तत्र षड्योजनान्तरे । परितस्थलपद्मानि महाकाण्डानि संति वै ॥ ३,३५.७५ ॥ काण्डास्तु योजनायामा मृदुभिः कण्टकैर्वृताः । पत्राणि तालदशकमात्रायामानि संति वै ॥ ३,३५.७६ ॥ केसराश्च सरोजानां पञ्चतालसमायताः । दशतालसमुन्नम्रः कर्णिकाः परिकीर्तिताः ॥ ३,३५.७७ ॥ अत्यन्तकोमलान्यत्र सदा विकसितानि च । नवसौरभहृद्यानि विशङ्कटदलानि च । बहुशः संति पद्मानि कोडीनामपि कोडिशः ॥ ३,३५.७८ ॥ महापद्माडवीकक्ष्यापूर्वभागे घटोद्भव । क्रोशोन्नतो वह्निरूपो वर्तुलाकारसंस्थितः ॥ ३,३५.७९ ॥ अर्द्धयोजनविस्तारः कलाभिर्दशभिर्युतः । अर्घ्यपात्रमहाधारो वर्तते कुम्भसम्भव ॥ ३,३५.८० ॥ तदाधारस्य परितः शक्तयोदीप्तविग्रहाः । धूम्रार्चिःप्रमुखा भान्ति कला दश विभावसोः ॥ ३,३५.८१ ॥ दीप्ततारुण्यलक्ष्मीका नानालङ्कारभूषिताः । आधाररूपं श्रीमन्तं भगवन्तं हविर्भुजम् । परिष्वज्यैव परितो वर्तन्ते मन्मथालसाः ॥ ३,३५.८२ ॥ धूम्रार्चिरुष्णा ज्वलिनी ज्वालिनी विस्फुलिङ्गिनी । सुश्रीःसुरूपा कपिला हव्यकव्यवहेतिच । एता दशकलाः प्रोक्ता वह्नेराधाररूपिणः ॥ ३,३५.८३ ॥ तत्राधारे स्थितो देवः पात्ररूपं समाश्रितः । सूर्यस्त्रिलोकीतिमिरप्रध्वंसप्रथितोदयः ॥ ३,३५.८४ ॥ सूर्यात्मकं तु तत्पात्रं सार्द्धयोजनमुन्नतम् । योजनायामविस्तारं महाज्योतिः प्रकाशितम् ॥ ३,३५.८५ ॥ तत्पात्रात्परितः सक्तवपुषः पुत्रिका इव । वर्तन्ते द्वादश कला अतिभास्वररोचिषः ॥ ३,३५.८६ ॥ तपिनी तापिनी धूम्रा मरीचिर्ज्वलिनी रुचिः । सुषुम्णा भोगदा विश्वा बोधिनी धारिणी क्षमा ॥ ३,३५.८७ ॥ तस्मिन्पात्रे परानन्दकारणं परमामृतम् । सर्वौंषधि रसाढ्यं च हृद्यसौरभसंयुतम् ॥ ३,३५.८८ ॥ नीलोत्पलैश्च कह्लारैरम्लानैरतिसौरभैः । वास्यमानं सदा हृद्यं शीतलं लघु निर्मलम् ॥ ३,३५.८९ ॥ चलद्वीचिशतोदारं ललिताब्यर्चनोचितम् । सदा शब्दायमानं च भासतेर्ऽचनकारणम् ॥ ३,३५.९० ॥ तदर्घ्यममृतं प्रोक्तं निशाकरकलामयम् । तस्मिंस्तनीयसीर्नौङ्का मणिकॢप्ताः समास्थिताः । निशाकरकला हृद्याः क्रीडन्ति नवयौवनाः ॥ ३,३५.९१ ॥ अमृता मानदा पूष्णा तुष्टिः पुष्टी रतिर्धृतिः । शशिनी चन्द्रिका कान्तिर्ज्योत्स्ना श्रीः प्रीतिरङ्गदा ॥ ३,३५.९२ ॥ पूर्णा पूर्णामृता चेति कलाः पीयूष रोचिषः । नवयौवनसंपूर्णाः सदा प्रहसिताननाः ॥ ३,३५.९३ ॥ पुष्टिरृद्धिः स्थितिर्मेधा कान्तिर्लक्ष्मीर्द्युतिर्धृतिः । जरा सिद्धिरिति प्रोक्ताः क्रीडन्ति ब्रह्मणः कलाः ॥ ३,३५.९४ ॥ स्थितिश्च पालिनी शान्तिश्चेश्वरी ततिकामिके । वरदाह्लादिनी प्रीतिर्दीर्घा चेति हरेः कलाः ॥ ३,३५.९५ ॥ तीक्ष्णा रौद्री भया निद्रा तन्द्रा क्षुत्क्रोधिनी त्रपा । उत्कारी मृत्युरप्येता रोद्ध्र्यस्तत्र स्थिताः कालाः ॥ ३,३५.९६ ॥ ईश्वरस्य कलाः पीताः श्वेताश्चैवारुणाः सिताः । चतस्रेव प्रोक्तास्तु शङ्करस्य कला अथ ॥ ३,३५.९७ ॥ निवृत्तिश्च प्रतिष्ठा च त्रिद्या शान्तिस्तथैव च । इन्दिरा दीपिका चैव रेचिका चैव मोचिका ॥ ३,३५.९८ ॥ परा सूक्ष्मा च विन्ध्यारे तथा सूक्ष्मामृता कला । ज्ञानामृता व्याधिनी च व्यापिनी व्योमरूपिका । एतां षोडश संप्रोक्तास्तत्र क्रीडन्ति शक्तयः ॥ ३,३५.९९ ॥ रुद्रनौकासमारूढास्ततश्चेतश्च चञ्चलाः । शक्तिरुपेण खेलन्ति तत्र विद्याः सहस्रशः ॥ ३,३५.१०० ॥ अर्घ्यसंशोधनार्थाय कल्पिताः परमेष्ठिना । तदर्घ्यममृतं पीत्वा सदा माद्यन्ति शक्तयः ॥ ३,३५.१०१ ॥ महापद्माटवीवासा महाचक्रस्थिता अपि । मुहुर्मुहुर्नवनवं मुहुस्चाबद्धसौरभम् ॥ ३,३५.१०२ ॥ रत्नकुम्भसहस्रैश्च सुवर्णघटकोटिभिः । आपूर्यापूर्य सततं तदर्घ्यममृतं महत् ॥ ३,३५.१०३ ॥ चिन्तामणिगृहस्थानां परिचारकशक्तयः । अणिमादिकशक्तीनामर्घ्ययन्ति मदोद्धताः ॥ ३,३५.१०४ ॥ महापद्माटवीकक्ष्यापूर्वभागेर्ऽघ्यकल्पनम् । इत्थ समीरितं पश्चात्तत्रान्यदपि कथ्यते ॥ ३,३५.१०५ ॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने महापद्माटव्यार्घ्यस्थापनकथनं नाम पञ्चत्रिंशोऽध्यायः _____________________________________________________________ हयग्रीव उवाच चिन्तामणिगृहस्याग्निदिग्भागे कुन्दमानकम् । योजनायामविस्तारं योजनोच्छासचातकम् ॥ ३,३६.१ ॥ तत्र ज्वलति चिद्वह्निः सुधाधाराशतार्चितः । परमैश्वर्यजनकः पावनो ललिताज्ञया ॥ ३,३६.२ ॥ अनिन्धनो महाज्वालः सुधया तर्पिताकृतिः । कङ्कोलीपल्लवच्छायस्तत्र ज्वलति चिच्छिखी ॥ ३,३६.३ ॥ तत्र होत्री महादेवी होता कामेश्वरः परः । उभौ तौ नित्यहोतारौ रक्षतः सकलं जगत् ॥ ३,३६.४ ॥ अनुत्तरपराधीना ललिता संप्रवर्तिता । ललिताचोदितः कामः शङ्करेण प्रवर्तितः ॥ ३,३६.५ ॥ चिन्तामणिगृहेन्द्रस्य रक्षोभागेम्बुजाटवौ ॥ ३,३६.६ ॥ चक्रराजरथश्रेष्ठस्तिष्ठत्युन्नतविग्रहः । नवभिः पर्वभिर्युक्तः सर्वरत्नमयाकृतिः ॥ ३,३६.७ ॥ चतुर्योजनविस्तारो दशयोजनमुन्नतः । यथोत्तरे ह्रासयुक्तः स्थूलतः कूबरोज्ज्वलः ॥ ३,३६.८ ॥ चतुर्वेदमहाचक्रः पुरुषार्थमहाहयः । तत्त्वैरु पचरद्भिश्च चामरैरभिमण्डितः ॥ ३,३६.९ ॥ पूर्वोक्तलक्षणैर्युक्तो मुक्ताच्छत्रेण शोभितः । भण्डासुरमहायुद्धे कृतसाहसिकक्रियः ॥ ३,३६.१० ॥ वर्तते रथमूर्धन्यः श्रीदेव्यासनपाटितः । चिन्तामणिगृहेन्द्रस्य वायुभागेम्बुजाटवौ ॥ ३,३६.११ ॥ गेयचक्ररथेन्द्रस्तु मन्त्रिण्याः प्रान्ततिष्ठति । चिन्तामणिगृहेन्द्रस्य रुद्रभागेम्बुजाटवौ ॥ ३,३६.१२ ॥ वल्लभो दण्डनाथायाः किरिचक्रे महारथः । एतद्रथत्रयं सर्वक्षेत्रश्रीपुरपक्तिषु । समानमेव विज्ञेयमङ्गस्था देवता यथा ॥ ३,३६.१३ ॥ आनलं कुण्डमाग्नेये यत्तिष्ठति सदा ज्वलत् । तप्तमेतत्तु गायत्री तप्तं स्याद भयङ्करम् ॥ ३,३६.१४ ॥ घृणिसूर्यस्तु तत्पश्चादोंकारस्य च मन्दिरम् । देवी तुरीयगायत्री चक्षुष्मत्यपि तापस ॥ ३,३६.१५ ॥ अथ गन्धर्वराजश्च परिषद्रुद्र एव च । तारांबिका भगवती तत्पश्चाद्भागतः स्थिताः ॥ ३,३६.१६ ॥ चिन्तामणिगृहेन्द्रस्य रक्षोभागं समाश्रितः । नामत्रय पहामन्त्रवाच्योऽस्ति भगवान्हरिः ॥ ३,३६.१७ ॥ महागणपतिस्तस्योत्तरसंश्रितकेतनः । पञ्चाक्षरीमन्त्रवाच्यस्तस्य चाप्युत्तरे शिवः ॥ ३,३६.१८ ॥ अथ मृत्युञ्जयेशश्च वाच्यर्त्र्यक्षरमात्रतः । सरस्वती धारणाख्या ह्यस्य चोत्तरवासिनी ॥ ३,३६.१९ ॥ अकारादिक्षकारान्तवर्णमूर्तेस्तु मन्दिरम् । मातृकाया उत्तरतस्तस्यां विन्ध्यनिषूदन ॥ ३,३६.२० ॥ उत्तरे सम्पदेशी वै कालसंकर्षणी तथा । श्रीमहाशम्भुनाथा च देव्याविर्भावकारणम् ॥ ३,३६.२१ ॥ श्रीः परांबा च विशदज्योत्स्ना निर्मलविग्रहा । उत्तरोत्तरमेतास्तु देवताः कृतमन्दिराः ॥ ३,३६.२२ ॥ बालाचैवान्नपूर्णा च हयारूढा तथैव च । श्रीपादुकाचतस्रस्तदुत्तरोत्तरमन्दिराः ॥ ३,३६.२३ ॥ चिन्तामणिगृहेन्द्रस्य वायव्यवसुधादितः । महापद्माटवौ त्वन्या देवताः कृतमन्दिराः ॥ ३,३६.२४ ॥ उन्मत्तभैरवी चैव स्वप्नवाराहिका परा । तिरस्करणिकांबा च तथान्या पञ्चमी परा ॥ ३,३६.२५ ॥ यथापूर्वं कृतगृहा एता देव्यो महोदयाः । श्रीपूर्तिश्च महादेवी श्रीमहापादुकापि च ॥ ३,३६.२६ ॥ यथापूर्वं कृतगृहे द्वे एते देवतोत्तमे । शङ्करेण षडाम्नायसागरे प्रतिपादिताः । या विद्यास्ताः समस्ताश्च महापद्माटवीस्थले ॥ ३,३६.२७ ॥ इत्थं श्रीरश्मिमालाया मणिकॢप्ता गहागृहाः । उच्चध्वजा उच्चशालास्ससोपानास्तपोधन ॥ ३,३६.२८ ॥ चिन्तामणिगृहेन्द्रस्य पूर्वद्वारे समुद्रप । दक्षिणे पार्श्वभागेतु मन्त्रिनाथागृहं महत् ॥ ३,३६.२९ ॥ वामभागे दण्डनाथाभवनं रत्ननिर्मितम् । ब्रह्मविष्णुमहेशानामर्ध्यस्थानम्य पूर्वतः ॥ ३,३६.३० ॥ भवनं दीपिताशेषदिक्चक्रं रत्नरश्मिभिः । समस्ता देवता एता ललिताभक्तिनिर्भराः । ललितामन्त्रजाप्याश्च श्रीदेवीं समुपासते ॥ ३,३६.३१ ॥ पूर्वोक्त मर्ध्यस्थानं च पूर्वोक्तं चार्ध्यकल्पनम् । याम्यद्वारप्रभृतिषु सर्वेष्वपि समं स्मृतम् ॥ ३,३६.३२ ॥ अथ चिन्तामणिगृहं वक्ष्ये शृणु महामुने । तच्छ्रीपट्टनमध्यस्थं योजनद्वयविस्मृतम् ॥ ३,३६.३३ ॥ तस्य चिन्तामणिभयी भित्तिः कोशसुविस्तृता । चिन्तामणिशिलाभिश्च च्छादिनीभिस्तथोपरि ॥ ३,३६.३४ ॥ संवृता कूटरूपेण तत्रतत्र समुन्नता । गृहभित्तिस्तथोन्नम्रा चतुर्योजनमानतः ॥ ३,३६.३५ ॥ विंशतिर्योजनं तस्याश्चोन्नम्रा भूमिरुच्यते । ततोर्ध्वं ह्राससंयुक्तं स्थौल्यत्रिमुकुटोज्ज्वला ॥ ३,३६.३६ ॥ तानि चेच्छाक्रियाज्ञानरूपाणि मुकुटान्यृषे । सदा देदीप्यमानानि चिन्तामणिमयान्यपि ॥ ३,३६.३७ ॥ चिन्तामणिगृहे सर्वं चिन्तामणिमयं स्मृतम् । यस्य द्वाराणि चत्वारि क्रोशार्धायामभाञ्जि च ॥ ३,३६.३८ ॥ क्रोशार्द्धार्द्धं च विस्तारो द्वाराणां कथितो मुने । द्वारेषु सर्वेषु पुनश्चिन्तामणिगृहान्तरे ॥ ३,३६.३९ ॥ पिहिता ललिता देव्या मूतर्लोहितसिन्धुवत् । तरुणार्कसहस्राभा चन्द्रवच्छीतला ह्यपि । मुहुः प्रवाहरूपेण प्रसरन्ती महामुने ॥ ३,३६.४० ॥ पूर्वाम्नाय मयं चैव पूर्वद्वारं प्रकीर्तितम् । दक्षिणद्वारदेशस्तु दक्षिणाम्नायलक्षणः ॥ ३,३६.४१ ॥ पश्चिमद्वारदेशस्तु पश्चिमाम्नायलक्षणः । उत्तरद्वारदेशः स्यादुत्तराम्नायलक्षणः ॥ ३,३६.४२ ॥ गृहराजस्यान्तराले भित्तौ खचितदण्डकाः । रत्नप्रदीपा भास्वन्तः कोट्यर्कसदृशत्विषः । परितस्तत्र वर्तन्ते भासयन्तो गृहान्तरम् ॥ ३,३६.४३ ॥ चिन्तामणिगृहस्यास्य मध्यस्थाने महीयसि । अत्युच्चैर्वेदिकाभागे बिन्दुचक्रं महात्तरम् ॥ ३,३६.४४ ॥ चिन्तारत्नगृहोत्तुङ्गभिन्त्तेर्बिन्दोश्च मध्यभूः । भित्तिः क्रोशं परित्यज्य क्रोशत्रयमुदाहृतम् ॥ ३,३६.४५ ॥ तत्र क्रोशत्रयस्थाने ह्यणिमाद्यात्मरोचिषा । क्रोशत्रयं समस्तं तद्धस्तसंख्याप्रकारतः । चतुर्विंशतिसाहस्रहस्तैः संमितमुच्यते ॥ ३,३६.४६ ॥ बिन्दुपीठेशपर्यम्तं चतुर्दशविभेदतः । अन्तरे भेदिते जाते हस्तसंख्या मयोच्यते ॥ ३,३६.४७ ॥ पद्माटवीस्थलाच्चिन्तामणिवेश्मान्तरं मुने । हस्तविंशतिरुन्नम्रं तत्र स्युरणिमादयः ॥ ३,३६.४८ ॥ अणिमान्तरविस्तारश्चतुर्नल्वसमन्वितः । किष्कुश्चतुःशती नल्वकिष्कुर्हस्त उदीर्यते ॥ ३,३६.४९ ॥ तत्रान्तरेऽणिमाद्यास्तु पूर्वादिकृतमन्दिराः । अणिमा महिमा चैव लघिमा गरिमा तथा ॥ ३,३६.५० ॥ ईशित्वं च वशित्वं च प्राकाम्यं मुक्तिरेव च । इच्छा प्राप्तिः सर्वकामेत्येताः सिद्धय उत्तमाः ॥ ३,३६.५१ ॥ रससिद्धिर्मोक्षसिद्धिर्बलसिद्धिस्तथैव च । खड्गसिद्धिः पादुकाया सिद्धिरञ्जनसिद्धिकः ॥ ३,३६.५२ ॥ वाक्सिद्धिर्लोकसिद्धिश्च देहसिद्धिरनन्तरम् । एता अष्टौ सिद्धयस्तु बह्व्योऽन्या योगिसंमताः ॥ ३,३६.५३ ॥ तत्रान्तरे तु परितः सेवते परमेश्वरीम् । कोटिशः सिद्धयस्तस्मिन्नणिमाद्यन्तरे मुने ॥ ३,३६.५४ ॥ नवलावण्यसंपूर्णाः स्मयमानमुखांबुजाः । ज्वलच्चिन्तामणि कराः मदा षोडशवर्षिकाः । अत्युदारप्रकृतयः खेलन्ति मदविह्वलाः ॥ ३,३६.५५ ॥ तस्याणिमाद्यन्तरस्योपरिष्टात्सुमनोहरम् । हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् ॥ ३,३६.५६ ॥ चतुर्दिक्षु च सोपानपङ्क्तिभिः सुमनोहरम् । ब्रह्माद्यंबरधिष्ण्यं स्यात्तत्रदेवीः स्थिताः शृणु ॥ ३,३६.५७ ॥ ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही चैव माहेन्द्री चामुण्डाप्यथ सप्तमी । महालक्ष्मीरष्टमी तु तत्रैताः कृतमन्दिराः ॥ ३,३६.५८ ॥ नानाविधायुधाढ्याश्च नानाशक्तिपरिच्छदाः । पूर्वादिदिशमारभ्य प्रादक्षिण्यकृतालयाः ॥ ३,३६.५९ ॥ अथ ब्राह्यन्तरा तस्योपरिष्टात्कुम्भसंभव । हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् । मुद्रान्तरमिति त्रैधं तत्र मुद्राः कृतालयाः ॥ ३,३६.६० ॥ संक्षोभद्रावणाकर्षवश्योन्मादमहाङ्कुशाः । खेचरी बीजयोन्याख्या त्रिखण्डा दशमी पुनः ॥ ३,३६.६१ ॥ पूर्वादिदिशमारभ्य मुद्रा एताः प्रतिष्ठिताः । अत्यन्तसुन्दराकारा नवयौवनविह्वलाः ॥ ३,३६.६२ ॥ कान्तिभिः कमनीयाभिः पूरयन्त्यो गृहान्तरम् । सेवन्ते मुनिशार्दूल ललितापरमेश्वरीम् ॥ ३,३६.६३ ॥ अन्तरं त्रयमेतत्तु चक्रं त्रैलोक्यमोहनम् । एतस्मिञ्छक्तयो यासु ता उक्ताः प्रकटाभिधाः ॥ ३,३६.६४ ॥ एतसां समधिष्ठात्री त्रिपुरा चक्रनायिका । तच्चक्रपालनकरी मुद्रासंक्षोभणात्मिका ॥ ३,३६.६५ ॥ अथ मुद्रान्तरस्योर्ध्वं प्रोक्ता नित्याकलां तरम् । हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् । पर्वतश्चैव सोपानमुत्तरोत्तरमिष्यते ॥ ३,३६.६६ ॥ नित्याकलान्तरे तस्मिन्कामाकर्षणिकासुखाः । परितः कृतसंस्थानाः षोडशेन्दुकलात्मिकाः ॥ ३,३६.६७ ॥ तर्पयन्त्यो दिशां चक्रं सुधास्यन्दैः सुशीतलैः । तासां नामानि मत्तस्त्वमवधारय कुम्भज ॥ ३,३६.६८ ॥ कामाकर्षिणिका नित्या बुद्ध्याकर्षणिकापरा । रसाकर्षणिका नित्या गन्धाकर्षणिका कला ॥ ३,३६.६९ ॥ चित्ताकर्षणिका नित्या धैर्याकर्षणिका कला । स्मृत्याकर्षणिका नित्या नामाकर्षणिका कला ॥ ३,३६.७० ॥ बीजाकर्षणिका नित्या चार्थाकर्षणिका कला । अमृताकर्षणी चान्या शरीराकर्षणी कला ॥ ३,३६.७१ ॥ एतास्तु गुप्तयोगिन्यस्त्रिपुरेशी तु चक्रिणी । सर्वाशापूरिकाभिख्या चक्राधिष्ठानदेवता ॥ ३,३६.७२ ॥ एतच्चक्रे पालिका तु मुद्रा द्राविणिकाभिधा । नित्या कलान्तरादूर्ध्वं धिष्ण्य मत्यन्तसुन्दरम् ॥ ३,३६.७३ ॥ हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् । प्राग्वत्सोपानसंयुक्तं सर्वसंक्षोभणाभिधम् ॥ ३,३६.७४ ॥ तत्राष्टौ शक्तयस्तीव्रा मदारुणविलोचनाः । नवतारुण्यमच्चाश्च सेवन्ते परमेश्वरीम् ॥ ३,३६.७५ ॥ कुसुमा मेखला चैव मदना मदनातुरा । रेखा वेगिन्यङ्कुशा च मालिन्यष्टौ च शक्तयः ॥ ३,३६.७६ ॥ कोटिशस्तत्परीवारः शक्तयोऽनङ्गपूर्विकाः । सर्वसंक्षोभमिदं चक्रं तदधिदेवता ॥ ३,३६.७७ ॥ सुंदरी नाम विज्ञेया नाम्ना गुप्ततरापि सा । तच्चक्रपालनकरी मुद्राकर्षणिका स्मृता ॥ ३,३६.७८ ॥ अनङ्गशक्त्यन्तरस्योपरिष्टात्कुंभसंभव । हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् । संक्षोभिण्याद्यन्तरं स्यात्सर्वसौभाग्यदायकम् ॥ ३,३६.७९ ॥ सर्वसंक्षोभिणीमुख्यास्तत्र शक्तय उद्धताः । चतुर्दश वसंत्येव तासां नामानि मच्छृणु ॥ ३,३६.८० ॥ सर्वसंक्षोभिणी शक्तिः सर्वविद्राविणी तथा । सर्वाकर्षणिका शाक्तिः सर्वाह्लादनिका तथा ॥ ३,३६.८१ ॥ सर्वसंमोहिनी शक्तिः सर्वस्तंभनशक्तिका । सर्वजृंभिणिका शक्तिस्तथा सर्ववशङ्करी ॥ ३,३६.८२ ॥ सर्वरञ्जनशक्तिश्च सर्वोन्मादनिशक्तिका । सर्वार्थसाधिका शक्तिः सर्वसंपत्तिपूरिणी ॥ ३,३६.८३ ॥ सर्वमन्त्रमयी शक्तिः सर्वद्वन्द्वक्षयङ्करी । एताश्च संप्रदायाख्याश्चक्रिणीपुरवासिनीः ॥ ३,३६.८४ ॥ मुद्राश्च सर्ववश्याख्यास्तच्चक्रे रक्षिका मताः । कोटिशः शक्तयस्तत्र तासां किङ्कर्य्य उद्धृताः ॥ ३,३६.८५ ॥ संक्षोभिण्याद्यन्तरस्योपरिष्टात्कुंभसंभव । हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् । सर्वसिद्धादिकानां तु मन्दिरं विष्ट्यमुच्यते ॥ ३,३६.८६ ॥ सर्वसिद्धिप्रदा चैव सर्वसंपत्प्रदा तथा । सर्वप्रियङ्करी देवी सर्वमङ्गलकारिणी ॥ ३,३६.८७ ॥ सर्वकामप्रदा देवी सर्वदुःखविमोचनी । सर्वमृत्युप्रशमिनी सर्वविघ्ननिवारिणी ॥ ३,३६.८८ ॥ सर्वाङ्गसुन्दरी देवी सर्वसौभाग्यदायिनी । एता देव्यः कलोत्कीर्णा योगिन्यो नामतः स्मृताः ॥ ३,३६.८९ ॥ चक्रिणी श्रीश्च विज्ञेया चक्रं सर्वार्थसाधकम् । सर्वोन्मादनमुद्राश्च चक्रस्य परिपालिकाः ॥ ३,३६.९० ॥ सर्वसिद्ध्याद्यन्तरस्योपरिष्टात्कुम्भसम्भव । हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् ॥ ३,३६.९१ ॥ सर्वज्ञाद्यन्तरं नाम्ना सर्वरक्षाकरं स्मृतम् । चक्रं महत्तरं दिव्यं सर्वज्ञाद्याः प्रकीर्तिताः ॥ ३,३६.९२ ॥ सर्वज्ञा सर्वशक्तिश्च सर्वैश्वर्यप्रदायिनी । सर्वज्ञानमयी देवी सर्वव्याधिविनाशिनी ॥ ३,३६.९३ ॥ सर्वाधारस्वरूपा च सर्वपापहरी तथा । सर्वानन्दमयी देवी सर्वरक्षास्वरूपिणी ॥ ३,३६.९४ ॥ सर्वेप्सितप्रदा चैता निर्गर्वा योगिनीश्वराः ॥ ३,३६.९५ ॥ मालिनी चक्रिणी प्रोक्ता मुद्रा सर्वमहाङ्कुशा । इति चिन्तामणि गृहे सर्वज्ञाद्यन्तरावधि । चक्राणि कानिचित्प्रोक्तान्यन्यान्यपि मुने शृणु ॥ ३,३६.९६ ॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने चिन्तामणिगृहान्तरकथनं नाम षट्त्रिंशोऽध्यायः _____________________________________________________________ हयग्रीव उवाच सर्वज्ञद्यन्तरालस्योपरिष्टात्कलशोद्भव । हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् ॥ ३,३७.१ ॥ वशिन्याद्यन्तरं ज्ञेयं प्राग्वत्सोपानमन्दिरम् । सर्वरोगहरं नाम्ना तच्चक्रमिति विश्रुतम् ॥ ३,३७.२ ॥ वशिन्याद्यास्तत्र देव्यः पूर्वादिदिगनुक्रमात् । स्वरैस्तु रहितास्तत्र प्रथमा वशिनीश्वरी ॥ ३,३७.३ ॥ कवर्गसहिता पश्चात्कामेश्वर्याख्यवाह्मयी । चवर्गजुष्टा वागीशी मोदिनी स्यात्तृतीयका ॥ ३,३७.४ ॥ टवर्गमण्डिताकारा विमलाख्या सरस्वती । तवर्गेण तथोपेता पञ्चमी वाक्प्रधारणा ॥ ३,३७.५ ॥ पवर्गेण परिस्फीता षष्ठी तु जयिनी मता । यादिवर्णचतुष्कोणे सर्वैश्वर्यादिवाङ्मयी ॥ ३,३७.६ ॥ साधिकाक्षरषट्केन कौलिनी त्वष्टमी मता । एता देव्यो जपरता मुक्ताभरणमण्डिताः ॥ ३,३७.७ ॥ सदा स्फुरद्गद्यपद्यलहरीलालिता मताः । काव्यैश्च नाटकैश्चैव मधुरैः कर्णहारिभिः । विनोदयन्त्यः श्रीदेवीं वर्तन्ते कुम्भसम्भवः ॥ ३,३७.८ ॥ एता रहस्यनाम्नैव ख्याता वातापितापन । नायिका स्वस्य चक्रस्य सिद्धानाम्ना प्रकीर्तिता ॥ ३,३७.९ ॥ अस्य चक्रस्य संरक्षाकारिणी खेचरी मता । वशिन्याद्यन्तरालस्योपरिष्टाद्विन्ध्यमर्दन ॥ ३,३७.१० ॥ हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् । अस्त्रं चक्रमितिज्ञेयं तत्र बाणादिदेवताः ॥ ३,३७.११ ॥ पञ्च बाणेश्वरीदेव्यः पञ्च कामेश्वराशुगाः । अङ्कुशद्वितयं दीप्तमादिस्त्रीपुंसयोर्द्वयोः ॥ ३,३७.१२ ॥ धनुर्द्वयं च विन्ध्यारे नव पुण्ड्रेषु कल्पितम् । पाशद्वयं च दीप्ताभं चत्वार्यस्त्राणि कुम्भज ॥ ३,३७.१३ ॥ कामेश्वर्यास्तु चत्वारि चत्वारि श्रीमहेशितुः । आहत्याष्टायुधानीति प्रज्वलन्ति विभान्ति च ॥ ३,३७.१४ ॥ भण्डासुरमहायुद्धे दुष्टदानवशोणितैः । पीतैरतीव तृप्तानिदिव्यास्त्राण्यति जाग्रति ॥ ३,३७.१५ ॥ एतेषामायुधानां तु परिवारायुधान्यलम् । वर्तन्तेऽस्त्रान्तरे तत्र तेषां संख्या तु कोटिशः ॥ ३,३७.१६ ॥ वज्रशक्तिः शतघ्नी च भुशुण्डी मुसलं तथा । कृपाणः पट्टिशं चैव मुद्गरं भिन्दिपालकम् ॥ ३,३७.१७ ॥ एवमादीनि शस्त्राणि सहस्राणां सहस्रशः । अष्टायुधमहाशक्तीः सेवन्ते मदविह्वलाः ॥ ३,३७.१८ ॥ अथ शस्त्रान्तरालस्योपरि वातापितापन । हस्तविंशतिरुन्नम्रं चतुर्नल्वप्रविस्तरम् । धिष्ण्यं तु समयेशीनां स्थानं च तिसृणां मतम् ॥ ३,३७.१९ ॥ कामेशाद्यास्तत्र देव्यस्तिस्रोऽन्या तु चतुर्थिका । सैव निःशेषविश्वानां सवित्री ललितेश्वरी ॥ ३,३७.२० ॥ तिसृणां शृणु नामानि कामेशी प्रथमा मता । वज्रेशी भगमाला च ताः सेवन्ते सहस्रशः ॥ ३,३७.२१ ॥ सर्वेषां दर्शनानां च या देव्यो विविधाः स्मृताः । ताः सर्वास्तत्र सेवन्ते कामेशादिमहोदयाः ॥ ३,३७.२२ ॥ एतासांच प्रसंगेषु नित्यानां च प्रसञ्जने । चक्रिणीनां योगिनीनां श्रीदेवी पूरणात्मिका ॥ ३,३७.२३ ॥ या कामेश्वरदेवाङ्कशायिनी ललितांबिका । कामेश्यादिचतुर्थी सा नित्यानां षोडशी मता ॥ ३,३७.२४ ॥ योगिनी चक्रदेवीनां नवमी परिकीर्तिता । समयेश्यन्तरालस्योपरिष्टादिल्वलान्तक ॥ ३,३७.२५ ॥ नाथान्तरमिति प्रोक्तं हस्तविंशतिरुन्नतम् । चतुर्नल्वप्रविस्तारं प्राग्वत्सोपानमण्डितम् ॥ ३,३७.२६ ॥ तत्र नाथामहादेव्या योगशास्त्रप्रवर्त्तकाः । सर्वेषां मन्त्रगुरवः सर्वविद्यामहार्णवाः ॥ ३,३७.२७ ॥ चत्वारो यागनाथाश्च लोकानामिह गुप्तये । सृष्टाः कामंशदेवेन तेषां नामानि मे शृणु ॥ ३,३७.२८ ॥ मित्री च शोडिशश्चैव चर्याख्यः कुम्भसम्भव । तैः सृष्टा बहवो लोकारक्षार्थं पादुकात्मकाः ॥ ३,३७.२९ ॥ दिव्यविद्या मानवौघसिद्धौघाः सुरतापसाः । प्राप्तसालोक्यसारूप्यसायुज्यादिकसिद्धयः ॥ ३,३७.३० ॥ महान्तो गुरवस्तांस्तु सेवन्ते प्रचुरा गुरून् । अथ नाथान्तरालस्योपरिष्टाद्धिष्ण्यमुत्तमम् ॥ ३,३७.३१ ॥ हस्तविंशतिरुन्नमं चतुर्नल्वप्रविस्तरम् । नित्यान्तरमिति प्रोक्तं नित्याः पञ्चदशात्र वै ॥ ३,३७.३२ ॥ अथ कामेश्वरी नित्या नित्या च भगमालिनी । नित्यक्लिन्ना अपि तथा भेरुण्डा वह्निवासिनी ॥ ३,३७.३३ ॥ महावज्रेश्वरी दूती त्वरिता कुलसुन्दरी । नित्या नीलपताका च विजया सर्वमङ्गला ॥ ३,३७.३४ ॥ ज्वालामालिनिका चित्रेत्येताः पञ्चदशोदिताः । एता देवीस्वरूपाः स्युर्महाबलपराक्रमाः ॥ ३,३७.३५ ॥ प्रथमा मुख्यतिथितां प्राप्ता व्याप्य जगत्त्रयाः । कालत्रितयरूपाश्च कालग्रासविचक्षणाः ॥ ३,३७.३६ ॥ ब्रह्मादीनामशेषाणां चिरकालमुपेयुषाम् । तत्तत्कालशतायुष्यरूपा देव्याज्ञया स्थिताः ॥ ३,३७.३७ ॥ नित्योद्यता निरान्तकाः श्रीपराङ्गसमुद्भवाः । सेवन्ते जगतामृद्ध्यै ललितां चित्स्वरूपिणीम् ॥ ३,३७.३८ ॥ तासां भवनतां प्राप्ता दीप्ताः पञ्चदशेश्वराः । विसृष्टिबिन्दुचक्रे तु षोडश्या भवनं मतम् ॥ ३,३७.३९ ॥ अथ नित्यान्तरालस्योपरिष्टात्कुम्भसम्भव । अङ्गदेव्यन्तरं प्रोक्तं हस्तविंशातिरुन्नतम् ॥ ३,३७.४० ॥ चतुर्नल्वप्रविस्तारं प्राग्वत्सोपानमन्दिरम् । तस्मिन्हृदयदेव्याद्याः शक्तयः संति वै मुने ॥ ३,३७.४१ ॥ हृद्देवी च शिरोदेवी शिखादेवी तथैव च । वर्मदेवी दृष्टिदेवी शस्त्रदेवी षडीरिताः ॥ ३,३७.४२ ॥ अत्यन्तसन्निकृष्टास्ताः श्रीकामेश्वरसुभ्रुवः । नवलावण्यपूर्णाङ्ग्यः सावधाना धृतायुधाः ॥ ३,३७.४३ ॥ परितो बिन्दुपीठे च भ्राम्यन्तो दृप्तमूर्तयः । ललिताज्ञाप्रवर्तिन्यो वशीनां पीठवर्तिकाः ॥ ३,३७.४४ ॥ अथाङ्गदेव्यन्तरस्योपरिष्टान्मण्डलाकृति । बिन्दुनाद महापीठं दशहस्तसमुन्नतम् ॥ ३,३७.४५ ॥ नल्वाष्टकप्रविस्तारमुद्यदादित्यसंनिभम् । बिन्दुपीठमिदं ज्ञेयं श्रीपीठमपि चेष्यते ॥ ३,३७.४६ ॥ महापीठमिति ज्ञेयं विद्यापीठमपीष्यते । आनन्दपीठमपि च पञ्चाशत्पीठरूपधृक् ॥ ३,३७.४७ ॥ तत्र श्रीललितादेव्याः पञ्चब्रह्ममये महत् । जागर्ति मञ्चरत्नं तु प्रपञ्चत्रयमूलकम् ॥ ३,३७.४८ ॥ तस्य मञ्चस्य पादास्तु चत्वारः परिकीर्तिताः । दशहस्तसमुन्नम्रा हस्तत्रितयविष्ठिताः ॥ ३,३७.४९ ॥ ब्रह्मविष्णुमहेशानेश्वररूपत्वमागताः । शक्तिभावमनुप्राप्ताः सदा श्रीध्यानयोगतः ॥ ३,३७.५० ॥ एकस्तु पञ्चपादः स्याज्जपाकुसुमसन्निभः । ब्रह्मात्मकः स विज्ञेयो वह्निदिग्भागमाश्रितः ॥ ३,३७.५१ ॥ चतुर्थो मञ्चपादस्तु कर्णिकारकसाररुक् । ईश्वरात्मा स विज्ञेय ईशदिग्भागमाश्रितः ॥ ३,३७.५२ ॥ एते सर्वे सायुधाश्च सर्वालङ्कारभूषिताः । उपर्यधःस्तंभरूपा मध्ये पुरुषरूपिणः ॥ ३,३७.५३ ॥ श्रीध्यानमीलिताक्षाश्च श्रीध्यानान्निश्चलाङ्गकाः । तेषामुपरि मञ्चस्य फलकस्तु सदाशिवः ॥ ३,३७.५४ ॥ विकासिदाडिमच्छायश्चतुर्नल्वप्रविस्तरः । नल्वषट्कायामवांश्च सदाभास्वरमूर्तिमान् ॥ ३,३७.५५ ॥ अङ्गदेव्यन्तरारंभान्मञ्चस्य फलकावधि । चिन्तामणिमयाङ्गानि तत्त्वरूपाणि तापस ॥ ३,३७.५६ ॥ सोपानानि विभासंते षट्त्रिंशद्वै निवेशनैः । आरोहस्य क्रमेणैव सोपानान्यभिदध्महे ॥ ३,३७.५७ ॥ भूमिरापोऽनलो वायुराकाशो गन्ध एव च । रसो रूपं स्पर्शसंब्दोपस्थपायुपदानि च ॥ ३,३७.५८ ॥ पाणिवाग्घ्राणजिह्वाश्चत्वक्चक्षुः श्रोत्रमेव च । अहङ्कारश्च बुद्धिश्च मनः प्रकृतिपूरुषौ ॥ ३,३७.५९ ॥ नियतिः कालरागौ च कला विद्ये च मायया । शुद्धाविद्येश्वरसदाशिवशक्तिः शिवा इति ॥ ३,३७.६० ॥ एताः षट्त्रिंशदाख्यातास्तत्त्वसोपानपङ्क्तयः । पूषा सोपानपङ्क्तिश्च मञ्चपूर्वदिशंश्रिताः ॥ ३,३७.६१ ॥ अथ मञ्चस्योपरिष्टाद्धंसतूलिकतल्पकः । हस्तमात्रं समुन्नम्रं चतुर्नल्वप्रविस्तरम् ॥ ३,३७.६२ ॥ पादोपधानमूर्धोपधान दन्द्वविराजितम् । गड्डकानां चतुः षष्टिशोभितं पाटलत्विषा ॥ ३,३७.६३ ॥ तस्योपरिष्टात्कौसुंभवसनेनोत्तरच्छदः । शुचिना मृदुना कॢप्तः पद्मरागमणित्विषा ॥ ३,३७.६४ ॥ तस्योपरि वसन्पूर्वदिङ्मुखो दययान्वितः । शृङ्गारवेषरुचिरस्सदा षोडशवार्षिकः ॥ ३,३७.६५ ॥ उद्यद्भास्करबिंबाभश्चतुर्हस्तस्त्रिलोचनः । हारकेयूरमुकुटकटकाद्यैरलङ्कृतः ॥ ३,३७.६६ ॥ कमनीयस्मितज्योत्स्नामरिपूर्णकपोलभूः । जागर्ति भगवानादिदेवः कामेश्वरः शिवः ॥ ३,३७.६७ ॥ तस्योत्संगे समासीना तरुणादित्यपाटला । सदा षोडशवर्षा च नवयौवनदर्पिता ॥ ३,३७.६८ ॥ अमृष्टपद्मरागाभा चन्दनाब्जनखच्छटा । यावकश्रीर्निर्व्यपेक्षा पादलौहित्यवाहिनी ॥ ३,३७.६९ ॥ कलनिस्वानमञ्जीरपतत्कङ्कणमोहना । अनङ्गवरतूणीरदर्पोन्मथनजङ्घिका ॥ ३,३७.७० ॥ करिशुण्डदोः कदलिकाकान्तितुल्योरुशोभिनी । अरुणेन दुकूलेन सुस्पर्शेन तनीयसा । अलङ्कृतनितंबाढ्या जघनाभोगभासुरा ॥ ३,३७.७१ ॥ अर्धोरुकग्रन्थिमती रत्नकाञ्चीविराजिता । नतनाभिमहावर्तत्रि वल्यूर्मिप्रभासरित् ॥ ३,३७.७२ ॥ स्तनकुड्मलहिन्दोलमुक्तादामशतावृता । अतिपीवरवक्षोजभारभङ्गुरमध्यभूः ॥ ३,३७.७३ ॥ शिरीषदाममृदुलच्छदाभांश्चतुरो भुजान् ॥ ३,३७.७४ ॥ केयूरकङ्कणश्रेणीमण्डितान्सोर्मिकाङ्गुलीन् । वहन्ती पतिसंसृष्टशङ्खसुन्दरकन्धरा ॥ ३,३७.७५ ॥ मुखदर्पण वृत्ताभचिबुका पाटलाधरा । शुचिभिः पङ्क्तिशुद्धैस्च विद्यारूपैर्विभास्वरैः । कुन्दकुड्मललक्ष्मीकैर्दन्तैर्दर्शितचन्द्रिका ॥ ३,३७.७६ ॥ स्थूलमौक्तिकसनद्धनानाभरणभासुरा । केतकान्तर्दलश्रोणी दीर्घदीर्घविलोचना ॥ ३,३७.७७ ॥ अर्धेन्दुललिते भाले सम्यक्कॢप्तालकच्छटा । पालीवतं समाणिक्यकुण्डलामण्डितश्रुतिः ॥ ३,३७.७८ ॥ नवकर्पूरकस्तूरीसदामोदितवीटिका । शरच्चञ्चन्निशानाथमण्डलीमधुरानना ॥ ३,३७.७९ ॥ चिन्तामणीनां सारेण कॢप्तचारुकिरीटिका । स्फुरत्तिलकरत्नाभभालनेत्रविराजिता ॥ ३,३७.८० ॥ गाढान्धकारनिबिडक्षामकुन्तलसंहतिः । सीमन्तरेशाविन्यस्तकिन्दूरश्रेणिभासुरा ॥ ३,३७.८१ ॥ स्फुरच्चन्द्रकलोत्तंसमदलोलविलोचना । सर्वशृङ्गारवेषाढ्या सर्वाभरणभूषिता ॥ ३,३७.८२ ॥ समस्तलोकमाता च सदानन्दविवर्धिनी । ब्रह्मविष्णुगिरीशेशसदाशिवनिदानभूः ॥ ३,३७.८३ ॥ अपाङ्गरिङ्खत्करुणानिर्झरीतर्पिताखिला । भासते सा भगवती पापघ्नी ललितांबिका ॥ ३,३७.८४ ॥ अन्यदैवतपूजानां यस्याः पूजाफलं विदुः । यस्याः पूजाफलं प्राहुयस्या एव हि पूजनम् ॥ ३,३७.८५ ॥ तस्याश्च ललितादेव्या वर्णयामि कथं पुनः । वर्षकोटिसहस्रेणाप्येकांशो वर्ण्यते न हि ॥ ३,३७.८६ ॥ वर्ण्यमाना ह्यवाग्रूपा वाचस्तस्यां कुतो गतिः । यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ॥ ३,३७.८७ ॥ बहुना किमिहोक्तेन तत्त्वभूतमिदं शृणु । न पक्षपातान्न स्नेहान्न मोहाद्वा मयोच्यते ॥ ३,३७.८८ ॥ संतु कल्पतरोः शाखा लेखिन्यस्तपसां निधे । मषीपात्राणि सर्वेऽपि सप्त संतु महार्णवाः ॥ ३,३७.८९ ॥ पञ्चाशत्कोटिविस्तीर्णा भूमिः पत्रत्वमृच्छतु । तस्य लेखनकालोऽस्तु परार्ध्याधिकवत्सरैः ॥ ३,३७.९० ॥ लिखन्तु सर्वे लोकाश्च प्रत्येकं कोटिबाहवः । सर्वे बृहस्पतिसमा वक्तारो यदि कुंभज ॥ ३,३७.९१ ॥ अथापि तस्याः श्रीदेव्याः पादाब्जैकाङ्गुलिद्युतेः । सहस्रांशेष्वेकैकांशवर्णना न हि जायते । अथ वा वृत्तिरखिला निष्फला तद्गुणस्तुतौ ॥ ३,३७.९२ ॥ बिन्दुपीठस्य परितश्चतुरस्रवया स्थिता । महामायाजवनिका लंबते मेचकप्रभा ॥ ३,३७.९३ ॥ देव्या उपरि हस्तानां विंशतिद्वितयोर्ध्वतः । इन्द्रगोपवितानं तु बद्धं त्रैलोक्यदुर्लभम् ॥ ३,३७.९४ ॥ तत्रालङ्कारजालं तु वर्तमानं सुदुर्लभम् । मद्वाणी वर्णयिष्यन्ती कण्ठ एव ह्रिया हता ॥ ३,३७.९५ ॥ सैव जानाति तत्सर्वं तत्रत्यमखिलं गुणम् । मनसोऽपि हि दूरे तत्सौभाग्यं केनवर्ण्यते ॥ ३,३७.९६ ॥ इत्थं भण्डमहादैत्यवधाय ललितांबिका । प्रादुर्भुता चिदनलाद्दग्धनिःशेषदानवा ॥ ३,३७.९७ ॥ दिव्यशिल्पिजनैः कॢप्तं षोडशक्षेत्रवेशनम् । अधिष्ठाय श्रीनगरं सदा रक्षति विष्टपम् ॥ ३,३७.९८ ॥ इत्थमेव प्रकारेण श्रीपुराण्यन्यकान्यपि । न भेदकोऽपि विन्यासो नाममात्रं पुरां भिदा ॥ ३,३७.९९ ॥ नानावृक्षमहोद्यानमारभ्येतिक्रमेण ये । वदन्ति श्रीपुरकथां ते यान्ति परमां गतिम् ॥ ३,३७.१०० ॥ आकर्णयन्ति पृच्छन्ति विचिन्वन्ति च ये नराः । ये पुस्तके धारयन्ति ते यान्ति परमां गतिम् ॥ ३,३७.१०१ ॥ ये श्रीपुरप्रकारेण तत्तत्स्थानविभेदतः । कृत्वा शिल्पिजनैः सर्वं श्रीदेव्यायतनं महत् । संपादयन्ति ये भक्तास्ते यान्ति परमां गतिम् ॥ ३,३७.१०२ ॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने गृहराजान्तरकथनं नाम सप्तत्रिंशोऽध्यायः _____________________________________________________________ अगस्त्य उवाच श्रुतमेतन्महावृत्तमाविर्भावादिकं महत् । भण्डासुरवधश्चैव देव्याः श्रीनगरस्थितिः ॥ ३,३८.१ ॥ इदानीं श्रोतुमिच्छामि तस्या मत्रस्य साधनम् । तन्मन्त्राणां लक्षणं च सर्वमेतन्निवेदय ॥ ३,३८.२ ॥ हयग्रीव उवाच सर्वेभ्योऽपि पदार्थेभ्यः शाब्दं वस्तु महत्तरम् । सर्वेभ्योऽपि हि शब्देभ्यो वेदराशिर्महान्मुने ॥ ३,३८.३ ॥ सर्वेभ्योऽपि हि वेदेभ्यो वेदमन्त्रा महत्तराः । सर्वेभ्यो वेदमन्त्रेभ्यो विष्णुमन्त्रा महत्तराः ॥ ३,३८.४ ॥ तेभ्योऽपि दौर्गमन्त्रास्तु महान्तो मुनिपुङ्गव । तेभ्यो गाणपता मन्त्रा मुने वीर्य महत्तराः ॥ ३,३८.५ ॥ तेभ्योऽप्यर्कस्य मन्त्रास्तु तेभ्यः शैवा महत्तराः । तेभ्योऽपि लक्ष्मीमन्त्रास्तु तेभ्यः सारस्वता वराः ॥ ३,३८.६ ॥ तेभ्योऽपि गिरिजामन्त्रास्तेभ्यश्चाम्नायभेदजाः । सर्वाम्नायमनुभ्योऽपि वाराहा मनवो वराः ॥ ३,३८.७ ॥ तेभ्यः श्यामामनुवरा विशिष्टा इल्वलान्तक । तेभ्योऽपि ललितामन्त्रा दशभेदविभेदिताः ॥ ३,३८.८ ॥ तेषु द्वौ मनुराजौ तु वरिष्ठौ विन्ध्यमर्दन । लोपामुद्रा कामराज इति ख्यातिमुपागतौ ॥ ३,३८.९ ॥ ह्रादिस्तु लोपामुद्रा स्यात्कामराजस्तु कादिकाः । हंसादेर्वाच्यतां याताः कामराजो महेस्वरः ॥ ३,३८.१० ॥ स्मरादेर्वाच्यतां याता देवी श्रीललितांबिका । हादिकाद्योर्मन्त्रयोस्तु भेदो वर्णत्रयोद्भवः ॥ ३,३८.११ ॥ त्योश्च कामराजोऽयं सिद्धिदो भक्तिशालिनाम् । शिवेन शक्त्या कामेन क्षित्या चैव तु मायया ॥ ३,३८.१२ ॥ हंसेन भृगुणा चैव कामेन शशिमौलिना । शक्रेण भुवनेशेन चन्द्रेण च मनोभुवा ॥ ३,३८.१३ ॥ क्षित्या हृल्लेखया चैव प्रोक्तो हंसादिमन्त्रराट् । कामादिमन्त्रराजस्तु स्मरयोनिः श्रियो मुखे ॥ ३,३८.१४ ॥ पञ्चत्रिकमहाविद्या ललितांबा प्रवाचिकाम् । ये यजन्ति महाभागास्तेषां सर्वत्र सिद्धये ॥ ३,३८.१५ ॥ सद्गुरोस्तु मनुं प्राप्य त्रिपञ्चार्णपरिष्कृतम् । सम्यक्संसाधयेद्विद्वान्वक्ष्यमाणप्रकारतः ॥ ३,३८.१६ ॥ तत्क्रमेण प्रवक्ष्यामि सावधानो मुने शृणु । प्रातरुत्थाय शिरसिस्मृत्वा कमलमुज्ज्वलम् ॥ ३,३८.१७ ॥ सहस्रपत्रशोभाढ्यं सकेशरसुकर्णिकम् । तत्र श्रीमद्गुरुं ध्वात्वा प्रसन्नं करुणामयम् ॥ ३,३८.१८ ॥ ततोबहिर्विनिर्गत्य कुर्याच्छौचादिकाः क्रियाः । अथागत्य च तैलेन सामोदेन विलेपितः ॥ ३,३८.१९ ॥ उद्वर्तितश्च सुस्नातः शुद्धेनोष्णेन वारिणा । आपो निसर्गतः पूताः किं पुनर्वह्निसंयुताः । तस्मादुष्णोदके स्नायात्तदभावे यथोदकम् ॥ ३,३८.२० ॥ परिधाय पटौ शुद्धे कौसुम्भौ वाथ वारुणौ । आचम्य प्रयतो विद्वान्हृदि ध्यायन्परांबिकाम् ॥ ३,३८.२१ ॥ ऊर्ध्वपुण्ड्रं त्रिपुण्डं वा पट्टवर्धनमेव वा । अगस्त्यपत्राकारं वा धृत्वा भाले निजोचितम् । अन्तर्हितश्च शुद्धात्मा सन्ध्यावन्दनमाचरेत् ॥ ३,३८.२२ ॥ अश्वत्थपत्राकारेण पात्रेण सकुशाक्षतम् । सपुष्पचन्दनं चार्ध्यं मार्तण्डाय समुत्क्षिपेत् ॥ ३,३८.२३ ॥ तथार्ध्यभावदेवत्वाल्ललितायै त्रिरर्ध्यकम् । तर्प्पयित्वा यथाशक्ति मूलेन ललितेश्वरीम् ॥ ३,३८.२४ ॥ देवर्षिपितृवर्गांश्च तर्पयित्वा विधानतः । दिवाकरमुपास्थाय देवीं च रविबिम्बगाम् ॥ ३,३८.२५ ॥ मौनी विशुद्धहृदयः प्रविश्य मखमन्दिरम् । चारुकर्पूरकस्तूरीचन्दनादिविलेपितः ॥ ३,३८.२६ ॥ भूषणैर्भूषिताङ्गश्च चारुशृङ्गारवेषधृक् । आमोदिकुसुमस्रग्भिरवतंसितकुन्तलः ॥ ३,३८.२७ ॥ संकल्पभूषणो वाथ यथाविभवभूषणः । पूजाखण्डे वक्ष्यमाणान्कृत्वा न्यासाननुक्रमात् ॥ ३,३८.२८ ॥ मृद्वासने समासीनो ध्यायेच्छ्रीनगरं महत् । नानावृक्षमहोद्यानमारभ्य ललितावधि ॥ ३,३८.२९ ॥ ध्यायेच्छ्रीनगरं दिव्यं बहिरन्तरतः शुचिः । पूजाखण्डोक्तमार्गेम पूजां कृत्वा विलक्षणः ॥ ३,३८.३० ॥ अक्षमालां समादाय चन्द्रकस्तूरिवासिताम् । उदङ्मुखः प्राङ्खो वा जपेत्सिंहासनेश्वरीम् । षट्त्रिंशल्लक्षसंख्यां तु जपेद्विद्या प्रसीदति ॥ ३,३८.३१ ॥ तद्दशांशस्तु होमः स्यात्तद्दशांशं च तर्पणम् । तद्दशांशं ब्राह्मणानां भोजनं समुदीरितम् ॥ ३,३८.३२ ॥ एवं स सिद्धमन्त्रस्तु कुर्यात्काम्यजपं पुनः । लक्षमात्रं जपित्वा तु मनुष्यान्वशमानयेत् ॥ ३,३८.३३ ॥ लक्षद्वितयजाप्येन नारीः सर्वा वशं नयेत् । लक्षत्रितयजापेन सर्वान्वशयते नृपान् ॥ ३,३८.३४ ॥ चतुर्लक्षजपे जाते क्षुभ्यन्ति फणिकन्यकाः । पञ्चलक्षजपे जाते सर्वाः पातालयोषितः ॥ ३,३८.३५ ॥ भूलोकसुन्दरीवर्गो वश्यःषड्लक्षजापतः । क्षुभ्यन्ति सप्त लक्षेण स्वर्गलोकमृगीदृशः ॥ ३,३८.३६ ॥ देवयोनिभवाः सर्वेऽप्यष्टलक्षजपाद्वशाः । नवलक्षेण गीर्वाणा नखिलान्वशमानयेत् ॥ ३,३८.३७ ॥ लक्षैकादशजाप्येन ब्रह्मविष्णुमहेश्वरान् । लक्षद्वादशजापेन सिद्धीरष्टौ वशं नयेत् ॥ ३,३८.३८ ॥ इन्द्रस्येन्द्रत्वमेतेन मन्त्रेण ह्यभवत्पुरा । विष्णोर्विष्णुत्वमेतेन शिवस्य शिवतामुना ॥ ३,३८.३९ ॥ इन्दोश्चन्द्रत्वमेतेन भानोर्भास्करतामुना । सर्वासां देवतानां च तास्ताः सिद्धय उज्ज्वलाः । अनेन मन्त्रराजेन जाता इत्यवधारय ॥ ३,३८.४० ॥ एतन्मन्त्रस्य जापी तु सर्वपापविवर्जितः । त्रैलोक्यसुन्दराकारो मन्मथस्यापि मोहकृत् ॥ ३,३८.४१ ॥ सर्वाभिः सिद्धिभिर्युक्तः सर्वज्ञः सर्वपूजितः । दर्शनादेव सर्वषामन्तरालस्य पूरकः ॥ ३,३८.४२ ॥ वाचा वाचस्पतिसमः श्रिया श्रीपतिसानभः । बले मरुत्समानः स्यात्स्थिरत्वे हिमवानिव ॥ ३,३८.४३ ॥ औन्नत्ये मेरुतुल्यः स्याद्गांभीर्येण महार्णवः । क्षणात्क्षोभकरो मूर्त्या ग्रामपल्लीपुरादिषु ॥ ३,३८.४४ ॥ ईषद्भूभङ्गमात्रेण स्तम्भको जृंभकस्तथा । उच्चाटको मोहकश्च मारको दुष्टचेतसाम् ॥ ३,३८.४५ ॥ क्रुद्धः प्रसीदति हठात्तस्य दर्शनहर्षितः । अष्टादशसु विद्यासु निरूढिमभिगच्छति ॥ ३,३८.४६ ॥ मन्दाकिनीपूरसमा मधुरा तस्य भारती । न तस्याविदितं किञ्चित्सर्वशास्त्रेषु कुम्भज ॥ ३,३८.४७ ॥ दर्शनानि च सर्वाणि कर्तु खण्डयितुं पटुः । तत्त्वञ्जानाति निखिलं सर्वज्ञत्वं च गच्छति ॥ ३,३८.४८ ॥ सदा दयार्द्रहृदयं तस्य सर्वेषु जन्तुषु । तत्कोपाग्नेर्विषयतां गन्तुं नालं जगत्त्रयी ॥ ३,३८.४९ ॥ तस्य दर्शनवेलायां श्लथन्नीवीनिबन्धनाः । विश्रस्तरशनाबन्धा गलत्कुण्डलसञ्चयाः ॥ ३,३८.५० ॥ घर्मवारिकणश्रेणीमुक्ताभूषितमूर्तयः । अत्यन्तरागतरलव्यापारनयनाञ्चलाः ॥ ३,३८.५१ ॥ स्रंसमानकरांभोजमणिकङ्कणपङ्क्तयः । ऊरुस्तम्भेन निष्पन्दा नमितास्याश्च लज्जया ॥ ३,३८.५२ ॥ द्रवत्कन्दर्पसदनाः पुलकाङ्कुरभूषणाः । अन्यमाकारमिव च प्राप्ता मानसजन्मना ॥ ३,३८.५३ ॥ दीप्यमाना इवोद्दामरागज्वालाकदंबकैः । वीक्ष्यमाणा इवानङ्गशरपावकवृष्टिभिः ॥ ३,३८.५४ ॥ उत्कण्ठया तुद्यमानाः खिद्यमाना तनूष्मणा । सिच्यमानाः श्रमजलैः शुच्यमानाश्च लज्जया ॥ ३,३८.५५ ॥ कुलं जातिं च शीलं च लज्जां च परिवारकम् । लोकाद्भयं बन्धुभयं परलोकभये तथा ॥ ३,३८.५६ ॥ मुञ्चन्त्यो हृदि याचन्त्यो भवन्ति हरिणीदृशः । अरण्ये पत्तने वापि देवालयमठेषु वा । यत्र कुत्रापि तिष्ठन्तं तं धावन्ति मृगीदृशः ॥ ३,३८.५७ ॥ अत्याहतो यथैवांभोबिन्दुर्भ्रमति पुष्करे । तद्वद्भ्रमन्ति चित्तानि दर्शने तस्य सुभ्रुवाम् ॥ ३,३८.५८ ॥ विनीतानवनीतानां विद्रावणमहाफलम् । तं सेवन्ते समस्तानां विद्यानामपि पङ्क्तयः ॥ ३,३८.५९ ॥ चन्द्रार्कमण्डलद्वन्द्वकुचमण्डलशोभिनी । त्रिलोके ललना तस्य दर्शनादनुरज्यति । अन्यासां तु वराकीणां वक्तव्यं किं तपोधन ॥ ३,३८.६० ॥ पत्तनेषु च वीथीषु चत्वरेषु वनेषु च । तत्कीर्तिघोषणा पुण्या सदा द्युसद्द्रुमायते ॥ ३,३८.६१ ॥ तस्य दर्शनतः पाप जालं नश्यति पापिनाम् । तद्गुणा एव घोक्ष्यन्ते सर्वत्र कविपुङ्गवैः ॥ ३,३८.६२ ॥ भिन्नैर्वर्णैरायुधैश्च भिन्नैर्वाहनभूषणैः । ये ध्यायन्ति महादेवीं तास्ताः सिद्धीर्भञ्जति ते ॥ ३,३८.६३ ॥ मनोरादिमखण्डस्तु कुन्देन्दुधवलद्युतिः । अहश्चक्रे ज्वलज्ज्वालश्चिन्तनीयस्तु मूलके ॥ ३,३८.६४ ॥ इन्द्रगोपक संकाशो द्वितीयो मनुखण्डकः । नीभालनीयेऽहश्चक्रे आबालान्तज्वलच्छिखः ॥ ३,३८.६५ ॥ अथ बालादिपद्मस्थद्विदलांबुजकोटरे । नीभालनीयस्तार्तीयखण्डो दुरितखण्डकः ॥ ३,३८.६६ ॥ मुक्ता ध्येया शशिजोत्स्ना धवलाकृतिरंबिका । रक्तसंध्यकरोचिः स्याद्वशीकरणकर्मणि ॥ ३,३८.६७ ॥ सर्वसंपत्तिलाभे तु श्यामलाङ्गी विचिन्त्यते । नीला च मूकीकरणे पीता स्तंभनकर्मणि ॥ ३,३८.६८ ॥ कवित्वे विशदाकारा स्फटिकोपलनिर्मला । धनलाभे सुवर्णाभा चिन्त्यते ललितांबिका ॥ ३,३८.६९ ॥ आमूलमाब्रह्मबिलं ज्वलन्माणिक्यदीपवत् । ये ध्यायन्ति महापुञ्जं ते स्युः संसिद्धसिद्धयः ॥ ३,३८.७० ॥ एवं बहुप्रकारेण ध्यानभेदेन कुम्भज । निभालयन्तः श्रीदेवीं भजन्ति महतीं श्रियम् । प्राप्यते सद्भिरेवैषा नासद्भिस्तु कदाचन ॥ ३,३८.७१ ॥ यैस्तु तप्तं तपस्तीव्रं तैरेवात्मनि ध्यायते । तस्य नो पश्चिमं जन्म स्वयं यो वा न शङ्करः । न तेन लभ्यते विद्या ललिता परमेश्वरी ॥ ३,३८.७२ ॥ वंशे तु यस्य कस्यापि भवेदेष मनुर्यदि । तद्वंश्याः सर्व एव स्युर्मुक्तास्तृप्ता न संशयः ॥ ३,३८.७३ ॥ गुप्ताद्गुप्ततरैवैषा सर्वशास्त्रेषु निश्चिता । वेदाः समस्तशास्त्राणि स्तुवन्ति ललितेश्वरीम् ॥ ३,३८.७४ ॥ परमात्मेयमेव स्यादियमेव परा गतिः । इयमेव महत्तीर्थमियमेव महत्फलम् ॥ ३,३८.७५ ॥ इमां गायन्ति मुनयो ध्यायन्ति सनकादयः । अर्चन्तीमां सुरश्रेष्ठा ब्रह्माद्याः पञ्चसिद्धिदाम् ॥ ३,३८.७६ ॥ न प्राप्यते कुचारित्रैः कुत्सितैः कुटिलाशयैः । दैवबाह्यैर्वृथातर्कैर्वृथा विभ्रान्त बुद्धिभिः ॥ ३,३८.७७ ॥ नष्टैरशीलैरुच्छिष्टैः कुलभ्रष्टैश्च निष्ठुरैः । दर्शनद्वेषिभिः पापशीलैराचारनिन्दकैः ॥ ३,३८.७८ ॥ उद्धतैरुद्धतालापैर्दांभिकैरतिमानिभिः । एतादृशानां मर्त्यानां देवानां चातिदुर्लभा ॥ ३,३८.७९ ॥ देवतानां च पूज्यत्वमस्याः प्रोक्तं घटोद्भव । भण्डासुर वधायैषा प्रादुर्भूता चिदग्नितः ॥ ३,३८.८० ॥ महात्रिपुरसुन्दर्या सूर्तिस्तेजोविजृंभिता । कामाक्षीति विधात्रा तु प्रस्तुता ललितेश्वरी ॥ ३,३८.८१ ॥ ध्यायतः परया भक्त्या तां परां ललितांबिकाम् । सदाशिवस्य मनसो लालनाल्ललिताभिधा ॥ ३,३८.८२ ॥ यद्यत्कृतवती कृत्यं तत्सर्वं विनिवेदितम् । पूजाविधानमखिलं शास्त्रोक्तेनैव वर्त्मना । खण्डान्तरे वदिष्यामि तद्विलासं महाद्भुतम् ॥ ३,३८.८३ ॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने मन्त्रराजसाधनप्रकारकथनन्नामाष्टत्रिंशोऽध्यायः _____________________________________________________________ अगस्त्य उवाच अनाद्यनन्तमव्यक्तं व्यक्तानामादिकारणम् । आनन्दबोधैकरसं तन्महन्मन्महे महः ॥ ३,३९.१ ॥ अश्वानन महाप्राज्ञ वेदवेदान्तवित्तम । श्रुतमेतन्महापुण्यं ललिताख्यानमुत्तमम् ॥ ३,३९.२ ॥ सर्वपूज्या त्वया प्रोक्ता त्रिपुरा परदेवता । पाशाङ्कुशधनुर्बाण परिष्कृतचतुर्भुजा ॥ ३,३९.३ ॥ तस्या मन्त्रमिति प्रोक्तं श्रीचक्रं चक्रूषणम् । नवावरणमीशानी श्रीपरस्याधिदैवतम् ॥ ३,३९.४ ॥ काञ्चीपुरे पवित्रेऽस्मिन्महीमण्डलमण्डले । केयं विभाति कल्याणी कामाक्षीत्यभिविश्रुता ॥ ३,३९.५ ॥ द्विभुजा विविधोल्लासविलसत्तनुवल्लरी । अदृष्टपूर्वसैन्दर्या परज्योतिर्मयी परा ॥ ३,३९.६ ॥ सूत उवाच अगस्त्येनैवमुक्तः सन्परानन्दादृतेक्षणः । ध्यायंस्तच्च परं तेजो हयग्रीवो महामनाः । इति ध्यात्वा नमस्कृत्य तमगस्त्यमथाब्रवीत् ॥ ३,३९.७ ॥ हयग्रीव उवाच रहस्यं संप्रवक्ष्यामि लोपामुद्रापते शृणु ॥ ३,३९.८ ॥ आद्या याणुतरा सा स्याच्चित्परा त्वादिकारणम् । अन्ताख्येति तथा प्रोक्ता स्वरूपात्तत्त्वचिन्तकैः ॥ ३,३९.९ ॥ द्वितीयाभूत्ततः शुद्धपराद्विभुजसंयुता । दक्षहस्ते योगमुद्रां वामहस्ते तु पुस्तकम् ॥ ३,३९.१० ॥ बिभ्रती हिमकुन्देन्दुमुक्तासमवपुर्द्युतिः । परापरा तृतीया स्याद्बा लार्कायुतसंमिता ॥ ३,३९.११ ॥ सर्वाभरणसंयुक्ता दशहस्तधृताम्बुजा । वामोरुन्यस्तहस्ता वा किरीटार्धेन्दुभूषणा ॥ ३,३९.१२ ॥ पश्चाच्चतुर्भुजा जाता सा परा त्रिपुरारुणा । पाशाङ्कुशेक्षुकोदण्डपञ्चबाणलसत्करा ॥ ३,३९.१३ ॥ ललिता सैव कामाक्षी काञ्च्यां व्यक्तिमुपागता । सरस्वतीरमागौर्यस्तामेवाद्यामुपासते ॥ ३,३९.१४ ॥ नेत्रद्वयं महेशस्य काशीकाञ्जीपुरद्वयम् ॥ ३,३९.१५ ॥ विख्यातं वैष्णवं क्षेत्रं शिवसांनिध्य कारकम् । काञ्चीक्षेत्रे पुरा धाता सर्वलोकपितामहः ॥ ३,३९.१६ ॥ श्रीदेवीदर्शनायैव तपस्तेपे सुदुष्करम् । आत्मैकध्यानयुक्तस्य तस्यव्रतवतो मुने ॥ ३,३९.१७ ॥ प्रादुरासीत्पुरो लक्ष्मीः पद्महस्ता परात्परा । पद्मासने च तिष्ठन्ती विष्णुना जिष्णुना सह ॥ ३,३९.१८ ॥ सर्वशृङ्गारवेषाढ्या सर्वाभरणभूषिता । सिंहासनेश्वरी ख्याता सर्वलोकैकरक्षिणी ॥ ३,३९.१९ ॥ तां दृष्ट्वाद्भुतसैन्दर्यां परज्योतिर्मयीं पराम् । आदिलक्ष्मीमिति ख्यातां सर्वेषां हृदये स्थिताम् ॥ ३,३९.२० ॥ यामाहुस्त्रिपुरामेव ब्रह्मविष्णवीशमातरम् । कामाक्षीति प्रसिद्धां तामस्तौ षीत्पुर्मभक्तिमान् ॥ ३,३९.२१ ॥ ब्रह्मोवाच । जय देवि जगन्मातर्जय त्रिपुरसुन्दरि । जय श्रीनाथसहजे जय श्रीसर्वमङ्गले ॥ ३,३९.२२ ॥ जय श्रीकरुणाराशे जय शृङ्गारनायिके । जयजयेधिकसिद्धेशि जय योगीन्द्रवन्दिते ॥ ३,३९.२३ ॥ जयजय जगदम्ब नित्यरूपे जयजय सन्नुतलोकसौख्यदात्रि । जयजय हिमशैलकीर्तनीये जयजय शङ्करकामवामनेत्रि ॥ ३,३९.२४ ॥ जगज्जन्मस्थितिध्वंसपिधानानुग्रहान्मुहुः । या करोति स्वसङ्कल्पात्तस्यै देव्यै नमोनमः ॥ ३,३९.२५ ॥ वर्णाश्रमाणां सांकर्यकारिणः पापिनो जनान् । निहन्त्याद्यातितीक्ष्णास्त्रैस्तस्यै देव्यैदृ ॥ ३,३९.२६ ॥ नागमैश्च न वेदैश्च न शास्त्रैर्न च योगिभिः । देद्या या च स्वसंवेद्या तस्यै देव्यै नमोनमः ॥ ३,३९.२७ ॥ रहस्याम्नायवेदान्तैस्तत्त्वविद्भिर्मुनीश्वरैः । परं ब्रह्मेति या ख्याता तस्यैदृ ॥ ३,३९.२८ ॥ हृदयस्थापि सर्वेषां या न केनापि दृश्यते । सूक्ष्मविज्ञानरूपायैदृ ॥ ३,३९.२९ ॥ ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः । यद्ध्यानैकपरा नित्यं तस्यैदृ ॥ ३,३९.३० ॥ यच्चरणभक्ता इन्द्राद्या यदाज्ञामेव बिभ्रति । साम्राज्यसंपदीशायै तस्यैदृ ॥ ३,३९.३१ ॥ वेदा निःश्वसितं यस्या वीक्षितं भूतपञ्चकम् । स्मितं चराचरं विश्वं तस्यैदृ ॥ ३,३९.३२ ॥ सहस्रशीर्षा भोगीन्द्रो धरित्रीं तु यदाज्ञया । धत्ते सर्वजनाधारां तस्यैदृ ॥ ३,३९.३३ ॥ ज्वलत्यग्निस्तपत्यर्केवातो वाति यदाज्ञया । ज्ञानशक्तिस्वरूपायै तस्यैदृ ॥ ३,३९.३४ ॥ पञ्चविंशतितत्त्वानि मायाकञ्चुकपञ्चकम् । यन्मयं मुनयः प्राहुस्तस्यैदृ ॥ ३,३९.३५ ॥ शिवशक्तीश्वराश्चैव शुद्धबोधः सदाशिवः । यदुन्मेषविभेदाः स्युस्तस्यैदृ ॥ ३,३९.३६ ॥ गुरुर्मन्त्रो देवता च तथा प्राणाश्च पञ्चधा । या विराजति चिद्रूपा तस्यैदृ ॥ ३,३९.३७ ॥ सर्वात्मनामन्तरात्मा परमान्दरूपिणी । श्रीविद्येति स्मृता वा तु तस्यैदृ ॥ ३,३९.३८ ॥ दर्शनानि च सर्वाणि यदङ्गानि विदुर्बुधाः । तत्तन्नियमयूपायै तस्यै देव्यै नमोनमः ॥ ३,३९.३९ ॥ या भाति सर्वलोकेषु मणिमन्त्रौष धात्मना । तत्त्वोपदेशरूपायै तस्यैदृ ॥ ३,३९.४० ॥ देशकालपदार्थात्मा यद्यद्वस्तु यथा तथा । तत्तद्रूपेण या भाति तस्यैदृ ॥ ३,३९.४१ ॥ हे प्रतिभटाकारा कल्याणगुणशालिनी । विश्वोत्तीर्णेति चाख्याता तस्यैदृ ॥ ३,३९.४२ ॥ इति स्तुत्वा महादेवीं धाता लोकपितामहः । भूयोभूयो नमस्कृत्य सहसा शरणं गतः ॥ ३,३९.४३ ॥ सन्तुष्टा सा तदा देवी ब्रह्माणं प्रेक्ष्य संनतम् । वरदा सर्वलोकानां वृणीष्व वरमित्यशात् ॥ ३,३९.४४ ॥ ब्रह्मोवाच । भक्त्या त्वद्दर्शनेनैव कृतार्थोऽस्मि न संशयः । तथापि प्रार्थये किञ्चिल्लोकानुग्रहकाम्यया ॥ ३,३९.४५ ॥ कर्मभूमौ तु लोकेऽस्मिन्प्रायो मूढा इमे जनाः । तेषामनुग्रहार्थाय नित्यं कुर्वत्र संनिधिम् ॥ ३,३९.४६ ॥ तथेति तस्य तं कामं पूरयामास वेधसः । अथ धाता पुनस्तस्या देव्या वासमकल्पयत् ॥ ३,३९.४७ ॥ श्रीदेवीसोदरं नत्वा पुण्डरीकाक्षमच्युतम् । तत्सांनिध्यं सदा काञ्च्यां प्रार्थयामास चादृतः ॥ ३,३९.४८ ॥ ततस्तथा करिष्यामीत्यब्रवीत्तं जनार्दनः । अथ तुष्टो जगद्धाता पुनः प्राह महेश्वरीम् ॥ ३,३९.४९ ॥ शिवोऽप्यत्रैव सांनिध्यं तव प्रीत्या करोत्विति । अथ श्रीत्रिपुरादक्षभागात्कामेश्वरः परः ॥ ३,३९.५० ॥ ईशानःसर्वविद्या नामीश्वरः सर्वदेहिनाम् । आविरासीन्महादेवः साक्षाच्छृङ्गारनायकः ॥ ३,३९.५१ ॥ ततः पुनः श्रीकामाक्षीभालनेत्रकटाक्षतः । काचिद्बाला प्रादुरासीन्महागौरा महोज्ज्वला ॥ ३,३९.५२ ॥ सर्वशृङ्गारवेषाढ्या महालावण्यशेवधिः । अथ श्रीपुण्डरीकाक्षो ब्रह्मणा सह सादरम् ॥ ३,३९.५३ ॥ कारयामास कल्याणमादिस्त्रीपुंसयोस्तयोः । आखण्डलादयो देवा वसुरुद्रादिदेवताः ॥ ३,३९.५४ ॥ मार्कण्डेयादिमुनयो वसिष्ठादिमुनीश्वराः । योगीन्द्राः सनकाद्याश्च नारदाद्याः सुरर्षयः ॥ ३,३९.५५ ॥ वामदेवप्रभृतयो जीवन्मुक्ताः शुकादयः । यक्षकिन्नर गन्धर्वसिद्धविद्याधरोरगाः ॥ ३,३९.५६ ॥ गणाग्रणीर्महाशास्ता दुर्गाद्याश्चैव मातरः । या यास्तु देवताः प्रोक्तास्ताः सर्वाः परमेश्वरीम् ॥ ३,३९.५७ ॥ भद्रासनविमानस्था नेमुः प्राञ्जलयस्तदा । मनसा निर्मितं धात्रा मध्ये नगरमद्भुतम् ॥ ३,३९.५८ ॥ मन्दिरं परमेशान्या मनोहरतमं शुभम् । श्रीमता वासुदेवेन सोदरेम महेश्वरः ॥ ३,३९.५९ ॥ तत्रोदवोढतां गौरीमुपाग्नि भगवान्भवः । देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात ह ॥ ३,३९.६० ॥ दम्पत्योर्जगतां पत्योः पाणिग्रहणमङ्गलम् । को वा वर्णयितुं शक्तो यदि जिह्वासहस्रवान् ॥ ३,३९.६१ ॥ आदिश्रीमन्दिरस्यास्य वायुभागे महेशितुः । विस्तृतं भुवनश्रेष्ठं कल्पितं परमेष्ठिना ॥ ३,३९.६२ ॥ श्रीगृहस्याग्निभागे तु विचित्रं विष्णुमन्दिरम् । इत्थं ता देवतास्तत्र तिस्रः सन्निहिताः सदा ॥ ३,३९.६३ ॥ तदा प्रदक्षिणीकृत्य तत्परौ दम्पती तु तौ । प्राप्तौ सभावनागारं तदा विधिजनार्दनौ ॥ ३,३९.६४ ॥ समागम्य च सभ्यानां समास्तानांयथाविधि । संस्कारं वैदिकैर्मन्त्रैः कथयामासतुर्मुदा ॥ ३,३९.६५ ॥ आद्यादिलक्ष्मीः सर्वेषां पुरतः श्रीपरेश्वरी । विरञ्चिं दक्षिणेनाक्ष्णा वामेन हरिमैक्षत ॥ ३,३९.६६ ॥ का नाम वाणी मा नाम कमला ते उभे ततः । प्रादुर्भूते प्रभापुञ्जे पञ्जरान्त इव स्थिते ॥ ३,३९.६७ ॥ श्रीदेवतानमच्छीर्षबद्धाञ्जलिपुटावुभौ । जय कामाक्षिकामाक्षीत्यूचतुस्तां प्रणेमतुः ॥ ३,३९.६८ ॥ मूर्ते च गङ्गायमुने तत्र सेवार्थमागते । तिस्रः कोट्योर्ऽधकोटी च या यास्तीर्थाधिदेवताः ॥ ३,३९.६९ ॥ सेवार्थं त्रिपुरांबा यास्तास्ताः सर्वाः समागताः । तदा कराभ्यामादाय चामरे भारतीश्रियौ । श्रीदेवीमुपतस्थाते वीजयन्त्यौ यथोचितम् ॥ ३,३९.७० ॥ अनर्घ्यरत्नखचितकिङ्किणीचितदोर्लते । आदिश्रीनयनोत्पन्ने ते उभे भारतीश्रियौ ॥ ३,३९.७१ ॥ संवीक्ष्य सर्वजनता विशेषेण विसिस्मिये । तदा प्रभृति कल्याणी कामाक्षीत्यभिधामियात् । तदुच्चारणमात्रेण श्रीदेवी शं प्रयच्छति ॥ ३,३९.७२ ॥ कामाक्षीति त्रयो वर्णाः सर्वमङ्गलहेतवः । अथ सा जगदीशानी वेदवेदाङ्गपारगे ॥ ३,३९.७३ ॥ विधौ नित्यं निषीदेति संदिदेश सरस्वतीम् । सापि वाणीश्वरी गङ्गाहस्तनिक्षिप्तचामरा । पश्यतां सर्वदेवानां विधातुर्मुखमाविशत् ॥ ३,३९.७४ ॥ इन्दिरा च महालक्ष्म्या संदिष्टा तुष्टया तथा । यथोचितनिवासाय विष्णोर्वक्षस्थलं मुदा । तदाज्ञां शिरसा धृत्वा रमा विष्णुश्च भक्तितः ॥ ३,३९.७५ ॥ तावुभौ दंपती नत्वा महात्रिपुरसुन्दरीम् । प्रार्थयामासतुर्भूयस्तदावरणदेवताम् ॥ ३,३९.७६ ॥ तथास्त्विति वरं दत्त्वा ताभ्यां त्रिपुरसुन्दरम् । तदावरणदेवत्वं प्राप्तौ पद्माच्युतौ तदा ॥ ३,३९.७७ ॥ स्वपीठोत्तरमास्थाप्य दक्षिणे स्थितवान्स्वयम् । अथोवाच महागौरीं त्वमन्यद्रूपमाचर । तत्र यातो महागौर्याः प्रतिबिंबो मनोहरः ॥ ३,३९.७८ ॥ चकासद्दिव्यदेहेन महागौरीसमाकृतिः । तरुणारुणराजाभसैन्दर्यचरणद्वयः ॥ ३,३९.७९ ॥ क्वणत्कङ्कणमञ्जीरतित्तिरीकृतपीठकः । विद्युदुल्लासितस्वानमनोज्ञमणिमेखलः ॥ ३,३९.८० ॥ रत्नकङ्कणकेयूरविराजितभुजद्वयः । मुक्तावैदूर्यमाणिक्य निबद्धवरबन्धनः ॥ ३,३९.८१ ॥ विभ्राजमानो मध्येन वलित्रितयशोभितः । जाह्नवीसरिदावर्तशोभिनाभीविभूषितः ॥ ३,३९.८२ ॥ पाटीरपङ्ककर्पूरकुङ्कुमालङ्कृतस्तनः । आमुक्तमुक्तालङ्कारभासुरस्तनकुञ्चुकः ॥ ३,३९.८३ ॥ विनोदेन कटीदेशलंबमानसुशृङ्खलः । माणिक्यशकलाबद्धमुद्रिकाभिरलङ्कृतः ॥ ३,३९.८४ ॥ दक्षहस्तांबुजासक्तस्निग्धोज्जवलमनोहरः । आभात्याप्रपदीनस्रग्दिव्याकल्पकदंबकैः ॥ ३,३९.८५ ॥ दीप्तभूषणरत्नांशुराजिराजितदिङ्मुखः । तप्तहाटकसंकॢप्तरत्नग्रीबोपशोभितः ॥ ३,३९.८६ ॥ माङ्गल्यसूत्ररत्नांशुशोणिमाधरकन्धरः । पालीवतंसमाणिक्यताटङ्कपरिभूषितः ॥ ३,३९.८७ ॥ जपाविद्रुमलावण्यललिताधरपल्लवः । दाडिमीफलबीजाभदन्तपङ्क्तिविराजितः ॥ ३,३९.८८ ॥ मन्दमन्दस्मितोल्लासिकपोलफलकोमलः । औपम्यरहितोदारनासामणिमनोहरः ॥ ३,३९.८९ ॥ विलसत्तिलपुष्पश्रीविमलोन्नत नासिकः । ईषदुन्मेषमधुरनीलोत्पलविलोचनः ॥ ३,३९.९० ॥ नवप्रसूनचापश्रीललितभ्रूविकाशकः । अर्द्धेन्दुतुलितो भाले पूर्णेन्दुरुचिराननः ॥ ३,३९.९१ ॥ सांद्रसौरभसंपन्नकस्तूरीतिलकोज्ज्वलः । मत्तालिमालाविलसदलकाढ्यमुखांबुजः ॥ ३,३९.९२ ॥ पारिजातप्रसूनस्रग्वाहिधम्मिल्लबन्धनः । अत्यर्थरत्नखचितमुकुटाञ्चितमस्तकः ॥ ३,३९.९३ ॥ सर्वलावण्यवसतिर्भवनं विभ्रमाश्रियः । शिवो विष्णुश्च तत्रत्याः समस्ताश्च महाजनाः ॥ ३,३९.९४ ॥ बिंबस्य तस्य देव्याश्च अभेदं जगृहुस्तदा । अथ तर्हि महेशानी स्वतन्त्रा प्रविवेश ह ॥ ३,३९.९५ ॥ अग्रतः सर्बदेवानामाश्रयेण प्रपश्यताम् । बिम्बं कृत्वात्मना बिम्बे संप्रविश्य स्थितां च ताम् । दृष्ट्वा भूयो नमस्कृत्य पुनः प्रार्थितवान्विधिः ॥ ३,३९.९६ ॥ पूर्णब्रह्मे महाशक्ते महात्रिपुरसुन्दरि । श्रीकामाक्षीति विख्याते नमस्तुभ्यं दिनेदिने । किञ्चिद्विज्ञापयाम्यद्य शृणु तत्कृपया मम ॥ ३,३९.९७ ॥ अत्रैव तु महागौर्या महेशस्योभयोरपि । श्रीदेवि नित्यकल्याणि विवाहः प्रतिवत्सरम् । कर्तव्यो जगतामृद्धसेवायै च दिवौकसाम् ॥ ३,३९.९८ ॥ भूलोकेऽस्मिन्महादेवि विमूढा जनता अपि । तां दृष्ट्वा भक्तितो नत्वा प्रयान्तु परमां गतिम् ॥ ३,३९.९९ ॥ तथेत्याकाशवाण्या तु ददौ तस्यौत्तरं परा । विससर्ज च सर्वांस्तान्स्वनिकेतनिवृत्तये ॥ ३,३९.१०० ॥ तदद्भुततमं शीलं स्मृत्वा स्मृत्वा मुहुर्मुहुः । तां नमस्कृत्य ते सर्वे ततो जगमुर्यथागतम् ॥ ३,३९.१०१ ॥ पितामहस्तु हृष्टात्मा मुकुन्देन शिवेन च । सार्धं श्रीमन्दिरे तत्र मन्त्रोपेतां निवेश्य च । आराध्य वैदिकैः स्तोत्रैः साष्टाङ्गं प्रणनाम सः ॥ ३,३९.१०२ ॥ अथाकाशगिरा देवी ब्रह्माणमिदमब्रवीत् ॥ ३,३९.१०३ ॥ विष्णुं शिवं च स्वस्थाने समाधाय समाहितः । प्रतिसंवत्सरं तत्र सेवां कुरुदृढाशय ॥ ३,३९.१०४ ॥ स्वयंव्यक्तमिह श्रीशमित्रेशांबासमन्वितम् । श्रीकामगिरिपीठं तु साक्षाच्छ्रीपुरमध्यगम् ॥ ३,३९.१०५ ॥ वामभागे वृतं लक्ष्यं विष्णुनान्यत्र सेविनम् ॥ ३,३९.१०६ ॥ चिदानन्दाकाररूपं सर्वपीठाधिदैवतम् । अदृश्यमूर्तिमव्यक्तमादधार यथा विधि ॥ ३,३९.१०७ ॥ श्रीमनोज्ञे सुनक्षत्रे दलानां हीरकोरकैः । अर्चिष्मद्भिरप्रधृष्यैर्ल्लोकानामभिवृद्धये ॥ ३,३९.१०८ ॥ इदानीं त्वं तदभ्यर्च्य यधाविधि विधे मुदा । मण्डलं त्वखिलं कृत्वा निजलोकं हि पालय ॥ ३,३९.१०९ ॥ इत्युक्तो भगवान्ब्रह्मा तथा कृत्वा तदीरितम् । निक्षिप्य हृदि तां देवीं निजं धाम जगाम सः ॥ ३,३९.११० ॥ इति ते तत्त्वतः प्रोक्तं कामाक्षीशीलमद्भुतम् । साक्षादेवमहालक्ष्मीमिमां विद्धि घटोद्भव ॥ ३,३९.१११ ॥ य इदं शृणुयान्नित्यं यश्चापि प्रयतः पठेत् । तस्य भुक्तिश्च मुक्तिश्च करस्था नात्र संशयः ॥ ३,३९.११२ ॥ बृहस्पतिसमो बुद्ध्या सर्वविद्याधिपो भवेत् । आदिर्नारायणः श्रीमान्भगवान्भक्तवत्सलः ॥ ३,३९.११३ ॥ तपसा तोषितः पूर्वं मया च चिरकालतः । सारूप्यमुक्तिं कृपया दत्त्वा पुत्राय मे प्रभुः । महात्रिपुरसुन्दर्या महात्म्यं समुपादिशत् ॥ ३,३९.११४ ॥ ततस्तस्मादहं किञ्चिद्वेद्मि वक्ष्ये न चान्यथा । रहस्यमन्त्रं संवक्ष्येशृणु तं त्वं समाहितः ॥ ३,३९.११५ ॥ न ब्रह्मा न च विष्णुर्वा न रुद्रश्च त्रयोऽप्यमी । मोहिता मायया यस्यास्तुरीयस्तु स चेश्वरः । सदाशिवो न जानाति कथं प्राकृतदेवताः ॥ ३,३९.११६ ॥ सदाशिवस्तु सर्वात्मा सच्चिदानन्दविग्रहः । अकर्तुमन्यथा कर्तुं कर्तुमस्या अनुग्रहात् ॥ ३,३९.११७ ॥ सदा कश्चित्तदेवाहं मन्यमानो महेश्वरः । तन्मायामोहितो भूत्वा त्ववशः शवतामगात् ॥ ३,३९.११८ ॥ सैव कारणमेतेषामुत्पत्तौ च लयेऽपि च । कश्चिदत्र विशेषोऽस्ति वक्तव्यांशोऽपि तं शृणु ॥ ३,३९.११९ ॥ ब्रह्मादीनां त्रयाणां च तुरीयस्त्वीश्वरः प्रभुः । चतुर्णामपि सर्वेषामादि कर्ता सदाशिवः ॥ ३,३९.१२० ॥ एतद्रहस्यं कथितं तस्याश्चरितमद्भुतम् । भूय एव प्रवक्ष्यामि सावधानमनाः शृणु ॥ ३,३९.१२१ ॥ इति श्रीब्रह्माण्डे महापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने एकोनचत्वारिंशोऽध्यायः _____________________________________________________________ अगस्त्य उवाच श्रीकामकोष्ठपीठस्था महात्रिपुरसुन्दरी । कङ्कं विलासमकरोत्कामाक्षीत्यभिविश्रुता ॥ ३,४०.१ ॥ श्रीकामाक्षीति सा देवी महात्रिपुरसुंदरी । भूमण्डलस्थिता देवी किं करोति महेश्वरी । एतस्याश्चरितं दिव्यं वद मे वदतां वर ॥ ३,४०.२ ॥ हयग्रीव उवाच अत्र स्थितापि सर्वेषां हृदयस्था घटोद्भव । तत्तत्कर्मानुरूपं सा प्रदत्ते देहिनां फलम् ॥ ३,४०.३ ॥ यत्किञ्चिद्वर्तते लोके सर्वमस्या विचेष्टितम् । किञ्चिच्चिन्तयते कश्चित्स्वच्छन्दं विदधात्यसौ ॥ ३,४०.४ ॥ तस्या एवावतारास्तु त्रिपुराद्याश्च शक्तयः । इयमेव महालक्ष्मीः ससर्जाण्डत्रयं पुरा ॥ ३,४०.५ ॥ परत्रयाणामावासं शक्तीनां तिसृणामपि । एकस्मादण्डतो जातावंबिकापुरुषोत्तमौ ॥ ३,४०.६ ॥ श्रीविरिञ्चौ ततोऽन्यस्मादन्य स्माच्च गिराशिवौ । इन्दिरां योजयामास मुकुन्देन महेश्वरी । पार्वत्या परमेशानं सरस्वत्या पितामहम् ॥ ३,४०.७ ॥ ब्रह्माणं सर्व लोकानां सृष्टिकार्ये न्ययुङ्क्त सा । वासुदेवं परित्राणे संहारे च त्रिलोचनम् ॥ ३,४०.८ ॥ ते सर्वेऽपि महालक्ष्मीं ध्यायन्तः शर्मदां सदा । ब्रह्मलोके च वैकुण्ठे कैलासे च वसंत्यमी ॥ ३,४०.९ ॥ कदाचित्पार्वती देवी कैलासशिखरे शुभे । विहरन्ती महेशस्य पिधानं नेत्रयोर्व्यधात् ॥ ३,४०.१० ॥ चन्द्रसूर्यौं यतस्तस्य नेत्रात्तस्माज्जगत्त्रयम् । अन्धकारावृतमभूदतेजस्कं समन्ततः ॥ ३,४०.११ ॥ ततश्च सकला लोका स्त्यक्तदेवपितृक्तियाः । इति कर्त्तव्यतामूढा न प्रजानन्त किञ्चन ॥ ३,४०.१२ ॥ तद्दृष्ट्वा भगवान्रुद्रः पार्वतीमिदमब्रवीत् । त्वया पापं कृतं देवि मम नेत्रपिधानतः ॥ ३,४०.१३ ॥ ऋषयस्त्यक्ततपसो हतसन्ध्याश्च वैदिकाः । सर्वं च वैदिकं कर्म त्वया नाशितमंबिके ॥ ३,४०.१४ ॥ तस्मात्पापस्य शान्त्यर्थं तपः कुरु सुदुष्करम् । गत्वा काशीं व्रतं तत्र किञ्चित्कालं समाचर ॥ ३,४०.१५ ॥ पश्चात्काञ्चीपुरं गत्वा कामाक्षीं तत्र द्रक्ष्यसि । आराधयैतां नित्यां त्वं सर्वपापहरीं शिवाम् ॥ ३,४०.१६ ॥ तुलसीमग्रतः कृत्त्वा कम्पाकूले तपः कुरु । इत्यादिश्य महादेवस्तत्रैवान्तरधीयत ॥ ३,४०.१७ ॥ तथा कृतवतीशानी भर्तुराज्ञानुवर्तिनी । चिरेण तपसा क्लिष्टामनन्यहृदयां शिवाम् ॥ ३,४०.१८ ॥ अग्रतः कृतसांनिध्या कामाक्षी वाक्यमब्रवीत् । वत्से तपोभिरत्युग्रैरलं प्रीतास्मि सुव्रते ॥ ३,४०.१९ ॥ उन्मील्य नयने पश्चात्पार्वती स्वपुरः स्थिताम् । बालार्कायुतसंकाशां सर्वाभरणभूषिताम् ॥ ३,४०.२० ॥ किरीटहारकेयूरकटकाद्यैरलङ्कृताम् । पाशाङ्कुशेक्षुकोदण्डपञ्चबाणलसत्कराम् ॥ ३,४०.२१ ॥ किरीटमुकुटोल्लासिचन्द्ररेखाविभूषणाम् । विधातृहरिरुद्रेशसदाशिवपदप्रदाम् ॥ ३,४०.२२ ॥ सगुणं ब्रह्मतामाहुरनुत्तरपदाभिधाम् । प्रपञ्चद्वयनिर्माणकारिणीं तां परांबिकाम् ॥ ३,४०.२३ ॥ तां दृष्ट्वाथ महाराज्ञीं महा नन्दपरिप्लुता । पुलकाचितसर्वाङ्गी हर्षेणोत्फुल्ललोचना ॥ ३,४०.२४ ॥ चण्डिकामङ्गलाद्यैश्च सहसा स्वसखीजनैः । प्रणिपत्य च साष्टाङ्गं कृत्वा चैव प्रदक्षिणाम् ॥ ३,४०.२५ ॥ बद्धाञ्जलिपुटा भूयः प्रणता स्वैक्यरूपिणी । तामाह कृपया वीक्ष्य महात्रिपुरसुंदरी ॥ ३,४०.२६ ॥ बाहुभ्यां संपरिष्वज्य सस्नेहमिदमब्रवीत् । वत्से लभस्व भर्तारं रुद्रं स्वमनसेप्सितम् ॥ ३,४०.२७ ॥ लोके त्वमपि रक्षार्थं ममाज्ञाम नुवर्तय । अहं त्वमिति को भेदस्त्वमेवाहं न संशयः ॥ ३,४०.२८ ॥ किं पापं तव कल्याणि त्वं हि पापनिकृन्तनी । आमनन्ति हि योगीन्द्रास्त्वामेव ब्रह्मरूपिणीम् ॥ ३,४०.२९ ॥ लीलामात्रमिदं वत्से परलोकविडंबनम् । इत्यूचिषीं महाराज्ञीमबिकां सर्वमङ्गला । भक्त्या प्रणम्य पश्यन्ती परां प्रीतिमुपाययौ ॥ ३,४०.३० ॥ स्तुवत्यामेव पार्वत्यां तदानीमेव सापरा । प्रविष्टा हृदयं तस्याः प्रहृष्टाया महामुने ॥ ३,४०.३१ ॥ अथ विस्मयमापन्ना चिन्तयन्ती मुहुर्मुहुः । स्वप्नः किमेष दृष्टो वा मया किमथ वा भ्रमः ॥ ३,४०.३२ ॥ इत्थं विमृश्य परितः प्रेरयामास लोचने । जयां च विजयां पश्चात्सख्यावालोक्य सस्मिते । प्रसन्नवदना सा तु प्रणते वदति स्म सा ॥ ३,४०.३३ ॥ एतावन्तमलं कालं कुत्र याते युवां प्रिये । मया दृष्टां तु कामाक्षीं युवां चेत्किमपश्यतम् ॥ ३,४०.३४ ॥ सख्यौ तु तद्वचः श्रुत्वा प्रहर्षोत्फुल्ललोचने । पुष्पाणि पूजनार्हाणि निधायाग्रे समूचतुः ॥ ३,४०.३५ ॥ सत्यमेवाधुना दृष्टा ह्यावाभ्यामपि सा परा । न स्वप्नो न भ्रमो वापि साक्षात्ते हृदयं गता । इत्युक्त्वा पार्श्वयोस्तस्या निषण्णे विनयानते ॥ ३,४०.३६ ॥ एकाम्रमूले भगवान्भवानीविरहार्तिमान् । गौरीसंप्राप्तये दध्यौ कामाक्षीं नियतेन्द्रियः ॥ ३,४०.३७ ॥ तत्रापि कृतसांनिध्या श्रीविद्यादेवता परा । अचष्ट कृपया तुष्टा ध्यायन्तं निश्चलं शिवम् ॥ ३,४०.३८ ॥ अलं ध्यानेन कन्दर्पदर्पघ्न त्वं ममाज्ञया । अङ्गीकुरुष्व कन्दर्पं भूयो मच्छासने स्थितम् ॥ ३,४०.३९ ॥ एकाम्रसंज्ञे मत्पीठे त्विहैव निवसन्सदा । त्वमेवागत्य मत्प्रीत्यै संनिधौ मम सुव्रत । गौरीमनुगृहाण त्वं कंपानीरनिवासिनीम् ॥ ३,४०.४० ॥ तापद्वयं जहीह्याशु योगजं तद्वियोगजम् । इत्युक्त्वान्तर्दधे तस्य हृदये परमा रमा ॥ ३,४०.४१ ॥ शिवो व्युत्थाय सहसा धीरः संहृष्टमानसः । तस्या अनुग्रहं लब्ध्वा सर्वदेवनिषेवितः ॥ ३,४०.४२ ॥ हृदिध्यायंश्च तामेव महात्रिपुरसुन्दरीम् । यद्विलासात्समुत्पन्नं लयं याति च यत्र वै ॥ ३,४०.४३ ॥ जगच्चराचरं चैतत्प्रपञ्चद्वितयात्मकम् । भूषयन्तीं शिवां कम्पामनुकंपार्द्रमानसाम् ॥ ३,४०.४४ ॥ अङ्गीकृत्य तदा गौरी वैवाहिकविधानतः । आदाय वृषमारुह्य कैलासशिखरं ययौ ॥ ३,४०.४५ ॥ पुनरन्यं महप्राज्ञं समाकर्णय कुम्भज । आदिलक्ष्म्याः प्रभावं तु कथयामि तवानघ ॥ ३,४०.४६ ॥ सभायां ब्रह्मणो गत्वा समासेदुस्त्रिमुर्त्तयः । दिक्पालाश्च सुराः सर्वे सनकाद्याश्च योगिनः ॥ ३,४०.४७ ॥ देवर्षयो नारदाद्या वशिष्ठाद्याश्च तापसाः । ते सर्वे सहितास्तत्र ब्रह्मणश्च कपर्दिनः । द्वयोः पञ्चमुखत्वेन भेदं न विविदुस्तदा ॥ ३,४०.४८ ॥ अन्योन्यं पृष्टवन्तस्ते ब्रह्मा कः कश्चशङ्करः । तेषां संवदतां मध्ये क्षिप्रमन्तर्हितः शिवः ॥ ३,४०.४९ ॥ तदा पञ्चमुखो ब्रह्मा सितो नारायणस्तयोः । उभयोरपि संवादस्त्वहं ब्रह्मेत्यजायत ॥ ३,४०.५० ॥ अ५ अन्नाभिकमलाज्जातस्त्वं यन्ममात्मजः । सृष्टिकर्ता त्वहं ब्रह्मा नामसाधर्म्यतस्तथा । त्वं च रुद्रश्च मे पुत्रौ सृष्टिकर्तुरुभौ युवाम् ॥ ३,४०.५१ ॥ इति मायामोहितयोरुभयोरन्तरे तदा । तयोश्च स्वस्य माहात्म्यमहं ब्रह्मेति दर्शयन् । प्रादुरासीन्महाज्योतिस्तंभरूपो महेश्वरः ॥ ३,४०.५२ ॥ ज्ञात्वैवैनं महेशानं विष्णुस्तूष्णीं ततः स्थितः । पञ्चवक्त्रस्ततो ब्रह्मा ह्यवमत्यैवमास्थितः । ब्रह्मणः शिरसामूर्ध्वं ज्योतिश्चक्रमभूत्पुरः ॥ ३,४०.५३ ॥ तन्मध्ये संस्थितो देवः प्रादुरासोमया सह । ऊर्ध्वमैक्षथ भूयस्तमवमत्य वचोऽब्रवीत् ॥ ३,४०.५४ ॥ तन्निशम्य भृशं क्रोधमवाप त्रिपुरान्तकः । विष्णुमेवं तदालोक्य क्रोधेनैव विकारतः ॥ ३,४०.५५ ॥ तयोरेव समुत्पन्नो भैरवः क्रोधसंयुतः । मूर्धानमेकं चिच्छेद नखेनैव तदा विधेः । हाहेति तत्र सर्वेऽपि क्रन्दन्तश्च पलायिताः ॥ ३,४०.५६ ॥ अथ ब्रह्मकपालं तु नखलग्नं स भैरवः । भूयोभूयो धुनोति स्म तथापि न मुमोच तम् ॥ ३,४०.५७ ॥ तद्ब्रह्महत्यामुक्त्यर्थं चचार धरणीतले । पुण्यक्षेत्राणि सर्वाणि गङ्गाद्याश्च महानदीः ॥ ३,४०.५८ ॥ न च ताभिर्विमुक्तोऽभूत्कपाली ब्रह्महत्यया । विषण्णवदनो दीनो निःश्रीक इव लक्षितः । चिरेण प्राप्तवान्काञ्चीं ब्रह्मणा पूर्वमोषिताम् ॥ ३,४०.५९ ॥ तत्र भिक्षामटन्नित्यं सेवमानः परा श्रियम् । पञ्चतीर्थे प्रतिदिनं स्नात्वा भूलक्षणाङ्किते ॥ ३,४०.६० ॥ कञ्चित्कालमुवासाथ प्रभ्रान्त इव बिल्वलः । काञ्चीक्षेत्रनिवासेन क्रमेण प्रयताशयः ॥ ३,४०.६१ ॥ निर्धूतनिखिलातङ्कः श्रीदेवीं मनसा वान् । उत्तरे सेवितुं लक्ष्म्या वासुदेवेन दक्षिणे ॥ ३,४०.६२ ॥ श्रीकामकोष्ठमागत्य पुरस्तात्तस्य संस्थितः । आदिलक्ष्मीपदध्यानमाततान यतात्मवान् ॥ ३,४०.६३ ॥ यथा दीपो निवातस्थो निस्तरङ्गो यथांबुधिः । तथान्तर्वायुरोधेन न चचाला चलेश्वरः ॥ ३,४०.६४ ॥ तैलधारावदच्छिन्नामनवच्छिन्नभैरवः । वितेने शैलतनयानाथश्रीध्यानसन्ततिम् । न ब्रह्मा नैव विष्णुर्वा न सिद्धः कपिलोऽपि वा ॥ ३,४०.६५ ॥ नान्ये च सनकाद्या ये मुनयो वा शुकादयः । तया समाधिनिष्ठायां न समर्थाः कथञ्चन ॥ ३,४०.६६ ॥ अथ श्रीभावयोगेन श्रीभावं प्राप्तवाञ्शिवः । ततः प्रसन्ना श्रीदेवी प्रभामण्डलवर्तिनी । अर्धरात्रे पुरः स्थित्वा वाचं प्रोवाच वाङ्मयी ॥ ३,४०.६७ ॥ श्रीकण्ठ सर्वपापघ्न किं पापं तव विद्यते । मद्रूपस्त्वं कथं देहः सेयं लोकविडम्बना ॥ ३,४०.६८ ॥ श्वोभूते ब्रह्महत्यायाः क्षणान्मुक्तो भविष्यसि । इत्युक्त्वान्तर्दधे तत्र महासिंहासनेश्वरी ॥ ३,४०.६९ ॥ भैरवोऽपि प्रहृष्टात्मा कृतार्थः श्रीविलोकनात् । विनीय तं निशाशेषं श्रीध्यानैकपरायणः ॥ ३,४०.७० ॥ प्रातः पञ्चमहातीर्थे स्नात्वा सन्ध्यामुपास्य च । पुनः पुनर्धूनुते स्म करलग्नं कपालकम् ॥ ३,४०.७१ ॥ तथापि तत्तु नास्रंसत्स निर्वेदं परं गतः । स्वप्नः किमेष माया वा मानसभ्रान्तिरेव वा ॥ ३,४०.७२ ॥ मुहुरेवं विचिन्त्येशः शोकव्याकुलमानसः । स्वयमेव निगृह्याथ शोकं धीराग्रणीः शिवः ॥ ३,४०.७३ ॥ तुलसीमण्डलं नत्वा पूजयित्वा पुरः स्थितः । निगृहीतेन्द्रियग्रामः समाधिस्थोऽभवत्पुनः ॥ ३,४०.७४ ॥ याममात्रे गते देवी पुनः सांनिध्यमागता । अलं समाधिना शम्भो निमज्जात्र सरोवरे ॥ ३,४०.७५ ॥ इत्या दिश्य तिरोऽधत्त सोऽपि चिन्तामुपागमत् । इयं च माया स्वप्नो वा किं कर्त्तव्यं मयाथ वा ॥ ३,४०.७६ ॥ श्वोभूते ब्रह्महत्यायाः क्षणान्मुक्तो भविष्यसि । इत्युक्तं श्रीपरादेव्या यामातीतमिदं दिनम् ॥ ३,४०.७७ ॥ एवं सर्वं च मिथ्यैवेत्यधिकं चिन्तयावृतः । भगवान्व्यो मवाण्या तु निमज्जाप्स्विति गर्जितम् ॥ ३,४०.७८ ॥ श्रुत्वा शङ्कां समुत्सृज्य तत्त्वं निश्चित्य शङ्करः । निममज्ज सरस्यां तु गङ्गायां पुनरुत्थितः ॥ ३,४०.७९ ॥ तत्र काशीं समालोक्य किमेतदिति चिन्तयन् । स मुहुर्तं स्थितस्तूष्णीं नखलीनकपालकः ॥ ३,४०.८० ॥ ललाटन्त पमुद्वीक्ष्य तरणिं तरुणोन्दुभृत् । भिक्षार्थं नगरीमेनां प्रविवेश वशी शिवः ॥ ३,४०.८१ ॥ गृहाणि कानिचिद्गत्वा प्रतोल्यां पर्यटन्भवः । सोऽपश्यदग्रतः काञ्चित्काञ्चीं श्रीदेवताकृतिम् ॥ ३,४०.८२ ॥ भिक्षां ज्योतिर्मयीं तस्मै दत्त्वा क्षिप्रं तिरोदधे । क्षणाद्ब्रह्मकपालं तत्प्रच्युतं तन्नखाग्रतः ॥ ३,४०.८३ ॥ तद्दृष्ट्वाद्भुतमीशानः कामाक्षी शीलमुत्तमम् । प्रसन्नवदनांभोजो बहु मेने मुहुः परम् ॥ ३,४०.८४ ॥ पुरी काञ्ची पुरी पुण्या नदी कंपा नदी परा । देवता सैव कामाक्षीत्यासीत्संभावना पुरः ॥ ३,४०.८५ ॥ इत्थं देवीप्रभावेण विमुक्तः संकटाद्धरः । स्वस्थः स्वस्थानमगमच्छ्लाघमानः परां श्रियम् ॥ ३,४०.८६ ॥ पुनरन्यत्प्रवक्ष्यामि विलासं शृणु कुम्भज । प्रभावं श्रीमहादेव्याः कामदं शृण्वतां सदा ॥ ३,४०.८७ ॥ अयोध्याधिपतिः श्रीमान्नाम्ना दशरथो नृपः । सन्तानरहितोऽतिष्ठद्बहुकालं शुचाकुलः ॥ ३,४०.८८ ॥ रहस्याहूय मतिमान्वशिष्ठं स्वपुरोहितम् । उवाचाचारसंशुद्धः सर्वशास्त्रार्थवेदिनम् ॥ ३,४०.८९ ॥ श्रीनाथ बहवोऽतीताः कालानाधिगतः सुतः । संततेर्मम संतापः संततं वर्धतेतराम् । किं कुर्वे यदि संतानसंपत्स्यात्तन्निवेदय ॥ ३,४०.९० ॥ वशिष्ठ उवाच मम वंश महाराज रहस्यं कथयामि ते । अयोध्या मथुरा माया काशी काञ्ची ह्यवन्तिका । एता पुण्यतमाः प्रोक्ताः पुरीणामुत्तमोत्तमाः ॥ ३,४०.९१ ॥ अस्याः सांनिध्यमात्रेण महात्रिपुरसुन्दरीम् । अर्चयन्ति ह्ययोध्यायां मनुष्या अधिदेवताम् ॥ ३,४०.९२ ॥ नैतस्याः सदृशी काचिद्देवता विद्यते परा । एनामेवर्चयन्त्यन्ये सर्वे श्रीदेवतां नृप ॥ ३,४०.९३ ॥ ब्रह्मविष्णुमहेशाद्याः सस्त्रीकाः सर्वदा सदा । नारिकेलफलालीभिः पनसैः कदलीफलैः ॥ ३,४०.९४ ॥ मध्वाज्यशर्कराप्राज्यैर्महापायसराशिभिः । सिद्धद्रव्यविशेषैश्च पूजयेत्त्रिपुरांबिकाम् । अभीष्टमचिरेणैव संप्रदास्यति सैव नः ॥ ३,४०.९५ ॥ इत्युक्तवन्तमभ्यर्च्य गुरुमिष्टैरुपायनैः । स्वाङ्गजप्राप्तये भूयो विससर्ज विशांपतिः ॥ ३,४०.९६ ॥ ततो गुरूक्तरीत्यैव ललितां परमेश्वरीम् । अर्चयामास राजेन्द्रो भक्त्या परमया युतः ॥ ३,४०.९७ ॥ एवं प्रतिदिनं पूजां विधाय प्रीतमानसः । अयोध्यादेवताधामामशिषत्तत्र सङ्गतः ॥ ३,४०.९८ ॥ अर्धरात्रे व्यतीते तु निभृतोल्लासदीपिके । किञ्चिन्निद्रालसस्यास्य पुरतस्त्रिपुरांबिका ॥ ३,४०.९९ ॥ पाशाङ्कुशधनुर्बाणपरिष्कृतचतुर्भुजा । सर्वशृङ्गारवेषाढ्या सर्वाभरणभूषिता । स्थित्वा वाचमुवाचेमां मन्दमिन्दुमतीसुतम् ॥ ३,४०.१०० ॥ अस्ति पङ्क्तिरथ श्रीमन्पुत्रभाग्यं तवानघ । विश्वासघातकर्माणि संति पूर्वकृतानि ते ॥ ३,४०.१०१ ॥ तादृशां कर्मणां शान्त्यै गत्वा काञ्चीपुरं वरम् । स्नात्वा कम्पासरस्यां च तत्र मां पश्य पावनीम् ॥ ३,४०.१०२ ॥ मध्ये काञ्चीपुरस्य त्वं कन्दराकाशमध्यगम् । कामकोष्ठं विपाप्मापि सप्तद्वारबिलान्वितम् ॥ ३,४०.१०३ ॥ साम्राज्यसूचकं पुंसां त्रयाणामपि सिद्धिदम् । प्राङ्मुखी तत्र वर्तेऽहं महासिंहासनेश्वरी ॥ ३,४०.१०४ ॥ महालक्ष्मीस्वरूपेण द्विभुजा पद्मधारिणी । चक्रेश्वरी महाराज्ञी ह्यदृश्या स्थूलचक्षुषाम् ॥ ३,४०.१०५ ॥ ममाक्षिजा महागौरी वर्तते मम दक्षिणे । सौन्दर्यसारसीमा सा सर्वाभरणभूषिता ॥ ३,४०.१०६ ॥ मया च कल्पिताऽवासा द्विभुजा पद्मधारिणी । महालक्ष्मीस्वरूपेण किं वा कृत्यात्मना स्थिता ॥ ३,४०.१०७ ॥ आपीठमौलिपर्यन्तं पश्य तस्तां ममांशजाम् । पातकान्याशु नश्यन्ति किं पुनस्तूपपातकम् ॥ ३,४०.१०८ ॥ कुवासना कुबुद्धिश्च कुतर्कनिचयश्च यः । कुदेहश्च कुभावश्च नास्तिकत्वं लयं व्रजेत् ॥ ३,४०.१०९ ॥ कुरुष्व मे महापूजां सितामध्वाज्यपायसैः । विविधैर्भक्ष्यभोज्यैश्च पदार्थैः षड्रसान्वितैः ॥ ३,४०.११० ॥ तत्रैव सुप्रसन्नाहं पूरयिष्यामि ते वरम् । उपदिश्येति सम्राज्ञी दिव्यमूर्तिस्तिरोदधे ॥ ३,४०.१११ ॥ राजापि सहसोत्थाय किमेतदिति विस्मितः । देवीमुद्बोध्य कौसल्यां शुभलक्षणलक्षिताम् ॥ ३,४०.११२ ॥ तस्यै तद्रात्रिवृत्तान्तं कथयामास सादरम् । तत्समा कर्ण्य सा देवी सन्तोषमभजत्तदा ॥ ३,४०.११३ ॥ प्राप्तहर्षो नृपः प्रातस्तया दयितया सह । अनीकसचिवोपेतः काञ्चीपुरमुपागमत् ॥ ३,४०.११४ ॥ स्नात्वा कंपातरङ्गिण्यां दृष्ट्वा देवीं च पावनीम् । पञ्चतीर्थे ततः स्नात्वा देव्या कौसल्यया नृपः ॥ ३,४०.११५ ॥ गोभूवस्त्र हिरण्याद्यैस्तत्तीर्थक्षेत्रवासिनः । प्रीणयित्वा सपत्नीकस्तथा तद्भक्तिपूजकान् ॥ ३,४०.११६ ॥ अथालयं समाविश्य महाभक्त्या नृपोत्तमः । प्रदक्षिणत्रयं कृत्वा विनयेन समन्वितः ॥ ३,४०.११७ ॥ ततः संनिधिमागत्य देव्या कौसल्यया सह । श्रीकामकोष्ठनिलयं महात्रिपुरसुन्दरीम् ॥ ३,४०.११८ ॥ त्रिमूर्तिजननीमंबां दृष्ट्वा श्रीचक्ररूपिणीम् । प्रणिपत्य तु साष्टाङ्गं भार्यया सह भक्तिमान् ॥ ३,४०.११९ ॥ स्वपुरे त्रैपुरे धाम्नि पुरेक्ष्वाकुप्रवर्तिते । दुर्वासा सशिष्येण पूजार्थं पूर्वकल्पिते ॥ ३,४०.१२० ॥ दासीदासध्वजारोहगृहोत्सवसमन्विते । तत्र स्वगुरुणोक्तं च कृत्वा स्वात्मार्घपूजनम् ॥ ३,४०.१२१ ॥ रात्रौ स्वप्ने तु यद्रूपं दृष्टवान्स्वपुरे महः । तदेवात्रापि संदध्यौ सन्निधौ राजसत्तमः ॥ ३,४०.१२२ ॥ चिरं ध्यात्वा महाराजः सुवासांसि बहूनि च । दिव्यान्यायतनान्यस्यै दत्त्वा स्तोत्रं चकार ह ॥ ३,४०.१२३ ॥ पादाग्रलंबिपरमाभरणाभिरामेमञ्जीररत्नरुचिमञ्जुलपादपद्मे । पीतांबरस्फुरितपेशलहेमकाञ्चि केयूरकङ्कणपरिष्कृतबाहुवल्लि ॥ ३,४०.१२४ ॥ पुण्ड्रेक्षुचापविलसन्मृदुवामपाणे रत्नोर्मिकासुमशराञ्चितदक्षहस्ते । वक्षोजमण्डलविलासिवलक्षहारि पाशाङ्कुशाङ्गदलसद्भुजशोभिताङ्गि ॥ ३,४०.१२५ ॥ वक्त्रश्रिया विजितशारदचन्द्रबिंबे ताटङ्करत्नकरमण्डितगण्डभागे । वामे करे सरसिजं सुबिसं दधाने कारुण्यनिर्झरदपाङ्गयुते महेशि ॥ ३,४०.१२६ ॥ माणिक्यसूत्रमणिभासुरकंबुकण्ठि भालस्थचन्द्रशकलोज्जवलितालकाढ्ये । मन्दस्मितस्फुरणशालिनि मञ्जुनासे नेत्रश्रिया विजितनीलसरोजपत्रे ॥ ३,४०.१२७ ॥ सुभ्रूलते सुवदने सुललाटचित्रे योगीन्द्रमानससरोजनिवासहंसि । रत्नानुबद्धतपनीयमहाकिरीटे सर्वाङ्गसुन्दरि समस्तसुरेन्द्रवन्द्ये ॥ ३,४०.१२८ ॥ काङ्क्षानुरूपवरदे करुणार्द्रचित्ते साम्राज्यसम्पदभिमानिनि चक्रनाथे । इन्द्रादिदेवपरिसेवितपादपद्मे सिंहासनेश्वरी परे मयि संनिदध्याः ॥ ३,४०.१२९ ॥ इति स्तत्वा स भूपालो बहिर्निर्गत्य भक्तितः । तस्यास्तु दक्षिणे भागे महागौरीं ददर्श ह ॥ ३,४०.१३० ॥ प्रणम्य दण्डवद्भूमौ कृत्वा चास्याः स्तुतिं पुनः । दत्त्वा चास्यै महार्हाणि वासांसि विविधानि च ॥ ३,४०.१३१ ॥ अमुल्यानि महार्हाणि भूषणानि महान्ति च । ततः प्रदक्षिणीकृत्य निर्गत्य सह भार्यया ॥ ३,४०.१३२ ॥ स्वगुरूक्तविधानेन महापूजां विधाय च । तामेव चिन्तयंस्तत्र सप्तरात्रमुवास सः ॥ ३,४०.१३३ ॥ अष्टमे दिवसे देवीं नत्वा भक्त्या विलोकयन् । अम्बाभीष्टं प्रदेहीति प्रार्थयामास चेतसा ॥ ३,४०.१३४ ॥ सुप्रसन्ना च कामाक्षी सांतरिक्षगिरावदत् । भविष्यन्ति मदंशास्ते चत्वारस्तनया नृप ॥ ३,४०.१३५ ॥ इत्युदीरितमाकर्ण्य प्रमोदविकसन्मुखः । श्रियं प्रणम्य साष्टाङ्गमननन्यशरणः पराम् ॥ ३,४०.१३६ ॥ आमन्त्र्य मनसैवांबां सस्त्रीकः सह मन्त्रिभिः । अयोध्यां नगरीं प्रापदिन्दुमत्यास्तु नन्दनः ॥ ३,४०.१३७ ॥ एवं प्रभावा कामाक्षी सर्वलोकहितैषिणी । सर्वेषामपि भक्तानां काङ्क्षितं पूरयत्यलम् ॥ ३,४०.१३८ ॥ एनां लोकेषु बहवः कामाक्षीं परदेवताम् । उपास्य विधिवद्भक्त्या प्राप्ताः कामानशेषतः ॥ ३,४०.१३९ ॥ अद्यापि प्राप्नुवन्त्येव भक्तिमन्तः फलं मुने । अनेके च भविष्यन्ति कामाक्ष्याः करुणादृशः ॥ ३,४०.१४० ॥ माहात्म्यमस्याः श्रीदेव्याः को वा वर्णयितुं क्षमः । नाहं न शम्भुर्न ब्रह्मा न विष्णुः किमुतापरे ॥ ३,४०.१४१ ॥ इति ते कथितं किञ्चित्कामाक्ष्याः शीलमुज्ज्वलम् । शृण्वतां पठतां चापि सर्वपापहरं स्मृतम् ॥ ३,४०.१४२ ॥ इति श्रीब्रह्माण्डे महापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने चत्वारिंशोऽध्यायः _____________________________________________________________ अगस्त्य उवाच कीदृशं यन्त्रमेतस्या मन्त्रोवा कीदृशो वरः । उपदेष्टा च कीदृक्स्याच्छिष्यो वा कीदृशः स्मृतः ॥ ३,४१.१ ॥ सर्वज्ञस्त्वं हयग्रीव साक्षात्परमपूरुषः । स्वामिन्मयि कृपादृष्ट्या सर्वमेतन्निवेदय ॥ ३,४१.२ ॥ हयग्रीव उवाच मन्त्रं श्रीचक्रगेवास्याः सेयं हि त्रिपुरांबिका । सैषैव हि महालक्ष्मीः स्फुरच्चैवात्मनः पुरा ॥ ३,४१.३ ॥ पस्यति स्म तदा चक्रं ज्योतिर्मयविजृंभितम् । अस्य चक्रस्य माहात्म्यमपरिज्ञेयमेव हि ॥ ३,४१.४ ॥ साक्षात्सैव महालक्ष्मीः श्रीचक्रमिति तत्त्वतः । यदभ्यर्च्य महाविष्णुः सर्वलोकविमोहनम् । कामसंमोहिनीरूपं भेजे राजीवलोचनः ॥ ३,४१.५ ॥ अर्चयित्वा तदीशानः सर्वविद्येश्वरोऽभवत् । तदाराध्य विशेषेण ब्रह्मा ब्रह्माण्डसूरभूत् । मुनीनां मोहनश्चासीत्स्मरो यद्वरिवस्यया ॥ ३,४१.६ ॥ श्रीदेव्याः पुरतश्चक्रं हेमरौप्यादिनिर्मितम् । निधाय गन्धैरभ्यर्च्य षोडशाक्षरविद्यया ॥ ३,४१.७ ॥ प्रत्यहं तुलसीपत्रैः पवित्रैर्मङ्गलाकृतिः । सहस्रैर्मूलमन्त्रेण श्रीदेवीध्यानसंयुतः ॥ ३,४१.८ ॥ अर्चयित्वा च मध्वाज्यशर्करापायसैः शुभैः । अनवद्यैश्च नैवेद्यैर्माषापूपैर्मनोहरैः ॥ ३,४१.९ ॥ यः प्रीणति महालक्ष्मीं मतिमान्मण्डलत्रये । महसा तस्य सांनिध्यमाधत्ते परमेश्वरी ॥ ३,४१.१० ॥ मनसा वाञ्छितं यच्च प्रसन्ना तत्प्रपूरयेत् । धवलै कुसुमैश्चक्रमुक्तरीत्या तु योर्ऽचयेत् ॥ ३,४१.११ ॥ तस्यैव रसनाभागे नित्यं नृत्यति भारती । पाटलैः कुसुमैश्चक्रं योर्ऽचयेदुक्तमार्गतः । सार्वभौमं च राजानं दासवद्वशयेदसौ ॥ ३,४१.१२ ॥ पीतवर्णैः शुभैः पुष्पैः पूर्ववत्पूजयेच्च यः । तस्य वक्षस्थले नित्यं साक्षाच्छ्रीर्वसति ध्रुवम् ॥ ३,४१.१३ ॥ दुर्गन्धैर्गन्धहीनैश्च सुवर्णैरपि नार्चयेत् । सुगन्धैरेव कुसुमैः पुष्पैश्चाभ्यर्चर्योच्छवाम् ॥ ३,४१.१४ ॥ कामाक्ष्यैव महालक्ष्मीश्चक्रं श्रीचक्रमेव हि । श्रीविद्यैषा परा विद्या नायिका गुरुनायिका ॥ ३,४१.१५ ॥ एतस्या मन्त्रराजस्तु श्रीविद्यैव तपोधन । कामराजान्तमन्त्रान्ते श्रीबीजेन समन्वितः ॥ ३,४१.१६ ॥ षोडशाक्षरविद्येयं श्रीविद्येति प्रकीर्तिता । इत्थं रहस्यमाख्यातं गोपनीयं प्रयत्नतः ॥ ३,४१.१७ ॥ तिसृणामपि मूर्तीनां शक्तिर्विद्येयमीरिता । सर्वेषा मपि मन्त्राणां विद्यैषा प्राणरूपिणी ॥ ३,४१.१८ ॥ पारंपर्येण विज्ञाता विद्येयं बन्धमोचिनी । संस्मृता पापहरणी जरामृत्युविनाशिनी ॥ ३,४१.१९ ॥ पूजिता दुःखदौर्भाग्यव्याधिदारिद्रयनाशिनी । स्तुता विघ्नौघशमिनी ध्याता सर्वार्थसिद्धिदा ॥ ३,४१.२० ॥ मुद्राविशेषतत्त्वज्ञो दीक्षाक्षपितकल्मषः । भजेद्यः परमेशानीमभीष्टफलमाप्नुयात् ॥ ३,४१.२१ ॥ धवलांबरसंवीतां धवलावासमध्यगाम् । पूजयेद्धवलैः पुष्पैर्ब्रह्मचर्ययुतो नरः ॥ ३,४१.२२ ॥ धवलैश्चैव नैवेद्यैर्दधिक्षीरौदनादिभिः । संकल्पधवलैर्वापि पूजयेत्परमेश्वरीम् ॥ ३,४१.२३ ॥ श्रीर्वालन्त्र्यक्षीबीजैः क्रमात्खण्डेषु योजिताम् । षोडशाक्षरविद्यां तामर्चयेच्छुद्धमानसः ॥ ३,४१.२४ ॥ अनुलोमविलोमेन प्रजपन्मात्रिकाक्षरैः ॥ ३,४१.२५ ॥ भावयन्नेव देवाग्रे श्रीदेवीं दीपरूपिणीम् । मनसोपांशुना वापि निगदेनापि तापस ॥ ३,४१.२६ ॥ श्रीदेवीन्याससहितः श्रीदेवीकृतविग्रहः । एकलक्षजपेनैव महापापैः प्रमुच्यते ॥ ३,४१.२७ ॥ लक्षद्वयेन देवर्षे सप्तजन्मकृतान्यपि । पापानि नाशयत्येव साधकस्य परा कला ॥ ३,४१.२८ ॥ लक्षत्रितयजापेन सहस्रजनिपातकैः । मुच्यते नात्र संदेहो निर्मलो नितरां मुने । क्रमात्षोडशलक्षेण देवीसांनिध्यमाप्नुयात् ॥ ३,४१.२९ ॥ पूजा त्रैकालिकी नित्यं जपस्तर्पणमेव च । होमो ब्राह्मणभुक्तिश्च पुरश्चरणमुच्यते ॥ ३,४१.३० ॥ होमतर्पणयोः स्वाहा न्यासपूजनयोर्नमः । मन्त्रान्ते पूजयेद्देवीं जपकाले यथोचितम् ॥ ३,४१.३१ ॥ जपाद्दशांशो होमः स्यात्तद्दशांशं तु तर्पणम् । तद्दशांशं ब्राह्मणानां भोजनं विन्ध्यमर्दन ॥ ३,४१.३२ ॥ देशकालोपघाते तु यद्यदङ्गं विहीयते । तत्संख्याद्विगुणं जप्त्वा पुरश्चर्यां समापयेत् ॥ ३,४१.३३ ॥ ततः काम्यप्रयोगार्थं पुनर्लक्षत्रयं जपेत् । व्रतस्थो निर्विकारश्च त्रिकालं पूजनेरतः । पश्चाद्वश्यादिकर्माणि कुर्वन्सिद्धिमवाप्स्यति ॥ ३,४१.३४ ॥ अभ्यर्च्य चक्रमध्यस्थो मन्त्री चिन्तयते यदा । सर्वमात्मानमरुणं साध्यमप्यरुणीकृतम् ॥ ३,४१.३५ ॥ ततो भवति विन्ध्यारे सर्वसौभाग्यसुन्दरः । वल्लभः सर्वलोकानां वशयेन्नात्रसंशयः ॥ ३,४१.३६ ॥ रोचनाकुङ्कुमाभ्यां तु समभागं तु चन्दनम् । शतमष्टोत्तरं जप्त्वा तिलकं कारयेद्बुधः ॥ ३,४१.३७ ॥ ततो यमीक्षते वक्ति स्पृशते चिन्तयेच्च यम् । अर्धेन च शरीरेण स वशं याति दासवत् ॥ ३,४१.३८ ॥ तथा पुष्पं फलं गन्धं पानं वस्त्रं तपोधन । शतमष्टोत्तरं जप्त्वा यस्यै संप्रोष्यते स्त्रियै । सद्य आकृष्यते सा तु विमूढहृदया सती ॥ ३,४१.३९ ॥ लिखेद्रोचन यैकान्ते प्रतिमामवनीतले । सुरूपां च सशृङ्गारवेषाभरणमण्डिताम् ॥ ३,४१.४० ॥ तद्भालगलहृन्नाभिजानुमण्डलयोजितम् । जन्मनाममहाविद्यामङ्कुशान्तर्विदर्भितम् ॥ ३,४१.४१ ॥ सर्वाङ्गसंधिसंलीनामालिख्य मदनाक्षरैः । तदाशाभिमुखो भूत्वा त्रिपुरीकृतविग्रहः ॥ ३,४१.४२ ॥ बद्ध्वा तु क्षोभिणीं मुद्रां विद्यामष्टशतं जपेत् । संयोज्य दहनागारे चन्द्रसूर्यप्रभाकुले ॥ ३,४१.४३ ॥ ततो विह्वलितापाङ्गीमनङ्गशरपीडिताम् । प्रज्वलन्मदनोन्मेषप्रस्फुरज्जघनस्थलाम् ॥ ३,४१.४४ ॥ शक्तिचक्रे लसद्रश्मिवलनाकवलीकृताम् । दूरीकृतसुचारित्रां विशालनयनाम्बुजाम् ॥ ३,४१.४५ ॥ आकृष्टनयनां नष्टधैर्यसंलीनव्रीडनाम् । मन्त्रयन्त्रौषधमहामुद्रानिगडबन्धनाम् । दूरीकृतसुचारित्रां विशालनयनाम्बुजाम् ॥ ३,४१.४६ ॥ मनोऽधिकमहामन्त्रजपमानां हृतांशुकाम् । विमूढामिव विक्षुब्धामिव प्लुष्टामिवाद्भुताम् ॥ ३,४१.४७ ॥ लिखितामिव निःसंज्ञामिव प्रमथितामिव । निलीनामिव निश्चेष्टामिवान्यत्वं गतामिव ॥ ३,४१.४८ ॥ भ्रमन्मन्त्रानिलोद्धूतवेणुपत्राकृतिं च खे । भ्रमन्तीं भावयेन्नारीं योजनानां शतादपि ॥ ३,४१.४९ ॥ चक्रमध्यगतां पृथ्वीं सशैलवनकाननाम् । चतुःसमुद्रपर्यन्तं ज्वलन्तीं चिन्तयेत्ततः ॥ ३,४१.५० ॥ षण्मासाभ्यासयोगेन जायते मदनोपमः । दृष्ट्वा कर्षयते लोकं दृष्ट्वैव कुरुते वशम् ॥ ३,४१.५१ ॥ दृष्ट्वा संक्षोभयेन्नारीं दृष्ट्वैव हरते विषम् । दृष्ट्वा करीति वागीशं दृष्ट्वा सर्वं विमोहयेत् । दृष्ट्वा चातुर्थिकादींश्च ज्वरान्नाशयते क्षणात् ॥ ३,४१.५२ ॥ पीतद्रव्येण लिखितं चक्रं गूढं तु धारयेत् । वाक्स्तंभं वादिनां क्षिप्रं कुरुते नात्र संशयः ॥ ३,४१.५३ ॥ महानीलीरसेनापि शत्रुनामयुतं लिखेत् । दक्षिणाभिमुखो वह्नौ दग्ध्वा मारयते रिपून् ॥ ३,४१.५४ ॥ महिषाश्वपुरीषाभ्यां गोमूत्रैर्नाम टङ्कितम् । आरनालस्थितं चक्रं विद्वेषं कुरुते द्विषाम् ॥ ३,४१.५५ ॥ युक्त्वा रोचनया नाम काकपक्षेण मध्यगम् । लंबमानस्तदाकारो उच्चाटनकरं परम् ॥ ३,४१.५६ ॥ दुग्धलाक्षारोचनाभिर्महानीलीरसेन च । लिखित्वा धारयंश्चक्रं चातुर्वर्ण्यं वशं नयेत् ॥ ३,४१.५७ ॥ अनेनैव विधानेन जलमध्ये यदि क्षिपेत् । सौभाग्यमतुलं तस्य स्नानपानान्न संशयः ॥ ३,४१.५८ ॥ चक्रमध्यगतं देशं नगरीं वा वराङ्गनाम् । ज्वलन्तीं चिन्तयेन्नित्यं सप्ताहात्क्षोभयेन्मुने ॥ ३,४१.५९ ॥ लिखित्वा पीतवर्णं तु चक्रमेतद्यदाचरेत् । पूर्वाशाभिमुखो भूत्वा स्तंभयेत्सर्ववादिनः ॥ ३,४१.६० ॥ सिंदूरवर्णलिखितं पूजयेदुत्तरामुखः । यदा तदा स्ववशगो लोको भवति नान्यथा ॥ ३,४१.६१ ॥ चक्रं गौरिकयालिख्यपूजयेत्पश्चिमामुखः । यः ससर्वाङ्गनाकर्षवश्यक्षोभकरो भवेत् ॥ ३,४१.६२ ॥ पूजयेद्विन्ध्यदर्पारे रहस्येकचरो गिरौ । अजरामरतां मन्त्री लभते नात्र संशयः ॥ ३,४१.६३ ॥ रहस्यमेतत्कथितं गोपितव्यं महामुने । गोपनात्सर्वसिद्धिः स्याद्भ्रंश एव प्रकाशनात् ॥ ३,४१.६४ ॥ अविधाय पुरश्चर्यां यः कर्म कुरुते मुने । देवताशापमाप्नोति न च सिद्धिं स विन्दति ॥ ३,४१.६५ ॥ प्रयोगदोषशान्त्यर्थं पुनर्लक्षं जपेद्बुधः । कुर्याच्च विधिवत्पूजां पुनर्योग्यो भवेन्नरः ॥ ३,४१.६६ ॥ निष्कामो देवतां नित्यं योर्ऽचयेद्भक्तिनिर्भरः ॥ ३,४१.६७ ॥ तामेव चिन्तयन्नास्ते यथाशक्ति मनुं जपन् ॥ ३,४१.६८ ॥ सैव तस्यैहिकं भारं वहेन्मुक्तिं च साधयेत् । सदा संनिहिता तस्य सर्वं च कथयेत सा ॥ ३,४१.६९ ॥ वात्सल्यसहिता धेनु यथा वत्समनुव्रजेत् । तथानुगच्छेत्सा देवी स्वभक्तं शरणागतम् ॥ ३,४१.७० ॥ अगस्त्य उवाच शरणागतशब्दस्य कोर्ऽथो वद हया नन । वत्सं गौरिव यं गौरी धावन्तमनुधावति ॥ ३,४१.७१ ॥ हयग्रीव उवाच यः पुमानखिलं भारमैहिकामुष्मिकात्मकम् । श्रीदेवतायां निक्षिप्य सदा तद्गतमानसः ॥ ३,४१.७२ ॥ सर्वानुकूलः सर्वत्र प्रतिकूलविवर्जितः । अनन्यशरणो गौरीं दृढं सम्प्रार्थ्य रक्षणे ॥ ३,४१.७३ ॥ रक्षिष्यतीति विश्वासस्तत्सेवैकप्रयोजनः । वरिवस्यातत्परः स्यात्सा एव शरणागतिः ॥ ३,४१.७४ ॥ यदा कदाचित्स्तुतिनिन्दनादौ निन्दन्तु लोकाः स्तुवतां जनो वा । इति स्वरूपं सुधिया समीक्ष्य विषादखेदौ न भजेत्प्रपन्नः ॥ ३,४१.७५ ॥ अनुकूलस्य संकल्पः प्रतिकूलस्य वर्जनम् । रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा ॥ ३,४१.७६ ॥ आत्मनिक्षेपकार्पण्ये षड्विधा शरणागतिः । अङ्गीकृत्यात्मनिक्षेपं पञ्चाङ्गानि समर्पयेत् । न ह्यस्य सदृशं किञ्चिद्भुक्तिमुक्त्योस्तु साधनम् ॥ ३,४१.७७ ॥ अमानित्वमदंभित्वमहिंसा क्षान्तिरार्जवम् । आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥ ३,४१.७८ ॥ इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च । जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् । असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ॥ ३,४१.७९ ॥ नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु । मयि चानन्यभावेन भक्तिख्यभिचारिणी ॥ ३,४१.८० ॥ विविक्तदेशसेवित्वमरतिर्जनसंसदि । अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् । एतानि सर्वदा ज्ञानसाधनानि समभ्यसेत् ॥ ३,४१.८१ ॥ तत्कर्मकृत्तत्परमस्तद्भक्तः संगवर्जितः । निर्वैरः सर्वभूतेषु यः स याति परां श्रियम् ॥ ३,४१.८२ ॥ गुरुस्तु मादृशो धीमान्ख्यातो वातापितापन । शिष्योऽपि त्वादृशः प्रोक्तो रहस्याम्नायदेशिकः ॥ ३,४१.८३ ॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने एकचत्वारिंशोऽध्यायः _____________________________________________________________ अगस्त्य उवाच मुद्राविरचनारीतिमश्वानन निवेदय । याभिर्विरचिताभिस्तु श्रीदेवी संप्रसीदति ॥ ३,४२.१ ॥ हयग्रीव उवाच आवाहनी महामुद्रा त्रिखण्डेति प्रकीर्तिता । परिवृत्य करौ स्पष्टमङ्गुष्ठौ कारयेत्समौ ॥ ३,४२.२ ॥ अनामान्तर्गते कृत्वा तर्जन्यौ कुटिलाकृती । कनिष्ठिके नियुञ्जीत निजस्थाने तपोधन । संक्षोभिण्याख्यामुद्रां तु कथयाम्यधुना श्रुणु ॥ ३,४२.३ ॥ मध्यमे मध्यगे कृत्वा कनिष्ठाङ्गुष्टरोधिते । तर्जन्यो दण्डवत्कृत्वा मध्यमोपर्यनामिके ॥ ३,४२.४ ॥ एतस्या एव मुद्राया मध्यमे सरले यदि । क्रियते विन्ध्यदर्पारे मुद्रा विद्राविणी तथा ॥ ३,४२.५ ॥ मध्यमातर्जनीभ्यां तु कनिष्ठानामिके समे । अङ्कुशाकाररूपाभ्यां मध्यगे कलशोद्भव । इयमाकर्षिणी मुद्रा त्रैलोक्याकर्षणे क्षमा ॥ ३,४२.६ ॥ पुटाकारौ करौ कृत्वा तर्जन्यावङ्कुशाकृती । परिवर्तक्रमेणैव मध्यमे तदधोगते ॥ ३,४२.७ ॥ क्रमेणानेन देवर्षे मध्यमामध्यगेऽनुजे । अनामिके तु सरले तद्बहिस्तर्जनीद्वयम् ॥ ३,४२.८ ॥ दण्डाकारौ ततोंऽगुष्ठौ मध्यमावर्तदेशगौ । मुद्रैषोन्मादिनी नाम्ना ख्याता वातापितापन ॥ ३,४२.९ ॥ अस्यास्त्वनामिकायुग्ममधः कृत्वाङ्कुशाकृति । तर्जन्यावपि तेनैव क्रमेण विनियोजयेत् ॥ ३,४२.१० ॥ इयं महाङ्कुशा मुद्रा सर्वकार्यार्थसाधिका ॥ ३,४२.११ ॥ सव्यं दक्षिणादेशे तु दक्षिणं सव्यदेशतः । बाहू कृत्वा तु देवर्षे हस्तौ सम्परिवर्त्य च ४२.१२ । कनिष्ठानामिके युक्ते क्रमेणानेन तापस । तर्जनीभ्यां समाक्रान्ते सर्वोर्ध्वमपि मध्यमे ॥ ३,४२.१३ ॥ लोपामुद्रापतेङ्गुष्ठौ कारयेत्सकलावपि । इयं तु खेचरी नाम मुद्रा सर्वोत्तमोत्तमा । एतद्विज्ञानमात्रेण योगिनीनां प्रियो भवेत् ॥ ३,४२.१४ ॥ परिवर्त्य करौ स्पृष्टावर्धचन्द्रसमाकृती । तर्जन्यङ्गुष्ठयुगलं युगपद्योजयेत्ततः ॥ ३,४२.१५ ॥ अधः कनिष्ठावष्टब्धमध्यमे विनियोजयेत् । अथैते कुटिले युक्त्वा सर्वाधस्तादनामिके । बीजमुद्रेयमाचिरात्सर्वसिद्धप्रवर्तिनी ॥ ३,४२.१६ ॥ मध्याग्रे कुटिलाकारे तर्जन्युपरि संस्थिते । अनामिकामध्यगते तथैव हि कनिष्टिके ॥ ३,४२.१७ ॥ सर्वा एकत्र संयोज्य चाङ्गुष्ठपरिपीडिताः । एषा तु प्रथमा मुद्रा योनिमुद्रेति संज्ञिता ॥ ३,४२.१८ ॥ एता मुद्रास्तु देवर्षे श्रीदेव्याः प्रीतिहेतवः । पूजाकाले प्रयोक्तव्या यथानुक्रमयोगतः ॥ ३,४२.१९ ॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे ललितोपाख्याने हयग्रीवागस्त्यसम्वादे द्वाचत्वारिंशोऽध्यायः _____________________________________________________________ अगस्त्य उवाच अश्वानन महाप्राज्ञ करुणामृतवारिधे । श्रीदेवीदर्शने दीक्षा यादृशी तां निवेदय ॥ ३,४३.१ ॥ हयग्रीव उवाच यदि ते देवताभावो यया कल्मषकर्दमाः । क्षाल्यन्ते च तथा पुसां दीक्षामाचक्ष्महेऽत्र ताम् ॥ ३,४३.२ ॥ हस्ते शिवपुरन्ध्यात्वा जपेन्मूलाङ्गमालिनीम् । गुरुः स्पृशेच्छिष्यतनुं स्पर्शदीक्षेयमीरिता ॥ ३,४३.३ ॥ निमील्य नयने ध्यात्वा श्रीकामाक्षीं प्रसन्नधीः । सम्यक्पश्येद्गुरुः शिष्यं दृग्दीक्षा सेयमुच्यते ॥ ३,४३.४ ॥ गुरोरालोकमात्रेण भाषणात्स्पर्शनादपि । सद्यः सञ्जायते ज्ञानं सा दीक्षा शाम्भवी मता ॥ ३,४३.५ ॥ देव्या देहो यथा प्रोक्तो गुरुदेहस्तथैव च । तत्प्रसादेन शिष्योऽपि तद्रूपः सम्प्रकाशते ॥ ३,४३.६ ॥ चिरं शुश्रूषया सम्यक्तोषितो देशिकेश्वरः । तूष्णीं संकल्पयेच्छिष्यं सा दीक्षा मानसी मता ॥ ३,४३.७ ॥ दीक्षाणामपि सर्वासामियमेवोत्तमोत्तमा । आदौ कुर्यात्क्रियादीक्षां तत्प्रकारः प्रवक्ष्यते ॥ ३,४३.८ ॥ शुक्लपक्षे शुभदिने विधाय शुचिमानसम् । जिह्वास्यमलशुद्धिं च कृत्वा स्नात्वा यथाविधि ॥ ३,४३.९ ॥ संध्याकर्म समाप्याथ गुरुदेहं परं स्मरन् । एकान्ते निवसञ्छ्रीमान्मौनी च नियताशनः ॥ ३,४३.१० ॥ गुरुश्च तादृशोभूत्वा पूजामन्दिरमाविशेत् । देवीसूक्तेन संयुक्तं विद्यान्यासं समातृकम् ॥ ३,४३.११ ॥ कृत्वा पुरुषसूक्तेन षोडशैरुपचारकैः । आवाहना सने पाद्यमर्ध्यमाचमनं तथा ॥ ३,४३.१२ ॥ स्नानं वस्त्रं च भूषा च गन्धः पुष्पं तथैव च । धूपदीपौ च नैवेद्यं ताम्बूलं च प्रदक्षिणा ॥ ३,४३.१३ ॥ प्रणामश्चेति विख्यातैः प्रीणयेत्त्रिपुरांबिकाम् । अथ पुष्पाञ्जलिं दद्यात्सहस्राक्षरविद्यया ॥ ३,४३.१४ ॥ ओं ऐं ह्रीं श्रीं ऐं क्लीं सौः ओं नमस्त्रिपुरसुन्दरि हृदये देवि शिरोदेवि शिखादेवि कवचदेवि नेत्रदेवि आस्यदेवि कामेश्वरि भगमालिनि नित्यक्लिन्नें भैरुण्डे वह्निवासिनि महावज्रेश्वरि विद्येश्वरि परशिवदूति त्वरिते कुलसुंदरि नित्ये नीलपताके विजये सर्वमङ्गले ज्वालामालिनि चित्रे महानित्ये परमेश्वरि मन्त्रेशमयि षष्ठीशमय्युद्यानमयि लोपामुद्रामय्यगस्त्यमयि कालतापनमयि धर्माचारमयि मुक्तके शीश्वरमयि दीपकलानाथमयि विष्णुदेवमयि प्रभाकरदेवमयि तेजोदेवमयि मनोजदेवमयि अणिमसिद्धे महिमसिद्धे गरिम सिद्धे लघिमसिद्धे ईशित्वसिद्धे वशित्वसिद्धे प्राप्तिसिद्धे प्राकाम्यसिद्धे रससिद्धे मोक्षसिद्धे ब्राह्मि माहेश्वरी कौमारि वैष्णवि वाराहि इन्द्राणि चामुण्डे महालक्ष्मि सर्वसंक्षोभिणि सर्वविद्राविणि सर्वाकर्षिणि सर्ववशङ्करि सर्वोन्मादिनि सर्वमहाङ्कुशे सर्वखेचरि सर्वबीजे सर्वयोने सर्वास्त्रखण्डिनि त्रैलोक्यमोहिनि चक्रस्वामिनि प्राटयोगिनि बौद्धदर्शनाङ्गि कामाकर्षिणि बुद्ध्याकर्षिणि अहङ्काराकर्षिणि शब्दाकर्षिणि स्पर्शाकर्षिणि रूपाकर्षिणि रसाकर्षिणि गन्धाकर्षिणि चित्ताकर्षिणि धैर्याकर्षिणि स्मृत्याकर्षिणि नामाकर्षिणि बीजाकर्षिणात्माकिर्षिणि अमृताकर्षिणि शरीराकर्षिणि गुप्तयोगिनि सर्वाशापरिपूरकचक्रस्वामिनि अनङ्गकुसुमे अनङ्गमेखले अनङ्गमादिनि अनङ्गमदनातुरेऽनङ्गरेखेऽनङ्गवेगिन्यनङ्गाङ्कुशेऽनङ्गमालिनि गुप्ततरयोगिनि वैदिकदर्शनाङ्गि सर्वसंक्षोभकारक चक्रस्वामिनि पूर्वाम्नायाधिदेवते सृष्टिरूपे सर्वसंक्षोभिणि सर्वविद्राविणि सर्वाकर्षिणि सर्वाह्लादिनि सर्वसंमोहिनि सर्वस्तंभिणि सर्वजृंभिणि सर्ववशङ्करि सर्वरञ्जिनि सर्वोन्मादिनि सर्वार्थसाधिके सर्वसंपत्प्रपूरिणि सर्वमन्त्रमयि सर्वद्वन्द्वक्षयकरि सम्प्रदाययोगिनि सौरदर्शनाङ्गि सर्वसौभाग्यदायकचक्रे सर्वसिद्धिप्रदे सर्वसम्पत्प्रदे सर्वप्रियङ्करि सर्वमङ्गलकारिणि सर्वकामप्रदे सर्वदुःखविमोचिनि सर्वमृत्युप्रशमिनि सर्वविघ्ननिवारिणि सर्वाङ्गसुन्दरि सर्वसौभाग्यदायिनि कुलोत्तीर्णयोगिनि सर्वार्थसाधकचक्रेशि सर्वज्ञे सर्वशक्ते सर्वैश्वर्यफलप्रदे सर्वज्ञानमयि सर्वव्याधिनिवारिणि सर्वाधारस्वरूपे सर्वपापहरे सर्वानन्दमयि सर्वरक्षास्वरूपिणि सर्वेप्सित फलप्रदे नियोगिनि वैष्णवदर्शनाङ्गि सर्वरक्षाकरचक्रस्थे दक्षिणाम्नायेशि स्थितिरूपे वशिनि कामेशि मोदिनि विमले अरुणे जयिनि सर्वेश्वरि कौलिनि रहस्ययोगिनि रहस्यभोगिनि रहस्यगोपिनि शाक्तदर्शनाङ्गि सर्वरोगहरचक्रेशि पश्चिमाम्नाये धनुर्बाणपाशाङ्कुशदेवते कामेशि वज्रेशि फगमालिनि अतिरहस्ययोगिनि शैवदर्शनाङ्गि सर्वसिद्धिप्रदचक्रगे उत्तराम्नायेशि संहाररूपे शुद्धपरे विन्दुपीठगते महारात्रिपुरसुन्दरि परापरातिरहस्ययोगिनि शांभवदर्शनाङ्गि सर्वानन्दमयचक्रेशि त्रिपुरसुंदरि त्रिपुरवासिनि त्रिपुरश्रीः त्रिपुरमालिनि त्रिपुरसिद्धे त्रिपुरांब सर्वचक्रस्थे अनुत्तराम्नायाख्यस्वरूपे महात्रिपुरभैरवि चतुर्विधगुणरूपे कुले अकुले कुलाकुले महाकौलिनि सर्वोत्तरे सर्वदर्शनाङ्गि नवासनस्थिते नवाक्षरि नवमिथुनाकृते महेशमाधवविधातृमन्मथस्कन्दनन्दीन्द्रमनुचन्द्रकुबेरागस्त्यदुर्वासःक्रोधभट्टारकविद्यात्मिके कल्याणतत्त्वत्रयरूपे शिवशिवात्मिके पूर्मब्रह्मशक्ते महापरमेश्वरि महात्रिपुरसुन्दरि तव श्रीपादुकां पूजयामि नमः । क एं ईल ह्रीं हस कहल ह्रीं ऐं क्लीं सौः सौः क्लीं ऐं श्रीं । देव्याः पुष्पाञ्जलिं दद्यात्सहस्राक्षरविद्याया । नोचेत्तत्पूजनं व्यर्थमित्याहुर्वेदवादिनः ॥ ३,४३.१५ ॥ ततो गोमयसंलिप्ते भूतले द्रोणशालिभिः । तावद्भिस्तण्डुलैः शुद्धैः शस्तार्णैस्तत्र नूतनम् ॥ ३,४३.१६ ॥ द्रोणोदपूरितं कुंभं पञ्चरत्नैर्नवैर्युतम् । न्यग्रोधाश्वत्थमाकन्दजंबूदुम्बरशाखिनाम् ॥ ३,४३.१७ ॥ त्वग्भिश्च पल्लवैश्चैव प्रक्षिप्तैरधिवासिनम् । कुम्भाग्रे निक्षिपेत्पक्वं नारिकेलफलं शुभम् ॥ ३,४३.१८ ॥ अभ्यर्च्य गन्धपुष्पाद्यैर्धूपदीपादि दर्शयेत् । श्रीचिन्तामणिमन्त्रं तु हृदि मातृकमाजपेत् ॥ ३,४३.१९ ॥ कुम्भ स्पृशञ्छ्रीकामाप्तिरूपीकृतकलेवरम् । अष्टोत्तरशते जाते पुनर्दीपं प्रदर्शयेत् ॥ ३,४३.२० ॥ शिष्यमाहूय रहसि वाससा बद्धलोचनम् । कारयित्वा प्रणामानां साष्टाङ्गानां त्रयं गुरुः ॥ ३,४३.२१ ॥ पुष्पाणि तत्करे दत्त्वा कारये त्कुसुमाञ्जलिम् । श्रीनाथकरुणाराशे परञ्ज्योतिर्मयेश्वरि ॥ ३,४३.२२ ॥ प्रसूनाञ्जलिरेषा ते निक्षिप्ता चरणांबुजे । परं धाम परं ब्रह्म मम त्वं परदेवता ॥ ३,४३.२३ ॥ अद्यप्रभृति मे पुत्रान्रक्ष मां शारणागतम् । इत्युक्त्वा गुरुपादाव्जे शिष्यो मूर्ध्नि विधारयेत् ॥ ३,४३.२४ ॥ जन्मान्तर सुकृतत्वं स्यान्न्यस्ते शिरसि पादुके । गुरुणा कमलासनमुरशासनपुरशासनसेवया लब्धे ॥ ३,४३.२५ ॥ इत्युक्त्वा भक्तिभरितः पुनरुत्थाय शान्तिमान् । वामपार्श्वे गुरोस्तिष्ठेदमानी विनयान्वितः ॥ ३,४३.२६ ॥ ततस्तुंबीजलैः प्रोक्ष्य वामभागे निवेदयेत् । विमुच्य नेत्रबन्धं तु दर्शयेदर्चनक्रमम् ॥ ३,४३.२७ ॥ सितामध्वाज्यकदलीफलपायसरूपकम् । महात्रिपुरसुन्दर्या नैवेद्यमिति चादिशेत् ॥ ३,४३.२८ ॥ षोडशर्णमनुं तस्य वदेद्वामश्रुतौ शनैः । ततो बहिर्विनिर्गत्य स्थाप्य दार्वासने शुचिम् ॥ ३,४३.२९ ॥ निवेश्य प्राङ्मुखं तत्र पट्टवस्त्रसमास्तृते । शिष्यं श्रीकुम्भसलिलैरभिषिञ्चेत्समन्त्रकम् ॥ ३,४३.३० ॥ पुनः शुद्धोदकैः स्नात्वा वाससी परिगृह्य च । अष्टोत्तरशतं मन्त्रं जप्त्वा निद्रामथाविशेत् ॥ ३,४३.३१ ॥ शुभे दृष्टे सति स्वप्ने पुण्यं योज्यं तदोत्तमम् । दुःस्वप्ने तु जपं कुर्यादष्टोत्तरसहस्रकम् ॥ ३,४३.३२ ॥ कारयेत्त्रिपुरांबायाः सपर्यां मुक्तमार्गतः । यदा न दृष्टः स्वप्नोऽपि तदा सिद्धिश्चिराद्भवेत् ॥ ३,४३.३३ ॥ स्वीकुर्यात्परया भक्त्या देवी शेष कलाधिकम् । सद्य एव स शिष्यः स्यात्पङ्क्तिपावनपावनः ॥ ३,४३.३४ ॥ शरीरमर्थं प्राणं च तस्मै श्रीगुरवे दिशेत् । तदधीनश्च रेन्नित्यं तद्वाक्यं नैव लघयेत् ॥ ३,४३.३५ ॥ यः प्रसन्नः क्षणार्धेन मोक्षलक्ष्मीं प्रयच्छति । दुर्लभं तं विजानीयाद्गुरुं संसारतारकम् ॥ ३,४३.३६ ॥ गुकारस्यान्धकारोर्ऽथो रुकारस्तन्निरोधकः । अन्धकारनिरोधित्वाद्गुरुरित्यभिधीयते ॥ ३,४३.३७ ॥ बोधरूपं गुरुं प्राप्य न गुर्वन्तरमादिशेत् । गुरुक्तं परुषं वाक्यमाशिषं परिचिन्तयेत् ॥ ३,४३.३८ ॥ लौकिकं वैदिकं वापि तथाध्यात्मिकमेव च । आददीत ततो ज्ञानं पूर्वं तमभिवादयेत् ॥ ३,४३.३९ ॥ एवं दीक्षात्रयं कृत्वा विधेयं बौधयेत्पुनः । गुरुभक्तिस्सदाचारस्तद्द्रोहस्तत्र पातकम् ॥ ३,४३.४० ॥ तत्पदस्मरणं मुक्तिर्यावद्देहमयं क्रमः । यत्पापं समवाप्नोति गुर्वग्रेऽनृतभाषणत् ॥ ३,४३.४१ ॥ गोब्राह्मणावधं कृत्वा न तत्पापं समाश्रयेत् । ब्रह्मादिस्तंब पर्यतं यस्य मे गुरुसंततिः ॥ ३,४३.४२ ॥ तस्य मे सर्वपूज्यस्य को न पूज्यो महीतले । इति सर्वानुकूलो यः स शिष्यः परिकीर्तितः ॥ ३,४३.४३ ॥ शीलादिविमलानेकगुणसंपन्नभावनः । गुरुशासनवर्तित्वाच्छिष्य इत्यभिधीयते ॥ ३,४३.४४ ॥ जपाच्छ्रान्तः पुनर्ध्यायेद्ध्यानाच्छ्रान्तः पुनर्जपेत् । जपध्यानादियुक्तस्य क्षिप्रं मन्त्रः प्रसिध्यति ॥ ३,४३.४५ ॥ यथा ध्यानस्य सामर्थ्यात्कीटोऽपि भ्रमरायते । तथा समाधिसा मर्थ्याद्ब्रह्मीभूतो भवेन्नरः ॥ ३,४३.४६ ॥ यथा निलीयते काले प्रपञ्चो नैव दृश्यते । तथैव मीलयेन्नेत्रे एतद्ध्यानस्य लक्षणम् ॥ ३,४३.४७ ॥ विदिते तु परे तत्त्वे वर्णातीते ह्यविक्रिये । किङ्करत्वं च गच्छन्ति मन्त्रा मन्त्राधिपैः सह ॥ ३,४३.४८ ॥ आत्मैक्यभावनिष्ठस्य या चेष्टा सा तु दर्शनम् । योगस्तपः स तन्मन्त्रस्तद्धनं यन्निरीक्षणम् ॥ ३,४३.४९ ॥ देहाभिमाने गलिते विज्ञाते परमात्मनि । यत्रयत्र मनो याति तत्रतत्र समाधयः ॥ ३,४३.५० ॥ यः पश्येत्सर्वगं शांमानन्दात्मानमद्वयम् । न तस्य किञ्चिदाप्तव्यं ज्ञातव्यं वावशिष्यते ॥ ३,४३.५१ ॥ पूजाकोटिसमं स्तोत्रं स्तोत्रकोटिसमोजपः । जपकोटिसमं ध्यानं ध्यानकोटिसमो लयः ॥ ३,४३.५२ ॥ देहो देवालयः प्रोक्तो जीव एव महेश्वरः । त्यजेदज्ञाननिर्माल्यं सोहंभावेन योजयेत् ॥ ३,४३.५३ ॥ तुषेण बद्धो व्रीहिः स्यात्तुषाभावे तु तण्डुलः । पाशबद्धः स्मृतो जीवः पाशमुक्तो महेश्वरः ॥ ३,४३.५४ ॥ आकाशे पक्षिजातीनां जलेषु जलचारिणाम् । यथा गतिर्न दृश्येत महावृत्तं महात्मनाम् ॥ ३,४३.५५ ॥ नित्यार्चनं दिवा कुर्याद्रात्रौ नैमित्तिकार्चनम् । उभयोः काम्यकर्मा स्यादिति शास्त्रस्य निश्चयः ॥ ३,४३.५६ ॥ कोटिकोटिमहादानात्कोटिकोटिमहाव्रतात् । कोटिकोटिमहायज्ञात्परा श्रीपादुका स्मृतिः ॥ ३,४३.५७ ॥ ज्ञानतोऽज्ञानतो वापि यावद्देहस्य धारणम् । तावद्वर्णाश्रमाचारः कर्तव्यः कर्ममुक्तये ॥ ३,४३.५८ ॥ निर्गतं यद्गुरोर्वक्त्रात्सर्वं शास्त्रं तदुच्यते । निषिद्धमपि तत्कुर्याद्गुर्वाज्ञां नैव लङ्घयेत् ॥ ३,४३.५९ ॥ जातिविद्याधनाढ्यो वा दूरे दृष्ट्वा गुरुं मुदा । दण्डप्रमाणं कृत्वैकं त्रिः प्रदक्षिणामाचरेत् ॥ ३,४३.६० ॥ गुरुबुद्ध्या नमेत्सर्वं दैवतं तृणमेव वा । प्रणमेद्देवबुद्ध्या तु प्रतिमां लोहमृन्मयीम् ॥ ३,४३.६१ ॥ गुरुं हुङ्कृत्य तुङ्कृत्य विप्रं वादैर्विजित्य च । विकास्य गुह्यशास्त्राणि भवन्ति ब्रह्मराक्षसाः ॥ ३,४३.६२ ॥ अद्वैतं भाव येन्नित्यं नाद्वैतं गुरुणा सह । न निन्देदन्यसमयान्वेदशास्त्रागमादिकान् ॥ ३,४३.६३ ॥ एकग्रामस्थितः शिष्यस्त्रिसंध्यं प्रणमेद्गुरुम् । क्रोश मात्रस्थितो भक्त्या गुरुं प्रतिदिनं नमेत् ॥ ३,४३.६४ ॥ अर्थयोजनगः शिष्यः प्रणमेत्पञ्चपर्वसु । एकयोजनमारभ्य योजनद्वादशावधि ॥ ३,४३.६५ ॥ तत्तद्योजनसंख्यातमासेषु प्रणमेद्गुरुम् । अतिदूरस्थितः शिष्यो यदेच्छा स्यात्तदा व्रजेत् ॥ ३,४३.६६ ॥ रिक्तपाणिस्तु नोपेयाद्राजानं देवतां गुरुम् । फलपुष्पांबरादीनि यथाशक्ति समर्पयेत् ॥ ३,४३.६७ ॥ मनुष्यचर्मणा बद्धः साक्षात्परशिवः स्वयम् । सच्छिष्यानुग्रहार्थाय गूढं पर्यटति क्षितौ ॥ ३,४३.६८ ॥ सद्भक्तरक्षणायैव निराकारोऽपि साकृतिः । शिवः कृपानिधिर्लोके संसारीव हि चेष्टते ॥ ३,४३.६९ । अत्रिनेत्रः शिवः साक्षादचतुर्बाहुरच्युतः । अचतुर्वदनो ब्रह्मा श्रीगुरुः परिकीर्तितः ॥ ३,४३.७० ॥ श्रीगुरुं परतत्त्वाख्यं तिष्ठन्तं चक्षुरग्रतः । भाग्यहीना न पश्यन्ति सूर्यमन्धा इवोदितम् ॥ ३,४३.७१ ॥ उत्तमा तत्त्वचिन्ता स्याज्जपचिन्ता तु मध्यमा । अधमा शास्त्रचिन्ता स्याल्लोकचिन्ताधमाधमा ॥ ३,४३.७२ ॥ नास्थि गुर्वधिकं तत्त्वं नास्ति ज्ञानाधिकं सुखम् । नास्ति भक्त्यधिका पूजा न हि मोक्षाधिकं फलम् ॥ ३,४३.७३ ॥ सर्ववेदेषु शास्त्रेषु ब्रह्मविष्णुशिवादिषु । तत्र तत्रोच्यते शब्दैः श्रीकामाक्षी परात्परा ॥ ३,४३.७४ ॥ शचीन्द्रौ स्वाहाग्नी च प्रभारवी । लक्ष्मीनारायणौ वाणीधातारौ गिरिजाशिवौ ॥ ३,४३.७५ ॥ अग्नीषोमौ बिन्दुनादौ तथा प्रकृतिपूरुषौ । आधाराधेयनामानौ भोगमोक्षौ तथैव च ॥ ३,४३.७६ ॥ प्राणापनौ च शब्दार्थौं तथा विधिनिषेधकौ । सुखदुःखादि यद्द्वन्द्वं दृश्यते श्रूयतेऽपि वा ॥ ३,४३.७७ ॥ सर्वलोकेषु तत्सर्वं परं ब्रह्म न संशयः । उत्तीर्ममपरं ज्योतिः कामाक्षीनामकं विदुः ॥ ३,४३.७८ ॥ यदेव नित्यं ध्यायन्ति ब्रह्मविष्णुशिवादयः । इत्थं हि शक्तिमार्गेऽस्मिन्यः पुमानिह वर्तते ॥ ३,४३.७९ ॥ प्रसादभूमिः श्रीदेव्या भुक्तिमुक्त्योः स भाजनम् । अमन्त्रं वा समत्रं वा कामाक्षीमर्चयन्ति ये ॥ ३,४३.८० ॥ स्त्रियो वैश्याश्च शूद्राश्च ते यान्ति परमां गतिम् । किं पुनः क्षत्त्रिया विप्रा मन्त्रपूर्वं यजन्ति ये ॥ ३,४३.८१ ॥ संसारिणोऽपि ते नूनं विमुक्ता नात्र संशयः । सितामध्वाज्यकदलीफलपायसरूपकम् ॥ ३,४३.८२ ॥ पञ्चपर्वसु नैवेद्यं सर्वदैव निवेदयेत् । योनार्चयति शक्तोऽपि स देवीशापमाप्नुयात् ॥ ३,४३.८३ ॥ अशक्तौ भावनाद्रव्यैरर्चयेन्नित्यमंबिकाम् । गृहस्थस्तु महादेवीं मङ्गलाचारसंयुतः ॥ ३,४३.८४ ॥ अर्चयेत महालक्ष्मीमनुकूलाङ्गनासखः । गुरुस्त्रिवारमाचारं कथयेत्कलशोद्भव ॥ ३,४३.८५ ॥ शिष्यो यदि न गृह्णीया च्छिष्ये पापं गुरोर्न हि । लक्ष्मीनारायणौ वाणीधातारौ गिरिजाशिवौ ॥ ३,४३.८६ ॥ श्रीगुरुं गुरुपत्नीं च पितरौ चिन्तयेद्धिया । इति सर्वं मया प्रोक्तं समासेन घटोद्भव ॥ ३,४३.८७ ॥ एतावदवधानेन सर्वज्ञो मतिमान्भवेत् ॥ ३,४३.८८ ॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे ललितोपाख्याने त्रिचत्वारिंशोऽध्यायः _____________________________________________________________ हयग्रीव उवाच प्रविश्य तु जपस्थानमानीय निजमासनम् । अभ्युक्ष्य विधिवन्मन्त्रैर्गुरूक्तक्रमयोगतः ॥ ३,४४.१ ॥ स्वात्मानं देवतामूर्तिं ध्यायंस्तत्राविशेषतः । प्राङ्मुखो दृढमाबध्य पद्मासनमनन्यधीः ॥ ३,४४.२ ॥ त्रिखण्डामनुबध्नीयाद्गुर्वादीनभिवन्द्य च । द्विरुक्तबालबीजानि मध्याद्यङ्गुलिषु क्रमात् ॥ ३,४४.३ ॥ तलयोरपि विन्यस्य करशुद्धिपुरःसरम् । अग्निप्राकारपर्यन्तं कुर्यात्स्वास्त्रेण मन्त्रवित् ॥ ३,४४.४ ॥ प्रतिलोमेन पादाद्यमनुलोमेन कादिकम् । व्याप कन्यासमारोप्य व्यापयन्वाग्भवादिभिः ॥ ३,४४.५ ॥ व्यक्तैः कारमसूक्ष्मस्थूलशरीराणि कल्पयेत् । नाभौ हृदि भ्रुवोर्मध्ये बालाबीजान्यथ न्यसेत् ॥ ३,४४.६ ॥ मातृकां मूलपुटितां न्यसेन्नाभ्यादिषु क्रमात् । बालाबीजानि तान्येव द्विरावृत्त्याथ विन्यसेत् ॥ ३,४४.७ ॥ मध्यादिकरशाखासु तलयोरपि नान्यथा । नाभ्यादावथ विन्यस्य न्यसेदथ पदद्वये ॥ ३,४४.८ ॥ जानूरुस्फिग्गुह्यमूलनाभि हृन्मूर्धसु क्रमात् । नवासनानि ब्रह्माणं विष्णुं रुद्रं तथेश्वरम् ॥ ३,४४.९ ॥ सदाशिवं च पूषाणं तूलिकां च प्रकाशकम् । विद्यासनं च विन्यस्य हृदये दर्शयेत्ततः ॥ ३,४४.१० ॥ पद्मत्रिखण्डयोन्याख्यां मुद्रामोष्ठपुटेन च । वायुमापूर्य हुं हुं हुं त्विति प्राबीध्य कुण्डलीम् ॥ ३,४४.११ ॥ मन्त्रशक्त्या समुन्नीय द्वादशान्ते शिवैकताम् । भावयित्वा पुनस्तं च स्वस्थाने विनिवेश्य च ॥ ३,४४.१२ ॥ वाग्भवादीनि बीजानि मूलहृद्बाहुषु न्यसेत् । समस्तमूर्ध्नि दोर्मूलमध्याग्रेषु यथाक्रमम् ॥ ३,४४.१३ ॥ हस्तौ विन्यस्य चाङ्गेषु ह्यङ्गुष्ठादितलावधि । हृदयादौ च विन्यस्य कुङ्कुमं न्यासमाचरेत् ॥ ३,४४.१४ ॥ शुद्धा तृतीयबीजेन पुटितां मातृकां पुनः । आद्यबीजद्वयं न्यस्य ह्यन्त्यबीजं न्यसेदिति ॥ ३,४४.१५ ॥ पुनर्भूतलविन्यासमाचरेन्नातिविस्तरम् । वर्गाष्टकं न्यसेन्मूले नाभौ हृदयकण्ठयोः ॥ ३,४४.१६ ॥ प्रागाधायैषु शषसान्मूलहृन्मूर्द्धसु न्यसेत् । कक्षकट्यंसवामांसकटिहृत्सु च विन्यसेत् ॥ ३,४४.१७ ॥ प्रभूताधः षडङ्गानि दादिवर्गैस्तु विन्यसेत् । ऋषिस्तु शब्दब्रह्मस्याच्छन्दो भूतलिपिर्मता ॥ ३,४४.१८ ॥ श्रीमूलप्रकृतिस्त्वस्य देवता कथिता मनोः । अक्षस्रक्पुस्तके चोर्ध्वे पुष्पसायककार्मुके ॥ ३,४४.१९ ॥ वराभीतिकराब्जैश्च धारयन्तीमनूपमाम् । रक्षणाक्षमयीं मानां वहन्ती कण्ठदेशतः ॥ ३,४४.२० ॥ हारकेयूरकटकच्छन्नवीरविभूषणाम् । दिव्याङ्गरागसंभिन्नमणिकुण्डलमण्डिताम् ॥ ३,४४.२१ ॥ लिपिकल्पद्रुमस्याधो रूपिपङ्कजवासिनीम् । साक्षाल्लिपिमयीं ध्यायेद्भैरवीं भक्तवत्सलाम् ॥ ३,४४.२२ ॥ अनेककोटिदूतीभिः समन्तात्समलङ्कृताम् । एवं ध्यात्वा न्यसेद्भूयो भूतलेप्यक्षरान्क्रमात् ॥ ३,४४.२३ ॥ मूलाद्याज्ञावसानेषु वर्गाष्टकमथो न्यसेत् । शषसान्मूर्ध्नि संन्यस्य स्वरानेष्वेव विन्यसेत् ॥ ३,४४.२४ ॥ हादिरूर्ध्वादिपञ्चास्येष्वग्रे मूले च मध्यमे । अङ्गुलीमूलमणिबन्धयोर्देष्णोश्च पादयोः ॥ ३,४४.२५ ॥ जठरे पार्श्वयोर्दक्षवामयोर्नाभिपृष्ठयोः । शषसान्मूलहृन्मूर्धस्वेतान्वा लादिकान्न्य सेत् ॥ ३,४४.२६ ॥ ह्रस्वाः पञ्चाथ सन्ध्यर्णाश्चत्वारो हयरा वलौ । अकौ खगेनगश्चादौ क्रमोयं शिष्टवर्गके ॥ ३,४४.२७ ॥ शषसा इति विख्याता द्विचत्वारिंशदक्षराः । आद्यः पञ्चाक्षरो वर्गो द्वितीयश्चतुरक्षरः ॥ ३,४४.२८ ॥ पञ्चाक्षरी तु षड्वर्गी त्रिवर्णो नवमो मतः । ब्रह्मा विष्णुश्च रुद्रश्च धनेशेन्द्रयमाः क्रमात् ॥ ३,४४.२९ ॥ वरुणश्चैव सोमश्च शक्तित्रयमिमे नव । वर्णानामीश्वराः प्रोक्ताः क्रमो भूतलिपेरयम् ॥ ३,४४.३० ॥ एवं सृष्टौ पाठो विपरीतः संहृतावमुन्येव । स्थानानि योजनीयौ विसर्गबिन्दू च वर्णान्तौ ॥ ३,४४.३१ ॥ ध्यानपूर्वं ततः प्राज्ञो रत्यादिन्यासमाचरेत् । जपाकुसुमसंकाशाः कुङ्कुमारुणविग्रहाः ॥ ३,४४.३२ ॥ कामवामाधिरूढाङ्का ध्येयाः शरधनुर्धराः । रतिप्रीतियुतः कामः कामिन्याः कान्तैष्यते ॥ ३,४४.३३ ॥ कान्तिमान्मोहिनीयुक्तकामाङ्गः कलहप्रियाम् । अन्वेति कामचारैस्तु विलासिन्या समन्वितः ॥ ३,४४.३४ ॥ कामः कल्पलता युक्तः कामुकः श्यामवर्णया । शुचिस्मितान्वितः कामो बन्धको विस्मृतायुतः ॥ ३,४४.३५ ॥ रमणो विस्मिताक्ष्या च रामोऽयं लेलिहानया । रमण्या रतिनाथोपि दिग्वस्त्राढ्यो रतिप्रियः ॥ ३,४४.३६ ॥ वामया कुब्जया युक्तो रतिनाथो धरायुतः । रमाकान्तो रमोपास्यो रममाणो निशाचरः ॥ ३,४४.३७ ॥ कल्याणो मोहिनीनाथो नन्दकश्चोत्तमान्वितः । नन्दी सुरोत्तमाढ्यो नन्दनो नन्दयिता पुनः ॥ ३,४४.३८ ॥ सुलावण्यान्वितः पञ्चबाणो बालनिधीश्वरः । कलहप्रियया युक्तस्तथा रतिसखः पुनः ॥ ३,४४.३९ ॥ एकाक्ष्या पुष्पधन्वापि सुमुखेशो महाधनुः । नीली जडिल्यो भ्रमणः क्रमशः पालिनीपतिः ॥ ३,४४.४० ॥ भ्रममाणः शिवाकान्तो भ्रमो भ्रान्तश्च मुग्धया । भ्रामको रमया प्राप्तो भ्रामितो भृङ्ग इष्यते ॥ ३,४४.४१ ॥ भ्रान्ताचारो लोचनया दीर्घजिह्विकया पुनः । भ्रमावहं समन्वेति मोहनस्तु रतिप्रियाम् ॥ ३,४४.४२ ॥ मोहकस्तु पलाशाक्ष्या गृहिण्यां मोह इष्यते । विकटेशो मोहधरो वर्धनोयं धरायुतः ॥ ३,४४.४३ ॥ मदनाथोऽनूपमस्तु मन्मथो मलयान्वितः । मादकोह्लादिनीयुक्तः समिच्छन्विश्वतोमुखी ॥ ३,४४.४४ ॥ नायको भृङ्गपूर्वस्तु गायको नन्दिनीयुतः । गणकोऽनामया ज्ञेयः काल्या नर्तक इष्यते ॥ ३,४४.४५ ॥ क्ष्वेल्लकः कालकर्ण्यढ्यः कन्दर्पो मत्त इष्यते । नर्तकः श्यामलाकान्तो विलासी झषयान्वितः ॥ ३,४४.४६ ॥ उन्मत्तामुपसंगम्य मोदते कामवर्धनः । ध्यानपूर्वं ततः श्रीकण्ठादिविन्यासमाचरेत् ॥ ३,४४.४७ ॥ सिंदूरकाञ्चनसमोभयभागमर्धनारीश्वरं गिरिसुताहरभूपचिह्नम् । पाशद्वयाक्षवलयेष्टदहस्तमेव स्मृत्वा न्यसेल्लिपिपदेषु समीहितार्थम् ॥ ३,४४.४८ ॥ श्रीकण्ठानन्तसूक्ष्मौ च त्रिमूर्तिरमरेश्वरः । उर्वीशोभारभूतिश्चातिथीशः स्थाणुको हरः ॥ ३,४४.४९ ॥ चण्डीशो भौतिकः सद्योजातश्चानुग्रहेश्वरः । अक्रूरश्च महासेनः स्युरेते वरमूर्त्तयः ॥ ३,४४.५० ॥ ततः क्रोधीशचण्डीशौ पञ्चान्तकशिवोत्तमौ । तथैकरुद्रकूर्मैकनेत्राः सचतुरातनाः ॥ ३,४४.५१ ॥ अजेशः शर्वसोमेशौ हरो लागलिदारुकौ । अर्धनारीश्वरश्चोमाकान्तश्चापाढ्यदण्डिनौ ॥ ३,४४.५२ ॥ अत्रिर्मीनश्च मेषश्च लोहितश्च शिखी तथा । खड्गदण्डद्विदण्डौ च सुमहाकालव्या लिनौ ॥ ३,४४.५३ ॥ भुजङ्गेशः पिनाकी च खड्गेशश्च बकस्तथा । श्वेतो ह्यभ्रश्च लकुलीशिवः संवर्त्तकस्तथा ॥ ३,४४.५४ ॥ पूर्णोदरी च विरजा तृतीया शाल्म तथा । लोलाक्षी वर्तुलाक्षी च दीर्घङ्घोणा तथैव च ॥ ३,४४.५५ ॥ सुदीर्घमुखिगो मुख्यौ नवमी दीर्घजिह्विका । कुञ्जरी चौर्ध्वकेशा च द्विमुखी विकृतानना ॥ ३,४४.५६ ॥ सत्यलीलाकलाविद्यामुख्याः स्युः स्वरशक्तयः । महाकाली सरस्वत्यौ सर्वसिद्धिसमन्विते ॥ ३,४४.५७ ॥ गौरी त्रैलोक्यविद्या च तथा मन्त्रात्मशक्तिका । लंबोदरी भूतमता द्राविणी नागरी तथा ॥ ३,४४.५८ ॥ खेचरी मञ्जरी चैव रूपिणी वीरिणी तथा । कोटरा पूतना भद्रा काली योगिन्य एव च ॥ ३,४४.५९ ॥ शङ्खिनीगर्जिनीकालरात्रिकूर्दिन्य एव च । कपर्दिनी तथा वज्रा जया च सुमुखेश्वरी ॥ ३,४४.६० ॥ रेवती माधवी चैव वारुणी वायवी तथा । रक्षावधारिणी चान्या तथा च सहजाह्वया ॥ ३,४४.६१ ॥ लक्ष्मीश्च व्यापिनीमाये संख्याता वर्णशक्तयः । द्विरुक्तवालाया वर्णै रङ्गं कृत्वाथ केवलैः ॥ ३,४४.६२ ॥ षोढा न्यासं प्रकुर्वीत देवतात्मत्वसिद्धये । विघ्नेशादींस्तु तत्रादौ विन्यसेद्ध्यानपूर्वकम् ॥ ३,४४.६३ ॥ तरुणारुणसंकाशान्गजवक्त्रांस्त्रिलोचनान् । पाशाङ्कुशवराभीतिहस्ताञ्छक्तिसमन्वितान् ॥ ३,४४.६४ ॥ विघ्नेशो विघ्नराजश्च विनायकशिवोत्तमौ । विघ्नकृद्विघ्नहन्ता च विघ्नराढ्गणनायकः ॥ ३,४४.६५ ॥ एकदन्तो द्विदन्तश्च गजवक्त्रो निरञ्जनः । कपर्दवान्दीर्घमुखः शङ्कुकर्णो वृषध्वजः ॥ ३,४४.६६ ॥ गणनाथो गजेन्द्रास्यः शूर्पकर्णस्त्रिलोचनः । लम्बोदरो महानादश्चतुर्मूर्तिः सदाशिवः ॥ ३,४४.६७ ॥ आमोदो दुर्मदश्चैव सुमुखश्च प्रमोदकः । एकपादो द्विपादश्च शूरो वीरश्च षण्मुखः ॥ ३,४४.६८ ॥ वरदो नाम देवश्च वक्रतुण्डो द्विदन्तकः । सेनानीर्ग्रामणीर्मत्तो मत्तमूषकवाहनः ॥ ३,४४.६९ ॥ जटी मुण्डी तथा खड्गी वरेण्यो वृषकेतनः । भङ्यप्रियो गणेशश्च मेघनादो गणेश्वरः ॥ ३,४४.७० ॥ एते गणेशा वर्णानामेकपञ्चाशतः क्रमात् । श्रीश्च ह्रीश्चैव पुष्टिश्च शान्तिस्तुष्टिः सरस्वती ॥ ३,४४.७१ ॥ रतिर्मेधा तथा कान्तिः कामिनी मोहिनी तथा । तीव्रा च ज्वालिनी नन्दा सुयशाः कामरूपिणी ॥ ३,४४.७२ ॥ उग्रा तेजोवती सत्या विघ्नेशानी स्वरूपिणी । कामार्त्ता मदजिह्वा च विकटा घूर्णितानना ॥ ३,४४.७३ ॥ भूतिर्भूमिर्द्विरम्या चामारूपा मकरध्वजा । विकर्णभ्रुकुटी लज्जा दीर्घघोणा धनुर्धरी ॥ ३,४४.७४ ॥ तथैव यामिनी रात्रिश्चन्द्रकान्ता शशिप्रभा । लोलाक्षी चपला ऋज्वी दुर्भगा सुभगा शिवा ॥ ३,४४.७५ ॥ दुर्गा गुहप्रिया काली कालजिह्वा च शक्तयः । ग्रहन्यासं ततः कुर्याद्ध्यानपूर्वं समाहितः ॥ ३,४४.७६ ॥ वरदाभयहस्ताढ्याञ्छक्त्यालिङ्गितविग्रहान् । कुङ्कुमक्षीररुधिरकुन्दकाञ्चनकंबुभिः ॥ ३,४४.७७ ॥ अम्भोदधूमतिमिरैः सूर्यादीन्सदृशान्स्मरेत् । हृदयाधो रविं न्यस्य शीर्ष्णि सोमं दृशोः कुजम् ॥ ३,४४.७८ ॥ हृदि शुक्रं च हृन्मध्ये बुधं कण्ठे बृहस्पतिम् । नाभौ शनैश्चरं वक्त्रे राहुं केतुं पदद्वये ॥ ३,४४.७९ ॥ ज्वलत्कालानलप्रख्या वरदाभयपाणयः । तारा न्यसेत्ततो ध्यायन्सर्वाभरणभूषिताः ॥ ३,४४.८० ॥ भाले नयनयोः कर्णद्वये नासापुडद्वये । कण्ठे स्कन्धद्वये पश्चात्कूर्पयोर्मणिबन्धयोः ॥ ३,४४.८१ ॥ स्तनयोर्नाभिकट्यूरुजानुजङ्घापदद्वये । योगिनीन्यासमादध्या द्विशुद्धो हृदये तथा ॥ ३,४४.८२ ॥ नाभौ स्वाधिष्ठिते मूले भ्रूमध्ये मूर्धनि क्रमात् । पद्मेन्दुकर्णिकामध्ये वर्णशक्तीर्दलेष्वथ ॥ ३,४४.८३ ॥ दलाग्रेषु तु पद्मस्य मूर्ध्नि सर्वाश्च विन्यसेत् । अमृता नन्दिनीन्द्राणी त्वीशानी चात्युमा तथा ॥ ३,४४.८४ ॥ ऊर्ध्वकेशी ऋद्विदुषी ळकारिका तथैव च । एकपादात्मिकैश्वर्यकारिणी चौषधात्मिका ॥ ३,४४.८५ ॥ ततोंबिकाथो रक्षात्मिकेति षोडश शक्तयः । कालिका खेचरी गायत्री घण्टाधारिणी तथा ॥ ३,४४.८६ ॥ नादात्मिका च चामुण्टा छत्रिका च जया तथा । झङ्कारिणी च संज्ञा च टङ्कहस्ता ततः परम् ॥ ३,४४.८७ ॥ टङ्कारिणी च विज्ञेयाः शक्तयो द्वादश क्रमात् । डङ्कारी टङ्कारिणी च णामिनी तामसी तथा ॥ ३,४४.८८ ॥ थङ्कारिणी दया धात्री नादिनी पार्वती तथा । फट्कारिणी च विज्ञेयाः शक्तयो द्वयपन्नगाः ॥ ३,४४.८९ ॥ वर्धिनी च तथा भद्रा मज्जा चैव यशस्विनी । रमा च लामिनी चेति षडेताः शक्तयः क्रमात् ॥ ३,४४.९० ॥ नारदा श्रीस्तथा षण्ढाशश्वत्यपि च शक्तयः । चतस्रोऽपि तथैव द्वे हाकिनी च क्षमा तथा ॥ ३,४४.९१ ॥ ततः पादे च लिङ्गे च कुक्षौ हृद्दोःशिरस्मु च । दक्षा दिवामपादान्तं राशीन्मेषादिकान्न्यसेत् ॥ ३,४४.९२ ॥ ततः पीठानि पञ्चाशदेकं चक्रं मनो न्यसेत् । वाराणसी कामरूपं नेपालं पौण्ड्रवर्धनम् ॥ ३,४४.९३ ॥ वरस्थिरं कान्यकुब्जं पूर्णशैलं तथार्बुदम् । आम्रातकेश्वरैकाम्रं त्रिस्रोतः कामकोष्ठकम् ॥ ३,४४.९४ ॥ कैलासं भृगुनगरं केदारं चन्द्रपुष्करम् । श्रीपीठं चैकवीरां च जालन्ध्रं मालवं तथा ॥ ३,४४.९५ ॥ कुलान्नं देविकोटं च गोकर्णं मारुतेश्वरम् । अट्टहासं च विरजं राजवेश्म महापथम् ॥ ३,४४.९६ ॥ कोलापुरकैलापुरकालेश्वरजयन्तिकाः । उज्ज्यिन्यपि चित्रा च क्षीरकं हस्तिनापुरम् ॥ ३,४४.९७ ॥ उडीरां च प्रयागं च षष्टिमायापुरं तथा । गौरीशं सलयं चैव श्रीशैलं मरुमेव च ॥ ३,४४.९८ ॥ पुनर्गिरिवरं पश्चान्महेन्द्रं वामनं गिरिम् । स्याद्धिरण्यपुरं पश्चान्महालक्ष्मीपुरं तथा ॥ ३,४४.९९ ॥ पुरोद्यानं तथा छायाक्षेत्रमाहुर्मनीषिणः । लिपिक्रमसमायुक्तांल्लिपिस्थानेषु विन्यसेत् ॥ ३,४४.१०० ॥ अन्यान्यथीक्तस्थानेषु संयुक्तांल्लिपिसङ्कमात् । षोढा न्यासो मयाख्यातः साक्षादीश्वरभाषितः ॥ ३,४४.१०१ ॥ एवं विन्यस्तदेहस्तु देवताविग्रहो भवेत् । ततः षोढा पुरः कृत्वा श्रीचक्रन्यासमाचरेत् ॥ ३,४४.१०२ ॥ अंशाद्यानन्द्यमूर्त्यन्तं मन्त्रैस्तु व्यापकं चरेत् । चक्रेश्वरीं चक्रसमर्पणमन्त्रान्हृदि न्यसेत् ॥ ३,४४.१०३ ॥ अन्यान्यथोक्तस्थानेषु गणपत्यादिकान्न्यसेत् । दक्षिणोरुसमं वामं सर्वांश्च क्रमशो न्यसेत् ॥ ३,४४.१०४ ॥ गणेशं क्षेत्रपालं च योगिनीं बटुकं तथा । आदाविन्द्रादयो न्यस्याः पदाङ्गुष्ठद्वयाग्रके ॥ ३,४४.१०५ ॥ जानुपार्श्वंसमूर्धास्यपार्श्वजानुषु मूर्धनि । मूलाधारेऽणिमादीनां सिद्धीनां दशकं ततः ॥ ३,४४.१०६ ॥ न्यस्तव्यमंसदोः पृष्ठवक्षस्सु प्रपदोः स्फिजि । दोर्देशपृष्ठयोर्मूर्धपादद्वितययोः क्रमात् ॥ ३,४४.१०७ ॥ अणिमा चैव लघिमा तृतीया महिमा तथा । ईशित्वं च वशित्वं च प्राकाम्यं प्राप्तिरेव च । इच्छासिद्धी रससिद्धिर्मोक्षसिद्धिरिति स्मृताः ॥ ३,४४.१०८ ॥ ततो विप्र न्यसेद्धीमान्मातृणामष्टकं क्रमात् । पादाङ्गुष्ठयुगे दक्षपार्श्वे मूर्द्धनि वामतः ॥ ३,४४.१०९ ॥ वामजनौ दक्षजानौ दक्षवामांसयोस्तथा ॥ ३,४४.११० ॥ ब्राह्मी माहेश्वरी चैव कौमारी वैष्णवी तथा । वाराही च तथेन्द्राणी चामुण्डा चैव सप्तमी ॥ ३,४४.११ ॥ महालक्ष्मीश्च विज्ञेया मातरो वै क्रमाद्बुधैः । मुद्रादेवीर्न्यसेदष्टावेष्वेव द्वे च ते पुनः ॥ ३,४४.१२ ॥ मूर्द्धार्न्ध्योरपि मुद्रास्तु सर्वसंक्षोभिणी तथा । सर्वविद्राविणी पश्चात्सर्वार्थाकर्षणी तथा ॥ ३,४४.१३ ॥ सर्वाद्या वशकरिणी सर्वाद्या प्रियकारिणी । महाङ्कुशी च सर्वाद्या सर्वाद्या खेचरी तथा ॥ ३,४४.१४ ॥ त्रिखण्डा सर्वबीजा च मूद्रा सर्वप्रपीरिका । योनिमुद्रेति विज्ञेयास्तत्र चक्रेश्वरीं न्यसेत् ॥ ३,४४.१५ ॥ त्रैलोक्य मोहनं चक्रं समर्प्य व्याप्य वर्ष्मणि । ततः कलानां नित्यानां क्रमात्षोडशकं न्यसेत् ॥ ३,४४.१६ ॥ कामाकर्षणरूपा च शब्दाकर्षणरूपिणी । अहङ्काराकर्षिणी च शब्दाकर्षणरूपिणी ॥ ३,४४.१७ ॥ स्पर्शाकर्षणरूपा च रूपाकर्षणरूपिणी । रसाकर्षणरूपा च गन्धाकर्षणरूपिणी ॥ ३,४४.१८ ॥ चित्ताकर्षणरूपा च धैर्याकर्षणरूपिणी । स्मृत्याकर्षणरूपा च हृदाकर्षणरूपिणी ॥ ३,४४.१९ ॥ श्रद्धाकर्षणरूपा च ह्यात्माकर्षणरूपिणी । अमृताकर्षिणी प्रोक्ता शरीराकर्षणी तथा ॥ ३,४४.१२० ॥ स्थानानि दक्षिणं श्रोत्रं पृष्ठमंसश्च कूर्परः । दक्षहस्त तलस्याथ पृष्ठं तत्स्फिक्च जानुनी ॥ ३,४४.२१ ॥ तज्जङ्घाप्रपदे वामप्रपदादिविलोमतः । चक्रेशीं न्यस्य चक्रं च समर्च्य व्याप्य वर्ष्मणि ॥ ३,४४.२२ ॥ न्यसेदनङ्गकुसुमदेव्यादीनामथाष्टकम् । शङ्खजत्रूरुजङ्घासु वामे तु प्रतिलोमतः ॥ ३,४४.२३ ॥ अनङ्गकुसुमा पश्चाद्द्वितीयानङ्ग मेखला । अनङ्गमदना पश्चादनङ्गमदनातुरा ॥ ३,४४.२४ ॥ अनङ्गरेखा तत्पश्चाद्वेगाख्यानङ्गपूर्विका । ततोऽनङ्गाङ्कुशा पश्चादनङ्गाधारमालिनी ॥ ३,४४.२५ ॥ चक्रेशीं न्यस्य चक्रं च समर्प्य व्याप्य वर्ष्मणि । शक्तिदेवीर्न्यसेत्सर्वसंक्षोभिण्यादिका अथ ॥ ३,४४.२६ ॥ ललाटगण्डयोरं से पादमूले च जानुनि । उपर्यधश्च जङ्घायां तथा वामे विलोमतः ॥ ३,४४.२७ ॥ सर्वसंक्षोभिणी शक्तिः सर्वविद्राविणी तथा । सर्वाद्याकर्षणी शक्तिः सर्वप्रह्लादिनी तथा ॥ ३,४४.२८ ॥ सर्वसंमोहिनी शक्तिः सर्वाद्या स्तंभिनी तथा । सर्वाद्या जृंभिणी शक्तिः सर्वाद्या वशकारिणी ॥ ३,४४.२९ ॥ सर्वाद्या रञ्जिनी शक्तिः सर्वाद्योन्मादिनी तथा । सर्वार्थसाधिनी शक्तिस्सर्वाशापूरिणी तथा ॥ ३,४४.१३० ॥ सर्वमन्त्रमयी शक्तिः सर्वद्वन्द्वक्षयङ्करा । चक्रेशीं न्यस्य चक्रं च समर्प्य व्याप्य वर्ष्मणि ॥ ३,४४.३१ ॥ सर्वसिद्धिप्रदादीनां दशकं चाथ विन्यसेत् । दक्षनासापुटे दन्तमूले दक्षस्तने तथा ॥ ३,४४.३२ ॥ कूर्परे मणिबन्धे च न्यस्येद्वामे विलोमतः । सर्वसिद्धिप्रदा नित्यं सर्वसंपत्प्रदा तथा ॥ ३,४४.३३ ॥ सर्वप्रियङ्करा देवी सर्वमङ्गलकारिणी । सर्वाघमोचिनी शक्तिः सर्वदुःखविमोचिनी ॥ ३,४४.३४ ॥ सर्व मृत्युप्रशमिनी सर्वविघ्नविनाशिनी । सर्वाङ्गसुन्दरी चैव सर्वसौभाग्यदायिनी ॥ ३,४४.३५ ॥ चक्रेशीं न्यस्य चक्रं च समर्प्य व्याप्य वर्ष्मणि । सर्वज्ञाद्यान्न्यसेद्वक्षस्यपि दन्तस्थलेष्वथ ॥ ३,४४.३६ ॥ सर्वज्ञा सर्वशक्तिश्च सर्वज्ञानप्रदा तथा । सर्वज्ञानमयी देवी सर्वव्याधिविनाशिनी ॥ ३,४४.३७ ॥ सर्वाधारस्वरूपा च सर्वपापहरा तथा । सर्वानन्दमयी देवी सर्वरक्षास्वरूपिणी । विज्ञेया दशमी चैव सर्वेप्सितफलप्रदा ॥ ३,४४.३८ ॥ चक्रेशीं न्यस्य चक्रं च समर्प्य व्याप्य वर्ष्मणि । प्राग्वामाद्याश्च विन्यस्य पक्षिण्याद्यास्ततः सुधीः ॥ ३,४४.३९ ॥ दक्षे तु चिबुके कण्ठे स्तने नाभौ च पार्श्वयोः । वामा विनोदिनी विद्या वशिता कामिकी मता ॥ ३,४४.१४० ॥ कामेश्वरी परा ज्ञेया मोहिनी विमला तथा । अरुणा जयिनी पश्चात्तथा सर्वेश्वरी मता । कौलिनीति समुक्तानि तासां नामानि सूरिभिः ॥ ३,४४.४१ ॥ चक्रेश्वरीं न्यसेच्चक्रं समर्प्य व्याप्य वर्ष्मणि । हृदि त्रिकोणं संभाव्य दिक्षु प्रागादितः क्रमात् ॥ ३,४४.४२ ॥ तद्बहिर्विन्न्यसेद्धीमानायुधानां चतुष्टयम् । न्यसेदग्न्यादिकोणेषु मध्ये पीठचतुष्टयम् ॥ ३,४४.४३ ॥ मध्यवृत्तंन्यसित्वा च नित्याषोडशकं न्यसेत् । कामेश्वरी तथा नित्या नित्या च भगमालिनी ॥ ३,४४.४४ ॥ नित्यक्लिन्ना तथा नित्या नित्या भेरुण्डिनी मता । वह्निवासिनिका नित्या महावज्रेश्वरी तथा ॥ ३,४४.४५ ॥ नित्या च दूती नित्या च त्वरिता तु ततः परम् । कुलसुन्दरिका नित्या कुल्या नित्या ततः परम् ॥ ३,४४.४६ ॥ नित्या नीलपताका च नित्या तु विजया परा । ततस्तु मङ्गला चैव नित्यपूर्वा प्रचक्ष्यते ॥ ३,४४.४७ ॥ प्रभामालिनिका नित्या चित्रा नित्या तथैव च । एतास्त्रिकोणान्तरेण पादतो हृदि विन्यसेत् ॥ ३,४४.४८ ॥ नित्या प्रमोदिनी चैव नित्या त्रिपुरसुन्दरी । तन्मध्ये विन्यसेद्देवीमखण्डजगदात्मिकाम् ॥ ३,४४.४९ ॥ चक्रेश्वरीं हृदि न्यस्य कृत्वा चक्रं समुद्धृतम् । प्रदर्श्य मुद्रां योन्याख्यां सर्वानन्दमनुं जपेत् ॥ ३,४४.१५० ॥ इत्यात्मनस्तु चक्रस्य चक्रदेवी भविष्यति ॥ ३,४४.१५१ ॥ इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे हयग्रीवागस्त्यसंवादे ललितोपाख्याने चतुश्चत्वारिंशोऽध्यायः समाप्तं ललितोपाख्यानम् । श्रीमत्प्रतापगढपत्तनमध्यवर्त्तिश्रीरामपूर्वकगढाभिधवासिनेदम् । संशोधितं निखिलमान्यपुराणकं यद्ब्रह्माण्डसंज्ञमिह तद्विदुषां मुदेऽस्तु रघुनाथेनेदं यत्क्वचिदस्ती हाप्यसंशुद्धम् । संशोधितमपि दयया तत्क्षन्तव्यं ह्यशेषेण ओं नमो भगवते वासुदेवाय । रामाय नमः समाप्तमिदं ब्रह्माण्डमहापुराणम् ।