उनत्रिंशे तु रासार्थमुक्तिप्रात्युक्तयो हरेः । गोपीभी राससंरम्भे तस्य चान्तर्धिकौतुकम् ॥ १ ॥ ब्रह्मादिजयसंरूढदर्पकन्दर्पदर्पहा । जयति श्रीपतिर्गोपीरासमण्डलमण्डनः ॥ २ ॥ १०,२९.०१ श्रीशुक उवाच भगवानपि ता रातृईः शारदोत्फुल्लमल्लिकाः[*१] । वीक्ष्य रन्तुं मनश्चक्रे योगमायामुपाश्रितः ॥ [*१] शरदो मल्लिकाविकसहेतुत्वाभावेऽपि हेतुत्वोक्त्याऽभिनवत्वं तेन च सर्वपुष्पविकासो व्यज्यते । ननु विपरीतमिदम्, परदारविनोदेन कन्दर्पविजेतृत्वप्रतीतेः । मैवम्, "योगमायामुपाश्रितः," "आत्मारामोऽप्यरीरमत्," "साक्षान्मन्मथमन्मथः," "आत्मन्यवरुद्धसौरतः," इत्यादिषु स्वातन्त्र्याभिधानात् । तस्माद्रासक्रीडाविडम्बनं कामविजयख्यापनायेत्येव तत्त्वम् । किं च शृङ्गारकथापदेशेन विशेषतो निवृत्तिपरेयं पञ्चाध्यायीति व्यक्तीकरिष्यामः । ता रात्रीः "याताबला व्रजं सिद्धा मयेमा रंस्यथ क्षपाः" इति प्रतिश्रुता इत्यर्थः ॥टीका१०,२९.१॥ १०,२९.०२ तदोडुराजः ककुभः करैर्मुखं प्राच्या विलिम्पन्नरुणेन शन्तमैः । स चर्षणीनामुदगाच्छुचो मृजन् प्रियः प्रियाया इव दीर्घदर्शनः ॥ तदा तस्मिन्नेव क्षणे तत्प्रतीतये उडुराजश्चन्द्र उदगादुदितः । किं कुर्वन् । दीर्घकालेन दर्शनं यस्य स प्रियः स्वप्रियाया मुखमरुणेन कुङ्कुमेन यथा विलिम्पति तथा प्राच्याः ककुभो दिशो मुखं शन्तमैः सुखतमैः करै रश्मिभिररुणेनोदयरागेण विलिम्पन्नरुणीकुर्वन्नित्यर्थः । स प्रसिद्ध उडुराजः । तथा चर्षणिनां जनानां शुचस्तापग्लानीर्मृजन्नपनयन् ॥टीका१०,२९.२॥ १०,२९.०३ दृष्ट्वा कुमुद्वन्तमखण्डमण्डलं रमाननाभं नवकुङ्कुमारुणम् । वनं च तत्कोमलगोभी रञ्जितं जगौ कलं वामदृशां मनोहरम् ॥ कुमुत्कुमुदं विकसनीयं विद्यते यस्य तं कुमुद्वन्तम् । न खण्डं मण्डलं यस्य तम् । रमाया आननस्याभेव आभा यस्य तम् । नवकुङ्कुममिवारुणमेवंविधं चन्द्रं दृष्ट्वा । तथा वनं च तस्य कोमलैर्गोभी रश्मिभी रञ्जितं दृष्ट्वा कलं मधुरं जगौ अगायत । कथम् । वामदृशां वामा मनोहरा दृशो यासां तासां मनोहरं यथा ॥टीका१०,२९.३॥ १०,२९.०४ निशम्य गीतां तदनङ्गवर्धनं व्रजस्त्रियः कृष्णगृहीतमानसाः । आजग्मुरन्योन्यमलक्षितोद्यमाः स यत्र कान्तो जवलोलकुण्डलाः ॥ असापत्न्यायान्योन्यमलक्षितो न ज्ञापित उद्यमो याभिस्ताः । स कान्तो यत्र तत्र गीतध्वनिमार्गेण आजग्मुः[*२] । जवेन वेगेन लोलानि चञ्चलानि कुण्डलानि यासां ताः ॥टीका१०,२९.४॥ [*२] जग्मुरिति वक्तव्ये आजग्मुरित्युक्तिः शुकस्य कृष्णान्तिके स्वावस्थानस्फूर्तेः ॥ १०,२९.०५ दुहन्त्योऽभिययुः काश्चिद्दोहं हित्वा समुत्सुकाः । पयोऽधिश्रित्य संयावमनुद्वास्यापरा[*३] ययुः ॥ [*३] अपरा इति पूर्वेण परेणाप्यन्वेति । श्रीकृष्णसूचकशब्दशर्वणेन तत्प्रवणचित्तानां तत्क्षणमेव त्रैवर्गिककर्मनिवृत्तिं द्योतयन्त्य इवार्धावसितं कर्म विहाय ययुः । तदाहदुहन्त्य इति । पयः स्थालीस्थं चुल्ल्यामधिश्रित्यैतत्क्वाथमप्रतीक्षमानाः काश्चिद्ययुः । संयावं गोधूमकणान्नं पक्वमनुद्वास्यानुत्तार्य ॥टीका१०,२९.५॥ ॥टीका१०,२९.६॥ १०,२९.०७ लिम्पन्त्यः[*४] प्रमृजन्त्योऽन्या अञ्जन्त्यः काश्च लोचने । व्यत्यस्तवस्त्राभरणाः काश्चित्कृष्णान्तिकं ययुः ॥ [*४] लिम्पन्त्यः अङ्गरागं कुर्वत्यः । अन्याः प्रमृजन्त्यः अङ्गोद्वर्तनादि कुर्वन्त्यः । काश्च काश्चित्कृष्णतुष्ट्यर्थं कर्म तदासक्तमनसामन्यथा कृतमपि फलत्येवेति द्योतयन्नाहव्यत्यस्तेति । स्थानतः स्वरूपतश्चोर्ध्वाधोधारणेन विपर्ययं प्राप्तानि वस्त्राभरणानि यासां ताः ॥टीका१०,२९.७॥ १०,२९.०८ ता वार्यमाणाः पतिभिः पितृभिर्भ्रातृबन्धुभिः । गोविन्दापहृतात्मानो न न्यवर्तन्त मोहिताः ॥ न च कृष्णाकृष्टमनसां विघ्नाः प्रभवन्तीत्याहता वार्यमाणा इति ॥टीका१०,२९.८॥ १०,२९.०९ अन्तर्गृहगताः काश्चिद्गोप्योऽलब्धविनिर्गमाः । कृष्णं तद्भावनायुक्ता दध्युर्मीलितलोचनाः[*५] ॥ [*५] मुद्रितनेत्राः, यद्वा मीलितं लोचनमन्याशेषज्ञानं यासां ताः । न लब्धो निर्गमो याभिस्ताः । प्रागपि तद्भावनायुक्तास्तदा नितरां दध्युरित्यर्थः ॥टीका१०,२९.९॥ १०,२९.१०११ दुःसहप्रेष्ठविरहतीव्रतापधुताशुभाः । ध्यानप्राप्ताच्युताश्लेषनिर्वृत्या क्षीणमङ्गलाः ॥ तमेव परमात्मानं जारबुद्ध्यापि[*६] सङ्गताः । जहुर्[*७] गुणमयं देहं सद्यः प्रक्षीणबन्धनाः ॥ किं च तदानीमेवं तं परमात्मानं कृष्णं ध्यानतः प्राप्ताः सत्यो गुणमयं देहं जहुरित्याह श्लोकद्वयेनदुःसहेति । ननु कथं जहुः परमात्मेति ज्ञानाभावादित्याशङ्क्याहजारबुद्ध्यापीति । न हि वस्तुशक्तिर्बुद्धिमपेक्षते । अन्यथा मत्वापि पीतामृतवदिति भावः । ननु तदपि प्रारब्धकर्मबन्धने सति कथं जहुस्तत्राहसद्यः प्रक्षीणबन्धना इति । ननु कथं भोगमन्तरेण प्रारब्धं कर्म क्षीणं भोगेनैव सद्यः क्षीणमित्याहदुःसहेति । दुःसहो यः प्रेष्ठविरहस्तेन तीव्रस्तापस्तेन धुतानि गतान्यशुभानि यासाम् । तदप्राप्तिपरमदुःखभोगेन पापं क्षीणमित्यर्थः । तथा ध्यानेन प्राप्ता अच्युतस्य आश्लेषेण या निर्वृतिः परमसुखभोगस्तया क्षीणं मङ्गलं पुण्यबन्धनं यासां ताः । अतो ध्यानेन परमात्मप्राप्तेस्तत्कालसुखदुःखाभ्यां निःशेषकर्मक्षयाद्गुणमयं देहं जहुरिति ॥टीका१०,२९.१०॥ ॥टीका१०,२९.११॥ [*६] अत्र "जिघांसयापि हरये" इत्यत्रेव जारबुद्ध्यापीत्यपिना तादृशबुद्धेर्निन्द्यत्वं व्यज्य वस्तुमहिम्नातिप्राशस्त्यं व्यञ्जितम् । [*७] गुणमयं देहं जहुरित्युक्त्या चिन्मयदेहेन गोलोकादौ तत्प्राप्तिर्ध्वन्यते । १०,२९.१२ राजोवाच कृष्णं विदुः परं कान्तं न तु ब्रह्मतया मुने । गुणप्रवाहोपरमस्तासां गुणधियां[*८] कथम् ॥ [*८] अतो गुणधियां श्रीकृष्णगुणैकानुबद्धप्रेममयीनां तासां गुणप्रवाहोपरमः चिन्मयगुणपरम्पराश्रयस्य चिद्विग्रहस्योपरमः सायुज्यमुक्तिः ब्रह्मोपासकानामिव कथमिति । ननु यथा पतिपुत्रादीनां वस्तुतो ब्रह्मत्वेऽ पि न तद्भजनान्मोक्षस्तथा बुद्ध्यभावादेवं कृष्णेऽपि ब्रह्मबुद्ध्यभावेन तत्सङ्गतिः कथं मोक्षहेतुरिति शङ्कतेकृष्णं विदुरिति । परं केवलं कान्तं कमनीयम् ॥टीका१०,२९.१२॥ १०,२९.१३ श्रीशुक उवाच उक्तं पुरस्तादेतत्ते चैद्यः सिद्धिं यथा गतः । द्विषन्नपि हृषीकेशं किमुताधोक्षजप्रियाः ॥ परिहरतिउक्तमिति । अयं भावःजीवेष्वावृतं ब्रह्मत्वं कृष्णस्य तु हृषीकेशत्वादनावृतमतो न तत्र बुद्ध्यपेक्षेति ॥टीका१०,२९.१३॥ १०,२९.१४ नृणां निःश्रेयसार्थाय व्यक्तिर्भगवतो नृप । अव्ययस्याप्रमेयस्य[*९] निर्गुणस्य गुणात्मनः ॥ [*९] अप्रमेयस्यापरिच्छिन्नस्य । ननु देही कथमनावृतः स्यादत आहनृणामिति । गुणात्मनो गुणनियन्तुः । भगवत एवंरूपा अभिव्यक्तिरतो न देहसादृश्यमत्र वक्तुं युज्यत इति भावः ॥टीका१०,२९.१४॥ १०,२९.१५ कामं क्रोधं भयं स्नेहमैक्यं सौहृदमेव च । नित्यं हरौ विदधतो[*१०] यान्ति तन्मयतां[*११] हि ते ॥ [*१०] "विदधते" इति पाठः । [*११] तन्मयतां तत्सायुज्यसारूप्यादिमुक्तिं तदेकस्फूर्तिं च । अतो यथा कथञ्चित्तदासक्तिर्मुक्तिकारणमित्याहकाममिति । ऐक्यं संबन्धम् । सौहृदं भक्तिम् ॥टीका१०,२९.१५॥ १०,२९.१६ न चैवं विस्मयः कार्यो भवता भगवत्यजे । योगेश्वरेश्वरे कृष्णे यत एतद्विमुच्यते ॥ न च भगवतोऽयमतिभार इत्याहन चैवमिति । यतः श्रीकृष्णादेतत्स्थावरादिकमपि विमुच्यते ॥टीका१०,२९.१६॥ १०,२९.१७ ता दृष्ट्वान्तिकमायाता भगवान् व्रजयोषितः । अवदद्वदतां श्रेष्ठो वाचःपेशैर्विमोहयन् ॥ प्रस्तुतम्[*१२] आहता दृष्ट्वेति । वाचःपेशैर्वाग्विलासैः ॥टीका१०,२९.१७॥ [*१२] रसमयरासलीलाप्रसङ्गे ईदृशस्ते प्रश्नः समाधानप्रपञ्चश्च रसविघातकत्वादनुचित इति व्यञ्जयन् स्वयमेवोत्कण्ठया प्रस्तौति ॥ १०,२९.१८ श्रीभगवानुवाच स्वागतं वो महाभागाः प्रियं किं करवाणि वः । व्रजस्यानामयं कच्चिद्ब्रूतागमनकारणम् ॥ सर्वाः ससंभ्रममागता विलोक्य सभयमिवाहव्रजस्येति ॥टीका१०,२९.१८॥ १०,२९.१९ रजन्येषा घोररूपा[*१३] घोरसत्त्वनिषेविता । प्रतियात व्रजं नेह स्थेयं स्त्रीभिः सुमध्यमाः ॥ [*१३] यद्वा अघोररूपा चन्द्रोदयेन तमोहानात्, अतो ज्योत्स्नया दिनप्रायत्वादघोरैः सत्त्वैर्भृङ्गकोकिलाद्यैर्निषेविता, अथवा घोरं दुष्टानां भयजनकं सत्त्वं बलं यस्य तेन मया निषेविता । अतः सर्वथा व्रजं न यात । प्रार्थनायां लोट् । इत्थमेवाग्रे मा विचिन्वन्ति, मा यात इत्यादि योज्यम् । लज्जया मन्दहसितमालक्ष्याहरजन्येषेति ॥टीका१०,२९.१९॥ १०,२९.२० मातरः पितरः पुत्रा भ्रातरः पतयश्च वः । विचिन्वन्ति ह्यपश्यन्तो मा कृढ्वं बन्धुसाध्वसम् ॥ किं च मातर इति । विचिन्वन्ति मृगयन्ते । बन्धूनां साध्वसं कृच्छ्रं मा कृध्वं मा कुरुतेत्यर्थः ॥टीका१०,२९.२०॥ १०,२९.२१ दृष्टं वनं कुसुमितं राकेशकररञ्जितम् । यमुनानिललीलैजत्तरुपल्लवशोभितम् ॥ ईषत्प्रणयकोपेनान्यतो विलोकयन्ती प्रत्याहदृष्टमिति । राकेशस्य पूर्णचन्द्रस्य करै रञ्जितम् । यमुनास्पर्शिनोऽनिलस्य लीला मन्दगतिस्तया एजन्तः कम्पमानास्तरूणां पल्लवास्तैः शोभितम् ॥टीका१०,२९.२१॥ १०,२९.२२ तद्यात मा चिरं गोष्ठं शुश्रूषध्वं पतीन् सतीः । क्रन्दन्ति वत्सा बालाश्च तान् पाययत दुह्यत ॥ सतीः हे सत्यः ॥टीका१०,२९.२२॥ १०,२९.२३ अथ वा मदभिस्नेहाद्भवत्यो यन्त्रिताशयाः । आगता ह्युपपन्नं वः प्रीयन्ते मयि जन्तवः ॥ संरम्भक्षुभितदृष्टीः प्रत्याहअथवेति । यन्त्रिताशया वशीकृतचित्ताः । उपपन्नं युक्तम् । प्रीयन्ते प्रीता भवन्ति ॥टीका१०,२९.२३॥ १०,२९.२४ भर्तुः शुश्रूषणं स्त्रीणां परो धर्मो ह्यमायया । तद्बन्धूनां च कल्याण्यः प्रजानां चानुपोषणम् ॥ दृष्टादृष्टभयप्रदर्शनेन निवर्तयतिभर्तुरित्यादि श्लोकत्रयेण ॥टीका१०,२९.२४॥ ॥टीका१०,२९.२५॥ १०,२९.२६ अस्वर्ग्यमयशस्यं च फल्गु कृच्छ्रं भयावहम् । जुगुप्सितं च सर्वत्र औपपत्यं कुलस्त्रियः ॥ फल्गु तुच्छम् । कृच्छ्रं दुःसंपाद्यम् । औपपत्त्यं जारसौख्यम् ॥टीका१०,२९.२६॥ १०,२९.२७ श्रवणाद्दर्शनाद्ध्यानान्मयि भावोऽनुकीर्तनात् । न तथा सन्निकर्षेण प्रतियात ततो गृहान् ॥ किं च श्रवणादिति ॥टीका१०,२९.२७॥ ॥टीका१०,२९.२८॥ १०,२९.२९ कृत्वा मुखान्यव शुचः श्वसनेन शुष्यद्बिम्बाधराणि चरणेन भुवः लिखन्त्यः । अस्रैरुपात्तमषिभिः कुचकुङ्कुमानि तस्थुर्मृजन्त्य उरुदुःखभराः स्म तूष्णीम् ॥ चिन्तां प्राप्तानां स्थितिमाहकृत्वेति । शुचः शोकादुद्गतेन श्वसनेन शुष्यन्तो बिम्बफलसदृशा अधरा येषु मुखेषु तानि अव अवाञ्चि कृत्वा तथाऽङ्गुष्ठेन महीं लिखन्त्यः । तथा गृहीतकज्जलैरश्रुभिः कुचकुङ्कुमानि क्षलयन्त्यस्तूष्णीं स्थिताः । यत उरुदुःखस्य भरो भारो यासां ताः ॥टीका१०,२९.२९॥ १०,२९.३० प्रेष्ठं प्रियेतरमिव प्रतिभाषमाणं कृष्णं तदर्थविनिवर्तितसर्वकामाः । नेत्रे विमृज्य रुदितोपहते स्म किञ्चित्संरम्भगद्गदगिरोऽब्रुवतानुरक्ताः ॥ किं च प्रेष्ठमिति । किञ्चित्संरम्भेन कोपावेशेन गद्गदा गिरो यासां ता अब्रुवत्स्म । संरम्भे कारणंप्रेष्ठमित्यादि । प्रियेतरमिव प्रतिभाषमाणं प्रत्याचक्षाणम् ॥टीका१०,२९.३०॥ १०,२९.३१ गोप्य ऊचुः मैवं विभोऽर्हति भवान् गदितुं नृशंसं सन्त्यज्य सर्वविषयांस्तव पादमूलम् । भक्ता भजस्व दुरवग्रह मा त्यजास्मान् देवो यथादिपुरुषो भजते मुमुक्षून् ॥ नृशंसं क्रूरम् । हे दुरवग्रह स्वच्छन्द, तव पादमूलं भक्ताः सेवितवतीरस्मान् भजस्व मा त्यजेति ॥टीका१०,२९.३१॥ १०,२९.३२ यत्पत्यपत्यसुहृदामनुवृत्तिरङ्ग स्त्रीणां स्वधर्म इति धर्मविदा त्वयोक्तम् । अस्त्वेवमेतदुपदेशपदे त्वयीशे प्रेष्ठो भवांस्तनुभृतां किल बन्धुर्[*१४] आत्मा ॥ [*१४] बन्धुरो मनोहर आत्मा यस्येति वा । अपि च यदुक्तम् "पत्यपत्य" इत्यादि त्वया धर्मविदेति सोपहासमेवम्, एतदुपदेशानां पदे विषये त्वय्येवास्तु । उपदेशपदत्वे हेतुःीश इति । विविदिषावाक्येन सर्वोपदेशानामीशपरत्वावगमादिति भावः । ईशत्वे हेतुःात्मा किल भवानिति । भोग्यस्य हि सर्वस्य भोक्ता आत्मैवेश इत्यतः प्रेष्ठो बन्धुश्च भवानेवेति सर्वबन्धुषु करणीयं त्वय्येवास्त्वित्यर्थः । अथ वा धर्मोपदेशानां पदे स्थाने धर्मोपदेष्टरि त्वयि सत्यस्मासु च धर्मं जिज्ञासमानासु सतीषु त्वया धर्मविदा यदुक्तमेवमेतदस्तु । न तु त्वं धर्मोपदेष्टा किन्तु भवानात्मेति । अथ वा यदुक्तमेतदुपदेशपदे तद्गोचरे पुरुषेऽस्तु नाम, त्वयि तु ईशे स्वामिनि सत्येवम् । का क्वा नैवमित्यर्थः । यतस्तनुभृतां त्वमात्मा फलरूप इति । यद्वा यदुक्तं "पत्यादिशुश्रूषणं धर्म" इति एवमेतत्त्वय्येवास्तु । कुतः । उपदेशपदे शुश्रूषणीयत्वेनोपदिश्यमानानां पत्यादीनां पदेऽधिष्ठाने । कुतः ईशे । न हीश्वरमधिष्ठानं विना कोऽपि पतिपुत्रादिर्नामेति । अन्यत्समानम् । अलमतिविस्तरेण ॥टीका१०,२९.३२॥ १०,२९.३३ कुर्वन्ति हि त्वयि रतिं कुशलाः स्व आत्मन्[*१५] नित्यप्रिये पतिसुतादिभिरार्तिदैः किम् । तन्नः प्रसीद परमेश्वर[*१६] मा स्म छिन्द्या[*१७] आशां भृतां त्वयि चिरादरविन्दनेत्र ॥ [*१५] आत्मनात्मनि । [*१६] "वरदेश्वर" इति पाठः । [*१७] "छिन्द्यादाशाम्" इति पाठः । तत्र भवानित्यध्याहारः, छान्दसः पुरुषव्यत्ययो वा । एतत्सदाचारेण द्रढयन्त्यः प्रार्थयन्तेकुर्वन्तीति । कुशलाः शास्त्रनिपुणाः । तथा च शास्त्रम्"किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं च लोकः" इति ॥टीका१०,२९.३३॥ १०,२९.३४ चित्तं सुखेन भवतापहृतं गृहेषु यन्निर्विशत्युत करावपि गृह्यकृत्ये । पादौ पदं न चलतस्तव पादमूलाद्यामः कथं व्रजमथो करवाम किं वा ॥ किं च "प्रतियात" इति यदुक्तं तदशक्यं, त्वयैव चित्तादीनामपहृतत्वादित्याहुःचित्तमिति । यदस्माकं चित्तमेतावन्तं कालं सुखेन गृहेषु निर्विशति तत्त्वयापहृतम् । करावपि यौ गृहकृत्ये निर्विशतस्तावपि । सुखात्मना त्वयेति वा ॥टीका१०,२९.३४॥ १०,२९.३५ सिञ्चाङ्ग नस्त्वदधरामृतपूरकेण हासावलोककलगीतजहृच्छयाग्निम् । नो चेद्वयं विरहजाग्न्युपयुक्तदेहा ध्यानेन याम पदयोः पदवीं सखे ते ॥ अतोऽङ्ग हे कृष्ण, नोऽस्माकं तवाधरामृतपूर्वकेण तवैव हाससहितेनावलोकेन कलगीतेन च जातो यो हृच्छयाग्निः कामाग्निस्तं सिञ्च । नो चेद्वयं तावदेकोऽग्निस्तथा विरहाज्जनिष्यते योऽग्निस्तेन चोपयुक्तदेहा दग्धशरीरा योगिन इव ते पदवीमन्तिकं ध्यानेन याम प्राप्नुयामः ॥टीका१०,२९.३५॥ १०,२९.३६ यर्ह्यम्बुजाक्ष तव पादतलं रमाया दत्तक्षणं क्वचिदरण्यजनप्रियस्य । अस्प्राक्ष्म तत्प्रभृति नान्यसमक्षमङ्ग स्थातुंस्त्वयाभिरमिता बत पारयामः ॥ ननु स्वपतीनेवोपगच्छत त एनमग्निं सिञ्चेयुरिति चेत्तत्राहुःयर्हीति । रमाया लक्ष्म्या दत्तक्षणं दत्तोत्सवं दत्तावसरं वा । तदपि क्वचिदेव न सर्वदा । अरण्यजनाः प्रिया यस्य तस्य तव । अरण्यजनप्रियत्वादरण्ये क्वचिद्यर्ह्यस्प्राक्ष्म स्पृष्टवत्यो वयं तत्र च त्वयाभिरमिता आनन्दिताः सत्यस्तदारभ्यान्यसमक्षं स्थातुमपि न पारयामः । तुच्छास्ते न रोचन्त इत्यर्थः ॥टीका१०,२९.३६॥ १०,२९.३७ श्रीर्यत्पदाम्बुजरजश्चकमे तुलस्या लब्ध्वापि वक्षसि पदं किल भृत्यजुष्टम् । यस्याः स्ववीक्षणकृतेऽन्यसुरप्रयासस्तद्वद्वयं च तव पादरजः प्रपन्नाः ॥ त्वत्पादसौभाग्यं त्वतिचित्रमित्याहुःश्रीरिति । वक्षस्यसापत्न्यं स्थानं लब्ध्वापि तुलस्या सपत्न्या सह तव पादाम्बुजरजः कामयते स्म । भृत्यैः सर्वैर्जुष्टमिति सौभाग्यातिरेकोक्तिः । यस्याः स्ववीक्षणकृते श्रीरात्मानं विलोकय त्वित्येतदर्थमन्येषां ब्रह्मादीनां तपोभिः प्रयासः सा तद्रजस्तद्वद्वयमपि प्रपन्ना इति ॥टीका१०,२९.३७॥ १०,२९.३८ तन्नः प्रसीद वृजिनार्दन तेऽन्घ्रिमूलं प्राप्ता विसृज्य वसतीस्त्वदुपासनाशाः । त्वत्सुन्दरस्मितनिरीक्षणतीव्रकाम तप्तात्मनां पुरुषभूषण देहि दास्यम् ॥ हे वृजिनार्दन[*१८] दुःखहन्तः, त्वदुपासने त्वद्भजन एवाशा यासां ता वयं वासतीर्गृहान् विसृज्य हित्वा योगिन इव प्राप्ताः । तव सुन्दरस्मितविलसितनिरीक्षणेन यस्तीव्रः कामस्तेन तप्तचित्तानाम् । हे पुरुषरत्न, दास्यं देहि ॥टीका१०,२९.३८॥ १०,२९.३९ वीक्ष्यालकावृतमुखं तव कुण्डलश्रीगण्डस्थलाधरसुधं हसितावलोकम् । दत्ताभयं च भुजदण्डयुगं विलोक्य वक्षः श्रियैकरमणं[*१९] च भवाम[*२०] दास्यः ॥ [*१८] निषेधपक्षे वृजिनार्द न इति च्छेदः, गृहादि त्यक्त्वा न प्राप्ता वयमिति योजना । [*१९] श्रियाः एकरमणमिति च्छेदः । सन्धिरार्षः । [*२०] निषेधपक्षे किं दास्यो भवामेति काक्वा नैवेत्यर्थः । ननु गृहस्वाम्यं विहाय दास्यं किमिति प्रार्थ्यतेऽत आहुःवीक्ष्यति । अलकावृतमुखं केशान्तरैरावृतमुखम् । तथा कुण्डलयोः श्रीर्ययोस्ते गण्डस्थले यस्मिन्, अधरे सुधा यस्मिंस्तच्च तच्च तव मुखं वीक्ष्य दत्ताभयं भुजदण्डयुग्मं वक्षश्च श्रिया एकमेव रमणं रतिजनकं वीक्ष्य दास्य एव भवामेति ॥टीका१०,२९.३९॥ १०,२९.४० का स्त्र्यङ्ग ते कलपदायतमूर्च्छितेन[*२१] सम्मोहितार्यचरितान्न[*२२] चलेत्त्रिलोक्याम् । त्रैलोक्यसौभगमिदं च निरीक्ष्य रूपं यद्गोद्विजद्रुममृगाः पुलकान्यबिभ्रन् ॥ [*२१] "पदायतवेणुगीतसंमोहिता" इति पाठः । [*२२] निषेधपक्षे आर्यचरितभङ्गभिया का स्त्री नापयायादिति योजना । ननु जुगुप्सितमौपपत्यमित्युक्तम्, तत्राहुःका स्त्रीति । अङ्ग हे कृष्ण, कलानि पदानि यस्मिंस्तदायतं धीर्गं मूर्च्छितं स्वरालापभेदस्तेन । पाठान्तरे[*२३] कलपदामृतमयं वेणुगीतं तेन संमोहिता का वा स्त्री आर्यचरितान्निजधर्मान्न चलेत् । यन्मोहिताः पुरुषा अपि चलिताः, किं च त्रैलोक्यसौभगमिति यद्यतः अबिभ्रन्नबिभरुः । त्वद्द्योतकशब्दश्रवणमात्रेणापि तावन्निजधर्मत्यागो युक्तः, किं पुनस्त्वदनुभवेनेति भावः ॥टीका१०,२९.४०॥ [*२३] कलपदामृतवेणुगीतसंमोहितेत्येवंरूपे । १०,२९.४१ व्यक्तं भवान् व्रजभयार्तिहरो[*२४]ऽभिजातो देवो यथादिपुरुषः सुरलोकगोप्ता । तन्नो[*२५] निधेहि करपङ्कजमार्तबन्धो तप्तस्तनेषु च शिरस्सु च किङ्करीणाम् ॥ [*२४] "व्रजजनार्तिहरः" इति पाठः । [*२५] निषेधपक्षे किङ्करीणामपि शिरस्सु करं नो विधेहि मा स्थापयेति । व्यक्तं निश्चितम् ॥टीका१०,२९.४१॥ १०,२९.४२ श्रीशुक उवाच इति विक्लवितं तासां श्रुत्वा योगेश्वरेश्वरः । प्रहस्य सदयं गोपीरात्मारामोऽप्यरीरमत् ॥ विक्लवितं पारवश्यप्रलपितम् । गोपीः अरीरमद्रमयामास ॥टीका१०,२९.४२॥ १०,२९.४३ ताभिः समेताभिरुदारचेष्टितः प्रियेक्षणोत्फुल्लमुखीभिरच्युतः । उदारहासद्विजकुन्ददीधितिर्व्यरोचतैणाङ्क इवोडुभिर्वृतः ॥ प्रियस्येक्षणेनोत्फुल्लानि मुखानि यासां ताभिः उदारहासश्च द्विजाश्च तेषु कुन्दकुसुमवद्दीधितिर्यस्य सः । एणाङ्कश्चन्द्रः ॥टीका१०,२९.४३॥ ॥टीका१०,२९.४४॥ ॥टीका१०,२९.४५॥ १०,२९.४६ बाहुप्रसारपरिरम्भकरालकोरुनीवीस्तनालभननर्मनखाग्रपातैः । क्ष्वेल्यावलोकहसितैर्व्रजसुन्दरीणामुत्तम्भयन् रतिपतिं रमयां चकार ॥ बाहुप्रसारश्च परिरम्भश्च करादीनामालभनं स्पर्शश्च नर्म परिहासश्च नखाग्रपातश्च तैः । क्ष्वेल्या क्रीडया । अवलोकैश्च हस्तितैश्च कामं तासामुद्दीपयंस्ता रमयामास ॥टीका१०,२९.४६॥ १०,२९.४७ एवं भगवतः कृष्णाल्लब्धमाना महात्मनः । आत्मानं मेनिरे स्त्रीणां मानिन्योऽभ्यधिकं भुवि ॥ महात्मनो विमुक्तचित्तात् ॥टीका१०,२९.४७॥ १०,२९.४८ तासां तत्सौभगमदं वीक्ष्य मानं च केशवः । प्रशमाय प्रसादाय तत्रैवान्तरधीयत ॥ तत्सौभगेन मदमस्वाधीनताम् । मानं गर्वम् । केशवः कश्च ईशश्च तौ वशयतीति तथा सः ॥टीका१०,२९.४८॥ इति श्रीमद्भागवते महापुराणे दशमस्कन्धे पूर्वार्धे भावार्थदीपिकायां टीकायां एकोनत्रिंशोऽध्यायः **२९** त्रिंशे विरहसंतप्तगोपीभिः कृष्णमार्गणम् । उनमत्तवन्न नियतं भ्रमन्तीभिर्वने वने ॥ १ ॥ १०,३०.०१ श्रीशुक उवाच अन्तर्हिते भगवति सहसैव व्रजाङ्गनाः । अतप्यंस्तमचक्षाणाः करिण्य इव यूथपम् ॥ अचक्षाणा अपश्यन्त्यः ॥टीका१०,३०.१॥ १०,३०.०२ गत्यानुरागस्मितविभ्रमेक्षितैर्मनोरमालापविहारविभ्रमैः । आक्षिप्तचित्ताः प्रमदा रमापतेस्तास्ता विचेष्टा जगृहुस्तदात्मिकाः ॥ गत्या चानुरागस्मिताभ्यां विभ्रमेक्षितानि सविलासनिरीक्षणानि तैश्च मनोरमा आलापाश्च विहाराः क्रीडाश्च विभ्रमा अन्ये च विलासास्तैश्च रमापतेर्गत्यादिभिरेतैराक्षिप्तान्याकृष्टानि चित्तानि यासां ताः, अतस्तस्मिन्नेवात्मा यासां तास्तस्य विविधाश्चेष्ठा जगृहुस्तदनुकरणेनाक्रीडन् ॥टीका१०,३०.२॥ १०,३०.०३ गतिस्मितप्रेक्षणभाषणादिषु प्रियाः प्रियस्य प्रतिरूढमूर्तयः । असावहं त्वित्यबलास्तदात्मिका न्यवेदिषुः कृष्णविहारविभ्रमाः ॥ अपि च गतिस्मितेति । प्रियस्य गत्यादिषु प्रतिरूढा आविष्टा मूर्तयो यासां ताः । अतः कृष्णविहारविभ्रमाः कृष्णस्य एव विहारविभ्रमाः क्रीडाविलासा यासां ताः । अहमेव कृष्ण इति परस्परं निवेदितवत्यः ॥टीका१०,३०.३॥ १०,३०.०४ गायन्त्य उच्चैरमुमेव संहता विचिक्युरुन्मत्तकवद्वनाद्वनम् । पप्रच्छुराकाशवदन्तरं बहिर्भूतेषु सन्तं पुरुषं वनस्पतीन् ॥ किं च गायन्त्य इति । वनाद्वनान्तरं गच्छन्त्यो विचिक्युरमृगयन् । उन्मत्ततुल्यत्वमाह वनस्पतीन् पप्रच्छुः । भूतेष्वन्तरं मध्ये सन्तं पुरुषं बहिश्च सन्तमिति ॥टीका१०,३०.४॥ १०,३०.०५ दृष्टो वः कच्चिदश्वत्थ प्लक्ष न्यग्रोध नो मनः । नन्दसूनुर्गतो हृत्वा प्रेमहासावलोकनैः ॥ तत्प्रपञ्चयति नवभिःतत्र महत्त्वादेते पश्येयुरित्याशयाश्वत्थादीन् पृच्छन्तिदृष्ट इति । प्रेमहासविलसितैरवलोकनैरस्माकं मनो हृत्वा चोर इव गतो वो युष्माभिः किं दृष्ट इति ॥टीका१०,३०.५॥ १०,३०.०६ कच्चित्कुरबकाशोकनागपुन्नागचम्पकाः । रामानुजो मानिनीनामितो[*२६] दर्पहरस्मितः ॥ [*२६] "गतः" इति पाठः । महान्तः स्वपुष्पैर्बहूपकारिणश्चेति कुरबकादीन् पृच्छन्तिकच्चिदिति । हे कुरबकादयः, दर्पहरं स्मितं यस्य सः इतो गतः कच्चिद्दृष्ट इति ॥टीका१०,३०.६॥ १०,३०.०७ कच्चित्तुलसि कल्याणि गोविन्दचरणप्रिये । सह त्वालिकुलैर्बिभ्रद्दृष्टस्तेऽतिप्रियोऽच्युतः ॥ अलिकुलैः सह त्वा त्वां बिभ्रत्तवातिप्रियस्त्वया किं दृष्ट इति ॥टीका१०,३०.७॥ १०,३०.०८ मालत्यदर्शि वः कच्चिन्मल्लिके जातियूथिके । प्रीतिं वो जनयन् यातः करस्पर्शेन माधवः ॥ गुणातिरेकेऽपि नम्रत्वादिमाः पश्येयुरिति पृच्छन्तिमालतीति । हे मालति मल्लिके, जाति, यूथिके, वो युष्माभिः किमदर्शि दृष्टः । करस्पर्शेन वः प्रीतिं जनयन् किं यात इति । अत्र मालतीजात्योरवान्तरविशेषो द्रष्टव्यः ॥टीका१०,३०.८॥ १०,३०.०९ चूतप्रियालपनसासनकोविदारजम्ब्वर्कबिल्वबकुलाम्रकदम्बनीपाः । येऽन्ये परार्थभवका यमुनोपकूलाः शंसन्तु कृष्णपदवीं रहितात्मनां नः ॥ फलादिभिः सर्वप्राणिनां संतर्पका एते पश्येयुरिति पृच्छन्तिचूतेति । चूताम्रयोरवान्तरजातिभेदः कदम्बनीपयोश्च । हे चूतादयः, येऽन्ये च परार्थभवकाः परार्थमेव भवो जन्म येषां ते । यमुनोपकूलास्तस्याः कूलसमीपे वर्तमानाः । तीर्थवासिन इत्यर्थः । ते भवन्तो रहितात्मनां शून्यचेतसां नः कृष्णपदवीं कृष्णस्य मार्गं शंसन्तु कथयन्तु ॥टीका१०,३०.९॥ १०,३०.१० किं ते कृतं क्षिति तपो बत केशवाङ्घ्रिस्पर्शोत्सवोत्पुलकिताङ्गरुहैर्विभासि । अप्यङ्घ्रिसम्भव उरुक्रमविक्रमाद्वा आहो वराहवपुषः परिरम्भणेन ॥ हे क्षिति क्षिते, त्वया किं तपः कृतं या त्वं केशवाङ्घ्रिस्पर्शोत्सवा केशवस्याङ्घ्रिस्पर्शेनोत्सवो यस्याः सा । कुतः । अङ्गरुहैरुत्पुलकिता रोमाञ्चिता विभासि शोभसे । तत्र विशेषं पृच्छतिअपि किमयमुत्सवोऽङ्घ्रिसंभवोऽधुना तवैकदेशाङ्घ्रिस्पर्शसंभूतः । यद्वा नैतावत्किन्तु उरुक्रमविक्रमात्पूर्वमेव त्रिविक्रमस्य पदा सर्वाक्रमणात् । अहो अथवा । नैतावदेव, अपि तु ततोऽपि पूर्वं वराहस्य वपुषः परिरम्भणेनेति । अतस्त्वया नूनं दृष्टस्तं दर्शयेति ॥टीका१०,३०.१०॥ १०,३०.११ अप्येणपत्न्य्[*२७] उपगतः प्रिययेह गात्रैस्तन्वन् दृशां सखि सुनिर्वृतिमच्युतो वः । कान्ताङ्गसङ्गकुचकुङ्कुमरञ्जितायाः कुन्दस्रजः कुलपतेरिह वाति गन्धः ॥ [*२७] एणपत्नीति "पत्युर्नो यज्ञसंयोगे" इति सूत्रादेणानां भवान्तरयज्ञैर्याज्ञिकत्वम् । एण्या यज्ञपत्नीत्वमिति दृष्टप्रशंसा । हरिण्या दृष्टिप्रत्यासत्त्या कृष्णदर्शनं संभाव्याहुःपीति । हे सखि एणपत्नि, अपि किमुपगतः समीपं गतः । गात्रैः सुन्दरैर्मुखबाह्वादिभिः । प्रियया सहेति यदुक्तं तत्र द्योतकम् । काण्ताया अङ्गसङ्गस्तेन तत्कुचकुङ्कुमेन रञ्जितायाः कुन्दकुसुमस्रजो गन्धः । कुलपतेः श्रीकृष्णस्य । वात्यागच्छति ॥टीका१०,३०.११॥ १०,३०.१२ बाहुं प्रियांस[*२८] उपधाय गृहीतपद्मो रामानुजस्तुलसिकालिकुलैर्मदान्धैः । अन्वीयमान इह वस्तरवः प्रणामं किं वाभिनन्दति चरन् प्रणयावलोकैः ॥ [*२८] प्रियायाः स्निग्धाया अंसे स्कन्धे । फलभारेण नतांस्तरून् कृष्णं दृष्ट्वा प्रणता इति मत्वा प्रियया सह तस्य गतिविलासं संभावयन्त्यः पृच्छन्तिबाहुमिति । तुलसिकाया अलिकुलैरतस्तदामोदमदान्धैरन्वीयमानोऽनुगम्यमान इह चरन्निति ॥टीका१०,३०.१२॥ १०,३०.१३ पृच्छतेमा लता बाहूनप्याश्लिष्टा वनस्पतेः । नूनं तत्करजस्पृष्टा बिभ्रत्युत्पुलकान्यहो ॥ काश्चिदाहुःहे सख्यः, इमा लताः कृष्णेन सङ्गता नूनम्, अत इमाः पृच्छत । ननु स्वपतिसङ्गतौ तत्सङ्गतिर्दुर्घटा, न । वनस्पतेः पत्युर्बाहुनाश्लिष्टा अपि अहो भाग्यं नूनं तन्नखैः स्पृष्टा यत उत्पुलकानि बिभ्रति । न हि स्वपतिसङ्गतावीदृक्पुलकसंभव इति भावः ॥टीका१०,३०.१३॥ १०,३०.१४ इत्युन्मत्तवचो गोप्यः कृष्णान्वेषणकातराः । लीला भगवतस्तास्ता ह्यनुचक्रुस्तदात्मिकाः ॥ उन्मत्तवत्प्रपच्छुरित्येतत्प्रपञ्चितमिदानीं"रमापतेस्तास्ता विचेष्टा जगृहुस्तदात्मिकाः" इति यदुक्तं तत्प्रपञ्चयतिइतीति । उन्मत्तवचो गोप्यः उन्मत्तवचसश्च ता गोप्यश्च । कृष्णस्यान्वेषणेन कातरा अतिविःवलाः । अनुचक्रुरनुकृतवत्यः ॥टीका१०,३०.१४॥ १०,३०.१५ कस्याश्चित्पूतनायन्त्याः कृष्णायन्त्यपिबत्स्तनम् । तोकयित्वा रुदत्यन्या पदाहन् शकटायतीम् ॥ कस्याश्चिदित्यादिभिश्चतुर्भिरनुकरणं प्रपञ्च्यते, ततश्चतुर्भिस्तन्मयत्वं पुनरेकेनानुकरणमिति विवेकः । पूतनायन्त्याः पूतनावदाचरन्त्याः कृष्णवदाचरन्ती स्तनमपिबत् । तोकायित्वा तोकवदात्मानं कृत्वा ॥टीका१०,३०.१५॥ १०,३०.१६ दैत्यायित्वा जहारान्यामेको कृष्णार्भभावनाम् । रिङ्गयामास काप्यङ्घ्री कर्षन्ती घोषनिःस्वनैः[*२९] ॥ [*२९] घोषाः किङ्किण्यस्तासां निःस्वनैः सहितावङ्घ्री कर्षन्ती सती रिङ्गयामास । णिजर्थोऽविवक्षितः । दैत्यायित्वा दैत्यवत्तृणावर्तवदात्मानं कृत्वा एका कृष्णार्भभावनां कृष्णस्यार्भं बाल्यं भावयति या तामन्यां जहार ॥टीका१०,३०.१६॥ ॥टीका१०,३०.१७॥ १०,३०.१८ आहूय दूरगा यद्वत्कृष्णस्तमनुवर्ततीम् । वेणुं क्वणन्तीं क्रीडन्तीमन्याः शंसन्ति साध्विति ॥ दूरगाः दूरे वर्तमाना गाः । यद्वद्यथा कृष्णस्तथाहूय तं कृष्णमनुवर्तमानाम् । अनुकुर्वतीमिति वा पाठः ॥टीका१०,३०.१८॥ ॥टीका१०,३०.१९॥ १०,३०.२० मा भैष्ट वातवर्षाभ्यां तत्त्राणं विहितं मय । इत्युक्त्वैकेन हस्तेन यतन्त्युन्निदधेऽम्बरम् ॥ यतन्ती प्रयत्नं कुर्वती अम्बरमुत्तरीयं वस्त्रमुन्निदधे ऊर्ध्वं धृतवती ॥टीका१०,३०.२०॥ ॥टीका१०,३०.२१॥ १०,३०.२२ तत्रैकोवाच हे गोपा दावाग्निं पश्यतोल्बणम् । चक्षूंष्याश्वपिदध्वं वो विधास्ये क्षेममञ्जसा ॥ अपिदध्वं निमीलयत ॥टीका१०,३०.२२॥ १०,३०.२३ बद्धान्यया स्रजा काचित्तन्वी तत्र उलूखले । भीता सुदृक्पिधायास्यं भेजे भीतिविडम्बनम् ॥ सुदृक्सुनयनमास्यं पिधाय । सुदृक्वराक्षीति वा । भीति विडम्बनं भयानुकरणम् ॥टीका१०,३०.२३॥ १०,३०.२४ एवं कृष्णं पृच्छमाना वृन्दावनलतास्तरून् । व्यचक्षत वनोद्देशे पदानि परमात्मनः ॥ एवं पुनरपि वृन्दावने लतास्तरूंश्च कृष्णं पृच्छन्त्यो वनोद्देशे वनप्रदेशे । व्यचक्षतापश्यन् ॥टीका१०,३०.२४॥ ॥टीका१०,३०.२५॥ १०,३०.२६ तैस्तैः पदैस्तत्पदवीमन्विच्छन्त्योऽग्रतोऽ बलाः । वध्वाः पदैः सुपृक्तानि विलोक्यार्ताः समब्रुवन् ॥ सुपृक्तानि संमिश्राणि ॥टीका१०,३०.२६॥ १०,३०.२७ कस्याः पदानि चैतानि याताया नन्दसूनुना । अंसन्यस्तप्रकोष्ठायाः करेणोः करिणा यथा ॥ तेनांसे न्यस्तः प्रकोष्ठो यस्याः । करेणोर्हस्तिन्याः ॥टीका१०,३०.२७॥ १०,३०.२८ अनयाराधितो नूनं भगवान् हरिरीश्वरः । यन्नो विहाय गोविन्दः प्रीतो यामनयद्रहः ॥ रह एकान्तस्थानम् ॥टीका१०,३०.२८॥ १०,३०.२९ धन्या अहो अमी आल्यो गोविन्दाङ्घ्र्यब्जरेणवः । यान् ब्रह्मेशो रमा देवी दधुर्मूर्ध्न्यघनुत्तये[*३०] ॥ [*३०] अघमपराधो विरहदुःखं वा । हे आल्यः सख्यः, अहो धन्या अतिपुण्या गोविन्दाङ्घ्र्यब्जरेणवः । तत्र हेतुःयानिति । अस्माभिरप्येतद्रेण्वभिषेकेण तथैव कृष्णः प्राप्तुं शक्य इति भावः ॥टीका१०,३०.२९॥ १०,३०.३० तस्या अमूनि नः क्षोभं कुर्वन्त्युच्चैः[*३१] पदानि यत् । यैकापहृत्य गोपीनां रहो[*३२] भुन्क्तेऽच्युताधरम् ॥ [*३१] उच्चैः अधिकं क्षोभं दुःखम् । [*३२] "धनं भुङ्क्ते" इति पाठः । अन्या आहुःतस्या इति । गोपीनां सर्वस्वम् । अयं भावःभवेद्[*३३] एवं यदि तस्याः पदानि संपृक्तानि न भवेयुस्तानि तु नो दुःखं कुर्वन्तीति ॥टीका१०,३०.३०॥ [*३३] यदि तस्याः पदानि संपृक्तानि न भवेयुस्तर्हि एवं कृष्णप्राप्तिसाधनं तत्पदरजःसेवनं भवेत् । तानि नु संपृक्तानि तत्पदानि नो दुःखं कुर्वन्ति । तस्याः पादरजसा मिश्रितत्वात्कृष्णपादरजस इति भावः । १०,३०.३१ न लक्ष्यन्ते पदान्यत्र तस्या नूनं तृणाङ्कुरैः । खिद्यत्सुजाताङ्घ्रितलामुन्निन्ये प्रेयसीं प्रियः ॥ तदसंपृक्तान् केवलं कृष्णपादरेणूनेव विचिन्वत्यस्तान् दृष्ट्वा पुनरत्यन्तं समतपन् । तदाह श्लोकत्रयेणन लक्ष्यन्त इति । खिद्यती सुजाते सुकुमारे अङ्घ्रितले यस्यास्तामुन्निन्ये स्कन्धमारोपितवान् ॥टीका१०,३०.३१॥ १०,३०.३२ अत्र प्रसूनावचयः प्रियार्थे प्रेयसा कृतः । प्रपदाक्रमण एते पश्यतासकले पदे ॥ प्रपदाभ्यामाक्रमणं क्षोणीमर्दनं ययोः । अत एवासकले पदे पश्यतेति ॥टीका१०,३०.३२॥ १०,३०.३३ केशप्रसाधनं त्वत्र कामिन्याः कामिना कृतम् । तानि चूडयता कान्तामुपविष्टमिह ध्रुवम् ॥ तस्याः कृष्णजान्वन्तरुपविष्टायाश्चिह्नं दृष्ट्वाहुःकेशप्रसाधनमिति । कान्तामधिकृत्य तानि प्रसूनानि चूडयता चूडानुकारेण बध्नता ध्रुवमुपविष्टम् ॥टीका१०,३०.३३॥ १०,३०.३४ रेमे तया चात्मरत[*३४] आत्मारामोऽप्यखण्डितः । कामिनां दर्शयन् दैन्यं स्त्रीणां चैव दुरात्मताम् ॥ [*३४] "स्वात्मरतः" इति पाठः । रेमे इत्यादिशुकोक्तिः । आत्मरतः स्वतस्तुष्टः । आत्मारामः स्वक्रीडः । अखण्डितः स्त्रीविभ्रमैरनाकृष्टोऽपि तथा चेत्किमिति रेमेऽत आहकामिनामिति ॥टीका१०,३०.३४॥ ॥टीका१०,३०.३५॥ १०,३०.३६ सा च मेने तदात्मानं वरिष्ठं सर्वयोषिताम् । हित्वा गोपीः कामयाना मामसौ भजते प्रियः ॥ स्त्रीणां दुरात्मतामाहसा चेति द्वाभ्याम् । कामो यानमागमनसाधनं यासां ता गोपीर्हित्वा मां भजत इति हेतोरात्मानं वरिष्ठं मेने इति ॥टीका१०,३०.३६॥ ॥टीका१०,३०.३७॥ १०,३०.३८ एवमुक्तः प्रियामाह स्कन्ध आरुह्यतामिति । ततश्चान्तर्दधे कृष्णः सा वधूरन्वतप्यत ॥ कामिनां दैन्यं दर्शयतिएवमुक्त इति । अखण्डितत्वमाहततश्चेति । तस्यां स्कन्धारोहोद्यतायामन्तर्हित इत्यर्थः ॥टीका१०,३०.३८॥ १०,३०.३९ हा नाथ रमण प्रेष्ठ क्वासि क्वासि महाभुज । दास्यास्ते कृपणाया मे सखे दर्शय सन्निधिम् ॥ अनुतापमाहहा नाथेति ॥टीका१०,३०.३९॥ १०,३०.४० अन्विच्छन्त्यो भगवतो मार्गं गोप्योऽविदूरतः । ददृशुः प्रियविश्लेषमोहितां दुःखितां सखीम् ॥ अन्विच्छन्त्यो मृगयमाणाः । अविदूरतः समीपे ॥टीका१०,३०.४०॥ ॥टीका१०,३०.४१॥ १०,३०.४२ ततोऽविशन् वनं चन्द्र ज्योत्स्ना यावद्विभाव्यते । तमः प्रविष्टमालक्ष्य ततो निववृतुः स्त्रियः ॥ ततस्तयापि सहिताः कृष्णान्वेषणाय वनमविशन् । ततो हरेरन्वेषणान्निवृत्ताः ॥टीका१०,३०.४२॥ १०,३०.४३ तन्मनस्कास्तदलापास्तद्विचेष्टास्तदात्मिकाः । तद्गुणानेव गायन्त्यो नात्मगाराणि सस्मरुः ॥ एवं तमप्राप्ता अपि स्वगृहान्नैव स्मृतवत्यः । तदात्मिकाः स एवात्मा यासां ताः । तन्मय्य इत्यर्थः ॥टीका१०,३०.४३॥ १०,३०.४४ पुनः पुलिनमागत्य कालिन्द्याः कृष्णभावनाः । समवेता जगुः कृष्णं तदागमनकाङ्क्षिताः ॥ किन्तु पूर्वं यत्र श्रीकृष्णेन सङ्गतिरासीत्तदेव कालिन्द्याः पुलिअमागत्य कृष्णं भावयन्ति ध्यायन्तीति तथा ताः कृष्णस्यागमनं काङ्क्षितं यासां ताः मिलिताः सत्यः कृष्णमेव जगुरिति ॥टीका१०,३०.४४॥ इति श्रीमद्भागवते महापुराणे दशमस्कन्धे पूर्वार्धे भावार्थदीपिकायां टीकायां त्रिंशत्तमोऽध्यायः **३०** एकत्रिंशे निराशास्ताः पुनः पुलिनमागताः । कृष्णमेवानुगायन्त्यः प्रार्थयन्ते तदागमम् ॥ १ ॥ १०,३१.०१ गोप्य ऊचुः जयति[*३५] तेऽधिकं जन्मना व्रजः श्रयत इन्दिरा शश्वदत्र हि । दयित दृश्यतां[*३६] दिक्षु तावकास्त्वयि धृतासवस्त्वां विचिन्वते ॥ [*३५] जयतीत्यादिश्लोकेषु प्रायश्चतुर्णां पादानां द्वितीयाक्षरहलैक्यं केषुचित्पादेषु प्रथमसप्तमाक्षरहलैक्यं तत्र क्वचित्शसबवादीनामालङ्कारिकादिसमयसिद्धसावर्ण्यादैक्यमिति ज्ञेयम् । [*३६] त्वया दृश्यतां प्रत्यक्षीभूयतामिति प्रेरणात्यागेनाकर्मकत्वाद्भावे लोट् । यद्वा अस्माभिर्भवान् दृश्यतामिति कर्मणि लोट् । जयतीति । हे दयित, ते जन्मना व्रजोऽधिकं यथा भवति तथा जयत्युत्कर्षेण वर्तते । यस्मात्त्वमत्र जातस्तस्मदिन्दिरा लक्ष्मीरत्र हि श्रयते व्रजमलङ्कृत्य वर्तते । एवं व्रजे सर्वस्मिन्मोदमानेऽत्र तु तावकास्त्वदीया गोपीजनास्त्वयि त्वदर्थमेव कथञ्चिद्धृता असवो यैस्ते त्वां विचिन्वते । अतस्त्वया दृष्यतां प्रत्यक्षीभूयतामिति । यद्वा अस्माभिर्भवान् दृष्यताम् । यद्वा एवं त्वया दृष्यतामेते विचिन्वत इति ॥टीका३१.१॥ १०,३१.०२ शरदुदाशये साधुजातसत्सरसिजोदरश्रीमुषा दृशा[*३७] । सुरतनाथ तेऽशुल्कदासिका वरद निघ्नतो नेह किं वधः ॥ [*३७] अथवा दृशैव शुल्कदासिकाः दृग्रूपशुल्केनैव दासीरपि त्यागेन मारयतः इति योजना । अत्र स्वतन्त्राणां बाहूनां वक्तृत्वादपरा आहुरिति सर्वश्लोकेष्ववतारणा, अथापि सङ्गतिरुच्यते । तत्र विचिन्वन्तु मम किमिति चेत्तत्राहुःशरदेति । शरदुदाशये शरत्कालीने सरसि साधु जातं सम्यक्जातं यत्सरसिजं विकसितं पद्मं तस्योदरे गर्भे या श्रीस्तां मुष्णाति हरतीति तथा तया दृशा नेत्रेण हे सुरतनाथ संभोगपते वरदाभीष्टप्रद, अशुल्कदासिका अमूल्यदासीर्नो निघ्नतो मारयतस्ते तव त्वया क्रियमाण इह लोकेऽयं वधो न भवति किम् । शस्त्रेणैव वधो वधः किं दृशा वधो न भवति, किन्तु भवत्येव । अतस्तव दृशाऽपहृतप्राणप्रत्यर्पणाय त्वया दृश्यतामिति भावः । त्वया दृश्यतामिति यथासंभवं सर्वत्र वाक्यशेषः ॥टीका३१.२॥ १०,३१.०३ विषजलाप्ययाद्व्यालराक्षसाद्वर्षमारुताद्वैद्युतानलात् । वृषमयात्मजाद्[*३८] विश्वतो भयादृषभ ते वयं रक्षिता मुहुः ॥ [*३८] वृषात्मजो वत्सासुरः "वराहतोकोनिरगाद्" इतिवत् । मयात्मजो व्योमासुरः । तच्चरित्रमग्रे वक्ष्यमाणमपि रासात्पूर्वभावीति ज्ञेयम् । किं च बहुभ्यो मृत्युभ्यः कृपया रक्षित्वा किमितीदानीं दृशा मन्मथं प्रेष्य घातयसीत्याहुःविषेति । हे ऋषभ श्रेष्ठ, विषमयाज्जलाद्योऽप्ययो नाशस्तस्मात्तथा व्यालराक्षसादघासुराद्वर्षान्मारुताद्वैद्युतानलादशनिपातात्वृषोऽऋष्टस्[*३९] तस्मान्मयात्मजाद्व्योमाद्विश्वतोऽन्यस्मादपि सर्वतो भयाच्च कालियदमनादिना रक्षिताः किमिदानीमुपेक्षस इति भावः ॥टीका३१.३॥ १०,३१.०४ न खलु गोपीकानन्दनो भवानखिलदेहिनामन्तरात्मदृक् । विखनसार्थितो विश्वगुप्तये सख उदेयिवान् सात्वतां कुले ॥ [*३९] अरिष्टव्योमासुरयोर्वधस्य भावित्वेऽपि गर्गादिमुखाच्छ्रुतत्वेन विप्रलम्बपोषकत्वेन वा भूतवन्निर्देशः । अपि च विश्वपालनायावतीर्णस्य तव भक्तोपेक्षाऽत्यन्तमनुचितेत्याशयेनाहुःन खल्विति । हे सखे, भवान् खलु निश्चितं यशोदासुतो न भवति, किन्तु सर्वप्राणिनां बुद्धिसाक्षी । ननु स किं दृश्यो भवति तत्राहुःविखनसा ब्रह्मणा विश्वपालनाय प्रार्थितः सन्सात्वतां कुले उदेयिवानुदित इति ॥टीका३१.४॥ १०,३१.०५ विरचिताभयं वृष्णिधूर्य ते चरणम्[*४०] ईयुषां संसृतेर्भयात् । करसरोरुहं कान्त[*४१] कामदं शिरसि धेहि नः श्रीकरग्रहम् ॥ [*४०] "शरणमीयुषाम्" इति पाठः । [*४१] यद्वा कान्तं च तत्कामदं चेति स्वतः सुखरूपमभीष्टदं चेति केचित् । तस्मात्त्वद्भक्तानामस्माकमेतत्प्रार्थनाचतुष्टयं संपादयेत्याहुःविरचिताभयमित्यादि चतुर्भिः । हे वृष्णिधुर्य, संसृतेर्भयात्ते चरणमीयुषां शरणं प्राप्तानां प्राणिनां विरचितं दत्तमभयं येन तत्तथा हे कान्त, कामदं वरदं तथा श्रियः करं गृह्णातीति तथा तद्भवत्करसरोरुहं न शिरसि देहि ॥टीका३१.५॥ १०,३१.०६ व्रजजनार्तिहन् वीर योषितां निजजनस्मयध्वंसनस्मित । भज सखे भवत्किङ्करीः[*४२] स्म नो जलरुहाननं चारु दर्शय ॥ [*४२] अथवा अभवत्किङ्करीः अन्या एव भज । मुखपद्मं च नो प्रदर्शय । मरणस्यैव निश्चितत्वादिति प्रणयकोपे योजना । हे व्रजजनार्तिहन् हे वीर, निज जनानां यः स्मयो गर्वस्तस्य ध्वंसनं नाशकं स्मितं यस्य तथाभूत हे सखे, भवत्किङ्करीर्नोऽस्मान् भज आश्रय । स्मेति निश्चितम् । प्रथमं तावज्जलरुहाननं चारु योषितां नो दर्शय ॥टीका३१.६॥ १०,३१.०७ प्रणतदेहिनां पापकर्षणं तृणचरानुगं श्रीनिकेतनम् । फणिफणार्पितं[*४३] ते पदाम्बुजं कृणु कुचेषु नः कृन्धि हृच्छयम् ॥ [*४३] फणिनः फणास्वर्पणमात्रेण तद्विषदर्पस्येव हृदि स्पर्शमात्रेण कन्दर्पस्य नाशो न दुष्कर इति भावः । अविशेषेण प्रणताणां देहिनां पापकर्शनं पापहन्तृ तृणचरान् पशूनप्यनु गच्छति कृपयेति तथा सौभाग्येन श्रियो निकेतनं वीर्यातिरेकेण फणिनः फनास्वर्पितं ते पदाम्बुजं नः कुचेषु कृणु कुरु । किमर्थम् । हृच्छयं कामं कृन्धि छिन्धि ॥टीका३१.७॥ १०,३१.०८ मधुरया गिरा वल्गुवाक्यया बुधमनोज्ञया पुष्करेक्षण । विधिकरीर्[*४४] इमा वीर मुह्यतीरधरसीधुनाप्याययस्व नः ॥ [*४४] यद्वा गिरैव विधिकरीरधुना विरहात्संमुह्यतीः इमाः प्रत्यक्षाः । हे पुष्करेक्षण, तवैव मधुरया गिरा वल्गूनि वाक्यानि यस्यां तया बुधानां मनोज्ञया हृद्यया गम्भीरयेत्यर्थः । मुह्यतीरिमा नो विधिकरीः किङ्करीरधरसीधुना आप्याययस्व संजीवयेति ॥टीका३१.८॥ १०,३१.०९ तव कथामृतं[*४५] तप्तजीवनं कविभिरीडितं कल्मषापहम् । श्रवणमङ्गलं श्रीमदाततं भुवि गृणन्ति ते भूरिदा जनाः ॥ [*४५] यद्वा सन्तप्ता आहुःतव कथा एव ंर्तं मृतिः सैवोद्दीपनविधयास्मान्मारयति । तथा तप्तजीवनं तप्ते तैले जीवनमिवेत्यर्थः । तथा च येऽस्मत्पुरतो गृणन्ति ते भूरिदा महाघातकाः । "दो अवखण्डने" इति धातुः । अतः कथामृतेनालमिति योजना । किं च अस्माकं त्वद्विरहे प्राप्तमेव मतणं किन्तु त्वत्कथामृतं पाययद्भिः सुकृतिभिर्वञ्चितमित्याहुःतवेति । कथैवामृतम् । अत्र हेतुःतप्तजीवनम् । प्रसिद्धामृतादुत्कर्षमाहुःकविभिर्ब्रह्मविद्भिरपीडितं स्तुतम् । देवभोग्यं त्वमृतं तैर्तुच्छीकृतम् । किं च कल्मषापहं कामकर्मनिरसनम् । तत्त्वमृतं नैवंभूतम् । किं च श्रवणमङ्गलं श्रवणमात्रेण मङ्गलप्रदम् । तत्त्वनुष्ठानापेक्षम् । किं च श्रीमत्सुशान्तम् । तत्तु मादकम् । एवंभूतं त्वत्कथामृतमाततं यथा भवति तथा ये भुवि गृणन्ति निरूपयन्ति ते जना भूरिदा बहुदातारः । जीवितं ददतीत्यर्थः । यद्वा एवंभूतं त्वत्कथामृतं ये भुवि गृणन्ति ते भूरिदाः पूर्वजन्मसु बहु दत्तवन्तः सुकृतिन इत्यर्थः । एतदुक्तं भवतिये केवलं कथामृतं गृणन्ति तेऽपि तावदतिधन्याः किं पुनर्ये त्वां पश्यन्ति, अतः प्रार्थयामहे त्वया दृश्यतामिति ॥टीका३१.९॥ १०,३१.१० प्रहसितं प्रिय प्रेमवीक्षणं विहरणं च ते ध्यानमङ्गलम्[*४६] । रहसि संविदो या हृदि स्पृशः कुहक नो मनः क्षोभयन्ति हि ॥ [*४६] ध्यानमात्रेण मङ्गलप्रदम् । इदं प्रहसितादीनां विशेषणम् । ननु मत्कथाश्रवणेनैव निर्वृता भवत किं मद्दर्शनेन, न, त्वद्विलासक्षुभितचित्ता वयं तत्रापि शान्तिं न विन्दाम इत्याहुःप्रहसितमिति । हे प्रिय, कुहक कपट, संविदः सङ्केतनर्माणि ॥टीका३१.१०॥ १०,३१.११ चलसि यद्व्रजाच्चारयन् पशून्नलिनसुन्दरं नाथ ते पदम् । शिलतृणाङ्कुरैः सीदतीति नः कलिलतां मनः कान्त गच्छति ॥ किं च त्वयि वयमतिप्रेमार्द्रचित्तास्त्वं पुनरस्मासु केन हेतुना कपटमाचरसीत्याहुः श्लोकद्वयेनचलसीति । हे नाथ हे कान्त, यत्यदा व्रजाच्चलसि पशूंश्चारयंस्तदा तन्नलिनसुन्दरं कोमलं ते पदं शिलैः कणिशैस्तृणैरङ्कुरैश्च सीदति क्लिश्येदिति नो मनः कलिलतामस्वास्थ्यं गच्छति प्राप्नोति । एवंभूतास्त्वद्दुःखशङ्कितचित्ता वयम् ॥टीका३१.११॥ १०,३१.१२ दिनपरिक्षये नीलकुन्तलैर्वनरुहाननं बिभ्रदावृतम् । घनरजस्वलं दर्शयन्मुहुर्मनसि नः स्मरं वीर यच्छसि ॥ त्वं तु दिनपरिक्षये सायं काले नीलकुन्तलैरावृतं घनरजस्वलं गोरजश्छुरितं वनरुहाननमलिमालाकुलपरागच्छुरितपद्मतुल्यमाननं बिभ्रत्तच्च मुहुर्मुहुर्दर्शयन्नो मनसि केवलं स्मरं[*४७] यच्छस्यर्पयसि । न तु सङ्गं ददासीति कपटस्त्वमिति भावः ॥टीका३१.१२॥ [*४७] स्मरं स्मरणमात्रेणापि क्षोभकम् । १०,३१.१३ प्रणतकामदं पद्मजार्चितं धरणिमण्डनं[*४८] ध्येयमापदि । चरणपङ्कजं शन्तमं च ते रमण नः स्तनेष्वर्पयाधिहन् ॥ [*४८] धरणिं ध्वजादिचिह्नैर्मण्डयतीति । अतोऽधुना कपटं विहायैवं कुर्विति प्रार्थयन्ति श्लोकद्वयेनप्रणतकामदमिति । हे अधिहन् हे रमण, पद्मजेन ब्रह्मणार्चितमापदि ध्येयं ध्यानमात्रेणापन्निवर्तकं शन्तमं च सेवासमयेऽपि सुखतमं ते चरणपङ्कजं कामतापशान्तये नः स्तनेष्वर्पयेति ॥टीका३१.१३॥ १०,३१.१४ सुरतवर्धनं शोकनाशनं स्वरितवेणुना सुष्ठु चुम्बितम् । इतररागविस्मारणं नृणां[*४९] वितर वीर नस्तेऽधरामृतम् ॥ [*४९] नृणामिति पुंसामपि, किमुत नारीणाम् । अपि च हे वीर, तेऽधरामृतं नो वितर देहि । स्वरितेन नादितेन वेणुना सुष्ठु चुम्बितमिति नादामृतवासितमिति भावः । इतररागविस्मारणं नृणामितरेषु सार्वभौमादिसुखेषु रागमिच्छां विस्मारयति विलापयतीति तथा तत् ॥टीका३१.१४॥ १०,३१.१५ अटति यद्भवानह्नि काननं त्रुटिर्युगायते त्वामपश्यताम् । कुटिलकुन्तलं श्रीमुखं च ते जड[*५०] उदीक्षतां पक्ष्मकृद्दृशाम् ॥ [*५०] यद्वा अजड इति छेदः । यः पक्ष्माणि कृन्तति स निमीलनाभावसंपादक एव अजडो रसज्ञः । किं वा स्वदृशां पक्ष्मच्छिदेव अजडः उदीक्षतां उच्चैः पश्यतु । वयं तु पक्ष्मपिहितदृशो जडाः किं पश्यामेति दर्शनेऽपि विधान दुःखमिति भावः । किं च क्षणमपि त्वददर्शने दुःखं दर्शने च सुखं दृष्ट्वा सर्वसङ्गपरित्यागेन यतय इव वयं त्रुटिः क्षणार्धमपि युगवद्भवति । एवमदर्शने दुःखमुक्तम् । पुनश्च कथञ्चिद्दिनान्ते ते तव श्रीमन्मुखमुदुच्चैरीक्षमानानां तेषां दृषां पक्ष्मकृद्ब्रह्मा जडो मन्द एव । निमेषमात्रमप्यन्तरमसह्यमिति दर्शने सुखमुक्तम् ॥टीका३१.१५॥ १०,३१.१६ पतिसुतान्वयभ्रातृबान्धवानतिविलङ्घ्य तेऽन्त्यच्युतागताः । गतिविदस्तवोद्गीतमोहिताः कितव योषितः कस्त्यजेन्निशि ॥ तस्माथे अच्युत, पतीन् सुतानन्वयांस्तत्संबन्धिनो भ्रातॄन् बान्धवांश्चातिविलङ्घ्य तव समीपमागता वयम् । कथंभूतस्य । गतिविदोऽस्मदागमनं जानतः, गीतगतीर्वा जानतः, गतिविदो वयं वा । तवोद्गीतेनोच्चैर्गीतेन मोहिताः हे कितव शठ, एवंभूता योषितो निशि स्वयमागतास्त्वामृते कस्त्यजेत् । न कोऽपीत्यर्थः ॥टीका३१.१६॥ १०,३१.१७ रहसि[*५१] संविदं हृच्छयोदयं प्रहसिताननं प्रेमवीक्षणम् । बृहदुरः श्रियो वीक्ष्य धाम ते मुहुरतिस्पृहा[*५२] मुह्यते मनः ॥ [*५१] रहसि संविदो यत्र तम् । अलुगार्षः । प्रहसितमाननं यत्र । प्रेम्णा वीक्ष्णं यत्र । [*५२] अतिस्पृहा भवति । यद्वा स्पृहेति संपदादित्वाद्भावे क्विपि तृतीया । मनो वीक्ष्य अतिस्पृहया मुह्यतीत्यर्थः ।ऽअतिस्पृहंऽ इति चित्सुखपाठः । अतस्त्वया त्यक्तानामस्माकं प्राक्तनत्वद्दर्शननिदानहृद्रोगस्य त्वत्सङ्गत्यैव चिकित्सां कुर्वित्याशयेनाहुर्द्वयेनरहसीति । श्रियो धाम ते बृहद्विशालमुरश्च वीक्ष्यातिस्पृहा भवति । तथा च मुहुर्मुहुर्मनो मुह्यति ॥टीका३१.१७॥ १०,३१.१८ व्रजवनौकसां[*५३] व्यक्तिरङ्ग ते वृजिनहन्त्र्यलं विश्वमङ्गलम् । त्यज मनाक्च नस्त्वत्स्पृहात्मनां स्वजनहृद्रुजां यन्निषूदनम् ॥ [*५३] व्रजौकसां वनौकसां च । तव च व्यक्तिरभिव्यक्तिर्व्रजवनौकसां सर्वेषामविशेषेण वृजिनहन्त्री दुःखनिरसनीति विश्वमङ्गलं सर्वमङ्गलरूपा च । अतस्त्वत्स्पृहात्मनां त्वत्स्पृहारूढमनसां नो मनागीषत्किमपि त्यज मुञ्च । कार्पण्यमकुर्वन् देहीत्यर्थाः । किं तत् । स्वजनहृद्रोगाणां यदतिगोप्यं निषूदनं निवर्तकमौषधं तत्त्वमेव वेतसीति गूढाभिप्रायम् ॥टीका३१.१८॥ १०,३१.१९ यत्ते सुजातचरणाम्बुरुहं स्तनेषु भीताः शनैः प्रिय दधीमहि कर्कशेषु । तेनाटवीमटसि तद्व्यथते न किं स्वित्कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः ॥ अतिप्रेमधर्षिता रुदत्य आहुःयदिति । हे प्रिय, यत्ते तव सुकुमारं पदाब्जं कठिनेषु कुचेषु संमर्दनशङ्किताः शनैर्दधीमहि[*५४] धारयेम वयम् । त्वं तु तेनाटवीमटसि । "नयसि" इति पाठे पशून् वा काञ्चिदन्यां वा आत्मानमेव वा नयसि प्रापयसि । तत्ततः तत्पदाम्बुजं वा कूर्पादिभिः सूक्ष्मपाषाणादिभिः किं स्विन्न व्यथते कथं नु नाम न व्यथेतेति भवान्[*५५] एवायुर्जीवनं यासां तासां नो धीर्भ्रमति मुह्यतीति ॥टीका३१.१९॥ [*५४] दधीमहि धर्तुं योग्यम् । "अर्हे कृत्यतृचश्च" इति लिङ् । [*५५] भवदायुषामिति । इत्थमेव च "त्वयि धृतासवः" इत्युपक्रमोऽपि । इति श्रीमद्भागवते महापुराणे दशमस्कन्धे पूर्वार्धे भावार्थदीपिकायां टीकायां एकत्रिंशोऽध्यायः **३१** द्वात्रिंशे विरहालापविक्लिन्नहृदयो हरिः । तत्राविर्भूय गोपीस्ताः सान्त्वयामास मानयन् ॥ १ ॥ स्वप्रेमामृतकल्लोलविह्वलीकृतचेतसः । सदयं नन्दयन् गोपीरुद्गतो नन्दनन्दनः ॥ २ ॥ १०,३२.०१ इति गोप्यः प्रगायन्त्यः प्रलपन्त्यश्च चित्रधा । रुरुदुः सुस्वरं राजन् कृष्णदर्शनलालसाः ॥ इति गोप्य इति । इत्येवं प्रभृति । चित्रधा अनेकधा सुस्वरमुच्चैः कृष्णदर्शने लालसातिस्पृहा यासां ताः ॥टीका१०,३२.१॥ १०,३२.०२ तासामाविरभूच्छौरिः स्मयमानमुखाम्बुजः । पीताम्बरधरः स्रग्वी साक्षान्मन्मथमन्मथः ॥ साक्षान्मन्मथमन्मथो जगन्मोहनस्य कामस्यापि मनस्युद्भूतः कामः साक्षात्तस्यापि मोहक इत्यर्थः ॥टीका१०,३२.२॥ १०,३२.०३ तं विलोक्यागतं प्रेष्ठं प्रीत्युत्फुल्लदृशोऽबलाः । उत्तस्थुर्युगपत्सर्वास्तन्वः प्राणमिवागतम् ॥ तन्वः करचरणादयः ॥टीका१०,३२.३॥ ॥टीका१०,३२.४॥ १०,३२.०५ काचिदञ्जलिनागृह्णात्तन्वी ताम्बूलचर्वितम् । एका तदङ्घ्रिकमलं सन्तप्ता स्तनयोरधात् ॥ अञ्जलिना संहतहस्तद्वयेन ॥टीका१०,३२.५॥ १०,३२.०६ एका भ्रुकुटिमाबध्य प्रेमसंरम्भविह्वला । घ्नन्तीवैक्षत्कटाक्षेपैः सन्दष्टदशनच्छदा ॥ भ्रुकुटिं भ्रुवमाबध्य कुटिलीकृत्य प्रेमसंरम्भेण प्रणयकोपावेशेन विह्वला विवशा दष्टाधरोष्ठा कटाः कटाक्षास्तैर्ये आक्षेपाः परिभवास्तैस्ताडयन्तीवैक्षत् ॥टीका१०,३२.६॥ १०,३२.०७ अपरानिमिषद्दृग्भ्यां जुषाणा तन्मुखाम्बुजम् । आपीतमपि नातृप्यत्सन्तस्[*५६] तच्चरणं यथा ॥ [*५६] सन्तो दास्यभक्तिनिष्ठा इति तृप्त्यभावे दृष्टान्तः । अनिमिषन्तीभ्यामनिमीलन्तीभ्यां दृग्भ्यामापीतमपि सम्यग्दृष्टमपि पुनः पुनर्जुषाणा नातृप्यत् ॥टीका१०,३२.७॥ १०,३२.०८ तं काचिन्नेत्ररन्ध्रेण हृदि कृत्य निमील्य च । पुलकाङ्ग्युपगुह्यास्ते योगीवानन्दसम्प्लुता[*५७] ॥ [*५७] योगीवेत्यन्तःस्फूर्तौ दृष्टान्तः । हृदि कृत्य हृदयं नीत्वेत्यर्थः ॥टीका१०,३२.८॥ १०,३२.०९ सर्वास्ताः केशवालोकपरमोत्सवनिर्वृताः । जहुर्विरहजं तापं प्राज्ञं प्राप्य यथा जनाः ॥ प्राज्ञं ईश्वरं प्राप्य यथा मुमुक्षवो जनाः । यद्वा प्राज्ञं ब्रह्मज्ञं प्राप्य यथा संसारिणः । यद्वा प्राज्ञं सौषुप्तं[*५८] प्राप्य यथा विश्वतैजसावस्था जीवाः ॥टीका१०,३२.९॥ [*५८] सौषुप्तं सुषुप्तिसाक्षिणमित्यर्थः । १०,३२.१० ताभिर्विधूतशोकाभिर्भगवानच्युतो वृतः । व्यरोचताधिकं तात पुरुषः शक्तिभिर्यथा ॥ पुरुषः परमात्मा शक्तिभिः सत्त्वादिभिर्यथा । यद्वा उपासकः पुरुषो ज्ञानबलवीर्यादिभिः । यद्वा पुरुषोऽनुशायी प्रकृत्याद्युपाधिभिर्वृतो यथाऽधिकं विरोचते तद्वत् ॥टीका१०,३२.१०॥ १०,३२.११ ताः समादाय कालिन्द्या निर्विश्य[*५९] पुलिनं विभुः । विकसत्कुन्दमन्दार सुरभ्यनिलषट्पदम् ॥ [*५९] निर्विश्य अधिष्ठाय । विकसत्कुन्दमन्दारैः सुरभिर्योऽनिलस्तस्मात्षट्पदा यस्मिंस्तत् ॥टीका१०,३२.११॥ १०,३२.१२ शरच्चन्द्रांशुसन्दोहध्वस्तदोषातमः शिवम् । कृष्णाया हस्ततरलाचितकोमलवालुकम् ॥ शरच्चन्द्रांशूनां सन्दोहैः समूहैर्ध्वस्तं दोषातमो रात्रिगतं तमो यस्मिंस्तत् । अतः शिवं सुखकरम् । हस्तरूपैस्तरलैस्तरङ्गैराचिता आस्तृता कोमला वालुका यस्मिन् । एवंभूतं पुलिनं ताः समादाय निर्विश्य ताभिर्वृतोऽधिकं व्यरोचतेति पूर्वेणान्वयः ॥टीका१०,३२.१२॥ १०,३२.१३ तद्दर्शनाह्लादविधूतहृद्रुजो मनोरथान्तं श्रुतयो यथा ययुः । स्वैरुत्तरीयैः कुचकुङ्कुमाङ्कितैरचीक्पन्नासनमात्मबन्धवे ॥ ताश्च मनोरथानामन्तं ययुः पूर्णकामा बभूवुः । श्रुतयो यथेति । अयमर्थःयथा कर्मकाण्डे श्रुतयः परमेश्वरमपश्यन्त्यस्तत्तत्कामानुबन्धैरपूर्णा इव भवन्ति, ज्ञानकाण्डे तु परमेश्वरं दृष्ट्वा तदाह्लादपूर्णाः कामानुबन्धं जहति तद्वदिति । आप्तकामा अपि प्रेम्णा तमभजन्नित्याहस्वैरिति । अचीक्पन् रचयामासुः । आत्मबन्धवेऽन्तर्यामिणे ॥टीका१०,३२.१३॥ १०,३२.१४ तत्रोपविष्टो भगवान् स ईश्वरो योगेश्वरान्तर्हृदिकल्पितासनः[*६०] । चकास गोपीपरिषद्गतोऽर्चितस्[*६१] त्रैलोक्यलक्ष्म्येकपदं वपुर्दधत् ॥ [*६०] हृदिकल्पितासनः इत्यलुक्समासः । [*६१] अर्चितस्ताम्बूलनर्मस्मितादिना सत्कृतः । गोपीसभागतस्ताभिः संमानितः सन् चकास शुशुभे । त्रैलोक्ये या लक्ष्मीः शोभा तस्या एकमेव पदं स्थानं तद्वपुर्दधद्दर्शयन् ॥टीका१०,३२.१४॥ १०,३२.१५ सभाजयित्वा तमनङ्गदीपनं सहासलीलेक्षणविभ्रमभ्रुवा । संस्पर्शनेनाङ्ककृताङ्घ्रिहस्तयोः संस्तुत्य ईषत्कुपिता बभाषिरे[*६२] ॥ [*६२] बभाषिरे वक्ष्यमाणं पप्रच्छुरिति शेषः । सहासलीलेक्षणेन विभ्रमो विलासो यस्यां तया भ्रुवोपलक्षिताः । संस्पर्शनेन संमर्दनेन ॥टीका१०,३२.१५॥ १०,३२.१६ गोप्य ऊचुः भजतोऽनुभजन्त्येक एक एतद्विपर्ययम् । नोभयांश्[*६३] च भजन्त्येक एतन्नो ब्रूहि साधु भोः ॥ [*६३] "नोभयाश्च भजन्त्यन्ये" इति पाठः । तत्र भगवतोऽकृतज्ञतां तद्वचनेनैवापादयितुकामा गूढाभिप्राया लोकवृत्तान्तमिव पृच्छन्तिभजत इति । भजतः प्राणिनः । अनु अनन्तरम् । केचित्तद्भजनानुसारेण भजन्ति । केचिदेतद्विपर्ययं यथा भवति तथा । तद्भजनानपेक्षमभजतोऽपि भजन्ति । अन्ये तु नोभयान्[*६४] इति ॥टीका१०,३२.१६॥ [*६४] उभयान् भजतः अभजतश्च । १०,३२.१७ श्रीभगवानुवाच मिथो भजन्ति ये सख्यः स्वार्थैकान्तोद्यमा हि ते । न तत्र सौहृदं धर्मः स्वार्थार्थं तद्धि नान्यथा[*६५] ॥ [*६५] नान्यथा परार्थमित्यर्थः । विदिताभिप्राय उत्तरमाहमिथ इति । हे सख्यः, उपकारप्रत्युपकारतया ये मिथो भजन्ति तेऽन्यं न भजन्ति किं त्वात्मानमेव । कुतः । हि यस्मात्स्वार्थ[*६६] एवैकान्त उद्यमो येषां ते । तत्र च न[*६७] सौहृदमतो न सुखं, न च धर्मो दृष्टोद्देशाद्गोमहिष्यादिभजनवदित्यर्थः ॥टीका१०,३२.१७॥ [*६६] स्वार्थे स्वीये दृष्टफले । [*६७] न सौहृदं कैतवमयत्वात् । १०,३२.१८ भजन्त्यभजतो ये वै करुणाः पितरो यथा । धर्मो निरपवादो[*६८]ऽत्र सौहृदं च सुमध्यमाः ॥ [*६८] निरपवादो निर्बाधः । इदं सौहृदस्यापि विशेषणम् । ये त्वभजतो भजन्ति ते द्विविधाः । करुणाः स्निग्धाश्च । तत्र तु यथाक्रमं धर्मकामौ भवत इत्याहभजन्त्यभजत इति ॥टीका१०,३२.१८॥ १०,३२.१९ भजतोऽपि न वै केचिद्भजन्त्यभजतः कुतः । आत्मारामा ह्याप्तकामा अकृतज्ञा गुरुद्रुहः ॥ तृतीयप्रश्नोत्तरं भजतोऽपीति । अयमर्थःते तु चतुर्विधाः । एके आत्मारामा अपराग्दृशः, केचिदाप्तकामा विषयदर्शिनोऽपि पूर्णकामत्वेन भोगेच्छारहिताः, अन्येऽकृतज्ञा मूढाः, अन्ये तु गुरुद्रुहोऽतिकठिनाः "स पिता यस्तु पोषकः" इति न्यायादुपकर्ता गुरुतुल्यस्तस्मै द्रुह्यन्तीति तथा ते ॥टीका१०,३२.१९॥ १०,३२.२० नाहं तु सख्यो भजतोऽपि जन्तून् भजाम्यमीषामनुवृत्तिवृत्तये । यथाधनो लब्धधने विनष्टे तच्चिन्तयान्यन्निभृतो न वेद ॥ अत्र चरमकोटिगतमात्मानं मत्वा, अक्षिसंकोचैः परस्परं गूढस्मितमुखीस्ता दृष्ट्वा आहनाहं त्विति । हे सख्यः, अहं तेषां मध्ये न कोऽपि, किं तु परमकारुणिकः परमसुहृच्च । कथम् । अमीषां भजतामनुवृत्तिवृतये निरन्तरध्यानप्रवृत्त्यर्थं तान्न भजामि । एतत्सदृष्टान्तमाहयथेति । तस्य धनस्यैव चिन्तया निभृतः पूर्णः । व्याप्त इति यावत् । अन्यत्क्षुत्पिपासाद्यपि न वेद ॥टीका१०,३२.२०॥ १०,३२.२१ एवं मदर्थोज्झितलोकवेदस्वानां हि वो मय्यनुवृत्तयेऽबलाः । मया परोक्षं भजता तिरोहितं मासूयितुं मार्हथ तत्प्रियं प्रियाः ॥ एवं मदर्थोज्झितलोकवेदस्वानां मदर्थे उज्झितो लोको युक्तायुक्ताप्रतीक्षणात्, वेदश्च धर्माधर्माप्रतीक्षणात्, स्वा ज्ञातयश्च स्नेहत्यागात्याभिस्तासां वो युष्माकं परोक्षमदर्शनं यथा भवति तथा भजता युष्मत्प्रेमालापान् शृण्वतैव तिरोहितमन्तर्धानेन स्थितम् । तत्तस्माथे अबला हे प्रियाः, मा माम्[*६९] असूयितुं दोषारोपेण द्रष्टुं यूयं मार्हथ न योग्याः स्थ ॥टीका१०,३२.२१॥ [*६९] यद्वा माद्वयं निषेधे । तथापि प्रियं मल्लक्षणमसूयितुं मार्हथेति मा । अपि तु मया दत्तदुःखत्वादथैवेति । १०,३२.२२ न पारयेऽहं निरवद्यसंयुजां स्वसाधुकृत्यं विबुधायुषापि वः । या माभजन् दुर्जरगेहशृङ्खलाः[*७०] संवृश्च्य तद्वः प्रतियातु साधुना ॥ [*७०] "शृङ्खलाम्" इति वा पाठः । आस्तामिदं, परमर्थं तु शृणुतेत्याहनेति । निरवद्या संयुक्संयोगो यासां तासां वो विबुधानाम्[*७१] आयुषापि चिरकालेऽपि स्वीयं साधु कृत्यं प्रत्युपकारं कर्तुं न पारये न शक्नोमि । कथं भूतानाम् । या भवत्यो दुर्जरा अजरा या गेहशृङ्खलास्ताः संवृश्च्य निःशेषं छित्त्वा मा मामभजंस्तासाम् । मच्चित्तं तु बहुषु प्रेमयुक्ततया नैकनिष्ठम् । तस्माद्वो युष्माकमेव साधुना साधुकृत्येन तत्युष्मत्साधु कृत्यं प्रतियातु प्रतिकृतं भवतु । युष्मत्सौशील्येनैव ममानृण्यं, न तु मत्कृतप्रत्युपकारेणेत्यर्थः ॥टीका१०,३२.२२॥ [*७१] यद्वा विगतो बुधो गणनाभिज्ञो यस्मात्तेनानन्तेनायुषापि । इति श्रीमद्भागवते महापुराणे दशमस्कन्धे पूर्वार्धे भावार्थदीपिकायां टीकायां द्वात्रिंशोऽध्यायः **३२** त्रयस्त्रिंशे ततो गोपीमण्डलीमध्यगो हरिः । प्रियास्ता रमयामास ह्रदिनीवनकेलिभिः ॥ १ ॥ १०,३३.०१ श्रीशुक उवाच इत्थं भगवतो गोप्यः श्रुत्वा वाचः सुपेशलाः[*७२] । जहुर्विरहजं तापं तदङ्गोपचिताशिषः ॥ [*७२] सुपेशला मनोहराः । तत्तदा अङ्ग हे राजन्, यद्वा तस्य भगवतोऽङ्गेन वपुषा करचरणाद्यवयवैर्वोपचिताः समृद्धा आशिषो यासां[*७३] ताः ॥टीका१०,३३.१॥ [*७३] यद्वा तासां गोपीनामङ्गैरुपचिता आशिषो यस्य । १०,३३.०२ तत्रारभत गोविन्दो रासक्रीडामनुव्रतैः । स्त्रीरत्नैरन्वितः प्रीतैरन्योन्याबद्धबाहुभिः ॥ रासक्रीडां रासो[*७४] नाम बहुनर्तकीयुक्तो नृत्यविशेषस्तां क्रीडाम् । अन्योन्यमाबद्धाः संग्रथिता बाहवो यैस्तैः सह ॥टीका१०,३३.२॥ [*७४] "नतैर्गृहीतकण्ठानामन्योन्यात्तकरश्रियम् । नर्तकीनां भवेद्रासो मण्डलीभूय नर्तनम् ॥" इति रासलक्षणम् । १०,३३.०३ रासोत्सवः सम्प्रवृत्तो गोपीमण्डलमण्डितः । योगेश्वरेण कृष्णेन[*७५] तासां मध्ये द्वयोर्द्वयोः । प्रविष्टेन गृहीतानां कण्ठे स्वनिकटं स्त्रियः ॥ [*७५] कृष्णेन निमित्तेन संप्रवृत्तः । यद्वान्तर्भावितण्यर्थः । कृष्णेन सम्यक्प्रवृत्त इत्यर्थः । तत्साहित्यमभिनयेन दर्शयतिरासोत्सव इत्यक्षरचतुष्टयाधिकेन सार्धेन । तासां मण्डलरूपेणावस्थितानां द्वयोर्द्वयोर्मध्ये प्रविष्टेन तेनैव कण्ठे गृहीतानामुभयत आलिङ्गितानाम् । कथंभूतेन । यं सर्वाः स्त्रियः स्वनिकटं मामेवाश्लिष्टवानिति मन्येरंस्तेन एतदर्थं द्वयोर्द्वयोर्मध्ये प्रविष्टेनेत्यर्थः । नन्वेकस्य कथं तथा प्रवेशः, सर्वसन्निहितत्वे वा कुतः स्वैकनिकटत्वाभिमानस्तासामित्यत उक्तंयोगेश्वरेणेति । अचिन्त्यशक्तिनेत्यर्थः ॥टीका१०,३३.३॥ १०,३३.०४ यं मन्येरन्नभस्तावद्विमानशतसङ्कुलम् । दिवौकसां सदाराणामौत्सुक्यापहृतात्मनाम् ॥ तावत्तत्क्षणमेवौत्सुक्यव्याप्तमनसां सस्त्रीकाणां देवानां विमानशतैः सङ्कुलं सङ्कीर्णं नभो बभूव ॥टीका१०,३३.४॥ १०,३३.०५ ततो दुन्दुभयो नेदुर्निपेतुः पुष्पवृष्टयः । जगुर्गन्धर्वपतयः सस्त्रीकास्तद्यशोऽमलम् ॥ तत्तस्य भगवतः श्रीकृष्णस्यामलं निर्मलं यशो जगुरिति ॥टीका१०,३३.५॥ १०,३३.०६ वलयानां नूपुराणां किङ्किणीनां च योषिताम् । सप्रियाणामभूच्छब्दस्तुमुलो रासमण्डले ॥ सप्रियाणां कृष्णसहितानाम् । तुमुलः सङ्कीर्णः ॥टीका१०,३३.६॥ १०,३३.०७ तत्रातिशुशुभे ताभिर्भगवान् देवकीसुतः । मध्ये मणीनां हैमानां महामरकतो यथा ॥ महामरकतो नीलमणिरिव हैमानां मणीनां मध्ये मध्ये ताभिः स्वर्णवर्णाभिराश्लिष्टाभिः शुशुभे । गोपीदृष्ट्यभिप्रायेण वा विनैव मध्यपदावृत्तिमेकवचनम् ॥टीका१०,३३.७॥ १०,३३.०८ पादन्यासैर्भुजविधुतिभिः सस्मितैर्भ्रूविलासैर् भज्यन्मध्यैश्चलकुचपटैः कुण्डलैर्गण्डलोलैः । स्विद्यन्मुख्यः कबररशनाग्रन्थयः कृष्णवध्वो गायन्त्यस्तं तडित इव ता मेघचक्रे विरेजुः ॥ स यथा ताभिः शुशुभे, तथा ता अपि तेन विरेजुरित्याहपादन्यासैरिति । भुजविधुतिभिः करचालनैर्भज्यमानैर्मध्यैश्चलद्भिः कुचैश्च पटैश्च । गण्डलोलैर्गण्डेषु चञ्चलैः । स्विद्यन्मुख्यः स्विद्यन्ति स्वेदमुद्गिरन्ति मुखानि यासां ताः । कबरेषु रशनासु च ग्रन्थयो दृढा यासाम् । यद्वा तेषु तासु चाग्रन्थयः, शिथिलग्रन्थय इत्यर्थः । तत्र नानामूर्तिः कृष्णो मेघचक्रमिव, तास्तु बहुविधास्तडित इव स्वेदस्तुषार इव, गीतं गर्जितमेवेति यथासंभवमूह्यम् ॥टीका१०,३३.८॥ १०,३३.०९ उच्चैर्जगुर्नृत्यमाना[*७६] रक्तकण्ठ्यो रतिप्रियाः । कृष्णाभिमर्शमुदिता यद्गीतेनेदमावृतम् ॥ [*७६] नृत्यमाना इति नृत्यकालेऽपि गानं शानजार्षः । यद्वा ताच्छील्यादौशानच् । यद्वा नृत्येन मानः कृष्णकृतो यासाम् । नृत्यमाना नृत्यन्त्यः । रक्तकण्ठ्यो नानारागैरनुरञ्जितकण्ठ्यः । कृष्णस्याभिमर्शेन संस्पर्शेन मुदिताः । इदं विश्वम् ॥टीका१०,३३.९॥ १०,३३.१० काचित्समं मुकुन्देन स्वरजातीरमिश्रिताः । उन्निन्ये पूजिता तेन प्रीयता साधु साध्विति । तदेव ध्रुवमुन्निन्ये तस्यै मानं च बह्वदात् ॥ मुकुन्देन सह स्वरजातीः षड्जादिस्वरालापगतीः । अमिश्रिताः कृष्णोन्नीताभिरसङ्कीर्णाः । प्रीयमाणेन संमानिता तज्जात्युन्नयनमेव ध्रुवं ध्रुवाख्यं तालविशेषं कृत्वा उन्निन्ये उन्नीतवती ॥टीका१०,३३.१०॥ १०,३३.११ काचिद्रासपरिश्रान्ता पार्श्वस्थस्य गदाभृतः । जग्राह बाहुना स्कन्धं श्लथद्वलयमल्लिका ॥ एवं नृत्यगीतादिना श्रीकृष्णसंमानितानां तासामतिप्रीतिविलसितं वृत्तमाहकाचिदिति । श्लथन्ति वलयानि मल्लिकाश्च यस्याः सा ॥टीका१०,३३.११॥ १०,३३.१२ तत्रैकांसगतं बाहुं कृष्णस्योत्पलसौरभम् । चन्दनालिप्तमाघ्राय हृष्टरोमा चुचुम्ब ह ॥ उत्पलस्य सौरभं यस्य तं बाहुम् ॥टीका१०,३३.१२॥ १०,३३.१३ कस्याश्चिन्नाट्यविक्षिप्तकुण्डलत्विषमण्डितम् । गण्डं गण्डे सन्दधत्या अदात्ताम्बूलचर्वितम् ॥ नाट्येन नृत्येन विक्षिप्तयोश्चञ्चलयोः कुण्डलयोस्[*७७] त्विषेण त्विषा मण्डितं गण्डं कपोलं तथाभूते स्वगण्डे संदधत्याः संयोजयन्त्याः ॥टीका१०,३३.१३॥ [*७७] नृत्येन विक्षिप्ते चञ्चले कुण्डले च स्वाभाविकी गण्डत्विट्च तत्समाहारस्त्विषं तेन मण्डितमिति । "द्वन्द्वाच्चुदषहान्तात्" इति टच् । १०,३३.१४ नृत्यन्ती गायती काचित्कूजन्नूपुरमेखला । पार्श्वस्थाच्युतहस्ताब्जं श्रान्ताधात्स्तनयोः शिवम् ॥ कूजती नूपुरे मेखला च यस्याः सा ॥टीका१०,३३.१४॥ १०,३३.१५ गोप्यो लब्ध्वाच्युतं कान्तं श्रिय एकान्तवल्लभम् । गृहीतकण्ठ्यस्तद्दोर्भ्यां गायन्त्यस्तं विजह्रिरे ॥ एवमन्या अपि गोप्यो यथा यथं नानाविभ्रमैर्विजह्रुरित्याहगोप्य इति ॥टीका१०,३३.१५॥ १०,३३.१६ कर्णोत्पलालकविटङ्ककपोलघर्मवक्त्रश्रियो वलयनूपुरघोषवाद्यैः । गोप्यः समं भगवता ननृतुः स्वकेशस्रस्तस्रजो भ्रमरगायकरासगोष्ठ्याम् ॥ तत्र वादकेषु गायकेषु गन्धर्वकिन्नरादिषु रसावेशेन मुह्यत्सु चान्यामेव वाद्यादिसम्पत्तिं दर्शयन् राससंभ्रममाहकर्णोत्पलैरिति । कर्णोत्पलैश्चालकविटङ्कैरलकालङ्कृतैः कपोलैश्च घर्मैश्च वक्त्रेषु श्रीः शोभा यासां ताः । घोषाः किङ्किण्यः । वलयनूपुरघोषैर्वाद्यैर्वादित्रैः स्वकेशेभ्यः स्रस्ताः स्रजो यासां ताः । एतेन तालगतिसंतुष्टाः केशाः सशिरःकम्पं पादेषु पुष्पवृष्टिमिवाकुर्वन्नित्युत्प्रेक्षितम् । भगवता सह ननृतुः । क्व । भ्रमरा एव गायका यस्यां राससभायाम् ॥टीका१०,३३.१६॥ १०,३३.१७ एवं परिष्वङ्गकराभिमर्शस्निग्धेक्षणोद्दामविलासहासैः । रेमे रमेशो व्रजसुन्दरीभिर्यथार्भकः स्वप्रतिबिम्बविभ्रमः ॥ यथा गोप्यो नानाविभ्रमैर्भगवता सह विजह्रुरेवं भगवानपि स्वविलासैस्ताभिः सह रेम इत्याहएवमिति । तद्विलासानभिभूतस्यैव रतौ दृष्टान्तःयथार्भक इति । स्वप्रतिबिम्बैर्विभ्रमः क्रीडा यस्य स इव । अनेनैतद्दर्शितम्स्वीयमेव सर्वकलाकौशलं सौगन्ध्यलावण्यमाधुर्यादि च तासु सञ्चार्य ताभिः सह रेमे यथार्भकः स्वप्रतिबिम्बैरिति ॥टीका१०,३३.१७॥ १०,३३.१८ तदङ्गसङ्गप्रमुदाकुलेन्द्रियाः केशान् दुकूलं कुचपट्टिकां वा । नाञ्जः प्रतिव्योढुमलं व्रजस्त्रियो विस्रस्तमालाभरणाः कुरूद्वह ॥ तास्तु भगवद्विलासैराकुला बभूवुरित्याहतदङ्गेति । तस्याङ्गसङ्गेन प्रकृष्टामुत्प्रीतिस्तया आकुलान्यवशानीन्द्रियाणि यासां ताः विश्लथबन्धान् केशादीनञ्जसा[*७८] प्रतिव्योढुं यथापूर्वं धर्तुं नालं न समर्था बभूवुः । विस्रस्ता माला आभरणानि च यासां ताः ॥टीका१०,३३.१८॥ [*७८] अञ्जसा अनुसंधानपूर्वकम् । १०,३३.१९ कृष्णविक्रीडितं वीक्ष्य मुमुहुः खेचरस्त्रियः । कामार्दिताः शशाङ्कश्च सगणो विस्मितोऽभवत् ॥ न केवलं ता एवाकुलेन्द्रियाः किन्तु देव्योऽपीत्याहकृष्णविक्रीडितमिति । किं च शशाङ्कश्चेति । अनेनैतत्सूचितम्शशाङ्केन विस्मितेन गतौ विस्मृताया ततः प्राक्तनाः सर्वेऽपि ग्रहास्तत्र तत्रैव तस्थुस्ततश्चातिदीर्घासु रात्रिषु यथासुखं विजह्रुरिति ॥टीका१०,३३.१९॥ १०,३३.२० कृत्वा तावन्तमात्मानं यावतीर्गोपयोषितः । रेमे स भगवांस्ताभिरात्मारामोऽपि लीलया ॥ किं च कृत्वेति । अयं भावः"कात्यायनि महामाये महायोगिन्यधीश्वरि । नन्दगोपसुतं देवि पतिं मे कुरु ते नमः ॥ "[*७९] इति प्रत्येकं ताभिः प्रार्थनाद्भगवतापि"याताबला व्रजं सिद्धा मयेमा रंस्यथ क्षपाः । "[*८०] इति तथैव प्रतिश्रुतत्वात्तावन्तमात्मानं कृत्वा रेमे इति । यावतीर्यावत्यः ॥टीका१०,३३.२०॥ [*७९] Bह्ড়् १०.२२.०४ [*८०] Bह्ড়् १०.२२.२७ १०,३३.२१ तासां अतिविहारेण[*८१] श्रान्तानां वदनानि सः । प्रामृजत्करुणः प्रेम्णा शन्तमेनाङ्ग पाणिना ॥ [*८१] "तासां रतिविहारेण" इति पाठः । कृपातिशयमाहतासामिति ॥टीका१०,३३.२१॥ १०,३३.२२ गोप्यः स्फुरत्पुरटकुण्डलकुन्तलत्विड्गण्डश्रिया सुधितहासनिरीक्षणेन । मानं दधत्य ऋषभस्य जगुः कृतानि पुण्यानि तत्कररुहस्पर्शप्रमोदाः ॥ ततोऽतिहृष्टानां गोपीनां चरितमाहगोप्य इति । स्फुरतां स्वर्णकुण्डलानां कुन्तलानां च त्विषा गण्डेषु या श्रीस्तया सुधितेनामृतायितेन हाससहितेन निरीक्षणेन च ऋषभस्य पत्युः कृष्णस्य मानं दधत्यः पूजां कुर्वत्यस्तत्कर्माणि जगुः । तस्य कररुहैर्नखैः स्पर्शेन प्रमोदो यासां ताः ॥टीका१०,३३.२२॥ १०,३३.२३ ताभिर्युतः श्रममपोहितुमङ्गसङ्गघृष्टस्रजः स[*८२] कुचकुङ्कुमरञ्जितायाः । गन्धर्वपालिभिरनुद्रुत आविशद्वाः श्रान्तो गजीभिरिभराडिव भिन्नसेतुः ॥ [*८२] "स्वकुचकुङ्कुम" इति पाठः । अथ जलकेलिमाहताभिरिति । तासामङ्गसङ्गेन घृष्टा संमर्दिता या स्रक्तस्याः अत एव तासां कुचकुङ्कुमेन रञ्जितायाः संबन्धिभिर्गन्धर्वपालिभिर्गन्धर्वपा गन्धर्वपतय इव गायन्तो योऽलयस्तैरनुद्रुतोऽनुगतः स कृष्णो वाः उदकमाविशत् । भिन्नसेतुर्विदारित वप्रः स्वयं चातिक्रान्तलोकवेदमर्यादः ॥टीका१०,३३.२३॥ १०,३३.२४ सोऽम्भस्यलं युवतिभिः परिषिच्यमानः प्रेम्णेक्षितः[*८३] प्रहसतीभिरितस्ततोऽङ्ग । वैमानिकैः कुसुमवर्षिभिरीद्यमानो रेमे स्वयं स्वरतिर्[*८४] अत्र गजेन्द्रलीलः ॥ [*८३] "प्रेम्णोक्षितः" इत्यपि पाठः । [*८४] स्वरतिः आत्मारामोऽपि, यद्वा स्वासु तासु रतिर्यस्य, किं वा स्वा असाधारणी रतिर्जलक्रीडा यस्य । स्वरतिरात्मारामोऽपि अत्र गोपीमण्डलेऽम्भसि वा ॥टीका१०,३३.२४॥ १०,३३.२५ ततश्च कृष्णोपवने जलस्थलप्रसूनगन्धानिलजुष्टदिक्तटे । चचार भृङ्गप्रमदागणावृतो यथा मदच्युद्द्विरदः करेणुभिः ॥ स्थलजलक्रीडे दर्शिते वनक्रीडां दर्शयतिततश्चेति । यमुनाया उपवने जलस्थलप्रसूनानां गन्धो यस्मिंस्तेनानिलेन जुष्टानि दिशां तटान्यन्ता यस्मिन् । यद्वा दिशश्च तटं स्थलं च यस्मिन्नुपवने । भृङ्गाणां प्रमदानां च गणैरावृतः ॥टीका१०,३३.२५॥ १०,३३.२६ एवं शशाङ्कांशुविराजिता निशाः स सत्यकामोऽनुरताबलागणः । सिषेव आत्मन्यवरुद्धसौरतः सर्वाः शरत्काव्यकथारसाश्रयाः ॥ रासक्रीडां निगमयतिएवमिति । स कृष्णः सत्यसङ्कल्पोऽनुरागिस्त्रीकदम्बस्थ एवं सर्वा निशाः सेवितवान् । शरत्काव्यकथारसाश्रयाः शरदि भवाः काव्येषु कथ्यमाना ये रसास्तेषामाश्रयभूता निशाः । यद्वा निशा इति द्वितीयाऽत्यन्तसंयोगे । शृङ्गाररसाश्रयाः शरदि[*८५] प्रसिद्धाः काव्येषु याः कथास्ताः सिषेवे इति । एवमप्यात्मन्येवावरुद्धः सौरतश्चरमधातुर्न तु स्खलितो यस्येति कामजयोक्तिः ॥टीका१०,३३.२६॥ ॥टीका१०,३३.२७॥ [*८५] शरत्काव्यकथाः शरदि सर्वदेशकालकविभिर्यावत्यो वर्णयितुं शक्यन्ते तावतीः कथाः सिषेवे आचचार । १०,३३.२८ स कथं धर्मसेतूनां वक्ता कर्ताभिरक्षिता । प्रतीपमाचरद्ब्रह्मन् परदाराभिमर्शनम् ॥ प्रतीपं प्रतिकूलाधर्ममित्यर्थः । आचरत्कृतवान् । न चेदमधर्ममात्रं कलञ्जभक्षणादिवत्किन्तु महासाहसमित्याहपरदाराभिमर्शनमिति ॥टीका१०,३३.२८॥ १०,३३.२९ आप्तकामो यदुपतिः कृतवान् वै जुगुप्सितम् । किमभिप्राय एतन्नः संशयं छिन्धि सुव्रत ॥ आप्तकामस्य नायमधर्म इति चेद्यद्येवं कामाभावान्निन्दितं केनाभिप्रायेण कृतवानिति पृच्छतिआप्तकाम इति ॥टीका१०,३३.२९॥ १०,३३.३० श्रीशुक उवाच धर्मव्यतिक्रमो दृष्ट ईश्वराणां[*८६] च साहसम् । तेजीयसां न दोषाय वह्नेः[*८७] सर्वभुजो यथा ॥ [*८६] ईश्वराणां कर्मादिपारतन्त्र्यहीनानाम् । [*८७] वह्नेः सर्वभुक्त्वं यथा नापावित्र्यायेति । परमेश्वरे कैमुतिकन्यायेन परिहर्तुं सामान्यतो महतां वृत्तमाहधर्मव्यतिक्रम इति । साहसं च दृष्टं प्रजापतीन्द्रसोमविश्वामित्रादीनाम् । तच्च तेषां तेजस्विनां दोषाय न भवतीति ॥टीका१०,३३.३०॥ १०,३३.३१ नैतत्समाचरेज्जातु मनसापि ह्यनीश्वरः । विनश्यत्याचरन्मौढ्याद्यथा रुद्रोऽब्धिजं विषम् ॥ तर्हि "यद्यदाचरति श्रेष्ठः" इति न्यायेनान्योऽपि कुर्यादित्याशङ्क्याहनैतदिति । अनीश्वरो देहादिपरतन्त्रः यथा रुद्रव्यतिरिक्तो विषमाचरन् भक्षयन् ॥टीका१०,३३.३१॥ १०,३३.३२ ईश्वराणां वचः सत्यं तथैवाचरितं क्वचित् । तेषां यत्स्ववचोयुक्तं बुद्धिमांस्तत्समाचरेत् ॥ कथं तर्हि सदाचारस्य प्रामाण्यमत आहईश्वराणामिति । तेषां वचः सत्यम्, अतस्तदुक्तमाचरेदेव । आचरितं तु क्वचित्सत्यम् । अतः स्ववचोयुक्तं तेषां वचसा यद्यद्युक्तमविरुद्धं तत्तदेवाचरेत् ॥टीका१०,३३.३२॥ १०,३३.३३ कुशलाचरितेनैषामिह स्वार्थो न विद्यते । विपर्ययेण वानर्थो निरहङ्कारिणां प्रभो ॥ ननु तर्हि तेऽपि किमेवं साहसमाचरन्ति तत्राहकुशलेति । प्रारब्धकर्मक्षपणमात्रमेव तेषां कृत्यं नान्यदित्यर्थः ॥टीका१०,३३.३३॥ १०,३३.३४ किम्[*८८] उताखिलसत्त्वानां तिर्यङ्मर्त्यदिवौकसाम् । ईशितुश्चेशितव्यानां कुशलाकुशलान्वयः ॥ [*८८] यदा ईशितव्यानां नियम्यानां निरहङ्कारिणां जीवानां कुशलाकुशलान्वयो न विद्यते तदा तिर्यगादिरूपाणामखिलसत्त्वानामीशितुर्नियन्तुः कुशलाकुशलान्वयो न विद्यत इति किमु वक्तव्यमिति पूर्वश्लोकस्थेन "न विद्यते" इति पदसंबन्धेनान्वयः । प्रस्तुतमाहकिमुतेति । कुशलाकुशलान्वयो न विद्यत इति किं पुनर्वक्तव्यमित्यर्थः ॥टीका१०,३३.३४॥ १०,३३.३५ यत्पादपङ्कजपरागनिषेवतृप्ता योगप्रभावविधुताखिलकर्मबन्धाः । स्वैरं चरन्ति मुनयोऽपि न नह्यमानास्तस्येच्छयात्तवपुषः कुत एव बन्धः ॥ एतदेव स्फुटीकरोतियस्य पादपङ्कजपरागस्य निषेवणेन तृप्ताः, यद्वा यस्य पादपङ्कजपरागे निषेवा येषां ते च ते तृप्ताश्चेति भक्ता इत्यर्थः । तथा ज्ञानिनश्च न नह्यमाना बन्धनमप्राप्तवन्तः ॥टीका१०,३३.३५॥ १०,३३.३६ गोपीनां तत्पतीनां च सर्वेषामेव देहिनाम् । योऽन्तश्चरति सोऽध्यक्षः क्रीडनेनेह देहभाक् ॥ परदारत्वं गोपीनामङ्गीकृत्य परिहृतम्, इदानीं भगवतः सर्वान्तर्यामिणः परदारसेवा नाम न काचिदित्याहगोपीनामिति । योऽन्तश्चरत्यध्यक्षो बुद्ध्यादिसाक्षी स एव क्रीडनेन देहभाक्, न त्वस्मदादितुल्यो येन दोषः स्यादिति ॥टीका१०,३३.३६॥ १०,३३.३७ अनुग्रहाय भूतानां[*८९] मानुषं देहमास्थितः । भजते तादृशीः क्रीडा याः श्रुत्वा[*९०] तत्परो भवेत् ॥ [*८९] "भक्तानाम्" इति पाठः । [*९०] "स्मृत्वा" इति पाठः । नन्वेवं चेदाप्तकामस्य निन्दिते कुतः प्रवृत्तिरित्यत आहअनुग्रहायेति । शृङ्गाररसाकृष्टचेतसोऽतिबहिर्मुखानपि स्वपरान् कर्तुमिति भावः ॥टीका१०,३३.३७॥ १०,३३.३८ नासूयन् खलु कृष्णाय मोहितास्तस्य मायया । मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः ॥ नन्वन्येऽपि भिन्नाचाराः स्वचेष्टितमेवमेवेति वदन्ति तत्राहनासूयन्निति । एवंभूतैश्वर्याभावे तथा कुर्वन्तः पापा ज्ञेया इति भावः ॥टीका१०,३३.३८॥ १०,३३.३९ ब्रह्मरात्र उपावृत्ते वासुदेवानुमोदिताः । अनिच्छन्त्यो ययुर्गोप्यः स्वगृहान् भगवत्प्रियाः[*९१] ॥ [*९१] भगवान् प्रियो यासां, भगवतो वा प्रियाः । ब्रह्मरात्रे ब्राह्मे मुहूर्ते उपावृत्ते प्राप्ते ॥टीका१०,३३.३९॥ १०,३३.४० विक्रीडितं व्रजवधूभिरिदं च विष्णोः श्रद्धान्वितोऽनुशृणुयादथ वर्णयेद्यः । भक्तिं परां भगवति प्रतिलभ्य कामं हृद्रोगमाश्वपहिनोत्यचिरेण धीरः ॥ भगवतः कामविजयरूपरासक्रीडाश्रवणादेः कामविजयमेव फलमाहविक्रीडितमिति । अचिरेण धीरः सन् हृद्रोगं कामम्[*९२] आशु अपहिनोति परित्यजतीति ॥टीका१०,३३.४०॥ [*९२] यद्वा कामं यथेष्टं आशु भक्तिं लब्ध्वा कामादिसर्वहृद्रोगमचिरेण हिनोतीत्यर्थः । सेयं श्रीपरमानन्दसेविश्रीधरनिर्मिता । श्रीभागवतभावार्थदीपिका दशमाश्रया ॥ १ ॥ इति श्रीमद्भागवते महापुराणे दशमस्कन्धे पूर्वार्धे भावार्थदीपिकायां टीकायां त्रयस्त्रिंशोऽध्यायः **३३**