पुष्कर उवाच शान्तातीतं गणं हुत्वा शान्तिमाप्नोति मानवः । भैषज्यं च गणं हुत्वा सर्वान् रोगान् व्यपोहति ॥ २,१२७.१ ॥ त्रिषप्तीयं गणं हुत्वा सर्वपापैः प्रमुच्यते । क्वचिन्नाअप्नोति च भयं हुत्वा चैवाभयं गणम् ॥ २,१२७.२ ॥ न पराजायते राम गणं हुत्वापराजितम् । आयुष्यं च गणं हुत्वा चापमृत्यूं व्यपोहति ॥ २,१२७.३ ॥ स्वस्तिमाप्नोति सर्वत्र हुत्वा स्वस्त्ययनं गणं । श्रेयसा योगमाप्नोति शर्मवर्मगणं तथा ॥ २,१२७.४ ॥ वास्तोष्पत्यगणं हुत्वा वास्तुदोषान् व्यपोहति । तथा रौद्रगणं हुत्वा सर्वान् दोषान् व्यपोहति ॥ एतैर्दशगणैर्होमो ह्यष्टादशसु शान्तिषु ॥ २,१२७.५ ॥ वैष्णवी शान्तिरैन्द्री च ब्राह्मी रौद्री तथैव च । वायव्या वारुणी चैव कौबेरी भार्गवी तथा ॥ २,१२७.६ ॥ प्राजापत्या तथा त्वाष्ट्री कौमारी वह्निदेवता । मारुद्गणा च गान्धर्वी शान्तैर्नैरृतकी तथा ॥ २,१२७.७ ॥ शान्तिराङ्गिरसी याम्या पार्थिवी च भृगूत्तम । एतास्तु शान्तयः प्रोक्ताः सर्वकर्महिताः सदा ॥ २,१२७.८ ॥ यस्त्वा मृत्युरिति ह्येतज्जप्तं मृत्युविनाशनं । हुत्वा च मातृनामानि कामानेवमवाप्नुयात् ॥ २,१२७.९ ॥ सुपर्णस्त्वेति हुत्वा च भुजगैर्नैव बाध्यते । [Bहत्तछर्य्य एदित्स्भुजगैनव बाध्यते, wहिछ्चन् बे जुस्त त्य्पो!] यस्येदं भूम्यामिति च भूमिकामो जपेत्सदा ॥ २,१२७.१० ॥ पृथिव्यामुत्तमोऽसीति हुतं श्रैष्ठ्यप्रदं सदा । औदुम्बरं यो न इति तथा वीर्यविवर्धनम् ॥ २,१२७.११ ॥ इन्द्रेण दत्तमित्येतत्सर्वबाधाविनाशनम् । हिरण्यवर्णा इति च स्नानं पापहरं भवेत् ॥ २,१२७.१२ ॥ असितस्येति सर्वाणि विषघ्नानि भृगूत्तम । सरस्वतीति मन्त्रांश्च विषघ्नान्निर्विशेद्बुधः ॥ २,१२७.१३ ॥ शरभादीनि सर्वाणि पिशाचक्षपणानि च । इमा देवीति मन्त्रश्च सर्वशान्तिकरः परः ॥ २,१२७.१४ ॥ देवा मरुत इत्येतत्सर्वकामकरं भवेत् । यमस्य लोकादित्येतद्दुःस्वप्नशमनं परं ॥ २,१२७.१५ ॥ अग्नेर्व इति चाप्येतत्कथितं मन्युनाशनम् । ऊर्ध्वो भवति विज्ञेयः कृत्वा स्थानकरः परः ॥ २,१२७.१६ ॥ इन्द्रं वयं वणिजमिति पण्यलाभकरं परम् । [Bहत्तछर्य्य॒ बणिजं] कामो मे राज्ञ इत्येतत्स्त्रीणां सौभाग्यवर्धनम् ॥ २,१२७.१७ ॥ भद्राय कर्णमित्येतत्कर्णप्रस्यन्दने जपेत् । भद्रास्यक्षिरोधे जाता कर्णप्रस्यन्दने तथा ॥ २,१२७.१८ ॥ तुब्यमेव जरिमन्नायुष्यं तु हुतं भवेत् । आयातु मित्र इत्येतन्मित्रलब्धिकरं हुतम् ॥ २,१२७.१९ ॥ आशासानमिदं जना मिश्रधान्येन होमयेत् । आधिपत्यमवाप्नोति सर्वत्र मनुजोत्तम ॥ २,१२७.२० ॥ अग्ने गोभिर्न इत्येतद्गवां वृद्धिकरं परम् । द्वादशाहं तु जुहुयात्पराकेण विशेषतः ॥ २,१२७.२१ ॥ शान्तो अग्निरितीत्येतद्ग्रामस्वास्थ्यकरं भवेत् । तस्माद्ग्रामान्मृदा कृत्वा वेदिसाम्यं समश्नुते ॥ २,१२७.२२ ॥ विद्मास्य सर्वा चित्तानि राष्ट्रस्वीकरणानि तु । त्रिभ्यो रुद्रेभ्य इत्येतद्वास्तोष्पतमुदाहृतम् ॥ २,१२७.२३ ॥ ध्रुवं ध्रुवेणेति हुतं स्थानलाभकरं भवेत् । अच्युता द्यौस्तथा राम कथितं स्थानलाभदम् ॥ २,१२७.२४ ॥ पयो देवेष्विति हुतं रायस्पोषकरं परम् । युनक्रसीरेति शुना कृषिलाभकरं भवेत् ॥ २,१२७.२५ ॥ अयं ते योनिरित्येतत्पुत्रलाभकरं भवेत् । शुनं वत्सान् तथा ह्येतद्गवां वृद्धिकरं हुतम् ॥ २,१२७.२६ ॥ ... मेति कथितं सर्वत्श्रैष्ठ्यकारकम् । अहं ते भग इत्येतद्भवेत्सौभाग्यवर्धनं ॥ २,१२७.२७ ॥ ये ते पाशास्तथाप्येतद्बन्धनान्मोक्षकारकम् । यो न स्व इति चाप्येतच्छत्रुनाशकरं परम् ॥ २,१२७.२८ ॥ सपत्नहनमिति तथा नात्र कार्या विचारणा । त्वमुत्तममितीत्येतद्यशसो वर्धनं परम् ॥ २,१२७.२९ ॥ यथा मृगो गोपयसि स्त्रीणां सौभाग्यवर्धनम् । आ नो अग्न इत्येतच्च कथितं पतिलाभदम् ॥ २,१२७.३० ॥ येन वेहदिषं चैव गर्भलाभकरं भवेत् । इमं तपस्विन्निति तथा भवेत्सौभाग्यवर्धनम् ॥ २,१२७.३१ ॥ यत्पृथिव्या अनावृत्तं हुतमेतद्यथाविधि । [Bहत्तछर्य्य त्य्पो॒ पृविव्या] कृत्वा तु शंसनं ज्ञेयं नात्र कार्या विचारणा ॥ २,१२७.३२ ॥ ...... । शिवः शिवाभिरित्येतद्भवेच्छ्रेयस्करं परम् ॥ २,१२७.३३ ॥ कृत्यादूषण इत्येतत्कृत्यादूषणमुच्यते । बृहस्पतिः परिपातु पथि स्वस्त्ययनं भवेत् ॥ २,१२७.३४ ॥ मनो न्वेदमभयदं पथि स्वस्त्ययनं भवेत् । अयं नो अग्निरध्यक्षो भवेदग्निप्रसादतः ॥ २,१२७.३५ ॥ संवत्सरं तु शिरसा धारयेद्यो हुताशनम् ॥ [Bहत्तछर्य्य॒ हूताशनम्] मन्त्रमेतज्जपेन्नित्यमाग्नेयाशामुखः स्थितः ॥ अनग्निज्वलनं कुर्याद्राम संवत्सरे गते ॥ २,१२७.३६ ॥ दूष्या दूषीत्त्येतज्जपेन्मन्त्रमनुत्तमम् । कुर्यात्प्रतिसराबन्धं सर्वदोषनिबर्हणम् ॥ २,१२७.३७ ॥ प्राणसूक्तञ्च कथितं तथा प्राणविवर्धनम् । मुञ्चामि त्वेति कथितमपमृत्युविमोक्षणम् ॥ २,१२७.३८ ॥ अथर्वशिरसोऽध्येता सर्वपापैः प्रमुच्यते । परमं पावनं तद्धि सर्वकल्मषनाशनम् ॥ २,१२७.३९ ॥ एवमेते शुभा मन्त्राः प्रतिवेदं मया तव । समासात्कथिता राम समुद्धृत्य प्रधानतः ॥ २,१२७.४० ॥ एकैकस्य च मन्त्रस्य विनियोगाः सहस्रशः । [Bहत्तछर्य्य॒ विनियोगः] कथिता भृगुशार्दूल पुराणैः सुमहात्मभिः ॥ २,१२७.४१ ॥ न ते शक्या महाभाग वक्तुं वर्षशतैरपि । प्राधान्येन तु मन्त्राणां किञ्चित्कर्म तवेरितम् ॥ २,१२७.४२ ॥ होमे यत्र न निर्दिष्टं मया द्रव्यं पुरा तव । हवींषि तत्र वक्ष्यामि तानि मे गदतः शृणु ॥ २,१२७.४३ ॥ वृक्षाणां यज्ञियानान् तु समिधः प्रथमं हविः । आज्यञ्च व्रीहयश्चैव तथा वै गौरसर्षपाः ॥ २,१२७.४४ ॥ अक्षतानि तिलाश्चैव दधि क्षीरञ्च भार्गव । दर्भास्तथैव दूर्वाश्च बिल्वानि कमलानि च ॥ २,१२७.४५ ॥ शान्तिपुष्टिकराण्याहुर्द्रव्याण्येतानि भार्गव । तैलेन्धनानि धर्मज्ञ राजिकां रुधिरं विषम् । समिधः कण्टकोपेता अभिचारेषु योजयेत् ॥ २,१२७.४६ ॥ आर्षं वै दैवतं छन्दस्त्वविज्ञाय भृगूत्तम । मन्त्रस्य तेन मन्त्रेण जप्यहोमौ न कारयेत् ॥ २,१२७.४७ ॥ छन्दसि ब्राह्मणे सूक्ते यदव्यक्तं प्रदृश्यते । विद्वद्भिः सह निश्चित्य तद्यज्ञमवतारयेत् ॥ २,१२७.४८ ॥ सम्भारा ये यथा यत्र यानि द्रव्याणि यो विधिः । शाखां प्रति तथा तत्र तत्प्रमाणमिति स्थितिः ॥ २,१२७.४९ ॥ यः स्वसूत्रमतिक्रम्य परसूत्रेण वर्तते । अप्रमाणमृषिं कृत्वा सोऽप्यधर्मेण युज्यते ॥ २,१२७.५० ॥ तस्मात्सर्वप्रयत्नेन स्वसूत्रं न विलङ्घयेत् । प्राक्तन्त्रोत्तरतन्त्रे द्वे स्वशाखाप्रत्यये द्विज । सर्वकर्मसु कर्तव्ये मध्ये कर्म विधीयते ॥ २,१२७.५१ ॥ आथर्वणोऽयं कथितो विधिस्ते संक्षेपतो भार्गवांशमुख्य । अतः परं किं कथयामि तुभ्यं तन्मे वदस्वायतलोहिताक्ष ॥ २,१२७.५२ ॥ ॥ इति श्रिविष्णुधर्मोत्तरे द्वितीयखण्डे मार्कण्डेयवज्रसंवादे रामं प्रति पुष्करोपाख्यानेऽथर्वविधिकथनं नाम सप्तविंशत्युत्तरशततमोऽध्यायः ॥