(कौशिकसूत्र १,१.१) अथ विधिं वक्ष्यामः (कौशिकसूत्र १,१.२) स पुनराम्नायप्रत्ययः (कौशिकसूत्र १,१.३) आम्नायः पुनर्मन्त्राश्च ब्राह्मणानि च (कौशिकसूत्र १,१.४) तद्यथाब्राह्मणं विधिरेवं कर्मलिङ्गा मन्त्राः (कौशिकसूत्र १,१.५) तथान्यार्थः (कौशिकसूत्र १,१.६) तथा ब्राह्मणलिङ्गा मन्त्राः (कौशिकसूत्र १,१.७) तदभावे संप्रदायः (कौशिकसूत्र १,१.८) प्रमुक्तत्वाद्ब्राह्मणानाम् (कौशिकसूत्र १,१.९) यज्ञं व्याख्यास्यामः (कौशिकसूत्र १,१.१०) देवानां पितॄणां च (कौशिकसूत्र १,१.११) प्राङ्मुख उपांशु करोति (कौशिकसूत्र १,१.१२) यज्ञोपवीती देवानाम् (कौशिकसूत्र १,१.१३) प्राचीनवीती पितॄणाम् (कौशिकसूत्र १,१.१४) प्रागुदग्वा देवानाम् (कौशिकसूत्र १,१.१५) दक्षिणा पितॄणाम् (कौशिकसूत्र १,१.१६) प्रागुदगपवर्गं देवानाम् (कौशिकसूत्र १,१.१७) दक्षिणाप्रत्यगपवर्गं पितॄणाम् (कौशिकसूत्र १,१.१८) सकृत्कर्म पितॄणाम् (कौशिकसूत्र १,१.१९) त्र्यवरार्धं देवानाम् (कौशिकसूत्र १,१.२०) यथादिष्टं वा (कौशिकसूत्र १,१.२१) अभिदक्षिणमाचारो देवानाम् (कौशिकसूत्र १,१.२२) प्रसव्यं पितॄणाम् (कौशिकसूत्र १,१.२३) स्वाहाकारवष्ट्कारप्रदाना देवाः (कौशिकसूत्र १,१.२४) स्वधाकारनमस्कारप्रदाना पितरः (कौशिकसूत्र १,१.२५) उपमूललूनं बर्हिः पितॄणाम् (कौशिकसूत्र १,१.२६) पर्वसु देवानाम् (कौशिकसूत्र १,१.२७) <प्र यछ पर्शुम् [१२.३.३१ ]> इति दर्भाहाराय दात्रं प्रयछति (कौशिकसूत्र १,१.२८) <ओषधीर्दान्तु पर्वन् [१२.३.३१ पर्त्]> इति_उपरि पर्वणां लूत्वा तूष्णीमाहृत्य_उत्तरतो_अग्नेरुपसादयति (कौशिकसूत्र १,१.२९) नाग्निं विपर्यावर्तेत (कौशिकसूत्र १,१.३०) नान्तरा यज्ञाङ्गानि व्यवेयात् (कौशिकसूत्र १,१.३१) दक्षिणं जानु प्रभुज्य जुहोति (कौशिकसूत्र १,१.३२) या पूर्वा पौर्णमासी सानुमतिर्या_उत्तरा सा राका[दृष्टव्यम्‌ च्f. ७.११.२] (कौशिकसूत्र १,१.३३) या पूर्वामावास्या सा सिनीवाली या_उत्तरा सा कुहूः [दृष्टव्यम्‌ ऐतरेयब्राह्मण ७.११.२] (कौशिकसूत्र १,१.३४) अद्य_उपवसथ इति_उपवत्स्यद्भक्तमश्नाति (कौशिकसूत्र १,१.३५) मधुलवणमांसमाषवर्जम् (कौशिकसूत्र १,१.३६) <ममाग्ने वर्चः [५.३.१]> इति समिध आधाय व्रतमुपैति (कौशिकसूत्र १,१.३७) <व्रतेन त्वां व्रतपते [७.७४.४]> इति वा (कौशिकसूत्र १,१.३८) ब्रह्मचारी व्रती (कौशिकसूत्र १,१.३९) अधः शयीत (कौशिकसूत्र १,१.४०) प्रातर्हुते_अग्नौ <कर्मणे वां वेषाय वां सुकृताय वाम् [दृष्टव्यम्‌ ट्ष्१.१.४.१ इत्यादि, Kऔश्ष्५८.५]> इति पाणी प्रक्षाल्यापरेणाग्नेर्दर्भानास्तीर्य तेषूत्तरमानडुहं रोहितं चर्म प्राग्ग्रीवमुत्तरलोम प्रस्तीर्य पवित्रे कुरुते (कौशिकसूत्र १,१.४१) दर्भौ_अप्रछिन्नान्तौ प्रक्षाल्यानुलोममनुमार्ष्टि <विष्णोर्मनसा पूते स्थः [ড়्ष्२०.४५.६, ंष्४.१.५७.१५ इत्यादि]> इति (कौशिकसूत्र १,२.१) <त्वं भूमिमत्येष्योजसा त्वं वेद्यां सीदसि चारुरध्वरे । त्वां पवित्रमृषयो भरन्तस्त्वं पुनीहि दुरितान्यस्मत् ॥ [ড়्ष्११.१३.३ = ॑ष्ष्१९.३३.३ (बुत्सकलपाठ!)]> इति पवित्रे अन्तर्धाय हविर्निर्वपति <देवस्य त्वा सवितुः प्रसवे_अश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां जुष्टं निर्वपामि [सकल दृष्टव्यम्‌ १९.५१.२, ড়्ष्५.४०.१, ट्ष्१.१.४.२ इत्यादि]> इति (कौशिकसूत्र १,२.२) एवम् <अग्निषोमाभ्याम् [इबिद्.]> इति (कौशिकसूत्र १,२.३) <इन्द्राग्निभ्याम् []> इति_अमावास्यायाम् (कौशिकसूत्र १,२.४) नित्यं पूर्वमाग्नेयम् (कौशिकसूत्र १,२.५) निरुप्तं पवित्राभ्यां प्रोक्षति <अमुष्मै त्वा जुष्टम् []> यथादेवतम् (कौशिकसूत्र १,२.६) उलूखलमुसलं शूर्पं प्रक्षालितं चर्मणि_आधाय व्रीहीनुलूखल ओप्यावघ्नंस्त्रिर्हविष्कृता वाचं विसृजति <हविष्कृदा द्रवेहि [दृष्टव्यम्‌ आअप्॑ष्ष्१.१९.९ इत्यादि]> इति (कौशिकसूत्र १,२.७) +अवहत्य [एद्. अपहत्य] सुफलीकृतान् कृत्वा त्रिः प्रक्षाल्य तण्डुलान् <अग्ने वरुर्यज्ञियस्त्वाधि अरुक्षत्[११.१.१६]> इति चरुमधिदधाति (कौशिकसूत्र १,२.८) <शुद्धाः पूताः [११.१.१७]> इति_उदकमासिञ्चति (कौशिकसूत्र १,२.९) <ब्रह्मणा शुद्धाः [११.१.१८]> इति तण्डुलान् (कौशिकसूत्र १,२.१०) <परि त्वाग्ने पुरं वयम् [७.७१.१]> इति त्रिः पर्यग्नि करोति (कौशिकसूत्र १,२.११) नेक्षणेन त्रिः प्रदक्षिणमुदायौति (कौशिकसूत्र १,२.१२) अत ऊर्ध्वं यथाकामम् (कौशिकसूत्र १,२.१३) उत्तरतो_अग्नेरुपसादयतीध्मम् (कौशिकसूत्र १,२.१४) उत्तरं बर्हिः (कौशिकसूत्र १,२.१५) <अग्नये त्वा जुष्टं प्रोक्षामि [इ.अ. Kष्१.१०५.२२]> इतीध्मम् (कौशिकसूत्र १,२.१६) <पृथिव्यै []> इति बर्हिः (कौशिकसूत्र १,२.१७) दर्भमुष्टिमभ्युक्ष्य पश्चादग्नेः प्रागग्रं निदधाति <ऊर्णम्रदं प्रथस्व स्वासस्थं देवेभ्यः [चोर्रुप्त्दृष्टव्यम्‌ इ.अ. Kष्१.११६.२३]> इति (कौशिकसूत्र १,२.१८) दर्भाणामपादाय <ऋषीणां प्रस्तरो_असि [१६.२.६]> इति दक्षिणतो_अग्नेर्ब्रह्मासनं निदधाति (कौशिकसूत्र १,२.१९) पुरस्तादग्नेरास्तीर्य तेषां मूलानि_अपरेषां प्रान्तैरवछादयन् परिसर्पति दक्षिणेनाग्निमा पश्चार्धात् (कौशिकसूत्र १,२.२०) <परि स्तृणीहि [७.९९.१]> इति संप्रेष्यति (कौशिकसूत्र १,२.२१) <देवस्य त्वा सवितुः प्रसवे_अश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूतः प्रशिषा परिस्तृणामि []> इति (कौशिकसूत्र १,२.२२) एवमुत्तरतो_अयुजो धातून् कुर्वन् (कौशिकसूत्र १,२.२३) यत्र समागछन्ति तद्दक्षिणोत्तरं कृणोति (कौशिकसूत्र १,२.२४) स्तीर्णं प्रोक्षति <हविषां त्वा जुष्टं प्रोक्षामि []> इति (कौशिकसूत्र १,२.२५) नानभ्युक्षितं संस्तीर्णमुपयोगं लभेत (कौशिकसूत्र १,२.२६) नैधो_अभ्यादानम् (कौशिकसूत्र १,२.२७) नानुत्पूतं हविः (कौशिकसूत्र १,२.२८) नाप्रोक्षितं यज्ञाङ्गम् (कौशिकसूत्र १,२.२९) तस्मिन् प्रक्षालितोपवातानि निदधाति (कौशिकसूत्र १,२.३०) स्रुवमाज्यधानीं च (कौशिकसूत्र १,२.३१) विलीनपूतमाज्यं गृहीत्वाधिश्रित्य पर्यग्नि कृत्वा_उदगुद्वास्य पश्चादग्नेरुपसाद्य_उदगग्राभ्यां पवित्राभ्यामुत्पुनाति (कौशिकसूत्र १,२.३२) <विष्णोर्मनसा पूतमसि [ড়्ष्२०.४५.७ ]> (कौशिकसूत्र १,२.३३) <देवस्त्वा सविता_उत्पुनातु [ড়्ष्२०.४५.७ ]> (कौशिकसूत्र १,२.३४) <अछिद्रेण त्वा पवित्रेण शतधारेण सहस्रधारेण सुप्वोत्पुनामि [ড়्ष्२०.४५.७ द्]> इति तृतीयम् (कौशिकसूत्र १,२.३५) तूष्णीं चतुर्थम् (कौशिकसूत्र १,२.३६) शृतं हविरभिघारयति <मध्वा समञ्जन् घृतवत्कराथ [दृष्टव्यम्‌ ড়्ष्५.१६.३ ]> इति (कौशिकसूत्र १,२.३७) अभिघार्य_उदञ्चमुद्वासयति <उद्वासयाग्नेः शृतमकर्म हव्यमा सीद पृष्ठममृतस्य धाम [दृष्टव्यम्‌ ড়्ष्५.१६.३ ब्]> इति (कौशिकसूत्र १,२.३८) पश्चादाज्यस्य निधायालंकृत्य समानेन_उत्पुनाति (कौशिकसूत्र १,२.३९) <अदारसृत्[१.२०.१]> इति_अवेक्षते (कौशिकसूत्र १,२.४०) <उत्तिष्ठत [७.७२.१३]> इति_ऐन्द्रम् (कौशिकसूत्र १,२.४१) <अग्निर्भूयाम् [१२.१.१९२१]> इति तिसृभिरुपसमादधाति <अस्मै क्षत्राणि [७.७८.२]> <एतमिध्मम् [१०.६.३५]> इति वा (कौशिकसूत्र १,३.१) <युनज्मि त्वा ब्रह्मणा दैव्येन हव्यायास्मै वोढेव [एद्. वोढवे मिस्प्रिन्त्. Cf. Zएह्न्देर्१९९९ १९१. ंस्स्. वोढेव] जातवेदः । इन्धानास्त्वा सुप्रजसः सुवीरा ज्योग्जीवेम बलिहृतो वयं ते [ंष्१.४.१४७.६ इत्यादि]> इति (कौशिकसूत्र १,३.२) दक्षिणतो जाङ्मायनमुदपात्रमुपसाद्याभिमन्त्रयते <तथोदपात्रं धारय यथाग्रे ब्रह्मणस्पतिः । सत्यधर्मा अदीधरद्देवस्य सवितुः सवे []> इति (कौशिकसूत्र १,३.३) अथ_उदकमासिञ्चति <इहेत देवीरमृतं वसाना हिरण्यवर्णा अनवद्यरूपाः । आपः समुद्रो वरुणश्च राजा संपातभागान् हविषो जुषन्ताम् [, दृष्टव्यम्‌ ড়्ष्२.४०.१ ] ॥ इन्द्रप्रशिष्टा वरुणप्रसूता अपः समुद्राद्दिवमुद्वहन्तु । इन्द्रप्रशिष्टा वरुणप्रसूता दिवस्पृथिव्या श्रियमुद्वहन्तु [, दृष्टव्यम्‌ ४.२७.४ , ऋV १०.६६.२ ]> इति (कौशिकसूत्र १,३.४) <ऋतं त्वा सत्येन परिषिञ्चामि जातवेदः [दृष्टव्यम्‌ Vऐत्ष्७.४, ट्B २.१.११.१ इत्यादि]> इति सह हविर्भिः पर्युक्ष्य जीवाभिर्<[१९.६९.१४]> आचम्य_उत्थाय वेदप्रपद्भिः प्रपद्यते_<ओ॑ं प्रपद्ये भूः प्रपद्ये भुवः प्रपद्ये स्वः प्रपद्ये जनत्प्रपद्ये [टा ४.४२.२४]> इति (कौशिकसूत्र १,३.५) प्रपद्य पश्चात्स्तीर्णस्य दर्भानास्तीर्य <अहे दैधिषव्योदतस्तिष्ठान्यस्य सदने सीद योऽस्मत्पाकतरः [ट्ष्३.२.४.४, Vऐत्ष्१.२०]>_इति ब्रह्मासनमन्वीक्षते (कौशिकसूत्र १,३.६) <निरस्तः पराग्वसुः सह पाप्मना निरस्तः सोऽस्तु योऽस्मान् द्वेष्टि यं च वयं द्विष्मः [ङोभ्ङ्ष्१.६.१४, ॑ष्Bं १.५.१.२३ इत्यादि]>_इति दक्षिणा तृणं निरस्यति (दृष्टव्यम्‌ १३९.३८ f.) (कौशिकसूत्र १,३.७) तदन्वालभ्य जपति <इदमहमर्वाग्वसोः सदने सीदामि_[ङ्B २.१.१, ॑ष्Bं १.५.१.२४]_ऋतस्य सदने सीदामि सत्यस्य सदने सीदामि_[१.२.२ इत्यादि]_इष्टस्य सदने सीदामि पूर्तस्य सदने सीदामि [] मामृषद्देव [एम्. Bलोओम्fइएल्द्ङ्ङा १९०२ ५१४ एद्. एव] बर्हिः स्वासस्थं त्वाध्यासदेयमूर्णम्रदमनभिशोकम् [दृष्टव्यम्‌ आआश्व्॑ष्ष्१.४.७]> (कौशिकसूत्र १,३.८) <विमृग्वरीं [१२.१.२९]>_इत्युपविश्यासनीयं ब्रह्मजपं जपति <बृहस्पतिर्ब्रह्मा ब्रह्मसदन आसिष्यते (थुस्Bल्.) [आआश्व्॑ष्ष्१.१२.९]> <बृहस्पते यज्ञं गोपाय [आआश्व्॑ष्ष्१.१२.९, ट्B ३.७.६.३]> <यदुदुद्वत उन्निवतः शकेयम् [ट्ष्३.२.४.४]> इति (कौशिकसूत्र १,३.९) दर्भैः स्रुवं निर्मृज्य <निष्टप्तं रक्षो निष्टप्ता अरातयः प्रत्युष्टं रक्षः प्रत्युष्टा अरातयः [ट्ष्१.१.२.१, ट्B ३.७.६.३]> इति प्रतप्य मूले स्रुवं गृहीत्वा जपति <विष्णोर्हस्तो_असि दक्षिणः पूष्णा दत्तो बृहस्पतेः । तं त्वाहं स्रुवमा ददे देवानां हव्यवाहनम् [षन्ख्ङ्ष्१.९.३] ॥ अयं स्रुवो वि दधाति होमान्_शताक्षरछन्दसा जागतेन । सर्वा यज्ञस्य समनक्ति विष्ठा बार्हस्पत्या_इष्टिः शर्मणा दैव्येन [आप्ष्ष्४.७.२]> इति (कौशिकसूत्र १,३.१०) <ओं भूः शं भूत्यै त्वा गृह्णे भूतये []> इति प्रथमं ग्रहं गृह्णाति (कौशिकसूत्र १,३.११) <ओं भुवः शं पुष्ट्यै त्वा गृह्णे पुष्टये []> इति द्वितीयम् (कौशिकसूत्र १,३.१२) <ओं स्वः शं त्वा गृह्णे सहस्रपोषाय []> इति तृतीयम् (कौशिकसूत्र १,३.१३) <ओं जगत्_शं त्वा गृह्णे_अपरिमितपोषाय []> इति चतुर्थम् (कौशिकसूत्र १,३.१४) राजकर्माभिचारिकेषु <अमुष्य त्वा प्राणाय गृह्णे_अपानाय व्यानाय समानाय_उदानाय []> इति पञ्चमम् (कौशिकसूत्र १,३.१५) <अग्नावग्निः हृदा पूतम् [४.३९.९१०]> <पुरस्ताद्युक्तः [५.२९.१]> <यज्ञस्य चक्षुः [२.३५.५ = १९.५८.५]> इति जुहोति (कौशिकसूत्र १,३.१६) पश्चादग्नेर्मध्यदेशे समानत्र पुरस्ताद्धोमान् (कौशिकसूत्र १,३.१७) दक्षिणेनाग्निमुदपात्र आज्याहुतीनां संपातानानयति (कौशिकसूत्र १,३.१८) पुरस्ताद्धोम आज्यभागः संस्थितहोमः समृद्धिः शान्तानाम् (कौशिकसूत्र १,३.१९) इति_एतौ_आज्यभागौ (कौशिकसूत्र १,४.१) <वृष्णे बृहते स्वर्विदे अग्नये शुल्कं हरामि त्विषीमते । स न स्थिरान् बलवतः कृणोतु ज्योक्च नो जीवातवे दधाति ॥ [ড়्ष्१९.५२.७]> <अग्नये स्वाहा> इति_उत्तरपूर्वार्धे_आग्नेयमाज्यभागं जुहोति (कौशिकसूत्र १,४.२) दक्षिणपूर्वार्धे सोमाय <त्वं सोम दिव्यो नृचक्षाः सुगा॑मस्मभ्यं पथो अनु ख्यः । अभि नो गोत्रं विदुष इव नेषोऽछा नो वाचमुशतीं जिगासि ॥ [ড়्ष्१.५१.३]> <सोमाय स्वाहा> इति (कौशिकसूत्र १,४.३) मध्ये हविः (कौशिकसूत्र १,४.४) उपस्तीर्याज्यं संहताभ्यामङ्गुलिभ्यां द्विर्हविषो_अवद्यति मध्यात्पूर्वार्धात्_च (कौशिकसूत्र १,४.५) अवत्तमभिघार्य द्विर्हविः प्रत्यभिघारयति (कौशिकसूत्र १,४.६) यतो यतो_अवद्यति तदनुपूर्वम् (कौशिकसूत्र १,४.७) एवं सर्वाणि_अवदानानि (कौशिकसूत्र १,४.८) अन्यत्र सौविष्टकृतात् (कौशिकसूत्र १,४.९) <उदेनमुत्तरं नय [६.५.१]> इति पुरस्ताद्धोमसंहतां पूर्वाम् (कौशिकसूत्र १,४.१०) एवं पूर्वांपूर्वां संहतां जुहोति (कौशिकसूत्र १,४.११) स्वाहान्ताभिः प्रत्यृचं होमाः (कौशिकसूत्र १,४.१२) यामुत्तरामग्नेराज्यभागस्य जुहोति रक्षोदेवत्या सा यां दक्षिणतः सोमस्य पितृदेवत्या सा (कौशिकसूत्र १,४.१३) तस्मादन्तरा होतव्या देवलोके_एव हूयन्ते (कौशिकसूत्र १,४.१४) यां हुत्वा पूर्वामपरां जुहोति सापक्रमन्ती स पापीयान् यजमानो भवति (कौशिकसूत्र १,४.१५) यां परांपरां संहतां जुहोति साभिक्रमन्ती स वसीयान् यजमानो भवति (कौशिकसूत्र १,४.१६) यामनग्नौ जुहोति सान्धा तया चक्षुर्यजमानस्य मीयते सो_अन्धंभावुको यजमानो भवति (कौशिकसूत्र १,४.१७) यां धूमे जुहोति सा तमसि हूयते सो_अरोचको यजमानो भवति (कौशिकसूत्र १,४.१८) यां ज्योतिष्मति जुहोति तया ब्रह्मवर्चसी भवति तस्मात्_ज्योतिष्मति होतव्यम् (कौशिकसूत्र १,४.१९) एवम् <अस्मै क्षत्रमग्नीषोमौ [६.५४.२]> इति_अग्निषोमीयस्य (कौशिकसूत्र १,५.१) <अग्नीषोमा सवेदसा सहूती वनतं गिरः । स देवत्रा बभूवथुः ॥ युवमेतानि दिवि रोचनान्यग्निश्च सोम सक्रतू अधत्तम् । युवं सिन्धू॑म्रभिशस्तेरवद्यादग्नीषोमावमुञ्चतं गृभीतान् ॥ अग्नीशोमा य आहुतिं यो वां दाशाद्धविश्कृतिम् । स प्रजया सुवीर्यं विश्वमायुर्व्यश्नवत् ॥ [ऋV १.९३.९,५,३ इत्यादि]> (कौशिकसूत्र १,५.२) <इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः । तद्वां चेति प्र वीर्यम् ॥ [ऋV ३.१२.९]> <श्नथद्वृत्रमुत सनोति वाजमिन्द्रा यो अग्नी सहुरी सपर्यात् । इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता ॥ [ऋV ६.६०.१]> <इन्द्राग्नी अस्मान् रक्षतां यौ प्रजानां प्रजावती । स प्रजया सुवीर्यं विश्वमायुर्व्यश्नवत् ॥ [१०.१.२१ द्+ ऋV १.९३.३ द्]> <गोमद्धिरण्यवद्वसु यद्वामश्वावदीमहे । इन्द्राग्नी वनेमहि ॥ [ऋV ७.९४.९]> <स्वाहा> इति (कौशिकसूत्र १,५.३) ऐन्द्राग्नस्य हविषो_अमावास्यायाम् (कौशिकसूत्र १,५.४) प्राक्स्विष्टकृतः पार्वणहोमौ समृद्धिहोमाः काम्यहोमाश्च (कौशिकसूत्र १,५.५) <पूर्णा पश्चात्[७.८०(=८५).१]> इति पौर्णमास्याम् (कौशिकसूत्र १,५.६) <यत्ते देवा अकृण्वन् भागधेयम् [७.७९.१]> इत्यमावास्यायाम् (कौशिकसूत्र १,५.७) <आकूत्यै त्वा स्वाहा । कामाय त्वा स्वाहा । समृधे त्वा स्वाहा । आकूत्यै त्वा कामाय त्वा समृधे त्वा स्वाहा । [दृष्टव्यम्‌ ट्ष्३.४.२.१ इत्यादि]> <ऋचा स्तोमं समर्धय गायत्रेण रथन्तरम् । बृहद्गायत्रवर्तनि ॥ [ट्ष्३.१.१०.१ इत्यादि]> <स्वाहा> (कौशिकसूत्र १,५.८) <पृथिव्यामग्नये समनमन् [४.३९.१८]> इति संनतिभिश्च <प्रजापते न त्वदेतान्यन्यः [७.८०(=८५).३]> इति च (कौशिकसूत्र १,५.९) उपस्तीर्याज्यं सर्वेषामुत्तरतः सकृत्सकृदवदाय द्विरवत्तमभिघारयति (कौशिकसूत्र १,५.१०) न हवींषि (कौशिकसूत्र १,५.११) <आ देवानामपि पन्थामगन्म यच्छक्नवाम तदनुप्रवोढुम् । अग्निर्विद्वान् स यजात्स इद्धोता सोऽध्वरान् स ऋतून् कल्पयाति ॥ [सकल ড়्ष्१९.४७.६ = ॑ष्ष्१९.५९.३, ऋV १०.२.३ इत्यादि]> <अग्नये स्विष्टकृते स्वाहा> इत्युत्तरपूर्वार्धे_अवयुतं हुत्वा सर्वप्रायश्चित्तीयान् होमान्_जुहोति (कौशिकसूत्र १,५.१२) <स्वाहेष्टेभ्यः स्वाहा । वषडनिष्टेभ्यः स्वाहा । भेषजं स्विष्ट्यै स्वाहा । निष्कृतिर्दुरिष्ट्यै स्वाहा । दैवीभ्यस्तनूभ्यः स्वाहा । [, दृष्टव्यम्‌ Bऔध्॑ष्ष्१.२१३२.१०, ःिर्॑ष्ष्२.६.१]> <अयाश्चाग्नेऽस्यनभिशस्तिश्च सत्यमित्त्वमया असि । अयासा मनसा कृतोऽयास्+सन् [एद्.ऽयास्य] हव्यमूहिषे । आ [+अया?] नो धेहि भेषजम् ॥ [ंष्१.४.३५१.१०, Kष्५.४५७.१४, Kऔश्ष्९७.४, ःिर्॑ष्ष्२.६.२ इत्यादि]> <स्वाहा> इति । <ओं स्वाहा भूः स्वाहा भुवः स्वाहा स्वः स्वाहों भूर्भुवः स्वः स्वाहा> इति (कौशिकसूत्र १,६.१) <यन्मे स्कन्नं मनसो जातवेदो यद्वास्कन्दद्धविषो यत्रयत्र । उत्प्रुषो विप्रुषः सं जुहोमि सत्याः सन्तु यजमानस्य कामाः ॥ [अब्, च्द्Vष्K २.५.३]> <स्वाहा> इति (कौशिकसूत्र १,६.२) <यन्मे स्कन्नं [अब्, च्द्Vष्K २.३८(=२.५.२)]> <यदस्मृति [७.१०६(=१११).१]> इति च स्कन्नास्मृतिहोमौ (कौशिकसूत्र १,६.३) <यदद्य त्वा प्रयति [७.९७(=१०२).१८]> इति सष्थितहोमाः (कौशिकसूत्र १,६.४) <मनसस्पते [७.९७(=१०२).८]> इति उत्तमं चतुर्गृहीतेन (कौशिकसूत्र १,६.५) बर्हिराज्यशेषे_अनक्ति [शेषेणानक्ति?] (कौशिकसूत्र १,६.६) <पृथिव्यै त्वा []> इति मूलम् <अन्तरिक्षाय त्वा []> इति मध्यं <दिवे त्वा []> इति अग्रमेवं त्रिः (कौशिकसूत्र १,६.७) <सं बर्हिरक्तम् [७.९८(=१०३).१]> इत्यनुप्रहरति यथादेवतम् (कौशिकसूत्र १,६.८) स्रुवमग्नौ धारयति (कौशिकसूत्र १,६.९) यदाज्यधान्यां तत्संस्रावयति <संस्रावभागास्तविषा बृहन्तः प्रस्तरेष्ठा बर्हिषदश्च देवाः । इमं यज्ञमभि विश्वे गृणन्तः स्वाहा देवा अमृता मादयन्ताम् ॥ [ড়्ष्२०.३५.२, ट्ष्१.१.१३.२३]> इति (कौशिकसूत्र १,६.१०) <स्रुवोऽसि घृतादनिशितः सपत्नक्षयणो दिवि षीद । अन्तरिक्षे सीद पृथिव्यां सीदोत्तरोऽहं भूयासमधरे मत्सपत्नाः [Kष्३१.१४१५.२०, दृष्टव्यम्‌ Bहार्॑ष्ष्४.११.१, आअप्॑ष्ष्२.४.२ इत्यादि]> इति स्रुवं प्राग्दण्डं निदधाति (कौशिकसूत्र १,६.११) <वि मुञ्चामि ब्रह्मणा जातवेदसमग्निं होतारमजरं रथस्पृतम् । सर्वा देवानां जनिमानि विद्वान् यथाभागं वहतु हव्यमग्निः ॥ [ড়्ष्१२.१९.९]> <अग्नये स्वाहा> इति समिधमादधाति (कौशिकसूत्र १,६.१२) <एधोऽसि [७.८९(=९४).४ ]> इति द्वितीयां <समिदसि [७.८९(=९४).४ ]> इति तृतीयम् (कौशिकसूत्र १,६.१३) <तेजोऽसि [७.८९(=९४).४ ]> इति मुखं विमार्ष्टि (कौशिकसूत्र १,६.१४) दक्षिणेनाग्निं त्रीन् विष्णुक्रमान् क्रमते <विष्णोः क्रमोऽसि [१०.५.२५२७]> इति दक्षिणेन पादेनानुसंहरति सव्यम् (कौशिकसूत्र १,६.१५) <सूर्यस्यावृतम् [१०.५.३७]> इत्यभिदक्षिणमावर्तते (कौशिकसूत्र १,६.१६) <अगन्म स्वः [१६.९.३४]> इत्यादित्यमीक्षते (कौशिकसूत्र १,६.१७) <इन्द्रस्य वचसा वयं मित्रस्य वरुणस्य च । ब्रह्मणा स्थापितं पात्रं पुनरुत्थापयामसि ॥ [, दृष्टव्यम्‌ ६.८५.२ ब्, ড়्ष्१९.६.२ ब्, आVড়रिश्३७.१९.२]> इत्यपरेणाग्निमुदपात्रं परिहृत्योत्तरेणाग्निम् <आपो हि ष्ठा मयोभुवः [१.५.१५?]> इति मार्जयित्वा बर्हिषि पत्न्याञ्जलौ निनयति <समुद्रं वः प्र हिणोमि [१०.५.२३२४]> इति <इदं जनासः [१.३२.१४]?> इति वा (कौशिकसूत्र १,६.१८) <वीरपत्न्यहं भूयासम् []> इति मुखं विमार्ष्टि (कौशिकसूत्र १,६.१९) <व्रतानि व्रतपतये [दृष्टव्यम्‌ Kऔश्ष्५.६.१६(=४२.१७) ড়्ष्१९.५१.४]> इति समिधमादधाति (कौशिकसूत्र १,६.२०) <सत्यं त्वर्तेन [दृष्टव्यम्‌ ट्B २.१.११.१]> इति परिषिच्य_उदञ्चि हविरुच्छिष्टान्युद्वासयति (कौशिकसूत्र १,६.२१) पूर्णपात्रं दक्षिणा (कौशिकसूत्र १,६.२२) <नादक्षिणं हविः कुर्वीत यः कुरुते कृत्यामात्मनः कुरुते [दृष्टव्यम्‌ Kष्३७.१२९३.३ .]> इति ब्राह्मणम् (कौशिकसूत्र १,६.२३) <अन्वाहार्यं ब्राह्मणान् भोजयति (कौशिकसूत्र १,६.२४) यद्वै यज्ञस्यानन्वितं भवति तदन्वाहार्येणान्वाह्रियते (कौशिकसूत्र १,६.२५) एतदन्वाहार्यस्यान्वाहार्यत्वम् []> (कौशिकसूत्र १,६.२६) <ईड्या वा अन्ये देवाः सपर्येण्या अन्ये । देवा ईड्या देवा ब्राह्मणाः सपर्येण्याः (कौशिकसूत्र १,६.२७) यज्ञेन_एव_ईड्यान् प्रीणाति अन्वाहार्येण सपर्येण्यान् (कौशिकसूत्र १,६.२८) ते_अस्य_उभे प्रीता यज्ञे भवन्तीति [दृष्टव्यम्‌ Kष्८.१३९७.११ f.]> (कौशिकसूत्र १,६.२९) इमौ दर्शपूर्णमासौ व्याख्यातौ (कौशिकसूत्र १,६.३०) दर्शपूर्णमासाभ्यां पाकयज्ञाः (कौशिकसूत्र १,६.३२) कुम्भीपाकादेव व्युद्धारं जुहुयात् (कौशिकसूत्र १,६.३३) अधिश्रयण_पर्यग्निकरण_अभिघारण_उद्वासन_अलंकरण_उत्पवनैः संस्कृत्य (कौशिकसूत्र १,६.३४) अथापि श्लोकौ भवतः <आज्यभागान्तं प्राक्तन्त्रमूर्ध्वं स्विष्टकृता सह । हवींषि यज्ञ आवापो यथा तन्त्रस्य तन्तवः [, अत्त्रिबुतेद्तो ङ्B ब्य्षायण ई, प्. ३४९] ॥> <पाकयज्ञान् समासाद्य_एकाज्यानेकबर्हिषः । एकस्विष्टकृतः कुर्यात्_नानापि सति दैवते_इति ॥ [आअश्व्ङ्ष्१.३.१०]> (कौशिकसूत्र १,६.३५) एतेन_एवामावास्यो व्याख्यातः (कौशिकसूत्र १,६.३६) ऐन्द्राग्नो_अत्र द्वितीयो भवति (कौशिकसूत्र १,६.३७) तयोर्व्यतिक्रमे <त्वमग्ने व्रतपा असि [१९.५९]> <कामस्तदग्रे [१९.५२]> इति शान्ताः (कौशिकसूत्र १,७.१) अश्नात्यनादेशे स्थालीपाकः (कौशिकसूत्र १,७.२) पुष्टिकर्मसु सारूपवत्से (कौशिकसूत्र १,७.३) आज्यं जुहोति (कौशिकसूत्र १,७.४) समिधमादधाति (कौशिकसूत्र १,७.५) आवपति व्रीहियवतिलान् (कौशिकसूत्र १,७.६) भक्षयति क्षीरौदनपुरोडाशरसान् (कौशिकसूत्र १,७.७) मन्थ_ओदनौ प्रयछति (कौशिकसूत्र १,७.८) पूर्वं त्रिषप्तीयम् (कौशिकसूत्र १,७.९) उदकचोदनायामुदपात्रं प्रतीयात् (कौशिकसूत्र १,७.१०) पुरस्ताद्_उत्तरतः संभारमाहरति (कौशिकसूत्र १,७.११) गोरनभिप्रापाद्वनस्पतीनाम् (कौशिकसूत्र १,७.१२) सूर्योदयनतः (कौशिकसूत्र १,७.१३) पुरस्ताद्_उत्तरतो_अरण्ये कर्मणां प्रयोगः (कौशिकसूत्र १,७.१४) उत्तरत उदकान्ते प्रयुज्य कर्माण्यपां सूक्तैराप्लुत्य प्रदक्षिणमावृत्य अप उपस्पृश्यानवेक्षमाणा ग्राममुदाव्रजन्ति (कौशिकसूत्र १,७.१५) आश्यबन्ध्याप्लवनयानभक्षाणि संपातवन्ति (कौशिकसूत्र १,७.१६) सर्वाण्यभिमन्त्र्याणि (कौशिकसूत्र १,७.१७) स्त्रीव्याधितावाप्लुतावसिक्तौ शिरस्तः प्रक्रम्या प्रपदात्प्रमार्ष्टि (कौशिकसूत्र १,७.१८) पूर्वं प्रपाद्य प्रयछति (कौशिकसूत्र १,७.१९) त्रयोदश्यादयस्तिस्रो दधिमधुनि वासयित्वा बध्नाति (कौशिकसूत्र १,७.२०) आशयति (कौशिकसूत्र १,७.२१) अन्वारब्धायाभिमन्त्रणहोमाः (कौशिकसूत्र १,७.२२) पश्चादग्नेश्चर्मणि हविषां संस्कारः (कौशिकसूत्र १,७.२३) आनडुहः शकृत्पिण्डः (कौशिकसूत्र १,७.२४) जीवघात्यं चर्म (कौशिकसूत्र १,७.२५) अकर्णो_अश्मा (कौशिकसूत्र १,७.२६) आप्लवनावसेचनानामाचामयति च (कौशिकसूत्र १,७.२७) संपातवतामश्नाति न्यङ्क्ते वा (कौशिकसूत्र १,७.२८) अभ्याधेयानां धूमं नियछति (कौशिकसूत्र १,७.२९) शुचिना कर्मप्रयोगः (कौशिकसूत्र १,८.१) पुरस्ताद्धोमवत्सु निशाकर्मसु पूर्वाह्णे यज्ञोपवीती शालानिवेशमं समूहयत्युपवत्स्यद्भक्तमशित्वा स्नातो_अहतवसनः प्रयुङ्क्ते (कौशिकसूत्र १,८.२) स्वस्त्ययनेषु च (कौशिकसूत्र १,८.३) ईज्यानां दिश्यान् बलीन् हरति (कौशिकसूत्र १,८.४) प्रतिदिशमुपतिष्ठते (कौशिकसूत्र १,८.५) सर्वत्राधिकरणं कर्तुर्दक्षिणा (कौशिकसूत्र १,८.६) त्रिरुदकक्रिया (कौशिकसूत्र १,८.७) अनन्तराणि समानानि युक्तानि (कौशिकसूत्र १,८.८) शान्तं संभारम् (कौशिकसूत्र १,८.९) अधिकृतस्य सर्वम् (कौशिकसूत्र १,८.१०) विषये [एद्. विशये॑ सेए Cअलन्द्, आZ, अळ्.॑ ष्पेइजेर्ंुसेउम् ९ २४९ दिसग्रेएस्] यथान्तरम् (कौशिकसूत्र १,८.११) <प्र यछ पर्शुम् [१२.३.३१]> इति दर्भलवनं प्रयछति (कौशिकसूत्र १,८.१२) <अरातीयोः [१०.६.१]> इति तक्षति (कौशिकसूत्र १,८.१३) <यत्त्वा शिक्वः [१०.६.३]> इति प्रक्षालयति (कौशिकसूत्र १,८.१४) <यत्_यत्कृष्णः [१२.३.१३]> इति मन्त्रोक्तम् (कौशिकसूत्र १,८.१५) पलाश_उदुम्बर_जम्बु_काम्पील_स्रग्_वङ्घ_शिरीष_स्रक्त्य_वरण_बिल्व_जङ्गिड_कुटक_गर्ह्य_गलावल_वेतस_शिम्बल_सिपुन_स्यन्दन_अरणिका_अश्मयोक्त_तुन्यु_पूतुदारवः शान्ताः (कौशिकसूत्र १,८.१६) चिति_प्रायश्चित्ति_शमी_शमका_सवंशा_शाम्यवाका_तलाश_पलाश_वाशा_शिंशपा_शिम्बल_सिपुन_दर्भ_अपामार्ग_आकृतिलोष्ट_वल्मीकवपा_दूर्वाप्रान्त_व्रीहि_यवाः शान्ताः (कौशिकसूत्र १,८.१७) प्रमन्द_उशीर_शलली_उपधान_शकधूमा जरन्तः (कौशिकसूत्र १,८.१८) सीस_नदीसीसे अयोरजांसि कृकलासशिरः सीनानि (कौशिकसूत्र १,८.१९) दधि घृतं मधूदकमिति रसाः (कौशिकसूत्र १,८.२०) व्रीहि_यवा_गोधूम_उपवाक_तिल_प्रियङ्गु_श्यामाका इति मिश्रधान्यानि (कौशिकसूत्र १,८.२१) ग्रहणमा ग्रहणात् (कौशिकसूत्र १,८.२२) यथार्थमुदर्कान् योजयेत् (कौशिकसूत्र १,८.२३) <इहैव ध्रुवाम् [३.१२]> <एह यातु [६.७३]> <यमो मृत्युः [६.९३]> <सत्यं बृहत्[१२.१]> इत्यनुवाको वास्तोष्पतीयानि (कौशिकसूत्र १,८.२४) <दिव्यो गन्धर्वः [२.२]> <इमं मे अग्ने [६.१११]> <यौ ते माता [८.६]> इति मातृनामानि (कौशिकसूत्र १,८.२५) <स्तुवानम् [१.७]> <इदं हविः [१.८]> <निस्सालाम् [२.१४]> <अरायक्षयणम् [२.१८.३]> <शं नो देवी पृश्निपर्णी [२.२५]> <आ पश्यति [४.२०]> <तान्त्सत्यौजाः [४.३६]> <त्वया पूर्वम् [४.३७]> <पुरस्ताद्युक्तः [५.२९]> <रक्षोहणम् [८.३४]> इति अनुवाकश्चातनानि (कौशिकसूत्र १,९.१) <अम्बयो यन्ति [१.४]> <शंभुमयोभू [१.५६]> <हिरण्यवर्णाः [१.३३]> <निस्सालाम् [२.१४]> <ये अग्नयः [३.२१.१७]> <ब्रह्म जज्ञानम् [४.१.१]> इत्येका <उत देवाः [४.१३]> मृगारसूक्तान्युत्तमं वर्जयित्वा [४.२३२९] <अप नः शोशुचदघम् [४.३३]> <पुनन्तु मा [६.१९]> <सस्रुषीः [६.२३]> <हिमवतः प्रस्रवन्ति [६.२४]> <वायोः पूतः पवित्रेण [६.५१]> <शं च नो मयश्च नः [६.५७.३]> <अनडुद्भ्यस्त्वं प्रथमं [६.५९]> <मह्यमापः [६.६१]> <वैश्वानरो रश्मिभिः [६.६२]> <यमो मृत्युः [६.९३]> <विश्वजित्[६.१०७]> <संज्ञानं नः [७.५२]> <यद्यन्तरिक्षे [७.६६]> <पुनर्मैत्विन्द्रियम् [७.६७]> <शिवा नः [७.६८.३]> <शं नो वातो वातु [७.६९]> <अग्निं ब्रूमो वनस्पतीन् [११.६]> इति (कौशिकसूत्र १,९.२) <पृथिव्यै श्रोत्राय [६.१०]> इति त्रिः प्रत्यासिञ्चति (कौशिकसूत्र १,९.३) <अम्बयो यन्ति [१.४]> <शंभुमयोभू [१.५६]> <हिरण्यवर्णाः [१.३३]> शंततीयं च [४.१३] <यद्यन्तरिक्षे [७.६६]> <पुनर्मैत्विन्द्रियम् [७.६७]> <शिवा नः [७.६८.३]> <शं नो वातो वातु [७.६९]> <अग्निं ब्रूमो वनस्पतीन् [११.६]> इति (कौशिकसूत्र १,९.४) <पृथिव्यै श्रोत्राय [६.१०]> इति त्रिः प्रत्यासिञ्चति (कौशिकसूत्र १,९.५) इति शान्तियुक्तानि (कौशिकसूत्र १,९.६) उभयतः सावित्र्युभयतः <शं नो देवी [१.६]> (कौशिकसूत्र १,९.७) अहतवासः कंसे शान्त्युदकं करोति (कौशिकसूत्र १,९.८) <अतिसृष्टो अपां वृषभः [१६.१.१]> इत्यपो_अतिसृज्य सर्वा इमा आप ओषधय इति पृष्ट्वा सर्वा इत्याख्यात ओं बृहस्पतिप्रसूतः करवाणीत्यनुज्ञाप्य_ओं सवितृप्रसूतः कुरुतां भवानित्यनुज्ञातः कुर्वीत (कौशिकसूत्र १,९.९) पूर्वया कुर्वीतेति गार्ग्य_पार्थश्रवस_भागालि_काङ्कायन_उपरिबभ्रव_कौशिक_जाटिकायन_कौरुपथयः (कौशिकसूत्र १,९.१०) अन्यतरया कुर्वीतेति युवा कौशिको युवा कौशिकः (Kऔश्ष्१ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे प्रथमोऽध्यायः समाप्तः (कौशिकसूत्र २,१[१०].१) पूर्वस्य मेधाजननानि (कौशिकसूत्र २,१[१०].२) शुकसारिकृशानां जिह्वा बध्नाति (कौशिकसूत्र २,१[१०].३) आशयति (कौशिकसूत्र २,१[१०].४) औदुम्बरपलाशकर्कन्धूनामादधाति (कौशिकसूत्र २,१[१०].५) आवपति (कौशिकसूत्र २,१[१०].६) भक्षयति (कौशिकसूत्र २,१[१०].७) उपाध्यायाय भैक्षं प्रयछति (कौशिकसूत्र २,१[१०].८) सुप्तस्य कर्णमनुमन्त्रयते (कौशिकसूत्र २,१[१०].९) उपसीदञ्जपति (कौशिकसूत्र २,१[१०].१०) धानाः सर्पिर्मिश्राः सर्वहुताः (कौशिकसूत्र २,१[१०].११) तिलमिश्रा हुत्वा प्राश्नाति (कौशिकसूत्र २,१[१०].१२) पुरस्तादग्नेः कल्माषं दण्डं निहत्य पश्चादग्नेः कृष्णाजिने धाना अनुमन्त्रयते (कौशिकसूत्र २,१[१०].१३) सूक्तस्य पारं गत्वा प्रयछति (कौशिकसूत्र २,१[१०].१४) सकृज्जुहोति (कौशिकसूत्र २,१[१०].१५) दण्डधानाजिनं ददाति (कौशिकसूत्र २,१[१०].१६) <अहं रुद्रेभिर्[४.३०]> इति शुक्लपुष्पहरितपुष्पे किंस्त्यनाभिपिप्पल्यौ जातरूपशकलेन प्राक्स्तनग्रहात्प्राशयति (कौशिकसूत्र २,१[१०].१७) प्रथमप्रवदस्य मातुरुपस्थे तालूनि संपातानानयति (कौशिकसूत्र २,१[१०].१८) दधिमध्वाशयति (कौशिकसूत्र २,१[१०].१९) उपनीतं वाचयति वार्षशतिकं कर्म (कौशिकसूत्र २,१[१०].२०) <त्वं नो मेधे [६.१०८]> <द्यौश्च म [१२.१.३५]> इति भक्षयति (कौशिकसूत्र २,१[१०].२१) आदित्यमुपतिष्ठते (कौशिकसूत्र २,१[१०].२२) <यदग्ने तपसा [७.६१]> इत्याग्रहायण्यां भक्षयति (कौशिकसूत्र २,१[१०].२३) अग्निमुपतिष्ठते (कौशिकसूत्र २,१[१०].२४) <प्रातरग्निं [३.१६]> <गिरावरगराटेषु [६.६९]> <दिवस्पृथिव्याः [६.१२५.२]> इति संहाय मुखं विमार्ष्टि (कौशिकसूत्र २,२[११].१) पूर्वस्य ब्रह्मचारिसांपदानि (कौशिकसूत्र २,२[११].२) औदुम्बर्यादयः (कौशिकसूत्र २,२[११].३) ब्रह्मचार्यावसथादुपस्तरणान्यादधाति (कौशिकसूत्र २,२[११].४) पिपीलिकोद्वापे मेदोमधुश्यामाकेषीकतूलान्याज्यं जुहोति (कौशिकसूत्र २,२[११].५) आज्यशेषे पिपीलिकोद्वापानोप्य ग्राममेत्य सर्वहुतान् (कौशिकसूत्र २,२[११].६) ब्रह्मचारिभ्यो_अन्नं धानास्तिलमिश्राः प्रयछति (कौशिकसूत्र २,२[११].७) एतानि ग्रामसा.पदानि (कौशिकसूत्र २,२[११].८) विकार स्थूणामूलावतक्षणानि सभानामुपस्तरणानि (कौशिकसूत्र २,२[११].९) ग्रामीणेभ्यो_अन्नम् (कौशिकसूत्र २,२[११].१०) सुरां सुरापेभ्यः (कौशिकसूत्र २,२[११].११) औदुम्बरादीन्य्भक्षणान्तानि सर्वसांपदानि (कौशिकसूत्र २,२[११].१२) त्रिर्ज्योतिः कुरुते (कौशिकसूत्र २,२[११].१३) उपतिष्ठते (कौशिकसूत्र २,२[११].१४) सव्यात्पाणिहृदयाल्लोहितं रसमिश्रमश्नाति (कौशिकसूत्र २,२[११].१५) पृश्निमन्थः (कौशिकसूत्र २,२[११].१६) जिह्वाया उत्साद्यमक्ष्योः +परिस्तरणं मस्तृहणं [एद्. परिस्तरणमस्तृहणं॑ सेए ंष्ष्३४ (१९७६), प्. २३ .] हृदयं दूर्श उपनह्य तिस्रो रात्रीः पल्पूलने वासयति (कौशिकसूत्र २,२[११].१७) चूर्णानि करोति (कौशिकसूत्र २,२[११].१८) मैश्रधान्ये मन्थ ओप्य दधिमधुमिश्रमश्नाति (कौशिकसूत्र २,२[११].१९) <अस्मिन् वसु [१.९]> <यदाबध्नन् [१.३५]> <नव प्राणान् [५.२८]> इति युग्मकृष्णलं वासितं बध्नाति (कौशिकसूत्र २,२[११].२०) सारूपवत्सं पुरुषगात्रं द्वादशरात्रं संपातवन्तं कृत्वानभिमुखनश्नाति (कौशिकसूत्र २,३[१२].१) <कथं महे [५.११]> इति मादानकशृतं क्षीरौदनमश्नाति (कौशिकसूत्र २,३[१२].२) चमसे सरूपवत्साया दुग्धे व्रीहियवाववधाय मूर्छयित्वा मध्वासिच्याश्यति (कौशिकसूत्र २,३[१२].३) <पृथिव्यै श्रोत्राय [६.१०]> इति जुहोति (कौशिकसूत्र २,३[१२].४) <वत्सो विराजो [१३.१.३३]> इति मन्थान्तानि (कौशिकसूत्र २,३[१२].५) <सहृदयं [३.३०]> <तदू षु [५.१.५]> <सं जानीध्वम् [६.६४]> <एह यातु [६.७३]> <सं वः पृच्यन्तां [६.७४]> <सं वो मनांसि [६.९४]> <संज्ञानं नः [७.५२]> इति सांमनस्यानि (कौशिकसूत्र २,३[१२].६) उदकूलिजं संपातवन्तं ग्रामं परिहृत्य मध्ये निनयति (कौशिकसूत्र २,३[१२].७) एवं सुराकूलिजम् (कौशिकसूत्र २,३[१२].८) त्रिहायण्या वत्सतर्याः शुक्त्यानि [सेए Cअलन्द्, Zऋ] पिशितान्याशयति (कौशिकसूत्र २,३[१२].९) भक्तं सुरां प्रपां संपातवत्करोति (कौशिकसूत्र २,३[१२].१०) पूर्वस्य <ममाग्ने वर्चो [५.३]> इति वर्चस्यानि (कौशिकसूत्र २,३[१२].११) औदुम्बर्यादीनि त्रीणि (कौशिकसूत्र २,३[१२].१२) कुमार्या दक्षिणमूरुमभिमन्त्रयते (कौशिकसूत्र २,३[१२].१३) वपां जुहोति (कौशिकसूत्र २,३[१२].१४) अग्निमुपतिष्ठते (कौशिकसूत्र २,३[१२].१५) <प्रातरग्निं [३.१६]> <गिरावरगराटेषु [६.६९]> <दिवस्पृथिव्याः [६.१२५.२]> इति दधिमध्वाशयति (कौशिकसूत्र २,३[१२].१६) कीलालमिश्रं क्षत्रियं कीलालमितरान् (कौशिकसूत्र २,४[१३].१) <हस्तिवर्चसम् [३.२२]> इति हस्तिनम् (कौशिकसूत्र २,४[१३].२) हास्तिदन्तं बध्नाति (कौशिकसूत्र २,४[१३].३) लोमानि जतुना संदिह्य जातरूपेणापिधाप्य (कौशिकसूत्र २,४[१३].४) <सिंहे व्याघ्रे [६.३८]> <यशो हविर्[६.३९]> इति स्नातकसिंहव्याघ्रबस्तकृष्णवृषभराज्ञां नभिलोमानि (कौशिकसूत्र २,४[१३].५) दशानां शान्तवृक्षाणां शकलानि (कौशिकसूत्र २,४[१३].६) एतयोः <प्रातरग्निं [३.१६]> <गिरावरगराटेषु [६.६९]> <दिवस्पृथिव्याः [६.१२५.२]> इति सप्त मर्माणि स्थालीपाके पृक्तान्यश्नाति (कौशिकसूत्र २,४[१३].७) अकुशलं यो ब्राह्मणो लोहितमश्नीयादिति गार्ग्यः (कौशिकसूत्र २,४[१३].८) उक्तो लोममणिः (कौशिकसूत्र २,४[१३].९) सर्वैराप्लावयति (कौशिकसूत्र २,४[१३].१०) अवसिञ्चति (कौशिकसूत्र २,४[१३].११) चतुरङ्गुलं तृणं रजोहरणबिन्दुना_ [सेए Cअलन्द्, Zऋ] _अभिश्चोत्य_उपमथ्य (कौशिकसूत्र २,४[१३].१२) शुनि किलासमजे पलितं तृणे ज्वरो यो_अस्मान् द्वेष्टि यं च वयं द्विष्मस्तस्मिन् राजयक्ष्म इति दक्षिणा तृणं निरस्यति गन्धप्रवादाभिरलं कुरुते (कौशिकसूत्र २,५[१४].१) पूर्वस्य हस्तित्रसनानि (कौशिकसूत्र २,५[१४].२) रथचक्रेण संपातवता प्रतिप्रवर्तयति (कौशिकसूत्र २,५[१४].३) यानेनाभियाति (कौशिकसूत्र २,५[१४].४) वादित्रैः (कौशिकसूत्र २,५[१४].५) दृतिवस्त्योरोप्य शर्कराः (कौशिकसूत्र २,५[१४].६) तोत्त्रेण नग्नप्रछन्नः (कौशिकसूत्र २,५[१४].७) <विद्मा शरस्य [१.२]> <मा नो विदन् [१.१९]> <अदारसृद्[१.२०]> <स्वस्तिदा [१.२१]> <अव मन्युर्[६.६५]> <निर्हस्तः [६.६६]> <परि वर्त्मान्य्[६.६७]> <अभिभूर्[६.९७]> <इन्द्रो जयाति [६.९८]> <अभि त्वेन्द्र [६.९९]> इति सांग्रामिकानि (कौशिकसूत्र २,५[१४].८) आज्यसक्तूञ्जुहोति (कौशिकसूत्र २,५[१४].९) धनुरिध्मे धनुः समिधमादधाति (कौशिकसूत्र २,५[१४].१०) एवमिष्विध्मे (कौशिकसूत्र २,५[१४].११) धनुः संपातवद्विमृज्य प्रयछति (कौशिकसूत्र २,५[१४].१२) प्रथमस्य_इषुपर्ययणानि (कौशिकसूत्र २,५[१४].१३) द्रुघ्न्यार्त्नीज्यापाशतृणमूलानि बध्नाति (कौशिकसूत्र २,५[१४].१४) <आरे असाव्[१.२६]> इत्यपनोदनानि (कौशिकसूत्र २,५[१४].१५) फलीकरणतुषबुसावतक्षणान्यावपति (कौशिकसूत्र २,५[१४].१६) अन्वाह (कौशिकसूत्र २,५[१४].१७) <अग्निर्नः शत्रून् [३.१]> अग्निर्नो दूतः [३.२]> इति मोहनानि (कौशिकसूत्र २,५[१४].१८) ओदनेन_उपयम्य फलीकरणानुलूखलेन जुहोति (कौशिकसूत्र २,५[१४].१९) एवमणून् (कौशिकसूत्र २,५[१४].२०) एकविंशत्या शर्कराभिः प्रतिनिष्पुनाति (कौशिकसूत्र २,५[१४].२१) अप्वां यजते (कौशिकसूत्र २,५[१४].२२) <संशितम् [३.१९]> इति शितिपदीं संपातवतीमवसृजति (कौशिकसूत्र २,५[१४].२३) उद्वृधत्सु [Cअलन्दुद्धृष्यत्सु?] योजयेत् (कौशिकसूत्र २,५[१४].२४) <इममिन्द्र [४.२२ । ४.२३]> इति युक्तयोः प्रदानान्तानि (कौशिकसूत्र २,५[१४].२५) दिग्युक्ताभ्यां [३.२६ । ३.२७] <नमो देववधेभ्यो [६.१३]> इति उपतिष्ठते (कौशिकसूत्र २,५[१४].२६) <त्वया मन्यो [४.३१]> <यस्ते मन्यो [४.३२]> इति संरम्भणानि (कौशिकसूत्र २,५[१४].२७) सेने समीक्षमाणो जपति (कौशिकसूत्र २,५[१४].२८) भाङ्गमौञ्जान् पाशनिङ्गिडालंकृतान् संपातवतो_अनूक्तान् सेनाक्रमेषु वपति (कौशिकसूत्र २,५[१४].२९) एवमामपात्राणि (कौशिकसूत्र २,५[१४].३०) इङ्गिडेन संप्रोक्ष्य तृणान्याङ्गिरसेनाग्निना दीपयति (कौशिकसूत्र २,५[१४].३१) यां धूमो_अवतनोति तां जयन्ति (कौशिकसूत्र २,६[१५].१) <ऋधङ्मन्त्रस्[५.१]> <तदिदास [५.२]> इत्याश्वत्थ्यां पात्र्यां त्रिवृति गोमयपरिचये हस्तिपृष्ठे पुरुषशिरसि वामित्राञ्जुह्वदभिप्रक्रम्य निवपति (कौशिकसूत्र २,६[१५].२) +वराहविहताद्[एद्. वराहविहिताद्॑ Cअलन्द्, Kल्.ष्छ्र्. प्. ७०] राजानो वेदिं कुर्वन्ति (कौशिकसूत्र २,६[१५].३) तस्यां प्रदानान्तानि (कौशिकसूत्र २,६[१५].४) एकेष्वा हतस्यादहने_उपसमाधाय दीर्घदण्डेण स्रुवेण रथ्चक्रस्य खेन समया जुहोति (कौशिकसूत्र २,६[१५].५) योजनीयं श्रुत्वा योजयेत् (कौशिकसूत्र २,६[१५].६) <यदि चिन्नु त्वा [५.२.४]> <नमो देववधेभ्यो [६.१३]> इत्यन्वाह (कौशिकसूत्र २,६[१५].७) वैश्याय प्रदानान्तानि (कौशिकसूत्र २,६[१५].८) <त्वया वयम् [५.२.५]> इति आयुधिग्रामण्ये (कौशिकसूत्र २,६[१५].९) <नि तद्दधिषे [५.२.६]>_इति राज्ञोदपात्रं द्वौद्वौ_अवेक्षयेत् (कौशिकसूत्र २,६[१५].१०) +यं [एद्. यन्॑ Cअलन्द्, Kल्.ष्छ्र्. प्. ५७] न पश्येद्न युध्येत (कौशिकसूत्र २,६[१५].११) <नि तद्दधिषे [५.२.६]> <वनस्पते [१२.३.३३]> <अया विष्ठा [७.३]> <अग्न इन्द्रश्[७.११०]> <दिशस्चतस्रो [८.८.२२]> इति नवं रथं राजानं ससारथिमास्थापयति (कौशिकसूत्र २,६[१५].१२) <ब्रह्म जज्ञानम् [५.६]> इति जीवितविज्ञानम् (कौशिकसूत्र २,६[१५].१३) तिस्रः स्नावरज्जूरङ्गारेषु_अवधाय (कौशिकसूत्र २,६[१५].१४) उत्कुचतीषु कल्याणम् (कौशिकसूत्र २,६[१५].१५) सांग्रामिकमेता व्यादिशति मध्ये मृत्युरितरे सेने (कौशिकसूत्र २,६[१५].१६) पराजेष्यमाणान्मृत्युरतिवर्तते ज्येष्यन्तो मृत्युम् [नोते चोन्ज्. ष्पेइजेर्ंुसेउम् ९ २४९] (कौशिकसूत्र २,६[१५].१७) अग्रेषूत्कुचत्सु मुख्या हन्यन्ते मध्येषु मध्या अन्तेषु_अवरे (कौशिकसूत्र २,६[१५].१८) एवमिषीकाः (कौशिकसूत्र २,७[१६].१) <उच्चैर्घोषो [५.२०]> <उप श्वासय [६.१२६]> इति सर्ववादित्राणि प्रक्षाल्य तगर_उशीरेण संधाव्य संपातवन्ति त्रिराहत्य प्रयछति (कौशिकसूत्र २,७[१६].२) <विहृदयम् [५.२१]> इत्युच्चैस्तरां (?) हुत्वा स्रुवमुद्वर्तयन् (कौशिकसूत्र २,७[१६].३) सोमांशुं हरिणचर्मणि_उत्सीव्य क्षत्रियाय बध्नाति (कौशिकसूत्र २,७[१६].४) <परि वर्त्मानि [६.६७]> <इन्द्रो जयाति [६.९८]> इति राजा त्रिः सेनां परियाति (कौशिकसूत्र २,७[१६].५) उक्तः पूर्वस्य सोमांशुः (कौशिकसूत्र २,७[१६].६) <संदानं वो [६.१०३]> <आदानेन [६.१०४]> इति पाशैरादानसंदानानि (कौशिकसूत्र २,७[१६].७) <मर्माणि ते [७.११८]> इति क्षत्रियं संनाहयति (कौशिकसूत्र २,७[१६].८) अभयानामप्ययः (कौशिकसूत्र २,७[१६].९) <इन्द्रो मन्थतु [८.८]> इति (कौशिकसूत्र २,७[१६].१०) <पूतिरज्जुर्[८.८.२ ब्]> इति पूतिरज्जुमवधाय (कौशिकसूत्र २,७[१६].११) अश्वत्थबधकयोरग्निं मन्थति (कौशिकसूत्र २,७[१६].१२) <धूमम् [८.८.२ द्]> इति धूममनुमन्त्रयते (कौशिकसूत्र २,७[१६].१३) <अग्निम् [८.८.२ द्]> इत्यग्निम् (कौशिकसूत्र २,७[१६].१४) तस्मिन्नरण्ये सपत्नक्षयणीरादधात्यश्वत्थ_बधक_ताजद्भङ्ग_आह्व_खदिर_शराणाम् (कौशिकसूत्र २,७[१६].१५) उक्ताः पाशाः (कौशिकसूत्र २,७[१६].१६) आश्वत्थानि कूटानि भाङ्गानि जालानि (कौशिकसूत्र २,७[१६].१७) बाधकदण्डानि (कौशिकसूत्र २,७[१६].१८) <स्वाहैभ्यो [८.८.२४ द्]> इति मित्रेभ्यो जुहोति (कौशिकसूत्र २,७[१६].१९) <दुराहामीभ्य [८.८.२४ द्]> इति सव्येन_इङ्गिडममित्रेभ्यो बाधके (कौशिकसूत्र २,७[१६].२०) उत्तरतो_अग्नेर्लोहिताश्वत्थस्य शाखां निहत्य नीललोहिताभ्यां सूत्राभ्यां परितत्य <नीललोहितेनामून् [८.८.२४ ]> इति दक्षिणा प्रहापयति (कौशिकसूत्र २,७[१६].२१) <ये बाहव्[११.९]> <उत्तिष्ठत [११.१०]> इति यथालिङ्गं संप्रेष्यति (कौशिकसूत्र २,७[१६].२२) होमार्थे पृषदाज्यम् (कौशिकसूत्र २,७[१६].२३) प्रदानान्तानि वाप्यानि (कौशिकसूत्र २,७[१६].२४) वाप्यैस्त्रिषन्धीनि वज्ररूपाण्यर्बुदिरूपाणि (कौशिकसूत्र २,७[१६].२५) शितिपदीं संपातवतीं दर्भरज्ज्वा क्षत्रियाय_उपसङ्गदण्डे बध्नाति (कौशिकसूत्र २,७[१६].२६) द्वितीयामस्यति (कौशिकसूत्र २,७[१६].२७) <अस्मिन् वसु [१.९]> इति राष्ट्रावगमनम् (कौशिकसूत्र २,७[१६].२८) आनुशूकानां व्रीहीणामाव्रस्कजैः काम्पीलैः शृतं सारूपवत्समाशयति (कौशिकसूत्र २,७[१६].२९) <अभीवर्तेन [१.२९]> इति रथनेमिमणिमयःसीसलोहरजतताम्रवेष्टितं हेमनाभिं वासितं बद्ध्वा सूत्रोतं बर्हिषि कृत्वा संपातवन्तं प्रत्यृचं भृष्टीरभीवर्त्तोत्तमाभ्यामाचृतति (कौशिकसूत्र २,७[१६].३०) <अचिक्रदत्[३.३]> <आ त्वा गन् [३.४]> इति यस्माद्राष्ट्रादवरुद्धस्तस्याशायां शयनविधं पुरोडाशं दर्भेषूदके निनयति (कौशिकसूत्र २,७[१६].३१) ततो लोष्टेन ज्योतिरायतनं संस्तीर्य क्षीरौदनमश्नाति (कौशिकसूत्र २,७[१६].३२) यतो लोष्टस्ततः संभाराः (कौशिकसूत्र २,७[१६].३३) तिसृणां प्रातरशिते पुरोडाशे ह्वयन्ते (कौशिकसूत्र २,८[१७].१) <भूतो भूतेषु [४.८]> इति राजानमभिषेक्ष्यन्महानदे शान्त्युदकं करोत्यादिष्टानाम् (कौशिकसूत्र २,८[१७].२) स्थालीपाकं श्रपयित्वा दक्षिणतः परिगृह्याया दर्भेषु तिष्ठन्तमभिषिञ्चति (कौशिकसूत्र २,८[१७].३) तल्पार्षभं चर्मारोहयति (कौशिकसूत्र २,८[१७].४) उदपात्रं समासिञ्चेते (कौशिकसूत्र २,८[१७].५) विपरिदधाने (कौशिकसूत्र २,८[१७].६) सहैव नौ सुकृतं सह दुष्कृतमिति ब्रह्मा ब्रूयात् (कौशिकसूत्र २,८[१७].७) यो दुष्कृतं करवत्तस्य दुष्कृतं सुकृतं नौ सहेति (कौशिकसूत्र २,८[१७].८) आशयति (कौशिकसूत्र २,८[१७].९) अश्वमारोह्यापराजितां प्रतिपादयति (कौशिकसूत्र २,८[१७].१०) सहस्रं ग्रामवरो दक्षिणा (कौशिकसूत्र २,८[१७].११) विपरिधानान्तमेकराजेन व्याख्यातम् (कौशिकसूत्र २,८[१७].१२) तल्पे दर्भेष्वभिशिञ्चति (कौशिकसूत्र २,८[१७].१३) वर्षीयसि वैयाघ्रं चर्मारोहयति (कौशिकसूत्र २,८[१७].१४) चत्वारो राजपुत्रास्ताल्पाः पृथक्पादेषु शयनं परामृश्य सभां प्रापयन्ति (कौशिकसूत्र २,८[१७].१५) दासः पादौ प्रक्षालयति (कौशिकसूत्र २,८[१७].१६) महाशूद्र उपसिञ्चति (कौशिकसूत्र २,८[१७].१७) कृतसंपन्नानक्षाना तृतीयं विचिनोति (कौशिकसूत्र २,८[१७].१८) वैश्यः सर्वस्वजैनमुपतिष्ठते_उत्सृजायुष्मन्निति (कौशिकसूत्र २,८[१७].१९) उत्सृजामि ब्राह्मणाय_उत्सृजामि क्षत्रियाय_उत्सृजामि वैश्याय धर्मो मे जनपदे चर्यतामिति (कौशिकसूत्र २,८[१७].२०) प्रतिपद्यते (कौशिकसूत्र २,८[१७].२१) आशयति (कौशिकसूत्र २,८[१७].२२) अश्वमारोह्यापराजितां प्रतिपादयति (कौशिकसूत्र २,८[१७].२३) सभामुदायाति (कौशिकसूत्र २,८[१७].२४) मधुमिश्रं ब्राह्मणान् भोजयति (कौशिकसूत्र २,८[१७].२५) रसानाशयति (कौशिकसूत्र २,८[१७].२६) माहिषाण्युपयाति (कौशिकसूत्र २,८[१७].२७) कुर्युर्गामिति गार्ग्यपार्थश्रवसौ नेति भागलिः (कौशिकसूत्र २,८[१७].२८) <इममिन्द्र वर्धय क्षत्रियं मे [४.२२]> इति क्षत्रियं प्रातः_प्रातरभिमन्त्रयते (कौशिकसूत्र २,८[१७].२९) उक्तं समासेचनं विपरिधानम् (कौशिकसूत्र २,८[१७].३०) <सविता प्रसवानाम् [५.२४]> इति पौरोहित्ये वत्स्यन् वैश्वलोपीः समिध आधाय (कौशिकसूत्र २,८[१७].३१) <इन्द्र क्षत्रम् [७.८४.२]> इति क्षत्रियमुपनयीत (कौशिकसूत्र २,८[१७].३२) तदाहुर्न क्षत्रियं सावित्रीं वाचयेदिति (कौशिकसूत्र २,८[१७].३३) कथं नु तमुपनयीत यन्न वाचयेद् (कौशिकसूत्र २,८[१७].३४) वाचयेदेव वाचयेदेव (Kऔश्ष्२ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे द्वितीयोऽध्यायः समाप्तः (कौशिकसूत्र ३,१[१८].१) पूर्वस्य पूर्वस्यां पौर्णमास्यामस्तमित उदकान्ते कृष्णचैलपरिहितो निरृतिकर्माणि प्रयुङ्क्ते (कौशिकसूत्र ३,१[१८].२) नाव्याया दक्षिणावर्ते शापेटं निखनेत् (कौशिकसूत्र ३,१[१८].३) अपां सूक्तैरवसिञ्चति (कौशिकसूत्र ३,१[१८].४) अप्सु कृष्णं जहाति (कौशिकसूत्र ३,१[१८].५) अहतवसन उपमुच्य_उपानहौ जीवघात्याया उदाव्रजति (कौशिकसूत्र ३,१[१८].६) प्रोष्य तामुत्तरस्यां सांपदं कुरुते (कौशिकसूत्र ३,१[१८].७) शापेटमालिप्याप्सु निबध्य तस्मिन्नुपसमाधाय संपातवन्तं करोति (कौशिकसूत्र ३,१[१८].८) अश्नाति (कौशिकसूत्र ३,१[१८].९) आधाय कृष्णं प्रवाहयति (कौशिकसूत्र ३,१[१८].१०) उपमुच्य जरदुपानहौ सव्येन जरत्_छत्त्रं दक्षिणेन शालातृणाण्यादीप्य जीर्णं वीरिणमभिन्यस्यति (कौशिकसूत्र ३,१[१८].११) अनावृतमावृत्य सकृज्जुहोति (कौशिकसूत्र ३,१[१८].१२) सव्यं प्रहरत्युपानहौ च (कौशिकसूत्र ३,१[१८].१३) जीर्णे वीरिण उपसमाधाय <अयं ते योनिर्[३.२०]> इति जरत्कोष्ठाद्व्रीहीञ्शर्करामिश्रानावपति (कौशिकसूत्र ३,१[१८].१४) <आ नो भर [५.७]> इति धानाः (कौशिकसूत्र ३,१[१८].१५) युक्ताभ्यां सह कोष्ठाभ्यां तृटीयाम् (कौशिकसूत्र ३,१[१८].१६) कृष्णशकुनेः सव्यजङ्घायामङ्कमनुबध्याङ्के पुरोडाशं <प्र पतेतः [७.११५]> इति अनावृतं प्रपादयति (कौशिकसूत्र ३,१[१८].१७) नीलं संधाय लोहितमाछाद्य शुक्लं परिणह्य द्वितीयया_उष्णीषमङ्केन_उपसाद्य सव्येन सहाङ्केनावाङप्सु_अपविध्यति (कौशिकसूत्र ३,१[१८].१८) तृतीयया छन्नं चतुर्थ्या संवीतम् (कौशिकसूत्र ३,१[१८].१९) पूर्वस्य चित्राकर्म (कौशिकसूत्र ३,१[१८].२०) कुलायशृतं [एद्. कुलाय श्, बुत्दृष्टव्यम्‌ Cअलन्द्Kल्. ष्छ्र्. ५८] हरितबर्हिषमश्नाति (कौशिकसूत्र ३,१[१८].२१) अन्वक्ताः प्रादेशमात्रीरादधाति (कौशिकसूत्र ३,१[१८].२२) नाव्ययोः सांवैद्ये पश्चादग्नेर्भूमिपरिलेखे कीलालं मुखेनाश्नाति (कौशिकसूत्र ३,१[१८].२३) तेजोव्रतं त्रिरात्रमश्नाति (कौशिकसूत्र ३,१[१८].२४) तद्भक्षः (कौशिकसूत्र ३,१[१८].२५) शंभुमयोभुभ्यां [१.५ + १.६]> <ब्रह्म जज्ञानम् [४.१.१]> <अस्य वामस्य [९.९]> <यो रोहितो [१३.१.२५]> <उदस्य केतवो [१३.२.१]> <मूर्धाहं [१६.३.१]> <विषासहिम् [१७.१.१५]> इति सलिलैः क्षीरौदनमश्नाति (कौशिकसूत्र ३,१[१८].२६) मन्थान्तानि (कौशिकसूत्र ३,१[१८].२७) द्वितीयेन प्रवत्स्यन् हविषामुपदधीत (कौशिकसूत्र ३,१[१८].२८) अथ प्रत्येत्य (कौशिकसूत्र ३,१[१८].२९) अथ प्रत्येत्य (कौशिकसूत्र ३,१[१८].३०) अथ प्रार्थयमाणः (कौशिकसूत्र ३,१[१८].३१) अथ प्रार्थयमाणः (कौशिकसूत्र ३,१[१८].३२) चत्वारो धायाः पलाशयष्टीनां भवन्ति (कौशिकसूत्र ३,१[१८].३३) दर्भाणामुपोलवानां चत्वारः (कौशिकसूत्र ३,१[१८].३४) तं व्यतिषक्तमष्टावरमिध्मं सात्त्रिके_अग्नौ_आधायाज्येनाभिजुहुयात् (कौशिकसूत्र ३,१[१८].३५) धूमं नियछेत (कौशिकसूत्र ३,१[१८].३६) लेपं प्राश्नीयात् (कौशिकसूत्र ३,१[१८].३७) तमु चेन्न विन्देदथ सत्त्रस्यायतने यज्ञायतनमिव कृत्वा (कौशिकसूत्र ३,१[१८].३८) समुद्र इत्याचक्षते कर्म (कौशिकसूत्र ३,२[१९].१) <अम्बयो यन्त्य्[१.४.१]> शंभुमयोभुभ्यां [१.५ + १.६] <ब्रह्म जज्ञानम् [४.१]> <आ गावो [४.२१.१]> <एका च मे [५.१५.१]> इति गा लवणं पाययत्युपतापिनीः (कौशिकसूत्र ३,२[१९].२) प्रजननकामाः (कौशिकसूत्र ३,२[१९].३) प्रपामवरुणद्धि (कौशिकसूत्र ३,२[१९].४) <सं सं स्रवन्तु [१.१५.१]> इति नाव्याभ्यामुदकमाहरतः सर्वत उपासेचम् (कौशिकसूत्र ३,२[१९].५) तस्मिन्मैश्रधान्यं शृतमश्नाति (कौशिकसूत्र ३,२[१९].६) मन्थं वा दधिमधुमिश्रम् (कौशिकसूत्र ३,२[१९].७) यस्य श्रियं कामयते ततो व्रीहि_आज्यपय आहार्य क्षीरौदनमश्नाति (कौशिकसूत्र ३,२[१९].८) तदलाभे हरितगोमयमाहार्य शोषयित्वा त्रिवृति गोमयपरिचये शृतमश्नाति (कौशिकसूत्र ३,२[१९].९) <शेरभक [२.२४.१]> इति सामुद्रमप्सु कर्म व्याख्यातम् (कौशिकसूत्र ३,२[१९].१०) अनपहतधाना लोहिताजाया द्रप्सेन संनीयाश्नाति (कौशिकसूत्र ३,२[१९].११) एतावदुपैति (कौशिकसूत्र ३,२[१९].१२) तृणानां ग्रन्थीनुद्ग्रथ्नन्नपक्रामति (कौशिकसूत्र ३,२[१९].१३) तानुदाव्रजन्नुदपात्रस्य_उदपात्रेणाभिप्लावयति मुखं विमार्ष्टि [नोते चोन्ज्. ष्पेइजेर्ंुसेउम् ९ २५०] (कौशिकसूत्र ३,२[१९].१४) <एह यन्तु पशवो [२.२६.१]> <सं वो गोष्ठेन [३.२४.१]> <प्रजावतीः [४.२१.७ । ७.७५]> <प्रजापतिर्[६.११.३]> इति गोष्ठकर्माणि (कौशिकसूत्र ३,२[१९].१५) गृष्टेः पीयूषं श्लेष्ममिश्रमश्नाति (कौशिकसूत्र ३,२[१९].१६) गां ददाति (कौशिकसूत्र ३,२[१९].१७) उदपात्रं निनयति (कौशिकसूत्र ३,२[१९].१८) समूह्य सव्येनाधिष्ठायार्धं दक्षिणेन विक्षिपति (कौशिकसूत्र ३,२[१९].१९) सारूपवत्से शकृत्पिण्डान् गुग्गुलुलवणे प्रतिनीय पश्चादग्नेर्निखनति (कौशिकसूत्र ३,२[१९].२०) तिसृणां प्रातरश्नाति (कौशिकसूत्र ३,२[१९].२१) विकृते संपन्नम् (कौशिकसूत्र ३,२[१९].२२) <आयमगन् [३.५.१]> <अयं प्रतिसरो [८.५.१]> <अयं मे वरणो [१०.३.१]> <अरातीयोर्[१०.६.१]> इति मन्त्रोक्तान् वासितान् बध्नाति (कौशिकसूत्र ३,२[१९].२३) उत्तमस्य चतुरो जातरूपशकलेनानुसूत्रं गमयित्वावभुज्य त्रैधं पर्यस्यति (कौशिकसूत्र ३,२[१९].२४) <एतमिध्मम् [१०.६.३५]> इत्युपसमाधाय (कौशिकसूत्र ३,२[१९].२५) <तमिमं देवता [१०.६.२९]> इति वासितमुल्लुप्य <ब्रह्मणा तेजसा [१०.६.३०]> इति बध्नाति (कौशिकसूत्र ३,२[१९].२६) <उत्तमो असि [६.१५.१]> इति मन्त्रोक्तम् (कौशिकसूत्र ३,२[१९].२७) <अक्षितास्त [६.१४२.३]> इति यवमणिम् (कौशिकसूत्र ३,२[१९].२८) <प्रथमा ह व्युवास सा [३.१०]> इत्यष्टक्याया वपां सर्वेण सूक्तेन त्रिर्जुहोति (कौशिकसूत्र ३,२[१९].२९) समवत्तानां स्थालीपाकस्य (कौशिकसूत्र ३,२[१९].३०) सहहुतानाज्यमिश्रान् हुत्वा पश्चादग्नेर्वाग्यतः संविशति (कौशिकसूत्र ३,२[१९].३१) महाभूतानां कीर्तयन् संजिहीते (कौशिकसूत्र ३,३[२०].१) <सीरा युञ्जन्ति [३.१७.१]> इति युगलाङ्गलं प्रतनोति (कौशिकसूत्र ३,३[२०].२) दक्षिणमुष्टारं प्रथमं युनक्ति (कौशिकसूत्र ३,३[२०].३) <एहि पूर्णक []>_इत्युत्तरम् (कौशिकसूत्र ३,३[२०].४) कीनाशा इतरान् (कौशिकसूत्र ३,३[२०].५) <अश्विना फालं कल्पयतामुपावतु बृहस्पतिः । यथासद्बहुधान्यमयक्ष्मं बहुपूरुषम् [ড়्ष्८.१८.६]> इति फालमतिकर्षति (कौशिकसूत्र ३,३[२०].६) <इरावानसि धार्तराष्ट्रे तव मे सत्त्रे राध्यताम् []> इति प्रतिमिमीते (कौशिकसूत्र ३,३[२०].७) <अपहताः प्रतिष्ठाः []> इत्यपूपैः प्रतिहत्य कृषति (कौशिकसूत्र ३,३[२०].८) सूक्तस्य पारं गत्वा प्रयछति (कौशिकसूत्र ३,३[२०].९) तिस्रः सीताः प्राचीर्गमयन्ति कल्याणीर्वाचो वदन्तः (कौशिकसूत्र ३,३[२०].१०) <सीते वन्दामहे त्वा [३.१७.८]> इत्यावर्तयित्वा_उत्तरस्मिन् सीतान्ते पुरोडाशेन_इन्द्रं यजते (कौशिकसूत्र ३,३[२०].११) अश्विनौ स्थालीपाकेन (कौशिकसूत्र ३,३[२०].१२) सीतायां संपातानानयन्ति (कौशिकसूत्र ३,३[२०].१३) उदपात्रे_उत्तरान् (कौशिकसूत्र ३,३[२०].१४) शष्पहविषामवधाय (कौशिकसूत्र ३,३[२०].१५) सर्वमनक्ति (कौशिकसूत्र ३,३[२०].१६) यत्र संपातानानयति ततो लोष्टं धारयन्तं पत्नी पृछत्यकृक्षत_इति (कौशिकसूत्र ३,३[२०].१७) अकृक्षाम_इति (कौशिकसूत्र ३,३[२०].१८) किमाहार्षीरिति (कौशिकसूत्र ३,३[२०].१९) <वित्तिं भूतिं पुष्टिं प्रजां पशूनन्नमन्नाद्यम् [दृष्टव्यम्‌ इ.अ. ড়्ष्५.३५.१, ড়्ष्१९.५३.१९? (= ড়्ष्K १९.५३.१०)]> इति (कौशिकसूत्र ३,३[२०].२०) उत्तरतो मध्यमायां निवपति (कौशिकसूत्र ३,३[२०].२१) अभ्यज्य_उत्तरफालं प्रातरायोजनाय निदधाति (कौशिकसूत्र ३,३[२०].२२) सीताशिरःसु दर्भानास्तीर्य प्लक्ष_उदुम्बरस्य त्रींस्_त्रींश्चमसान्निदधाति (कौशिकसूत्र ३,३[२०].२३) रसवतो दक्षिणे शष्पवतो मध्यमे पुरोडाशवत उत्तरे (कौशिकसूत्र ३,३[२०].२४) दर्भान् प्रत्यवभुज्य संवपति (कौशिकसूत्र ३,३[२०].२५) सारूपवत्से शकृत्पिण्डान् गुग्गुलुलवणे प्रतिनीयाश्नाति (कौशिकसूत्र ३,३[२०].२६) अनडुत्सांपदम् (कौशिकसूत्र ३,४[२१].१) <पयस्वतीर्[३.२४]> इति स्फातिकरणम् (कौशिकसूत्र ३,४[२१].२) शान्तफलशिलाकृतिलोष्टवल्मीकराशिवापं त्रीणि कूदीप्रान्तानि मध्यमपलाशे दर्भेण परिवेष्ट्य राशिपल्येषु करोति (कौशिकसूत्र ३,४[२१].३) सायं भुञ्जते (कौशिकसूत्र ३,४[२१].४) प्रत्यावपन्ति शेषम् (कौशिकसूत्र ३,४[२१].५) आ भक्तयातनात् (कौशिकसूत्र ३,४[२१].६) अनुमन्त्रयते (कौशिकसूत्र ३,४[२१].७) <अयं नो नभसस्पतिः [६.७९]> इति पल्ये_अश्मानं संप्रोक्ष्यान्वृचं काशी ओप्यावापयति (कौशिकसूत्र ३,४[२१].८) <आ गावो [४.२१]> इति गा आयतीः प्रत्युत्तिष्ठति (कौशिकसूत्र ३,४[२१].९) प्रावृषि प्रथमधारस्य_इन्द्राय त्रिर्जुहोति (कौशिकसूत्र ३,४[२१].१०) <प्रजावतीः []> इति प्रतिष्ठमाना अनुमन्त्रयते (कौशिकसूत्र ३,४[२१].११) कर्कीप्रवादानां द्वादशदाम्न्यां संपातवत्याम् <अयं घासो ... इह वत्साम् [४.३८.७ द्]> इति मन्त्रोक्तम् (कौशिकसूत्र ३,४[२१].१२) <यस्ते शोकाय [५.१.३]> इति वस्त्रसांपदी (कौशिकसूत्र ३,४[२१].१३) तिस्रः कूदीमयीरूर्णनाभिकुलाय परिहिता अन्वक्ता आदधाति (कौशिकसूत्र ३,४[२१].१४) अत्यन्तेषीकामौञ्जपरिहिता [थुस्wइथ्Cअलन्द्, आZ प्. ५५, न्. ५] मधुना प्रलिप्य चिक्कशेषु पर्यस्य (कौशिकसूत्र ३,४[२१].१५) <उत पुत्रः [५.१.८]> इति ज्येष्ठं पुत्रमवसाययति (कौशिकसूत्र ३,४[२१].१६) मितशरणः सांपदं कुरुते (कौशिकसूत्र ३,४[२१].१७) <अर्धमर्धेन [५.१.९]> इत्यार्द्रपाणिरसंज्ञात्वा [सो Cअलन्द्॑ एद्. आर्द्रपाणी रसं ज्ञात्वा] प्रयछति (कौशिकसूत्र ३,४[२१].१८) शान्तशाखया प्राग्भागमपाकृत्य (कौशिकसूत्र ३,४[२१].१९) प्रत्यग्नि परिचृतति (कौशिकसूत्र ३,४[२१].२०) तस्या अमावास्यायां तिस्रः प्रादेशमात्रीरादधाति (कौशिकसूत्र ३,४[२१].२१) <त्वे क्रतुम् [५.२.३]> इति रसप्राशनी (कौशिकसूत्र ३,४[२१].२२) रसकर्माणि कुरुते (कौशिकसूत्र ३,४[२१].२३) <स्तुष्व वर्ष्मन् [५.२.७]> इति प्राजापत्यामावास्यायामस्तमिते वल्मीकशिरसि दर्भावस्तीर्णे_अध्यधि दीपं धारयंस्त्रिर्जुहोति (कौशिकसूत्र ३,४[२१].२४) तण्डुलसंपातानानीय रसैरुपसिच्याश्नाति (कौशिकसूत्र ३,४[२१].२५) एवं पौर्णमास्यामाज्य_ऊतान् (कौशिकसूत्र ३,५[२२].१) <ऋधङ्मन्त्रो [५.१]> <तदिदास [५.२]> इति मैश्रधान्यं भृष्टपिष्टं लोहितालंकृतं रसमिश्रमश्नाति (कौशिकसूत्र ३,५[२२].२) अभृष्टं प्लक्ष_उदुम्बरस्य_उत्तरतो_अग्नेस्त्रिषु चमसेषु पूर्वाह्णस्य तेजसाग्रमन्नस्य प्राशिषमिति पूर्वाह्णे (कौशिकसूत्र ३,५[२२].३) मध्यन्दिनस्य तेजसा मध्यमन्नस्य प्राशि.अमिति मध्यन्दिने (कौशिकसूत्र ३,५[२२].४) अपराह्णस्य तेजसा सर्वमन्नस्य प्राशिषमित्यपराह्णे (कौशिकसूत्र ३,५[२२].५) ऋतुमत्या स्त्रिया अङ्गुलिभ्यां लोहितम् (कौशिकसूत्र ३,५[२२].६) यत्क्षेत्रं कामयते तस्मिन् कीलालं दधिमधुमिश्रम् (कौशिकसूत्र ३,५[२२].७) संवत्सरं स्त्रियमनुपेत्य शुक्त्यां रेत आनीय तण्डुलमिश्रं सप्तग्रामम् (कौशिकसूत्र ३,५[२२].८) द्वादशीममावास्या_इति क्षीरभक्षो भवत्यमावास्यायां दधिमधुभक्षस्तस्य मूत्रे_उदकदधिमधुपल्पूलनानि_आसिच्य (कौशिकसूत्र ३,५[२२].९) <क्रव्यादं नाडी प्र विवेशाग्निं प्रजाभाङ्गिरतो माययैतौ । आवां देवी जुषाणे घृताची इममन्नाद्याय प्र विशतं स्वाहा []> इति (कौशिकसूत्र ३,५[२२].१०) निशायामाग्रयणतण्डुलानुदक्यान्मधुमिश्रान्निदधात्या यवानां पङ्क्तेः (कौशिकसूत्र ३,५[२२].११) एवं यवानुभयान् समोप्य (कौशिकसूत्र ३,५[२२].१२) त्रिवृति गोमयपरिचये शृतमश्नाति (कौशिकसूत्र ३,५[२२].१३) समृद्धमिति काङ्कायनः (कौशिकसूत्र ३,५[२२].१४) <ममाग्ने वर्चो [५.३]> इति सात्त्रिकानग्नीन् दर्भपूतीकभाङ्गाभिः परिस्तीर्य गार्हपत्यशृतं सर्वेषु संपातवन्तं गार्हपत्यदेशे_अश्नाति (कौशिकसूत्र ३,५[२२].१५) एवं पूर्वस्मिन्नपरयोरुपसंहृत्य (कौशिकसूत्र ३,५[२२].१६) एवं द्रोणकलशे रसानुक्तम् (कौशिकसूत्र ३,६[२३].१) <यजूंषि यज्ञे [५.२६]> इति नवशालायां सर्पिर्मधुमिश्रमश्नाति [बुत्Cअलन्द्जुहोति] (कौशिकसूत्र ३,६[२३].२) <दोषो गाय [६.१]> इति द्वितीयाम् (कौशिकसूत्र ३,६[२३].३) युक्ताभ्यां तृतीयाम् (कौशिकसूत्र ३,६[२३].४) आनुमतीं चतुर्थीम् (कौशिकसूत्र ३,६[२३].५) शालामङ्गुलिभ्यां संप्रोक्ष्य गृहपत्न्यासाद उपविश्य_उदपात्रं निनयति (कौशिकसूत्र ३,६[२३].६) <इहैव स्त [७.६०.७]> इति वाचं विसृजते (कौशिकसूत्र ३,६[२३].७) <ऊर्ध्वा अस्य [५.२७]> इति वार्ष्मणमौदुम्बरं मन्थप्रतिरूपमभिजुहोति (कौशिकसूत्र ३,६[२३].८) असंख्याता अधिशृत्य सप्तागमशष्कुलीः (कौशिकसूत्र ३,६[२३].९) <त्वष्टा मे []> इति प्रातर्+विभक्ष्यमाणो [सो Cअलन्द्॑ एद्. विभुङ्क्ष्यमाणो]_अश्नाति (कौशिकसूत्र ३,६[२३].१०) ज्याजुं बद्नाति (कौशिकसूत्र ३,६[२३].११) दण्डं संपातवन्तं विमृज्य धारयति (कौशिकसूत्र ३,६[२३].१२) <वायुरेनाः [६.१४१]> इति युक्तयोश्चित्राकर्म निशायां संभारान् संपातवतः करोति (कौशिकसूत्र ३,६[२३].१३) अपरेद्युर्<वायुरेनाः [६.१४१]> इति शाखया_उदकधारया गाः परिक्रामति (कौशिकसूत्र ३,६[२३].१४) प्रथमजस्य शकलमवधाय_औदुम्बरेणासिना <लोहितेन [६.१४१.२]> इति मन्त्रोक्तम् (कौशिकसूत्र ३,६[२३].१५) <यथा चक्रुर्[६.१४१.३]> इतीक्षुकाशकाण्ड्या लोहितं निर्मृज्य रसमिश्रमश्नाति (कौशिकसूत्र ३,६[२३].१६) सर्वमौदुम्बरम् (कौशिकसूत्र ३,६[२३].१७) <यस्येदमा [६.३३]> इत्यायोजनानामप्ययः (कौशिकसूत्र ३,७[२४].१) <उच्छ्रयस्व [६.१४२]> इति बीजोपहरणम् (कौशिकसूत्र ३,७[२४].२) आज्यमिश्रान् यवानुर्वरायां कृष्टे फालेन_उदुह्यान्वृचं काशीन्निनयति निवपति (कौशिकसूत्र ३,७[२४].३) <अभि त्यम् [७.१४]> इति महावकाशे_अरण्य उन्नते विमिते प्राग्द्वारप्रत्यग्द्वारेष्वप्सु संपातानानयति (कौशिकसूत्र ३,७[२४].४) कृष्णाजिने सोमांशून् विचिनोति (कौशिकसूत्र ३,७[२४].५) सोममिश्रेण संपातवन्तमश्नाति (कौशिकसूत्र ३,७[२४].६) आदीप्ते संपन्नम् (कौशिकसूत्र ३,७[२४].७) <तां सवितः [७.१५]> इति गृष्टिदाम बध्नाति (कौशिकसूत्र ३,७[२४].८) <सं मा सिञ्चन्तु [७.३३]> इति सर्वोदके मैश्रधान्यम् (कौशिकसूत्र ३,७[२४].९) <दिव्यं सुपर्णं [७.३९]> इत्यृषभदण्डिनो वपया_इन्द्रं यजते (कौशिकसूत्र ३,७[२४].१०) अनुबद्धशिरःपादेन गोशालां चर्मणावछाद्यावदानकृतं ब्राह्मणान् भोजयति (कौशिकसूत्र ३,७[२४].११) प्रोष्य समिध आदाय_ <ऊर्जं बिभ्रद्[७.६०]> इति गृहसंकाशे जपति (कौशिकसूत्र ३,७[२४].१२) सव्येन समिधो दक्षिणेन शालावलीकं संस्तभ्य जपति (कौशिकसूत्र ३,७[२४].१३) अतिव्रज्य समिध आधाय <सुमङ्गलि प्रजावति सुशीमे [सो Cअलन्द्॑ एद्. सुसीमे] _अहं वां गृहपतिर्जीव्यासम्> इति स्थूणे गृह्णात्युपतिष्ठते (कौशिकसूत्र ३,७[२४].१४) <यद्वदामि [१२.१.५८]> इति मन्त्रोक्तम् (कौशिकसूत्र ३,७[२४].१५) गृहपत्न्यासादे_उपविश्य_उदपात्रं निनयति (कौशिकसूत्र ३,७[२४].१६) <इहैव स्त [७.६०.७]> इति प्रवत्स्यन्नवेक्षते (कौशिकसूत्र ३,७[२४].१७) <सूयवसाद्[७.७३.११]> सूयवसे पशून्निष्ठापयति (कौशिकसूत्र ३,७[२४].१८) दूर्वाग्रैरञ्जलौ_अप आनीय दर्शं दार्शीभिरुपतिष्ठते (कौशिकसूत्र ३,७[२४].१९) <इन्द्रस्य कुक्षिर्[७.१११]> <साहस्रस्[९.४]> इत्यृषभं संपातवन्तमतिसृजति (कौशिकसूत्र ३,७[२४].२०) रेतोधायै त्वातिसृजामि वयोधायै त्वातिसृजामि यूथत्वायै त्वातिसृजामि गणत्वायै त्वातिसृजामि सहस्रपोषायै त्वातिसृजाम्यपरिमितपोस्.आयै त्वातिसृजामि (कौशिकसूत्र ३,७[२४].२१) <एतं वो युवानं [९.४.२४]> इति पुराणं प्रवृत्य नवमुत्सृजते संप्रोक्षति (कौशिकसूत्र ३,७[२४].२२) उत्तरेण पुष्टिकाम ऋषभेण_इन्द्रं यजते (कौशिकसूत्र ३,७[२४].२३) संपत्कामः श्वेतेन पौर्णमास्याम् (कौशिकसूत्र ३,७[२४].२४) <सत्यं बृहद्[१२.१]> इत्याग्रहायण्याम् (कौशिकसूत्र ३,७[२४].२५) पश्चादग्नेर्दर्भेषु खदायां सर्वहुतम् (कौशिकसूत्र ३,७[२४].२६) द्वितीयं संपातवन्तमश्नाति (कौशिकसूत्र ३,७[२४].२७) तृतीयस्यादितिः सप्तभिर्<भूमे मातर्[१२.१.६३]> इति त्रिर्जुहोति (कौशिकसूत्र ३,७[२४].२८) पश्चादग्नेर्दर्भेषु कशिपु_आस्तीर्य <विमृग्वरीं []> इत्युपविशति (कौशिकसूत्र ३,७[२४].२९) <यास्ते शिवास्[९.२.२५]> इति संविशति (कौशिकसूत्र ३,७[२४].३०) <यच्छयानः []> इति पर्यावर्तते (कौशिकसूत्र ३,७[२४].३१) नवभिः <शन्तिवा [१२.१.५९]> इति दशम्या_ <उदायुषा [३.३१.१०]> इत्युपोत्तिष्ठति (कौशिकसूत्र ३,७[२४].३२) <उद्वयं [७.५३.७]> इत्युत्क्रामति (कौशिकसूत्र ३,७[२४].३३) <उदीराणा [१२.१.२८]> इति त्रीणि पदानि प्राङ्वा_उदङ्वा बाह्येन_उपनिष्क्रम्य <यावत्ते [१२.१.३३]> इति वीक्षते (कौशिकसूत्र ३,७[२४].३४) उन्नताच्च (कौशिकसूत्र ३,७[२४].३५) पुरस्तादग्नेः सीरं युक्तमुदपात्रेण संपातवतावसिञ्चति (कौशिकसूत्र ३,७[२४].३६) आयोजनानामप्ययः (कौशिकसूत्र ३,७[२४].३७) <यस्यां सदोहविर्धाने [१२.१.३८४०]> इति जुहोति वरो म आगमिष्यतीति (कौशिकसूत्र ३,७[२४].३८) <यस्यामन्नं [१२.१.४२]> इत्युपतिष्ठते (कौशिकसूत्र ३,७[२४].३९) <निधिं बिभ्रति [१२.१.४४४५]> इति मणिं हिरण्यकामः (कौशिकसूत्र ३,७[२४].४०) एवं वित्त्वा (कौशिकसूत्र ३,७[२४].४१) <यस्यां कृष्णम् [१२.१.५२]> इति वार्षकृतस्याचमति शिरस्यानयते (कौशिकसूत्र ३,७[२४].४२) <यं त्वा पृषती रथे [१३.१.२१२६]> इति द्यौः पृषत्यादित्यो रोहितः (कौशिकसूत्र ३,७[२४].४३) पृषतीं गां ददाति (कौशिकसूत्र ३,७[२४].४४) पृषत्या क्षीरौदनं सर्वहुतम् (कौशिकसूत्र ३,७[२४].४५) पुष्टिकर्मणामुपधानोपस्थानम् (कौशिकसूत्र ३,७[२४].४६) सलिलैः सर्वकामः सलिलैः सर्वकामः (Kऔश्ष्३ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे तृतीयोऽध्यायः समाप्तः (कौशिकसूत्र ४,१[२५].१) अथ भैषज्यानि (कौशिकसूत्र ४,१[२५].२) लिङ्ग्युपतापो +भिषज्यम् [दृष्टव्यम्‌ Cअलन्द्, आZ, प्. ६७, न्.२ बुतल्सो ष्पेइजेर्ंुसेउम् ९ २५०] (कौशिकसूत्र ४,१[२५].३) वचनादन्यत् (कौशिकसूत्र ४,१[२५].४) पूर्वस्य_उदपात्रेण संपातवताङ्क्ते (कौशिकसूत्र ४,१[२५].५) वलीर्विमार्ष्टि (कौशिकसूत्र ४,१[२५].६) <विद्मा शरस्य [१.२.१]>_<अदो यद्[२.३.१ इत्यादि]> इति मुञ्जशिरो रज्ज्वा बध्नाति (कौशिकसूत्र ४,१[२५].७) आकृतिलोष्टवल्मीकौ परिलिख्य पाययति (कौशिकसूत्र ४,१[२५].८) सर्पिषालिम्पति (कौशिकसूत्र ४,१[२५].९) अपिधमति (कौशिकसूत्र ४,१[२५].१०) <विद्मा शरस्य [१.३.१]> _इति प्रमेहणं बध्नाति (कौशिकसूत्र ४,१[२५].११) आखुकिरिपूतीकमथितजरत्प्रमन्दसाव्रस्कान् पाययति (कौशिकसूत्र ४,१[२५].१२) उत्तमाभ्यामास्थापयति (कौशिकसूत्र ४,१[२५].१३) यानमारोहयति (कौशिकसूत्र ४,१[२५].१४) इषुं विसृजति (कौशिकसूत्र ४,१[२५].१५) वस्तिं विष्यति (कौशिकसूत्र ४,१[२५].१६) वर्तिं बिभेत्ति (कौशिकसूत्र ४,१[२५].१७) एकविंशतिं यवान् दोहन्यामद्भिरानीय द्रुघ्नीं जघने संस्तभ्य फलतो_अवसिञ्चति (कौशिकसूत्र ४,१[२५].१८) आलबिसोलं फाण्टं पाययति (कौशिकसूत्र ४,१[२५].१९) उदावर्तिने च (कौशिकसूत्र ४,१[२५].२०) <अम्बयो यन्त्य्[१.४.१]>_<वायोः पूतः []> इति च शान्ताः (कौशिकसूत्र ४,१[२५].२१) उत्तरस्य ससोमाः (कौशिकसूत्र ४,१[२५].२२) चातनानामपनोदनेन व्याख्यातम् (कौशिकसूत्र ४,१[२५].२३) त्रपुसमुसलखदिरतार्ष्टाघानामादधाति (कौशिकसूत्र ४,१[२५].२४) अयुग्मान् खादिरान्_शङ्कून् <अक्ष्यौ नि विध्य [५.२९.४]> इति पश्चादग्नेः समंभूमि निहन्ति (कौशिकसूत्र ४,१[२५].२५) एवमायसलोहान् (कौशिकसूत्र ४,१[२५].२६) तप्तशर्कराभिः शयनं राशिपल्याणि परिकिरति (कौशिकसूत्र ४,१[२५].२७) अमावास्यायां सकृद्गृहीतान् यवाननपहतानप्रतीहारपिष्टानाभिचारिकं परिस्तीर्य तार्ष्टाघेध्म आवपति (कौशिकसूत्र ४,१[२५].२८) य आगछेत्तं ब्रूयात्_शणशुल्बेन जिह्वां निर्मृजानः शालायाः प्रस्कन्द_इति (कौशिकसूत्र ४,१[२५].२९) तथाकुर्वन्ननाद्ये ह्नुवाने (कौशिकसूत्र ४,१[२५].३०) वीरिणतूलमिश्रमिङ्गिडं प्रपुटे जुहोति (कौशिकसूत्र ४,१[२५].३१) इध्माबर्हिः शालायामासजति (कौशिकसूत्र ४,१[२५].३२) अपरेद्युर्विकृते पिशाचतो रुजति (कौशिकसूत्र ४,१[२५].३३) उक्तो होमः (कौशिकसूत्र ४,१[२५].३४) वैश्रवणायाञ्जलिं कृत्वा जपन्नाचमयति_अभ्युक्षति (कौशिकसूत्र ४,१[२५].३५) निशि_उल्मुके संकर्षति (कौशिकसूत्र ४,१[२५].३६) स्वस्त्याद्यं कुरुते (कौशिकसूत्र ४,१[२५].३७) <अयं देवानाम् [१.१०.१]> इति_एकविंशत्या दर्भपिञ्जूलीभिर्वलीकैः सार्धमधिशिरो_अवसिञ्चति (कौशिकसूत्र ४,२[२६].१) <जरायुजः [१.१२.१]> इति मेदो मधु सर्पिस्तैलं पाययति (कौशिकसूत्र ४,२[२६].२) मौञ्जप्रश्नेन शिरसि_अपिहितः सव्येन तितौनि पूल्यानि धारयमाणो दक्षिणेनावकिरन् व्रजति (कौशिकसूत्र ४,२[२६].३) सव्येन तितौप्रश्नौ दक्षिणेन ज्यां द्रुघ्नीम् (कौशिकसूत्र ४,२[२६].४) प्रैषकृदग्रतः (कौशिकसूत्र ४,२[२६].५) यत्र_एनं व्याधिर्गृह्णाति तत्र तितौप्रश्नौ निदधाति (कौशिकसूत्र ४,२[२६].६) ज्यां च (कौशिकसूत्र ४,२[२६].७) आव्रजनम् (कौशिकसूत्र ४,२[२६].८) घृतं नस्तः (कौशिकसूत्र ४,२[२६].९) पञ्चपर्वणा ललाटं संस्तभ्य जपति_ <अमूर्या [१.१७.१]> इति (कौशिकसूत्र ४,२[२६].१०) पञ्चपर्वणा पांसुसिकताभिः परिकिरति (कौशिकसूत्र ४,२[२६].११) अर्मकपालिकां बध्नाति (कौशिकसूत्र ४,२[२६].१२) पाययति (कौशिकसूत्र ४,२[२६].१३) चतुर्भिर्दूर्वाग्रैर्दधिपललं पाययति (कौशिकसूत्र ४,२[२६].१४) <अनु सूर्यम् [१.२२.१]> इति मन्त्रोक्तस्य लोममिश्रमाचमयति (कौशिकसूत्र ४,२[२६].१५) पृष्ठे चानीय (कौशिकसूत्र ४,२[२६].१६) शङ्कुधानं चर्मणि_आसीनाय दुग्धे संपातवन्तं बध्नाति (कौशिकसूत्र ४,२[२६].१७) पाययति (कौशिकसूत्र ४,२[२६].१८) हरिद्रौदनभुक्तमुच्छिष्टानुच्छिष्टेना प्रपदात्प्रलिप्य मन्त्रोक्तानधस्तल्पे हरितसूत्रेण सव्यजङ्घासु बद्ध्वावस्नापयति (कौशिकसूत्र ४,२[२६].१९) प्रपादयति (कौशिकसूत्र ४,२[२६].२०) वदत उपस्थापयति (कौशिकसूत्र ४,२[२६].२१) क्रोडलोमानि जतुना संदिह्य जातरूपेणापिधाप्य (कौशिकसूत्र ४,२[२६].२२) <नक्तंजाता [१.२३.१]> <सुपर्णो जातः [१.२४.१]> इति मन्त्रोक्तं शकृदा(सेए Cअलन्द्, Kल्.ष्छ्र्., प्. ५९)_आलोहितं प्रघृष्यालिम्पति (कौशिकसूत्र ४,२[२६].२३) पलितानि_आछिद्य (कौशिकसूत्र ४,२[२६].२४) मारुतानि_अपिहितः (कौशिकसूत्र ४,२[२६].२५) <यदग्निर्[१.२५.१]> इति परशुं जपन्_तापयति क्वाथयति_अवसिञ्चति (कौशिकसूत्र ४,२[२६].२६) <उप प्रागाद्[१.२८.१]> इति_उद्विजमानस्य शुक्लप्रसूनस्य वीरिणस्य चतसृणामिषीकाणामुभयतः प्रत्युष्टं बध्नाति (कौशिकसूत्र ४,२[२६].२७) त्रिविदग्धं काण्डमणिम् (कौशिकसूत्र ४,२[२६].२८) उल्मुके स्वस्त्याद्यम् (कौशिकसूत्र ४,२[२६].२९) मातृनाम्नोः सर्वसुरभिचूर्णानि_अन्वक्तानि हुत्वा शेषेण प्रलिम्पति (कौशिकसूत्र ४,२[२६].३०) चतुष्पथे च शिरसि दर्भेण्ड्वे_अङ्गारकपाले_अन्वक्तानि (कौशिकसूत्र ४,२[२६].३१) तितौनि प्रतीपं गाहमानो वपतीतरो_अवसिञ्चति पश्चात् (कौशिकसूत्र ४,२[२६].३२) आमपात्रे_ओप्यासिच्य मौञ्जे त्रिपादे वयोनिवेशने प्रबध्नाति (कौशिकसूत्र ४,२[२६].३३) <अघद्विष्टा [२.७.१]> <शं नो देवी [२.२५.१]> <वरणो [६.८५.१]>_<पिप्पली [६.१०९.१]> <विद्रधस्य [६.१२७.१]> <या बभ्रवो [८.७.१]>_इति (कौशिकसूत्र ४,२[२६].३४) उपोत्तमेन पलाशस्य चतुरङ्गुलेनालिम्पति (कौशिकसूत्र ४,२[२६].३५) प्रथमेन मन्त्रोक्तं बध्नाति (कौशिकसूत्र ४,२[२६].३६) द्वितीयेन मन्त्रोक्तस्य संपातवतानुलिम्पति [नोते ष्पेइजेर्ंुसेउम् ९ २५०] (कौशिकसूत्र ४,२[२६].३७) तृतीयेन मन्त्रोक्तं बध्नाति (कौशिकसूत्र ४,२[२६].३८) चतुर्थेनाशयति (कौशिकसूत्र ४,२[२६].३९) पञ्चमेन वरुणगृहीतस्य मूर्ध्नि संपातानानयति (कौशिकसूत्र ४,२[२६].४०) उत्तमेन शाकलम् (कौशिकसूत्र ४,२[२६].४१) <उदगातां [२.८.१]>_इति_आप्लावयति बहिः (कौशिकसूत्र ४,२[२६].४२) <अपेयं [२.८.२]>_इति व्युछन्त्याम् (कौशिकसूत्र ४,२[२६].४३) <बभ्रोर्[२.८.३]> इति मन्त्रोक्तमाकृतिलोष्टवल्मीकौ परिलिख्य जीवकोषण्यामुत्सीव्य बध्नाति (कौशिकसूत्र ४,३[२७].१) <नमस्ते लाङ्गलेभ्यो [२.८.४]>_इति सीरयोगमधिशिरो_अवसिञ्चति (कौशिकसूत्र ४,३[२७].२) <नमः सनिस्रसाक्षेभ्यो [२.८.५]>_इति शून्यशालायामप्सु संपातानानयति (कौशिकसूत्र ४,३[२७].३) उत्तरं जरत्खाते सशालातृणे (कौशिकसूत्र ४,३[२७].४) तस्मिन्नाचमयति आप्लावयति (कौशिकसूत्र ४,३[२७].५) <दशवृक्ष [२.९.१]>_इति शाकलः (कौशिकसूत्र ४,३[२७].६) दश सुहृदो जपन्तो_अभिमृशन्ति (कौशिकसूत्र ४,३[२७].७) <क्षेत्रियात्त्वा [२.१०.१]>_इति चतुष्पथे काम्पीलशकलैः पर्वसु बद्ध्वा पिञ्जूलीभिराप्लावयति (कौशिकसूत्र ४,३[२७].८) अवसिञ्चति (कौशिकसूत्र ४,३[२७].९) <पार्थिवस्य [२.२९.१]>_इति_उद्यति पृष्ठसंहितौ_उपवेशयति (कौशिकसूत्र ४,३[२७].१०) प्राङ्मुखं व्याधितं प्रत्यङ्मुखमव्याधितं शाखासूपवेश्य वैतसे चमसे_उपमन्थनीभ्यां तृष्णागृहीतस्य शिरसि मन्थमुपमथ्यातृषिताय प्रयछति (कौशिकसूत्र ४,३[२७].११) तस्मिन्_तृणां संनयति (कौशिकसूत्र ४,३[२७].१२) उद्धृतमुदकं पाययति (कौशिकसूत्र ४,३[२७].१३) <सवासिनौ [२.२९.६ ]>_इति मन्त्रोक्तम् (कौशिकसूत्र ४,३[२७].१४) <इन्द्रस्य या मही [२.३१.१]>_इति खल्वङ्गानलाण्डून् हननान् घृतमिश्रान्_जुहोति (कौशिकसूत्र ४,३[२७].१५) बालान् कल्माषे काण्डे सव्यं परिवेष्ट्य संभिनत्ति (कौशिकसूत्र ४,३[२७].१६) प्रतपति (कौशिकसूत्र ४,३[२७].१७) आदधाति (कौशिकसूत्र ४,३[२७].१८) सव्येन दक्षिणामुखः पांसूनुपमथ्य परिकिरति (कौशिकसूत्र ४,३[२७].१९) संमृद्नाति (कौशिकसूत्र ४,३[२७].२०) आदधाति (कौशिकसूत्र ४,३[२७].२१) <उद्यन्नादित्यः [२.३२.१]>_इति_उद्यति गोनाम_इति_आहासौ_इति (कौशिकसूत्र ४,३[२७].२२) सूक्तान्ते ते हता इति (कौशिकसूत्र ४,३[२७].२३) दर्भैरभ्यस्यति (कौशिकसूत्र ४,३[२७].२४) मध्यन्दिने च (कौशिकसूत्र ४,३[२७].२५) प्रतीचीमपराह्णे (कौशिकसूत्र ४,३[२७].२६) बालस्तुकामाछिद्य खल्वादीनि (कौशिकसूत्र ४,३[२७].२७) <अक्षीभ्यां ते [२.३३.१]>_इति वीबर्हम् (कौशिकसूत्र ४,३[२७].२८) उदपात्रेण संपातवतावसिञ्चति (कौशिकसूत्र ४,३[२७].२९) <हरिणस्य [३.७.१]>_इति बन्धनपायनाचमनशङ्कुधानज्वालेनावनक्षत्रे_अवसिञ्चति (कौशिकसूत्र ४,३[२७].३०) अमितमात्रायाः सकृद्गृहीतान् यवानावपति (कौशिकसूत्र ४,३[२७].३१) भक्तं प्रयछति (कौशिकसूत्र ४,३[२७].३२) <मुञ्चामि त्वा [३.११.१]>_इति ग्राम्ये पूतिशफरीभिरोदनम् (कौशिकसूत्र ४,३[२७].३३) अरण्ये तिलशणगोमयशान्ताज्वालेनावनक्षत्रे_अवसिञ्चति (कौशिकसूत्र ४,३[२७].३४) मृगारैर्मुञ्च_इति_आप्लावयति (कौशिकसूत्र ४,४[२८].१) <ब्राह्मणो जज्ञे [४.६.१]>_इति तक्षकायाञ्जलिं कृत्वा जपन्नाचमयति_अभ्युक्स्.अति (कौशिकसूत्र ४,४[२८].२) कृमुकशकलं संक्षुद्य दूर्शजरदजिनावकरज्वालेन (कौशिकसूत्र ४,४[२८].३) संपातवति_उदपात्रे_ऊर्ध्वफलाभ्यां दिग्धाभ्यां मन्थमुपमथ्य रयिधारणपिण्डानन्वृचं प्रकीर्य छर्दयते (कौशिकसूत्र ४,४[२८].४) हरिद्रां सर्पिषि पाययति (कौशिकसूत्र ४,४[२८].५) <रोहण्य्[४.१२.१]>_इति_अवनक्षत्रे_अवसिञ्चति (कौशिकसूत्र ४,४[२८].६) पृषातकं पाययति_अभ्यनक्ति (कौशिकसूत्र ४,४[२८].७) <आ पश्यति [४.२०.१]>_इति सदंपुष्पामणिं बध्नाति (कौशिकसूत्र ४,४[२८].८) <भवाशर्वौ [४.२८.१]>_इति सप्त काम्पीलपुटानपां पूर्णान् संपातवतः कृत्वा दक्षिणेनावसिच्य पश्चादपविध्यति (कौशिकसूत्र ४,४[२८].९) <त्वया पूर्णम् [४.३७.१]> इति कोशेन शमीचूर्णानि भक्ते (कौशिकसूत्र ४,४[२८].१०) अलंकारे (कौशिकसूत्र ४,४[२८].११) शालां परितनोति (कौशिकसूत्र ४,४[२८].१२) <उतामृतासुर्[५.१.७]> इति_अमतिगृहीतस्य भक्तं प्रयछति (कौशिकसूत्र ४,४[२८].१३) कुष्ठलिङ्गाभिर्नवनीतमिश्रेणाप्रतीहारं प्रलिम्पति (कौशिकसूत्र ४,४[२८].१४) लाक्षालिङ्गाभिर्दुग्धे फाण्टान् पाययति (कौशिकसूत्र ४,४[२८].१५) <ब्रह्म जज्ञानम् [५.६.१]> इति सूतिकारिष्टकौ प्रपादयति (कौशिकसूत्र ४,४[२८].१६) मन्थाचमन_उपस्थानमादित्यस्य (कौशिकसूत्र ४,४[२८].१७) <दिवे स्वाहा [५.९.१]>_<इमं यवम् [६.९१.१]> इति चतुर उदपात्रे संपातानानयति (कौशिकसूत्र ४,४[२८].१८) द्वौ पृथिव्याम् (कौशिकसूत्र ४,४[२८].१९) तौ प्रत्याहृत्याप्लावयति (कौशिकसूत्र ४,४[२८].२०) सयवे च_उत्तरेण यवं बध्नाति (कौशिकसूत्र ४,५[२९].१) <ददिर्हि [५.१३.१]>_इति तक्षकाय_इति_उक्तम् (कौशिकसूत्र ४,५[२९].२) द्वितीयया ग्रहणी (कौशिकसूत्र ४,५[२९].३) सव्यं परिक्रामति (कौशिकसूत्र ४,५[२९].४) शिखासिचि स्तम्बानुद्ग्रथ्नाति (कौशिकसूत्र ४,५[२९].५) तृतीयया प्रसर्जनी (कौशिकसूत्र ४,५[२९].६) चतुर्थ्या दक्षिणम् <अपेह्य्[७.८८]>_इति दंश्म तृणैः प्रकर्ष्याहिमभिनिरस्यति (कौशिकसूत्र ४,५[२९].७) यतो दष्टः (कौशिकसूत्र ४,५[२९].८) पञ्चम्या वलीकपललज्वालेन (कौशिकसूत्र ४,५[२९].९) षष्ठ्यार्त्नीज्यापाशेन (कौशिकसूत्र ४,५[२९].१०) द्वाभ्यां मधूद्वापान् पाययति (कौशिकसूत्र ४,५[२९].११) नवम्या श्वावित्पुरीषम् (कौशिकसूत्र ४,५[२९].१२) त्रिःशुक्लया मांसं प्राशयति (कौशिकसूत्र ४,५[२९].१३) दशम्यालाबुनाचमयति (कौशिकसूत्र ४,५[२९].१४) एकादश्या नाभिं बध्नाति (कौशिकसूत्र ४,५[२९].१५) मधुलावृषलिङ्गाभिः खलतुलपर्णीं संक्षुद्य मधुमन्थे पाययति (कौशिकसूत्र ४,५[२९].१६) उत्तराभिर्भुङ्क्ते (कौशिकसूत्र ४,५[२९].१७) द्वारं सृजति (कौशिकसूत्र ४,५[२९].१८) <अग्निस्तक्मानम् [५.२२.१]> इति लाजान् पाययति (कौशिकसूत्र ४,५[२९].१९) दावे लोहितपात्रेण मूर्ध्नि संपातानानयति (कौशिकसूत्र ४,५[२९].२०) <ओते मे [५.२३.१]>_इति करीरमूलं काण्डेन_एकदेशम् (कौशिकसूत्र ४,५[२९].२१) ग्रामात्पांसून् (कौशिकसूत्र ४,५[२९].२२) पश्चादग्नेर्मातुरुपस्थे मुसलबुध्नेन नवनीतान्वक्तेन त्रिः प्रतीहारं तालूनि तापयति (कौशिकसूत्र ४,५[२९].२३) शिग्रुभिर्नवनीतमिश्रैः प्रदेग्धि (कौशिकसूत्र ४,५[२९].२४) एकविंशतिमुशीराणि <भिनद्म्य्[५.२३.१३ ]>_इति मन्त्रोक्तम् (कौशिकसूत्र ४,५[२९].२५) उशीराणि प्रयछति (कौशिकसूत्र ४,५[२९].२६) एकविंशत्या सहाप्लावयति (कौशिकसूत्र ४,५[२९].२७) <आ यं विशन्ति [६.२.२]>_इति वयोनिवेशनशृतं क्षीरौदनमश्नाति (कौशिकसूत्र ४,५[२९].२८) <परि द्यामिव [६.१२.१]>_इति मधुशीभं पाययति (कौशिकसूत्र ४,५[२९].२९) जपन्_च (कौशिकसूत्र ४,५[२९].३०) <अस्थिस्रंसं [६.१४.१]>_इति शकलेनाप्सु_इटे संपातवतावसिञ्चति (कौशिकसूत्र ४,६[३०].१) <आबयो [६.१६.१]> इति सार्षपं तैलसंपातं बध्नाति (कौशिकसूत्र ४,६[३०].२) काण्डं प्रलिप्य (कौशिकसूत्र ४,६[३०].३) पृक्तं शाकं प्रयछति (कौशिकसूत्र ४,६[३०].४) चत्वारि शाकफलानि प्रयछति (कौशिकसूत्र ४,६[३०].५) क्षीरलेहमाङ्क्ते (कौशिकसूत्र ४,६[३०].६) अश्नाति (कौशिकसूत्र ४,६[३०].७) <अग्नेरिव [६.२०.१]>_इति_उक्तं दावे (कौशिकसूत्र ४,६[३०].८) <इमा यस्तिस्रः [६.२१.१]>_इति वृक्षभूमौ जाताज्वालेनावसिञ्चति (कौशिकसूत्र ४,६[३०].९) शीर्षफाण्टाक्षैः (कौशिकसूत्र ४,६[३०].१०) निकटाभ्याम् (कौशिकसूत्र ४,६[३०].११) <कृष्णं नियानं [६.२२.१]>_इति_ओषध्याभिश्चोतयते (कौशिकसूत्र ४,६[३०].१२) मारुतानामप्ययः (कौशिकसूत्र ४,६[३०].१३) <हिमवतः [६.२४.१]>_इति +स्यन्दमाना [एद्. स्यन्दमानाद्॑ Cअलन्द्, Kल्. ष्छ्र्., प्. ५९] अन्वीपमाहार्य वलीकैः (कौशिकसूत्र ४,६[३०].१४) <पञ्च च या [६.२५.१]>_इति पञ्च पञ्चाशतं परशुपर्णान् काष्ठैरादीपयति (कौशिकसूत्र ४,६[३०].१५) कपाले प्रशृतं काष्ठेनालिम्पति (कौशिकसूत्र ४,६[३०].१६) किंस्त्यश्वजाम्बीलोदकरक्षिकामशकादीभ्यां दंशयति (कौशिकसूत्र ४,६[३०].१७) निश्य्<अव मा पाप्मन् [६.२६.१]>_इति तितौनि पूल्यानि_अवसिच्यापविध्य (कौशिकसूत्र ४,६[३०].१८) अपरेद्युः सहस्राक्षायाप्सु बलीन्_त्रीन् पुरोडाशसंवर्तान्_चतुष्पथे_अवक्षिप्यावकिरति (कौशिकसूत्र ४,७[३१].१) <यस्ते मदो [६.३०.२]>_इति शमीलूनपापलक्षणयोः शमीशम्याकेनाभ्युद्य वापयति (कौशिकसूत्र ४,७[३१].२) अधिशिरः (कौशिकसूत्र ४,७[३१].३) <अन्तर्दावे [६.३२.१]>_इति समन्तमग्नेः कर्ष्वामुष्णपूर्णायां जपन्_त्रिः परिक्रम्य पुरोडाशं जुहोति (कौशिकसूत्र ४,७[३१].४) <प्राग्नये [६.३४.१]> <प्रेतो [७.११४.२]>_उपदधीत (कौशिकसूत्र ४,७[३१].५) वैश्वानरीभ्यां पायनानि (कौशिकसूत्र ४,७[३१].६) <अस्थाद्द्यौर्[६.४४.१।६.७७.१(?)]> इत्यपवातायाः स्वयंस्रस्तेन गोशृङ्गेण संपातवता जपन् (कौशिकसूत्र ४,७[३१].७) <यां ते रुद्र [६.९०.१]> इति शूलिने शूलम् (कौशिकसूत्र ४,७[३१].८) <उत्सूर्यो [६.५२.१]>_इति शमीबिम्बशीर्णपर्ण्यौ_अधि (ओर्शीर्णपर्ण्यावधि) (कौशिकसूत्र ४,७[३१].९) <द्यौश्च म [६.५३.१]> इत्यभ्यज्यावमार्ष्टि (कौशिकसूत्र ४,७[३१].१०) स्थूणायां निकर्षति (कौशिकसूत्र ४,७[३१].११) <इदमिद्वा [६.५७.१]> इत्यक्षतं मूत्रफेनेनाभ्युद्य (कौशिकसूत्र ४,७[३१].१२) प्रक्षिपति (कौशिकसूत्र ४,७[३१].१३) प्रक्षालयति (कौशिकसूत्र ४,७[३१].१४) दन्तरजसावदेग्धि (कौशिकसूत्र ४,७[३१].१५) स्तम्बरजसा (कौशिकसूत्र ४,७[३१].१६) <अपचितः [६.८३.१]>_<आ सुस्रसः [७.७६.१]>_इति किंस्त्यादीनि (कौशिकसूत्र ४,७[३१].१७) लोहितलवणं संक्षुद्याभिनिष्ठीवति (कौशिकसूत्र ४,७[३१].१८) <अन्तरिक्षेण [६.८०.१]>_इति पक्षहतं मन्त्रोक्तं चङ्क्रमया (कौशिकसूत्र ४,७[३१].१९) कीटेन धूपयति (कौशिकसूत्र ४,७[३१].२०) <ग्लौर्[६.८३.३ ]> इत्यक्षतेन (कौशिकसूत्र ४,७[३१].२१) <वीहि स्वाम् [६.८३.४]> इत्यज्ञातारुः शान्त्युदकेन संप्रोक्ष्य मनसा संपातवता (कौशिकसूत्र ४,७[३१].२२) <या ओषधयः [६.९६.१]>_इति मन्त्रोक्तस्य_ओषधीभिर्धूपयति (कौशिकसूत्र ४,७[३१].२३) मधूदश्वित्पाययति (कौशिकसूत्र ४,७[३१].२४) क्षीरोदश्वित् (कौशिकसूत्र ४,७[३१].२५) उभयं च (कौशिकसूत्र ४,७[३१].२६) <देवा अदुः [६.१००.१]>_इति वल्मीकेन बन्धनपायनाचमनप्रदेहनमुष्णेण (कौशिकसूत्र ४,७[३१].२७) <यथा मनो [६.१०५.१]>_<अव दिवस्[७.१०७.१]>_इत्यरिष्टेन (कौशिकसूत्र ४,७[३१].२८) <देवी देव्याम् [६.१३६.१]>_<यां जमदग्निर्[६.१३७.१]> इति मन्त्रोक्ताफलं जीव्यलाकाभ्याममावास्यायां कृष्णवसनः कृष्णभक्षः पुरा काकसंपातादवनक्षत्रे_अवसिञ्चति (कौशिकसूत्र ४,८[३२].१) <यस्ते स्तनः [७.१०.१]>_इति जम्भगृहीताय स्तनं प्रयछति (कौशिकसूत्र ४,८[३२].२) प्रियङ्गुतण्डुलानभ्यवदुग्धान् पाययति (कौशिकसूत्र ४,८[३२].३) <अग्नाविष्णू [७.२९.१]> <सोमारुद्रा [७.४२.१]> <सिनीवालि [७.४६.१]> <वि ते मुञ्चामि [७.७८.१]> <शुम्भनी [७.११२.१]> इति मौञ्जैः पर्वसु बद्ध्वा पिञ्जुलीभिराप्लावयति (कौशिकसूत्र ४,८[३२].४) अवसिञ्चति (कौशिकसूत्र ४,८[३२].५) <तिरश्चिराजेर्[७.५६.१]> इति मन्त्रोक्तम् (कौशिकसूत्र ४,८[३२].६) आकृतिलोष्टवल्मीकौ परिलिख्य (कौशिकसूत्र ४,८[३२].७) पायनानि (कौशिकसूत्र ४,८[३२].८) <अपचितां [७.७४.१]>_इति वैणवेन दार्भ्यूषेण कृष्णोर्णाज्येन कालबुन्दै स्तुकाग्रैरिति मन्त्रोक्तम् (कौशिकसूत्र ४,८[३२].९) चतुर्थ्याभिनिधायाभिविध्यति (कौशिकसूत्र ४,८[३२].१०) ज्यास्तुकाज्वालेन (कौशिकसूत्र ४,८[३२].११) <यः कीकसाः [७.७६.३]>_इति पिशीलवीणातन्त्रीं बध्नाति (कौशिकसूत्र ४,८[३२].१२) तन्त्र्या क्षितिकां (कौशिकसूत्र ४,८[३२].१३) वीरिणवध्रीं स्वयंम्लानं त्रिः समस्य (कौशिकसूत्र ४,८[३२].१४) <अप्सु ते [७.८३.१]>_इति वहन्त्योर्मध्ये विमिते पिञ्जूलीभिराप्लावयति (कौशिकसूत्र ४,८[३२].१५) अवसिञ्चति (कौशिकसूत्र ४,८[३२].१६) उष्णाः संपातवतीरसंपाताः (कौशिकसूत्र ४,८[३२].१७) <नमो रूराय [७.११६.१]>_इति शकुनीनिवेषीकाञ्जिमण्डूकं नीललोहिताभ्यां सूत्राभ्यां सकक्षं बद्ध्वा (कौशिकसूत्र ४,८[३२].१८) <शीर्षक्तिं [९.८.१]>_इत्यभिमृशति (कौशिकसूत्र ४,८[३२].१९) उत्तमाभ्यामादित्यमुपतिष्ठते (कौशिकसूत्र ४,८[३२].२०) <इन्द्रस्य प्रथमो [१०.४.१]>_इति तक्षकाय_इत्युक्तम् (कौशिकसूत्र ४,८[३२].२१) पैद्वं प्रकर्ष्य दक्षिणेनाङ्गुष्ठेन दक्षिणस्यां नस्तः (कौशिकसूत्र ४,८[३२].२२) अहिभये सिचि_अवगूहयति (कौशिकसूत्र ४,८[३२].२३) <अङ्गादङ्गात्[१०.४.२५]>_इत्या प्रपदात् (कौशिकसूत्र ४,८[३२].२४) दंश्मोत्तमया निताप्याहिमभिनिरस्यति (कौशिकसूत्र ४,८[३२].२५) यतो दष्टः (कौशिकसूत्र ४,८[३२].२६) ओषधिवनस्पतीनामनूक्तानि_अप्रतिषिद्धानि भैषज्यानाम् (कौशिकसूत्र ४,८[३२].२७) अंहोलिङ्गाभिः (कौशिकसूत्र ४,८[३२].२८) पूर्वस्य पुत्रकामावतोकयोरुदकान्ते शान्ता अधिशिरो_अवसिञ्चति (कौशिकसूत्र ४,८[३२].२९) आव्रजितायै पुरोडाशप्रमन्दालंकारान् संपातवतः प्रयछति (कौशिकसूत्र ४,९[३३].१) <वषट्ते पूषन्न् [१.११.१]> इति चतुर उदपात्रे संपातानानीय चतुरो मुञ्जान्मूर्ध्नि विबृहति प्राचः (कौशिकसूत्र ४,९[३३].२) प्रतीचीरिषीकाः (कौशिकसूत्र ४,९[३३].३) छिद्यमानासु संशयः (कौशिकसूत्र ४,९[३३].४) उष्णेनाप्लावयति दक्षिणात्केशस्तुकात् (कौशिकसूत्र ४,९[३३].५) शालान् ग्रन्थीन् विचृतति (कौशिकसूत्र ४,९[३३].६) उभयतः पाशं योक्त्रमाबध्नाति (कौशिकसूत्र ४,९[३३].७) <यदि सोमस्यासि राज्ञः सोमात्त्वा राज्ञोऽधिक्रीणामि यदि वरुणस्यासि राज्ञो वरुणात्त्वा राज्ञोऽधिक्रीणामि [दृष्टव्यम्‌ ङोभ्ङ्ष्२.६.६>_इत्येकविंशत्या यवैः स्रजं परिकिरति (कौशिकसूत्र ४,९[३३].८) <अन्या वो अन्यामवत्वन्यान्यस्या उपावत सध्रीचीः सव्रता भूत्वास्या अवत वीर्यम् [ড়्ष्१.६५.४]> इति संनयति (कौशिकसूत्र ४,९[३३].९) <मा ते रिषन् खनिता यस्मै च त्वा खनामसि । द्विपाच्चतुष्पादस्माकं मा रिषद्देव्योषधे ॥ [ড়्ष्१.६५.३]> <स्रजो नामासि> <प्रजापतिष्ट्वामखनदात्मने शल्यस्रंसनम् । तां त्वा वयं खनामस्यमुष्मै त्वा शल्यस्रंसनम् []> इत्यस्तमिते छत्त्रेण वान्तर्धाय [एद्. चान्तर्, सेए Cअलन्द्, Kल्. ष्छ्र्. प्. ७०] फालेन खनति (कौशिकसूत्र ४,९[३३].१०) <अत्र तव राध्यताम् []> इत्यग्रमवदधाति (कौशिकसूत्र ४,९[३३].११) <इह मम []>_इति मूलमुपयछति (कौशिकसूत्र ४,९[३३].१२) एकसरे_अनुपलीढे कुमारः (कौशिकसूत्र ४,९[३३].१३) दर्भेण परिवेष्ट्य केशेषूपचृतति (कौशिकसूत्र ४,९[३३].१४) एवं ह विबृहशाकवृषे (कौशिकसूत्र ४,९[३३].१५) अवपन्ने जरायुणि_उपोद्धरन्ति (कौशिकसूत्र ४,९[३३].१६) स्रजेन_ओषधिखननं व्याख्यातम् (कौशिकसूत्र ४,९[३३].१७) चत्वारि_उमाफलानि पाणौ_अद्भिः श्चोतयते (कौशिकसूत्र ४,९[३३].१८) संवर्तमानेषु कुमारः (कौशिकसूत्र ४,९[३३].१९) ब्राह्मणायनो_अङ्गानि_अभिमृशति (कौशिकसूत्र ४,९[३३].२०) पुंनामधेये कुमारः (कौशिकसूत्र ४,१०[३४].१) <इदं जनासो [१.३२.१]>_इत्यस्यै शिंशपाशाखासूदकान्ते शान्ता अधिशिरो_अवसिञ्चति (कौशिकसूत्र ४,१०[३४].२) आव्रजितायै (कौशिकसूत्र ४,१०[३४].३) <निस्सालाम् [२.१४.१]> इत्यवतोकायै कृष्णवसनायै त्रिषु विमितेषु प्राग्द्वारप्रत्यग्द्वारेषु_अप्सु संपातानानयति (कौशिकसूत्र ४,१०[३४].४) पलाशे सीसेषूत्तरान् (कौशिकसूत्र ४,१०[३४].५) सीसानि_अधिष्ठाप्याप्लावयति (कौशिकसूत्र ४,१०[३४].६) निधाय कृष्णं व्रजति (कौशिकसूत्र ४,१०[३४].७) आदीप्य ब्रह्मा (कौशिकसूत्र ४,१०[३४].८) एवं पूर्वयोः पृथक्संभार्ये (कौशिकसूत्र ४,१०[३४].९) शाखासूक्तम् (कौशिकसूत्र ४,१०[३४].१०) पश्चादग्नेरभितः काण्डे इषीके निधायाध्यधि धायिने औदुम्बरीराधापयति (कौशिकसूत्र ४,१०[३४].११) उत्तमाव्रजितायै (कौशिकसूत्र ४,१०[३४].१२) पतिवेदनानि (कौशिकसूत्र ४,१०[३४].१३) <आ नो अग्ने [२.३६.१]>_इत्यागमकृशरमाशयति (कौशिकसूत्र ४,१०[३४].१४) मृगाखराद्वेद्यां मन्त्रोक्तानि संपातवन्ति द्वारे प्रयछति (कौशिकसूत्र ४,१०[३४].१५) उदकंसे व्रीहियवौ जाम्यै निशि हुत्वा दक्षिणेन प्रक्रामति (कौशिकसूत्र ४,१०[३४].१६) पश्चादग्नेः प्रक्षाल्य संधाव्य संपातवतीं <भगस्य नावम् [२.३६.५]> इति मन्त्रोक्तम् (कौशिकसूत्र ४,१०[३४].१७) सप्तदाम्न्यां संपातवत्यां वत्सान् प्रत्यन्तान् +प्रचृतन्ती +वहति [एद्. प्रचृतन्तो वहन्ति॑ Cअलन्द्, आZ, प्. ११३, न्. ११] (कौशिकसूत्र ४,१०[३४].१८) अहतेन संपातवता ऋषभ अभ्यस्यति (कौशिकसूत्र ४,१०[३४].१९) उदर्दयति यां दिशम् (कौशिकसूत्र ४,१०[३४].२०) जाम्यै <प्र यदेते [५.१.४]>_इत्यागमकृशरम् (कौशिकसूत्र ४,१०[३४].२१) <इमा ब्रह्म [५.२.८]>_इति स्वस्रे (कौशिकसूत्र ४,१०[३४].२२) <अयमा यात्य्[६.६०.१]>_इति पुरा काकसंपातादर्यम्णे जुहोति (कौशिकसूत्र ४,१०[३४].२३) अन्तःस्राक्तिषु बलीन् हरन्ति (कौशिकसूत्र ४,१०[३४].२४) आपतन्ति यतः (कौशिकसूत्र ४,११[३५].१) पुंसवनानि (कौशिकसूत्र ४,११[३५].२) रजौद्वासायाः पुंनक्षत्रे (कौशिकसूत्र ४,११[३५].३) <येन वेहद्[३.२३.१]> इति बाणं मूर्ध्नि विबृहति बध्नाति (कौशिकसूत्र ४,११[३५].४) फालचमसे सरूपवत्साया दुद्घे व्रीहियवौ_अवधाय मूर्छयित्वाध्यण्डे बृहतीपलाशविदर्यौ वा प्रतिनीय पैद्वमिव (कौशिकसूत्र ४,११[३५].५) <पर्वताद्दिवो [५.२५.१]>_इत्यागमकृशरमाशयति (कौशिकसूत्र ४,११[३५].६) युगतर्द्मना संपातवन्तं द्वितीयम् (कौशिकसूत्र ४,११[३५].७) खे लूनान्_च पलाशत्सरून्निवृत्ते निघृष्याधाय शिश्ने ग्रामं प्रविशति (कौशिकसूत्र ४,११[३५].८) <शमीमश्वत्थ [६.११.१]> इति मन्त्रोक्ते_अग्निं मथित्वा पुंस्याः सर्पिषि पैद्वमिव (कौशिकसूत्र ४,११[३५].९) मधुमन्थे पाययति (कौशिकसूत्र ४,११[३५].१०) कृष्णोर्णाभिः परिवेष्ट्या बध्नाति (कौशिकसूत्र ४,११[३५].११) <यन्तासि [६.८०.२]>_इति मन्त्रोक्तं बध्नाति (कौशिकसूत्र ४,११[३५].१२) <ऋधङ्मन्त्रो [५.१.१]>_इत्येका <यथेयं पृथिवी [६.१७.१४]>_<अच्युता [दृष्टव्यम्‌ सकलपाठमन्त्रसत्Kऔश्ष्९८.२, आVড়रिश्११.१.११]>_इति गर्भदृंहणानि (कौशिकसूत्र ४,११[३५].१३) जम्भगृहीताय प्रथमावर्जं ज्यां त्रिरुद्ग्रथ्य बध्नाति (कौशिकसूत्र ४,११[३५].१४) लोष्टानन्वृचं प्राशयति (कौशिकसूत्र ४,११[३५].१५) श्यामसिकताभिः शयनं परिकिरति (कौशिकसूत्र ४,११[३५].१६) यामिछेद्वीरं जनयेदिति +धातृव्याभिर्(एद्. धातर्॑ दृष्टव्यम्‌ Cअलन्द्, Kल्. ष्छ्र्., प्. ६०) उदरमभिमन्त्रयते (कौशिकसूत्र ४,११[३५].१७) <प्रजापतिर्[६.११.३।७.१९.१]> इति प्रजाकामाया उपस्थे जुहोति (कौशिकसूत्र ४,११[३५].१८) लोहिताजापिशितानि_आशयति (कौशिकसूत्र ४,११[३५].१९) प्रपान्तानि [एद्. व्रप्] (कौशिकसूत्र ४,११[३५].२०) <यौ ते माता [८.६.१]>_इति मन्त्रोक्तौ बध्नाति (कौशिकसूत्र ४,११[३५].२१) <यथेदं भूम्या अधि [२.३०.१]> <यथा वृक्षं [६.८.१]> <+वाञ्छ मे [६.९.१]> <यथायं वाहो [६.१०२.१]>_इति संस्पृष्टयोर्वृक्षलिबुजयोः शकलावन्तरेषुस्थकराञ्जनकुष्ठमदुघरेष्ममथिततृणमाज्येन संनीय संस्पृशति (कौशिकसूत्र ४,११[३५].२२) <उत्तुदस्त्वा [३.२५.१]>_इत्यङ्गुल्या_उपनुदति (कौशिकसूत्र ४,११[३५].२३) एकविंशतिं प्राचीनकण्टकानलंकृताननूक्तानादधाति (कौशिकसूत्र ४,११[३५].२४) कूदीप्रान्तानि ससूत्राणि (कौशिकसूत्र ४,११[३५].२५) नवनीतान्वक्तं कुष्ठं त्रिरह्नः प्रतपति त्रिरात्रे (कौशिकसूत्र ४,११[३५].२६) दीर्घोत्पले_अवगृह्य संविशति (कौशिकसूत्र ४,११[३५].२७) उष्णोदकं त्रिपादे पत्तः +प्रबध्य_(एद्. प्रबद्धा॑ Bलोओम्fइएल्द्, ष्BE ४२, प्. ३५८, न्. ३]_अङ्गुष्ठाभ्यामर्दयन्_शेते (एद्. मिस्प्रिन्तर्दयञ्छते॑ सेए Cअलन्द्, Kल्. ष्छ्र्., प्. ५१) (कौशिकसूत्र ४,११[३५].२८) प्रतिकृतिमावलेखनीं दार्भ्यूषेण भाङ्गज्येन कण्टकशल्यया_उलूकपत्त्रयासितालकाण्डया हृदये विध्यति (कौशिकसूत्र ४,१२[३६].१) <सहस्रशृङ्गो [४.५.१]>_इति स्वापनम् (कौशिकसूत्र ४,१२[३६].२) उदपात्रेण संपातवता शालां संप्रोक्ष्यापरस्मिन् द्वारपक्षे न्युब्जति (कौशिकसूत्र ४,१२[३६].३) एवं नग्नः (कौशिकसूत्र ४,१२[३६].४) उलूखलमुत्तरां स्रक्तिं दक्षिणशयनपादं तन्तूनभिमन्त्रयते (कौशिकसूत्र ४,१२[३६].५) <अस्थाद्द्यौर्[६.७७.१।६.४४.१]> इति निवेष्टनम् (कौशिकसूत्र ४,१२[३६].६) आवेष्टनेन वंशाग्रमवबध्य मध्यमायां बध्नाति (कौशिकसूत्र ४,१२[३६].७) शयनपादमुत्पले च (कौशिकसूत्र ४,१२[३६].८) आकृष्ते च (कौशिकसूत्र ४,१२[३६].९) आकर्षेण तिलान्_जुहोति (कौशिकसूत्र ४,१२[३६].१०) <इदं यत्प्रेण्यः [६.८९.१]>_इति शिरःकर्णमभिमन्त्रयते (कौशिकसूत्र ४,१२[३६].११) केशान् धारयति (कौशिकसूत्र ४,१२[३६].१२) <भगेन मा [६.१२९.१]> <न्यस्तिका [६.१३९.१]>_<इदं खनामि [७.३८.१]>_इति सौवर्चलमोषधिवत्_शुक्लप्रसूनं शिरसि_उपचृत्य ग्रामं प्रविशति (कौशिकसूत्र ४,१२[३६].१३) <रथजितां [६.१३०.१]>_इति माषस्मरान्निवपति (कौशिकसूत्र ४,१२[३६].१४) शरभृष्टीरादीप्ताः प्रतिदिशमभ्यस्यति_अर्वाच्या आवलेखन्याः (कौशिकसूत्र ४,१२[३६].१५) <भगमस्या वर्च [१.१४.१]> इति मालानिष्प्रमन्ददन्तधावनकेशमीशानहताया अनुस्तरण्या वा कोशमुलूखलदरणे त्रिशिले निखनति (कौशिकसूत्र ४,१२[३६].१६) मालामुपमथ्यान्वाह (कौशिकसूत्र ४,१२[३६].१७) त्रीणि केशमण्डलानि कृष्णसूत्रेन विग्रथ्य त्रिशिले_अश्मोत्तराणि व्यत्यासम् (कौशिकसूत्र ४,१२[३६].१८) अथास्यै भगमुत्खनति <यं ते भगं निचख्नुस्त्रिशिले यं चतुःशिले । इदं तमुत्खनामि प्रजया च धनेन च []>_इति (कौशिकसूत्र ४,१२[३६].१९) <इमां खनाम्य्[३.१८.१]>_इति बाणापर्णीं लोहिताजाया द्रप्सेन संनीय शयनमनुपरिकिरति (कौशिकसूत्र ४,१२[३६].२०) <अभि तेऽधां [३.१८.६ ]>_इत्यधस्तात्पलाशमुपचृतति (कौशिकसूत्र ४,१२[३६].२१) <उप तेऽधां [३.१८.६ ]>_इत्युपरि_उपास्यति (कौशिकसूत्र ४,१२[३६].२२) कामं विनेष्यमाणो_अपाघेनासंख्याताः शर्कराः परिकिरन् व्रजति (कौशिकसूत्र ४,१२[३६].२३) संमृद्नन्_जपति (कौशिकसूत्र ४,१२[३६].२४) असंमृद्नन् (कौशिकसूत्र ४,१२[३६].२५) <ईर्ष्याया ध्राजिं [६.१८.१]> <जनाद्विश्वजनीनात्[७.४५.१]> <त्वाष्ट्रेणाहं [७.७४.३]>_इति प्रतिजापः प्रदानाभिमर्शनानि (कौशिकसूत्र ४,१२[३६].२६) प्रथमेन वक्षणासु मन्त्रोक्तम् (कौशिकसूत्र ४,१२[३६].२७) <अग्नेरिव [७.४५.२]>_इति परशुफाण्टम् (कौशिकसूत्र ४,१२[३६].२८) <अव ज्यामिव [६.४२.१]>_इति दृष्ट्वाश्मानमादत्ते (कौशिकसूत्र ४,१२[३६].२९) द्वितीययाभिनिदधाति (कौशिकसूत्र ४,१२[३६].३०) तृतीययाभिनिष्ठीवति (कौशिकसूत्र ४,१२[३६].३१) छायायां सज्यं करोति (कौशिकसूत्र ४,१२[३६].३२) <अयं दर्भो [६.४३.१]>_इत्योषधिवत् (कौशिकसूत्र ४,१२[३६].३३) <अग्ने जातान् [७.३४.१]> इति न वीरं जनयेत्<प्रान्यान् [७.३५.१]> इति न विजायेत_इत्यश्वतरीमूत्रमश्ममण्डलाभ्यां संघृष्य भक्ते_अलंकारे (कौशिकसूत्र ४,१२[३६].३४) सीमन्तमन्वीक्षते (कौशिकसूत्र ४,१२[३६].३५) <अपि वृश्च [७.९०.१]>_इति जायायै जारमन्वाह (कौशिकसूत्र ४,१२[३६].३६) क्लीबपदे बाधकं धनुर्वृश्चति (कौशिकसूत्र ४,१२[३६].३७) आशये_अश्मानं प्रहरति (कौशिकसूत्र ४,१२[३६].३८) <तृष्टिके [७.११३.१]>_इति बाणापर्णीम् (कौशिकसूत्र ४,१२[३६].३९) <आ ते ददे [७.११४.१]>_इति मन्त्रोक्तानि संस्पृशति (कौशिकसूत्र ४,१२[३६].४०) अपि चान्वाहापि चान्वाह (Kऔश्ष्४ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे चतुर्थोऽध्यायः समाप्तः (कौशिकसूत्र ५,१[३७].१) <अम्बयो यन्त्य्[१.४.१]>_इति क्षीरौदन_उत्कुचस्तम्बपाटाविज्ञानानि (कौशिकसूत्र ५,१[३७].२) सांग्रामिकं वेदिविज्ञानम् (कौशिकसूत्र ५,१[३७].३) <वेनस्तत्[२.१.१]>_इति पञ्चपर्वेषुकुम्भकमण्डलुस्तम्बकाम्पीलशाखायुग_इध्माक्षेषु पाण्योरेकविंशत्यां शर्करासु_ईक्षते (कौशिकसूत्र ५,१[३७].४) कुम्भमहतेन परिवेष्ट्याधाय शयने विकृते संपातानतिनयति (कौशिकसूत्र ५,१[३७].५) अनतीकाशमवछाद्यारजोवित्ते कुमार्यौ येन हरेतां ततो नष्टम् (कौशिकसूत्र ५,१[३७].६) एवं सीरे साक्षे (कौशिकसूत्र ५,१[३७].७) लोष्टानां कुमारीमाह यमिछसि तमादत्स्व_इति (कौशिकसूत्र ५,१[३७].८) आकृतिलोष्टवल्मीकौ कल्याणम् (कौशिकसूत्र ५,१[३७].९) चतुष्पथाद्बहुचारिणी (कौशिकसूत्र ५,१[३७].१०) श्मशानात्_न चिरं जीवति (कौशिकसूत्र ५,१[३७].११) उदकाञ्जलिं निनय_इत्याह (कौशिकसूत्र ५,१[३७].१२) प्राचीनमपक्षिपन्त्यां कल्याणम् (कौशिकसूत्र ५,२[३८].१) <जरायुजः [१.१२.१]>_इति दुर्दिनमायन् प्रत्युत्तिष्ठति (कौशिकसूत्र ५,२[३८].२) अन्वृचमुदवज्रैः (कौशिकसूत्र ५,२[३८].३) असि_उल्मुककिष्कुरूनादाय (कौशिकसूत्र ५,२[३८].४) नग्नो ललाटमुन्मृजानः (कौशिकसूत्र ५,२[३८].५) उत्साद्य बाह्यतो_अङ्गारकपाले शिग्रुशर्करा जुहोति (कौशिकसूत्र ५,२[३८].६) केरार्कौ_आदधाति (कौशिकसूत्र ५,२[३८].७) वर्षपरीतः प्रतिलोमकर्षितस्त्रिः परिक्रम्य खदायामर्कं क्षिप्रं संवपति (कौशिकसूत्र ५,२[३८].८) <नमस्ते अस्तु [१.१३.१]> <यस्ते पृथु स्तनयित्नुर्[७.११.१]> इत्यशनियुक्तमपादाय (कौशिकसूत्र ५,२[३८].९) प्रथमस्य सोमदर्भकेशानीकुष्ठलाक्षामञ्जिष्ठीबदरहरिद्रं भूर्जशकलेन परिवेष्ट्य मन्थशिरसि_उर्वरामध्ये निखनति (कौशिकसूत्र ५,२[३८].१०) दधि नवेनाश्नाति_आ संहरणात् (कौशिकसूत्र ५,२[३८].११) आशापालीयं तृतीयावर्जं दृंहणानि (कौशिकसूत्र ५,२[३८].१२) भौमस्य दृतिकर्माणि (कौशिकसूत्र ५,२[३८].१३) पुरोडाशानश्मोत्तरानन्तःस्रक्तिषु निदधाति (कौशिकसूत्र ५,२[३८].१४) उभयान् संपातवतः (कौशिकसूत्र ५,२[३८].१५) सभाभागधानेषु च (कौशिकसूत्र ५,२[३८].१६) असंतापे ज्योतिरायतनस्य_एकतो_अन्यं शयानो भौमं जपति (कौशिकसूत्र ५,२[३८].१७) <इयं वीरुन् [१.३४.१]>_इति मदुघं खादन्नपराजितात्परिषदमाव्रजति (कौशिकसूत्र ५,२[३८].१८) <नेच्छत्रुः [२.२७.१]>_इति पाटामूलं प्रतिप्राशितम् (कौशिकसूत्र ५,२[३८].१९) अन्वाह (कौशिकसूत्र ५,२[३८].२०) बध्नाति (कौशिकसूत्र ५,२[३८].२१) मालां सप्तपलाशीं धारयति (कौशिकसूत्र ५,२[३८].२२) <ये भक्षयन्तो [२.३५.१]>_इति परिषदि_एकभक्तमन्वीक्षमाणो भुङ्क्ते (कौशिकसूत्र ५,२[३८].२३) <ब्रह्म जज्ञानं [४.१.१]>_इत्यध्यायानुपाकरिष्यन्नभिव्याहारयति (कौशिकसूत्र ५,२[३८].२४) प्राशमाख्यास्यन् (कौशिकसूत्र ५,२[३८].२५) ब्रह्मोद्यं वदिष्यन् (कौशिकसूत्र ५,२[३८].२६) <ममाग्ने वर्चो [५.३.१]>_इति विभुङ्क्ष्यमाणः प्रमत्तरज्जुं बध्नाति (कौशिकसूत्र ५,२[३८].२७) <सभा च मा [७.१२.१]>_इति भक्षयति (कौशिकसूत्र ५,२[३८].२८) स्थूणे गृह्णाति_उपतिष्ठते (कौशिकसूत्र ५,२[३८].२९) <यद्वदामि [१२.१.५८]>_इति मन्त्रोक्तम् (कौशिकसूत्र ५,२[३८].३०) <अहमस्मि [१२.१.५४]>_इत्यपराजितात् परिषदमाव्रजति (कौशिकसूत्र ५,३[३९].१) <दूष्या दूषिरसि [२.११.१]>_इति स्राक्त्यं बध्नाति (कौशिकसूत्र ५,३[३९].२) पुरस्तादग्नेः पिशङ्गं गां कारयति (कौशिकसूत्र ५,३[३९].३) पश्चादग्नेर्लोहिताजम् (कौशिकसूत्र ५,३[३९].४) यूषपिशितार्थम् (कौशिकसूत्र ५,३[३९].५) मन्त्रोक्ताः (कौशिकसूत्र ५,३[३९].६) वाशाकाम्पीलसितीवारसदंपुष्पा अवधाय (कौशिकसूत्र ५,३[३९].७) <दूष्या दुषिरसि [२.११.१]> <ये पुरस्ताज्[४.४०.१]>_<ईशानां त्वा [४.१७.१]> <समं ज्योतिः [४.१८.१]>_<उतो अस्यबन्धुकृद्[४.१९.१]>_<सुपर्णस्त्वा [५.१४.१]>_<यां ते चक्रुर्[५.३१.१]> <अयं प्रतिसरो [८.५.१]> <यां कल्पयन्ति [१०.१.१]>_इति महाशान्तिमावपते (कौशिकसूत्र ५,३[३९].८) निशि_अवमुच्य_उष्णीषी_अग्रतः प्रोक्षन् व्रजति (कौशिकसूत्र ५,३[३९].९) यतायै यतायै शान्तायै शान्तिवायै भद्रायै भद्रावति स्योनायै शग्मायै शिवायै सुमङ्गलि प्रजावति सुशीमे [एद्. +सुसीमे]_अहं वामाभूरिति (कौशिकसूत्र ५,३[३९].१०) अभावादपविध्यति (कौशिकसूत्र ५,३[३९].११) कृत्ययामित्रचक्षुषा समीक्षन् [नोते ष्पेइजेर्ंुसेउम् ९ २५१ चोन्ज्. समक्षं] <कृतव्यधनि [५.१४.९]>_इत्यवलिप्तं कृत्यया विध्यति (कौशिकसूत्र ५,३[३९].१२) उक्तावलेखनीम् (कौशिकसूत्र ५,३[३९].१३) <दूष्या दुषिरसि [२.११.१]>_इति दर्व्या त्रिः सारूपवत्सेनापोदकेन मथितेन गुल्फान् परिषिञ्चति (कौशिकसूत्र ५,३[३९].१४) शकलेनावसिच्य यूषपिशितानि_आशयति (कौशिकसूत्र ५,३[३९].१५) यष्टिभिस्_चर्म पिनह्य प्रैषकृत्परिक्रम्य बन्धान्मुञ्चति संदंशेन (कौशिकसूत्र ५,३[३९].१६) अन्यत्पार्श्वीं संवेशयति (कौशिकसूत्र ५,३[३९].१७) शकलेनोक्तम् (कौशिकसूत्र ५,३[३९].१८) <अभ्यक्ता [१०.१.२५]>_इति नवनीतेन मन्त्रोक्तम् (कौशिकसूत्र ५,३[३९].१९) दर्भरज्ज्वा संनह्य_<उत्तिष्ठैव [१०.१.२० ]>_इत्युत्थापयति (कौशिकसूत्र ५,३[३९].२०) सव्येन दीपं दक्षिणेन_उदकालाबु_आदाय वाग्यताः (कौशिकसूत्र ५,३[३९].२१) प्रैषकृदग्रतः (कौशिकसूत्र ५,३[३९].२२) अनावृतम् (कौशिकसूत्र ५,३[३९].२३) अगोष्पदम् (कौशिकसूत्र ५,३[३९].२४) अनुदकखातम् (कौशिकसूत्र ५,३[३९].२५) दक्षिणाप्रवणे वा स्वयंदीर्णे वा स्वकृते वा_इरिणे_अन्याशायां वा निदधाति (कौशिकसूत्र ५,३[३९].२६) अलाबुना दीपमवसिच्य <यथा सूर्यो [१०.१.३२]>_इत्यावृत्याव्रजति (कौशिकसूत्र ५,३[३९].२७) तिष्ठन्_तिष्ठन्तीं महाशान्तिमुच्चैरभिनिगदति (कौशिकसूत्र ५,३[३९].२८) मर्माणि संप्रोक्षन्ते (कौशिकसूत्र ५,३[३९].२९) कृष्णसीरेण कर्षति (कौशिकसूत्र ५,३[३९].३०) अधि सीरेभ्यो दश दक्षिणा (कौशिकसूत्र ५,३[३९].३१) अभिचारदेशा मन्त्रेषु विज्ञायन्ते तानि मर्माणि (कौशिकसूत्र ५,४[४०].१) <यददः संप्रयतीर्[३.१३.१]> इति येन_इछेत्_नदी प्रतिपद्येत_इति प्रसिञ्चन् व्रजति (कौशिकसूत्र ५,४[४०].२) काशदिविधुवकवेतसान्निमिनोति (कौशिकसूत्र ५,४[४०].३) <इदं व आपो [३.१३.७ ]>_इति हिरण्यमधिदधाति (कौशिकसूत्र ५,४[४०].४) <अयं वत्स [३.१३.७ ]> इतीषीकाञ्जिमण्डूकं नीललोहिताभ्यां सकक्षं बद्ध्वा (कौशिकसूत्र ५,४[४०].५) <इहेत्थम् [३.१३.७ ]> इत्यवकया प्रछादयति (कौशिकसूत्र ५,४[४०].६) <यत्रेदं [३.१३.७ ]>_इति निनयति (कौशिकसूत्र ५,४[४०].७) मारुतं क्षीरौदनं मारुतशृतं मारुतैः परिस्तीर्य मारुतेन स्रुवेण मारुतेनाज्येन वरुणाय त्रिर्जुहोति (कौशिकसूत्र ५,४[४०].८) उक्तमुपमन्थनम् (कौशिकसूत्र ५,४[४०].९) दधिमन्थं बलिं हृत्वा संप्रोक्षणीभ्यां प्रसिञ्चन् व्रजति (कौशिकसूत्र ५,४[४०].१०) पाणिना वेत्रेण वा प्रत्याहत्य_उपरि निपद्यते (कौशिकसूत्र ५,४[४०].११) <अयं ते योनिर्[३.२०.१]> इत्यरण्योरग्निं समारोपयति (कौशिकसूत्र ५,४[४०].१२) आत्मनि वा (कौशिकसूत्र ५,४[४०].१३) <उपावरोह जातवेदः पुनर्देवो देवेभ्यो हव्यं वह प्रजानन् । आनन्दिनो मोदमानाः सुवीरा इन्धीमहि त्वा शरदां शतानि [दृष्टव्यम्‌ ट्B २.५.८.८, ॑षाङ्ख्॑ष्ष्२.१७.१, ॑षाङ्ह्ङ्ष्५.१.७]>_इत्युपावरोहयति (कौशिकसूत्र ५,४[४०].१४) <यां त्वा गन्धर्वो अखनद्[४.४.१ (= ড়्ष्४.५.१)]> <वृषणस्ते खनितारो वृषा त्वमस्योषधे । वृषासि वृष्ण्यावति वृषणे त्वा खनामसि [ড়्ष्४.५.२]>_इत्युच्छुष्मापरिव्याधावायसेन खनति (कौशिकसूत्र ५,४[४०].१५) दुग्धे फाण्टौ_+अधिज्यमुपस्थ+ (एद्. अदिज्योपस्थ॑ दृष्टव्यम्‌ Bलोओम्fइएल्द्, ष्BE ४२, प्. ३६९, न्. २) आधाय पिबति (कौशिकसूत्र ५,४[४०].१६) मयूखे मुसले वासीनो <यथासितः [६.७२.१]>_इत्येकार्कसूत्रमार्कं बध्नाति (कौशिकसूत्र ५,४[४०].१७) <यावदङ्गीनं [६.७२.३]>_इत्यसितस्कन्धमसितवालेन (कौशिकसूत्र ५,४[४०].१८) <आ वृषायस्व [६.१०१.१]>_इत्युभयमप्येति (कौशिकसूत्र ५,५[४१].१) <समुत्पतन्तु [४.१५.१]> <प्र नभस्व [७.१८.१]>_इति वर्षकामो द्वादशरात्रमनुशुष्येत् (कौशिकसूत्र ५,५[४१].२) सर्वव्रत उपश्राम्यति (कौशिकसूत्र ५,५[४१].३) मरुतो यजते यथा वरुणं जुहोति (कौशिकसूत्र ५,५[४१].४) ओषधीः संपातवतीः प्रवेश्याभिन्युब्जति (कौशिकसूत्र ५,५[४१].५) विप्लावयेत (कौशिकसूत्र ५,५[४१].६) श्वशिरएटकशिरःकेशजरदुपानहो वंशाग्रे प्रबध्य योधयति (कौशिकसूत्र ५,५[४१].७) उदपात्रेण संपातवता संप्रोक्ष्यामपात्रं त्रिपादे_अश्मानमवधायाप्सु निदधाति (कौशिकसूत्र ५,५[४१].८) <अयं ते योनिर्[३.२०.१]> <आ नो भर [५.७.१]> <धीती वा [७.१.१]>_इत्यर्थमुत्थास्यन्नुपदधीत (कौशिकसूत्र ५,५[४१].९) जपति (कौशिकसूत्र ५,५[४१].१०) पूर्वासु_अषाढासु गर्तं खनति (कौशिकसूत्र ५,५[४१].११) उत्तरासु संचिनोति (कौशिकसूत्र ५,५[४१].१२) आदेवनं संस्तीर्य (कौशिकसूत्र ५,५[४१].१३) <उद्भिन्दतीं संजयन्तीम् [४.३८.१]>_<यथा वृक्षमशनिर्[७.५०.१]> <इदमुग्राय [७.१०९.१]>_इति वासितानक्षान्निवपति (कौशिकसूत्र ५,५[४१].१४) <अम्बयो यन्त्य्[१.४.१]>_शंभुमयोभू [१.५, १.६] <हिरण्यवर्णाः [१.३३.१]>_<यददः [३.१३.१]> <पुनन्तु मा [६.१९.१]> <सस्रुषीस्[६.२३.१]>_<हिमवतः प्र स्रवन्ति [६.२४.१]> <वायोः पूतः पवित्रेण [६.५१.१]> <शं च नो मयश्च नो [६.५७.३]>_<अनडुद्भ्यस्त्वं प्रथमं [६.५९.१]> <मह्यमापो [६.६१.१]> <वैश्वानरो रश्मिभिर्[६.६२.१]> इत्यभिवर्षणावसेचनानाम् (कौशिकसूत्र ५,५[४१].१५) उत्तमेन वाचस्पतिलिङ्गाभिरुद्यन्तमुपतिष्ठते (कौशिकसूत्र ५,५[४१].१६) स्नातो_अहतवसनो निक्त्वाहतमाछादयति (कौशिकसूत्र ५,५[४१].१७) ददाति (कौशिकसूत्र ५,५[४१].१८) <यथा मांसम् [६.७०.१]> इति वचनम् (कौशिकसूत्र ५,५[४१].१९) वत्सं संधाव्य गोमूत्रेणावसिच्य त्रिः परिणीय_उपचृतति (कौशिकसूत्र ५,५[४१].२०) शिरःकर्णमभिमन्त्रयते (कौशिकसूत्र ५,५[४१].२१) <वातरंहा [६.९२.१]> इति स्नाते_अश्वे संपातानभ्यतिनयति (कौशिकसूत्र ५,५[४१].२२) पलाशे चूर्णेषूत्तरान् (कौशिकसूत्र ५,५[४१].२३) आचमयति (कौशिकसूत्र ५,५[४१].२४) आप्लावयति (कौशिकसूत्र ५,५[४१].२५) चूर्णैरवकिरति (कौशिकसूत्र ५,५[४१].२६) त्रिर्<एकया च [७.४.१]>_इति (कौशिकसूत्र ५,६[४२].१) <भद्रादधि [७.८.१]>_इति प्रवत्स्यन्नुपदधीत (कौशिकसूत्र ५,६[४२].२) जपति (कौशिकसूत्र ५,६[४२].३) यानं संप्रोक्ष्य विमोचयति (कौशिकसूत्र ५,६[४२].४) द्रव्यं संपातवदुत्थापयति (कौशिकसूत्र ५,६[४२].५) निर्मृज्य_उपयछति (कौशिकसूत्र ५,६[४२].६) <उभा जिग्यथुर्[७.४४.१]> इत्यार्द्रपादाभ्यां सांमनस्यम् (कौशिकसूत्र ५,६[४२].७) यानेन प्रत्यञ्चौ ग्रामान् प्रतिपाद्य प्रयछति (कौशिकसूत्र ५,६[४२].८) आयातः समिध आदाय_<ऊर्जं बिभ्रद्[७.६०.१]> इत्यसंकल्पयन्नेत्य सकृदादधाति (कौशिकसूत्र ५,६[४२].९) <ऋचं साम [७.५४.१]>_इत्यनुप्रवचनीयस्य जुहोति (कौशिकसूत्र ५,६[४२].१०) युक्ताभ्यां तृतीयाम् (कौशिकसूत्र ५,६[४२].११) आनुमतीं चतुर्थीम् (कौशिकसूत्र ५,६[४२].१२) समावर्तनीयसमापनीययोस्_च_एषा_इज्या (कौशिकसूत्र ५,६[४२].१३) <आपो दिव्या [७.८९.१।१०.५.४६]> इति पर्यवेतव्रत उदकान्ते शान्त्युदकमभिमन्त्रयते (कौशिकसूत्र ५,६[४२].१४) अस्तमिते समित्पाणिरेत्य तृतीयवर्जं समिध आदधाति (कौशिकसूत्र ५,६[४२].१५) <इदावत्सराय [ড়्ष्१९.५१.१४]>_इति व्रतविसर्जनमाज्यं जुहुयात् (कौशिकसूत्र ५,६[४२].१६) समिधो_अभ्यादध्यात् (कौशिकसूत्र ५,६[४२].१७) <इदावत्सराय परिवत्सराय संवत्सराय प्रति वेदयाम एनत् । यद्व्रतेषु दुरितं निजग्मिमो दुर्हार्दं तेन शमलेनाञ्ज्मः ॥ यन्मे व्रतं व्रतपते लुलोभाहोरात्रे समधातां म एनत् । उद्यन् पुरस्ताद्भिषगस्तु चन्द्रमाः सूर्यो रश्मिभिरभि गृणात्वेनत् ॥ यद्व्रतमतिपेदे चित्त्या मनसा हृदा । आदित्या रुद्रास्तन्मयि वसवश्च समिन्धताम् ॥ व्रतानि व्रतपतय उपा करोम्यग्नये । स मे द्युम्नं बृहद्यशो दीर्घमायुः कृणोतु मे ॥ [ড়्ष्१९.५१.१४]>_इति व्रतसमापनीरादधाति (कौशिकसूत्र ५,६[४२].१८) त्रिरात्रमरसाशी स्नातव्रतं चरति (कौशिकसूत्र ५,६[४२].१९) <निर्लक्ष्म्यं [१.१८.१]>_इति पापलक्षणाया मुखमुक्षति_अन्वृचं दक्षिणात्केशस्तुकात् (कौशिकसूत्र ५,६[४२].२०) पलाशेन फलीकरणान् हुत्वा शेषं प्रत्यानयति (कौशिकसूत्र ५,६[४२].२१) फलीकरणतुषबुसावतक्षणानि सव्यायां पादपार्ष्ण्यां निदधाति (कौशिकसूत्र ५,६[४२].२२) अपनोदनापाघाभ्यामन्वीक्षं प्रतिजपति (कौशिकसूत्र ५,६[४२].२३) <दीर्घायुत्वाय [२.४.१]>_इति मन्त्रोक्तं बध्नाति (कौशिकसूत्र ५,७[४३].१) <कर्शफस्य [३.९.१]>_इति पिशङ्गसूत्रमरलुदण्डं यदायुधम् (कौशिकसूत्र ५,७[४३].२) फलीकरणैर्धूपयति (कौशिकसूत्र ५,७[४३].३) <अति धन्वान्य्[७.४१.१]>_इत्यवसाननिवेशनानुचरणातिनयन+_इज्या [एद्. चरणानि निनयन्नेज्या॑ दृष्टव्यम्‌ Cअलन्द्, आZ, प्. १४७, न्. २॑ बुत्Bलोओम्fइएल्द्ङ्ङा १९०२ ५१२!] (कौशिकसूत्र ५,७[४३].४) वास्तोष्पतीयैः कुलिजकृष्टे दक्षिणतो_अग्नेः संभारमाहरति (कौशिकसूत्र ५,७[४३].५) वास्तोष्पत्यादीनि महाशान्तिमावपते (कौशिकसूत्र ५,७[४३].६) मध्यमे गर्ते दर्भेषु व्रीहियवमावपति (कौशिकसूत्र ५,७[४३].७) शान्त्युदकशष्पशर्करमन्येषु (कौशिकसूत्र ५,७[४३].८) <इहैव ध्रुवां [३.१२.१]>_इत्य्मीयमानामुच्छ्रीयमाणामनुमन्त्रयते (कौशिकसूत्र ५,७[४३].९) अभ्यज्य_<ऋतेन [३.१२.६]>_इति मन्त्रोक्तम् (कौशिकसूत्र ५,७[४३].१०) <पूर्णं नारि [३.१२.८]>_इत्युदकुम्भमग्निमादाय प्रपद्यन्ते (कौशिकसूत्र ५,७[४३].११) ध्रुवाभ्यां दृंहयति (कौशिकसूत्र ५,७[४३].१२) शंभुमयोभुभ्यां विष्यन्दयति (कौशिकसूत्र ५,७[४३].१३) <वास्तोष्पते प्रति जानीह्यस्मान् स्वावेशो अनमीवो न एधि । यत्त्वेमहे प्रति नस्तज्जुषस्व चतुष्पदो द्विपद आ वेशयेह ॥ [ড়्ष्७.६.१०]> <अनमीवो वास्तोष्पते विश्वा रूपाण्याविशन् । सखा सुशेव एधि नः ॥ [ড়्ष्२०.२३.२]>_इति वास्तोष्पतये क्षीरौदनस्य जुहोति (कौशिकसूत्र ५,७[४३].१४) सर्वान्नानि ब्राह्मणान् भोजयति (कौशिकसूत्र ५,७[४३].१५) मङ्गल्यानि (कौशिकसूत्र ५,७[४३].१६) <ये अग्नयो [३.२१.१७]>_इति क्रव्यादनुपहत इति पलाशं बध्नाति (कौशिकसूत्र ५,७[४३].१७) जुहोति (कौशिकसूत्र ५,७[४३].१८) आदधाति (कौशिकसूत्र ५,७[४३].१९) उदञ्चनेन_उदपात्र्यां यवानद्भिरानीय_उल्लोपम् (कौशिकसूत्र ५,७[४३].२०) <ये अग्नयो [३.२१.१]>_इति पालाश्या दर्व्या मन्थमुपमथ्य काम्पीलीभ्यामुपमन्थनीभ्याम् (कौशिकसूत्र ५,७[४३].२१) शमनं च (कौशिकसूत्र ५,८[४४].१) <य आत्मदा [४.२.१]> इति वशाशमनम् (कौशिकसूत्र ५,८[४४].२) पुरस्तादग्नेः प्रतीचीं धारयति (कौशिकसूत्र ५,८[४४].३) पश्चादग्नेः प्राङ्मुख उपविश्यान्वारब्धायै शान्त्युदकं करोति (कौशिकसूत्र ५,८[४४].४) तत्र_एतत्सूक्तमनुयोजयति (कौशिकसूत्र ५,८[४४].५) तेन_एनामाचामयति च संप्रोक्षति च (कौशिकसूत्र ५,८[४४].६) तिष्ठन्_तिष्ठन्तीं महाशान्तिमुच्चैरभिनिगदति (कौशिकसूत्र ५,८[४४].७) <य ईशे पशुपतिः पशूनाम् [२.३४.१]> इति हुत्वा वशामनक्ति शिरसि ककुदे जघनदेशे (कौशिकसूत्र ५,८[४४].८) अन्यतरां स्वधितिधारामनक्ति (कौशिकसूत्र ५,८[४४].९) अक्तया वपामुत्खनति (कौशिकसूत्र ५,८[४४].१०) दक्षिणे पार्श्वे दर्भाभ्यामधिक्षिपति_अमुष्मै त्वा जुष्टमिति यथादेवतम् (कौशिकसूत्र ५,८[४४].११) <निस्सालाम् [२.१४.१]> इत्युल्मुकेन त्रिः प्रसव्यं परिहरति_अनभिपरिहरनात्मानम् (कौशिकसूत्र ५,८[४४].१२) दर्भाभ्यामन्वारभते (कौशिकसूत्र ५,८[४४].१३) पश्चादुत्तरतो_अग्नेः प्रत्यक्शीर्षीमुदक्पादीं निविध्यति (कौशिकसूत्र ५,८[४४].१४) <समस्यै तन्वा भव [ (नोते अस्यै = ङेनितिवे?)]>_इत्यन्यतरं दर्भमवास्यति (कौशिकसूत्र ५,८[४४].१५) अथ प्राणानास्थापयति <प्रजानन्तः [२.३४.५]>_इति (कौशिकसूत्र ५,८[४४].१६) दक्षिणतस्तिष्ठन् रक्षोहणं जपति (कौशिकसूत्र ५,८[४४].१७) संज्ञप्तायां जुहोति <यद्वशा मायुमक्रतोरो वा पड्भिराहत । अग्निर्मा तस्मादेनसो विश्वान्मुञ्चत्वंहसः [, दृष्टव्यम्‌ ट्ष्३.१.४.३, ंन्B २.२.८ इत्यादि]>_इति (कौशिकसूत्र ५,८[४४].१८) उदपात्रेण पत्नी_अभिव्रज्य मुखादीनि गात्राणि प्रक्षालयते (कौशिकसूत्र ५,८[४४].१९) मुखं शुन्धस्व देवज्याया इति (कौशिकसूत्र ५,८[४४].२०) प्राणानिति नासिके (कौशिकसूत्र ५,८[४४].२१) चक्षुरिति चक्षुषी (कौशिकसूत्र ५,८[४४].२२) श्रोत्रमिति कर्णौ (कौशिकसूत्र ५,८[४४].२३) <यत्ते क्रूरं यदास्थितं [Vष्ं ६.१५]>_इति समन्तं रज्जुधानम् (कौशिकसूत्र ५,८[४४].२४) चरित्राणीति पादात्समाहृत्य (कौशिकसूत्र ५,८[४४].२५) नाभिमिति नाभिम् (कौशिकसूत्र ५,८[४४].२६) मेढ्रमिति मेढ्रम् (कौशिकसूत्र ५,८[४४].२७) पायुमिति पायुम् (कौशिकसूत्र ५,८[४४].२८) <यत्ते क्रूरं यदास्थितं तच्छुन्धस्व [, दृष्टव्यम्‌ Vष्ं ६.१४१५, ट्ष्१.३.९.१, Bऔध्॑ष्ष्४.६११८.१५ इत्यादि]>_इति अवशिष्टाः पार्श्वदेशे_अवसिच्य यथार्थं व्रजति (कौशिकसूत्र ५,८[४४].२९) वपाश्रपण्यौ_आज्यं स्रुवं स्वधितिं दर्भमादायाभिव्रज्य_उत्तानां +परिवर्त्यानुलोमं (एद्. परिवर्त्मा॑ सेए Cअलन्द्, Kल्. ष्छ्र्., प्. ६१) नाभिदेशे दर्भमास्तृणाति (कौशिकसूत्र ५,८[४४].३०) <ओषधे त्रायस्वैनं स्वधिते मैनं हिंसीः [Vष्ं ६.१५]>_इति शस्त्रं प्रयछति (कौशिकसूत्र ५,८[४४].३१) इदमहमामुष्यायणस्यामुष्याः पुत्रस्य प्राणापानावपकृन्तामीत्यपकृत्य (कौशिकसूत्र ५,८[४४].३२) अधरप्रव्रस्केन लोहितस्यापहत्य (कौशिकसूत्र ५,८[४४].३३) इदमहमामुष्यायणस्यामुष्याः पुत्रस्य प्राणापानौ निखनामीत्यास्ये निखनति (कौशिकसूत्र ५,८[४४].३४) <वपया द्यावापृथिवी प्रोर्णुवाथाम् [, दृष्टव्यम्‌ Vष्ं ६.१६]> इति वपाश्रपण्यौ वपया प्रछाद्य (कौशिकसूत्र ५,८[४४].३५) स्वधितिना प्रकृत्य_उत्कृत्य (कौशिकसूत्र ५,८[४४].३६) आव्रस्कमभिघार्य (कौशिकसूत्र ५,८[४४].३७) <वायो वे [एद्. वायवे, सेए Bलोओम्fइएल्दाञ्ঢ়्२७ (१९०६), प्.४१६] स्तोकानाम् [Vष्ं ६.१६]> इति दर्भाग्रं प्रास्यति (कौशिकसूत्र ५,८[४४].३८) <प्रत्युष्टं रक्षः [ट्ष्१.१.२.१, Kऔश्ष्१.३.९ इत्यादि]>_इति चरुमङ्गारे निदधाति (कौशिकसूत्र ५,८[४४].३९) <देवस्त्वा सविता श्रपयतु [दृष्टव्यम्‌ Vष्ं १.२२, ट्B ३.२.८.६]>_इति श्रपयति (कौशिकसूत्र ५,८[४४].४०) सुशृतां करोति (कौशिकसूत्र ५,९[४५].१) यदि_अष्टापदी स्याद्गर्भमञ्जलौ सहिरण्यं सयवं वा <य आत्मदा [४.२.१]> इति खदायां त्र्यरत्नौ_अग्नौ सकृत्_जुहोति (कौशिकसूत्र ५,९[४५].२) विशस्य समवत्तानि_अवद्येत् (कौशिकसूत्र ५,९[४५].३) <हृदयं जिह्वा श्येनश्च दोषी पार्श्वे च तानि षट् । यकृद्वृक्कौ गुदश्रोणी तान्येकादश दैवतानि । [, दृष्टव्यम्‌ आअप्॑ष्ष्७.२२.६, Kआत्य्॑ष्ष्६.७.६ इत्यादि]> (कौशिकसूत्र ५,९[४५].४) <दक्षिणः कपिललाटः सव्या श्रोणिर्गुदश्च यः । एतानि त्रीणि त्र्यङ्गानि स्विष्टकृद्भाग एव । [, दृष्टव्यम्‌ आअप्॑ष्ष्७.२२.६, Kआत्य्॑ष्ष्६.७.७ इत्यादि]> (कौशिकसूत्र ५,९[४५].५) तदवद्य प्रज्ञातानि श्रपयेत् (कौशिकसूत्र ५,९[४५].६) होष्यन् द्विर्द्विर्देवतानामवद्येत् (कौशिकसूत्र ५,९[४५].७) सकृत्सकृत्सौविष्टकृतानाम् (कौशिकसूत्र ५,९[४५].८) वपायाः <समिद्धो [५.१२.१]>_<ऊर्ध्वा अस्य [५.२७.१]>_इति जुहोति (कौशिकसूत्र ५,९[४५].९) युक्ताभ्यां तृतीयाम् (कौशिकसूत्र ५,९[४५].१०) आनुमतीं चतुर्थीम् (कौशिकसूत्र ५,९[४५].११) <जातवेदो वपया गछ देवांस्त्वं हि होता प्रथमो बभूथ । घृतस्याग्ने तन्वा सं भव सत्याः सन्तु यजमानस्य कामाः स्वाहा । [दृष्टव्यम्‌ ट्ष्३.१.४.४]> (कौशिकसूत्र ५,९[४५].१२) ऊर्ध्वनभसं [एम्. Bलोओम्fइएल्द्ङ्ङा १९०२ ५१४ एद्. ऊर्ध्वं नभसं] गछतमिति वपाश्रपण्यौ_अनुप्रहरति (कौशिकसूत्र ५,९[४५].१३) प्राचीमेकशृङ्गां प्रतीचीं द्विशृङ्गाम् (कौशिकसूत्र ५,९[४५].१४) <वह वपां जातवेदः पितृभ्यो यत्रैतान् वेत्थ निहितान् पराके । मेदसः कुल्या उप तान् स्रवन्तु सत्या एषामाशिषः सन्तु कामाः स्वाहा स्वधा [सेए ८४.१, दृष्टव्यम्‌ ंन्B २.३.१८, Vष्ं ३५.२०]>_इति वपायास्त्रिर्जुहोति (कौशिकसूत्र ५,९[४५].१५) समवत्तानाम् (कौशिकसूत्र ५,९[४५].१६) स्थालीपाकस्य <सम्राडस्यधिश्रयणं नाम सखीनामभ्यहं विश्वा आशाः साक्षीय । कामोऽसि कामाय त्वा सर्ववीराय सर्वपुरुषाय सर्वगणाय सर्वकामाय जुहोमि । अन्वद्य नोऽनुमतिः पूषा सरस्वती मही । यत्करोमि तदृध्यतामनुमतये स्वाहा []>_इति जुहोति (कौशिकसूत्र ५,९[४५].१७) <क इदं कस्मा अदात्[३.२९.७८]> <कामस्तदग्रे [१९.५२.१]> <यदन्नम् [६.७१.१]>_<पुनर्मैत्विन्द्रियं [७.६७.१]>_इति प्रतिगृह्णाति (कौशिकसूत्र ५,९[४५].१८) उत्तमा सर्वकामा (कौशिकसूत्र ५,९[४५].१९) वशया पाकयज्ञा व्याख्याताः (कौशिकसूत्र ५,१०[४६].१) <उतामृतासुर्[५.१.७]>_<शिवास्त [७.४३.१]> इत्यभ्याख्याताय प्रयछति (कौशिकसूत्र ५,१०[४६].२) द्रुघणशिरो रज्ज्वा बध्नाति (कौशिकसूत्र ५,१०[४६].३) प्रतिरूपं पलाशायोलोहहिरण्यानाम् (कौशिकसूत्र ५,१०[४६].४) <येन सोम [६.७.१]>_इति याजयिष्यन् सारूपवत्समश्नाति (कौशिकसूत्र ५,१०[४६].५) निधने यजते (कौशिकसूत्र ५,१०[४६].६) <यं याचाम्य्[५.७.५]>_<यदाशसा [७.५७.१]>_इति याचिष्यन् (कौशिकसूत्र ५,१०[४६].७) मन्त्रोक्तानि पतितेभ्यो <देवाः कपोत [६.२७.१]> <ऋचा कपोतं [६.२८.१]>_<अमून् हेतिः [६.२९.१]>_इति महाशान्तिमावपते (कौशिकसूत्र ५,१०[४६].८) <परीमेऽग्निम् [६.२८.२]> इत्यग्निं गामादाय निशि कारयमाणस्त्रिः शालां परिणयति (कौशिकसूत्र ५,१०[४६].९) <परोऽपेहि [६.४५.१]> <यो न जीवो [६.४६.१]>_इति स्वप्नं दृष्ट्वा मुखं विमार्ष्टि (कौशिकसूत्र ५,१०[४६].१०) अतिघोरं दृष्ट्वा मैश्रधान्यं पुरोडाशमन्याशायां वा निदधाति (कौशिकसूत्र ५,१०[४६].११) <पर्यावर्ते [७.१००.१]>_इति पर्यावर्तते (कौशिकसूत्र ५,१०[४६].१२) <यत्स्वप्ने [७.१०१.१]>_इति अशित्वा वीक्षते (कौशिकसूत्र ५,१०[४६].१३) <विद्म [एद्. मिस्प्रिन्त्विद्मा] ते स्वप्न [६.४६.२]>_इति सर्वेषामप्ययः (कौशिकसूत्र ५,१०[४६].१४) <नहि ते अग्ने तन्वः [६.४९.१]>_इति ब्रह्मचारी_आचार्यस्यादहन उपसमाधाय त्रिः परिक्रम्य पुरोडाशं जुहोति (कौशिकसूत्र ५,१०[४६].१५) त्रिरात्रमपर्यावर्तमानः शयीत (कौशिकसूत्र ५,१०[४६].१६) न_उपशयीत_इति कौशिकः (कौशिकसूत्र ५,१०[४६].१७) स्नानीयाभिः स्नायात् (कौशिकसूत्र ५,१०[४६].१८) अपर्यवेतव्रतः प्रत्युपेयात् (कौशिकसूत्र ५,१०[४६].१९) अवकीर्णिने दर्भशुल्बमासज्य <यत्ते देवी [६.६३.१]>_इति आवपति (कौशिकसूत्र ५,१०[४६].२०) एवं संपातवता_उदपात्रेणावसिच्य (कौशिकसूत्र ५,१०[४६].२१) मन्त्रोक्तं शान्त्युदकेन संप्रोक्ष्य (कौशिकसूत्र ५,१०[४६].२२) <संसमिद्[६.६३.४]> इति स्वयंप्रज्वलिते_अग्नौ (कौशिकसूत्र ५,१०[४६].२३) <अग्नी रक्षांसि सेधति [८.३.२६]>_इति सेधन्तम् (कौशिकसूत्र ५,१०[४६].२४) <यदस्मृति [७.१०६.१]>_इति संदेशमपर्याप्य (कौशिकसूत्र ५,१०[४६].२५) <प्रत्नो हि [६.११०.१]>_इति पापनक्षत्रे जाताय मूलेन (कौशिकसूत्र ५,१०[४६].२६) <मा ज्येष्ठं [६.११२.१]> <तृते [रेअद्त्रिते] देवा [६.११३.१]> इति परिवित्तिपरिविविदानौ_उदकान्ते मौञ्जैः पर्वसु बद्ध्वा पिञ्जूलीभिराप्लावयति (कौशिकसूत्र ५,१०[४६].२७) अवसिञ्चति (कौशिकसूत्र ५,१०[४६].२८) फेनेषूत्तरान् पाशानाधाय <नदीनां फेनान् [६.११३.२ ]> इति प्रप्लावयति (कौशिकसूत्र ५,१०[४६].२९) सर्वैस्_च प्रविश्यापां सूक्तैः (कौशिकसूत्र ५,१०[४६].३०) देवहेडनेन मन्त्रोक्तम् (कौशिकसूत्र ५,१०[४६].३१) आचार्याय (कौशिकसूत्र ५,१०[४६].३२) उपदधीत (कौशिकसूत्र ५,१०[४६].३३) खदाशयस्यावपते (कौशिकसूत्र ५,१०[४६].३४) वैवस्वतं यजते (कौशिकसूत्र ५,१०[४६].३५) चतुःशरावं ददाति (कौशिकसूत्र ५,१०[४६].३६) उत्तमर्णे मृते तदपत्याय प्रयछति (कौशिकसूत्र ५,१०[४६].३७) सगोत्राय (कौशिकसूत्र ५,१०[४६].३८) श्मशाने निवपति (कौशिकसूत्र ५,१०[४६].३९) चतुष्पथे च (कौशिकसूत्र ५,१०[४६].४०) कक्षानादीपयति (कौशिकसूत्र ५,१०[४६].४१) <दिवो नु माम् [६.१२४.१]> इति वीध्रबिन्दून् प्रक्षालयति (कौशिकसूत्र ५,१०[४६].४२) मन्त्रोक्तैः स्पृशति (कौशिकसूत्र ५,१०[४६].४३) यस्य_उत्तमदन्तौ पूर्वौ जायेते <यौ व्याघ्राव्[६.१४०.१]> इत्यावपति (कौशिकसूत्र ५,१०[४६].४४) मन्त्रोक्तान् दंशयति (कौशिकसूत्र ५,१०[४६].४५) शान्त्युदकशृतमादिष्टानामाशयति (कौशिकसूत्र ५,१०[४६].४६) पितरौ च (कौशिकसूत्र ५,१०[४६].४७) <इदं यत्कृष्णः [७.६४.१]>_इति कृष्णशकुनिनाधिक्षिप्तं प्रक्षालयति (कौशिकसूत्र ५,१०[४६].४८) उपमृष्टं पर्यग्नि करोति (कौशिकसूत्र ५,१०[४६].४९) <प्रतीचीनफलो [७.६५.१]>_इत्यपामार्गेध्मे_अपमार्गीरादधाति (कौशिकसूत्र ५,१०[४६].५०) <यदर्वाचीनं [१०.५.२२]>_इत्याचामति (कौशिकसूत्र ५,१०[४६].५१) <यत्ते भूमे [१२.१.३५]>_इति विखनति (कौशिकसूत्र ५,१०[४६].५२) <यत्त ऊनं [१२.१.६१ ]>_इति संवपति (कौशिकसूत्र ५,१०[४६].५३) <प्रेहि प्र हर [ড়्ष्२०.५०.५७, .ऋVKह्२.२.२, .ऋV २.४३.३, ড়्ष्२०.५०.८]>_इति कापिञ्जलानि स्वस्त्ययनानि भवन्ति (कौशिकसूत्र ५,१०[४६].५४) <प्रेहि प्र हर वा दावान् गृहेभ्यः स्वस्तये । कपिञ्जल प्रदक्षिणं शतपत्त्राभि नो वद ॥ भद्रं वद दक्षिणतो भद्रमुत्तरतो वद । भद्रं पुरस्तान्नो वद भद्रं पश्चात्कपिञ्जल ॥ शुनं वद दक्षिणतः शुनमुत्तरतो वद । शुनं पुरस्तान्नो वद शुनं पश्चात्कपिञ्जल ॥ [ড়्ष्२०.५०.५७]> <भद्रं वद पुत्रैर्भद्रं वद गृहेषु च । भद्रमस्माकं वद भद्रं नो अभयं वद ॥ [.ऋVKह्२.२.२]> <आवदंस्त्वं शकुने भद्रमा वद तूष्णीमासीनः सुमतिं चिकिद्धि नः । यदुत्पतन् वदसि कर्करिर्यथा बृहद्वदेम विदथे सुवीराः ॥ [.ऋV २.४३.३]> <यौवनानि महयसि जिग्युषामिव दुन्दुभिः । कपिञ्जल प्रदक्षिणं शतपत्त्राभि नो वद ॥ [ড়्ष्२०.५०.८, दृष्टव्यम्‌ .ऋVKह्२.२.५]>_इति कापिञ्जलानि स्वस्त्ययनानि भवन्ति (कौशिकसूत्र ५,१०[४६].५५) <यो अभ्यु बभ्रुणायसि स्वपन्तमत्सि पुरुषं शयानमगत्स्वलम् । अयस्मयेन ब्रह्मणाश्ममयेन वर्मणा पर्यस्मान् वरुणो दधत्[ড়्ष्२०.९.४]>_इत्यभ्यवकाशे संविशति_अभ्यवकाशे संविशति (Kऔश्ष्५ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे पञ्चमोऽध्यायः समाप्तः (कौशिकसूत्र ६,१[४७].१) उभयतः परिछिन्नं शरमयं बर्हिराभिचारिकेषु (कौशिकसूत्र ६,१[४७].२) दक्षिणतः संभारमाहरति_आङ्गिरसम् (कौशिकसूत्र ६,१[४७].३) इङ्गिडमाज्यम् (कौशिकसूत्र ६,१[४७].४) सव्यानि (कौशिकसूत्र ६,१[४७].५) दक्षिणापवर्गाणि (कौशिकसूत्र ६,१[४७].६) दक्षिणाप्रवणे इरिणे दक्षिणामुखः प्रयुङ्क्ते (कौशिकसूत्र ६,१[४७].७) साग्नीनि (कौशिकसूत्र ६,१[४७].८) <अग्ने यत्ते तपस्[२.१९.१]>_इति पुरस्ताद्धोमाः (कौशिकसूत्र ६,१[४७].९) <तथा तदग्ने कृणु जातवेदो [५.२९.२]>_इत्याज्यभागौ (कौशिकसूत्र ६,१[४७].१०) <निरमुं नुद [६.७५.१]> इति संस्थितहोमाः (कौशिकसूत्र ६,१[४७].११) कृत्तिकारोकारोधावाप्येषु (कौशिकसूत्र ६,१[४७].१२) भरद्वाजप्रव्रस्केनाङ्गिरसं दण्डं वृश्चति (कौशिकसूत्र ६,१[४७].१३) <मृत्योरहं [६.१३३.३]>_इति बाधकीमादधाति (कौशिकसूत्र ६,१[४७].१४) <य इमां [६.१३३.१]>_<अयं वज्रस्[६.१३४.१]>_इति द्विगुणामेकवीरान् संनह्य (संव्यूह्य? षेए Cअलन्द्, आZ, अळ्.) पाशान्निमुष्टितृतीयं दण्डं संपातवत् (कौशिकसूत्र ६,१[४७].१५) पूर्वाभिर्बध्नीते (कौशिकसूत्र ६,१[४७].१६) <वज्रोऽसि सपत्नहा त्वयाद्य वृत्रं साक्षीय । त्वामद्य वनस्पते वृक्षाणामुदयुष्महि ॥ स न इन्द्रपुरोहितो [सेए Bलोओम्fइएल्द्, आञ्ঢ়्२७ (१९०६), ४१६] विश्वतः पाहि रक्षसः । अभि गावो अनूषताभि द्युम्नं बृहस्पते ॥ प्राण प्राणं त्रयस्वासो असवे मृ॑ल । निरृते निरृत्या नः पाशेभ्यो मुञ्च ॥ [ড়्ष्१९.४२.४६ (अल्सो अताVড়रिश्३७.१.८) दृष्टव्यम्‌ १९.४४.४]> इति दण्डमादत्ते (कौशिकसूत्र ६,१[४७].१७) भक्तस्याहुतेन मेखलाया ग्रन्थिमालिम्पति (कौशिकसूत्र ६,१[४७].१८) <अयं वज्रस्[६.१३४.१]>_इति बाह्यतो दण्डमूर्ध्वमवागग्रं तिसृभिरन्वृचं निहन्ति (कौशिकसूत्र ६,१[४७].१९) अन्तरुपस्पृशेत् (कौशिकसूत्र ६,१[४७].२०) <यदश्नामि [६.१३५.१]>_इति मन्त्रोक्तम् (कौशिकसूत्र ६,१[४७].२१) यत्पात्रमाहन्ति <फड्ढतोऽसौ [दृष्टव्यम्‌ Kऔश्ष्११६.७, अन्द्Vष्ं ७.३ = ॑ष्Bं ४.१.१.२६ इत्यादि]>_इति (कौशिकसूत्र ६,१[४७].२२) इदमहमामुष्यायणस्यामुष्याः पुत्रस्य प्राणापानावप्यायछामीत्यायछति (कौशिकसूत्र ६,१[४७].२३) <येऽमावास्यां [१.१६.१]>_इति संनह्य सीसचूर्णानि भक्ते_अलंकारे (कौशिकसूत्र ६,१[४७].२४) पराभूतवेणोर्यष्ट्या बाहुमात्र्यालंकृतयाहन्ति (कौशिकसूत्र ६,१[४७].२५) <द्यावापृथिवी उर्व्[२.१२.१]> इति परशुपलाशेन दक्षिणा धावतः पदं वृश्चति (कौशिकसूत्र ६,१[४७].२६) अन्वक्त्रिस्तिर्यक्त्रिः (कौशिकसूत्र ६,१[४७].२७) अक्ष्णया संस्थाप्य (कौशिकसूत्र ६,१[४७].२८) +आव्रस्कात्पांसून्+ (एद्. आव्रस्कान्यांशून्॑ सेए Cअलन्द्, आZ, अळ्.) पलाशमुपनह्य भ्रष्ट्रे_अभ्यस्यति (कौशिकसूत्र ६,१[४७].२९) स्फोटत्सु स्तृतः (कौशिकसूत्र ६,१[४७].३०) पश्चादग्नेः कर्ष्वां कूद्युपस्तीर्णायां द्वादशरात्रमपर्यावर्तमानः शयीत (कौशिकसूत्र ६,१[४७].३१) तत उत्थाय त्रिरह्न उदवज्रान् प्रहरति (कौशिकसूत्र ६,१[४७].३२) नद्या अनामसंपन्नाया अश्मानं प्रास्यति (कौशिकसूत्र ६,१[४७].३३) उष्णे_अक्षतसक्तूननूपमथिताननुच्छ्वसन् पिबति (कौशिकसूत्र ६,१[४७].३४) कथं त्रींस्त्रीन् काशीन्_त्रिरात्रम् (कौशिकसूत्र ६,१[४७].३५) द्वौद्वौ त्रिरात्रम् (कौशिकसूत्र ६,१[४७].३६) एकैकं षड्रात्रम् (कौशिकसूत्र ६,१[४७].३७) द्वादश्याः प्रातः क्षीरौदनं भोजयित्वा_उच्छिष्टानुच्छिष्टं बहुमत्स्ये प्रकिरति (कौशिकसूत्र ६,१[४७].३८) संधावत्सु स्तृतः (कौशिकसूत्र ६,१[४७].३९) लोहितशिरसं कृकलासममून् हन्मीति हत्वा सद्यः कार्यो भाङ्गे शयने (कौशिकसूत्र ६,१[४७].४०) लोहितालंकृतं कृष्णवसनमनूक्तं दहति (कौशिकसूत्र ६,१[४७].४१) एकपदाभिरन्यो_अनुतिष्ठति (कौशिकसूत्र ६,१[४७].४२) अङ्गशः सर्वहुतमन्यम् (कौशिकसूत्र ६,१[४७].४३) पश्चादग्नेः शरभृष्टीर्निधाय_उदग्व्रजति_आ स्वेदजननात् (कौशिकसूत्र ६,१[४७].४४) निवृत्य स्वेदालंकृता जुहोति (कौशिकसूत्र ६,१[४७].४५) कोश उरःशिरो_अवधाय पदात्पांसून् (कौशिकसूत्र ६,१[४७].४६) पश्चादग्नेर्लवणमृडीचीस्तिस्रो_अशीतीर्विकर्णीः शर्कराणाम् (कौशिकसूत्र ६,१[४७].४७) विषं शिरसि (कौशिकसूत्र ६,१[४७].४८) बाधकेन अवागग्रेण प्रणयन्नन्वाह (कौशिकसूत्र ६,१[४७].४९) <पाशे स [२.१२.२ ]> इति कोशे ग्रन्थीनुद्ग्रथ्नाति (कौशिकसूत्र ६,१[४७].५०) <आमुं [२.१२.४ ]>_इत्यादत्ते (कौशिकसूत्र ६,१[४७].५१) मर्मणि खादिरेण स्रुवेण गर्तं खनति (कौशिकसूत्र ६,१[४७].५२) बाहुमात्रम् <अतीव यो [२.१२.६]>_इति शरैरवज्वालयति (कौशिकसूत्र ६,१[४७].५३) अवधाय संचित्य लोष्टं स्रुवेण समोप्य (कौशिकसूत्र ६,१[४७].५४) अमुमुन्नैषमित्युक्तावलेखनीम् (कौशिकसूत्र ६,१[४७].५५) छायां वा (कौशिकसूत्र ६,१[४७].५६) उपनिनयते (कौशिकसूत्र ६,१[४७].५७) अन्वाह (कौशिकसूत्र ६,२[४८].१) <भ्रातृव्यक्षयणं [२.१८.१]>_इत्यरण्ये सपत्नक्षयणीरादधाति (कौशिकसूत्र ६,२[४८].२) ग्राममेत्यावपति (कौशिकसूत्र ६,२[४८].३) <पुमान् पुंसः [३.६.१]>_इति मन्त्रोक्तमभिहुतालंकृतं बध्नाति (कौशिकसूत्र ६,२[४८].४) यावन्तः सपत्नास्तावतः पाशानिङ्गिडालंकृतान् संपातवतो_अनूक्तान् ससूत्रान्_चम्वा मर्मणि निखनति (कौशिकसूत्र ६,२[४८].५) नावि <प्रैणान् [३.६.८]> <नुदस्व काम [९.२.४]>_इति मन्त्रोक्तं शाखया प्रणुदति (कौशिकसूत्र ६,२[४८].६) <तेऽधराञ्चः [३.६.७]>_इति प्रप्लावयति (कौशिकसूत्र ६,२[४८].७) <बृहन्नेषाम् [४.१६.१]> इत्यायन्तं शप्यमानमन्वाह (कौशिकसूत्र ६,२[४८].८) <वैकङ्कतेन [५.८.१]>_इति मन्त्रोक्तम् (कौशिकसूत्र ६,२[४८].९) <ददिर्हि [५.१३.१]>_इति साग्नीनि (कौशिकसूत्र ६,२[४८].१०) देशकपटु प्रक्षिणाति (कौशिकसूत्र ६,२[४८].११) <तेऽवदन् [५.१७.१]>_इति नेतॄणां पदं वृश्चति (कौशिकसूत्र ६,२[४८].१२) अन्वाह (कौशिकसूत्र ६,२[४८].१३) ब्रह्मगवीभ्यामन्वाह (कौशिकसूत्र ६,२[४८].१४) चेष्टाम् (कौशिकसूत्र ६,२[४८].१५) विचृतति (कौशिकसूत्र ६,२[४८].१६) ऊबध्ये (कौशिकसूत्र ६,२[४८].१७) श्मशाने (कौशिकसूत्र ६,२[४८].१८) त्रिरमून् हरस्व_इत्याह (कौशिकसूत्र ६,२[४८].१९) द्वितीययाश्मानमूबध्यगूहे [एम्. Cअलन्द्, आZ प्. १६८ न्. ९ एद्. ऊबध्ये गूहयति] (कौशिकसूत्र ६,२[४८].२०) द्वाशरात्रं सर्वव्रत उपश्राम्यति (कौशिकसूत्र ६,२[४८].२१) द्विरुदिते स्तृतः (कौशिकसूत्र ६,२[४८].२२) अवागग्रेण निवर्तयति (कौशिकसूत्र ६,२[४८].२३) <उप प्रागात्[६.३७.१]>_इति शुने पिण्डं पाण्डुं प्रयछति (कौशिकसूत्र ६,२[४८].२४) तार्छं बध्नाति (कौशिकसूत्र ६,२[४८].२५) जुहोति (कौशिकसूत्र ६,२[४८].२६) आदधाति (कौशिकसूत्र ६,२[४८].२७) <इदं तद्युज [६.५४.१]>_<यत्किं चासौ मनसा [७.७०.१]>_इत्याहिताग्निं प्रतिनिर्वपति (कौशिकसूत्र ६,२[४८].२८) मध्यमपलाशेन फलीकरणान्_जुहोति (कौशिकसूत्र ६,२[४८].२९) <निरमुं [६.७५.१]>_इत्यङ्गुष्ठेन त्रिरनुप्रस्तृणाति (कौशिकसूत्र ६,२[४८].३०) शरं कद्विन्दुकोष्ठैरनुनिर्वपति (कौशिकसूत्र ६,२[४८].३१) लोहिताश्वत्थपलाशेन विषावध्वस्तं जुहोति (कौशिकसूत्र ६,२[४८].३२) <त्वं वीरुधां [६.१३८.१]>_इति मूत्रपुरीषं वत्सशेप्यायां ककुचैरपिधाप्य संपिष्य निखनति (कौशिकसूत्र ६,२[४८].३३) शेप्यानडे (कौशिकसूत्र ६,२[४८].३४) शेप्यायाम् (कौशिकसूत्र ६,२[४८].३५) <यथा सूर्यो [७.१३.१]>_इत्यन्वाह (कौशिकसूत्र ६,२[४८].३६) उत्तरया यान्_तान् पश्यति (कौशिकसूत्र ६,२[४८].३७) <इन्द्रोतिभिर्[७.३१.१]> <अग्ने जातान् [७.३४.१]> <यो न स्तायद्दिप्सति [७.१०८.१]> <यो नः शपाद्[७.५९.१।६.३७.३]> इति वैद्युद्धतीः (कौशिकसूत्र ६,२[४८].३८) <सांतपना [७.७७.१]> इत्यूर्ध्वशुषीः (कौशिकसूत्र ६,२[४८].३९) घ्रंसशृतं पुरोडाशं घ्रंसविलीनेन सर्वहुतम् (कौशिकसूत्र ६,२[४८].४०) <उदस्य श्यावौ [७.९५.१]>_इतीषीकाञ्जिमण्डूकं नीललोहिताभ्यां सूत्राभ्यां सकक्षं बद्ध्वा_उष्णोदके व्यादाय प्रत्याहुति मण्डूकमपनुदति_अभिन्युब्जति (कौशिकसूत्र ६,२[४८].४१) उपधावन्तम् <असदन् गावः [७.९६.१]>_इति काम्पीलं संनह्य क्षीरोत्सिक्ते पाययति लोहितानां चैक्कशम् (कौशिकसूत्र ६,२[४८].४२) अशिशिषोः क्षीरौदनम् (कौशिकसूत्र ६,२[४८].४३) आमपात्रमभ्यवनेनेक्ति (कौशिकसूत्र ६,३[४९].१) <सपत्नहनम् [९.२.१]> इत्यृषभं संपातवन्तमतिसृजति (कौशिकसूत्र ६,३[४९].२) आश्वत्थीरवपन्नाः (कौशिकसूत्र ६,३[४९].३) स्वयम् <इन्द्रस्यौज [१०.५.१ ]> इति प्रक्षालयति (कौशिकसूत्र ६,३[४९].४) <जिष्णवे योगाय [१०.५.१ ]>_इत्यपो युनक्ति (कौशिकसूत्र ६,३[४९].५) वातस्य रंहितस्यामृतस्य योनिरिति प्रतिगृह्णाति (कौशिकसूत्र ६,३[४९].६) उत्तमाः प्रताप्याधराः प्रदाय_एनमेनानधराचः पराचो_अवाचस्तमसस्[एम्. Bलोओम्fइएल्द्ङ्ङा १९०२ ५१४ एद्. तपसस्] तमुन्नयत देवाः पितृभिः संविदानः प्रजापतिः प्रथमो देवतानामित्यतिसृजति (कौशिकसूत्र ६,३[४९].७) इदमहं <यो मा प्राच्या दिशो_अघायुरभिदासादपवादीदिषुगूहः [दृष्टव्यम्‌ ५.१०, ४.४०]> तस्य_इमौ प्राणापानौ_अपक्रामामि ब्रह्मणा (कौशिकसूत्र ६,३[४९].८) दक्षिणायाः प्रतीच्या उदीच्या ध्रुवाया व्यध्वाय ऊर्ध्वायाः (कौशिकसूत्र ६,३[४९].९) इदमहम् <यो मा दिशामन्तर्देशेभ्य []> इत्य्<अपक्रामामि []>_इति (कौशिकसूत्र ६,३[४९].१०) एवमभिष्ठानापोहननिवेष्टनानि (सेए Cअलन्द्, Kल्. ष्छ्र्., प्. ५०, ओन् थे रेअदिन्गन्द्सूत्र दिविसिओन्) (कौशिकसूत्र ६,३[४९].११) सर्वाणि खलु शश्वद्भूतानि (कौशिकसूत्र ६,३[४९].१२) ब्राह्मणाद्वज्रमुद्यछमानात्_शङ्कन्ते मां हनिष्यसि मां हनिष्यसीति तेभ्यो_अभयं वदेत्_शमग्नये शं पृथिव्यै शमन्तरिक्षाय शं वायवे शं दिवे शं सूर्याय शं चन्द्राय शं नक्षत्रेभ्यः शं गन्धर्वाप्सरोभ्यः शं सर्पेतरजनेभ्यः शिवं मह्यमिति (कौशिकसूत्र ६,३[४९].१३) <यो व आपोऽपां [१०.५.१५]> <यं वयं [१०.५.४२]>_<अपामस्मै वज्रं [१०.५.५०]>_इत्यन्वृचमुदवज्रान् (कौशिकसूत्र ६,३[४९].१४) <विष्णोः क्रमोऽसि [१०.५.२५]>_इति विष्णुक्रमान् (कौशिकसूत्र ६,३[४९].१५) <ममाग्ने वर्चो [५.३.१]>_इति बृहस्पतिशिरसं पृषातकेन_उपसिच्याभिमन्त्र्य_उपनिदधाति (कौशिकसूत्र ६,३[४९].१६) प्रतिजानन्नानुव्याहरेत् (कौशिकसूत्र ६,३[४९].१७) उत्तमेन_उपद्रष्टारम् (कौशिकसूत्र ६,३[४९].१८) <उदेहि वाजिन् [१३.१.१ ब्]>_इत्यर्धर्चेन नावं मज्जतीम् (कौशिकसूत्र ६,३[४९].१९) <समिद्धोऽग्निः [१३.१.२८]>_<य इमे द्यावापृथिवी [१३.३.१]> <अजैष्म [१६.६.१]>_इत्यधिपाशानादधाति (कौशिकसूत्र ६,३[४९].२०) पदेपदे पाशान् वृश्चति (कौशिकसूत्र ६,३[४९].२१) अधिपाशान् बाधकान्_शङ्कून्_तान् संक्षुद्य संनह्य भ्रष्ट्रे_अध्यस्यति (कौशिकसूत्र ६,३[४९].२२) अशिशिषोः क्षीरौदनादीनि त्रीणि (कौशिकसूत्र ६,३[४९].२३) गर्तेध्मौ_अन्तरेणावलेखनीं स्थाणौ निबध्य द्वादशरात्रं संपातानभ्यतिनिनयति (कौशिकसूत्र ६,३[४९].२४) षष्ठ्या_उदवज्रान् प्रहरति (कौशिकसूत्र ६,३[४९].२५) सप्तम्याचामति (कौशिकसूत्र ६,३[४९].२६) <यश्च गां [१३.१.५६]>_इत्यन्वाह (कौशिकसूत्र ६,३[४९].२७) <निर्दुरर्मण्य (एद्. मिस्प्रिन्त्निर्दुर्मण्य) [१६.२.१]> इति संधाव्याभिमृशति (Kऔश्ष्६ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे षष्ठोऽध्यायः समाप्तः (कौशिकसूत्र ७,१[५०].१) <स्वस्तिदा [१.२१.१]> <ये ते पन्थानो [७.५५.१।१२.१.४७]>_इत्यध्वानं दक्षिणेन प्रक्रामति (कौशिकसूत्र ७,१[५०].२) व्युदस्यति_असंख्याताः शर्कराः (कौशिकसूत्र ७,१[५०].३) तृणानि छित्वा_उपतिष्ठते (कौशिकसूत्र ७,१[५०].४) <आरे [१.२६.१]>_<अमूः पारे [१.२७.१]> <पातं न [६.३.१]>_<य एनं परिषीदन्ति [६.७६.१]> यदायुधं दण्डेन व्याख्यातम् (कौशिकसूत्र ७,१[५०].५) दिष्ट्या मुखं विमाय संविशति (कौशिकसूत्र ७,१[५०].६) त्रीणि पदानि प्रमाय_उत्तिष्ठति (कौशिकसूत्र ७,१[५०].७) तिस्रो दिष्टीः (कौशिकसूत्र ७,१[५०].८) <प्रेतं पादौ [१.२७.४]>_इत्य्+अवसस्य (एद्. अवशस्य॑ सेए Cअलन्द्, Kल्. ष्छ्र्., प्. ६१) (कौशिकसूत्र ७,१[५०].९) पाययति (कौशिकसूत्र ७,१[५०].१०) <उपस्थास्ते [१२.१.६२]>_इति त्रीणि_ओप्यातिक्रामति (कौशिकसूत्र ७,१[५०].११) <स्वस्ति मात्र [१.३१.४]> इति निशि_उपतिष्ठते (कौशिकसूत्र ७,१[५०].१२) <इन्द्रमहं [३.१५.१]>_इति पण्यं संपातवदुत्थापयति (कौशिकसूत्र ७,१[५०].१३) निमृज्य दिग्युक्ताभ्यां <दोषो गाय [६.१.१]> <पातं न [६.३६.७]> इति पञ्च_<अनडुद्भ्यस्[६.५९.१]>_<यमो मृत्युर्[६.९३.१]> <विश्वजित्[६.१०७.१]>_<शकधूमं [६.१२८.१]> <भवाशर्वौ [४.२८.१।११.२.१।११.६.९]>_इत्युपदधीत (कौशिकसूत्र ७,१[५०].१४) उत्तमेन सारूपवत्सस्य रुद्राय त्रिर्जुहोति (कौशिकसूत्र ७,१[५०].१५) उप_उत्तमेन सुहृदो ब्राह्मणस्य शकृत्पिण्डान् पर्वसु_आधाय शकधूमं किमद्याहरिति पृछति (कौशिकसूत्र ७,१[५०].१६) भद्रं सुमङ्गलिमिति प्रतिपद्यते (कौशिकसूत्र ७,१[५०].१७) युक्तयोर्<मा नो देवा [६.५६.१]> <यस्ते सर्पो [१२.१.४६]>_इति शयनशाला_उर्वराः परिलिखति (कौशिकसूत्र ७,१[५०].१८) तृणानि युगतर्द्मना संपातवन्ति द्वारे प्रचृतति (कौशिकसूत्र ७,१[५०].१९) ऊबध्यं संभिनत्ति (कौशिकसूत्र ७,१[५०].२०) निखनति (कौशिकसूत्र ७,१[५०].२१) आदधाति (कौशिकसूत्र ७,१[५०].२२) अपामार्गप्रसूनान् कुद्रीचीशफान् परीचीनमूलान् (कौशिकसूत्र ७,२[५१].१) <उदितस्[४.३.१]>_इति खादिरं शङ्कुं संपातवन्तमुद्गृह्णन्निखनन् गा अनुव्रजति (कौशिकसूत्र ७,२[५१].२) निनयनं समुह्य चारे सारूपवत्सस्य_इन्द्राय त्रिर्जुहोति (कौशिकसूत्र ७,२[५१].३) दिश्यान् बलीन् हरति (कौशिकसूत्र ७,२[५१].४) प्रतिदिशमुपतिष्ठते (कौशिकसूत्र ७,२[५१].५) मध्ये पञ्चममनिर्दिष्टम् (कौशिकसूत्र ७,२[५१].६) शेषं निनयति (कौशिकसूत्र ७,२[५१].७) <ब्रह्म जज्ञानं [४.१.१।५.६.१]>_<भवाशर्वौ [४.२८.१।११.२.१।११.६.९]>_इत्यासन्नमरण्ये पर्वतं यजते (कौशिकसूत्र ७,२[५१].८) अन्यस्मिन् भवशर्वपशुपति_उग्ररुद्रमहादेव_ईशानानां पृथगाहुतीः (कौशिकसूत्र ७,२[५१].९) गोष्ठे च द्वितीयमश्नाति (कौशिकसूत्र ७,२[५१].१०) दर्भानाधाय धूपयति (कौशिकसूत्र ७,२[५१].११) भूत्यै वः पुष्ट्यै व इति प्रथमजयोर्मिथुनयोर्मुखमनक्ति (कौशिकसूत्र ७,२[५१].१२) तिस्रो नलदशाखा वत्सान् पाययति (कौशिकसूत्र ७,२[५१].१३) शाखया_उदकधारया गाः परिक्रामति (कौशिकसूत्र ७,२[५१].१४) <अश्मवर्म मे [५.१०.१]>_इति षडश्मनः संपातवतः +स्रक्तिषूपरि_(एद्. स्रक्तिषु पर्य्॑ सेए Cअलन्द्, Kल्. ष्छ्र्., प्. ६१)_अधस्तान्निखनति (कौशिकसूत्र ७,२[५१].१५) <अलसाला [६.१६.४]>_इत्यालभेषजम् (कौशिकसूत्र ७,२[५१].१६) त्रीणि सिलाञ्जालाग्राणि_उर्वरामध्ये निखनति (कौशिकसूत्र ७,२[५१].१७) <हतं तर्दं [६.५०.१]>_इति अयसा सीसं कर्षन्नुर्वरां परिक्रामति (कौशिकसूत्र ७,२[५१].१८) अश्मनो_अवकिरति (कौशिकसूत्र ७,२[५१].१९) तर्दमवशिरसं वदनात्केशेन समुह्य_उर्वरामध्ये निखनति (कौशिकसूत्र ७,२[५१].२०) उक्तं चारे (कौशिकसूत्र ७,२[५१].२१) बलीन् हरति_आशाया आशापतये_अश्विभ्यां क्षेत्रपतये (कौशिकसूत्र ७,२[५१].२२) यदा_एतेभ्यः कुर्वीत वाग्यतस्तिष्ठेदास्तमयाद् (कौशिकसूत्र ७,३[५२].१) <ये पन्थानो [६.५५.१]>_इति परीत्य_उपदधीत (कौशिकसूत्र ७,३[५२].२) प्रयछति (कौशिकसूत्र ७,३[५२].३) <यस्यास्ते [६.८४.१]> <यत्ते देवी [६.६३.१]> <विषाणा पाशान् [६.१२१.१]> इत्युन्मोचनप्रतिरूपं संपातवन्तं करोति (कौशिकसूत्र ७,३[५२].४) वाचा बद्धाय भूमिपरिलेखम् (कौशिकसूत्र ७,३[५२].५) <आयने [६.१०६.१]>_इति शमनमन्तरा ह्रदं करोति (कौशिकसूत्र ७,३[५२].६) शाले च (कौशिकसूत्र ७,३[५२].७) अवकया शालां परितनोति (कौशिकसूत्र ७,३[५२].८) शप्यमानाय प्रयछति (कौशिकसूत्र ७,३[५२].९) निदग्धं प्रक्षालयति (कौशिकसूत्र ७,३[५२].१०) <महीमू षु [७.६.२]>_इति तरणानि_आलम्भयति (कौशिकसूत्र ७,३[५२].११) दूरात्_नावं संपातवतीं नैमणिं बध्नाति (कौशिकसूत्र ७,३[५२].१२) <प्रपथे [७.९.१]>_इति नष्ट_एषिणां प्रक्षालिताभ्यक्तपाणिपादानां दक्षिणान् पाणीन्निमृज्य_उत्थापयति (कौशिकसूत्र ७,३[५२].१३) एवं संपातवतः (कौशिकसूत्र ७,३[५२].१४) निमृज्य_एकविंशतिं शर्करास्_चतुष्पथे_अवक्षिप्यावकिरति (कौशिकसूत्र ७,३[५२].१५) <नमस्कृत्य [७.१०२.१]>_इति मन्त्रोक्तम् (कौशिकसूत्र ७,३[५२].१६) अंहोलिङ्गानामापो भोजनहवींषि_अभिमर्शन_उपस्थानमादित्यस्य (कौशिकसूत्र ७,३[५२].१७) स्वयं हविषां भोजनम् (कौशिकसूत्र ७,३[५२].१८) <विश्वे देवा [१.३०.१]>_इत्यायुष्याणि (कौशिकसूत्र ७,३[५२].१९) स्थालीपाके घृतपिण्डान् प्रतिनीयाश्नाति (कौशिकसूत्र ७,३[५२].२०) <अस्मिन् वसु [१.९.१]> <यदाबध्नन् [१.३५.१]> <नव प्राणान् [५.२८.१> इति युग्मकृष्णलमादिष्टानां स्थालीपाके_आधाय बध्नाति (कौशिकसूत्र ७,३[५२].२१) आशयति (कौशिकसूत्र ७,४[५३].१) <आयुर्दा [२.१३.१]> इति गोदानं कारयिष्यन् संभारान् संभरति (कौशिकसूत्र ७,४[५३].२) अमम्रिमोजोमानीं दूर्वामकर्णमश्ममण्डलमानडुहशकृत्पिण्डं षड्दर्भप्रान्तानि कंसमहते वसने शुद्धमाज्यं शान्ता ओषधीर्नवमुदकुम्भम् (कौशिकसूत्र ७,४[५३].३) बाह्यतः शान्तवृक्षस्य_इध्मं प्राञ्चमुपसमाधाय (कौशिकसूत्र ७,४[५३].४) परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रमुपसाद्य परिचरणेनाज्यं परिचर्य (कौशिकसूत्र ७,४[५३].५) नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ च (कौशिकसूत्र ७,४[५३].६) पश्चादग्नेः प्राङ्मुख उपविश्यान्वारब्धाय शान्त्युदकं करोति (कौशिकसूत्र ७,४[५३].७) तत्र_एतत्सूक्तमनुयोजयति (कौशिकसूत्र ७,४[५३].८) त्रिरेवाग्निं संप्रोक्षति त्रिः पर्युक्षति (कौशिकसूत्र ७,४[५३].९) त्रिः कारयमाणमाचामयति च संप्रोक्षति च (कौशिकसूत्र ७,४[५३].१०) शकृत्पिण्डस्य स्थालरूपं कृत्वा सुहृदे ब्राह्मणाय प्रयछति (कौशिकसूत्र ७,४[५३].११) तत्सुहृद्दक्षिणतो_अग्नेरुदङ्मुख आसीनो धारयति (कौशिकसूत्र ७,४[५३].१२) अथास्मै_अन्वारब्धाय करोति (कौशिकसूत्र ७,४[५३].१३) <आयुर्दा [२.१३.१]> इत्यनेन सूक्तेनाज्यं जुह्वन्मूर्ध्नि संपातानानयति (कौशिकसूत्र ७,४[५३].१४) दक्षिणे पाणौ_अश्ममण्डले_उदपात्रे_उत्तरसंपातान् स्थालरूप आनयति (कौशिकसूत्र ७,४[५३].१५) अमम्रिमोजोमानीं च_उदपात्रे_अवधाय (कौशिकसूत्र ७,४[५३].१६) स्थालरूपे दूर्वां शान्त्युदकमुष्णोदकं च_एकधाभिसमासिच्य (कौशिकसूत्र ७,४[५३].१७) <आयमगन् सविता क्षुरेण [६.६८.१]>_इत्युदपात्रमनुमन्त्रयते (कौशिकसूत्र ७,४[५३].१८) <अदितिः श्मश्रु [६.६८.२]>_इत्युन्दति (कौशिकसूत्र ७,४[५३].१९) <यत्क्षुरेण [८.२.१७]>_इत्युदक्पत्त्रं क्षुरमद्भि श्चोत्य त्रिः प्रमार्ष्टि (कौशिकसूत्र ७,४[५३].२०) <येनावपत्[६.६८.३]>_इति दक्षिणस्य केशपक्षस्य दर्भपिञ्जुल्या केशानभिनिधाय प्रछिद्य स्थालरूपे करोति (कौशिकसूत्र ७,४[५३].२१) एवमेव द्वितीयं करोति (कौशिकसूत्र ७,४[५३].२२) एवं तृतीयम् (कौशिकसूत्र ७,४[५३].२३) एवमेव_उत्तरस्य केशपक्षस्य करोति (कौशिकसूत्र ७,५[५४].१) अथ नापितं समादिशति_अक्षण्वन् वप केशश्मश्रुरोम परिवप नखानि कुरु_इति (कौशिकसूत्र ७,५[५४].२) <पुनः प्राणः [६.५३.२]> <पुनर्मैत्विन्द्रियं [७.६७.१]>_इति त्रिर्निमृज्य (कौशिकसूत्र ७,५[५४].३) त्वयि महिमानं सादयामीत्यन्ततो योजयेत् (कौशिकसूत्र ७,५[५४].४) अथ_एनमुप्तकेशश्मश्रुं कृतनखम् (एद्. कृत्तनखं॑ सेए Cअलन्द्, Kल्. ष्छ्र्., प्. ६१) आप्लावयति (कौशिकसूत्र ७,५[५४].५) <हिरण्यवर्णाः [१.३३.१]>_इत्येतेन सूक्तेन गन्धप्रवादाभिरलंकृत्य (कौशिकसूत्र ७,५[५४].६) <स्वाक्तं (एद्. स्वक्तं॑ सेए Cअलन्द्, Kल्. ष्छ्र्., प्. ७८) मे [७.३०.१]>_इत्यानक्ति (कौशिकसूत्र ७,५[५४].७) अथ_एनमहतेन वसनेन परिधापयति <परि धत्त [२.१३.२]>_इति द्वाभ्याम् (कौशिकसूत्र ७,५[५४].८) <एह्यश्मानमा तिष्ठ [२.१३.४]>_इति दक्षिणेन पादेनाश्ममण्डलमास्थाप्य प्रदक्षिणमग्निमनुपरिणीय (कौशिकसूत्र ७,५[५४].९) अथास्य वासो निर्मुष्णाति <यस्य ते वासः [२.१३.५]>_इत्यनया (कौशिकसूत्र ७,५[५४].१०) अथ_एनमपरेणाहतेन वसनेनाछादयति_<अयं वस्ते गर्भं पृथिव्या [१३.१.१६]> इति पञ्चभिः (कौशिकसूत्र ७,५[५४].११) <यथा द्यौः [२.१५.१]>_<मनसे चेतसे धिय [६.४१.१]> इति महाव्रीहीणां स्थालीपाकं श्रपयित्वा शान्त्युदकेन_उपसिच्याभिमन्त्र्य प्राशयति (कौशिकसूत्र ७,५[५४].१२) <प्राणापानौ [२.१६.१]> <ओजोऽसि [२.१७.१]>_इत्युपदधीत (कौशिकसूत्र ७,५[५४].१३) <तुभ्यमेव जरिमन् [२.२८.१]>_इति कुमारं मातापितरौ त्रिः संप्रयछेते (कौशिकसूत्र ७,५[५४].१४) घृतपिण्डाअनाशयतः (कौशिकसूत्र ७,५[५४].१५) चूडाकरणं च गोदानेन व्याख्यातम् (कौशिकसूत्र ७,५[५४].१६) परिधापनाश्ममण्डलवर्जम् (कौशिकसूत्र ७,५[५४].१७) <शिवे ते स्तां [८.२.१४]>_इति परिदानान्तानि (कौशिकसूत्र ७,५[५४].१८) <पार्थिवस्य [२.२९.१]> <मा प्र गाम [१३.१.५९]>_इति चतस्रः सर्वाणि_अपियन्ति (कौशिकसूत्र ७,५[५४].१९) अमम्रिमोजोमानीं च दूर्वां च केशान्_च शकृत्पिण्डं च_एकधाब्दिसमाहृत्य (कौशिकसूत्र ७,५[५४].२०) शान्तवृक्षस्य_उपरि_आदधाति (कौशिकसूत्र ७,५[५४].२१) अधिकरणं ब्रह्मणः कंसवसनं गौर्दक्षिणा (कौशिकसूत्र ७,५[५४].२२) ब्राह्मणान् भक्तेन_उपेप्सन्ति (कौशिकसूत्र ७,६[५५].१) उपनयनम् (कौशिकसूत्र ७,६[५५].२) <आयमगन् [६.६८.१]>_इति मन्त्रोक्तम् (कौशिकसूत्र ७,६[५५].३) <यत्क्षुरेण [८.२.१७]>_इत्युक्तम् (कौशिकसूत्र ७,६[५५].४) <येनावपत्[६.६८.३]>_इति शकृदपिञ्जूलि (कौशिकसूत्र ७,६[५५].५) लौकिकं च समानामा परिधानात् (कौशिकसूत्र ७,६[५५].६) उपेतपूर्वस्य नियतं सवान् दास्यतो_अग्नीनाधास्यमानपर्यवेतव्रतदीक्षिष्यमाणानाम् (एद्. आधास्यमानः पर्य्॑ सेए Cअलन्द्, Kल्. ष्छ्र्., प्. ६१) (कौशिकसूत्र ७,६[५५].७) सोष्णोदकं शान्त्युदकं प्रदक्षिणमनुपरिणीय पुरस्तादग्नेः प्रत्यङ्मुखमवस्थाप्य (कौशिकसूत्र ७,६[५५].८) आह ब्रूहि (कौशिकसूत्र ७,६[५५].९) ब्रह्मचर्यमागमुप मा नयस्व_इति (कौशिकसूत्र ७,६[५५].१०) को नामासि किंगोत्र इत्यसौ_इति यथा नामगोत्रे भवतस्तथा प्रब्रूहि (कौशिकसूत्र ७,६[५५].११) आर्षेयं मा कृत्वा बन्धुमन्तमुपनय (कौशिकसूत्र ७,६[५५].१२) आर्षेयं त्वा कृत्वा बन्धुमन्तमुपनयामीति (कौशिकसूत्र ७,६[५५].१३) ओं भूर्भुवः स्वर्जनदोमित्यञ्जलौ_उदकमासिञ्चति (कौशिकसूत्र ७,६[५५].१४) उत्तरोऽअसानि ब्रह्मचारिभ्य इत्युत्तमं पाणिमन्वादधाति (कौशिकसूत्र ७,६[५५].१५) एष म आदित्यपुत्रस्तन्मे गोपायस्व_इत्यादित्येन समीक्षते (कौशिकसूत्र ७,६[५५].१६) <अपक्रामन् पौरुषेयाद्वृणानो [७.१०५.१]> इत्येनं बाहुगृहीतं प्राञ्चमवस्थाप्य दक्षिणेन पाणिना नाभिदेशे_अभिसंस्तभ्य जपति (कौशिकसूत्र ७,६[५५].१७) <अस्मिन् वसु वसवो धारयन्तु [१.९.१]>_<विश्वे देवा वसवो [१.३०.१]>_<आ यतु मित्र [३.८.१]>_<अमुत्रभूयाद्[७.५३.१]> <अन्तकाय मृत्यवे [८.१.१]>_<आ रभस्व [८.२.१]>_<प्राणाय नमो [११.४.१]> <विषासहिम् [१७.१.५]> इत्यभिमन्त्रयते (कौशिकसूत्र ७,६[५५].१८) अथापि परित्वरमाण <आ यातु मित्र [३.८.१]>_इत्यपि खलु_एतवता_एव_उपनीतो भवति (कौशिकसूत्र ७,६[५५].१९) प्रछाद्य त्रीन् प्राणायामान् कृत्वावछाद्य वत्सतरीमुदपात्रे समवेक्षयेत् (कौशिकसूत्र ७,६[५५].२०) <समिन्द्र नो [७.९७.२]>_<सं वर्चसा [६.५३.३]>_इति द्वाभ्यामुत्सृजन्ति गाम् (कौशिकसूत्र ७,७[५६].१) <श्रद्धाया दुहिता [६.१३३.४]>_इति द्वाभ्यां भाद्रमौञ्जीं मेखलां बध्नाति (कौशिकसूत्र ७,७[५६].२) मित्रावरुणयोस्त्वा हस्ताभ्यां प्रसूतः प्रशिषा प्रयछामीति पालाशं दण्डं प्रयछति (कौशिकसूत्र ७,७[५६].३) मित्रावरुणयोस्त्वा हस्ताभ्यां प्रसूतः प्रशिषा प्रतिगृह्णामि । सुश्रवः सुश्रवसं मा कुर्ववक्रोऽविथुरोऽहं भूयासमिति प्रतिगृह्णाति (कौशिकसूत्र ७,७[५६].४) <श्येनोऽसि [६.४८.१]>_इति च (कौशिकसूत्र ७,७[५६].५) अथ_एनं व्रतादानीयाः समिध आधापयति (कौशिकसूत्र ७,७[५६].६) <अग्ने व्रतपते व्रतं चरिष्यामि तच्छकेयं तत्समापेयं तन्मे राध्यतां तन्मे समृध्यतां तन्मे मा व्यनशत्तेन राध्यासं तत्ते प्रब्रवीमि तदुपाकरोमि अग्नये व्रतपतये स्वाहा [दृष्टव्यम्‌ ट्ष्१.५.१०.३ इत्यादि]> (कौशिकसूत्र ७,७[५६].७) <वायो व्रतपते । सूर्य व्रतपते । चन्द्र व्रतपते । आपो व्रतपत्न्यो । देवा व्रतपतयो । व्रतानां व्रतपतयो व्रतमचारिषं तदशकं तत्समाप्तं तन्मे राद्धं तन्मे समृद्धं तन्मे मा व्यनशत्तेन राधोऽस्मि तद्वः प्रब्रवीमि तदुपाकरोमि व्रतेभ्यो व्रतपतिभ्यः स्वाह [दृष्टव्यम्‌ ट्ष्१.६.६.३ इत्यादि]> (कौशिकसूत्र ७,७[५६].८) अथ_एनं बद्धमेखलमाहितसमित्कं सावित्रीं वाचयति (कौशिकसूत्र ७,७[५६].९) पच्छः प्रथमम् (कौशिकसूत्र ७,७[५६].१०) ततो_अर्धर्चशः (कौशिकसूत्र ७,७[५६].११) ततः संहिताम् (कौशिकसूत्र ७,७[५६].१२) अथ_एनं संशास्ति_<अग्नेश्चासि ब्रह्मचारिन्मम चापोऽशान कर्म कुरूर्ध्वस्तिष्ठन्मा दिवा स्वाप्सीः समिध आधेहि [दृष्टव्यम्‌ ंन्B १.६.२३]> (कौशिकसूत्र ७,७[५६].१३) अथ_एनं भूतेभ्यः परिददाति_<अग्नये त्वा परिददामि ब्रह्मणे त्वा परिददाम्युदङ्क्याय त्वा शूल्वाणाय परिददामि शत्रुंजयाय त्वा क्षात्राणाय परिददामि मार्त्युंजयाय त्वा मार्त्यवाय परिददाम्यघोराय त्वा परिददामि तक्षकाय त्वा वैशालेयाय परिददामि हाहाहूहूभ्यां त्वा गन्धर्वाभ्यां परिददामि योगक्षेमाभ्यां त्वा परिददामि भयाय च त्वाभयाय च परिददामि विश्वेभ्यस्त्वा देवेभ्यः परिददामि सर्वेभ्यस्त्वा देवेभ्यः परिददामि विश्वेभ्यस्त्वा भूतेभ्यः परिददामि सर्वेभ्यस्त्वा भूतेभ्यः परिददामि सप्रजापतिकेभ्यः [दृष्टव्यम्‌ Bहार्ङ्ष्१.८८.१ f.]> (कौशिकसूत्र ७,७[५६].१४) <स्वस्ति चरतादिह [दृष्टव्यम्‌ ড়्ष्२०.५३.२, ःिर्ङ्ष्१.५.१]>_इति <मयि रमन्तां ब्रह्मचारिणः []>_इत्यनुगृह्णीयात् (कौशिकसूत्र ७,७[५६].१५) नानुप्रणुदेत् (कौशिकसूत्र ७,७[५६].१६) <प्रणीतीरभ्यावर्तस्व [७.१०५.१]>_इत्यभ्यात्ममावर्तयति (कौशिकसूत्र ७,७[५६].१७) <यथापः प्रवता यन्ति यथा मासा अहर्जरम् । एवा मा ब्रह्मचारिणो धातरा यन्तु सर्वदा ॥ [ড়्ष्२०.५२.९]> स्वाहा_इत्याचार्यः समिधमादधाति (कौशिकसूत्र ७,८[५७].१) <श्रद्धाया [एद्. मिस्प्रिन्त्श्राधया॑ सेए Cअलन्द्, Kल्. ष्छ्र्., प्. ५१, Bलोओम्fइएल्द्ङ्ङा १९०२ ५१४] दुहिता [६.१३३.४]>_इति द्वाभ्यां भाद्रमौञ्जीं मेखलां ब्राह्मणाय बध्नाति (कौशिकसूत्र ७,८[५७].२) मौर्वीं क्षत्रियाय धनुर्ज्यां वा (कौशिकसूत्र ७,८[५७].३) क्षौमिकीं वैश्याय (कौशिकसूत्र ७,८[५७].४) मित्रावरुणयोस्त्वा हस्ताभ्यां प्रसूतः प्रशिषा प्रयछामीति पालाशं दण्डं ब्राह्मणाय प्रयछति (कौशिकसूत्र ७,८[५७].५) आश्वत्थं क्षत्रियाय (कौशिकसूत्र ७,८[५७].६) न्यग्रोधावरोहं वैश्याय (कौशिकसूत्र ७,८[५७].७) यदि_अस्य दण्डो भज्येत <य ऋते चिदभिश्रिषः [१४.२.४७]>_इत्येतयालभ्याभिमन्त्रयते (कौशिकसूत्र ७,८[५७].८) सर्वत्र शीर्णे भिन्ने नष्टे_अन्यं कृत्वा <पुनर्मैत्विन्द्रियं [७.६७.१]>_इत्यादधीत (कौशिकसूत्र ७,८[५७].९) अथ वासांसि (कौशिकसूत्र ७,८[५७].१०) ऐणेयहारिणानि ब्राह्मणस्य (कौशिकसूत्र ७,८[५७].११) रौरवपार्षतानि क्षत्रियस्य (कौशिकसूत्र ७,८[५७].१२) आजाविकानि वैश्यस्य (कौशिकसूत्र ७,८[५७].१३) सर्वेषां क्षौमशाणकम्बलवस्त्रम् (कौशिकसूत्र ७,८[५७].१४) काषायाणि (कौशिकसूत्र ७,८[५७].१५) वस्त्रं चापि_अकाषायम् (कौशिकसूत्र ७,८[५७].१६) भवति भिक्षां देहीति ब्राह्मणश्चरेत् (कौशिकसूत्र ७,८[५७].१७) भिक्षां भवती ददात्विति क्षत्रियः (कौशिकसूत्र ७,८[५७].१८) देहि भिक्षां भवतीत्वैश्यः (कौशिकसूत्र ७,८[५७].१९) सप्त कुलानि ब्राह्मणश्चरेत्त्रीणि क्षत्रियो द्वे वैश्यः (कौशिकसूत्र ७,८[५७].२०) सर्वं ग्रामं चरेद्भैक्षं स्तेनपतितवर्जम् (कौशिकसूत्र ७,८[५७].२१) <मय्यग्रे [७.८२.२]>_इति पञ्चप्रश्नेन जुहोति (कौशिकसूत्र ७,८[५७].२२) <सं मा सिञ्चन्तु [७.३३.१]>_इति त्रिः पर्युक्षति (कौशिकसूत्र ७,८[५७].२३) <यदग्ने तपसा तप [७.६१.१]>_<अग्ने तपस्तप्यामह [७.६२.२]> इति द्वाभ्यां परिसमूहयति (कौशिकसूत्र ७,८[५७].२४) <इदमापः प्रवहत [७.८९.३]>_इति पाणी प्रक्सालयते (कौशिकसूत्र ७,८[५७].२५) <सं मा सिञ्चन्तु [७.३३.१]>_इति त्रिः पर्युक्षति (कौशिकसूत्र ७,८[५७].२६) <अग्ने समिधमाहार्षं [१९.६४.१]>_इत्यादधाति चतस्रः (कौशिकसूत्र ७,८[५७].२७) <एधोऽस्य्[७.८९.४]>_इत्यूष्मभक्षं भक्षयति_आ निधनात् (कौशिकसूत्र ७,८[५७].२८) <त्वं नो मेधे [६.१०८.१]>_इत्युपतिष्ठते (कौशिकसूत्र ७,८[५७].२९) <यदन्नम् [६.७१.१]> इति तिसृभिर्भैक्षस्य जुहोति (कौशिकसूत्र ७,८[५७].३०) अहरहः समिध आहृत्य_एवं सायंप्रातरभ्यादध्यात् (कौशिकसूत्र ७,८[५७].३१) मेधाजनन आयुष्यैर्जुहुयात् (कौशिकसूत्र ७,८[५७].३२) यथाकामं द्वादशरात्रमरसाशी भवति (कौशिकसूत्र ७,९[५८].१) <भद्राय कर्णः क्रोशतु भद्रायाक्षि वि वेपताम् । परा दुःष्वप्न्यं सुव यद्भद्रं तन्न आ सुव ॥ अक्षिवेपं दुःष्वप्न्यमार्तिं पुरुषरेषिणीम् । तदस्मदश्विना युवमप्रिये प्रति मुञ्चतम् ॥ यत्पार्श्वादुरसो मे अङ्गादङ्गादववेपते । अश्विना पुष्करस्रजा तस्मान्नः पातमंहसः [ড়्ष्२०.५४.६८]>_इति कर्णं क्रोशन्तमनुमन्त्रयते (कौशिकसूत्र ७,९[५८].२) अक्षि वा स्फुरत् (कौशिकसूत्र ७,९[५८].३) <वि देवा जरसा [३.३१.१]>_<उत देवा [४.१३.१]> <आवतस्त [५.३०.१]> <उप प्रियं [७.३२.१]>_<अन्तकाय मृत्यवे [८.१.१]>_<आ रभस्व [८.२.१]> <प्राणाय नमो [११.४.१]> <विषासहिं [१७.१.१]>_इत्यभिमन्त्रयते (कौशिकसूत्र ७,९[५८].४) ब्राह्मणोक्तमृषिहस्तश्च (कौशिकसूत्र ७,९[५८].५) <कर्मणे वां वेषाय वां सुकृताय वाम् [दृष्टव्यम्‌ ट्ष्१.१.४.१ इत्यादि, Kऔश्ष्१.१.४०]> इति पाणी प्रक्षाल्य (कौशिकसूत्र ७,९[५८].६) <निर्दुरर्मण्य [१६.२.१]> इति संधाव्य (कौशिकसूत्र ७,९[५८].७) <शुद्धा न आपस्[१२.१.३०]>_इति निष्ठीव्य जीवाभिराचम्य (कौशिकसूत्र ७,९[५८].८) <एहि जीवं [४.९.१]>_इत्याञ्जनमणिं बध्नाति (कौशिकसूत्र ७,९[५८].९) <वाताज्जातो [४.१०.१]>_इति कृशनम् (कौशिकसूत्र ७,९[५८].१०) <नव प्राणान् [५.२८.१]> इति मन्त्रोक्तम् (कौशिकसूत्र ७,९[५८].११) <घृतादुल्लुप्तम् [५.२८.१४]> <आ त्वा चृतत्व्[५.२८.१२]> <ऋतुभिष्ट्वा [५.२८.१३]> [दृष्टव्यम्‌ ড়्ष्२.५९.१०१२] <मुञ्चामि त्वा [३.११.१]>_<उत देवा [४.१३.१]> <आवतस्त [५.३०.१]> <उप प्रियं [७.३२.१]>_<अन्तकाय मृत्यवे [८.१.१]>_<आ रभस्व [८.२.१]> <प्राणाय नमो [११.४.१]> <विषासहिं [१७.१.१]>_इत्यभिमन्त्रयते (कौशिकसूत्र ७,९[५८].१२) <निर्दुरर्मण्य [१६.२.१]> इति सर्वसुरभिचूर्णैररण्ये_अप्रतीहारं प्रलिम्पति (कौशिकसूत्र ७,९[५८].१३) अथ नामकरणम् (कौशिकसूत्र ७,९[५८].१४) <आ रभस्वेमाम् [८.२.१]> इत्यविछिन्नामुदकधारामालम्भयति (कौशिकसूत्र ७,९[५८].१५) पूतुदारुं बध्नाति (कौशिकसूत्र ७,९[५८].१६) पाययति (कौशिकसूत्र ७,९[५८].१७) <यत्ते वासः [८.२.१६]>_इत्यहतेन_उत्तरसिचा प्रछादयति (कौशिकसूत्र ७,९[५८].१८) <शिवे ते स्तां [८.२.१४]>_इति कुमारं प्रथमं निर्णयति (कौशिकसूत्र ७,९[५८].१९) <शिवौ ते स्तां [८.२.१८]>_इति व्रीहियवौ प्राशयति (कौशिकसूत्र ७,९[५८].२०) <अह्ने च त्वा [८.२.२०]>_इत्यहोरात्राभ्यां परिददाति (कौशिकसूत्र ७,९[५८].२१) <शरदे त्वा [८.२.२२]>_इत्यृतुभ्यः (कौशिकसूत्र ७,९[५८].२२) <उदस्य केतवो [१३.२.१]> <मूर्धाहं [१६.३.१]> <विषासहिं [१७.१.१]> इत्युद्यन्तमुपतिष्ठते (कौशिकसूत्र ७,९[५८].२३) मध्यंदिने_अस्तं यन्तं सकृत्पर्यायाभ्याम् (कौशिकसूत्र ७,९[५८].२४) अंहोलिङ्गानामापो भोजनहवींषि_उक्तानि (कौशिकसूत्र ७,९[५८].२५) उत्तमासु <यन्मातली रथक्रीतम् [११.६.२३]> इति सर्वासां द्वितीया (कौशिकसूत्र ७,१०[५९].१) <विश्वे देवा [१.३०.१]> इति विश्वानायुष्कामो यजते (कौशिकसूत्र ७,१०[५९].२) उपतिष्ठते (कौशिकसूत्र ७,१०[५९].३) <इदं जनास [१.३२.१]> इति द्यावापृथिव्यै पुष्टिकामः (कौशिकसूत्र ७,१०[५९].४) संपत्कामः (कौशिकसूत्र ७,१०[५९].५) <इन्द्र जुषस्व [२.५.१]>_इतीन्द्रं बलकामः (कौशिकसूत्र ७,१०[५९].६) <इन्द्रमहं [३.१५.१]>_इति पण्यकामः (कौशिकसूत्र ७,१०[५९].७) <उदेनमुत्तरं नय [६.५.१]> <योऽस्मान् [६.६.१]> <इन्द्रः सुत्रामा [७.९१.१]>_इति ग्रामकामः (कौशिकसूत्र ७,१०[५९].८) ग्रामसांपदानामप्ययः (कौशिकसूत्र ७,१०[५९].९) <यशसं मेन्द्रो [६.५८.१]>_इति यशस्कामः (कौशिकसूत्र ७,१०[५९].१०) <मह्यमापो [६.६१.१]>_इति व्यचस्कामः (कौशिकसूत्र ७,१०[५९].११) <आगछत [६.८२.१]> इति जायाकामः (कौशिकसूत्र ७,१०[५९].१२) <वृषेन्द्रस्य [६.८६.१]>_इति वृषकामः (कौशिकसूत्र ७,१०[५९].१३) <आ त्वाहार्षम् [६.८७.१]> <ध्रुवा द्यौर्[६.८८.१]> इति ध्रौव्यकामः (कौशिकसूत्र ७,१०[५९].१४) <त्यमू षु [७.८५.१]> <त्रातारम् [७.८६.१]> <आ मन्द्रैर्[७.११७.१]> इति स्वस्त्ययनकामः (कौशिकसूत्र ७,१०[५९].१५) <समास्त्वाग्ने [२.६.१]>_<अभ्यर्चत [७.८२.१]>_इत्यग्निं संपत्कामः (कौशिकसूत्र ७,१०[५९].१६) <पृथिव्याम् [४.३९.१]> इति मन्त्रोक्तम् (कौशिकसूत्र ७,१०[५९].१७) <तदिदास [५.२.१]> <धीती वा [७.१.१]>_इतीन्द्राग्नी (कौशिकसूत्र ७,१०[५९].१८) <यस्येदमा रजो [६.३३.१]>_<अथर्वाणं [७.२.१]>_<अदितिर्द्यौर्[७.६.१]> <दितेः पुत्राणाम् [७.७.१]>_<बृहस्पते सवितर्[७.१६.१]> इत्यभ्युदितं ब्रह्मचारिणं बोधयति (कौशिकसूत्र ७,१०[५९].१९) <धाता दधातु [७.१७.१]> <प्रजापतिर्जनयति [७.१९.१]>_<अन्वद्य नो [७.२०.१]> <यन्न इन्द्रो [७.२४.१]> <ययोरोजसा [७.२५.१]> <विष्णोर्नु कं [७.२६.१]>_<अग्नाविष्णू [७.२९.१]> <सोमारुद्रा [७.४२.१]> <सिनीवालि [७.४६.१]> <बृहस्पतिर्नः [७.५१.१]>_<यत्ते देवा अकृण्वन् [७.७९.१]> <पूर्णा पश्चाद्[७.८०.१]>_<प्रजापते [७.८०.३]>_<अभ्यर्चत [७.८२.१]> <को अस्या नो [७.१०३.१]>_इति प्रजापतिम् (कौशिकसूत्र ७,१०[५९].२०) <अग्न इन्द्रश्च [७.११०.१]>_इति मन्त्रोक्तान् सर्वकामः (कौशिकसूत्र ७,१०[५९].२१) <य ईशे [२.३४.१]> <ये भक्षयन्तो [२.३५.१]>_इतीन्द्राग्नी लोककामः (कौशिकसूत्र ७,१०[५९].२२) अन्नं ददाति प्रथमम् (कौशिकसूत्र ७,१०[५९].२३) पशूपाकरणमुत्तमम् (कौशिकसूत्र ७,१०[५९].२४) सवपुरस्ताद्धोमा युज्यन्ते (कौशिकसूत्र ७,१०[५९].२५) <दोषो गाय [६.१.१]>_इत्यथर्वाणं समावृत्याश्नाति (कौशिकसूत्र ७,१०[५९].२६) <अभयं द्यावापृथिवी [६.४०.१]> <श्येनोऽसि [६.४८.१]>_इति प्रतिदिशं सप्तर्षीनभयकामः (कौशिकसूत्र ७,१०[५९].२७) उत्तरेण दीक्षितस्य वा ब्रह्मचारिणो वा दण्डप्रदानं (कौशिकसूत्र ७,१०[५९].२८) <द्यौश्च म [६.५३.१]> इति द्यावापृथिव्यै विरिष्यति (कौशिकसूत्र ७,१०[५९].२९) <यो अग्नौ [७.८७.१]>_इति रुद्रान् स्वस्त्ययनकामः स्वस्त्ययनकामः (Kऔश्ष्७ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे सप्तमोऽध्यायः समाप्तः (कौशिकसूत्र ८,१[६०].१) अग्नीनाधास्यमानः सवान् वा दास्यन् संवत्सरं ब्रह्मौदनिकमग्निं दीपयति (कौशिकसूत्र ८,१[६०].२) अहोरात्रौ वा (कौशिकसूत्र ८,१[६०].३) याथाकामी वा (कौशिकसूत्र ८,१[६०].४) संवत्सरं तु प्रशस्तम् (कौशिकसूत्र ८,१[६०].५) सवाग्निसेनाग्नी तादर्थिकौ निर्मथ्यौ वा भवतः (कौशिकसूत्र ८,१[६०].६) औपासनौ च_उभौ हि विज्ञायेते (कौशिकसूत्र ८,१[६०].७) तस्मिन् देवहेडनेनाज्यं जुहुयात् (कौशिकसूत्र ८,१[६०].८) समिधो_अभ्यादध्यात् (कौशिकसूत्र ८,१[६०].९) शकलान् वा (कौशिकसूत्र ८,१[६०].१०) तस्मिन् यथाकामं सवान् ददाति_एकं द्वौ सर्वान् वा (कौशिकसूत्र ८,१[६०].११) अपि वा_एकैकमात्माशिषो दातारं वाचयति (कौशिकसूत्र ८,१[६०].१२) पराशिषो_अनुमन्त्रणमनिर्दिष्टाशिषश्च (कौशिकसूत्र ८,१[६०].१३) दातारौ कर्माणि कुरुतः (कौशिकसूत्र ८,१[६०].१४) तौ यथालिङ्गमनुमन्त्रयते (कौशिकसूत्र ८,१[६०].१५) उभयलिङ्गैरुभौ पुंलिङ्गैर्दातारं स्त्रीलिङ्गैः पत्नीम् (कौशिकसूत्र ८,१[६०].१६) उदहृत्संप्रैषवर्जम् (कौशिकसूत्र ८,१[६०].१७) अथ देवयजनम् (कौशिकसूत्र ८,१[६०].१८) तद्यत्समं समूलमविदग्धं प्रतिष्ठितं प्रागुदक्प्रवणमाकृतिलोष्टवल्मीकेनास्तीर्य दर्भैश्च लोमभिः पशूनाम् (कौशिकसूत्र ८,१[६०].१९) <अग्ने जायस्व [११.१.१]>_इति मन्थन्तौ_अनुमन्त्रयते (कौशिकसूत्र ८,१[६०].२०) पत्नी मन्त्रं संनमयति (कौशिकसूत्र ८,१[६०].२१) यजमानश्च [एम्. Cअलन्द्, Kल्. ष्छ्र्. प्. ८९, Bलोओम्fइएल्द्ङ्ङा १९०२ ५१४] (कौशिकसूत्र ८,१[६०].२२) <कृणुत धूमं [११.१.२]>_इति धूमम् (कौशिकसूत्र ८,१[६०].२३) <अग्नेऽजनिष्ठा [११.१.३]> इति जातम् (कौशिकसूत्र ८,१[६०].२४) <समिद्धो अग्ने [११.१.४]>_इति समिध्यमानम् (कौशिकसूत्र ८,१[६०].२५) <परेहि नारि [११.१.१३]>_इत्युदहृतं संप्रेष्यति_अनुगुप्तामलंकृताम् (कौशिकसूत्र ८,१[६०].२६) <एमा अगुर्[११.१.१४ ]> इत्यायतीमनुमन्त्रयते (कौशिकसूत्र ८,१[६०].२७) <उत्तिष्ठ नारि [११.१.१४ ]>_इति पत्नीं संप्रेष्यति (कौशिकसूत्र ८,१[६०].२८) <प्रति कुम्भं गृभाय [११.१.१४ ]>_इति प्रतिगृह्णाति (कौशिकसूत्र ८,१[६०].२९) <ऊर्जो भागो [११.१.१५]>_इति निदधाति (कौशिकसूत्र ८,१[६०].३०) <इयं मही [११.१.८]>_इति चर्मास्तृणाति प्राग्ग्रीवमुत्तरलोम (कौशिकसूत्र ८,१[६०].३१) <पुमान् पुंसो [१२.३.१]>_इति चर्मारोहयति (कौशिकसूत्र ८,१[६०].३२) पत्नी ह्वयमानम् (कौशिकसूत्र ८,१[६०].३३) तृतीयस्यामपत्यमन्वाह्वयति (कौशिकसूत्र ८,१[६०].३४) <ऋषिप्रशिष्टा [११.१.१५ ]>_इत्युदपात्रं चर्मणि निदधाति (कौशिकसूत्र ८,१[६०].३५) तद्<आपस्पुत्रासो [१२.३.४]>_इति सापत्यौ_अनुनिपद्येते (कौशिकसूत्र ८,२[६१].१) <प्राचींप्राचीं [१२.३.७]>_इति मन्त्रोक्तम् (कौशिकसूत्र ८,२[६१].२) चतसृभिरुदपात्रमनुपरियन्ति (कौशिकसूत्र ८,२[६१].३) प्रतिदिशं <ध्रुवेयं विराण्[१२.३.११]>_इत्युपतिष्ठन्ते (कौशिकसूत्र ८,२[६१].४) <पितेव पुत्रान् [१२.३.१२]> इत्यवरोह्य भूमिं तेन_उदकार्थान् कुर्वन्ति (कौशिकसूत्र ८,२[६१].५) पवित्रैः संप्रोक्षन्ते (कौशिकसूत्र ८,२[६१].६) दर्भाग्राभ्यां चर्महविः संप्रोक्षति (कौशिकसूत्र ८,२[६१].७) आदिष्टानां सानजानत्यै प्रयछति (कौशिकसूत्र ८,२[६१].८) तान्_<त्रेधा भागो [११.१.५]>_इति व्रीहिराशिषु निदधाति (कौशिकसूत्र ८,२[६१].९) तेषां यः पितॄणां तं श्राद्धं करोति (कौशिकसूत्र ८,२[६१].१०) यो मनुष्याणां तं ब्राह्मणान् भोजयति (कौशिकसूत्र ८,२[६१].११) यो देवानां तम् <अग्ने सहस्वान् [११.१.६]> इति दक्षिणं जानु_आच्यापराजिताभिमुखः प्रह्वो वा मुष्टिप्रसृताञ्जलिभिः कुम्भ्यां निर्वपति (कौशिकसूत्र ८,२[६१].१२) कुम्भ्या वा चतुः (कौशिकसूत्र ८,२[६१].१३) तान् <सप्त मेधान् [१२.३.१६]> इति सापत्यौ_अभिमृशतः (कौशिकसूत्र ८,२[६१].१४) <गृह्णामि हस्तम् [१२.३.१७ ]> इति मन्त्रोक्तम् (कौशिकसूत्र ८,२[६१].१५) <त्रयो वरा [११.१.१० ]> इति त्रीन् वरान् वृणीष्व_इति (कौशिकसूत्र ८,२[६१].१६) अनेन कर्मणा ध्रुवानिति प्रथमं वृणीते (कौशिकसूत्र ८,२[६१].१७) यौ_अपरौ तौ_एव पत्नी (कौशिकसूत्र ८,२[६१].१८) <एतौ ग्रावाणौ [११.१.९]>_<अयं ग्रावा [१२.३.१४]>_इत्युलूखलमुसलं शूर्पं प्रक्षालितं चर्मणि_आधाय (कौशिकसूत्र ८,२[६१].१९) <गृहाण ग्रावाणौ [११.१.१०]>_इत्युभयं गृह्णाति (कौशिकसूत्र ८,२[६१].२०) <साकं सजातैः [११.१.७]>_इति व्रीहीनुलूखल आवपति (कौशिकसूत्र ८,२[६१].२१) <वनस्पतिः [१२.३.१५]>_इति मुसलमुच्छ्रयति (कौशिकसूत्र ८,२[६१].२२) <निर्बिन्ध्यंशून् [११.१.९ ]> <ग्राहिं पाप्मानम् [१२.३.१८]> इत्यवहन्ति (कौशिकसूत्र ८,२[६१].२३) <इयं ते धीतिर्[११.१.११]> <वर्षवृद्धम् [१२.३.१९ ]> इति शूर्पं गृह्णाति (कौशिकसूत्र ८,२[६१].२४) <ऊर्ध्वं प्रजाम् [११.१.९ ]>_<विश्वव्यचा [१२.३.१९]> इत्युदूहन्तीम् (कौशिकसूत्र ८,२[६१].२५) <परा पुनीहि [११.१.११ ]> <तुषं पलावान् [१२.३.१९ ]> इति निष्पुनतीम् (कौशिकसूत्र ८,२[६१].२६) <पृथग्रूपाणि [१२.३.२१]>_इत्यवक्षिणतीम् (कौशिकसूत्र ८,२[६१].२७) <त्रयो लोकाः [१२.३.२०]>_इत्यवक्षीणानभिमृशतः (कौशिकसूत्र ८,२[६१].२८) <पुनरा यन्तु शूर्पम् [१२.३.२० ]> इत्युद्वपति (कौशिकसूत्र ८,२[६१].२९) <उपश्वसे [११.१.१२]>_इत्यपवेवेक्ति (कौशिकसूत्र ८,२[६१].३०) <पृथिवीं त्वा पृथिव्याम् [१२.३.२२]> इति कुम्भीमालिम्पति (कौशिकसूत्र ८,२[६१].३१) <अग्ने चरुर्[११.१.१६]>_इत्यधिश्रयति (कौशिकसूत्र ८,२[६१].३२) <अग्निः पचन् [१२.३.२४]>_इति पर्यादधाति (कौशिकसूत्र ८,२[६१].३३) <ऋषिप्रशिष्टा [११.१.१५ ]>_इत्युदकमपकर्षति (कौशिकसूत्र ८,२[६१].३४) <शुद्धाः पूताः [११.१.१७]> <पूताः पवित्रैः [१२.३.२५]>_इति पवित्रे अन्तर्धाय (कौशिकसूत्र ८,२[६१].३५) उदकमासिञ्चति (कौशिकसूत्र ८,२[६१].३६) <ब्रह्मणा शुद्धाः [११.१.१८]> <संख्याता स्तोकाः [१२.३.२८]>_इत्यापस्तासु निक्त्वा तण्डुलानावपति (कौशिकसूत्र ८,२[६१].३७) <उरुः प्रथस्व [११.१.१९]>_<उद्योधन्ति [१२.३.२९]> श्रपयति (कौशिकसूत्र ८,२[६१].३८) <प्र यछ पर्शुं [१२.३.३१]>_इति दर्भाहाराय दात्रं प्रयछति (कौशिकसूत्र ८,२[६१].३९) <ओषधीर्दान्तु पर्वन् [१२.३.३१ ]>_इत्युपरि पर्वणां लुनाति (कौशिकसूत्र ८,२[६१].४०) <नवं बर्हिर्[१२.३.३२]> इति बर्हि स्तृणाति (कौशिकसूत्र ८,२[६१].४१) <उदेहि वेदिं [११.१.२१]> <धर्ता ध्रियस्व [१२.३.३५]>_इत्युद्वासयति (कौशिकसूत्र ८,२[६१].४२) <अभ्यावर्तस्व [११.१.२२]>_इति कुम्भीं प्रदक्षिणमावर्तयति (कौशिकसूत्र ८,२[६१].४३) <वनस्पते स्तीर्णम् [१२.३.३३]> इति बर्हिषि पात्रीं निदधाति (कौशिकसूत्र ८,२[६१].४४) <अंसध्रीं [११.१.२३ ]>_इत्युपदधाति (कौशिकसूत्र ८,२[६१].४५) <उप स्तृणीहि [१२.३.२७]>_इत्याज्येन_उपस्तृणाति (कौशिकसूत्र ८,२[६१].४६) <उपस्तरीर्[१२.३.२८]> इत्युपस्तीर्णामनुमन्त्रयते (कौशिकसूत्र ८,३[६२].१) <अदितेर्हस्तां [११.१.२४]> <सर्वान् समागा [१२.३.३६]> इति मन्त्रोक्तम् (कौशिकसूत्र ८,३[६२].२) तत उदकमादाय पात्र्यामानयति (कौशिकसूत्र ८,३[६२].३) दर्व्या कुम्भ्यां (कौशिकसूत्र ८,३[६२].४) दर्विकृते तत्र_एव प्रत्यानयति (कौशिकसूत्र ८,३[६२].५) दर्व्या_उत्तममपादाय तत्सुहृद्दक्षिणतो_अग्नेरुदङ्मुख आसीनो धारयति (कौशिकसूत्र ८,३[६२].६) अथ_उद्धरति (कौशिकसूत्र ८,३[६२].७) उद्धृते यदपादाय धारयति ततुत्तरार्ध आदधाति (कौशिकसूत्र ८,३[६२].८) अनुत्तराधरताया ओदनस्य यदुत्तरं तदुत्तरमोदन एव_ओदनः (कौशिकसूत्र ८,३[६२].९) <षष्ठ्यां शरत्सु [१२.३.३४]>_इति पश्चादग्नेरुपसादयति (कौशिकसूत्र ८,३[६२].१०) <निधिं निधिपा [१२.३.४२]> इति त्रीणि काण्डानि करोति (कौशिकसूत्र ८,३[६२].११) <यद्यज्जाया [१२.३.३९]>_इति मन्त्रोक्तम् (कौशिकसूत्र ८,३[६२].१२) सा पत्यौ_अन्वारभते (कौशिकसूत्र ८,३[६२].१३) अन्वारब्धेषु_अत ऊर्ध्वं करोति (कौशिकसूत्र ८,३[६२].१४) <अग्नी रक्षस्[१२.३.४३]>_इति पर्यग्नि करोति (कौशिकसूत्र ८,३[६२].१५) <बभ्रेरध्वर्यो [११.१.३१]> <इदं प्रापम् [१२.३.४५]> इत्युपरि_आपानं करोति (कौशिकसूत्र ८,३[६२].१६) <बभ्रेर्ब्रह्मन्न् [दृष्टव्यम्‌ ११.१.३१]> इति ब्रूयादनध्वर्युम् (कौशिकसूत्र ८,३[६२].१७) <घृतेन गात्रा [११.१.३१ ]>_<आ सिञ्च सर्पिर्[१२.३.४५ ]> इति सर्पिषा विष्यन्दयति (कौशिकसूत्र ८,३[६२].१८) <वसोर्या धारा [१२.३.४१]> <आदित्येभ्यो अङ्गिरोभ्यो [१२.३.४४]>_इति रसैरुपसिञ्चति (कौशिकसूत्र ८,३[६२].१९) <प्रियं प्रियाणां [१२.३.४९]>_इत्युत्तरतो_अग्नेर्धेन्वादीनि_अनुमन्त्रयते (कौशिकसूत्र ८,३[६२].२०) ताम् <अत्यासरत्प्रथमा [ড়्ष्५.३१.१]>_इति यथोक्तं दोहयित्वा_उपसिञ्चति (कौशिकसूत्र ८,३[६२].२१) <अत्यासरत्प्रथमा धोक्ष्यमाणा सर्वान् यज्ञान् बिभ्रती वैश्वदेवी । उप वत्सं सृजत वाश्यते गौर्व्यसृष्ट सुमना हिं कृणोति ॥ बधान वत्समभि धेहि भुञ्जती निज्य गोधुगुप सीद दुग्धि । इरामस्मा ओदनं पिन्वमाना कीलालं घृतं मदमन्नभागम् ॥ सा धावतु यमराज्ञः सवत्सा सुदुघां पथा प्रथमेह दत्ता । अतूर्णदत्ता प्रथमेदमागन् वत्सेन गां सं सृज विश्वरूपाम् [ড়्ष्५.३१.१३]> इति (कौशिकसूत्र ८,३[६२].२२) <इदं मे ज्योतिर्[११.१.२८]>_<समग्नयः [१२.३.५०]>_इति हिरण्यमधिदधाति (कौशिकसूत्र ८,३[६२].२३) <एषा त्वचां [१२.३.५१]>_इत्यमा_ऊतं वासो_अग्रतः सहिरण्यं निदधाति (कौशिकसूत्र ८,४[६३].१) <यदक्षेषु [१२.३.५२]>_इति समानवसनौ भवतः (कौशिकसूत्र ८,४[६३].२) द्वितीयं तत्पापचैलं भवति तन्मनुष्यान्धमाय दद्यादित्येके (कौशिकसूत्र ८,४[६३].३) <शृतं त्वा हव्यम् [११.१.२५]> इति वतुर आर्षेयान् भृग्वङ्गिरोविदुपसादयति (कौशिकसूत्र ८,४[६३].४) <शुद्धाः पूता [११.१.२७]> इति मन्त्रोक्तम् (कौशिकसूत्र ८,४[६३].५) <पक्वं क्षेत्रात्[११.१.२८ ]>_<वर्षं वनुष्व [१२.३.५३]>_इत्यपकर्षति (कौशिकसूत्र ८,४[६३].६) <अग्नौ तुषान् [११.१.२९]> इति तुषानावपति (कौशिकसूत्र ८,४[६३].७) <परः कम्बूकान् [११.१.२९ ]> इति सव्येन पादेन फलीकरणानपोहति (कौशिकसूत्र ८,४[६३].८) <तन्वं स्वर्गो [१२.३.५४]>_इत्यन्यानावपति (कौशिकसूत्र ८,४[६३].९) <अग्ने प्रेहि [४.१४.५]>_<समाचिनुष्व [११.१.३६]>_इत्याज्यं जुहुयात् (कौशिकसूत्र ८,४[६३].१०) एष सवानां संस्कारः (कौशिकसूत्र ८,४[६३].११) अर्थलुप्तानि निवर्तन्ते (कौशिकसूत्र ८,४[६३].१२) यथासवं मन्त्रं संनमयति (कौशिकसूत्र ८,४[६३].१३) लिङ्गं परिहितस्य लिङ्गस्यानन्तरं कर्मकर्मानुपूर्वेण लिङ्गं परीक्षेत (कौशिकसूत्र ८,४[६३].१४) लिङ्गेन वा (कौशिकसूत्र ८,४[६३].१५) कर्मोत्पत्त्यानुपूर्वं प्रशस्तम् (कौशिकसूत्र ८,४[६३].१६) अतथा_उत्पत्तेर्यथालिङ्गम् (कौशिकसूत्र ८,४[६३].१७) समुच्चयस्तुल्यार्थानां विकल्पो वा (कौशिकसूत्र ८,४[६३].१८) अथ_एतयोर्विभागः (कौशिकसूत्र ८,४[६३].१९) सूक्तेन पूर्वं संपातवन्तं करोति (कौशिकसूत्र ८,४[६३].२०) <श्राम्यतः [११.१.३०]>_इतिप्रभृतिभिर्वा सूक्तेनाभिमन्त्र्याभिनिगद्य दद्याद्दाता वाच्यमानः (कौशिकसूत्र ८,४[६३].२१) अनुवाकेन_उत्तरं संपातवन्तं करोति (कौशिकसूत्र ८,४[६३].२२) <प्राच्यै त्वा दिशे [१२.३.५५]>_इतिप्रभृतिभिर्वानुवाकेनाभिमन्त्र्याभिनिगद्य दद्याद्दाता वाच्यमानः (कौशिकसूत्र ८,४[६३].२३) यथासवमन्यान् पृथग्वा_इति प्रकृतिः (कौशिकसूत्र ८,४[६३].२४) सर्वे यथोत्पत्त्याचार्याणां पञ्चौदनवर्जम् (कौशिकसूत्र ८,४[६३].२५) प्रयुक्तानां पुनरप्रयोगम् (कौशिकसूत्र ८,४[६३].२६) एके सहिरण्यां धेनुं दक्षिणां (कौशिकसूत्र ८,४[६३].२७) गोदक्षिणां वा कौरुपथिः (कौशिकसूत्र ८,४[६३].२८) संपातवतो_अभिमन्त्र्याभिनिगद्य दद्याद्दाता वाच्यमानः (कौशिकसूत्र ८,४[६३].२९) <एतं भागं [६.१२२.१]>_<एतं सधस्थाः [६.१२३.१]>_<उलूखले [१०.९.२६]>_इति संस्थितहोमाः (कौशिकसूत्र ८,४[६३].३०) आवपते (कौशिकसूत्र ८,४[६३].३१) अनुमन्त्रणं च (कौशिकसूत्र ८,५[६४].१) <आशानाम् [१.३१.१]> इति चतुःशरावम् (कौशिकसूत्र ८,५[६४].२) <यद्राजानो [३.२९.१]>_इत्यवेक्षति (कौशिकसूत्र ८,५[६४].३) पदस्नातस्य पृथक्पादेषु_अपूपान्निदधाति (कौशिकसूत्र ८,५[६४].४) नाभ्यां पञ्चमम् (कौशिकसूत्र ८,५[६४].५) उन्नह्यन् वसनेन सहिरण्यं संपातवन्तम् (कौशिकसूत्र ८,५[६४].६) <आ नयैतम् [९.५.१]> इत्यपराजितादजमानीयमानमनुमन्त्रयते (कौशिकसूत्र ८,५[६४].७) <इन्द्राय भागं [९.५.२]>_इति अग्निं परिणीयमानम् (कौशिकसूत्र ८,५[६४].८) <ये नो द्विषन्ति [९.५.२ ]>_इति संज्ञप्यमानम् (कौशिकसूत्र ८,५[६४].९) <प्र पदो [९.५.३]>_इति पदः प्रक्षालयन्तम् (कौशिकसूत्र ८,५[६४].१०) <अनुछ्य श्यामेन [९.५.४]>_इति यथापरु विशन्तम् (कौशिकसूत्र ८,५[६४].११) <ऋचा कुम्भीम् [९.५.५]> इत्यधिश्रयन्तम् (कौशिकसूत्र ८,५[६४].१२) <आ सिञ्च [९.५.५ ]>_इत्यासिञ्चन्तम् (कौशिकसूत्र ८,५[६४].१३) <अव धेहि [९.५.५ ড়र्त्]>_इत्यवदधतम् (कौशिकसूत्र ८,५[६४].१४) <पर्याधत्त [९.५.५ ]>_इति पर्यादधतम् (कौशिकसूत्र ८,५[६४].१५) <शृतो गछतु [९.५.५ ]>_इत्युद्वासयन्तम् (कौशिकसूत्र ८,५[६४].१६) <उत्क्रामातः [९.५.६]>_इति पश्चादग्नेर्दर्भेषूद्धरन्तम् (कौशिकसूत्र ८,५[६४].१७) उद्धृतम् <अजमनज्मि [४.१४.६]>_इत्याज्येनानक्ति (कौशिकसूत्र ८,५[६४].१८) <पञ्चौदनं [४.१४.७]>_इति मन्त्रोक्तम् (कौशिकसूत्र ८,५[६४].१९) ओदनान् पृथक्पादेषु निदधाति (कौशिकसूत्र ८,५[६४].२०) मध्ये पञ्चमम् (कौशिकसूत्र ८,५[६४].२१) दक्षिणं पश्चार्धं यूपेन_उपसिच्य (कौशिकसूत्र ८,५[६४].२२) <शृतमजं [४.१४.९]>_इत्यनुबद्धशिरःपादं तु_एतस्य चर्म (कौशिकसूत्र ८,५[६४].२३) <अजो हि [४.१४.१]>_इति सूक्तेन संपातवन्तं यथोक्तम् (कौशिकसूत्र ८,५[६४].२४) उत्तरो_अमोतं तस्याग्रतः सहिरण्यं निदधाति (कौशिकसूत्र ८,५[६४].२५) <पञ्च रुक्मा [९.५.२५(२६)]>_इति मन्त्रोक्तम् (कौशिकसूत्र ८,५[६४].२६) धेन्वादीनि_उत्तरतः सोपधानमास्तरणं वासो हिरण्यं च (कौशिकसूत्र ८,५[६४].२७) <आ नयैतम् [९.५.१]> इति सूक्तेन संपातवन्तम् (कौशिकसूत्र ८,५[६४].२८) आञ्जनान्तं शतौदनायाः पञ्चौदेन व्याख्यातम् (कौशिकसूत्र ८,६[६५].१) <अघायताम् [१०.९.१]> इत्यत्र मुखमपिनह्यमानमनुमन्त्रयते (कौशिकसूत्र ८,६[६५].२) <सपत्नेषु वज्रम् [१०.९.१ ]>_<ग्रावा त्वैषो [१०.९.२ ]>_इति निपतन्तम् (कौशिकसूत्र ८,६[६५].३) <वेदिष्टे [१०.९.२]>_इति मन्त्रोक्तमास्तृणाति (कौशिकसूत्र ८,६[६५].४) विंशत्योदनासु श्रयणीषु शतमवदानानि वध्रीसंनद्धानि पृथगोदनेषूपर्यादधति (कौशिकसूत्र ८,६[६५].५) मध्यमायाः प्रथमे रन्ध्रिण्यामिक्षां दशमे_अभितः सप्तसप्तापूपान् परिश्रयति (कौशिकसूत्र ८,६[६५].६) पञ्चदशे पुरोडाशौ (कौशिकसूत्र ८,६[६५].७) अग्रे हिरण्यम् (कौशिकसूत्र ८,६[६५].८) <अपो देवीर्[१०.९.२७]>_इत्यग्रत उदकुम्भान् (कौशिकसूत्र ८,६[६५].९) <बालास्ते [१०.९.३]>_इति सूक्तेन संपातवतीम् (कौशिकसूत्र ८,६[६५].१०) प्रदक्षिणमग्निमनुपरिणीय_उपवेशनप्रक्षालनाचमनमुक्तम् (कौशिकसूत्र ८,६[६५].११) पाणौ_उदकमानीय (कौशिकसूत्र ८,६[६५].१२) अथामुष्य_ओदनस्यावदानानां च मध्यात्पूर्वार्धात्_च द्विरवदाय_उपरिष्टादुदकेनाभिघार्य जुहोति <सोमेन पूतो जठरे सीद ब्रह्मणाम् [११.१.२५ ]> <आर्षेयेषु नि दध ओदन त्वा [११.१.३३ ]>_इति (कौशिकसूत्र ८,६[६५].१३) अथ प्राश्नाति (कौशिकसूत्र ८,६[६५].१४) <अग्नेष्ट्वास्येन प्राश्नामि बृहस्पतेर्मुखेन । इन्द्रस्य त्वा जठरे सादयामि वरुणस्योदरे । तद्यथा हुतमिष्टं प्राश्नीयाद्देवात्मा त्वा प्राश्नाम्यात्मास्यात्मन्नात्मानं मे मा हिंसीर्[ড়्ष्२०.५७.१४॑ दृष्टव्यम्‌ ড়्ष्९.२१.१ f., Vष्K २.३.५+७, Vऐत्ष्३.११]> इति प्राशितमनुमन्त्रयते (कौशिकसूत्र ८,६[६५].१५) <योऽग्निर्नृमणा नाम ब्राह्मणेषु प्रविष्टः । तस्मिन्म एष सुहुतोऽस्त्वोदनः स मा मा हिंसीत्परमे व्योमन् ॥ सो अस्मभ्यमस्तु परमे व्योमन्न् [दृष्टव्यम्‌ ড়्ष्२०.५७.१५, ড়्ष्१६.७२.९]> इति दातारं वाचयति (कौशिकसूत्र ८,६[६५].१६) वीक्षणान्तं शतौदनायाः प्रातर्जपेन व्याख्यातम् (कौशिकसूत्र ८,७[६६].१) <वाङ्म आसन् [१९.६०.१]>_इति मन्त्रोक्तानि_अभिमन्त्रयते (कौशिकसूत्र ८,७[६६].२) <बृहता मनो [५.१०.८]> <द्यौश्च मे [६.५३.१]> <पुनर्मैत्विन्द्रियं [७.६७.१]>_इति प्रतिमन्त्रयते (कौशिकसूत्र ८,७[६६].३) प्रतिमन्त्रिते व्यवदायाश्नन्ति (कौशिकसूत्र ८,७[६६].४) शतौदनायां द्वादशं शतं दक्षिणाः (कौशिकसूत्र ८,७[६६].५) अधिकं ददतः कामप्रं संपद्यते (कौशिकसूत्र ८,७[६६].६) <ब्रह्मास्य [४.३४.१]>_इत्योदने ह्रदान् प्रतिदिशं करोति (कौशिकसूत्र ८,७[६६].७) उपरि_आपानम् (कौशिकसूत्र ८,७[६६].८) तदभितश्चतस्रो दिश्याः कुल्याः (कौशिकसूत्र ८,७[६६].९) ता रसैः पूरयति (कौशिकसूत्र ८,७[६६].१०) पृथिव्यां सुरयाद्भिराण्डीकादिवन्ति मन्त्रोक्तानि प्रतिदिशं निधाय (कौशिकसूत्र ८,७[६६].११) <यमोदनं [४.३५.१]>_इत्यतिमृत्युम् (कौशिकसूत्र ८,७[६६].१२) <अनड्वान् [४.११.१]> इत्यनड्वाहम् (कौशिकसूत्र ८,७[६६].१३) <सूर्यस्य रश्मीन् [४.३८.५]> इति कर्कीं सानूबन्ध्यां ददाति (कौशिकसूत्र ८,७[६६].१४) <आयं गौः पृश्निर्[६.३१.१]> <अयं सहस्रम् [७.२२.१]> इति पृश्निं गाम् (कौशिकसूत्र ८,७[६६].१५) <देवा इमं मदुना संयुतं यवं [६.३०.१]> इति पौनःशिलं मधुमन्तं सहिरण्यं संपातवन्तम् (कौशिकसूत्र ८,७[६६].१६) <पुनन्तु मा देवजनाः [६.१९.१]>_इति पवित्रं कृशरम् (कौशिकसूत्र ८,७[६६].१७) <कः पृश्निं [७.१०४.१]>_इत्युर्वराम् (कौशिकसूत्र ८,७[६६].१८) <साहस्रस्[९.४.१]>_इत्यृषभम् (कौशिकसूत्र ८,७[६६].१९) <प्रजापतिश्च [९.७.१]>_इत्यनड्वाहम् (कौशिकसूत्र ८,७[६६].२०) <नमस्ते जायमानायै [१०.१०.१]> <ददामि [१२.४.१]>_इति वशामुदपात्रेण संपातवता संप्रोक्ष्याभिमन्त्र्याभिनिगद्य दद्याद्दाता वाच्यमानः (कौशिकसूत्र ८,७[६६].२१) <भूमिष्ट्वा [३.२९.८]>_इत्येनां प्रतिगृह्णाति (कौशिकसूत्र ८,७[६६].२२) <उपमितां [९.३.१ (५.२८.५)]>_इति यत्_शालया सह दास्यन् भवति तदन्तर्भवति_अपिहितम् (कौशिकसूत्र ८,७[६६].२३) मन्त्रोक्तं तु प्रशस्तम् (कौशिकसूत्र ८,७[६६].२४) <इटस्य ते वि चृतामि [९.३.१८]>_इति द्वारमवसारयति (कौशिकसूत्र ८,७[६६].२५) <प्रतीचीं त्वा प्रतीचीनः [९.३.२२]>_इत्युदपात्रमग्निमादाय प्रपद्यन्ते (कौशिकसूत्र ८,७[६६].२६) तदन्तरेव सूक्तेन संपातवत्करोति (कौशिकसूत्र ८,७[६६].२७) उदपात्रेण संपातवता शालां संप्रोक्ष्याभिमन्त्र्याभिनिगद्य दद्याद्दाता वाच्यमानः (कौशिकसूत्र ८,७[६६].२८) <अन्तरा द्यां च पृथिवीं च [९.३.१५]>_इत्येनां प्रतिगृह्णाति (कौशिकसूत्र ८,७[६६].२९) <उपमितां [९.३.१]>_इति मन्त्रोक्तानि प्रचृतति (कौशिकसूत्र ८,७[६६].३०) <मा नः पाशं [९.३.२४]>_इत्यभिमन्त्र्य धारयति (कौशिकसूत्र ८,७[६६].३१) <नास्यास्थीनि [९.५.२३]>_इति यथोक्तम् (कौशिकसूत्र ८,७[६६].३२) <सर्वमेनं समादय [९.५.२३ ]>_इत्यद्भिः पूर्णे गर्ते प्रविध्य संवपति (कौशिकसूत्र ८,७[६६].३३) शतौदनां च (कौशिकसूत्र ८,८[६७].१) संभृतेषु साविकेषु संभारेषु ब्राह्मणमृत्विजं वृणीत (कौशिकसूत्र ८,८[६७].२) ऋषिमार्षेयं सुधातुदक्षिणमनैमित्तिकम् (कौशिकसूत्र ८,८[६७].३) एष ह वा ऋषिरार्षेयः सुधातुदक्षिणो यस्य त्र्यवरार्ध्याः पूर्वपुरुषा विद्याचरणवृत्तशीलसंपन्नाः (कौशिकसूत्र ८,८[६७].४) उदगयन इत्येके (कौशिकसूत्र ८,८[६७].५) अथात ओदनसवानामुपाचारकल्पं व्याख्यास्यामः (कौशिकसूत्र ८,८[६७].६) सवान् दत्त्वाग्नीनादधीत (कौशिकसूत्र ८,८[६७].७) सार्ववैदिक इत्येके (कौशिकसूत्र ८,८[६७].८) सर्वे वेदा द्विकल्पाः (कौशिकसूत्र ८,८[६७].९) मासपरार्ध्या दीक्षा द्वादशरात्रो वा (कौशिकसूत्र ८,८[६७].१०) त्रिरात्र इत्येके (कौशिकसूत्र ८,८[६७].११) हविष्यभक्षा स्युर्ब्रह्मचारिणः (कौशिकसूत्र ८,८[६७].१२) अधः शयीरन् (कौशिकसूत्र ८,८[६७].१३) कर्तृदातारौ_आ समापनात्कामं न भुञ्जीरन् संतताश्चेत्स्युः (कौशिकसूत्र ८,८[६७].१४) अहनि समाप्तमित्येके (कौशिकसूत्र ८,८[६७].१५) यात्रार्थं दातारौ वा दाता केशश्मश्रुरोमनखानि वापयीत (कौशिकसूत्र ८,८[६७].१६) केशवर्जं पत्नी (कौशिकसूत्र ८,८[६७].१७) स्नातावहतवसनौ सुरभिणौ व्रतवन्तौ कर्मण्यौ_उपवसतः (कौशिकसूत्र ८,८[६७].१८) श्वो भूते यज्ञोपवीती शान्त्युदकं कृत्वा यज्ञवास्तु च संप्रोक्ष्य ब्रह्मौदनिकमग्निं मथित्वा (कौशिकसूत्र ८,८[६७].१९) <यद्देवा देवहेडनं [६.११४.१]> <यद्विद्वांसो यदविद्वांसो [६.११५.१]> <ऽपमित्यमप्रतीत्तं [६.११७.१]>_इत्येतैस्त्रिभिः सूक्तैरन्वारब्धे दातरि पूर्णहोमं जुहुयात् (कौशिकसूत्र ८,८[६७].२०) पूर्वाह्णे बाह्यतः शान्तवृक्षस्य_इध्मं प्राञ्चमुपसमाधाय (कौशिकसूत्र ८,८[६७].२१) परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रमुपसाद्य परिचरणेनाज्यं परिचर्य (कौशिकसूत्र ८,८[६७].२२) नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ च (कौशिकसूत्र ८,८[६७].२३) पश्चादग्नेः पल्पूलितविहितमौक्षं वानडुहं वा रोहितं चर्म प्राग्ग्रीवमुत्तरलोम परिस्तीर्य (कौशिकसूत्र ८,८[६७].२४) पवित्रे कुरुते (कौशिकसूत्र ८,८[६७].२५) दर्भौ_अप्रछिन्नप्रान्तौ प्रक्षाल्यानुलोममनुमार्ष्टि (कौशिकसूत्र ८,८[६७].२६) दक्षिणं जानु_आच्यापराजिताभिमुखः प्रह्वो वा मुष्टिना प्रसृतिनाञ्जलिना यस्यां श्रपयिष्यन् स्यात्तया चतुर्थम् (कौशिकसूत्र ८,८[६७].२७) शरावेण चतुःशरावं <देवस्य त्वा सवितुः प्रसवे [ড়्ष्१६.७०.१, ट्ष्२.४.६.१ इत्यादि]>_<ऋषिभ्यस्त्वार्षेयेभ्यस्त्वैकर्षये त्वा जुष्टं निर्वपामि [दृष्टव्यम्‌ ড়्ष्१६.७०.२]> (कौशिकसूत्र ८,९[६८].१) <वसवस्त्वा गायत्रेण छन्दसा निर्वपन्तु । ऊर्जमक्षितमक्षीयमाणमुपजीव्यासम् [दृष्टव्यम्‌ ড়्ष्१६.७०.२+३]> इति दातारं वाचयति (कौशिकसूत्र ८,९[६८].२) <रुद्रास्त्वा त्रैष्टुभेन छन्दसा । आदित्यास्त्वा जागतेन छन्दसा । विश्वे त्वा देवा आनुष्टुभेन छन्दसा निर्वपन्तु । ऊर्जमक्षितमक्षीयमाणमुप जीव्यासम् [दृष्टव्यम्‌ ড়्ष्१६.७०.२+४+५, ऐतरेयब्राह्मण ८.१२]> इति दातारं वाचयति (कौशिकसूत्र ८,९[६८].३) निरुप्तं सूक्तेनाभिमृशति (कौशिकसूत्र ८,९[६८].४) स्वर्गब्रह्मौदनौ तन्त्रम् (कौशिकसूत्र ८,९[६८].५) संनिपाते ब्रह्मौदनमितमुदकमासेचयेद्द्विभागम् (कौशिकसूत्र ८,९[६८].६) यावन्तस्तण्डुलाः स्युर्नावसिञ्चेत्_न प्रतिषिञ्चेत् (कौशिकसूत्र ८,९[६८].७) यदि_अवसिञ्चेत्_<मयि वर्चो अथो यशो [६.६९.३]>_इति ब्रह्मा यजमानं वाचयति (कौशिकसूत्र ८,९[६८].८) अथ प्रतिषिञ्चेत् (कौशिकसूत्र ८,९[६८].९) <आ प्यायस्व [ড়्ष्२०.५५.४, .ऋV १.१९.१६ इत्यादि]> <सं ते पयांसि [ড়्ष्२०.५५.६, .ऋV १.९१.१८ इत्यादि]>_इति द्वाभ्यां प्रतिषिञ्चेत् (कौशिकसूत्र ८,९[६८].१०) <आ प्यायस्व समेतु ते विस्वतः सोम वृष्ण्यम् । भवा वाजस्य संगथे ॥ सं ते पयांसि समु यन्तु वाजाः सं वृष्ण्यान्यभिमातिषाहः । आप्यायमानो अमृताय सोम दिवि श्रवांस्युत्तमानि धिष्व ॥ [ড়्ष्२०.५५.४+६, .ऋV १.९१.१६+१८]>_इति (कौशिकसूत्र ८,९[६८].११) तत्र चेदुपाधिमात्रायां नखेन न लवणस्य कुर्यात्तेन_एवास्य तद्वृथान्नं संपद्यते (कौशिकसूत्र ८,९[६८].१२) अहतं वासो दक्षिणत उपशेते (कौशिकसूत्र ८,९[६८].१३) तत्सहिरण्यम् (कौशिकसूत्र ८,९[६८].१४) तत्र द्वे उदपात्रे निहिते भवतः (कौशिकसूत्र ८,९[६८].१५) दक्षिणमन्यदन्तरमन्यत् (कौशिकसूत्र ८,९[६८].१६) अन्तरं यतो_अधिचरिष्यन् भवति (कौशिकसूत्र ८,९[६८].१७) बाह्यं जाङ्मायनम् (कौशिकसूत्र ८,९[६८].१८) तत उदकमादाय पात्र्यामानयति (कौशिकसूत्र ८,९[६८].१९) दर्व्या कुम्भ्याम् (कौशिकसूत्र ८,९[६८].२०) दर्विकृते तत्र_एव प्रत्यानयति (कौशिकसूत्र ८,९[६८].२१) दर्व्या_उत्तममपादाय तत्सुहृद्दक्षिणतो_अग्नेरुदङ्मुख आसीनो धारयति (कौशिकसूत्र ८,९[६८].२२) अथ_उद्धरति (कौशिकसूत्र ८,९[६८].२३) उद्धृते यदपादाय धारयति तदुत्तरार्ध आधाय रसैरुपसिच्य प्रतिग्रहीत्रे दाता_उपवहति (कौशिकसूत्र ८,९[६८].२४) तस्मिन्नन्वारब्धं दातारं वाचयति (कौशिकसूत्र ८,९[६८].२५) तन्त्रं सूक्तं पच्छः स्नातेन <यौ ते पक्षौ [ড়्ष्३.३८.६]> <यदतिष्ठः [ড়्ष्३.३८.७]> (कौशिकसूत्र ८,९[६८].२६) <यौ ते पक्षावजरौ पतत्रिणौ याभ्यां रक्षांस्यपहंस्योदन । ताभ्यां पथ्यास्म सुकृतस्य लोकं यत्र ऋषयः प्रथमजाः पुराणाः ॥ यदतिष्ठो दिवस्पृष्ठे व्योमन्नध्योदन । अन्वायन् सत्यधर्माणो ब्राह्मणा राधसा सह ॥ [ড়्ष्३.३८.६७, दृष्टव्यम्‌ ट्ष्४.७.१३.१, Vष्ं १८.५२]> (कौशिकसूत्र ८,९[६८].२७) <क्रमध्वमग्निना नाकम् [४.१४.२]>_<पृष्ठात्पृथिव्या अहमन्तरिक्षमारुहम् [४.१४.३]>_<स्वर्यन्तो नापेक्षन्त [४.१४.४]> <उरुः प्रथस्व महता महिम्ना [११.१.१९]>_<इदं मे ज्योतिर्[११.१.२८]>_<सत्याय च [१२.३.४६]>_इति तिस्रः <समग्नयः [१२.३.५०]>_इति सार्धमेतया (कौशिकसूत्र ८,९[६८].२८) अत ऊर्ध्वं वाचिते हुते संस्थिते_अमूं ते ददामीति नामग्राहमुपस्पृशेत् (कौशिकसूत्र ८,९[६८].२९) सदक्षिणं <कामस्तद्[१९.५२.१]> इत्युक्तम् (कौशिकसूत्र ८,९[६८].३०) <ये भक्षयन्तो [२.३५.१]>_इति पुरस्ताद्धोमाः (कौशिकसूत्र ८,९[६८].३१) <अग्ने त्वं नो अन्तम उत त्राता शिवो भवा वरूथ्यः । तं त्वा शोचिष्ठ दीदिवः सुम्नाय नूनमीमहे सखिभ्यः ॥ [.ऋV ५.२४.१ ब्+२ देत्च्.]> <गयस्फानो अमीवहा वसुवित्पुष्टिवर्धनः । सुमित्रः सुमनो भव [दृष्टव्यम्‌ .ऋV १.९१.१२ इत्यादि]>_इत्याज्यभागौ (कौशिकसूत्र ८,९[६८].३२) पाणौ_उदकमानीय_इत्युक्तम् (कौशिकसूत्र ८,९[६८].३३) प्रतिमन्त्रणान्तम् (कौशिकसूत्र ८,९[६८].३४) प्रतिमन्त्रिते व्यवदायाश्नन्ति (कौशिकसूत्र ८,९[६८].३५) <इदावत्सराय [ড়्ष्१९.५१.१४]>_इति व्रतविसर्जनमाज्यं जुहुयात् (कौशिकसूत्र ८,९[६८].३६) समिधो_अभ्याध्यात् (कौशिकसूत्र ८,९[६८].३७) तत्र श्लोकौ । यजुषा मथिते अग्नौ यजुषोपसमाहिते । सवान् दत्त्वा सवाग्नेस्तु कथमुत्सर्जनं भवेत् ॥ वाचयित्वा सवान् सर्वान् प्रतिगृह्य यथाविधि । हुत्वा संनतिभिस्तत्रोत्सर्गं कौशिकोऽब्रवीत् (कौशिकसूत्र ८,९[६८].३८) प्राञ्चो_अपराजितां वा दिशमवभृथाय व्रजन्ति (कौशिकसूत्र ८,९[६८].३९) अपां सूक्तैराप्लुत्य प्रदक्षिणमावृत्याप उपस्पृश्यानवेक्षमाणाः प्रत्युदाव्रजन्ति (कौशिकसूत्र ८,९[६८].४०) ब्राह्मणान् भक्तेन_उपेप्सन्ति (कौशिकसूत्र ८,९[६८].४१) यथोक्ता दक्षिणा यथोक्ता दक्षिणा (Kऔश्ष्८ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रेऽष्टमोऽध्यायः समाप्तः (कौशिकसूत्र ९,१[६९].१) पित्र्यमग्निं शमयिष्यञ्ज्येष्ठस्य चाविभक्तिन एकाग्निमाधास्यन् (कौशिकसूत्र ९,१[६९].२) अमावास्यायं पूर्वस्मिन्नुपशाले गां द्विहायनीं रोहिणीमेकरूपां बन्धयति (कौशिकसूत्र ९,१[६९].३) निशि शामूलपरिहितो ज्येष्ठो_अन्वालभते (कौशिकसूत्र ९,१[६९].४) पत्नी_अहतवसना ज्येष्ठम् (कौशिकसूत्र ९,१[६९].५) पत्नीमन्वञ्च इतरे (कौशिकसूत्र ९,१[६९].६) अथ_एनानभिव्याहारयति_<अध्रिगो शमीध्वम् । सुशमि शमीध्वम् । शमीध्वमध्रिगा ओ उ [दृष्टव्यम्‌ ट्B ३.६.६.४ इत्यादि]> इति त्रिः (कौशिकसूत्र ९,१[६९].७) <अयमग्निः सत्पतिर्[७.६२.१]> <नडमा रोह [१२.२.१]>_इत्यनुवाकं महाशान्तिं च शान्त्युदक आवपते (कौशिकसूत्र ९,१[६९].८) <अग्ने अक्रव्याद्[१२.२.४२]> इति भ्रष्टाद्दीपं धारयति (कौशिकसूत्र ९,१[६९].९) भूमेश्च_उपदग्धं समुत्खाय (कौशिकसूत्र ९,१[६९].१०) आकृतिलोष्टवल्मीकेनास्तीर्य (कौशिकसूत्र ९,१[६९].११) शकृत्पिण्डेनाभिलिप्य (कौशिकसूत्र ९,१[६९].१२) सिकताभिः प्रकीर्याभ्युक्ष्य (कौशिकसूत्र ९,१[६९].१३) लक्षणं कृत्वा (कौशिकसूत्र ९,१[६९].१४) पुनरभ्युक्ष्य (कौशिकसूत्र ९,१[६९].१५) पश्चाल्लक्षणस्याभिमन्थनं निधाय (कौशिकसूत्र ९,१[६९].१६) गोऽश्वाजावीनां पुंसां लोमभिरास्तीर्य व्रीहियवैश्च शकृत्पिण्डमभिविमृज्य प्राञ्चौ दर्भौ निदधाति (कौशिकसूत्र ९,१[६९].१७) <वृषणौ स्थः [ट्ष्१.३.७.१ इत्यादि]>_इत्यभिपाण्यारण्यौ (कौशिकसूत्र ९,१[६९].१८) तयोरुपरि_अधरारणिम् (कौशिकसूत्र ९,१[६९].१९) दक्षिणतो मूलान् (कौशिकसूत्र ९,१[६९].२०) पश्चात्प्रजननाम् <उर्वश्यसि [ट्ष्१.३.७.१ इत्यादि]>_इत्य्<आयुरसि [ट्ष्१.३.७.१ इत्यादि]>_इति (कौशिकसूत्र ९,१[६९].२१) मूलत उत्तरारणिमुपसंधाय (कौशिकसूत्र ९,१[६९].२२) <पृतनाजितं [७.६३.१]>_इत्याहूय (कौशिकसूत्र ९,१[६९].२३) अभिदक्षिणं ज्येष्ठस्त्रिरभिमन्थति_<ओं भूर्गायत्रं छन्दोऽनुप्रजायस्व त्रैष्ठुभं जागतमानुष्ठुबमों भूर्भुवः स्वर्जनदोम् [दृष्टव्यम्‌ ट्ष्१.३.७.१ इत्यादि]> इति (कौशिकसूत्र ९,१[६९].२४) अत ऊर्ध्वं यथाकामं (कौशिकसूत्र ९,२[७०].१) <मन्थामि त्वा जातवेदः सुजातं जातवेदसम् । स नो जीवेष्वा भज दीर्घमायुश्च धेहि नः ॥ []> <जातोऽजनिष्ठा यशसा सहाग्रे प्रजां पशूंस्तेजो रयिमस्मासु धेहि । आनन्दिनो मोदमानाः सुवीरा अनामयाः सर्वमायुर्गमेम ॥ [, दृष्टव्यम्‌ ॑षाङ्ख्॑ष्ष्२.१७.८> <उद्दीप्यस्व जातवेदोऽव सेदिं तृणां क्षुधं जहि । अपास्मत्तम उछत्वप ह्रीतमुखो जह्यप दुर्हार्द्दिशो जहि ॥> <इहैवैधि धनसनिरिह त्वा समिधीमहि । इहैधि पुष्टिवर्धन इह त्वा समिधीमहि [, दृष्टव्यम्‌ १८.४.३८ ]>_इति (कौशिकसूत्र ९,२[७०].२) प्रथमया मन्थति (कौशिकसूत्र ९,२[७०].३) द्वितीयया जातमनुमन्त्रयते (कौशिकसूत्र ९,२[७०].४) तृतीयया_उद्दीपयति (कौशिकसूत्र ९,२[७०].५) चतुर्थ्या_उपसमादधाति (कौशिकसूत्र ९,२[७०].६) <यत्त्वा क्रुद्धाः [१२.२.५, दृष्टव्यम्‌ ंष्१.७.१ इत्यादि]>_इति च_<ओं भूर्भुवः स्वर्जनदोम्> इत्य्<अङ्गिरसां त्वा देवानामादित्यानां व्रतेना दधे [दृष्टव्यम्‌ Kष्७.१३७६.१५ f. इत्यादि]> । <द्यौर्मह्नासि भूमिर्भूम्ना तस्यास्ते देव्यदितिरुपस्थेऽन्नादायान्नपत्याया दधत्[दृष्टव्यम्‌ Kष्७.१३७६.१७ . इत्यादि]> इति (कौशिकसूत्र ९,२[७०].७) लक्षणे प्रतिष्ठाप्य_उपोत्थाय (कौशिकसूत्र ९,२[७०].८) अथ_उपतिष्ठते (कौशिकसूत्र ९,२[७०].९) <अग्ने गृहपते सुगृहपतिरहं त्वयाग्ने गृहपतिना भूयासम् । सुगृहपतिस्त्वं मयाग्ने गृहपतिना भूयाः । अस्थूरि णौ गार्हपत्यानि दीदिहि शतं समाः [दृष्टव्यम्‌ Vष्ं २.२७ इत्यादि]>_इति (कौशिकसूत्र ९,२[७०].१०) <व्याकरोमि [१२.२.३२]>_इति गार्हपत्यक्रव्यादौ समीक्षते (कौशिकसूत्र ९,२[७०].११) शान्तमाज्यं गार्हपत्याय_उपनिदधाति (कौशिकसूत्र ९,२[७०].१२) माषमन्थं क्रव्यादम् (कौशिकसूत्र ९,२[७०].१३) <उप त्वा नमसा [३.१५.७]>_इति पुरोऽनुवाक्या (कौशिकसूत्र ९,२[७०].१४) <विश्वहा ते [३.१५.८]>_इति पूर्णाहुतिं जुहोति (कौशिकसूत्र ९,२[७०].१५) <यो नो अग्निः [१२.२.३३]>_इति सह कर्त्रा हृदयानि_अभिमृशन्ते (कौशिकसूत्र ९,३[७१].१) <अंशो राजा विभजतीमावग्नी विधारयन् । क्रव्यादं निर्णुदामसि हव्यवाडिह तिष्ठतु []>_इति विभागं जपति (कौशिकसूत्र ९,३[७१].२) <सुगार्हपत्यो [१२.२.४५ ]>_इति दक्षिणेन गार्हपत्ये समिधमादधाति (कौशिकसूत्र ९,३[७१].३) <यः क्रव्यात्तमशीशमम् [दृष्टव्यम्‌ ३.२१.९]> इति सव्येन नडमयीं क्रव्यादि (कौशिकसूत्र ९,३[७१].४) <अपावृत्य [१२.२.३४]>_इति मन्त्रोक्तं बाह्यतो निधाय (कौशिकसूत्र ९,३[७१].५) <नडमा रोह [१२.२.१]> <समिन्धते [१२.१.११]>_<इषीकां जरतीम् [१२.१.५४]>_<प्रत्यञ्चमर्कं [१२.१.५५]>_इत्युपसमादधाति (कौशिकसूत्र ९,३[७१].६) <यद्यग्निः [१२.२.४]>_<यो अग्निः [१२.२.७]>_<अविः कृष्णा [१२.२.५३]> <मा नो रुरोः शुचद्विदः शिवो नो अस्तु भरतो रराणः । अतिव्याधी व्याधो अग्रभीष्ट क्रव्यादो अग्नीञ्शमयामि सर्वान् []> इति शुक्त्या माषपिष्टानि जुहोति (कौशिकसूत्र ९,३[७१].७) सीसं दर्व्यामवधाय_उद्ग्रथ्य मन्थं जुह्वन्_शमयेत् (कौशिकसूत्र ९,३[७१].८) <नडमा रोह [१२.२.१]>_इति चतस्रो_<अग्ने अक्रव्याद्[१२.२.४२]> <इमं क्रव्याद्[१२.२.४३]> <यो नो अश्वेषु [१२.२.१५]>_<अन्येभ्यस्त्वा [१२.२.१६]> <हिरण्यपाणिं [३.२१.८]>_इति शमयति (कौशिकसूत्र ९,३[७१].९) दक्षिणतो जरत्कोष्ठे शीतं भस्माभिविहरति (कौशिकसूत्र ९,३[७१].१०) शान्त्युदकेन सुशान्तं कृत्वावदग्धं समुत्खाय (कौशिकसूत्र ९,३[७१].११) <परं मृत्यो [१२.२.२१]> इत्युत्थापयति (कौशिकसूत्र ९,३[७१].१२) <क्रव्यादम् [१२.२.८]> इति तिसृभिर्ह्रीयमाणमनुमन्त्रयते (कौशिकसूत्र ९,३[७१].१३) दीपादि_आभिनिगदनात्प्रतिहरणेन व्याख्यातम् (कौशिकसूत्र ९,३[७१].१४) <अविः कृष्णा [१२.२.५३]>_इति निदधाति (कौशिकसूत्र ९,३[७१].१५) उत्तमवर्जं ज्येष्ठस्याञ्जलौ सीसानि (कौशिकसूत्र ९,३[७१].१६) <अस्मिन् वयं १२.२.१३]> <यद्रिप्रं [१२.२.४०]> <सीसे मृड्ढ्वं [१२.२.१९]>_इत्यभ्यवनेजयति (कौशिकसूत्र ९,३[७१].१७) कृष्णोर्णया पाणिपादान्निमृज्य (कौशिकसूत्र ९,३[७१].१८) <इमे [एद्. इमा॑ सेए Cअलन्द्, Kल्. ष्छ्र्., प्. ७८] जीवा [१२.२.२२]> <उदीचीनैः [१२.२.२९]>_इति मन्त्रोक्तम् (कौशिकसूत्र ९,३[७१].१९) <त्रिः सप्त [१२.२.२९ ]>_इति कूद्या पदानि लोपयित्वा [एद्. योपयित्वा चोर्रिगेन्द एद्. प्. ४२४] नदीभ्यः (कौशिकसूत्र ९,३[७१].२०) <मृत्योः पदं [१२.२.३०]>_इति द्वितीयया नावः (कौशिकसूत्र ९,३[७१].२१) <परं मृत्यो [१२.२.२१]> इति प्राग्दक्षिणं कूदीं प्रविध्य (कौशिकसूत्र ९,३[७१].२२) सप्त नदीरूपाणि कारयित्वा_उदकेन पूरयित्वा (कौशिकसूत्र ९,३[७१].२३) <आ रोहत सवितुर्नावमेतां [१२.२.४८ ]> <सुत्रामाणं [७.६.३]> <महीमू षु [७.६.२]>_इति सहिरण्यां सयवां नावमारोहयति (कौशिकसूत्र ९,३[७१].२४) <अश्मन्वती रीयते [१२.२.२६]>_<उत्तिष्ठता प्र तरता सखायो [१२.२.२७]>_इत्युदीचस्तारयति (कौशिकसूत्र ९,४[७२].१) उत्तरतो गर्त उदक्प्रस्रवणे_अश्मान निदधात्यन्तश्छिन्नम् (कौशिकसूत्र ९,४[७२].२) <तिरो मृत्युं [१२.२.२३ ]>_इत्यश्मानमतिक्रामति (कौशिकसूत्र ९,४[७२].३) <ता अधरादुदीचीर्[१२.२.४१]> इत्यनुमन्त्रयते (कौशिकसूत्र ९,४[७२].४) <निस्सालाम् [२.१४.१]> इति शालानिवेशनं संप्रोक्ष्य (कौशिकसूत्र ९,४[७२].५) <ऊर्जं बिभ्रद्[७.६०.१]> इति प्रपादयति (कौशिकसूत्र ९,४[७२].६) <वैश्वदेवीं [१२.२.२८]>_इति वत्सतरीमालम्भयति (कौशिकसूत्र ९,४[७२].७) <इममिन्द्रं [१२.२.४७]> इत्य्वृषम् (कौशिकसूत्र ९,४[७२].८) <अनड्वाहं [१२.२.४८]> <अहोरात्रे [१२.२.४९]> इति तल्पमालम्भयति (कौशिकसूत्र ९,४[७२].९) <आ रोहतायुर्[१२.२.२४]> इत्यारोहति (कौशिकसूत्र ९,४[७२].१०) <आसीना [१२.२.३० ]> इत्यासीनामनुमन्त्रयते (कौशिकसूत्र ९,४[७२].११) पिञ्जूलीराञ्जनं सर्पिषि पर्यस्य_<इमा नारीर्[१२.२.३१]> इति स्त्रीभ्यः प्रयछति (कौशिकसूत्र ९,४[७२].१२) <इमे जीवा अविधवाः सुजामय [दृष्टव्यम्‌ १२.२.२२,३१ अन्द्ড়्ष्१७.३३.२]> इति पुंभ्य एक_एकस्मै तिस्रस्तिस्रस्ता अध्यध्युदधानं परिचृत्य प्रयछति (कौशिकसूत्र ९,४[७२].१३) <परं मृत्यो [१२.२.२१]> <व्याकरोमि [१२.२.३२]>_<आ रोहत [१२.२.२४(४८)]>_<अन्तर्धिर्[१२.२.४४]>_<प्रत्यञ्चमर्कं [१२.२.५५]> <ये अग्नयो [३.२१.१]> <नमो देववधेभ्यो [६.१३.१]>_<अग्नेऽभ्यावर्तिन्न् [ড়्ष्१.४१.१]> <अग्ने जातवेदः [ড়्ष्१.४१.२]> <सह रय्या [ড়्ष्१.४१.३]> <पुनरूर्जा [ড়्ष्१.४१.४]>_इति (कौशिकसूत्र ९,४[७२].१४) <अग्नेऽभ्यावर्तिन्नभि न आ ववृत्स्व । आयुषा वर्चसा सन्या मेधया प्रजया धनेन ॥ अग्ने जातवेदः शतं ते सहस्रं त उपावृतः । अधा पुष्टस्येशानः पुनर्नो रयिमा कृधि ॥ सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया । विश्वप्स्न्या विश्वतस्परि ॥ पुनरूर्जा ववृत्स्व पुनरग्न इषायुषा । पुनर्नः पाह्यंहसः ॥ [ড়्ष्१.४१.१४]> (कौशिकसूत्र ९,४[७२].१५) शर्करान् स्वयमातृणान्_शणरज्जुभ्यां विबध्य धारयति (कौशिकसूत्र ९,४[७२].१६) समया खेन जुहोति (कौशिकसूत्र ९,४[७२].१७) <इमं जीवेभ्यः [१२.२.२३]> इति द्वारे निदधाति (कौशिकसूत्र ९,४[७२].१८) जुहोति_एतया_ऋचा । <आयुर्दावा धनधावा बलदावा पशुदावा पुष्टिदावा प्रजापतये स्वाहा []>_इति (कौशिकसूत्र ९,४[७२].१९) षट्संपातं माता पुत्रानाशयते (कौशिकसूत्र ९,४[७२].२०) उच्छिष्टं जायाम् (कौशिकसूत्र ९,४[७२].२१) संवत्सरमग्निं न_उद्वायात्_न हरेत्_नाहरेयुः (कौशिकसूत्र ९,४[७२].२२) द्वासशरात्र इत्येके (कौशिकसूत्र ९,४[७२].२३) दश दक्षिणा (कौशिकसूत्र ९,४[७२].२४) पश्चादग्नेर्वाग्यतः संविशति (कौशिकसूत्र ९,४[७२].२५) अपरेद्युर्च_इन्द्राग्नी च यजेत (कौशिकसूत्र ९,४[७२].२६) स्थालीपाकाभ्यामग्निं चाग्निषोमौ च पौर्णमास्याम् (कौशिकसूत्र ९,४[७२].२७) सायंप्रातर्व्रीहीनावपेद्यवान् वा_<अग्नये स्वाहा प्रजापतये स्वाहा>_इति सायम् [सूत्रदिविसिओन् wइथ्Cअलन्द्, Kल्. ष्छ्र्., प्. ३०] (कौशिकसूत्र ९,४[७२].२८) <सूर्याय स्वाहा प्रजापतये स्वाह>_इति प्रातः [सूत्रदिविसिओन् wइथ्Cअलन्द्, Kल्. ष्छ्र्., प्. ३०] (कौशिकसूत्र ९,४[७२].२९) द्वादशरात्रे_अग्निं पशुना यजेत (कौशिकसूत्र ९,४[७२].३०) स्थालीपाकेन वा_उभयोर्विरिष्यति (कौशिकसूत्र ९,४[७२].३१) संवत्सरतम्यां शान्त्युदकं कृत्वा (कौशिकसूत्र ९,४[७२].३२) <घृताहुतिर्नो भवाग्ने अक्रव्याहुतिर्घृताहुतिं त्वा वयमक्रव्याहुतिमुप नि षदेम जातवेदः []>_इति चतुर उदपात्रे संपातानानीय (कौशिकसूत्र ९,४[७२].३३) तान् +उल्लुप्य [एद्. उल्लप्य] (कौशिकसूत्र ९,४[७२].३४) पुरस्तादग्नेः प्रत्यङासीनो जुहोति । <हुते रभस्व हुतभाग एधि मृडास्मभ्यं मोत हिंसीः पशून्नः []>_इति (कौशिकसूत्र ९,४[७२].३५) यद्युद्वायाद्भस्मनारणिं संस्पृश्य तूष्णीं मथित्वा_उद्दीप्य (कौशिकसूत्र ९,४[७२].३६) पूर्णहोमं हुत्वा (कौशिकसूत्र ९,४[७२].३७) संनतिभिराज्यं जुहुयाद्व्याहृतिभिर्वा (कौशिकसूत्र ९,४[७२].३८) संसृष्टे चैवं जुहुयात् (कौशिकसूत्र ९,४[७२].३९) अग्नौ_अनुगते जायमाने (कौशिकसूत्र ९,४[७२].४०) आनडुहेन शकृत्पिण्डेनाग्न्यायतानि परिलिप्य (कौशिकसूत्र ९,४[७२].४१) होम्यमुपसाद्य (कौशिकसूत्र ९,४[७२].४२) <प्राणापानाभ्यां स्वहा समानव्यानाभ्यां स्वाहा_उदानरूपाभ्यां स्वाहा>_इत्यात्मनि_एव जुहुयात् (कौशिकसूत्र ९,४[७२].४३) अथ प्रातरुत्थायाग्निं निर्मथ्य यथास्थानं प्रणीय यथापुरमग्निहोत्रं जुहुयात् (कौशिकसूत्र ९,४[७२].४४) सायामाशप्रात्राशौ यज्ञौ_ऋत्विजौ (कौशिकसूत्र ९,५[७३].१) <पुरोदयादस्तमयाच्च पावकं प्रबोधयेद्गृहिणी शुद्धहस्ता । समतीते संधिवर्णेऽथ हावयेत्सुसमिद्धे पावक आहुतीषहिः []> (कौशिकसूत्र ९,५[७३].२) <अग्नये च प्रजापतये च रात्रावादित्यश्च दिवा प्रजापतिश्च । उदकं च समिधश्च होमेहोमे पुरो वरम् []> (कौशिकसूत्र ९,५[७३].३) <होम्यैः समिद्भिः पयसा स्थालीपाकेन सर्पिषा । सायंप्रातर्होम एतेषामेकेनापि सिध्यति []> (कौशिकसूत्र ९,५[७३].४) <अभ्युद्धृतो हुतोऽग्निः प्रमादादुपशाम्यति । मथिते व्याहृतीर्जुहुयात्पूर्णहोमौ यथऋत्विजौ []> (कौशिकसूत्र ९,५[७३].५) <वनस्पतिभ्यो वानस्पतेभ्य ओषधिभ्यो वीरुद्भ्यः सर्वेभ्यो देवेभ्यो देवजनेभ्यः पुण्यजनेभ्यः [, दृष्टव्यम्‌ ११.६.२४]>_इति प्राचीनं तदुदकं निनीयते (कौशिकसूत्र ९,५[७३].६) <स्वधा प्रपितामहेभ्यः स्वधा पितामहेभ्यः स्वधा पितृभ्यः []>_इति दक्षिणतः (कौशिकसूत्र ९,५[७३].७) <तार्क्ष्यायारिष्टनेमयेऽमृतं मह्यम् []> इति पश्चात् (कौशिकसूत्र ९,५[७३].८) <सोमाय सप्तर्षिभ्यः []>_इति उत्तरतः (कौशिकसूत्र ९,५[७३].९) <परिमृष्टे परिलिप्ते च पर्वणि व्रातपतं हावयेदन्नमग्नौ । भूयो दत्त्वा स्वयमल्पं च भुक्त्वापराह्णे व्रतमुपैति याज्ञिकम् []> (कौशिकसूत्र ९,५[७३].१०) <अनशनं ब्रह्मचर्यं च भूमौ शुचिरग्निमुपशेते सुगन्धिः []> (कौशिकसूत्र ९,५[७३].११) <अग्नीषोमाभ्यां दर्शन इन्द्राग्निभ्यामदर्शने । आग्नेयं तु पूर्वं नित्यमन्वाहार्यं प्रजापतेः []> (कौशिकसूत्र ९,५[७३].१२) <अर्धाहुतिस्तु सौविष्टकृती सर्वेषां हविषां स्मृता । आनुमती वा भवति स्थालीपाकेष्वथर्वणाम् []> (कौशिकसूत्र ९,५[७३].१३) <उभौ च संधिजौ यौ वैश्वदेवौ यथऋत्विजौ । वर्जयित्वा सबर्हिषः साज्या यज्ञाः सदक्षिणाः []> (कौशिकसूत्र ९,५[७३].१४) यथाशक्ति यथाबलं <हुतादोऽन्ये अहुतादोऽन्ये । वैश्वदेवं हविरुभये सं चरन्ति । ते सम्यञ्च इह मादयन्तामिषमूर्जं यजमाना यमिछत [ড়्ष्५.१५.२]> [सूत्र दिविसिओनेमेन्देद्!] (कौशिकसूत्र ९,५[७३].१५) <विश्वे देवा इदं हविरादित्यासः सपर्यत । अस्मिन् यज्ञे मा व्यथिष्यमृताय हविष्कृतम् [ড়्ष्१९.३५.१]> (कौशिकसूत्र ९,५[७३].१६) <वैश्वदेवस्य हविषः सायंप्रातर्जुहोति । सायमाशप्रातराशौ यज्ञावेतौ स्मृतावुभौ []> (कौशिकसूत्र ९,५[७३].१७) <अप्रतिभुक्तौ शुचिकार्यौ च नित्यं वैश्वदेवौ जानता यज्ञश्रेष्ठौ । नाश्रोत्रियो नानवनिक्तपाणिर्नामन्त्रविज्जुहुयान्नाविपश्चित्[]> (कौशिकसूत्र ९,५[७३].१८) <बीभत्सवः शुचिकामा हि देवा नाश्रद्दधानस्य हविर्जुषन्ते । ब्राह्मणेन ब्रह्मविदा तु हावयेन्न स्त्रीहुतं शूद्रहुतं च देवगम् []> (कौशिकसूत्र ९,५[७३].१९) <यस्तु विद्यादाज्यभागौ यज्ञान्मन्त्रपरिक्रमान् । देवताज्ञानमावृत आशिषश्च कर्म स्त्रिया अप्रतिषिद्धमाहुः []> (कौशिकसूत्र ९,६[७४].१) तयोर्बलिहरणम् (कौशिकसूत्र ९,६[७४].२) <अग्नय इन्द्राग्निभ्यां वास्तोष्पतये प्रजापतयेऽनुमतये>_इति हुत्वा (कौशिकसूत्र ९,६[७४].३) निष्क्रम्य बहिः प्रचीनं <ब्रह्मणे वैश्रवणाय विश्वेभ्यो देवेभ्यः सर्वेभ्यो देवेभ्यो विश्वेभ्यो भूतेभ्यः सर्वेभ्यो भूतेभ्यः>_इति बहुशो बलिं हरेत् (कौशिकसूत्र ९,६[७४].४) द्विः प्रोक्षन् प्रदक्षिणमावृत्यान्तरुपातीत्य द्वारे (कौशिकसूत्र ९,६[७४].५) द्वार्ययोर्<मृत्यवे धर्माधर्माभ्याम्> (कौशिकसूत्र ९,६[७४].६) उदधाने धन्वन्तरये <समुद्रायौषधिवनस्पतिभ्यो द्यावापृथिवीभ्याम्> इति (कौशिकसूत्र ९,६[७४].७) स्थूणावंशयोर्<दिग्भ्योऽन्तर्देशेभ्यः>_इति (कौशिकसूत्र ९,६[७४].८) स्रक्तिषु <वासुकये चित्तसेनाय चित्तरथाय तक्षोपतक्षाभ्याम्> इति (कौशिकसूत्र ९,६[७४].९) समन्तमग्नेर्<आशायै श्रद्धायै मेधायै श्रियै ह्रियै विद्यायै>_इति (कौशिकसूत्र ९,६[७४].१०) प्राचीनं अग्नेः <गृह्याभ्यो देवजामिभ्यः>_इति (कौशिकसूत्र ९,६[७४].११) भूयो_अभ्युद्धृत्य ब्राह्मणान् भोजयेत् (कौशिकसूत्र ९,६[७४].१२) तदपि श्लोको वदति । <माब्राह्मण अग्रतः [एम्. Bलोओम्fइएल्द्ङ्ङा १९०२ ५१४ एद्. माब्राह्मणाग्रतः] कृतमश्नीयाद्विषवदन्नमन्नकाम्या । देवानां देवो ब्राह्मणो भ्ःवो नामैष देवता>_इति (कौशिकसूत्र ९,६[७४].१३) आग्रयणे शान्त्युदकं कृत्वा यथर्तु तण्डुलानुपसाद्य (कौशिकसूत्र ९,६[७४].१४) अप्सु स्थालीपाकं श्रपयित्वा पयसि वा (कौशिकसूत्र ९,६[७४].१५) <सजूरृतुभिः सजूर्विधाभिः सजूरग्नये स्वाहा । सजूरिन्द्राग्निभ्यां सजूर्द्यावापृथिवीभ्यां सजूर्विश्वेभ्यो देवेभ्यः सजूरृतुभिः सजूर्विधाभिः सजूः सोमाय स्वाहा>_इत्येकहविर्वा स्यात्_नानाहवींषि वा (कौशिकसूत्र ९,६[७४].१६) सौम्यं तन्वत्_श्यामाकं शरदि (कौशिकसूत्र ९,६[७४].१७) अथ यजमानः प्राशित्रं गृह्णीते (कौशिकसूत्र ९,६[७४].१८) <प्रजापतेष्ट्वा ग्रहं गृह्णामि । मह्यं भूत्यै मह्यं पुष्ट्यै मह्यं श्रियै मह्यं ह्रियै मह्यं यशसे मह्यमायुषे मह्यमन्नाय मह्यमन्नाद्याय मह्यं सहस्रपोषाय मह्यमपरिमितपोषाय [दृष्टव्यम्‌ ॑षाङ्ख्ङ्ष्३.८.२]>_इति (कौशिकसूत्र ९,६[७४].१९) अथ प्राश्नाति । <भद्रान्नः श्रेयः समनैष्ट देवास्त्वयावसेन समशीमहि त्वा । स नः पितो मधुमा॑मा विवेश शिवस्तोकाय तन्वो न एहि [दृष्टव्यम्‌ ट्ष्५.७.२.४, ॑षाङ्ख्ङ्ष्३.८.३ इत्यादि]>_इति (कौशिकसूत्र ९,६[७४].२०) प्राशितमनुमन्त्रयते । <अमोऽसि प्राण तदृतं ब्रवीम्यमासि सर्वाङसि प्रविष्ट । स मे जरां रोगमपनुद्य शरीरादनामयैधि मा रिषाम इन्दो [दृष्टव्यम्‌ ॑षाङ्ख्ङ्ष्३.८.४ इत्यादि]> इति (कौशिकसूत्र ९,६[७४].२१) वत्सः प्रथमजो ग्रीष्मे वासः शरदि दक्षिणा (कौशिकसूत्र ९,६[७४].२२) शक्त्या वा दक्षिणां दद्यात् (कौशिकसूत्र ९,६[७४].२३) नातिशक्तिर्विधीयते नातिशक्तिर्विधीयत इति (Kऔश्ष्९ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे नवमोऽध्यायः समाप्तः (कौशिकसूत्र १०,१[७५].१) अथ विवाहः (कौशिकसूत्र १०,१[७५].२) ऊर्ध्वं कार्त्तिक्या आ वैशाख्याः (कौशिकसूत्र १०,१[७५].३) याथाकामी वा (कौशिकसूत्र १०,१[७५].४) चित्रापक्षं तु वर्जयेत् (कौशिकसूत्र १०,१[७५].५) <मघासु हन्यन्ते गावः फल्गुनीषु व्युह्यते [१४.१.१३ द्]>_इति विज्ञायते मङ्गलं च (कौशिकसूत्र १०,१[७५].६) <सत्येनोत्तभिता [१४.१.१]> <पूर्वापरं [१४.१.२३]>_इत्युपदधीत (कौशिकसूत्र १०,१[७५].७) पतिवेदनं च (कौशिकसूत्र १०,१[७५].८) <युवं भगं [१४.१.३१ ]>_इति संभलं सानुचरं प्रहिणोति (कौशिकसूत्र १०,१[७५].९) <ब्रह्मणस्पते [१४.१.३१ ]>_इति ब्रह्माणम् (कौशिकसूत्र १०,१[७५].१०) तद्विवृहात्_शङ्कमानो निशि कुमारीकुलाद्वलीकानि_आदीप्य (कौशिकसूत्र १०,१[७५].११) <देवा अग्रे [१४.२.३२]>_इति पञ्चभिः सकृत्पूल्यानि_आवापयति (कौशिकसूत्र १०,१[७५].१२) <अनृक्षरा [१४.१.३४ ]> इति कुमारीपालं प्रहिणोति (कौशिकसूत्र १०,१[७५].१३) उदाहारस्य प्रतिहितेषुरग्रतो जघनतो ब्रह्मा (कौशिकसूत्र १०,१[७५].१४) <यो अनिध्मो [१४.१.३७]>_इत्यप्सु लोगं प्रविध्यति (कौशिकसूत्र १०,१[७५].१५) <इदमहं [१४.१.३८ ]>_इत्यपोह्य (कौशिकसूत्र १०,१[७५].१६) <यो भद्रो [१४.१.३८ ]>_इत्यन्वीपमुदच्य (कौशिकसूत्र १०,१[७५].१७) <आस्यै ब्राह्मणाः [१४.१.३९ ]>_इति प्रयछति (कौशिकसूत्र १०,१[७५].१८) आव्रजतामग्रतो ब्रह्मा जघनतो_अधिज्यधन्वा (कौशिकसूत्र १०,१[७५].१९) बाह्यतः प्लक्षोदुम्बरस्य_उत्तरतो_अग्नेः शाखायामासजति (कौशिकसूत्र १०,१[७५].२०) तेन_उदकार्थान् कुर्वन्ति (कौशिकसूत्र १०,१[७५].२१) ततश्चान्वासेचनमन्येन (कौशिकसूत्र १०,१[७५].२२) अन्तरुपातीत्य_<अर्यमणं [१४.१.१७]>_इति जुहोति (कौशिकसूत्र १०,१[७५].२३) <प्र त्वा मुञ्चामि [१४.१.१९]>_इति वेष्टं विचृतति (कौशिकसूत्र १०,१[७५].२४) <उशतीः [१४.२.५२]>_इत्येतया त्रिराधापयति (कौशिकसूत्र १०,१[७५].२५) सप्तभिरुष्णाः संपातवतीः करोति (कौशिकसूत्र १०,१[७५].२६) <यदासन्द्याम् [१४.२.६५]> इति पूर्वयोरुत्तरस्यां स्रक्त्यां तिष्ठन्तीमाप्लावयति (कौशिकसूत्र १०,१[७५].२७) <यच्च वर्चो [१४.१.३५]> <यथा सिन्धुर्[१४.१.४३]> इत्युत्क्रान्तामन्येनावसिञ्चति (कौशिकसूत्र १०,२[७६].१) <यद्दुष्कृतं [१४.२.६६]>_इति वाससाङ्गानि प्रमृज्य कुमारीपालाय प्रयछति (कौशिकसूत्र १०,२[७६].२) तुम्बरदण्डेन प्रतिपाद्य निर्व्रजेत् (कौशिकसूत्र १०,२[७६].३) तद्वन आसजति (कौशिकसूत्र १०,२[७६].४) <या अकृन्तंस्[१४.१.४५]> <त्वष्टा वासो [१४.१.५३]>_इत्यहतेनाछायति (कौशिकसूत्र १०,२[७६].५) <कृत्रिमः [१४.२.६८]>_इति शतदता_इषीकेण कङ्कतेन सकृत्प्रलिख्य (कौशिकसूत्र १०,२[७६].६) कृतयाममित्यवसृजति (कौशिकसूत्र १०,२[७६].७) <आशासाना [१४.१.४२]> <सं त्वा नह्यामि [१४.२.७०]> इत्युभयतः पाशेन योक्त्रेण (एद्. मिस्प्रिन्त्योक्त्रेन॑ सेए Cअलन्द्, Kल्. ष्छ्र्., प्. ५१) संनह्यति (कौशिकसूत्र १०,२[७६].८) <इयं वीरुद्[१.३४.१ (७.५६.२)]> इति मदुघमणिं लाक्षारक्तेन सूत्रेण विग्रथ्यानामिकायां बध्नाति (कौशिकसूत्र १०,२[७६].९) अन्ततो ह मणिर्भवति बाह्यो ग्रन्थिः (कौशिकसूत्र १०,२[७६].१०) <भगस्त्वेतो [१४.१.२०]>_इति हस्तेगृह्य निर्णयति (कौशिकसूत्र १०,२[७६].११) शाखायां युगमाधाय दक्षिणतो_अन्यो धारयति (कौशिकसूत्र १०,२[७६].१२) दक्षिणस्यां युगधुरि_उत्तरस्मिन् युगतर्द्मनि दर्भेण विग्रथ्य <शं ते [१४.१.४०]>_इति ललाटे हिरण्यं संस्तभ्य जपति (कौशिकसूत्र १०,२[७६].१३) तर्द्म समयावसिञ्चति (कौशिकसूत्र १०,२[७६].१४) उपगृह्य_उत्तरतो_अग्नेर्<अङ्गादङ्गाद्[१४.२.६९]> इति निनयति (कौशिकसूत्र १०,२[७६].१५) <स्योनं [१४.१.४७ ]>_इति शकृत्पिण्डे_अश्मानं निदधाति (कौशिकसूत्र १०,२[७६].१६) <तमा तिष्ठ [१४.१.४७ ]>_इत्यास्थाप्य (कौशिकसूत्र १०,२[७६].१७) <इयं नारी [१४.२.६३]>_इति ध्रुवां तिष्ठन्तीं पूल्यानि_आवापयति (कौशिकसूत्र १०,२[७६].१८) त्रिरविछिन्दतीं चतुर्थीं कामाय (कौशिकसूत्र १०,२[७६].१९) <येनाग्निर्[१४.१.४८]> इति पाणिं ग्राहयति (कौशिकसूत्र १०,२[७६].२०) <अर्यम्णो [१४.१.३९ ]>_इत्यग्निं त्रिः परिणयति (कौशिकसूत्र १०,२[७६].२१) <सप्त मर्यादाः [५.१.६]>_इत्युत्तरतो_अग्नेः सप्त लेखा लिखति प्राच्यः (कौशिकसूत्र १०,२[७६].२२) तासु पदानि_उत्क्रामयति (कौशिकसूत्र १०,२[७६].२३) इषे त्वा सुमङ्गलि प्रजावति सुशीम [एद्. +सुसीम] इति प्रथमम् (कौशिकसूत्र १०,२[७६].२४) ऊर्जे त्वा रायस्पोषाय त्वा सौभाग्याय त्वा साम्राज्याय त्वा संपदे त्वा जीवातवे त्वा सुमङ्गलि प्रजावति सुशीम [एद्. +सुसीम] इति सप्तमं सखा सप्तपदी भव_इति (कौशिकसूत्र १०,२[७६].२५) <आ रोह तल्पं [१४.२.३१]> <भगस्ततक्ष [१४.१.६०]>_इति तल्प उपवेशयति (कौशिकसूत्र १०,२[७६].२६) उपविष्टायाः सुहृत्पादौ प्रक्षालयति (कौशिकसूत्र १०,२[७६].२७) प्रक्षाल्यमानौ_अनुमन्त्रयते । <इमौ पादौ सुभगौ सुशेवौ सौभाग्याय कृणुतां नो अघाय । प्रक्षाल्यमानौ सुभगौ सुपत्न्याः प्रजां पशून् दीर्घमायुश्च धत्ताम् []> इति (कौशिकसूत्र १०,२[७६].२८) <अहं वि ष्यामि [१४.१.५७]> <प्र त्वा मुञ्चामि [१४.१.५८]>_इति योक्त्रं विचृतति (कौशिकसूत्र १०,२[७६].२९) अपरस्मिन् भृत्याः संरभन्ते (कौशिकसूत्र १०,२[७६].३०) ये जयन्ति ते बलीयांस एव मन्यन्ते (कौशिकसूत्र १०,२[७६].३१) <बृहस्पतिना [१४.२.५३]>_इति सर्वसुरभिचूर्णानि_ऋचर्चा काम्पीलपलाशेन मूर्ध्नि_आवपति (कौशिकसूत्र १०,२[७६].३२) <उद्यछध्वम् [१४.१.५९]>_<भगस्ततक्ष [१४.१.६०]>_<अभ्रातृघ्नीं [१४.१.६२]>_इत्येक_एकया_उत्थापयति (कौशिकसूत्र १०,२[७६].३३) <प्रति तिष्ठ [१४.२.१५]>_इति प्रतिष्ठापयति (कौशिकसूत्र १०,३[७७].१) <सुकिंशुकं [१४.१.६१]> <रुक्मप्रस्तरणं [१४.२.३०]>_इति यानमारोहयति (कौशिकसूत्र १०,३[७७].२) <एमम्ं पन्थाम् [१४.२.८]>_<ब्रह्मापरं [१४.१.६४]>_इत्यग्रतो ब्रह्मा प्रपद्यते (कौशिकसूत्र १०,३[७७].३) <मा विदन्न् [१४.२.११]> <अनृक्षरा [१४.१.३४]> अध्वानमित्युक्तम् (कौशिकसूत्र १०,३[७७].४) <येदं पुर्वा [१४.२.७४]>_इति तेनान्यस्यामूढायां वाधूयस्य दशां चतुष्पथे दक्षिणैरभितिष्ठति (कौशिकसूत्र १०,३[७७].५) स चेदुभयोः शुभकामो भवति <सूर्यायै देवेभ्यो [१४.२.४६]>_इत्येतामृचं जपति (कौशिकसूत्र १०,३[७७].६) <समृछत स्वपथोऽनवयन्तः सुशीमकामाव्[एद्. +सुसीम] उभे विराजावुभे सुप्रजसौ []>_इत्यतिक्रमयतोऽन्तरा ब्रह्माणम् (कौशिकसूत्र १०,३[७७].७) <य ऋते चिदभिश्रिषः [१४.२.४७]>_इति यानं संप्रोक्ष्य विनिष्कारयति (कौशिकसूत्र १०,३[७७].८) <सा मन्दसाना [१४.२.६]>_इति तीर्थे लोगं प्रविध्यति (कौशिकसूत्र १०,३[७७].९) <इदं सु मे [१४.२.९]>_इति महावृक्षेषु जपति (कौशिकसूत्र १०,३[७७].१०) <सुमङ्गलीर्[१४.२.२८]> इति वध्वीक्षीः प्रति जपति (कौशिकसूत्र १०,३[७७].११) <या ओषधयो [१४.२.७]>_इति मन्त्रोक्तेषु (कौशिकसूत्र १०,३[७७].१२) <ये पितरो [१४.२.७३]>_इति श्मशानेषु (कौशिकसूत्र १०,३[७७].१३) <प्र बुध्यस्व [१४.२.७५]>_इति सुप्तां प्रबोधयेत् (कौशिकसूत्र १०,३[७७].१४) <सं काशयामि [१४.२.१२]>_इति गृहसंकाशे जपति (कौशिकसूत्र १०,३[७७].१५) <उद्व ऊर्मिः [१४.२.१६]>_इति यानं संप्रोक्ष्य विमोचयति (कौशिकसूत्र १०,३[७७].१६) <उत्तिष्ठेतः [१४.२.१९]>_इति पत्नी शालां संप्रोक्षति (कौशिकसूत्र १०,३[७७].१७) <स्योनं [१४.१.४७]>_इति दक्षिणतो वलीकानां शकृत्पिण्डे_अश्मानं निदधाति (कौशिकसूत्र १०,३[७७].१८) तस्य_उपरि मध्यमपलाशे सर्पिषि चत्वारि दूर्वाग्राणि (कौशिकसूत्र १०,३[७७].१९) <तमा तिष्ठ [१४.१.४७ ]>_इत्यास्थाप्य (कौशिकसूत्र १०,३[७७].२०) <सुमङ्गली प्रतरणी [१४.२.२६]>_<इह प्रियं [१४.१.२१]> <मा हिंसिष्टं [१४.१.६३]> <ब्रह्मापरं [१४.१.६४]>_इति प्रत्यृचं प्रपादयति (कौशिकसूत्र १०,३[७७].२१) सुहृत्पूर्णकंसेन प्रतिपादयति (कौशिकसूत्र १०,३[७७].२२) <अघोरचक्षुर्[१४.२.१७]> इत्यग्निं त्रिः परिणयति (कौशिकसूत्र १०,३[७७].२३) <यदा गार्हपत्यम् [१४.२.२०]>_<सूर्यायै देवेभ्यो [१४.२.४६]>_इति मन्त्रोक्तेभ्यो नमस्कुर्वतीमनुमन्त्रयते (कौशिकसूत्र १०,४[७८].१) <शर्म वर्म [१४.२.२१]>_इति रोहितचर्माहरन्तम् (कौशिकसूत्र १०,४[७८].२) <चर्म चोपस्तृणीथन [१४.२.२२ ]>_इत्युपस्तृणन्तम् (कौशिकसूत्र १०,४[७८].३) <यं बल्बजं [१४.२.२२]>_इति बल्बजं न्यस्यन्तम् (कौशिकसूत्र १०,४[७८].४) <उप स्तृणीहि [१४.२.२३]>_इत्युपस्तृणन्तम् (कौशिकसूत्र १०,४[७८].५) <तदा रोहतु [१४.२.२२ ]>_इत्यारोहयति (कौशिकसूत्र १०,४[७८].६) <तत्रोपविश्य [१४.२.२३ ]>_इत्युपवेशयति (कौशिकसूत्र १०,४[७८].७) दक्षिणोत्तरमुपस्थं कुरुते (कौशिकसूत्र १०,४[७८].८) <सुज्यैष्ठ्यो [१४.२.२४ ]>_इति कल्याणनामानं ब्राह्मणायनमुपस्थ उपवेशयति (कौशिकसूत्र १०,४[७८].९) <वि तिष्ठन्तां [१४.२.२५]>_इति प्रमदनं प्रमाय_उत्थापयति (कौशिकसूत्र १०,४[७८].१०) <तेन भूतेन [६.७८.१]> <तुभ्यमग्रे [१४.२.१]> <शुम्भनी [१४.२.४५]> <अग्निर्जनविन्मह्यं जायामिमामदात्सोमो वसुविन्मह्यं जायामिमामदात्पूषा ज्ञातिविन् [एद्. मिस्प्रिन्त्जातिविन्] मह्यं जायामिमामदादिन्द्रः सहीयान्मह्यं जायामदादग्नये जनविदे स्वाहा सोमाय वसुविदे स्वाहा पूष्णे ज्ञातिविदे [एद्. मिस्प्रिन्त्जातिविदे] स्वाहेन्द्राय सहीयसे स्वाहा [ড়्ष्१.३४+१.३५>_इति [एद्. इत्यागछतः आगछतः मोवेद्तो नेxत्सूत्र अfतेर्Bलोओम्fइएल्द्ङ्ङा १९०२ ५१४] (कौशिकसूत्र १०,४[७८].११) <आगछतः [६.८२.१]><सविता प्रसवानाम् [५.२४.१]> इति मूर्ध्नोः संपातानानयति [प्रतीक ओf ६.८२.१ प्रेfइxएदfतेर्Bलोओम्fइएल्द्ङ्ङा १९०२ ५१४] (कौशिकसूत्र १०,४[७८].१२) उदपात्र उत्तरान् (कौशिकसूत्र १०,४[७८].१३) शुम्भन्याञ्जल्योर्निनयति (कौशिकसूत्र १०,४[७८].१४) <तेन भूतेन [६.७८.१]>_इति समशनम् (कौशिकसूत्र १०,४[७८].१५) रसानाशयति स्थालीपाकं च (कौशिकसूत्र १०,४[७८].१६) यवानामाज्यमिश्राणां पूर्णाञ्जलिं जुहोति (कौशिकसूत्र १०,५[७९].१) <सप्त मर्यादाः [५.१.६]>_इति तिसृणां प्रातरावपते (कौशिकसूत्र १०,५[७९].२) <अक्ष्यौ नौ [७.३६.१]>_इति समाञ्जाते (कौशिकसूत्र १०,५[७९].३) <महीमु षु [७.६.२]>_इति तल्पमालम्भयति (कौशिकसूत्र १०,५[७९].४) <आ रोह तल्पं [१४.२.३१]>_इत्यारोहयति (कौशिकसूत्र १०,५[७९].५) <तत्रोपविश्य [१४.२.२३ ]>_इत्युपवेशयति (कौशिकसूत्र १०,५[७९].६) <देवा अग्रे [१४.२.३२]>_इति संवेशयति (कौशिकसूत्र १०,५[७९].७) <अभि त्वा [७.३७.१]>_इत्यभिछादयति (कौशिकसूत्र १०,५[७९].८) <सं पितराव्[१४.२.३७]> इति समावेशयति (कौशिकसूत्र १०,५[७९].९) <इहेमाव्[१४.२.६४]> इति त्रिः संनुदति (कौशिकसूत्र १०,५[७९].१०) मदुघमणिमौक्षे_अपनीय_<इयं वीरुद्[१.३४.१]> <अमोऽहम् [१४.२.७१]> इति संस्पृशतः (कौशिकसूत्र १०,५[७९].११) <ब्रह्म जज्ञानं [४.१.१ (५.६.१)]>_इत्यङ्गुष्ठेन व्यचस्करोति (कौशिकसूत्र १०,५[७९].१२) <स्योनाद्योनेर्[१४.२.४३]> इत्युत्थापयति (कौशिकसूत्र १०,५[७९].१३) परिधापनीयाभ्यामहतेनाछादयति (कौशिकसूत्र १०,५[७९].१४) <बृहस्पतिः [१४.१.५५]>_इति शष्पेणाभिघार्य व्रीहियवाभ्यामभिनिधाय दर्भपिञ्जुल्या सीमन्तं विचृतति (कौशिकसूत्र १०,५[७९].१५) शणशकलेन परिवेष्ट्य तिस्रो रात्रीः प्रति सुप्तास्ते (कौशिकसूत्र १०,५[७९].१६) अनुवाकाभ्यामन्वारब्धाभ्यामुपदधीत (कौशिकसूत्र १०,५[७९].१७) <इहेदसाथ [१४.१.३२]>_इत्येतया शुल्कमपाकृत्य (कौशिकसूत्र १०,५[७९].१८) द्वाभ्यां निवर्तयतीह मम राध्यतामत्र तव_इति (कौशिकसूत्र १०,५[७९].१९) यथा वा मन्यन्ते (कौशिकसूत्र १०,५[७९].२०) <परा देहि [१४.१.२५]>_इति वाधूयं ददतमनुमन्त्रयते (कौशिकसूत्र १०,५[७९].२१) <देवैर्दत्तं [१४.२.४१]>_इति प्रतिगृह्णाति (कौशिकसूत्र १०,५[७९].२२) <अपास्मत्तम [१४.२.४८]> इति स्थाणौ_आसजति (कौशिकसूत्र १०,५[७९].२३) <यावतीः कृत्या [१४.२.४९]> इति व्रजेत् (कौशिकसूत्र १०,५[७९].२४) <या मे प्रियतमा [१४.२.५०]>_इति वृक्षं प्रतिछादयति (कौशिकसूत्र १०,५[७९].२५) शुम्भन्याप्लुत्य (कौशिकसूत्र १०,५[७९].२६) <ये अन्ता [१४.२.५१]> इत्याछादयति (कौशिकसूत्र १०,५[७९].२७) <नवं वसानः [१४.२.४४]>_इत्याव्रजति (कौशिकसूत्र १०,५[७९].२८) <पूर्वापरं [१४.१.२३]> यत्र नाधिगछेद्<ब्रह्मापरं [१४.१.६४]>_इति कुर्यात् (कौशिकसूत्र १०,५[७९].२९) गौर्दक्षिणा प्रतीवाहः (कौशिकसूत्र १०,५[७९].३०) <जीवं रुदन्ति [१४.१.४६]> <यदीमे केशिनो [१४.२.५९]>_इति जुहोति (कौशिकसूत्र १०,५[७९].३१) एष सौर्यो विवाहः (कौशिकसूत्र १०,५[७९].३२) <ब्रह्मापरं [१४.१.६४]>_इति ब्राह्म्यः (कौशिकसूत्र १०,५[७९].३३) आवृतः प्राजापत्याः प्राजापत्याः (Kऔश्ष्१० Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे दशमोऽध्यायः समाप्तः (कौशिकसूत्र ११,१[८०].१) अथ पितृमेधं व्याख्यास्यामः (कौशिकसूत्र ११,१[८०].२) दहननिधानदेशे परिवृक्षाणि निधानकाल इति ब्राह्मणोक्तम् (कौशिकसूत्र ११,१[८०].३) दुर्बलीभवन्तं शालातृणेषु दर्भानास्तीर्य <स्योनास्मै भव [१८.२.१९]>_इत्यवरोहयति (कौशिकसूत्र ११,१[८०].४) मन्त्रोक्तौ_अनुमन्त्रयते (कौशिकसूत्र ११,१[८०].५) <यत्ते कृष्णः [१८.३.५५]>_इत्यवदीपयति (कौशिकसूत्र ११,१[८०].६) आहिताग्नौ प्रेते संभारान् संभरति (कौशिकसूत्र ११,१[८०].७) आज्यं च पृषदाज्यं चाजं च गां च (कौशिकसूत्र ११,१[८०].८) वसनं पञ्चमम् (कौशिकसूत्र ११,१[८०].९) हिरण्यं षष्ठम् (कौशिकसूत्र ११,१[८०].१०) शरीरं नान्वालभते (कौशिकसूत्र ११,१[८०].११) अन्यं चेष्टन्तमनुमन्त्रयते (कौशिकसूत्र ११,१[८०].१२) शान्त्युदकं करोति_असकलं चातनानां चान्वावपते (कौशिकसूत्र ११,१[८०].१३) शान्त्युदकोदकेन केशश्मश्रुरोमनखानि संहारयन्ति (कौशिकसूत्र ११,१[८०].१४) आप्लावयन्ति (कौशिकसूत्र ११,१[८०].१५) अनुलिम्पन्ति (कौशिकसूत्र ११,१[८०].१६) स्रजो_अभिहरन्ति (कौशिकसूत्र ११,१[८०].१७) एवंस्नातमलंकृतमहतेनावाग्दशेन वसनेन प्रछादयति_<एतत्ते देवः [१८.४.३१]>_<एतत्त्वा वासः प्रथमं न्वागन्न् [१८.२.५७ ]> इति (कौशिकसूत्र ११,१[८०].१८) <अपेमं [१८.२.२७]>_इत्यग्निषु जुहोति (कौशिकसूत्र ११,१[८०].१९) उखाः कुर्वन्ति (कौशिकसूत्र ११,१[८०].२०) ताः शकृदाभ्यन्तरं लिम्पन्ति शुष्केण वा पूरयन्ति (कौशिकसूत्र ११,१[८०].२१) ताः पृथगग्निभिः संतापयन्ति_आ शकृदादीपनात् (कौशिकसूत्र ११,१[८०].२२) तेषां हरणानुपूर्वमाहवनीयं प्रथमं ततो दक्षिणाग्निं ततो गार्हपत्यम् (कौशिकसूत्र ११,१[८०].२३) अथ विदेशे प्रेतस्य_<आ रोहत जनित्रीं जातवेदसः [१८.४.१]>_इति पृथगरणीषु_अग्नीन् समारोपयन्ति (कौशिकसूत्र ११,१[८०].२४) तेषु यथोक्तं करोति (कौशिकसूत्र ११,१[८०].२५) अपिवान्यवत्साया वा संधिनीक्षीरेण_एकशलाकेन वा मन्थेनाग्निहोत्रं जुहोति_आ दहनात् (कौशिकसूत्र ११,१[८०].२६) दर्शपूर्णमासयोः कृष्णकतण्डुलानां तस्या आज्येन नान्तं न बहिः (कौशिकसूत्र ११,१[८०].२७) पलालानि बर्हिः (कौशिकसूत्र ११,१[८०].२८) तिल्पिञ्ज्या इध्माः (कौशिकसूत्र ११,१[८०].२९) ग्रहानाज्यभागौ पुरस्ताद्धोमसंस्थितहोमानुद्धृत्य (कौशिकसूत्र ११,१[८०].३०) प्राणापानौ_+अवरुध्योंनिधनाभिर्(एद्. अवरुध्यै निधनाभिर्॑ सेए Cअलन्द्, Kल्. ष्छ्र्., प्. ४५) जुहुयात् (कौशिकसूत्र ११,१[८०].३१) अथ_उभयोर्<उत्तिष्ठ [१८.३.८]>_इत्युत्थापयति (कौशिकसूत्र ११,१[८०].३२) <प्र च्यवस्व [१८.३.९]>_इति त्रिः संहापयति यावत्कृत्वश्च_उत्थापयति (कौशिकसूत्र ११,१[८०].३३) एवमेव कूदीं जघने निबध्य (कौशिकसूत्र ११,१[८०].३४) <इमौ युनज्मि [१८.२.५६]>_इति गावौ युनक्ति पुरुषौ वा (कौशिकसूत्र ११,१[८०].३५) <उत्तिष्ठ प्रेहि [१८.३.८]> <प्र च्यवस्व [१८.३.९]>_<उदन्वती [१८.२.४८]>_<इत एते [१८.१.६१]>_<अग्नीषोमा [१८.२.५३]>_<इदं पूर्वम् [१८.४.४४]> इति हरिणीभिर्हरेयुर्<अति द्रव [१८.२.१११८]>_इत्यष्टभिः (कौशिकसूत्र ११,१[८०].३६) <इदं त [१८.३.७]> इत्यग्निमग्रतः (कौशिकसूत्र ११,१[८०].३७) <प्रजानत्यघ्न्ये [१८.३.४]>_इत्य्+जघन्यां (एद्. जघन्यं॑ सेए Cअलन्द्, Kल्. ष्छ्र्., प्. ४) गामेधमग्निं परिणीय (कौशिकसूत्र ११,१[८०].३८) <स्योनास्मै भव [१८.२.१९]>_इत्युत्तरतो_अग्नेः शरीरं निदधाति (कौशिकसूत्र ११,१[८०].३९) अध्वर्यव इष्टिं निर्वपन्ति (कौशिकसूत्र ११,१[८०].४०) तस्यां यथादेवतं पुरस्ताद्धोमसंस्थितहोमानुद्धृत्य (कौशिकसूत्र ११,१[८०].४१) प्राणापानौ_+अवरुध्योंनिधनाभिर्(सेए सूत्र ८०.३०) जुहुयात् (कौशिकसूत्र ११,१[८०].४२) अथ_उभयोर्<अपेत [१८.१.५५]> <ददामि [१८.२.३७]>_इत्य्शान्त्युदकं कृत्वा संप्रोक्षणीभ्यां काम्पीलशाखाया दहनं संप्रोक्ष्य (कौशिकसूत्र ११,१[८०].४३) <उदीरताम् [१८.१.४४]> इत्य्+उद्धत्य (एद्. उद्धृत्य)_अभ्युक्ष्य लक्षणं कृत्वा पुनरभ्युक्ष्य प्राग्दक्षिणमेधश्चिन्वन्ति (कौशिकसूत्र ११,१[८०].४४) <इयं नारी [१८.३.१]>_इति पत्नीमुपसंवेशयति (कौशिकसूत्र ११,१[८०].४५) <उदीर्ष्व [१८.३.२]>_इत्युत्थापयति (कौशिकसूत्र ११,१[८०].४६) यद्द्धिरण्यं बिभर्ति तद्दक्षिणे पाणौ_+आधाय (एद्. आदाय)_आज्येनाभिघार्य ज्येष्ठेन पुत्रेणादापयति_<इदं हिरण्यं [१८.४.५६]>_इति (कौशिकसूत्र ११,१[८०].४७) <स्वर्गं यतः [१८.४.५६ ]>_इति दक्षिणं हस्तं निर्मार्जयति (कौशिकसूत्र ११,१[८०].४८) <दण्डं हस्ताद्[१८.२.५९]> इति मन्त्रोक्तं ब्राह्मणस्यादापयति (कौशिकसूत्र ११,१[८०].४९) <धनुर्हस्ताद्[१८.२.६०]> इति क्षत्रियस्य (कौशिकसूत्र ११,१[८०].५०) <अष्ट्राम् [दृष्टव्यम्‌ १८.२.५९६०]> इति वैश्यस्य (कौशिकसूत्र ११,१[८०].५१) <इदं पितृभ्यो [१८.४.५१, सेए Cअलन्द्, Kल्. ष्छ्र्., प्. ४]>_इति दर्भानेधान् स्तृणाति (कौशिकसूत्र ११,१[८०].५२) तत्र_एनमुत्तानमादधीत_<ईजानश्+चितम् (एद्. चित्तम्॑ दृष्टव्यम्‌ वॢ. इन् ॑ष्षेदितिओन् ब्य्॑ष्ড়्ড়्) आरुक्षदग्निं [१८.४.१४]>_इति (कौशिकसूत्र ११,१[८०].५३) <प्राच्यां त्वा दिशि [१८.३.३०]>_इति प्रतिदिशम् (कौशिकसूत्र ११,१[८०].५४) न_इत्युपरिबभ्रवः (कौशिकसूत्र ११,१[८०].५५) अनुमन्त्रयते (कौशिकसूत्र ११,१[८०].५६) अथास्य सप्तसु प्राणेषु सप्त हिरण्यशकलानि_अवास्यति_<अमृतमस्यमृतत्वायामृतमस्मिन् धेहि>_इति (कौशिकसूत्र ११,२[८१].१) अथाहिताग्नेर्दर्भेषु कृष्णाजिनमन्तर्लोमास्तीर्य (कौशिकसूत्र ११,२[८१].२) तत्र_एनमुत्तानमाधाय (कौशिकसूत्र ११,२[८१].३) अथास्य यज्ञपात्राणि पृषदाज्येन पूरयित्वानुरूपं निदधति (कौशिकसूत्र ११,२[८१].४) दक्षिणे हस्ते जुहूम् (कौशिकसूत्र ११,२[८१].५) सव्य उपभृतम् (कौशिकसूत्र ११,२[८१].६) कण्ठे ध्रुवां मुखे_अग्निहोत्रहवनीं नासिकयोः स्रुवम् (कौशिकसूत्र ११,२[८१].७) तानि_अनुमन्त्रयते <जुहूर्दधार द्याम् [१८.४.५]>_<ध्रुव आ रोह [१८.४.६]>_इति (कौशिकसूत्र ११,२[८१].८) ललाटे प्राशित्रहरणम् (कौशिकसूत्र ११,२[८१].९) <इममग्ने चमसं [१८.३.५३]>_इति शिरसीडाचमसम् (कौशिकसूत्र ११,२[८१].१०) <देवा यज्ञम् [१८.४.२]> इत्युरसि पुरोडाशम् (कौशिकसूत्र ११,२[८१].११) दक्षिणे पार्श्वे स्फ्यं सव्य उपवेषम् (कौशिकसूत्र ११,२[८१].१२) उदरे पात्रीं (कौशिकसूत्र ११,२[८१].१३) अष्ठीवतोरुलूखलमुसलम् (कौशिकसूत्र ११,२[८१].१४) श्रोण्योः शकटम् (कौशिकसूत्र ११,२[८१].१५) अन्तरेण_ऊरू अन्यानि यज्ञपात्रानि (कौशिकसूत्र ११,२[८१].१६) पादयोः शूर्पम् (कौशिकसूत्र ११,२[८१].१७) अपो मृन्मयानि_उपहरन्ति (कौशिकसूत्र ११,२[८१].१८) अयस्मयानि निदधति (कौशिकसूत्र ११,२[८१].१९) अमा +पुत्रस्य (एद्. पुत्रा च॑ सेए Cअलन्द्, Kल्. ष्छ्र्., प्. ४) दृषत् (कौशिकसूत्र ११,२[८१].२०) अथ_उभयोर्<अपश्यं युवतिं [१८.३.३]> <प्रजानत्यघ्न्ये [१८.३.४]>_इति जघन्यां गां प्रसव्यं परिणीयमानामनुमन्त्रयते (कौशिकसूत्र ११,२[८१].२१) तां नैरृतेन जघनताघ्नन्त उपवेशयन्ति (कौशिकसूत्र ११,२[८१].२२) तस्याः पृष्ठतो वृक्कौ_उद्धार्य पाण्योरस्यादधति_<अति द्रव श्वानौ [१८.२.११]>_इति (कौशिकसूत्र ११,२[८१].२३) दक्षिणे दक्षिणं सव्ये सव्यम् (कौशिकसूत्र ११,२[८१].२४) हृदये हृदयम् (कौशिकसूत्र ११,२[८१].२५) <अग्नेर्वर्म [१८.२.५८]>_इति वपया सप्तछिद्रया मुखं प्रछादयन्ति (कौशिकसूत्र ११,२[८१].२६) यथागात्रं गात्राणि (कौशिकसूत्र ११,२[८१].२७) दक्षिणैर्दक्षिणानि सव्यैः सव्यानि (कौशिकसूत्र ११,२[८१].२८) अनुबद्धशिरःपादेन गोशालां चर्मणावछाद्य (कौशिकसूत्र ११,२[८१].२९) <अजो भागस्[१८.२.८]>_<उत्त्वा वहन्तु [१८.२.२२]>_इति दक्षिणतो_अजं बध्नाति (कौशिकसूत्र ११,२[८१].३०) <अस्माद्वै त्वमजायथा अयं त्वदधि जायतामसौ स्वाहा [दृष्टव्यम्‌ ञ्B १.२, १.४७, दृष्टव्यम्‌ टा ६.२.१, ६.४.२, आआश्व्ङ्ष्४.३.२७]>_इत्युरसि गृहे जुहोति (कौशिकसूत्र ११,२[८१].३१) तथाग्निषु जुहोति_<अग्नये स्वाहा कामाय स्वाहा लोकाय स्वाहा [दृष्टव्यम्‌ आआश्व्ङ्ष्४.३.२६]>_इति (कौशिकसूत्र ११,२[८१].३२) दक्षिणाग्नौ_इत्येके (कौशिकसूत्र ११,२[८१].३३) <मैनमग्ने वि दहः [१८.२.४]> <शं तप [१८.२.३६]> <आ रभस्व [१८.३.७१ ए.अ.]> <प्रजानन्तः [२.३४.५]>_इति कनिष्ठ आदीपयति (कौशिकसूत्र ११,२[८१].३४) आदीप्ते स्रुवेण यामान् होमान्_जुहोति <परेयिवांसं प्रवतो महीरिति [१८.१.४९]> (कौशिकसूत्र ११,२[८१].३५) <यमो नो गातुं प्रथमो विवेद [१८.१.५०]> इति द्वे प्रथमे (कौशिकसूत्र ११,२[८१].३६) <अङ्गिरसो नः पितरो नवग्वा [१८.१.५८]> इति संहिताः सप्त (कौशिकसूत्र ११,२[८१].३७) <यो ममार प्रथमो मर्त्यानां [१८.३.१३]> <ये नः पितुः पितरो ये पितामहा [१८.२.४९]> इत्येकादश (कौशिकसूत्र ११,२[८१].३८) अथ सारस्वताः (कौशिकसूत्र ११,२[८१].३९) <सरस्वतीं देवयन्तो हवन्ते [१८.१.४१]> <सरस्वतीं पितरो हवन्ते [१८.१.४२]> <सरस्वति या सरथं ययाथ [१८.१.४३]> <सरस्वति व्रतेषु ते [७.६८.१]>_<इदं ते हव्यं घृतवत्सरस्वति [७.६८.२]>_<इन्द्रो मा मरुत्वान् [१८.३.२५]> इति (कौशिकसूत्र ११,२[८१].४०) दक्षिणतो_अन्यस्मिन्ननुष्ठाता जुहोति (कौशिकसूत्र ११,२[८१].४१) सर्वैरुपतिष्ठन्ति त्रीणि प्रभृतिर्वा (कौशिकसूत्र ११,२[८१].४२) अपि वानुष्ठानीभिः (कौशिकसूत्र ११,२[८१].४३) एता अनुष्ठान्यः (कौशिकसूत्र ११,२[८१].४४) <मैनमग्ने वि दहो [१८.२.४]>_इतिप्रभृति_<अव सृज [१८.२.१०]>_इति वर्जयित्वा <सहस्रनीथाः [१८.२.१८]>_इत्यातः (कौशिकसूत्र ११,२[८१].४५) <आ रोह जनित्रीं जातवेदसः [१८.४.१]>_इति पञ्चदशभिराहिताग्निम् (कौशिकसूत्र ११,२[८१].४६) <मित्रावरुणा परि मामधाताम् [१८.३.१२]> इति पाणी प्रक्षालयते (कौशिकसूत्र ११,२[८१].४७) <वर्चसा मां [१८.३.१०(११)]>_इत्याचामति (कौशिकसूत्र ११,२[८१].४८) <विवस्वान्नो [१८.३.६१]>_इत्युत्तरतो_अन्यस्मिन्ननुष्ठाता जुहोति (कौशिकसूत्र ११,३[८२].१) यवीयःप्रथमानि कर्माणि प्राङ्मुखानां यज्ञोपवीतिनां दक्षिणावृतम् (कौशिकसूत्र ११,३[८२].२) अथ_एषां सप्तसप्त शर्कराः पाणिषु_+आवपति (एद्. आवपते॑ थुस्Cअलन्द्, Kल्. ष्छ्र्., प्. ४७) (कौशिकसूत्र ११,३[८२].३) तासामेक_एकां सव्येनावाचीनहस्तेनावकिरन्तो_अनवेक्षमाणा व्रजन्ति (कौशिकसूत्र ११,३[८२].४) अपाघेनानुमन्त्रयते (कौशिकसूत्र ११,३[८२].५) सर्वे_अग्रतो ब्रह्मणो व्रजन्ति (कौशिकसूत्र ११,३[८२].६) <मा प्र गाम [१३.१.५९]>_इति जपन्त उदकान्ते +व्यघापघे जपति+ (एद्. व्यपाद्ये जपन्ति॑ सेए Cअलन्द्, Kल्. ष्छ्र्., प्. ७१७२) (कौशिकसूत्र ११,३[८२].७) पश्चादवसिञ्चति (कौशिकसूत्र ११,३[८२].८) <उदुत्तमं [१८.४.६९]>_इति ज्येष्ठः (कौशिकसूत्र ११,३[८२].९) <पयस्वतीर्[१८.३.५६ (ए.अ.)]> इति ब्रह्मा_॥_उक्ताः पिञ्जूलीरावपति (कौशिकसूत्र ११,३[८२].१०) शान्त्युदकेनाचम्याभ्युक्ष्य_<अश्वावतीं [१८.२.३१]>_इति नदीं तारयते (कौशिकसूत्र ११,३[८२].११) नक्षत्रं दृष्ट्वा_उपतिष्ठते <नक्षत्राणां मा संकाशश्च प्रतीकाशश्चावताम् [दृष्टव्यम्‌ Vऐत्ष्११.१३]> इति (कौशिकसूत्र ११,३[८२].१२) शाम्याकीः समिध +आदाय (एद्. आधाय॑ सेए Cअलन्द्, Kल्. ष्छ्र्., प्. ४७)_अग्रतो ब्रह्मा जपति (कौशिकसूत्र ११,३[८२].१३) <यस्य त्रया गतमनुप्रयन्ति देवा मनुष्याः पशवश्च सर्वे । तं नो देवं मनो अधि ब्रवीतु सुनीतिर्नो नयतु द्विषते मा रधाम [ড়्ष्१.७८.४]>_इति शान्त्युदकेनाचम्याभ्युक्ष्य (कौशिकसूत्र ११,३[८२].१४) <निस्सालाम् [२.१४.१]> इति शालानिवेशनं संप्रोक्ष्य (कौशिकसूत्र ११,३[८२].१५) <ऊर्जं बिभ्रद्[७.६०.१]> इति प्रपादयति (कौशिकसूत्र ११,३[८२].१६) नदीमालम्भयति गामग्निमश्मानं च (कौशिकसूत्र ११,३[८२].१७) <यवोऽसि यवयास्मद्द्वेषो यवयारातिम् [दृष्टव्यम्‌ ट्ष्१.३.१.१ इत्यादि]> इति यवान् (कौशिकसूत्र ११,३[८२].१८) <खल्वकास्य (एम्. Bलोओम्fइएल्द्+खल्वकासि ?) []>_इति खल्वान् खलकुलान्_च (कौशिकसूत्र ११,३[८२].१९) +व्यघापघाभ्यां (एद्. व्यपाद्याभ्यां॑ Cअलन्द्, Kल्. ष्छ्र्., प्. ७१७२) शाम्याकीराधापयति (कौशिकसूत्र ११,३[८२].२०) तासां धूमं भक्षयन्ति (कौशिकसूत्र ११,३[८२].२१) यद्यत्क्रव्याद्गृह्येद्यदि क्रव्यादा नान्तेऽपरेद्युः । <दिवो नभः शुक्रं पयो दुहाना इषमूर्जं पिन्वमानाः ॥ अपां योनिमपाध्वं स्वधा याश्चकृषे जीवंस्तास्ते सन्तु मधुश्चुतः [दृष्टव्यम्‌ ড়्ष्१९.५२.१३]> इत्यग्नौ स्थालीपाकं निपृणाति (कौशिकसूत्र ११,३[८२].२२) आदहने चापिवान्यवत्सां दोहयित्वा तस्याः पृष्ठे जुहोति <वैश्वानरे हविरिदं जुहोमि [१८.४.३५ इत्यादि]>_इति (कौशिकसूत्र ११,३[८२].२३) तस्याः पयसि (कौशिकसूत्र ११,३[८२].२४) स्थालीपक इत्येके (कौशिकसूत्र ११,३[८२].२५) <ये अग्नयो [३.२१.१]>_इति पालाश्या दर्व्या मन्थमुपमथ्य काम्पीलीभ्यामुपमन्थनीभ्यां तृतीयस्यामस्थीनि_अभिजुहोति (कौशिकसूत्र ११,३[८२].२६) <उप द्याम् [१८.३.५]>_<शं ते नीहारो [१८.३.६०]>_इति मन्त्रोक्तानि_अवदाय (कौशिकसूत्र ११,३[८२].२७) क्षीरोत्सिक्तेन ब्राह्मणस्यावसिञ्चति मधूत्सिक्तेन क्षत्रियस्य_उदकेन वैश्यस्य (कौशिकसूत्र ११,३[८२].२८) <अव सृज [१८.२.१०]>_इत्यनुमन्त्रयते (कौशिकसूत्र ११,३[८२].२९) <मा ते मनो [१८.२.२४]> <यत्ते अङ्गम् [१८.२.२६]> इति संचिनोति (एमेन्देद्तेxत्+ सूत्रदिविसिओन् [२९३०३१] अच्च्. तो Cअलन्द्, Kल्. ष्छ्र्., प्. ४७) (कौशिकसूत्र ११,३[८२].३०) +पत्तः (थुस्Cअलन्द्॑ एद्. पच्छः) प्रथमं शीर्षकपालानि पश्चात् (कौशिकसूत्र ११,३[८२].३१) कलशे समोप्य सर्वसुरभिचूर्णैरवकीर्य_उत्थापनीभिरुत्थाप्य हरिणीभिर्हरेयुः (कौशिकसूत्र ११,३[८२].३२) <मा त्वा वृक्षः [१८.२.२५]>_इति वृक्षमूले निदधाति (कौशिकसूत्र ११,३[८२].३३) <स्योनास्मै भव [१८.२.१९]>_इति भूमौ त्रिरात्रमरसाशिनः कर्माणि कुर्वते (कौशिकसूत्र ११,३[८२].३४) दशरात्र इत्येके (कौशिकसूत्र ११,३[८२].३५) यथाकुलधर्मं वा (कौशिकसूत्र ११,३[८२].३६) ऊर्ध्वं तृतीयस्या वैवस्वतं स्थालीपाकं श्रपयित्वा <विवस्वान्नो [१८.३.६१]>_इति जुहोति (कौशिकसूत्र ११,३[८२].३७) युक्ताभ्यां तृतीयाम् (कौशिकसूत्र ११,३[८२].३८) आनुमतीं चतुर्थीम् (कौशिकसूत्र ११,३[८२].३९) शेषं शान्त्युदकेन_उपसिच्याभिमन्त्र्य प्राशयति (कौशिकसूत्र ११,३[८२].४०) <आ प्र च्यवेथाम् [१८.४.४९]> इति गावौ_उपयछति (कौशिकसूत्र ११,३[८२].४१) <एयमगन्न् [१८.४.५०]> इति दशगवावरार्ध्या दक्षिणा (कौशिकसूत्र ११,३[८२].४२) द्वादशरात्रं कर्ता यमव्रतं चरेत् (कौशिकसूत्र ११,३[८२].४३) एकचैलस्त्रिचैलो चा (कौशिकसूत्र ११,३[८२].४४) हविष्यभक्षः (कौशिकसूत्र ११,३[८२].४५) सायंप्रातरुपस्पृशेत् (कौशिकसूत्र ११,३[८२].४६) ब्रह्मचारी व्रती_अधः शयीत (कौशिकसूत्र ११,३[८२].४७) स्वस्त्ययनानि प्रयुञ्जीत (कौशिकसूत्र ११,४[८३].१) पितॄन्निधास्यन् संभारान् संभरति (कौशिकसूत्र ११,४[८३].२) एकादश +चरूनचक्रकृतान्+ (एद्. चरूञ्चक्रकृतान्॑ सेए Cअलन्द्, ङेब्रएउछे, प्. १३४, न्. ४९३) कारयति (कौशिकसूत्र ११,४[८३].३) शतातृण्णसहस्रातृण्णौ च पाशीमूषं सिकताः शङ्खं शालूकं सर्वसुरभिशमीचूर्णकृतं शान्तवृक्षस्य नावं त्रिपादकम् (कौशिकसूत्र ११,४[८३].४) द्वे निःशीयमाने नीललोहिते सूत्रे सव्यरज्जुं शान्तवृक्षस्य चतुरः शङ्कून्_चतुरः परिधीन् वारणं शामीलमौदुम्बरं पालाशं वृक्षस्य शान्तौषधीः (कौशिकसूत्र ११,४[८३].५) माघे निदध्यात्_माघं भूदिति (कौशिकसूत्र ११,४[८३].६) शरदि निदध्यात्_शाम्यत्वघमिति (कौशिकसूत्र ११,४[८३].७) निदाघे निदध्यात्_निदह्यतामघमिति (कौशिकसूत्र ११,४[८३].८) अमावास्यायां निदध्यादमा हि पितरो भवन्ति (कौशिकसूत्र ११,४[८३].९) अथावसानम् (कौशिकसूत्र ११,४[८३].१०) तद्यत्समं समूलमविदग्धं प्रतिष्ठितं प्रागुदक्प्रवणम् (कौशिकसूत्र ११,४[८३].११) यत्राकण्टका वृक्षाश्च_ओषधयश्च (कौशिकसूत्र ११,४[८३].१२) उन्नतं स्वर्गकामश्च (कौशिकसूत्र ११,४[८३].१३) श्वोऽमावास्या_इति गां कारयते (कौशिकसूत्र ११,४[८३].१४) तस्याः सव्यं चापघनं प्रपाकं च निधाय (कौशिकसूत्र ११,४[८३].१५) भिक्षां कारयति (कौशिकसूत्र ११,४[८३].१६) ग्रामे यामसारस्वतान् होमान् हुत्वा (कौशिकसूत्र ११,४[८३].१७) संप्रोक्षणीभ्यां काम्पीलशाखया निवेशनमनुचर्य (कौशिकसूत्र ११,४[८३].१८) प्राग्दक्षिणं शाखां प्रविध्य सीरेण कर्षयित्वा शाखाभिः परिवार्य (कौशिकसूत्र ११,४[८३].१९) <पुनर्देहि [१८.३.७०]>_इति वृक्षमूलादादत्ते (कौशिकसूत्र ११,४[८३].२०) <यत्ते कृष्णः [१८.३.५५]>_इति भूमेर्वसने समोप्य सर्वसुरभिचूर्णैरवकीर्य_उत्थापनीभिरुत्थाप्य हरिणीभिर्हरेयुः (कौशिकसूत्र ११,४[८३].२१) अविदन्तो देशात्पांसून् (कौशिकसूत्र ११,४[८३].२२) अपि वा_उदकान्ते वसनमास्तीर्यासौ_इति ह्वयेत् (कौशिकसूत्र ११,४[८३].२३) तत्र यो जन्तुर्निपतेत्तमुत्थापनीभिरुत्थाप्य हरिणीभिर्हरेयुः (कौशिकसूत्र ११,४[८३].२४) अपि वा त्रीणि षष्टिशतानि पलाशत्सरूणाम् (कौशिकसूत्र ११,४[८३].२५) ग्रामे दक्षिणोदग्द्वारं विमितं दर्भैरास्तारयति (कौशिकसूत्र ११,४[८३].२६) उत्तरं जीवसंचरो दक्षिणं पितृसंचरः (कौशिकसूत्र ११,४[८३].२७) अनस्तमिते_<आ यात [१८.४.६२]>_इत्यायापयति (कौशिकसूत्र ११,४[८३].२८) <आच्या जानु [१८.१.५२]>_इत्युपवेशयति (कौशिकसूत्र ११,४[८३].२९) <सं विशन्त्व्[१८.२.२९]> इति संवेशयति (कौशिकसूत्र ११,४[८३].३०) <एतद्वः पितरः पात्रम् [दृष्टव्यम्‌ Vष्ं २.३२, ंन्B २.३.१४ इत्यादि]> इति त्रीण्युदकंसान्निनयति (कौशिकसूत्र ११,४[८३].३१) त्रीन् स्नातानुलिप्तान् ब्राह्मणान्मधुमन्थं पाययति (कौशिकसूत्र ११,४[८३].३२) ब्रह्मणे मधुपर्कमाहारयति (कौशिकसूत्र ११,४[८३].३३) गां वेदयन्ते (कौशिकसूत्र ११,४[८३].३४) कुरुत_इत्याह (कौशिकसूत्र ११,४[८३].३५) तस्या दक्षिणमर्धं ब्राह्मणान् भोजयति सव्यं पितॄन् (कौशिकसूत्र ११,५[८४].१) <वह वपां जातवेदः पितृभ्यो यत्रैतान् वेत्थ निहितान् पराके । मेदसः कुल्या उप तान् स्रवन्तु सत्या एषामाशिषः सन्तु कामाः स्वाहा स्वधा [सेए ४५.१४, दृष्टव्यम्‌ ंन्B २.३.१८, Vष्ं ३५.२०]>_इति वपायास्त्रिर्जुहोति (कौशिकसूत्र ११,५[८४].२) <इमं यम [१८.१.६०]>_इति यमाय चतुर्थीम् (कौशिकसूत्र ११,५[८४].३) एकविंशत्या यवैः कृशरं रन्धयति युतमन्यत्प्रपाकं च (कौशिकसूत्र ११,५[८४].४) सयवस्य जीवाः प्राश्नन्ति (कौशिकसूत्र ११,५[८४].५) अथ_इतरस्य पिण्डं निपृणाति (कौशिकसूत्र ११,५[८४].६) <यं ते मन्थं [१८.४.४२]>_इति मन्त्रोक्तं विमिते निपृणाति (कौशिकसूत्र ११,५[८४].७) तदुद्गतोष्म हर्तारो [एद्. ओष्महर्त्, Cअलन्दाह्नेन्चुल्त्प्. २६४] दासा भुञ्जते (कौशिकसूत्र ११,५[८४].८) वीणा वदन्तु_इत्याह (कौशिकसूत्र ११,५[८४].९) महयत पितॄनिति रिक्तकुम्भं विमितमध्ये निधाय तं जरदुपानहाघ्नन्ति (कौशिकसूत्र ११,५[८४].१०) <कस्ये मृजाना [१८.३.१७]> इति त्रिः प्रसव्यं प्रकीर्णकेश्यः परियन्ति दक्षिणानूरूनघ्नानाः (कौशिकसूत्र ११,५[८४].११) एवं मध्यरात्रे_अपरात्रे च (कौशिकसूत्र ११,५[८४].१२) पुरा विवाहात्समांसः पिण्डपितृयज्ञः (कौशिकसूत्र ११,५[८४].१३) उत्थापनीभिरुत्थाप्य हरिणीभिर्हरेयुः (कौशिकसूत्र ११,५[८४].१४) अथ_<अवसाय [?, .ऋV १०.१६९.१ , ড়्ष्१९.५१.५ ? णोते Cअलन्द्, Kल्. ष्छ्र्., प्. ४८)]>_इति पश्चात्पूर्वकृतेभ्यः पूर्वाणि पूर्वेभ्यो_अपराणि यवीयसाम् (कौशिकसूत्र ११,५[८४].१५) प्राग्दक्षिणां दिशमभ्युत्तरामपरां दिशमभितिष्ठन्ति (कौशिकसूत्र ११,५[८४].१६) यथा चितिं तथा श्मशानं दक्षिणापरां दिशमभि प्रवणम् (कौशिकसूत्र ११,६[८५].१) अथ मानानि (कौशिकसूत्र ११,६[८५].२) दिष्टिकुदिष्टिवितस्तिनिमुष्ट्यरत्निपदप्रक्रमाः (कौशिकसूत्र ११,६[८५].३) प्रादेशेन धनुषा च_<इमां मात्रां मिमीमहे [१८.२.३८]>_इति (कौशिकसूत्र ११,६[८५].४) सप्त दक्षिणतो मिमीते सप्त_उत्तरतः पञ्च पुरस्तात्त्रीणि पश्चात् (कौशिकसूत्र ११,६[८५].५) नव दक्षिणतो मिमीते नव_उत्तरतः सप्त पुरस्तात्पञ्च पश्चात् (कौशिकसूत्र ११,६[८५].६) एकादश दक्षिणतो मिमीत एकादश_उत्तरतो नव पुरस्तात्सप्त पश्चात् (कौशिकसूत्र ११,६[८५].७) एकादशभिर्देवदर्शिनाम् (कौशिकसूत्र ११,६[८५].८) अयुग्ममानानि परिमण्डलानि चतुरस्राणि वा शौनकिनाम् (कौशिकसूत्र ११,६[८५].९) तथा हि दृश्यन्ते (कौशिकसूत्र ११,६[८५].१०) यावान् पुरुष ऊर्ध्वनाहुस्तावानग्निश्चितः (कौशिकसूत्र ११,६[८५].११) सव्यानि दक्षिणाद्वाराणि_अयुग्मशिलानि_अयुग्मेष्टिकानि च (कौशिकसूत्र ११,६[८५].१२) <इमां मात्रां मिमीमहे [१८.२.३८]>_इति दक्षिणतः सव्यरज्जुं मीत्वा (कौशिकसूत्र ११,६[८५].१३) वारयतामघमिति वारणं परिधिं परिदधाति शङ्कुं च निचृतति (कौशिकसूत्र ११,६[८५].१४) पुरस्तान्मीत्वा शमेभ्यो अस्त्वघमिति शामीलं परिधिं परिदधाति शङ्कुं च निचृतति (कौशिकसूत्र ११,६[८५].१५) उत्तरतो मीत्वा शाम्यत्वघमित्यौदुम्बरं परिधिं परिदधाति शङ्कुं च निचृतति (कौशिकसूत्र ११,६[८५].१६) पश्चान्मीत्वा शान्तमघमिति पालाशं परिधिं परिदधाति शङ्कुं च निचृतति (कौशिकसूत्र ११,६[८५].१७) <अमासि [१८.२.४५]>_इत्यनुमन्त्रयते (कौशिकसूत्र ११,६[८५].१८) अक्ष्णया लोहितसूत्रेण निबध्य (कौशिकसूत्र ११,६[८५].१९) <स्तुहि श्रुतं [१८.१.४०]>_इति मध्ये गर्तं खात्वा पाशिसिकता_ऊष_उदुम्बरशङ्खशालूकसर्वसुरभिशमीचूर्णानि निवपति (कौशिकसूत्र ११,६[८५].२०) निःशीयतामघमिति निःशीयमानमास्तृणाति (कौशिकसूत्र ११,६[८५].२१) असंप्रत्यघम् (कौशिकसूत्र ११,६[८५].२२) वि लुम्पतामघमिति परि चैलं दूर्शं विलुम्पति (कौशिकसूत्र ११,६[८५].२३) उक्तो होमो दक्षिणत स्तरणं च (कौशिकसूत्र ११,६[८५].२४) <एतदा रोह [१८.३.७३]> <ददामि [१८.२.३७]>_इति कनिष्ठो निवपति (कौशिकसूत्र ११,६[८५].२५) <एदं बर्हिर्[१८.४.५२]> इति स्थितसूनुर्यथापरु संचिनोति (कौशिकसूत्र ११,६[८५].२६) <मा ते मनो [१८.२.२४]> <यत्ते अङ्गम् [१८.२.२६]> <इन्द्रो मा [१८.३.२५]>_<उदपूर्[१८.३.३७]> इत्यातो_अनुमन्त्रयते (कौशिकसूत्र ११,६[८५].२७) धानाः सलिङ्गाभिरावपति (कौशिकसूत्र ११,७[८६].१) <इदं कसाम्बु [१८.४.३७]>_इति सजातानवेक्षयति (कौशिकसूत्र ११,७[८६].२) <ये च जीवा [१८.४.५७]> <ये ते पूर्वे परागता [१८.३.७२]> इति सर्पिर्मधुभ्यां चरुं पूरयित्वा शीर्षदेशे निदधाति (कौशिकसूत्र ११,७[८६].३) <अपूपवान् [१८.४.१६]> इति मन्त्रोक्तं दिक्षु_अष्टमदेशेषु निदधाति (कौशिकसूत्र ११,७[८६].४) मध्ये पचन्तम् (कौशिकसूत्र ११,७[८६].५) <सहस्रधारं शतधारम् [१८.४.३६]> इत्यद्भिरभिविष्यन्द्य (कौशिकसूत्र ११,७[८६].६) <पर्णो राजा [१८.४.५३]>_इति मध्यमपलाशैरभिनिदधाति (कौशिकसूत्र ११,७[८६].७) <ऊर्जो भागो [१८.४.५४]>_इत्यश्मभिः (कौशिकसूत्र ११,७[८६].८) <उत्ते स्तभ्नामि [१८.३.५२]>_इति लोगान् यथापरु (कौशिकसूत्र ११,७[८६].९) निःशीयतामघमिति निःशीयमानेनावछाद्य दर्भैरवस्तीर्य (कौशिकसूत्र ११,७[८६].१०) <इदमिद्वा उ न [१८.२.५०]>_<उप सर्प [१८.३.४९]>_<असौ हा [१८.४.६६]> इति चिन्वन्ति (कौशिकसूत्र ११,७[८६].११) <यथा यमाय [१८.४.५५]>_इति संश्रित्य (कौशिकसूत्र ११,७[८६].१२) शृणात्वघमित्युपरिशिर स्तम्बमादधाति (कौशिकसूत्र ११,७[८६].१३) प्रतिषिद्धमेकेषाम् (कौशिकसूत्र ११,७[८६].१४) अकल्माषाणां काण्डानामष्टाङ्गुलीं तेजनीमन्तर्हितमघमिति ग्रामदेशादुच्छ्रयति (कौशिकसूत्र ११,७[८६].१५) प्रसव्यं परिषिच्य कुम्भान् भिन्दन्ति (कौशिकसूत्र ११,७[८६].१६) <समेत [७.२१.१ (थुसेम्.!)]>_इति अपरस्यां श्मशानस्रक्त्यां ध्रुवनानि_ उपयछन्ते (कौशिकसूत्र ११,७[८६].१७) पश्चादुत्तरतो_अग्नेर्<वर्चसा मां [१८.३.१०]> <विवस्वान् [१८.३.६१]> <इन्द्र क्रतुं [१८.३.६७]>_इत्यातः (कौशिकसूत्र ११,७[८६].१८) <समिन्धते [१८.४.४१ (ए.अ.)]>_इति पश्चात्संकसुकमुद्दीपयति (कौशिकसूत्र ११,७[८६].१९) <अस्मिन् वयं [१२.२.१३]> <यद्रिप्रं [१२.२.४०]> <सीसे मृड्ढ्वं [१२.२.१९]>_इत्यभ्यवनेजयति (कौशिकसूत्र ११,७[८६].२०) कृष्णोर्णया पाणिपादान्निमृज्य (कौशिकसूत्र ११,७[८६].२१) <इमे जीवा [१२.२.२२]> <उदीचीनैः [१२.२.२९]>_इति मन्त्रोक्तम् (कौशिकसूत्र ११,७[८६].२२) <त्रिः सप्त [१२.२.२९ ]>_इति कूद्या पदानि लोपयित्वा [एद्. योपयित्वा चोर्रिगेन्द एद्. प्. ४२४] श्मशानात् (कौशिकसूत्र ११,७[८६].२३) <मृत्योः पदं [१२.२.३०]>_इति द्वितीयया नावः (कौशिकसूत्र ११,७[८६].२४) <परं मृत्यो [१२.२.२१]> इति प्राग्दक्षिणं कूदीं प्रविध्य (कौशिकसूत्र ११,७[८६].२५) सप्त नदीरूपाणि कारयित्वा_उदकेन पूरयित्वा (कौशिकसूत्र ११,७[८६].२६) <आ रोहत सवितुर्नावमेतां [१२.२.४८ ]> <सुत्रामाणं [७.६.३]> <महीमू षु [७.६.२]>_इति सहिरण्यां सयवां नावमारोहयति (कौशिकसूत्र ११,७[८६].२७) <अश्मन्वती रीयते [१२.२.२६]>_<उत्तिष्ठता प्र तरता सखायो [१२.२.२७]>_इत्युदीचस्तारयति (कौशिकसूत्र ११,७[८६].२८) शर्करादि_आ समिदाधानात् (कौशिकसूत्र ११,७[८६].२९) वैवस्वतादि समानम् (कौशिकसूत्र ११,७[८६].३०) प्राप्य गृहान् समानः पिण्डपितृयज्ञः (कौशिकसूत्र ११,८[८७].१) अथ पिण्डपितृयज्ञः (कौशिकसूत्र ११,८[८७].२) अमावास्यायां सायं न्यह्ने_अहनि विज्ञायते [दृष्टव्यम्‌ १८.४.६५?] (कौशिकसूत्र ११,८[८७].३) <मित्रावरुणा परि मामधाताम् [१८.३.१२]> इति पाणी प्रक्षालयते (कौशिकसूत्र ११,८[८७].४) <वर्चसा मां [१८.३.१०]>_इत्याचामति (कौशिकसूत्र ११,८[८७].५) पुनः सव्येनाचमनादपसव्यं कृत्वा प्रैषकृतं समादिशति (कौशिकसूत्र ११,८[८७].६) उलूखलमुसलं शूर्पं चरुं कंसं प्रक्षालय बर्हिरुदकुम्भमा हर_इति (कौशिकसूत्र ११,८[८७].७) यज्ञोपवीती दक्षिणपूर्वमन्तर्देशमभिमुखः शूर्प एकपवित्रान्तर्हितान् हविष्यान्निर्वपति (कौशिकसूत्र ११,८[८७].८) इदम् <अग्नये कव्यवाहनाय [१८.४.७१]> <स्वधा पितृभ्यः पृथिविषद्भ्यः [१८.४.७८]>_इतीदं <सोमाय पितृमते स्वधा [१८.४.७२]> <पितृभ्यः सोमवद्भ्यः [१८.४.७३]> <पितृभ्यो वान्तरिक्षसद्भ्यः [१८.४.७९]>_इतीदं <यमाय पितृमते [१८.४.७४]> <स्वधा पितृभ्यश्च दिविषद्भ्यः [१८.४.८०]>_इति त्रीनवाचीनकाशीन्निर्वपति (कौशिकसूत्र ११,८[८७].९) उलूखल ओप्य त्रिरवहन्ति_<इदं वः पितरो हविः>_इति (कौशिकसूत्र ११,८[८७].१०) यथा हविस्तथा परिचरति (कौशिकसूत्र ११,८[८७].११) हविर्हि_एव पितृयज्ञः (कौशिकसूत्र ११,८[८७].१२) प्रैषकृतं समादिशन्ति चरुं प्रक्षालयाधिश्रयाप ओप्य तण्डुलानावपस्व नेक्षणेन योधयन्नास्व मा शिरो ग्रहीः (कौशिकसूत्र ११,८[८७].१३) शिरोग्रहं परिचक्षते (कौशिकसूत्र ११,८[८७].१४) बाह्येन_उपनिष्क्रम्य यज्ञोपवीती दक्षिणपूर्वमन्तर्देशमभिमुख <उदीरताम् [१८.१.४४]> इति कर्षूं खनति प्रादेशमात्रीं तिर्यगङ्गुरिम् (कौशिकसूत्र ११,८[८७].१५) अवागङ्गुरिं पर्वमात्रीमित्येके (कौशिकसूत्र ११,८[८७].१६) <अपहता असुरा रक्षांसि ये पितृषदः [दृष्टव्यम्‌ Vष्ं २.२९, ंन्B २.३.३]>_इति प्राग्दक्षिणं पांसूनुदूहति (कौशिकसूत्र ११,८[८७].१७) कर्षूं च पाणी च प्रक्षाल्य_<एतद्वः पितरः पात्रम्> इति कर्षूमुदकेन पूरयित्वा (कौशिकसूत्र ११,८[८७].१८) अन्तरुपातीत्य मस्तुना नवनीतेन वा प्रतिनीय दक्षिणाञ्चमुद्वास्य (कौशिकसूत्र ११,८[८७].१९) द्वे काष्ठे गृहीत्वा_<उशन्तस्[१८.१.५६]>_इत्यादीपयति (कौशिकसूत्र ११,८[८७].२०) आदीप्तयोरेकं प्रतिनिदधाति (कौशिकसूत्र ११,८[८७].२१) <इहैवैधि धनसनिर्[१८.४.३८]> इत्येकं हृत्वा (कौशिकसूत्र ११,८[८७].२२) पांसुषु_आधाय_उपसमादधाति <ये निखाताः [१८.२.३४]> <समिन्धते [१८.४.४१ (ए.अ.)]> <ये तातृषुर्[१८.३.४७]> <ये सत्यासो [१८.३.४८]>_इति (कौशिकसूत्र ११,८[८७].२३) संभारानुपसादयति (कौशिकसूत्र ११,८[८७].२४) पर्युक्षणीं बर्हिरुदकुम्भं कंसं दर्विमाज्यमायवनं चरुं वासांस्याञ्जनमभ्यञ्जनमिति (कौशिकसूत्र ११,८[८७].२५) यदत्र_उपसमाहार्यं भवति तदुपसमाहृत्य (कौशिकसूत्र ११,८[८७].२६) अतो यज्ञोपवीती पित्र्युपवीती बर्हिर्गृहीत्वा विचृत्य संनहनं दक्षिणापरमष्टमदेशमभ्यवास्येत् (कौशिकसूत्र ११,८[८७].२७) बर्हिरुदकेन संप्रोक्ष्य <बर्हिषदः पितर [१८.१.५१]> <उपहूता नः पितरः [१८.३.४५]>_<अग्निष्वात्ताः पितरो [१८.३.४४]> <ये नः पितुः पितरो [१८.३.४६]> <येऽस्माकं [१८.४.६८]>_इति प्रस्तृणाति (कौशिकसूत्र ११,८[८७].२८) आयापनादीनि त्रीणि (कौशिकसूत्र ११,८[८७].२९) <उदीरताम् [१८.१.४४]> इति तिसृभिरुदपात्राणि_अन्वृचं निनयेत् (कौशिकसूत्र ११,८[८७].३०) अतः पित्र्युपवीती यज्ञोपवीती <ये दस्यवः [१८.२.२८]>_इत्युभयत आदीप्तमुल्मुकं त्रिः प्रसव्यं परिहृत्य निरस्यति (कौशिकसूत्र ११,८[८७].३१) पर्युक्ष्य (कौशिकसूत्र ११,९[८८].१) <ये रूपाणि प्रतिमुञ्चमाना असुराः सन्तः स्वधया चरन्ति । त्वं तानग्ने अप सेध दूरान् सत्याः नः पितॄणां सन्त्वाशिषः स्वहा स्वधा [, दृष्टव्यम्‌ Vष्२.२०, ंन्B २.३.४]>_इति हुत्वा कुम्भीपाकमभिघारयति (कौशिकसूत्र ११,९[८८].२) <अग्नय कव्यवाहनाय [१८.४.७१]>_इति जुहोति (कौशिकसूत्र ११,९[८८].३) यथानिरुप्तं द्वितीयाम् (कौशिकसूत्र ११,९[८८].४) <यमाय पितृमते [१८.४.७४] <स्वधा पितृभ्यः [१८.४.७८]> इति तृतीयाम् (कौशिकसूत्र ११,९[८८].५) <यद्वो अग्निर्[१८.४.६४]> इति सायवनान्_तण्डुलान् (कौशिकसूत्र ११,९[८८].६) <सं बर्हिर्[७.९८.१]> इति सदर्भान्_तण्डुलान् पर्युक्ष्य (कौशिकसूत्र ११,९[८८].७) अतो यज्ञोपवीती पित्र्युपवीती दर्व्या_उद्धरति (कौशिकसूत्र ११,९[८८].८) द्यौर्दर्विरक्षितापरिमितानुपदस्ता सा यथा द्यौर्दर्विरक्षितापरिमितानुपदस्ता_एवा [रेअद्_एवं? ॑ष्रौतकोश ई Eन्ग्. ई प्. ४८८] प्रततामहस्य_इयं दर्विरक्षितापरिमितानुपदस्ता (कौशिकसूत्र ११,९[८८].९) अन्तरिक्षं दर्विरक्षितापरिमितानुपदस्ता सा यथान्तरिक्षं दर्विरक्षितापरिमितानुपदस्ता_एवा [रेअद्_एवं? ॑ष्रौतकोश ई Eन्ग्. ई प्. ४८८] ततामहस्य_इयं दर्विरक्षितापरिमितानुपदस्ता (कौशिकसूत्र ११,९[८८].१०) पृथिवी दर्विरक्षितापरिमितानुपदस्ता सा यथा पृथिवी दर्विरक्षितापरिमितानुपदस्ता_एवा [रेअद्_एवं? ॑ष्रौतकोश ई Eन्ग्. ई प्. ४८८] ततस्य_इयं दर्विरक्षितापरिमितानुपदस्ता_इति (कौशिकसूत्र ११,९[८८].११) उद्धृत्याज्येन संनीय त्रीन् पिण्डान् संहतान्निदधाति_<एतत्ते प्रततामह [१८.४.७५]>_इति (कौशिकसूत्र ११,९[८८].१२) दक्षिणतः पत्नीभ्यः_<इदं वः पत्न्यः>_इति (कौशिकसूत्र ११,९[८८].१३) इदमाशंसूनामिदमाशंसमानानां स्त्रीणां पुंसां प्रकीर्णावशीर्णानां <येषां वयं दातारो ये चास्माकमुपजीवन्ति । तेभ्यः सर्वेभ्यः सपत्नीकेभ्यः स्वधावदक्षय्यमस्तु []>_इति त्रिः प्रसव्यं तण्डुलैः परिकिरति (कौशिकसूत्र ११,९[८८].१४) पिञ्जूलीराञ्जनं सर्पिषि पर्यस्य_<अद्ध्वं पितरः>_इति न्यस्यति (कौशिकसूत्र ११,९[८८].१५) <वद्ध्वं पितरो मा वोऽतोऽन्यत्पितरो योयुवत []>_इति सूत्राणि (कौशिकसूत्र ११,९[८८].१६) <अञ्जते व्यञ्जते [१८.३.१८]>_इत्यभ्यञ्जनम् (कौशिकसूत्र ११,९[८८].१७) आज्येनाविछिन्नं पिण्डानभिघारयति <ये च जीवा [१८.४.५७]> <ये ते पूर्वे परागता [१८.३.७२]> इति (कौशिकसूत्र ११,९[८८].१८) <अत्र पितरो मादयध्वं यथाभागं यथालोकमावृषायध्वम् [दृष्टव्यम्‌ Vष्ं २.३१, ंन्B २.३.६ इत्यादि]> इति (कौशिकसूत्र ११,९[८८].१९) <अत्र पत्न्यो मादयध्वं यथाभागं यथालोकमावृषायध्वम् [दृष्टव्यम्‌ Vष्ं २.३१, ंन्B २.३.६ इत्यादि]> इति (कौशिकसूत्र ११,९[८८].२०) यो_असौ_अन्तरग्निर्भवति तं प्रदक्षिणमवेक्ष्य तिस्रस्तामीस्ताम्यति (कौशिकसूत्र ११,९[८८].२१) प्रतिपर्यावृत्य_<अमीमदन्त पितरो यथाभागं यथालोकमावृषायिषत [दृष्टव्यम्‌ Vष्ं २.३१, ंन्B २.३.७ इत्यादि]>_इति (कौशिकसूत्र ११,९[८८].२२) <अमीमदन्त पत्न्यो यथाभागं यथालोकमावृषायिषत [दृष्टव्यम्‌ Vष्ं २.३१, ंन्B २.३.७ इत्यादि]>_इति (कौशिकसूत्र ११,९[८८].२३) <आपो अग्निं [१८.४.४०]>_इत्यद्भिरग्निमवसिच्य (कौशिकसूत्र ११,९[८८].२४) <पुत्रं पौत्रमभितर्पयन्तीर्[१८.४.३९]> इत्य्<आचामत मम प्रततामहास्ततामहास्तताः सपत्नीकास्तृप्यन्त्वाचामन्तु []>_इति प्रसव्यं परिषिच्य (कौशिकसूत्र ११,९[८८].२५) <वीरान्मे प्रततामहा दत्त वीरान्मे ततामहा दत्त वीरान्मे पितरो दत्त> पितॄन् वीरान् याचति (कौशिकसूत्र ११,९[८८].२६) <नमो वः पितर [१८.४.८१ f.]> इत्युपतिष्ठते (कौशिकसूत्र ११,९[८८].२७) <अक्षन्न् [१८.४.६१]> इत्युत्तरसिचमवधूय (कौशिकसूत्र ११,९[८८].२८) <परा यात [१८.४.६३]>_इति परायापयति (कौशिकसूत्र ११,९[८८].२९) अतः पित्र्युपवीती यज्ञोपवीती <यन्न इदं पितृभिः सह मनोऽभूत्तदुपाह्वयामि []>_इति मन उपाह्वयति (कौशिकसूत्र ११,१०[८९].१) <मनो न्वा ह्वामहे नाराशंसेन [चोर्र्. Bलोओम्fइएल्द्ङ्ङा १९०२ ५१४ एद्. नार] स्तोमेन । पितॄणां च मन्मभिः ॥ आ न एतु मनः पुनः क्रत्वे दक्षाय जीवसे । ज्योक्च सूर्यं दृशे ॥ पुनर्नः पितरो मनो ददातु दैव्यो [एद्. दैव्यः] जनः । जीवं व्रातं सचेमहि ॥ वयं सोम व्रते तव मनस्तनूषु बिभ्रतः प्रजावन्तः सचेमहि [ড়्ष्१९.२४.१०१३, Vऐत्ष्२०.९]> ॥ <ये सजाताः सुमनसो जीवा जीवेषु मामकाः । तेषा॑ं श्रीर्मयि कल्पतामस्मिन् गोष्ठे शत॑ं समाः [Vष्ं १९.४६ इत्यादि]>_इति (कौशिकसूत्र ११,१०[८९].२) यत्_चरुस्थाल्यामोदनावशिष्टं भवति तस्य_ऊष्मभक्षं भक्षयित्वा ब्राह्मणाय दद्यात् (कौशिकसूत्र ११,१०[८९].३) यदि ब्राह्मणो न लभ्येताप्सु_अभ्यवहरेत् (कौशिकसूत्र ११,१०[८९].४) निजाय दासाय_इत्येके (कौशिकसूत्र ११,१०[८९].५) मध्यमपिण्डं पत्न्यै पुत्रकामायै प्रयछति (कौशिकसूत्र ११,१०[८९].६) <आ धत्त पितरो गर्भं कुमारं पुष्करस्रजम् । यथेह पुरुषोऽसत् ॥ [Vष्ं २.३३ इत्यादि]> <आ त्वारुक्षद्वृषभः पृश्निरग्रियो मेधाविनं पितरो गर्भमा दधुः । आ त्वायं पुरुषो गमेत्पुरुषः पुरुषादधि । स ते श्रैष्ठ्याय जायतां स सोमे साम गायतु [, दृष्टव्यम्‌ .ऋV ९.८३.३]>_इति (कौशिकसूत्र ११,१०[८९].७) यदि_अन्या द्वितीया भवति_अपरं तस्यै (कौशिकसूत्र ११,१०[८९].८) प्राग्रतमं श्रोत्रियाय (कौशिकसूत्र ११,१०[८९].९) अथ यस्य भार्या दासी वा प्रद्राविणी भवति ये_अमी तण्डुलाः प्रसव्यं परिकीर्णा भवन्ति तान्_तस्यै प्रयछति (कौशिकसूत्र ११,१०[८९].१०) <अर्वाच्य्+उपसंक्राम [एद्. उपसंक्रमे] मा पराच्यप वर्तथाः [एद्. उप वस्तथा] । अन्नं प्राणस्य बन्धनं तेन बध्नामि त्वा मयि [, एमेन्दतिओन्स्Cअलन्द्, आह्नेन्चुल्त्प्. १९२, दृष्टव्यम्‌ ंन्B १.३.१०]>_इति (कौशिकसूत्र ११,१०[८९].११) पर्युक्षणीं समिधश्चादाय <मा प्र गाम [१३.१.५९]>_इत्याव्रज्य_<ऊर्जं बिभ्रद्[७.६०.१]> इति गृहानुपतिष्ठते (कौशिकसूत्र ११,१०[८९].१२) <रमध्वं मा बिभीतनास्मिन् गोष्ठे करीषिणः । ऊर्जं दुहानाः शुचयः शुचिव्रता गृहा जीवन्त उप वः सदेम ॥ ऊर्जं मे देवा अददुरूर्जं मनुष्या उत । ऊर्जं पितृभ्य आहार्षमूर्जस्वन्तो गृहा मम ॥ पयो मे देवा अददुः पयो मनुष्या उत । पयः पितृभ्य आहार्षं पयस्वन्तो गृहा मम ॥ [ড়्ष्१८.८२.३५]> <वीर्यं मे देवा अददुः वीर्यं मनुष्या उत । वीर्यं पितृभ्य आहार्षं वीरवन्तो गृहा मम ॥ [, दृष्टव्यम्‌ ড়्ष्१८.८२.४५]>_इति (कौशिकसूत्र ११,१०[८९].१३) अन्तरुपातीत्य समिधोऽभ्यादधाति । <अयं नो अग्निरध्यक्षोऽयं नो वसुवित्तमः । अस्योपसद्ये मा रिषामायं रक्षतु नः प्रजाम् ॥ अस्मिन् सहस्रं पुष्यास्मैधमानाः स्वे गृहे । इमं समिन्धिषीमह्यायुष्मन्तः सुवर्चसः ॥ [ড়्ष्२०.६१.५६]> <त्वमग्न ईडितो [१८.३.४२]>_<आ त्वाग्न इन्धीमहि [१८.४.८८]>_इति (कौशिकसूत्र ११,१०[८९].१४) <अभूद्दूतः [१८.४.६५]>_इत्यग्निं प्रत्यानयति (कौशिकसूत्र ११,१०[८९].१५) यदि सर्वः प्रणीतः स्याद्दक्षिणाग्नौ तु_एतदाहिताग्नेः (कौशिकसूत्र ११,१०[८९].१६) गृह्ये +ऽपि_अनाहिताग्नेः [एद्. गृह्येष्व्, दृष्टव्यम्‌ Cअलन्दाह्नेन्चुल्त्प्. १५] (कौशिकसूत्र ११,१०[८९].१७) <इदं चिन्मे कृतमस्तीदं चिच्छक्नवानि । पितरश्चिन्मा वेदन् []>_इति (कौशिकसूत्र ११,१०[८९].१८) यो ह यजते तं देवा विदुर्यो ददाति तं मनुष्या यः श्राद्धानि कुरुते तं पितरस्तं पितरः (Kऔश्ष्११ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे एकादशोऽध्यायः समाप्तः (कौशिकसूत्र १२,१[९०].१) मधुपर्कमाहारयिष्यन् दर्भानाहारयति (कौशिकसूत्र १२,१[९०].२) अथ विष्टरान् कारयति (कौशिकसूत्र १२,१[९०].३) स खलु_एकशाखमेव प्रथमं पाद्यं द्विशाखमासनं त्रिशाखं मधुपर्काय (कौशिकसूत्र १२,१[९०].४) स यावतो मन्येत तावत उपादाय विविच्य संपर्याप्य मूलानि च प्रान्तानि च यथाविस्तीर्ण इव स्यादित्युपोत्कृष्य मध्यदेशे_अभिसंनह्यति (कौशिकसूत्र १२,१[९०].५) <ऋतेन त्वा सत्येन त्वा तपसा त्वा कर्मणा त्वा>_इति संनह्यति (कौशिकसूत्र १२,१[९०].६) अथ ह सृजति_<अतिसृष्टो द्वेष्टा योऽस्मान् द्वेष्टि यं च वयं द्विष्मः> (कौशिकसूत्र १२,१[९०].७) अस्य च दातुरिति दातारमीक्षते (कौशिकसूत्र १२,१[९०].८) अथ_उदकमाहारयति पाद्यं भो इति (कौशिकसूत्र १२,१[९०].९) हिरण्यवर्णाभिः प्रतिमन्त्र्य दक्षिणं पादं प्रथमं प्रकर्षति । मयि ब्रह्म च तपश्च धारयाणीति (कौशिकसूत्र १२,१[९०].१०) दक्षिणे प्रक्षालिते सव्यं प्रकर्षति । मयि क्षत्रं च विशस्च धारयाणीति (कौशिकसूत्र १२,१[९०].११) प्रक्षालितौ_अनुमन्त्रयते । <इमौ पादाववनिक्तौ ब्राह्मणं यशसावताम् । आपः पादावनेजनीर्द्विषन्तं निर्दहन्तु मे [, दृष्टव्यम्‌ ऐतरेयब्राह्मण ८.२७]> (कौशिकसूत्र १२,१[९०].१२) अस्य च दातुरिति दातारमीक्षते (कौशिकसूत्र १२,१[९०].१३) अथासनमाहारयति । सविष्टरमासनं भो इति (कौशिकसूत्र १२,१[९०].१४) तस्मिन् प्रत्यङ्मुख उपविशति (कौशिकसूत्र १२,१[९०].१५) <विमृग्वरीं पृथिवीम् [१२.१.२९]> इत्येतया विष्टरे पादौ प्रतिष्ठाप्य_<अधिष्ठितो द्वेष्टा योऽस्मान् द्वेष्टि यं च वयं द्विष्मः> (कौशिकसूत्र १२,१[९०].१६) अस्य च दातुरिति दातारमीक्षते (कौशिकसूत्र १२,१[९०].१७) अथ_उदकमाहारयति_अर्घ्यं भो इति (कौशिकसूत्र १२,१[९०].१८) तत्प्रतिमन्त्रयते । <अन्नानां मुखमसि मुखमहं श्रेष्ठः समानानां भूयासम् । आपोऽमृतं स्थामृतं मा कृणुत दासास्माकं बहवो भवन्त्यश्वावद्गोमन्मय्यस्तु पुष्टों (एद्. पुष्टमों॑ दृष्टव्यम्‌ Cअलन्द्, Kल्. ष्छ्र्., प्. ४५, न्. १) भूर्भुवः स्वर्जनदोम्> इति (कौशिकसूत्र १२,१[९०].१९) तूष्णीमध्यात्मं निनयति (कौशिकसूत्र १२,१[९०].२०) <तेजोऽस्यमृतमसि>_इति ललाटमालभते (कौशिकसूत्र १२,१[९०].२१) अथ_उदकमाहारयति_आचमनीयं भो इति (कौशिकसूत्र १२,१[९०].२२) जीवाभिराचम्य (कौशिकसूत्र १२,१[९०].२३) अथास्मै मधुपर्कं वेदयन्ते द्व्यनुचरो मधुपर्को भो इति (कौशिकसूत्र १२,१[९०].२४) द्वाभ्यां शाखाभ्यामधस्तादेकया_उपरिष्टाद्सापिधानम् (कौशिकसूत्र १२,१[९०].२५) <मधु वाता ऋतायते [ড়्ष्१९.४५.५]>_इत्येताभिरेवाभिमन्त्रणम् (कौशिकसूत्र १२,१[९०].२६) तथा प्रतिमन्त्रणम् (कौशिकसूत्र १२,२[९१].१) <मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्गावो भवन्तु नः ॥ मधु नक्तमुतोषसो मधुमत्पार्थिवं रजः । माध्वीर्नः सन्त्वोषधीः ॥ मधुमान्नो वनस्पतिर्मधुमा॑मस्तु सूर्यः । मधु द्यौरस्तु नः पिता ॥ [ড়्ष्१९.४५.५७]> (कौशिकसूत्र १२,२[९१].२) तत्<सूर्यस्य त्वा चक्षुषा प्रतीक्षे [ড়्ष्२०.५७.११, Vऐत्ष्३.८, ङ्B २.१.२, इत्यादि]> इति प्रतीक्षते (कौशिकसूत्र १२,२[९१].३) <अयुतोऽहम् [१९.५१.१]> <देवस्य त्वा सवितुः [१९.५१.२]>_इति प्रतिगृह्य पुरोमुखं प्राग्दण्डं निदधाति (कौशिकसूत्र १२,२[९१].४) <पृथिव्यास्त्वा नाभौ सादयाम्यदित्या उपस्थे [Vऐत्ष्३.१०, इत्यादि]>_इति भूमौ प्रतिष्ठाप्य (कौशिकसूत्र १२,२[९१].५) द्वाभ्यामङ्गुलिभ्यां प्रदक्षिणमाचाल्यानामिकयाङ्गुल्याङ्गुष्ठेन च संगृह्य प्राश्नाति (कौशिकसूत्र १२,२[९१].६) <ओं भूस्तत्सवितुर्वरेण्यं भूः स्वाहा [.ऋV ३.६२.१० ए.अ.]>_इति प्रथमम् (कौशिकसूत्र १२,२[९१].७) <भर्गो देवस्य धीमहि भुवः स्वाहा [.ऋV ३.६२.१० ए.अ.]>_इति द्वितीयम् (कौशिकसूत्र १२,२[९१].८) <धियो यो नः प्रचोदयात्स्वः स्वाहा [.ऋV ३.६२.१० ए.अ.]>_इति तृतीयम् (कौशिकसूत्र १२,२[९१].९) <वयं देवस्य धीमहि जनत्स्वाहा [.ऋV ३.६२.१० ए.अ.]>_इति चतुर्थम् (कौशिकसूत्र १२,२[९१].१०) <तुरं देवस्य भोजनं वृधत्स्वाहा [, दृष्टव्यम्‌ .ऋV ५.८२.१]>_इति पञ्चमम् (कौशिकसूत्र १२,२[९१].११) <करत्स्वाहा>_इति षष्ठम् (कौशिकसूत्र १२,२[९१].१२) <रुहत्स्वाहा>_इति सप्तमम् (कौशिकसूत्र १२,२[९१].१३) <महत्स्वाहा>_इत्यष्टमम् (कौशिकसूत्र १२,२[९१].१४) <तत्स्वाहा>_इति नवमम् (कौशिकसूत्र १२,२[९१].१५) <शं स्वाहा>_इति दशमम् (कौशिकसूत्र १२,२[९१].१६) <ओम्> इति एकादशम् (कौशिकसूत्र १२,२[९१].१७) तूष्णीं द्वादशम् (कौशिकसूत्र १२,२[९१].१८) तस्य भूयोमात्रमिव भुक्त्वा ब्राह्मणाय श्रोत्रियाय प्रयछेत् (कौशिकसूत्र १२,२[९१].१९) श्रोत्रियालाभे वृषलाय प्रयछेत् (कौशिकसूत्र १२,२[९१].२०) अथाप्ययं निगमो भवति । <सोममेतत्पिबति यत्किं चाश्नीत ब्राह्मणाः । माब्राह्मणायोच्छिष्टं +दात्[एम्. Fअल्क्, म्.च्.॑ एद्.।ॢआट्य्॑ष्ष्दात] मा सोमं पात्वसोमपः [दृष्टव्यम्‌ ळाट्य्॑ष्ष्२.१२.१७]>_इति (कौशिकसूत्र १२,३[९२].१) दधि च मधु ब्राह्मो मधुपर्कः (कौशिकसूत्र १२,३[९२].२) पायस ऐन्द्रो मधुपर्कः (कौशिकसूत्र १२,३[९२].३) मधु चाज्यं च सौम्यो मधुपर्कः (कौशिकसूत्र १२,३[९२].४) मन्थश्चाज्यं च पौष्णो मधुपर्कः (कौशिकसूत्र १२,३[९२].५) क्षीरं चाज्यं च सारस्वतो मधुपर्कः (कौशिकसूत्र १२,३[९२].६) सुरा चाज्यं च मौसलो मधुपर्कः (कौशिकसूत्र १२,३[९२].७) स खलु_एष द्वये भवति सौत्रामण्यां च राजसूये च (कौशिकसूत्र १२,३[९२].८) उदकं चाज्यं च वारुणो मधुपर्कः (कौशिकसूत्र १२,३[९२].९) तैलं चाज्यं च श्रावणो मधुपर्कः (कौशिकसूत्र १२,३[९२].१०) तैलश्च पिण्डश्च पारिव्राजको मधुपर्कः (कौशिकसूत्र १२,३[९२].११) इति खलु_एष नवविधो मधुपर्को भवति (कौशिकसूत्र १२,३[९२].१२) अथास्मै गां वेदयन्ते गौर्भो इति (कौशिकसूत्र १२,३[९२].१३) तान् प्रतिमन्त्रयते । <भूतमसि भवदस्यन्नं प्राणो बहुर्भव । ज्येष्ठं यन्नाम नामत ओं भूर्भुवः स्वर्जनदोम् []> इति (कौशिकसूत्र १२,३[९२].१४) अतिसृजति । <मातादित्यानां दुहिता वसूनां स्वसा रुद्राणाममृतस्य नाभिः । प्र णो वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट ॥ [दृष्टव्यम्‌ .ऋV ८.१०१.१५]> ओं तृणानि गौरत्त्विति आह (कौशिकसूत्र १२,३[९२].१५) <सूयवसाद्[७.७३.११]> इति प्रतिष्ठमानामनुमन्त्रयते (कौशिकसूत्र १२,३[९२].१६) नालोहितो मधुपर्को भवति (कौशिकसूत्र १२,३[९२].१७) नानुज्ञानमधीमहे_इति कुरुत_इत्येव ब्रूयात् (कौशिकसूत्र १२,३[९२].१८) <स्वधिते मैनं हिंसीः [Vष्ं ६.१५, ंन्B १.६.६]>_इति शस्त्रं प्रयछति (कौशिकसूत्र १२,३[९२].१९) पाप्मानं मेऽप जहीति कर्तारमनुमन्त्रयते (कौशिकसूत्र १२,३[९२].२०) आग्नेयीं वपां कुर्युः (कौशिकसूत्र १२,३[९२].२१) अपि वा ब्राह्मण एव प्राश्नीयात्तद्देवतं हि तद्धविर्भवति (कौशिकसूत्र १२,३[९२].२२) अथास्मै स्नानमनुलेपनं मालाभ्यञ्जनमिति (कौशिकसूत्र १२,३[९२].२३) यदत्र_उपसमाहार्यं भवति तदुपसमाहृत्य (कौशिकसूत्र १२,३[९२].२४) अथ_उपासकाः प्राय_उपासकाः स्मो भो इति वेदयन्ते (कौशिकसूत्र १२,३[९२].२५) तान् प्रतिमन्त्रयते । <भूयांसो भूयास्म ये च नो भूयसः कार्ष्टापि च नोऽन्ये भूयांसो जायन्ताम्> (कौशिकसूत्र १२,३[९२].२६) अस्य च दातुरिति दातारमीक्षते (कौशिकसूत्र १२,३[९२].२७) अथान्नाहाराः प्राप्यान्नाहाराः स्मो भो इति वेदयन्ते (कौशिकसूत्र १२,३[९२].२८) तान् प्रतिमन्त्रयते । <अन्नादा भूयास्म ये च नोऽनादान् कार्ष्टापि च नोऽन्येऽन्नादा भूयांसो जायन्ताम्> (कौशिकसूत्र १२,३[९२].२९) अस्य च दातुरिति दातारमीक्षते (कौशिकसूत्र १२,३[९२].३०) आहृते_अन्ने जुहोति <यत्काम कामयमाना [१९.५२.१, सकल fओल्लोwस्थुस्ড়्ष्१.३०.५]> इत्येतया (कौशिकसूत्र १२,३[९२].३१) <यत्काम कामयमाना इदं कृण्मसि ते हविः । तन्नः सर्वं समृध्यतामथैतस्य हविषो वीहि स्वाहा [१९.५२.१, सकल थुस्ড়्ष्१.३०.५]>_इति (कौशिकसूत्र १२,३[९२].३२) एष आचार्यकल्प एष ऋत्विक्कल्प एष संयुक्तकल्प एष विवाहकल्प एषो_अतिथिकल्प एषोऽतिथिकल्पः (Kऔश्ष्१२ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे द्वादशोऽध्यायः समाप्तः (कौशिकसूत्र १३,१[९३].१) अथाद्भुतानि (कौशिकसूत्र १३,१[९३].२) वर्षे (कौशिकसूत्र १३,१[९३].३) यक्षेषु (कौशिकसूत्र १३,१[९३].४) गोमायुवदने (कौशिकसूत्र १३,१[९३].५) कुले कलहिनि (कौशिकसूत्र १३,१[९३].६) भूमिचले (कौशिकसूत्र १३,१[९३].७) आदित्योपप्लवे (कौशिकसूत्र १३,१[९३].८) चन्द्रमसश्च (कौशिकसूत्र १३,१[९३].९) औषस्यामनुद्यत्याम् (कौशिकसूत्र १३,१[९३].१०) समायां दारुणायाम् (कौशिकसूत्र १३,१[९३].११) उपतारकशङ्कायाम् (कौशिकसूत्र १३,१[९३].१२) ब्राह्मणेषु_आयुधिषु (कौशिकसूत्र १३,१[९३].१३) दैवतेषु नृत्यत्सु च्योदत्सु हसत्सु गायत्सु (कौशिकसूत्र १३,१[९३].१४) लाङ्गलयोः संसर्गे (कौशिकसूत्र १३,१[९३].१५) रज्ज्वोस्तन्वोश्च (कौशिकसूत्र १३,१[९३].१६) अग्निसंसर्गे (कौशिकसूत्र १३,१[९३].१७) यमवत्सायां हवि (कौशिकसूत्र १३,१[९३].१८) वडवागर्दभ्योर्मानुष्यां च (कौशिकसूत्र १३,१[९३].१९) यत्र धेनवो लोहितं दुहते (कौशिकसूत्र १३,१[९३].२०) अनडुहि धेनुं धयति (कौशिकसूत्र १३,१[९३].२१) धेनौ धेनुं धयन्त्याम् (कौशिकसूत्र १३,१[९३].२२) आकाशफेने (कौशिकसूत्र १३,१[९३].२३) पिपीलिकानाचारे (कौशिकसूत्र १३,१[९३].२४) नीलमक्षानाचारे (कौशिकसूत्र १३,१[९३].२५) मधुमक्षानाचारे (कौशिकसूत्र १३,१[९३].२६) अनाज्ञाते (कौशिकसूत्र १३,१[९३].२७) अवदीर्णे (कौशिकसूत्र १३,१[९३].२८) अनुदक उदकोन्मीले (कौशिकसूत्र १३,१[९३].२९) तिलेषु समतैलेषु (कौशिकसूत्र १३,१[९३].३०) हविःषु_अभिमृष्टेषु (कौशिकसूत्र १३,१[९३].३१) प्रसव्येषु_आवर्तेषु (कौशिकसूत्र १३,१[९३].३२) यूपे विरोहति (कौशिकसूत्र १३,१[९३].३३) उल्कायाम् (कौशिकसूत्र १३,१[९३].३४) धूमकेतौ सप्तर्षीनुपधूपयति (कौशिकसूत्र १३,१[९३].३५) नक्षत्रेषु पतापतेषु (कौशिकसूत्र १३,१[९३].३६) मांसमुखे निपतति (कौशिकसूत्र १३,१[९३].३७) अनग्नौ_अवभासे (कौशिकसूत्र १३,१[९३].३८) अग्नौ श्वसति (कौशिकसूत्र १३,१[९३].३९) सर्पिषि तैले मधुनि च विष्यन्दे (कौशिकसूत्र १३,१[९३].४०) ग्राम्ये_अग्नौ शालां दहति (कौशिकसूत्र १३,१[९३].४१) आगन्तौ च (कौशिकसूत्र १३,१[९३].४२) वंशे स्फोटति (कौशिकसूत्र १३,१[९३].४३) कुम्भोदधाने विकसति_उखायां सक्तुधान्यां च (कौशिकसूत्र १३,२[९४].१) अथ यत्र_एतानि वर्षाणि वर्षन्ति घृतं मांसं मधु च यद्धिरण्यं यानि चापि_अन्यानि घोराणि वर्षाणि वर्षन्ति तत्पराभवति कुलं वा ग्रामो वा जनपदो वा (कौशिकसूत्र १३,२[९४].२) तत्र राजा भूमिपतिर्विद्वांसं ब्रह्माणमिछेत् (कौशिकसूत्र १३,२[९४].३) एष ह वै विद्वान् यद्भृग्वङ्गिरोवित् (कौशिकसूत्र १३,२[९४].४) एते ह वा अस्य सर्वस्य शमयितारः पालयितारो यद्भृग्वङ्गिरसः (कौशिकसूत्र १३,२[९४].५) स आह_उपकल्पयध्वमिति (कौशिकसूत्र १३,२[९४].६) तदुपकल्पयन्ते कंसमहते वसने शुद्धमाज्यं शान्ता ओषधीर्नवमुदकुम्भम् (कौशिकसूत्र १३,२[९४].७) त्रीणि पर्वाणि कर्मणः पौर्णमास्यमावास्ये पुण्यं नक्षत्रम् (कौशिकसूत्र १३,२[९४].८) अपि चेदेव यदा कदा आर्ताय कुर्यात् (कौशिकसूत्र १३,२[९४].९) स्नातो_अहतवसनः सुरभिर्व्रतवान् कर्मण्य उपवसति_एकरात्रं त्रिरात्रं षड्रात्रं द्वादशरात्रं वा (कौशिकसूत्र १३,२[९४].१०) द्वादश्याः प्रातर्यत्र_एवादः पतितं भवति तत उत्तरमग्निमुपसमाधाय (कौशिकसूत्र १३,२[९४].११) परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रमुपसाद्य परिचरणेनाज्यं परिचर्य (कौशिकसूत्र १३,२[९४].१२) नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ च (कौशिकसूत्र १३,२[९४].१३) अथ जुहोति (कौशिकसूत्र १३,२[९४].१४) <घृतस्य धारा इह या वर्षन्ति पक्वं मांसं मधु च यद्धिरण्यम् । द्विषन्तमेता अनु यन्तु वृष्टयोऽपां वृष्टयो बहुलाः सन्तु मह्यम् ॥ लोहितवर्षं मधुपांसुवर्षं यद्वा वर्षं घोरमनिष्टमन्यत् । द्विषन्तमेते अनु यन्तु सर्वे पराञ्चो यन्तु निर्वर्तमानाः ॥ अग्नये स्वाहा []>_इति हुत्वा (कौशिकसूत्र १३,२[९४].१५) <दिव्यो गन्धर्वो [२.२.१]>_इति मातृनामभिर्जुहुयात् (कौशिकसूत्र १३,२[९४].१६) वरमनड्वाहं ब्राह्मणः कर्त्रे दद्यात् (कौशिकसूत्र १३,२[९४].१७) सीरं वैश्यो_अश्वं प्रादेशिको ग्रामवरं राजा (कौशिकसूत्र १३,२[९४].१८) सा तत्र प्रायश्चित्तिः (कौशिकसूत्र १३,३[९५].१) अथ यत्र_एतानि यक्षाणि दृश्यन्ते तद्यथा_एतत्_मर्कटः श्वापदो वायसः पुरुषरूपमिति तदेवमाशङ्क्यमेव भवति (कौशिकसूत्र १३,३[९५].२) तत्र जुहुयात् (कौशिकसूत्र १३,३[९५].३) <यन्मर्कटः श्वापदो वायसो यदीदं राष्ट्रं जातवेदः पताति पुरुषरक्षसं इषिरं यत्पताति । द्विषन्तमेते अनु यन्तु सर्वे पराञ्चो यन्तु निवर्तमानाः ॥ अग्नये स्वाहा []>_इति हुत्वा (कौशिकसूत्र १३,३[९५].४) <दिव्यो गन्धर्वो [२.२.१]>_इति मातृनामभिर्जुहुयात् (कौशिकसूत्र १३,३[९५].५) सा तत्र प्रायश्चित्तिः (कौशिकसूत्र १३,४[९६].१) अथ ह गोमायू नाम मण्डूकौ यत्र वदतस्तद्यत्_मन्यन्ते मां प्रति वदतो मां प्रति वदत इति तदेवमाशङ्क्यमेव भवति (कौशिकसूत्र १३,४[९६].२) तत्र जुहुयात् (कौशिकसूत्र १३,४[९६].३) <यद्गोमायू वदतो जातवेदोऽन्यया वाचाभि जञ्जभातः । रथंतरं बृहच्च सामैतद्द्विषन्तमेतावभि नानदैताम् ॥ रथंतरेण त्वा बृहच्छमयामि बृहता त्वा रथटरं शमयामि । इन्द्राग्नी त्वा ब्रह्मणा वावृधानावायुष्मन्तावुत्तमं त्वा कराथः ॥ इन्द्राग्निभ्यां स्वाहा [, ড়्ष्१.८३.४ द्]>_इति हुत्वा (कौशिकसूत्र १३,४[९६].४) <दिव्यो गन्धर्वो [२.२.१]>_इति मातृनामभिर्जुहुयात् (कौशिकसूत्र १३,४[९६].५) सा तत्र प्रायश्चित्तिः (कौशिकसूत्र १३,५[९७].१) अथ यत्र_एतत्कुलं कलहि भवति तन्निरृतिगृहीतमित्याचक्षते (कौशिकसूत्र १३,५[९७].२) तत्र जुहुयात् (कौशिकसूत्र १३,५[९७].३) <आरादरातिम् [८.२.१२]> इति द्वे (कौशिकसूत्र १३,५[९७].४) <अयाश्चाग्नेऽस्यनभिशस्तिश्च सत्यमित्त्वमया असि । अयासा मनसा कृतोऽयास्+सन् [एद्.ऽयास्य] हव्यमूहिषे । आ [+अया?] नो धेहि भेषजम् । [ंष्१.४.३५१.१०, Kष्५.४५७.१४, Kऔश्ष्१.५.१२ इत्यादि]> ॥ <स्वाहा>_इत्यग्नौ हुत्वा (कौशिकसूत्र १३,५[९७].५) तत्र_एव_एतान् होमाञ्जुहुयात् (कौशिकसूत्र १३,५[९७].६) <आरादग्निं क्रव्यादं निरूहञ्जिवातवे ते परिधिं दधामि । इन्द्राग्नी त्वा ब्रह्मणा वावृधानावायुष्मन्तावुत्तमं त्वा कराथः ॥ इन्द्राग्निभ्यां स्वाहा [८.२.९ द्, ড়्ष्१६.३.८ द्॑ ড়्ष्१.८३.४ द्]>_इति हुत्वा (कौशिकसूत्र १३,५[९७].७) <अपेत एतु निरृतिर्[ড়्ष्१९.२३.४ f.]> इत्यनेन सूक्तेन जुहुयात् (कौशिकसूत्र १३,५[९७].८) <अपेत एतु निरृतिर्नेहास्या अपि किं चन । अपास्याः सत्वनः पाशान्मृत्यूनेकशतं नुदे ॥ ये ते पाशा एकशतं मृत्यो मर्त्याय हन्तवे । तांस्ते यज्ञस्य मायया सर्वा॑मप यजामसि ॥ निरितो यन्तु नैरृत्या मृत्यव एकशतं परः सेधामैषां यत्तमः प्राणं ज्योतिश्च दध्महे ॥ [ড়्ष्१९.२३.४६]> <ये ते शतं वरुण ये सहस्रं यज्ञियाः पाशा वितता महान्तः । तेभ्यो अस्मान् वरुणः सोम इन्द्रो विश्वे मुञ्चन्तु मरुतः स्वर्काः ॥ [ড়्ष्१८.८२.७]> <ब्रह्म भ्राजदुदगादन्तरिक्षं दिवं च ब्रह्मावाधूष्टामृतेन मृत्युम् । ब्रह्मोपद्रष्टा सुकृतस्य साक्षाद्ब्रह्मास्मदप हन्तु शमलं तमश्च ॥ [ড়्ष्१६.१५०.२]> (कौशिकसूत्र १३,५[९७].९) वरमनड्वाहमिति समानम् (कौशिकसूत्र १३,६[९८].१) अथ यत्र_एतद्भूमिचलो भवति तत्र जुहुयात् (कौशिकसूत्र १३,६[९८].२) <अच्युता द्यौरच्युतमन्तरिक्षमच्युता भूमिर्दिशो अच्युता इमाः । अच्युतोऽयं रोधावरोधाद्ध्रुवो राष्ट्रे प्रति तिष्ठामि जिष्णुः ॥ यथा सूर्यो दिवि रोचते यथान्तरिक्षं मातरिश्वाभिवस्ते । यथाग्निः पृथिवीमा विवेशैवायं ध्रुवो अच्युतो अस्तु जिष्णुः ॥ यथा देवो दिवि स्तनयन् वि राजति यथा वर्षं वर्षकामाय वर्षति । यथापः पृथिवीमा विविशुरेवायं ध्रुवो अच्युतो अस्तु जिष्णुः ॥ यथा पुरीषं नद्यः समुद्रमहोरात्रे अप्रमादं क्षरन्ति । एवा विशः संमनसो हवं मेऽप्रमादमिहोप यन्तु सर्वाः ॥ दृंहतां देवी सह देवताभिर्ध्रुवा दृढाच्युता मे अस्तु भूमिः । सर्वपाप्मानमपनुद्यास्मदमित्रान्मे द्विषतोऽनु विध्यतु ॥ पृथिव्यै स्वाहा [दृष्टव्यम्‌ आVড়रिश्११.१.११]>_इति हुत्वा (कौशिकसूत्र १३,६[९८].३) <आ त्वाहार्षम् [६.८७.१]>_<ध्रुवा द्यौर्[६.८८.१]>_<सत्यं बृहद्[१२.१.१]> इत्येतेनानुवाकेन जुहुयात् (कौशिकसूत्र १३,६[९८].४) सा तत्र प्रायश्चित्तिः (कौशिकसूत्र १३,७[९९].१) अथ यत्र_एतदादित्यं तमो गृह्णाति तत्र जुहुयात् (कौशिकसूत्र १३,७[९९].२) <दिव्यं चित्रमृतूया कल्पयन्तमृतूनामुग्रं भ्रमयन्नुदेति । तदादित्यः प्रतरन्नेतु सर्वत आप इमां लोकाननुसंचरन्ति ॥ ओषधीभिः संविदानाविन्द्राग्नी त्वाभि रक्षताम् । ऋतेन सत्यवाकेन तेन सर्वं तमो जहि ॥ आदित्याय स्वाहा []>_इति हुत्वा (कौशिकसूत्र १३,७[९९].३) <विषासहिं सहमानं [१७.१.१]>_इत्यनेन सूक्तेन जुहुयात् (कौशिकसूत्र १३,७[९९].४) रोहितैरुपतिष्ठते (कौशिकसूत्र १३,७[९९].५) सा तत्र प्रायश्चित्तिः (कौशिकसूत्र १३,८[१००].१) अथ यत्र_एतत्_चन्द्रमसमुपप्लवति तत्र जुहुयात् (कौशिकसूत्र १३,८[१००].२) <राहू राजानं त्सरति स्वरन्तमैनमिह हन्ति पूर्वः । सहस्रमस्य तन्व इह नाश्याः शतं तन्वो वि नश्यन्तु ॥ चन्द्राय स्वाहा []>_इति हुत्वा (कौशिकसूत्र १३,८[१००].३) <शकधूमं नक्षत्राणि [६.१२८.१]>_इत्येतेन सूक्तेन जुहुयात् (कौशिकसूत्र १३,८[१००].४) सा तत्र प्रायश्चित्तिः (कौशिकसूत्र १३,९[१०१].१) अथ यत्र_एतदौषसी न_उदेति तत्र जुहुयात् (कौशिकसूत्र १३,९[१०१].२) <उदेतु श्रीरुषसः कल्पयन्ती पूल्यान् कृत्वा पलित एतु चारः । ऋतून् बिभ्रती बहुधा विरूपान्मह्यं भव्यं विदुषी कल्पयाति ॥ औषस्यै स्वाहा []>_इति हुत्वा (कौशिकसूत्र १३,९[१०१].३) <दिव्यो गन्धर्वो [२.२.१]>_इति मातृनामभिर्जुहुयात् (कौशिकसूत्र १३,९[१०१].४) सा तत्र प्रायश्चित्तिः (कौशिकसूत्र १३,१०[१०२].१) अथ यत्र_एतत्समा दारुणा भवति तत्र जुहुयात् (कौशिकसूत्र १३,१०[१०२].२) <या समा रुशत्येति प्राजापत्यान् वि धूनुते । तृप्तिं यां देवता विदुस्तां त्वा सं कल्पयामसि ॥ व्याधकस्य मातरं हिरण्यकुक्षीं हरिणीम् । तां त्वा सं कल्पयामसि ॥ यत्ते घोरं यत्ते विषं तद्द्विषत्सु नि दध्मस्यमुष्मिन्न् []> इति ब्रूयात् (कौशिकसूत्र १३,१०[१०२].३) <शिवेनास्माकं समे शान्त्या सहायुषा समायै स्वाहा []>_इति हुत्वा (कौशिकसूत्र १३,१०[१०२].४) <समास्त्वाग्न [२.६.१]>_इत्येतेन सूक्तेन जुहुयात् (कौशिकसूत्र १३,१०[१०२].५) सा तत्र प्रायश्चित्तिः (कौशिकसूत्र १३,११[१०३].१) अथ यत्र_एतदुपतारकाः शङ्कन्ते तत्र जुहुयात् (कौशिकसूत्र १३,११[१०३].२) <रेवतीः शुभ्रा इषिरा मदन्तीस्त्वचो धूममनु ताः सं विशन्तु । परेणापः पृथिवीं सं विशन्त्वाप इमां लोकाननुसंचरन्तु ॥ अद्भ्यः स्वाहा []>_इति हुत्वा (कौशिकसूत्र १३,११[१०३].३) <समुत्पतन्तु [४.१५.१]> <प्र नभस्व [७.१८.१]>_इति वर्षीर्जुहुयात् (कौशिकसूत्र १३,११[१०३].४) सा तत्र प्रायश्चित्तिः (कौशिकसूत्र १३,१२[१०४].१) अथ यत्र_एतद्ब्राह्मणा आयुधिनो भवन्ति तत्र जुहुयात् (कौशिकसूत्र १३,१२[१०४].२) <य आसुरा मनुष्या आत्तधन्वः पुरुषमुखाश्चरानिह । देवा वयं मनुष्यास्ते देवाः प्र विशामसि ॥ इन्द्रो नो अस्तु पुरोगवः स नो रक्षतु सर्वतः । इन्द्राय स्वाहा [, दृष्टव्यम्‌ आVড়रिश्३२.२९]>_इति हुत्वा (कौशिकसूत्र १३,१२[१०४].३) <मा नो विदन् [१.१९.१]> <नमो देववधेभ्यो [६.१३.१]>_इति एताभ्यां सूक्ताभ्यां जुहुयात् (कौशिकसूत्र १३,१२[१०४].४) सा तत्र प्रायश्चित्तिः (कौशिकसूत्र १३,१३[१०५].१) अथ यत्र_एतद्दैवतानि नृत्यन्ति च्योतन्ति हसन्ति गायन्ति वान्यानि वा रूपाणि कुर्वन्ति <य आसुरा मनुष्या [, दृष्टव्यम्‌ Kऔश्ष्१०४.२]> <मा नो विदन् [१.१९.१]> <नमो देववधेभ्यो [६.१३.१]>_इति अभयैर्जुहुयात् (कौशिकसूत्र १३,१३[१०५].२) सा तत्र प्रायश्चित्तिः (कौशिकसूत्र १३,१४[१०६].१) अथ यत्र_एतत्_लाङ्गले संसृजतः पुरोडाशं श्रपयित्वा (कौशिकसूत्र १३,१४[१०६].२) अरण्यस्यार्धमभिव्रज्य (कौशिकसूत्र १३,१४[१०६].३) प्राचीं सीतां स्थापयित्वा (कौशिकसूत्र १३,१४[१०६].४) सीताया मध्ये प्राञ्चमिध्ममुपसमाधाय (कौशिकसूत्र १३,१४[१०६].५) परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिः शम्याः परिधीन् कृत्वा (कौशिकसूत्र १३,१४[१०६].६) अथ जुहोति । <वित्तिरसि पुष्टिरसि श्रीरसि प्राजापत्यानां तां त्वाहं मयि पुष्टिकामो जुहोमि स्वाहा []> (कौशिकसूत्र १३,१४[१०६].७) <कुमुद्वती पुष्करिणी सीता सर्वाङ्गशोभनी । कृषिः सहस्रप्रकारा प्रत्यष्टा श्रीरियं मयि ॥ उर्वीं त्वाहुर्मनुष्याः श्रियं त्वा मनसो विदुः । आशयेऽन्नस्य नो धेह्यनमीवस्य शुष्मिणः ॥ [, दृष्टव्यम्‌ ॑षाङ्ख्ङ्ष्१.२७.७ इत्यादि]> <पर्जन्यपत्नि हरिण्यभिजितास्यभि नो वद । कालनेत्रे हविषो नो जुषस्व तृप्तिं नो धेहि द्विपदे चतुष्पदे ॥ याभिर्देवा असुरानकल्पयन् यातून्मनून् गन्धर्वान् राक्षसांश्च । ताभिर्नो अद्य सुमना उपा गहि सहस्रापोषं सुभगे रराणा ॥ [, दृष्टव्यम्‌ ७.४८.२ द्]> <हिरण्यस्रक्पुष्करिणी श्यामा सर्वाङ्गशोभनी । कृषिर्हिरण्यप्रकारा प्रत्यष्टा श्रीरियं मयि ॥ अश्विभ्यां देवि सह संविदाना इन्द्रेण राधेन सह पुष्ट्या न आ गहि । विशस्त्वा रासन्तां प्रदिशोऽनु सर्वा अहोरात्रार्धमासमासा आर्तवा ऋतुभिः सह ॥ भर्त्री देवानामुत मर्त्यानां भर्त्री प्रजानामुत मानुषाणाम् । हस्तिभिरितरासैः क्षेत्रसारथिभिः सह । हिरण्यैरश्वैरा गोभिः प्रत्यष्टा श्रीरियं मयि ॥ []> (कौशिकसूत्र १३,१४[१०६].८) अत्र शूनासीराणि_अनुयोजयेत् (कौशिकसूत्र १३,१४[१०६].९) वरमनड्वाहमिति समानम् (कौशिकसूत्र १३,१५[१०७].१) अथ यत्र_एतत्सृजन्त्योर्वा कृतन्त्योर्वा नाना तन्तू संसृजतो <मनायै तन्तुं प्रथमं [ড়्ष्२.८७.१]>_इत्येतेन सूक्तेन जुहुयात् (कौशिकसूत्र १३,१५[१०७].२) <मनायै तन्तुं प्रथमं पश्येदन्या अतन्वत । तन्नारीः प्र ब्रवीमि वः साध्वीर्वः सन्तूर्वरीः ॥ साधुर्वस्तन्तुर्भवतु साधुरेतु रथो वृतः । अथो होर्वरीर्यूयं प्रातर्वोढवे धावत ॥ खर्गला इव पत्वरीरपामुग्रमिवायनम् । पतन्तु पत्वरीरिवोर्वरीः साधुना पथा ॥ अपाच्यौ ते तोतुद्येते तोदेनाश्वतराविव । प्र स्तोममुर्वरीणां शशयानामस्ताविषम् ॥ नारी पञ्चमयूखं सूत्रवत्कृणुते वसु । अरिष्टो अस्य वस्ता प्रेन्द्र वास उतोदिर ॥ [ড়्ष्२.८७]> (कौशिकसूत्र १३,१५[१०७].३) वासः कर्त्रे दद्यात् (कौशिकसूत्र १३,१५[१०७].४) सा तत्र प्रायश्चित्तिः (कौशिकसूत्र १३,१६[१०८].१) अथ यत्र_एतदग्निनाग्निः संसृज्यते <भवतं नः समनसौ समोकसाव्[]> इत्येतेन सूक्तेन जुहुयात् (कौशिकसूत्र १३,१६[१०८].२) <भवतं नः समनसौ समोकसावरेपसौ । मा हि॑म्सिष्टं यज्ञपतिं मा यज्ञं जातवेदसौ शिवौ भवतमद्य नः [दृष्टव्यम्‌ Vष्ं ५.३ इत्यादि]> <अग्निनाग्निः संसृज्यसे कविर्बृहस्पतिर्युवा । हव्यवाङ्जुह्वास्यः ॥ [दृष्टव्यम्‌ .ऋV १.१२.६ इत्यादि]> <त्वं ह्यग्ने अग्निना विप्रो विप्रेण सन् सता । सखा सख्या समिध्यसे ॥ [दृष्टव्यम्‌ .ऋV ८.४३.१४]> <पाहि नो अग्न एकया पाहि न उत द्वितीयया । पाहि गीर्भिस्तिसृभिरूर्जांपते पाहि चतसृभिर्वसो ॥ समीची माहनी पातामायुष्मत्या ऋचो मा सत्सि । तनूपात्साम्नो वसुविदं लोकमनुसंचराणि ॥ [ড়्ष्२०.५२.४५]> (कौशिकसूत्र १३,१६[१०८].३) रुक्मं कर्त्रे दद्यात् (कौशिकसूत्र १३,१६[१०८].४) सा तत्र प्रायश्चित्तिः (कौशिकसूत्र १३,१७[१०९].१) अथ यत्र_एतदयमसूर्यमौ जनयति तां शान्त्युदकेनाभ्युक्ष्य दोहयित्वा (कौशिकसूत्र १३,१७[१०९].२) तस्या एव गोर्दुग्धे स्थालीपाकं श्रपयित्वा (कौशिकसूत्र १३,१७[१०९].३) प्राञ्चमिध्ममुपसमाधाय (कौशिकसूत्र १३,१७[१०९].४) परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रमुपसाद्य (कौशिकसूत्र १३,१७[१०९].५) <एकैकयैषा सृष्ट्या सं बभूव [३.२८.१]> इत्येतेन सूक्तेनाज्यं जुह्वन् (कौशिकसूत्र १३,१७[१०९].६) उदपात्रे संपातानानयति (कौशिकसूत्र १३,१७[१०९].७) उत्तमं संपातमोदने प्रत्यानयति (कौशिकसूत्र १३,१७[१०९].८) ततो गां च प्राशयति वत्सौ च_उदपात्रादेनानाचामयति च संप्रोक्षति च (कौशिकसूत्र १३,१७[१०९].९) तां तस्य_एव दद्यात् (कौशिकसूत्र १३,१७[१०९].१०) सा तत्र प्रायश्चित्तिः (कौशिकसूत्र १३,१८[११०].१) अथ चेद्वडवा वा गर्दभी वा स्यादेवमेव प्राञ्चमिध्ममुपसमाधाय (कौशिकसूत्र १३,१८[११०].२) एवं परिस्तीर्य (कौशिकसूत्र १३,१८[११०].३) एवमुपसाद्य (कौशिकसूत्र १३,१८[११०].४) एतेन_एव सूक्तेनाज्यं जुह्वन् (कौशिकसूत्र १३,१८[११०].५) उदपात्रे संपातानानयति (कौशिकसूत्र १३,१८[११०].६) उदपात्रादेनानाचामयति च संप्रोक्षति च (कौशिकसूत्र १३,१८[११०].७) तां तस्य_एव दद्यात् (कौशिकसूत्र १३,१८[११०].८) सा तत्र प्रायश्चित्तिः (कौशिकसूत्र १३,१९[१११].१) अथ चेद्_मानुषी स्यादेवमेव प्राञ्चमिध्ममुपसमाधाय (कौशिकसूत्र १३,१९[१११].२) एवं परिस्तीर्य (कौशिकसूत्र १३,१९[१११].३) एवमुपसाद्य (कौशिकसूत्र १३,१९[१११].४) उपस्थे जातकौ_आधाय (कौशिकसूत्र १३,१९[१११].५) एतेन_एव सूक्तेनाज्यं जुह्वन् (कौशिकसूत्र १३,१९[१११].६) अमीषां मूर्ध्नि स मातुः पुत्रयोरित्यनुपूर्वं संपातानानयति (कौशिकसूत्र १३,१९[१११].७) उदपात्र उत्तरान् संपातान् (कौशिकसूत्र १३,१९[१११].८) उदपात्रादेनानाचामयति च संप्रोक्षति च (कौशिकसूत्र १३,१९[१११].९) तां तस्य_एव दद्यात् (कौशिकसूत्र १३,१९[१११].१०) सा तत्र प्रायश्चित्तिः (कौशिकसूत्र १३,१९[१११].११) तस्या निष्क्रयो यथार्हं यथासंपद्वा (कौशिकसूत्र १३,२०[११२].१) अथ यत्र_एतद्धेनवो लोहितं दुहते <यः पौरुषेयेण क्रविषा समङ्क्ते [८.३.१५]> इत्येताभिश्चतसृभिर्जुहुयात् (कौशिकसूत्र १३,२०[११२].२) वरां धेनुं कर्त्रे दद्यात् (कौशिकसूत्र १३,२०[११२].३) सा तत्र प्रायश्चित्तिः (कौशिकसूत्र १३,२१[११३].१) अथ यत्र_एतदनड्वान् धेनुं धयति तत्र जुहुयात् (कौशिकसूत्र १३,२१[११३].२) <अनड्वान् धेनुमधयदिन्द्रो गो रूपमाविशत् । स मे भूतिं च पुष्टिं च दीर्घमायुश्च धेहि नः ॥ इन्द्राय स्वाहा []>_इति हुत्वा (कौशिकसूत्र १३,२१[११३].३) <मा नो विदन् [१.१९.१]> <नमो देववधेभ्यो [६.१३.१]>_इति एताभ्यां सूक्ताभ्यां जुहुयात् (कौशिकसूत्र १३,२१[११३].४) सा तत्र प्रायश्चित्तिः (कौशिकसूत्र १३,२२[११४].१) अथ यत्र_एतद्धेनुर्धेनुं धयति तत्र जुहुयात् (कौशिकसूत्र १३,२२[११४].२) <योगक्षेमं धेनुं वाजपत्नीमिन्द्राग्निभ्यां प्रेषिते जञ्जभाने । तस्मान्मामग्ने परि पाहि घोरात्प्र +णो जायन्तां मिथुनानि रूपशः ॥ इन्द्राग्निभ्यां स्वाहा [, दृष्टव्यम्‌ Kऔश्ष्१२८.२]>_इति हुत्वा (कौशिकसूत्र १३,२२[११४].३) <दिव्यो गन्धर्वो [२.२.१]>_इति मातृनामभिर्जुहुयात् (कौशिकसूत्र १३,२२[११४].४) सा तत्र प्रायश्चित्तिः (कौशिकसूत्र १३,२३[११५].१) अथ यत्र_एतद्गौर्वाश्वो वाश्वतरो वा पुरुषो वाकाशफेनमवगन्धयति तत्र जुहुयात् (कौशिकसूत्र १३,२३[११५].२) <पयो देवेषु पय ओषधीषु पय आशासु पयोऽन्तरिक्षे । तन्मे धाता च सविता च धत्तां विश्वे तद्देवा अभि सं गृणन्तु ॥ पयो यदप्सु पय उस्रियासु पय उत्सेषूत पर्वतेषु । तन्मे धाता च सविता च धत्तां विश्वे तद्देवा अभि सं गृणन्तु ॥ यन्मृगेषु पय आविष्टमस्ति यदेजति पतति यत्पतत्रिषु [चोर्र्. Bलोओम्fइएल्द्ङ्ङा १९०२ ५१४ एद्. पततत्रिषु] । तन्मे धाता च सविता च धत्तां विश्वे तद्देवा अभि सं गृणन्तु ॥ यानि पयांसि दिव्यार्पितानि यान्यन्तरिक्षे बहुधा बहूनि । तेषामीशानं वशिनी नो अद्य प्र दत्ता द्यावापृथिवी अहृणीयमाना ॥ [ড়्ष्१.९१]> इत्येतेन सूक्तेन जुहुयात् (कौशिकसूत्र १३,२३[११५].३) सा तत्र प्रायश्चित्तिः (कौशिकसूत्र १३,२४[११६].१) अथ यत्र_एतत्पिपीलिका अनाचाररूपा दृश्यन्ते तत्र जुहुयात् (कौशिकसूत्र १३,२४[११६].२) <भुवाय स्वाहा भुवनाय स्वाहा भुवनपतये स्वाहा भुवां पतये स्वाहावोषाय स्वाहा विनताय स्वाहा शतारुणाय स्वाहा> (कौशिकसूत्र १३,२४[११६].३) <यः प्राच्यां दिशि श्वेतपिपीलिकानां राजा तस्मै स्वाहा । यो दक्षिणायां दिशि कृष्णपिपीलिकानां राजा तस्मै स्वाहा । यः प्रतीच्यां दिशि रजतपिपीलिकानां राजा तस्मै स्वाहा । य उदीच्यां दिशि रोहितपिपीलिकानां राजा तस्मै स्वाहा । यो ध्रुवायां दिशि बभ्रुपिपीलिकानां राजा तस्मै स्वाहा । यो व्यध्वायां दिशि हरितपिपीलिकानां राजा तस्मै स्वाहा । य ऊर्ध्वायां दिश्यरुणपिपीलिकानां राजा तस्मै स्वाहा> (कौशिकसूत्र १३,२४[११६].४) ताश्चेदेतावता न शाम्येयुस्तत उत्तरमग्निमुपसमाधाय (कौशिकसूत्र १३,२४[११६].५) शरमयं बर्हिरुभयतः परिछिन्नं प्रसव्यं परिस्तीर्य (कौशिकसूत्र १३,२४[११६].६) विषावध्वस्तमिङ्गिडमाज्यं शाकपलाशेन_उत्पूतं बाधकेन स्रुवेण जुहोति (कौशिकसूत्र १३,२४[११६].७) <उत्तिष्ठत निर्द्रवत न व इहास्त्वित्यञ्चनम् । इन्द्रो वः सर्वासां साकं गर्भानाण्डानि भेत्स्यति [ড়्ष्१७.१३.३]> <फड्ढताः पिपीलिकाः [दृष्टव्यम्‌ Kऔश्ष्४७.२१]>_इति (कौशिकसूत्र १३,२४[११६].८) <इन्द्रो वो यमो वो वरुणो वोऽग्निर्वो वायुर्वः सूर्यो वश्चेन्द्रो वः प्रजापतिर्व ईशानो वः>_इति (कौशिकसूत्र १३,२५[११७].१) अथ यत्र_एतत्_नीलमक्षा अनाचाररूपा दृश्यन्ते तत्र जुहुयात् (कौशिकसूत्र १३,२५[११७].२) <या मत्यैः सरथं यान्ति घोरा मृत्योर्दूत्यः क्रविशः सं बभूवुः । शिवं चक्षुरुत घोषः शिवानां शं नो अस्तु द्विपदे शं चतुष्पदे ॥ शान्तं चक्षुरुत वायसीनां या चासां घोरा मनसो विसृष्टिः । मनसस्पते तन्वा मा पाहि घोरान्मा वि रिक्षि तन्वा मा प्रजया मा पशुभिर्वायवे स्वाहा []>_इति हुत्वा (कौशिकसूत्र १३,२५[११७].३) <वात आ वातु भेषजं [ড়्ष्१९.४६.७ इत्यादि]>_इत्येतेन सूक्तेन जुहुयात् (कौशिकसूत्र १३,२५[११७].४) <वात आ वातु भेषजं शंभु मयोभु नो हृदे । प्र ण आयूंषि तारिषत् ॥ उत वात पितासि न उत भ्रातोत नः सखा । स नो जीवातवे कृधि ॥ यददो वात ते गृहे निहितं भेषजं गुहा । तस्य नो देहि जीवसे [ড়्ष्१९.४६.७९, Vऐत्ष्३८.१ इत्यादि]>_इत्येतेन सूक्तेन जुहुयात् (कौशिकसूत्र १३,२५[११७].५) सा तत्र प्रायश्चित्तिः (कौशिकसूत्र १३,२६[११८].१) अथ यत्र_एतत्_मधुमक्षिका अनाचाररूपा दृश्यन्ते <मधु वाता [एद्. वात] ऋतायते [ড়्ष्१९.४५.५, दृष्टव्यम्‌ Kऔश्ष्९०.२५९१.१]> इत्येतेन सूक्तेन जुहुयात् (कौशिकसूत्र १३,२६[११८].२) सा तत्र प्रायश्चित्तिः (कौशिकसूत्र १३,२७[११९].१) अथ यत्र_एतदनाज्ञातमद्भुतं दृश्यते तत्र जुहुयात् (कौशिकसूत्र १३,२७[११९].२) <यदज्ञातमनाम्नातमर्थस्य कर्मणो मिथः । अग्ने त्वं नस्तस्मात्पाहि स हि वेत्थ यथायथम् ॥ अग्नये स्वाहा []> (कौशिकसूत्र १३,२७[११९].३) <वायो सूर्य चन्द्र>_इति च (कौशिकसूत्र १३,२७[११९].४) <पुरुषसंमितोऽर्थः कर्मार्थः पुरुषसंमितः । वायुर्मा तस्मात्पातु स हि वेत्थ यथायथम् ॥ वायवे स्वाहा []> (कौशिकसूत्र १३,२७[११९].५) <अग्निर्मा सूर्यो मा चन्द्रो मा>_इति च (कौशिकसूत्र १३,२८[१२०].१) अथ यत्र_एतद्ग्रामे वावसाने वाग्निशरणे समज्यायां वावदीर्येत चतस्रो धेनव उपकॢप्ता भवन्ति श्वेता कृष्णा रोहिणी सुरूपा चतुर्थी (कौशिकसूत्र १३,२८[१२०].२) तासामेतद्द्वादशरात्रं संदुग्धं नवनीतं निदधाति (कौशिकसूत्र १३,२८[१२०].३) द्वादश्याः प्रातर्यत्र_एवादो_अवदीर्णं भवति तत उत्तरमग्निमुपसमाधाय (कौशिकसूत्र १३,२८[१२०].४) परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिः श्वेताया आज्येन संनीय (कौशिकसूत्र १३,२८[१२०].५) <अग्निर्भूम्याम् [१२.१.१९]> इति तिसृभिरभिमन्त्र्यालभ्य (कौशिकसूत्र १३,२८[१२०].६) अथ जुहुयात् (कौशिकसूत्र १३,२८[१२०].७) तथा दक्षिणार्धे (कौशिकसूत्र १३,२८[१२०].८) तथा पश्चार्धे (कौशिकसूत्र १३,२८[१२०].९) उत्तरार्धे संस्थाप्य वास्तोष्पत्यैर्जुहुयात् (कौशिकसूत्र १३,२८[१२०].१०) अवदीर्णे संपातानानीय संस्थाप्य होमान् (कौशिकसूत्र १३,२८[१२०].११) अवदीर्णं शान्त्युदकेन संप्रोक्ष्य (कौशिकसूत्र १३,२८[१२०].१२) ता एव ब्राह्मणो दद्यात् (कौशिकसूत्र १३,२८[१२०].१३) सीरं वैश्यो_अश्वं प्रादेशिको ग्रामवरं राजा (कौशिकसूत्र १३,२८[१२०].१४) सा तत्र प्रायश्चित्तिः (कौशिकसूत्र १३,२९[१२१].१) अथ यत्र_एतदनुदक उदकोन्मीलो भवति <हिरण्यवर्णाः [१.३३.१]>_इत्यपां सूक्तैर्जुहुयात् (कौशिकसूत्र १३,२९[१२१].२) सा तत्र प्रायश्चित्तिः (कौशिकसूत्र १३,३०[१२२].१) अथ यत्र_एतत्तिलाः समतैला भवन्ति तत्र जुहुयात् (कौशिकसूत्र १३,३०[१२२].२) <अनूनाय स्वाहा । अक्षिताय स्वाहा । अपरिमिताय स्वाहा । परिपूर्णाय स्वाहा> (कौशिकसूत्र १३,३०[१२२].३) स यं द्विष्यात्तस्याशायां <लोहितं ते प्र सिञ्चामि>_इति दक्षिणामुखः प्रसिञ्चेत् (कौशिकसूत्र १३,३१[१२३].१) अथ यत्र_एतद्वपां वा हवींषि वा वयांसि द्विपदचतुष्पदं वाभिमृश्यावगछेयुर्<ये अग्नयो [३.२१.१]> <नमो देववधेभ्यो [६.१३.१]>_इत्येताभ्यां सूक्ताभ्यां जुहुयात् (कौशिकसूत्र १३,३१[१२३].२) सा तत्र प्रायश्चित्तिः (कौशिकसूत्र १३,३२[१२४].१) अथ यत्र_एतत्कुमारस्य कुमार्या वा द्वौ_आवर्तौ मूर्धन्यौ भवतः सव्यावृदेको देशावर्तस्तत्र जुहुयात् (कौशिकसूत्र १३,३२[१२४].२) <त्वष्टा रूपाणि बहुधा विकुर्वञ्जनयन् प्रजा बहुधा विश्वरूपाः । स मे करोत्वविपरीतमस्माननुपूर्वं कल्पयतामिहैव ॥ त्वष्ट्रे स्वाहा []> (कौशिकसूत्र १३,३२[१२४].३) <अन्तर्गर्भेषु बहुधा सं तनोति जनयन् प्रजा बहुधा विश्वरूपाः । स मे करोत्वविपरीतमस्माननुपूर्वं कल्पयतामिहैव ॥ त्वष्ट्रे स्वाहा []> (कौशिकसूत्र १३,३२[१२४].४) <यद्युन्मृष्टं यदि वाबिमृष्टं तिरश्चीनर्थ उत मर्मृजन्ते । शिवं तद्देवः सविता कृणोतु प्रजापतिः प्रजाभिः संविदानः ॥ त्वष्ट्रे स्वाहा []> (कौशिकसूत्र १३,३२[१२४].५) <सव्यावृत्तान्युत या विश्वरूपा प्रत्यग्वृत्तान्युत या ते परुषः । तान्यस्य देव बहुधा बहूनि स्योनानि शग्मानि शिवानि सन्तु ॥ त्वष्ट्रे स्वाहा []>_इति हुत्वा (कौशिकसूत्र १३,३२[१२४].६) <त्वष्टा मे दैव्यं वचः [६.४.१]>_इत्येतेन सूक्तेन जुहुयात् (कौशिकसूत्र १३,३२[१२४].७) सा तत्र प्रायश्चित्तिः (कौशिकसूत्र १३,३३[१२५].१) अथ यत्र_एतद्यूपो विरोहति तत्र जुहुयात् (कौशिकसूत्र १३,३३[१२५].२) <यूपो विरोहञ्छतशाखो अध्वरः समावृतो मोहयिष्यन् यजमानस्य लोकान् । वेदाभिगुप्तो ब्रह्मणा परिवृतोऽथर्वभिः शान्तः सुकृतामेतु लोकान् ॥ यूपो ह्यरुक्षद्द्विषतां वधाय न मे यज्ञो यजमानश्च रिष्यात् । सप्तर्षीणां सुकृतां यत्र लोकस्तत्रेमं यज्ञं यजमानं च धेहि ॥ वनस्पते स्वाहा [, दृष्टव्यम्‌ Kआत्य्॑ष्ष्२.२.८]]>_इति हुत्वा (कौशिकसूत्र १३,३३[१२५].३) <वनस्पतिः सह देवैर्न आगन्न् [१२.३.१५]> इति जुहुयात् (कौशिकसूत्र १३,३३[१२५].४) सा तत्र प्रायश्चित्तिः (कौशिकसूत्र १३,३४[१२६].१) अथ यत्र_एतद्दिवोल्का पतति तदयोगक्षेमाशङ्कं भवति_अवृष्ट्याशङ्कं वा (कौशिकसूत्र १३,३४[१२६].२) तत्र राजा भूमिपतिर्विद्वांसं ब्रह्माणं वृणीयात् (कौशिकसूत्र १३,३४[१२६].३) स वृतो_अरण्यस्यार्धमभिव्रज्य तत्र द्वादशरात्रमनुशुष्येत् (कौशिकसूत्र १३,३४[१२६].४) स खलु पूर्वं नवरात्रमारण्यशाकमूलफलभक्षश्चाथ_उत्तरं त्रिरात्रं नान्यदुदकात् (कौशिकसूत्र १३,३४[१२६].५) श्वो भूते सप्त धेनव उपकॢप्ता भवन्ति श्वेता कृष्णा रोहिणी नीला पाटला सुरूपा बहुरूपा सप्तमी (कौशिकसूत्र १३,३४[१२६].६) तासामेतद्द्वादशरात्रं संदुग्धं नवनीतं निदधाति (कौशिकसूत्र १३,३४[१२६].७) द्वादश्याः प्रातर्यत्र_एवासौ पतिता भवति तत उत्तरमग्निमुपसमाधाय (कौशिकसूत्र १३,३४[१२६].८) परिसमूह्य पर्युक्ष्य परिस्तीर्य बर्हिः (कौशिकसूत्र १३,३४[१२६].९) अथामुं नवनीतं सौवर्णे पात्रे विलाप्य सौवर्णेन स्रुवेण रक्षोघ्नैश्च सूक्तैर्<यामाहुस्तारकैषा विकेशीति [५.१७.४]>_एतेन सूक्तेनाज्यं जुह्वन् (कौशिकसूत्र १३,३४[१२६].१०) अवपतिते संपातानानीय संस्थाप्य होमान् (कौशिकसूत्र १३,३४[१२६].११) अवपतितं शान्त्युदकेन संप्रोक्ष्य (कौशिकसूत्र १३,३४[१२६].१२) ता एव ब्राह्मणो दद्यात् (कौशिकसूत्र १३,३४[१२६].१३) सीरं वैश्यो_अश्वं प्रादेशिको ग्रामवरं राजा (कौशिकसूत्र १३,३४[१२६].१४) सा तत्र प्रायश्चित्तिः (कौशिकसूत्र १३,३५[१२७].१) अथ यत्र_एतद्धूमकेतुः सप्तर्षीनुपधूपयति तदयोगक्षेमाशङ्कमित्युक्तम् (कौशिकसूत्र १३,३५[१२७].२) पञ्च पशवस्तायन्ते वारुणः कृष्णो गौर्वाजो वाविर्वा हरिर्वायव्यो बहुरूपो दिश्यो मारुती मेष्याग्नेयः प्राजापत्यश्च क्षीरौदनो_अपां नप्त्र उद्रः (कौशिकसूत्र १३,३५[१२७].३) <उतेयं भूमिर्[४.१६.३]> इति त्रिर्वरुणमभिष्टूय (कौशिकसूत्र १३,३५[१२७].४) <अप्सु ते राजन्न् [७.८३.१]> इति चतसृभिर्वारुणस्य जुहुयात् (कौशिकसूत्र १३,३५[१२७].५) <वायवा रुन्धि नो मृगानस्मभ्यं मृगयद्भ्यः । स नो नेदिष्ठमा कृधि वातो हि रशनाकृतः [ড়्ष्२०.५१.४]>_इति वायव्यस्य (कौशिकसूत्र १३,३५[१२७].६) <आशानाम् [१.३१.१]> इति दिश्यस्य (कौशिकसूत्र १३,३५[१२७].७) <प्रति त्यं चारुमध्वरं गोपीथाय प्र हूयसे । मरुद्भिरग्न आ गहि [ড়्ष्६.१७.१, .ऋV १.१९.१]>_इति मारुतस्य (कौशिकसूत्र १३,३५[१२७].८) <अपामग्निस्[४.१५.१०]>_इत्याग्नेयस्य (कौशिकसूत्र १३,३५[१२७].९) <प्रजापतिः सलिलाद्[४.१५.११]>_इति प्राजापत्यस्य (कौशिकसूत्र १३,३५[१२७].१०) अपां सूक्तैर्हिरण्यशकलेन सह_उद्रमप्सु प्रवेशयेत् (कौशिकसूत्र १३,३५[१२७].११) प्र हैव वर्षति (कौशिकसूत्र १३,३५[१२७].१२) सर्वस्वं तत्र दक्षिणा (कौशिकसूत्र १३,३५[१२७].१३) तस्य निष्क्रयो यथार्हं यथासंपद्वा (कौशिकसूत्र १३,३६[१२८].१) अथ यत्र_एतत्_नक्षत्राणि पतापतानीव भवन्ति तत्र जुहुयात् (कौशिकसूत्र १३,३६[१२८].२) <यन्नक्षत्रं पतति जातवेदः सोमेन राज्ञेषिरं पुरस्तात् । तस्मान्मामग्ने परि पाहि घोरात्प्र णो जायन्तां मिथुनानि रूपशः ॥ इन्द्राग्निभ्यां स्वाहा [, दृष्टव्यम्‌ Kऔश्ष्११४.२]>_इति हुत्वा (कौशिकसूत्र १३,३६[१२८].३) <सोमो राजा सविता च राजा [ড়्ष्१९.३३.१]>_इत्येतेन सूक्तेन जुहुयात् (कौशिकसूत्र १३,३६[१२८].४) <सोमो राजा सविता च राजा भुवो राजा भुवनं च राजा । शर्वो राजा शर्म च राजा त उ नः शर्म यछन्तु देवाः ॥ आदित्यैर्नो बृहस्पतिर्भगः सोमेन नः सह । विश्वे देवा उर्वन्तरिक्षं त उ नः शर्म यछन्तु देवाः ॥ उताविद्वान्निष्कृदयाथोस्रघ्नी यथायथम् । मा नो विश्वे देवा मरुतो हेतिमिछत [ড়्ष्१९.३३.१३]> (कौशिकसूत्र १३,३६[१२८].५) रुक्मं कर्त्रे दद्यात् (कौशिकसूत्र १३,३६[१२८].६) सा तत्र प्रायश्चित्तिः (कौशिकसूत्र १३,३७[१२९].१) अथ यत्र_एतत्_मांसमुखो निपतति तत्र जुहुयात् (कौशिकसूत्र १३,३७[१२९].२) <घोरो वज्रो देवसृष्टो न आगन् यद्वा गृहान् घोरमुता जगाम । तन्निर्जगाम हविषा घृतेन शं नो अस्तु द्विपदे शं चतुष्पदे ॥ रुद्राय स्वाहा []>_इति हुत्वा (कौशिकसूत्र १३,३७[१२९].३) <भवाशर्वौ मृडतं माभि यातं [११.२.१]>_इत्येतेन सूक्तेन जुहुयात् (कौशिकसूत्र १३,३७[१२९].४) सा तत्र प्रायश्चित्तिः (कौशिकसूत्र १३,३८[१३०].१) अथ यत्र_एतदनग्नौ_अवभासो भवति तत्र जुहुयात् (कौशिकसूत्र १३,३८[१३०].२) <या तेऽवदीप्तिरवरूपा जातवेदोऽपेतो रक्षसां भाग एषः । रक्षांसि तया दह जातवेदो या नः प्रजां मनुष्यां संसृजन्ते ॥ अग्नये स्वाहा []>_इति हुत्वा (कौशिकसूत्र १३,३८[१३०].३) <अग्नी रक्षांसि सेधति [८.३.२६]>_इति प्रायश्चित्तिः (कौशिकसूत्र १३,३९[१३१].१) अथ यत्र_एतदग्निः श्वसतीव तत्र जुहुयात् (कौशिकसूत्र १३,३९[१३१].२) <श्वेता कृष्णा रोहिणी जातवेदो यास्ते तनूस्तिरश्चीना निर्दहन्तीः श्वसन्तीः । रक्षांसि ताभिर्दह जातवेदो या नः प्रजां मनुष्यां संसृजन्ते ॥ अग्नये स्वाहा []>_इति हुत्वा (कौशिकसूत्र १३,३९[१३१].३) <अग्नी रक्षांसि सेधति [८.३.२६]>_इति प्रायश्चित्तिः (कौशिकसूत्र १३,४०[१३२].१) अथ यत्र_एतत्सर्पिर्वा तैलं वा मधु वा विष्यन्दति <यद्यामं चक्रुर्निखनन्तो [६.११६.१]>_इत्येतेन सूक्तेन जुहुयात् (कौशिकसूत्र १३,४०[१३२].२) सा तत्र प्रायश्चित्तिः (कौशिकसूत्र १३,४१[१३३].१) अथ यत्र_एतद्ग्राम्यो_अग्निः शालां दहति_<अपमित्यमप्रतीत्तं [६.११७११९]>_इत्येतैस्त्रिभिः सूक्तैर्मैश्रधान्यस्य पूर्णाञ्जलिं हुत्वा (कौशिकसूत्र १३,४१[१३३].२) <ममोभा मित्रावरुणा [ড়्ष्१.४०]> <मह्यमापो मधुमदेरयन्तां [६.६१.१]>_इत्येताभ्यां सूक्ताभ्यां जुहुयात् (कौशिकसूत्र १३,४१[१३३].३) <ममोभा मित्रावरुणा ममोभेन्द्राबृहस्पती । मम त्वष्टा च पूषा च ममैव सविता वशे ॥ मम विष्णुश्च सोमश्च ममैव मरुतो भवन् । सरस्वांश्च भगश्च विश्वे देवा वशे मम ॥ ममोभे [एद्. मिस्प्रिन्त्ममोभा] द्यावापृथिवी अन्तरिक्षं स्वर्मम । ममेमाः सर्वा ओषधीरापः सर्वा वशे मम ॥ मम गावो ममाश्वा ममाजाश्चावयश्च ममैव पुरुषा भवन् । ममेदं सर्वमात्मन्वदेजत्प्राणद्वशे मम ॥ [ড়्ष्१.४०]>_इति (कौशिकसूत्र १३,४१[१३३].४) अरणी प्रताप्य स्थण्डिलं परिमृज्य (कौशिकसूत्र १३,४१[१३३].५) अथाग्निं जनयेत् (कौशिकसूत्र १३,४१[१३३].६) <इत एव प्रथमं जज्ञे अग्निराभ्यो योनिभ्यो अधि जातवेदाः । स गायत्र्या त्रिष्टुभा जगत्यानुष्टुभा देवो देवेभ्यो हव्यं वहतु प्रजानन्न् []> इति जनित्वा (कौशिकसूत्र १३,४१[१३३].७) <भवतं नः समनसौ समोकसाव्[, दृष्टव्यम्‌ Kऔश्ष्१०८.२]> इत्येतेन सूक्तेन जुहुयात् (कौशिकसूत्र १३,४१[१३३].८) सा तत्र प्रायश्चित्तिः (कौशिकसूत्र १३,४२[१३४].१) अथ चेदागन्तुर्दहति_एवमेव कुर्यात् (कौशिकसूत्र १३,४२[१३४].२) सा तत्र प्रायश्चित्तिः (कौशिकसूत्र १३,४३[१३५].१) अथ यत्र_एतद्वंश स्फोटति कपाले_अङ्गारा भवन्ति_उदपात्रं बर्हिराज्यं तदादाय (कौशिकसूत्र १३,४३[१३५].२) शालायाः पृष्ठमुपसर्पति (कौशिकसूत्र १३,४३[१३५].३) तत्राङ्गारान् वा कपालं वा_उपनिदधाति_आ संतपनात् (कौशिकसूत्र १३,४३[१३५].४) प्राञ्चमिध्ममुपसमाधाय (कौशिकसूत्र १३,४३[१३५].५) परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रमुपसाद्य (कौशिकसूत्र १३,४३[१३५].६) परिचरणेनाज्यं परिचर्य (कौशिकसूत्र १३,४३[१३५].७) नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ च (कौशिकसूत्र १३,४३[१३५].८) अथ जुहोति (कौशिकसूत्र १३,४३[१३५].९) <असौ वै नाम ते मातासौ वै नाम ते पिता । असौ वै नाम ते दूतः स्ववंशमधि तिष्ठति ॥ उत्तमरात्री णाम मृत्यो ते माता तस्य ते अन्तकः पिता । समंदधानस्ते दूतः स्ववंशमधि तिष्ठति ॥ बहवोऽस्य पाशा वितताः पृथिव्यामसंख्येया अपर्यन्ता अनन्ताः । याभिर्वंशानभिनिदधाति प्राणिनां यान् कांश्चेमान् प्राणभृतां जिघांसन् । स इमं दूतं नुदतु वंशपृष्ठात्स मे गछतु द्विषतो निवेशं मृत्यवे स्वाहा ॥ बृहस्पतिराङ्गिरसो ब्रह्मणः पुत्रो विश्वे देवाः प्र ददुर्विश्वमेजत् । स इमं दूतं नुदतु वंशपृष्ठात्स मे गछतु द्विषतो निवेशं बृहस्पतय आङ्गिरसाय स्वाहा ॥ यस्य तेऽन्नं न क्षीयते भूय एवोपजातये । यस्मै भूतं च भव्यं च सर्वमेतत्प्रतिष्ठितम् । स इमं दूतं नुदतु वंशपृष्ठात्स मे गछतु द्विषतो निवेशमिन्द्राय स्वाहा ॥ मुखं देवानामिह यो बभूव यो जानाति वयुनानां समीपे । यस्मै हुतं देवता भक्षयन्ति वायुनेत्रः सुप्रणीतिः सुनीतिः । स इमं दूतं नुदतु वंशपृष्ठात्स मे गछतु द्विषतो निवेशमग्नये स्वाहा ॥ यः पृथिव्यां च्यावयन्नेति वृक्षान् प्रभञ्जनेन रथेन सह संविदानः । रसान् गन्धान् भावयन्नेति देवो मातरिश्वा भूतभव्यस्य कर्ता । स इमं दूतं नुदतु वंशपृष्ठात्स मे गछतु द्विषतो निवेशं वायवे स्वाहा ॥ ब्रह्मचारी चरति ब्रह्मचर्यमृचं गाथां ब्रह्म परं जिगांसन् । तं विघ्ना अनुपरियन्ति सर्वे ये अन्तरिक्षे ये च दिवि श्रितासः । तं विशो अनुपर्यन्ति सर्वाः कर्माणि लोके परिमोहयन्ति । स इमं दूतं नुदतु वंशपृष्ठात्स मे गछतु द्विषतो निवेशमादित्याय स्वाहा ॥ यो नक्षत्रैः सरथं याति देवः संसिद्धेन रथेन सह संविदानः । रूपंरूपं कृण्वानश्चित्रभानुः सुभानुः । स इमं दूतं नुदतु वंशपृष्ठात्स मे गछतु द्विषतो निवेशं चन्द्राय स्वाहा ॥ ओषधयः सोमराज्ञीर्यशस्विनीः । ता इमं दूतं नुदन्तु वंशपृष्ठात्स मे गछतु द्विषतो निवेशमोषधीभ्यः सोमराज्ञीभ्यः स्वाहा ॥ ओषधयो वरुणराज्ञीर्यशस्विनीः । ता इमं दूतं नुदन्तु वंशपृष्ठात्स मे गछतु द्विषतो निवेशमोषधीभ्यो वरुणराज्ञीभ्यः स्वाहा ॥ अष्टस्थूणो दशपक्षो यदृछजो वनस्पते । पुत्रांश्चैव पशूंश्चाभि रक्ष वनस्पते ॥ यो वनस्पतीनामुपतापो बभूव यद्वा गृहान् घोरमुता जगाम तन्निर्जगाम हविषा घृतेन शं नो अस्तु द्विपदे शं चतुष्पदे ॥ यो वनस्पतीनामुपतापो न आगद्यद्वा यज्ञं नोऽद्भुतमा जगाम । सर्वं तदग्ने हुतमस्तु भागशः शिवान् वयमुत्तरेमाभि वाजान् ॥ त्वष्ट्रे स्वाहा []>_इति हुत्वा (कौशिकसूत्र १३,४३[१३५].१०) <त्वष्टा मे दैव्यं वचः [६.४.१]>_इत्यत्र_उदपात्रं निनयति (कौशिकसूत्र १३,४३[१३५].११) कपाले_अग्निं चादाय_उपसर्पति (कौशिकसूत्र १३,४३[१३५].१२) सा तत्र प्रायश्चित्तिः (कौशिकसूत्र १३,४४[१३६].१) अथ यत्र_एतत्कुम्भोदधानः सक्तुधानी वा_उखा वानिङ्गिता विकसति तत्र जुहुयात् (कौशिकसूत्र १३,४४[१३६].२) <भूमिर्भूमिमगान् [एद्. एम्. अवागान्, बुत्नोते आVড়रिश्४०.६.५ अन्द्Kएशव] माता मातरमप्यगात् । ऋध्यास्म पुत्रैः पशुभिर्यो नो द्वेष्टि स भिद्यताम् []> इति (कौशिकसूत्र १३,४४[१३६].३) सदसि सन्मे भूयादिति सक्तूनावपते (कौशिकसूत्र १३,४४[१३६].४) अथ चेदोदनस्य_<अन्नमस्यन्नं मे देह्यन्नं मा मा हिंसीर्> इति त्रिः प्राश्य (कौशिकसूत्र १३,४४[१३६].५) अथ यथाकामं प्राश्नीयात् (कौशिकसूत्र १३,४४[१३६].६) अथ चेदुदधानः स्यात्<समुद्रं वः प्र हिणोमि [१०.५.२३२४]>_इत्येताभ्यामभिमन्त्र्य (कौशिकसूत्र १३,४४[१३६].७) अन्यं कृत्वा ध्रुवाभ्यां दृंहयित्वा (कौशिकसूत्र १३,४४[१३६].८) तत्र <हिरण्यवर्णाः [१.३३.१]>_इत्युदकमासेचयेत् (कौशिकसूत्र १३,४४[१३६].९) स खलु_एतेषु कर्मसु सर्वत्र शान्त्युदकं कृत्वा सर्वत्र चातनानि_अनुयोजयेत्_मातृनामानि च (कौशिकसूत्र १३,४४[१३६].१०) सर्वत्र वरां धेनुं कर्त्रे दद्यात् (कौशिकसूत्र १३,४४[१३६].११) सर्वत्र कंसवसनं गौर्दक्षिणा (कौशिकसूत्र १३,४४[१३६].१२) ब्राह्मणान् भक्तेन_उपेप्सन्ति (कौशिकसूत्र १३,४४[१३६].१३) यथोद्दिष्टं चादिष्टासु_इति प्रायश्चित्तिः प्रायश्चित्तिः (Kऔश्ष्१३ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे त्रयोदशोऽध्यायः समाप्तः (कौशिकसूत्र १४,१[१३७].१) यथावितानं यज्ञवास्तु_अध्यवसेत् (कौशिकसूत्र १४,१[१३७].२) वेदिर्यज्ञस्याग्नेरुत्तरवेदिः (कौशिकसूत्र १४,१[१३७].३) उभे प्रागायते किंचिद्प्रथीयस्यौ पश्चादुद्यततरे (कौशिकसूत्र १४,१[१३७].४) अपृथुसंमितां वेदिं विदध्यात् (कौशिकसूत्र १४,१[१३७].५) षट्शमीं प्रागायतां चतुःशमीं श्रोण्याम् (कौशिकसूत्र १४,१[१३७].६) त्रीन्मध्ये अर्धचतुर्थानग्रतः (कौशिकसूत्र १४,१[१३७].७) त्रयाणां पुरस्तादुत्तरवेदिं विदध्यात् (कौशिकसूत्र १४,१[१३७].८) द्विःशमीं प्रागायतामृज्वीमध्यर्धशमीं श्रोण्याम् (कौशिकसूत्र १४,१[१३७].९) <ग्रीष्मस्ते भूमे [१२.१.३६]>_इत्युपस्थाय (कौशिकसूत्र १४,१[१३७].१०) <वि मिमीष्व पयस्वतीं [१३.१.२७]>_इति मिमानमनुमन्त्रयते (कौशिकसूत्र १४,१[१३७].११) <बृहस्पते परि गृहाण वेदिं सुगा वो देवाः सदनानि सन्तु । अस्यां बर्हिः प्रथतां साध्वन्तरहिंस्रा णः पृथिवी देव्यस्तु [Kआत्य्॑ष्ष्२.२.१२]>_इति परिगृह्णाति (कौशिकसूत्र १४,१[१३७].१२) <यत्ते भूमे [१२.१.३५]>_इति विखनति (कौशिकसूत्र १४,१[१३७].१३) <यत्ते ऊनं [१२.१.६१ ]>_इति संवपति (कौशिकसूत्र १४,१[१३७].१४) <त्वमस्यावपनी जनानाम् [१२.१.६१]> इति ततह्पांसूनन्यतोदाहार्य [उदाहार्य] (कौशिकसूत्र १४,१[१३७].१५) <बृहस्पते परि गृहाण वेदिं [Kआत्य्॑ष्ष्२.२.१२, सेए Kऔश्ष्१३७.११]>_इति उत्तरवेदिमोप्यमानाण्परिगृह्णाति (कौशिकसूत्र १४,१[१३७].१६) <असंबाधं मध्यतो [एद्. बध्यतो] मानवानां [१२.१.२]>_इति प्रथयति (कौशिकसूत्र १४,१[१३७].१७) <यस्याश्चतस्रः प्रदिशः पृथिव्या [१२.१.४]> इति चतुरस्रां करोति (कौशिकसूत्र १४,१[१३७].१८) <देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यामा ददे [दृष्टव्यम्‌ १९.५१.२ इत्यादि]>_इति लेखनमादाय यत्राग्निं निधास्यन् भवति तत्र लक्षणं करोति (कौशिकसूत्र १४,१[१३७].१९) <इन्द्रः सीतां नि गृह्णातु [३.१७.४]>_इति दक्षिणत आरभ्य_उत्तर आलिखति (कौशिकसूत्र १४,१[१३७].२०) प्राचीमावृत्य दक्षिणतः प्राचीम् (कौशिकसूत्र १४,१[१३७].२१) अपरास्तिस्रो मध्ये (कौशिकसूत्र १४,१[१३७].२२) तस्यां व्रीहियवौ_ओप्य (कौशिकसूत्र १४,१[१३७].२३) <वर्षेण भूमिः पृथिवी वृतावृता [१२.१.५२ ]>_इत्यद्भिः संप्रोक्ष्य (कौशिकसूत्र १४,१[१३७].२४) <यस्यामन्नं व्रीहियवौ [१२.१.४२]>_इति भूमिं नमस्कृत्य (कौशिकसूत्र १४,१[१३७].२५) अथाग्निं प्रणयेत् । <त्वामग्ने भृगवो नयन्तामङ्गिरसः सदनं श्रेय एहि । विश्वकर्मा पुर एतु प्रजानन् धिष्ण्यं पन्थामनु ते दिशाम []>_इति (कौशिकसूत्र १४,१[१३७].२६) भद्रश्रेयःस्वस्त्या वा (कौशिकसूत्र १४,१[१३७].२७) <अग्ने प्रेहि [४.१४.५]>_इति वा (कौशिकसूत्र १४,१[१३७].२८) <विश्वंभरा वसुधानी प्रतिष्ठा [१२.१.६]>_इति लक्षणे प्रतिष्ठाप्य (कौशिकसूत्र १४,१[१३७].२९) अथ_इध्ममुपसमादधाति (कौशिकसूत्र १४,१[१३७].३०) <अग्निर्भूम्यामोषधीष्व्[१२.१.१९]> <अग्निर्दिव आ तपत्य्[१२.१.२०]> <अग्निवासाः पृथिव्यसितज्ञूर्[चोर्र्. Bलोओम्fइएल्द्ङ्ङा १९०२ ५१४ एद्. असितजूर्] [१२.१.२१]> <एतमिध्मं समाहितं जुषाणो [१०.६.३५]>_<अस्मै क्षत्राणि धारयन्तमग्ने [७.७८.२]>_इति पञ्चभि स्तरणम् (कौशिकसूत्र १४,१[१३७].३१) अत ऊर्ध्वं बर्हिषः (कौशिकसूत्र १४,१[१३७].३२) <त्वं भूमिमत्येष्योजसा [ড়्ष्११.१३.३, सेए Kऔश्ष्२.१]>_इति दर्भान् संप्रोक्ष्य (कौशिकसूत्र १४,१[१३७].३३) <ऋषीणां प्रस्तरोऽसि [१६.२.६]>_इति दक्षिणतो_अग्नेर्ब्रह्मासनं निदधाति (कौशिकसूत्र १४,१[१३७].३४) पुरस्तादग्नेरुदक्संस्तृणाति (कौशिकसूत्र १४,१[१३७].३५) तथा प्रत्यक् (कौशिकसूत्र १४,१[१३७].३६) प्रदक्षिणं बर्हिषां मूलानि छादयन्तोत्तरस्या [उत्तरस्या] वेदिश्रोणेः पूर्वोत्तरतः संस्थाप्य (कौशिकसूत्र १४,१[१३७].३७) <अहे दैधिषव्योदतस्तिष्ठान्यस्य सदने सीद योऽस्मत्पाकतरः [ट्ष्३.२.४.४, Vऐत्ष्१.२०]>_इति ब्रह्मासनमन्वीक्षते (कौशिकसूत्र १४,१[१३७].३८) <निरस्तः पराग्वसुः सह पाप्मना निरस्तः सोऽस्तु योऽस्मान् द्वेष्टि यं च वयं द्विष्मः [ङोभ्ङ्ष्१.६.१४, ॑ष्Bं १.५.१.२३ इत्यादि]>_इति दक्षिणा तृणं निरस्यति (दृष्टव्यम्‌ Kऔश्ष्३.५ f.) (कौशिकसूत्र १४,१[१३७].३९) तदन्वालभ्य जपति_<इदमहमर्वाग्वसोः सदने सीदामि_[ङ्B २.१.१, ॑ष्Bं १.५.१.२४]_ऋतस्य सदने सीदामि सत्यस्य सदने सीदामि_[१.२.२ इत्यादि]_इष्टस्य सदने सीदामि पूर्तस्य सदने सीदामि [] मामृषदेव बर्हिः स्वासस्थं त्वाध्यासदेयमूर्णम्रदमनभिशोकम् [दृष्टव्यम्‌ आआश्व्॑ष्ष्१.४.७]> (कौशिकसूत्र १४,१[१३७].४०) <विमृग्वरीं [१२.१.२९]>_इत्युपविश्यासनीयं ब्रह्मजपं जपति <बृहस्पतिर्ब्रह्मा ब्रह्मसदन आसिष्यते [थुस्Bलोओम्fइएल्द्] [आआश्व्॑ष्ष्१.१२.९]> <बृहस्पते यज्ञं गोपाय [आआश्व्॑ष्ष्१.१२.९, ट्B ३.७.६.३]> <यदुदुद्वत उन्निवतः शकेयम् [ट्ष्३.२.४.४]> (कौशिकसूत्र १४,१[१३७].४१) <पातं मा द्यावापृथिवी अद्याह्न [एम्. Bलोओम्fइएल्द्ङ्ङा १९०२ ५१४ एद्. अघान्न] []> इति द्यावापृथिव्यौ समीक्षते (कौशिकसूत्र १४,१[१३७].४२) <सविता प्रसवानाम् [५.२४.१]> इति कर्मणिकर्मणि_अभितो_अभ्यातानैराज्यं जुहुयात् (कौशिकसूत्र १४,१[१३७].४३) व्याख्यातं सर्वपाकयज्ञियं तन्त्रम् (कौशिकसूत्र १४,२[१३८].१) अष्टकायामष्टकाहोमाञ्जुहुयात् (कौशिकसूत्र १४,२[१३८].२) तस्या हवींषि धानाः करम्भः शष्कुल्यः पुरोडाश उदौदनः क्षिरौदनस्तिलौदनो यथोपपादिपशुः (कौशिकसूत्र १४,२[१३८].३) सर्वेषां हविषां समुद्धृत्य (कौशिकसूत्र १४,२[१३८].४) दर्व्या जुहुयात्<प्रथमा ह व्युवास सा [३.१०.१]>_इति पञ्चभिः (कौशिकसूत्र १४,२[१३८].५) <आयमागन् संवत्सर [३.१०.८]>_इति चतसृभिर्विज्ञायते (कौशिकसूत्र १४,२[१३८].६) <ऋतुभ्यस्त्वा [३.१०.१०]>_इति विग्राहमष्टौ (कौशिकसूत्र १४,२[१३८].७) <इन्द्रपुत्रे [३.१०.१३]> इत्यष्टादशीम् (कौशिकसूत्र १४,२[१३८].८) <अहोरात्राभ्यां [६.१२८.३]>_इत्यूनविंशीम् (कौशिकसूत्र १४,२[१३८].९) पशौ_उपपद्यमाने दक्षिणं बाहुं निर्लोमं सचर्मं सखुरं प्रक्षाल्य (कौशिकसूत्र १४,२[१३८].१०) <इडायास्पदं [३.१०.६]>_इति द्वाभ्यां विंशीम् (कौशिकसूत्र १४,२[१३८].११) अनुपद्यमान आज्यं जुहुयात् (कौशिकसूत्र १४,२[१३८].१२) हविषां दर्विं पूरयित्वा <पूर्णा दर्वे [३.१०.७ ]>_इति सदर्वीमेकविंशीम् (कौशिकसूत्र १४,२[१३८].१३) एकविंशतिसंस्थो यज्ञो विज्ञायते [दृष्टव्यम्‌ ङ्B १.१.१२] (कौशिकसूत्र १४,२[१३८].१४) सर्वा एव यज्ञतनूरवरुन्द्धे सर्वा एवास्य यज्ञतनूः पितरमुपजीवन्ति य एवमष्टकामुपैति (कौशिकसूत्र १४,२[१३८].१५) न दर्विहोमे न हस्तहोमे न पूर्णहोमे तन्त्रं क्रियेत_इत्येके (कौशिकसूत्र १४,२[१३८].१६) अष्टकायां क्रियेत_इतीषुफालिमाठरौ (कौशिकसूत्र १४,३[१३९].१) अभिजिति शिष्यानुपनीय श्वो भूते संभारान् संभरति (कौशिकसूत्र १४,३[१३९].२) दधिसक्तून् पालाशं दण्डमहते वसने शुद्धमाज्यं शान्ता ओषधीर्नवमुदकुम्भम् (कौशिकसूत्र १४,३[१३९].३) बाह्यतः शान्तवृक्षस्य_इध्मं प्राञ्चमुपसमाधाय (कौशिकसूत्र १४,३[१३९].४) परिसमुह्य पर्युक्ष्य परिस्तीर्य बर्हिरुदपात्रमुपसाद्य परिचरणेनाज्यं परिचर्य (कौशिकसूत्र १४,३[१३९].५) नित्यान् पुरस्ताद्धोमान् हुत्वाज्यभागौ च (कौशिकसूत्र १४,३[१३९].६) पश्चादग्नेर्दधिसक्तूञ्जुहोति_अग्नये ब्रह्मप्रजापतिभ्यां भृग्वङ्गिरोभ्य उशनसे काव्याय (कौशिकसूत्र १४,३[१३९].७) ततो_अभयैरपराजितैर्गणकर्मभिर्विश्वकर्मभिरायुष्यैः स्वस्त्ययनैराज्यं जुहुयात् (कौशिकसूत्र १४,३[१३९].८) <मा नो देवा अहिर्वधीत्[६.५६.१]>_<अरसस्य शर्कोटस्य [७.५६.५]>_<इन्द्रस्य प्रथमो रथो [१०.४.१]> <यस्ते सर्पो वृश्चिकस्तृष्टदंश्मा [१२.१.४६]> <नमस्ते अस्तु विद्युते [१.१३.१]>_<आरेऽसावमदस्तु [१.२६.१]> <यस्ते पृथु स्तनयित्नुर्[७.११.१]> इति संस्थाप्य होमान् (कौशिकसूत्र १४,३[१३९].९) प्रतिष्ठाप्य स्रुवं दधिसक्तून् प्राश्याचम्य_उदकमुपसमारभन्ते (कौशिकसूत्र १४,३[१३९].१०) <अव्यचसश्च [१९.६८.१]>_इति जपित्वा सावित्रीं <ब्रह्म जज्ञानं [४.१.१]>_इत्येकां त्रिषप्तीयं च पच्छो वाचयेत् (कौशिकसूत्र १४,३[१३९].११) शेषमनुवाकस्य जपन्ति (कौशिकसूत्र १४,३[१३९].१२) योयो भोगः कर्तव्यो भवति तंतं कुर्वते (कौशिकसूत्र १४,३[१३९].१३) स खलु_एतं पक्षमपक्षीयमाणः पक्षमधीयान उपश्राम्येता दर्शात् (कौशिकसूत्र १४,३[१३९].१४) दृष्टे चन्द्रमसि फल्गुनीषु द्वयान् रसानुपसादयति (कौशिकसूत्र १४,३[१३९].१५) <विश्वे देवा [१.३०.१]> <अहं रुद्रेभिर्[४.३०.१]>_<सिंहे व्याघ्रे [६.३८.१]> <यशो हविर्[६.३९.१]> <यशसं मेन्द्रो [६.५८.१]> <गिरावरगराटेषु (एद्. अरागराटेषु) [६.६९.१]> <यथा सोमः प्रातःसवने [९.१.११]> <यच्च वर्चो अक्षेषु [१४.१.३५]> <येन महानघ्न्या जघनम् [१४.१.३६]>_स्वाहा_इत्यग्नौ हुत्वा (कौशिकसूत्र १४,३[१३९].१६) रसेषु संपातानानीय संस्थाप्य होमान् (कौशिकसूत्र १४,३[१३९].१७) तत एतान् प्राशयति रसान्मधु घृतान्_शिष्यान् (कौशिकसूत्र १४,३[१३९].१८) योयो भोगः कर्तव्यो भवति तटं कुर्वते (कौशिकसूत्र १४,३[१३९].१९) नान्यत आगतान्_शिष्यान् परिगृह्णीयात्परसंदीक्षितत्वात् (कौशिकसूत्र १४,३[१३९].२०) त्रिरात्रोनान्_चतुरो मासान्_शिष्येभ्यः प्रब्रूयादर्धपञ्चमान् वा (कौशिकसूत्र १४,३[१३९].२१) पादं पूर्वरात्रे_अधीयानः पादमपररात्रे मध्यरात्रे स्वपन् (कौशिकसूत्र १४,३[१३९].२२) अभुक्त्वा पूर्वरात्रे_अधीयान इत्येके (कौशिकसूत्र १४,३[१३९].२३) यथाशक्त्यपररात्रे दुष्परिमाणो ह पादः (कौशिकसूत्र १४,३[१३९].२४) पौषस्यापरपक्षे त्रिरात्रं नाधीयीत (कौशिकसूत्र १४,३[१३९].२५) तृतीयस्याः प्रातः समासं संदिश्य <यस्मात्कोशाद्[१९.७२.१, ড়्ष्१९.३५.३]> इत्यन्तः (कौशिकसूत्र १४,३[१३९].२६) <यस्मात्कोशादुदभराम वेदं तस्मिन्नन्तरव दध्म एनम् । अधीतम् [सिच्!] इष्टं ब्रह्मणो वीर्येण तेन मा देवास्तपसावतेह [१९.७२.१ (बुत्नोते सकलपाठ) = ড়्ष्१९.३५.३]>_इति (कौशिकसूत्र १४,३[१३९].२७) योयो भोगः कर्तव्यो भवति तंतं कुर्वते (कौशिकसूत्र १४,३[१३९].२८) ये परिमोक्षं कामयन्ते ते परिमुच्यन्ते (कौशिकसूत्र १४,४[१४०].१) अथ राज्ञामिन्द्रमहस्य_उपाचारकल्पं व्याख्यास्यामः (कौशिकसूत्र १४,४[१४०].२) प्रोष्ठपदे शुक्लपक्षे_अश्वयुजे वाष्टम्यां प्रवेशः (कौशिकसूत्र १४,४[१४०].३) श्रवणेन_उत्थापनम् (कौशिकसूत्र १४,४[१४०].४) संभृतेषु संभारेषु ब्रह्मा राजा च_उभौ स्नातौ_अहतवसनौ सुरभिणौ व्रतवन्तौ कर्मण्यौ_उपवसतः (कौशिकसूत्र १४,४[१४०].५) श्वो भूते शं नो देव्याः पादैरर्धर्चाभ्यामृचा षट्कृत्वा_उदकमाचामतः (कौशिकसूत्र १४,४[१४०].६) <अर्वाञ्चमिन्द्रम् [५.३.११]>_<त्रातारम् [७.८६.१]> <इन्द्रः सुत्रामा [७.९१.१]>_इत्याज्यं हुत्वा (कौशिकसूत्र १४,४[१४०].७) अथ_इन्द्रमुत्थापयन्ति (कौशिकसूत्र १४,४[१४०].८) <आ त्वाहार्षम् [६.८७.१]>_<ध्रुवा द्यौर्[६.८८.१]> <विशस्त्वा सर्वा वाञ्छन्तु [६.८७.१ ]>_इति सर्वतो_अप्रमत्ता धारयेरन् (कौशिकसूत्र १४,४[१४०].९) अद्भुतं हि विमानोत्थितमुपतिष्ठन्ते (कौशिकसूत्र १४,४[१४०].१०) <अभिभूर्यज्ञो [६.९७.१]>_इत्येतैस्त्रिभिः सूक्तैरन्वारब्धे राजनि पूर्णहोमं जुहुयात् (कौशिकसूत्र १४,४[१४०].११) अथ पशूनामुपाचारम् (कौशिकसूत्र १४,४[१४०].१२) इन्द्रदेवताः स्युः (कौशिकसूत्र १४,४[१४०].१३) ये राज्ञो भृत्याः स्युः सर्वे दीक्षिता ब्रह्मचारिणः स्युः (कौशिकसूत्र १४,४[१४०].१४) इन्द्रं च_उपसद्य यजेरन्_त्रिरात्रं पञ्चरात्रं वा (कौशिकसूत्र १४,४[१४०].१५) त्रिरयनमह्नामुपतिष्ठन्ते हविषा च यजन्ते (कौशिकसूत्र १४,४[१४०].१६) आवृत <इन्द्रमहं [३.१५.१]>_इति (कौशिकसूत्र १४,४[१४०].१७) <इन्द्र क्षत्रम् [७.८४.२]> इति हविषो हुत्वा ब्राह्मणान् परिचरेयुः (कौशिकसूत्र १४,४[१४०].१८) न संस्थितहोमाञ्जुहुयादित्याहुराचार्याः (कौशिकसूत्र १४,४[१४०].१९) इन्द्रस्यावभृथादिन्द्रमवभृथाय व्रजन्ति (कौशिकसूत्र १४,४[१४०].२०) अपां सूक्तैराप्लुत्य प्रदक्षिणमावृत्याप उपस्पृश्यानवेक्षमाणाः प्रत्युदाव्रजन्ति (कौशिकसूत्र १४,४[१४०].२१) ब्राह्मणान् भक्तेन_उपेप्सन्ति (कौशिकसूत्र १४,४[१४०].२२) श्वःश्वो_अस्य राष्ट्रं ज्यायो भवति_एको_अस्यां पृथिव्यां राजा भवति न पुरा जरसः प्रमीयते य एवण्वेद यश्च_एवं विद्वानिन्द्रमहेण चरति (कौशिकसूत्र १४,५[१४१].१) अथ वेदस्याध्ययनविधिं वक्ष्यामः (कौशिकसूत्र १४,५[१४१].२) श्रावण्यां प्रौष्ठपद्यां वा_उपाकृत्यार्धपञ्चमान्मासानधीयीरन् (कौशिकसूत्र १४,५[१४१].३) एवं छन्दांसि (कौशिकसूत्र १४,५[१४१].४) लोम्नां चानिवर्तनम् (कौशिकसूत्र १४,५[१४१].५) <अर्धमासं चोपाकृत्य क्षपेरंस्त्र्यहमुत्सृज्य । आरम्भः श्रावण्यामुक्तः पौष्यामुत्सर्ग उच्यते []> (कौशिकसूत्र १४,५[१४१].६) अथानध्यायान् वक्ष्यामः (कौशिकसूत्र १४,५[१४१].७) ब्रह्मज्येषु निवर्तते (कौशिकसूत्र १४,५[१४१].८) श्राद्धे (कौशिकसूत्र १४,५[१४१].९) सूतकोत्थानछर्दनेषु त्रिषु चरणम् (कौशिकसूत्र १४,५[१४१].१०) आचार्यास्तमिते वा येषां च मानुषी योनिः (कौशिकसूत्र १४,५[१४१].११) यथाश्राद्धं तथा_एव तेषु (कौशिकसूत्र १४,५[१४१].१२) सर्वं च श्राद्धिकं द्रव्यमदसाहव्यपेतं प्रतिगृह्यानध्यायः (कौशिकसूत्र १४,५[१४१].१३) प्राणि चाप्राणि च (कौशिकसूत्र १४,५[१४१].१४) दन्तधावने (कौशिकसूत्र १४,५[१४१].१५) क्षुरसंस्पर्शे (कौशिकसूत्र १४,५[१४१].१६) प्रादुष्कृतेषु_अग्निषु (कौशिकसूत्र १४,५[१४१].१७) विद्युतार्धरात्रे स्तनिते (कौशिकसूत्र १४,५[१४१].१८) सप्तकृत्वो वर्षेण विरत आ प्रातराशम् (कौशिकसूत्र १४,५[१४१].१९) वृष्टे (कौशिकसूत्र १४,५[१४१].२०) निर्घाते (कौशिकसूत्र १४,५[१४१].२१) भूमिचलने (कौशिकसूत्र १४,५[१४१].२२) ज्योतिषा_उपसर्जन ऋतौ_अपि_आ कालम् (कौशिकसूत्र १४,५[१४१].२३) विषमे न प्रवृत्तिः (कौशिकसूत्र १४,५[१४१].२४) अथ प्रमाणं वक्ष्यामः समानं विद्युदुल्कयोः । मार्गशीर्षपौषमाघापरपक्षेषु तिस्रो_अष्टकाः (कौशिकसूत्र १४,५[१४१].२५) अमावास्यायां च (कौशिकसूत्र १४,५[१४१].२६) त्रीणि चानध्यानि (कौशिकसूत्र १४,५[१४१].२७) <जनने मरणे चैव दशरात्रो विधीयते । आचार्ये दशरात्रं स्यात्सर्वेषु च स्वयोनिषु []> (कौशिकसूत्र १४,५[१४१].२८) सूतके तु_एको नाधीयीत त्रिरात्रमुपाध्यायं वर्जयेत् (कौशिकसूत्र १४,५[१४१].२९) आचार्यपुत्रभार्याश्च (कौशिकसूत्र १४,५[१४१].३०) अथ शिष्यं सहाध्यायिनमप्रधानगुरुं च_उपसन्नमहोरात्रं वर्जयेत् (कौशिकसूत्र १४,५[१४१].३१) तथा सब्रह्मचारिणं राजानं च (कौशिकसूत्र १४,५[१४१].३२) अपर्तुदैवमा कालम् (कौशिकसूत्र १४,५[१४१].३३) <अविशेषर्तुकालेन सर्वे निर्घातादयः स्मृताः । यच्चान्यद्दैवमद्भुतं सर्वं निर्घातवद्भवेत्[]> (कौशिकसूत्र १४,५[१४१].३४) <ऋतावध्यायश्छान्दसः काल्प्य आपर्तुकः स्मृतः । ऋतावूर्ध्वं प्रातराशाद्यस्तु कश्चिदनध्यायः । संध्यां प्राप्नोति पश्चिमाम् []> (कौशिकसूत्र १४,५[१४१].३५) सर्वेण प्रदोषो लुप्यते (कौशिकसूत्र १४,५[१४१].३६) निशि निगदायां च विद्युति शिष्टं नाधीयीत (कौशिकसूत्र १४,५[१४१].३७) <अस्तमिते द्विसत्तायां त्रिसत्तायां च पाटवः । अथ तावत्कालं भुक्त्वा प्रदोष [चोर्र्. Bलोओम्fइएल्द्ङ्ङा १९०२ ५१४ एद्. पदोष] उभे संध्ये []> (कौशिकसूत्र १४,५[१४१].३८) <अप्सु श्मशाने शय्यायामभिशस्ते खिलेषु च । अन्तःशवे रथ्यायां ग्रामे चाण्डालसंयुते []> (कौशिकसूत्र १४,५[१४१].३९) <दुर्गन्धे शूद्रसंश्रावे पैङ्गे शब्दे भये रुते । वैधृत्ये नगरेषु च []> (कौशिकसूत्र १४,५[१४१].४०) <अनिक्तेन च वाससा चरितं येन मैथुनम् । शयानः प्रौढपादो चाग्रतोपस्थान्तिके गुरोः []> (कौशिकसूत्र १४,५[१४१].४१) <विरम्य मारुते शीघ्रे प्रत्यारम्भो विभाषितः । सर्वेणापररात्रेण विरम्य प्रत्यारम्भो न विद्युते []> (कौशिकसूत्र १४,५[१४१].४२) पौषी प्रमाणमभ्रेषु_आपर्तु चेदधीयानाम् (कौशिकसूत्र १४,५[१४१].४३) वर्षं विद्युत्स्तनयित्नुर्वा विपद्यते (कौशिकसूत्र १४,५[१४१].४४) त्रिरात्रं स्थानासनं ब्रह्मचर्यमरसाशं च_उपयेयुः (कौशिकसूत्र १४,५[१४१].४५) सा तत्र प्रायश्चित्तिः सा तत्र प्रायश्चित्तिः (Kऔश्ष्१४ Cओलोफोन्) इति अथर्ववेदे कौशिकसूत्रे चतुर्दशोऽध्यायः समाप्तः (Kऔश्ष्ড়ोस्त्Cओलोफोन्) इति कौशिकसूत्रं समाप्तम्