णादबिन्दूपनिषत् ओं अकारो दक्षिणः पक्ष उकारस्तूत्तरः स्मृतः । मकारस्तस्य पुच्छं वा अर्धमात्रा शिरस्तथा ॥ ॥ पादौ रजस्तमस्तस्य शरीरं सत्त्वमुच्यते । धर्मश्च दक्षिणं चक्षुरधर्मश्चोत्तरं स्मृतम् ॥ ण्बिऊप्_२ ॥ भूर्लोकः पादयोस्तस्य भुवर्लोकस्तु जानुनोः । स्वर्लोकः कटिदेशे तु नाभिदेशे महर्जगत् ॥ ण्बिऊप्_३ ॥ जनलोकस्तु हृदये कण्ठदेशे तपस्ततः । भ्रुवोर्ललाटमध्ये तु सत्यलोको व्यवस्थितः ॥ ण्बिऊप्_४ ॥ सहस्रमिति चात्र मन्त्र एव प्रदर्शितः । एवमेनं समारूढो हंसं योगविचक्षणः ॥ ण्बिऊप्_५ ॥ न बध्यते कर्मचारी पापकोटिशतैरपि । आग्नेयी प्रथमा मात्रा वायव्यैषा वशानुगा ॥ ण्बिऊप्_६ ॥ भानुमण्डलसंकाशा भवेन्मात्रा तथोत्तरा । परमा चार्धमात्रा च वारुणीं तां विदुर्बुधाः ॥ ण्बिऊप्_७ ॥ कलात्रयानना वापि तासां मात्राप्रतिष्ठिता । एष ओंकार आख्यातो धारणाभिर्निबोधत ॥ ण्बिऊप्_८ ॥ योषिणी प्रथमा मात्रा विद्युन्माला तथापरा । पतंगी च तृतीया स्याच्चतुर्थी वायुवेगिनी ॥ ण्बिऊप्_९ ॥ पञ्चमीनामधेया च षष्ठी चैन्द्री विधीयते । सप्तमी वैष्णवी नाम शंकरी च तथाष्टमी ॥ ० ॥ नवमी महती नाम ध्रुवेति दशमी मता । एकादशी भवेन्मौनी ब्राह्मीति द्वादशी मता ॥ १ ॥ प्रथमायां तु मात्रायां यदि प्राणैर्वियुज्यते । स राजा भारते वर्षे सार्वभौमः प्रजायते ॥ २ ॥ द्वितीयायां समुत्क्रान्तो भवेद्यक्षो महात्मवान् । विद्याधरस्तृतीयायां गन्धर्वस्तु चतुर्थिकाम् ॥ ३ ॥ पञ्चम्यामथ मात्रायां यदि प्राणैर्वियुज्यते । उषितः सहदेवत्वं सोमलोके महीयते ॥ ४ ॥ षष्ठ्यामिन्द्रस्य सायुज्यं सप्तम्यां वैष्णवं पदम् । अष्टम्यां व्रजते रुद्रं पशूनां च पतिं तथा ॥ ५ ॥ नवम्यां च महर्लोकं दशम्यां च ध्रुवं व्रजेत् । एकादश्यां तपोलोकं द्वादश्यां ब्रह्म शाश्वतम् ॥ ६ ॥ ततः परं शुद्धं व्यापकं निष्कलं शिवम् । सदोदितं परं ब्रह्म ज्योतिषामुदयो यतः ॥ ७ ॥ अतीन्द्रियं गुणातीतं मनो लीनं यदा भवेत् । अनौपम्यमभावं च योगयुक्तं तदादिशेत् ॥ ८ ॥ तद्भक्तस्तत्समासक्तः शनैर्मुञ्चेत्कलेवरम् । सुस्थितो योगचारेण सर्वसङ्गविवर्जितः ॥ ९ ॥ ततो विलीनपाशोऽसौ विमलः केवलः प्रभुः । तेनैव ब्रह्मभावेन परमानन्दमश्नुते ॥ ण्बिऊप्_२० ॥