सुकेशा च भारद्वाजः शैब्यश्च सत्यकामः सौर्यायणी च गार्ग्यः कौसल्यश्चाश्वलायनो भार्गवो वैदर्भिः कबन्धी कात्यायनस्ते हैते ब्रह्मपरा ब्रह्मनिष्ठा परं ब्रह्मान्वेषमाणा एष ह वै तत्सर्वं वक्ष्यतीति ते ह समित्पाणयो भगवन्तं पिप्पलादमुपसन्नाः ॥ १.१ ॥ तान् ह स ऋषिरुवाच । भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ । यथाकामं प्रश्नान् पृच्छत । यदि विज्ञास्यामः सर्वं ह वो वक्ष्याम इति ॥ १.२ ॥ अथ कबन्धी कात्यायन उपेत्य पप्रच्छ । भगवन् कुतो ह वा इमाः प्रजाः प्रजायन्त इति ॥ १.३ ॥ तस्मै स होवाच । प्रजाकामो वै प्रजापतिः । स तपोऽतप्यत । स तपस्तप्त्वा स मिथुनमुत्पादयते रयिं च प्राणं चेति । एतौ मे बहुधाः प्रजाः करिष्यत इति ॥ १.४ ॥ आदित्यो ह वै प्राणो रयिरेव चन्द्रमाः । रयिर्वा एतत्सर्वं यन्मूर्तं चामूर्तं च । तस्मान्मूर्तिरेव रयिः ॥ १.५ ॥ अथादित्य उदयन् यत्प्राचीं दिशं प्रविशति तेन प्राच्यान् प्राणान् रश्मिषु संनिधत्ते । यद्दक्षिणं यत्प्रतीचीं यदुदीचीं यदधो यदूर्ध्वं यदन्तरा दिशो यत्सर्वं प्रकाशयति तेन सर्वान् प्राणान् रश्मिषु संनिधत्ते ॥ १.६ ॥ स एष वैश्वानरो विश्वरूपः प्राणोऽग्निरुदयते । तदेतद्दचाभ्युक्तम् ॥ १.७ ॥ विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् । सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥ १.८ ॥ संवत्सरो वै प्रजापतिः । तस्यायने दक्षिणं चोत्तरं च । तद्ये ह वै तदिष्टापूर्ते कृतिमित्युपासते ते चान्द्रमसमेव लोकमभिजयन्ते । त एव पुनरावर्तन्ते । तस्मादेत ऋषयः प्रजाकामा दक्षिणं प्रतिपद्यन्ते । एष ह वै रयिर्यः पितृयाणः ॥ १.९ ॥ अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयन्ते । एतद्वै प्राणानामायतनमेतदमृतमयमेतत्परायणम् । एतस्मान्न पुनरावर्तन्त इति । एष निरोधः । तदेष श्लोकः ॥ १.१० ॥ पञ्चपादं पितरं द्वादशकृतिं दिव आहुः परे अर्धे पुरीषिणम् । अथेमे अन्य उ परे विचक्षणं सप्तचक्रे षडर आहुरर्पितमिति ॥ १.११ ॥ मासो वै प्रजापतिः । तस्य कृष्णपक्ष एव रयिः शुक्लः प्राणः । तस्मादेत ऋषयः शुक्ल इष्टं कुर्वन्तीतर इतरस्मिन् ॥ १.१२ ॥ अहोरात्रो वै प्रजापतिः । तस्याहरेव प्राणो रात्रिरेव रयिः । प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते । ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या संयुज्यन्ते ॥ १.१३ ॥ अन्नं वै प्रजापतिस्ततो ह वै तद्रेतः । तस्मादिमाः प्रजाः प्रजायन्त इति ॥ १.१४ ॥ तद्ये ह वै तत्प्रजापतिव्रतं चरन्ति । ते मिथुनमुत्पादयन्ते । तेषामेवैष ब्रह्मलोकः । येषां तपो ब्रह्मचर्यम् । येषु सत्यं प्रतिष्ठितम् ॥ १.१५ ॥ तेषामसौ विरजो ब्रह्मलोको न येषु जिह्वमनृतं न माया चेति ॥ १.१६ ॥ अत हैनं भार्गवो वैदर्भिः पप्रच्छ । भगवन् कत्येव देवाः प्रजां विधारयन्ते । कतर एतत्प्रकाशयन्ते । कः पुनरेषां वरिष्ठ इति ॥ २.१ ॥ तस्मै स होवाच । आकाशो ह वा एष देवो वायुरग्निरापः पृथिवी वाङ्मनश्चक्षु श्रोत्रं च । ते प्रकाश्याभिवदन्ति । वयमेतद्बाणमवष्टभ्य विधारयामः ॥ २.२ ॥ तान् वरिष्टः प्राण उवाच । मा मोहमापद्यथ, अहमेवैतत्पञ्चधात्मानं प्रविभज्यैतद्बाणमवष्टभ्य विधारयामीति । तेऽश्रद्दधाना बभूवुः ॥ २.३ ॥ सोऽभिमानादूर्ध्वमुत्क्रमत इव । तस्मिन्नुत्क्रामत्यथेतरे सर्व एवोत्क्रामन्ते । तस्मिंश्च प्रतिष्ठमाने सर्व एव प्रातिष्ठन्ते । तद्यथा मक्षिका मधुकरराजानमुत्क्रामन्तं सर्वा एवोत्क्रामन्ते । तस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रातिष्ठन्ते । एवं वाङ्मनश्चक्षुःश्रोत्रं च । ते प्रीताः प्राणं स्तुन्वन्ति ॥ २.४ ॥ एषोऽग्निस्तपत्येष सूर्य एष पर्जन्यो मघवानेष वायुः । एष पृथिवी रयिर्देवः सदसच्चामृतं च यत् ॥ २.५ ॥ अरा इव रथनाभौ प्राणे सर्वं प्रतिष्ठितम् । ऋचो यजूंषि सामानि यज्ञः क्षत्रं ब्रह्म च ॥ २.६॥ प्रजापतिश्चरसि गर्भे त्वमेव प्रतिजायसे । तुभ्यं प्राण प्रजास्त्विमा बलिं हरन्ति यः प्राणैः प्रतिष्ठसि ॥ २.७ ॥ देवानामसि वह्नितमः पितॄणां प्रथमा स्वधा । ऋषीणां चरितं सत्यमथर्वाङ्गिरसामसि ॥ २.८ ॥ इन्द्रस्त्वं प्राण तेजसा रुद्रोऽसि संहरञ्जगत् । स्थितौ च परि समन्ताद्रक्षिता पालयिता परिरक्षिता । त्वमेव जगतः सौम्येन रूपेण । त्वमन्तरिक्षेऽजस्रं चरसि उदयास्तमयाभ्यां सूर्यस्त्वमेव च सर्वेषां ज्योतिषां पतिः ॥ २.९ ॥ यदा त्वमभिवर्षस्यथेमाः प्राण ते प्रजाः । आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति ॥ २.१०॥ व्रात्यस्त्वं प्राणैकऋषिरत्ता विश्वस्य सत्पतिः । वयमाद्यस्य दातारः पिता त्वं मातरिश्व नः ॥ २.११॥ या ते तनूर्वाचि प्रतिष्ठिता या श्रोत्रं या च चक्षुषि । या च मनसि संतता शिवां तां कुरु मोत्क्रमीः ॥ २.१२ ॥ प्राणस्येदं वशे सर्वं त्रिदिवे यत्प्रतिष्ठितम् । मातेव पुत्रान् रक्षस्व श्रीश्च प्रज्ञां च विधेहि न इति ॥ २.१३ ॥ अथ हैनं कौसल्यश्चाश्वलायनः पप्रच्छ । भगवन् कुत एष प्राणो जायते । कथमायात्यस्मिन् शरीरे । आत्मानं वा प्रविभज्य कथं प्रातिष्ठते । केनोत्क्रमते । कथं बाह्यमभिधत्ते । कथमध्यात्ममिति ॥ ३.१ ॥ तस्मै स होवाच । अतिप्रश्नान् पृच्छसि । ब्रह्मिष्ठोऽसीति । तस्मात्तेऽहं ब्रवीमि ॥ ३.२ ॥ आत्मन एष प्राणो जायते । यथैषा पुरुषे छायैतस्मिन्नेतदाततम् । मनोकृतेनायात्यस्मिञ्शरीरे ॥ ३.३ ॥ यथा सम्राडेवाधिकृतान् विनियुङ्क्ते । एतान् ग्रामानेतान् ग्रामानधितिष्ठस्वेति । एवमेवैष प्राण इतरान् प्राणान् पृथक्पृथगेव संनिधत्ते ॥ ३.४ ॥ पायूपस्थेऽपानम् । चक्षुःश्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रतिष्ठते । मध्ये तु समानः । एष ह्येतद्धुतमन्नं समं नयति । तस्मादेताः सप्तार्चिषो भवन्ति ॥ ३.५ ॥ हृदि ह्येष आत्मा । अत्रैतदेकशतं नाडीनाम् । तासां शतं शतमेकैकस्याः । द्वासप्ततिर्द्वासप्ततिः प्रतिशाखानाडीसहस्राणि भवन्ति । आसु व्यानश्चरति ॥ ३.६ ॥ अथैकयोर्ध्व उदानः पुण्येन पुण्यं लोकं नयति । पापेन पापम् । उभाभ्यामेव मनुष्यलोकम् ॥ ३.७ ॥ आदित्यो ह वै बाह्यः प्राण उदयति । एष ह्येनं चाक्षुषं प्राणमनुगृह्णानः । पृथिव्यां या देवता सैषा पुरुषस्यापानमवष्टभ्य । अन्तरा यदाकाशः स समानः । वायुर्व्यानः ॥ ३.८ ॥ तेजो ह वा उदानः । तस्मादुपशान्ततेजाः । पुनर्भवमिन्द्रियैर्मनसि संपद्यमानैः ॥ ३.९ ॥ यच्चित्तस्तेनैष प्राणमायाति । प्राणस्तेजसा युक्तः सहात्मना यथा संकल्पितं लोकं नयति ॥ ३.१० ॥ य एवं विद्वान् प्राणं वेद । न हास्य प्रजा हीयतेऽमृतो भवति । तदेष श्लोकः ॥ ३.११ ॥ उत्पत्तिमायातिं स्थानं विभुत्वं चैव पञ्चधा । अध्यात्मं चैव प्राणस्य विज्ञायामृतमश्नुते विज्ञायामृतमश्नुत इति ॥ ३.१२ ॥ अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ । भगवन्नेतस्मिन् पुरुषे कानि स्वपन्ति । कान्यस्मिञ्जाग्रति । कतर एष देवः स्वप्नान् पश्यति । कस्यैतत्सुखं भवति । कस्मिन्नु सर्वे संप्रतिष्ठिता भवन्तीति ॥ ४.१ ॥ तस्मै स होवाच । यथा गार्ग्य मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतस्मिंस्तेजोमण्डल एकीभवन्ति । ताः पुनः पुनरुदयतः प्रचरन्ति । एवं ह वै तत्सर्वं परे देवे मनस्येकीभवति । तेन तर्ह्येष पुरुषो न शृणोति । न पश्यति । न जिघ्रति । न रसयते । न स्पृशते । नाभिवदते । नादत्ते । नानन्दयते । न विसृजते । नेयायते । स्वपतीत्याचक्षते ॥ ४.२ ॥ प्राणाग्नय एवैतस्मिन् पुरे जाग्रति । गार्हपत्यो ह वा एषोऽपानः । व्यानोऽन्वाहार्यपचनः । यद्गार्हपत्यात्प्रणीयते प्रणयनात् । आहवनीयः प्राणः ॥ ४.३ ॥ यदुच्छ्वासनिःश्वासावेतावाहुती समं नयतीति स समानः । मनो ह वावन यजमानः । इष्टफलमेवोदानः । स एनं यजमानमहरहर्ब्रह्म गमयति ॥ ४.४ ॥ अत्रैष देवः स्वप्ने महिमानमनुभवति । यद्दृष्टं इष्टमनुपश्यति । श्रुतं श्रुतमेवार्थमनुशृणोति । देशदिगन्तरैश्च प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति । दृष्टं चादृष्टं च श्रुतं चाश्रुतं चानुभूतं चाननुभूतं च सच्चासच्च सर्वं पश्यति । सर्वः पश्यति ॥ ४.५ ॥ स यदा तेजसाभिभूतो भवति । अत्रैष देवः स्वप्नान्न पश्यति । अथ तदैतस्मिञ्शरीर एतत्सुखं भवति ॥ ४.६ ॥ स यथा सोम्य वयांसि वासोवृक्षं संप्रतिष्ठन्ते । एवं ह वै तत्सर्वं पर आत्मनि संप्रतिष्ठते ॥ ४.७ ॥ पृथिवी च पृथिवीमात्रा च । आपश्चापोमात्रा च । तेजश्च तेजोमात्रा च । वायुश्च वायुमात्रा च । आकाशश्चाकाशमात्रा च । चक्षुश्च द्रष्टव्यं च । श्रोत्रं च श्रोतव्यं च । घ्राणं च घ्रातव्यं च । रसश्च रसयितव्यं च । त्वक्च स्पर्शयितव्यं च । वाक्च वक्तव्यं च । हस्तौ चादातव्यं च । उपस्थश्चानन्दयितव्यं च । पायुश्च विसर्जयितव्यं च । पादौ च गन्तव्यं च । मनश्च मन्तव्यं च । बुद्धिश्च बोद्धव्यं च । अहङ्कारश्चाहङ्कर्तव्यं च । चित्तं च चेतयितव्यं च । तेजश्च विद्योतयितव्यं च । प्राणश्च विधारयितव्यं च ॥ ४.८ ॥ एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः । स परेऽक्षर आत्मनि संप्रतिष्ठते ॥ ४.९ ॥ परमेवाक्षरं प्रतिपद्यते । स यो ह वै तदच्छायमशरीरमलोहितं शुभ्रमक्षरं वेदयते यस्तु सोम्य । स सर्वः सर्वो भवति । तदेष श्लोकः ॥ ४.१० ॥ विज्ञानात्मा सह देवैश्च सर्वैः प्राणा भूतानि संप्रतिष्ठन्ति यत्र । तदक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वमेवाविवेशेति ॥ ४.११ ॥ अथ हैनं शैब्यः सत्यकामः पप्रच्छ । स यो ह वै तद्भगवन्मनुष्येषु प्रायणान्तमोंकारमभिध्यायीत । कतमं वाव स तेन लोकं जयतीति ॥ ५.१ ॥ तस्मै स होवाच । एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोंकारः । तस्माद्विद्वानेतेनैवायतनेनैकतरमन्वेति ॥ ५.२ ॥ स यद्येकमात्रमभिध्यायीत । स तेनैव संवेदितस्तूर्णमेव जगत्यामभिसम्पद्यते । तमृचो मनुष्यलोकमुपनयन्ते । स तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमानमनुभवति ॥ ५.३ ॥ अथ यदि द्विमात्रेण मनसि संपद्यते । सोऽन्तरीक्षं यजुर्भिरुन्नीयते सोमलोकम् । स सोमलोके विभूतिमनुभूय पुनरावर्तते ॥ ५.४ ॥ यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत । स तेजसि सूर्ये संपन्नः । यथा पादोदरस्त्वचा विनिर्मुच्यते । एवं ह वै स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकम् । स एतस्माज्जीवधनात्परापरं पुरिशयं पुरुषमीक्षते तदेतौ श्लोकौ भवतः ॥ ५.५ ॥ तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता अन्योन्यसक्ता अनविप्रयुक्ताः । क्रियासु बाह्याभ्यन्तरमध्यमासु सम्यक्प्रयुक्तासु न कम्पते ज्ञः ॥ ५.६ ॥ ऋग्भिरेतं यजुर्भिरन्तरिक्षं सामभिर्यत्तत्कवयो वेदयन्ते । तमोंकारेणैवायतनेनान्वेति विद्वान् यत्तच्छान्तमजरममृतमभयं परं चेति ॥ ५.७ ॥ अथ हैनं सुकेशा भारद्वाजः पप्रच्छ । भगवन् हिरण्यनाभः कौसल्यो राजपुत्रो मामुपेत्यैतं प्रश्नमपृच्छत । षोडशकलं भारद्वाज पुरुषं वेत्थ । तमहं कुमारमब्रुवं नाहमिमं वेद । यद्यहमिममवेदिषं कथं ते नावक्ष्यमिति । समूलो वा एष परिशुष्यति योऽनृतमभिवदति । तस्मान्नार्हाम्यनृतं वक्तुम् । स तूष्णीं रथमारुह्य प्रवव्राज । तं त्वा पृच्छामि कासौ पुरुष इति ॥ ६.१ ॥ तस्मै स होवाच । इहैवान्तः शरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडश कलाः प्रभवन्तीति ॥ ६.२ ॥ स ईक्षां चक्रे । कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामीति ॥ ६.३ ॥ स प्राणमसृजत । प्राणाच्छद्वां खं वायुर्ज्योतिरापः पृथिवीन्द्रियं मनोऽन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु नाम च ॥ ६.४ ॥ स यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तं गच्छन्ति । भिद्येते तासां नामरूपे । समुद्र इत्येवं प्रोच्यते । एवमेवास्य परिद्रष्टुरिमाः षोडश कलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति । भिद्येते चासां नामरूपे । पुरुष इत्येवं प्रोच्यते । स एषोऽकलोऽमृतो भवति तदेष श्लोकः ॥ ६.५ ॥ अरा इव रथनाभौ कला यस्मिन् प्रतिष्ठिताः । तं वेद्यं पुरुषं वेद यथा मा वो मृत्युः परिव्यथा इति ॥ ६.६ ॥ तान् होवाच । एतावदेवाहमेतत्परं ब्रह्म वेद । नातः परमस्तीति ॥ ६.७ ॥ ते तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसीति नमः । परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ६.८ ॥