ऐतरेयोपनिषद् शान्तिपाठः ओं वाङ्मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठितमाविरावीर्मा एधि । वेदस्य मे आणीस्थः श्रुतं मे मा प्रहासीः । अनेनाधीतेनाहोरात्रान्सन्दधाम्यृतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु मामवतु वक्तारमवतु वक्तारम् ॥ ओं शान्तिः! शान्ति!! शान्तिः!!! सम्बन्धभाष्य परिसमाप्तं कर्म सहापरब्रह्मविषयविज्ञानेन । सैषा कर्मणो ज्ञानसहितस्य परा गतिरुक्थविज्ञानद्वारेणोपसंहृता । "एतत्सत्यं ब्रह्म प्राणाख्यम्""एष एको देवः""एतस्यैव प्राणस्य सर्वे देवा विभूतयः""एतस्य प्राणस्यात्मभावं गच्छन्देवता अप्येति"इत्युक्तम् । सोऽयं देवताप्ययलक्षणः परः पुरुषार्थः, एष मोक्षः । स चायं यथोक्तेन ज्ञानकर्मसमुच्चयसाधनेन प्राप्तव्यो नातः परमस्तीत्येके प्रतिपन्नाः । तान्निराचिकीर्षुरुत्तरं केवलात्मज्ञानविधानार्थम्ऽात्मा वा इदम्ऽ इत्याद्याह । कथं पुनरकर्मसम्बन्धिकेवलात्मविज्ञानविधानार्थ उत्तरो ग्रन्थ इति गम्यते? अन्यार्थानवगमात् । तथा च पूर्वोक्तानां देवतानामग्न्यादीनां संसारित्वं दर्शयिष्यत्यशनायादिदोषवत्त्वेन"तमशनापिपासाभ्यामन्ववार्जम्"(१ । २ । १) इत्यादिना । अशनायादिमत्सर्वं संसार एव परस्य तु ब्रह्मणोऽशनायाद्यत्ययश्रुतेः । भवत्येवं केवलात्मज्ञानं मोक्षसाधनं न त्वत्राकर्म्येवाधिक्रियते विशेषाश्रवणात् । अकर्मिण आश्रम्यन्तरस्येहाश्रवणात् । कर्म च बृहतीसहस्रलक्षणं प्रस्तुत्यानन्तरमेवात्मज्ञानं प्रारभ्यते । तस्मात्कर्म्येवाधिक्रियते । न च कर्मासंबन्ध्यात्मविज्ञानं पूर्ववदन्त उपसंहारात् । यथा कर्मसंबन्धिनः पुरुषस्य सूर्यात्मनः स्थावरजङ्गमादिसर्वप्राण्यात्मत्वमुक्तं ब्राह्मणेन मन्त्रेण च"सूर्य आत्मा"(ऋ.सं.१ । ११४ । १) इत्यादिना, तथैवऽेष ब्रह्मैष इन्द्रःऽ (३ । १ । ३) इत्याद्युपक्रम्य सर्वप्राण्यात्मत्वम्ऽयच्च स्थावरं सर्वं तत्प्रज्ञानेत्रम्, (३ । १ । ३) इत्युपसंहरिष्यति । तथा च संहितोपनिषदि"एतं ह्येव बहुवृचा महत्युक्थे मीमांसन्ते"(ऐ.आ.३ । २ । ३ । १२) इत्यादिना कर्मसंबन्धित्वमुक्त्वा"सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षते"इत्युपसंहरति । तथा तस्यैव"योऽयमशरीरः प्रज्ञात्मा"इत्युक्तस्य"यश्चासावादित्य एकमेव तदिति विद्यात्"इत्येकत्वमुक्तम् । इहापि"कोऽयमात्मा"(३ । १ । १) इत्युपक्रम्य प्रज्ञात्मत्वमेव"प्रज्ञानं ब्रह्म"(३ । १ । ३) इति दर्शयिष्यति । तस्मान्नाकर्मसंबन्ध्यात्मज्ञानम् । पुनरुक्त्यानर्थक्यमिति चेत् । कथम्?"प्राणो वा अहमस्म्यृषे"इत्यादिब्राह्मणेन"सूर्य आत्मा"इति मन्त्रेण च निर्धारितस्यात्मनः (३ । १ । १) इति प्रश्नपूर्वकं पुनर्निर्धारणं पुनरुक्तमनर्थकमिति चेत्न॑ तस्यैव धर्मान्तरविशेषनिर्धारणार्थत्वान्न पुनरुक्ततादोषः । कथम्? तस्यैव कर्मसंबन्धिनो जगत्सृष्टिस्थितिसंहारादिधर्मविशेषनिर्धारणार्थत्वात्केवलोपास्त्यर्थत्वाद्वा । अथवा आत्मेत्यादिपरो ग्रन्थसन्दर्भ आत्मनः कर्मिणः कर्मणोऽन्यत्रोपासनाप्राप्तौ कर्मप्रस्तावेऽविहितत्वात्केवलोऽप्यात्मोपास्य इत्येवमर्थः । भेदाभेदोपास्यत्वाद्वैक एवात्मा कर्मविषये भेददृष्टिभाक्, स एवाकर्मकालेऽभेदेनाप्युपास्य इत्येवमपुनरुक्तता । "विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते"(ई.उ.११) इति,"कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः"(ई.उ.२) इति च वाजिनाम् । न च वर्षशतात्परमायुर्मर्त्यानाम् । येन कर्मपरित्यागेनात्मानमुपासीत । दर्शितं च"तावन्ति पुरुषायुषोऽह्नां सहस्राणि भवन्ति"इति । वर्षशतं चायुः कर्मणैव व्याप्तम् । दर्शितश्च मन्त्रः"कुर्वन्नेवेह कर्माणि"इत्यादिः । तथा"यावज्जीवमग्निहोत्रञ्जुहोति""यावज्जीवं दर्शपूर्णमासाभ्यां यजेत"इत्याद्याश्च । "तं यज्ञपात्रैर्दहन्ति"इति च । ऋणत्रयश्रुतेश्च । तत्र पारिव्राज्यादि शास्त्रं व्युत्थायाथ भिक्षाचर्यं चरन्ति (बृ.उ.३ । ५ । १, ४ । ४ । २२) इति आत्मज्ञानस्तुतिपरोर्ऽथवादः । अनधिकृतार्थो वा । न॑ परमार्थविज्ञाने फलादर्शने क्रियानुपपत्तेः । यदुक्तं कर्मिण आत्मज्ञानं कर्मसंबन्धि च इत्यादि तन्न । परं ह्याप्तकामं सर्वसंसारदोषवर्जितं ब्रह्माहमस्मीत्यात्मत्वेन विज्ञाने, कृतेन कर्तव्येन वा प्रयोजनमात्मनोऽपश्यत फलादर्शने क्रिया नोपपद्यते । फलादर्शनेऽपि नियुक्तत्वात्करोतीति चेन्न नियोगाविषयात्मदर्शनात् । इष्टयोगमनिष्टवियोगं चात्मनः प्रयोजनं पश्यंस्तदुपायार्थी यो भवति स नियोगस्य विषयो दृष्टो लोके । न तु तद्विपरीतनियोगाविषयब्रह्मात्मत्वदर्शी । ब्रह्मात्मत्वदर्श्यपि संश्चेन्नियुज्येत नियोगाविषयोऽपि सन्न कश्चिन्न नियुक्त इति सर्वं कर्म सर्वेण सर्वदा कर्तव्यं प्रप्नोति । तच्चानिष्टम् । न च स नियोक्तुं शक्यते केनचित्॑ आम्नायस्यापि तत्प्रभवत्वात् । म हि स्वविज्ञानोत्थेन वचसा स्वयं नियुज्यते । नापि बृहवित्स्वाम्यविवेकिना भृत्येन । आम्नायस्य नित्यत्वे सति स्वातंन्त्र्यात्सर्वान्प्रति नियोक्तृत्वसामर्थ्यमिति चेन्न उक्तदोषात् । तथापि सर्वेण सर्वदा सर्वमविशिष्टं कर्म कर्तव्यमित्युक्तो दोषोऽप्यपरिहार्य एव । तदपि शास्त्रेणैव विधीयत इति चेद्यथाकर्मकर्तव्यता शास्त्रेण कृता तथा तदप्यात्मज्ञानं तस्यैव कर्मिणः शास्त्रेण विधीयत इति चेत्, न॑ विरुद्धार्थबोधकत्वानुपपत्तेः । न ह्येकस्मिन्कृताकृतसंबन्धित्वं तद्विपरीतत्वं च बोधयितुं शक्यम्, शीतोष्णतामिवाग्नेः । न चेष्टयोगचिकीर्षा आत्मनोऽनिष्टवियोगाचिकीर्षा च शास्त्रकृता, सर्वप्राणिनां तद्दर्शनात् । शास्त्रकृतं चेत्तदुभयं गोपालादीनां न दृश्येत, अशास्त्रज्ञत्वात्तेषाम् । यद्धि स्वतोऽप्राप्तं तच्छास्त्रेण बोधयितव्यम् । तच्चेत्कृतकर्तव्यताविरोध्यात्मज्ञानं शास्त्रेण कृतम्, कथं तद्विरुद्धां कर्तव्यतां पुनरुत्पादयेच्छीततामिवाग्नौ तम इव च भानौ । न बोधयत्येवेति चेन्न,"स म आत्मेति विद्यात्"(कौ.उ.३ । ९) "प्रज्ञानं ब्रह्म"(३ । १ । ३) इति चोपसंहारात् । "तदात्मानमेवावेत्"(बृ.उ.१ । ४ । ९) "तत्त्वमसि"(छा.उ.६ । ८ १६) इत्येवमादिवाक्यानां तत्परत्वात् । उत्पन्नस्य च ब्रह्मात्मविज्ञानस्याबाध्यमानत्वान्नानुत्पन्नं भ्रान्तं वेति शक्यं वक्तुम् । त्यागेऽपि प्रयोजनाभावस्य तुल्यत्वमिति चेत्"नाकृतेनेह कश्चन"(गीता ३ । २८) इति स्मृतेः य आहुर्विदित्वा ब्रह्म व्युत्थानमेव कुर्यादिति तेषामप्येष समानो दोषः प्रयोजनाभाव इति चेन्न॑ अक्रियामात्रत्वाद्व्युत्थानस्य । अविद्यानिमित्तो हि प्रयोजनस्य भावो न वस्तुधर्मः सर्वप्राणिनां तद्दर्शनात् । प्रयोजनतृष्णया च प्रेर्यमाणस्य वाङ्मनःकायैः प्रवृत्तिदर्शनात् । "सोऽकामयत जाया मे स्यात्"(बृ.उ.१ । ४ । १७) इत्यादिना पुत्रवित्तादि पाङ्क्तलक्षणं काम्यमेवेति"उभे ह्येते एषणे एव"(बृ.उ.३ । ५ । १ ॑ ४ । ४ । २२) इति वाजसनेयिब्राह्मणेऽवधारणात् । अविद्याकामदोषनिमित्ताया वाङ्मनःकायप्रवृत्तेः पाङ्क्तलक्षणाया विदुषोऽविद्यादिदोषाभावादनुपपत्तेः क्रियाभावमात्रं व्युत्थानम्, न तु यागादिवदनुष्ठेयरूपं भावात्मकम् । तच्च विद्यावत्पुरुषधर्म इति न प्रयोजनमन्वेष्टव्यम् । न हि तमसि प्रवृत्तस्योदित आलोके यद्गर्तपङ्ककण्टकाद्यतपनं तत्किंप्रयोजनमिति प्रश्नार्हम् । व्युत्थानं तर्ह्यर्थप्राप्तत्वान्न चोदनार्हमिति गार्हस्थ्ये चेत्परं ब्रह्मविज्ञानं जातं तत्रैवास्त्वकुर्वत आसनं न ततोऽन्यत्र गमनमिति चेन्न कामप्रयुक्तत्वाद्गार्हस्थ्यस्य"एतावान्वै कामः"(बृ.उ.१ । ४ । १७) इति"उभे ह्येते एषणे एव"(बृ,उ.३ । ५ । १ ॑ ४ । ४ । २२) इत्यवधारणात् । कामनिमित्तपुत्रवित्तादिसंबन्धनियमाभावमात्रं न हि ततोऽन्यत्र गमनं व्युत्थानमुच्यते । अतो न गार्हस्थ्य एवाकुर्वत आसनमुत्पन्नविद्यस्य । एतेन गुरुशुश्रूषातपसोरप्यप्रतिपत्तिर्विदुषःसिद्धा । अत्र केचिद्गृहस्था भिक्षाटनादिभयात्परिभवाच्च त्रस्यमानाः सूक्ष्मदृष्टितां दर्शयन्त उत्तरमाहुः भिक्षोरपि भिक्षाटनदिनियमदर्शनाद्देहधारणमात्रार्थिनो गृहस्थस्यापि साध्यसाधनैषणोभयविनिर्मुक्तस्य देहमात्रधारणर्थमशनाच्छादनमात्रमुपजीवतो गृह एवास्त्वासनमिति । न, स्वगृहविशेषपरिग्रहनियमस्य कामप्रयुक्तत्वादित्युक्तोत्तरमेतत् । स्वगृहविशेषपरिग्रहाभावे च शरीरधारणमात्रप्रयुक्ताशनाच्छादनार्थिनः स्वपरिग्रहविशेषाभावेर्ऽथाद्भिक्षुकत्वमेव । शरीरधारणार्थायां भिक्षाटनादिप्रवृत्तौ यथा नियमो भिक्षोः शौचादौ च, तथा गृहिणोऽपि विदुषोऽकामिनोऽस्तु नित्यकर्मसु नियमेन प्रवृत्तिर्यावज्जीवादिश्रुतिनियुक्तत्वात्प्रत्यवायपरिहारायेति । एतन्नियोगाविषयत्वेन विदुषः प्रत्युक्तमशक्यनियोज्यत्वाच्चेति । यावज्जीवादिनित्यचोदनानर्थक्यमिति चेत्? न, अविद्वद्विषयत्वेनार्थवत्त्वात् । यत्तु भिक्षोः शरीरधारणमात्रप्रवृत्तस्य प्रवृत्तेर्नियतत्वं तत्प्रवृत्तेर्न प्रयोजकम् । आचमनप्रवृत्तस्य पिपासापगमवन्नान्यप्रयोजनार्थत्वमवगम्यते । न चाग्निहोत्रादीनां तद्वदर्थप्राप्तप्रवृत्तिनियतत्वोपपत्तिः । अर्थप्राप्तप्रवृत्तिनियमोऽपि प्रयोजनाभावेऽनुपपन्न एवेति चेत्? न, तन्नियमस्य पूर्वप्रवृत्तिसिद्धत्वात्तदतिक्रमे यत्नगौरवात् । अर्थप्राप्तस्य व्युत्थानस्य पुनर्वचनाद्विदुषः कर्तव्यत्वोपपत्तिः । अविदुषोपि मुमुक्षुणा पारिव्राज्यं कर्तव्यमेव । तथा च"शान्तो दान्तः"(बृ.उ.४ । ४ । २३) इत्यादिवचनं प्रमाणम् । शमदमादीनां चात्मदर्शनसाधनानामन्याश्रमेष्वनुपपत्तेः । "अत्याश्रमिभ्यः परम पवित्रं प्रोवाच सम्यगृषिसंघजुष्टम्"(६ । २१) इति च श्वेताश्वतरे विज्ञायते । ऽन कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुःऽ (कैवल्य.२) इति च कैवल्यश्रुतिः । "ज्ञात्वा नैष्कर्म्यमाचरेत्"इति च स्मृतेः । "ब्रह्माश्रमपदे वसेत्"इति च ब्रह्मचर्यादिविद्यासाधनानां च साकल्येनात्याश्रमिषूपपत्तेर्ग्रार्हस्थ्येऽसंभवात् । न चासंपन्नं साधनं कस्यचिदर्थस्य साधनायालम् । यद्विज्ञानोपयोगीनि च गार्हस्थ्याश्रमकर्माणि तेषां परमफलमुपसंहृतं देवताप्ययलक्षणं संसारविषयमेव । यदि कर्मिण एव परमात्मविज्ञानमभविष्यत्संसारविषयस्यैव फलस्योपसंहारो नोपापात्स्यत् । अङ्गफलं तदिति चेन्न तद्विरोध्यात्मवस्तुविषयत्वादात्मविद्यायाः । निराकृतसर्वनामरूपकर्मपरमार्थात्मवस्तुविषयं ज्ञानममृतत्वसाधनम् । गुणफलसंबन्धे हि निराकृतसर्वविशेषात्मवस्तुविषयत्वं ज्ञानस्य न प्राप्नोति । तच्चानिष्टम्,"यत्र त्वस्य सर्वमात्मैवाभूत्" (बृ.उ.२ । ४ । १४) इत्यधिकृत्य क्रियाकारकफलादिसर्वव्यवहारनिराकारणाद्विदुषः । तद्विपरीतस्याविदुषो"यत्र हि द्वैतमिव"(बृ.उ.२ । ४ । १४) इत्युक्त्वा क्रियाकारकफलरूपस्यैव संसारस्य दर्शितत्वाच्च वाजसनेयिब्राह्मणे । तथेहापि देवताप्ययं संसारविषयं यत्फलमशनायादिमद्वस्त्वात्मकं तत्फलमुपसंहृत्य केवलं सर्वात्मकवस्तुविषयं ज्ञानममृतत्वाय वक्ष्यामीति प्रवर्तते । ऋणप्रतिबन्धस्याविदुष एव मनुष्यपितृदेवलोकप्राप्तिं प्रति, न विदुषः । "सोऽयं मनुष्यलोकः पुत्रेणैव"(बृ.उ.१ । ५ । १६) इत्यादिलोकत्रयसाधननियमश्रुतेः । विदुषश्च ऋणप्रतिबन्धाभावो दर्शित आत्मलोकार्थिनः"किं प्रजया करिष्यामः"(बृ.उ.४ । ४ । २२) इत्यादिना । तथा"एतद्व स्म वै तद्विद्वांस आहुरृषः कावषेयाः"इत्यादि । "एतद्ध स्म वै तत्पूर्वे विद्वांसोऽग्निहोत्रं न जुहवाञ्चक्रुः"(कौषी. २ । ५) इति च कौषीतकिनाम् । अविदुषस्तर्हि ऋणानपाकरणे पारिव्राज्यानुपपत्तिरिति चेत्? न॑ प्राग्गार्हस्थ्यप्रतिपत्तेरृणित्वासंभवात् । अधिकारानारूढोऽप्यृणी च स्यात्सर्वस्य ऋणित्वमित्यनिष्टं प्रसज्येताप्रतिपन्नगार्हस्थ्यस्यापि"गृहाद्वनीभूत्वा प्रव्रजेद्यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा"(जा.उ.४) इत्यात्मदर्शनोपायसाधनत्वेनेष्यत एव पारिव्राज्यम् । यावज्जीवादिश्रुतीनामविद्वदमुमुक्षुविषये कृतार्थता । छान्दोग्ये च केषाञ्चिद्द्वादशरात्रमग्निहोत्रं हुत्वा तत ऊर्ध्व परित्यागः श्रूयते । यत्त्वनधिकृतानां पारिव्राज्यमिति, तन्न, तेषां पृथगेव,"उत्सन्नाग्निरनग्निको वा"इत्यादिश्रवणात् । सर्वस्मृतिषु चाविशेषेणाश्रमविकल्पः प्रसिद्धः समुच्चयश्च । यत्तु विदुषोर्ऽथप्राप्तं व्युत्थानमित्यशास्त्रार्थत्वे, गृहे वने वा तिष्ठतो न विशेष इति, तदसत्व्युत्थानस्यैवार्थप्राप्तत्वान्नान्यत्रावस्थानं स्यात् । अन्यत्रावस्थानस्य कामकर्मप्रयुक्तत्वं ह्यवोचाम, तदभावमात्रं व्युत्थानमिति च । यथाकामित्वं तु विदुषोऽत्यन्तमप्राप्तं अत्यन्तमूढविषयत्वेनावगमात् । तथा शास्त्रचोदितमपि कर्म आत्मविदोऽप्राप्तं गुरुभारतयावगम्यते । किमुतात्यन्ताविवेकनिमित्तं यथाकर्मित्वम् । न हि उन्मादतिमिरदृष्ट्युपलब्धं वस्तु तदपगमेऽपि तथैव स्यात् । उन्मादतिमिरदृष्टिनिमित्तत्वादेव तस्य । तस्मादात्मविदो व्युत्थानव्यतिरेकें न यथाकामित्वं न चान्यत्कर्तव्यमित्येतत्सिद्धम् । यत्तु"विद्यां चाविद्यां च यस्यद्वेदोभयं सह"(ई.उ.११) इति न विद्यावतो विद्यया सहाविद्यापि वर्तते इत्ययमर्थः कस्तर्हि एकस्मिन्पुरुषे एते एकदैव न सह संबध्येयातामित्यर्थः । यथा शुक्तिकायां रजतशुक्तिकाज्ञाने एकस्य पुरुषस्य । "दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता"(क.उ.१ । २ । ४) इति हि काठके । तस्मान्न विद्यायां सत्यामविद्यासंभवोऽस्ति । "तपसा ब्रह्म विजिज्ञासस्व"(तै.उ.३ । २) इत्यादिश्रुतेः तप आदि विद्योत्पत्तिसाधनं गुरूपासनादि च कर्म अविद्यात्मकत्वादविद्योच्यते तेन विद्यामुत्पाद्य मृत्युं काममतितरति । ततो निष्कामस्त्यक्तैषणोब्रह्मविद्यया अमृतत्वमश्नुत इत्येऽतमर्थ दर्शयन्नाह "अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते"(ई.उ.११) इति । यत्तु पुरुषायुः सर्वं कर्मणैव व्याप्तं"कुवेन्नेवेह कर्माणि जिजीविषेच्छतं समाः"(ई.उ.२) इति तदविद्वद्विषयत्वेन परिहृतमितरथासंभवात् । यत्तु वक्ष्यमाणमपि पूर्वोक्ततुल्यत्वात्कर्मणाविरुद्धमात्मज्ञानमिति, तत्सविशेषनिर्विशेषात्मतया प्रत्युक्तम्, उत्तरत्र व्याख्याने च दर्शयिष्यामः । अतः केवलनिष्क्रियब्रह्मात्मकत्वविद्यादर्शनार्थमुत्तरो ग्रन्थ आरभ्यते १,१.१ आत्मा वा इदमेक एवाग्र आसीत् । नान्यत्किञ्चन मिषत् । स ईक्षत लोकान्नु सृजा इति ॥ १,१.१ ॥ __________ भाष्य १,१.१ आत्मा आप्नोतेरत्तेरततेर्वा परः सर्वज्ञः सर्वशक्तिरशनायादिसर्वसंसारधर्मवर्जितो नित्यशुद्धबुद्धमुक्तस्वभावोऽजोऽजरोऽमरोमृतोऽभयोऽद्वयो वै इदं यदुक्तं नामरूपकर्मभेदभिन्नञ्जगदात्मैवैकोऽग्रे जगतः सृष्टेः प्रागासीत् । किं नेदानीं स एवैकः न । कथं तर्ह्यासीदित्युच्यते यद्यपीदानीं स एवैकस्तथाप्यस्ति विशेषः । प्रागुत्पत्तेरव्याकृतनामरूपभेदमात्मभूतमात्मैकशब्दप्रत्ययगोचरं जगदिदानीं व्याकृतनामरूपभेदत्वादनेकशब्दप्रत्ययगोचरमात्मैकशब्दप्रत्ययगोचर चेति विशेषः । यथा सलिलात्पृथक्फेननामरूपव्याकरणात्प्राक्सलिलैकशब्दप्रत्ययगोचरमेव फेनम्, यदा सलिलात्पृथङ्नामरूपभेदेन व्याकृतं भवति तदा सलिलं फेनं चेत्यनेकशब्दप्रत्ययभाक्सलिलमेवेति चैकशब्दप्रत्ययभाक्च फेनं भवति तद्वत् । नान्यत्किञ्चन न किञ्चिदपि मिषन्निमिषद्व्यापारवदितरद्वा । यथा सांख्यानामनात्मपक्षपाति स्वतन्त्रं प्रधानं यथा च काणादानामणवो न तद्वदिहान्यदात्मनः किञ्चिदपि वस्तु विद्यते किं तर्हि ! आत्मैवैक आसीदित्यभिप्रायः । स सर्वज्ञस्वाभाव्यादात्मा एक एव सन्नीक्षत । ननु प्रागुत्पत्तेरकार्यकरणत्वात्कथमीक्षितवान् । नायं दोषः सर्वज्ञस्वाभाव्यात्तथा च मन्त्रवर्णः"अपाणिपादो जवनो ग्रहीता"(श्वे.उ.३ । १९) इत्यादिः । केनाभिप्रायेणेत्याह लोकानम्भःप्रभृतीन् प्राणिकर्मफलोपभोगस्थानभूतान्नु सृजै सृजेऽहमिति ॥१॥ _______________________________________________________________________ १,१.२ एवमीक्षित्वा आलोच्य स इमांल्लोकानसृजताम्भो मरीचीर्मरमापः । अदोऽम्भः परेण दिवम् । द्यौः प्रतिष्ठा । अन्तरिक्षं मरीचयः । पृथिवी मरः । या अधस्तात्ता आपः ॥ १,१.२ ॥ __________ भाष्य १,१.२ स आत्मेमांल्लोकानसृजत सृष्टवान् । यथेह बुद्धिमांस्तक्षादिरेवंप्रकारान्प्रासादादीन्सृज इति ईक्षित्वेक्षानन्तर प्रासादादीन्सृजति तद्वत् । ननु सोपादानस्तक्षादिः प्रासादादीन्सृजतीति युक्तं निरुपादानस्त्वात्मा कथं लोकान् सृजति ? नैष दोषः, सलिलफेनस्थानीये आत्मभूते नामरूपे अव्याकृते आत्मैकशब्दवाच्ये व्याकृतफेनस्थानीयस्य । जगतः उपादानभूते संभवतः । तस्मादात्मभूतनामरुपोपादानभूतः सन्सर्वज्ञो जगन्निर्मिमीत इत्यविरुद्धम् । अथवा, यथा विज्ञानवान्मायावी निरुपादान आत्मानमेव आत्मान्तरत्वेनाकाशेन गच्छन्तमिव निर्मिमीते, तथा सर्वज्ञो देवः सर्वशक्तिर्महामाय आत्मानमेवात्मान्तरत्वेन जगद्रूपेण निर्मिमीत इति युक्ततरम् । एवं च सति कार्यकारणोभयासद्वाद्यादिपक्षाश्च न प्रसज्जन्ते सुनिराकृताश्च भवन्ति । कांल्लोकानसृजतेत्याह अम्भो मरीचिर्मरमाप इति । आकाशादिक्रमेण अण्डमुत्पाद्याम्भःप्रभृतीन् लोकानसृजत । तत्राम्भःप्रभृतीन् स्वयमेव व्याचष्टे श्रुतिः । अदस्तदम्भः शब्दवाच्यो लोकः परेण दिवं द्युलोकात्परेण परस्तात्॑ सोऽम्भःशब्दवाच्य अम्भो भरणात् । द्यौःप्रतिष्ठाश्रयस्तस्याम्भसो लोकस्य । द्युलोकादधस्तादन्तरिक्षं यत्तन्मरीचयः । एकोऽप्यनेकस्थानभेदत्वाद्बहुवचनभाक् मरीचय इति ॑ मरीचिभिर्वा रश्मिभिःसम्बन्धात् । पृथिवी मरो म्रियन्तेऽस्मिन् भूतानीति । या अधस्तात्पृथिव्यास्ता आप उच्यन्ते ॑ आप्नोतेः, लोकाः । यद्यपि पञ्चभूतात्मकत्वं लोकानां तथाप्यब्बाहुल्यादब्नामभिरेवाम्भो मरीचिर्मरमाप इत्युच्यन्ते ॥२॥ _______________________________________________________________________ १,१.३ सर्वप्राणिकर्मफलोपादानाधिष्ठानभूतांश्चतुरो लोकान् सृष्ट्वा स ईक्षतेमे नु लोकाः । लोकपालान्नु सृजा इति । सोऽद्भ्य एव पुरुषं समुद्धृत्यामूर्च्छयत् ॥ १,१.३ ॥ __________ भाष्य १,१.३ स ईश्वरः पुनरेवेक्षत । इमे नु अम्भःप्रभृतयो मया सृष्टा लोकाः परिपालयितृवर्जिता विनश्येयुः तस्मादेषां रक्षणार्थं लोकपालांल्लोकानां पालयितृ सृजै सृजेऽहमिति । एवमीक्षित्वा सोऽद्भ्य एवं अप्प्रधानेभ्य एव पञ्चभूतेभ्यो येभ्योऽम्भःप्रभृतीन्सृष्टवांस्तेभ्य एवेत्यर्थः । पुरुषं पुरुषाकारं शिरःपाण्यादिमन्तं समुद्धृत्य अद्भ्यः समुपादाय मृत्पिण्डमिव कुलालाः पृथिव्याः, अमूर्छयत्मूर्छितवान् संपिण्डितवान् स्वावयवसंयोजनेनेत्यर्थः ॥३॥ _______________________________________________________________________ १,१.४ तमभ्यतपत् । तस्याभितप्तस्य मुखं निरभिद्यत यथाण्डम् । मुखाद्वाक् । वाचोऽग्निः । नासिके निरभिद्येताम् । नासिकाभ्यां प्राणः । प्राणाद्वायुः । अक्षिणी निरभिद्येताम् । अक्षीभ्यां चक्षुः । चक्षुष आदित्यः । कर्णौ निरभिद्येताम् । कर्णाभ्यां श्रोत्रम् । श्रोत्राद्दिशः । त्वङ्निरभिद्यत । त्वचो लोमानि । लोमभ्य ओषधिवनस्पतयः । हृदयं निरभिद्यत । हृदयान्मनः । मनसश्चन्द्रमाः । नाभिर्निरभिद्यत । नाभ्या अपानः । अपानान्मृत्युः । शिश्नं निरभिद्यत । शिश्नाद्रेतः । रेतस आपः ॥ १,१.४ ॥ __________ भाष्य १,१.४ तं पिण्डं पुरुषविधमुद्दिश्याभ्यतपत् । तदभिध्यानं संकल्पं कृतवानित्यर्थः,"यस्य ज्ञानमयं तपः"(मु.उ.१ । १ । ९) इत्यादिश्रुतेः । तस्याभितप्तस्येश्वरसंकल्पेन तपसाभितप्तस्य पिण्डस्य मुखं निरभिद्यत मुखाकारं सुषिरमजायत यथा पक्षिणोऽण्डं निर्भिद्यत एवम् । तस्मान्निर्भिन्नात्मुखाद्वाक्करणमिन्द्रियं निरवर्तत॑ तदधिष्ठाताग्निस्ततो वाचो लोकपालः । तथा नासिके निरभिद्येताम् । नासिकाभ्यां प्राणः॑ प्राणद्वायुः॑ इति सर्वत्राधिष्ठानं करणं देवता च त्रयं क्रमेण निर्भिन्नमिति । अक्षिणी कर्णौ त्वघृदयमन्तःकरणाधिष्ठानम्, मनोऽन्तःकरणम् नाभिः सर्वप्राणबन्धनस्थानम् । अपानसंयुक्तत्वादपान इति पाय्विन्द्रियमुच्यते । तस्मात्तस्याधिष्ठात्री देवता मृत्युः । यथान्यत्र, तथा शिश्नं निरभिद्यत प्रजननेन्द्रियस्थानम् । इन्द्रियं रेतो रेतोविसर्गार्थत्वात्सह रेतसोच्यते । रेतस आप इति ॥४॥ इति प्रथमाध्याये प्रथमः खण्डः समाप्तः ॥१॥ ======================================================================= १,२.१ ता एता देवताः सृष्टा अस्मिन्महत्यर्णवे प्रापतन् । तमशनापिपासाभ्यामन्ववार्जत् । ता एनमब्रुवन्नायतनं नः प्रजानीहि । यस्मिन् प्रतिष्ठिता अन्नमदामेति ॥ १,२.१ ॥ __________ भाष्य १,२.१ ता एता अग्न्यादयो देवता लोकपालत्वेन संकल्प्य सृष्टा ईश्वरेणास्मिन्संसारर्णवे संसारसमुद्रे महत्यविद्याकामकर्मप्रभव दुःखोदके तीव्ररोगजरामृत्युमहाग्राहेऽनादावनन्तेऽपारे निरालम्बे विषयेन्द्रियजनितसुखलवक्षणविश्रामे पञ्चेन्द्रियार्थतृण्मारुतविक्षोभोत्थितानर्थशतमहोर्मौ महारौरवाद्यनेकनिरयगतहाहेत्यादिकूजिताक्रोशनोद्भूतमहारवे सत्यार्जवदानदयाहिंसाशमदमधृत्याद्यात्मगुणपाथेयपूर्णज्ञानोडुपे सत्सङ्गसर्वत्यागमार्गे मोक्षतीरे एतस्मिन्महत्यर्णवे प्रापतन्पतिततवत्यः । तस्मादग्न्यादिदेवताप्ययलक्षणापि या गतिर्व्याख्याता ज्ञानकर्मसमुच्चयानुष्ठानफलभूता सापि नालं संसारदुःखोपशमाय, इत्ययं विवक्षितोर्ऽथेऽत्र । यत एवं तस्मादेवं विदित्वा परं ब्रह्म आत्मात्मनः सर्वभूतानां च यो वक्ष्यमाणविशेषणः प्रकृतश्च जगदुत्पत्तिस्थितिसंहारहेतुत्वेन स सर्वसंसारदुःखोपशमनाय वेदितव्यः । तस्मात्"एष पन्था एतत्कमैतद्ब्रह्मैतत्सत्यम्"(ऐ.उ.२ । १ । १) यदेतत्परब्रह्मात्मज्ञानम्"नान्यः पन्था विद्यतेऽयनाय"(श्वे.उ.३ । ८.६ । १५) इति मन्त्रवर्णात् । तं स्थानकरणदेवतोत्पत्तिबीजभूतं पुरुषं प्रथमोत्पादितं पिण्डमात्मानमशनायापिपासाभ्यामन्ववार्जदनुगमितवान्संयोजितवानित्यथेः । तस्य कारणभूतस्याशनायादिदोषवत्त्वात्तत्कार्यभूतानामपि देवतानामशनायादिमत्त्वम् । तास्ततोऽशनायापिपासाभ्यां पीड्यमाना एनं पितामहं स्रष्टारमब्रुवन्नुक्तवत्यः आयतनमधिष्ठानं नोऽस्मभ्यं प्रजानीहि विधत्स्व । यस्मिन्नायतने प्रतिष्ठिताः समर्थाः सत्योऽन्नमदाम भक्षयाम इति ॥१॥ _______________________________________________________________________ १,२.२ एवमुक्त ईश्वरः ताभ्यो गामानयत् । ता अब्रुवन्न वै नोऽयमलमिति । ताभ्योऽश्वमानयत् । ता अब्रुवन्न वै नोऽयमलमिति ॥ १,२.२ ॥ __________ ताभ्यो देवताभ्यो गां गवाकृतिविशिष्टं पिण्डं ताभ्य ऐवाद्भ्यः पूर्ववत्पिण्डं समुद्धृत्य मूर्छयित्वानयद्दर्शितवान् । ताः पुनर्गवाकृतिं दृष्टवान्ब्रुवन् न वै नोऽस्मदर्थमधिष्ठानायान्नमत्तुमयं पिण्डोऽलं न वै । अलं पर्याप्तः अत्तुं न योग्य इत्यर्थः । गवि प्रत्याख्याते ताभ्योऽश्वमानयत्ता अब्रुवन्न वै नोऽयमलमिति पूर्ववत् ॥२॥ _______________________________________________________________________ १,२.३ सर्वप्रत्याख्याने ताभ्यः पुरुषमानयत् । ता अब्रुवन् सुकृतं बतेति । पुरुषो वाव सुकृतम् । ता अब्रवीद्यथायतनं प्रविशतेति ॥ १,२.३ ॥ __________ भाष्य १,२.३ ताभ्यः पुरुषमानयत्स्वयोनिभूतम् । ताः स्वयोनिं पुरुषं दृष्ट्वा अखिन्नाः सत्यः सुकृतं शोभनं कृतमिदमधिष्ठानं बतेत्यब्रुवन् तस्मात्पुरुषो वाव पुरुष एव सुकृतं सर्वपुण्यकर्महेतुत्वात् । स्वयं वा स्वेनेवात्मना स्वमायाभिः कृतत्वात्सुकृतमित्युच्यते । ता देवता ईश्वरोऽब्रवीदिष्टमासामिदमधिष्ठानमिति मत्वा सर्वे हि स्वयोनिषु रमन्ते, अतो यथायतनं यस्य यद्वदनादिक्रियायोग्यमायतनं तत्प्रविशतेति ॥३॥ _______________________________________________________________________ १,२.४ तथास्त्वित्यनुज्ञां प्रतिलभ्येश्वरस्य नगर्यामिव बलाधिकृतादयः अग्निर्वाग्भूत्वा मुखं प्राविशत् । वायुः प्राणो भूत्वा नासिके प्राविशत् । आदित्यश्चक्षुर्भूत्वाक्षिणी प्राविशत् । दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन् । ओषधिवनस्पतयो लोमानि भूत्वा त्वचं प्राविशन् । चन्द्रमा मनो भूत्वा हृदयं प्राविशत् । मृत्युरपानो भूत्वा नाभिं प्राविशत् । आपो रेतो भूत्वा शिश्नं प्राविशन् ॥ १,२.४ ॥ __________ भाष्य १,२.४ अग्निर्वागभिमानी वागेव भूत्वा स्वां योनिं मुखं प्राविशत्तथोक्तार्थमन्यत् । वायुर्नासिके आदित्योऽक्षिणी दिशः कर्णौ ओषधिवनस्यतयस्त्वचं चन्द्रमा हृदयं मृत्युर्नाभिमापः शिश्नं प्राविशन् ॥४॥ _______________________________________________________________________ १,२.५ एवं लब्धाधिष्ठानासु देवतासु तमशनापिपासे अब्रूतामवाभ्यामभिप्रजानीहीति । ते अब्रवीदेतास्वेव वां देवतास्वाभजाम्येतासु भागिन्यौ करोमीति । तस्माद्यस्यै कस्यै च देवतायै हविर्गृह्यते भागिन्यावेवास्यामशनापिपासे भवतः ॥ १,२.५ ॥ __________ भाष्य १,२.५ निरधिष्ठाने सत्यौ अशनायापिपासे तमीश्वरमब्रूतामुक्तवत्यौ । आवाभ्यामधिष्ठानमभिप्रजानीहि चिन्तय विधत्स्वेत्यर्थः । स ईश्वर एवमुक्तस्ते अशनायापिपासे अब्रवीत् । न हि युवयोर्भावरूपत्वाच्चेतनावद्वस्त्वनाश्रित्यान्नार्त्तृत्वं संभवति । तस्मादेतास्वेवाग्न्याद्यासु वां युवां देवतास्वध्यात्माधिदेवतास्वाभजामि वृत्तिसंविभागेनानुगृह्णामि । एतासु भागिन्यै यद्देवत्यो यो भागो हविरादिलक्षणः स्यात्तस्यास्तेनैव, भागेन भागिन्यौ भागवत्यौ वां करोमीति । सृष्ट्यादावीश्वर एवं व्यदधाद्यस्मात्तस्मादिदानीमपि यस्यै कस्यै च देवतायै अर्थाय हविर्गृह्यते चरुपुरोडाशादिलक्षणं भागिन्यादेव भागवत्यावेवास्यां देवतायामशनायपिपासे भवतः ॥५॥ इति प्रथमाध्याये द्वितीयः खण्डः समाप्तः ॥२॥ ======================================================================= १,३.१ स ईक्षतेमे नु लोकाश्च लोकपालाश्च । अन्नमेभ्यः सृजा इति ॥ १,३.१ ॥ __________ भाष्य १,३.१ एवं हि लोके ईश्वराणामनुग्रहे निग्रहे च स्वातन्त्र्यं दृष्टं स्वेषु । तद्वन्महेश्वरस्यापि सर्वेश्वरत्वात्सर्वान्प्रति निग्रहानुग्रहेऽपि स्वातन्त्र्यमेव ॥१॥ _______________________________________________________________________ १,३.२ सोऽपोऽभ्यतपत् । ताभ्योऽभितप्ताभ्यो मूर्तिरजायत । या वै सा मूर्तिरजायतान्नं वै तत् ॥ १,३.२ ॥ __________ भाष्य १,३.२ स ईशरोऽन्नं सिसृक्षुस्ता एव पूर्वोक्ता अप उद्दिश्याभ्यतपत् । ताभ्योऽभितप्ताभ्य उपादानभूताभ्यो मूर्तिर्घनरूपं धारणसमर्थ चराचरलक्षणमजायतोत्पन्नम् । अन्नं वै तन्मूर्तिरूपं या वै सा मूर्तिरजायत ॥२॥ _______________________________________________________________________ १,३.३ तदेनत्सृष्टं पराङत्यजिघांसत् । तद्वाचाजिघृक्षत् । तन्नाशक्नोद्वाचा ग्रहीतुम् । स यद्धैनद्वाचाग्रहैष्यदभिव्याहृत्य हैवान्नमत्रप्स्यत् ॥ १,३.३ ॥ __________ भाष्य १,३.३ तदेनदन्नं लोकलोकपालानामर्थेऽभिमुखे सृष्टं तद्यथा मूषकादिर्मार्जारादिगोचरे, सन्मम मृत्युरन्नाद इति मत्वा परागञ्चतीति पराङ्सदत्तॄनतीत्याजिघांसदतिगन्तुमैच्छत्पलायितुं प्रारभतेत्यर्थः । तदन्नाभिप्रायं मत्वा स लोकलोकपालसंघातः कार्यकरणलक्षणः पिण्डः प्रथमजत्वादन्यांश्चान्नादानपश्यंस्तदन्नं वाचा वदनव्यापारेणाजिघृक्षद्ग्रहीतुमैच्छत् । तदन्नं नाशक्नोन्न समर्थोऽभद्वाचा वदनक्रियया ग्रहीतुमुपादातुम् । स प्रथमजः शरीरी यद्यदि हैनद्वाचाग्रहैष्यद्गृहीतवान्स्यादन्नं सर्वोऽपि लोकस्तत्कार्यभूतत्वादभिव्याहृत्य हैवान्नमत्रप्स्यत्तृप्तोऽभविष्यत्, न चैतदस्ति, अतो नाशक्नोद्वाचा ग्रहीतुमित्यवगच्छामः पूर्वजोऽपि ॥३॥ _______________________________________________________________________ १,३.४१० समानमुत्तरम् तत्प्राणेनाजिघृक्षत् । तन्नाशक्नोत्प्राणेन ग्रहीतुम् । स यद्धैनत्प्राणेनाग्रहैष्यदभिप्राण्य हैवान्नमत्रप्स्यत् ॥ १,३.४ ॥ तच्चक्षुषाजिघृक्षत् । तन्नाशक्नोच्चक्षुषा ग्रहीतुम् । स यद्धैनच्चक्षुषाग्रहैष्यद्दृष्ट्वा हैवान्नमत्रप्स्यत् ॥ १,३.५ ॥ तच्छ्रोत्रेणाजिघृक्षत् । तन्नाशक्नोच्छ्रोत्रेण ग्रहीतुम् । स यद्धैनच्छ्रोत्रेणाग्रहैष्यच्छ्रुत्वा हैवान्नमत्रप्स्यत् ॥ १,३.६ ॥ तत्त्वचाजिघृक्षत् । तन्नाशक्नोत्त्वचा ग्रहीतुम् । स यद्धैनत्त्वचाग्रहैष्यत्स्पृष्ट्वा हैवान्नमत्रप्स्यत् ॥ १,३.७ ॥ तन्मनसाजिघृक्षत् । तन्नाशक्नोन्मनसा ग्रहीतुम् । स यद्धैनन्मनसाग्रहैष्यद्ध्यात्वा हैवान्नमत्रप्स्यत् ॥ १,३.८ ॥ तच्छिश्नेनाजिघृक्षत् । तन्नाशक्नोच्छिश्नेन ग्रहीतुम् । स यद्धैनच्छिश्नेनाग्रहैष्यद्विसृज्य हैवान्नमत्रप्स्यत् ॥ १,३.९ ॥ तदपानेनाजिघृक्षत् । तदावयत् । सैषोऽन्नस्य ग्रहो यद्वायुः । अन्नायुर्वा एष यद्वायुः ॥ १,३.१० ॥ __________ भाष्य १,३.४१० तत्प्राणेन तच्चक्षुषा तच्छ्रोत्रेण तत्त्वचा तन्मनसा तच्छिश्नेन तेन तेन करणव्यापारेणान्नं ग्रहीतुमशक्नुवन्पश्चादपानेन वायुना मुखच्छिद्रेण तदन्नमजिघृक्षत् । तदावयात्तदन्नमेवं जग्राह आशितवान् । तेन स एषोऽपानवायुरन्नस्य ग्रहोऽन्नग्राहक इत्येतत् । यद्वायुर्यो वायुरन्नायुः अन्नबन्धनोऽन्नजीवनो वै प्रसिद्धः स एष यो वायुः ॥४१० ॥ _______________________________________________________________________ १,३.११ स ईक्षत कथं न्विदं मदृते स्यादिति । स ईक्षत कतरेण प्रपद्या इति । स ईक्षत यदि वाचाभिव्याहृतं यदि प्राणेनाभिप्राणितं यदि चक्षुषा दृष्टं यदि श्रोत्रेण श्रुतं यदि त्वचा स्पृष्टं यदि मनसा ध्यातं यद्यपानेनाभ्यपानितं यदि शिश्नेन विसृष्टमथ कोऽहमिति ॥ १,३.११ ॥ __________ भाष्य १,३.११ स एवं लोकलोकपालसंघातस्थितिमन्ननिमित्तं कृत्वा पुरपौरतत्पालयित स्थितिसमां स्वामीव ईक्षत कथं नु केन प्रकारेणेति वितर्कयन्निदं मदृते मामन्तरेण पुरस्वामिनम्, यदिदं कार्यकरणसंघातकाय वक्ष्यमाणं कथं नु खलु मामन्तरेण स्यात्परार्थं सत् । यदि वाचाभिव्याहृतमित्यादि केवलमेव वाग्व्यवहरणादि तन्निरर्थकं न कथञ्चन भवेद्बलिस्तुत्यादिवत्, पौरवन्द्यादिभिः प्रयुज्यमानं स्वाम्यर्थं सत्तत्स्वामिनमन्तरेणासत्येव स्वामिनि तद्वत् । तस्मान्मया परेण स्वामिनाधिष्ठात्रा कृताकृतफलसाक्षिभूतेन भोक्ता भवितव्यं पुरस्येव राज्ञा । यदि नामैतत्संहतकार्यस्य परार्थत्वं परार्थिनं मां चेतनमन्तरेण भवेत्पुरपौरकार्यमिव तत्स्वामिनम्, अथ कोऽहं किंस्वरूपः कस्य वा स्वामी? यद्यहं कार्यकरणसंघातमनुप्रविश्य वागाद्यभिव्याहृतादिफलं नोपलभेय राजेव पुरमाविश्याधिकृतपुरुषकृताकृतावेक्षणं न कश्चिन्मामयं सन्नेवंरूपश्चेत्यधिगच्छेद्विचारयेत् । विपर्यये तु योऽयं वागाद्यभिव्याहृतादीदमिति वेद, स सन्वेदनरूपश्चेत्यधिगन्तव्योऽहं स्याम्, यदर्थमिदं संहतानां वागादीनामभिव्याहृतादि, यथा स्तम्भकुड्यादीनां प्रासादादिसंहतानां स्वावयवैरसंहतपरार्थत्वं तद्वदिति । एवमीक्षित्वातः कतरेण प्रपद्या इति । प्रपदं च मूर्धा चास्य संघातस्य प्रवेशमार्गौ । अनयोः कतरेण मार्गेणेदं कार्यकरणसंघातलक्षणं पुरं प्रपद्यै प्रपद्येयेति ॥११॥ _______________________________________________________________________ १,३.१२ एवमीक्षित्वा न तावन्मद्भृत्यस्य प्राणस्य मम सर्वार्थाधिकृतस्य प्रवेशमार्गेण प्रपदाभ्यामधः प्रपद्ये । किं तर्हि पारिशेष्यादस्य मूर्धानं विदार्य प्रपद्येयमिति लोक इवेक्षितकारी स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत । सैषा विदृतिर्नाम द्वाः । तदेतन्नान्दनम् । तस्य त्रय आवसथास्त्रयः स्वप्ना अयमावसथोऽयमावसथोऽयमावसथ इति ॥ १,३.१२ ॥ __________ भाष्य १,३.१२ स इष्टेश्वर एतमेव मूर्धसीमानं केशविभागावसानं विदार्य च्छिद्रीकृत्वैतया द्वारा मार्गेणेमं लोकं कार्यकरणसंघातं प्रापद्यत प्रविवेश । सेयं हि प्रसिद्धा द्वाः मूर्ध्नि तैलादिधारणकाले अन्तस्तद्रसादिसंवेदनात् । सैषा विदृतिर्विदारितत्वाद्विदृतिर्नाम प्रसिद्धा द्वाः । इतराणि तु श्रोत्रादिद्वाराणि भृत्यादिस्थानीयसाधारणमार्गत्वान्न समृद्धीनि नानन्दहेतूनि । इदं तु द्वारं परमेश्वरस्यैव केवलस्येति तदेतन्नान्दनं नन्दनमेव । नान्दनमिति दैध्यं छान्दसं नन्दत्यनेन द्वारेण गत्वा परस्मिन्ब्रह्मणीति । तस्यैवं सृष्ट्वा प्रविष्टस्य जीवेनात्मना राज्ञ इव पुरं त्रय आवसथाः । जागरितकास इन्द्रियस्थानं दक्षिणं चक्षुः स्वप्नकालेऽन्तर्मनः, सुषुप्तिकाले हृदयाकाश इत्येतत् । वक्ष्यमाणा वा त्रय आवस्थाः पितृशरीरं मातृगर्भाशयः स्वं च शरीरमिति । त्रयः स्वप्ना जाग्रत्स्वप्नसुषुप्त्याख्याः । ननु जागरितं प्रबोधरूपत्वान्न स्वप्नः, नैवम्, स्वप्न एव । कथम्? परमार्थस्वात्मप्रबोधाभावात्स्वप्नवदसद्वस्तुदर्शनाच्च । अयमेवावसथश्चक्षुर्दक्षिणं प्रथमः, मनोऽन्तरं द्वितीयः, हृदयाकाशस्तृतीयः । अयमावसथ इत्युक्तानुकीर्तनमेव । तेषु ह्ययमावसथेषु पर्यायेणात्मभावेन वर्तमानोऽविद्यया दीर्घकालं गाढप्रसुप्तः स्वाभाविक्या न प्रबुध्यतेऽनेकशतसहस्रानर्थसंनिपातजदुःखमुद्गराभिघातानुभवैरपि ॥१२॥ _______________________________________________________________________ १,३.१३ स जातो भूतान्यभिव्यैख्यत्किमिहान्यं वावदिषदिति । स एतमेव पुरुषं ब्रह्म ततममपश्यदिदमदर्शमिती ३ ॥ १,३.१३ ॥ __________ भाष्य १,३.१३ स जातः शरीरे प्रविष्टो जीवात्मना भूतान्यभिव्यैख्यद्व्याकरोत् । स कदाचित्परमकारुणिकेनाचार्येणात्मज्ञानप्रबोधकृच्छब्दिकायां वेदान्तमहावाक्यभेर्यां तत्कर्णमूले ताड्यमानायामेतमेव सृष्ट्यादिकर्तृत्वेन प्रकृतं पुरुषं पुरि शयानमात्मानं ब्रह्म बृहत्ततमं तकारेणैकेन लुप्तेन तततमं व्याप्ततमं परिपूर्णमाकाशवत्प्रत्यबुध्यतापश्यत् । कथम्? इदं ब्रह्म ममात्मनः । स्वरूपमदर्शं दृष्टवानस्मि, अहो इति,ॠ.१.३.१२ इचारणार्था प्लुतिः पूर्वम् ॥१३॥ _______________________________________________________________________ १,३.१४ यस्मादिदमित्येव यत्साक्षादपरोक्षाद्ब्रह्म सर्वान्तरमपश्यत्परोक्षेण तस्मादिदन्द्रो नाम । इदन्द्रो ह वै नाम । तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेण । परोक्षप्रिया इव हि देवाः परोक्षप्रिया इव हि देवाः ॥ १,३.१४ ॥ __________ भाष्य १,३.१४ तस्मादिदं पश्यतीतीदन्द्रो नाम परमात्मा । इदन्द्रो ह वै नाम प्रसिद्धो लोक ईश्वरः । तमेवमिदन्द्रं सन्तमिन्द्र इति परोक्षेण परोक्षाभिधानेनाचक्षते ब्रह्मविदः संव्यवहारार्थम् पूज्यतमत्वात्प्रत्यक्षनामग्रहणभयात् । तथा हि परोक्षाप्रियाः परोक्षनामग्रहणप्रिया इव एव हि यस्माद्देवाः, किमुत सर्वदेवानामपि देवो महेश्वरः । द्विवचनं प्रकृताध्यायपरिसमाप्त्यर्थम् ॥१४॥ इति प्रथमाध्याये तृतीयः खण्डः समाप्तः ॥३॥ _____________________________________________________________ द्वितीय अध्याय प्रथम खण्ड अस्मिंश्चतुर्थेऽध्याय एष वाक्यार्थः जगदुत्पत्तिस्थितिप्रलयकृदसंसारी सर्वज्ञः सर्वशक्तिः सर्ववित्सर्वमिदं जगत्स्वतोऽन्यद्वस्त्वन्तरमनुपादायैव आकाशादिक्रमेण सृष्ट्वा स्वात्मप्रबोधनार्थं सर्वाणि च प्राणादिमच्छरीराणि स्वयं प्रविवेश । प्रविश्य च स्वमात्मानं यथामृतमिदं ब्रह्मास्मीति साक्षात्प्रत्यबुध्यत । तस्मात्स एव सर्वशरीरेष्वेक एवात्मा नान्य इति । अन्योऽपि"सम आत्मा ब्रह्मास्मीत्येवं विद्यात्"इति । "आत्मा वा इदमेक एवाग्र आसीत्"(१ । १ । १) इति"ब्रह्म ततमम्"(१ । ३ । १३) इति चोक्तम् । अन्यत्र च । सर्वगतस्य सर्वात्मनो बालाग्रमात्रमप्यप्रविष्टं नास्तीति कथं सीमानं विदार्य प्रापद्यत पिपीलिकेव सुषिरम् । नन्वत्यल्पमिदं चोद्यं बहु चात्र चोदयितव्यम् । अकरणः सन्नीक्षत । अनुपादाय किञ्चिल्लोकानसृजत । अद्भ्यः पुरुषं समुद्धृत्यामूर्छयत् । तस्माभिध्यानान्मुखादि निर्भिन्नं मुखादिभ्यश्चाग्न्यादयो लोकपालास्तेषां चाशनायापिपासादिसंयोजनं तदायतनप्रार्थनं तदर्थं गवादिप्रदर्शनं तेषां यथायतनप्रवेशनं सृष्टस्यान्नस्य पलायनं वागादिभिस्तज्जिघृक्षाः, एतत्सर्वं सीमाविदारणप्रवेशसममेव । अस्तु तर्हि सर्वमेवेदमनुपपन्नम् । न, अत्रात्मावबोधमात्रस्य विवक्षितत्वात्सर्वोऽयमर्थवाद इत्यदोषः । मायाविवद्वा महामायावी देवः सर्वज्ञः सर्वशक्तिः सर्वमेतच्चकार । सुखावबोधनप्रतिपत्त्यर्थं लोकवदाख्यायिकादिप्रपञ्च इति युक्ततरः पक्षः । न हि सृष्ट्याख्यायिकादिपरिज्ञानात्किञ्चित्फलमिष्यते । ऐकात्म्यस्वरूपपरिज्ञानात्तु अमृतत्वं फलं सर्वोपनिषत्प्रसिद्धम् । स्मृतिषु च गीताद्यासु"समंसर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्"(गीता १३ । २७) इत्यादिना । ननु त्रय आत्मानः । भोक्ता कर्ता संसारी जीव एकः सर्वलोकशास्त्रप्रसिद्धः । अनेकप्राणिकर्मफलोपभोगयोग्यानेकाधिष्ठानवल्लोकदेहनिर्माणेन लिङ्गेन यथाशास्त्रप्रदर्शितेन पुरप्रासादादिनिर्माणलिङ्गेन तद्विषयकौशलज्ञानवांस्तत्कर्ता तक्षादिरिवेश्वरः सर्वज्ञो जगतः कर्ता द्वितीयश्चेतन आत्मा अवगम्यते । "यतो वाचो निवर्तन्ते"(तै.उ.२ । ४ । १) "नेति नेति"(बृ.उ.३ । ९ । २३) इत्यादिशास्त्रप्रसिद्ध औपनिषदः पुरुषस्तृतीयः एवमेते त्रय आत्मानान्योन्यविलक्षणाः तत्र कथमेक एव आत्मा अद्वितीयः असंसारीति ज्ञातुं शक्यते? तत्र जीव एव तावत्कथं ज्ञायते? नन्वेवं ज्ञायते श्रोता मन्ता द्रष्टा आदेष्टा आघोष्टा विज्ञाता प्रज्ञातेति । ननु विप्रतिषिद्धं ज्ञायते यः श्रवणादिकर्तृत्वेनामतो मन्ताविज्ञातो विज्ञातेति च । तथा"न मतेर्मन्तारं मन्वीथा न विज्ञातेविज्ञातारं विजानीयाः"(बृ.उ.३ । ४ । २) इत्यादि च । सत्यं विप्रतिषिद्धम्, यदि प्रत्यक्षेण ज्ञायेत सुखादिवत् । प्रत्यक्षज्ञानं च निवार्यते"न मतेर्मन्तारं मन्वीथाः"(बृ.उ.३ । ३ । २) इत्यादिना । ज्ञायते तु श्रवणादिलिङ्गेन, तत्र कुतो विप्रतिषेधः । ननु श्रवणादिलिङ्गेनापि कथं ज्ञायते? यावता यदा शृणोत्यात्मा श्रोतव्यं शब्दं तदा तस्य श्रवणक्रिययैव वर्तमानत्वान्मननविज्ञानक्रिये न संभवतः आत्मनि परत्र वा । तथान्यत्रापि मननादिक्रियासु । श्रवणादिक्रियाश्च स्वविषयेष्वेव । न हि मन्तव्यादन्यत्र मन्तुर्मननक्रिया संभवति । ननु मनसा सर्वमेव मन्तव्यम् । सत्यमेवं तथापि सर्वमपि मन्तव्यं मन्तारमन्तरेण न मन्तुं शक्यम् । यद्येवं किं स्यात्? इदमत्र स्यात्, सर्वस्य योऽयं मन्ता स मन्तैवेति न स मन्तव्यः स्यात् । न च द्वितीयो मन्तुर्मन्तास्ति । यदा स आत्मनैव मन्तव्यस्तदा येन च मन्तव्यः आत्मा आत्मना यश्च मन्तव्य आत्मा तौ द्वौ प्रसज्येयाताम् । एक एवात्मा द्विधा मन्तृमन्तव्यत्वेन द्विशकलीभवेद्वंशादिवतुभयथाप्यनुपपत्तिरेव । यथा प्रदीपयोः प्रकाश्यप्रकाशकत्वानुपपत्तिः समत्वात्तद्वत् । न च मन्तुर्मन्तव्ये मननव्यापारशून्यः कालोऽस्त्यात्ममननाय । यदापि लिङ्गेनात्मानं मनुते मन्ताः, तदापि पूर्ववदेव लिङ्गेन मन्तव्य आत्मा यश्च तस्य मन्ता तौ द्वौ प्रसज्येयाताम् । एक एव वा द्विधेति पूर्वोक्तदोषः । न प्रत्यक्षेण नाप्यनुमानेन ज्ञायते चेत्कथमुच्यते"स म आत्मेति विद्यात्"(कौषी.३ । ९) इति? कथं वा श्रोता मन्तेत्यादि? ननु श्रोतृत्वादिधर्मवानात्मा अश्रोतृत्वादि च प्रसिद्धमात्मनः । किमत्र विषमं पश्यसि? यद्यपि तव न विषमं तथापि मम तु विषमं प्रतिभाति । कथम्? यदासौ श्रोता तदा न मन्ता यदा मन्ता तदा न श्रोता । तत्रैवं सति पक्षे श्रोता मन्ता पक्षे न श्रोता नापि मन्ता । तथान्यत्रापि च । यदैवं तदा श्रोतृत्वादिधर्मवानात्मा अश्रोतृत्वादिधर्मवान्वेति संशयस्थाने कथं तव न वैषम्यम् । यदा देवदत्तो गच्छति तदा न स्थाता गन्तैव । यदा तिष्ठति तदा न गन्ता स्थातैव । तदा अस्य पक्ष एव गन्तृत्वं स्थातृत्वं च । न नित्यं गन्तृत्वं स्थातृत्वं वा । तद्वत् । तथैवात्र काणादादयः पश्यन्ति । पक्षप्राप्तेनैव श्रोतृत्वादिना आत्मोच्यते श्रोता मन्तेत्यादिवचनात् । संयोगजत्वमयौगपद्यं च ज्ञानस्य ह्याचक्षते । दर्शयन्ति चान्यत्रमना । अभूवं नादर्शमित्यादि युगपज्ज्ञानानुपत्तिर्मनसो लिङ्गमिति च न्याय्यम् । भवत्वेवं किं तव नष्टं यद्येवं स्यात्? अस्त्वेवं तवेष्टं चेत् । श्रुत्यर्थस्तु न संभवति । किं न श्रोता मन्तेत्यादिश्रुत्यथः न, न श्रोता न मन्तेत्यादिवचनात् । ननु पाक्षिकत्वेन प्रत्युक्तं त्वया । न, नित्यमेव श्रोतृत्वाद्यभ्युपगमात् । "न हि श्रोतुः श्रुतेर्विपरिलोपो विद्यते"(बृ.उ.४ । ३ । २७) इत्यादिश्रुतेः । एवं तर्हि नित्यमेव श्रोतृत्वाद्यभ्युपगमे प्रत्यक्षविरुद्धा युगपज्ज्ञानोत्पत्तिरज्ञानाभावावश्चात्मनः कल्पितः स्यात् । तच्चानिष्टमिति । नोभयदोषोपपत्तिः । आत्मनः श्रुत्यादिश्रोतृत्वादिधर्मवत्त्वश्रुतेः । अनित्यानां मूर्तानां च चक्षुरादीनां दृष्ट्याद्यनित्यमेव संयोगवियोगधर्मिणाम्, यथाग्नेर्ज्वलनं तृणादिसंयोगजत्वात्तद्वत् । न तु नित्यस्यामूर्तस्यासंयोगवियोगधर्मिणः संयोगजदृष्ट्याद्यनित्यधर्मवत्त्वं संभवति । तथा च श्रुतिः"न हि द्रष्टुर्दृष्टेर्विपरिलोपो विद्यते"(बृ.उ.४ । ३ । २३) इत्याद्या । एवं तर्हि द्वे दृष्टी चक्षुषोऽनित्यादृष्टिर्नित्या चात्मनः । तथा च द्वे श्रुती श्रोत्रस्यानित्या नित्या चात्मस्वरूपस्य । तथा द्वे मती विज्ञाती बाह्याबाह्ये एवं ह्येव । तथा चेयं श्रुतिरुपपन्ना भवति"दृष्टेर्द्रष्टा श्रुतेः श्रोता"इत्याद्या । लोकोऽपि प्रसिद्धं चक्षुषस्तिमिरागमापाययोर्नष्टा दृष्टिर्जाता दृष्टिरिति चक्षुर्दृष्टेरनित्यत्वं तथा च श्रुतिमत्यादीनामात्मदृष्ट्यादीनां च नित्यत्वं प्रसिद्धमेव लोके । वदति हि उद्धृतचक्षुः स्वप्नेऽद्यमया भ्राता दृष्ट इति । तथावगतबाधिर्यः स्वप्नेश्रुतो मन्त्रोऽद्येत्यादि । यदि चक्षुःसंयोगजैवात्मनो नित्या दृष्टिस्तन्नाशो नश्येत् । तदोद्धृतचक्षुः स्वप्ने नीलपीतादि न पश्येत् । "न हि द्रष्टुर्दृष्टेः"(बृ.उ.४ । ३ । २३) इत्याद्या च श्रुतिरनुपपन्ना स्यात् । "तच्चक्षुः पुरुषो येन स्वप्ने पश्यति"इत्याद्या च श्रुतिः । नित्या आत्मनो दृष्टिर्बाह्यानित्यदृष्टेर्ग्राहिका । बाह्यदृष्टेश्चोपजनापायाद्यानित्यधर्मवत्त्वात्तद्ग्राहिकाया आत्मदृष्टेस्तद्वदवभासत्वमनित्यत्वादि भ्रान्तिनिमित्तं लोकस्येति युक्तम् । यथा भ्रमणादिधर्मवदलातादिवस्तुविषयदृष्टिरपि भ्रमतीव तद्वत् । तथा च श्रुतिः"ध्यायतीव लेलायतीव"(बृ.उ.४ । ३ । ७) इति । तस्मादात्मदृष्टेर्नित्यत्वान्न यौगपद्यमयौगपद्यं वास्ति । बाह्यानित्यदृष्ट्युपाधिवशात्तु लोकस्य तार्किकाणां चागमसंप्रदायवर्जितत्वादनित्या आत्मनो दृष्टिरिति भ्रान्तिरुपपन्नैव । जीवेश्वरपरमात्मभेदकल्पना चैतन्निमित्तैव । तथा च अस्ति नास्तीत्याद्याश्च यावन्तो वाङ्मनसयोर्भेदा यत्रैकं भवन्ति, तद्विषयाया नित्याया दृष्टेर्निर्विशेषायाः अस्ति नास्ति, एकं नाना, गुणवदगुणम्, जानाति न जानाति, क्रियावदक्रियं फलवदफलम्, सबीजं निर्बीजम्, सुखं दुःखम्, मध्यममध्यम्, शून्यमशून्यम्, परोऽहमन्य इति वा सरववाक्प्रत्ययागोचरे स्वरूपे यो विकल्पयितुमिच्छति, स नूनं खमति चर्मवद्वेष्टयितुमिच्छति, सोपानमिव च पद्भ्यामारोढुं जले खे च मीनानां वयसां च पदं दिदृक्षते । "नेति नेति"(बृ.उ.३ । ९ । २३) "यतो वाचो निवर्तन्ते"(तै.उ.२ । ४ । १) इत्यादिश्रुतिभ्यः । "को अद्धा वेद"(ऋ.सं.१ । ३ । ६) इत्यादिमन्त्रवर्णात् । कथं तर्हि तस्य स म आत्मेति वेदनम् । ब्रूहि केन प्रकारेण तमहं स म आत्मेति विद्याम् । अत्राख्यायिकामाचक्षते कश्चित्किल मनुष्यो मुग्धः कैश्चिदुक्तः कस्मिंश्चिदपराधे सति धिक्त्वां नासि मनुष्य इति । स मुग्धतया आत्मनो मनुष्यत्वं प्रत्याययितुं कञ्चिदुपेत्याह ब्रवीतु भवान्कोऽहमस्मीति । स तस्य मुग्धतां ज्ञात्वाह । क्रमेण बोधयिष्यामीति । स्थावराद्यात्मभावमपोह्य न त्वममनुष्य इत्युक्त्वोपरराम । स तं मुग्धः प्रत्याह भवान्मां बोधयितुं प्रवृत्तस्तूष्णीं बभूव । किं न बोधयतीति? तादृगेव तद्भवितो वचनम् । नास्यमनुष्य इत्युक्तेऽपि मनुष्यत्वमात्मनो न प्रतिपद्यते यः स कथं मनुष्योऽसीत्युक्तोऽपि मनुष्यत्वमात्मनः प्रतिपद्येत तस्माद्यथाशास्त्रोपदेश एवात्मावबोधविधिर्नान्यः । न ह्यग्नेर्दाह्यं तृणाद्यन्येन केनचिद्द्ग्धुं शक्यम् । अत एव शास्त्रमात्मस्वरूपं बोधयितुं प्रवृत्तं सदमनुष्यत्वप्रतिषेधेनेव"नेति नेति" (बृ.उ.३ । ९ । २३) इत्युक्त्वोपरराम । तथा"अनन्त रमबाह्यम्"(बृ.उ.२ । ५ । १९, ३ । ८ । ८) "अयमात्मा ब्रह्म सर्वानुभूः"(बृ.उ.२ । ५ १९) इत्यनुशासनम् । "तत्त्वमसि"(छा.उ.३ । ८ । १६) "यत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्"(बृ.उ.२ । ४ । १४, ४ । ५ । १५) इत्येवमाद्यपि च । यावदयमेवं यथोक्तमिममात्मानं न वेत्ति तावदयं बाह्यानित्यदृष्टिलक्षणमुपाधिमात्मत्वेनोपेत्य अविद्यया उपाधिधर्मानात्मनो मन्यमानो ब्रह्मादिस्तम्बपर्यन्तेषु देवतिर्यङ्नरस्थानेषु पुनः पुनरावर्तमानोऽविद्याकामकर्मवशात्संसरति । स एवं पुनरेवमेव नदीस्रोतोवज्जन्ममरणप्रबन्धाविच्छेदेन वर्तमानः काभिरवस्थाभिर्वर्तत इत्येतमर्थं दर्शयन्त्याह श्रुतिर्वैराग्यहेतोः ======================================================================= २.१ पुरुषे ह वा अयमादितो गर्भो भवति यदेतद्रेतः । तदेतत्सर्वेभ्योऽङ्गेभ्यस्तेजः सम्भूतमात्मन्येवात्मानं बिभर्ति । तद्यदा स्त्रियां सिञ्चत्यथैनज्जनयति । तदस्य प्रथमं जन्म ॥ २.१ ॥ __________ भाष्य २.१ अयमेवाविद्याकामकर्माभिमानवान् यज्ञादिकर्म कृत्वास्माल्लोकाद्धूमादिक्रमेण अन्नभूतः पुरुषाग्नौ हुतः । तस्मिन्पुरुषे ह वा अयं संसारी रसादिक्रमेण आदितः प्रथमतो रेतोरूपेण गर्भो भवतीत्येतदाह यदेतत्पुरुषे रेतस्तेन रूपेणेति । तच्चैतद्रेतोऽन्नमयस्य पिण्डस्य सर्वेभ्योऽङ्गेभ्योऽवयवेभ्यो रसादिलक्षणेभ्यस्तेजः साररूपं शरीरस्य संभूतं परिनिष्पन्नं तत्पुरुषस्यात्मभूतत्वादात्मा । तमात्मानं रेतोरूपेण गर्भीभूतमात्मन्येव स्वशरीर एवात्मानं बिभर्ति धारयति । तद्रेतो यदा यस्मिन्काले भार्यर्तुमती तस्यां योषाग्नौ स्त्रिया सिञ्चत्युगच्छन्, अथ तदैनदेतद्रेत आत्मनो गर्भभूतं जनयति पिता । तदस्य पुरुषस्य स्थानान्निर्गमनं रेतःसेककाले रेतोरूरेणास्य संसारिणः प्रथमं जन्म प्रथमावस्थाभिव्यक्तिः । तदेतदुक्तं पुरस्तात्"असावात्मामुमात्मानम्"इत्यादिना ॥१॥ _______________________________________________________________________ २.२ तत्स्त्रिया आत्मभूयं गच्छति यथा स्वमङ्गं तथा । तस्मादेनां न हिनस्ति । सास्यैतमात्मानमत्र गतं भावयति ॥ २.२ ॥ __________ भाष्य २.२ तद्रेतो यस्यां स्त्रियां सिक्तं सत्तस्या आत्मभूयमात्माव्यतिरेकतां यथा पितुरेवं गच्छति प्राप्नोति यथा स्वमङ्गं स्तनादि तथा तद्वदेव । तस्माद्धेतोरेनां मातरं स गर्भो न हिनस्ति पिटकादिवत् । यस्मात्स्तनादि स्वाङ्गवदात्मभूतं गतं तस्मान्न हिनस्ति न बाधत इत्यर्थः । सा अन्तर्वत्न्येतमस्य भर्तुरात्मानमत्रात्मन उदरे गतं प्रविष्टं बुद्ध्वा भावयति वर्धयति परिपालयति गर्भविरुद्धाशनादिपरिहारमनुकूलाशनाद्युपयोगं च कुर्वती ॥२॥ _______________________________________________________________________ २.३ सा भावयित्री भावयितव्या भवति । तं स्त्री गर्भं बिभर्ति । सोऽग्र एव कुमारं जन्मनोऽग्रेऽधि भावयति । स यत्कुमारं जन्मनोऽग्रेऽधि भावयत्यात्मानमेव तद्भावयत्येषां लोकानां सन्तत्यै । एवं सन्तता हीमे लोकाः । तदस्य द्वितीयं जन्म ॥ २.३ ॥ __________ भाष्य २.३ सा भावयित्री वर्धयित्री भर्तुरात्मनो गर्भभूतस्य भावयितव्या वर्धयितव्या रक्षयितव्या च भर्ता भवति । न ह्युपकारप्रत्युपकारमन्तरेण लोके कस्यचित्केनचित्सम्बन्ध उपपद्यते । तं गर्भं स्त्री यथोक्तेन गर्भधारणविधानेन बिभर्ति धारयत्यग्रे प्राग्जन्मनः । स पिता अग्र एव पूर्वमेव जातमात्रं जन्मनोऽध्यूर्ध्वं जन्मनो जातं कुमारं जातकर्मादिना पिता भावयति । स पिता यद्यस्मात्कुमारं जन्मनोऽध्यूर्ध्वमग्रे जातमात्रमेव जातकर्मादिना यद्भावयति । तदात्मानमेव भावयति । पितुरात्मैव हि पुत्ररूपेण जायते । तथा ह्युक्तम्"पतिर्जायां प्रविशति"(हरि.३ । ७३ । ३१) इत्यादि । तत्किमर्थमात्मानं पुत्ररूपेण जनयित्वा भावयतीत्युच्यते एषां लोकानां सन्तत्या अविच्छेदायेत्यर्थः । विच्छिद्येरन्हीमे लोकाः पुत्रोत्पादनादि यदि न कुर्युः केचन । एवं पुत्रोत्पादनादिकर्माविच्छेदेनैव सन्तताः प्रबन्धरूपेण वर्तन्ते हि यस्मादिमे लोकास्तस्मात्तदविच्छेदाय तत्कर्तव्यं न मोक्षायेत्यर्थः । तदस्य संसारिणः कुमाररूपेण मातुरुदराद्यन्निर्गमनं तद्रेतोरूपापेक्षया द्वितीयं जन्म द्वितीयावस्थाभिव्यक्तिः ॥३॥ _______________________________________________________________________ २.४ सोऽस्यायमात्मा पुण्येभ्यः कर्मेभ्यः प्रतिधीयते । अथास्यायमितर आत्मा कृतकृत्यो वयोगतः प्रैति । स इतः प्रयन्नेव पुनर्जायते । तदस्य तृतीयं जन्म ॥ २.४ ॥ __________ भाष्य २.४ अस्य पितुः सोऽयं पुत्रात्मा पुण्येभ्यः शास्त्रोक्तेभ्यः कर्मभ्यः कर्मनिष्पादनार्थं प्रतिधीयते पितुः स्थाने पित्रा यत्कर्तव्यं तत्करणाय प्रतिनिधीयत इत्यर्थः । तथा च संप्रत्तिविद्यायां वाजसनेयके पित्रानुशिष्टः "अहं ब्रह्माहं यज्ञः"(बृ.उ.१ । ५ । १७) इत्यादि प्रतिपद्यत इति । अथानन्तरं पुत्रे निवेश्यात्मनो भारमस्य पुत्रस्येतरोऽयं यः पित्रात्मा कृतकृत्यः कर्तव्यादृणत्रयाद्विमुक्तः कृतकर्तव्य इत्यर्थः, वयोगतो गतवया जीर्णः सन्प्रैति म्रियते । स इतोऽस्मात्प्रयन्नेव शरीरं परित्यजन्नेव तृणजलूकावद्देहान्तरमुपाददानः कर्मचितं पुनर्जायते । तदस्य मृत्वा प्रतिपत्तव्यं यत्तत्तृतीयं जन्म । ननु संसरतः पितुः सकाशाद्रेतोरूपेण प्रथमं जन्म । तस्येव कुमाररूपेण मातुर्द्वितीयं जन्मोक्तम् । तस्यैव तृतीये जन्मनि वक्तव्ये प्रेतस्य पितुर्यज्जन्म तत्तृतीयमिति कथमुच्यते? नैष दोषः पितापुत्रयोरैकात्म्यस्य विवक्षितत्वात् । सोऽपि पुत्रः स्वपुत्रे भारं निधायेतः प्रयन्नेव पुनर्जायते यथा पिता । तदन्यत्रोक्तमितरत्राप्युक्तमेव भवतीति मन्यते श्रुतिः पितापुत्रयोरेकात्मत्वात् ॥४॥ _______________________________________________________________________ २.५ एवं संसरन्नवस्थाभिव्यक्तित्रयेण जन्ममरणप्रबन्धारूढः सर्वो लोकः संसारमसुद्रे निपतितः कतञ्चिद्यदा श्रुत्युक्तमात्मानं विजानाति यस्यां कस्याञ्चिदवस्थायां तदैव मुक्तसर्वसंसारबन्धनः कृतकृत्यो भवतीति तदुक्तमृषिणा गर्भे नु सन्नन्वेषामवेदमहं देवानां जनिमानि विश्वा । शतं मा पुर आयसीररक्षन्नध श्येनो जवसा निरदीयम् । इति । गर्भ एवैतच्छयानो वामदेव एवमुवाच ॥ २.५ ॥ __________ भाष्य २.५ एतद्वस्तु तदृषिणा मन्त्रेणाप्युक्तमित्याह गर्भे नु मातुर्गर्भाशय एव सन् । न्विति वितर्के । अनेकजन्मान्तरभावनापरिपाकवशादेषां देवानां वागग्न्यादीनां जनिमानि जन्मानि विश्वा विश्वानि सर्वाण्यन्ववेदमहमहो अनुबुद्धवानस्मीत्यर्थः शतमनेका बह्व्यो मा मां पुर आयसीः आयस्यो लोहमय्य इवाभेद्यानि शरीराणीत्यभिप्रायः, अरक्षन्नरक्षितवत्यः संसारपाशनिर्गमनादधः । अथ श्येन इव जालं भित्त्वा जवसा आत्मज्ञानकृतसामर्थ्येन निरदीयं निर्गतोऽस्मि । अहो गर्भ एव शयानो वामदेव ऋषिरेवमुवाचैतत् ॥५॥ _______________________________________________________________________ २.६ स एवं विद्वानस्माच्छरीरभेदादूर्ध्वमुत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामानाप्त्वामृतः समभवत्समभवत् ॥ २.६ ॥ __________ भाष्य २.६ स वामदेव ऋषिर्यथोक्तमात्मानमेवं विद्वानस्माच्छरीरभेदाच्छरीरस्याविद्यापरिकल्पितस्य आयसवदनिर्वेद्यस्य जननमनणाद्यनेकानर्थशताविष्टशरीरप्रबन्धनस्य परमात्मज्ञानामृतोपयोगजनितवीर्यकृत्भेदाच्छरीरोत्पत्तिबीजाविद्यादिनिमित्तोपमर्दहेतोः शरीरविनाशादित्यर्थः । ऊर्ध्वः परमात्मभूतः सन्नधोभावात्संसारादुत्क्रम्य ज्ञानावद्योतितामलसर्वात्मभावमापन्नः सन्नमुष्मिन्यथोक्तेऽजरेऽमरेऽमृतेऽभये सर्वज्ञेऽपूर्वेऽनपरेऽनन्तरेऽबाह्ये प्रज्ञानामृतैकरसे प्रदीपवन्निर्वाणमत्यगमत्स्वर्गे लोके स्वस्मिन्नात्मनि स्वे स्वरूपेऽमृतः समभवत् । आत्मज्ञानेन पूर्वमाप्तकामतया जीवन्नेव सर्वान्कामानाप्त्वेत्यर्थः । द्विर्वचनं सफलस्य सोदाहणस्यात्मज्ञानस्य परिसमाप्तिप्रदर्शनार्थम् ॥६॥ इति प्रथमाध्याये प्रथमः खण्डः समाप्तः द्वितीयः अध्यायः समाप्तः ======================================================================= ३.१ बह्मविद्यासाधनकृतसर्वात्मभावफलावाप्तिं वामदेवाद्याचार्यपरम्परया श्रुत्यावद्योत्यमानां ब्रह्मवित्परिषद्यत्यन्तप्रसिद्धामुपलभमाना मुमुक्षवो ब्राह्मण अधुनातना ब्रह्मजिज्ञासवोऽनित्यात्साध्यसाधनलक्षणात्संसारादाजीवभावाद्व्याविवृत्सवो विचारयन्तोऽन्योन्यं पृच्छन्ति कोऽयमात्मेति? कथम् कोऽयम् । आत्मेति वयमुपास्महे । कतरः स आत्मा । येन वा पश्यति येन वा शृणोति येन वा गन्धाञ्जिघ्रति येन वा वाचं व्याकरोति येन वा स्वादु चास्वादु च विजानाति ॥ ३.१ ॥ __________ भाष्य ३.१ यमात्मानमयमात्मेति साक्षाद्वयमुपास्महे कः स आत्मेति यं चात्मानमयमात्मेति साक्षादुपासीनो वामदेवोऽमृतः समभवत्तमेव वयनमप्युपास्महे को नु खलु स आत्मेति । एवं जिज्ञासापूर्वमन्योन्यं पृच्छतामतिक्रान्तविशेषविषयश्रुतिसंस्कारजनिता स्मृतिरजायत । ऽतं प्रपदाभ्यां प्रापद्यत ब्रह्मेमं पुरुषम्ऽऽस एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यतऽ एतमेव पुरुषम् । अत्र द्वे ब्रह्मणी इतरेतरप्रातिकूल्येन प्रतिपन्ने इति । ते चास्यपिण्डस्यात्मभूते । तयोरन्यतर आत्मोपास्यो भवितुमर्हति । योऽत्रोपास्यः कः आत्मेति विशेषनिर्धारणार्थं पुनरन्योन्यं पप्रच्छुर्विचारयन्तः । पुनस्तेषां विचारयतां विशेषविचारणास्पदविषया मतिरभूत् । कथम्? द्वेवस्तुनि अस्मिन् पिण्ड उपलभ्येते । अनेकभेदभिन्नेन करणेन येनोपलभते । यश्चैक उपलभ्येते । करणान्तरोपलब्धविषयस्मृतिप्रतिसन्धानात् । तत्र न तावद्येनोपलभते स आत्मा भवितुमर्हति । केन पुनरुपलभत इत्युच्यते येन वा चक्षुर्भूतेन रूपं पश्यति । येन वा श्रुणोति श्रोत्रभूतेन शब्दम्, येन वा घ्राणभूतेन गन्धानाजिघ्रति, येन वा वाक्करणभूतेन वाचं नामात्मिकां व्याकरोति गौरश्व इत्येवमाद्यां साध्वसाध्विति च, येन वा जिह्वाभूतेन स्वादु चास्वादु च विजानातीति ॥१॥ _______________________________________________________________________ ३.२ किं पुनस्तदेवैकमनेकधा भिन्नं करणमित्युच्यते यदेतद्धृदयं मनश्चैतत् । सञ्ज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिर्धृतिर्मतिर्मनीषा जूतिः स्मृतिः सङ्कल्पः क्रतुरसुः कामो वश इति सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति ॥ ३.२ ॥ __________ भाष्य ३.२ यदुक्तं पुरस्तात्प्रजानां रेतो हृदयं हृदयस्य रेतो मनो मनसा सृष्टा आपश्च वरुणश्च हृदयान्मनो मनसश्चन्द्रमाः । तदेवैतद्धृदयं मनश्च एकमेव तदनेकधा । एतेनान्तःकरणेनैकेन चक्षुर्भूतेन रूपं पश्यति श्रोत्रभूतेन शृणोति घ्राणभूतेन जिघ्रति वाग्भूतेन वदति जिह्वाभूतेन रसयति स्वेनैव विकल्पनारूपेण मनसा विकल्पयति हृदयरूपेणाध्यवस्यति । तस्मात्सर्वकरणविषयव्यापारकमेकमिदं करणं सर्वोपलब्ध्यर्थमुपलब्धुः । तथा च कौषीतकीनां"प्रज्ञया वाचं समारुह्य वाचा सर्वाणि नामान्याप्नोति । प्रज्ञा चक्षुः समारुह्य चक्षुषा सर्वाणि रूपाण्याप्नोति"(३ । ३) इत्यादि । वाजसनेयके च "मनसा ह्येव पश्यति मनसा शृणोति हृदयेन हि रूपाणि जानाति"(बृ.उ.१ । ५ । ३) इत्यादि । तस्माधृदयमनोवाच्यस्य सर्वोपलब्धिकरत्वं प्रसिद्धम् । तदात्मकश्च प्राणो"यो वै प्राणः सा प्रज्ञा यो वै प्रज्ञा स प्राणः"(कौषी.३ । ३) इति हि ब्राह्मणम् । करणसंहतिरूपश्च प्राण इत्यवोचाम प्राणसंवादादौ । तस्माद्यत्पद्भ्यां प्रापद्यत तद्ब्रह्म तदुपलब्धुरुपलब्धिकरणत्वेन गुणभूतत्वान्नैव तद्वस्तु ब्रह्मोपास्यात्मा भवितुमर्हति । पारिशेष्याद्यस्योपलब्धुरुपलब्ध्यर्थं एतस्य हृदयस्य मनोरूपस्य करणस्य वृत्तयो वक्ष्यमाणाः । स उपलब्धोपास्य आत्मानोऽस्माकं भवितुमर्हतीति निश्चयं कृतवन्तः । तदन्तःकरणोपाधिस्थस्योपलब्धुः प्रज्ञारूपस्य ब्रह्मण उपलब्ध्यर्था या अन्तःकरणवृत्तयो बाह्यान्तर्वर्तिविषयविषयास्ता इमा उच्यन्ते । संज्ञानं संज्ञप्तिश्चेतनभावः, आज्ञानमाज्ञप्तिरीश्वरभावः विज्ञानं कलादिपरिज्ञानम्, प्रज्ञानं प्रज्ञप्तिः प्रज्ञता, मेधाग्रन्थधारणसामर्थ्यं दृष्टिरिन्द्रियद्वारा सर्वविषयोपलब्धिः, धृतिर्धारणमवसन्नानां शरीरेन्द्रियाणां ययोत्तम्भनं भवति धृत्या शरीरमुद्वहन्तीति हि वदन्ति, मतिर्मननम्, मनीषा तत्र स्वातन्त्र्यम्. जूतिश्चेतसो रुजादिदुःखित्वभावः स्मृतिः स्मरणम्, संकल्पः शुक्लकृष्णादिभावेन संकल्पनं रूपादीनाम्, क्रतुरध्यवसायः असुः प्राणनादिजीवनक्रियानिमित्ता वृत्तिः, कामो ऽसंनिहितविषयाकाङ्क्षा तृष्णा, वशः स्त्रीव्यतिकराद्यभिलाषः, इत्येवमाद्या अन्तःकरणवृत्तयः प्रज्ञप्तिमात्रस्योपलब्धुरुपलब्ध्यर्थत्वाच्छुद्धप्रज्ञानरूपस्य ब्रह्मण उपाधिभूतास्तदुपाधिजनितगुणनामधेयानि भवन्ति संज्ञानादीनि । सर्वाण्येव एतानि प्रज्ञानस्य नामधेयानि भवन्ति न स्वतः साक्षात् । तथा चोक्तं"प्राणन्नेव प्राणो नाम भवति"(बृ.उ.१ । ४ । ७) इत्यादि ॥२॥ _______________________________________________________________________ ३.३ एष ब्रह्मा । एष इन्द्रः । एष प्रजापतिः । एते सर्वे देवाः । इमानि च पञ्च महाभूतानि पृथिवी वायुराकाश आपो ज्योतींषीत्येतानीमानि क्षुद्रमिश्राणीव बीजानीतराणि चेतराणि चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिज्जानि चाश्वा गावः पुरुषा हस्तिनो यत्किञ्चेदं प्राणि जङ्गमं च पतत्रि च यच्च स्थावरम् । सर्वं तत्प्रज्ञानेत्रम् । प्रज्ञाने प्रतिष्ठितम् । प्रज्ञानेत्रो लोकः । प्रज्ञा प्रतिष्ठा । प्रज्ञानं ब्रह्म ॥ ३.३ ॥ __________ भाष्य ३.३ स एष प्रज्ञानरूप आत्मा ब्रह्मापरं सर्वशरीरस्थः प्राणः प्रज्ञात्मा । अन्तःकरणोपाधिष्वनुप्रविष्टो जलभेदगतसूर्यप्रतिबिम्बवद्धिरण्यगर्भः प्राणः प्रज्ञात्मा एष एव इन्द्रो गुणाद्देवराजो वा एष प्रजापतिर्यः प्रथमजः शरीरी । यतो मुखादिनिर्भेदद्वारेणाग्न्यादयो लोकपाला जाताः स प्रजापतिरेष एव । येऽप्येतेऽग्न्यादयः सर्वे देवा एष एव । इमानि च सर्वशरीरोपादानभूतानि पञ्च पृथिव्यादीनि महाभूतान्यन्नान्नादत्वलक्षणान्येतानि किञ्चेमानि च क्षुद्रमिश्राणि क्षुद्रैरल्पकैर्मिश्राणि इव शब्दोऽनर्थकः सर्पादीनि बीजानि कारणानीतराणि चेतराणि च द्वैराश्येन निर्दिश्यमानानि । कानि तानि! उच्यन्ते अण्डजानि पक्ष्यादीनि, जारुजानि जरायुजानि मनुष्यादीनि, स्वेदजादीनि यूकादीनि, उद्भिजानि च वृक्षादीनि, अश्वा गावः पुरुषा हस्तिनोऽन्यच्च यत्किञ्चेदं प्राणिजातम्, किं तत्? जङ्गमं यच्चलति पद्भ्यां गच्छति । यच्च पतत्रि आकाशेन पतनशीलम् । यच्च स्थावरमचलम् । सर्वं तदेष एव । सर्वं तदशेषतः प्रज्ञानेत्रम् । प्रज्ञप्तिः प्रज्ञा तच्च ब्रह्मैव । नीयतेऽनेनेति नेत्रं प्रज्ञा नेत्रं यस्य तदिदं प्रज्ञानेत्रम् । प्रज्ञाने ब्रह्मण्युत्पत्तिस्थितिलयकालेषु प्रतिष्ठितं प्रज्ञाश्रयमित्यर्थः । प्रज्ञानेत्रो लोकः पूर्ववत् । प्रज्ञाचक्षुर्वा सर्व एव लोकः प्रज्ञा प्रतिष्ठा सर्वस्य जगतः । तस्मात्प्रज्ञानं ब्रह्म । तदेतत्प्रत्यस्तमितसर्वोपाधिविशेषं सन्निरञ्जनं निर्मलं निष्क्रियं शान्तमेकमद्वयं"नेति नेति"इति (बृ.उ.३ । ९ । २६) सर्वविशेषापोहसंवेद्यं सर्वशब्दप्रत्ययागोचरम् । तदप्यन्तविशुद्धप्रज्ञोपाधिसंबन्धेन सर्वज्ञमीश्वरं सर्वसाधारणाव्याकृतजगद्बीजप्रवर्तकं नियन्तृत्वादन्तर्यामिसंज्ञं भवति । तदेव व्याकृतजगत्बीजभूतबुद्ध्यात्माभिमानलक्षणहिरण्यगर्भसंज्ञं भवति । तदेवान्तरण्डोद्भूतप्रथमशरीरोपाधिमद्विराट्प्रजापतिसंज्ञं भवति । तद्भूताग्न्याद्युपाधिमद्देवतासंज्ञं भवति । तथा विशेषशरीरोपाधिष्वपि ब्रह्मादिस्तम्बपर्यन्तेषु तत्तन्नामरूपलाभो ब्रह्मणः । तदेवैकं सर्वोपाधिभेदभिन्नं सर्वैः प्राणिभिस्तार्किकैश्च सर्वप्रकारेण ज्ञायते विकल्प्यते चानेकधा । "एतमेके वदन्त्यग्निं मनुमन्ये प्रजापतिम् । इन्द्रमेकेऽपरे प्राणमपरे ब्रह्म शाश्वतम्"(मनु.१२ । १२३) इत्याद्या स्मृतिः ॥३॥ _______________________________________________________________________ ३.४ स एतेन प्रज्ञेनात्मनास्माल्लोकादुत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामानाप्त्वामृतः समभवत्समभवत् ॥ ३.४ ॥ __________ भाष्य ३.४ स वामदेवोऽन्यो वैवं यथोक्तं ब्रह्म वेद प्रज्ञेनात्मना येनैव प्रज्ञेनात्मना पूर्वे विद्वांसोऽमृता अभूवंस्तथायमपि विद्वानेतेनैव प्रज्ञेनात्मनास्माल्लोकादुत्क्रम्य इत्यादि व्याख्यातम् । अस्माल्लोकादुत्क्रम्यामुष्मिन्स्वर्गे लोके सर्वान्कामानाप्त्वा अमृतः समभवत्समभवदित्योमिति ॥४॥ इति तृतीयेऽध्याये प्रथमः खण्डः समाप्तः । उपनिषद्समाप्तः । ओं तत्सत्