(०.०.० ) ओं नमोऽथर्ववेदाय नमः ॥ (१,१.१ ) ओं ब्रह्म ह वा इदमग्र आसीत्स्वयंभ्वेकमेव (१,१.१ ) तदैक्षत (१,१.१ ) महद्वै यक्षं यदेकमेवास्मि (१,१.१ ) हन्ताहं मदेव मन्मात्रं द्वितीयं देवं निर्मिमा इति (१,१.१ ) तदभ्यश्राम्यदभ्यतपत्समतपत् (१,१.१ ) तस्य श्रान्तस्य तप्तस्य संतप्तस्य ललाटे स्नेहो यदार्द्रमाजायत (१,१.१ ) तेनानन्दत् (१,१.१ ) तदब्रवीत् (१,१.१ ) महद्वै यक्षं सुवेदमविदमहमिति (१,१.१ ) तद्यदब्रवीत् (१,१.१ ) महद्वै यक्षं सुवेदमविदमहमिति (१,१.१ ) तस्मात्सुवेदोऽभवत् (१,१.१ ) तं वा एतं सुवेदं सन्तं स्वेद इत्याचक्षते परोक्षेण (१,१.१ ) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः ॥ १ ॥ (१,१.२ ) स भूयोऽश्राम्यद्भूयोऽतप्यद्भूय आत्मानं समतपत् (१,१.२ ) तस्य श्रान्तस्य तप्तस्य संतप्तस्य सर्वेभ्यो रोमगर्तेभ्यः पृथक्स्वेदधाराः प्रास्यन्दन्त (१,१.२ ) ताभिरनन्दत् (१,१.२ ) तदब्रवीत् (१,१.२ ) आभिर्वा अहमिदं सर्वं धारयिष्यामि यदिदं किं च (१,१.२ ) आभिर्वा अहमिदं सर्वं जनयिष्यामि यदिदं किं च (१,१.२ ) आभिर्वा अहमिदं सर्वं आप्स्यामि यदिदं किं चेति (१,१.२ ) तद्यदब्रवीत् (१,१.२ ) आभिर्वा अहमिदं सर्वं धारयिष्यामि यदिदं किं चेति (१,१.२ ) तस्माद्धारा अभवन् (१,१.२ ) तद्धाराणां धारात्वं यच्चासु ध्रियते (१,१.२ ) तद्यदब्रवीत् (१,१.२ ) आभिर्वा अहमिदं सर्वं जनयिष्यामि यदिदं किं चेति (१,१.२ ) तस्माज्जाया अभवन् (१,१.२ ) तज्जायानां जायात्वं यच्चासु पुरुषो जायते यच्च पुत्रः [एद्.॒ याच्] (१,१.२ ) पुन्नाम नरकमनेकशततारम् (१,१.२ ) तस्मात्त्रातीति पुत्रस् (१,१.२ ) तत्पुत्रस्य पुत्रत्वम् (१,१.२ ) तद्यदब्रवीत् (१,१.२ ) आभिर्वा अहमिदं सर्वं आप्स्यामि यदिदं किं चेति (१,१.२ ) तस्मादापोऽभवन् (१,१.२ ) तदपामप्त्वम् (१,१.२ ) आप्नोति वै स सर्वान् कामान् यान् कामयते ॥ २ ॥ (१,१.३ ) ता अपः सृष्ट्वान्वैक्षत (१,१.३ ) तासु स्वां छायामपश्यत् (१,१.३ ) तामस्येक्षमाणस्य स्वयं रेतोऽस्कन्दत् (१,१.३ ) तदप्सु प्रत्यतिष्ठत् (१,१.३ ) तास्तत्रैवाभ्यश्राम्यदभ्यतपत्समतपत् (१,१.३ ) ताः श्रान्तास्तप्ताः संतप्ताः सार्धमेव रेतसा द्वैधमभवन् (१,१.३ ) तासामन्यतरा अतिलवणा अपेया अस्वाद्व्यस् (१,१.३ ) ता अशान्ता रेतः समुद्रं वृत्वातिष्ठन् (१,१.३ ) अथेतराः पेयाः स्वाद्व्यः शान्तास् (१,१.३ ) तास्तत्रैवाभ्यश्राम्यदभ्यतपत्समतपत् (१,१.३ ) ताभ्यः श्रान्ताभ्यस्तप्ताभ्यः संतप्ताभ्यो यद्रेत आसीत्तदभृज्ज्यत [एद्.॒ असीत्] (१,१.३ ) तस्माद्भृगुः समभवत् (१,१.३ ) तद्भृगोर्भृगुत्वम् (१,१.३ ) भृगुरिव वै स सर्वेषु लोकेषु भाति य एवं वेद ॥ ३ ॥ (१,१.४ ) स भृगुं सृष्ट्वान्तरधीयत (१,१.४ ) स भृगुः सृष्टः प्राङैजत (१,१.४ ) तं वागन्ववदत् (१,१.४ ) वायो वाय इति (१,१.४ ) स न्यवर्तत स दक्षिणां दिशमैजत (१,१.४ ) तं वागन्ववदत् (१,१.४ ) मातरिश्वन् मातरिश्वन्निति (१,१.४ ) स न्यवर्तत स प्रतीचीं दिशमैजत (१,१.४ ) तं वागन्ववदत् (१,१.४ ) पवमान पवमानेति (१,१.४ ) स न्यवर्तत स उदीचीं दिशमैजत (१,१.४ ) तं वागन्ववदत् (१,१.४ ) वात वातेति (१,१.४ ) तमब्रवीत् (१,१.४ ) न न्वविदमहमिति (१,१.४ ) न हीति (१,१.४ ) अथार्वाङेनमेतास्वेवाप्स्वन्विच्छेति (१,१.४ ) तद्यदब्रवीदथार्वाङेनमेतास्वेवाप्स्वन्विच्छेति तदथर्वाभवत् (१,१.४ ) तदथर्वणोऽथर्वत्वम् (१,१.४ ) तस्य ह वा एतस्य भगवतोऽथर्वण ऋषेर्यथैव ब्रह्मणो लोमानि यथाङ्गानि यथा प्राण एवमेवास्य सर्व आत्मा समभवत् (१,१.४ ) तमथर्वाणं ब्रह्माब्रवीत्प्रजापतेः प्रजाः सृष्ट्वा पालयस्वेति (१,१.४ ) तद्यदब्रवीत्प्रजापतेः प्रजाः सृष्ट्वा पालयस्वेति तस्मात्प्रजापतिरभवत् (१,१.४ ) तत्प्रजापतेः प्रजापतित्वम् (१,१.४ ) अथर्वा वै प्रजापतिः (१,१.४श्) प्रजापतिरिव वै स सर्वेषु लोकेषु भाति य एवं वेद ॥ ४ ॥ (१,१.५ ) तमथर्वाणमृषिमभ्यश्राम्यदभ्यतपत्समतपत् (१,१.५ ) तस्माच्छ्रान्तात्तप्तात्संतप्ताद्दशतयानथर्वण ऋषीन्निरमिमतैकर्चान् द्व्यृचांस्तृचांस्चतुरृचान् पञ्चर्चान्त्षडर्चान्त्सप्तर्चानष्टर्चान्नवर्चान् दशर्चानिति [एद्.॒ षडर्चांत्] (१,१.५ ) तानथर्वण ऋषीनभ्यश्राम्यदभ्यतपत्समतपत् (१,१.५ ) तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः संतप्तेभ्यो दशतयानाथर्वणानार्षेयान्निरमिमतैकादशान् द्वादशांस्त्रयोदशांश्चतुर्दशान् पञ्चदशान् षोडशान्त्सप्तदशानष्टादशान्नवदशान् विंशानिति [एद्.॒ षोडशांत्, नोते अल्सो पञ्चर्चान्तबोवे] (१,१.५ ) तानथर्वण ऋषीनाथर्वणांश्चार्षेयानभ्यश्राम्यदभ्यतपत्समतपत् (१,१.५ ) तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः संतप्तेभ्यो यान् मन्त्रानपश्यत्स आथर्वणो वेदोऽभवत् (१,१.५ ) तमाथर्वणं वेदमभ्यश्राम्यदभ्यतपत्समतपत् (१,१.५ ) तस्माच्छ्रान्तात्तप्तात्संतप्तादोमिति मन एवोर्ध्वमक्षरमुदक्रामत् (१,१.५ ) स य इच्छेत्सर्वैरेतैरथर्वभिश्चाथर्वणैश्च कुर्वीयेत्येतयैव तन् महाव्याहृत्या कुर्वीत (१,१.५ ) सर्वैर्ह वा अस्यैतैरथर्वभिश्चाथर्वणैश्च कृतं भवति य एवं वेद यश्चैवंविद्वानेवमेतया महाव्याहृत्या कुरुते ॥ ५ ॥ (१,१.६ ) स भूयोऽश्राम्यद्भूयोऽतप्यद्भूय आत्मानं समतपत् (१,१.६ ) स आतमत एव त्रींल्लोकान्निरमिमीत पृथिवीमन्तरिक्षं दिवमिति (१,१.६ ) स खलु पादाभ्यामेव पृथिवीं निर्ममिमीत (१,१.६ ) उदरादन्तरिक्षं मूर्ध्नो दिवम् (१,१.६ ) स तांस्त्रींल्लोकानभ्यश्राम्यदभ्यतपत्समतपत् (१,१.६ ) तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः संतप्तेभ्यस्त्रीन् देवान्निरमिमीत (१,१.६ ) अग्निं वायुमादित्यमिति (१,१.६ ) स खलु पृथिव्या एवाग्निं निरमिमीतान्तरिक्षाद्वायुं दिव आदित्यम् (१,१.६ ) स तांस्त्रीन् देवानभ्यश्राम्यदभ्यतपत्समतपत् (१,१.६ ) तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः संतप्तेभ्यस्त्रीन् वेदान्निरमिमीत ऋग्वेदं यजुर्वेदं सामवेदमिति (१,१.६ ) अग्नेरृग्वेदं वायोर्यजुर्वेदं आदित्यात्सामवेदम् (१,१.६ ) स तांस्त्रीन् वेदानभ्यश्राम्यदभ्यतपत्समतपत् (१,१.६ ) तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः संतप्तेभ्यस्तिस्रो महाव्याहृतीर्निरमिमीत भूर्भुवः स्वरिति (१,१.६ ) भूरित्यृग्वेदाद्भुव इति यजुर्वेदात्स्वरिति सामवेदात् (१,१.६ ) स य इच्छेत्सर्वैरेतैस्त्रिभिर्वेदैः कुर्वीयेत्येताभिरेव तन् महाव्याहृतिभिः कुर्वीत (१,१.६ ) सर्वैर्ह वा अस्यैतैस्त्रिभिर्वेदैः कृतं भवति य एवं वेद यश्चैवंविद्वानेवमेताभिर्महाव्याहृतिभिः कुरुते ॥ ६ ॥ (१,१.७ ) ता या अमू रेतः समुद्रं वृत्वातिष्ठंस्ताः प्राच्यो दक्षिणाच्यः प्रतीच्य उदीच्यः समवद्रवन्त (१,१.७ ) तद्यत्समवद्रवन्त तस्मात्समुद्र उच्यते (१,१.७ ) ता भीता अब्रुवन् (१,१.७ ) भगवन्तमेव वयं राजानं वृणीमह इति (१,१.७ ) यच्च वृत्वातिष्ठंस्तद्वरणोऽभवत् (१,१.७ ) तं वा एतं वरणं सन्तं वरुण इत्याचक्षते परोक्षेण (१,१.७ ) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः (१,१.७ ) स समुद्रादमुच्यत (१,१.७ ) स मुच्युरभवत् (१,१.७ ) तं वा एतं मुच्युं सन्तं मृत्युरित्याचक्षते परोक्षेण (१,१.७ ) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषस् (१,१.७ ) तं वरुणं मृत्युमभ्यश्राम्यदभ्यतपत्समतपत् (१,१.७ ) तस्य श्रान्तस्य तप्तस्य संतप्तस्य सर्वेभ्योऽङ्गेभ्यो रसोऽक्षरत् (१,१.७ ) सोऽङ्गरसोऽभवत् (१,१.७ ) तं वा एतं अङ्गरसं सन्तमङ्गिरा इत्याचक्षते परोक्षेण (१,१.७ ) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः ॥ ७ ॥ (१,१.८ ) तमङ्गिरसमृषिमभ्यश्राम्यदभ्यतपत्समतपत् (१,१.८ ) तस्माच्छ्रान्तात्तप्तात्संतप्ताद्विंशिनोऽङ्गिरस ऋषीन्निरमिमीत (१,१.८ ) तान् विंशिनोऽङ्गिरस ऋषीनभ्यश्राम्यदभ्यतपत्समतपत् (१,१.८ ) तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः संतप्तेभ्यो दशतयानाङ्गिरसानार्षेयान्निरमिमीत षोडशिनोऽष्टादशिनो द्वादशिन एकर्चान् द्व्यृचांस्तृचांश्चतुरृचान् पञ्चर्चान् षडर्चान् सप्तर्चानिति (१,१.८ ) तानङ्गिरस ऋषीनाङ्गिरसांश्चार्षेयानभ्यश्राम्यदभ्यतपत्समतपत् (१,१.८ ) तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः संतप्तेभ्यो यान् मन्त्रानपश्यत्स आङ्गिरसो वेदोऽभवत् (१,१.८ ) तामाङ्गिरसं वेदमभ्यश्राम्यदभ्यतपत्समतपत् (१,१.८ ) तस्माच्छ्रान्तात्तप्तात्संतप्ताज्जनदिति द्वैतमक्षरं व्यभवत् (१,१.८ ) स य इच्छेत्सर्वैरेतैरङ्गिरोभिश्चाङ्गिरसैश्च कुर्वीयेत्येतयैव तन् महाव्याहृत्या कुर्वीत (१,१.८ ) सर्वैर्ह वा अस्यैतैरङ्गिरोभिश्चाङ्गिरसैश्च कृतं भवति य एवं वेद यश्चैवंविद्वानेवमेतया महाव्याहृत्या कुरुते ॥ ८ ॥ (१,१.९ ) स ऊर्ध्वोऽतिष्ठत् (१,१.९ ) स इमांल्लोकान् व्यष्टभ्नात् (१,१.९ ) तस्मादङ्गिरसोऽधीयान ऊर्ध्वस्तिष्ठति (१,१.९ ) तद्व्रतं स मनसा ध्यायेद्यद्वा अहं किं च मनसा ध्यास्यामि तथैव तद्भविष्यति [एद्.॒ येद्] (१,१.९ ) तद्ध स्म तथैव भवति (१,१.९ ) तदप्येतदृचोक्तम् (१,१.९ ) श्रेष्ठो ह वेदस्तपसोऽधि जातो ब्रह्मज्यानां क्षितये संबभूव । (१,१.९ ) ऋज्यद्भूतं यदसृज्यतेदं निवेशनमनृणं दूरमस्येति [एद्.॒ ऋच्यृग्भूतं सेए नोते ড়त्यल्] (१,१.९ ) ता वा एता अङ्गिरसां जामयो यन् मेनयः (१,१.९ ) करोति मेनिभिर्वीर्यं य एवं वेद ॥ ९ ॥ (१,१.१० ) स दिशोऽन्वैक्षत प्राचीं दक्षिणां प्रतीचीमुदीचीं ध्रुवामूर्ध्वामिति (१,१.१० ) तास्तत्रैवाभ्यश्राम्यदभ्यतपत्समतपत् (१,१.१० ) ताभ्यः श्रान्ताभ्यस्तप्ताभ्यः संतप्ताभ्यः पञ्च वेदान्निरमिमीत (१,१.१० ) सर्पवेदं पिशाचवेदमसुरवेदमितिहासवेदं पुराणवेदमिति (१,१.१० ) स खलु प्राच्या एव दिशः सर्पवेदं निरमिमीत (१,१.१० ) दक्षिणस्याः पिशाचवेदम् (१,१.१० ) प्रतीच्या असुरवेदम् (१,१.१० ) उदीच्या इतिहासवेदम् (१,१.१० ) ध्रुवायाश्चोर्ध्वायाश्च पुराणवेदम् (१,१.१० ) स तान् पञ्च वेदानभ्यश्राम्यदभ्यतपत्समतपत् (१,१.१० ) तेभ्यः श्रान्तेभ्यस्तप्तेभ्यः संतप्तेभ्यः पञ्च महाव्याहृतीर्निरमिमीत (१,१.१० ) वृधत्करद्रुहन् महत्तदिति (१,१.१० ) वृधदिति सर्पवेदात् (१,१.१० ) करदिति पिशाचवेदात् (१,१.१० ) रुहदित्यसुरवेदात् (१,१.१० ) महदितीतिहासवेदात् (१,१.१० ) तदिति पुराणवेदात् (१,१.१० ) स य इच्छेत्सर्वैरेतैः पञ्चभिर्वेदैः कुर्वीयेत्येताभिरेव तन् महाव्याहृतिभिः कुर्वीत (१,१.१० ) सर्वैर्ह वा अस्यैतैः पञ्चभिर्वेदैः कृतं भवति य एवं वेद यश्चैवंविद्वानेवमेताभिर्महाव्याहृतिभिः कुरुते ॥ १० ॥ (१,१.११ ) स आवतश्च परावतश्चान्वैक्षत (१,१.११ ) तास्तत्रैवाभ्यश्राम्यदभ्यतपत्समतपत् (१,१.११ ) ताभ्यः श्रान्ताभ्यस्तप्ताभ्यः संतप्ताभ्यः शमित्यूर्ध्वमक्षरमुदक्रामत् (१,१.११ ) स य इच्छेत्सर्वाभिरेताभिरावद्भिश्च परावद्भिश्च कुर्वीयेत्येतयैवा तन् महाव्याहृत्या कुर्वीत (१,१.११ ) सर्वाभिर्ह वा अस्यैताभिरावद्भिश्च परावद्भिश्च कृतं भवति य एवं वेद यश्चैवंविद्वानेवमेतया महाव्याहृत्या कुरुते ॥ ११ ॥ (१,१.१२ ) स भूयोऽश्राम्यद्भूयोऽतप्यद्भूय आत्मानं समतपत् (१,१.१२ ) स मनस एव चन्द्रमसं निरमिमीत (१,१.१२ ) नखेभ्यो नक्षत्राणि (१,१.१२ ) लोमभ्य ओषधिवनस्पतीन् (१,१.१२ ) क्षुद्रेभ्यः प्राणेभ्योऽन्यान् बहून् देवान् (१,१.१२ ) स भूयोऽश्राम्यद्भूयोऽतप्यद्भूय आत्मानं समतपत् (१,१.१२ ) स एतं त्रिवृतं सप्ततन्तुमेकविंशतिसंस्थं यज्ञमपश्यत्[एद्. एकविशतिसंस्थं] (१,१.१२ ) तदप्येतदृचोक्तम् (१,१.१२ ) <अग्निर्यज्ञं त्रिवृतं सप्ततन्तुम् [ড়्ष्५.२८.१ ]> इति (१,१.१२ ) अथाप्येष प्राक्रीडितः श्लोकः प्रत्यभिवदति (१,१.१२ ) सप्त सुत्याः सप्त च पाकयज्ञा इति ॥ १२ ॥ (१,१.१३ ) तमाहरत् (१,१.१३ ) तेनायजत (१,१.१३ ) तस्याग्निर्होतासीत् (१,१.१३ ) वायुरध्वर्युः (१,१.१३ ) सूर्य उद्गाता (१,१.१३ ) चन्द्रमा ब्रह्मा (१,१.१३ ) पर्जन्यः सदस्यः (१,१.१३ ) ओषधिवनस्पतयश्चमसाध्वर्यवः (१,१.१३ ) विश्वे देवा होत्रकाः (१,१.१३ ) अथर्वाङ्गिरसो गोप्तारस् (१,१.१३ ) तं ह स्मैतमेवंविद्वांसः पूर्वे श्रोत्रिया यज्ञं ततं सावसाय ह स्माहेत्यभिव्रजन्ति (१,१.१३ ) मा नोऽयं घर्म उद्यतः प्रमत्तानाममृताः प्रजाः प्रधाक्षीदिति (१,१.१३ ) तान् वा एतान् परिरक्षकान्त्सदःप्रसर्पकानित्याचक्षते दक्षिणासमृद्धान् (१,१.१३ ) तदु ह स्माह प्रजापतिः (१,१.१३ ) यद्वै यज्ञेऽकुशला ऋत्विजो भवन्त्यचरितिनो ब्रह्मचर्यमपराग्या वा (१,१.१३ ) तद्वै यज्ञस्य विरिष्टमित्याचक्षते (१,१.१३ ) यज्ञस्य विरिष्टमनु यजमानो विरिष्यते (१,१.१३ ) यजमानस्य विरिष्टमन्वृत्विजो विरिष्यन्ते (१,१.१३ ) ऋत्विजां विरिष्टमनु दक्षिणा विरिष्यन्ते (१,१.१३ ) दक्षिणानां विरिष्टमनु यजमानः पुत्रपशुभिर्विरिष्यते (१,१.१३ ) पुत्रपशूनां विरिष्टमनु यजमानः स्वर्गेण लोकेन विरिष्यते (१,१.१३ ) स्वर्गस्य लोकस्य विरिष्टमनु तस्यार्धस्य योगक्षेमो विरिस्.यते यस्मिन्नर्धे यजन्त इति ब्राह्मणम् ॥ १३ ॥ (१,१.१४ ) तं ह स्मैतमेवंविद्वांसं ब्रह्माणं यज्ञविरिष्टी वा यज्ञविरिष्टिनो वेत्युपाधावेरन् (१,१.१४ ) नमस्ते अस्तु भगवन् (१,१.१४ ) यज्ञस्य नो विरिष्टं सन्धेहीति (१,१.१४ ) तद्यत्रैव विरिष्टं स्यात्तत्राग्नीनुपसमाधाय शान्त्युदकं कृत्वा पृथिव्यै श्रोत्रायेति त्रिरेवाग्नीन्त्सम्प्रोक्षति त्रिः पर्युक्षति (१,१.१४ ) त्रिः कारयमानमाचामयति च संप्रोक्षति च (१,१.१४ ) यज्ञवास्तु व सम्प्रोक्षति (१,१.१४ ) अथापि वेदानां रसेन यज्ञस्य विरिष्टं सन्धीयते (१,१.१४ ) तद्यथा लवणेन सुवर्णं संदध्यात्सुवर्णेन रजतं रजतेन लोहं लोहेन सीसं सीसेन त्रप्वेवमेवास्य यज्ञस्य विरिष्टं संधीयते (१,१.१४ ) यज्ञस्य संधितिमनु यजमानः संधीयते [एद्. संघीयते] (१,१.१४ ) यजमानस्य संधितिमन्वृत्विजः संधीयन्ते (१,१.१४ ) ऋत्विजां संधितिमनु दक्षिणाः संधीयन्ते (१,१.१४ ) दक्षिणानां संधितिमनु यजमानः पुत्रपशुभिः संधीयते (१,१.१४ ) पुत्रपशूनां संधितिमनु यजमानः स्वर्गेण लोकेन संधीयते (१,१.१४ ) स्वर्गस्य लोकस्य संधितिमनु तस्यार्धस्य योगक्षेमः संधीयते यस्मिन्नर्धे यजन्त इति ब्राह्मणम् ॥ १४ ॥ (१,१.१५ ) तदु ह स्माहाथर्वा देवो विजानन् यज्ञविरिष्टानन्दानीत्युपशमयेरन् यज्ञे प्रायश्चित्तिः क्रियतेऽपि च यदु बह्विव यज्ञे विलोमं क्रियते न चैवास्य का चनार्तिर्भवति न च यज्ञविष्कन्धमुपयात्यपहन्ति पुनर्मृत्युमपात्येति पुनाराजातिं कामचारोऽस्य सर्वेषु लोकेषु भाति य एवं वेद यश्चैवंविद्वान् ब्रह्मा भवति यस्य चैवंविद्वान् ब्रह्मा दक्षिणतः सदोऽध्यास्ते यस्य चैवंविद्वान् ब्रह्मा दक्षिणत उदङ्मुख आसीनो यज्ञ आज्याहुतीर्जुहोतीति ब्राह्मणम् ॥ १५ ॥ (१,१.१६ ) ब्रह्म ह वै ब्रह्माणं पुष्करे ससृजे (१,१.१६ ) स खलु ब्रह्मा सृष्टश्चिन्तामापेदे (१,१.१६ ) केनाहमेकेनाक्षरेण सर्वांश्च कामान्त्सर्वांश्च लोकान्त्सर्वांश्च देवान्त्सर्वांश्च वेदान्त्सर्वांश्च यज्ञान्त्सर्वांश्च शब्दान्त्सर्वाश्च व्युष्टीः सर्वाणि च भूतानि स्थावरजङ्गमान्यनुभवेयमिति (१,१.१६ ) स ब्रह्मचर्यमचरत् (१,१.१६ ) स ओमित्येतदक्षरमपश्यद्द्विवर्णं चतुर्मात्रं सर्वव्यापि सर्वविभ्वयातयामब्रह्म ब्राह्मीं व्याहृतिं ब्रह्मदैवताम् (१,१.१६ ) तया सर्वांश्च कामान्त्सर्वांश्च लोकान्त्सर्वांश्च देवान्त्सर्वांश्च वेदान्त्सर्वांश्च यज्ञान्त्सर्वांश्च शब्दान्त्सर्वाश्च व्युष्टीः सर्वाणि च भूतानि स्थावरजङ्गमान्यन्वभवत् (१,१.१६ ) तस्य प्रथमेन वर्णेनापः स्नेहं चान्वभवत् (१,१.१६ ) तस्य द्वितीयेन वर्णेन तेजो ज्योतींष्यन्वभवत् ॥ १६ ॥ (१,१.१७ ) तस्य प्रथमया स्वरमात्रया पृथिवीमग्निमोषधिवनस्पतीनृग्वेदं भूरिति व्याहृतिं गायत्रं छन्दस्त्रिवृतं स्तोमं प्राचीं दिशं वसन्तमृतुं वाचमध्यात्मं जिह्वां रसमितीन्द्रियाण्यन्वभवत् ॥ १७ ॥ (१,१.१८ ) तस्य द्वितीयया स्वरमात्रयान्तरिक्षं वायुं यजुर्वेदं भुव इति व्याहृतिं त्रैष्टुभं छन्दः पञ्चदशं स्तोमं प्रतीचीं दिशं ग्रीष्ममृतुं प्राणमध्यात्मं नासिके गन्धघ्राणमितीन्द्रियाण्यन्वभवत् ॥ १८ ॥ (१,१.१९ ) तस्य तृतीयया स्वरमात्रया दिवमादित्यं सामवेदं स्वरिति व्याहृतिं जागतं छन्दः सप्तदशं स्तोममुदीचीं दिशं वर्षा ऋतुं ज्योतिरध्यात्मं चक्षुषी दर्शनमितीन्द्रियान्यन्वभवत् ॥ १९ ॥ (१,१.२० ) तस्य वकारमात्रयापश्चन्द्रमसमथर्ववेदं नक्षत्राण्योमिति स्वमात्मानं जनदित्यङ्गिरसामानुष्टुभं छन्द एकविंशं स्तोमं दक्षिणां दिशं शरदमृतुं मनोऽध्यात्मं ज्ञानं ज्ञेयमितीन्द्रियाण्यन्वभवत् ॥ २० ॥ (१,१.२१ ) तस्य मकारश्रुत्येतिहासपुराणं वाकोवाक्यं गाथा नाराशंसीरुपनिषदोऽनुशासनानीति वृधत्करद्रुहन् महत्तच्छमोमिति व्याहृतीः स्वरशम्यनानातन्त्रीः स्वरनृत्यगीतवादित्राण्यन्वभवच्चैत्ररथं दैवतं वैद्युतं ज्योतिर्बार्हतं छन्दस्त्रिणवत्रयस्त्रिंशौ स्तोमौ ध्रुवामूर्ध्वां दिशं हेमन्तशिशिरावृतू श्रोत्रमध्यात्मं शब्दश्रवणमितीन्द्रियाण्यन्वभवत् ॥ २१ ॥ (१,१.२२ ) सैषैकाक्षरर्ग्ब्रह्मणस्तपसोऽग्रे प्रादुर्बभूव ब्रह्मवेदस्याथर्वणं शुक्रम् (१,१.२२ ) अत एव मन्त्राः प्रादुर्बभूवुः (१,१.२२ ) स तु खलु मन्त्राणामतपसासुश्रूषानध्यायाध्ययनेन यदूनं च विरिष्टं च यातयामं च करोति तदथर्वणां तेजसा प्रत्याप्याययेत् (१,१.२२ ) मन्त्राश्च मामभिमुखीभवेयुर्गर्भा इव मातरमभिजिघांसुः (१,१.२२ ) पुरस्तादोंकारं प्रयुङ्क्ते (१,१.२२ ) एतयैव तदृचा प्रत्याप्यायेत् (१,१.२२ ) एषैव यज्ञस्य पुरस्ताद्युज्यते (१,१.२२ ) एषा पश्चात् (१,१.२२ ) सर्वत एतया यज्ञस्तायते (१,१.२२ ) तदप्येतदृचोक्तम् (१,१.२२ ) या पुरस्ताद्युज्यत ऋचो अक्षरे परमे व्योमन्निति (१,१.२२ ) तदेतदक्षरं ब्राह्मणो यं काममिच्छेत्त्रिरात्रोपोषितः प्राङ्मुखो वाग्यतो बर्हिष्युपविश्य सहस्रकृत्व आवर्तयेत् (१,१.२२ ) सिध्यन्त्यस्यार्थाः सर्वकर्माणि चेति ब्राह्मणम् ॥ २२ ॥ (१,१.२३ ) वसोर्धाराणामैन्द्रं नगरम् (१,१.२३ ) तदसुराः पर्यवारयन्त (१,१.२३ ) ते देवा भीता आसन् (१,१.२३ ) क इमानसुरानपहनिष्यतीति [एद्. ईमान्] (१,१.२३ ) त ओंकारं ब्रह्मणः पुत्रं ज्येष्ठं ददृश्रुस् (१,१.२३ ) ते तमब्रुवन् (१,१.२३ ) भवता मुखेनेमानसुराञ्जयेमेति (१,१.२३ ) स होवाच (१,१.२३ ) किं मे प्रतीवाहो भविष्यतीति (१,१.२३ ) वरं वृणीष्वेति (१,१.२३ ) वृणा इति (१,१.२३ ) स वरमवृणीत (१,१.२३ ) न मामनीरयित्वा ब्राह्मणा ब्रह्म वदेयुः (१,१.२३ ) यदि वदेयुरब्रह्म तत्स्यादिति (१,१.२३ ) तथेति (१,१.२३ ) ते देवा देवयजनस्योत्तरार्धेऽसुरैः संयत्ता आसन् (१,१.२३ ) तानोंकारेणाग्नीध्रीयाद्देवा असुरान् पराभावयन्त (१,१.२३ ) तद्यत्पराभावयन्त तस्मादोंकारः पूर्वमुच्यते (१,१.२३ ) यो ह वा एतमोंकारं न वेदावशी स्यादित्यथ य एवं वेद ब्रह्मवशी स्यादिति (१,१.२३ ) तस्मादोंकार ऋच्यृग्भवति (१,१.२३ ) यजुषि यजुः (१,१.२३ ) साम्नि साम (१,१.२३ ) सूत्रे सूत्रम् (१,१.२३ ) ब्राह्मणे ब्राह्मणम् (१,१.२३ ) श्लोके श्लोकः (१,१.२३श्) प्रणवे प्रणव इति ब्राह्मणम् ॥ २३ ॥ (१,१.२४ ) ओंकारं पृच्छामः (१,१.२४ ) को धातुः (१,१.२४ ) किं प्रातिपदिकम् (१,१.२४ ) किं नामाख्यातम् (१,१.२४ ) किं लिङ्गम् (१,१.२४ ) किं वचनम् (१,१.२४ ) का विभक्तिः (१,१.२४ ) कः प्रत्ययः (१,१.२४ ) कः स्वर उपसर्गो निपातः (१,१.२४ ) किं वै व्याकरणम् (१,१.२४ ) को विकारः (१,१.२४ ) को विकारी (१,१.२४ ) कतिमात्रः (१,१.२४ ) कतिवर्णः (१,१.२४ ) कत्यक्षरः (१,१.२४ ) कतिपदः (१,१.२४ ) कः संयोगः (१,१.२४ ) किं स्थानानुप्रदानकरणं शिक्षुकाः किमुच्चारयन्ति (१,१.२४ ) किं छन्दः (१,१.२४ ) को वर्ण इति पूर्वे प्रश्राः (१,१.२४ ) अथोत्तरे (१,१.२४ ) मन्त्रः कल्पो ब्राह्मणमृग्यजुः साम (१,१.२४ ) कस्माद्ब्रह्मवादिन ओंकारमादितः कुर्वन्ति (१,१.२४ ) किं दैवतम् (१,१.२४ ) किं ज्योतिषम् (१,१.२४श्) किं निरुक्तम् (१,१.२४ अ) किं स्थानम् (१,१.२४ ब्) का प्रकृतिः (१,१.२४ च्) किमध्यात्ममिति (१,१.२४ द्) षट्त्रिंशत्प्रश्र्नाः (१,१.२४ ए) पूर्वोत्तराणां त्रयो वर्गा द्वादशकाः (१,१.२४ f) एतैरोंकारं व्याख्यास्यामः ॥ २४ ॥ (१,१.२५ ) इन्द्रः प्रजापतिमपृच्छत् (१,१.२५ ) भगवन्नभिष्टूय पृच्छामीति (१,१.२५ ) पृच्छ वत्सेत्यब्रवीत् (१,१.२५ ) किमयमोंकारः (१,१.२५ ) कस्यः पुत्रः (१,१.२५ ) किं चैतच्छन्दः (१,१.२५ ) किं चैतद्वर्णः (१,१.२५ ) किं चैतद्ब्रह्मा ब्रह्म सम्पद्यते (१,१.२५ ) तस्माद्वै तद्भद्रमोंकारं पूर्वमालेभे (१,१.२५ ) स्वरितोदात्त एकाक्षर ओंकार ऋग्वेदे (१,१.२५ ) त्रैस्वर्योदात एकाक्षर ओंकारो यजुर्वेदे (१,१.२५ ) दीर्घप्लुतोदात्त एकाक्षर ओंकारः सामवेदे (१,१.२५ ) ह्रस्वोदात्त एकाक्षर ओंकारोऽथर्ववेदे (१,१.२५ ) उदात्तोदात द्विपद अ उ इत्यर्धचतस्रो मात्रा मकारे व्यञ्जनमित्याहुः (१,१.२५ ) या सा प्रथमा मात्रा ब्रह्मदेवत्या रक्ता वर्णेन (१,१.२५ ) यस्तां ध्यायते नित्यं स गच्छेद्ब्राह्मं पदम् (१,१.२५ ) या सा द्वितीया मात्रा विष्णुदेवत्या कृष्णा वर्णेन (१,१.२५ ) यस्तां ध्यायते नित्यं स गच्छेद्वैष्णवं पदम् (१,१.२५ ) या सा तृतीया मात्रैशानदेवत्या कपिला वर्णेन (१,१.२५ ) यस्तां ध्यायते नित्यं स गच्छेदैशानं पदम् (१,१.२५ ) या सार्धचतुर्थी मात्रा सर्वदेवत्या व्यक्तीभूता खं विचरति शुद्धस्फटिकसन्निभा वर्णेन (१,१.२५ ) यस्तां ध्यायते नित्यं स गच्छेत्पदमनामकम् (१,१.२५ ) ओंकारस्य चोत्पत्तिः (१,१.२५ ) विप्रो यो न जानाति तत्पुनरुपनयनम् (१,१.२५ ) तस्माद्ब्राह्माणवचनमादर्तव्यं यथा लातव्यो गोत्रो ब्रह्मणः पुत्रः (१,१.२५श्) गायत्रं च्छन्दः (१,१.२५ अ) शुक्लो वर्णः (१,१.२५ ब्) पुंसो वत्सः (१,१.२५ च्) रुद्रो देवता (१,१.२५ द्) ओंकारो वेदानाम् ॥ २५ ॥ (१,१.२६ ) को धातुरिति (१,१.२६ ) आपृधातुः (१,१.२६ ) अवतिमप्येके (१,१.२६ ) रूपसामान्यादर्थसामान्यं नेदीयस् (१,१.२६ ) तस्मादापेरोंकारः सर्वमाप्नोतीत्यर्थः कृदन्तमर्थवत् (१,१.२६ ) प्रातिपदिकमदर्शनम् (१,१.२६ ) प्रत्ययस्य नाम संपद्यते निपातेषु चैनं वैयाकरणा उदात्तं समामनन्ति तदव्ययीभूतम् (१,१.२६ ) अन्वर्थवाची शब्दो न व्येति कदा चनेति (१,१.२६ ) सदृशं त्रिषु लिङ्गेषु सर्वासु व विभक्तिषु वचनेषु च सर्वेषु यन्न व्येति तदव्ययम् (१,१.२६ ) को विकारी च्यवते (१,१.२६ ) प्रसारणम् (१,१.२६ ) आप्नोतेराकरपकारौ विकार्यौ (१,१.२६ ) आदित ओंकारो विक्रियते (१,१.२६ ) द्वितीयो मकारः (१,१.२६ ) एव द्विवर्ण एकाक्षर ओमित्योंकारो निर्वृत्तः ॥ २६ ॥ (१,१.२७ ) कतिमात्र इति (१,१.२७ ) आदेस्तिस्रो मात्राः (१,१.२७ ) अभ्यादाने हि प्लवते (१,१.२७ ) मकारश्चतुर्थीम् (१,१.२७ ) किं स्थानमिति (१,१.२७ ) उभावोष्ठौ स्थानम् (१,१.२७ ) नादानुप्रदानकरणौ च द्विस्थानम् [एद्. नादान, च्f. ড়त्यल्प्. २८] (१,१.२७ ) संध्यक्षरमवर्णलेशः कण्ठ्यो यथोक्तशेषः (१,१.२७ ) पूर्वो विवृतकरणस्थितश्च (१,१.२७ ) द्वितीयस्पृष्टकरणस्थितश्च (१,१.२७ ) न संयोगो विद्यते (१,१.२७ ) आख्यातोपसर्गानुदात्तस्वरितलिङ्गविभक्तिवचनानि च संस्थानाध्यायिन आचार्याः पूर्वे बभूवुः (१,१.२७ ) श्रवणादेव प्रतिपद्यन्ते न कारणं पृच्छन्ति (१,१.२७ ) अथापरपक्षीयाणां कविः पञ्चालचण्डः परिपृच्छको बभूवांबु पृथगुद्गीथदोषान् भवन्तो ब्रुवन्त्विति (१,१.२७ ) तद्वाच्युपलक्षयेद्वर्णाक्षरपदाङ्कशः (१,१.२७ ) विभक्त्यामृषिनिषेवितामिति वाचं स्तुवन्ति (१,१.२७ ) तस्मात्कारणं ब्रूमः (१,१.२७ ) वर्णानामयमिदं भविष्यतीति (१,१.२७ ) षडङ्गविदस्तत्तथाधीमहे (१,१.२७ ) किं छन्द इति (१,१.२७ ) गायत्रं हि छन्दः (१,१.२७ ) गायत्री वै देवानामेकाक्षरा श्वेतवर्णा च व्याख्याता (१,१.२७ ) द्वौ द्वादशकौ वर्गौ (१,१.२७ ) एतद्वै व्याकरणं धात्वर्थवचनं शैक्ष्यं छन्दोवचनं च (१,१.२७ ) अथोत्तरौ द्वौ द्वादशकौ वर्गौ वेदरहसिकी व्याख्याता (१,१.२७श्) मन्त्रः कल्पो ब्राहमणमृग्यजुः सामाथर्वाणि (१,१.२७ अ) एषा व्याहृतिश्चतुर्णां वेदानामानुपूर्वेणों भूर्भुवः स्वरिति व्याहृतयः ॥ २७ ॥ (१,१.२८ ) असमीक्ष्यप्रवल्हितानि श्रूयन्ते (१,१.२८ ) द्वापरादावृषीणामेकदेशो दोषपतिरिह चिन्तामापेदे त्रिभिः सोमः पातव्यः समाप्तमिव भवति (१,१.२८ ) तस्मादृग्यजुःसामान्यपक्रान्ततेजांस्यासन् (१,१.२८ ) तन्त्र महर्षयः परिदेवयां चक्रिरे (१,१.२८ ) महच्छोकभयं प्राप्ताः स्मः (१,१.२८ ) न चैतत्सर्वैः समभिहितम् (१,१.२८ ) ते वयं भगवन्तमेवोपधावाम (१,१.२८ ) सर्वेषामेव शर्म भवानीति (१,१.२८ ) ते तथेत्युक्त्वा तूष्णीमतिष्ठन् (१,१.२८ ) नानुपसन्नेभ्य इति (१,१.२८ ) उपोपसीदामीति नीचैर्बभूवुः (१,१.२८ ) स एभ्य उपनीय प्रोवाच (१,१.२८ ) मामिकामेव व्याहृतिमादित आदितः कृणुध्वमिति (१,१.२८ ) एवं मामका आधीयन्ते नर्ते भृग्वङ्गिरोविद्भ्यः सोमः पातव्यः (१,१.२८ ) ऋत्विजः पराभवन्ति (१,१.२८ ) यजमानो रजसापध्वस्यति (१,१.२८ ) श्रुतिश्चापध्वस्ता तिष्ठतीति (१,१.२८ ) एवमेवोत्तरोत्तराद्योगात्तोकं तोकं प्रशाध्वमिति (१,१.२८ ) एवं प्रतापो न पराभविष्यतीति (१,१.२८ ) तथा ह तथा ह भगवन्निति प्रतिपेदिर आप्याययन् (१,१.२८ ) ते तथा वीतशोकभया बभूवुस् (१,१.२८ ) तस्माद्ब्रह्मवादिन ओंकारमादितः कुर्वन्ति ॥ २८ ॥ (१,१.२९ ) किं देवतमिति (१,१.२९ ) ऋचामग्निर्देवतम् (१,१.२९ ) तदेव ज्योतिः (१,१.२९ ) गायत्रं छन्दः (१,१.२९ ) पृथिवी स्थानम् (१,१.२९ ) <अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजं होतारं रत्नधातमम् [ऋV १.१.१]> इत्येवमादिं कृत्वा ऋग्वेदमधीयते (१,१.२९ ) यजुषां वायुर्देवतम् (१,१.२९ ) तदेव ज्योतिस् (१,१.२९ ) त्रैष्टुभं छन्दः (१,१.२९ ) अन्तरिक्षं स्थानम् (१,१.२९ ) <इषे त्वोर्जे त्वा वायव स्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे [Vष्१.१]>इत्येवमादिं कृत्वा यजुर्वेदमधीयते (१,१.२९ ) साम्नामादित्यो देवतम् (१,१.२९ ) तदेव ज्योतिः (१,१.२९ ) जागतं छन्दः (१,१.२९ ) द्यौः स्थानम् (१,१.२९ ) <अग्न आ याहि वीतये गृणानो हव्यदातये नि होता सत्सि बर्हिषि [ष्V १.१]>इत्येवमादिं कृत्वा समावेदमधीयते (१,१.२९ ) अथर्वणां चन्द्रमा देवतम् (१,१.२९ ) तदेव ज्योतिः (१,१.२९ ) सर्वाणि छन्दांसि (१,१.२९ ) आपः स्थानम् (१,१.२९ ) <शं नो देवीरभिष्टय [ড়्ष्१.१.१]> इत्येवमादिं कृत्वाथर्ववेदमधीयते (१,१.२९ ) अद्भ्यः स्थावरजङ्गमो भूतग्रामः संभवति (१,१.२९ ) तस्मात्सर्वमापोमयं भूतं सर्वं भृग्वङ्गिरोमयम् (१,१.२९ ) अन्तरैते त्रयो वेदा भृगूनङ्गिरसः श्रिता इत्यबिति प्रकृतिरपामोंकारेण च (१,१.२९ ) एतस्माद्व्यासः पुरोवाच (१,१.२९श्) भृग्वङ्गिरोविदा संस्कृतोऽन्यान् वेदानधीयीत (१,१.२९ अ) नान्यत्र संस्कृतो भृग्ङ्गिरसोऽधीयीत (१,१.२९ ब्) सामवेदेऽथ खिलश्रुतिर्ब्रह्मचर्येण चैतस्मादथर्वाङ्गिरसो ह यो वेद स वेद सर्वमिति ब्राह्मणम् ॥ २९ ॥ (१,१.३० ) अध्यात्ममात्मभैषज्यमात्मकैवल्यमोंकारः (१,१.३० ) आत्मानं निरुध्य सङ्गममात्रीं भूतार्थचिन्तां चिन्तयेत् (१,१.३० ) अतिक्रम्य वेदेभ्यः सर्वपरमध्यात्मफलं प्राप्नोतीत्यर्थः (१,१.३० ) सवितर्कं ज्ञानमयमित्येतैः प्रश्नैः प्रतिवचनैश्च यथार्थं पदमनुविचिन्त्य प्रकरणज्ञो हि प्रबलो विषयी स्यात्सर्वस्मिन् वाकोवाक्य इति ब्राह्मणम् ॥ ३० ॥ (१,१.३१ ) एतद्ध स्मैतद्विद्वांसमेकादशाक्षं मौद्गल्यं ग्लावो मैत्रेयोऽभ्याजगाम (१,१.३१ ) स तस्मिन् ब्रह्मचर्यं वसतो विज्ञायोवाच किं स्विन् मर्या अयं तन् मौद्गल्योऽध्येति यदस्मिन् ब्रह्मचर्यं वसतीति (१,१.३१ ) तद्धि मौद्गल्यस्यान्तेवासी शुश्राव (१,१.३१ ) स आचार्यायाव्रज्याचचष्टे (१,१.३१ ) दुरधीयानं वा अयं भवन्तमवोचद्योऽयमद्यातिथिर्भवति (१,१.३१ ) किं सौम्य विद्वानिति (१,१.३१ ) त्रीन् वेदान् ब्रूते भो इति (१,१.३१ ) तस्य सौम्य विपष्टो विजिगीषोऽन्तेवासी तं मे ह्वयेति (१,१.३१ ) तमाजुहाव (१,१.३१ ) तमभ्युवाचासाविति (१,१.३१ ) भो इति (१,१.३१ ) किं सौम्य त आचार्योऽध्येतीति (१,१.३१ ) त्रीन् वेदान् ब्रूते (१,१.३१ ) भो इति (१,१.३१ ) यन्नु खलु सौम्यास्माभिः सर्वे वेदा मुखतो गृहीताः कथं त एवमाचार्यो भाषते (१,१.३१ ) कथं नु शिष्टाः शिष्टेभ्य एवं भाषेरन् (१,१.३१ ) यं ह्येनमहं प्रश्नं पृच्छामि न तं विवक्ष्यति (१,१.३१ ) न ह्येनमध्येतीति (१,१.३१ ) स ह मौद्गल्यः स्वमन्तेवासिनमुवाच परेहि सौम्य ग्लावं मैत्रेयमुपसीद (१,१.३१ ) अधीहि भोः सावित्रीं गायत्रीं चतुर्विंशतियोनिं द्वादशमिथुनाम् (१,१.३१ ) यस्या भृग्वङ्गिरसश्चक्षुः (१,१.३१ ) यस्यां सर्वमिदं श्रितं तां भवान् प्रब्रवीत्विति (१,१.३१ ) स चेत्सौम्य दुरधीयानो भविष्यत्याचार्योवाच ब्रह्मचारी ब्रह्माचारिणो सावित्रीं प्राहेति वक्ष्यति तत्त्वं ब्रूयाद्दुरधीयानं तं वै भवान् मौद्गल्यमवोचत् (१,१.३१ ) स त्वा यं प्रश्नमप्राक्षीन्न तं व्यवोचः (१,१.३१ ) पुरा संवत्सरादार्तिमारिष्यसीति ॥ ३१ ॥ (१,१.३२ ) स तत्राजगाम यत्रेतरो बभूव (१,१.३२ ) तं ह पप्रच्छ (१,१.३२ ) स ह न प्रतिपेदे (१,१.३२ ) तं होवाच दुरधीयानं तं वै भवान् मौद्गल्यमवोचत् (१,१.३२ ) स त्वा यं प्रश्नमप्राक्षीन्न तं व्यवोचः (१,१.३२ ) पुरा संवत्सरादार्तिमारिष्यसीति (१,१.३२ ) स ह मैत्रेयः स्वानन्तेवासित उवाच यथार्थं भवन्तो यथागृहं यथामनो विप्रसृज्यन्ताम् (१,१.३२ ) दुरधीयानं वा अहं मौद्गल्यमवोचम् (१,१.३२ ) स मा यं प्रश्नमप्राक्षीन्न तं व्यवोचम् (१,१.३२ ) तमुपैष्यामि (१,१.३२ ) शान्तिं करिष्यामीति (१,१.३२ ) स ह मैत्रेयः प्रातः समित्पाणिर्मौद्गल्यमुपससादासौ वा अहं भो मैत्रेयः (१,१.३२ ) किमर्थमिति (१,१.३२ ) दुरधीयानं वा अहं भवन्तमवोचम् (१,१.३२ ) त्वं मा यं प्रश्नमप्राक्षीर्न तं व्यवोचम् (१,१.३२ ) त्वामुपैष्यामि (१,१.३२ ) शान्तिं करिष्यामीति (१,१.३२ ) स होवाचात्र वा उपेतं च सर्वं च कृतं पापकेन त्वा यानेन चरन्तमाहुः (१,१.३२ ) अथोऽयं मम कल्याणस्[ড়त्यल्ऽस्त्रन्स्ल्. इम्प्लिएस्थे एमेन्दतिओनाहू रथो] (१,१.३२ ) तं ते ददामि (१,१.३२ ) तेन याहीति (१,१.३२ ) स होवाचैतदेवात्रात्विषं चानृशंस्यं च यथा भवानाह (१,१.३२ ) उपायामि त्वेव भवन्तमिति (१,१.३२ ) तं होपेयाय (१,१.३२ ) तं होपेत्य पप्रच्छ किं स्विदाहुर्भोः सवितुर्वरेण्यं भर्गो देवस्य कवयः किमाहुर्धियो विचक्ष्व यदि ताः प्रवेत्थ (१,१.३२श्) प्रचोदयात्सविता याभिरेतीति [एद्. प्रचोदयान्त्, चोर्र्. ড়त्यल्] (१,१.३२ अ) तस्मा एतत्प्रोवाच वेदांश्छन्दांसि सवितुर्वरेण्यम् (१,१.३२ ब्) भर्गो देवस्य कवयोऽन्नमाहुः कर्माणि धियस् (१,१.३२ च्) तदु ते प्रब्रवीमि प्रचोदयात्सविता याभिरेतीति [एद्. प्रचोदयान्त्] (१,१.३२ द्) तमुपसंगृह्य पप्रच्छाधीहि भोः कः सविता का सावित्री ॥ ३२ ॥ (१,१.३३ ) मन एव सविता वाक्सावित्री (१,१.३३ ) यत्र ह्येव मनस्तद्वाग्यत्र वै वाक्तन् मन इति (१,१.३३ ) एते द्वे योनी एकं मिथुनम् (१,१.३३ ) अग्निरेव सविता पृथिवी सावित्री (१,१.३३ ) यत्र ह्येवाग्निस्तत्पृथिवी यत्र वै पृथिवी तदग्निरिति (१,१.३३ ) एते द्वे योनी एकं मिथुनम् (१,१.३३ ) वायुरेव सवितान्तरिक्षं सावित्री (१,१.३३ ) यत्र ह्येव वायुस्तदन्तरिक्षं यत्र वा अन्तरिक्षं तद्वायुरिति (१,१.३३ ) एते द्वे योनी एकं मिथुनम् (१,१.३३ ) आदित्य एव सविता द्यौः सावित्री (१,१.३३ ) यत्र ह्येवादित्यस्तद्द्यौर्यत्र वै द्यौस्तदादित्य इति (१,१.३३ ) एते द्वे योनी एकं मिथुनम् (१,१.३३ ) चन्द्रमा एव सविता नक्षत्राणि सावित्री (१,१.३३ ) यत्र ह्येव चन्द्रमास्तन्नक्षत्राणि यत्र वै नक्षत्राणि तच्चन्द्रमा इति (१,१.३३ ) एते द्वे योनी एकं मिथुनम् (१,१.३३ ) अहरेव सविता रात्रिः सावित्री (१,१.३३ ) यत्र ह्येवाहस्तद्रात्रिर्यत्र वै रात्रिस्तदहरिति (१,१.३३ ) एते द्वे योनी एक मिथुनम् (१,१.३३ ) उष्णमेव सविता शीतं सावित्री (१,१.३३ ) यत्र ह्येवोष्णं तच्छीतं यत्र वै शीतं तदुष्णमिति (१,१.३३ ) एते द्वे योनी एकं मिथुनम् (१,१.३३ ) अभ्रमेव सविता वर्षं सावित्री (१,१.३३ ) यत्र ह्येवाभ्रं तद्वर्षं यत्र वै वर्षं तदभ्रमिति (१,१.३३ ) एते द्वे योनी एकं मिथुनम् (१,१.३३ ) विद्युदेव सविता स्तनयित्नुः सावित्री (१,१.३३श्) यत्र ह्येव विद्युत्तत्स्तनयित्नुर्यत्र वै स्तनयित्नुस्तद्विद्युदिति (१,१.३३ अ) एते द्वे योनी एकं मिथुनम् (१,१.३३ ब्) प्राण एव सवितान्नं सावित्री (१,१.३३ च्) यत्र ह्येव प्राणस्तदन्नं यत्र वा अन्नं तत्प्राण इति (१,१.३३ द्) एते द्वे योनी एकं मिथुनम् (१,१.३३ ए) वेदा एव सविता छन्दांसि सावित्री [एद्. ओमित्स्सेन्तेन्चे एन्द्मर्केर्] (१,१.३३ f) यत्र ह्येव वेदास्तच्छन्दांसि यत्र वै छन्दांसि तद्वेदा इति (१,१.३३ ग्) एते द्वे योनी एकं मिथुनम् (१,१.३३ ह्) यज्ञ एक सविता दक्षिणाः सावित्री (१,१.३३ इ) यत्र ह्येव यज्ञस्तद्दक्षिणा यत्र वै दक्षिणास्तद्यज्ञ इति (१,१.३३ ज्) एते द्वे योनी एकं मिथुनम् (१,१.३३ क्) एतद्ध स्मैतद्विद्वांसमोपाकारिमासस्तुर्ब्रह्मचारी ते संस्थित इत्यथैत आसस्तुराचित इव चितो बभूव (१,१.३३ ल्) अथोत्थाय प्राव्राजीदित्येतद्वा अहं वेद नैतासु योनिष्वित एतेभ्यो वा मिथुनेभ्यः संभूतो ब्रह्मचारी मम पुरायुषः प्रेयादिति ॥ ३३ ॥ (१,१.३४ ) ब्रह्म हेदं श्रियं प्रतिष्ठामायतनमैक्षत (१,१.३४ ) तत्तपस्व (१,१.३४ ) यदि तद्व्रते ध्रियेत तत्सत्ये प्रत्यतिष्ठत् (१,१.३४ ) स सविता सावित्र्या ब्राह्मणं सृष्ट्वा तत्सवित्रीं पर्यदधात् (१,१.३४ ) तत्सवितुर्वरेण्यमिति सावित्र्याः प्रथमः पादः [एद्. सवित्र्याः] (१,१.३४ ) पृथिव्यर्चं समदधात् (१,१.३४ ) ऋचाग्निम् (१,१.३४ ) अग्निना श्रियम् (१,१.३४ ) श्रिया स्त्रियम् (१,१.३४ ) स्त्रिया मिथुनम् (१,१.३४ ) मिथुनेन प्रजाम् (१,१.३४ ) प्रजया कर्म (१,१.३४ ) कर्मणा तपस्[एद्. कमणा] (१,१.३४ ) तपसा सत्यम् (१,१.३४ ) सत्येन ब्रह्म (१,१.३४ ) ब्रह्मणा ब्राह्मणम् (१,१.३४ ) ब्राह्मणेन व्रतम् (१,१.३४ ) व्रतेन वै ब्राह्मणः संशितो भवति (१,१.३४ ) अशून्यो भवत्यविछिन्नो भवत्यविछिन्नोऽस्य तन्तुरविछिन्नं जीवनं भवति य एवं वेद यश्चैवंविद्वानेवमेतं सावित्र्याः प्रथमं पादं व्याचष्टे ॥ ३४ ॥ (१,१.३५ ) भर्गो देवस्य धीमहीति सावित्र्या द्वितीयः पादः (१,१.३५ ) अन्तरिक्षेण यजुः समदधात् (१,१.३५ ) यजुषा वायुम् (१,१.३५ ) वायुनाभ्रम् (१,१.३५ ) अभ्रेण वर्षम् (१,१.३५ ) वर्षेणौषधिवनस्पतीन् (१,१.३५ ) ओषधिवनस्पतिभिः पशून् (१,१.३५ ) पशुभिः कर्म (१,१.३५ ) कर्मणा तपस् (१,१.३५ ) तपसा सत्यम् (१,१.३५ ) सत्येन ब्रह्म (१,१.३५ ) ब्रह्मणा ब्राह्मणम् (१,१.३५ ) ब्राह्मणेन व्रतम् (१,१.३५ ) व्रतेन वै ब्राह्मणः संशितो भवति (१,१.३५ ) अशून्यो भवत्यविछिन्नो भवत्यविछिन्नोऽस्य तन्तुरविछिन्नं जीवनं भवति य एवं वेद यश्चैवंविद्वानेवमेतं सावित्र्या द्वितीयं पादं व्याचष्टे ॥ ३५ ॥ (१,१.३६ ) धियो यो नः प्रचोदयादिति सावित्र्यास्तृतीयः पादः (१,१.३६ ) दिवा साम समदधात् (१,१.३६ ) साम्नादित्यम् (१,१.३६ ) आदित्येन रश्मीन् [एद्. रश्मि+ईन्] (१,१.३६ ) रश्मिभिर्वर्षम् (१,१.३६ ) वर्षेणौषधिवनस्पतीन् (१,१.३६ ) ओषधिवनस्पतिभिः पशून् (१,१.३६ ) पशुभिः कर्म (१,१.३६ ) कर्मणा तपस् (१,१.३६ ) तपसा सत्यम् (१,१.३६ ) सत्येन ब्रह्म (१,१.३६ ) ब्रह्मणा ब्राह्मणम् (१,१.३६ ) ब्राह्मणेन व्रतम् (१,१.३६ ) व्रतेन वै ब्राह्मणः संशितो भवति (१,१.३६ ) अशून्यो भवत्यविछिन्नो भवत्यविछिन्नोऽस्य तन्तुरविछिन्नं जीवनं भवति य एवं वेद यश्चैवंविद्वानेवमेतं सावित्र्यास्तृतीयं पादं व्याचष्टे ॥ ३६ ॥ (१,१.३७ ) तेन ह वा एवंविदुषा ब्राह्मणेन ब्रह्माभिपन्नं ग्रसितं परामृष्टम् (१,१.३७ ) ब्रह्मणाकाशमभिपन्नं ग्रसितं परामृष्टम् (१,१.३७ ) आकाशेन वायुरभिपन्नो ग्रसितः परामृष्टः (१,१.३७ ) वायुना ज्योतिरभिपन्नं ग्रसितं परामृष्टम् (१,१.३७ ) ज्योतिषापोऽभिपन्ना ग्रसिताः परामृष्टाः (१,१.३७ ) अद्भिर्भूमिरभिपन्ना ग्रसिता परामृष्टा (१,१.३७ ) भूम्यान्नमभिपन्नं ग्रसितं परामृष्टम् (१,१.३७ ) अन्नेन प्राणोऽभिपन्नो ग्रसितः परामृष्टः (१,१.३७ ) प्राणेन मनोऽभिपन्नं ग्रसितं परामृष्टम् (१,१.३७ ) मनसा वागभिपन्ना ग्रसिता परामृष्टा (१,१.३७ ) वाचा वेदा अभिपन्ना ग्रसिताः परामृष्टाः (१,१.३७ ) वेदैर्यज्ञोऽभिपन्नो ग्रसितः परामृष्टस्[एद्. परिमृष्टस्] (१,१.३७ ) तानि ह वा एतानि द्वादशमहाभूतान्येवंविदि प्रतिष्ठितानि (१,१.३७ ) तेषां यज्ञ एव परार्ध्यः ॥ ३७ ॥ (१,१.३८ ) तं ह स्मैतमेवांविद्वांसो मन्यन्ते विद्मैनमिति याथातथ्यमविद्वांसः (१,१.३८ ) अयं यज्ञो वेदेषु प्रतिष्ठितः (१,१.३८ ) वेदा वाचि प्रतिष्ठिताः (१,१.३८ ) वाङ्मनसि प्रतिष्ठिता (१,१.३८ ) मनः प्राणे प्रतिष्ठितम् (१,१.३८ ) प्राणोऽन्ने प्रतिष्ठितः (१,१.३८ ) अन्नं भूमौ प्रतिष्ठितम् (१,१.३८ ) भूमिरप्सु प्रतिष्ठिता (१,१.३८ ) आपो ज्योतिषि प्रतिष्ठिताः (१,१.३८ ) ज्योतिर्वायौ प्रतिष्ठितम् (१,१.३८ ) वायुराकाशे प्रतिष्ठितः (१,१.३८ ) आकाशं ब्रह्मणि प्रतिष्ठितम् (१,१.३८ ) ब्रह्म ब्राह्मणे ब्रह्मविदि प्रतिष्ठितम् (१,१.३८ ) यो ह वा एवंवित्स ब्रह्मवित् (१,१.३८ ) पुण्यां च कीर्तिं लभते सुरभींश्च गन्धान् (१,१.३८ ) सोऽपहतपाप्मा (१,१.३८ ) अनन्तां श्रियमश्नुते य एवं वेद यश्चैवंविद्वानेवमेतां वेदानां मातरं सावित्रीं संपदमुपनिषदमुपास्त इति ब्राह्मणम् ॥ ३८ ॥ (१,१.३९ ) <आपो गर्भं जनयन्तीर्[ড়्ष्४.१.८]> इति (१,१.३९ ) अपां गर्भः पुरुषः (१,१.३९ ) स यज्ञः (१,१.३९ ) अद्भिर्यज्ञः प्रणीयमानः प्राङ्तायते (१,१.३९ ) तस्मादाचमनीयं पूर्वमाहारयति (१,१.३९ ) स यदाचामति त्रिराचामति (१,१.३९ ) द्विः परिशुम्भति (१,१.३९ ) आयुरवरुह्य पाप्मानं निर्णुदति (१,१.३९ ) उपसाद्य यजुषोद्धृत्य मन्त्रान् प्रयुज्यावसाय प्राचीः शाखाः संधाय निरङ्गुष्ठे पाणावमृतमस्यमृतोपस्तरणमस्यमृताय त्वोपस्तृणामीति पाणावुदकमानीय <जीवा स्थ [ড়्ष्१९.५५.१२१५, श्ष्१९.६९.१४]>इति सूक्तेन त्रिराचामति (१,१.३९ ) स यत्पूर्वमाचामति सप्त प्राणांस्तानेतेनास्मिन्नाप्याययति (१,१.३९ ) या ह्येमा बाह्याः शरीरान् मात्रास्तद्यथैतदग्निं वायुमादित्यं चन्द्रमसमपः पशूनन्यांश्च प्रजास्तानेतेनास्मिन्नाप्याययति (१,१.३९ ) आपोऽमृतम् (१,१.३९ ) स यद्द्वितीयमाचामति सप्तापानांस्तानेतेनास्मिन्नाप्याययति (१,१.३९ ) या ह्येमा बाह्याः शरीरान् मात्रास्तद्यथैतत्पौर्णमासीमष्टकाममावास्यां श्रद्धां दीक्षां यज्ञं दक्षिणास्तानेतेनास्मिन्नाप्याययति (१,१.३९ ) आपोऽमृतम् (१,१.३९ ) स यत्तृतीयमाचामति सप्त व्यानांस्तानेतेनास्मिन्नाप्याययति (१,१.३९ ) या ह्येमा बाह्याः शरीरान् मात्रास्तद्यथैतत्पृथिवीमन्तरिक्षं दिवम् (१,१.३९ ) नक्षत्राण्यृतूनार्तवान् संवत्सरांस्तानेतेनास्मिन्नाप्याययति (१,१.३९ ) आपोऽमृतम् (१,१.३९ ) पुरुषो ब्रह्म (१,१.३९ ) अथाप्रियनिगमो भवति तस्माद्वै विद्वान् पुरुषमिदं पुण्डरीकमिति [एद्. अथाप्रींग्निगमो, बुत्सेए ড়त्यल्प्. ४४] (१,१.३९ ) प्राण एष स पुरि शेते संपुरि शेत इति (१,१.३९ ) पुरिशयं सन्तं प्राणं पुरुष इत्याचक्षते परोक्षेण (१,१.३९ ) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः (१,१.३९ ) स यत्पूर्वमाचामति पुरस्ताद्धोमांस्तेनास्मिन्नवरुन्द्धे (१,१.३९श्) स यद्द्वितीयमाचामत्याज्यभागौ तेनास्मिन्नवरुन्द्धे (१,१.३९ अ) स यत्तृतीयमाचामति संस्थितहोमांस्तेनास्मिन्नवरुन्द्धे (१,१.३९ ब्) स यद्द्विः परिशुम्भति तत्समित्संबर्हिः [एद्. संमित्, च्f. ড়त्यल्प्. ४५] (१,१.३९ च्) स यत्सर्वाणि खानि सर्वं देहमाप्याययति यच्चान्यदातारं मन्त्रकार्यं यज्ञे स्कन्दति सर्वं तेनास्मिन्नवरुन्द्धे (१,१.३९ द्) स यदोंपूर्वान् मन्त्रान् प्रयुङ्क्त आ सर्वमेधादेते क्रतव एत एवास्य सर्वेषु लोकेषु सर्वेषु देवेषु सर्वेषु वेदेषु सर्वेषु भूतेषु सर्वेषु सत्त्वेषु कामचारः कामविमोचनं भवत्यर्धे च न प्रमीयते य एवं वेद (१,१.३९ ए) तदप्येतदृचोक्तमापो भृग्वङ्गिरो रूपमापो भृग्वङ्गिरोमयं सर्वमापोमयं भूतं सर्वं भृग्वङ्गिरोमयमन्तरैते त्रयो वेदा भृगूनङ्गिरसोऽनुगाः ॥ (१,१.३९ f) अपां पुष्पं मूर्तिराकाशं पवित्रमुत्तममिति (१,१.३९ ग्) आचम्याभ्युक्ष्यात्मानमनुमन्त्रयत <इन्द्र जीव [ড়्ष्२०.४३.१, श्ष्१९.७०.१]>इति ब्राह्मणम् ॥ ३९ ॥ (१,१.३९ ओल्) इत्यथर्ववेदे गोपथब्राह्मणपूर्वभागे प्रथमः प्रपाठकः ॥ (१,२.१ ) ओं <ब्रह्मचारीष्णंश्चरति रोदसी उभे [श्ष्११.३.१ , ড়्ष्१६.१५३.१ ]> इत्याचार्यमाह (१,२.१ ) <तस्मिन् देवाः संमनसो भवन्ति [श्ष्११.३.१, ড়्ष्१६.१५३.१ (?)]>इति वायुमाह (१,२.१ ) <स सद्य एति पूर्वस्मादुत्तरं समुद्रम् [श्ष्११.३.६, ড়्ष्१६.१५३.६]> इत्यादित्यमाह (१,२.१ ) दीक्षितो दीर्घश्मश्रुः (१,२.१ ) एष दीक्षित एष दीर्घश्मश्रुरेष एवाचार्यस्थाने तिष्ठन्नाचार्य इति स्तूयते (१,२.१ ) वैद्युतस्थाने तिष्ठन् वायुरिति स्तूयते द्यौस्थाने तिष्ठन्नादित्य इति स्तूयते (१,२.१ ) तदप्येतदृचोक्तं <ब्रह्मचारीष्णन् [श्ष्११.३.१, ড়्ष्१६.१५३.१]>इति ब्राह्मणम् ॥ १ ॥ (१,२.२ ) जायमानो ह वै ब्राह्मणः सप्तेन्द्रियाण्यभिजायते ब्रह्मवर्चसं च यशश्च स्वप्नं च क्रोधं च श्लाघां च रूपं च पुण्यमेव गन्धं सप्तमम् (१,२.२ ) तानि ह वा अस्यैतानि ब्रह्मचर्यमुपेत्योपक्रामन्ति (१,२.२ ) मृगानस्य ब्रह्मवर्चसं गच्छति (१,२.२ ) आचार्यं यशः (१,२.२ ) अजगरं स्वप्नः (१,२.२ ) वराहं क्रोधः (१,२.२ ) अपः श्लाघा (१,२.२ ) कुमारीं रूपम् (१,२.२ ) ओषधिवनस्पतीन् पुण्यो गन्धः (१,२.२ ) स यन् मृगाजिनानि वस्ते तेन तद्ब्रह्मवर्चसमवरुन्द्धे यदस्य मृगेषु भवति (१,२.२ ) स ह स्नातो ब्रह्मवर्चसी भवति (१,२.२ ) स यदहरहराचार्याय कर्म करोति तेन तद्यशोऽवरुन्द्धे यदस्याचार्ये भवति (१,२.२ ) स ह स्नातो यशस्वी भवति (१,२.२ ) स यत्सुषुप्सुर्निद्रां निनयति तेन तं स्वप्नमवरुन्द्धे योऽस्याजगरे भवति (१,२.२ ) तं ह स्नातं स्वपन्तमाहुः स्वपितु मैनं बोबुधथेति (१,२.२ ) स यत्क्रुद्धो वाचा न कं चन हिनस्ति पुरुषात्पुरुषात्पापीयानिव मन्यमानस्तेन तं क्रोधमवरुन्द्धे योऽस्य वराहे भवति (१,२.२ ) तस्य ह स्नातस्य क्रोधाः श्लाघीयसं विशन्ते (१,२.२ ) अथाद्भिः श्लाघमानो न स्नायात् (१,२.२ ) तेन तां श्लाघामवरुन्द्धे यास्याप्सु भवति (१,२.२ ) स ह स्नातः श्लाघीयोऽन्येभ्यः श्लाघ्यते (१,२.२ ) अथैतद्ब्रह्मचारिणो रूपं यत्कुमार्यास् (१,२.२ ) तां नग्नां नोदीक्षेत (१,२.२ ) इति वेति वा मुखं विपरिधापयेत् (१,२.२ ) तेन तद्रूपमवरुन्द्धे यदस्य कुमार्यां भवति (१,२.२ ) तं ह स्नातं कुमारीमिव निरीक्षन्ते (१,२.२श्) अथैतद्ब्रह्मचारिणः पुण्यो गन्धो य ओषधिवनस्पतीनां तासां पुण्यं गन्धं प्रच्छिद्य नोपजिघ्रेत् (१,२.२ अ) तेन तं पुण्यं गन्धमवरुन्द्धे योऽस्यौषधिवनस्वपतिषु भवति (१,२.२ ब्) स ह स्नातः पुण्यगन्धिर्भवति ॥ २ ॥ (१,२.३ ) स वा एष उपयंश्चतुर्धोपैत्यग्निं पादेनाचार्यं पादेन ग्रामं पादेन मृत्युं पादेन (१,२.३ ) स यदहरहः समिध आहृत्य सायंप्रातरग्निं परिचरेत्तेन तं पादमवरुन्द्धे योऽस्याग्नौ भवति (१,२.३ ) स यदहरहराचार्याय कर्म करोति तेन तं पादमवरुन्द्धे योऽस्याचार्ये भवति (१,२.३ ) स यदहरहर्ग्रामं प्रविश्य भिक्षामेव परीप्सति न मैथुनं तेन तं पादमवरुन्द्धे योऽस्य ग्रामे भवति (१,२.३ ) स यत्क्रुद्धो वाचा न कं चन हिनस्ति पुरुषात्पुरुषात्पापीयानिव मन्यमानस्तेन तं पादमवरुन्द्धे योऽस्य मृत्यौ भवति ॥ ३ ॥ (१,२.४ ) पञ्च ह वा एते ब्रह्मचारिण्यग्नयो धीयन्ते (१,२.४ ) द्वौ पृथग्घस्तयोर्मुखे हृदय उपस्थ एव पञ्चमः (१,२.४ ) स यद्दक्षिणेन पाणिना स्त्रियं न स्पृशति तेनाहरहर्याजिनां लोकमवरुन्द्धे (१,२.४ ) यत्सव्येन तेन प्रव्राजिनाम् (१,२.४ ) यन् मुखेन तेनाग्निप्रस्कन्दिनाम् (१,२.४ ) यद्धृदयेन तेन शूराणाम् (१,२.४ ) यदुपस्थेन तेन गृहमेधिनाम् (१,२.४ ) तैश्चेत्स्त्रियं पराहरत्यनग्निरिव शिष्यते (१,२.४ ) स यदहरहराचार्याय कुलेऽनुतिष्ठते सोऽनुष्ठाय ब्रूयाद्धर्म गुप्तो मा गोपायेति (१,२.४ ) धर्मो हैनं गुप्तो गोपायति (१,२.४ ) तस्य ह प्रजा श्वः श्वः श्रेयसी श्रेयसीह भवति (१,२.४ ) धाय्यैव प्रतिधीयते (१,२.४ ) स्वर्गे लोके पितॄन्निदधाति (१,२.४ ) तान्तवं न वसीत (१,२.४ ) यस्तान्तवं वस्ते क्षत्रं वर्धते न ब्रह्म (१,२.४ ) तस्मात्तान्तवं न वसीत ब्रह्म वर्धतां मा क्षत्रमिति (१,२.४ ) नोपर्यासीत (१,२.४ ) यदुपर्यास्ते प्राणमेव तदात्मनोऽधरं कुरुते यद्वातो वहति (१,२.४ ) अध एवासीताधः शयीताधस्तिष्ठेदधो व्रजेत् (१,२.४ ) एवं ह स्म वै तत्पूर्वे ब्राह्मणा ब्रह्मचर्यं चरन्ति (१,२.४ ) तं ह स्म तत्पुत्रं भ्रातरं वोपतापिनमाहुरुपनयेतैनमिति (१,२.४ ) आ समिद्धारात्स्वरेष्यन्तोऽन्नमद्यात् (१,२.४ ) अथाह जघनमाहुः स्नापयेतैनमितिया समिद्धारात् (१,२.४ ) न ह्येतानि व्रतानि भवन्ति (१,२.४ ) तं चेच्छयानमाचार्योऽभिवदेत्स प्रतिसंहाय प्रतिशृणुयात् (१,२.४श्) तं चेच्छयानमुत्थाय तं चेदुत्थितमभिप्रक्रम्य तं चेदभिप्रक्रान्तमभिपलायमानम् (१,२.४ अ) एवं ह स्म वै तत्पूर्वे ब्राह्मणा ब्रह्मचर्यं चरन्ति (१,२.४ ब्) तेषां ह स्म वैषा पुण्या कीर्तिर्गच्छत्या ह वा अयं सोऽद्य गमिष्यतीति ॥ ४ ॥ (१,२.५ ) जनमेजयो ह वै पारीक्षितो मृगयां चरिष्यन् हंसाभ्यामसिष्यन्नुपावतस्थ इति (१,२.५ ) तावूचतुर्जनमेजयं पारीक्षितमभ्याजगाम (१,२.५ ) स होवाच (१,२.५ ) नमो वां भगवन्तौ कौ नु भगवन्ताविति (१,२.५ ) तावूचतुर्दक्षिणाग्निश्चाहवनीयश्चेति (१,२.५ ) स होवाच नमो वां भगवन्तौ तदाकीयतामिति (१,२.५ ) इहोपाराममिति (१,२.५ ) अपि किल देवा न रमन्ते न हि देवा न रमन्तए (१,२.५ ) अपि चैकोपारामाद्देवा आराममुपसंक्रामन्तीति (१,२.५ ) स होवाच नमो वां भगवन्तौ किं पुण्यमिति (१,२.५ ) ब्रह्मचर्यमिति (१,२.५ ) किं लौक्यमिति (१,२.५ ) ब्रह्मचर्यमेवेति (१,२.५ ) तत्को वेद इति (१,२.५ ) दन्तावलो धौम्रः (१,२.५ ) अथ खलु दन्तावलो धौम्रो यावति तावति काले पारीक्षितं जनमेजयमभ्याजगाम (१,२.५ ) तस्मा उत्थाय स्वयमेव विष्टरं निदधौ (१,२.५ ) तमुपसंगृह्य पप्रच्छाधीहि भो किं पुण्यमिति (१,२.५ ) ब्रह्मचर्यमिति (१,२.५ ) किं लौक्यमिति (१,२.५ ) ब्रह्मचर्यमेवेति (१,२.५ ) तस्मा एतत्प्रोवाचाष्टाचत्वारिंशद्वर्षं सर्ववेदब्रह्मचर्यम् (१,२.५ ) तच्चतुर्धा वेदेषु व्युह्य द्वादशवर्षं ब्रह्मचर्यं द्वादशवर्षाण्यवरार्धम् (१,२.५ ) अपि स्नायंश्चरेद्यथाशक्त्यपरम् (१,२.५ ) तस्मा उहस्यृषभौ सहस्रं ददौ (१,२.५श्) अप्यपकीर्तितमाचार्यो ब्रह्मचारीत्येक आहुराकाशमधिदैवतम् (१,२.५ अ) अथाध्यात्मं ब्राह्मणो व्रतवांश्चरणवान् ब्रह्मचारी ॥ ५ ॥ (१,२.६ ) ब्रह्म ह वै प्रजा मृत्यवे संप्रायच्छत् (१,२.६ ) ब्रह्मचारिणमेव न संप्रददौ (१,२.६ ) स होवाचाश्यामस्मिन्निति (१,२.६ ) किमिति (१,२.६ ) यां रात्रीं समिधमनाहृत्य वसेत्तामायुषोऽवरुन्धीयेति (१,२.६ ) तस्माद्ब्रह्मचार्यहरहः समिध आहृत्य सायंप्रातरग्निं परिचरेत् (१,२.६ ) नोपर्युपसादयेदथ प्रतिष्ठापयेत् (१,२.६ ) यदुपर्युपसादयेज्जीमूतवर्षी तदहः पर्जन्यो भवति (१,२.६ ) ते देवा अब्रुवन् ब्राह्मणो वा अयं ब्रह्मचर्यं चरिष्यति (१,२.६ ) ब्रूतास्मै भिक्षा इति गृहपतिर्ब्रूत बहुचारी गृहपत्न्या इति (१,२.६ ) किमस्या वृञ्जीताददत्या इति (१,२.६ ) इष्टापूर्तसुकृतद्रविणमवरुन्ध्यादिति (१,२.६ ) तस्माद्ब्रह्मचारिणेऽहरहर्भिक्षां दद्याद्गृहिणी मा मायमिष्टापूर्तसुकृतद्रविणमवरुन्ध्यादिति (१,२.६ ) सप्तमीं नातिनयेत्सप्तमीमतिनयन्न ब्रह्मचारी भवति (१,२.६ ) समिद्भैक्षे सप्तरात्रमचरितवान् ब्रह्मचारी पुनरुपनेयो भवति ॥ ६ ॥ (१,२.७ ) नोपरिशायी स्यान्न गायनो न नर्तनो न सरणो न निष्ठीवेत् (१,२.७ ) यदुपरिशायी भवत्यभीक्ष्णं निवासा जायन्ते (१,२.७ ) यद्गायनो भवत्यभीक्ष्णश आक्रन्दान् धावन्ते (१,२.७ ) यन्नर्तनो भवत्यभीक्ष्णशः प्रेतान्निर्हरन्ते (१,२.७ ) यत्सरणो भवत्यभीक्ष्णशः प्रजाः संविशन्ते (१,२.७ ) यन्निष्ठीवति मध्य एव तदात्मनो निष्ठीवति (१,२.७ ) स चेन्निष्ठीवेद्<दिवो नु माम् [श्ष्६.१२४.१, ড়्ष्१९.४०.४, Vऐत्ष्१२.७]> <यदत्रापि मधोरहं [ড়्ष्२०.३८.६, Vऐत्ष्१२.८]> <यदत्रापि रसस्य मे [ড়्ष्२०.२७.८, Vऐत्ष्१२.९]>इत्यात्मानमनुमन्त्रयते (१,२.७ ) <यदत्रापि मधोरहं निरष्ठविषमस्मृतमग्निश्च तत्सविता च पुनर्मे जठरे धत्तां [ড়्ष्२०.३८.६, Vऐत्ष्१२.८]> ॥ <यदत्रापि रसस्य मे परापपातास्मृतं तदिहोपह्वयामहे तन् म आप्यायतां पुनः [ড়्ष्२०.२७.८]>इति (१,२.७ ) न श्मशानमातिष्ठेत् (१,२.७ ) स चेदभितिष्ठेदुदकं हस्ते कृत्वा <यदीदमृतुकाम्येत्य्[ড়्ष्२०.५४.९]> अभिमन्त्र्य जपन्त्सम्प्रोक्ष्य परिक्रामेत् (१,२.७ ) समयायोपरिव्रजेद् (१,२.७ ) <यदीदमृतुकाम्याघं रिप्रमुपेयिम । अन्धः श्लोण इव हीयतां मा नोऽन्वागादघं यतः [ড়्ष्२०.५४.९]>इति (१,२.७ ) अथ हैतद्देवानां परिषूतं यद्ब्रह्मचारी (१,२.७ ) तदप्येतदृचोक्तं देवानामेतत्परिषूतमनभ्यारूढं चरति रोचमानं तस्मिन् सर्वे पशवस्तत्र यज्ञास्तस्मिन्नन्नं सह देवताभिरिति ब्राह्मणम् ॥ ७ ॥ (१,२.८ ) प्राणापानौ जनयन्निति शङ्खस्य मुखे महर्षेर्वसिष्ठस्य पुत्र एतां वाचं ससृजे शीतोष्णाविहोत्सौ प्रादुर्भवेयातामिति (१,२.८ ) तथा तच्छश्वदनुवर्तते (१,२.८ ) अथ खलु विपाण्मध्ये वसिष्ठशिला नाम प्रथम आश्रमः (१,२.८ ) द्वितीयः कृष्णशिलास् (१,२.८ ) तस्मिन् वसिष्ठः समतपत् (१,२.८ ) विश्वामित्रजमदग्नी जामदग्ने तपतः (१,२.८ ) गौतमभरद्वाजौ सिंहौ प्रभवे तपतः (१,२.८ ) गुंगुर्गुंगुवासे तपति (१,२.८ ) ऋषिरृषिद्रोणेऽभ्यतपत् (१,२.८ ) अगस्त्योऽगस्त्यतीर्थे तपति (१,२.८ ) दिव्यत्रिर्ह तपति (१,२.८ ) स्वयम्भूः कश्यपः कश्यपतुङ्गेऽभ्यतपत् (१,२.८ ) उलवृकर्क्षुतरक्षुः (१,२.८ ) श्वा वराहचिल्वटिबब्रुकाः सर्पदंष्ट्रनः संहनुकृण्वानाः कश्यपतुङ्गदर्शनात्सरणवाटात्सिद्धिर्भवति (१,२.८ ) ब्राह्म्यं वर्षसहस्रमृषिवने ब्रह्मचार्येकपादेनातिष्ठति (१,२.८ ) द्वितीयं वर्षसहस्रं मूर्धन्येवामृतस्य धारामाधारयत् (१,२.८ ) ब्राह्माण्यष्टाचत्वारिंशद्वर्षसहस्राणि सलिलस्य पृष्ठे शिवोऽभ्यतपत् (१,२.८ ) तस्मात्तप्तात्तपसो भूय एवाभ्यतपत् (१,२.८ ) तदप्येता ऋचोऽभिवदन्ति प्राणापानौ जनयन्निति ब्राह्मणम् ॥ ८ ॥ (१,२.९ ) एकपाद्द्विपद इति (१,२.९ ) वायुरेकपात् (१,२.९ ) तस्याकाशं पादः (१,२.९ ) चन्द्रमा द्विपात् (१,२.९ ) तस्य पूर्वपक्षापरपक्षौ पादौ (१,२.९ ) आदित्यस्त्रिपात् (१,२.९ ) तस्येमे लोकाः पादाः (१,२.९ ) अग्निः षट्पादस् (१,२.९ ) तस्य पृथिव्यन्तरिक्षं द्यौराप ओषधिवनस्पतय इमानि भूतानि पादास् (१,२.९ ) तेषां सर्वेषां वेदा गतिरात्मा प्रतिष्ठिताश्चतस्रो ब्रह्मणः शाखाः (१,२.९ ) अथो आहुः षडिति मूर्तिराकाशश्चेति [एद्. अहुः] (१,२.९ ) ऋचा मूर्तिः (१,२.९ ) याजुषी गतिः (१,२.९ ) साममयं तेजः (१,२.९ ) भृग्वङ्गिरसा माया (१,२.९ ) एतद्ब्रह्मैव यज्ञश्चतुष्पाद्द्विः संस्थित इति (१,२.९ ) तस्य भृग्वङ्गिरसः संस्थे (१,२.९ ) अथो आहुरेकसंस्थित इति (१,२.९ ) यद्धोतर्चां मण्डलैः करोति पृथिवीं तेनाप्याययति (१,२.९ ) एतस्यां ह्यग्निश्चरति (१,२.९ ) तदप्येतदृचोक्तम् <अग्निवासाः पृथिव्यसितज्ञूः [श्ष्१२.१.२१, ড়्ष्१७.३.२]>इति (१,२.९ ) यदध्वर्युर्यजुषा करोत्यन्तरिक्षं तेनाप्याययति (१,२.९ ) तस्मिन् वायुर्न निविशते कतमच्च नाहरिति (१,२.९ ) तदप्येतदृचोक्तम् <अन्तरिक्षे पथिभिर्ह्रीयमाणो न नि विशते कतमच्च नाहः । अपां योनिः प्रथमजा ऋतस्य क्व स्विज्जातः कुत आ बभूव [ড়्ष्१.१०७.४]>इति (१,२.९ ) यदुद्गाता साम्ना करोति दिवं तेनाप्याययति (१,२.९श्) तत्र ह्यादित्यः शुक्रश्चरति (१,२.९ अ) तदप्येतदृचोक्तम् <उच्चा पतन्तमरुणं सुपर्णम् [श्ष्१३.२.३६, ড়्ष्१८.२४.३]> इति (१,२.९ ब्) यद्ब्रह्मर्चां काण्डैः करोत्यपस्तेनाप्याययति (१,२.९ च्) चन्द्रमा ह्यप्सु चरति (१,२.९ द्) तदप्येतदृचोक्तं चन्द्रमा अप्स्वन्तरिति तासामोषधिवनस्पतयः काण्डानि (१,२.९ ए) ततो मूलकाण्डपर्णपुष्पफलप्ररोहरसगन्धैर्यज्ञो वर्तते (१,२.९ f) अद्भिः कर्णाणि प्रवर्तन्ते (१,२.९ ग्) अद्भिः सोमोऽभिषूयते (१,२.९ ह्) तद्यद्ब्रह्माणां कर्णाणि कर्मण्यामन्त्रयत्यपस्तेनानुजानाति (१,२.९ इ) एषो ह्यस्य भागस् (१,२.९ ज्) तद्यथा भोक्ष्यमाणः (१,२.९ क्) अप एव प्रथममाचामयेदप उपरिष्टादेवं यज्ञोऽद्भिरेव प्रवर्तते (१,२.९ ल्) अप्सु संस्थाप्यते तस्माद्ब्रह्मा पुरस्ताद्धोमसंस्थितहोमैर्यज्ञो वर्तते (१,२.९ म्) अन्तरा हि पुरस्ताद्धोमसंस्थितहोमैर्यज्ञं परिगृह्णाति (१,२.९ न्) अन्तरा हि भृग्वङ्गिरसो वेदानादुह्य भृग्वङ्गिरसः सोमपानं मन्यन्ते (१,२.९ ओ) सोमात्मको ह्ययं वेद (१,२.९ प्) तदप्येतदृचोक्तं सोमं मन्यते पपिवानिति (१,२.९ ॠ) तद्यथेमां पृथिवीमुदीर्णां ज्योतिषा धूमायमानां वर्षं शमयति (१,२.९ र्) एवं ब्रह्मा भृग्वङ्गिरोभिर्व्याहृतिभिर्यज्ञस्य विरिष्टं शमयति (१,२.९ स्) अग्निरादित्याय शमयति (१,२.९ त्) एतेऽङ्गिरसः (१,२.९ उ) एत इदं सर्वं समाप्नुवन्ति (१,२.९ व्) वायुरापश्चन्द्रमा इत्येते भृगवः (१,२.९ w) एत इदं सर्वं समाप्याययन्ति (१,२.९ x) एकमेव संस्थं भवतीति ब्राह्मणम् ॥ ९ ॥ (१,२.१० ) विचारी ह वै काबन्धिः कबन्धस्याथर्वणस्य पुत्रो मेधावी मीमांसकोऽनूचान आस (१,२.१० ) स ह स्वेनातिमानेन मानुषं वित्तं नेयाय (१,२.१० ) तं मातोवाच (१,२.१० ) त एवैतदन्नमवोचंस्त इम एषु कुरुपञ्चालेष्वङ्गमगधेषु काशिकौशलेषु शाल्वमत्स्येषु सवशोशीनरेषूदीच्येष्वन्नमदन्तीति (१,२.१० ) अथ वयं तवैवातिमानेनानाद्याः स्मः (१,२.१० ) वत्स वाहनमन्विच्छेति (१,२.१० ) स मान्धातुर्यौवनाश्वस्य सार्वभौमस्य राज्ञः सोमं प्रसूतमाजगाम (१,२.१० ) स सदोऽनुप्रविश्यर्त्विजश्च यजमानं चामन्त्रयामास (१,२.१० ) तद्याः प्राच्यो नद्यो वहन्ति याश्च दक्षिणाच्यो याश्च प्रतीच्यो याश्चोदीच्यस्ताः सर्वाः पृथङ्नामधेया इत्याचक्षते (१,२.१० ) तासां समुद्रमभिपद्यमानानां छिद्यते नामधेयं समुद्र इत्याचक्षते (१,२.१० ) एवमिमे सर्वे वेदा निर्मिताः सकल्पाः सरहस्याः सब्राह्मणाः सोपनिषत्काः सेतिहासाः सान्वाख्यानाः सपुराणाः सस्वराः ससंस्काराः सनिरुक्ताः सानुशासनाः सानुमार्जनाः सवाकोवाक्यास् (१,२.१० ) तेषां यज्ञमभिपद्यमानानां छिद्यते नामधेयं यज्ञ इत्येवाचक्षते ॥ १० ॥ (१,२.११ ) भूमेर्ह वा एतद्विच्छिन्नं देवयजनं यदप्राक्प्रवणं यदनुदक्प्रवणं यत्कृत्रिमं यत्समविषमम् (१,२.११ ) इदं ह त्वेव देवयजनं यत्समं समूलमविदग्धं प्रतिष्ठितं प्रागुदक्प्रवणं समं समास्तीर्णमिव भवति यत्र ब्राह्मणस्य ब्राह्मणतां विद्याद्ब्रह्मा ब्रह्मत्वं करोतीति (१,२.११ ) वोचे छन्दस्तन्न विन्दामो येनोत्तरमेमहीति (१,२.११ ) तान् ह पप्रच्छ किं विद्वान् होता हौत्रं करोति किं विद्वानध्वर्युराध्वर्यवं करोति किं विद्वानुद्गातौद्गात्रं करोति किं विद्वान् ब्रह्मा ब्रह्मत्वं करोतीति (१,२.११ ) वोचे छन्दस्तन्न विन्दामो येनोत्तरमेमहीति (१,२.११ ) ते ब्रूमो वागेव होता हौत्रं करोति (१,२.११ ) वाचो हि स्तोमाश्च वषट्काराश्चाभिसम्पद्यन्ते (१,२.११ ) ते ब्रूमो वागेव होता वाग्ब्रह्म वाग्देव इति (१,२.११ ) प्राणापानाभ्यामेवाध्वर्युराध्वर्यवं करोति (१,२.११ ) प्राणप्रणीतानि ह भूतानि प्राणप्रणीताः प्रणीतास् (१,२.११ ) ते ब्रूमः प्राणापानावेवाध्वर्युः प्राणापानौ ब्रह्म प्राणापानौ देव इति (१,२.११ ) चक्षुषैवोद्गातौद्गात्रं करोति (१,२.११ ) चक्षुषा हीमानि भूतानि पश्यन्ति (१,२.११ ) अथो चक्षुरेवोद्गाता चक्षुर्ब्रह्म चक्षुर्देव इति (१,२.११ ) मनसैव ब्रह्मा ब्रह्मत्वं करोति (१,२.११ ) मनसा हि तिर्यक्च दिश ऊर्ध्वं यच्च किं च मनसैव करोति तद्ब्रह्म (१,२.११ ) ते ब्रूमो मन एव ब्रह्मा मनो ब्रह्म मनो देव इति ॥ ११ ॥ (१,२.१२ ) तद्यथा ह वा इदं यजमानश्च याजयितारश्च दिवं ब्रूयुः पृथिवीति पृथिवीं वा द्यौरिति ब्रूयुस्तदन्यो नानुजानात्येतामेवं नानुजानाति यदेतद्ब्रूयात् (१,२.१२ ) अथ नु कथमिति (१,२.१२ ) होतेत्येव होतारं ब्रूयाद्वागिति वाचं ब्रह्मेति ब्रह्म देव इति देवमध्वर्युरित्येवाध्वर्युं ब्रूयात्प्राणापानाविति प्राणापानौ ब्रह्मेति ब्रह्म देव इति देवमुद्गातेत्येवोद्गातारं ब्रूयाच्चक्षुरिति चक्षुर्ब्रह्मेति ब्रह्म देव इति देवं ब्रह्मेत्येव ब्रह्माणं ब्रूयान् मन इति मनो ब्रह्मेति ब्रह्म देव इति देवम् ॥ १२ ॥ (१,२.१३ ) नानाप्रवचनानि ह वा एतानि भूतानि भवन्ति (१,२.१३ ) ये चैवासोमपं याजयन्ति ये च सुरापं ये च ब्राह्मणं विच्छिन्नं सोमयाजिनं तं प्रातः समित्पाणय उपोदेयुरुपायामो भवन्तमिति (१,२.१३ ) किमर्थमिति (१,२.१३ ) यानेव नो भवांस्तान् ह्यः प्रश्नानपृच्छत्तानेव नो भवान् व्याचक्षीतेति (१,२.१३ ) तथेति (१,२.१३ ) तेभ्य एतान् प्रश्नान् व्याचचष्टे (१,२.१३ ) तद्येन ह वा इदं विद्यमानं चाविद्यमानं चाभिनिदधाति तद्ब्रह्म (१,२.१३ ) तद्यो वेद स ब्राह्मणोऽधीयानोऽधीत्याचक्षत इति ब्राह्मणम् ॥ १३ ॥ (१,२.१४ ) अथातो देवयजनानि (१,२.१४ ) आत्मा देवयजनम् (१,२.१४ ) श्रद्धा देवयजनम् (१,२.१४ ) ऋत्विजो देवयजनम् (१,२.१४ ) भौमं देवयजनम् (१,२.१४ ) तद्वा एतदात्मा देवयजनं यदुपव्यायच्छमानो वानुपव्यायच्छमानो वा शरीरमधिवसति (१,२.१४ ) एष यज्ञः (१,२.१४ ) एष यजतः (१,२.१४ ) एतं यजन्तः (१,२.१४ ) एतद्देवयजनम् (१,२.१४ ) अथैतच्छ्रद्धा देवयजनम् (१,२.१४ ) यदैव कदा चिदादध्यात् (१,२.१४ ) श्रद्धा त्वेवैनं नातीयात् (१,२.१४ ) तद्देवयजनम् (१,२.१४ ) अथैतदृत्विजो देवयजनम् (१,२.१४ ) यत्र क्व चिद्ब्राह्मणो विद्यावान् मन्त्रेण करोति तद्देवयजनम् (१,२.१४ ) अथेतद्भौमं देवयजनम् (१,२.१४ ) यत्रापस्तिष्ठन्ति यत्र स्यन्दन्ति प्र तद्वहन्त्युद्वहन्ति तद्देवयजनम् (१,२.१४ ) यत्समं समूलमविदग्धं प्रतिष्ठितं प्रागुदक्प्रवणं समं समास्तीर्णमिव भवति यस्य श्वभ्र ऊर्मो वृक्षः पर्वतो नदी पन्था वा पुरस्तात्स्यात् (१,२.१४ ) न देवयजनमात्रं पुरस्तात्पर्यवशिष्येत् (१,२.१४ ) नोत्तरतोऽग्नेः पर्युपसीदेरन्निति ब्राह्मणम् ॥ १४ ॥ (१,२.१५ ) अदितिर्वै प्रजाकामौदनमपचत् (१,२.१५ ) तत उच्छिष्टमाश्नात् (१,२.१५ ) सा गर्भमधत्त (१,२.१५ ) तत आदित्या अजायन्त (१,२.१५ ) य एष ओदनः पच्यत आरम्भणमेवैतत्क्रियत आक्रमणमेव (१,२.१५ ) प्रादेशमात्रीः समिधो भवन्ति (१,२.१५ ) एतावान् ह्यात्मा प्रजापतिना संमितः (१,२.१५ ) अग्नेर्वै या यज्ञिया तनूरश्वत्थे तया समगच्छत (१,२.१५ ) एषास्य घृत्या तनूर्यद्घृतम् (१,२.१५ ) यद्घृतेन समिधोऽनक्ति ताभ्यामेवैनं तत्तनूभ्यां समर्धयति (१,२.१५ ) यन्निर्मार्गस्यादधात्यवगूर्त्या वै वीर्यं क्रियते (१,२.१५ ) यन्निर्मार्गस्यादधात्यवगूर्त्या एव (१,२.१५ ) संवत्सरो वै प्रजननम् (१,२.१५ ) अग्निः प्रजननम् (१,२.१५ ) एतत्प्रजननम् (१,२.१५ ) यत्संवत्सर ऋचाग्नौ समिधमादधाति प्रजननादेवैनं तत्प्रजनयिता प्रजनयति (१,२.१५ ) अभक्तर्तुर्वै पुरुषः (१,२.१५ ) न हि तद्वेद यमृतुमभिजायते (१,२.१५ ) यन्नक्षत्रं तदाप्नोति (१,२.१५ ) य एष ओदनः पच्यते योनिरेवैषा क्रियते (१,२.१५ ) यत्समिध आधीयन्ते रेतस्तद्धीयते (१,२.१५ ) संवत्सरे वै रेतो हितं प्रजायते (१,२.१५ ) यः संवत्सरे पर्येतेऽग्निमाधत्ते प्रजातमेवैनमाधत्ते (१,२.१५ ) द्वादशसु रात्रीषु पुरा संवत्सरस्याधेयास् (१,२.१५ ) ता हि संवत्सरस्य प्रतिमा (१,२.१५श्) अथो तिसृष्वथो द्वयोरथो पूर्वेद्युराधेयास्त एवाग्निमादधानेन (१,२.१५ अ) आदित्या वा इत उत्तमा अमुं लोकमायन् (१,२.१५ ब्) ते पथिरक्षयस्त इयक्षमाणं प्रतिनुदन्तः (१,२.१५ च्) उच्छेषणभाजा वा आदित्याः (१,२.१५ द्) [यदुच्छिष्टम्] (१,२.१५ ए) यदुच्छिष्टेन समिधोऽनक्ति तेभ्य एव प्रावोचत्तेभ्य एव प्रोच्य स्वर्गं लोकं याति ॥ १५ ॥ (१,२.१६ ) प्रजापतिरथर्वा देवः स तपस्तप्त्वैतं चातुःप्राश्यं ब्रह्मौदनं निरमिमीत चतुर्लोकं चतुर्देवं चतुर्वेदं चतुर्हौत्रमिति (१,२.१६ ) चत्वारो वा इमे लोकाः पृथिव्यन्तरिक्षं द्यौराप इति (१,२.१६ ) चत्वारो वा इमे देवा अग्निर्वायुरादित्यश्चन्द्रमाः (१,२.१६ ) चत्वारो वा इमे वेदा ऋग्वेदो यजुर्वेदः सामवेदो ब्रह्मवेद इति (१,२.१६ ) चतस्रो वा इमा होत्रा हौत्रमाध्वर्यवमौद्गात्रं ब्रह्मत्वमिति (१,२.१६ ) तदप्येतदृचोक्तं <चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्यां आविवेश [ড়्ष्८.१३.३]>इति (१,२.१६ ) चत्वारि शृङ्गेति वेदा वा एत उक्तास् (१,२.१६ ) त्रयो अस्य पादा इति सवनान्येव (१,२.१६ ) द्वे शीर्षे इति ब्रह्मौदनप्रवर्ग्यावेव (१,२.१६ ) सप्त हस्तासो अस्येति छन्दांस्येव (१,२.१६ ) त्रिधा बद्ध इति मन्त्रः कल्पो ब्राह्मणम् (१,२.१६ ) वृषभो रोरवीत्येष ह वै वृषभ एष तद्रोरवीति यद्यज्ञेषु शस्त्राणि शंसत्यृग्भिर्यजुर्भिः सामभिर्ब्रह्मभिरिति (१,२.१६ ) महो देवो मर्त्यां आविवेशेत्येष ह वै महान् देवो यद्यज्ञः (१,२.१६ ) एष मर्त्यां आविवेश (१,२.१६ ) यो विद्यात्सप्त प्रवत इति प्राणानाह (१,२.१६ ) सप्त विद्यात्परावत इत्यपानानाह (१,२.१६ ) शिरो यज्ञस्य यो विद्यादित्येतद्वै यज्ञस्य शिरो यन् मन्त्रवान् ब्रह्मौदनः (१,२.१६ ) यो ह वा एतममन्त्रवन्तं ब्रह्मौदनमुपेयादपशिरसा ह वा अस्य यज्ञमुपेतो भवति (१,२.१६ ) तस्मान् मन्त्रवन्तमेव ब्रह्मौदनमुपेयान्नामन्त्रवन्तमिति ब्राह्मणम् ॥ १६ ॥ [एद्. ब्राह्मनम्] (१,२.१७ ) किमुपज्ञ आत्रेयो भवतीति (१,२.१७ ) आदित्यं हि तमो जग्राह (१,२.१७ ) तदत्रिरपनुनोद (१,२.१७ ) तदत्रिरन्वपश्यत् (१,२.१७ ) तदप्येतदृचोक्तं <स्रुताद्यमत्रिर्दिवमुन्निनाय [श्ष्१३.२.४ , ড়्ष्१८.२०.८ ]> (१,२.१७ ) <दिवि त्वात्रिरधारयत्सूर्या मासाय कर्तवे [श्ष्१३.२.१२ ब्, ড়्ष्१८.२१.६ ब्]>इति (१,२.१७ ) तं होवाच वरं वृणीष्वेति (१,२.१७ ) स होवाच दक्षिणीया मे प्रजा स्यादिति (१,२.१७ ) तस्मादात्रेयाय प्रथमं दक्षिणा यज्ञे दीयन्त इति ब्राह्मणम् ॥ १७ ॥ (१,२.१८ ) प्रजापतिर्वेदानुवाचाग्नीनादधीयेति (१,२.१८ ) तान् वागभ्युवाचाश्वो वै सम्भाराणामिति (१,२.१८ ) तं घोरात्क्रूरात्सलिलात्सरस उदानिन्युस् (१,२.१८ ) तान् वागभ्युवाचाश्वः शम्येतेति (१,२.१८ ) तथेति (१,२.१८ ) तमृग्वेद एत्योवाचाहमश्वं शमेयमिति (१,२.१८ ) तस्मा अभिसृप्ताय महद्भयं ससृजे (१,२.१८ ) स एतां प्राचीं दिशं भेजे (१,२.१८ ) स होवाचाशान्तो न्वयमश्व इति (१,२.१८ ) तं यजुर्वेद एत्योवाचाहमश्वं शमेयमिति (१,२.१८ ) तस्मा अभिसृप्ताय महद्भयं ससृजे (१,२.१८ ) स एतां प्रतीचीं दिशं भेजे (१,२.१८ ) स होवाचाशान्तो न्वयमश्व इति (१,२.१८ ) तं सामवेद एत्योवाचाहमश्वं शमेयमिति (१,२.१८ ) केन नु त्वं शमयिष्यसीति (१,२.१८ ) रथन्तरं नाम मे सामाघोरं चाक्रूरं च (१,२.१८ ) तेनाश्व अभिष्टूयेतेति (१,२.१८ ) तस्मा अप्यभिसृप्ताय तदेव महद्भयं ससृजे (१,२.१८ ) स एतामुदीचीं दिशं भेजे (१,२.१८ ) स होवाचाशान्तो न्वयमश्व इति (१,२.१८ ) तान् वागभ्युवाच शंयुमाथर्वणं गच्छतेति (१,२.१८ ) ते शंयुमाथर्वणमासीनं प्राप्योचुर्नमस्ते अस्तु भगवन्नश्वः शम्येतेति (१,२.१८ ) तथेति (१,२.१८ ) स खलु कबन्धस्याथर्वणस्य पुत्रमामन्त्रयामास विचारिन्निति (१,२.१८ ) भगो इति हास्मै प्रतिश्रुतं प्रतिश्रुश्राव (१,२.१८श्) अश्व शम्येतेति (१,२.१८ अ) तथेति (१,२.१८ ब्) स खलु शान्त्युदकं चकाराथर्वणीभिश्चाङ्गिरसीभिश्च चातनैर्मातृनामभिर्वास्तोष्पत्यैरिति शमयति (१,२.१८ च्) तस्य ह स्नातस्याश्वस्याभ्युक्षितस्य सर्वेभ्यो रोमसमरेभ्योऽङ्गारा आशीर्यन्त (१,२.१८ द्) सोऽश्वस्तुष्टो नमस्कारं चकार (१,२.१८ ए) नमः शंयुमाथर्वणाय यो मा यज्ञियमचीकॢपदिति (१,२.१८ f) भविष्यन्ति ह वा अतोऽन्ये ब्राह्मणा लघुसम्भारतमास् (१,२.१८ ग्) त आदित्यस्य पद आधास्यन्त्यनडुहो वत्सस्याजस्य श्रवणस्य ब्रह्मचारिणो वा (१,२.१८ ह्) एतद्वा आदित्यस्य पदं यद्भूमिस् (१,२.१८ इ) तस्यैव पद आहितं भविष्यतीति (१,२.१८ ज्) सोऽग्नौ प्रणीयमाणेऽश्वेऽन्वारब्धं ब्रह्मा यजमानं वाचयति <यदक्रन्दः प्रथमं जायमानः [ऋV १.१६३.१]>इति पञ्च (१,२.१८ क्) तं ब्राह्मणा उपवहन्ति तं ब्रह्मोपाकुरुत (१,२.१८ ल्) एष ह वै विद्वान्त्सर्वविद्ब्रह्मा यद्भृङ्गिरोविदिति ब्राह्मणम् ॥ १८ ॥ (१,२.१९ ) देवाश्च ह वा असुराश्चास्पर्धन्त (१,२.१९ ) ते देवा इन्द्रमब्रुवन्निमं नस्तावद्यज्ञं गोपाय यावदसुरैः संयतामहा इति (१,२.१९ ) स वै नस्तेन रूपेण गोपाय येन नो रूपेण भूयिष्ठं छादयसि येन शक्ष्यसि गोप्तुमिति (१,२.१९ ) स ऋग्वेदो भूत्वा पुरस्तात्परीत्योपातिष्ठत् (१,२.१९ ) तं देवा अब्रुवन्नन्यत्तद्रूपं कुरुष्व नैतेन नो रूपेण भूयिष्ठं छादयसि नैतेन शक्ष्यसि गोप्तुमिति (१,२.१९ ) स यजुर्वेदो भूत्वा पश्चात्परीत्योपातिष्ठत् (१,२.१९ ) तं देवा अब्रुवन्नन्यत्तद्रूपं कुरुष्व नैतेन नो रूपेण भूयिष्ठं छादयसि नैतेन शक्ष्यसि गोप्तुमिति (१,२.१९ ) स समावेदो भूत्वोत्तरतः परीत्योपातिष्ठत् (१,२.१९ ) तं देवा अब्रुवन्नन्यदेव तद्रूपं कुरुष्व नैतेन नो रूपेण भूयिष्ठं छादयसि नैतेन शक्ष्यसि गोप्तुमिति (१,२.१९ ) स इन्द्र उष्णीषी ब्रह्मवेदो भूत्वा दक्षिणतः परीत्योपातिष्ठत् (१,२.१९ ) तं देवा अब्रुवन्नेतत्तद्रूपं कुरुष्वैतेन नो रूपेण भूयिष्ठं छादयस्येतेन शक्ष्यसि गोप्तुमिति (१,२.१९ ) तद्यदिन्द्र उष्णीषी ब्रह्मवेदो भूत्वा दक्षिणतः परीत्योपातिष्ठत्तद्ब्रह्माभवत् (१,२.१९ ) तद्ब्रह्मणो ब्रह्मत्वम् (१,२.१९ ) तद्वा एतदथर्वणो रूपं यदुष्णीषी ब्रह्मा (१,२.१९ ) तं दक्षिणतो विश्वे देवा उपासीदन् (१,२.१९ ) तं यद्दक्षिणतो विश्वे देवा उपासीदंस्तत्सदस्योऽभवत् (१,२.१९ ) तत्सदस्यस्य सदस्यत्वम् (१,२.१९ ) बलेर्ह वा एतद्बलमुपजायते यत्सदस्ये (१,२.१९ ) आमयतो वै व्रजस्य बहुलतरं व्रजं विदन्ति (१,२.१९ ) घोरा वा एषा दिग्दक्षिणा शान्ता इतरास् (१,२.१९ ) तद्यानि स्तुतानि ब्रह्मानुमन्त्रयते मनसैव तानि सदस्यो जनदित्येतां व्याहृतिं जपति (१,२.१९ ) आत्मानं जनयति नजित्यात्मानमपित्वे दधाति (१,२.१९ ) तं देवा अब्रुवन् वरं वृणीष्वेति (१,२.१९ ) वृणा इति (१,२.१९ ) स वरमवृणीत (१,२.१९श्) अस्यामेव मां होत्रायामिन्द्रभूतं पुनन्त स्तुवन्तः शंसन्तस्तिष्ठेयुरिति [एद्. तिस्थेयुर्, चोर्र्. ড়त्यल्] (१,२.१९ अ) तं तस्यामेव होत्रायामिन्द्रभूतं पुनन्त स्तुवन्तः शंसन्तोऽतिष्ठन् (१,२.१९ ब्) तं यत्तस्यामेव होत्रायामिन्द्रभूतं पुनन्त स्तुवन्तः शंसन्तोऽतिष्ठंस्तद्ब्राह्मणाच्छंस्यभवत् (१,२.१९ च्) तद्ब्राह्मणाच्छंसिनो ब्राह्मणाच्छंसित्वम् (१,२.१९ द्) सैषैन्द्री होत्रा यद्ब्राह्मणाच्छंसीया (१,२.१९ ए) द्वितीयं वरं वृणीष्वेति (१,२.१९ f) वृणा इति (१,२.१९ ग्) स वरमवृणीत (१,२.१९ ह्) अस्यामेव मां होत्रायां वायुभूतं पुनन्त स्तुवन्तः शंसन्तस्तिस्थेयुरिति [एद्. तिस्थेयुर्] (१,२.१९ इ) तं तस्यामेव होत्रायां वायुभूतं पुनन्त स्तुवन्तः शंसन्तोऽतिष्ठन् (१,२.१९ ज्) तं यत्तस्यामेव होत्रायां वायुभूतं पुनन्त स्तुवन्तः शंसन्तोऽतिष्ठंस्तत्पोताभवत् (१,२.१९ क्) तत्पोतुः पोतृत्वम् (१,२.१९ ल्) सैषा वायव्या होत्रा यत्पोत्रीया (१,२.१९ म्) तृतीयं वरं वृणीष्वेति (१,२.१९ न्) वृणा इति (१,२.१९ ओ) स वरमवृणीत (१,२.१९ प्) अस्यामेव मां होत्रायामग्निभूतमिन्धानाः पुनन्त स्तुवन्त शंसन्तस्तिष्ठेयुरिति [एद्. तिस्थेयुर्] (१,२.१९ ॠ) तं तस्यामेव होत्रायामग्निभूतमिन्धानाः पुनन्त स्तुवन्तः शंसन्तोऽतिष्ठन् [एद्.ऽतिस्थंस्, चोर्र्. ড়त्यल्] (१,२.१९ र्) तं यत्तस्यामेव होत्रायामग्निभूतमिन्धानाः पुनन्त स्तुवन्तः शंसन्तोऽतिष्ठंस्तदाग्नीध्रोऽभवत्[एद्.ऽतिस्थंस्] (१,२.१९ स्) तदाग्नीध्रस्याग्नीध्रत्वम् (१,२.१९ त्) सैषाग्नेयी होत्रा यदाग्नीध्रीयेति ब्राह्मणम् ॥ १९ ॥ (१,२.२० ) ब्राह्मणो ह वा इममग्निं वैश्वानरं बभार (१,२.२० ) सोऽयमग्निर्वैश्वानरो ब्राह्मणेन भ्रियमाण इमांल्लोकाञ्जनयते (१,२.२० ) अथायमीक्षतेऽग्निर्जातवेदा ब्राह्मणद्वितीयो ह वा अयमिदमग्निर्वैश्वानरो ज्वलति (१,२.२० ) हन्ताहं यन् मयि तेज इद्रियं वीर्यं तद्दर्शयाम्युत वै मा बिभृयादिति (१,२.२० ) स आत्मानमाप्याय्यैतं पयोऽधोक् (१,२.२० ) तमिमं ब्राह्मणं दर्शयित्वात्मन्यजुहोत् (१,२.२० ) स द्वितीयमात्मानमाप्याय्यैतं घृतमधोक् (१,२.२० ) तमिमं ब्राह्मणं दर्शयित्वात्मन्यजुहोत् (१,२.२० ) स तृतीयमात्मानमाप्याय्यैतदिदं विश्वं विकृतमन्नाद्यमधोक् (१,२.२० ) तमिमं ब्राह्मणं दर्शयित्वात्मन्यजुहोत् (१,२.२० ) स चतुर्थमात्मानमाप्याय्यैतेन ब्राह्मणस्य जायां विराजमपश्यत् (१,२.२० ) तामस्मै प्रायच्छत् (१,२.२० ) सात्मा अपित्वमभवत् (१,२.२० ) तत इममग्निं वैश्वानरं परास्युर्ब्राह्मणोऽग्निं जातवेदसमधत्त (१,२.२० ) सोऽयमब्रवीदग्ने जातवेदोऽभिनिधेहि मेहीति (१,२.२० ) तस्य द्वैतं नामाधत्ताघोरं चाक्रूरं च (१,२.२० ) सोऽश्वो भवत् (१,२.२० ) तस्मादश्वो वहेन रथं न भवति पृस्थेन सादिनम् (१,२.२० ) स देवानागच्छत् (१,२.२० ) स देवेभ्योऽन्वातिष्ठत् (१,२.२० ) तस्माद्देवा अबिभयुस् (१,२.२० ) तं ब्रह्मणे प्रायच्छत् (१,२.२० ) तमेतयर्चाशमयत् ॥ २० ॥ (१,२.२१ ) <अग्निं त्वाहुर्वैश्वानरं सदनान् प्रदहन्वगाः । स नो देवत्राधि ब्रूहि मा रिषामा वयं तव [ড়्ष्१.९५.३, सकल अल्सो अत्Vऐत्ष्६.७]>इति (१,२.२१ ) तमेताभिः पञ्चभिरृग्भिरुपाकुरुते <यदक्रन्दः प्रथमं जायमानः [ऋV १.१६३.१]>इति [एद्. प्रतमं, चोर्रेच्तेद्प्. ३०२] (१,२.२१ ) सोऽशाम्यत् (१,२.२१ ) तस्मादश्वः पशूनां जिघत्सुतमो भवति (१,२.२१ ) वैश्वानरो ह्येष (१,२.२१ ) तस्मादग्निपदमश्वं ब्रह्मणे ददाति (१,२.२१ ) ब्रह्मणे हि प्रत्तम् (१,२.२१ ) तस्य रसमपीडयत् (१,२.२१ ) स रसोऽभवत् (१,२.२१ ) रसो ह वा एष (१,२.२१ ) तं वा एतं रसं सन्तं रथ इत्याचक्षते परोक्षेण (१,२.२१ ) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः (१,२.२१ ) स देवानागच्छत् (१,२.२१ ) स देवेभ्योऽन्वातिष्ठत् (१,२.२१ ) तस्माद्देवा अबिभयुस् (१,२.२१ ) तं ब्रह्मणे प्रायच्छत् (१,२.२१ ) तमेतयर्चाज्याहुत्याभ्यजुहोत् (१,२.२१ ) <इन्द्रस्यौजो मरुतामनीकम् [श्ष्६.१२५.३, च्f. ড়्ष्१५.११.७]> इति रथमभिहुत्य तमेतयर्चातिष्ठद्<वनस्पते वीड्वङ्गो हि भूयाः [श्ष्६.१२५.१, ড়्ष्१५.११.८]> इति (१,२.२१ ) तस्मादाग्न्याधेयिकं रथं ब्रह्मणे ददाति (१,२.२१ ) ब्रह्मणे हि प्रत्तम् (१,२.२१ ) तस्य तक्षाणस्तनूं ज्येष्ठां दक्षिणां निरमिमत (१,२.२१ ) तां पञ्चस्वपश्यदृचि यजुषि साम्नि शान्तेऽथ घोरे (१,२.२१ ) तासां द्वे ब्रह्मणे प्रायच्छद्वाचं च ज्योतिश्च (१,२.२१ ) वाग्वै धेनुर्ज्योतिर्हिरण्यम् (१,२.२१ ) तस्मादाग्न्याधेयिकां चातुःप्राश्यां धेनुं ब्रह्मणे ददाति (१,२.२१श्) ब्रह्मणे हि प्रत्ता (१,२.२१ अ) पशुषु शाम्यमानेषु चक्षुर्हापयन्ति (१,२.२१ ब्) चक्षुरेव तदात्मनि धत्ते (१,२.२१ च्) यद्वै चक्षुस्तद्धिरण्यम् (१,२.२१ द्) तस्मादाग्न्याधेयिकं हिरण्यं ब्रह्मणे ददाति (१,२.२१ ए) ब्रह्मणे हि प्रत्तं (१,२.२१ f) तस्यात्मन्नधत्त (१,२.२१ ग्) तेन प्राज्वलयत् (१,२.२१ ह्) यन्नाधत्त तदाग्लाभवत् (१,२.२१ इ) तदाग्ला भूत्वा सा समुद्रं प्राविशत्[च्f. ড়्ष्१७.२८.१ fओर्थिसन्द्थे fओल्लोwइन्ग्सेन्तेन्चेस्] (१,२.२१ ज्) सा समुद्रमदहत् (१,२.२१ क्) तस्मात्समुद्रो दुर्गिरवपि (१,२.२१ ल्) वैश्वानरेण हि दग्धः (१,२.२१ म्) सा पृथिवीमुदैत् (१,२.२१ न्) सा पृथिवीं व्यदहत् (१,२.२१ ओ) सा देवानागच्छत् (१,२.२१ प्) सा देवानहेडत् (१,२.२१ ॠ) ते देवा ब्रह्माणमुपाधावन् (१,२.२१ र्) स नैवागायन्नानृत्यत् (१,२.२१ स्) सैषाग्ला (१,२.२१ त्) एषा कारुविदा नम (१,२.२१ उ) तं वा एतमाग्लाहतं सन्तमाग्लागृध इत्याचक्षते परोक्षेण (१,२.२१ व्) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषाः [एद्. द्विषो] (१,२.२१ w) य एष ब्राह्मणो गायनो नर्तनो वा भवति तमाग्लागृध इत्याचक्षते (१,२.२१ x) तस्माद्ब्राह्मणो नैव गायेन्न नृत्येन् माग्लागृधः स्यात् (१,२.२१ य्) तस्माद्ब्राह्म्यं पूर्वं हविरपरं प्राजापत्यं (१,२.२१श्श्) प्राजापत्याद्ब्राह्म्यमेवोत्तरमिति ब्राह्मणम् ॥ २१ ॥ (१,२.२२ ) अथर्वाणश्च ह वा अङ्गिरसश्च भृगुचक्षुषी तद्ब्रह्माभिव्यपश्यन् (१,२.२२ ) तदजानन्वयं वा इदं सर्वं यद्भृग्वङ्गिरस इति (१,२.२२ ) ते देवा ब्राह्म्यं हविर्यत्सांतपनेऽग्नावजुहवुः (१,२.२२ ) एतद्वै ब्राह्म्यं हविर्यत्सांतपनेऽग्नौ हूयत (१,२.२२ ) एष ह वै सांतपनोऽग्निर्यद्ब्राह्मणस् (१,२.२२ ) तस्योर्जयोर्जां देवा अभजन्त सुमनस एव स्वधां पितरः श्रद्धया स्वर्गं लोकं ब्राह्मणास् (१,२.२२ ) तेन सुन्वन्त्यृषयोऽन्तत स्त्रियः केवल आत्मन्यवारुन्धत बाह्या उभयेन सुन्वन्ति (१,२.२२ ) यद्वै यज्ञे ब्राह्म्यं हविर्न निरुप्येतानृजवः प्राजापत्यहविषो मनुष्या जायेरन् (१,२.२२ ) असौ यांल्लोकाञ्छृण्विति पिता ह्येष आहवनीयस्य गार्हपत्यस्य दक्षिणाग्नेर्योऽग्निहोत्रं जुहोतीति [एद्. याल्लोकाञ्, आहवणीयस्य] (१,२.२२ ) देवाः प्रिये धामनि मदन्ति (१,२.२२ ) तेषामेषोऽग्निः सांतपनः श्रेष्ठो भवति (१,२.२२ ) एतस्य वाचि तृप्तायामग्निस्तृप्यति (१,२.२२ ) प्राणे तृप्ते वायुस्तृप्यति (१,२.२२ ) चक्षुषि तृप्त आदित्यस्तृप्यति (१,२.२२ ) मनसि तृप्ते चन्द्रमास्तृप्यति (१,२.२२ ) श्रोत्रे तृप्ते दिशश्चान्तर्देशाश्च तृप्यन्ति (१,२.२२ ) स्नेहेषु तृप्तेष्वापस्तृप्यन्ति (१,२.२२ ) लोमेषु तृप्तेष्वोषधिवनस्पतयस्तृप्यन्ति (१,२.२२ ) शरीरे तृप्ते पृथिवी तृप्तति (१,२.२२ ) एवमेषोऽग्निः सांतपनः श्रेष्ठस्तृप्तः सर्वांस्तृप्तांस्तर्पयतीति ब्राह्मणम् ॥ २२ ॥ (१,२.२३ ) सांतपना इदं हविरिति (१,२.२३ ) एष ह वै सांतपनोऽग्निर्यद्ब्राह्मणो यस्य गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणनिष्क्रमणान्नप्राशनगोदानचूडाकरणोपनयनाप्लवनाग्निहोत्रव्रतचर्यादीनि कृतानि भवन्ति स सांतपनः (१,२.२३ ) अथ योऽयमनग्निकः स कुम्भे लोष्टस् (१,२.२३ ) तद्यथा कुम्भे लोष्टः प्रक्षिप्तो नैव शौचार्थाय कल्पते नैव शस्यं निर्वर्तयत्येवमेवायं ब्राह्मणोऽनग्निकस्तस्य ब्राह्मणस्यानग्निकस्य नैव दैवं दद्यान्न पित्र्यं न चास्य स्वाध्यायाशिषो न यज्ञाशिषः स्वर्गंगमा भवन्ति (१,२.२३ ) तदप्येतदृचोक्तम् <अग्निं दूतं वृणीमहे होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् [श्ष्२०.१०१.१, ऋV १.१२.१]> इति ब्राह्मणम् ॥ २३ ॥ (१,२.२४ ) अथ ह प्रजापतिः सोमेन यक्ष्यमाणो वेदानुवाच कं वो होतारं वृणीय कमध्वर्युं कमुद्गातारं कं ब्राह्मणमिति (१,२.२४ ) त ऊचुरृग्विदमेव होतारं वृणीष्.व यजुर्विदमध्वर्युं सामविदमुद्गातारमथर्वाङ्गिरोविदं ब्राह्मणम् (१,२.२४ ) तथा हास्य यज्ञश्चतुर्षु लोकेषु चतुर्षु देवेषु चतुर्षु वेदेषु चतसृषु होत्रासु चतुष्पाद्यज्ञः प्रतितिष्ठति (१,२.२४ ) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद (१,२.२४ ) तस्मादृग्विदमेव होतारं वृणीष्व स हि हौत्रं वेद (१,२.२४ ) अग्निर्वै होता (१,२.२४ ) पृथिवी वा ऋचामायतनम् (१,२.२४ ) अग्निर्देवता गायत्रं छन्दो भूरिति शुक्रम् (१,२.२४ ) तस्मात्तमेव होतारं वृणीष्वेत्येतस्य लोकस्य जितये (१,२.२४ ) एतस्य लोकस्य विजितये (१,२.२४ ) एतस्य लोकस्य संजितये (१,२.२४ ) एतस्य लोकस्यावरुद्धये (१,२.२४ ) एतस्य लोकस्य विवृद्धये (१,२.२४ ) एतस्य लोकस्य समृद्धये (१,२.२४ ) एतस्य लोकस्योदात्तये (१,२.२४ ) एतस्य लोकस्य व्याप्तये (१,२.२४ ) एतस्य लोकस्य पर्याप्तये (१,२.२४ ) एतस्य लोकस्य समाप्तये (१,२.२४ ) अथ चेन्नैवंविदं होतारं वृणुते पुरस्तादेवैषां यज्ञो रिच्यते (१,२.२४ ) यजुर्विदमेवाध्वर्युं वृणीष्व स ह्याध्वर्यवं वेद (१,२.२४ ) वायुर्वा अध्वर्युः (१,२.२४ ) अन्तरिक्षं वै यजुषामायतनम् (१,२.२४ ) वायुर्देवता त्रैष्टुभं छन्दो भुव इति शुक्रम् (१,२.२४ ) तस्मात्तमेवाध्वर्युं वृणीष्वेत्येतस्य लोकस्येत्येव (१,२.२४ ) अथ चेन्नैवंविदमध्वर्युं वृणुते पश्चादेवैषां यज्ञो रिच्यते (१,२.२४श्) सामविदमेवोद्गातारं वृणीष्व (१,२.२४ अ) स ह्यौद्गात्रं वेद (१,२.२४ ब्) आदित्यो वा उद्गाता (१,२.२४ च्) द्यौर्वै साम्नामायतनम् (१,२.२४ द्) आदित्यो देवता जागतं छन्दः स्वरिति शुक्रम् (१,२.२४ ए) तस्मात्तमेवोद्गातारं वृणीष्वेत्येतस्य लोकस्येत्येव (१,२.२४ f) अथ चेन्नैवंविदमुद्गातारं वृणुत उत्तरत एवैषां यज्ञो रिच्यते (१,२.२४ ग्) अथर्वाङ्गिरोविदमेव ब्रह्माणं वृणीष्व (१,२.२४ ह्) स हि ब्रह्मत्वं वेद (१,२.२४ इ) चन्द्रमा वै ब्रह्मा [एद्. ब्रहापो] (१,२.२४ ज्) आपो वै भृगवङ्गिरसामायतनम् (१,२.२४ क्) चन्द्रमा देवता वैद्युतश्चोष्णिक्काकुभे छन्दसी ओमित्यथर्वणां शुक्रं जनदित्यङ्गिरसाम् (१,२.२४ ल्) तस्मात्तमेव ब्रह्माणं वृणीष्वेत्येतस्य लोकस्य जितये (१,२.२४ म्) एतस्य लोकस्य विजितये (१,२.२४ न्) एतस्य लोकस्य संजितये (१,२.२४ ओ) एतस्य लोकस्यावरुद्धये (१,२.२४ प्) एतस्य लोकस्य विवृद्धये (१,२.२४ ॠ) एतस्य लोकस्य समृद्धये (१,२.२४ र्) एतस्य लोकस्योदात्तये (१,२.२४ स्) एतस्य लोकस्य व्याप्तये (१,२.२४ त्) एतस्य लोकस्य पर्याप्तये (१,२.२४ उ) एतस्य लोकस्य समाप्तये (१,२.२४ व्) अथ चेन्नैवंविदं ब्रह्माणं वृणुते दक्षिणत एवैषां यज्ञो रिच्यते दक्षिणत एवैषां यज्ञो रिच्यते ॥ २४ ॥ (१,२.२४ ओल्) इत्यथर्ववेदे गोपथब्राह्मणपूर्वभागे द्वितीयः प्रपाठकः ॥ (१,३.१ ) ओं दक्षिणाप्रवणा भूमिर्दक्षिणत आपो वहन्ति (१,३.१ ) तस्माद्यज्ञास्तद्भूमेरुन्नततरमिव भवति यत्र भृग्वङ्गिरसो विष्ठास् (१,३.१ ) तद्यथाप इमांल्लोकानभिवहन्त्येवमेव भृग्वङ्गिरसः सर्वान् देवानभिवहन्ति (१,३.१ ) एवमेवैषा व्याहृतिः सर्वान् वेदानभिवहत्योमिति हर्चामोमिति यजुषामोमिति साम्नामोमिति सर्वस्याहाभिवादस् (१,३.१ ) तं ह स्मैतदुत्तरं यज्ञे विद्वांसः कुर्वन्ति (१,३.१ ) देवा ब्रह्माण आगच्छतागच्छतेति (१,३.१ ) एते वै देवा ब्रह्माणो यद्भृग्वङ्गिरसस् (१,३.१ ) तानेवैतद्गृणानास्तान् वृणाना ह्वयन्तो मन्यन्ते (१,३.१ ) नान्योऽभृग्वङ्गिरोविदो वृतो यज्ञमागच्छेन् (१,३.१ ) यज्ञस्य तेजसा तेज आप्नोत्यूर्जयोर्जां यशसा यशः (१,३.१ ) नान्योऽभृग्वङ्गिरोविदो वृतो यज्ञमागच्छेन्नेद्यज्ञं परिमुष्णीयादिति (१,३.१ ) तद्यथा पूर्वं वत्सोऽधीत्य गां धयेदेवं ब्रह्मा भृग्वङ्गिरोविद्वृतो यज्ञमागच्छेन्नेद्यज्ञं परिमुष्णीयादिति (१,३.१ ) तद्यथा गौर्वाश्वो वाश्वतरो वैकपाद्द्विपात्त्रिपादिति स्यात्किमभिवहेत्किमभ्यश्नुयादिति (१,३.१ ) तस्मादृग्विदमेव होतारं वृणीष्व यजुर्विदमध्वर्युं सामविदमुद्गातारमथर्वाङ्गिरोविदं ब्रह्माणम् (१,३.१ ) तथा हास्य यज्ञश्चतुर्षु लोकेषु चतुर्षु देवेषु वेदेषु चतसृषु होत्रासु चतुष्पाद्यज्ञः प्रतितिष्ठति (१,३.१ ) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद यश्चैवमृत्विजामार्त्विज्यं वेद यश्च यज्ञे यजनीयं वेदेति ब्राह्मणम् ॥ १ ॥ (१,३.२ ) प्रजापतिर्यज्ञमतनुत (१,३.२ ) स ऋचैव हौत्रमकरोद्यजुषाध्वर्यवं साम्नौद्गात्रमथर्वाङ्गिरोभिर्ब्रह्मत्वम् (१,३.२ ) तं वा एतं महावाद्यं कुरुते यदृचैव हौत्रमकरोद्यजुषाध्वर्यवं साम्नौद्गात्रमथर्वाङ्गिरोभिर्ब्रह्मत्वम् (१,३.२ ) स वा एष त्रिभिर्वेदैर्यज्ञस्यान्यतरः पक्षः संस्क्रियते (१,३.२ ) मनसैव ब्रह्मा यज्ञस्यान्यत्रं पक्षं संस्करोति (१,३.२ ) अयमु वै यः पवते स यज्ञस् (१,३.२ ) तस्य मनश्च वाक्च वर्तनी (१,३.२ ) मनसा चैव हि वाचा च यज्ञो वर्तते (१,३.२ ) अद एव मन इयमेव वाक् (१,३.२ ) स यद्वदन्नास्ति विद्यादर्धं मेऽस्य यज्ञस्यान्तरगादिति (१,३.२ ) तद्यथैकपात्पुरुषो यन्नेकचक्रो वा रथो वर्तमानो भ्रेषं न्येत्येवमेवास्य यज्ञो भ्रेषं न्येति (१,३.२ ) यज्ञस्य भ्रेषमनु यजमानो भ्रेषं न्येति (१,३.२ ) यजमानस्य भ्रेषमन्वृत्विजो भ्रेषं नियन्ति (१,३.२ ) ऋत्विजां भ्रेषमनु दक्षिणा भ्रेषं नियन्ति (१,३.२ ) दक्षिणानां भ्रेषमनु यजमानः पुत्रपशुभिर्भ्रेषं न्येति (१,३.२ ) पुत्रपशूनां भ्रेषमनु यजमानः स्वर्गेण लोकेन भ्रेषं न्येति (१,३.२ ) स्वर्गस्य लोकस्य भ्रेषमनु तस्यार्धस्य योगक्षेमो भ्रेषं न्येति यस्मिन्नर्धे यजन्त इति ब्राह्मणम् ॥ २ ॥ (१,३.३ ) तदु ह स्माह श्वेतकेतुरारुणेयो ब्रह्माणं दृष्ट्वा भाषमाणमर्धं मेऽस्य यज्ञस्यान्तरगादिति (१,३.३ ) तस्माद्ब्रह्मा स्तुते बहिःपवमाने वाचोयम्यमुपांश्वन्तर्यामाभ्याम् (१,३.३ ) अथ ये पवमाना ओदृचस्तेषु (१,३.३ ) अथ यानि स्तोत्राणि सशस्त्राण्या वषट्कारात्तेषु (१,३.३ ) स यदृक्तो भ्रेषं न्यृच्छेदों भूर्जनदिति गार्हपत्ये जुहुयात् (१,३.३ ) यदि यजुष्ट ओं भुवो जनदिति दक्षिणाग्नौ जुदुयात् (१,३.३ ) यदि सामत ओं स्वर्जनदित्याहवनीये जुहुयात् (१,३.३ ) यद्यनाज्ञाताद्ब्रह्मतो वों भूर्भुवः स्वर्जनदोमित्याहवनीय एव जुहुयात् (१,३.३ ) तद्वाकोवाक्यस्यर्चां यजुषां साम्नामथर्वाङ्गिरसाम् (१,३.३ ) अथापि वेदानां रसन यज्ञस्य विरिष्टं संधीयते (१,३.३ ) तद्यथा लवणेनेत्युक्तम् (१,३.३ ) तद्यथोभयपात्पुरुषो यन्नुभयचक्रो वा रथो वर्तमानोऽभ्रेषं न्येति एवमेवास्य यज्ञोऽभ्रेषं न्येति (१,३.३ ) यज्ञस्याभ्रेषमनु यजमानोऽभ्रेषं न्येति (१,३.३ ) यजमानस्याभ्रेषमन्वृत्विजोऽभ्रेषं नियन्ति (१,३.३ ) ऋत्विजामभ्रेषमनु दक्षिणा अभ्रेषं नियन्ति (१,३.३ ) दक्षिणानामभ्रेषमनु यजमानः पुत्रपशुभिरभ्रेषं न्येति (१,३.३ ) पुत्रपशूनामभ्रेषमनु यजमानः स्वर्गेण लोकेनाभ्रेषं न्येति (१,३.३ ) स्वर्गस्य लोकस्याभ्रेषमनु तस्यार्धस्य योगक्षेमोऽभ्रेषं न्येति यस्मिन्नर्धे यजन्त इति ब्राह्मणम् ॥ ३ ॥ (१,३.४ ) तद्यदौदुम्बर्यां म आसिष्ट हिङ्ङकार्षीन् मे प्रास्तावीन् म उदगासीन् मे सुब्रह्मण्यामाह्वासीदित्युद्गात्रे दक्षिणा नीयन्ते (१,३.४ ) ग्रहान् मेऽग्रहीत्प्राचारीन् मेऽशुश्रुवन् मे समनसस्कार्षीदयाक्षीन् मेऽवषट्कार्षीन् म इत्यध्वर्यवे (१,३.४ ) होतृषदन आसिष्टायाक्षीन् मेऽशांसीन् मेऽवषट्कार्षीन् म इति होत्रे (१,३.४ ) देवयजनं मे चीकॢपद्ब्रह्मासादं मेऽसीसृपद्ब्रह्मजपान् मेऽजपीत्पुरस्ताद्धोमसंस्थितहोमान् मेऽहौषीदयाक्षीन् मेऽशांसीन् मेऽवषट्कार्षीन् म इति ब्रह्मणे (१,३.४ ) भूयिष्ठेन मा ब्रह्मणाकार्षीदिति (१,३.४ ) एतद्वै भूयिष्ठं ब्रह्म यद्भृग्वङ्गिरसः (१,३.४ ) येऽङ्गिरसः स रसो येऽथर्वाणो येऽथर्वाणस्तद्भेषजम् (१,३.४ ) यद्भेषजं तदमृतं यदमृतं तद्ब्रह्म (१,३.४ ) स वा एष पूर्वेषामृत्विजामर्धभागस्यार्धमितरेषामर्धं ब्रह्मण इति ब्राह्मणम् ॥ ४ ॥ (१,३.५ ) देवाश्च ह वा असुराश्च संग्रामं समयतन्त (१,३.५ ) तत्रैतास्तिस्रो होत्रा जिह्मं प्रतिपेदिरे (१,३.५ ) तासामिन्द्र उक्थानि सामानि लुलोप (१,३.५ ) तानि होत्रे प्रायच्छत् (१,३.५ ) आज्यं ह वै होतुर्बभूव (१,३.५ ) प्रऽुगं पोतुर्वैश्वदेवं ह वै होतुर्बभूव (१,३.५ ) निष्केवल्यं नेष्टुः (१,३.५ ) मरुत्वतीयं ह वै होतुर्बभूव (१,३.५ ) अग्निमारुतमाग्नीध्रस्य (१,३.५ ) तस्मादेतदभ्यस्ततरमिव शस्यते यदाग्निमारुतम् (१,३.५ ) तस्मादेते संशंसुका इव भवन्ति यद्धोता पोता नेष्टा (१,३.५ ) आग्नीध्रो मुमुहे वसीत (१,३.५ ) तद्ब्रह्मेयसामिवास (१,३.५ ) तासामर्धं प्रतिलुलोप प्रथमार्हणं च प्रथमपदं चैतद्दक्षिणां चैतत्परिशिषेदेदिति ब्राह्मणम् ॥ ५ ॥ (१,३.६ ) उद्दालको ह वा आरुणिरुदीच्यान् वृतो धावयां चकार (१,३.६ ) तस्य ह निष्क उपाहितो बभूवोपवादाद्बिभ्यतो यो मा ब्राह्मणोऽनूचान उपवदिष्यति तस्मा एतं प्रदास्यमीति (१,३.६ ) तद्धोदीच्यान् ब्राह्मणान् भयं विवेदोद्दालको ह वा अयमायाति कौरुपञ्चोलो ब्रह्मा ब्रह्मपुत्रः (१,३.६ ) स ऊर्ध्वं वृतो न पर्यादधीत (१,३.६ ) केनेमं वीरेण प्रतिसंयतामहा इति (१,३.६ ) तं यत एव प्रपन्नं दध्रे तत एवमनुप्रतिपेदिरे ते ह स्वैदायनं शौनकमूचुः स्वैदायन त्वं वै नो ब्रह्मिष्ठोऽसीति (१,३.६ ) त्वयेमं वीरेण प्रतिसंयतामहा इति (१,३.६ ) तं यत एव प्रपन्नं दध्रे तत एवमनुप्रतिपेदिरे (१,३.६ ) तं ह स्वैदायना इत्यामन्त्रयामास (१,३.६ ) स भो गौतमस्य पुत्रेति हास्मा असूया प्रतिश्रुतं प्रतिशुश्राव (१,३.६ ) स वै गौतमस्य पुत्र ऊर्ध्वं वृतो धावेत् ॥ ६ ॥ (१,३.७ ) यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादिमाः प्रजाः शिरस्तः प्रथमं लोमशा जायन्ते कस्मादासामपरमिव श्मश्रूण्युपकक्षाण्यन्यानि लोमानि जायन्ते (१,३.७ ) यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादिमाः प्राजाः शिरस्तः प्रथमं पलिता भवन्ति कस्मादन्ततः सर्वा एव पलिता भवन्ति (१,३.७ ) यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादिमाः प्रजा अदन्तिका जायन्ते कस्मादासामपरमिव जायन्ते (१,३.७ ) यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादासां सप्तवर्षाष्टवर्षाणां प्रभिद्यन्ते कस्मादासां पुनरेव जायन्ते कस्मादन्ततः सर्व एव प्रभिद्यन्ते (१,३.७ ) यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादधरे दन्ताः पूर्वे जायन्ते पर उत्तरे (१,३.७ ) यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादधरे दन्ताः अणीयांसो ह्रसीयांसः प्रथीयांसो वर्षीयांस उत्तरे (१,३.७ ) यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादिमौ दंष्ट्रौ दीर्घतरौ कस्मात्समे इव जंभे (१,३.७ ) यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादिमे श्रोत्रे अन्तरतः समे इव दीर्णे (१,३.७ ) यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मात्पुमांसः श्मश्रुवन्तोऽश्मश्रुवः स्त्रियः (१,३.७ ) यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादासां संततमिव शरीरं भवति कस्मादासामस्थीनि दृढतराणीव भवन्ति (१,३.७ ) यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादासां प्रथमे वयसि रेतः सिक्तं न संभवति कस्मादासां मध्यमे वयसि रेतः सिक्तं संभवति कस्मादासामुत्तमे वयसि रेतः सिक्तं न संभवति (१,३.७ ) यस्तद्दर्शपूर्णमासयो रूपं विद्यात्कस्मादिदं शिश्नमुच्चश एति नीची पद्यते [एद्. इं] (१,३.७ ) कस्मात्सकृदपानम् ॥ ७ ॥ (१,३.८ ) अथ यः पुरस्तादष्टावाज्यभागान् विद्यान् मध्यतः पञ्च हविर्भागाः षट्प्राजापत्या उपरिष्टादष्टावाज्यभागान् विद्यात् (१,३.८ ) अथ यो गायत्रीं हरिणीं ज्योतिष्पक्षां सर्वैर्यज्ञैर्यजमानं स्वर्गं लोकमभिवहन्तीं विद्यात् (१,३.८ ) अथ यः अपङ्क्तिं पञ्चपदां सप्तदशाक्षरां सर्वैर्यज्ञैर्यजमानं स्वर्गं लोकमभिवहन्तीं विद्यात् (१,३.८ ) तस्मै ह निष्कं प्रयच्छन्नुवाचानूचानो ह वै स्वैदायनासि सुवर्णं वै सुवर्णविदे ददामीति (१,३.८ ) तदुपयम्य निश्चक्राम (१,३.८ ) तत्रापवव्राज यत्रेतरो बभूव (१,३.८ ) तं ह पप्रच्छ किमेष गौतमस्य पुत्र इति (१,३.८ ) एष ब्रह्मा ब्रह्मापुत्र इति होवाच यदेनं कश्चिदुपवदेतोत मीमांसेत ह वा मूर्धा वा अस्य विपतेत्प्राणा वैनं जह्युरिति (१,३.८ ) ते मिथ एव चिक्रन्देयुर्विप्रापवव्रज यत्रेतरो बभूव (१,३.८ ) ते प्रातः समित्पाणय उपोदेयुरुपायामो भवन्तमिति (१,३.८ ) किमर्थमिति (१,३.८ ) यानेव नो भवांस्तान् ह्यः प्रश्नानपृच्छत्तानेव नो भवान् व्याचक्षीतेति (१,३.८ ) तथेति (१,३.८ ) तेभ्य एतान् प्रश्नान् व्याचचष्टे ॥ ८ ॥ (१,३.९ ) यत्पुरस्ताद्वेदेः प्रथमं बर्हि स्तृणाति तस्मादिमाः प्रजाः शिरस्तः प्रथमं लोमशा जायन्ते (१,३.९ ) यदपरमिव प्रस्तरमनुप्रस्तृणाति तस्मादासामपरमिव श्मश्रूण्युपकक्षाण्यन्यानि लोमानि जायन्ते (१,३.९ ) यत्प्राग्बर्हिषः प्रस्तरमनुप्रहरति तस्मादिमाः प्रजाः शिरस्तः प्रथमं पलिता भवन्ति (१,३.९ ) यदन्ततः सर्वमेवानुप्रहरति तस्मादन्ततः सर्व एव पलिता भवन्ति (१,३.९ ) यत्प्रयाजा अपुरोऽनुवाक्यावन्तो भवन्ति तस्मादिमाः प्रजा अदन्तिका जायन्ते (१,३.९ ) यद्धवींषि पुरोऽनुवाक्यावन्ति भवन्ति तस्मादासामपरमिव जायन्ते (१,३.९ ) यदनुयाजा अपुरोऽनुवाक्यावन्तो भवन्ति तस्मादासां सप्तवर्षाष्टवर्षाणां प्रभिद्यन्ते (१,३.९ ) यत्पत्नीसंयाजाः पुरोऽनुवाक्यावन्तो भवन्ति तस्मादासां पुनरेव जायन्ते (१,३.९ ) यत्समिष्टयजुरपुरोऽनुवाक्यावद्भवति तस्मादन्ततः सर्व एव प्रभिद्यन्ते (१,३.९ ) यद्गायत्र्यानूच्य त्रिष्टुभा यजति तस्मादधरे दन्ताः पूर्वे जायन्ते पर उत्तरे (१,३.९ ) यदृचानूच्य यजुषा यजति तस्मादधरे दन्ता अणीयांसो ह्रसीयांसः प्रथीयांसो वर्षीयांस उत्तरे [एद्. वर्सीयांस] (१,३.९ ) यदाघारौ दीर्घतरौ प्राञ्चावाघारयति तस्मादिमौ दंष्ट्रौ दीर्घतरौ (१,३.९ ) यत्संयाज्ये सच्छन्दसी तस्मात्समे इव जम्भे (१,३.९ ) यच्चतुर्थे प्रयाजे समानयति तस्मादिमे श्रोत्रे अन्तरतः समे इव दीर्णे (१,३.९ ) यज्जपं जपित्वाभिहिंकृणोति तस्मात्पुमांसः श्मश्रुवन्तोऽश्मश्रुव स्त्रियः (१,३.९ ) यत्सामिधेनीः संतन्वन्नन्वाह तस्मादासां संततमिव शरीरं भवति (१,३.९ ) यत्सामिधेन्यः काष्ठहविषो भवन्ति तस्मादासामस्थीनि दृढतराणीव भवन्ति (१,३.९ ) यत्प्रयाजा आज्यहविषो भवन्ति तस्मादासां प्रथमे वयसि रेतः सिक्तं न संभवति (१,३.९ ) यन् मध्ये हविषां दध्ना च पुरोडाशेन च प्रचरन्ति तस्मादासां मध्यमे वयसि रेतः सिक्तं संभवति (१,३.९ ) यदनुयाजा आज्यहविषो भवन्ति तस्मादासामुत्तमे वयसि रेतः सिक्तं न संभवति (१,३.९ ) यदुत्तमेऽनुयाजे सकृदपानिति तस्मादिदं शिश्नमुच्चश एति नीची पद्यते (१,३.९ ) यन्नापानेत्सकृच्छूनं स्यात् (१,३.९ ) यन् मुहुरपानेत्सकृत्पन्नं स्यात् (१,३.९ ) तस्मात्सकृदपानिति नेत्सकृच्छूनं स्यात्सकृत्पन्नं वेति ॥ ९ ॥ (१,३.१० ) अथ ये पुरस्तादष्टावाज्यभागाः पञ्च प्रयाजा द्वावाघारौ द्वावाज्यभागावाग्नेय आज्यभागानां प्रथमः सौम्यो द्वितीयो हविर्भागानाम् (१,३.१० ) हविर्ह्येव सौम्यम् (१,३.१० ) आग्नेयः पुरोडाशः (१,३.१० ) अग्नीषोमीयः पुरोडाशोऽग्निः स्विष्टकृदित्येते मध्यतः पञ्च हविर्भागाः (१,३.१० ) अथ ये षट्प्राजापत्या इडा च प्राशित्रं च यच्चाग्नीध्रायावद्यति ब्रह्मभागो यजमानभागोऽन्वाहार्य एव षष्ठः (१,३.१० ) अथ य उपरिष्टादष्टावाज्यभागास्त्रयोऽनुयाजाश्चत्वारः पत्नीसंयाजाः समिष्टयजुरष्टमम् (१,३.१० ) अथ या गायत्री हरिणी ज्योतिष्पक्षा सर्वैर्यज्ञैर्यजमानं स्वर्गं लोकमभिवहति वेदिरेव सा (१,३.१० ) तस्य ये पुरस्तादष्टावाज्याभागाः स दक्षिणः पक्षः (१,३.१० ) अथ य उपरिष्टादष्टावाज्यभागाः स उत्तरः पक्षः [एद्. इपरिष्टाद्] (१,३.१० ) हवींष्यात्मा [एद्. हविंष्य्] (१,३.१० ) गार्हपत्यो जघनम् (१,३.१० ) आहवनीयः शिरः (१,३.१० ) सौवर्णराजतौ पक्षौ (१,३.१० ) तद्यदादित्यं पुरस्तात्पर्यन्तं न पश्यन्ति तस्मादज्योतिष्क उत्करो भवति (१,३.१० ) अथ या पङ्क्तिः पञ्चपदा सप्तदशाक्षरा सर्वैर्यज्ञैर्यजमानं स्वर्गं लोकमभिवहति याज्यैव सा (१,३.१० ) तस्या ओं श्रावयेति चतुरक्षरम् (१,३.१० ) अस्तु श्रौषदिति चतुरक्षरम् (१,३.१० ) यजेति द्व्यक्षरम् (१,३.१० ) ये यजामह इति पञ्चाक्षरम् (१,३.१० ) द्व्यक्षरो वै वषट्कारः सैषा पङ्क्तिः (१,३.१० ) पञ्चपदा सप्तदशाक्षरा सर्वैर्यज्ञैर्यजमानं स्वर्गं लोकमभिवहति (१,३.१० ) तद्यत्रास्यैश्वर्यं स्याद्यत्र वैनमभिवहेयुरेवंविदमेव तत्र ब्रह्माणं वृणीयान्नानेवंविदमिति ब्राह्मणम् ॥ १० ॥ (१,३.११ ) अथ ह प्राचीनयोग्य आजगामाग्निहोत्रं भवन्तं पृच्छामि गौतमेति (१,३.११ ) पृच्छ प्राचीनयोग्येति (१,३.११ ) किंदेवत्यं ते गवीडायाम् (१,३.११ ) किंदेवत्यमुपहूतायाम् (१,३.११ ) किंदेवत्यमुपसृष्टायाम् (१,३.११ ) किंदेवत्यं वत्समुन्नीयमानम् (१,३.११ ) किंदेवत्यं वत्समुन्नीतम् (१,३.११ ) किंदेवत्यं दुह्यमानम् (१,३.११ ) किंदेवत्यं दुग्धम् (१,३.११ ) किंदेवत्यं प्रक्रम्यमाणम् (१,३.११ ) किंदेवत्यं ह्रियमाणम् (१,३.११ ) किंदेवत्यमधिश्रीयमाणम् (१,३.११ ) किंदेवत्यमधिश्रितम् (१,३.११ ) किंदेवत्यमभ्यवज्वाल्यमानम् (१,३.११ ) किंदेवत्यमभ्यवज्वालितम् (१,३.११ ) किंदेवत्यं समुद्वान्तम् (१,३.११ ) किंदेवत्यं विष्यण्णम् (१,३.११ ) किंदेवत्यमद्भिः प्रत्यानीतम् (१,३.११ ) किंदेवत्यमुद्वास्यमानम् (१,३.११ ) किंदेवत्यमुद्वासितम् (१,३.११ ) किंदेवत्यमुन्नीयमानम् (१,३.११ ) किंदेवत्यमुन्नीतम् (१,३.११ ) किंदेवत्यं प्रक्रम्यमाणम् (१,३.११ ) किंदेवत्यं ह्रियमाणम् (१,३.११ ) किंदेवत्यमुपसाद्यमानम् (१,३.११श्) किंदेवत्यमुपसादितम् (१,३.११ अ) किंदेवत्या समित् (१,३.११ ब्) किंदेवत्यां प्रथमामाहुतिमहौषीः (१,३.११ च्) किंदेवत्यं गार्हपत्यमवेक्षिष्ठाः (१,३.११ द्) किंदेवत्योत्तराहुतिः (१,३.११ ए) किंदेवत्यं हुत्वा स्रुचं त्रिरुदञ्चमुदनैषीः (१,३.११ f) किंदेवत्यं बर्हिषि स्रुचं निधायोन्मृज्योत्तरतः पाणी निरमार्क्षीः (१,३.११ ग्) किंदेवत्यं द्वितीयमुन्मृज्य पित्र्युपवीतं कृत्वा दक्षिणतः पितृभ्यः स्वधामकार्षीः (१,३.११ ह्) किंदेवत्यं प्रथमं प्राशीः (१,३.११ इ) किंदेवत्यं द्वितीयम् (१,३.११ ज्) किंदेवत्यमन्ततः सर्वमेव प्राशीः (१,३.११ क्) किंदेवत्यमप्रक्षालितयोदकं स्रुचा न्यनैषीः (१,३.११ ल्) किंदेवत्यं प्रक्षालितया (१,३.११ म्) किंदेवत्यमपरेणाहवनीयमुदकं स्रुचा न्यनैषीः [एद्. उदक] (१,३.११ न्) किंदेवत्यं स्रुवं स्रुचं च प्रत्यताप्सीः (१,३.११ ओ) किंदेवत्यं रात्रौ स्रुग्दण्डमवामार्क्षीः (१,३.११ प्) किंदेवत्यं प्रातरुदमार्क्षीरिति (१,३.११ ॠ) एतच्चेद्वेत्थ गौतम हुतं ते यद्यु न वेत्थाहुतं त इति ब्राह्मणम् ॥ ११ ॥ (१,३.१२ ) स होवाच रौद्रं मे गवीडयाम् (१,३.१२ ) मानव्यमुपहूतायाम् (१,३.१२ ) वायव्यमुपसृष्टायाम् (१,३.१२ ) वैराजं वत्समुन्नीयमानम् (१,३.१२ ) जागतमुन्नीतम् (१,३.१२ ) आश्विनं दुह्यमानम् (१,३.१२ ) सौम्यं दुग्धम् (१,३.१२ ) बार्हस्पत्यं प्रक्रम्यमाणम् (१,३.१२ ) द्यावापृथिव्यं ह्रियमाणम् [एद्. ह्रियमानम्, चोर्र्. ড়त्यल्] (१,३.१२ ) आग्नेयमधिश्रीयमाणम् (१,३.१२ ) वैश्वानरीयमधिश्रितम् (१,३.१२ ) वैष्णवमभ्यवज्वाल्यमानम् (१,३.१२ ) मारुतमभ्यवज्वालितम् (१,३.१२ ) पौष्णं समुद्वान्तम् (१,३.१२ ) वारुणं विष्यन्नम् (१,३.१२ ) सारस्वतमद्भिः प्रत्यानीतम् (१,३.१२ ) त्वाष्ट्रमुद्वास्यमानम् (१,३.१२ ) धात्रमुद्वासितम् (१,३.१२ ) वैश्वदेवमुन्नीयमानम् (१,३.१२ ) सावित्रमुन्नीतम् (१,३.१२ ) बार्हस्पत्यं प्रक्रम्यमाणम् (१,३.१२ ) द्यावापृथिव्यं ह्रियमाणम् (१,३.१२ ) ऐन्द्रमुपसाद्यमानम् (१,३.१२ ) बलायोपसन्नम् (१,३.१२ ) आग्नेयी समित् (१,३.१२श्) यां प्रथमामाहुतिमहौषं मामेव तत्स्वर्गे लोकेऽधाम् (१,३.१२ अ) यद्गार्हपत्यमवेक्षिषमस्य लोकस्य संतत्यै (१,३.१२ ब्) प्राजापत्योत्तराहुतिस् (१,३.१२ च्) तस्मात्पूर्णतरा मनसैव सा (१,३.१२ द्) यद्धुत्वा स्रुचं त्रिरुदञ्चमुदनैषं रुद्रांस्तेनाप्रैषम् (१,३.१२ ए) यद्बर्हिषि स्रुचं निधायोन्मृज्योत्तरतः पाणी निरमार्क्षमोषधिवनस्पतींस्तेनाप्रैषम् (१,३.१२ f) यद्द्वितीयमुन्मृज्य पित्र्युपवीतं कृत्वा दक्षिणतः पितृभ्यः स्वधामकार्षं पितॄंस्तेनाप्रैषम् (१,३.१२ ग्) यत्प्रथमं प्राशिषं प्राणांस्तेनाप्रैषम् (१,३.१२ ह्) यद्द्वितीयं गर्भांस्तेन (१,३.१२ इ) तस्मादनश्नन्तो गर्भा जीवन्ति (१,३.१२ ज्) यदन्ततः सर्वमेव प्राशिषं विश्वान् देवांस्तेनाप्रैषम् (१,३.१२ क्) यदप्रक्षालितयोदकं स्रुचा न्यनैषं सर्पेतरजनांस्तेनाप्रैषम् (१,३.१२ ल्) यत्प्रक्षालितया सर्पपुण्यजनांस्तेन (१,३.१२ म्) यदपरेणाहवनीयमुदकं स्रुचा न्यनैषं गन्धर्वाप्सरसस्तेनाप्रैषम् (१,३.१२ न्) यत्स्रुवं स्रुचं च प्रत्यताप्सं सप्तर्षींस्तेनाप्रैषम् (१,३.१२ ओ) यद्रात्रौ स्रुग्दण्डमवामार्क्षं ये रात्रौ संविशन्ति दक्षिणांस्तानुदनैषम् (१,३.१२ प्) यत्प्रातरुदमार्क्षं ये प्रातः प्रव्रजन्ति दक्षिणांस्तानुदनैषमिति ब्राह्मणम् ॥ १२ ॥ (१,३.१३ ) एवमेवैतद्भो यथा भवानाह (१,३.१३ ) पृच्छामि त्वेव भवन्तमिति (१,३.१३ ) पृच्छ प्राचीनयोग्येति (१,३.१३ ) यस्य सायमग्नय उपसमाहिताः स्युः सर्वे ज्वलयेयुः प्रक्षालितानि यज्ञपात्राण्युपसन्नानि स्युरथ चेद्दक्षिणागिरुद्वायात्किं वा ततो भयमागच्छेदिति (१,३.१३ ) क्षिप्रमस्य पत्नी प्रैति योऽविद्वाञ्जुहोति (१,३.१३ ) विद्यया त्वेवाहमभिजुहोमीति (१,३.१३ ) का ते विद्या का प्रायश्चित्तिरिति (१,३.१३ ) गार्हपत्यादधि दक्ष्.इणाग्निं प्रणीय प्राचोऽङ्गारानुद्धृत्य प्राणापानाभ्यं स्वाहेति जुहुयात् (१,३.१३ ) अथ प्रातर्यथास्थानमग्नीनुपसामधाय यथापुरं जुहुयात् (१,३.१३ ) सा मे विद्या सा प्रायश्चित्तिरिति (१,३.१३ ) अथ चेदाहवनीय उद्वायात्किं वा ततो भयमागच्छेदिति (१,३.१३ ) क्षिप्रमस्य पुत्रः प्रैति योऽविद्वाञ्जुहोति (१,३.१३ ) विद्यया त्वेवाहमभिजुहोमीति (१,३.१३ ) का ते विद्या का प्रायश्चित्तिरिति (१,३.१३ ) गार्हपत्यादध्याहवनीयं प्रणीय प्रतीचोऽङ्गारानुद्धृत्य समानव्यानाभ्यां स्वाहेति जुहुयात् (१,३.१३ ) अथ प्रातर्यथास्थानमग्नीनुपसमाधाय यथापुरं जुहुयात् (१,३.१३ ) सा मे विद्या सा प्रायश्चित्तिरिति (१,३.१३ ) अथ चेद्गार्हपत्य उद्वायात्किं वा ततो भयमागच्छेदिति (१,३.१३ ) क्षिप्रं गृहपतिः प्रैति योऽविद्वाञ्जुहोति (१,३.१३ ) विद्यया त्वेवाहमभिजुहोमीति (१,३.१३ ) का ते विद्या का प्रायश्चित्तिरिति (१,३.१३ ) सभस्मकमाहवनीयं दक्षिणेन दक्षिणाग्निं परिहृत्य गार्हपत्यस्यायतने प्रतिष्ठाप्य तत आहवनीयं प्रणीय उदीचोऽङ्गारानुद्धृत्योदानरूपाभ्यां स्वाहेति जुहुयात् (१,३.१३ ) अथ प्रातर्यथास्थानमग्नीनुपसमाधाय यथापुरं जुहुयात् (१,३.१३ ) सा मे विद्या सा प्रायश्चित्तिरिति (१,३.१३ ) अथ चेत्सर्वेऽग्नय उद्वायेयुः किं वा ततो भयमागच्छेदिति (१,३.१३श्) क्षिप्रं गृहपतिः सर्वज्यानिं जीयते योऽविद्वाञ्जुहोति (१,३.१३ अ) विद्यया त्वेवाहमभिजुहोमीति (१,३.१३ ब्) का ते विद्या का प्रायश्चित्तिरिति (१,३.१३ च्) आनडुहेन शकृत्पिण्डेनाग्न्यायतनानि परिलिप्य होम्यमुपसाद्याग्निं निर्मथ्य प्राणापानाभ्यां स्वाहा समानव्यानाभ्यां स्वाहोदानरूपाभ्यां स्वाहेति जुहुयात् (१,३.१३ द्) अथ प्रातर्यथास्थानमग्नीनुपसमाधाय यथापुरं जुहुयात् (१,३.१३ ए) सा मे विद्या सा प्रायश्चित्तिरिति (१,३.१३ f) अथ चेन्नाग्निं जनयितुं शक्नुयुर्न कुतश्चन वातो वायात्किं वा ततो भयमागच्छेदिति (१,३.१३ ग्) मोघमस्वेष्टं च हुतं च भवति योऽविद्वाञ्जुहोति (१,३.१३ ह्) विद्यया त्वेवाहमभिजुहोमीति (१,३.१३ इ) का ते विद्या का प्रायश्चित्तिरिति (१,३.१३ ज्) आनडुहेनैव शकृत्पिण्डेनाग्न्यायतनानि परिलिप्य होम्यमुपसाद्य <वात आ वातु भेषजम् [ড়्ष्१९.४६.७९]> इति सूक्तेनात्मन्येव जुहुयात् (१,३.१३ क्) अथ प्रातरग्निं निर्मथ्य यथास्थानमग्नीनुपसमाधाय यथापुरं जुहुयात् (१,३.१३ ल्) सा मे विद्या सा प्रायश्चित्तिरिति ब्राह्मणम् ॥ १३ ॥ (१,३.१४ ) एवमेवैतद्भो भगवन् यथा भवानाह (१,३.१४ ) उपयामि त्वेव भवन्तमिति (१,३.१४ ) एवं चेन्नावक्ष्यो मूर्धा ते व्यपतिष्यदिति (१,३.१४ ) हन्त तु ते तद्वक्ष्यामि यथा ते न विपतिष्यतीति (१,३.१४ ) यो ह वा एवंविद्वानश्नाति च पिबति च वाक्तेन तृप्यति (१,३.१४ ) वाचि तृप्तायामग्निस्तृप्यति (१,३.१४ ) अग्नौ तृप्ते पृथिवी तृप्यति (१,३.१४ ) पृथिव्यां तृप्तायां यानि पृथिव्यां भूतान्यन्वायत्तानि तानि तृप्यन्ति (१,३.१४ ) यो ह वा एवंविद्वानश्नाति च पिबति च प्राणस्तेन तृप्यति (१,३.१४ ) प्राणे तृप्ते वायुस्तृप्यति [एद्. प्रणे] (१,३.१४ ) वायौ तृप्तेऽन्तरिक्षं तृप्यति (१,३.१४ ) अन्तरिक्षे तृप्ते यान्यन्तरिक्षे भूतान्यन्वायत्तानि तानि तृप्यन्ति (१,३.१४ ) यो ह वा एवंविद्वानश्नाति च पिबति च चक्षुस्तेन तृप्यति (१,३.१४ ) चक्षुषि तृप्त आदित्यस्तृप्यति (१,३.१४ ) आदित्ये तृप्ते द्यौस्तृप्यति (१,३.१४ ) दिवि तृप्तायां यानि दिवि भूतान्यन्वायत्तानि तानि तृप्यन्ति (१,३.१४ ) यो ह वा एवंविद्वानश्नाति च पिबति च मनस्तेन तृप्यति (१,३.१४ ) मनसि तृप्ते चन्द्रमास्तृप्यति (१,३.१४ ) चन्द्रमसि तृप्त आपस्तृप्यन्ति (१,३.१४ ) अप्सु तृप्तासु यान्यप्सु भूतान्यन्वायत्तानि तानि तृप्यन्ति (१,३.१४ ) यो ह वा एवंविद्वानश्नाति च पिबति च श्रोत्रं तेन तृप्यति (१,३.१४ ) श्रोत्रे तृप्ते दिशश्चान्तर्देशाश्च तृप्यन्ति (१,३.१४ ) दिक्षु चान्तर्देशेषु च तृप्तेषु यानि दिक्षु चान्तर्देशेषु च भूतान्यन्वायत्तानि तानि तृप्यन्ति (१,३.१४ ) यो ह वा एवंविद्वानश्नाति च पिबति च तस्यायमेव दक्षिणः पाणिर्जुहूः (१,३.१४ ) सव्य उपभृत् (१,३.१४श्) कण्ठो ध्रुवा (१,३.१४ अ) अन्नं हविः (१,३.१४ ब्) प्राणा ज्योतींषि (१,३.१४ च्) सदेष्टं सदा हुतं सदाशितं पायितमग्निहोत्रं भवति य एवं वेद यश्चैवंविद्वानग्निहोत्रं जुहोतीति ब्राह्मणम् ॥ १४ ॥ (१,३.१५ ) प्रियमेधा ह वै भरद्वाजा यज्ञविदो मन्यमानास् (१,३.१५ ) ते ह स्म न कञ्चन वेदविदमुपयन्ति (१,३.१५ ) ते सर्वमविदुस् (१,३.१५ ) ते सहैवाविदुस् (१,३.१५ ) तेऽग्निहोत्र एव न समवदन्त (१,३.१५ ) तेषामेकः सकृदग्निहोत्रमजुहोद्द्विरेकस्त्रिरेकस् (१,३.१५ ) तेषां यः सकृदग्निहोत्रमजुहोत्तमितरावपृच्छतां कस्मै त्वं जुहोषीति (१,३.१५ ) एकधा वा इदं सर्वं प्रजापतिः (१,३.१५ ) प्रजापतय एवाहं सायं जुहोमीति प्रजापतये प्रातरिति (१,३.१५ ) तेषां यो द्विरजुहोत्तमितरावपृच्छतां काभ्यां त्वं जुहोषीति (१,३.१५ ) अग्नये प्रजापतय इति सायं सूर्याय प्रजापतय इति प्रातस् (१,३.१५ ) तेषां यस्त्रिरजुहोत्तमितरावपृच्छतां केभ्यस्त्वं जुहोषीत्यग्नये प्रजापतयेऽनुमतय इति सायं सूर्याय प्रजापतयेऽग्नये स्विष्टकृत इति प्रातस् (१,३.१५ ) तेषां यो द्विरजुहोत्स आर्ध्नोत् (१,३.१५ ) स भूयिष्ठोऽभवत् (१,३.१५ ) प्रजया चेतरौ श्रिया चेतरावत्याक्रामत् (१,३.१५ ) तस्य ह प्रजामितरयोः प्रजे सजातत्वमुपैताम् (१,३.१५ ) तस्माद्द्विर्होतव्यं यजुषा चैव मनसा च (१,३.१५ ) यामेव स ऋद्धिमार्ध्नोत्तामृध्नोति य एवं वेद यश्चैवंविद्वानग्निहोत्रं जुहोतीति ब्राह्मणम् ॥ १५ ॥ (१,३.१६ ) स्वाहा वै कुतः संभूता (१,३.१६ ) केन प्रकृता (१,३.१६ ) किं वास्या गोत्रम् (१,३.१६ ) कत्यक्षरा (१,३.१६ ) कति पदा (१,३.१६ ) कति वर्णा (१,३.१६ ) किं पूर्वावसाना (१,३.१६ ) क्व चित्स्थिता (१,३.१६ ) किमधिष्ठाना (१,३.१६ ) ब्रूहि स्वाहाया यद्दैवतं रूपं च (१,३.१६ ) स्वाहा वै सत्यसंभूता (१,३.१६ ) ब्रह्मणा प्रकृता (१,३.१६ ) लामगायनसगोत्रा (१,३.१६ ) द्वे अक्षरे (१,३.१६ ) एकं पदम् (१,३.१६ ) त्रयश्च वर्णाः शुक्लः पद्मः सुवर्ण इति (१,३.१६ ) सर्वच्छन्दसां वेदेषु समासभूतैकोच्छ्वासा वर्णान्ते चत्वारो वेदाः शरीरे [एद्. समासभुत्, चोर्र्. ড়त्यल्] (१,३.१६ ) षडङ्गान्योषधिवनस्पतयो लोमानि (१,३.१६ ) चक्षुषी सूर्याचन्द्रमसौ (१,३.१६ ) सा स्वाहा सा स्वधा यज्ञेषु वषट्कारभूता प्रयुज्यते (१,३.१६ ) तस्या अग्निर्दैवतम् (१,३.१६ ) ब्राह्मणो रूपमिति ब्राह्मणम् ॥ १६ ॥ (१,३.१७ ) अथापि कारवो ह नाम ऋषयोऽल्पस्वा आसन् (१,३.१७ ) त इममेकगुमग्निष्टोमं ददृशुस् (१,३.१७ ) तमाहरन् (१,३.१७ ) तेनायजन्त (१,३.१७ ) ते स्वर्ययुः (१,३.१७ ) स य इच्छेत्स्वरियामिति स एतेनैकगुनाग्निष्टोमेन यजेतेति ब्राह्मणम् ॥ १७ ॥ (१,३.१८ ) अथातः सवनीयस्य पशोर्विभागं व्याख्यास्यामः (१,३.१८ ) उद्धृत्यावदानानि हनू सजिह्वे प्रस्तोतुः (१,३.१८ ) कण्ठः सकाकुद्रः प्रतिहर्तुः (१,३.१८ ) श्येनं वक्ष उद्गातुः (१,३.१८ ) दक्षिणं पार्श्वं सांसमध्वर्योः (१,३.१८ ) सव्यमुपगातॄणाम् (१,३.१८ ) सव्योऽंसः प्रतिप्रस्थातुः (१,३.१८ ) दक्षिणा श्रोणिरथ्यास्त्री ब्रह्मणः (१,३.१८ ) अवरसक्थं ब्राह्मणाच्छंसिनः (१,३.१८ ) ऊरुः पोतुः (१,३.१८ ) सव्या श्रोणिर्होतुः (१,३.१८ ) अवरसक्थं मैत्रावरुणस्य (१,३.१८ ) अरुरच्छावाकस्य (१,३.१८ ) दक्षिणा दोर्नेष्टुः (१,३.१८ ) सव्या सदस्यस्य (१,३.१८ ) सदं चानूकं च गृहपतेः (१,३.१८ ) जाघनी पत्न्यास् (१,३.१८ ) तां सा ब्राह्मणेन प्रतिग्राहयति (१,३.१८ ) वनिष्ठुर्हृदयं वृक्कौ चाङ्गुल्यानि दक्षिणो बाहुराग्नीध्रस्य (१,३.१८ ) सव्य आत्रेयस्य (१,३.१८ ) दक्षिणौ पादौ गृहपतेर्व्रतप्रदस्य (१,३.१८ ) सव्यौ पादौ गृहपत्न्याः व्रतप्रदायाः (१,३.१८ ) सहैवैनयोरोष्ठस् (१,३.१८ ) तं गृहपतिरेवानुशिनष्टि (१,३.१८ ) मणिकाश्च स्कन्ध्यास्तिस्रश्च कीकसा ग्रावस्तुतस् (१,३.१८श्) तिस्रश्चैव कीकसा अर्धं चापानस्योन्नेतुः (१,३.१८ अ) अत ऊर्ध्वं चमसाध्वर्यूणां क्लोमा शमयितुः (१,३.१८ ब्) शिरः सुब्रह्मण्यस्य (१,३.१८ च्) यः श्वःसुत्यामाह्वयते तस्य चर्म (१,३.१८ द्) तथा खलु षट्त्रिंशत्सम्पद्यन्ते (१,३.१८ ए) षट्त्रिंशदवदाना गौः (१,३.१८ f) षट्त्रिंशदक्षरा बृहती (१,३.१८ ग्) बार्हतो वै स्वर्गो लोकः (१,३.१८ ह्) बृहत्या वै देवाः स्वर्गे लोके यजन्ते (१,३.१८ इ) बृहत्या स्वर्गे लोके प्रतितिष्ठन्ति (१,३.१८ ज्) प्रतितिष्ठन्ति प्रजया पशुभिर्य एवं विभजन्ते (१,३.१८ क्) अथ यदतोऽन्यथाशीलिको वा पापकृतो वा हुतादो वान्यजना वा विमथ्नीरन्नेवमेवैषां पशुर्विमथतो भवत्यस्वर्ग्यः (१,३.१८ ल्) देवभाजो ह वा इमं श्रुतऋषिः पशोर्विभागं विदां चकार (१,३.१८ म्) तमु गिरिजाय बाभ्रव्यायान्यो मनुष्येभ्यः प्रोवाच (१,३.१८ न्) ततोऽयमर्वाङ्मनुष्येष्वासीदिति ब्राह्मणम् ॥ १८ ॥ [एद्. मनुष्येस्व्] (१,३.१९ ) अथातो दीक्षा (१,३.१९ ) कस्य स्विद्धेतोर्दीक्षित इत्याचक्षते (१,३.१९ ) श्रेष्ठां धियं क्षियतीति (१,३.१९ ) तं वा एतं धीक्षितं सन्तं दीक्षित इत्याचक्षते परोक्षेण (१,३.१९ ) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः (१,३.१९ ) कस्य स्विद्धेतोर्दीक्षितोऽप्रत्युत्थायिको भवत्यनभिवादुकः प्रत्युत्थेयोऽभिवाद्यः (१,३.१९ ) ये प्रत्युत्थेया अभिवाद्यास्त एनमाविष्टा भवन्त्यथर्वाङ्गिरसस् (१,३.१९ ) तस्य किमाथर्वणमिति (१,३.१९ ) यदात्मन्येव जुह्वति न परस्मिन् (१,३.१९ ) एवं हाथर्वणानामोदनसवानामात्मन्येव जुह्वति न परस्मिन् [एद्. अदनसवानाम्, चोर्र्. ড়त्यल्] (१,३.१९ ) अथास्य किमाङ्गिरसमिति (१,३.१९ ) यदात्मनश्च परेषां च नामानि न गृह्णात्येवं ह तस्मिन्नासादात्मनश्चैव परेषां च नामानि न गृह्यन्ते (१,३.१९ ) विचक्षणवतीं वाचं भाषन्ते चनसितवतीम् (१,३.१९ ) विचक्षयन्ति ब्राह्मणं चनसयन्ति प्राजापत्यम् (१,३.१९ ) सैषा व्रतधुगथर्वाङ्गिरसस् (१,३.१९ ) तां ह्यन्वायत्ताः (१,३.१९ ) कस्य स्विद्धेतोर्दीक्षितोऽनाश्यन्नो भवति नास्य नाम गृह्णन्ति (१,३.१९ ) अन्नस्थो नामस्थो भवतीत्याहुस्तस्य येऽन्नमदन्ति तेऽस्य पाप्मानमदन्ति (१,३.१९ ) अथास्य ये नाम गृह्णन्ति तेऽस्य नाम्नः पाप्मानमपाघ्नते (१,३.१९ ) अथापि वेदानां गर्भभूतो भवतीत्याहुस् (१,३.१९ ) तस्याजातस्याविज्ञातस्याक्रीतसोमस्याभोजनीयं भवतीत्याहुः (१,३.१९ ) स दीक्षाणां प्रातर्जायते सोमं क्रीणन्ति तस्य जातस्य विज्ञातस्य क्रीतसोमस्य भोजनीयं भवतीत्याहुः (१,३.१९ ) कस्य स्विद्धेतोः संसवा परिजिहीर्षिता भवन्ति (१,३.१९ ) यतरो वीर्यवत्तरो भवति स परस्य यज्ञं परिमुष्णाति (१,३.१९ ) कस्य स्विद्धेतोर्दैवे न ध्यायेत्संस्थिते नाधीयीतेति (१,३.१९श्) संसवस्यैव हेतोरिति (१,३.१९ अ) विद्योतमाने स्तनयत्यथो वर्षति वायव्यमभिषुण्वन्ति वै देवाः सोमं च भक्षयन्ति (१,३.१९ ब्) तदभिषुण्वन्ति ब्राह्मणाः शुश्रुवांसोऽनूचानास् (१,३.१९ च्) तेषां सर्वरसभक्षाः पितृपितामहा भवन्ति (१,३.१९ द्) स दैवे न ध्यायेत्संस्थिते नाधीयीतेति ब्राह्मणम् ॥ १९ ॥ (१,३.२० ) समावृत्ता आचार्या निषेदुस् (१,३.२० ) तान् ह यज्ञो दीक्षिष्यमाणान् ब्राह्मणरूपं कृत्वोपोदेयाय (१,३.२० ) इत्थं चेद्वोऽपसमवत्सुर्हन्त वोऽहं मध्ये दीक्षा इति [एद्.ऽपसमवत्सुर्, ড়त्यल्प्रोपोसेसपसमवतस्थुर्, एद्. दिक्षा] (१,३.२० ) त ऊचुर्नैव त्वा विद्म न जानीमः (१,३.२० ) को हीदविज्ञायमानेन सह दीक्षिष्यतीति (१,३.२० ) यन्न्विदं दीक्षिष्यध्वे भूयो न दीक्षिष्यध्वे (१,३.२० ) अथ वा उ एवं दीक्षयिष्यथ सं वै तर्हि मोहिष्यथ (१,३.२० ) मोहिष्यति वो यज्ञः सर्वे ते दीक्षयिष्यथेति (१,३.२० ) अथ वा उ एकं दीक्षयिष्यथ ते वा अहीनर्त्विजो गृहपतयो भविष्यथ (१,३.२० ) ते तूष्णीं ध्यायन्त आसां चक्रिरे (१,३.२० ) स होवाच किं नु तूष्णीमाध्वे (१,३.२० ) भूयो वः पृच्छामः (१,३.२० ) पृच्छतेति यन्न्विदं दीक्षिष्यध्व उपमे एतस्मिन् संवत्सरे मिथुनं चरिष्यथ नोपैष्यथेति [ড়त्यल्fइन्द्सुपमयेतस्मिनिन् त्wओ BOऋई म्स्स्. अन्द्प्रोपोसेस्तो अच्चेप्त्थिसे रेअदिन्ग्] (१,३.२० ) धिगिति होचुः (१,३.२० ) कथं न दीक्षिता उपैष्यामो नोपैष्यामहा इति (१,३.२० ) ते वै ब्राह्मणानामभिमन्तारो भविष्यथ (१,३.२० ) रेतो ह वो य एतस्मिन् संवत्सरे ब्राह्मणास्तदभविष्यंस्ते बोधिमता भविष्यथेति (१,३.२० ) अथ वा उपेष्यामो नोपेष्यामहा इति (१,३.२० ) ते वै दीक्षिता अवकीर्णिनो भविष्यथ (१,३.२० ) न ह वै देवयानः पन्था प्रादुर्भविष्यतीति (१,३.२० ) तिरो वै देवयानः पन्था भविष्यतीति (१,३.२० ) ते वयं भगवन्तमेवोपधावाम यथा स्वस्ति संवत्सरस्योदृचं समश्नवामहा इति ब्राह्मणम् ॥ २० ॥ (१,३.२१ ) स होवाच द्वादश ह वै वसूनि दीक्षितादुत्क्रामन्ति (१,३.२१ ) न ह वै दीक्षितोऽग्निहोत्रं जुहुयात् (१,३.२१ ) न पौर्णमासेन यज्ञेन यजेत (१,३.२१ ) नामावास्येन (१,३.२१ ) अस्मिन् वसीत (१,३.२१ ) न पितृयज्ञेन यजेत (१,३.२१ ) न तत्र गच्छेद्यत्र मनसा जिगमिषेत् (१,३.२१ ) नेष्ट्या यजेत (१,३.२१ ) न वाचा यथाकथा चिदभिभाषेत (१,३.२१ ) न मिथुनं चरेत् (१,३.२१ ) नान्नास्य यथाकाममुपयुञ्जीत (१,३.२१ ) न पशुबन्धेन यज्ञेन यजेत (१,३.२१ ) न तत्र गच्छेद्यत्र चक्षुषा परापश्येत् (१,३.२१ ) कृष्णाजिनं वसीत (१,३.२१ ) कुरीरं धारयेत् (१,३.२१ ) मुष्टी कुर्यात् (१,३.२१ ) अङ्गुष्ठप्रभृतयस्तिस्र उच्छ्रयेत् (१,३.२१ ) मृगशृङ्गं गृह्णीयात् (१,३.२१ ) तेन कषेत (१,३.२१ ) अथ यस्य दीक्षितस्य वाग्वायता स्यान् मुष्टी वा विसृष्टौ स एतानि जपेत् ॥ २१ ॥ (१,३.२२ ) अग्निहोत्रं च मा पौर्णमासश्च यज्ञः पुरस्तात्प्रत्यञ्चमुभौ कामप्रौ भूत्वा क्षित्या सहाविशताम् (१,३.२२ ) वसतिश्च मामावास्यश्च यज्ञः पश्चात्प्राञ्चमुभाविति समानम् (१,३.२२ ) मनश्च मा पितृयज्ञश्च यज्ञो दक्षिणत उदञ्चमुभाविति समानम् (१,३.२२ ) वाक्च मेष्टिश्चोत्तरतो दक्षिणाञ्चमुभाविति समानम् (१,३.२२ ) रेतश्च मान्नं चेत ऊर्ध्वमुभाविति समानम् (१,३.२२ ) चक्षुश्च मा पशुबन्धश्च यज्ञोऽमुतोऽर्वाञ्चमुभौ कामप्रौ भूत्वाक्षित्या सहाविशतामिति खलु ह वै दीक्षितो य आत्मनि वसूनि धत्ते न चैवास्य का चनार्तिर्भवति न च यज्ञविष्कन्धमुपयात्यपहन्ति पुनर्मृत्युम् (१,३.२२ ) अपात्येति पुनराजातिम् (१,३.२२ ) कामचारोऽस्य सर्वेषु लोकेषु भाति य एवं वेद यश्चैवंविद्वान् दीक्षामुपैतीति ब्राह्मणम् ॥ २२ ॥ (१,३.२३ ) अथ यस्य दीक्षितस्यर्तुमती जाया स्यात्प्रतिस्नावा प्रतिस्नावा सरूपवत्साया गोः पयसि स्थालीपाकं श्रपयित्वाभिघार्योद्वास्योद्धृत्याभिहिंकृत्य गर्भवेदनपुंसवनैः संपातवन्तं कृत्वा तं परैव प्राश्नीयात् (१,३.२३ ) रेतो वा अन्नम् (१,३.२३ ) वृषा हिंकारः (१,३.२३ ) एवं हीश्वरा या दीक्षिताय दीक्षिता जाया पुत्रं लभेतेति (१,३.२३ ) एतेनैव प्रक्रमेण यजेतेति ब्राह्मणम् ॥ २३ ॥ (१,३.२३ ओल्) इत्यथर्ववेदे गोपथब्राह्मणपूर्वभागे तृतीयः प्रपाठकः ॥ (१,४.१ ) ओमयं वै यज्ञो योऽयं पवते (१,४.१ ) तमेत ईप्सन्ति ये संवत्सराय दीक्षन्ते (१,४.१ ) तेषां गृहपतिः प्रथमो दीक्षते (१,४.१ ) अयं वै लोको गृहपतिः (१,४.१ ) अस्मिन् वा इदं सर्वं लोके प्रतिष्ठितम् (१,४.१ ) गृहपता उ एव सर्वे सत्त्रिणः प्रतिष्ठिताः (१,४.१ ) प्रतिष्ठाया एवैनं तत्प्रतिष्ठित्यै दीक्षन्ते ॥ १ ॥ (१,४.२ ) अथ ब्रह्माणं दीक्षयति चन्द्रमा वै ब्रह्माधिदैवं मनोऽध्यात्मम् (१,४.२ ) मनसैव तदोषधीः संदधाति (१,४.२ ) तद्या ओषधीर्वेद स एव ब्रह्मौषधीस् (१,४.२ ) तदनेन लोकेन संदधाति (१,४.२ ) तस्मादेतावन्तरेणान्यो न दीक्षेत (१,४.२ ) स यदेतावन्तरेणान्यो दीक्षेतेमं तं लोकमोषधिभिर्व्यापादयेत् (१,४.२ ) उच्छोषुका ह स्युस् (१,४.२ ) तस्मादेतावन्तरेणान्यो न दीक्षेत ॥ २ ॥ (१,४.३ ) अथोद्गातारं दीक्षयति (१,४.३ ) आदित्यो वा उद्गाताधिदैवं चक्षुरध्यात्मम् (१,४.३ ) पर्जन्य आदित्यः (१,४.३ ) पर्जन्यादधि वृष्टिर्जायते (१,४.३ ) वृष्टिरेव तदोषधीः संदधाति (१,४.३ ) तस्मादेतावन्तरेणान्यो न दीक्षेत (१,४.३ ) स यदेतावन्तरेणान्यो दीक्षेतेमं तं लोकं वर्षेण व्यापादयेत् (१,४.३ ) अवर्षुका ह स्युस् (१,४.३ ) तस्मादेतावन्तरेणान्यो न दीक्षेत ॥ ३ ॥ (१,४.४ ) अथ होतारं दीक्षयति (१,४.४ ) अग्निर्वै होताधिदैवं वागध्यात्मम् (१,४.४ ) अन्नं वृष्टिः (१,४.४ ) वाचं चैव तदग्निं चान्नेन संदाधाति (१,४.४ ) तस्मादेतावन्तरेणान्यो न दीक्षेत (१,४.४ ) स यदेतावन्तरेणान्यो दीक्षेतेमं तं लोकमन्नेन व्यापादयेत् (१,४.४ ) अशनायुका ह स्युस् (१,४.४ ) तस्मादेतावन्तरेणान्यो न दीक्षेत ॥ ४ ॥ (१,४.५ ) अथाध्वर्युं प्रतिप्रस्थाता दीक्षयति (१,४.५ ) वायुर्वा अध्वर्युरधिदैवं प्राणोऽध्यात्मम् (१,४.५ ) अन्नं वृष्टिः (१,४.५ ) वायुं चैव तत्प्राणं चान्नेन संदधाति (१,४.५ ) तस्मादेतावन्तरेणान्यो न दीक्षेत [एद्. एतव्] (१,४.५ ) स यदेतावन्तरेणान्यो दीक्षेतेमं तं लोकं प्राणेन व्यापादयेत् (१,४.५ ) प्रमायुका ह स्युस् (१,४.५ ) तस्मादेतावन्तरेणान्यो न दीक्षेत ॥ ५ ॥ (१,४.६ ) अथ ब्रह्मणे ब्राह्मणाच्छंसिनं दीक्षयति (१,४.६ ) अथोद्गात्रे प्रस्तोतारं दीक्षयति (१,४.६ ) अथ होत्रे मैत्रावरुणं दीक्षयति (१,४.६ ) अथाध्वर्यवे प्रतिप्रस्थातारं नेष्टा दीक्षयति (१,४.६ ) स हैनमनु (१,४.६ ) एतेषां वै नवानां कॢप्तिमन्वितरे कल्पन्ते (१,४.६ ) नव वै प्राणाः (१,४.६ ) प्राणैर्यज्ञस्तायते (१,४.६ ) अथ ब्रह्मणे पोतारं दीक्षयति (१,४.६ ) अथोद्गात्रे प्रतिहर्तारं दीक्षयति (१,४.६ ) अथ होत्रेऽच्छावाकं दीक्षयति (१,४.६ ) अथाध्वर्यवे नेष्टारमुन्नेता दीक्षयति (१,४.६ ) स हैनमनु (१,४.६ ) अथ ब्रह्मण आग्नीध्रं दीक्ष्यति (१,४.६ ) अथोद्गात्रे सुब्रह्मण्यं दीक्षयति (१,४.६ ) अथ होत्रे ग्रावस्तुतं दीक्षयति (१,४.६ ) अथ तमन्यः स्नातको वा ब्रह्मचारी वा दीक्षयति (१,४.६ ) न पूतः पावयेदित्याहुः (१,४.६ ) सैषानुपूर्वं दीक्षा (१,४.६ ) तद्य एवं दीक्षन्ते दीक्षिष्यमाणा एव ते सत्त्रिणां प्रायश्चित्तं न विन्दन्ते (१,४.६ ) सत्त्रिणां प्रायश्चित्तमनु तस्यार्धस्य योगक्षेमः कल्पते यस्मिन्नर्धे दीक्षन्त इति ब्राह्मणम् ॥ ६ ॥ (१,४.७ ) श्रद्धया वै देवा दीक्षणीयां निरमिमतादितेः प्रायणीयाम् (१,४.७ ) सोमात्क्रयम् (१,४.७ ) विष्णोरातिथ्यम् (१,४.७ ) आदित्यात्प्रवर्ग्यम् (१,४.७ ) स्वधाया उपसदः (१,४.७ ) अग्नीषोमाभ्यामौपवसथ्यमहः (१,४.७ ) प्रातर्यावद्भ्यो देवेभ्यः प्रातरनुवाकम् (१,४.७ ) वसुभ्यः प्रातःसवनम् (१,४.७ ) रुद्रेभ्यो माध्यंदिनं सवनम् (१,४.७ ) आदित्येभ्यस्तृतीयसवनम् (१,४.७ ) वरुणादवभृथम् (१,४.७ ) अदितेरुदयनीयाम् (१,४.७ ) मित्रावरुणाभ्यामनूबन्ध्याम् (१,४.७ ) त्वष्टुस्त्वाष्ट्रम् (१,४.७ ) देवीभ्यो देविकाभ्यो देवताहवींषि (१,४.७ ) कामाद्दशातिरात्रम् (१,४.७ ) स्वर्गाल्लोकादुदवसानीयाम् (१,४.७ ) तद्वा एतदग्निष्टोमस्य जन्म (१,४.७ ) स य एवमेतदग्निष्टोमस्य जन्म वेदाग्निष्टोमेन सात्मा सलोको भूत्वा देवानप्येतीति ब्राह्मणम् ॥ ७ ॥ (१,४.८ ) अथ यद्दीक्षणीयया यजन्ते श्रद्धामेव तद्देवीं देवतां यजन्ते (१,४.८ ) श्रद्धा देवी देवता भवन्ति (१,४.८ ) श्रद्धाया देव्याः सायुज्यं सलोकतां यन्ति य एतदुपयन्ति (१,४.८ ) अथ यत्प्रायणीयया यजन्तेऽदितिमेव तद्देवीं देवतां यजन्ते (१,४.८ ) अदितिर्देवी देवता भवन्ति (१,४.८ ) अदित्या देव्याः सायुज्यं सलोकतां यन्ति य एतदुपयन्ति (१,४.८ ) अथ यत्क्रयमुपयन्ति सोममेव तद्देवं देवतां यजन्ते (१,४.८ ) सोमो देवो देवता भवन्ति [एद्. दवता] (१,४.८ ) सोमस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति (१,४.८ ) अथ यदातिथ्यया यजन्ते विष्णुमेव तद्देवं देवतां यजन्ते (१,४.८ ) विष्णुर्देवो देवता भवन्ति (१,४.८ ) विष्णोर्देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति (१,४.८ ) अथ यत्प्रवर्ग्यमुपयन्त्यादित्यमेव तद्देवं देवतां यजन्ते [एद्. दवतां] (१,४.८ ) आदित्यो देवो देवता भवन्ति (१,४.८ ) आदित्यस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति (१,४.८ ) अथ यदुपसदमुपयन्ति स्वधामेव तद्देवीं देवतां यजन्ते (१,४.८ ) स्वधा देवी देवता भवन्ति (१,४.८ ) स्वधाया देव्याः सायुज्यं सलोकतां यन्ति य एतदुपयन्ति (१,४.८ ) अथ यदौपवसथ्यमहरुपयन्त्यग्नीषोमावेव तद्देवौ देवते यजन्ते (१,४.८ ) अग्नीषोमौ देवौ देवते भवन्ति (१,४.८ ) अग्नीषोमयोर्देवतयोः सायुज्यं सलोकतां यन्ति ये एतदुपयन्ति [एद्.ऽग्नीषोमयोर्] (१,४.८ ) अथ यत्प्रातरनुवाकमुपयन्ति प्रातर्याव्ण एव तद्देवान् देवता यजन्ते (१,४.८ ) प्रातर्यावाणो देवा देवता भवन्ति (१,४.८ ) प्रातर्याव्णां देवानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति (१,४.८ ) अथ यत्प्रातःसवनमुपयन्ति वसूनेव तद्देवान् देवता यजन्ते (१,४.८श्) वसवो देवा देवता भवन्ति (१,४.८ अ) वसूनां देवानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति (१,४.८ ब्) अथ यन् माध्यंदिनं सवनमुपयन्ति रुद्रानेव तद्देवान् देवता यजन्ते (१,४.८ च्) रुद्रा देवा देवता भवन्ति (१,४.८ द्) रुद्राणां देवानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति (१,४.८ ए) अथ यत्तृतीयसवनमुपयन्त्यादित्यानेव तद्देवान् देवता यजन्ते (१,४.८ f) आदित्या देवा देवता भवन्ति (१,४.८ ग्) आदित्यानां देवानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति (१,४.८ ह्) अथ यदवभृथमुपयन्ति वरुणमेव तद्देवं देवतां यजन्ते (१,४.८ इ) वरुणो देवो देवता भवन्ति (१,४.८ ज्) वरुणस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति (१,४.८ क्) अथ यदुदयनीयया यजन्तेऽदितिमेव तद्देवीं देवतां यजन्ते (१,४.८ ल्) अदितिर्देवी देवता भवन्ति (१,४.८ म्) अदित्या देव्याः सायुज्यं सलोकतां यन्ति य एतदुपयन्ति [एद्. आदित्या] (१,४.८ न्) अथ यदनूबन्ध्यया यजन्ते मित्रावरुणावेव तद्देवौ देवते यजन्ते (१,४.८ ओ) मित्रावरुणौ देवौ देवते भवन्ति (१,४.८ प्) मित्रावरुणयोर्देवयोः सायुज्यं सलोकतां यन्ति य एतदुपयन्ति (१,४.८ ॠ) अथ यत्त्वाष्ट्रेण पशुना यजन्ते त्वष्टारमेव तद्देवं देवतां यजन्ते (१,४.८ र्) त्वष्टा देवो देवता भवन्ति (१,४.८ स्) त्वष्टुर्देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति (१,४.८ त्) अथ यद्देविकाहविर्भिश्चरन्ति या एता उपसत्सु भवन्त्यग्निः सोमो विष्णुरिति देव्यो देविका देवता भवन्ति (१,४.८ उ) देवीनां देविकानां देवतानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति (१,४.८ व्) अथ यद्दशातिरात्रमुपयन्ति काममेव तद्देवं देवतां यजन्ते (१,४.८ w) कामो देवो देवता भवन्ति (१,४.८ x) कामस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति (१,४.८ य्) अथ यदुदवसानीयया यजन्ते स्वर्गमेव तल्लोकं देवं देवतां यजन्ते (१,४.८श्श्) स्वर्गो लोको देवो देवता भवन्ति (१,४.८ अअ) स्वर्गस्य लोकस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति (१,४.८ ब्ब्) तद्वा एतदग्निष्टोमस्य जन्म (१,४.८ च्च्) स य एवमेतदग्निष्टोमस्य जन्म वेदाप्त्वैव तदग्निष्टोमं स्वर्गे लोके प्रतितिष्ठति (१,४.८ द्द्) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद (१,४.८ एए) अग्निष्टोमेन सात्मा सलोको भूत्वा देवानप्येतीति ब्राह्मणम् ॥ ८ ॥ (१,४.९ ) अहोरात्राभ्यां वै देवाः प्रायणीयमतिरात्रं निरमिमत (१,४.९ ) अर्धमासेभ्यश्चतुर्विंशमहः (१,४.९ ) ब्रह्मणोऽभिप्लवम् (१,४.९ ) क्षत्रात्पृष्ठ्यम् (१,४.९ ) अग्नेरभिजितम् (१,४.९ ) अद्भ्यः स्वरसाम्नः (१,४.९ ) सूर्याद्विषुवन्तम् (१,४.९ ) उक्ता आवृत्ताः स्वरसामानः (१,४.९ ) इन्द्राद्विश्वजितम् (१,४.९ ) उक्तौ पृष्ठ्यभिप्लवौ (१,४.९ ) मित्रावरुणाभ्यां गवायुषी (१,४.९ ) विश्वेभ्यो देवेभ्यो दशरात्रम् (१,४.९ ) दिग्भ्यो दाशरात्रिकं पृष्ठ्यं षडहम् (१,४.९ ) एभ्यो लोकेभ्यश्छन्दोमं त्र्यहम् (१,४.९ ) संवत्सराद्दशममहः (१,४.९ ) प्रजापतेर्महाव्रतम् (१,४.९ ) स्वर्गाल्लोकादुदयनीयमतिरात्रम् (१,४.९ ) तद्वा एतत्संवत्सरस्य जन्म (१,४.९ ) स य एवमेतत्संवत्सरस्य जन्म वेद संवत्सरेण सात्मा सलोको भूत्वा देवानप्येतीति ब्राह्मणम् ॥ ९ ॥ (१,४.१० ) अथ यत्प्रायणीयमतिरात्रमुपयन्त्यहोरात्रावेव तद्देवौ देवते यजन्ते (१,४.१० ) अहोरात्रौ देवौ देवते भवन्ति (१,४.१० ) अहोरात्रयोर्देवयोः सायुज्यं सलोकतां यन्ति य एतदुपयन्ति [एद्.ऽहोरात्रयोर्] (१,४.१० ) अथ यच्चतुर्विंशमहरुपयन्त्यर्धमासानेव तद्देवान् देवता यजन्ते (१,४.१० ) अर्धमासा देवा देवता भवन्ति (१,४.१० ) अर्धमासानां देवानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति (१,४.१० ) अथ यदभिप्लवमुपयन्ति ब्रह्माणमेव तद्देवं देवतां यजन्ते (१,४.१० ) ब्रह्मा देवो देवता भवन्ति (१,४.१० ) ब्रह्मणो देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति (१,४.१० ) अथ यत्पृष्ठ्यमुपयन्ति क्षत्रमेव तद्देवं देवतां यजन्ते (१,४.१० ) क्षत्रं देवो देवता भवन्ति (१,४.१० ) क्षत्रस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति (१,४.१० ) अथ यदभिजितमुपयन्त्यग्निमेव तद्देवं देवतां यजन्ते (१,४.१० ) अग्निर्देवो देवता भवन्ति (१,४.१० ) अग्नेर्देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति (१,४.१० ) अथ यत्स्वरसाम्न उपयन्त्येव तद्देवीर्देवता यजन्त आपो देव्यो देवता भवन्ति (१,४.१० ) अपां देवीनां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति (१,४.१० ) अथ यद्विषुवन्तमुपयन्ति सूर्यमेव तद्देवं देवतां यजन्ते (१,४.१० ) सूर्यो देवो देवता भवन्ति (१,४.१० ) सूर्यस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति (१,४.१० ) उक्ता आवृत्ताः स्वरसामानः (१,४.१० ) अथ यद्विश्वजित मुपयन्तीन्द्रमेव तद्देवं देवतां यजन्ते (१,४.१० ) इन्द्रो देवो देवता भवन्ति (१,४.१० ) इन्द्रस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति (१,४.१० ) उक्तौ पृष्ठ्याभिप्लवौ (१,४.१०श्) अथ यद्गवायुषी उपयन्ति मित्रावरुणावेव तद्देवौ देवते यजन्ते (१,४.१० अ) मित्रावरुणौ देवौ देवते भवन्ति (१,४.१० ब्) मित्रावरुणयोर्देवयोः सायुज्यं सलोकतां यन्ति य एतदुपयन्ति (१,४.१० च्) अथ यद्दशरात्रमुपयन्ति विश्वानेव तद्देवान् देवता यजन्ते (१,४.१० द्) विश्वे देवा देवता भवन्ति (१,४.१० ए) विश्वेषां देवानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति (१,४.१० f) अथ यद्दाशरात्रिकं पृष्ठ्यं षडहमुपयन्ति दिश एव तद्देवीर्देवता यजन्ते (१,४.१० ग्) दिशो देव्यो देवता भवन्ति (१,४.१० ह्) दिशां देवीनां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति (१,४.१० इ) अथ यच्छन्दोमं त्र्यहमुपयन्तीमानेव तल्लोकान् देवान् देवता यजन्ते (१,४.१० ज्) इमे लोका देवा देवता भवन्ति (१,४.१० क्) एषां लोकानां देवानां सायुज्यं सलोकतां यन्ति य एतदुपयन्ति (१,४.१० ल्) अथ यद्दशममहरुपयन्ति संवत्सरमेव तद्देवं देवतां यजन्ते (१,४.१० म्) संवत्सरो देवो देवता भवन्ति [एद्. दवता] (१,४.१० न्) संवत्सरस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति (१,४.१० ओ) अथ यन् महाव्रतमुपयन्ति प्रजापतिमेव तद्देवं देवतां यजन्ते (१,४.१० प्) प्रजापतिर्देवो देवता भवन्ति [एद्. दवता] (१,४.१० ॠ) प्रजापतेर्देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति (१,४.१० र्) अथ यदुदयनीयमतिरात्रमुपयन्ति स्वर्गमेव तल्लोकं देवं देवतां यजन्ते (१,४.१० स्) स्वर्गो लोको देवो देवता भवन्ति (१,४.१० त्) स्वर्गस्य लोकस्य देवस्य सायुज्यं सलोकतां यन्ति य एतदुपयन्ति (१,४.१० उ) तद्वा एतत्संवत्सरस्य जन्म (१,४.१० व्) स य एवमेतत्संवत्सरस्य जन्म वेदाप्त्वैव तत्संवत्सरं स्वर्गे लोके प्रतितिष्ठति (१,४.१० w) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद (१,४.१० x) संवत्सरेण सात्मा सलोको भूत्वा देवानप्येतीति ब्राह्मणम् ॥ १० ॥ (१,४.११ ) स वा एष संवस्तरोऽधिदैवं चाध्यात्मं च प्रतिष्ठितः (१,४.११ ) स य एवमेतत्संवत्सरमधिदैवं चाध्यात्मं च प्रतिष्ठितं वेद प्रतितिष्ठति (१,४.११ ) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद ॥ ११ ॥ (१,४.१२ ) स वा एष संवत्सरो बृहतीमभिसंपन्नः (१,४.१२ ) द्वावक्षरावह्नां षडहौ द्वौ पृष्ठ्याभिप्लवौ (१,४.१२ ) गवायुषी दशरात्रस् (१,४.१२ ) तथा खलु षट्त्रिंशद्संपद्यन्ते (१,४.१२ ) षट्त्रिंशदवदाना गौः (१,४.१२ ) षट्त्रिंशदक्षरा बृहती (१,४.१२ ) बार्हतो वै स्वर्गो लोकः (१,४.१२ ) बृहत्या वै देवाः स्वर्गे लोके यजन्ते (१,४.१२ ) बृहत्या स्वर्गे लोके प्रतितिष्ठति (१,४.१२ ) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद ॥ १२ ॥ (१,४.१३ ) स वा एष संवत्सरस्त्रिमहाव्रतः (१,४.१३ ) चतुर्विंशे महाव्रतं विषुवति महाव्रतं महाव्रत एव महाव्रतम् (१,४.१३ ) तं ह स्मैतमेवंविद्वांसः पूर्वे त्रिमहाव्रतमुपयन्ति (१,४.१३ ) ते तेजस्विन आसंत्सत्यवादिनः संशितव्रताः (१,४.१३ ) य एनमद्य तथोपेयुर्यथामपात्रमुदक आसिक्ते निर्मृत्येदेवं यजमाना निर्मृत्येरन्नुपर्युपयन्ति (१,४.१३ ) तथा हास्य सत्येन तपसा व्रतेन चाभिजितमवरुद्धं भवति य एवं वेद ॥ १३ ॥ (१,४.१४ ) अथ यच्चतुर्विंशमहरुपेत्यानुपेत्य विषुवन्तं महाव्रतमुपेयात्कथमनागूर्त्यै भवतीति (१,४.१४ ) यमेवामुं पुरस्ताद्विषुवतोऽतिरात्रमुपयन्ति तेनेति ब्रूयात् (१,४.१४ ) अभिप्लवात्पृष्ठ्यो निर्मितः (१,४.१४ ) पृष्ठ्यादभिजित् (१,४.१४ ) अभिजितः स्वरसामानः (१,४.१४ ) स्वरसामभ्यो विषुवान् (१,४.१४ ) विषुवतः स्वरसामानः (१,४.१४ ) स्वरसामभ्यो विश्वजित् (१,४.१४ ) विश्वजितः पृष्ठ्याभिप्लवौ (१,४.१४ ) पृष्ठ्याभिप्लवाभ्यां गवायुषी (१,४.१४ ) गवायुर्भ्यां दशरात्रः (१,४.१४ ) दशरात्रान् महाव्रतम् (१,४.१४ ) महाव्रतादुदयनीयोऽतिरात्रः (१,४.१४ ) उदयनीयोऽतिरात्रः स्वर्गाय लोकायान्नाद्याय प्रतिष्ठित्यै ॥ १४ ॥ (१,४.१५ ) अथ यच्चतुर्विंशमहरुपेत्यानुपेत्य विषुवन्तं महाव्रतमुपेयात्कथमनागूर्त्यै भवतीति (१,४.१५ ) यमेवामुं पुरस्ताद्विषुवतोऽतिरात्रमुपयन्ति तेनेति ब्रूयात् (१,४.१५ ) अभिप्लवात्पृष्ठ्यो निर्मितः (१,४.१५ ) पृष्ठ्यादभिजित् (१,४.१५ ) अभिजितः स्वरसामानः (१,४.१५ ) स्वरसामभ्यो विषुवान् [एद्. विषवान्] (१,४.१५ ) विषुवतः स्वरसमानः (१,४.१५ ) स्वरसामभ्यो विश्वजित् (१,४.१५ ) विश्वजितः पृष्ठ्याभिप्लवौ (१,४.१५ ) पृष्ठ्याभिप्लवाभ्यां गवायुषी (१,४.१५ ) गवायुर्भ्यां दशरात्रः (१,४.१५ ) अथ ह देवेभ्यो महाव्रतं न तस्थे कथमूर्ध्वै स्तोमैर्विषुवन्तमुपागातावृत्तैर्मामिति (१,४.१५ ) ते देवा इहसामिवासुर् (१,४.१५ ) उप तं यज्ञक्रतुं जानीमो च ऊर्ध्वस्तोमो येनैतदहरवाप्नुयामेति (१,४.१५ ) तत एतं द्वादशरात्रमूर्ध्वस्तोमं ददृशुस् (१,४.१५ ) तमाहरन् (१,४.१५ ) तेनायजन्त (१,४.१५ ) तत एभ्योऽतिष्ठन् (१,४.१५ ) तिष्ठति हास्मै महाव्रतम् (१,४.१५ ) प्रतितिष्ठति (१,४.१५ ) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद ॥ १५ ॥ (१,४.१६ ) अथ यच्चतुर्विंशमहरुपेत्यानुपेत्य विषुवन्तं महाव्रतमुपेयात्कथमनागूर्त्यै भवतीति (१,४.१६ ) यमेवामुं पुरस्ताद्विषुवतोऽतिरात्रमुपयन्ति तेनेति ब्रूयात् (१,४.१६ ) तदाहुः कति संवत्सरस्य पराञ्च्यहानि भवन्ति कत्यर्वाञ्चि (१,४.१६ ) तद्यानि सकृत्सकृदुपयन्ति तानि पराञ्चि (१,४.१६ ) अथ यानि पुनःपुनरुपयन्ति तान्यर्वाञ्चीत्येवैनान्युपासीरन् (१,४.१६ ) षडहयोर्ह्यावृत्तिमन्वावर्तन्ते ॥ १६ ॥ (१,४.१७ ) अथ यच्चतुर्विंशमहरुपेत्यानुपेत्य विषुवन्तं महाव्रतमुपेयात्कथमनागूर्त्यै भवतीति (१,४.१७ ) यमेवामुं पुरस्ताद्विषुवतोऽतिरात्रमुपयन्ति तेनेति ब्रूयात् [एद्.ऽतिरत्रम्] (१,४.१७ ) अभिप्लवं पुरस्ताद्विषुवतः पूर्वमुपयन्ति (१,४.१७ ) पृष्ट्यमुपरिष्टात् (१,४.१७ ) पिता वा अभिप्लवः पुत्रः पृष्ठ्यस् (१,४.१७ ) तस्मात्पूर्वे वयसि पुत्राः पितरमुपजीवन्ति (१,४.१७ ) पृष्ठ्यं पश्चाद्विषुवतः पूर्वमुपयन्त्यभिप्लवमुपरिष्टात् (१,४.१७ ) पिता वा अभिप्लवः पुत्रः पृष्ठ्यस् (१,४.१७ ) तस्मादुत्तमे वयसि पुत्रान् पितोपजीवति य एवं वेद (१,४.१७ ) तदप्येतदृचोक्तं <शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् । पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः [ऋV १.८९.९]>इति (१,४.१७ ) उप ह वा एनं पूर्वे वयसि पुत्राः पितरमुपजीवन्त्युपोत्तमे वयसि पुत्रान् पितोपजीवति य एवं वेद ॥ १७ ॥ (१,४.१८ ) अथ हैष महासुपर्णस् (१,४.१८ ) तस्य यान् पुरस्ताद्विषुवतः षण्मासानुपयन्ति स दक्षिणः पक्षः (१,४.१८ ) अथ यानावृत्तानुपरिष्टात्षडुपयन्ति स उत्तरः पक्षः (१,४.१८ ) आत्मा वै संवत्सरस्य विषुवानङ्गानि पक्षौ (१,४.१८ ) यत्र वा आत्मा तत्पक्षौ (१,४.१८ ) यत्र वै पक्षौ तदात्मा (१,४.१८ ) न वा आत्मा पक्षावतिरिच्यते (१,४.१८ ) नो पक्षावात्मानमतिरिच्येते इति (१,४.१८ ) एवमु हैव तदपरेषां स्विदितमह्नां परेषामित्यपरेषां चैव परेषां चेति ब्रूयात् ॥ १८ ॥ [एद्. बूयात्] (१,४.१९ ) तदाहुर्यद्द्वादश मासाः संवत्सरोऽथ हैतदहरवाप्नुयामेति (१,४.१९ ) यद्वैषुवतमपरेषां स्विदितमहां परेषामिति (१,४.१९ ) अपरेषां चैव परेषां चेति ब्रूयात् (१,४.१९ ) आत्मा वै संवत्सरस्य विषुवानङ्गानि मासाः (१,४.१९ ) यत्र वा आत्मा तदङ्गानि (१,४.१९ ) यत्राङ्गानि तदात्मा (१,४.१९ ) न वा आत्माङ्गान्यतिरिच्यते नोऽङ्गान्यात्मानमतिरिच्यन्त इति (१,४.१९ ) एवमु हैव तदपरेषां स्विदितमह्नां परेषामित्यपरेषां चैव परेषां चेति ब्रूयात् (१,४.१९ ) स वा एष संवत्सरः ॥ १९ ॥ (१,४.२० ) तदाहुः कथमुभयतोज्योतिषोऽभिप्लवा अन्यतरतोज्योतिः पृष्ठ्य इति (१,४.२० ) उभयतोज्योतिषो वा इमे लोका अग्निनेत आदित्येनामुत इति (१,४.२० ) एष ह वा एतेषां ज्योतिर्य एनं प्रमृदीव तपति (१,४.२० ) देवचक्रे ह वा एते पृष्ठ्यप्रतिष्ठिते पाप्मानं तृंहती परिप्लवेते (१,४.२० ) तद्य एवंविदुषां दीक्षितानां पापकं कीर्तयदेते एवास्य तद्देवचक्रे शिरश्छिन्दतः (१,४.२० ) दशरात्रमुद्धिः (१,४.२० ) पृष्ठ्याभिप्लवौ चक्रे (१,४.२० ) दशरात्रमुद्धिं पृष्ठ्याभिप्लवौ चक्रे तन्त्रं कुर्वीतेति ह स्माह वास्युस् (१,४.२० ) तयो स्तोत्राणि च शस्त्राणि च संचारेयत् (१,४.२० ) यः संचारयेत्तस्मादिमे पुरुषे प्राणा नाना सन्त एकोदयाच्छरीरमधिवसति यन्न संचारयेत्प्रमायुको ह यजमानः स्यात् (१,४.२० ) एष ह वै प्रमायुको योऽन्धो वा बधिरो वा (१,४.२० ) नवाग्निष्टोमा मासि संपद्यन्ते (१,४.२० ) नव वै प्राणाः (१,४.२० ) प्राणैर्यज्ञस्तायते (१,४.२० ) एकविंशतिरुक्थ्याः (१,४.२० ) एक उक्थ्यः षोडशी (१,४.२० ) अन्नं वा उक्थ्यः (१,४.२० ) वीर्यं षोडश्येव (१,४.२० ) तथा रूढ्वा स्वर्गं लोकमध्यारोहन्ति ॥ २० ॥ (१,४.२१ ) अथातोऽह्नामध्यारोहः (१,४.२१ ) प्रायणीयेनातिरात्रेणोदयनीयमतिरात्रमध्यारोहन्ति चतुर्विंशेन महाव्रतम् (१,४.२१ ) अभिप्लवेन परमभिप्लवम् (१,४.२१ ) पृष्ठ्येन परं पृष्ठ्यम् (१,४.२१ ) अभिजिताभिजितं स्वरसामभिः परान्त्स्वरसामानः (१,४.२१ ) अथैतदहरवाप्नुयामेति यद्वैषुवतमपरेषां स्विदितमह्नां परेषामित्यपरेषां चैव परेषां चेति ब्रूयात् (१,४.२१ ) स वा एष संवत्सरः ॥ २१ ॥ (१,४.२२ ) अथातोऽह्नां निवाहः (१,४.२२ ) प्रायणीयोऽतिरात्रश्चतुर्विंशायाह्ने निवहति (१,४.२२ ) चतुर्विंशमहरभिप्लवाय (१,४.२२ ) अभिप्लवः पृष्ठ्याय (१,४.२२ ) पृष्ठ्योऽभिजिते (१,४.२२ ) अभिजित्स्वरसामभ्यः (१,४.२२ ) स्वरसामानो विषुवते (१,४.२२ ) विषुवान्त्स्वरसामभ्यः (१,४.२२ ) स्वरसामनो विश्वजिते (१,४.२२ ) विश्वजित्पृष्ठ्याभिप्लवाभ्याम् (१,४.२२ ) पृष्ठ्याभिप्लवौ गवायुर्भ्याम् (१,४.२२ ) गवायुषी दशरात्राय (१,४.२२ ) दशरात्रो महाव्रताय (१,४.२२ ) महाव्रतमुदनीयायातिरात्राय (१,४.२२ ) उदयनीयोऽतिरात्रः स्वर्गाय लोकायान्नाद्याय प्रतिष्ठित्यै ॥ २२ ॥ [एद्.ऽतिरत्रः] (१,४.२३ ) आदित्याश्च ह वा अङ्गिरसश्च स्वर्गे लोकेऽस्पर्धन्त वयं पूर्वे स्वरेष्यामो वयं पूर्व इति (१,४.२३ ) त आदित्या लघुभिः सामभिश्चतुर्भि स्तोमैर्द्वाभ्यां पृष्ठ्याभ्यां स्वर्गं लोकमभ्यप्लवन्त (१,४.२३ ) यदभ्यप्लवन्त तस्मादभिप्लवः (१,४.२३ ) अन्वञ्च एवाङ्गिरसो गुरुभिः सामभिः सर्वै स्तोमैः सर्वैः पृष्ठ्यैः स्वर्गं लोकमभ्यस्पृशन्त (१,४.२३ ) यदभ्यस्पृशन्त तस्मात्स्पृश्यस् (१,४.२३ ) तं वा एतं स्पृश्यं सन्तं पृष्ठ्य इत्याचक्षते परोक्षेण (१,४.२३ ) परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः (१,४.२३ ) अभिप्लवात्पृष्ठ्यो निर्मितः (१,४.२३ ) पृष्ठ्यादभिजित् (१,४.२३ ) अभिजितः स्वरसामानः (१,४.२३ ) स्वरसामभ्यो विषुवान् (१,४.२३ ) विषुवतः स्वरसामानः (१,४.२३ ) स्वरसामभ्यो विश्वजित् (१,४.२३ ) विश्वजितः पृष्ठ्याभिप्लवौ (१,४.२३ ) पृष्ठ्याभिप्लवाभ्यां गवायुषी (१,४.२३ ) गवायुर्भ्यां दशरात्रस्[एद्. दशरत्रस्] (१,४.२३ ) तानि ह वा एतानि यज्ञारण्यानि यज्ञकृन्तत्राणि (१,४.२३ ) तेषां शतंशतं रथानान्यन्तरं तद्यथारण्यान्यारूढा अशनापिपासे ते पाप्मानं तृंहती परिप्लवेते (१,४.२३ ) एवं हैवैते प्रप्लवन्ते येऽविद्वांस उपयन्त्यि (१,४.२३ ) अथ ये विद्वांस उपयन्ति तद्यथा प्रवाहात्प्रवाहं स्थलात्स्थलं समात्समं सुखात्सुखमभयादभयमुपसंक्रामन्तीत्येवं हैवैते संवत्सरस्योदृचं समश्नवामहा इति ब्राह्मणम् ॥ २३ ॥ (१,४.२४ ) प्रेदिर्ह वै कौशाम्बेयः कौसुरुबिन्दुरुद्दालक आरुणौ ब्रह्मचर्यमुवास (१,४.२४ ) तमाचार्यः पप्रच्छ कुमार कति ते पिता संवत्सरस्याहान्यमन्यतेति (१,४.२४ ) कति त्वेवेति (१,४.२४ ) दशेति होवाच (१,४.२४ ) दश वा इति होवाच (१,४.२४ ) दशाक्षरा विराड्विराजो यज्ञः (१,४.२४ ) कति त्वेवेति (१,४.२४ ) नवेति होवाच (१,४.२४ ) नव वा इति होवाच (१,४.२४ ) नव वै प्राणाः (१,४.२४ ) प्राणैर्यज्ञस्तायते (१,४.२४ ) कति त्वेवेति (१,४.२४ ) अष्टेति होवाच (१,४.२४ ) अष्टौ वा इति होवाच (१,४.२४ ) अष्टाक्षरा गायत्री (१,४.२४ ) गायत्री यज्ञः (१,४.२४ ) कति त्वेवेति (१,४.२४ ) सप्तेति होवाच (१,४.२४ ) सप्त वा इति होवाच (१,४.२४ ) सप्त छन्दांसि (१,४.२४ ) छन्दोभिर्यज्ञस्तायते (१,४.२४ ) कति त्वेवेति (१,४.२४ ) षडिति होवाच (१,४.२४ ) षड्वा इति होवाच (१,४.२४ ) षड्वा ऋतवः (१,४.२४श्) ऋतूनामाप्त्यै (१,४.२४ अ) कति त्वेवेति (१,४.२४ ब्) पञ्चेति होवाच (१,४.२४ च्) पञ्च वा इति होवाच (१,४.२४ द्) पञ्चपदा पङ्क्तिः (१,४.२४ ए) पाङ्क्तो यज्ञः (१,४.२४ f) कति त्वेवेति (१,४.२४ ग्) चत्वारीति होवाच (१,४.२४ ह्) चत्वारि वा इति होवाच (१,४.२४ इ) चत्वारो वै वेदाः (१,४.२४ ज्) वेदैर्यज्ञस्तायते (१,४.२४ क्) कति त्वेवेति (१,४.२४ ल्) त्रीणीति होवाच (१,४.२४ म्) त्रीणि वा इति होवाच (१,४.२४ न्) त्रिषवणो वै यज्ञः (१,४.२४ ओ) सवनैर्यज्ञस्तायते (१,४.२४ प्) कति त्वेवेति (१,४.२४ ॠ) द्वे इति होवाच (१,४.२४ र्) द्वे वा इति होवाच (१,४.२४ स्) द्विपाद्वै पुरुषः (१,४.२४ त्) द्विप्रतिष्ठः पुरुषः (१,४.२४ उ) पुरुषो वै यज्ञः (१,४.२४ व्) कति त्वेवेति (१,४.२४ w) एकमिति होवाच (१,४.२४ x) एकं वा इति होवाच (१,४.२४ य्) अहरहरित्येव सर्वं संवत्सरम् ॥ २४ ॥ (१,४.२४ ओल्) इत्यथर्ववेदे गोपथब्राह्मणपूर्वभागे चतुर्थः प्रपाठकः ॥ (१,५.१ ) ओमभिप्लवः षडहः (१,५.१ ) षड्ढ्यहानि भवन्ति ज्योतिर्गौरायुर्गौरायुर्ज्योतिः (१,५.१ ) अभिप्लवः पञ्चाहः (१,५.१ ) पञ्च ह्येवाहानि भवन्ति (१,५.१ ) यद्ध्येव प्रथममहस्तदुत्तममहः (१,५.१ ) अभिप्लवश्चतुरहः (१,५.१ ) चत्वारो हि स्तोमा भवन्ति त्रिवृत्पञ्चदशः सप्तदश एकविंश एव (१,५.१ ) अभिप्लवस्त्र्यहस् (१,५.१ ) त्र्यावृत्तिर्ज्योतिर्गौरायुः (१,५.१ ) अभिप्लवो द्व्यहः (१,५.१ ) द्वे ह्येव सामनी भवतो बृहद्रथन्तरे एव (१,५.१ ) अभिप्लव एकाह (१,५.१ ) एकाहस्य हि स्तोमैस्तायते (१,५.१ ) चतुर्णामुक्थ्यानां द्वादश स्तोत्राण्यतिरिच्यन्ते (१,५.१ ) स सप्तमोऽग्निष्टोमस् (१,५.१ ) तथा खलु सप्ताग्निष्टोमा मासि संपद्यन्त इति ब्राह्मणम् ॥ १ ॥ (१,५.२ ) अथातो गाधप्रतिष्ठा (१,५.२ ) समुद्रं वा एते प्रतरन्ति ये संवत्सराय दीक्षन्ते (१,५.२ ) तेषां तीर्थमेव प्रायणीयोऽतिरात्रस् (१,५.२ ) तीर्थेन हि प्रतरन्ति (१,५.२ ) तद्यथा समुद्रं तीर्थेन प्रतरेयुस्तादृक्तत् (१,५.२ ) गाधं प्रतिष्ठा चतुर्विंशमहर्यथोपकक्षदग्धं वा कण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस्तादृक्तत् (१,५.२ ) प्रस्नयोऽभिप्लवः (१,५.२ ) प्रस्नेयः पृष्ठ्यः (१,५.२ ) गाधं प्रतिष्ठाभिजिद्यथोपकक्षदग्धं वा कण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस्तादृक्तत् (१,५.२ ) नीविदग्ध एव प्रथमः स्वरसामा (१,५.२ ) जानुदग्धो द्वितीयः (१,५.२ ) कुल्फदग्धस्तृतीयः (१,५.२ ) द्वीपः प्रतिष्ठा विषुवान् यथोपकक्षदग्धं वा कण्ठदन्घं वा यतो विश्रम्य प्रस्नायेयुस्तादृक्तत् (१,५.२ ) कुल्फदग्ध एव प्रथमोऽर्वाक्स्वरसामा (१,५.२ ) जानुदग्धो द्वितीयः (१,५.२ ) नीविदग्धस्तृतीयः (१,५.२ ) गाधं प्रतिष्ठा विश्वजिद्यथोपकक्षदग्धं वा कण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस्तादृक्तत् (१,५.२ ) प्रस्नेयः पृष्ठ्यः प्रस्नेयोऽभिप्लवः प्रस्नेये गवायुषी प्रस्नेयो दशरात्रः (१,५.२ ) गाधं प्रतिष्ठा महाव्रतं यथोपकक्षदग्धं वा क्ण्ठदग्धं वा यतो विश्रम्य प्रस्नायेयुस्तादृक्तत् (१,५.२ ) तेषां तीर्थमेवोदयनीयोऽतिरात्रस् (१,५.२ ) तीर्थेन ह्युद्यन्ति (१,५.२ ) तद्यथा समुद्रं तीर्थेनोदेयुस्तादृक्तत् (१,५.२ ) अथ ह स्माह श्वेतकेतुरारुणेयः संवत्सराय न्वहं दीक्षा इति [एद्. दिक्षा] (१,५.२ ) तस्य ह पिता मुखमुदीक्ष्योवाच वेत्थ नु त्वमायुष्मन्त्संवत्सरस्य गाधप्रतिष्ठे इति [एद्. वत्थ, चोर्र्. ড়त्यल्] (१,५.२ ) वेदेति (१,५.२श्) एतद्ध स्मैतद्विद्वानाहेति ब्राह्मणम् ॥ २ ॥ (१,५.३ ) पुरुषो वाव संवत्सरस् (१,५.३ ) तस्य पादावेव प्रायणीयोऽतिरात्रः (१,५.३ ) पादाभ्यां हि प्रयन्ति तयोर्यच्छुक्लं तदह्नो रूपम् (१,५.३ ) यत्कृष्णं तद्रात्रेः (१,५.३ ) नखानि नक्षत्राणां रूपम् (१,५.३ ) लोमान्योषधिवनस्पतीनाम् (१,५.३ ) ऊरू चतुर्विंशमहः (१,५.३ ) उरोऽभिप्लवः (१,५.३ ) पृष्ठं पृष्ठ्यः (१,५.३ ) शिर एव त्रिवृत्त्रिवृतं ह्येव शिरो भवति त्वगस्थि मज्जा मस्तिष्कम् (१,५.३ ) ग्रीवाः पञ्चदशश्चतुर्दश ह्येवैतस्यां करूकराणि भवन्ति (१,५.३ ) वीर्यं पञ्चदशम् (१,५.३ ) तस्मादाभिरण्वीभिः सतीभिर्गुरुं भारं हरति (१,५.३ ) तस्माद्ग्रीवाः पञ्चदशः (१,५.३ ) उरः सप्तदश. (१,५.३ ) अष्टावन्ये जत्रवोऽष्टावन्य उरः सप्तदशम् (१,५.३ ) तस्मादुरः सप्तदशः (१,५.३ ) उदरमेकविंशः (१,५.३ ) विंशतिर्ह्येवैतस्यान्तर उदरे कुन्तापानि भवन्त्युदरमेकविंशम् (१,५.३ ) तस्मादुदरमेकविंशः (१,५.३ ) पार्श्वे त्रिणवस् (१,५.३ ) त्रयोदशान्याः पर्शवस्त्रयोदशान्याः पार्श्वे त्रिणवे (१,५.३ ) तस्मात्पार्श्वे त्रिणवः (१,५.३ ) अनूकं त्रयस्त्रिंशः (१,५.३ ) द्वात्रिंशतिर्ह्येवैतस्य पृष्टीकुण्डीलानि भवन्ति (१,५.३श्) अनूकं त्रयस्त्रिशम् (१,५.३ अ) तस्मादनूकं त्रयस्त्रिंशस् (१,५.३ ब्) तस्यायमेव दक्षिणो बाहुरभिजित् (१,५.३ च्) तस्येमे दक्षिणे त्रयः प्राणाः स्वरसामानः (१,५.३ द्) आत्मा विषुवान् (१,५.३ ए) तस्येमे सव्ये त्रयः प्राणा अर्वाक्स्वरसामानस् (१,५.३ f) तस्यायं सव्यो बाहुर्विश्वजित् (१,५.३ ग्) उक्तौ पृष्ठ्याभिप्लवौ (१,५.३ ह्) याववाञ्चौ प्राणौ ते गवायुषी (१,५.३ इ) अङ्गानि दशरात्रः (१,५.३ ज्) मुखं महाव्रतम् (१,५.३ क्) तस्य हस्तावेवोदयनीयोऽतिरात्रः (१,५.३ ल्) हस्ताभ्यां ह्युद्यन्ति ॥ ३ ॥ (१,५.४ ) पुरुषो वाव संवत्सरस् (१,५.४ ) तस्य प्राण एव प्रायणीयोऽतिरात्रः (१,५.४ ) प्राणेन हि प्रयन्ति (१,५.४ ) वागारम्भणीयमहः (१,५.४ ) यद्यदारभते वागारभते (१,५.४ ) वाचैव तदारभते (१,५.४ ) तस्यायमेव दक्षिणः पाणिरभिप्लवस् (१,५.४ ) तस्येदं प्रातःसवनमिदं माध्यन्दिनं सवनमिदं तृतीयसवनम् (१,५.४ ) गायत्र्या आयतने (१,५.४ ) तस्मादियमस्यै ह्रसिष्ठा (१,५.४ ) तस्येदं प्रातःसवनमिदं माध्यन्दिनं सवनमिदं तृतीयसवनम् (१,५.४ ) त्रिष्टुभ आयतने (१,५.४ ) तस्मादियमस्यै वरिष्ठा (१,५.४ ) तस्येदं प्रातःसवनमिदं माध्यन्दिनं सवनमिदं तृतीयसवनम् (१,५.४ ) जगत्या आयतने (१,५.४ ) तस्मादियमनयोर्वरिष्ठा (१,५.४ ) तस्येदं प्रातःसवनमिदं माध्यन्दिनं सवनमिदं तृतीयसवनम् (१,५.४ ) पङ्क्त्या आयतने (१,५.४ ) पृथुरिव वै पङ्क्तिस् (१,५.४ ) तस्मादियमासां प्रथिष्ठा (१,५.४ ) तस्येदं प्रातःसवनमिदं माध्यन्दिनं सवनमिदं तृतीयसवनम् (१,५.४ ) विराज आयतने (१,५.४ ) अन्नं वै श्रीः (१,५.४ ) विराडन्नाद्यम् (१,५.४ ) अन्न्नाद्यस्य श्रियोऽवरुद्ध्यै (१,५.४श्) तस्मादियमासां वरिष्ठा (१,५.४ अ) तस्येदं प्रातःसवनमिदं माध्यन्दिनं सवनमिदं तृतीयसवनम् (१,५.४ ब्) अतिछन्दस आयतने (१,५.४ च्) अतिछन्दो वै छन्दसामायतनम् (१,५.४ द्) तस्मादिदं प्रथिष्ठं फलकम् (१,५.४ ए) तस्येदं प्रातःसवनमिदं माध्यन्दिनं सवनमिदं तृतीयसवनम् (१,५.४ f) स इतः स इतोऽभिप्लवः स इत आत्मा पृष्ठ्यः (१,५.४ ग्) प्लवतीवाभिप्लवस् (१,५.४ ह्) तिष्ठतीव पृष्ठ्यः (१,५.४ इ) प्लवत इव ह्येवमङ्गैस् (१,५.४ ज्) तिष्ठतीवात्मना (१,५.४ क्) तस्यायमेव दक्षिणः कर्णोऽभिजित् (१,५.४ ल्) तस्य यद्दक्षिणमक्ष्णः शुक्लं स प्रथमः स्वरसामा (१,५.४ म्) यत्कृष्णं स द्वितीयः (१,५.४ न्) यन् मण्डलं स तृतीयः (१,५.४ ओ) नासिके विषुवान् मण्डलमेव प्रथमोऽर्वाक्स्वरसामा (१,५.४ प्) यत्कृष्णं स द्वितीयः (१,५.४ ॠ) यच्छुक्लं स तृतीयस् (१,५.४ र्) तस्यायं सव्यः कर्णो विश्वजित् (१,५.४ स्) उक्तौ पृष्ठ्याभिप्लवौ (१,५.४ त्) याववाञ्चौ प्राणौ ते गवायुषी (१,५.४ उ) अङ्गानि दशरात्रः (१,५.४ व्) मुखं महाव्रतम् (१,५.४ w) तस्योदान एवोदयनीयोऽतिरात्रः (१,५.४ x) उदानेन ह्युद्यन्ति ॥ ४ ॥ (१,५.५ ) पुरुषो वाव संवत्सरः (१,५.५ ) पुरुष इत्येकम् (१,५.५ ) संवत्सर इत्येकम् (१,५.५ ) अत्र तत्समम् (१,५.५ ) द्वे अहोरात्रे संवत्सरस्य (१,५.५ ) द्वाविमौ पुरुषे प्राणाविति (१,५.५ ) अत्र तत्समम् (१,५.५ ) त्रयो वा ऋतवः संवत्सरस्य (१,५.५ ) त्रय इमे पुरुषे प्राणा इति (१,५.५ ) अत्र तत्समम् (१,५.५ ) षड्वा ऋतवः संवत्सरस्य (१,५.५ ) षडिमे पुरुषे प्राणा इति (१,५.५ ) अत्र तत्समम् (१,५.५ ) सप्त वा ऋतवः संवत्सरस्य (१,५.५ ) सप्तेमे पुरुषे प्राणा इति (१,५.५ ) अत्र तत्समम् (१,५.५ ) द्वादश मासाः संवत्सरस्य (१,५.५ ) द्वादशेमे पुरुषे प्राणा इति (१,५.५ ) अत्र तत्समम् (१,५.५ ) त्रयोदश मासाः संवत्सरस्य (१,५.५ ) त्रयोदशेमे पुरुषे प्राणा इति (१,५.५ ) अत्र तत्समम् (१,५.५ ) चतुर्विंशतिरर्धमासाः संवत्सरस्य (१,५.५ ) चतुर्विंशोऽयं पुरुषः (१,५.५ ) विंशत्यङ्गुलिश्चतुरङ्ग इति (१,५.५श्) अत्र तत्समम् (१,५.५ अ) षड्विंशतिरर्धमासाः संवत्सरस्य (१,५.५ ब्) षड्विंशोऽयं पुरुषः (१,५.५ च्) प्रतिष्ठे षड्विंशे इति (१,५.५ द्) अत्र तत्समम् (१,५.५ ए) त्रीणि च ह वै शतानि षष्टिश्च संवत्सरस्याहोरात्राणीति (१,५.५ f) एतावन्त एव पुरुषस्य प्राणा इति (१,५.५ ग्) अत्र तत्समम् (१,५.५ ह्) सप्त च ह वै शतानि विंशतिश्च संवत्सरस्याहानि च रात्रयश्चेति (१,५.५ इ) एतावन्त एव पुरुषस्यास्थीनि च मज्जानश्चेति (१,५.५ ज्) अत्र तत्समम् (१,५.५ क्) चतुर्दश च ह वै शतानि चत्वारिंशच्च संवत्सरस्यार्धाहाश्चार्धरात्रयश्चेति (१,५.५ ल्) एतावन्त एव पुरुषस्य स्थूरा मांसानीति (१,५.५ म्) अत्र तत्समम् (१,५.५ न्) अष्टाविंशतिश्च ह वै शतान्यशीतिश्च संवत्सरस्य पादाहाश्च पादरात्रयश्चेति (१,५.५ ओ) एतावन्त एव पुरुषस्य स्नावा बन्ध्या इति (१,५.५ प्) अत्र तत्समम् (१,५.५ ॠ) दश च ह वै सहस्राण्यष्टौ च शतानि संवत्सरस्य मुहूर्ता इति (१,५.५ र्) एतावन्त एव पुरुषस्य पेशशमरा इति (१,५.५ स्) अत्र तत्समम् (१,५.५ त्) यावन्तो मुहूर्ताः पञ्चदश कृत्वस्तावन्तः प्राणाः (१,५.५ उ) यावन्तः प्राणाः पञ्चदश कृत्वस्तावन्तोऽपानाः (१,५.५ व्) यावन्तोऽपानाः पञ्चदश कृत्वस्तावन्तो व्यानाः (१,५.५ w) यावन्तो व्यानाः पञ्चदश कृत्वस्तावन्तः समानाः (१,५.५ x) यावन्तः समानाः पञ्चदश कृत्वस्तावन्त उदानाः (१,५.५ य्) यावन्त उदानाः पञ्चदश कृत्वस्तावन्त्येतादीनि (१,५.५श्श्) यावन्त्येतादीनि तावन्त्येतर्हीणि (१,५.५ अअ) यावन्त्येतर्हीणि तावन्ति स्वेदायनानि (१,५.५ ब्ब्) यावन्ति स्वेदायनानि तावन्ति क्षिप्रायणानि (१,५.५ च्च्) यावन्ति क्षिप्रायणानि तावन्तो रोमकूपाः (१,५.५ द्द्) यावन्तो रोमकूपाः पञ्चदश कृत्वस्तावन्तो वर्षतो धारास् (१,५.५ एए) तदेतत्क्रोशशतिकं परिमाणम् (१,५.५ ff) तदप्येतदृचोक्तं <श्रमादन्यत्र परिवर्तमानश्चरन् वासीनो यदि वा स्वपन्नपि । अहोरात्राभ्यां पुरुषः क्षणेन कति कृत्वः प्राणिति चापानीति च शतं शतानि परिवत्सराणामष्टौ च शतानि संवत्सरस्य मुहूर्तान् यान् वदन्त्यहोरात्राभ्यां पुरुषः समेन कति कृत्वः प्राणिति चापानीति च [श्Bं १२.३.२.७८]>इति ब्राह्मणम् ॥ ५ ॥ (१,५.६ ) संवत्सरस्य समता वेदितव्येति ह स्माह वास्युः (१,५.६ ) एकमेव पुरस्ताद्विषुवतोऽतिरात्रमुपयन्त्येकमुपरिष्टात् (१,५.६ ) त्रिपञ्चाशतमेव पुरस्ताद्विषुवतोऽग्निष्टोमानुपयन्ति त्रिपञ्चाशतमुपरिष्टात् (१,५.६ ) विंशतिशतमेव पुरस्ताद्विषुवत उक्थ्यानुपयन्ति विंशतिशतमुपरिष्टात् (१,५.६ ) षडेव पुरस्ताद्विषुवतः षोडशिन उपयन्ति षडुपरिष्टात् (१,५.६ ) त्रिंशदेव पुरस्ताद्विषुवतः षडहानुपयन्ति त्रिंशदुपरिष्टात् (१,५.६ ) सैषा संवत्सरस्य समता (१,५.६ ) स य एवमेतां संवत्सरस्य समतां वेद संवत्सरेण सात्मा सलोको भूत्वा देवानप्येतीति ब्रह्मणम् ॥ ६ ॥ (१,५.७ ) अथातो यज्ञक्रमाः (१,५.७ ) अग्न्याधेयम् (१,५.७ ) अग्न्याधेयात्पूर्णाहुतिः (१,५.७ ) पूर्णहुतेरग्निहोत्रम् (१,५.७ ) अग्निहोत्राद्दर्शपूर्णमासौ (१,५.७ ) दर्शपूर्णमासाभ्यामाग्रयणम् (१,५.७ ) आग्रयणाच्चातुर्मास्यानि (१,५.७ ) चातुर्मास्येभ्यः पशुबन्धः (१,५.७ ) पशुबन्धादग्निष्टोमः (१,५.७ ) अग्निष्टोमाद्राजसूयः (१,५.७ ) राजसूयाद्वाजपेयः (१,५.७ ) वाजपेयादश्वमेधः (१,५.७ ) अश्वमेधात्पुरुषमेधः (१,५.७ ) पुरुषमेधात्सर्वमेधः (१,५.७ ) सर्वमेधाद्दक्षिणावन्तः (१,५.७ ) दक्षिणावद्भ्योऽदक्षिणाः (१,५.७ ) अदक्षिणाः सहस्रदक्षिणे प्रत्यतिष्ठन् (१,५.७ ) ते वा एते यज्ञक्रमाः (१,५.७ ) स य एवमेतान् यज्ञक्रमान् वेद यज्ञेन सात्मा सलोको भूत्वा देवानप्येतीति ब्राह्मणम् ॥ ७ ॥ (१,५.८ ) प्रजापतिरकामयतानन्त्यमश्नुवीयेति (१,५.८ ) सोऽग्नीनाधाय पूर्णाहुत्यायजत (१,५.८ ) सोऽन्तमेवापश्यत् (१,५.८ ) सोऽग्निहोत्रेणेष्ट्वान्तमेवापश्यत् (१,५.८ ) स दर्शपूर्णमासाभ्यामिष्ट्वान्तमेवापश्यत् (१,५.८ ) स आग्रयणेनेष्ट्वान्तमेवापश्यत् (१,५.८ ) स चातुर्मास्यैरिष्ट्वान्तमेवापश्यत् (१,५.८ ) स पशुबन्धेनेष्ट्वान्तमेवापश्यत् (१,५.८ ) सोऽग्निष्टोमेनेष्ट्वान्तमेवापश्यत् (१,५.८ ) स राजसूयेनेष्ट्वा राजेति नामाधत्त (१,५.८ ) सोऽन्तमेवापश्यत् (१,५.८ ) स वाजपेयेनेष्ट्वा सम्राडिति नामाधत्त (१,५.८ ) सोऽन्तमेवापश्यत् (१,५.८ ) सोऽश्वमेधेनेष्ट्वा स्वराडिति नामाधत्त (१,५.८ ) सोऽन्तमेवापश्यत् (१,५.८ ) स पुरुषमेधेनेष्ट्वा विराडिति नामाधत्त (१,५.८ ) सोऽन्तमेवापश्यत् (१,५.८ ) स सर्वमेधेनेष्ट्वा सर्वराडिति नामाधत्त (१,५.८ ) सोऽन्तमेवापश्यत् (१,५.८ ) सोऽहीनैर्दक्षिणावद्भिरिष्ट्वान्तमेवापश्यत् (१,५.८ ) सोऽहीनैरदक्षिणावद्भिरिष्ट्वान्तमेवापश्यत् (१,५.८ ) स सत्त्रेणोभयतोऽतिरात्रेणान्ततोऽयजत (१,५.८ ) वाचं ह वै होत्रे प्रायच्छत् (१,५.८ ) प्राणमध्वर्यवे चक्षुरुद्गात्रे मनो ब्रह्मणेऽङ्गानि होत्रकेभ्य आत्मानं सदस्येभ्यः (१,५.८ ) एवमानन्त्यमात्मानं दत्त्वानन्त्यमाश्नुत (१,५.८श्) तद्या दक्षिणा आनयत्ताभिरात्मानं निष्क्रीणीय (१,५.८ अ) तस्मादेतेन ज्योतिष्टोमेनाग्निष्टोमेनात्मनिष्क्रयणेन सहस्रदक्षिणेन पृष्ठशमनीयेन त्वरेत (१,५.८ ब्) यो ह्यनिष्ट्वा पृष्ठशमनीयेन प्रैत्यात्मानं सोऽनिष्क्रीय प्रैतीति ब्राह्मणम् ॥ ८ ॥ (१,५.९ ) यद्वै संवत्सराय संवत्सरसदो दीक्षन्ते कथमेषामग्निहोत्रमनन्तरितं भवति (१,५.९ ) व्रतेतेति ब्रूयात् (१,५.९ ) कथमेषां दर्शोऽनन्तरितो भवति (१,५.९ ) दध्ना च पुरोडाशेन चेति ब्रूयात् (१,५.९ ) कथमेषां पौर्णमासमनन्तरितं भवति (१,५.९ ) आज्येन च पुरोडाशेन चेति ब्रूयात् (१,५.९ ) कथमेषामाग्रयणमनन्तरितं भवति (१,५.९ ) सौम्येन चरुणेति ब्रूयात् (१,५.९ ) कथमेषां चातुर्मास्यान्यनन्तरितानि भवन्ति (१,५.९ ) पयस्ययेति ब्रूयात् (१,५.९ ) कथमेषां पशुबन्धोऽनन्तरितो भवति (१,५.९ ) पशुना च पुरोडाशेन चेति ब्रूयात् (१,५.९ ) कथमेषां सौम्योऽध्वरोऽनन्तरितो भवति (१,५.९ ) ग्रहैरिति ब्रूयात् (१,५.९ ) कथमेषां गृहमेधोऽनन्तरितो भवति (१,५.९ ) धानाकरम्भैरिति ब्रूयात् (१,५.९ ) कथमेषां पितृयज्ञोऽनन्तरितो भवति (१,५.९ ) औपासनैरिति ब्रूयात् (१,५.९ ) कथमेषां मिथुनमनन्तरितं भवति (१,५.९ ) हिंकारेनेति ब्रूयात् (१,५.९ ) सैषा संवत्सरे यज्ञक्रतूनामपीतिः (१,५.९ ) स य एवमेतां संवत्सरे यज्ञक्रतूनामपीतिं वेद यज्ञेन सात्मा सलोको भूत्वा देवानप्येतीति ब्राह्मणम् ॥ ९ ॥ (१,५.१० ) देवा ह वै सहस्रसंवत्सराय दिदीक्षिरे (१,५.१० ) तेषां पञ्च शतानि संवत्सराणां पर्युपेतान्यासन्नथेदं सर्व शश्राम ये स्तोमा यानि पृष्ठानि यानि शस्त्राणि (१,५.१० ) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा (१,५.१० ) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति (१,५.१० ) तदयातयाम मध्ये यज्ञस्यापश्यन् (१,५.१० ) तेनायातयाम्ना या वेदे व्यष्टिरासीत्तां पञ्चस्वपश्यन्नृचि यजुषि साम्नि शान्तेऽथ घोरे (१,५.१० ) ता वा एताः पञ्च व्याहृतयो भवन्त्यो श्रावयास्तु श्रौषड्यज ये यजामहे वौषडिति (१,५.१० ) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा [एद्. दवा] (१,५.१० ) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति (१,५.१० ) तत एतं तापश्चितं सहस्रसंवत्सरस्याञ्जस्यमपश्यन् (१,५.१० ) ते ह्येव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि (१,५.१० ) स खलु द्वादश मासान् दीक्षाभिरेति द्वादशमासानुपसद्भिर्द्वाशमासांत्सुत्याभिः (१,५.१० ) अथ यद्द्वादश मासान् दीक्षाभिरेति द्वादशमासानुपसद्भिस्तेनैतावग्न्यर्कावाप्नोति (१,५.१० ) अथ यद्द्वादश मासांत्सुत्याभिस्तेनेदं महदुक्थमवाप्नोति (१,५.१० ) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा (१,५.१० ) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति (१,५.१० ) तत एतं संवत्सरंं तापश्चितस्याञ्जस्यमपश्यन् (१,५.१० ) ते ह्येव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि (१,५.१० ) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा (१,५.१० ) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति (१,५.१० ) तत एतं द्वादशाहं संवत्सरस्याञ्जस्यमपश्यन् (१,५.१० ) ते ह्येव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि (१,५.१० ) स खलु द्वादशाहं दीक्षाभिरेति द्वादशाहमुपसद्भिर्द्वादशाहं सुत्याभिः (१,५.१० ) अथ यद्द्वादशाहं दीक्षाभिरेति द्वादशाहमुपसद्भिस्तेनैतावग्न्यर्कावाप्नोति (१,५.१० ) अथ यद्द्वादशाहं सुत्याभिस्तेनेदं महदुक्थमवाप्नोति (१,५.१०श्) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा [एद्. इहसमिवासुरुप] (१,५.१० अ) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति (१,५.१० ब्) तत एतं पृष्ठ्यं षडहं द्वादशाहस्याञ्जस्यमपश्यन् (१,५.१० च्) ते ह्येव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि (१,५.१० द्) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा (१,५.१० ए) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति (१,५.१० f) तत एतं विश्वजितं पृष्ठ्यषडहस्याञ्जस्यमपश्यन् (१,५.१० ग्) ते ह्येव स्तोमा भवन्ति तानि पृष्ठानि तानि शस्त्राणि (१,५.१० ह्) ते देवा इहसामिवासुरुप तं यज्ञक्रतुं जानीमो यः सहस्रसंवत्सरस्य प्रतिमा (१,५.१० इ) को हि तस्मै मनुष्यो यः सहस्रसंवत्सरेण यजेतेति (१,५.१० ज्) स वा एष विश्वजिद्यः सहस्रसंवत्सरस्य प्रतिमा (१,५.१० क्) एष ह प्रजानां प्रजापतिर्यद्विश्वजिदिति ब्राह्मणम् ॥ १० ॥ (१,५.११ ) पुरुषं ह वै नारायणं प्रजापतिरुवाच यजस्य यजस्वेति (१,५.११ ) स होवाच यजस्व यजस्वेत्येवं हात्थ मा (१,५.११ ) त्रिरपि क्षत मे वसवः प्रातःसवनेनागू रुद्रा माध्यंदिनसवनेनादित्यास्तृतीयसवनेन (१,५.११ ) यज्ञवास्तुन्येव पर्यशिषो यज्ञवास्तुमित्येवमाशिषोऽहं वा एतद्वेद यज्ञे वसवः प्रातःसवनेनागू रुद्रा माध्यंदिनसवनेनादित्यास्तृतीयसवनेन यज्ञवास्तुन्येव पर्यशिषो यज्ञवास्तुमित्येवमाशिषो विद्वांसो नूनं त्वा याजयेयुः (१,५.११ ) एते ह वा अविद्वांसो यत्रानृग्विद्धोता भवत्ययजुर्विदध्वर्युरसामविदुद्गाताभृग्वङ्गिरोविद्ब्रह्मा (१,५.११ ) यजस्वैव हन्त तु ते तद्वक्ष्यामि (१,५.११ ) यथा सूत्रे मणिरिव सूत्रमेतान्युक्थाहानि भवन्ति सूत्रमिव वा मणाविति (१,५.११ ) तस्माद्य एव सर्ववित्स्यात्तं ब्रह्माणं कुर्वीत (१,५.११ ) एष ह वै विद्वांत्सर्वविद्ब्रह्मा यद्भृग्वङ्गिरोवित् (१,५.११ ) एते ह वा अस्य सर्वस्य शमयितारः पालयितारस् (१,५.११ ) तमाद्ब्रह्मा स्तुते बहिःपवमाने वाचयति ॥ ११ ॥ (१,५.१२ ) श्येनोऽसि गायत्रछन्दा (१,५.१२ ) अनु त्वारभे (१,५.१२ ) स्वस्ति मा संपारयेति (१,५.१२ ) स यदाह श्येनोऽसीति सोमं वा एतदाह (१,५.१२ ) एष ह वा अग्निर्भूत्वास्मिंल्लोके संशाययति (१,५.१२ ) तद्यत्संशाययति तस्माच्छेयनस् (१,५.१२ ) तच्छेयनस्य श्येनत्वम् (१,५.१२ ) स यदाह गायत्रछन्दा अनुत्वारभ इति गायत्रेण छन्दसा वसुर्भिर्देवैः प्रातःसवनेऽस्मिंल्लोकेऽग्निं सन्तमन्वारभते (१,५.१२ ) स यदाह स्वस्ति मा संपारयेति गायत्रेणैव छन्दसा वसुभिर्देवैः प्रातःसवनेऽस्मिंल्लोकेऽग्निना देवेन स्वस्ति मा संपारयेति गायत्रेणैवैनं तच्छन्दसा वसुभिर्देवैः प्रातःसवनेऽस्मिंल्लोकेऽग्निना देवेन स्वस्ति संपद्यते य एवं वेद (१,५.१३ ) अथ माध्यंदिने पवमाने वाचयति सम्राडसि त्रिष्टुप्छन्दा (१,५.१३ ) अनु त्वारभे (१,५.१३ ) स्वस्ति मा संपारयेति (१,५.१३ ) स यदाह सम्राडसीति सोमं वा एतदाह (१,५.१३ ) एष ह वै वायुर्भूत्वान्तरिक्षलोके सम्राजति (१,५.१३ ) तद्यत्सम्राजति तस्मात्सम्राट् (१,५.१३ ) तत्सम्राजस्य सम्राट्त्वम् (१,५.१३ ) स यदाह त्रिष्टुप्छन्दा अनु त्वारभ इति त्रैष्टुभेन छन्दसा रुद्रैर्देवैर्माध्यंदिने सवनेऽन्तरिक्षलोके वायुं सन्तमन्वारभते (१,५.१३ ) स यदाह स्वस्ति मा संपारयेति त्रैष्टुभेनैव छन्दसा रुद्रैर्देवैर्माध्यंदिने सवने अन्तरिक्षलोके वायुना देवेन स्वस्ति मा संपारयेति (१,५.१३ ) त्रैष्टुभेनैवैनं तच्छन्दसा रुद्रैर्देवैर्माध्यंदिने सवने अन्तरिक्षलोके वायुना देवेन स्वस्ति संपद्यते य एवं वेद ॥ १३ ॥ (१,५.१४ ) अथार्भवे पवमाने वाचयति स्वरोऽसि गयोऽसि जगच्छन्दा (१,५.१४ ) अनु त्वारभे (१,५.१४ ) स्वस्ति मा संपारयेति (१,५.१४ ) स यदाह स्वरोऽसीति सोमं वा एतदाह (१,५.१४ ) एष ह वै सूर्यो भूत्वामुष्मिंल्लोके स्वरति (१,५.१४ ) तद्यत्स्वरति तस्मात्स्वरस् (१,५.१४ ) तत्स्वरस्य स्वरत्वम् (१,५.१४ ) स यदाह गयोऽसीति सोमं वा एतदाह (१,५.१४ ) एष ह वै चन्द्रमा भूत्वा सर्वांल्लोकान् गच्छति (१,५.१४ ) तद्यद्गच्छति तस्माद्गयस् (१,५.१४ ) तद्गयस्य गयत्वम् (१,५.१४ ) स यदाह जगच्छन्दा अनु त्वारभ इति जागतेन छन्दसादित्यैर्देवैस्तृतीयसवनेऽमुष्मिंल्लोके सूर्यं सन्तमन्वारभते (१,५.१४ ) स यदाह स्वस्ति मा संपारयेति जागतेनैव छन्दसादित्यैर्देवैस्तृतीयसवनेऽमुष्मिंल्लोके सूर्येण देवेन स्वस्ति मा संपारयेति जागतेनैवैनं तच्छन्दसादित्यैर्देवैस्तृतीयसवनेऽमुष्मिंल्लोके सूर्येण देवेन स्वस्ति संपद्यते य एवं वेद ॥ १४ ॥ (१,५.१५ ) अथ संस्थिते संस्थिते सवने वाचयति मयि भर्गो मयि महो मयि यशो मयि सर्वमिति (१,५.१५ ) पृथिव्येव भर्गोऽन्तरिक्ष एव महो द्यौरेव यशोऽप एव सर्वम् (१,५.१५ ) अग्निरेव भर्गो वायुरेव मह आदित्य एव यशश्चन्द्रमा एव सर्वम् [एद्. आदित्या] (१,५.१५ ) वसव एव भर्गो रुद्रा एव मह आदित्या एव यशो विश्वेदेवा एव सर्वम् (१,५.१५ ) गायत्र्येव भर्गस्त्रिष्टुबेव महो जगत्येव यशोऽनुष्टुबेव सर्वम् (१,५.१५ ) प्राच्येव भर्गः प्रतीच्येव मह उदीच्येव यशो दक्षिणैव सर्वम् (१,५.१५ ) वसन्त एव भर्गो ग्रीष्म एव महो वर्षा एव यशः शरदेव सर्वम् (१,५.१५ ) त्रिवृदेव भर्गः पञ्चदश एव महः सप्तदश एव यश एकविंश एव सर्वम् (१,५.१५ ) ऋग्वेद एव भर्गो यजुर्वेद एव महः सामवेद एव यशो ब्रह्मवेद एव सर्वम् (१,५.१५ ) होतैव भर्गोऽध्वर्युरेव मह उद्गातैव यशो ब्रह्मैव सर्वम् (१,५.१५ ) वागेव भर्गः प्राण एव महश्चक्षुरेव यशो मन एव सर्वम् ॥ १५ ॥ (१,५.१६ ) स यदाह मयि भर्ग इति पृथिवीमेवैतल्लोकानामहाग्निं देवानां वसून् देवान् देवगणानां गायत्रं छन्दसां प्राचीं दिशां वसन्तमृतूनां त्रिवृतं स्तोमानामृग्वेदं वेदानां हौत्रं होत्रकाणां वाचमिन्द्रियाणाम् ॥ १६ ॥ (१,५.१७ ) स यदाह मयि मह इत्यन्तरिक्षमेवैतल्लोकानामाह वायुं देवानां रुद्रान् देवान् देवगणानां त्रैष्टुभं छन्दसां प्रतीचीं दिशां ग्रीष्ममृतूनां पञ्चदशं स्तोमानां यजुर्वेदं वेदानामाध्वर्यवं होत्रकाणां प्राणमिन्द्रियाणाम् ॥ १७ ॥ (१,५.१८ ) स यदाह मयि यश इति दिवमेवैतल्लोकानामाहादित्यं देवानामादित्यान् देवगणानां जागतं छन्दसामुदीचीं दिशां वर्षा ऋतूनां सप्तदशं स्तोमानां सामवेदं वेदानामौद्गात्रं होत्रकाणां चक्षुरिन्द्रियाणाम् ॥ १७ ॥ (१,५.१९ ) स यदाह मयि सर्वमित्यप एवैतल्लोकानामाह चन्द्रमसं देवानां विश्वान् देवान् देवगणानामानुष्टुभं छन्दसां दक्षिणां दिशां शरदमृतूनामेकविंशं स्तोमानां ब्रह्मवेदं वेदानां ब्रह्मत्वं होत्रकाणां मन इन्द्रियाणाम् ॥ १८ ॥ (१,५.२० ) स वा एष दशधा चतुः संपद्यते (१,५.२० ) दश च ह वै चतुर्विराजोऽक्षराणि (१,५.२० ) तं गर्भा उपजीवन्ति (१,५.२० ) श्रीर्वै विराड् (१,५.२० ) यशोऽन्नाद्यम् (१,५.२० ) श्रियमेव तद्विराजं यशस्यन्नाद्यो प्रतिष्ठापयति (१,५.२० ) प्रतिष्ठन्तीरिदं सर्वमनुप्रतिष्ठति (१,५.२० ) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद ॥ २० ॥ (१,५.२१ ) अनर्वाणं ह वै देवं दध्यङ्ङाङ्गिरस उपसीदं ह यज्ञस्य श्नुष्टिं समश्नवामह इति (१,५.२१ ) स दध्यङ्ङाङ्गिरसोऽब्रवीद्यो वै सप्तदशं प्रजापतिं यज्ञेऽन्वितं वेद नास्य यज्ञो रिष्यते (१,५.२१ ) न यज्ञपतिं रिष्यन्त इति (१,५.२१ ) ता वा एताः पञ्च व्याहृतयो भवन्त्यो श्रावयास्तु श्रौषड्यज ये यजामहे वौषडिति (१,५.२१ ) स दध्यङ्ङाङ्गिरसोऽब्रवीन्न वयं विद्मो यदि ब्राह्मणाः स्मो यद्यब्राह्मणाः स्मो यदि तस्यर्षेः स्मो वान्यस्येति (१,५.२१ ) अनर्वाणश्च ह वा ऋतावन्तश्च पितरः स्वधायामावृषायन्त वयं वदामहै वयं वदामहा इति (१,५.२१ ) सोऽयात्स्वायंभुवो वा ऋतावन्तो मदयातां न वयं वदामहा इति (१,५.२१ ) तस्मात्प्रवरे प्रव्रियमाणे वाचयेद्देवाः पितर इति तिस्रः (१,५.२१ ) य एति संयजति स भवति यश्च न ब्रूते यश्च न ब्रूत इति ब्राह्मणम् ॥ २१ ॥ (१,५.२२ ) सावित्रं ह स्मैतं पूर्वे पुरस्तात्पशुमालभन्त इत्येतर्हि प्राजापत्यम् (१,५.२२ ) यो ह्येव सविता स प्रजापतिरिति वदन्तस् (१,५.२२ ) तस्मादु समुप्याग्नींस्तेन यजेरन् (१,५.२२ ) ते समानधिष्ण्या एव स्युरोखासंभरणीयायाः (१,५.२२ ) उखासंभरणीयायां विन्युपयाग्नींस्तया यजेरन् (१,५.२२ ) ते नानाधिष्ण्या एव स्युरा दीक्षणीयायाः (१,५.२२ ) दीक्षणीयायां संन्युप्याग्नींस्तया यजेरन् (१,५.२२ ) ते समानधिष्ण्या एव स्युरोदवसानीयायाः (१,५.२२ ) उदवसानीयायां विन्युप्याग्नींस्तया यजेरन् (१,५.२२ ) ते नानाधिष्ण्या एव स्युः (१,५.२२ ) अथ यदि यजमानस्योपतपेत्पार्श्वतोऽग्नीनाधाय तावदासीत यावदगदः स्यात् (१,५.२२ ) यदि प्रेयात्स्वैरेव तमग्निभिर्दहेत् (१,५.२२ ) अशवाग्निभिरितरे यजमाना आसत इति वदन्तस् (१,५.२२ ) तस्य तदेव ब्राह्मणं यददः पुरःसवने (१,५.२२ ) पितृमेध आशिषो व्याख्याताः ॥ २२ ॥ (१,५.२३ ) सायंप्रातर्होमौ स्थालीपाको नवश्च यः । बलिश्च पितृयज्ञश्चाष्टका सप्तमः पशुः ॥ इत्येते पाकयज्ञाः (१,५.२३ ) अग्न्याधेयमग्निहोत्रं पौर्णमास्यमावास्ये । नवेष्टिश्चातुर्मास्यानि पशुबन्धोऽत्र सप्तमः ॥ इत्येते हविर्यज्ञाः (१,५.२३ ) अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोडशिमांस्ततः । वाजपेयोऽतिरात्रश्चाप्तोर्यामात्र सप्तमः ॥ इत्येते सुत्याः (१,५.२३ ) के स्विद्देवा प्रवोवाजाः के स्विद्देवा अभिद्यवः । के स्विद्देवा हविष्मन्तः किं स्विज्जिगाति सुम्नयुः ॥ (१,५.२३ ) ऋतव एव प्रवोवाजा मासा देवा अभिद्यवः । अर्धमासा हविष्मन्तस्तज्जिगाति सुन्मयुः ॥ (१,५.२३ ) कति स्विद्रात्रयः कत्यहानि कति स्तोत्राणि कति शस्त्राण्यस्य । कति स्वित्सवनाः संवत्सरस्य स्तोत्रियाः पदाक्षराणि कत्यस्य ॥ (१,५.२३ ) <द्वावतिरात्रौ षट्शतमग्निष्टोमा द्वे विंशतिशते उक्थ्यानाम् । द्वादश षोडशिनः षष्टिः षडहा वैषुवतं च [Vऐत्ष्३१.१५]> ॥ (१,५.२३ ) अहान्यस्य विंशतिशतानि त्रीण्यहश्चैकं तावदस्य । संवत्सरस्य सवनाः सहस्रमसीति त्रीणि च संस्तुतस्य ॥ (१,५.२३ ) षट्षष्टिश्च द्वे च शते भवत स्तुतशस्त्राणामयुतं चैकमस्य । स्तोत्रियाश्च नवतिसहस्रा द्वे नियुते नवतिश्चाति षट्च ॥ (१,५.२३ ) अष्टौ शतान्ययुतानि त्रिंशच्चतुर्नवतिश्च पदान्यस्य । संवत्सरस्य कविभिर्मितस्यैतावती मध्यमा देवमात्रा ॥ (१,५.२३ ) अयुतमेकं प्रयुतानि त्रिंशद्द्वे नियुते तथा ह्यनुसृष्टाः । अष्टौ शतानि नव चाक्षराण्येतावानात्मा परमः प्रजापतेः ॥ (१,५.२३ ) आद्यं वषट्कारः प्रदानान्तमेतमग्निष्टोमे पर्वशः साधु कॢप्तम् । सौभेषजं छन्द ईप्सन् यदग्नौ चतुःशतं बहुधा हूयते यत् ॥ (१,५.२३ ) प्रातःसवन स्तुत एकविंशो गायत्रस्तोममित एक एव । माध्यंदिनः सप्तदशेन कॢप्तस्त्रयस्त्रिंशेन सवनं तृतीयम् ॥ २३ ॥ (१,५.२४ ) श्रद्धायां रेतस्तपसा तपस्वी वैश्वानरः सिषिचेऽपत्यमीप्सन् । ततो जज्ञे लोकजित्सोमजम्भा ऋषेरृषिरङ्गिराः संनभूव ॥ (१,५.२४ ) ऋषेर्यज्ञस्य चतुर्विधस्य श्रद्धां यः श्रेयसीं लोकममुं जिगाय । यस्मै वेदाः प्रसृताः सोमबिन्दु युक्ता वहन्ति सुकृतामु लोकम् ॥ (१,५.२४ ) ऋचोऽस्य भागांश्चतुरो वहन्त्युक्थशस्त्रैः प्रमुदो मोदमानाः । ग्रहैर्हविर्भिश्च कृताकृतश्च यजूंषि भागांश्चतुरो वहन्ति ॥ (१,५.२४ ) औदुम्बर्यां सामघोषेण तावत्सविष्टुतिभिश्च स्तोमैः छन्दसा । सामानि भागांश्चतुरो वहन्ति गीत्या स्तोमेन सह प्रस्तावेन च ॥ (१,५.२४ ) प्रायश्चित्तैर्भेषजैः संस्तुवन्तोऽथर्वाणोऽङ्गिरसश्च शान्ताः । ब्रह्मा ब्रह्मत्वेन प्रमुदो मोदमाना असंसृष्टान् भागांश्चतुरो वहन्ति ॥ (१,५.२४ ) यो ब्रह्मवित्सोऽभिकरोऽस्तु वः शिवो धिया धीरो रक्षतु धर्ममेतम् । मा वः प्रमत्ताममृताच्च यज्ञात्कर्माच्च येनानङ्गिरसोऽपियासीत् ॥ (१,५.२४ ) मायुं दशं मारुशस्ताः प्रमेष्टा मा मे भूर्युक्ता विदहाथ लोकान् । दिव्यं भयं रक्षत धर्ममुद्यतं यज्ञं कालाश स्तुतिगोपनायनम् ॥ (१,५.२४ ) होता च मैत्रावरुणश्च पादमच्छावाकः सह ग्रावस्तुतैकम् । ऋग्भि स्तुवन्तोऽहरहः पृथिव्या अग्निं पादं ब्रह्मणा धारयन्ति ॥ (१,५.२४ ) अध्वर्युः प्रतिप्रस्थाता नेष्टोन्नेता निहितं पादमेकम् । समन्तरिक्षं यजुषा स्तुवन्तो वायुं पादं ब्रह्मणा धारयन्ति ॥ (१,५.२४ ) साम्नोद्गाता छादयन्नप्रमत्त औदुम्बर्यां स्तोभदेयः सगद्गदः । विद्वान् प्रस्तोता विदहाथ सुष्टुतिं सुब्रह्मण्यः प्रतिहर्ताथ यज्ञे ॥ (१,५.२४ ) साम्ना दिव्येकं निहितं स्तुवन्तः सूर्यं पादं ब्रह्मणा धारयन्ति । ब्रह्मा हैकं ब्राह्मणाच्छंसिनः सह पोताग्नीध्रो निहितं पादमेकम् ॥ (१,५.२४ ) अथर्वभिरङ्गिरोभिश्च गुप्तोऽप्सु चन्द्रं पादं ब्रह्मणा धारयन्ति । षोडशिकं होत्रका अभिष्टुवन्ति वेदेषु युक्ताः प्रपृथक्चतुर्धा ॥ (१,५.२४ ) मनीषिणो दीक्षिताः श्रद्दधाना होतारो गुप्ता अभिवहन्ति यज्ञम् । दक्षिणतो ब्रह्मणस्यों जनदित्येतां व्याहृतिं जपन् ॥ (१,५.२४ ) सप्तदशं सदस्यं तं कीर्तयन्ति पुरा विदुः । अष्टादशी दीक्षिता दीक्षितानां यज्ञे पत्नी श्रद्दधानेह युक्ता ॥ (१,५.२४ ) एकोनविंशः शमिता बभूव विंशो यज्ञे गृहपतिरेव सुन्वन् । एकविंशतिरेवैषां संस्थायामङ्गिरो वह ॥ (१,५.२४ ) वेदैरभिष्टुतो लोको नानावेशापराजितः । ॥ २४ ॥ (१,५.२५ ) सप्त सुत्याः सप्त च पाकयज्ञाः हविर्यज्ञाः सप्त तथैकविंशतिः । सर्वे ते यज्ञा अङ्गिरसोऽपियन्ति नूतना यानृषयो सृजन्ति ये च सृष्टाः पुराणैः ॥ (१,५.२५ ) एतेषु वेदेष्वपि चैकमेवापव्रजमृत्विजां संभरन्ति । कृट्स्तृपात्सचते तामशस्तिं विष्कन्धमेनं विसृतं प्रजासु ॥ (१,५.२५ ) निवर्तन्ते दक्षिणा नीयमानाः सुते सोमे वितते यज्ञतन्त्रे । मोघाशिषो यन्त्यनिवर्तमाना अनिष्टयज्ञा न तरन्ति लोकान् ॥ (१,५.२५ ) द्वादशवर्षं ब्रह्मचर्यं पृथग्वेदेषु तत्स्मृतम् । एवं व्यवस्थिता वेदाः सर्व एव स्वकर्मसु ॥ (१,५.२५ ) सन्ति चैषां समानाः मन्त्राः कल्पाश्च ब्राह्मणानि च । व्यवस्थानं तु तत्सर्वं पृथग्वेदेषु तत्स्मृतम् ॥ (१,५.२५ ) ऋग्वेदस्य पृथिवी स्थानमन्तरिक्षस्थानोऽध्वरः । द्यौ स्थानं सामवेदस्यापो भृग्वङ्गिरसां स्मृतम् ॥ (१,५.२५ ) अग्निर्देवत ऋग्वेदस्य यजुर्वेदो वायुदेवतः । आदित्यः सामवेदस्य चन्द्रमा वैद्युतश्च भृग्वङ्गिरसाम् ॥ (१,५.२५ ) त्रिवृत्स्तोम ऋग्वेदस्य यजूंषि पञ्चदशेन सह जज्ञिरे । सप्तदशेन सामवेद एकविंशो ब्रह्मसंमितः ॥ (१,५.२५ ) वागध्यात्ममृग्वेदस्य यजुषां प्राण उच्यते । चक्षुषी सामवेदस्य मनो भृग्वङ्गिरसां स्मृतम् ॥ (१,५.२५ ) ऋग्भिः सह गायत्रं जागतमाहुर्यजूंषि त्रैष्टुभेन सह जज्ञिरे । उष्णिक्ककुभ्यां भृग्वङ्गिरसो जगत्या सामानि कवयो वदन्ति ॥ (१,५.२५ ) ऋग्भिः पृथिवीं यजुषान्तरिक्षं साम्ना दिवं लोकजित्सोमजम्भाः । अथर्वभिरङ्गिरोभिश्च गुप्तो यज्ञश्चतुष्पाद्दिवमुद्वहेत ॥ (१,५.२५ ) ऋग्भिः सुशस्तो यजुषा परिष्कृतः सविष्टुतः सामजित्सोमजम्भाः । अथर्वभिरङ्गिरोभिश्च गुप्तो यज्ञश्चतुष्पाद्दिवमारुरोह ॥ (१,५.२५ ) ऋचो विद्वान् पृथिवीं वेद संप्रति यजूंषि विद्वान् बृहदन्तरिक्षम् । दिवं वेद सामगो यो विपश्चित्सर्वान् लोकान् यद्भृग्वङ्गिरोवित् ॥ (१,५.२५ ) यांश्च ग्रामे यांश्चारण्ये जपन्ति मन्त्रान्नार्थान् बहुधा जनासः । सर्वे ते यज्ञा अङ्गिरसोऽपियन्ति नूतना सा हि गतिर्ब्रह्मणो यावरार्ध्या ॥ (१,५.२५ ) त्रिविष्टपं त्रिदिवं नाकमुत्तमं तमेतया त्रय्या विद्ययैति । अत उत्तरे ब्रह्मलोका महान्तोऽथर्वणामङ्गिरसां च सा गतिः ॥ अथर्वणामङ्गिरसां च सा गतिरिति ब्राह्मणम् ॥ २५ ॥ (१,५.२५ ओल्) इत्यथर्ववेदे गोपथब्राह्मणपूर्वभागे पञ्चमः प्रपाठकः ॥ (१ ओल्) इति पूर्वब्राह्मणं समाप्तम् (२,१.१ ) अथ यद्ब्रह्मसदनात्तृणं निरस्यति शोधयत्येवैनं तत् (२,१.१ ) अथोपविशतीदमहमर्वाग्वसोः सदने सीदामीति (२,१.१ ) अर्वाग्वसुर्ह वै देवानां ब्रह्मा पराग्वसुरसुराणाम् (२,१.१ ) तमेवैतत्पूर्वं सादयति (२,१.१ ) अरिष्टं यज्ञं तनुतादिति (२,१.१ ) अथोपविश्व जपति बृहस्पतिर्ब्रह्मेति (२,१.१ ) बृहस्पतिर्वा आङ्गिरसो देवानां ब्रह्मा (२,१.१ ) तस्मिन्नेवैतदनुज्ञामिच्छति प्रणीतासु प्रणीयमानासु वाचं यच्छत्या हविष्कृत उद्वादनात् (२,१.१ ) एतद्वै यज्ञस्य द्वारम् (२,१.१ ) तदेतदशून्यं करोति (२,१.१ ) इष्टे च स्विष्टकृत्यानुयाजानां प्रसवादिति (२,१.१ ) एतद्वै यज्ञस्य द्वितीयं द्वारम् (२,१.१ ) तदेवैतदशून्यं करोति (२,१.१ ) यत्परिधयः परिधीयन्ते यज्ञस्य गोपीथाय (२,१.१ ) परिधीन् परिधत्ते यज्ञस्य सात्मत्वाय (२,१.१ ) परिधीन्त्संमार्ष्टि (२,१.१ ) पुनात्येवैनान् (२,१.१ ) त्रिर्मध्यमम् (२,१.१ ) त्रय इमे प्राणाः (२,१.१ ) प्राणानेवाभिजयति (२,१.१ ) त्रिर्दक्षिणार्ध्यम् (२,१.१ ) त्रयो वै लोकाः (२,१.१ ) लोकानेवाभिजयति (२,१.१ ) त्रिरुत्तरार्ध्यं (२,१.१ ) त्रयो वै देवलोकाः (२,१.१श्) देवलोकानेवाभिजयति (२,१.१ अ) त्रिरुपवाजयति त्रयो वै देवयानाः पन्थानस् (२,१.१ ब्) तानेवाभिजयति (२,१.१ च्) ते वै द्वादश भवन्ति (२,१.१ द्) द्वादश ह वै मासाः संवत्सरः (२,१.१ ए) संवत्सरमेव तेन प्रीणाति (२,१.१ f) अथो संवत्सरमेवास्मा उपदधाति स्वर्गस्य लोकस्य समष्ट्यै ॥ १ ॥ (२,१.२ ) प्रजापतिर्वै रुद्रं यज्ञान्निरभजत् (२,१.२ ) सोऽकामयत (२,१.२ ) मेयमस्मा आकूतिः समर्धि यो मा यज्ञान्निरभाक्षीदिति (२,१.२ ) स यज्ञमभ्यायम्याविध्यत् (२,१.२ ) तदाविद्धं निरकृन्तत् (२,१.२ ) तत्प्राशित्रमभवत् (२,१.२ ) तदुदयच्छत् (२,१.२ ) तद्भगाय पर्यहरन् (२,१.२ ) तत्प्रत्यैक्षत (२,१.२ ) तस्य चक्षुः परापतत् (२,१.२ ) तस्मादाहुरन्धो वै भग इति (२,१.२ ) अपि ह तं नेच्छेद्यमिच्छति (२,१.२ ) तत्सवित्रे पर्यहरन् (२,१.२ ) तत्प्रत्यगृहात्तस्य पाणी प्रचिच्छेद (२,१.२ ) तस्मै हिरण्मयौ प्रत्यदधुस् (२,१.२ ) तस्माद्धिरण्यपाणिरिति स्तुतस् (२,१.२ ) तत्पूष्णे पर्यहरन् (२,१.२ ) तत्प्राश्नात् (२,१.२ ) तस्य दन्ताः परोप्यन्त (२,१.२ ) तस्मादाहुरदन्तकः पूषा पिष्टभाजन इति (२,१.२ ) तदिध्मायाङ्गिरसाय पर्यहरन् (२,१.२ ) तत्प्राश्नात् (२,१.२ ) तस्य शिरो व्यपतत् (२,१.२ ) तं यज्ञ एवाकल्पयत् (२,१.२ ) स एष इध्मः (२,१.२श्) समिधो ह पुरातनस् (२,१.२ अ) तद्बर्हय आङ्गिरसाय पर्यहरन् (२,१.२ ब्) तत्प्राश्नात् (२,१.२ च्) तस्याङ्गा पर्वाणि व्यस्रंसन्त (२,१.२ द्) तं यज्ञ एवाकल्पयत् (२,१.२ ए) तदेतद्बर्हिः (२,१.२ f) प्रस्तरो ह पुरातनस् (२,१.२ ग्) तद्बृहस्पतय आङ्गिरसाय पर्यहरन् (२,१.२ ह्) सोऽबिभेद्बृहस्पतिरित्थं वाव स्य आर्तिमारिष्यतीति (२,१.२ इ) स एतं मन्त्रमपश्यत् (२,१.२ ज्) <सूर्यस्य त्वा चक्षुषा प्रतीक्षे [ড়्ष्२०.५७.११, Kऔश्ष्९१.२, Vऐत्ष्३.८]> इत्यब्रवीत् (२,१.२ क्) न हि सूर्यस्य चक्षुः किं चन हिनस्ति (२,१.२ ल्) सोऽबिभेत्प्रतिगृह्णन्तं मा हिंसिष्यतीति (२,१.२ म्) देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्यां प्रसूतः प्रशिषा प्रतिगृहामीत्यब्रवीत् (२,१.२ न्) सवितृप्रसूत एवैनं तद्देवताभिः प्रत्यगृह्णात् (२,१.२ ओ) तद्व्यूह्य तृणानि प्राग्दण्डं स्थण्डिले निदधाति पृथिव्यास्त्वा नाभौ सादयामीति (२,१.२ प्) पृथिवी वा अन्नानां शमयित्री तयैवैनच्छमयां चकार (२,१.२ ॠ) सोऽबिभेत्प्राश्नन्तं मा हिंसिष्यतीति (२,१.२ र्) अग्नेष्ट्वास्येन प्राश्नामीत्यब्रवीत् (२,१.२ स्) न ह्यग्नेरास्यं किं चन हिनस्ति (२,१.२ त्) सोऽबिभेत्प्राशितं मा हिंसिष्यतीति (२,१.२ उ) इन्द्रस्य त्वा जठरे सादयामीत्यब्रवीत् (२,१.२ व्) न हीन्द्रस्य जठरं किं चन हिनस्ति (२,१.२ w) वरुणस्योदर इति न हि वरुणस्योदरं किं चन हिनस्तीति ॥ २ ॥ (२,१.३ ) अथो आहुर्ब्राह्मणस्योदर इति (२,१.३ ) आत्मास्यात्मन्नात्मानं मे मा हिंसीः स्वाहेति (२,१.३ ) अन्नं वै सर्वेषां भूतानामात्मा तेनैवैनच्छमयां चकार (२,१.३ ) प्राशितमनुमन्त्रयते <योऽग्निर्नृमणा नाम ब्राह्मणेषु प्रविष्टः । तस्मिन् म एतत्सुहुतमस्तु प्राशित्रं तन् मा मा हिंसीत्परमे व्योमन् [ড়्ष्२०.५७.१५]> इति (२,१.३ ) तत्सर्वेण ब्रह्मणा प्राश्नात् (२,१.३ ) तत एनं नाहिनत् (२,१.३ ) तस्माद्यो ब्रह्मिष्ठः स्यात्तं ब्रह्माणं कुर्वीत (२,१.३ ) बृहस्पतिर्वै सर्वं ब्रह्म (२,१.३ ) सर्वेण ह वा एतद्ब्रह्मणा यज्ञं दक्षिणत उद्यच्छते (२,१.३ ) अप वा एतस्मात्प्राणाः क्रामन्ति य आविद्धं प्राश्नाति (२,१.३ ) अद्भिर्मार्जयित्वा प्राणान्त्संस्पृशते वाङ्म आस्यन्निति (२,१.३ ) अमृतं वै प्राणाः (२,१.३ ) अमृतमापः (२,१.३ ) प्राणानेव यथास्थानमुपाह्वयते (२,१.३ ) तदु हैक आहुरिन्द्राय पर्यहरन्निति (२,१.३ ) ते देवा अब्रुवन्निन्द्रो वै देवानामोजिष्ठो बलिष्ठस् (२,१.३ ) तस्मा एनत्परिहरतेति (२,१.३ ) तत्तस्मै पर्यहरन् (२,१.३ ) तत्स ब्रह्मणा शयमां चकार (२,१.३ ) तस्मादाहुरिन्द्रो ब्रह्मेति (२,१.३ ) यवमात्रं भवति (२,१.३ ) यवमात्रं वै विषस्य न हिनस्ति (२,१.३ ) यदधस्तादभिधारयति तस्मादधस्तात्प्रक्षरणं प्रजा अरुर्न हिनस्ति (२,१.३ ) यदुपरिष्टादभिधारयति तस्मादुपरिष्टात्प्रक्षरणं प्रजा अरुर्न हिनस्ति (२,१.३ ) यदुभयतोऽभिघारयत्युभयतोऽभिघारि प्रजा अरुर्घातुकं स्यात् (२,१.३श्) यत्समयाभिहरेदनभिविद्धं यज्ञस्याभिविध्येत् ॥ ३ ॥ (२,१.४ ) अग्रेण परिहरति (२,१.४ ) तीर्थेनैव परिहरति (२,१.४ ) वि वा एतद्यज्ञश्छिद्यते यत्प्राशित्रं परिहरति (२,१.४ ) यदाह ब्रह्मन् प्रस्थास्यामीति बृहस्पतिर्वै सर्वं ब्रह्म (२,१.४ ) सर्वेण ह वा एतद्ब्रह्मणा यज्ञं दक्षिणतः संदधाति (२,१.४ ) अथो अत्र वा एतर्हि यज्ञः श्रितो यत्र ब्रह्मा तत्रैव यज्ञः श्रितस् (२,१.४ ) तत एवैनमालभते (२,१.४ ) यद्धस्तेन प्रमीवेद्वेपनः स्यात् (२,१.४ ) यच्छीर्ष्णा शीर्षक्तिमान्त्स्यात् (२,१.४ ) यत्तूष्णीमासीतासंप्रत्तो यज्ञः स्यात् (२,१.४ ) प्रतिष्ठेत्येव ब्रूयात् (२,१.४ ) वाचि वै यज्ञः श्रितः (२,१.४ ) यत्र ब्रह्मा यत्रैव यज्ञः श्रितस्तत एवैनं संप्रयच्छति (२,१.४ ) अग्नीध आदधाति (२,१.४ ) अग्निमुखानेवर्तून् प्रीणाति (२,१.४ ) अथोत्तरासामाहुतीनां प्रतिष्ठित्या (२,१.४ ) अथो समिद्वत्यव जुहोति (२,१.४ ) परिधीन्त्संमार्ष्टि (२,१.४ ) पुनात्येवैनान् (२,१.४ ) सकृत्सकृत्संमार्ष्टि (२,१.४ ) पराङेव ह्येतर्हि यज्ञः (२,१.४ ) चतुः संपद्यते (२,१.४ ) अथो चतुष्पादः पशवः (२,१.४ ) पशूनामाप्त्यै (२,१.४ ) देव सवितरेतत्ते प्राहेत्याह प्रसूत्यै (२,१.४श्) बृहस्पतिर्ब्रह्मेत्याह (२,१.४ अ) स हि ब्रह्मिष्ठः (२,१.४ ब्) स यज्ञं पाहि स यज्ञपतिं पाहि स मां पाहि स मां कर्मण्यं पाहीत्याह (२,१.४ च्) यज्ञाय च यजमानाय च पशूनामाप्त्यै ॥ ४ ॥ (२,१.५ ) न वै पौर्णमास्यां नामावास्यायां दक्षिणा दीयन्ते (२,१.५ ) य एष ओदनः पच्यते दक्षिणैषा दीयते यज्ञस्यर्द्ध्यै (२,१.५ ) इष्टी वा एतेन यद्यजतेऽथो वा एतेन पूर्ती य एष ओदनः पच्यते (२,१.५ ) एष ह वा इष्टापूर्ती य एनं पचति ॥ ५ ॥ (२,१.६ ) द्वया वै देवा यजमानस्य गृहमागच्छन्ति सोमपा अन्येऽसोमपा अन्ये (२,१.६ ) हुतादोऽन्येऽहुतादोऽन्ये (२,१.६ ) एते वै देवा अहुतादो यद्ब्राह्मणाः (२,१.६ ) एतद्देवत्य एष यः पुरानीजानः (२,१.६ ) एते ह वा एतस्य प्रजायाः पशूनामीशते (२,१.६ ) तेऽस्याप्रीता इषमूर्जमादायापक्रामन्ति (२,१.६ ) यदन्वाहार्यमन्वाहरति तानेव तेन प्रीणाति (२,१.६ ) दक्षिणतःसद्भ्यः परिहर्तवा आह (२,१.६ ) दक्षिणावतैव यज्ञेन यजते (२,१.६ ) आहुतिभिरेव देवान् हुतादः प्रीणाति दक्षिणाभिर्मनुष्यदेवान् (२,१.६ ) तेऽस्मै प्रीता इषमूर्जं नियच्छन्ति ॥ ६ ॥ (२,१.७ ) देवाश्च ह वा असुराश्चास्पर्धन्त (२,१.७ ) ते देवाः प्रजापतिमेवाभ्ययजन्त (२,१.७ ) अन्योऽन्यस्यासन्नसुरा अजुहवुस् (२,१.७ ) ते देवा एतमोदनमपश्यन् (२,१.७ ) तं प्रजापतये भागमनुनिरवपन् (२,१.७ ) तं भागं पश्यन् प्रजापतिर्देवानुपावर्तत (२,१.७ ) ततो देवा अभवन् परासुराः (२,१.७ ) स य एवंविद्वानेतमोदनं पचति भवत्यात्मना परास्याप्रियो भ्रातृव्यो भवति (२,१.७ ) प्रजापतिर्वै देवेभ्यो भागधेयानि व्यकल्पयत् (२,१.७ ) सोऽमन्यतात्मानमन्तरगामिति (२,१.७ ) स एतमोदनमभक्तमपश्यत् (२,१.७ ) तमात्मने भागं निरवपत् (२,१.७ ) प्रजापतेर्वा एष भागः (२,१.७ ) अपरिमितः स्यात् (२,१.७ ) अपरिमितो हि प्रजापतिः (२,१.७ ) प्रजापतेर्भागोऽस्यूर्जस्वान् पयस्वान् (२,१.७ ) अक्षितोऽसि (२,१.७ ) अक्षित्यै त्वा (२,१.७ ) मा मे क्षेष्ठा अमुत्रामुष्मिंल्लोक इह च (२,१.७ ) प्राणापनौ मे पाहि (२,१.७ ) समानव्यानौ मे पाहि (२,१.७ ) उदानरूपे मे पाहि (२,१.७ ) ऊर्गसि (२,१.७ ) ऊर्जं मे धेहि (२,१.७ ) कुर्वतो मे मा क्षेष्ठाः (२,१.७श्) ददतो मे मोपदसः (२,१.७ अ) प्रजापतिमहं त्वया समक्षमृध्यासमिति (२,१.७ ब्) प्रजापतिमेव समक्षमृध्नोति य एवं वेद य एवं वेद ॥ ७ ॥ (२,१.८ ) ये वा इह यज्ञैरार्ध्नुवंस्तेषामेतानि ज्योतींषि यान्यमूनि नक्षत्राणि (२,१.८ ) तन्नक्षत्राणां नक्षत्रत्वं यन्न क्षीयन्ति (२,१.८ ) दर्शपूर्णमासौ वै यज्ञस्यावसानदर्शौ (२,१.८ ) ये वा अनिष्ट्वा दर्शपूर्णमासाभ्यां सोमेन यजन्ते तेषामेतानि ज्योतींषि यान्यमूनि नक्षत्राणि पतन्तीव (२,१.८ ) तद्यथा ह वा इदमस्पष्टावसाने नेहावसास्यसि नेहावसास्यसीति नोनुद्यन्त एवं हैवैतेऽमुष्मांल्लोकान्नोनुद्यन्ते (२,१.८ ) त एते प्रच्यवन्ते ॥ ८ ॥ (२,१.९ ) यस्य हविर्निरुप्तं पुरस्ताच्चन्द्रमा अभ्युदियात्तांस्त्रेधा ताण्डुलान् विभजेत् (२,१.९ ) ये मध्यमास्तानग्नये दात्रेऽष्टाकपालं निर्वपेत् (२,१.९ ) ये स्थविष्ठास्तानिन्द्राय प्रादात्रे दधनि चरुम् (२,१.९ ) ये क्षोदिष्ठास्तान् विष्णवे शिपिविष्टाय शृते चरुम् [एद्. क्षोदिस्थास्, चोर्र्. ড়त्यल्] (२,१.९ ) पशवो वा एतेऽतिरिच्यन्ते (२,१.९ ) तानेवाप्नोति (२,१.९ ) तानवरुन्द्धे (२,१.९ ) अग्निर्वै मध्यमस्य दातेन्द्रो वै ज्येष्ठस्य प्रदाता (२,१.९ ) यदेवेदं क्षुद्रं पशूनां तद्विष्णोः शिपिविष्टम् (२,१.९ ) तदेवाप्नोति (२,१.९ ) पशूनेवावरुन्द्धे ॥ ९ ॥ (२,१.१० ) या पूर्वा पौर्णमासी सानुमतिः (२,१.१० ) योत्तरा राका (२,१.१० ) या पूर्वामावास्या सा सिनीवाली योत्तरा सा कुहूः (२,१.१० ) चन्द्रमा एव धाता च विधाता च (२,१.१० ) यत्पूर्णोऽन्यां वसत्यपूर्णोऽन्यां तन् मिथुनम् (२,१.१० ) यत्पश्यत्यन्यां नान्यां तन् मिथुनम् (२,१.१० ) यदमावास्यायाश्चन्द्रमा अधि प्रजायते तन् मिथुनम् (२,१.१० ) तस्मादेवास्मै मिथुनात्पशून् प्रजनयति ॥ १० ॥ (२,१.११ ) न द्वे यजेत (२,१.११ ) यत्पूर्वया संप्रति यतेतोत्तरया छम्बट्कुर्यात् (२,१.११ ) यदुत्तरया संप्रति यजेत पूर्वया छम्बट्कुर्यात् (२,१.११ ) नेष्टिर्भवति न यज्ञस् (२,१.११ ) तदनु ह्रीतमुख्यपगल्भो जायते (२,१.११ ) एकामेव यजेत (२,१.११ ) प्रगल्भो हैव जायते (२,१.११ ) अनादृत्य तद्द्वे यजेत (२,१.११ ) यज्ञमुखमेव पूर्वयालभते यजत उत्तरया (२,१.११ ) देवता एवं पूर्वयाप्नोतीन्द्रियमुत्तर्या (२,१.११ ) देवलोकमेव पूर्वयावरुन्द्धे मनुष्यलोकमुत्तरया भूयसो यज्ञक्रतूनुपैत्य (२,१.११ ) एषा ह वै सुमना नामेष्टिः (२,१.११ ) यमद्येजानं पश्चाच्चन्द्रमा अभ्युदियादस्मा अस्मिंल्लोक आर्धुकं भवति ॥ ११ ॥ (२,१.१२ ) अग्नावैष्णवमेकादशकपालं निर्वपेद्दर्शपूर्णमासावारिप्समाणः (२,१.१२ ) अग्निर्वै सर्वा देवता विष्णुर्यज्ञः (२,१.१२ ) देवताश्चैव यज्ञं चारभत ऋद्ध्यै (२,१.१२ ) ऋध्नोत्येव (२,१.१२ ) उभौ सहारम्भावित्याहुः (२,१.१२ ) उदिन्नु शृङ्गे सितो मुच्यत इति (२,१.१२ ) दर्शो वा एतयोः पूर्वः पौर्णमास उत्तरः (२,१.१२ ) अथ यत्परस्तात्पौर्णमास आरभ्यते तद्यथा पूर्वं क्रियते (२,१.१२ ) तद्यत्पौर्णमासमारभमाणः सरस्वत्यै चरुं निर्वपेत्सरस्वते द्वादशकपालममावास्या वै सरस्वती पौर्णमासः सरस्वानिति (२,१.१२ ) उभावेवैनौ सहारभत ऋद्ध्यै (२,१.१२ ) ऋध्नोत्येव ॥ १२ ॥ (२,१.१३ ) अग्नये पथिकृतेऽष्टाकपालं निर्वपेद्यस्य प्रज्ञातेष्टिरतिपद्यते (२,१.१३ ) बहिष्पथं वा एष एति यस्य प्रज्ञातेष्टिरतिपद्यते (२,१.१३ ) अग्निर्वै देवानां पथिकृत् (२,१.१३ ) तमेव भागधेयेनोपासरत् (२,१.१३ ) स एनं पन्थानमपिनयति (२,१.१३ ) अनड्वान् दक्षिणा (२,१.१३ ) स हि पन्थानमभिवहति ॥ १३ ॥ (२,१.१४ ) अग्नये व्रतपतयेऽष्टाकपालं निर्वपेद्य आहिताग्निः सन् प्रवसेत् (२,१.१४ ) बहु वा एष व्रतमतिपातयति य आहिताग्निः सन् प्रवसति व्रत्येऽहनि स्त्रियं वोपैति मांसं वाश्नाति (२,१.१४ ) अग्निर्वै देवानां व्रतपतिः (२,१.१४ ) अग्निमेतस्य व्रतमगात् (२,१.१४ ) तस्मादेतस्य व्रतमालम्भयते ॥ १४ ॥ (२,१.१५ ) अग्नये व्रतभृतेऽष्टाकपालं निर्वपेद्य आहिताग्निरार्तिजमश्रु कुर्यात् (२,१.१५ ) आनीतो वा एष देवानां य आहिताग्निस् (२,१.१५ ) तस्मादेतेनाश्रु न कर्तव्यम् (२,१.१५ ) न हि देवा अश्रु कुर्वन्ति (२,१.१५ ) अग्निर्वै देवानां व्रतभृत् (२,१.१५ ) अग्निमेतस्य व्रतमगात् (२,१.१५ ) तस्मादेतस्य व्रतमालम्भयते ॥ १५ ॥ (२,१.१६ ) ऐन्द्राग्नमुस्रमनुसृष्टमालभेत यस्य पिता पितामहः सोमं न पिबेत् (२,१.१६ ) इन्द्रियेण वा एष वीर्येण व्यृध्यते यस्य पिता पितामहः सोमं न पिबति (२,१.१६ ) यदैन्द्र इन्द्रियेणैवैनं तद्वीर्येण समर्धयति (२,१.१६ ) देवताभिर्वा एष वीर्येण व्यृध्यते यस्य पिता पिताम्हः सोमं न पिबति (२,१.१६ ) यदाग्नेयोऽग्निर्वै सर्वा देवताः (२,१.१६ ) सर्वाभिरेवैनं तद्देवताभिः समर्धयति (२,१.१६ ) अनुसृष्टो भवति (२,१.१६ ) अनुसृष्ट इव ह्येतस्य सोमपीथो यस्य पिता पितामहः सोमं न पिबति (२,१.१६ ) तस्मादेष एव तस्या देवतायाः पशूनां समृद्धः ॥ १६ ॥ (२,१.१७ ) देवा वा ओषधीषु पक्वास्वाजिमयुः (२,१.१७ ) स इन्द्रोऽवेदग्निर्वावेमाः प्रथम उज्जेष्यतीति (२,१.१७ ) सोऽब्रवीद्यतरो नौ पूर्व उज्जयात्तन्नौ सहेति (२,१.१७ ) ता अग्निरुदजयत् (२,१.१७ ) तदिन्द्रोऽनूदजयत् (२,१.१७ ) स एष ऐन्द्राग्नः सन्नाग्नेन्द्रः (२,१.१७ ) एका वै तर्हि यवस्य श्नुष्टिरासीदेका व्रीहेरेका माषस्यैका तिलस्य (२,१.१७ ) तद्विश्वे देवा अब्रुवन् वयं वा एतत्प्रथयिष्यामो भागो नोऽस्त्विति (२,१.१७ ) तद्भूम एव वैश्वदेवः (२,१.१७ ) अथो प्रथयत्येतेनैव (२,१.१७ ) पयसि स्याद्वैश्वदेवत्वाय (२,१.१७ ) वैश्वदेवं हि पयः (२,१.१७ ) अथेमावब्रूतां न वा ऋत आवाभ्यामेवैतद्यूयं प्रथयत मयि प्रतिष्ठितमसौ वृष्ट्या पचति नैतदितोऽभ्युज्जेष्यतीति (२,१.१७ ) भागो नावस्त्विति (२,१.१७ ) ताभ्यां वा एष भागः क्रियत उज्जित्या एव (२,१.१७ ) अथो प्रतिष्ठित्या एव यो द्यावापृथिवीयः (२,१.१७ ) सौमीर्वा ओषधीः (२,१.१७ ) सोम ओषधीनामधिराजः (२,१.१७ ) याश्च ग्राम्या याश्चारण्यास्तासामेष उद्धारो यच्छ्यामाकः (२,१.१७ ) यच्छ्यामाकः सौम्यस्तमेव भागिनं कृणुते (२,१.१७ ) यदकृत्वाग्रयणं नवस्याश्नीयाद्देवानां भागं प्रतिकॢप्तमद्यात् (२,१.१७ ) संवत्सराद्वा एतदधिप्रजायते यदाग्रयणम् (२,१.१७ ) संवत्सरं वै ब्रह्मा (२,१.१७ ) तस्माद्ब्रह्मा पुरस्ताद्धोमसंस्थितहोमेष्वावपेत (२,१.१७ ) एकहायनी दक्षिणा (२,१.१७श्) स हि संवत्सरस्य प्रतिमा (२,१.१७ अ) रेत एव ह्येषोऽप्रजातः (२,१.१७ ब्) प्रजात्यै ॥ १७ ॥ (२,१.१८ ) अथ हैतदप्रतिरथम् <इन्द्रस्य बाहू स्थविरौ वृषाणौ> इति (२,१.१८ ) एतेन ह वा इन्द्रोऽसुरान् प्रत्यजयत् [एद्.ऽसुरान] (२,१.१८ ) अप्रति ह भवत्येतेन यजमानो भ्रातृव्यं जयति (२,१.१८ ) संग्रामे जुहुयादप्रति ह भवति (२,१.१८ ) एतेन ह वै भरद्वाजः प्रतर्दनं समनह्यत् (२,१.१८ ) स राष्ट्र्यभवत् (२,१.१८ ) यं कामयेत राष्ट्री स्यादिति तमेतेन संनह्येत् (२,१.१८ ) राष्ट्री ह भवति (२,१.१८ ) एतेन ह वा इन्द्रो विराजमभ्यजयत् (२,१.१८ ) दशैवान्वाह (२,१.१८ ) दशाक्षरा विराड्वैराजं वा एतेन यजमानो भ्रातृव्यं वृङ्क्ते (२,१.१८ ) तदु हैक एकादशान्वाहुः (२,१.१८ ) एकादशाक्षरा वै त्रिष्टुप्त्रैष्टुभो वज्रः (२,१.१८ ) वज्रेणैवैतद्रक्षांस्यपसेधति (२,१.१८ ) दक्षिणतो वै देवानां यज्ञं रक्षांस्यजिघांसन् (२,१.१८ ) तान्यप्रतिरथेनापाघ्नत (२,१.१८ ) तस्माद्ब्रह्माप्रतिरथं जपन्नेति (२,१.१८ ) यद्ब्रह्माप्रतिरथं जपन्नेति यज्ञस्याभिजित्यै रक्षसामपहत्यै रक्षसामपहत्यै ॥ १८ ॥ (२,१.१९ ) अथातश्चातुर्मास्यानां प्रयोगः (२,१.१९ ) फाल्गुन्यां पौर्णमास्यां चातुर्मास्यानि प्रयुञ्जीत (२,१.१९ ) मुखं वा एतत्संवत्सरस्य यत्फाल्गुनी पौर्णमासी मुखमुत्तरे फाल्गुन्यौ पुच्छं पूर्वे [एद्. पूर्व] (२,१.१९ ) तद्यथा प्रवृत्तस्यान्तौ समेतौ स्यातामेवमेवैतत्संवत्सरस्यान्तौ समेतौ भवतस् (२,१.१९ ) तद्यत्फाल्गुन्यां पौर्णमास्यां चातुर्मास्यैर्यजते मुखत एवैतत्संवत्सरं प्रयुङ्क्ते (२,१.१९ ) अथो भैषज्ययज्ञा वा एते यच्चातुर्मास्यानि (२,१.१९ ) तस्मादृतुसंधिषु प्रयुज्यन्ते (२,१.१९ ) ऋतुसंधिषु वै व्याधिर्जायते (२,१.१९ ) तान्येतान्यष्टौ हवींस्षि भवन्ति (२,१.१९ ) अष्टौ वै चतसृणां पौर्णमासीनां हवींषि भवन्ति (२,१.१९ ) चतसृणां वै पौर्णमासीनां वैश्वदेवं समासः (२,१.१९ ) अथ यदग्निं मन्थन्ति प्रजापतिर्वै वैश्वदेवम् (२,१.१९ ) प्रजात्या एव (२,१.१९ ) अथैतं दैवं गर्भं प्रजनयति (२,१.१९ ) अथ यत्सप्तदश सामिधेन्यः सप्तदशो वै प्रजापतिः (२,१.१९ ) प्रजापतेराप्त्यै (२,१.१९ ) अथ यत्सद्वन्तावाज्यभागावसिसंतीति वै सद्वन्तौ भवतः (२,१.१९ ) अथ यद्विराजौ संयाज्ये अन्नं वै श्रीर्विराडन्नाद्यस्य श्रियोऽवरुद्ध्यै [एद्.ऽवरुद्ध्याऽथ] (२,१.१९ ) अथ यन्नव प्रयाजा नवानुयाजा अष्टौ हवींषि वाजिनं नवमं तन्नक्षत्रीयां विराजमाप्नोति (२,१.१९ ) अथो आहुर्दशनीं विराजमिति प्रयाजानुयाजा हवींष्याघारावाज्यभागाविति ॥ १९ ॥ (२,१.२० ) अथ यदग्नीषोमौ प्रथमं देवतानां यजत्यग्नीषोमौ वै देवानां मुखम् (२,१.२० ) मुखत एव तद्देवान् प्रीणाति (२,१.२० ) अथ यत्सवितारं यजत्यसौ वै सविता योऽसौ तपति (२,१.२० ) एतमेव तेन प्रीणाति (२,१.२० ) अथ यत्सरस्वतीं यजति वाग्वै सरस्वती (२,१.२० ) वाचमेतेन प्रीणाति (२,१.२० ) अथ यन् पूषणं यजत्यसौ वै पूषा योऽसौ तपति (२,१.२० ) एतमेव तेन प्रीणाति (२,१.२० ) अथ यन् मरुतः स्वतवसो यजति घोरा वै मरुतः स्वतवसस् (२,१.२० ) तानेव तेन प्रीणाति (२,१.२० ) अथ यद्विश्वान् देवान् यजत्येते वै विश्वे देवा यत्सर्वे देवास् (२,१.२० ) तानेव तेन प्रीणाति (२,१.२० ) अथ यद्द्यावापृथिव्यौ यजति प्रतिष्ठे वै द्यावापृथिव्यौ (२,१.२० ) प्रतिष्ठित्या एव (२,१.२० ) अथ यद्वाजिनो यजति पशवो वै वाजिनः (२,१.२० ) पशूनेव तेन प्रीणाति (२,१.२० ) अथो ऋतवो वै वाजिनः (२,१.२० ) ऋतूनेव तेन प्रीणाति (२,१.२० ) अथो छन्दांसि वै वाजिनः (२,१.२० ) छन्दांस्येव तेन प्रीणाति (२,१.२० ) अथो देवाश्वा वै वाजिनः (२,१.२० ) अत्र देवाः साश्वा अभीष्टाः प्रीता भवन्ति (२,१.२० ) अथ यत्परस्तात्पौर्णमासेन यजते तथा हास्य पूर्वपक्षे वैश्वदेवेनेष्टं भवति ॥ २० ॥ (२,१.२१ ) वैश्वदेवेन वै प्रजापतिः प्रजा असृजत (२,१.२१ ) ताः सृष्टा अप्रसूता वरुणस्य यवाञ्जक्षुस् (२,१.२१ ) ता वरुणो वरुणपाशैः प्रत्यबन्धात् (२,१.२१ ) ताः प्रजाः प्रजापतिं पितरमेत्योपावदन्नुप तं यज्ञक्रतुं जानीहि येनेष्ट्वा वरुणमप्रीणात् (२,१.२१ ) स प्रीतो वरुणः (२,१.२१ ) वरुणपाशेभ्यः सर्वस्माच्च पाप्मनः संप्रमुच्यन्त इति (२,१.२१ ) तत एतं प्रजापतिर्यज्ञक्रतुमपश्यद्वरुणप्रघासान् (२,१.२१ ) तमाहरत् (२,१.२१ ) तेनायजत (२,१.२१ ) तेनेष्ट्वा वरुणमप्रीणात् (२,१.२१ ) स प्रीतो वरुणो वरुणपाशेभ्यः सर्वस्माच्च पाप्मनः प्रजाः प्रामुञ्चत् (२,१.२१ ) प्र ह वा एतस्य प्रजा वरुणपाशेभ्यः सर्वस्माच्च पाप्मनो मुच्यन्ते (२,१.२१ ) य एवं वेद (२,१.२१ ) अथ यदग्निं प्रणयन्ति यमेवामुं वैश्वदेवे मन्थन्ति तमेव तत्प्रणयन्ति (२,१.२१ ) यन् मथ्यते तस्योक्तं ब्राह्मणम् (२,१.२१ ) अथ यत्सप्तदश सामिधेन्यः सद्वन्तावाज्यभागौ विराजौ संयाज्ये तेषामुक्तं ब्राह्मणम् (२,१.२१ ) अथ यन्नव प्रयाजा नवानुयाजा नवैतानि हवींषि (२,१.२१ ) समानानि त्वेव पञ्च संचराणि हवींषि भवन्ति पौष्णान्तानि (२,१.२१ ) तेषामुक्तं ब्राह्मणम् ॥ २१ ॥ (२,१.२२ ) अथ यदैन्द्राग्नो द्वादशकपालो भवति बलं वै तेज इन्द्राग्नी (२,१.२२ ) बलमेव तत्तेजसि प्रतिष्ठापयति (२,१.२२ ) अथ यद्वारुण्यामिक्षेन्द्रो वै वरुणः [एद्. आमीक्षेन्द्रो, चोर्र्. ড়त्यल्] (२,१.२२ ) स उ वै पयोभाजनस् (२,१.२२ ) तस्माद्वारुण्यामिक्षा [एद्. अमिक्षा] (२,१.२२ ) अथ यन् मारुती पयस्याप्सु वै मरुतः श्रिताः [एद्. श्रितः. चोर्र्. ড়त्यल्] (२,१.२२ ) आपो हि पयः (२,१.२२ ) अथेन्द्रस्य वै मरुतः श्रित ऐन्द्रं पयस् (२,१.२२ ) तस्मान् मारुती पयस्या (२,१.२२ ) अथ यत्काय एककपालः प्रजापतिर्वै कः (२,१.२२ ) प्रजापतेराप्त्या (२,१.२२ ) अथो सुखस्य वा एतन्नामधेयं कमिति [एद्. नामघेयम्] (२,१.२२ ) सुखमेव तदध्यात्मन् धत्ते (२,१.२२ ) अथ यन् मिथुनौ गावौ ददाति तत्प्रजात्यै रूपम् (२,१.२२ ) उक्थ्या वाजिनः (२,१.२२ ) अथ यदप्सु वरुणं यजति स्व एवैनं तदायतने प्रीणाति (२,१.२२ ) अथ यत्परस्तात्पौर्णमासेन यजते तथा हास्य पूर्वपक्षे वरुणप्रघासैरिष्टं भवति ॥ २२ ॥ (२,१.२३ ) ऐन्द्रो वा एष यज्ञक्रतुर्यत्साकमेधास् (२,१.२३ ) तद्यथा महाराजः पुरस्तात्सेनानीकानि व्युह्याभयं पन्थानमन्वियादेवमेवैतत्पुरस्ताद्देवता यजति [एद्. सैनानीकानि, चोर्र्. ড়त्यल्] (२,१.२३ ) तद्यथैवादः सोमस्य महाव्रतमेवमेवैतदिष्टिमहाव्रतम् (२,१.२३ ) अथ यदग्निमनीकवन्तं प्रथमं देवतानां यजत्यग्निर्वै देवानां मुखम् (२,१.२३ ) मुखत एव तद्देवान् प्रीणाति (२,१.२३ ) अथ यन् मध्यंदिने मरुतः सांतपनान् यजतीन्द्रो वै मरुतः संतपनाः (२,१.२३ ) ऐन्द्रं माध्यंदिनम् (२,१.२३ ) तस्मादेतानिन्द्रेणोपसंहितान् यजति (२,१.२३ ) अथ यत्सायं गृहमेधीयेन चरन्ति पुष्टिकर्म वै गृहमेधीयः (२,१.२३ ) सायं पोषः पशूनाम् (२,१.२३ ) तस्मात्सायं गृहमेधीयेन चरन्ति (२,१.२३ ) अतह्यच्छ्वो भूते गृहमेधीयस्य निष्काशमिश्रेण पूर्णदर्वेण चरन्ति पूर्वेद्युः कर्मणैवैतत्प्रातः कर्मोपसंतन्वन्ति (२,१.२३ ) अथ यत्प्रातर्मरुतः क्रीडिनो यजतीन्द्रो वै मरुतः क्रीडिनस् (२,१.२३ ) तस्मादेनानिन्द्रेणोपसंहितान् यजति (२,१.२३ ) अथ यदग्निं प्रणयन्ति यमेवामुं वैश्वदेवे मन्थन्ति तमेव तत्प्रणयन्ति (२,१.२३ ) यन् मथ्यते तस्योक्तं ब्राह्मणम् (२,१.२३ ) अथ यत्सप्तदश सामिधेन्यः सद्वन्तावाज्यभागौ विराजौ संयाज्ये तेषामुक्तं ब्राह्मणम् (२,१.२३ ) अथ यन्नव प्रयाजा नवानुयाजा अष्टौ हवींषि समानानि त्वेव षट्संचराणि हवींषि भवन्त्यैन्द्राग्नान्तानि (२,१.२३ ) तेषामुक्तं ब्राह्मणम् (२,१.२३ ) अथ यन् महेन्द्रमन्ततो यजत्यन्तं वै श्रेष्ठी भजते (२,१.२३ ) तस्मादेनमन्ततो यजति (२,१.२३ ) अथ यद्वैश्वकर्मण एककपालोऽसौ वै विश्वकर्मा योऽसौ तपति (२,१.२३ ) एतमेव तेन प्रीणाति (२,१.२३ ) अथ यदृषभं ददात्यैन्द्रो ह यज्ञक्रतुः ॥ २३ ॥ (२,१.२४ ) अथ यदपराह्णे पितृयज्ञेन चरन्त्यपराह्णभाजो वै पितरस् (२,१.२४ ) तस्मादपराह्णे पितृयज्ञेन चरन्ति (२,१.२४ ) तदाहुर्यदपरपक्षभाजो वै पितरः कस्मादेनान् पूर्वपक्षे यजन्तीति (२,१.२४ ) देवा वा एते पितरस् (२,१.२४ ) तस्मादेनान् पूर्वपक्षे यजन्तीति (२,१.२४ ) अथ यदेकां सामिधेनीं त्रिरन्वाह सकृध वै पितरस् (२,१.२४ ) तस्मादेकां सामिधेनीं त्रिरन्वाह (२,१.२४ ) अथ यद्यजमानस्यार्षेयं नाह नेद्यजमानं प्रवृणजानीति (२,१.२४ ) अथ यत्सोमं पितृमन्तं पितॄन् वा सोमवतः पितॄन् बर्हिषदः पितॄनग्निष्वात्तानित्यावाहयति (२,१.२४ ) न हैके स्वं महिमानमावाहयन्ति यजमानस्यैष महिमेति वदन्त आवाहयेदिति त्वेव स्थितम् (२,१.२४ ) अग्नेर्ह्येष महिमा भवति (२,१.२४ ) ओं स्वधेत्याश्रावयति (२,१.२४ ) अस्तु स्वधेति प्रत्याश्रावयति (२,१.२४ ) स्वधाकारो हि पितॄणाम् (२,१.२४ ) अथ यत्प्रयाजानुयाजेभ्यो बर्हिष्मन्तावुद्धरति प्रजा वै बर्हिर्नेत्प्रजां पितृषु दधानीति (२,१.२४ ) ते वै षट्संपद्यन्ते (२,१.२४ ) षड्वा ऋतवः (२,१.२४ ) ऋतवः पितरः (२,१.२४ ) पितॄणामाप्त्यै ॥ २४ ॥ (२,१.२५ ) अथ यज्जीवनवन्तावाज्यभागौ भवतो यजमानमेव तज्जीवयति (२,१.२५ ) अथ यदेकैकस्य हविषस्तिस्रस्तिस्रो याज्या भवन्ति ह्वयत्येवैनान् प्रथमया (२,१.२५ ) द्वितीयया गमयति (२,१.२५ ) प्रैव तृतीयया यच्छति (२,१.२५ ) अथो देवयज्ञमेवैतत्पितृयज्ञेन व्यावर्तयति (२,१.२५ ) अथो दक्षिणासंस्थो वै पितृयज्ञस् (२,१.२५ ) तमेवैतदुदक्संस्थं कुर्वन्ति (२,१.२५ ) अथ यदग्निं कव्यवाहनमन्ततो यजत्येतत्स्विष्टकृतो पितरस् (२,१.२५ ) तस्मादग्निं कव्यवाहनमन्ततो यजति (२,१.२५ ) अथ यदिडामुपहूयावघ्राय न प्राश्नन्ति पशवो वा इडा (२,१.२५ ) नेत्पशून् प्रवृणजानीति (२,१.२५ ) अथ यत्सूक्तवाके यजमानस्याशिषोऽन्वाह नेद्यजमानं प्रवृणजानीति (२,१.२५ ) अथ यत्पत्नीं न संयाजयन्ति नेत्पत्नीं प्रवृणजानीति (२,१.२५ ) अथ यत्पवित्रवति मार्जयन्ते शान्तिर्वै भेषजमापः (२,१.२५ ) शान्तिरेवैषा भेषजमन्ततो यज्ञे क्रियते (२,१.२५ ) अथ यदध्वर्युः पितृभ्यो निपृणाति जीवानेव तत्पितॄननु मनुष्याः पितरोऽनुप्रवहन्ति (२,१.२५ ) अथो देवयज्ञमेवैनं पितृयज्ञेन व्यावर्तयन्ति (२,१.२५ ) अथो दक्षिणासंस्थो वै पितृयज्ञस् (२,१.२५ ) तमेवैतदुदक्संस्थं कुर्वन्ति (२,१.२५ ) अथ यत्प्राञ्चोऽभ्युत्क्रम्यादित्यमुपतिष्ठन्ते देवलोको वा आदित्यः (२,१.२५ ) पितृलोकः पितरः (२,१.२५ ) देवलोकमेवैतत्पितृलोकादुपसंक्रामन्तीति (२,१.२५ ) अथ यद्दक्षिणाञ्चोऽभ्युत्क्रम्याग्नीनुपतिष्ठन्ते प्रीत्यैव तद्देवेष्वन्ततोऽर्धं चरन्ति (२,१.२५ ) अथ यदुदञ्चोऽभ्युत्क्रम्य त्रैयंबकैर्यजन्ते रुद्रमेव तत्स्वस्यां दिशि प्रीणन्ति [एद्. स्वायां बुत्सेए चोर्रिगेन्द प्. ३०२] (२,१.२५ ) अथो देवयज्ञमेवैतत्पितृयज्ञेन व्यावर्तयन्ति (२,१.२५श्) अथो दक्षिणासंस्थो वै पितृयज्ञस् (२,१.२५ अ) तमेवैतदुदक्संस्थं कुर्वन्ति (२,१.२५ ब्) अथ यदन्तत आदित्येष्ट्या यजतीयं वा अदितिः (२,१.२५ च्) अस्यामेवैनमन्ततः प्रतिष्ठापयति (२,१.२५ द्) अथ यत्परस्तात्पौर्णमासेन यजते तथा हास्य पूर्वपक्षे साकमेधैरिष्टं भवति ॥ २५ ॥ (२,१.२६ ) त्रयोदशं वा एतं मासमाप्नोति यच्छुनासीर्येण यजते (२,१.२६ ) एतावान् वै संवत्सरो यावानेष त्रयोदशो मासः (२,१.२६ ) अथ यदग्निं प्रणयन्ति यमेवामुं वैश्वदेवे मन्थन्ति तमेव तत्प्रणयन्ति (२,१.२६ ) यन् मथ्यते तस्योक्तं ब्राह्मणम् (२,१.२६ ) यद्यु न मथ्यते पौर्णमासमेव तन्त्रं भवति (२,१.२६ ) प्रतिष्ठा वै पौर्णमासम् (२,१.२६ ) प्रतिष्ठित्या एवाथ यद्वायुं यजति प्राणो वै वायुः (२,१.२६ ) प्राणमेव तेन प्रीणाति (२,१.२६ ) अथ यच्छुनासीरं यजति संवत्सरो वै शुनासीरः (२,१.२६ ) संवत्सरमेव तेन प्रीणाति (२,१.२६ ) अथ यत्सूर्यं यजत्यसौ वै सूर्यो योऽसौ तपति (२,१.२६ ) एतमेव तेन प्रीणाति (२,१.२६ ) अथ यच्छ्वेतां दक्षिणां ददात्येतस्यैव तद्रूपं क्रियते (२,१.२६ ) अथ यत्प्रायश्चित्तप्रतिनिधिं कुर्वन्ति स्वस्त्ययनमेव तत्कुर्वन्ति (२,१.२६ ) यज्ञस्यैव शान्तिर्यजमानस्य भैषज्याय (२,१.२६ ) तैर्वा एतैश्चातुर्मास्यैर्देवाः सर्वान् कामानाप्नुवंत्सर्वा इष्टीः सर्वममृतत्वम् (२,१.२६ ) स वा एष प्रजापतिः संवत्सरश्चतुर्विंशो यच्चातुर्मास्यानि (२,१.२६ ) तस्य मुखमेव वैश्वदेवम् (२,१.२६ ) बाहू वरुणप्रघासाः (२,१.२६ ) प्राणोऽपानो व्यान इत्येतास्तिस्र इष्टयः [एद्. प्रणो] (२,१.२६ ) आत्मा महाहविः (२,१.२६ ) प्रतिष्ठा शुनासीरम् (२,१.२६ ) स वा एष प्रजापतिरेव संवत्सरो यच्चातुर्मास्यानि (२,१.२६ ) सर्वं वै प्रजापतिः (२,१.२६ ) सर्वं चातुर्मास्यानि (२,१.२६श्) तत्सर्वेणैव सर्वमाप्नोति य एवं वेद यश्चैवं विद्वांश्चातुर्मास्यैर्यजते चातुर्मास्यैर्यजते चातुर्मास्यैर्यजते (२,१.२६ ओल्) इत्यथर्ववेदे गोपथब्राह्मणोत्तरभागे प्रथमः प्रपाठकः ॥ (२,२.१ ) ओं मांसीयन्ति वा आहिताग्नेरग्नयस् (२,२.१ ) त एनमेवाग्रेऽभिध्यायन्ति यजमानम् (२,२.१ ) य एतमैन्द्राग्नं पशुं षष्ठे षष्ठे मास आलभते तेनैवेन्द्राग्निभ्यां ग्रसितमात्मानं निरवदयते (२,२.१ ) आयुष्काम आलभेत (२,२.१ ) प्राणापानौ वा इन्द्राग्नी (२,२.१ ) प्राणापानावेवात्मनि धत्ते (२,२.१ ) आयुष्मान् भवति (२,२.१ ) प्रजाकाम आलभेत (२,२.१ ) प्राणापानौ वा इन्द्राग्नी (२,२.१ ) प्राणापानौ प्रजा अनुप्रजायन्ते (२,२.१ ) प्रजावान् भवति (२,२.१ ) पशुकाम आलभेत (२,२.१ ) प्राणापानौ वा इन्द्राग्नी (२,२.१ ) प्राणापानौ पशवोऽनुप्रजायन्ते (२,२.१ ) पशुमान् भवति (२,२.१ ) यामं शुकं हारितमालभेत शुण्ठं वा यः कामयेतानामयः पितृलोके स्यामिति [एद्. शुकहरितं, चोर्र्. ড়त्यल्] (२,२.१ ) एतेन ह वै यमोऽमुष्मिंल्लोक आर्ध्नोत् (२,२.१ ) पितृलोक एवार्ध्नोति (२,२.१ ) त्वाष्ट्रं वडवमालभेत प्रजाकामः (२,२.१ ) प्रजापतिर्वै प्रजाः सिसृक्षमाणः स द्वितीयं मिथुनं नाविन्दत्[एद्. सिसृक्समाणः, चोर्रेच्तेद्प्. ३०२॑ ড়त्यल्॒ रेअद्नाविन्दत?] (२,२.१ ) स त्वाष्ट्रं वडवमपश्यत् (२,२.१ ) त्वष्टा हि रूपाणां प्रजनयिता (२,२.१ ) तेन प्रजा असृजत (२,२.१ ) तेन मिथुनमविन्दत् (२,२.१ ) प्रजावान् मिथुनवान् भवति य एवं वेद यश्चैवंविद्वानेतमालभते (२,२.१श्) योनीन् वा एष काम्यान् पशूनालभते योऽनिष्ट्वैन्द्राग्नेन काम्यं पशुमालभत इष्ट्वालम्भः समृद्ध्यै ॥ १ ॥ (२,२.२ ) पञ्चधा वै देवा व्युदक्रामन्नग्निर्वसुभिः सोमो रुद्रैरिन्द्रो मरुद्भिर्वरुण आदित्यैर्बृहस्पतिर्विश्वैर्देवैस् (२,२.२ ) ते देवा अब्रुवन्नसुरेभ्यो वा इदं भ्रातृव्येभ्यो रध्यामो यन् मिथो विप्रियाः स्मः (२,२.२ ) या न इमाः प्रियास्तन्वस्ताः समवद्यामहा इति (२,२.२ ) ताः समवाद्यन्त (२,२.२ ) ताभ्यः स निरृच्छाद्यो नः प्रथमोऽन्योऽन्यस्मै द्रुह्यादिति (२,२.२ ) यत्तन्वः समवाद्यन्त तत्तानूनप्त्रस्य तानूनप्त्रत्वम् (२,२.२ ) ततो देवा अभवन् परासुरास् (२,२.२ ) तस्माद्यः सतानूनप्त्रिणां प्रथमो द्रुह्यति स आर्तिमार्छति (२,२.२ ) यत्तानूनप्त्रं समवद्यति भ्रातृव्याभिभूत्यै (२,२.२ ) भवत्यात्मना परास्याप्रियो भ्रातृव्यो भवति ॥ २ ॥ (२,२.३ ) पञ्च कृत्वोऽवद्यति (२,२.३ ) पाङ्क्तो यज्ञः (२,२.३ ) पञ्चधा हि ते ताः समवाद्यन्त (२,२.३ ) आपतये त्वा गृह्णामीत्याह (२,२.३ ) प्राणो वा आपतिः (२,२.३ ) प्राणमेव तेन प्रीणाति (२,२.३ ) परिपतये त्वेत्याह (२,२.३ ) मनो वै परिपतिः (२,२.३ ) मन एव तेन प्रीणाति (२,२.३ ) तनूनप्त्र इत्याह (२,२.३ ) तन्वो हि ते ताः समवाद्यन्त (२,२.३ ) शाक्वरायेत्याह (२,२.३ ) शक्त्यै हि ते ताः समवाद्यन्त (२,२.३ ) शक्मन ओजिष्ठायेत्याह (२,२.३ ) ओजिष्ठं हि ते तदात्मनः समवाद्यन्त (२,२.३ ) अनाधृष्टमित्याह (२,२.३ ) अनाधृष्टं ह्येतत् (२,२.३ ) अनाधृष्यमित्याह (२,२.३ ) अनाधृष्यं ह्येतत् (२,२.३ ) देवानामोज इत्याह (२,२.३ ) देवानां ह्येतदोजः (२,२.३ ) अभिशस्तिपा इत्याह (२,२.३ ) अभिशस्तिपा ह्येतत् (२,२.३ ) अनभिशस्तेन्यमित्याह (२,२.३ ) अनभिशस्तेन्यं ह्येतत् [एद्. अनभिशस्तेनं, चोर्र्. ড়त्यल्] (२,२.३श्) अनु मे दीक्षां दीक्षापतिर्मन्यतामनु तपस्तपस्पतिरञ्जसा सत्यमुप गेषं स्विते मा धा इत्याह यथायजुरेवैतत् ॥ ३ ॥ (२,२.४ ) घृतं वै देवा वज्रं कृत्वा सोममघ्नन् (२,२.४ ) स्रुचौ बाहू (२,२.४ ) तस्मात्स्रुचौ सौमीमाहुतिं नाशाते (२,२.४ ) अवधीयेत सोमस् (२,२.४ ) तस्मात्स्रुचौ चाज्यं चान्तिकमाहार्षीत् (२,२.४ ) अन्तिकमिव खलु वा अस्यैतत्प्रचरन्ति यत्तानूनप्त्रेण प्रचरन्ति (२,२.४ ) अंशुरंशुष्टे देव सोमाप्यायतामिन्द्रायैकधनविद इत्याह (२,२.४ ) यदेवास्यापवायते यन् मीयते तदेवास्यैतेनाप्याययन्ति (२,२.४ ) आ तुभ्यमिन्द्रः प्यायतामा त्वमिन्द्राय प्यायस्वेत्याह (२,२.४ ) उभावेवेन्द्रं च सोमं चाप्याययन्ति (२,२.४ ) आप्याययास्मान्त्सखीन्त्सन्या मेधया प्रजया धनेनेत्याह (२,२.४ ) ऋत्विजो वा एतस्य सखायस् (२,२.४ ) तानेवास्यैतेनाप्याययन्ति (२,२.४ ) स्वस्ति ते देव सोम सुत्यामुदृचमशीयेत्याह (२,२.४ ) आशिषमेवैतामाशास्ते (२,२.४ ) प्र वा एतस्माल्लोकाच्च्यवन्ते ये सोममाप्याययन्ति (२,२.४ ) अन्तरिक्षदेवत्यो हि सोम आप्यायितः (२,२.४ ) एष्टा राय एष्टा वामानि प्रेषे भगाय (२,२.४ ) ऋतमृतवादिभ्यो नमो दिवे नमः पृथिव्या इति (२,२.४ ) द्यावापृथिवीभ्यामेव नमस्कृत्यास्मिंल्लोके प्रतितिष्ठति प्रतितिष्ठति ॥ ४ ॥ (२,२.५ ) मख इत्येतद्यज्ञनामधेयं छिद्रप्रतिषेधसामर्थ्यात् (२,२.५ ) छिद्रं खमित्युक्तम् (२,२.५ ) तस्य मेति प्रतिषेधः (२,२.५ ) मा छिद्रं करिष्यतीति (२,२.५ ) छिद्रो हि यज्ञो भिन्न इवोदधिर्विस्रवति (२,२.५ ) तद्वै खलु छिद्रं भवत्यृत्विग्यजमानविमानाद्वा (२,२.५ ) अपि वैषां व्यपेक्षया मन्त्रकल्पब्राह्मणानामप्रयोगाद्यथोक्तानां वा दक्षिणानामप्रदानाद्धीनाद्वातिरिक्ताद्वोत्पाताद्भुतेषु प्रायश्चित्तव्यतिक्रमादिति (२,२.५ ) एतद्वै सर्वं ब्रह्मण्यर्पितम् (२,२.५ ) ब्रह्मैव विद्वान् यद्भृग्वङ्गिरोवित्सम्यगधीयानश्चरितब्रह्मचर्योऽन्यूनानतिरिक्ताङ्गोऽप्रमत्तो यज्ञं रक्षति (२,२.५ ) तस्य प्रमादाद्यदि वाप्यसांनिध्याद्यथा भिन्ना नौरगाधे महत्युदके संप्लवेन् मत्स्यकच्छपशिंशुमारनक्रमकरपुरीकयजषरजसपिशाचानां भागधेयं भवत्येवमादीनां चान्येषां विनष्टोपजीविनाम् (२,२.५ ) एवं खल्वपि यज्ञश्छिन्नभिन्नोऽपध्वस्त उत्पाताद्भुतो बहुलोऽथर्वभिरसंस्कृतोऽसुरगन्धर्वयक्षरक्षसपिशाचानां भागधेयं भवत्येवमादीनां चान्येषां विनष्टोपजीविनां (२,२.५ ) तदपि श्लोकाः (२,२.५ ) छिन्नभिन्नोऽपध्वस्तो विश्रुतो बहुधा मखः । इष्टापूर्तद्रविणंगृह्य यजमानस्यावापतत् ॥ (२,२.५ ) ऋत्विजां च विनाशाय राज्ञो जनपदस्य च । संवत्सरविरिष्टं तद्यत्र यज्ञो विरिष्यते ॥ [एद्. विरष्यते, चोर्रेच्तेद्प्. ३०२] (२,२.५ ) दक्षिणाप्रवणीभूतो यज्ञो दक्षिणतः स्मृतः । हीनाङ्गो रक्षसां भागो ब्रह्मवेदादसंस्कृतः ॥ (२,२.५ ) चतुष्पात्सकलो यज्ञश्चातुर्हौत्रविनिर्मितः । चतुर्विधै स्थितो मन्त्रैरृत्विग्भिर्वेदपारगैः ॥ (२,२.५ ) प्रायश्चित्तैरनुध्यानैरनुज्ञानानुमन्त्रणैः । होमैश्च यज्ञविभ्रंशं सर्वं ब्रह्मा प्रपूरयेद् ॥ इति (२,२.५ ) तस्माद्यजमानो भृग्वङ्गिरोविदमेव तत्र ब्रह्माणं वृणीयात् (२,२.५ ) स हि यज्ञं तारयतीति ब्राह्मणम् ॥ ५ ॥ (२,२.६ ) यज्ञो वै देवेभ्य उदक्रामन्न वोऽहमन्नं भविष्यामीति [एद्. उदक्रमन्, चोर्र्. ড়त्यल्] (२,२.६ ) नेति देवा अब्रुवन्नन्नमेव नो भविष्यसीति (२,२.६ ) तं देवा विमेथिरे (२,२.६ ) स एभ्यो विहृतो न प्रबभूव (२,२.६ ) ते होचुर्देवाः (२,२.६ ) न वै न इत्थं विहृतोऽलं भविष्यति (२,२.६ ) हन्तेमं संभरामेति (२,२.६ ) तं संजभ्रुस् (२,२.६ ) तं संभृत्योचुरश्विनाविमं भिषज्यतमिति [एद्. अश्विणाव्, चोर्र्. ড়त्यल्] (२,२.६ ) अश्विनौ वै देवानां भिषजौ (२,२.६ ) अश्विनावध्वर्यू (२,२.६ ) तस्मादध्वर्यू घर्मं संभरतस् (२,२.६ ) तं संभृत्योचतुर्ब्रह्मन् घर्मेण प्रचरिष्यामो होतर्घर्ममभिष्टुह्युद्गातः सामानि गायेति (२,२.६ ) प्रचरत घर्ममित्यनुजानाति (२,२.६ ) ब्रह्मप्रसूता हि प्रचरन्ति (२,२.६ ) ब्रह्म हेदं प्रसवानामीशे (२,२.६ ) सवितृप्रसूततायै (२,२.६ ) <घर्मं तपामि [ড়्ष्५.१६.२, सकल अत्Vऐत्ष्१४.१]> <ब्रह्म जज्ञानम् [ড়्ष्५.२.२, श्ष्४.१.१, Vऐत्ष्१४.१]> <इयं पित्र्या राष्ट्र्येत्वग्रे [ড়्ष्५.२.१, श्ष्४.१.२, Vऐत्ष्१४.१]>इति घर्मं ताप्यमानमुपासीत शस्त्रवदर्धर्चश आहावप्रतिगरवर्जं रूपसमृद्धाभिः (२,२.६ ) एतद्वै यज्ञस्य समृद्धं यद्रूपसमृद्धम् (२,२.६ ) यत्कर्म क्रियमाणमृग्यजुर्वाभिवदति स्वस्ति तस्य यज्ञस्य पारमश्नुते य एवं वेद (२,२.६ ) देवमिथुनं वा एतद्यद्घर्मस् (२,२.६ ) तस्मादन्तर्धाय प्रचरन्ति (२,२.६ ) अन्तर्हिता वै मिथुनं चरन्तीति (२,२.६ ) तदेतद्देवमिथुनमित्याचक्षते (२,२.६ ) तस्य यो घर्मस्तच्छिश्नम् (२,२.६श्) यौ शफौ तावाण्ड्यौ (२,२.६ अ) योपयमनी ते श्रोणिकपाले (२,२.६ ब्) यत्पयस्तद्रेतस् (२,२.६ च्) तदग्नौ देवयोन्यां रेतो ब्रह्ममयं धत्ते प्रजननाय (२,२.६ द्) सोऽग्निर्देवयोनिरृङ्मयो यजुर्मयः साममयो ब्रह्ममयोऽमृतमय आहुतिमयः सर्वेन्द्रियसंपन्नो यजमान ऊर्ध्वः स्वर्गं लोकमेति (२,२.६ ए) तदाहुर्न प्रथमयज्ञे प्रवर्ग्यं कुर्वीतानुपनामुका ह वा एनमुत्तरे यज्ञक्रतवो भवन्तीति (२,२.६ f) कामं तु योऽनूचानः श्रोत्रियः स्यात्तस्य प्रवृञ्ज्यात् (२,२.६ ग्) आत्मा वै स यज्ञस्येति विज्ञायते (२,२.६ ह्) अपशिरसा ह वा एष यज्ञेन यजते योऽप्रवर्ग्येण यजते (२,२.६ इ) शिरो ह वा एतद्यज्ञस्य यत्प्रवर्ग्यस् (२,२.६ ज्) तस्मात्प्रवर्ग्यवतैव याजयेन्नाप्रवग्येण (२,२.६ क्) तदप्येषाभ्यनूक्ता <चत्वारि शृङ्गा [ড়्ष्८.१३.३, सकल अत्ङ्Bर्१,२.१६ ]>इति ॥ ६ ॥ (२,२.७ ) देवाश्च ह वा ऋषयश्चासुरैः संयत्ता आसन् [एद्. चिआसुरैः] (२,२.७ ) तेषामसुराणामिमाः पुरः प्रत्यभिजिता आसन्नयस्मयी पृथिवी रजतान्तरिक्षं हरिणी द्यौस् (२,२.७ ) ते देवाः संघातंसंघातं पराजयन्त (२,२.७ ) तेऽविदुरनायतना हि वै स्मस् (२,२.७ ) तस्मात्पराजयामहा इति [एद्. पराजयामह, चोर्र्. ড়त्यल्] (२,२.७ ) त एताः पुरः प्रत्यकुर्वत हविर्धानं दिव आग्नीध्रमन्तरिक्षात्सदः पृथिव्यास् (२,२.७ ) ते देवा अब्रुवन्नुपसदमुपायाम (२,२.७ ) उपसदा वै महापुरं जयन्तीति (२,२.७ ) त एभ्यो लोकेभ्यो निरघ्नन् (२,२.७ ) एकयामुष्माल्लोकादेकयान्तरिक्षादेकया पृथिव्यास् (२,२.७ ) तस्मादाहुरुपसदा वै महापुरं जयन्तीति (२,२.७ ) त एभ्यो लोकेभ्यो निर्हता ऋतून् प्राविशन् (२,२.७ ) ते षडुपायन् (२,२.७ ) तानुपसद्भिरेवर्तुभ्यो निरघ्नन् (२,२.७ ) द्वाभ्याममुष्माल्लोकाद्द्वाभ्यामन्तरिक्षाद्द्वाभ्यां पृथिव्यास् (२,२.७ ) त ऋतुभ्यो निर्हताः संवत्सरं प्राविशन् (२,२.७ ) ते द्वादशोपायन् (२,२.७ ) तानुपसद्भिरेव संवत्सरान्निरघ्नन् (२,२.७ ) चतसृभिरमुष्माल्लोकाच्चतसृभिरन्तरिक्षाच्चतसृभिः पृथिव्यास् (२,२.७ ) ते संवत्सरान्निर्हता अहोरात्रे प्राविशन् (२,२.७ ) ते यत्सायमुपायंस्तेनैनान् रात्र्या अनुदन्त यत्प्रातस्तेनाह्नस् (२,२.७ ) तस्माद्गौः सायं प्रातस्तनमाप्यायते प्रातः सायन्तनम् (२,२.७ ) तानुपसद्भिरेवैभ्यो लोकेभ्यो नुदमाना आयन् (२,२.७ ) ततो देवा अभवन् परासुराः (२,२.७ ) सर्वेभ्य एवैभ्यो लोकेभ्यो भ्रातृव्यं नुदमान एति य एवंविद्वानुपसदमुपैति ॥ ७ ॥ (२,२.८ ) न द्वादशाग्निष्टोमस्योपसदः स्युः (२,२.८ ) अशान्ता निर्मृज्युर्न तिस्रोऽहीनस्य (२,२.८ ) उपरिष्टाद्यज्ञक्रतुर्गरीयानभिषीदेद्यथा गुरुर्भारो ग्रीवा निःशृणीयादार्तिमार्छेत् (२,२.८ ) द्वादशाहीनस्य कुर्यात् (२,२.८ ) प्रत्युत्तब्ध्यै सयत्वाय (२,२.८ ) तिस्रोऽग्निष्टोमस्योपसदः स्युः शान्त्या अनिर्मार्गाय (२,२.८ ) ते देवा असुर्यानिमांल्लोकान्नान्ववैतुमधृष्णुवन् (२,२.८ ) तानग्निना मुखेनान्ववायन् (२,२.८ ) यदग्निमन्त्युपसदां प्रतीकानि भवन्ति यथा क्षेत्रपतिः क्षेत्रेऽन्ववनयत्येवमेवैतदग्निना मुखेनेमांल्लोकानभिनयन्तो यन्ति [एद्.ऽन्ववनयन्त्य्, चोर्र्. ড়त्यल्] (२,२.८ ) यो ह वै देवान् साध्यान् वेद सिध्यत्यस्मै (२,२.८ ) इमे वाव लोका यत्साध्या देवाः (२,२.८ ) स य एवमेतान्त्साध्यान् वेद सिध्यत्यस्मै (२,२.८ ) सिध्यत्यमुष्मै सिध्यत्यस्मै लोकाय य एवंविद्वानुपसदमुपैति ॥ ८ ॥ (२,२.९ ) अथ यत्राहाध्वर्युरग्नीद्देवपत्नीर्व्याचक्ष्व सुब्रह्मण्य सुब्रह्मण्यामाह्वयेति तदपरेण गार्हपत्यं प्राङ्मुखस्तिष्ठन्ननवानन्नाग्नीध्रो देवपत्नीर्व्याचष्टे (२,२.९ ) पृथिव्यग्नेः पत्नी (२,२.९ ) वाग्वातस्य पत्नी (२,२.९ ) सेनेन्द्रस्य पत्नी (२,२.९ ) धेना बृहस्पतेः पत्नी (२,२.९ ) पथ्या पूष्णः पत्नी (२,२.९ ) गायत्री पसूनां पत्नी (२,२.९ ) त्रिष्टुब्रुद्राणां पत्नी (२,२.९ ) जगत्यादित्यानां पत्नी (२,२.९ ) अनुष्टुं मित्रस्य पत्नी (२,२.९ ) विराड्वरुणस्य पत्नी (२,२.९ ) पङ्क्तिर्विष्णोः पत्नी (२,२.९ ) दीक्षा सोमस्य राज्ञः पत्नीति (२,२.९ ) अति भ्रातृव्यानारोहति नैनं भ्रातृव्या आरोहन्त्युपरि भ्रातृव्यानारोहति य एवंविद्वानाग्नीध्रो देवपत्नीर्व्याचष्टे ॥ ९ ॥ [एद्. आरुओहन्त्य्, आरुओहति] (२,२.१० ) यथा वै रथ एकैकमरमभिप्रतितिष्ठन् वर्तत एवं यज्ञ एकैकां तन्वमभिप्रतितिष्ठन्नेति (२,२.१० ) पुरा प्रचरितोराग्नीध्रीये होतव्याः (२,२.१० ) एतद्ध वा उवाच वासिष्ठः सात्यहव्योऽस्कन् सोम इत्युक्ते मा सूर्क्षत प्रचरत प्रातर्वावाद्याहं सोमं समस्थापयमिति (२,२.१० ) नास्य सोम स्कन्दति य एवंविद्वान्त्सोमं पिबति (२,२.१० ) स ह स्म वै स आसन्द्यामासीनः सक्तुभिरुपमथ्य सोमं पिबति (२,२.१० ) अहं वाव सर्वतो यज्ञं वेद य एतान् वेद (२,२.१० ) न मामेष हिंसिष्यतीति (२,२.१० ) नैनं सोमपीथो न पेयो हिनस्ति य एवंविद्वान्त्सोमं पिबति (२,२.१० ) तं ह स्म यदाहुः कस्मात्त्वमिदमासन्द्यामासीनः सक्तुभिरुपमथ्य सोमं पिबसीति (२,२.१० ) देवतास्वेव यज्ञं प्रतिष्ठापयामीत्यब्रवीद्ब्राह्मणो यस्यैवंविदुषो यस्यैवंविद्वान् यज्ञार्त्या यज्ञे प्रायश्चित्तं जुहोति [एद्ब्रह्मणो, चोर्र्. ড়त्यल्] (२,२.१० ) देवतास्वेव यज्ञं प्रतिष्ठापयति (२,२.१० ) यज्ञार्तिं प्रतिजुहुयात् (२,२.१० ) सयोनित्वाय (२,२.१० ) त्रयस्त्रिंशद्वै यज्ञस्य तन्व इति (२,२.१० ) एकान्नत्रिंशत्स्तोमभागास् (२,२.१० ) त्रीणि सवनानि (२,२.१० ) यज्ञश्चतुर्थः (२,२.१० ) स्तोमभागैरेवैतत्स्तोमभागान् प्रतिप्रयुङ्क्ते सवनैः सवनानि यज्ञेन यज्ञम् (२,२.१० ) सर्वा ह वा अस्य यज्ञस्य तन्वः प्रयुक्ता भवन्ति सर्वा आप्ताः सर्वा अवरुद्धाः (२,२.१० ) देवस्य सवितुः प्रसवे बृहस्पतये स्तुतेति (२,२.१० ) यद्यद्वै सविता देवेभ्यः प्रासुवत्तेनार्ध्नुवन् (२,२.१० ) सवितृप्रसूता एव स्तुवन्ति (२,२.१० ) ऋध्नुवन्ति (२,२.१० ) ऋध्यन्ते ह वा अस्य स्तोमा यज्ञे (२,२.१० ) ऋध्यते यजमान ऋध्यते प्रजायाः [एद्. ऋध्यते ऋध्यते, चोर्रेच्तेद्प्. ३०२] (२,२.१०श्) ऋध्यते पशुभ्यः (२,२.१० अ) ऋध्यते ब्रह्मणे यस्यैवंविद्वान् ब्रह्मा भवति ॥ १० ॥ (२,२.११ ) देवाश्च ह वा असुराश्चास्पर्धन्त (२,२.११ ) ते देवाः समावदेव यज्ञे कुर्वाणा आसन् (२,२.११ ) यदेव दवा अकुर्वत तदसुरा अकुर्वत (२,२.११ ) ते न व्यावृतमगच्छन् (२,२.११ ) ते देवा अब्रुवन्नयतेमं यज्ञं तिर उपर्यसुरेभ्यस्तंस्यामह इति (२,२.११ ) तमेताभिराच्छाद्योदक्रामन् यजूंषि यज्ञे समिधः स्वाहेति (२,२.११ ) तं तिर उपर्यसुरेभ्यो यज्ञमतन्वत (२,२.११ ) तमेषां यज्ञमसुरा नान्ववायन् (२,२.११ ) ततो देवा अभवन् परासुराः (२,२.११ ) स य एवंविद्वांस्तिर उपर्यसुरेभ्यो यज्ञं तनुते भवत्यात्मना परास्याप्रियो भ्रातृव्यो भवति (२,२.११ ) एतैरेव जुहुयात्समृतयज्ञे चतुर्भिश्चतुर्भिरन्वाख्यायम् (२,२.११ ) पुरस्तात्प्रातरनुवाकस्य जुहुयात् (२,२.११ ) एतावान् वै यज्ञो यावानेष यज्ञस्तं वृङ्क्ते (२,२.११ ) सयज्ञो भवति (२,२.११ ) अयज्ञ इतरः (२,२.११ ) एतैरेव जुहुयात्पुरस्ताद्द्वादशाहस्य (२,२.११ ) एष ह वै प्रत्यक्षं द्वादशाहस् (२,२.११ ) तमेवालभ्यैतैरेव जुहुयात् (२,२.११ ) पुरस्ताद्दीक्षायाः (२,२.११ ) एषा ह वै प्रत्यक्षं दीक्षा (२,२.११ ) तामेवालभ्यैतैरेवातिथ्यमभिमृशेद्<यज्ञेन यज्ञमयजन्त देवाः [श्ष्७.५.१, ড়्ष्२०.२.२, Vऐत्ष्१६.१५]> इति ॥ ११ ॥ (२,२.१२ ) यत्र विजानाति ब्रह्मन्त्सोमोऽस्कन्निति तमेतयालभ्याभिमन्त्रयते<अभूद्देवः सविता वन्द्यो नु न इदानीमह्न उपवाच्यो नृभिः । वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्रविणं यथा दधत्[ऋV ४.५४.१]>इति (२,२.१२ ) <ये अग्नयो अप्स्वन्तर्[श्ष्३.२१.१, Vऐत्ष्१६.१६, च्f. ড়्ष्१०.९.१?]> इति सप्तभिरभिजुहोति (२,२.१२ ) यदेवास्यावस्कन्नं भवति तदेवास्यैतदग्नौ स्वगाकरोति (२,२.१२ ) अग्निर्हि सुकृतीनां हविषां प्रतिष्ठा (२,२.१२ ) अथ विसृप्य वैप्रुषान् होमाञ्जुहोति <द्रप्सश्चस्कन्द [ऋV १०.१७.११, ড়्ष्२०.१३.७, श्ष्१८.४.२८, Vऐत्ष्१६.१७]>इति [एद्. जुह्वति, चोर्र्. ড়त्यल्] (२,२.१२ ) या एवास्याभिषूयमाणस्य विप्रुष स्कन्दन्त्यंशुर्वा ता एवास्यैतदाहवनीये स्वगाकरोति [एद्. आहवणीये] (२,२.१२ ) आहवनीयो ह्याहुतीनां प्रतिष्ठा (२,२.१२ ) <यस्ते द्रप्स स्कन्दति [ऋV १०.१७.१२ , ড়्ष्२०.१३.८ , Vऐत्ष्१६.१७]>इति (२,२.१२ ) स्तोको वै द्रप्सः (२,२.१२ ) <यस्ते अंशुर्बाहुच्युतो धिषणाया उपस्थात्[ऋV १०.१७.१२ , ড়्ष्२०.१३.८ , Vऐत्ष्१६.१७]>इति बाहुभिरभिच्युतोऽंशुरधिषवणाभ्यामधिस्कन्दति (२,२.१२ ) <अध्वर्योर्वा परि यः पवित्रात्तं ते जुहोमि मनसा वषट्कृतम् [ড়्ष्२०.१३.८ द्, ऋV १०.१७.१२ द्, Vऐत्ष्१६.१७]> इति (२,२.१२ ) तद्यथा वषट्कृतं स्वाहाकृतं हुतमेवं भवति ॥ १२ ॥ (२,२.१३ ) ऋषयो वा इन्द्रं प्रत्यक्षं नापश्यन् (२,२.१३ ) तं वसिष्ठ एव प्रत्यक्षमपश्यत् (२,२.१३ ) सोऽबिभेदितरेभ्य ऋषिभ्यो मा प्रवोचदिति (२,२.१३ ) सोऽब्रवीद्ब्राह्मणं ते वक्ष्यामि यथा त्वत्पुरोहिताः प्रजाः प्रजनिष्यन्ते (२,२.१३ ) अथेतरेभ्य ऋषिभ्यो मा प्रवोच इति (२,२.१३ ) तस्मा एतान् स्तोमभागानुवाच (२,२.१३ ) ततो वसिष्ठपुरोहिताः प्रजाः प्राजायन्त (२,२.१३ ) स्तोमो वा एते एतेषां भागस् (२,२.१३ ) तत्स्तोमभागानां स्तोमभागत्वम् (२,२.१३ ) रश्मिरसि क्षयाय त्वेति (२,२.१३ ) क्षयो वै देवाः (२,२.१३ ) देवेभ्य एव यज्ञं प्राह (२,२.१३ ) प्रेतिरसि धर्मणे त्वेति (२,२.१३ ) धर्मो मनुष्याः (२,२.१३ ) मनुष्येभ्य एव यज्ञं प्राह (२,२.१३ ) अन्वितिरसि संधिरसि प्रतिधिरसीति [एद्. अनितिर्, चोर्र्. ড়त्यल्] (२,२.१३ ) त्रयो वै लोकाः (२,२.१३ ) लोकेष्वेव यज्ञं प्रतिष्ठापयति (२,२.१३ ) विष्टम्भोऽसीति (२,२.१३ ) वृष्टिमेवावरुन्द्धे (२,२.१३ ) प्रावोऽस्यह्नांसीति मिथुनमेव करोति (२,२.१३ ) उशिगसि प्रकेतोऽसि सुदितिरसीति (२,२.१३ ) अष्टौ वसव एकादश रुद्रा द्वादशादित्या वाग्द्वात्रिंशी स्वरस्त्रयस्त्रिंशस्त्रयस्त्रिंशद्देवाः (२,२.१३ ) देवेभ्य एव यज्ञं प्राह (२,२.१३ ) ओजोऽसि पितृभ्यस्त्वेति (२,२.१३श्) बलमेव तत्पितॄननुसंतनोति (२,२.१३ अ) तन्तुरसि प्रजाभ्यस्त्वेति (२,२.१३ ब्) प्रजा एव पशूननुसंतनोति (२,२.१३ च्) रेवदस्योषधीभ्यस्त्वेति (२,२.१३ द्) ओषधीष्वेव यज्ञं प्रतिष्ठापयति (२,२.१३ ए) पृतनाषाडसि पशुभ्यस्त्वेति (२,२.१३ f) प्रजा एव पशूननुसंतनोति (२,२.१३ ग्) अभिजिदसीति (२,२.१३ ह्) वज्रो वै षोडशी (२,२.१३ इ) व्यावृत्तोऽसौ वज्रस् (२,२.१३ ज्) तस्मादेषोऽन्यैर्व्यावृत्तः (२,२.१३ क्) नाभुरसीति (२,२.१३ ल्) प्रजापतिर्वै सप्तदशः (२,२.१३ म्) प्रजापतिमेवावरुन्द्धे ॥ १३ ॥ (२,२.१४ ) अधिपतिरसि धरुणोऽसि संसर्पोऽसि वयोधा असीति (२,२.१४ ) प्राणोऽपानश्चक्षुः श्रोत्रमित्येतानि वै पुरुषमकरन् प्रणानुपैति (२,२.१४ ) प्रजात्या एव (२,२.१४ ) त्रिवृदसि प्रवृदसि स्ववृदस्यनुवृदसीति (२,२.१४ ) मिथुनमेव करोति (२,२.१४ ) आरोहोऽसि प्ररोहोऽसि संरोहोऽस्यनुरोहोऽसीति [एद्. आरुओहो] (२,२.१४ ) प्रजापतिरेव (२,२.१४ ) वसुकोऽसि वस्यष्टिरसि वेषश्रीरसीति (२,२.१४ ) प्रतिष्ठितिरेव (२,२.१४ ) आक्रमोऽसि संक्रमोऽस्युत्क्रमोऽस्युत्क्रान्तिरसीति (२,२.१४ ) ऋद्धिरेव (२,२.१४ ) यद्यद्वै सविता देवेभ्यः प्रासुवत्तेनार्ध्नुवन् (२,२.१४ ) सवितृप्रसूता एव स्तुवन्ति (२,२.१४ ) ऋध्नुवन्ति (२,२.१४ ) बृहस्पतये स्तुतेति (२,२.१४ ) बृहस्पतिर्वा आङ्गिरसो देवानां ब्रह्मा (२,२.१४ ) तदनुमत्यैवों भूर्जनदिति प्रातःसवने (२,२.१४ ) ऋग्भिरेवोभयतोऽथर्वाङ्गिरोभिर्गुप्ताभिर्गुप्तै स्तुतेति (२,२.१४ ) एवों भुवो जनदिति माध्यंदिने सवने (२,२.१४ ) यजुर्भिरेवोभयतोऽथर्वाङ्गिरोभिर्गुप्ताभिर्गुप्तैः (२,२.१४ ) स्तुतेत्येवों स्वर्जनदिति तृतीयसवने (२,२.१४ ) सामभिरेवोभयतोऽथर्वाङ्गिरोभिर्गुप्ताभिर्गुप्तै स्तुतेत्येव (२,२.१४ ) अथ यद्यहीन उक्थ्यः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्यामा वा स्यात्सर्वाभिः सर्वाभिरत ऊर्ध्वं व्याहृतिभिरनुजानाति (२,२.१४ ) ओं भूर्भुवः स्वर्जनद्वृधत्करद्रुहन् महत्तच्छमोमिन्द्रवन्त स्तुतेति सेन्द्रान् मापगायत सेन्द्रान् स्तुतेत्येव (२,२.१४ ) इन्द्रियवानृद्धिमान् वशीयान् भवति य एवं वेद यश्चैवंविद्वान्त्स्तोमभागैर्यजते ॥ १४ ॥ (२,२.१५ ) यो ह वा आयतांश्च प्रतियतांश्च स्तोमभागान् विद्यात्स विष्पर्धमानयोः समृतसोमयोर्ब्रह्मा स्यात् (२,२.१५ ) <स्तुतेषे स्तुतोर्जे स्तुत देवस्य सवितुः सवे बृहस्पतिं वः प्रजापतिं वो वसून् वो देवान् रुद्रान् वो देवानादित्यान् वो देवान् साध्यान् वो देवानाप्त्यान् वो देवान् विश्वान् वो देवान् सर्वान् वो देवान् विश्वतस्परि हवामहे [Vऐत्ष्१७.७]> (२,२.१५ ) <जनेभ्योऽस्माकमस्तु केवलः [Vऐत्ष्१७.७ (च्f. ড়्ष्५.४.९ )]> (२,२.१५ ) <इतः कृणोतु वीर्यम् [Vऐत्ष्१७.७ (ড়्ष्५.४.९ )]> इति (२,२.१५ ) एते ह वा आयताश्च प्रतियताश्च स्तोमभागास् (२,२.१५ ) ताञ्जपन्नुपर्युपरि परेषां ब्रह्माणमवेक्षेत (२,२.१५ ) तत एषामधःशिरा ब्रह्मा पतति (२,२.१५ ) ततो यज्ञस् (२,२.१५ ) ततो यजमानः (२,२.१५ ) यजमानेऽधःशिरसि पतिते स देशोऽधःशिराः पतति यस्मिन्नर्धे यजन्ते (२,२.१५ ) देवाश्च ह वा असुराश्च समृतसोमौ यज्ञावतनुताम् (२,२.१५ ) अथ बृहस्पतिराङ्गिरसो देवानां ब्रह्मा (२,२.१५ ) स आयतांश्च प्रतियतांश्च स्तोमभागाञ्जपन्नुपर्युपर्यसुराणां ब्रह्माणमवैक्षत (२,२.१५ ) तत एषामधःशिरा ब्रह्मापतत् (२,२.१५ ) ततो यज्ञस् (२,२.१५ ) ततोऽसुरा इति ॥ १५ ॥ (२,२.१६ ) देवा यज्ञं पराजयन्त (२,२.१६ ) तमाग्नीध्रात्पुनरुपाजयन्त (२,२.१६ ) तदेतद्यज्ञस्यापराजितं यदाग्नीध्रम् (२,२.१६ ) यदाग्नीध्राद्धिष्ण्यान् विहरति तत एवैनं पुनस्तनुते (२,२.१६ ) पराजित्यै (२,२.१६ ) अप खलु वा एते गच्छन्ति ये बहिष्पवमानं सर्पन्ति (२,२.१६ ) बहिष्पवमाने स्तुत आह (२,२.१६ ) अग्नीदग्नीन् विहर बर्हि स्तृणीहि पुरोडाशानलंकुर्विति (२,२.१६ ) यज्ञमेवापराजित्य पुनस्तन्वाना आयन्ति (२,२.१६ ) अङ्गारैर्द्वे सवने विहरति शलाकाभिस्तृतीयसवनं सश्रुक्रत्वाय (२,२.१६ ) अथो संभवत्येवमेवैतत् (२,२.१६ ) दक्षिणतो वै देवानां यज्ञं रक्षांस्यजिघांसन् [एद्. अजिधांसन्] (२,२.१६ ) तान्याग्नीध्रेणापाघ्नत (२,२.१६ ) तस्माद्दक्षिणामुखस्तिष्ठन्नग्नीत्प्रत्याश्रावयति (२,२.१६ ) यज्ञस्याभिजित्यै रक्षसामपहत्यै रक्षसामपहत्यै ॥ १६ ॥ (२,२.१७ ) तदाहुरथ कस्मात्सौम्य एवाध्वरे प्रवृताहुतीर्जुह्वति न हविर्यज्ञ इति (२,२.१७ ) अकृत्स्ना वा एषा देवयज्या यद्धविर्यज्ञः (२,२.१७ ) अथ हैषैव कृत्स्ना देवयज्या यत्सौम्योऽध्वरस् (२,२.१७ ) तस्मात्सौम्य एवाध्वरे प्रवृताहुतीर्जुह्वति (२,२.१७ ) जुष्टो वाचे भूयासं जुष्टो वाचस्पतये देवि वाग्यद्वाचो मधुमत्तमं तस्मिन् मा धाः स्वाहा वाचे स्वाहा वाचपतये स्वाहा सरस्वत्यै स्वाहा सरस्वत्या इति पुरस्तात्स्वाहाकारेण जुहोति [एद्. स्वाहाकरेण] (२,२.१७ ) तस्माद्वागत ऊर्ध्वमुत्सृष्टा यज्ञं वहति मनसोत्तराम् (२,२.१७ ) मनसा हि मनः प्रीतम् (२,२.१७ ) तदु हैके सप्ताहुतीर्जुह्वति सप्त छन्दांसि प्रवृत्तानि प्रतिमन्त्रमिति वदन्तः (२,२.१७ ) यथा मेखला पर्यस्यते मेध्यस्य चामेध्यस्य च विहृत्या एवं हैवैते न्युप्यन्ते मेधस्य चामेध्यस्य च विहृत्यै यज्ञस्य विहृत्यै (२,२.१७ ) प्राचीनं हि धिष्ण्येभ्यो देवानां लोकाः प्रतीचीनं मनुष्याणाम् (२,२.१७ ) तस्मात्सोमं पिबता प्राञ्चो धिष्ण्या नोपसर्प्याः (२,२.१७ ) जनं ह्येतत् (२,२.१७ ) देवलोकं ह्यध्यारोहन्ति (२,२.१७ ) तेषामेतदायतनं चोदयनं च यदाग्नीध्रं च सदश्च (२,२.१७ ) तद्योऽविद्वान्त्संचरत्यार्तिमार्छत्यि (२,२.१७ ) अथ यो विद्वान्त्संचरति न स धिष्णीयामार्तिमार्छति ॥ १७ ॥ [एद्. विद्वन्त्] (२,२.१८ ) प्रजापतिर्वै यज्ञस् (२,२.१८ ) तस्मिन्त्सर्वे कामाः सर्वा इष्टीः सर्वममृतत्वम् (२,२.१८ ) तस्य हैते गोप्तारो यद्धिष्ण्यास् (२,२.१८ ) तान्त्सदः प्रस्रप्स्यन्नमस्करोति (२,२.१८ ) नमो नम इति (२,२.१८ ) न हि नमस्कारमति देवास् (२,२.१८ ) ते ह नमसिताः कर्तारमतिसृजन्तीति (२,२.१८ ) तत एतं प्रजापतिं यज्ञं प्रपद्यते नमो नम इति (२,२.१८ ) न हि नमस्कारमति देवाः (२,२.१८ ) स तत्रैव यजमानः सर्वान् कामानाप्नोति सर्वान् कामानाप्नोति ॥ १८ ॥ (२,२.१९ ) यो वै सदस्यान् गन्धर्वान् वेद न सदस्यामार्तिमार्छति (२,२.१९ ) सदः प्रस्रप्स्यन् ब्रूयादुपद्रष्ट्रे नम इति (२,२.१९ ) अग्निर्वै द्रष्टा तस्मा उ एवात्मानं परिददाति (२,२.१९ ) सर्वमायुरेति न पुरा जरसः प्रमीयते य एवं वेद (२,२.१९ ) सदः प्रसृप्य ब्रूयादुपश्रोत्रे नम इति (२,२.१९ ) वायुर्वा उपश्रोता (२,२.१९ ) तस्मा उ एवात्मानं परिददाति (२,२.१९ ) सर्वमायुरेति न पुरा जरसः प्रमीयते य एवं वेद (२,२.१९ ) सदः प्रसर्पन् ब्रूयादनुख्यात्रे नम इति (२,२.१९ ) आदित्यो वा अनुख्याता (२,२.१९ ) तस्मा उ एवात्मानं परिददाति (२,२.१९ ) सर्वमायुरेति न पुरा जरसः प्रमीयते य एवं वेद (२,२.१९ ) सदः प्रसृप्तो ब्रूयादुपद्रष्ट्रे नम इति (२,२.१९ ) ब्राह्मणो वा उपद्रष्टा (२,२.१९ ) तस्मा उ एवात्मानं परिददाति (२,२.१९ ) सर्वमायुरेति न पुरा जरसः प्रमीयते य एवं वेद (२,२.१९ ) ते वै सदस्या गन्धर्वाः (२,२.१९ ) स य एवमेतान्त्सदस्यान् गन्धर्वानविद्वान्त्सदः प्रसर्पति स सदस्यामार्तिमार्छति (२,२.१९ ) अथ यो विद्वान्त्संचरति न सदस्यामार्तिमार्छति (२,२.१९ ) एतेन ह स्म वा अङ्गिरसः सर्वं सदः पर्याहुस् (२,२.१९ ) ते न सदस्यामार्तिमार्छन्ति (२,२.१९ ) अथ यान् कामयेत न सदस्यामार्तिमार्छेयुरिति तेभ्य एतेन सर्वं सदः परिब्रूयात् (२,२.१९ ) ते न सदस्यामार्तिमार्छन्ति (२,२.१९ ) अथ यं कामयेत प्रमीयतेति तमेतेभ्य आवृश्चेत् (२,२.१९ ) प्रमीयते ॥ १९ ॥ (२,२.२० ) तदाहुर्यदैन्द्रो यज्ञोऽथ कस्माद्द्वावेव प्रातःसवने प्रस्थितानां प्रत्यक्षादैन्द्रीभ्यां यजतो होता चैव ब्राह्मणाच्छंसी च [एद्. ऐद्रीभ्यां] (२,२.२० ) <इदं ते सोम्यं मधु [ऋV ८.६५.८]>इति होता यजति (२,२.२० ) <इन्द्र त्वा वृषभं वयम् [ऋV ३.४०.१, Vऐत्ष्१९.६]> इति ब्राह्मणाच्छंसी (२,२.२० ) नानादेवत्याभिरितरे (२,२.२० ) कथं तेषामैन्द्र्यो भवन्ति (२,२.२० ) <मित्रं वयं हवामहे [ऋV १.२३.४ ]>इति मैत्रावरुणो यजति (२,२.२० ) <वरुणं सोमपीतये [ऋV १.२३.४ ]>इति (२,२.२० ) यद्वै किं च पीतवत्तदैन्द्रं रूपम् (२,२.२० ) तेनेन्द्रं प्रीणाति (२,२.२० ) <मरुतो यस्य हि क्षये [ऋV १.८६.१ , श्ष्२०.१.२ ]>इति पोता यजति (२,२.२० ) <स सुगोपातमो जनः [ऋV १.८६.१ , श्ष्२०.१.२ ]>इति [एद्. सुगोपतमो, चोर्रेच्तेद्प्. ३०२] (२,२.२० ) इन्द्रो वै गोपास् (२,२.२० ) तदैन्द्रं रूपम् (२,२.२० ) तेनेन्द्रं प्रीणाति (२,२.२० ) <अग्ने पत्नीरिहा वह [ऋV १.२२.९ ]>इति नेष्टा यजति (२,२.२० ) <त्वष्टारं सोमपीतये [ऋV १.२२.९ ]>इति (२,२.२० ) यद्वै किं च पीतवत्तदैन्द्रं रूपम् (२,२.२० ) तेनेन्द्रं प्रीणाति (२,२.२० ) <उक्षान्नाय वशान्नाय [ऋV ८.४३.११ , ড়्ष्३.१२.६ , श्ष्३.२१.६ २०.१.३ ]>इत्याग्नीध्रो यजति (२,२.२० ) <सोमपृष्ठाय वेधसे [ऋV ८.४३.११ , ড়्ष्३.१२.६ , श्ष्३.२१.६ २०.१.३ ]>इति (२,२.२० ) इन्द्रो वै वेधास् (२,२.२० ) तदैन्द्रं रूपम् (२,२.२० ) तेनेन्द्रं प्रीणाति (२,२.२० ) <प्रातर्यावभिरा गतं देवेभिर्जेन्यावसू इन्द्राग्नी सोमपीतये [ऋV ८.३८.७]>इति (२,२.२० ) स्वयंसमृद्धा अच्छावाकस्य (२,२.२०श्) एवमु हैता ऐन्द्र्यो भवन्ति (२,२.२० अ) यन्नानादेवत्यास्तेनान्या देवताः प्रीणाति (२,२.२० ब्) यद्गायत्र्यस्तेनाग्नेय्यस् (२,२.२० च्) तस्मादेताभिस्त्रयमवाप्तं भवति ॥ २० ॥ (२,२.२१ ) ते वै खलु सर्व एव माध्यंदिने प्रस्थितानां प्रत्यक्षादैन्द्रीभिर्यजन्ति (२,२.२१ ) अभितृणवतीभिरेके (२,२.२१ ) <पिबा सोममभि यमुग्र तर्दः [ऋV ६.१७.१]>इति होता यजति (२,२.२१ ) <स ईं पाहि य ऋजीषी तरुत्रः [ऋV ६.१७.२]>इति मैत्रावरुणः (२,२.२१ ) <एवा पाहि प्रत्नथा मन्दतु त्वा [ऋV ६.१७.३]>इति ब्राह्मणाच्छंसी (२,२.२१ ) <अर्वाङेहि सोमकामं त्वाहुः [ऋV १.१०४.९]>इति पोता (२,२.२१ ) <तवायं सोमस्त्वमेह्यर्वाङ्[ऋV ३.३५.६]> इति नेष्टा (२,२.२१ ) <इन्द्राय सोमाः प्रदिवो विदानाः [ऋV ३.३६.२]>इत्यच्छावाकः (२,२.२१ ) <आपूर्णो अस्य कलशः स्वाहा [ऋV ३.३२.१५]>इत्याग्नीध्रः [एद्. स्वहोत्य्] (२,२.२१ ) एवमु हैता अभितृणवत्यो भवन्ति (२,२.२१ ) इन्द्रो वै प्रातःसवनं नाभ्यजयत् (२,२.२१ ) स एताभिर्माध्यंदिनं सवनमभ्यतृणत् (२,२.२१ ) तद्यदेताभिर्माध्यंदिनं सवनमभ्यतृणत्तस्मादेता अभितृणवत्यो भवन्ति ॥ २१ ॥ (२,२.२२ ) तदाहुर्यदैन्द्रार्भवं तृतीयसवनमथ कस्मादेक एव तृतीयसवने प्रस्थितानां प्रत्यक्षादैन्द्रार्भव्या यजति (२,२.२२ ) <इन्द्र ऋभुभिर्वाजवद्भिः समुक्षितम् [ऋV ३.६०.५]> इति होतैव (२,२.२२ ) नानादेवत्याभिरितरे (२,२.२२ ) कथं तेषामैन्द्रार्भव्यो भवन्ति (२,२.२२ ) <इन्द्रावरुणा सुतपाविमं सुतम् [ऋV ६.६८.१०, ড়्ष्२०.७.५ , श्ष्७.५८.१ ]> इति मैत्रावरुणो यजति [एद्. सतम्, चोर्रेच्तेद्प्. ३०२] (२,२.२२ ) <युवो रथो अध्वरो देववीतये [ড়्ष्२०.७.५ , श्ष्७.५८.१ , ऋV ६.६८.१० ]>इति बहूनि वाह (२,२.२२ ) तदृभूणां रूपम् (२,२.२२ ) <इन्द्रश्च सोमं पिबतं बृहस्पतये [ऋV ४.५०.१० , Vऐत्ष्२२.११]>इति ब्राह्मणाच्छंसी यजति (२,२.२२ ) <आ वां विशन्त्विन्दवः स्वाभुवः [ऋV ४.५०.१० ]>इति बहूनि वाह (२,२.२२ ) तदृभूणां रूपम् (२,२.२२ ) <आ वो वहन्तु सप्तयो रघुष्यदः [ऋV १.८५.६ ]>इति पोता यजति (२,२.२२ ) <रघुपत्वानः प्र जिगात बाहुभिः [ऋV १.८५.६ ]>इति बहूनि वाह (२,२.२२ ) तदृभूणां रूपम् (२,२.२२ ) <अमेव नः सुहवा आ हि गन्तन [ऋV २.३६.३]>इति नेष्टा यजति (२,२.२२ ) गन्तनेति बहूनि वाह (२,२.२२ ) तदृभूणां रूपम् (२,२.२२ ) <इन्द्राविष्णू पिबतं मध्वो अस्य [ऋV ६.६९.७ ]>इत्यच्छावाको यजति (२,२.२२ ) <आ वामन्धांसि मदिराण्यग्मन् [ऋV ६.६९.७ ]>इति बहूनि वाह (२,२.२२ ) तदृभूणां रूपम् (२,२.२२ ) <इमं स्तोममर्हते जातवेदसे [ऋV १.९४.१ ]>इत्याग्नीध्रो यजति (२,२.२२ ) <रथमिव सं महेमा मनीषया [ऋV १.९४.१ ]>इति बहूनि वाह (२,२.२२ ) तदृभूणां रूपम् (२,२.२२ ) एवमु हैता ऐन्द्रार्भव्यो भवन्ति (२,२.२२ ) यन्नानादेवत्यास्तेनान्या देवताः प्रीणाति (२,२.२२ ) यदु जगत्प्रासाहा जागतमु वै तृतीयसवनम् (२,२.२२श्) तृतीयसवनस्य समष्ट्यै ॥ २२ ॥ (२,२.२३ ) विचक्षणवतीं वाचं भाषन्ते चनसितवतीम् (२,२.२३ ) विचक्षयन्ति ब्राह्मणम् (२,२.२३ ) चनसयन्ति प्राजापत्यम् (२,२.२३ ) सत्यं वदन्ति (२,२.२३ ) एतद्वै मनुष्येषु सत्यं यच्चक्षुस् (२,२.२३ ) तस्मादाहुराचक्षाणमद्रागिति (२,२.२३ ) स यदाहाद्राक्षमिति तथाहास्य श्रद्दधति (२,२.२३ ) यद्यु वै स्वयं वै दृष्टं भवति न बहूनां जनानामेष श्रद्दधाति (२,२.२३ ) तस्माद्विचक्षणवतीं वाचं भाषन्ते चनसितवतीम् (२,२.२३ ) सत्योत्तरा हैवैषां वागुदिता भवति ॥ २३ ॥ (२,२.२४ ) समृतयज्ञो वा एष यद्दर्शपूर्णमासौ (२,२.२४ ) कस्य वाव देवा यज्ञमागच्छन्ति कस्य वा न (२,२.२४ ) बहूनां वा एतद्यजमानानां सामान्यमहस् (२,२.२४ ) तस्मात्पूर्वेद्युर्देवताः परिगृह्णीयात् (२,२.२४ ) यो ह वै पूर्वेद्युर्देवताः परिगृह्णाति तस्य श्वो भूते यज्ञमागच्छन्ति (२,२.२४ ) तस्माद्विहव्यस्य चतस्र ऋचो जपेत् (२,२.२४ ) यज्ञविदो हि मन्यन्ते एव सोम एव समृत इति यज्ञो यज्ञेन समृतः ॥ २४ ॥ (२,२.२४ ओल्) इत्यथर्ववेदे गोपथब्राह्मणोत्तरभागे द्वितीयः प्रपाठकः ॥ (२,३.१ ) ओं देवपात्रं वै वषट्कारः (२,३.१ ) यद्वषट्करोति देवपात्रेणैव तद्देवतास्तर्पयति (२,३.१ ) अथो यदाभितृष्यन्तीरभिसंस्थं तर्पयत्येवमेव तद्देवतास्तर्पयति यदनुवषट्करोति (२,३.१ ) तद्यथैवादोऽश्वान् वा गा वा पुनरभ्याकारं तर्पयत्येवमेव तद्देवतास्तर्पयति यदनुवषट्करोति (२,३.१ ) इमानेवाग्नीनुपासत इत्याहुर्धिष्ण्यान् (२,३.१ ) अथ कस्मात्पूर्वस्मिन्नेवाग्नौ जुह्वति पूर्वस्मिन् वषट्करोति (२,३.१ ) यदेव सोमस्याग्ने वीहीत्यनुवषट्करोति तेनैव वषट्करोति धिष्ण्यान् प्रीणाति (२,३.१ ) अथ संस्थितान् सोमान् भक्षयन्तीत्याहुर्येषां नानुवषट्करोति (२,३.१ ) तदाहुः को नु सोमस्य स्विष्टकृद्भाग इति (२,३.१ ) यदेव सोमस्याग्ने वीहीत्यनुवषट्करोति तेनैव संस्थितान् सोमान् भक्षयन्तीत्याहुः (२,३.१ ) स उ एष सोमस्य स्विष्टकृद्भागो यदनुवषट्करोति ॥ १ ॥ (२,३.२ ) वज्रो वै वषट्कारः (२,३.२ ) स यं द्विष्यात्तं मनसा ध्यायन् वषट्कुर्यात् (२,३.२ ) तस्मिंस्तद्वज्रमास्थापयति (२,३.२ ) षडिति वषट्करोति (२,३.२ ) षड्वा ऋतवः (२,३.२ ) ऋतूनामाप्त्यै (२,३.२ ) वौषडिति वषट्करोति (२,३.२ ) असौ वाव वावृतवः षट् (२,३.२ ) एतमेव तदृतुष्वादधाति (२,३.२ ) ऋतुषु प्रतिष्ठापयति (२,३.२ ) तदु ह स्माह वैद एतानि वा एतेन षट्प्रतिष्ठापयति (२,३.२ ) द्यौरन्तरिक्षे प्रतिष्ठिता (२,३.२ ) अन्तरिक्षं पृथिव्याम् (२,३.२ ) पृथिव्यप्सु (२,३.२ ) आपः सत्ये (२,३.२ ) सत्यं ब्रह्मणि (२,३.२ ) ब्रह्म तपसीति (२,३.२ ) एता एव तद्देवताः प्रतिष्ठान्याः प्रतितिष्ठन्तीरिदं सर्वमनु प्रतितिष्ठति [एद्. प्रतिस्थान्याः, चोर्र्. ড়त्यल्] (२,३.२ ) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद ॥ २ ॥ (२,३.३ ) त्रयो वै वषट्काराः (२,३.३ ) वज्रो धामच्छद्रिक्तः (२,३.३ ) स यदेवोच्चैर्बलं वषट्करोति स वज्रस् (२,३.३ ) तं तं प्रहरति द्विषते भ्रातृव्याय वधं योऽस्य स्तृत्यस्तस्मै स्तरीतवे (२,३.३ ) तस्मात्स भ्रातृव्यवता वषट्कृत्यः (२,३.३ ) अथ यः समः संततो निर्हाणच्छत्स्व धामच्छत् (२,३.३ ) तं तं प्रजाश्च पशवश्चानूपतिष्ठन्ते (२,३.३ ) तस्मात्स प्रजाकामेन पशुकामेन वषट्कृत्यः (२,३.३ ) अथ येनैव षडपराध्नोति स रिक्तः (२,३.३ ) रिणक्त्यात्मानं रिणक्ति यजमानम् (२,३.३ ) पापीयान् वषट्कर्ता भवति पापीयान् यस्मै वषट्करोति (२,३.३ ) तस्मात्तस्याशां नेयात् (२,३.३ ) किं स्वित्स यजमानस्य पापभद्रमाद्रियेतेति ह स्माह योऽस्य वषट्कर्ता भवति (२,३.३ ) अत्रैवैनं यथा कामयेत तथा कुर्यात् (२,३.३ ) यं कामयेत यथैवानीजानोऽभूत्तथैवेजानः स्यादिति यथैवास्यर्चं ब्रूयात्तथैवास्य वषट्कुर्यात् (२,३.३ ) समानमेवैनं तत्करोति (२,३.३ ) यं कामयेत पापीयान् स्यादित्युच्चैस्तरामस्यर्चं ब्रूयान्नीचैस्तरां वषट्कुर्यात् (२,३.३ ) पापीयांसमेवैनं तत्करोति (२,३.३ ) यं कामयेत श्रेयान् स्यादिति नीचैस्तरामस्यर्चं ब्रूयादुच्चैस्तरां वषट्कुर्यात् (२,३.३ ) श्रेयांसमेवैनं तत्करोति (२,३.३ ) श्रिय एवैनं तच्छ्रियमादधाति ॥ ३ ॥ (२,३.४ ) यस्यै देवतायै हविर्गृहीतं स्यात्तां मनसा ध्यायन् वषट्कुर्यात्[एद्. दवतायै] (२,३.४ ) साक्षादेव तद्देवतां प्रीणाति (२,३.४ ) प्रत्यक्षाद्देवतां परिगृह्णाति (२,३.४ ) संततमृचा वषट्कृत्यम् (२,३.४ ) संतत्यै (२,३.४ ) संधीयते प्रजया पशुभिर्य एवं वेद ॥ ४ ॥ (२,३.५ ) वज्रो वै वषट्कारः (२,३.५ ) स उ एष प्रहृतोऽशान्तो दीदाय तस्य ह न सर्व एव शान्तिं वेद नो प्रतिष्ठाम् (२,३.५ ) तस्माद्धाप्येतर्हि भूयानिव मृत्युस् (२,३.५ ) तस्य हैषैव शान्तिरेषा प्रतिष्ठा यद्वागिति (२,३.५ ) वषट्कृत्य वागित्यनुमन्त्रयते (२,३.५ ) वषट्कार मा मां प्रमृक्षो माहं त्वां प्रमृक्षं बृहता मन उपह्वये व्यानेन शरीरं प्रतिष्ठासि प्रतिष्ठां गच्छ प्रतिष्ठां मा गमयेदिति [एद्. प्रतिष्ठीसि, चोर्रेच्तेद्प्. ३०२] (२,३.५ ) तदु स्माह दीर्घमेवैतैत्सदप्रभ्वोजः सह ओज इत्यनुमन्त्रयेत (२,३.५ ) ओजश्च ह वै सहश्च वषट्कारस्य प्रियतमे तन्वौ (२,३.५ ) प्रियाभ्यामेव तत्तनूभ्यां समर्धयति (२,३.५ ) प्रियया तन्वा समृध्यते य एवं वेद ॥ ५ ॥ (२,३.६ ) वाक्च वै प्राणापानौ च वषट्कारस् (२,३.६ ) ते वषट्कृते वषट्कृते व्युत्क्रामन्ति (२,३.६ ) ताननुमन्त्रयते वागोजः सह ओजो मयि प्राणापानाविति (२,३.६ ) वाचं चैव तत्प्राणापानौ च होतात्मनि प्रतिष्ठापयति (२,३.६ ) सर्वमायुरेति (२,३.६ ) न पुरा जरसः प्रमीयते य एवं वेद (२,३.६ ) <शं नो भव हृद आ पीत इन्दो पितेव सोम सूनवे सुशेवः । सखेव सख्य उरुशंस धीरः प्र ण आयुर्जीवसे सोम तारीः [ऋV ८.४८.४, Vऐत्ष्१९.१८]>इत्यात्मानं प्रत्यभिमृशति (२,३.६ ) ईश्वरो वा एषोऽप्रत्यभिमृष्टो यजमानस्यायुः प्रत्यवहर्तुमनर्हन् मा भक्षयेदिति (२,३.६ ) तद्यदेतेन प्रत्यभिमृशत्यायुरेवास्मै तत्प्रतिरते (२,३.६ ) आप्यायस्व सं ते पयांसीति द्वाभ्यां चमसानाप्याययन्त्यभिरूपाभ्याम् (२,३.६ ) यद्यज्ञेऽभिरूपं तत्समृद्धम् ॥ ६ ॥ (२,३.७ ) प्राणा वा ऋतुयाजास् (२,३.७ ) तद्यदृतुयाजैश्चरन्ति प्राणानेव तद्यजमाने दधति (२,३.७ ) षडृतुनेति यजन्ति (२,३.७ ) प्राणमेव तद्यजमाने दधति (२,३.७ ) चत्वार ऋतुभिरिति यजन्ति (२,३.७ ) अपानमेव तद्यजमाने दधति (२,३.७ ) द्विरृतुनेत्युपरिष्टात् (२,३.७ ) व्यानमेव तद्यजमाने दधति (२,३.७ ) स चासु संभृतस्त्रेधा विहृतः प्राणोऽपानो व्यान इति [एद्.ऽपाणो] (२,३.७ ) ततोऽन्यत्र गुणितस् (२,३.७ ) तथा ह यजमानः सर्वमायुरेत्यस्मिंल्लोक आर्ध्नोति (२,३.७ ) आप्नोत्यमृतत्वमक्षितं स्वर्गे लोके (२,३.७ ) ते वा एते प्राणा एव यदृतुयाजास् (२,३.७ ) तस्मादनवानं ततो यजन्ति [एद्. अनवानन्तो, चोर्र्. ড়त्यल्] (२,३.७ ) प्राणानां सन्तत्यै (२,३.७ ) सन्तन्ता इव हीमे प्राणाः (२,३.७ ) अथो ऋतवो वा ऋतुयाजाः (२,३.७ ) संस्थानुवषट्कारः [एद्. अनुवषट्कुआरो] (२,३.७ ) योऽत्रानुवषट्कुर्यादसंस्थितानृतून् संस्थापयेत् (२,३.७ ) यस्तं तत्र ब्रूयादसंस्थितानृतून् समतिष्ठिपद्दुःषमं भविष्यतीति शश्वत्तथा स्यात् ॥ ७ ॥ (२,३.८ ) तदाहुर्यद्धोता यक्षद्धोता यक्षदिति मैत्रावरुणो होत्रे प्रेष्यत्यथ कस्मादहोतृभ्यः सद्भ्यो होत्राशंसिभ्यो होता यक्षद्धोता यक्षदिति प्रेष्यतीति (२,३.८ ) वाग्वै होता वाक्सर्व ऋत्विजः (२,३.८ ) वाग्यक्षद्वाग्यक्षदिति (२,३.८ ) अथो सर्वे वा एते सप्त होतारोऽपि वा ऋचाभ्युदितं सप्त होतार ऋतुथा यजन्तीति (२,३.८ ) अथ य उपरिष्टाद्द्वादशर्चजामितायै (२,३.८ ) ते वै द्वादश भवन्ति (२,३.८ ) द्वादश वै मासाः संवत्सरः [एद्. द्वदश, चोर्र्. ড়त्यल्] (२,३.८ ) संवत्सरः प्रजापतिः (२,३.८ ) प्रजापतिर्यज्ञः (२,३.८ ) स योऽत्र भक्षयेद्यस्तं तत्र ब्रूयादशान्तो भक्षोऽननुवषट्कृत आत्मानमन्तरगान्न जीविष्यतीति तथा ह स्यात् [एद्.ऽनानुवषट्कृत, चोर्र्. ড়त्यल्] (२,३.८ ) यो वै भक्षयेत्प्राणो भक्षः प्राण आत्मानमन्तरगादिति तथैव भवति (२,३.८ ) लिम्पेदिवैवावजिघ्रेदत्र च द्विदेवत्येषु चेति (२,३.८ ) तदु तत्र शासनं वेदयन्ते (२,३.८ ) अथ यदभू व्यभिचरतो नान्योन्यमनुप्रपद्येते अध्वर्यू तस्मादृतुरृतुं नानुप्रपद्यते ॥ ८ ॥ (२,३.९ ) प्रजापतिर्वै यत्प्रजा असृजत ता वै तान्ता असृजत (२,३.९ ) ता हिंकारेणैवाभ्यजिघ्रत्[एद्. हिंकारेन, चोर्र्. ড়त्यल्] (२,३.९ ) ताः प्रजा अश्वमारंस्तद्बध्यते वा एतद्यज्ञो यद्धवींषि पच्यन्ते यत्सोमः सूयते यत्पशुरालभ्यते (२,३.९ ) हिंकारेण वा एतत्प्रजापतिर्हतमभिजिघ्रति यज्ञस्याहततायै यज्ञस्याप्त्यै यज्ञस्य वीर्यवत्ताया इति (२,३.९ ) तस्मादु हिंक्रियते (२,३.९ ) तस्मादु य एव पिता पुत्राणां सूर्क्षति स श्रेष्ठो भवति (२,३.९ ) प्रजापतिर्हि तमभिजिघ्रति (२,३.९ ) यच्छकुनिराण्डमध्यास्ते यन्न सूयते तद्धि सापि हिंकृणोति (२,३.९ ) अथो खल्वाहुर्महर्षिर्वा एतद्यज्ञस्याग्रे गेयमपश्यत् (२,३.९ ) तदेतद्यज्ञस्याग्रे गेयं यद्धिंकारस् (२,३.९ ) तं देवाश्च ऋषयश्चाब्रुवन् वसिष्ठोऽयमस्तु यो नो यज्ञस्याग्रे गेयमद्रागिति (२,३.९ ) तदेतद्यज्ञस्याग्रे गेयं यद्धिंकारस् (२,३.९ ) ततो वै स देवानां श्रेष्ठोऽभवत् (२,३.९ ) येन वै श्रेष्ठस्तेन वसिष्ठस् (२,३.९ ) तस्माद्यस्मिन् वासिष्ठो ब्राह्मणः स्यात्तं दक्षिणाया नान्तरीयात्[एद्. स्यांत्] (२,३.९ ) तथा हास्य प्रीतो हिंकारो भवति (२,३.९ ) अथ देवाश्च ह वा ऋषयश्च यदृक्सामे अपश्यंस्ते ह स्मैते अपश्यन् (२,३.९ ) ते यत्रैते अपश्यंस्तत एवैनं सर्वं दोहमदुहन् (२,३.९ ) ते वा एते दुग्धे यातयामे ये ऋक्सामे (२,३.९ ) ते हिंकारेणैवाप्यायेते (२,३.९ ) हिंकारेण वा ऋक्सामे आपीने यजमानाय दोहं दुहाते (२,३.९ ) तस्मादु हिंकृत्याध्वर्यवः सोममभिषुण्वन्ति (२,३.९ ) हिंकृत्योद्गातारः साम्ना स्तुवन्ति (२,३.९ ) हिंकृत्योक्थश ऋचार्त्विज्यं कुर्वन्ति (२,३.९ ) हिंकृत्याथर्वाणो ब्रह्मत्वं कुर्वन्ति (२,३.९श्) तस्मादु हिंक्रियते (२,३.९ अ) प्रजापतिर्हि तमभिजिघ्रति (२,३.९ ब्) अथो खल्वाहुरेको वै प्रजापतेर्व्रतं बिभर्ति गौरेव (२,३.९ च्) तदुभये पशव उपजीवन्ति ये च ग्राम्या ये चारण्या इति ॥ ९ ॥ (२,३.१० ) देवविशः कल्पयितव्या इत्याहुः (२,३.१० ) छन्दश्छन्दसि प्रतिष्ठाप्यमिति (२,३.१० ) शंसावोमित्याह्वयते प्रातःसवने त्र्यक्षरेण (२,३.१० ) शंसावो दैवेत्यध्वर्युः प्रतिगृणाति पञ्चाक्षरेण (२,३.१० ) तदष्टाक्षरं संपद्यते (२,३.१० ) अष्टाक्षरा वै गायत्री (२,३.१० ) गायत्रीमेवैतत्पुरस्तात्प्रातःसवनेऽचीकॢपताम् (२,३.१० ) उक्थं वाचीत्याह शस्त्वा चतुरक्षरम् (२,३.१० ) ओमुक्थशा इत्यध्वर्युः प्रतिगृणाति चतुरक्षरम् (२,३.१० ) तदष्टाक्षरं संपद्यते (२,३.१० ) अष्टाक्षरा वै गायत्री (२,३.१० ) गायत्रीमेवैतदुभयतः प्रातःसवनेऽचीकॢपताम् (२,३.१० ) अध्वर्यो शंसावोमित्याह्वयते माध्यंदिने षडक्षरेण (२,३.१० ) शंसावो दैवेत्यध्वर्युः प्रतिगृणाति पञ्चाक्षरेण (२,३.१० ) तदेकादशाक्षरं संपद्यते (२,३.१० ) एकादशाक्षरा वै त्रिष्टुप्त्रिष्टुभमेवैतत्पुरस्तान् माध्यंदिनेऽचीकॢपताम् (२,३.१० ) उक्थं वाचीन्द्रायेत्याह शस्त्वा षडक्षरम् (२,३.१० ) ओमुक्थशा यजेत्यध्वर्युः प्रतिगृणाति पञ्चाक्षरम् (२,३.१० ) तदेकादशाक्षरं संपद्यते (२,३.१० ) एकादशाक्षरा वै त्रिष्टुप्त्रिष्टुभमेवैतदुभयतो माध्यंदिनेऽचीकॢपताम् (२,३.१० ) अध्वर्यो शंशंसावोमित्याह्वयते तृतीयसवने सप्ताक्षरेण (२,३.१० ) शंसवो दैवेत्यध्वर्युः प्रतिगृणाति पञ्चाक्षरम् (२,३.१० ) तद्द्वादशाक्षरं संपद्यते (२,३.१० ) द्वादशाक्षरा वै जगती (२,३.१० ) जगतीमेवैतत्पुरस्तात्तृतीयसवनेऽचीकॢपताम् (२,३.१०श्) उक्थं वाचीन्द्राय देवेभ्य इत्याह शस्त्वा नवाक्षरम् (२,३.१० अ) ओमुक्थशा इत्यध्वर्युः प्रतिगृणाति त्र्यक्षरम् (२,३.१० ब्) तद्द्वादशाक्षरं संपद्यते (२,३.१० च्) द्वादशाक्षरा वै जगती (२,३.१० द्) जगतीमेवैतदुभयतस्तृतीयसवनेऽचीकॢपतामिति (२,३.१० ए) एतद्वै तच्छन्दश्छन्दसि प्रतिष्ठापयति (२,३.१० f) कल्पयत्येव देवविशो य एवं वेद (२,३.१० ग्) तदप्येषाभ्यनूक्ता यद्गायत्रे अधि गायत्रमाहितमिति ॥ १० ॥ (२,३.११ ) अथैतन्नाना छन्दांस्यन्तरेण गर्ता इव (२,३.११ ) अथैते स्थविष्ठे बलिष्ठे नान्तरे देवते (२,३.११ ) ताभ्यां प्रतिपद्यते (२,३.११ ) तद्गर्तस्कन्दं रोहस्य रूपं स्वर्ग्यम् (२,३.११ ) तदनवानं संक्रामेत् (२,३.११ ) अमृतं वै प्रणवः (२,३.११ ) अमृतेनैव तन् मृत्युं तरति (२,३.११ ) तद्यथा मत्येन वा वंशेन वा गर्तं संक्रामेदेवं तत्प्रणवेनोपसंतनोति (२,३.११ ) ब्रह्म ह वै प्रणवः (२,३.११ ) ब्रह्मणैवास्मै तद्ब्रह्मोपसंतनोति (२,३.११ ) शुद्धः प्रणवः स्यात्प्रजाकामानाम् (२,३.११ ) मकारान्तः प्रतिष्ठाकामानाम् (२,३.११ ) मकारान्तः प्रणवः स्यादिति हैक आहुः (२,३.११ ) शुद्ध इति त्वेव स्थितः (२,३.११ ) मीमांसितः प्रणवः (२,३.११ ) अथात इह शुद्ध इह पूर्ण इति (२,३.११ ) शुद्धः प्रणवः स्यात् (२,३.११ ) शस्त्रानुवचनयोर्मध्य इति ह स्माह कौषीतकिस् (२,३.११ ) तथा संहितं भवति (२,३.११ ) मकारान्तोऽवसानार्थे (२,३.११ ) प्रतिष्ठा वा अवसानम् (२,३.११ ) प्रतिष्ठित्या एव (२,३.११ ) अथोभयोः कामयोराप्त्यै (२,३.११ ) एतौ वै छन्दःप्रवाहाववरं छन्दः परं छन्दोऽतिप्रवहतस् (२,३.११ ) तस्यायुर्न हिनस्ति (२,३.११श्) छन्दसां छन्दोऽतिप्रोढं स्यात्तत्रैव यं द्विष्यात्तं मनसा प्रैव विध्येत् (२,३.११ अ) छन्दसां कृन्तत्रे द्रवति वा सं वा शीर्यत इति (२,३.११ ब्) त्रिः प्रथमां त्रिरुत्तमामन्वाह यज्ञस्यैव तद्बर्हिसो नह्यति (२,३.११ च्) स्थेम्ने बलायाविस्रंसाय (२,३.११ द्) यद्यपि छन्दः प्रातःसवने युज्येतार्धर्चश एव तस्य शंस्यं गायत्र्या रूपेण (२,३.११ ए) अथो प्रातःसवनरूपेणेति (२,३.११ f) न त्रिष्टुब्जगत्यावेतस्मिन् स्थानेऽर्धर्चशस्ये यत्किं चिच्छन्दः प्रातःसवने युज्येतां पच्छ एवैनयोः शस्यमिति सा स्थितिः ॥ ११ ॥ (२,३.१२ ) अथात एकाहस्य प्रातःसवनम् (२,३.१२ ) प्रजापतिं ह वै यज्ञं तन्वानं बहिष्पवमान एव मृत्युर्मृत्युपाशेन प्रत्युपाक्रामत (२,३.१२ ) स आग्नेय्या गायत्र्याज्यं प्रत्यपद्यत (२,३.१२ ) मृत्युर्वाव तं पश्यन् प्रजापतिं पर्यक्रामत् (२,३.१२ ) तं सामाज्येष्ठसीदत् (२,३.१२ ) स वायव्या प्र"उगं प्रत्यपद्यत (२,३.१२ ) मृत्युर्वाव तं पश्यन् प्रजापतिं पर्यक्रामत् (२,३.१२ ) तं माध्यंदिने पवमानेऽसीदत् (२,३.१२ ) स ऐन्द्र्या त्रिष्टुभा मरुत्वतीयं प्रत्यपद्यत (२,३.१२ ) मृत्युर्वाव तं पश्यन् प्रजापतिं पर्यक्रामत् (२,३.१२ ) स तेनैव द्रविणे पूर्वो निष्केवल्यस्य स्तोत्रियमासीदत् (२,३.१२ ) तमस्तृणोत् (२,३.१२ ) तस्मादु य एव पूर्वमासीदति स तत्स्तृणुते विद्वान् (२,३.१२ ) मृत्युरनवकाशमपाद्रवदशंसदितरो निष्केवल्यम् (२,३.१२ ) तस्मादेकमेवोक्थं होता मरुत्वतीयेन प्रतिपद्यते निष्केवल्यमेव (२,३.१२ ) अत्र हि प्रजापतिं मृत्युर्व्यजहात् ॥ १२ ॥ (२,३.१३ ) मित्रावरुणावब्रवीद्युवं न इमं यज्ञस्याङ्गमनुसमाहरतं मैत्रावरुणीयाम् (२,३.१३ ) तथेत्यब्रूताम् (२,३.१३ ) तौ सयुजौ सबलौ भूत्वा प्रासहा मृत्युमत्यैताम् (२,३.१३ ) तौ ह्यस्यैतद्यज्ञस्याङ्गमनुसमाहरतां मैत्रावरुणीयाम् (२,३.१३ ) तस्मान् मैत्रावरुणः प्रातःसवने मैत्रावरुणानि शंसति (२,३.१३ ) तौ ह्यस्यैतद्यज्ञस्याङ्गमनुसमाहरताम् (२,३.१३ ) यद्वेव मैत्रावरुणानि शंसति <प्रति वां सूर उदिते विधेम नमोभिर्मित्रावरुणोत हव्यैः [ऋV ७.६३.५]><उत वामुषसो बुधि साकं सूर्यस्य रश्मिभिः [ऋV १.१३७.२]>इत्यृचाभ्यनूक्तम् (२,३.१३ ) <आ नो मित्रावरुणा [ऋV ३.६२.१६]><आ नो गन्तं रिशादसा [ऋV ५.७१.१]>इति मैत्रावरुणस्य स्तोत्रियानुरूपौ (२,३.१३ ) <प्र वो मित्राय गायत [ऋV ५.६८.१]>इत्युक्थमुखम् (२,३.१३ ) <प्र मित्रयोर्वरुणयोः [ऋV ७.६६.१]>इति पर्यासः (२,३.१३ ) <आ यातं मित्रावरुणा [ऋV ७.६६.१९]>इति यजति (२,३.१३ ) एते एव तद्देवते यथाभागं प्रीणाति (२,३.१३ ) वषट्कृत्यानुवषट्करोति (२,३.१३ ) प्रत्येवाभिमृशन्ते (२,३.१३ ) नाप्याययन्ति (२,३.१३ ) न ह्यनाराशंसाः सीदन्ति ॥ १३ ॥ (२,३.१४ ) इन्द्रमब्रवीत्त्वं न इमं यज्ञस्याङ्गमनुसमाहर ब्राह्मणाच्छंसीयाम् (२,३.१४ ) केन सहेति (२,३.१४ ) सूर्येनेति (२,३.१४ ) तथेत्यब्रूताम् (२,३.१४ ) तौ सयुजौ सबलौ भूत्वा प्रासहा मृत्युमत्यैताम् (२,३.१४ ) तौ ह्यस्यैतद्यज्ञस्याङ्गमनुसमाहरतां ब्राह्मणाच्छंसीयाम् (२,३.१४ ) तस्माद्ब्राह्मणाच्छंसी प्रातःसवन ऐन्द्राणि सूर्यन्यङ्गानि शंसति (२,३.१४ ) तौ ह्यस्यैतद्यज्ञस्याङ्गमनुसमाहरताम् (२,३.१४ ) यद्वेवैन्द्राणि सूर्यन्यङ्गानि शंसति<इन्द्र पिब प्रतिकामं सुतस्य प्रातःसावस्तव हि पूर्वपीतिः [ऋV १०.११२.१]>इत्यृचाभ्यनूक्तम् (२,३.१४ ) <आ याहि सुषुमा हि ते [ऋV ८.१७.१, Vऐत्ष्२१.१]><आ नो याहि सुतावतः [ऋV ८.१७.४, Vऐत्ष्२१.१]>इति ब्राह्मणाच्छंसिन स्तोत्रियानुरूपौ (२,३.१४ ) <अयमु त्वा विचर्षणे [ऋV ८.१७.७, Vऐत्ष्२१.२]>इत्युक्थमुखम् (२,३.१४ ) <उद्घेदभिश्रुतामघम् [ऋV ८.९३.१, Vऐत्ष्२१.२]> इति पर्यासः (२,३.१४ ) <इन्द्र क्रतुविदम् [ऋV ३.४०.२]> इति यजति (२,३.१४ ) एते एव तद्देवते यथाभागं प्रीणाति (२,३.१४ ) वषट्कृत्यानुवषट्करोति (२,३.१४ ) प्रत्येवाभिमृशन्ते (२,३.१४ ) नाप्याययन्ति (२,३.१४ ) न ह्यनाराशंसाः सीदन्ति ॥ १४ ॥ (२,३.१५ ) इन्द्राग्नी अब्रवीद्युवं न इमं यज्ञस्याङ्गमनुसमाहरतमच्छावाकीयाम् (२,३.१५ ) तथेत्यब्रूताम् (२,३.१५ ) तौ सयुजौ सबलौ भूत्वा प्रासहा मृत्युमत्यैताम् (२,३.१५ ) तौ ह्यस्यैतद्यज्ञस्याङ्गमनुसमाहरतामच्छावाकीयाम् (२,३.१५ ) तस्मादच्छावाकः प्रातःसवन ऐन्द्राग्नानि शंसति (२,३.१५ ) तौ ह्यस्यैतद्यज्ञस्याङ्गमनुसमाहरताम् (२,३.१५ ) यद्वेवैन्द्राग्नानि शंसति <प्रातर्यावभिरा गतं देवेभिर्जेन्यावसू इन्द्राग्नी सोमपीतये [ऋV ८.३८.७]>इत्यृचाभ्यनूक्तम् (२,३.१५ ) <इन्द्राग्नी आ गतम् [ऋV ३.१२.१]><तोशा वृत्रहणा हुवे [ऋV ३.१२.४]>इत्यच्छावाकस्य स्तोत्रियानुरूपौ [एद्. तोषा, चोर्रेच्तेद्प्. ३०२] (२,३.१५ ) <इन्द्राग्नी अपसस्परि [ऋV ३.१२.७]>इत्युक्थमुखम् (२,३.१५ ) <इहेन्द्राग्नी उपह्वये [ऋV १.२१.१]>इति पर्यासः (२,३.१५ ) <इन्द्राग्नी आ गतम्> इति यजति (२,३.१५ ) एते एव तद्देवते यथाभागं प्रीणाति (२,३.१५ ) वषट्कृत्यानुवषट्करोति (२,३.१५ ) प्रत्येवाभिमृशन्ते (२,३.१५ ) नाप्याययन्ति (२,३.१५ ) न ह्यनाराशंसाः सीदन्ति ॥ १५ ॥ (२,३.१६ ) अथ शंसावोमिति स्तोत्रियायानुरूपायोक्थमुखाय परिधानीयाया इति चतुश्चतुराह्वयन्ते (२,३.१६ ) चतस्रो वै दिशः [एद्. चसस्रो] (२,३.१६ ) दिक्षु तत्प्रतितिष्ठन्ति (२,३.१६ ) अथो चतुष्पादः पशवः (२,३.१६ ) पशूनामाप्त्यै (२,३.१६ ) अथो चतुष्पर्वाणो हि प्रातःसवने होत्रकास् (२,३.१६ ) तस्माच्चतुः सर्वे गायत्राणि शंसन्ति (२,३.१६ ) गायत्रं हि प्रातःसवनम् (२,३.१६ ) सर्वे समवतीभिः परिदधति (२,३.१६ ) तद्यत्समवतीभिः परिदधति (२,३.१६ ) अन्तो वै पर्यासः (२,३.१६ ) अन्त उदर्कः (२,३.१६ ) अन्तेनैवान्तं परिदधति (२,३.१६ ) सर्वे मद्वतीभिर्यजन्ति (२,३.१६ ) तद्यन् मद्वतीभिर्यजन्ति सर्वे सुतवतीभिः पीतवतीभिरभिरूपाभिर्यजन्ति (२,३.१६ ) यद्यज्ञेऽभिरूपं तत्समृद्धम् (२,३.१६ ) सर्वेऽनुवषट्कुर्वन्ति (२,३.१६ ) स्विष्टकृत्वानुवषट्कारः (२,३.१६ ) नेत्स्विष्टकृतमन्तरयामेति (२,३.१६ ) अयं वै लोकः प्रातःसवनम् (२,३.१६ ) तस्य पञ्च दिशः पञ्चोक्थानि प्रातःसवनस्य (२,३.१६ ) स एतैः पञ्चभिरुक्थैरेताः पञ्च दिश आप्नोत्येताः पञ्च दिश आप्नोति ॥ १६ ॥ (२,३.१७ ) घ्नन्ति वा एतत्सोमं यदभिषुण्वन्ति (२,३.१७ ) यज्ञं वा एतद्धन्ति यद्दक्षिणा नीयन्ते (२,३.१७ ) यज्ञं वा एतद्दक्षयन्ति (२,३.१७ ) तद्दक्षिणानां दक्षिणात्वम् (२,३.१७ ) स्वर्गो वै लोको माध्यंदिनं सवनम् (२,३.१७ ) यन् माध्यंदिने सवने दक्षिणा नीयन्ते स्वर्गस्य लोकस्य समष्ट्यै (२,३.१७ ) बहु देयम् (२,३.१७ ) सेतुं वा एतद्यजमानः संस्कुरुते (२,३.१७ ) स्वर्गस्य लोकस्याक्रान्त्यै प्रजाक्रान्त्यै (२,३.१७ ) द्वाभ्यां गार्हपत्ये जुहोति (२,३.१७ ) अध्वर्युरस्याक्रान्तेनाक्रामयति (२,३.१७ ) आग्नेय्याग्नीध्रीये (२,३.१७ ) अन्तरिक्षं तेन (२,३.१७ ) यन् माध्यंदिने सवने दक्षिणा नीयन्ते स्वर्ग एतेन लोके (२,३.१७ ) हिरण्यं हस्ते भवति (२,३.१७ ) अथ नयति (२,३.१७ ) सत्यं वै हिरण्यम् (२,३.१७ ) सत्येनैवैनं तन्नयति (२,३.१७ ) अग्रेण गार्हपत्यं जघनेन सदोऽन्तराग्नीध्रीयं च सदश्च (२,३.१७ ) ता उदीचीरन्तराग्नीध्रीयं च सदश्च चात्वालं चोत्सृजन्ति (२,३.१७ ) एतेन ह स्म वा अङ्गिरसः स्वर्गं लोकमायन् (२,३.१७ ) ता वा एताः पन्थानमभिवहन्ति ॥ १७ ॥ (२,३.१८ ) अग्नीधेऽग्रे ददाति (२,३.१८ ) यज्ञमुखं वा अग्नीत् (२,३.१८ ) यज्ञमुखेनैव तद्यज्ञमुखं समर्धयति (२,३.१८ ) ब्रह्मणे ददाति (२,३.१८ ) प्राजापत्यो वै ब्रह्मा (२,३.१८ ) प्रजापतिमेव तया प्रीणाति (२,३.१८ ) ऋत्विग्भ्यो ददाति (२,३.१८ ) होत्रा एव तया प्रीणाति (२,३.१८ ) सदस्येभ्यो ददाति (२,३.१८ ) सोमपीथं तया निष्क्रीणीते (२,३.१८ ) न हि तस्मा अर्हति सोमपीथं तया निष्क्रीणीयात् (२,३.१८ ) यां श्रुश्रुवुष आर्षेयाय ददाति देवलोके तयार्ध्नोति (२,३.१८ ) यामश्रुश्रुवुषेऽनार्षेयाय ददाति मनुष्यलोके तयार्ध्नोति (२,३.१८ ) यामप्रसृप्ताय ददाति वनस्पतस्तया प्रथन्ते (२,३.१८ ) यां याचमानाय ददाति भ्रातृव्यं तया जिन्वीते (२,३.१८ ) यां भीषा क्षत्रं तया ब्रह्मातीयात् (२,३.१८ ) यां प्रतिनुदन्ते सा व्याघ्री दक्षिणा (२,३.१८ ) यस्तां पुनः प्रतिगृह्णीयाद्व्याघ्र्येनं भूत्वा प्रव्लीनीयात् (२,३.१८ ) अन्यया सह प्रतिगृह्णीयात् (२,३.१८ ) अथ हैनं न प्रव्लीनाति ॥ १८ ॥ (२,३.१९ ) यद्गां ददाति वैश्वदेवी वै गौः (२,३.१९ ) विश्वेषामेव तद्देवानां तेन प्रियं धामोपैति (२,३.१९ ) यदजं ददात्याग्नेयो वा अजः (२,३.१९ ) अग्नेरेव तेन प्रियं धामोपैति (२,३.१९ ) यदविं ददात्याव्यं तेनावजयति (२,३.१९ ) यत्कृतान्नं ददाति मांसं तेन निष्क्रीणीते (२,३.१९ ) यदनो वा रथो वा ददाति शरीरं तेन (२,३.१९ ) यद्वासो ददाति ब्रृहस्पतिं तेन (२,३.१९ ) यद्धिरण्यं ददात्यायुस्तेन वर्षीयः कुरुते (२,३.१९ ) यदश्वं ददाति सौर्यो वा अश्वः (२,३.१९ ) सूर्यस्यैव तेन प्रियं धामोपैति (२,३.१९ ) अन्ततः प्रतिहर्त्रे देयम् (२,३.१९ ) रौद्रौ वै प्रतिहर्ता (२,३.१९ ) रुद्रमेव तन्निरवजयति (२,३.१९ ) यन् मध्यतः प्रतिहर्त्रे दद्यान् मध्यतो रुद्रमन्ववयजेत् (२,३.१९ ) स्वर्भानुर्वा आसुरः सूर्यं तमसाविध्यत् (२,३.१९ ) तदत्रिरपनुनोद (२,३.१९ ) तदत्रिरन्वपश्यत् (२,३.१९ ) यदात्रेयाय हिरण्यं ददाति तम एव तेनापहते (२,३.१९ ) अथो ज्योतिरुपरिष्टाद्धारयति (२,३.१९ ) स्वर्गस्य लोकस्य समष्ट्यै ॥ १९ ॥ (२,३.२० ) अथात एकाहस्यैव माध्यंदिनम् (२,३.२० ) ऋक्च वा इदमग्ने साम चास्तां (२,३.२० ) सैव नामर्गासीत् (२,३.२० ) अमो नाम साम (२,३.२० ) सा वा ऋक्सामोपावदन् मिथुनं संभवाव प्रजात्या इति (२,३.२० ) नेत्यब्रवीत्साम (२,३.२० ) ज्यायान् वा अतो मम महिमेति (२,३.२० ) ते द्वे भूत्वोपावदताम् (२,३.२० ) ते न प्रति चन समवदत (२,३.२० ) तास्तिस्रो भूत्वोपावदन् (२,३.२० ) यत्तिस्रो भूत्वोपावदंस्तत्तिसृभिः समभवत् (२,३.२० ) यत्तिसृभिः समभवत्तस्मात्तिसृभिः स्तुवन्ति (२,३.२० ) तिसृभिरुद्गायन्ति (२,३.२० ) तिसृभिर्हि साम संमितं भवति (२,३.२० ) तस्मादेकस्य बह्व्यो जाया भवन्ति (२,३.२० ) न हैकस्या बहवः सह पतयः (२,३.२० ) यद्वै तत्सा चामश्च समवदतां तत्सामाभवत् (२,३.२० ) तत्साम्नः सामत्वम् (२,३.२० ) सामन् भवति (२,३.२० ) श्रेष्ठतां गच्छति (२,३.२० ) यो वै भवति स सामन् भवति (२,३.२० ) असामन्य इति ह निन्दन्ते (२,३.२० ) ते वै पञ्चान्यद्भूत्वा पञ्चान्यद्भूत्वाकल्पेतामाहावश्च हिंकारश्च प्रस्तावश्च प्रथमा चर्गुद्गीथश्च मध्यमा च प्रतीहारश्चोत्तमा च निधनं च वषट्कारश्च ते यत्पञ्चान्यद्भूत्वा पञ्चान्यद्भूत्वाकल्पेतां तस्मादाहुः पाङ्क्तो यज्ञः (२,३.२० ) पाङ्क्ताः पशव इति (२,३.२० ) यदु विराजं दशिनीमभिसंपद्येतां तस्मादाहुर्विराजि यज्ञो दशिन्यां प्रतिष्ठित इति (२,३.२०श्) यदु बृहत्या प्रतिपद्यते बार्हतो वा एष य एष तपति (२,३.२० अ) तदेनं स्वेन रूपेण समर्धयति [एद्. रुपेण] (२,३.२० ब्) द्वे तिस्रः करोति पुनरादायम् (२,३.२० च्) प्रजात्यै रूपम् (२,३.२० द्) द्वाविवाग्रे भवतस् (२,३.२० ए) तत उपप्रजायेते ॥ २० ॥ (२,३.२१ ) आत्मा वै स्तोत्रियः (२,३.२१ ) प्रजा अनुरूपः (२,३.२१ ) पत्नी धाय्या (२,३.२१ ) पशवः प्रगाथः (२,३.२१ ) गृहाः सूक्तम् (२,३.२१ ) यदन्तरात्मंस्तन्निवित् (२,३.२१ ) प्रतिष्ठा परिधानीयान्नं याज्या (२,३.२१ ) सोऽस्मिंश्च लोके भवत्यमुष्मिंश्च प्रजया च पशुभिश्च गृहेषु भवति य एवं वेद ॥ २१ ॥ (२,३.२२ ) स्तोत्रियं शंसति (२,३.२२ ) आत्मा वै स्तोत्रियः (२,३.२२ ) स मध्यमया वाचा शंस्तव्यः (२,३.२२ ) आत्मानमेवास्य तत्कल्पयत्यनुरूपं शंसति (२,३.२२ ) प्रजा वा अनुरूपः (२,३.२२ ) तस्मात्प्रतिरूपमनुरूपं कुर्वन्ति (२,३.२२ ) प्रतिरूपो हैवास्य प्रजायामाजायते नाप्रतिरूपः (२,३.२२ ) तस्मात्प्रतिरूपमनुरूपं कुर्वन्ति (२,३.२२ ) स उच्चैस्तरामिव शंस्तव्यः (२,३.२२ ) प्रजामेवास्य तच्छ्रेयसीं करोति (२,३.२२ ) धाय्यां शंसति (२,३.२२ ) पत्नी वै धाय्या (२,३.२२ ) सा नीचैस्तरामिव शंस्तव्या (२,३.२२ ) अप्रतिवादिनी हैवास्य गृहेषु पत्नी भवति यत्रैवंविद्वान्नीचैस्तरां धाय्यां शंसति (२,३.२२ ) प्रगाथं शंसति (२,३.२२ ) पशवो वै प्रगाथः (२,३.२२ ) सः स्वरवत्या वाचा शंस्तव्यः (२,३.२२ ) पशवो वै प्रगाथः (२,३.२२ ) पशवः स्वरः (२,३.२२ ) पशूनामाप्त्यै (२,३.२२ ) सूक्तं शंसति (२,३.२२ ) गृहा वै सूक्तम् (२,३.२२ ) प्रतिवीतम् (२,३.२२ ) तत्प्रतिवीततमया वाचा शंस्तव्यम् (२,३.२२ ) स यद्यपि ह दूरात्पशूंल्लभते गृहानेवैनानाजिगमिषति (२,३.२२श्) गृहा हि पशूनां प्रतिष्ठा (२,३.२२ अ) निविदं शंसति (२,३.२२ ब्) यदन्तरात्मंस्तन्निवित् (२,३.२२ च्) तदेवास्य तत्कल्पयति (२,३.२२ द्) परिधानीयां शंसति (२,३.२२ ए) प्रतिष्ठा वै परिधानीया (२,३.२२ f) प्रतिष्ठायामेवैनं ततः प्रतिष्ठापयति (२,३.२२ ग्) याज्यया यजति (२,३.२२ ह्) अन्नं वै याज्या (२,३.२२ इ) अन्नाद्यमेवास्य तत्कल्पयति (२,३.२२ ज्) मूलं वा एतद्यज्ञस्य यद्धाय्याश्च याज्याश्च (२,३.२२ क्) तद्यदन्या अन्या धाय्याश्च याज्याश्च कुर्युरुन्मूलमेव तद्यज्ञं कुर्युस्तस्मात्ताः समान्य एव स्युः ॥ २२ ॥ (२,३.२३ ) तदाहुः किंदेवत्यो यज्ञ इति (२,३.२३ ) ऐन्द्र इति ब्रूयात् (२,३.२३ ) ऐन्द्रे वाव यज्ञे सति यथाभागमन्या देवता अन्वायंस्ताः प्रातःसवने मरुत्वतीये तृतीयसवने च (२,३.२३ ) अथ हैतत्केवलमेवेन्द्रस्य यदूर्ध्वं मरुत्वतीयात् (२,३.२३ ) तस्मात्सर्वे निष्केवल्यानि शंसन्ति (२,३.२३ ) यदेव निष्केवल्यानि तत्स्वर्गस्य लोकस्य रूपम् (२,३.२३ ) यद्वेव निष्केवल्यान्येकं ह वा अग्रे सवनमासीत्प्रातःसवनमेव (२,३.२३ ) अथ हैतं प्रजापतिरिन्द्राय ज्येष्ठाय पुत्रायैतत्सवनं निरमिमीत यन् माध्यंदिनं सवनम् (२,३.२३ ) तस्मान् माध्यंदिने सवने सर्वे निष्केवल्यानि शंसन्ति (२,३.२३ ) यदेव निष्केवल्यानि तत्स्वर्गस्य लोकस्य रूपम् (२,३.२३ ) यद्वेव निष्केवल्यानि या ह वै देवताः प्रातःसवने होता शंसति ताः शस्त्वा होत्राशंसिनोऽनुशंसन्ति मैत्रावरुणं तृचं प्रऽुगे होता शंसति (२,३.२३ ) तदुभयं मैत्रावरुणं मैत्रावरुणोऽनुशंसति (२,३.२३ ) ऐन्द्रं तृचं प्रऽुगे होता शंसति (२,३.२३ ) तदुभयमैन्द्रम् (२,३.२३ ) ऐन्द्रं ब्राह्मणाच्छंस्यनुशंसति (२,३.२३ ) ऐन्द्राग्नं तृचं प्रऽुगे होता शंसति (२,३.२३ ) तदुभयमैन्द्राग्नाग्नमच्छावाकोऽनुशंसति (२,३.२३ ) अथ हैतत्केवलमेवेन्द्रस्य यदूर्ध्वं मरुत्वतीयात् (२,३.२३ ) तस्मात्सर्वे निष्केवल्यानि शंसन्ति (२,३.२३ ) यदेव निष्केवल्यानि तत्स्वर्गस्य लोकस्य रूपम् (२,३.२३ ) यद्वेव निष्केवल्यानि <यदेददेवीरसहिष्ट माया अथाभवत्केवलः सोमो अस्य [ऋV ७.९८.५, श्ष्२०.८७.५]>इत्यृचाभ्यनूक्तम् (२,३.२३ ) देवान् ह यज्ञं तन्वानानसुररक्षांस्यजिघांसन् (२,३.२३ ) तेऽब्रुवन् वामदेवं त्वं न इमं यज्ञं दक्षिणतो गोपायेति (२,३.२३ ) मध्यतो वसिष्ठम् (२,३.२३ ) उत्तरतो भरद्वाजम् (२,३.२३श्) सर्वाननु विश्वामित्रम् (२,३.२३ अ) तस्मान् मैत्रावरुणो वामदेवान्न प्रच्यवते वसिष्ठाद्ब्राह्मणाच्छंसी भरद्वाजाअ अच्छावाकः सर्वे विश्वामित्रात् (२,३.२३ ब्) एत एवास्मै तदृषयोऽहरहर्नमगा अप्रमत्ता यज्ञं रक्षन्ति य एवं वेद य एवं वेद ॥ २३ ॥ (२,३.२३ ओल्) इत्यथर्ववेदे गोपथब्राह्मणोत्तरभागे तृतीयः प्रपाठकः ॥ (२,४.१ ) ओं <कया नश्चित्र आ भुवत्[ऋV ४.३१.१, श्ष्२०.१२४.१]> <कया त्वं न ऊत्या [ऋV ८.९३.१९]>इति मैत्रावरुणस्य स्तोत्रियानुरूपौ (२,४.१ ) <कस्तमिन्द्र त्वावसुम् [ऋV ७.३२.१४]> इति बार्हतः प्रगाथस् (२,४.१ ) तस्योपरिष्टाद्ब्राह्मणम् (२,४.१ ) <सद्यो ह जातो वृषभः कनीनः [ऋV ३.४८.१]>इत्युक्थमुखम् (२,४.१ ) <एवा त्वामिन्द्र वज्रिन्नत्र [ऋV ४.१९.१]>इति पर्यासः (२,४.१ ) <उशन्नु षु णः सुमना उपाके [ऋV ४.२०.४]>इति यजति (२,४.१ ) एतामेव तद्देवतां यथाभागं प्रीणाति (२,४.१ ) वषट्कृत्यानुवषट्करोति (२,४.१ ) प्रत्येवाभिमृशन्ते [एद्. सेएम्स्तो गिवे एवाभिमृशन्त] (२,४.१ ) नाप्याययन्ति (२,४.१ ) न ह्यनाराशंसाः सीदन्ति ॥ १ ॥ (२,४.२ ) <तं वो दस्ममृतीषहं [ऋV ८.८८.१, श्ष्२०.९.१]> <तत्त्वा यामि सुवीर्यम् [ऋV ८.३.९, श्ष्२०.९.४]> इति ब्राह्मणाच्छंसिन स्तोत्रियानुरूपौ (२,४.२ ) <उदु त्ये मधुमत्तमा गिरः [ऋV ८.३.१५, श्ष्२०.५९.१]>इति बार्हतः प्रगाथः (२,४.२ ) पशवो वै प्रगाथः (२,४.२ ) पशवः स्वरः (२,४.२ ) पशूनामाप्त्यै (२,४.२ ) अतो मध्यं वै सर्वेषां छन्दसां बृहती (२,४.२ ) मध्यं माध्यंदिनं सवनानाम् (२,४.२ ) तन् मध्येनैव मध्यं समर्धयति (२,४.२ ) <इन्द्रः पूर्भिदातिरद्दासमर्कैः [ऋV ३.३४.१, श्ष्२०.११.१]>इत्युक्थमुखम् (२,४.२ ) <उदु ब्रह्माण्यैरत श्रवस्या [ऋV ७.२३.१, श्ष्२०.१२.१]>इति पर्यासः (२,४.२ ) <एवेदिन्द्रं वृषणं वज्रबाहुम् [ऋV ७.२३.६ , श्ष्२०.१२.६ ]> इति परिदधाति (२,४.२ ) <वसिष्ठासो अभ्यर्चन्त्यर्कैः [ऋV ७.२६.६ , श्ष्२०.१२.६ ]>इति (२,४.२ ) अन्नं वा अर्कः (२,४.२ ) अन्नाद्यमेवास्मै तत्परिदधाति (२,४.२ ) <स न स्तुतो वीरवद्धातु गोमत्[ऋV ७.२६.६ , श्ष्२०.१२.६ ]>इति (२,४.२ ) अन्नं वा अर्कःइति (२,४.२ ) प्रजां चैवास्मै तत्पशूंश्चाशास्ते (२,४.२ ) <यूयं पात स्वस्तिभिः सदा नः [ऋV ७.२६.६ , श्ष्२०.१२.६ ]>इति स्वस्तिमती रूपसमृद्धा (२,४.२ ) एतद्वै यज्ञस्य समृद्धं यद्रूपसमृद्धं यत्कर्म क्रियमाणमृग्यजुर्वाभिवदति (२,४.२ ) स्वस्ति तस्य यज्ञस्य पारमश्नुते य एवं वेद यश्चैवंविद्वान् ब्राह्मणाच्छंस्येतया परिदधाति (२,४.२ ) <ऋजीषी वज्री वृषभस्तुराषाट्[ऋV ५.४०.४, श्ष्२०.१२.७]>इति यजति [एद्. ऋजिषी, चोर्रेच्तेद्प्. ३०२] (२,४.२ ) एतामेव तद्देवतां यथाभागं प्रीणाति (२,४.२ ) वषट्कृत्यानुवषट्करोति (२,४.२ ) प्रत्येवाभिमृशन्ते (२,४.२ ) नाप्याययन्ति (२,४.२श्) न ह्यनाराशंसाः सीदन्ति ॥ २ ॥ (२,४.३ ) <तरोभिर्वो विदद्वसुम् [ऋV ८.६६.१]><तरणिरित्सिषासति [ऋV ७.३२.२०]>इत्यच्छावाकस्य स्तोत्रियानुरूपौ (२,४.३ ) <उदिन्न्वस्य रिच्यते [ऋV ७.३२.१२, श्ष्२०.५९.३]>इति बार्हतः प्रगाथस् (२,४.३ ) तस्योक्तं ब्राह्मणम् (२,४.३ ) <भूय इद्वावृधे वीर्याय [ऋV ६.३०.१]>इत्युक्थमुखम् (२,४.३ ) <इमामू षु प्रभृतिं सातये धाः [ऋV ३.३६.१]>इति पर्यासस् (२,४.३ ) तस्य दशमीमुद्धरति (२,४.३ ) घोरस्य वा आङ्गिरसस्यैतदार्षं नेद्यज्ञं निर्दहेच्छस्यमानम् (२,४.३ ) <पिबा वर्धस्व तव घा सुतासः [ऋV ३.३६.३]>इति यजति (२,४.३ ) एतामेव तद्देवतां यथाभागं प्रीणाति (२,४.३ ) वषट्कृत्यानुवषट्करोति (२,४.३ ) प्रत्येवाभिमृशन्ते (२,४.३ ) नाप्याययन्ति (२,४.३ ) न ह्यनाराशंसाः सीदन्ति ॥ ३ ॥ (२,४.४ ) अथाध्वर्यो शंसावोमिति स्तोत्रियायानुरूपाय प्रगाथायोक्थमुखाय परिधानीयाया इति पञ्च कृत्व आह्वयन्ते (२,४.४ ) पञ्चपदा पङ्क्तिः (२,४.४ ) पाङ्क्तो यज्ञः (२,४.४ ) सर्व ऐन्द्राणि त्रैष्टुभानि शंसन्ति (२,४.४ ) ऐन्द्रं हि त्रैष्टुभं माध्यंदिनं सवनम् (२,४.४ ) सर्वे समवतीभिः परिदधति (२,४.४ ) तद्यत्समवतीभिः परिदधत्यन्तो वै पर्यासोऽन्त उदर्कः (२,४.४ ) अन्तेनैवान्तं परिदधति (२,४.४ ) सर्वे मद्वतीभिर्यजन्ति (२,४.४ ) तद्यन् मद्वतीभिर्यजन्ति सर्वे सुतवतीभिः पीतवतीभिरभिरूपाभिर्यजन्ति (२,४.४ ) यद्यज्ञेऽभिरूपं तत्समृद्धम् (२,४.४ ) सर्वेऽनुवषट्कुर्वन्ति (२,४.४ ) स्विष्टकृत्वानुवषट्कारः (२,४.४ ) नेत्स्विकृत अन्तरयामेति (२,४.४ ) अन्तरिक्षलोको माध्यंदिनं सवनम् (२,४.४ ) तस्य पञ्च दिशः (२,४.४ ) पञ्चोक्थानि माध्यंदिनस्य सवनस्य (२,४.४ ) स एतैः पञ्चभिरुक्थैरेताः पञ्च दिश आप्नोत्येताः पञ्च दिश आप्नोति ॥ ४ ॥ (२,४.५ ) अथ यदौपासनं तृतीयसवन उपास्यन्ते पितॄनेव तेन प्रीणाति (२,४.५ ) उपांशु पात्नीवतस्याग्नीध्रो यजति (२,४.५ ) रेतो वै पात्नीवतः (२,४.५ ) उपांश्विव वै रेतः सिच्यते (२,४.५ ) तन्नानुवषट्करोति नेद्रेतः सिक्तं संस्थापयानीति (२,४.५ ) असंस्थितमिव वै रेतः सिक्तं समृद्धम् (२,४.५ ) संस्था वा एषा यदनुवषट्कारस् (२,४.५ ) तस्मान्नानुवषट्करोति (२,४.५ ) नेष्टुरुपस्थे धिष्ण्यान्ते वासीनो भक्षयति (२,४.५ ) पत्नीभाजनं वै नेष्टा (२,४.५ ) अग्नीत्पत्नीषु रेतो धत्ते (२,४.५ ) रेतसः सिक्ताः प्रजाः प्रजायन्ते (२,४.५ ) प्रजानां प्रजननाय (२,४.५ ) प्रजावान् प्रजनयिष्णुर्भवति (२,४.५ ) प्रजात्यै (२,४.५ ) प्रजायते प्रजया पशुभिर्य एवं वेद ॥ ५ ॥ (२,४.६ ) अथ शाकलाञ्जुह्वति (२,४.६ ) तद्यथाहिर्जीर्णायास्त्वचो निर्मुच्येतेषीका वा मुञ्जादेवं हैवैते सर्वस्मात्पाप्मनः संप्रमुच्यन्ते ये शाकलाञ्जुह्वति (२,४.६ ) द्रोणकलशे धाना भवन्ति (२,४.६ ) तासां हस्तैरादधति (२,४.६ ) पशवो वै धानास् (२,४.६ ) ता आहवनीयस्य भस्मान्ते निवपन्ति (२,४.६ ) योनिर्वै पशूनामाहपनीयः (२,४.६ ) स्व एवैनांस्तद्गोष्ठे निरपक्रमे निदधति (२,४.६ ) अथ सव्यावृतोऽप्सु सोमानाप्याययन्ति (२,४.६ ) तान् हान्तर्वेद्यां सादयन्ति (२,४.६ ) तद्धि सोमस्यायतनम् (२,४.६ ) चात्वालादपरेणाध्वर्युश्चमसानद्भिः पूरयित्वोदीचः प्राणिधाय हरितानि तृणानि व्यवदधाति (२,४.६ ) यदा वा आपश्चौषधयश्च संगच्छन्तेऽथ कृत्स्नः सोमः संपद्यते (२,४.६ ) ता वैष्णव्यर्चा निनयन्ति (२,४.६ ) यज्ञो वै विष्णुः (२,४.६ ) यज्ञ एवैनमन्ततः प्रतिष्ठापयति (२,४.६ ) अथ यद्भक्षः प्रतिनिधिं कुर्वन्ति मानुषेनैवैनं तद्भक्षेण दैवं भक्षमन्तर्दधति ॥ ६ ॥ (२,४.७ ) पूतिर्वा एषोऽमुष्मिंल्लोकेऽध्वर्युं च यजमानं चाभिवहति (२,४.७ ) तद्यदेनं दध्नानभिहुत्यावभृथमुपहरेयुर्यथा कुणपं वात्येवमेवैनं तत्करोति (२,४.७ ) अथ यदेनं दध्नाभिहुत्यावभृथमुपहरन्ति सर्वमेवैनं सयोनिं संतनुते (२,४.७ ) समृद्धिं संभरन्ति (२,४.७ ) <अभूद्देवः सविता वन्द्यो नु नः [ऋV ४.५४.१]>इति जुहोति (२,४.७ ) सर्वमेवैनं सपर्वाणं संभरति [एद्. अवैनं] (२,४.७ ) तिसृभिस् (२,४.७ ) त्रिवृद्धि यज्ञः (२,४.७ ) द्रप्सवतीभिरभिजुहोति (२,४.७ ) सर्वमेवैनं सर्वाङ्गं संभरति (२,४.७ ) सौमीभिरभिजुहोति (२,४.७ ) सर्वमेवैनं सात्मानं संभरति (२,४.७ ) पञ्चभिरभिजुहोति (२,४.७ ) पाङ्क्तो यज्ञः (२,४.७ ) यज्ञमेवावरुन्द्धे (२,४.७ ) पाङ्क्तः पुरुषः (२,४.७ ) पुरुषमेवाप्नोति (२,४.७ ) पाङ्क्ताः पशवः (२,४.७ ) पशुष्वेव प्रतितिष्ठति (२,४.७ ) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद ॥ ७ ॥ (२,४.८ ) अग्निर्वाव यम इयं यमी (२,४.८ ) कुसीदं वा एतद्यमस्य यजमान आदत्ते यदोषधीभिर्वेदिं स्तृणाति (२,४.८ ) तां यदनुपोष्य प्रयायाद्यातयेरन्नेनममुष्मिंल्लोके (२,४.८ ) यमे यत्कुसीदम् <अपमित्यमप्रतीत्तम् [ড়्ष्१६.४९.१०, श्ष्६.११७.१, Vऐत्ष्२४.१५]> इति वेदिमुपोषति (२,४.८ ) इहैव सन्यमं कुसीदं निरवदायानृणो भूत्वा स्वर्गं लोकमेति (२,४.८ ) <विश्वलोप विश्वदावस्य त्वासञ्जुहोमि [ट्ष्३.३.८.२, Vऐत्ष्२४.१६]>इत्याह होताद्वा (२,४.८ ) यजमानस्यापराभावाय (२,४.८ ) यदु मिश्रमिव चरन्त्यञ्जलिना सक्तून् प्रदाव्ये जुहुयात् (२,४.८ ) एष ह वा अग्निर्वैश्वानरो यत्प्रदाव्यः (२,४.८ ) स्वस्यामेवैनं तद्योन्यां सादयति ॥ ८ ॥ (२,४.९ ) अह्नां विधान्यामेकाष्टकायामपूपं चतुःशरावं पक्त्वा प्रातरेतेन कक्षमुपोषेत् (२,४.९ ) यदि दहति पुण्यसमं भवति (२,४.९ ) यति न दहति पापसमं भवति (२,४.९ ) एतेन ह स्म वा अङ्गिरसः पुरा विज्ञानेन दीर्घसत्त्त्रमुपयन्ति (२,४.९ ) यो ह वा उपद्रष्टारमुपश्रोतारमनुख्यातारमेव विद्वान् यजते सममुष्मिंल्लोक इष्टापूर्तेन गच्छते (२,४.९ ) अग्निर्वा उपद्रष्टा (२,४.९ ) वायुर्वा उपश्रोता (२,४.९ ) आदित्यो वा अनुख्याता (२,४.९ ) तान् य एवंविद्वान् यजते सममुष्मिंल्लोक इष्टापूर्तेन गच्छते (२,४.९ ) <अयं नो नभसस्पतिः [ড়्ष्१९.१६.१७, श्ष्६.७९.१, च्f. ट्ष्३.३.८.५]>इत्याह (२,४.९ ) अग्निर्वै नभसस्पतिः (२,४.९ ) अग्निमेव तदाहैतं नो गोपायेति (२,४.९ ) <स त्वं नो नभसस्पतिः [च्f. ट्ष्३.३.८.६]>इत्याह (२,४.९ ) वायुर्वै नभसस्पतिः (२,४.९ ) वायुमेव तदाहैतं नो गोपायेति (२,४.९ ) <देव संस्फान [ट्ष्३.३.८.६]>इत्याह (२,४.९ ) आदित्यो वै देवः संस्फानः (२,४.९ ) आदित्यमेव तदाहैतं नो गोपायेति (२,४.९ ) <अयं ते योनिः [ড়्ष्३.३४.१, श्ष्३.२०.१]>इत्यरण्योरग्निं समारोपयेत् (२,४.९ ) तदाहुर्यदरण्योः समारूढो नश्येदुदस्याग्निः सीदेत् (२,४.९ ) पुनराधेयः स्यादिति (२,४.९ ) या ते अग्ने यज्ञिया तनूस्तया मे ह्यारोह तया मे ह्याविश (२,४.९ ) अयं ते योनिरित्यात्मन्नग्नीन् समारोपयेत् (२,४.९ ) एष ह वा अग्नेर्योनिः (२,४.९ ) स्वस्यामेवैनं तद्योन्यां सादयति ॥ ९ ॥ (२,४.१० ) यो ह वा अग्निष्टोमं साह्नं वेदाग्निष्टोमस्य साह्नस्य सायुज्यं सलोकतामश्नुते य एवं वेद (२,४.१० ) यो ह वा एष तपत्येषोऽग्निष्टोम एष साह्नस् (२,४.१० ) तं सहैवाह्ना संस्थापयेयुः (२,४.१० ) साह्नो वै नामैषः (२,४.१० ) तेनासंत्वरमाणाश्चरेयुः (२,४.१० ) यद्ध वा इदं पूर्वयोः सवनयोरसंत्वरमाणाश्चरन्ति तस्माद्धेदं प्राच्यो ग्रामता बहुलाविष्टाः (२,४.१० ) अथ यद्धेदं तृतीयसवने संत्वरमाणाश्चरन्ति तस्माद्धेदं प्रत्यञ्चि दीर्घारण्यानि भवन्ति (२,४.१० ) यथैव प्रातःसवन एवं माध्यंदिने सवन एवं तृतीयसवने (२,४.१० ) एवमु ह यजमानोऽप्रमायुको भवति (२,४.१० ) तेनासंत्वरमाणाश्चरेयुः (२,४.१० ) यदा वा एष प्रातरुदेत्यथ मन्द्रतमं तपति (२,४.१० ) तस्मान् मन्द्रतमया वाचा प्रातःसवने शंसेत् (२,४.१० ) अथ यदाभ्येत्यथ बलीयस्तपति (२,४.१० ) तस्माद्बलीयस्या वाचा माध्यंदिने सवने शंसेत् (२,४.१० ) अथो यदाभितरामेत्यथो बलिष्ठतमं तपति (२,४.१० ) तस्माद्बलिष्ठतमया वाचा तृतीयसवने शंसेत् (२,४.१० ) एवं शंसेद्यदि वाच ईशीत (२,४.१० ) वाग्घि शस्त्रम् (२,४.१० ) यया तु वचोत्तरिण्योत्तरिण्योत्सहेत समापनाय तया प्रतिपद्येत (२,४.१० ) एतत्सुशस्ततरमिव भवति (२,४.१० ) स वा एष न कदा चनास्तमयति नोदयति (२,४.१० ) तद्यदेनं पश्चादस्तमयतीति मन्यन्तेऽह्न एव तदन्तं गत्वाथात्मानं विपर्यस्यते (२,४.१० ) अहरेवाधस्तात्कृणुते रात्रीं परस्तात् (२,४.१० ) स वा एष न कदा चनास्तमयति नोदयति (२,४.१० ) तद्यदेनं पुरस्तादुदयतीति मन्यते रात्रेरेव तदन्तं गत्वाथात्मानं विपर्यस्यते (२,४.१०श्) रात्रिमेवाधस्तात्कृणुतेऽहः परस्तात् (२,४.१० अ) स वा एष न कदा चनास्तमयति नोदयति (२,४.१० ब्) न ह वै कदा चन निम्रुचति (२,४.१० च्) एतस्य ह सायुज्यं सलोकतामश्नुते य एवं वेद ॥ १० ॥ (२,४.११ ) अथात एकाहस्यैव तृतीयसवनम् (२,४.११ ) देवासुरा वा एषु लोकेषु समयतन्त (२,४.११ ) ते देवा असुरानभ्यजयम् (२,४.११ ) ते जिता अहोरात्रयोः संधिं समभ्यवागुः (२,४.११ ) स हेन्द्र उवाचेमे वा असुरा अहोरात्रयोः संधिं समभ्यवागुः (२,४.११ ) कश्चाहं चेमानसुरानभ्युत्थास्यामहा इति (२,४.११ ) अहं चेत्यग्निरब्रवीत् (२,४.११ ) अहं चेति वरुणः (२,४.११ ) अहं चेति बृहस्पतिः (२,४.११ ) अहं चेति विष्णुस् (२,४.११ ) तानभ्युत्थायाहोरात्रयोः संधेर्निर्जघ्नुः (२,४.११ ) यदभ्युत्थायाहोरात्रयोः संधेर्निर्जघ्नुस्तस्मादुत्था (२,४.११ ) अभ्युत्थाय ह वै द्विषन्तं भ्रातृव्यं निर्हन्ति य एवं वेद (२,४.११ ) सोऽग्निरश्वो भूत्वा प्रथमः प्रजिगाय (२,४.११ ) यदग्निरश्वो भूत्वा प्रथमः प्रजिगाअय तस्मादाग्नेयीभिरुक्थानि प्रणयन्ति (२,४.११ ) यदग्निरश्वो भूत्वा प्रथमः प्रजिगाय तस्मात्साकमश्वम् (२,४.११ ) यत्पञ्च देवता अभ्युत्तस्थुस्तस्मात्पञ्च देवता उक्थे शस्यन्ते (२,४.११ ) या वाक्सोऽग्निः (२,४.११ ) यः प्राणः स वरुणः (२,४.११ ) यन् मनः स इन्द्रः (२,४.११ ) यच्चक्षुः स बृहस्पतिः (२,४.११ ) यच्छ्रोत्रं स विष्णुः (२,४.११ ) एते ह वा एतान् पञ्चभिः प्राणैः समीर्योदस्थापयन् [एद्. समीर्युदस्थापयन्, चोर्र्. ড়त्यल्] (२,४.११ ) तस्मादु एवैताः पञ्च देवता उक्थे शस्यन्ते ॥ ११ ॥ (२,४.१२ ) प्रजापतिर्ह्येतेभ्यः पञ्चभ्यः प्राणेभ्योऽन्यान् देवान् ससृजे (२,४.१२ ) यदु चेदं किं च पाङ्क्तम् (२,४.१२ ) तत्सृष्ट्वा व्याज्वलयत् (२,४.१२ ) ते होचुर्देवा म्लानोऽयं पिता मयोभूः [एद्. पितामयोऽभूः, चोर्र्. ড়त्यल्] (२,४.१२ ) पुनरिमं समीर्योत्थापयामेति (२,४.१२ ) स ह सत्त्वमाख्यायाभ्युपतिष्ठते (२,४.१२ ) यदि ह वा अपि निर्णिक्तस्यैव कुलस्य संध्युक्षेण यजते सत्त्वं हैवाख्यायाभ्युपतिष्टते (२,४.१२ ) यो वै प्रजापतिः स यज्ञः (२,४.१२ ) स एतैरेव पञ्चभिः प्राणैः समीर्योत्थापितः (२,४.१२ ) ये ह वा एनं पञ्चभिः प्राणैः समीर्योत्थापयन् (२,४.१२ ) ता उ एवैताः पञ्च देवता उक्थे शस्यन्ते ॥ १२ ॥ (२,४.१३ ) तदाहुर्यद्द्वयोर्देवतयो स्तुवत इन्द्राग्न्योरित्यथ कस्माद्भूयिष्ठा देवता उक्थे शस्यन्त इति [एद्. भूयिष्ठो, चोर्र्. ড়त्यल्] (२,४.१३ ) अन्तो वा आग्निमारुतमन्तरुक्थान्यन्त आश्विनम् (२,४.१३ ) कनीयसीषु देवतासु स्तुवते तिष्ठेति (२,४.१३ ) अथ कस्माद्भूयिष्ठो देवता उक्थे शस्यन्त इति (२,४.१३ ) द्वे द्वे उक्थमुखे भवतस्तद्यद्द्वे द्वे ॥ १३ ॥ (२,४.१४ ) अथ यदैन्द्रावारुणं मैत्रावरुस्योक्थं भवत्यैन्द्राबार्हस्पत्यं ब्राह्मणाच्छंसिन उक्थं भवत्यैन्द्रावैष्णावमच्छावाकस्योक्थं भवति द्वे संशस्यंस्त ऐन्द्रं च वारुणं चैकमैन्द्रावारुणं भवति (२,४.१४ ) द्वे संशस्यंस्त ऐन्द्रं च बार्हस्पत्यं चैकमैन्द्राबार्हस्पत्यं भवति (२,४.१४ ) द्वे संशस्यंस्त ऐन्द्रं च वैष्णवं चैकमैन्द्रावैष्णवं भवति (२,४.१४ ) द्वे द्वे उक्थमुखे भवतस् (२,४.१४ ) तद्यद्द्वे द्वे ॥ १४ ॥ (२,४.१५ ) अथ यदैन्द्रावरुणं मैत्रावरुणस्योक्थं भवति<इन्द्रावरुणा सुतपाविमं सुतं सोमं पिबतं मद्यं धृतव्रतौ [श्ष्७.५८.१, ऋV ६.६८.१०]>इत्यृचाभ्यनूक्तम् (२,४.१५ ) मद्वद्धि तृतीयसवनम् (२,४.१५ ) <एह्यू षु ब्रवाणि ते [ऋV ६.१६.१६]><आग्निरगामि भारतः [ऋV ६.१६.१९]>इति मैत्रावरुणस्य स्तोत्रियानुरूपौ (२,४.१५ ) <चर्षणीधृतं मघवानमुक्थ्यम् [ऋV ३.५१.१]> इत्युक्थमुखम् (२,४.१५ ) तस्योपरिष्टाद्ब्राह्मणम् (२,४.१५ ) <अस्तभ्नाद्द्यामसुरो विश्ववेदाः [ऋV ८.४२.१]>इति वारुणं सांशंसिकम् [एद्. अस्तभ्नाद्याम्, चोर्रेच्तेद्प्. ३०२] (२,४.१५ ) अहं चेति वरुणोऽब्रवीत् (२,४.१५ ) देवतयोः संशंसायानतिशंसाय (२,४.१५ ) <इन्द्रावरुणा युवमध्वराय नः [ऋV ७.८२.१]>इति पर्यास ऐन्द्रावरुणे (२,४.१५ ) ऐन्द्रावरुणमस्यैतन्नित्यमुक्थम् (२,४.१५ ) तदेतत्स्वस्मिन्नायतने स्वस्यां प्रतिष्ठायां प्रतिष्ठापयति (२,४.१५ ) द्वन्द्वं वा एता देवता भूत्वा व्यजयन्त (२,४.१५ ) विजित्या एव (२,४.१५ ) अथो द्वन्द्वस्यैव मिथुनस्य प्रजात्यै (२,४.१५ ) सैकपादिनी भवति (२,४.१५ ) एकपादिन्या होता परिदधाति (२,४.१५ ) यत्र होतुर्होत्रकाणां युञ्जन्ति तत्समृद्धम् (२,४.१५ ) तद्वै खल्व्<आ वां राजानावध्वरे ववृत्याम् [ऋV ७.८४.१]> इति [एद्. आवां, चोर्रेच्तेद्प्. ३०३] (२,४.१५ ) एवमेव केवलपर्यासं कुर्यात्केवलसूक्तम् (२,४.१५ ) केवलसूक्तमेवोत्तरयोर्भवति (२,४.१५ ) <इन्द्रावरुणा मधुमत्तमस्य [ড়्ष्२०.७.६, श्ष्७.५८.२, ऋV ६.६८.११]>इति यजति (२,४.१५ ) एते एव तद्देवते यथाभागं प्रीणाति (२,४.१५ ) वषट्कृत्यानुवषट्करोति (२,४.१५ ) प्रत्येवाभिमृशन्ते (२,४.१५ ) नाप्याययन्ति न ह्यनाराशंसाः सीदन्ति ॥ १५ ॥ (२,४.१६ ) अथ यदैन्द्राबार्हस्पत्यं ब्राह्मणाच्छंसिन उक्थं भवति<इन्द्रश्च सोमं पिबतं बृहस्पतेऽस्मिन् यज्ञे मन्दसाना वृषण्वसू [ऋV ४.५०.१०]> इत्यृचाभ्यनूक्तम् (२,४.१६ ) मद्वद्धि तृतीयसवनम् (२,४.१६ ) <वयमु त्वामपूर्व्य [ऋV ८.२१.१, श्ष्२०.१४.१।२०.६२.१]> <यो न इदमिदं पुरा [ऋV ८.२१.९, श्ष्२०.१४.३।२०.६२.३, Vऐत्ष्२५.३]>इति ब्राह्मणाच्छंसिन स्तोत्रियानुरूपौ (२,४.१६ ) <प्र मंहिष्ठाय बृहते बृहद्रये [ऋV १.५७.१, श्ष्२०.१५.१]>इत्युक्थमुखम् (२,४.१६ ) ऐन्द्राजागतम् (२,४.१६ ) जागताः पशवः (२,४.१६ ) पशूनामाप्त्यै (२,४.१६ ) जागतमु वै तृतीयसवनम् (२,४.१६ ) तृतीयसवनस्य रूपम् (२,४.१६ ) <उदप्रुतो न वयो रक्षमाणाः [ऋV १०.६८.१, श्ष्२०.१६.१]>इति बार्हस्पत्यं सांशंसिकम् (२,४.१६ ) अहं चेति बृहस्पतिरब्रवीत् (२,४.१६ ) देवतयोः संशंसायनतिशंसाय (२,४.१६ ) <अच्छा म इन्द्रं मतयः स्वर्विदः [ऋV १०.४३.१, श्ष्२०.१७.१]>इति पर्यास ऐन्द्राबार्हस्पत्यः (२,४.१६ ) ऐन्द्राबार्हस्पत्यमस्यैतन्नित्यमुक्थम् (२,४.१६ ) तदेतत्स्वस्मिन्नायतने स्वस्यां प्रतिष्ठायां प्रतिष्ठापयति (२,४.१६ ) द्वन्द्वं वा एता देवता भूत्वा व्यजयन्त (२,४.१६ ) विजित्या एव (२,४.१६ ) अथो द्वन्द्वस्यैव मिथुनस्य प्रजात्यै (२,४.१६ ) <बृहस्पतिर्नः परि पातु पश्चात्[ऋV १०.४२।४३।४४.११ , ড়्ष्१५.११.१।१६.८.११ , श्ष्७.५१.१।२०.१७.११।२०.८९.११।२०.९४.११ ]>इत्यैन्द्राबार्हस्पत्या परिदधाति (२,४.१६ ) इन्द्राबृहस्पत्योरेव यज्ञं प्रतिष्ठापयति (२,४.१६ ) <उतोत्तरस्मादधरादघायोरिन्द्रः पुरस्तादुत मध्यतो नः सखा सखिभ्यो वरिवः कृणोतु [ऋV १०.४२।४३।४४.११ च्द्, ড়्ष्१५.११.१।१६.८.११ च्द्, श्ष्७.५१.१।२०.१७.११।२०.८९.११।२०.९४.११ च्द्]>इति (२,४.१६ ) सर्वाभ्य एव दिग्भ्य आशिषमाशास्ते नार्त्वी (२,४.१६ ) यं कामं कामयते सोऽस्मै कामः समृध्यते य एवं वेद यश्चैवंविद्वान् ब्राह्मणाच्छंस्येतया परिदधाति [एद्. एतस्या, चोर्र्. ড়त्यल्॑ एद्. ब्राह्मणाच्छंय्] (२,४.१६ ) <बृहस्पते युवमिन्द्रश्च वस्वः [ऋV ७.९७.१०]>इति यजति (२,४.१६ ) एते एव तद्देवते यथाभागं प्रीणाति (२,४.१६श्) वषट्कृत्यानुवषट्करोति (२,४.१६ अ) प्रत्येवाभिमृशन्ते (२,४.१६ ब्) नाप्याययन्ति (२,४.१६ च्) न ह्यनाराशंसाः सीदन्ति ॥ १६ ॥ (२,४.१७ ) अथ यदैन्द्रावैष्णवमच्छावाकस्योक्थं भवति<इन्द्राविष्णू मदपती मदानामा सोमं यातं द्रविणो दधाना [ऋV ६.६९.३]>इत्यृचाभ्यनूक्तम् [एद्. अच्छावाकस्योक्तं] (२,४.१७ ) मद्वद्धि तृतीयसवनम् (२,४.१७ ) <अधा हीन्द्र गिर्वणः [ऋV ८.९८.७]><इयं त इन्द्र गिर्वणः [ऋV ८.१३.४]>इत्यच्छावाकस्य स्तोत्रियानुरूपौ (२,४.१७ ) <ऋतुर्जनित्री तस्या अपस्परि [ऋV २.१३.१]>इत्युक्थमुखम् (२,४.१७ ) तस्योक्तं ब्राह्मणम् (२,४.१७ ) <नू मर्तो दयते सनिष्यन् [ऋV ७.१००.१]>इति वैष्णवं सांशंसिकम् [एद्. सांशंसिकंम्] (२,४.१७ ) अहं चेति विष्णुरब्रवीत् (२,४.१७ ) देवतयोः संशंसायानतिशंसाय (२,४.१७ ) <सं वां कर्मणा समिषा हिनोमि [ऋV ६.६९.१]>इति पर्यास ऐन्द्रावैष्णवः (२,४.१७ ) ऐन्द्रावैष्णवमस्यैतन्नित्यमुक्थम् [एद्. उखं] (२,४.१७ ) तदेतत्स्वस्मिन्नायतने स्वस्यां प्रतिष्ठायां प्रतिष्ठापयति (२,४.१७ ) द्वन्द्वं वा एता देवता भूत्वा व्यजयन्त (२,४.१७ ) विजित्या एव (२,४.१७ ) अथो द्वन्द्वस्यैव मिथुनस्य प्रजात्यै (२,४.१७ ) <उभा जिग्यथुर्न परा जयेथे [ऋV ६.६९.८, ড়्ष्२०.१६.३, श्ष्७.४४.१]> इत्यैन्द्रावैष्णव्यर्चा परिदधाति (२,४.१७ ) इन्द्राविष्णोरेव यज्ञं प्रतिष्ठापयति (२,४.१७ ) <इन्द्राविष्णू पिबतं मध्वो अस्य [ऋV ६.६९.७]>इति यजति (२,४.१७ ) एते एव तद्देवते यथाभागं प्रीणाति (२,४.१७ ) वषट्कृत्यानुवषट्करोति (२,४.१७ ) प्रत्येवाभिमृशन्ते (२,४.१७ ) नाप्याययन्ति (२,४.१७ ) न ह्यनाराशंसाः सीदन्ति ॥ १७ ॥ (२,४.१८ ) अथाध्वर्यो शंशंसावोमिति स्तोत्रियायानुरूपायोक्थमुखाय परिधानीयाया इति चतुश्चतुराह्वयन्ते (२,४.१८ ) चतस्रो वै दिशः (२,४.१८ ) दिक्षु तत्प्रतितिष्ठन्ते (२,४.१८ ) अथो चतुष्पादः पशवः (२,४.१८ ) पशूनामाप्त्यै (२,४.१८ ) अथो चतुष्पर्वाणो हि तृतीयसवने होत्रकास् (२,४.१८ ) तस्माच्चतुः (२,४.१८ ) सर्वे त्रैष्टुभं जागतानि शंसन्ति (२,४.१८ ) जागतं हि तृतीयसवनम् (२,४.१८ ) अथ हैतत्त्रैष्टुभानि (२,४.१८ ) अप्रतिभूतमिव हि प्रातःसवने मरुत्वतीये तृतीयसवने च होत्रकाणां शस्त्रम् (२,४.१८ ) धीतरसं वा एतत्सवनं यत्तृतीयसवनम् (२,४.१८ ) अथ हैतदधीतरसं शुक्रियं छन्दो यत्त्रिष्टुबयातयाम (२,४.१८ ) सवनस्यैव तत्सरसतायै (२,४.१८ ) सर्वे समवतीभिः परिदधति (२,४.१८ ) तद्यत्समवतीभिः परिदधत्यन्तो वै पर्यासोऽन्त उदर्कोऽन्तः सजाया उ ह वा अवैनाय (२,४.१८ ) अन्तेनैवान्तं परिदधति (२,४.१८ ) सर्वे मद्वतीभिर्यजन्ति (२,४.१८ ) तद्यन् मद्वतीभिर्यजन्ति सर्वे सुतवतीभिः पीतवतीभिरभिरूपाभिर्यजन्ति (२,४.१८ ) यद्यज्ञेऽभिरूपं तत्समृद्धम् (२,४.१८ ) सर्वेऽनुवषट्कुर्वन्ति (२,४.१८ ) स्विष्टकृत्वानुवषट्कारः (२,४.१८ ) नेत्स्विष्टकृत अन्तरयामेति (२,४.१८ ) असौ वै लोकस्तृतीयसवनम् (२,४.१८ ) तस्य पञ्च दिशः (२,४.१८श्) पञ्चोक्थानि तृतीयसवनस्य (२,४.१८ अ) स एतैः पञ्चभिरुक्थैरेताः पञ्च दिश आप्नोति (२,४.१८ ब्) तद्यदेषां लोकानां रूपं या मात्रा तेन रूपेण तया मात्रयेमांल्लोकानृध्नोतीमांल्लोकानृध्नोतीति ॥ १८ ॥ (२,४.१९ ) तदाहुः किं षोडशिनः षोडशित्वम् (२,४.१९ ) षोडश स्तोत्राणि षोडश शस्त्राणि षोडशभिरक्षरैरादत्ते (२,४.१९ ) द्वे वा अक्षरे अतिरिच्येते षोडशिनोऽनुष्टुभमभिसंपन्नस्य (२,४.१९ ) वाचो वा एतौ स्तनौ (२,४.१९ ) सत्यानृते वाव ते (२,४.१९ ) अवत्येनं सत्यं नैनमनृतं हिनस्ति य एवं वेद य एवं वेद ॥ १९ ॥ [एद्. वेद य एवं वेइ] (२,४.१९ ओल्) इत्यथर्ववेदे गोपथब्राह्मणोत्तरभागे चतुर्थः प्रपाठकः ॥ (२,५.१ ) ओमहर्वै देवा आश्रयन्त रात्रीमसुरास् (२,५.१ ) ते समावद्वीर्या एवासन् (२,५.१ ) नो व्यावर्तन्त (२,५.१ ) सोऽब्रवीदिन्द्रः कश्चाहं चेमानसुरान् रात्रीमन्वैष्यावहा इति [एद्. अन्वैष्यामह, चोर्र्. ড়त्यल्] (२,५.१ ) स देवेषु न प्रत्यविन्दत् (२,५.१ ) अबिभयू रात्रेस्तमसो मृत्योस् (२,५.१ ) तम इव हि रात्रिः (२,५.१ ) मृत्युर्वै तमस् (२,५.१ ) तस्माद्धाप्येतर्हि भूयानिव नक्तं स यावन् मात्रमिवापक्रम्य बिभेति (२,५.१ ) तं वै छन्दांस्येवान्ववायन् (२,५.१ ) तद्यच्छन्दांस्येवान्ववायंस्तस्मादिन्द्रश्च छन्दांसि च रात्रिं वहन्ति (२,५.१ ) न निविच्छस्यते न पुरोरुङ्न धाय्या नान्या देवता (२,५.१ ) इन्द्रश्च ह्येव छन्दांसि च रात्रिं वहन्ति (२,५.१ ) तान् वै पर्यायैः पर्यायमनुदन्त (२,५.१ ) यत्पर्यायैः पर्यायमनुदन्त तस्मात्पर्यायास् (२,५.१ ) तत्पर्यायाणां पर्यायत्वम् (२,५.१ ) तान् वै प्रथमैरेव पर्यायैः पूर्वरात्रादनुदन्त मध्यमैर्मध्यरात्रादुत्तमैरपररात्रात् (२,५.१ ) अपिशर्वर्या अपिस्मसीत्यब्रुवन् (२,५.१ ) तद्यदपिशर्वर्या अपिस्मसीत्यब्रुवंस्तदपिशर्वराणामपिशर्वरत्वम् (२,५.१ ) शर्वराणि खलु ह वा अस्यैतानि छन्दांसीति ह स्माह (२,५.१ ) एतानि ह वा इन्द्रं रात्र्यास्तमसो मृत्योरभिपत्यावारयन् (२,५.१ ) तदपिशर्वराणामपिशर्वरत्वम् ॥ १ ॥ (२,५.२ ) प्रथमेषु पर्यायेषु स्तुवते प्रथमान्येव पदानि पुनराददते (२,५.२ ) यदेवैषां मनोरथा आसंस्तदेवैषां तेनाददते (२,५.२ ) मध्यमेषु पर्यायेषु स्तुवते मध्यमान्येव पदानि पुनराददते (२,५.२ ) यदेवैषामश्वा गाव आसंस्तदेवैषां तेनाददते (२,५.२ ) उत्तमेषु पर्यायेषु स्तुवत उत्तमान्येव पदानि पुनराददते (२,५.२ ) यदेवैषां वासो हिरण्यं मणिरध्यात्ममासीत्तदेवैषां तेनाददते (२,५.२ ) आ द्विषतो वसु दत्ते निरेवैनमेभ्यः सर्वेभ्यो लोकेभ्यो नुदते य एवं वेद ॥ २ ॥ (२,५.३ ) पवमानवदहरित्याहुर्न रात्रिः पवमानवती (२,५.३ ) कथमुभे पवमानवती भवतः (२,५.३ ) केन ते समावद्भाजौ भवत इति (२,५.३ ) यदेवेन्द्राय मद्वने सुतमिदं वसो सुतमन्ध इदं ह्यन्वोजसा सुतमिति स्तुवन्ति च शंसन्ति च तेन रात्रिः पवमानवती (२,५.३ ) तेनोभे पवमानवती भवतस् (२,५.३ ) तेन ते समावद्भाजौ भवतः (२,५.३ ) पञ्चदशस्तोत्रमहरित्याहुर्न रात्रिः पञ्चदशस्तोत्रा (२,५.३ ) कथमुभे पञ्चदशस्तोत्रे भवतः (२,५.३ ) केन ते समावद्भाजौ भवत इति (२,५.३ ) द्वादश स्तोत्राण्यपिशर्वराणि (२,५.३ ) तिसृभिर्देवताभिः संधिना राथंतरेणाश्विनाय स्तुवते (२,५.३ ) तेन रात्रिः पञ्चदशस्तोत्रा (२,५.३ ) तेनोभे पञ्चदशस्तोत्रे भवतस् (२,५.३ ) तेन ते समावद्भाजौ भवतः (२,५.३ ) परिमितं स्तुवन्त्यपरिमितमनुशंसन्ति (२,५.३ ) परिमितं भूतमपरिमितं भव्यम् (२,५.३ ) अपरिमितान्येवावरुन्ध्यादित्यतिशंसति स्तोमम् (२,५.३ ) अति वै प्रजास्यात्मानमति पशवस् (२,५.३ ) तद्यदेवास्यात्यात्मानं तदेवास्यैतेनाप्याययन्ति (२,५.३ ) अथो द्वयं वा इदं सर्वं स्नेहश्चैव तेजश्च (२,५.३ ) अथ तदहोरात्राभ्यामाप्तम् (२,५.३ ) स्नेहतेजसोराप्त्यै (२,५.३ ) गायत्रान् स्तोत्रियानुरूपाञ्छंसन्ति (२,५.३ ) तेजो वै गायत्री (२,५.३ ) तमः पाप्मा रात्रिस् (२,५.३श्) तेन तेजसा तमः पाप्मानं तरन्ति (२,५.३ अ) पुनरादायं शंसन्ति (२,५.३ ब्) एवं हि सामगा स्तुवते (२,५.३ च्) यथा स्तुतमनुशस्तं भवति (२,५.३ द्) न हि तत्स्तुतं यन्नानुशस्तम् (२,५.३ ए) तदाहुरथ कस्मादुत्तमात्प्रतीहारादाहूय साम्ना शस्त्रमुपसंतन्वन्तीति ॥ ३ ॥ (२,५.४ ) पुरुषो वै यज्ञस् (२,५.४ ) तस्य शिर एव हविर्धानम् (२,५.४ ) मुखमाहवनीयः (२,५.४ ) उदरं सदः (२,५.४ ) अन्नमुक्थानि (२,५.४ ) बाहू मार्जालीयश्चाग्नीध्रीयश्च (२,५.४ ) या इमा देवतास्तेऽन्तःसदसं धिष्ण्याः (२,५.४ ) प्रतिष्ठे गार्हपत्यव्रतश्रपणावित्यथापरम् (२,५.४ ) तस्य मन एव ब्रह्मा (२,५.४ ) प्राण उद्गाता (२,५.४ ) अपानः प्रस्तोता (२,५.४ ) व्यानः प्रतिहर्ता (२,५.४ ) वाग्घोता (२,५.४ ) चक्षुरध्वर्युः (२,५.४ ) प्रजाति सदस्यः (२,५.४ ) अङ्गानि होत्राशंसिनः (२,५.४ ) आत्मा यजमानस् (२,५.४ ) तद्यदध्वर्युः स्तोत्रमुपाकरोति सोमः पवत इति चक्षुरेव तत्प्राणैः संदधाति (२,५.४ ) अथ यत्प्रस्तोता ब्रह्माणमामन्त्रयते ब्रह्मन्त्स्तोष्यामः प्रशास्तरिति मनोऽग्रणीर्भवति (२,५.४ ) एतेषां प्राणानां मनसा हि प्रसूता स्तोमेन स्तुयामेति (२,५.४ ) प्राणानेव तन् मनसा संदधाति (२,५.४ ) अथ यद्ब्रह्मा स्तुतेत्युच्चैरनुजानाति मनो वै ब्रह्मा (२,५.४ ) मन एव तत्प्राणैः संदधाति (२,५.४ ) अथ यत्प्रस्तोता प्रस्तौत्यपानमेव तत्प्राणैः संदधाति (२,५.४ ) अथ यत्प्रतिहर्ता प्रतिहरति व्यानमेव तदपानैः संदधाति (२,५.४श्) अथ यदुद्गातोद्गायति समानमेव तत्प्राणैः संदधाति (२,५.४ अ) अथ यद्धोता साम्ना शस्त्रमुपसंतनोति वाग्वै होता वाचमेव तत्प्राणैः संदधाति (२,५.४ ब्) अथ यत्सदस्यो ब्रह्माणमुपासीदति प्रजातिर्वै सदस्यः प्रजातिमेवाप्नोति (२,५.४ च्) अथ यद्धोत्राशंसिनः सामसंततिं कुर्वन्त्यङ्गानि वै होत्राशंसिनोऽङ्गान्येवास्य तत्प्राणैः संदधाति (२,५.४ द्) अथ यद्यजमानः स्तोत्रमुपासीदत्यात्मा वै यजमान आत्मानमेवास्य तत्कल्पयति (२,५.४ ए) तस्मान्नैनं बहिर्वेद्यभ्याश्रावयेत् (२,५.४ f) नाभ्युदियात् (२,५.४ ग्) नाभ्यस्तमियात् (२,५.४ ह्) नाधिष्ण्ये प्रतपेत् (२,५.४ इ) नेत्प्राणेभ्य आत्मानमन्तरगादिति ॥ ४ ॥ (२,५.५ ) प्रथमेषु पर्यायेषु स्तुवते प्रथमेषु पदेषु निनर्दयन्ति प्रथमरात्रादेव तदसुरान्निर्घ्नन्ति (२,५.५ ) मध्यमेषु पर्यायेषु स्तुवते मध्यमेषु पदेषु निनर्दयन्ति (२,५.५ ) मध्यमरात्रादेव तदसुरान्निर्घ्नन्ति (२,५.५ ) उत्तमेषु पर्यायेषु स्तुवत उत्तमेषु पदेषु निनर्दयन्ति (२,५.५ ) उत्तमरात्रादेव तदसुरान्निर्घ्नन्ति (२,५.५ ) तद्यथाभ्यागारं पुनःपुनः पाप्मानं निर्हरन्त्येवमेवैतत्स्तोत्रियानुरूपाभ्यामहोरात्राभ्यामेव तदसुरान्निर्घ्नन्ति (२,५.५ ) गायत्रीं शंसन्ति तेजो वै ब्रह्मवर्चसं गायत्री (२,५.५ ) तेज एवास्मै तद्ब्रह्मवर्चसं यजमाने दधति (२,५.५ ) गायत्रीः शस्त्वा जगतीः शंसन्ति (२,५.५ ) ब्रह्म ह वै जगती (२,५.५ ) ब्रह्मणैवास्मै तद्ब्रह्मवर्चसं यजमाने दधति (२,५.५ ) व्याह्वयन्ते गायत्रीश्च जगतीश्चान्तरेण (२,५.५ ) छन्दांस्येव तन्नानावीर्याणि कुर्वन्ति (२,५.५ ) जगतीः शस्त्वा त्रिष्टुभः शंसन्ति (२,५.५ ) पशवो वै जगती (२,५.५ ) पशूनेव तत्त्रिष्टुब्भिः परिदधति (२,५.५ ) बलं वै वीर्यं त्रिष्टुप् (२,५.५ ) बलमेव तद्वीर्येऽन्ततः प्रतिष्ठापयति (२,५.५ ) अन्धस्वत्यो मद्वत्यः सुतवत्यः पीतवत्यस्त्रिष्टुभो याज्याः समृद्धाः सुलक्षणाः (२,५.५ ) एतद्वै रात्रीरूपम् (२,५.५ ) जागृयाद्रात्रिम् (२,५.५ ) यावदु ह वै न वा स्तुवते न वा शस्यते तावदीश्वरा असुरा रक्षांसि च यज्ञमन्ववनयन्ति (२,५.५ ) तस्मादाहवनीयं समिद्धमाग्नीध्रीयं गार्हपत्यं धिष्ण्यान् समुज्ज्वलयतेति भाषेरन् (२,५.५ ) ज्वलयेरन् (२,५.५ ) प्रकाशमिवैव तत्स्यात् (२,५.५श्) आरेभन्तः शयीरन् (२,५.५ अ) तान् ह तः श्रेष्ठो वा इति पाप्मा नाभिवृक्णोति (२,५.५ ब्) ते तमः पाप्मानमपाघ्नते ते तमः पाप्मानमपाघ्नते ॥ ५ ॥ (२,५.६ ) विश्वरूपं वै त्वाष्ट्रमिन्द्रोऽहन् (२,५.६ ) स त्वष्टा हतपुत्रोऽभिचरणीयमपेन्द्रं सोममाहरत् (२,५.६ ) तस्येन्द्रो यज्ञवेशसं कृत्वा प्रासहा सोममपिबत् (२,५.६ ) स विष्वङ्व्यार्छत् (२,५.६ ) तस्मात्सोमो नानुपहूतेन [न] पातव्यः (२,५.६ ) सोमपीथोऽस्य व्यर्धुको भवति (२,५.६ ) तस्य मुखात्प्राणेभ्यः श्रीर्यशांस्यूर्ध्वान्युदक्रामन् [एद्. प्रणेभ्यः, चोर्र्. ড়त्यल्] (२,५.६ ) तानि पशून् प्राविशन् (२,५.६ ) तस्मात्पशवो यशः (२,५.६ ) यशो ह भवति य एवं वेद (२,५.६ ) ततोऽस्मा एतदश्विनौ च सरस्वती च यज्ञं समभरन्त्सौत्रामणिं भैषज्याय (२,५.६ ) तयेन्द्रमभ्यषिञ्चन् (२,५.६ ) ततो वै स देवानां श्रेष्ठोऽभवत् (२,५.६ ) श्रेष्ठः स्वानां चान्येषां च भवति य एवं वेद यश्चैवंविद्वान्त्सौत्रामण्याभिषिच्यते ॥ ६ ॥ (२,५.७ ) अथ साम गायति ब्रह्मा (२,५.७ ) क्षत्रं वै साम (२,५.७ ) क्षत्रेणैवैनं तदभिषिञ्चति (२,५.७ ) अथो साम्राज्यं वै साम (२,५.७ ) साम्राज्येनैवैनं तत्साम्राज्यं गमयति (२,५.७ ) अथो सर्वेषां वा एष वेदानां रसो यत्साम (२,५.७ ) सर्वेषामेव तद्वेदानां रसेनाभिषिञ्चति (२,५.७ ) बृहत्यां गायति (२,५.७ ) बृहत्यां वा असावादित्यः श्रियां प्रतिष्ठायां प्रतिष्ठितस्तपति (२,५.७ ) ऐन्द्र्यां बृहत्यां गायति (२,५.७ ) ऐन्द्रो वा एष यज्ञक्रतुर्यत्सौत्रामणिः (२,५.७ ) इन्द्रायतन एष एतर्हि यो यजते (२,५.७ ) स्व एवैनं तदायतने प्रीणाति (२,५.७ ) अथ कस्मात्संशानानि नाम (२,५.७ ) एतैर्वै सामभिर्देवा इन्द्रमिन्द्रियेण वीर्येण समश्यन् (२,५.७ ) तथैवैतद्यजमाना एतैरेव सामभिर् (२,५.७ ) इन्द्रियेणैव वीर्येण संश्यन्ति [एद्. वीर्येन] (२,५.७ ) संश्रवसे विश्रवसे सत्यश्रवसे श्रवस इति सामानि भवन्ति (२,५.७ ) एष्वेवैनं लोकेषु प्रतिष्ठापयति चतुर्निधनं भवति (२,५.७ ) चतस्रो वै दिशः (२,५.७ ) दिक्षु तत्प्रतितिष्ठन्ते (२,५.७ ) अथो चतुष्पादः पशवः (२,५.७ ) पशूनामाप्त्यै (२,५.७ ) तदाहुर्यदेतत्साम गीयतेऽथ क्वैतस्य साम्न उक्थं का प्रतिष्ठा (२,५.७ ) त्रया देवा एकादशेत्याहुः (२,५.७श्) एतद्वा एतस्य साम्न उक्थमेषा प्रतिष्ठा (२,५.७ अ) त्रयस्त्रिंशं ग्रहं गृह्णाति (२,५.७ ब्) साम्नः प्रतिष्ठायै प्रतिष्ठायै ॥ ७ ॥ (२,५.८ ) प्रजापतिरकामयत वाजमाप्नुयां स्वर्गं लोकमिति (२,५.८ ) स एतं वाजपेयमपश्यत् (२,५.८ ) वाजपेयो वा एष य एष तपति (२,५.८ ) वाजमेतेन यजमानः स्वर्गं लोकमाप्नोति (२,५.८ ) शुक्रवत्यो ज्योतिष्मत्यः प्रातःसवने भवन्ति (२,५.८ ) तेजो ब्रह्मवर्चसं ताभिराप्नोति (२,५.८ ) वाजवत्यो माध्यंदिने सवने (२,५.८ ) स्वर्गस्य लोकस्य समष्ट्यै (२,५.८ ) अन्नवत्यो गणवत्यः पशुमत्यस्तृतीयसवने भवन्ति (२,५.८ ) भूमानं ताभिराप्नोति (२,५.८ ) सर्वः सप्तदशो भवति (२,५.८ ) प्रजापतिर्वै सप्तदशः (२,५.८ ) प्रजापतिमेवाप्नोति (२,५.८ ) हिरण्यस्रज ऋत्विजो भवन्ति (२,५.८ ) महस एव तद्रूपं क्रियते (२,५.८ ) एष मेऽमुष्मिंल्लोके प्रकाशोऽसदिति (२,५.८ ) ज्योतिर्वै हिरण्यम् (२,५.८ ) ज्योतिषैवैनमन्तर्दधति (२,५.८ ) आजिं धावन्ति (२,५.८ ) यजमानमुज्जापयन्ति (२,५.८ ) नाकं रोहति समहसे रोहति विश्वमहसे रोहति सर्वमहसे रोहति (२,५.८ ) मनुष्यलोकादेवैनमन्तर्दधति (२,५.८ ) देवस्य सवितुः सवे स्वर्गं लोकं वर्षिष्ठं नाकं रोहेयमिति ब्रह्मा रथचक्रं सर्पति (२,५.८ ) सवितृप्रसूत एवैनं तत्सर्पति (२,५.८ ) अथो प्रजापतिर्वै ब्रह्मा (२,५.८श्) प्रजापतिमेवैनं वज्रादधिप्रसुवति (२,५.८ अ) नाकस्योज्जित्यै (२,५.८ ब्) वाजिनां संतत्यै (२,५.८ च्) वाजिसामाभिगायति (२,५.८ द्) वाजिमान् भवति (२,५.८ ए) वाजो वै स्वर्गं लोकः (२,५.८ f) स्वर्गमेव तल्लोकं रोहति (२,५.८ ग्) विष्णोः शिपिविष्टवतीषु बृहदुत्तमं भवति (२,५.८ ह्) स्वर्गमेव तल्लोकं रूढ्वा ब्रध्नस्य विष्टपमतिक्रामत्यतिक्रामति ॥ ८ ॥ (२,५.९ ) अथातोऽप्तोर्यामा (२,५.९ ) प्रजापतिर्वै यत्प्रजा असृजत ता वै तान्ता असृजत (२,५.९ ) ताः सृष्टाः पराच्य एवासन् (२,५.९ ) नोपावर्तन्त (२,५.९ ) ता एकेन स्तोमेनोपागृह्णात् (२,५.९ ) ता अत्यरिच्यन्त (२,५.९ ) ता द्वाभ्याम् (२,५.९ ) ताः सर्वैस् (२,५.९ ) तस्मात्सर्वस्तोमस् (२,५.९ ) ता एकेन पृष्ठेनोपागृह्णात् (२,५.९ ) ता अत्यरिच्यनत (२,५.९ ) ता द्वाभ्याम् (२,५.९ ) ताः सर्वैस् (२,५.९ ) तस्मात्सर्वपृष्ठस् (२,५.९ ) ता अतिरिक्तोक्थे वारवन्तीयेनावारयन् (२,५.९ ) तस्मादेषोऽतिरिक्तोक्थवान् भवति (२,५.९ ) तस्माद्वारवन्तीयम् (२,५.९ ) ता यदाप्त्वायच्छदतो वा अप्तोर्यामा (२,५.९ ) अथो प्रजा वा अप्तुरित्याहुः (२,५.९ ) प्रजानां यमन इति हैवैतदुक्तं ता बर्हिः प्रजा अश्नायेरन् [एद्. प्रजाश्नायेरंस्, चोर्र्. ড়त्यल्] (२,५.९ ) तर्हि हैतैन यजते (२,५.९ ) स एषोऽष्टापृष्ठो भवति (२,५.९ ) तद्यथान्यस्मिन् यज्ञे विश्वजितः पृष्ठमनु संचरं भवति कथमेतदेवमत्रेति (२,५.९ ) पितैष यज्ञानाम् (२,५.९ ) तद्यथा श्रेष्ठिनि संवश्रेयुरपि विद्विषाणा एवमेवैतच्छ्रेष्ठिनो वशेयान्नमन्नस्यानुचर्याय क्षमन्ते ॥ ९ ॥ (२,५.१० ) तद्यथैवादोऽह्न उक्थानामाग्नेयं प्रथमं भवत्येवमेवैतदत्राप्याग्नेयं प्रथमं भवति (२,५.१० ) ऐन्द्रे वाव तत्रोत्तरे [एद्. ऐद्रे] (२,५.१० ) ऐन्द्रे वा एते (२,५.१० ) ऐन्द्रावैष्णवमच्छावाकस्योक्थं भवति (२,५.१० ) चतुराहावान्यतिरिक्तोक्थानि भवन्ति (२,५.१० ) पशवो वा उक्थानि (२,५.१० ) चतुष्टया वै पशवः (२,५.१० ) अथो चतुष्पादः पशवः (२,५.१० ) पशूनामाप्त्यै (२,५.१० ) त एते स्तोत्रियानुरूपास्तृचा अर्धर्चशस्याः (२,५.१० ) प्रतिष्ठा वा अर्धर्चः (२,५.१० ) प्रतिष्ठित्या एव (२,५.१० ) अथैतेषामेवाश्विनानां सूक्तानां द्वे द्वे समाहावमेकैकमहरहः शंसति (२,५.१० ) अश्विनौ वै देवानां भिषजौ (२,५.१० ) तस्मादाश्विनानि सूक्तानि शंसति (२,५.१० ) तदश्विभ्यां प्रददुरिदं भिषज्यतमिति (२,५.१० ) क्षैत्रपत्याः परिधानीया भवन्ति (२,५.१० ) यत्र हतस्तत्प्रजा अशनायन्तीः पिपासन्तीः संरुद्धा स्थिता आसंस्ता दीना एताभिर्यथाक्षेत्रं पाययां चकार तर्पयां चकार [एद्. ह तस्तत्, चोर्र्. ড়त्यल्] (२,५.१० ) अथो इयं वै क्षेत्रं पृथिवी (२,५.१० ) अस्यामदीनायामन्ततः प्रतिष्ठास्यामह इति (२,५.१० ) त्रिष्टुभो याज्या भवन्ति (२,५.१० ) यत्र हतस्तत्प्रजा अशनायन्तीः पिपासन्तीः संरुद्धा स्थिता बभूवुस्ता हैवैना एताभिर्यथौकसं व्यवसाययां चकार (२,५.१० ) तस्मादेता याज्या भवन्ति तस्मादेता याज्या भवन्ति ॥ १० ॥ (२,५.११ ) अथातोऽनैकाहिकम् [एद्. अथतो] (२,५.११ ) श्वस्तोत्रियमद्यस्तोत्रियस्यानुरूपं कुर्वन्ति प्रातःसवने (२,५.११ ) अहीनमेव तत्संतन्वन्ति (२,५.११ ) अहीनस्य संतत्यै (२,५.११ ) तद्यथा ह वा एकाहः सुत एवमहीनः सुतस् (२,५.११ ) तद्यथैकाहस्य सुतस्य सवनानि संतिष्ठमानानि यन्त्येवमहीनस्य सुतस्याहानि संतिष्ठमानानि यन्ति (२,५.११ ) तद्यच्छ्वस्तोत्रियमद्यस्तोत्रियस्यानुरूपं कुर्वन्ति प्रातःसवने (२,५.११ ) अहरेवं तदह्नोऽनुरूपं कुर्वन्ति (२,५.११ ) अपरेणैव तदह्नापरमहरभ्यारभन्ते तत् (२,५.११ ) तथा न माध्यंदिने सवने (२,५.११ ) श्रीर्वै पृष्ठानि (२,५.११ ) तानि तस्मिन्नेवावस्थितानि भवन्ति (२,५.११ ) एतेनैव विधिना तृतीयसवने (२,५.११ ) न श्वस्तोत्रियमद्यस्तोत्रियस्यानुरूपं कुर्वन्ति ॥ ११ ॥ (२,५.१२ ) अथात आरम्भणीया एव (२,५.१२ ) <ऋजुनीती नो वरुण> इति मैत्रावरुणस्य <मित्रो नयतु विद्वान् [ऋV १.९०.१]> इति (२,५.१२ ) प्रणेता वा एष होत्रकाणां यन् मैत्रावरुणस् (२,५.१२ ) तस्मादेषा प्रणेतृमती भवति [एद्. प्रणेत्रिमती, चोर्र्. ড়त्यल्] (२,५.१२ ) <इन्द्रं वो विश्वतस्परि [ऋV १.७.१० , श्ष्२०.३९.१।२०.७०.१६ ]> इति ब्राह्मणाच्छंसिनः (२,५.१२ ) <हवामहे जनेभ्यः [ऋV १.७.१० , श्ष्२०.३९.१।२०.७०.१६ ]>इतीन्द्रमेवैतयाहरहर्निर्ह्वयन्ते (२,५.१२ ) न हैवैषां विहवेऽन्य इन्द्रं वृङ्क्ते यत्रैवंविद्वान् ब्राह्मणाच्छंस्येतामहरहः शंसति (२,५.१२ ) <यत्सोम आ सुते नरः [ऋV ७.९४.१० ]>इत्यच्छावाकस्य (२,५.१२ ) <इन्द्राग्नी अजोहवुः [ऋV ७.९४.१० ]>इतीन्द्राग्नी एवैतयाहरहर्निर्ह्वयन्ते (२,५.१२ ) न हैवैषां विहवेऽन्य इन्द्राग्नी वृङ्क्ते यत्रैवंविद्वानच्छावाक एतामहरहः शंसति (२,५.१२ ) ता वा एताः स्वर्गस्य लोकस्य नावः संतारण्यः (२,५.१२ ) स्वर्गमेवैताभिर्लोकमनुसंतरन्ति ॥ १२ ॥ (२,५.१३ ) अथातः परिधानीया एव (२,५.१३ ) <ते स्याम देव वरुण [ऋV ७.६६.९ ]>इति मैत्रावरुणस्य (२,५.१३ ) <इषं स्वश्च धीमहि [ऋV ७.६६.९ ]>इत्ययं वै लोक इषमित्यसौ लोकः स्वरिति (२,५.१३ ) उभावेवैनौ तौ लोकावारभते (२,५.१३ ) <व्यन्तरिक्षमतिरत्[ऋV ८.१४.७ , श्ष्२०.२८.१ , २०.३९.२ ]>इति ब्राह्मणाच्छंसिनः (२,५.१३ ) विवत्तृचम् (२,५.१३ ) स्वर्गमेवैताभिर्लोकं विवृणोति (२,५.१३ ) <मदे सोमस्य रोचनेन्द्रो यदभिनद्वलम् [ऋV ८.१४.७ च्, श्ष्२०.२८.१ च्, २०.३९.२ च्]> इति (२,५.१३ ) सिषासवो ह वा एते यद्दीक्षितास् (२,५.१३ ) तस्मादेषा वलवती भवति (२,५.१३ ) <उद्गा आजदङ्गिरोभ्य आविष्कृण्वन् गुहा सतीः । अर्वाञ्चं नुनुदे वलम् [ऋV ८.१४.८, श्ष्२०.२८.२, २०.३९.३]> इति [एद्. कृवन्, चोर्र्. ড়त्यल्] (२,५.१३ ) सनिमेतेभ्य एतयावरुन्द्धे (२,५.१३ ) <इन्द्रेण रोचना दिवो दृढानि दृंहितानि च । स्थिराणि न पराणुदे [ऋV ८.१४.९, श्ष्२०.२८.३, २०.३९.४]>इति (२,५.१३ ) स्वर्गमेवैतयाहरहर्लोकमवरुन्द्धे (२,५.१३ ) <आहं सरस्वतीवतोः [ऋV ८.३८.१० ]>इत्यच्छावाकस्य [एद्. स्वरस्वतीवतोर्, चोर्रेच्तेद्प्. ३०३] (२,५.१३ ) <इन्द्राग्न्योरवो वृणे [ऋV ८.३८.१० ]>इति (२,५.१३ ) एतद्ध वा इन्द्राग्न्योः प्रियं धामो यद्वागिति प्रियेणैवैनौ तद्धाम्ना समर्धयति (२,५.१३ ) प्रियेणैव धाम्ना समृध्यते य एवं वेद ॥ १३ ॥ (२,५.१४ ) उभय्यो होत्रकाणां परिधानीया भवन्त्यहीनपरिधानयाश्चैकाहिनस्य (२,५.१४ ) तत ऐकाहिकीभिरेव मैत्रावरुणः परिदधाति (२,५.१४ ) तेनास्माल्लोकान्न प्रच्यवते (२,५.१४ ) आहिनीकीभिरच्छावाकः (२,५.१४ ) स्वर्गस्य लोकस्याप्त्यै (२,५.१४ ) उभयीभिर्ब्राह्मणाच्छंसी (२,५.१४ ) एवमसावुभौ व्यन्वारभमाण एतीमं च लोकममुं च (२,५.१४ ) अथोऽहीनं चैकाहं चाथो संवत्सरं चाग्निष्टोमं चाथो मैत्रावरुणं चाच्छावाकं च (२,५.१४ ) एवमसावुभौ व्यन्वारभमाण एति (२,५.१४ ) अथ तत ऐकाहिकीभिरेव तृतीयसवने होत्रकाः परिदधति (२,५.१४ ) तेनास्माल्लोकान्न प्रच्यवते (२,५.१४ ) आहिनीकीभिरच्छावाकः (२,५.१४ ) स्वर्गस्य लोकस्य समष्ट्यै (२,५.१४ ) कामं तद्धोता शंसेद्यद्धोत्रकाः पूर्वेद्युः शंसेयुः (२,५.१४ ) यद्वै होता तद्धोत्रकाः (२,५.१४ ) प्राणो वै होताङ्गानि होत्रकाः (२,५.१४ ) समानो वा अयं प्राणोऽङ्गान्यनुसंचरति (२,५.१४ ) तस्मात्तत्कामं होता शंसेद्यद्धोत्रकाः पूर्वेद्युः शंसेयुः (२,५.१४ ) यद्वै होता तद्धोत्रकाः (२,५.१४ ) आत्मा वै होताङ्गानि होत्रकाः (२,५.१४ ) समाना वा इमेऽङ्गानामन्तास् (२,५.१४ ) तस्मात्तत्कामं होता शंसेद्यद्धोत्रकाः पूर्वेद्युः शंसेयुः [एद्. पुर्वेद्युः] (२,५.१४ ) यद्वै होता तद्धोत्रकाः (२,५.१४ ) सूक्तान्तैर्होता परिदधाति (२,५.१४ ) अथ समान्य एव होत्रकाणां परिधानीया भवन्ति ॥ १४ ॥ (२,५.१५ ) यः श्वस्तोत्रियस्तमद्यस्तोत्रियस्यानुरूपं कुर्वन्ति प्रातःसवने (२,५.१५ ) अहीनमेव तत्संतन्वन्ति (२,५.१५ ) अहीनस्य संतत्यै (२,५.१५ ) त एते होत्रकाः प्रातःसवने षडहस्तोत्रियं शस्त्वा माध्यंदिनेऽहीनसूक्तानि शंसन्ति (२,५.१५ ) <आ सत्यो यातु मघवां ऋजीषी [ऋV ४.१६.१, श्ष्२०.७७.१]>इति सत्यवान् मैत्रावरुणः [एद्. सत्यवन्, चोर्र्. ড়त्यल्] (२,५.१५ ) <अस्मा इदु प्र तवसे तुराय [ऋV १.१६.१, श्ष्२०.३५.१]>इति ब्राह्मणाच्छंसी (२,५.१५ ) <शासद्वह्निर्दुहितुर्नप्त्यं गात्[ऋV ३.३१.१]>इत्यच्छावाकस् (२,५.१५ ) तदाहुः कस्मादच्छावाको वह्निवदेतत्सूक्तमुभयत्र शंसति स पराक्षु चैवाहःस्वर्वाक्षु चेति (२,५.१५ ) वीर्यवान् वा एष बह्वृचो यदच्छावाकः (२,५.१५ ) वहति ह वै वह्निर्धुरो यासु युज्यते (२,५.१५ ) तस्मादच्छावाको वह्निवदेतत्सूक्तमुभयत्र शंसति स पराक्षु चैवाहःस्वर्वाक्षु चेति (२,५.१५ ) तानि पञ्चस्वहःसु शस्यन्ते चतुर्विंशेऽभिजिति विषुवति विश्वजिति महाव्रते (२,५.१५ ) तान्येतान्यहीनसूक्तानीत्याचक्षते (२,५.१५ ) न ह्येषु किं चन हीयते (२,५.१५ ) पराञ्चि ह वा एतान्यहान्यनभ्यावर्तीनि भवन्ति (२,५.१५ ) तस्मादेतान्येतेष्वहःसु शस्यन्ते (२,५.१५ ) यदेतानि शंसन्ति तत्स्वर्गस्य लोकस्य रूपम् (२,५.१५ ) यद्वेवैतानि शंसन्तीन्द्रमेवैतैर्निर्ह्वयन्ते यथर्षभं वाशितायै (२,५.१५ ) ते वै देवाश्चर्षयश्चाब्रुवन्त्समानेन यज्ञं संतन्वामहा इति [एद्. चाब्रुवंत्] (२,५.१५ ) तदेतद्यज्ञस्य समानमपश्यन् (२,५.१५ ) समानान् प्रगाथान्त्समानीः प्रतिपदः समानानि सूक्तानि [एद्. प्रगाथांत्] (२,५.१५ ) ओकःसारी वा इन्द्रः (२,५.१५ ) यत्र वा इन्द्रः पूर्वं गच्छति गच्छत्येव तत्रापरम् (२,५.१५ ) यज्ञस्यैव सेन्द्रतायै ॥ १५ ॥ (२,५.१५ ओल्) इत्यथर्ववेदे गोपथब्राह्मणोत्तरभागे पञ्चमः प्रपाठकः ॥ (२,६.१ ) ओं तान् वा एतान् संपातान् विश्वामित्रः प्रथममपश्यत् (२,६.१ ) <एवा त्वामिन्द्र वज्रिन्नत्र [ऋV ४.१९.१]> <यन्न इन्द्रो जुजुषे यच्च वष्टि [ऋV ४.२२.१]> <कथा महामवृधत्कस्य होतुः [ऋV ४.२३.१]>इति (२,६.१ ) तान् विश्वामित्रेण दृष्टान् वामदेवोऽसृजत (२,६.१ ) स हेक्षां चक्रे विश्वामित्रो यान् वा अहं संपातानदर्शं तान् वामदेवोऽसृजत (२,६.१ ) कानि न्वहं हि सूक्तानि संपातांस्तत्प्रतिमान्त्सृजेयमिति (२,६.१ ) स एतानि सूक्तानि संपातांस्तत्प्रतिमानसृजत (२,६.१ ) <सद्यो ह जातो वृषभः कनीनः [ऋV ३.४८.१]><उदु ब्रह्माण्यैरत श्रवस्या [ऋV ७.२३.१, श्ष्२०.१२.१]><अभि तष्टेव दीधया मनीषाम् [ऋV ३.३८.१]> इति विश्वमित्रः (२,६.१ ) <इन्द्रः पूर्भिदातिरद्दासमर्कैः [ऋV ३.३४.१, श्ष्२०.११.१]><य एक इद्धव्यश्चर्षणीनाम् [ऋV ६.२२.१, श्ष्२०.३६.१]><यस्तिग्मशृङ्गो वृषभो न भीमः [ऋV ७.१९.१, श्ष्२०.३७.१]>इति वसिष्ठः (२,६.१ ) <इमामू षु प्रभृतिं सातये धाः [ऋV ३.३६.१]><इच्छन्ति त्वा सोम्यासः सखायः [ऋV ३.३०.१]> <शासद्वह्निर्दुहितुर्नप्त्यं गात्[ऋV ३.३१.१]>इति भरद्वाजः (२,६.१ ) एतैर्वै संपातैरेत ऋषय इमांल्लोकान्त्समपतन् (२,६.१ ) तद्यत्समपतंस्तस्मात्संपातास् (२,६.१ ) तत्संपातानां संपातत्वम् (२,६.१ ) ततो वा एतांस्त्रीन् संपातान् मैत्रावरुणो विपर्यासमेकैकमहरहः शंसत्य्<एवा त्वामिन्द्र वज्रिन्नत्र [ऋV ४.१९.१]>इति प्रथमेऽहनि (२,६.१ ) <यन्न इन्द्रो जुजुषे यच्च वष्टि [ऋV ४.२२.१]>इति द्वितीये (२,६.१ ) <कथा महामवृधत्कस्य होतुः [ऋV ४.२३.१]>इति तृतीये (२,६.१ ) त्रीनेव संपातान् ब्राह्मणाच्छंसी विपर्यासमेकैकमहरहः शंसति<इन्द्रः पूर्भिदातिरद्दासमर्कैः [ऋV ३.३४.१, श्ष्२०.११.१]>इति प्रथमेऽहनि (२,६.१ ) <य एक इद्धव्यश्चर्षणीनाम् [ऋV ६.२२.१, श्ष्२०.३६.१]> इति द्वितीये (२,६.१ ) <यस्तिग्मशृङ्गो वृषभो न भीमः [ऋV ७.१९.१, श्ष्२०.३७.१]>इति तृतीये (२,६.१ ) त्रीनेव संपातानच्छावाको विपर्यासमेकैकमहरहः शंसति<इमामू षु प्रभृतिं सातये धाः [ऋV ३.३६.१]>इति प्रथमेऽहनि (२,६.१ ) <इच्छन्ति त्वा सोम्यासः सखायः [ऋV ३.३०.१]>इति द्वितीये (२,६.१ ) <शासद्वह्निर्दुहितुर्नप्त्यं गात्[ऋV ३.३१.१]>इति तृतीये (२,६.१ ) तानि वा एतानि नव त्रीणि चाहरहःशंस्यानि (२,६.१ ) तानि द्वादश भवन्ति (२,६.१ ) द्वादश ह वै मासाः संवत्सरः (२,६.१ ) संवत्सरः प्रजापतिः (२,६.१श्) प्रजापतिर्यज्ञस् (२,६.१ अ) तत्संवत्सरं प्रजापतिं यज्ञमाप्नोति (२,६.१ ब्) तस्मिन्त्संवत्सरे प्रजापतौ यज्ञेऽहरहः प्रतितिष्ठन्तो यन्ति (२,६.१ च्) प्रतितिष्ठन्ते [एद्. प्रतितिष्ठत, चोर्र्. ড়त्यल्] (२,६.१ द्) इदं सर्वमनु प्रतितिष्ठति (२,६.१ ए) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद (२,६.१ f) तान्यन्तरेणावापमावपेरन् (२,६.१ ग्) अन्यूङ्खा विराजश्चतुर्थेऽहनि वैमदीश्च पङ्क्तीः पञ्चमे पारुच्छेपीः षष्ठे (२,६.१ ह्) अथ यान्यन्यानि महास्तोत्राण्यष्टर्चान्यावपेरन् ॥ १ ॥ (२,६.२ ) <को अद्य नर्यो देवकामः [ऋV ४.२५.१]>इति मैत्रावरुणः (२,६.२ ) <वने न वा यो न्यधायि चाकन् [ऋV १०.२९.१, श्ष्२०.७६.१]>इति ब्राह्मणाच्छंसी (२,६.२ ) <आ याह्यर्वाङुप वन्धुरेष्ठाः [ऋV ३.४३.१]>इत्यच्छावाकः (२,६.२ ) एतानि वा आवपनानि (२,६.२ ) एतैरेवावपनैर्देवाश्चर्षयश्च स्वर्गं लोकं आयन् (२,६.२ ) तथैवैतद्यजमाना एतैरेवावपनैः स्वर्गं लोकं यन्ति (२,६.२ ) <सद्यो ह जातो वृषभः कनीनः [ऋV ३.४८.१]>इति मैत्रावरुणः पुरस्तात्संपातानामहरहः शंसति (२,६.२ ) तदेतत्सूक्तं स्वर्ग्यम् (२,६.२ ) एतेन सूक्तेन देवाश्चर्षयश्च स्वर्गं लोकमायन् (२,६.२ ) तथैवैतद्यजमाना एतेनैव सूक्तेन स्वर्गं लोकं यन्ति (२,६.२ ) तदृषभवत्पशुमद्भवति (२,६.२ ) पशूनामाप्त्यै (२,६.२ ) तत्पञ्चर्चं भवति (२,६.२ ) अन्नं वै पङ्क्तिः (२,६.२ ) अन्नाद्यस्यावरुद्ध्यै (२,६.२ ) <अरिष्टैर्नः पथिभिः पारयन्ता [ऋV ६.६९.१ ]>इति स्वर्गताया एवैतदहरहः शंसति (२,६.२ ) <उदु ब्रह्माण्यैरत श्रवस्या [ऋV ७.२३.१, श्ष्२०.१२.१]>इति ब्राह्मणाच्छंसी (२,६.२ ) ब्रह्मण्वदेतत्सूक्तं समृद्धम् (२,६.२ ) एतेन सूक्तेन देवाश्चर्षयश्च स्वर्गं लोकमायन् (२,६.२ ) तथैवैतद्यजमाना एतेनैव सूक्तेन स्वर्गं लोकं यन्ति (२,६.२ ) तदु वै षडृचम् (२,६.२ ) षड्वा ऋतवः (२,६.२ ) ऋतूनामाप्त्यै (२,६.२ ) तदुपरिष्टात्संपातानामहरहः शंसति (२,६.२ ) <अभि तष्टेव दीधया मनीषाम् [ऋV ३.३८.१ ]> इत्यच्छावाकः [एद्. अच्छावको] (२,६.२श्) अहरहः शंसत्यभिवदति तत्यै रूपम् (२,६.२ अ) <अभि प्रियाणि मर्मृशत्पराणि [ऋV ३.३८.१ ]>इति (२,६.२ ब्) यान्येव पराण्यहानि तानि प्रियाणि (२,६.२ च्) तान्येव तदभिमर्मृशन्तो यन्त्यभ्यारभमाणाः (२,६.२ द्) परो वा अस्माल्लोकात्स्वर्गो लोकः (२,६.२ ए) स्वर्गमेव तल्लोकमभिमृशन्ति (२,६.२ f) <कवींरिच्छामि संदृशे सुमेधाः [ऋV ३.३८.१ ]>इति (२,६.२ ग्) ये ह वा अनेन पूर्वे प्रेतास्ते वै कवयस्तानेव तदभ्यतिवदति (२,६.२ ह्) यदु वै दशर्चं दश वै प्राणाः (२,६.२ इ) प्राणेन तदाप्नोति (२,६.२ ज्) प्राणानां संतत्यै (२,६.२ क्) यदु वै दशर्चम् (२,६.२ ल्) दश वै पुरुषे प्राणाः (२,६.२ म्) दश स्वर्गा लोकाः (२,६.२ न्) प्राणांश्चैव तत्स्वर्गांश्च लोकानाप्नोति (२,६.२ ओ) प्राणेषु चैवैतत्स्वर्गेषु च लोकेषु प्रतितिष्ठन्तो यन्ति (२,६.२ प्) यदु वै दशर्चम् (२,६.२ ॠ) दशाक्षरा विराट् (२,६.२ र्) इयं वै स्वर्गस्य लोकस्य प्रतिष्ठा (२,६.२ स्) तदेतदस्यां प्रतिष्ठायां प्रतिष्ठापयति (२,६.२ त्) सकृदिन्द्रं निराह (२,६.२ उ) तेनैन्द्राद्रूपान्न प्रच्यवते (२,६.२ व्) तदुपरिष्टात्संपातानामहरहः शंसति ॥ २ ॥ (२,६.३ ) <कस्तमिन्द्र त्वावसुम् [ऋV ७.३२.१४]><कन्नव्यो अतसीनाम् [ऋV ८.३.१३]><कदू न्वस्याकृतम् [ऋV ८.६६.९]> इति कद्वन्तः प्रगाथा अहरहः शस्यन्ते (२,६.३ ) को वै प्रजापतिः (२,६.३ ) प्रजापतेराप्त्यै (२,६.३ ) यदेव कद्वन्तस्तत्स्वर्गस्य लोकस्य रूपम् (२,६.३ ) यद्वेव कद्वन्तः (२,६.३ ) अथो अन्नं वै कम् (२,६.३ ) अथो अन्नस्यावरुद्ध्यै (२,६.३ ) यद्वेव कद्वन्तः (२,६.३ ) अथो सुखं वै कम् (२,६.३ ) अथो अन्नस्यावरुद्ध्यै (२,६.३ ) यद्वेव कद्वन्तः (२,६.३ ) अथोऽहरहर्वा एते शान्तान्यहीनसूक्तान्युपयुञ्जाना यन्ति (२,६.३ ) तानि कद्वद्भिः प्रगाथैः शमयन्ति (२,६.३ ) तान्येभ्यः शान्तानि कं भवन्ति (२,६.३ ) तान्येताञ्छान्तानि स्वर्गं लोकमभिवहन्ति (२,६.३ ) त्रिष्टुभः सूक्तप्रतिपदः शंसेयुस् (२,६.३ ) ता हैके पुरस्तात्प्रगाथानां शंसन्ति धाय्या इति वदन्तस् (२,६.३ ) तदु तथा न कुर्यात् (२,६.३ ) क्षत्रं वै होता विशो होत्राशंसिनः (२,६.३ ) क्षत्रायैव तद्विशं प्रत्युद्यामिनीं कुर्युः (२,६.३ ) पापवस्यसम् (२,६.३ ) त्रिष्टुभो वा इमाः सूक्तप्रतिपद इत्येवं विद्यात् (२,६.३ ) यथा वै समुद्रं प्रतरेयुरेवं हैवैते प्रप्लवन्ते ये संवत्सरं द्वादशाहं वोपासते (२,६.३ ) तद्यथा सैरावतीं नावं पारकामाः समारोहेयुरेवं हैवैतास्त्रिष्टुभः स्वर्गकामाः समारोहन्ति (२,६.३ ) न ह वा एतच्छन्दो गमयित्वा स्वर्गं लोकमुपावर्तते (२,६.३श्) वीर्यवत्तमं हि (२,६.३ अ) ताभ्यो न व्याह्वयीत (२,६.३ ब्) समानं हि छन्दः (२,६.३ च्) अथो नेद्धाय्याः करवाणीति (२,६.३ द्) यदेनाः शंसन्ति तत्स्वर्गस्य लोकस्य रूपम् (२,६.३ ए) यद्वेवैनाः शंसन्तीन्द्रमेवैताभिर्निर्ह्वयन्ते यथर्षभं वाशितायै ॥ ३ ॥ (२,६.४ ) <अपेन्द्र प्राचो मघवन्नमित्रान् [ড়्ष्१९.१६.८ , श्ष्२०.१२५.१ ]> इति मैत्रावरुणः पुरस्तात्संपातानामहरहः शंसति [एद्. अपेन्द] (२,६.४ ) <अपापाचो अभिभूते नुदस्वापोदीचो अप शूराधराच उरौ यथा तव शर्मन् मदेम [ড়्ष्१९.१६.८ च्द्, श्ष्२०.१२५.१ च्द्]>इति (२,६.४ ) अभयस्य रूपम् (२,६.४ ) अभयमिव ह्यन्विच्छति (२,६.४ ) <ब्रह्मणा ते ब्रह्मयुजा युनज्मि [ऋV ३.३५.५, श्ष्२०.८६.१]>इति ब्राह्मणाच्छंसी (२,६.४ ) एतामहरहः शंसति युक्तवतीम् (२,६.४ ) युक्त इव ह्यहीनः (२,६.४ ) अहीनस्य रूपम् (२,६.४ ) <उरुं नो लोकमनु नेषि [ऋV ६.४७.८, ড়्ष्३.३५.४, श्ष्१९.१५.४]>इत्यच्छावाकोऽहरहः शंसति (२,६.४ ) अनुनेषीत्येत इव ह्यहीनः (२,६.४ ) अहीनस्य रूपम् (२,६.४ ) नेषीति सत्त्रायणरूपमोकःसारी हैवैषामिन्द्रो भवति (२,६.४ ) यथा गौः प्रज्ञातं गोष्ठं यथर्षभो वाशिताया एवं हैवैषामिन्द्रो यज्ञमागच्छति (२,६.४ ) न शुनंहूययाहीनस्य परिदध्यात् (२,६.४ ) क्षत्रियो ह राष्ट्राच्च्यवते (२,६.४ ) यो हैव परो भवति तमभिह्वयति ॥ ४ ॥ (२,६.५ ) अथातोऽहीनस्य युक्तिश्च विमुक्तिश्च (२,६.५ ) <व्यन्तरिक्षमतिरत्[ऋV ८.१४.७ , श्ष्२०.२८.१ , २०.३९.२ ]>इत्यहीनं युङ्क्ते (२,६.५ ) <एवेदिन्द्रम् [ऋV ७.२३.६ , श्ष्२०.१२.६ , लोन्गेर्पर्तीक अत्२.४.२]> इति विमुञ्चति (२,६.५ ) <नूनं सा ते [ऋV २.११.२१, १५.१०, १६.९, १७.९, १८.९, १९.९, २०.९]>इत्यहीनं युङ्क्ते (२,६.५ ) <नू ष्टुतः [ऋV ४.१६.२१, १७.२१, १९.११, २०.११, २१.११, २२.११, २३.११, २४.११]>इति विमुञ्चति (२,६.५ ) एषा ह वा अहीनं तन्तुमर्हति य एनं योक्तं च विमोक्तं च वेद (२,६.५ ) तस्य हैषैव युक्तिरेषा विमुक्तिस् (२,६.५ ) तद्यत्प्रथमेऽहनि चतुर्विंशे एकाहिकीभिः परिदध्युः प्रथम एवाहनि यज्ञं संस्थापयेयुर्नाहीनकर्म कुर्युः (२,६.५ ) अथ यदहीनपरिधानीयाभिः परिदध्युस्तद्यथा युक्तोऽविमुच्यमान उत्कृत्येतैवं यजमाना उत्कृत्येरन् (२,६.५ ) नाहीनकर्म कुर्युः (२,६.५ ) अथ यदुभयीभिः परिदध्युस्तद्यथा दीर्घाध्व उपविमोकं यायात्तादृक्तत् (२,६.५ ) समानीभिः परिदध्युस् (२,६.५ ) तदाहुरेकया द्वाभ्यां वा स्तोममतिशंसेत् (२,६.५ ) दीर्घारण्यानि भवन्ति (२,६.५ ) यत्र बह्वीभि स्तोमोऽतिशस्यतेऽथो क्षिप्रं देवेभ्योऽन्नाद्यं संप्रयच्छामीति (२,६.५ ) अपरिमिताभिरुत्तरयोः सवनयोरपरिमितो वै स्वर्गो लोकः (२,६.५ ) स्वर्गस्य लोकस्य समष्ट्यै (२,६.५ ) तद्यथाभिहेषते पिपासते क्षिप्रं प्रयच्छेत्तादृक्तत् (२,६.५ ) समानीभिः परिदध्युः (२,६.५ ) संततो हैवैषामारब्धोऽविस्रस्तो यज्ञो भवति (२,६.५ ) संततमृचा वषट्कृत्यम् (२,६.५ ) संतत्यै संधीयते प्रजया पशुभिर्य एवं वेद ॥ ५ ॥ (२,६.६ ) तदाहुः कथं द्व्युक्थो होतैकसूक्त एकोक्था होत्रा द्विसूक्ता इति (२,६.६ ) असौ वै होता योऽसौ तपति (२,६.६ ) स वा एक एव (२,६.६ ) तस्मादेकसूक्तः (२,६.६ ) स यद्विध्यातो द्वाविवाभवति (२,६.६ ) तेज एव मण्डलं भा अपरं शुक्लमपरं कृष्णम् (२,६.६ ) तस्माद द्व्युक्थः (२,६.६ ) रश्मयो वाव होत्रास् (२,६.६ ) ते वा एकैकम् (२,६.६ ) तस्मादेकोक्थास् (२,६.६ ) तद्यदेकैकस्य रश्मेर्द्वौद्वौ वर्णौ भवतस्तस्माद्द्विसूक्ताः (२,६.६ ) संवत्सरो वाव होता (२,६.६ ) स वा एक एव (२,६.६ ) तस्मादेकसूक्तस् (२,६.६ ) तस्य यद्द्वयान्यहानि भवन्ति शीतान्यन्यान्युष्णान्यन्यानि तस्माद्द्व्युक्थः (२,६.६ ) ऋतवो वाव होत्रास् (२,६.६ ) ते वा एकैकम् (२,६.६ ) तस्मादेकोक्थास् (२,६.६ ) तद्यदेकैकस्यर्तौ द्वौद्वौ मासौ भवतस्तस्माद्द्विसूक्ताः (२,६.६ ) पुरुषो वाव होता (२,६.६ ) स वा एक एव (२,६.६ ) तस्मादेकसूक्तः (२,६.६ ) स यत्पुरुषो भवत्यन्यथैव प्रत्यङ्भवत्यन्यथा प्राङ्तस्माद्द्व्युक्थः (२,६.६ ) अङ्गानि वाव होत्रास् (२,६.६ ) तानि वा एकैकम् (२,६.६श्) तस्मादेकोक्थास् (२,६.६ अ) तद्यदेकैकमङ्गं द्युतिर्भवति तस्माद्द्विसूक्तास् (२,६.६ ब्) तदाहुर्यद्द्व्युक्थो होतैकसूक्त एकोक्था होत्रा द्विसुक्ताः कथं तत्समं भवति (२,६.६ च्) यदेव द्विदेवत्याभिर्यजन्त्यथो यद्द्विसूक्ता होत्रा इति ब्रूयात् (२,६.६ द्) तदाहुर्यदग्निष्टोम एव सति यज्ञे द्वे होतुरुक्थे अतिरिच्येते कथं ततो होत्रा न व्यवच्छिद्यन्त इति (२,६.६ ए) यदेव द्विदेवत्याभिर्यजन्त्यथो यद्द्विसूक्ता होत्रा इति ब्रूयात् (२,६.६ f) तदाहुर्यदग्निष्टोम एव सति यज्ञे सर्वा देवताः सर्वाणि छन्दांस्याप्याययन्ति (२,६.६ ग्) अथ कतमेन छन्दसायातयामान्युक्थानि प्रणयन्ति कया देवतयेति (२,६.६ ह्) गायत्रेण छन्दसाग्निना देवतयेति ब्रूयात् (२,६.६ इ) देवान् ह यज्ञं तन्वानानसुररक्षांस्यभिचेरिरे यज्ञपर्वणि यज्ञमेषां हनिष्यामस्तृतीयसवनं प्रति (२,६.६ ज्) तृतीयसवने ह यज्ञस्त्वरिष्टो बलिष्ठः (२,६.६ क्) प्रतनुमेषां यज्ञं हनिष्याम इति (२,६.६ ल्) ते वरुणं दक्षिणतोऽयोजयन् (२,६.६ म्) मध्यतो बृहस्पतिम् (२,६.६ न्) उत्तरतो विष्णुम् (२,६.६ ओ) तेऽब्रुवन्नेकैकाः स्मः (२,६.६ प्) नेदमुत्सहामह इति (२,६.६ ॠ) स्तुतो द्वितीयो येनेदं सह व्यश्नवामहा इति (२,६.६ र्) तानिन्द्रोऽब्रवीत्सर्वे मद्द्वितीया स्थेति (२,६.६ स्) ते सर्व इन्द्रद्वितीयास् (२,६.६ त्) तस्मादैन्द्रावारुणमैन्द्राबार्हस्पत्यमैन्द्रावैष्णवमनुशस्यते (२,६.६ उ) द्वितीयवन्तो ह वा एतेन स्वा भवन्ति (२,६.६ व्) द्वितीयवन्तो मन्यन्ते य एवं वेद ॥ ६ ॥ (२,६.७ ) आग्नेयीषु मैत्रावरुणस्योक्थं प्रणयन्ति (२,६.७ ) वीर्यं वा अग्निः (२,६.७ ) वीर्येणैवास्मै तत्प्रणयन्ति (२,६.७ ) ऐन्द्रावारुणमनुशस्यते (२,६.७ ) वीर्यं वा इन्द्रः (२,६.७ ) क्षत्रं वरुणः (२,६.७ ) पशव उक्थानि (२,६.७ ) वीर्येणैव तत्क्षत्रेण चोभयतः पशून् परिगृह्णाति (२,६.७ ) स्थित्यै (२,६.७ ) अनपक्रान्त्यै (२,६.७ ) ऐन्द्रीषु ब्राह्मणाच्छंसिन उक्थं प्रणयन्ति (२,६.७ ) वीर्यं वा इन्द्रः (२,६.७ ) वीर्येणैवास्मै तत्प्रणयन्ति (२,६.७ ) ऐन्द्राबार्हस्पत्यमनुशस्यते (२,६.७ ) वीर्यं वा इन्द्रः (२,६.७ ) ब्रह्म बृहस्पतिः (२,६.७ ) पशव उक्थानि (२,६.७ ) वीर्येणैव तद्ब्रह्मणा चोभयतः पशून् परिगृह्णाति (२,६.७ ) स्थित्यै (२,६.७ ) अनपक्रान्त्यै (२,६.७ ) ऐन्द्रीष्वच्छावाकस्योक्थं प्रणयन्ति (२,६.७ ) वीर्यं वा इन्द्रः (२,६.७ ) वीर्येणैवास्मै तत्प्रणयन्ति (२,६.७ ) ऐन्द्रावैष्णवमनुशस्यते (२,६.७ ) वीर्यं वा इन्द्रः (२,६.७श्) यज्ञो विष्णुः (२,६.७ अ) पशव उक्थानि (२,६.७ ब्) वीर्येणैव तद्यज्ञेन चोभयतः पशून् परिगृह्य क्षत्रेऽन्ततः प्रतिष्ठापयति (२,६.७ च्) तस्मादु क्षत्रियो भूयिष्ठं हि पशूनामीशते [एद्. भुयिष्ठं, चोर्र्. ড়त्यल्] (२,६.७ द्) याधिष्ठाता प्रदाता यस्मै प्रत्ता वेदा अवरुद्धास् (२,६.७ ए) तान्येतान्यैन्द्राणि जागतानि शंसन्ति (२,६.७ f) अथो एतैरेव सेन्द्रं तृतीयसवनमेतैर्जागतं सवनम् (२,६.७ ग्) धराणि ह वा अस्यैतान्युक्थानि भवन्ति यन्नाभानेदिष्ठो वालखिल्यो वृषाकपिरेवयामरुत् (२,६.७ ह्) तस्मात्तानि सार्धमेवोपेयुः (२,६.७ इ) सार्धमिदं रेतः सिक्तं समृद्धमेकधा प्रजनयामेति (२,६.७ ज्) ये ह वा एतानि नानूपेयुर्यथा रेतः सिक्तं विलुम्पेत्कुमारं वा जातमङ्गशो विभजेत्तादृक्तत् (२,६.७ क्) तस्मात्तानि सार्धमेवोपेयुः (२,६.७ ल्) सार्धमिदं रेतः सिक्तं समृद्धमेकधा प्रजनयामेति (२,६.७ म्) शिल्पानि शंसति देवशिल्पानि (२,६.७ न्) एतेषां वै शिल्पानामनुकृतीह शिल्पमधिगम्यते (२,६.७ ओ) हस्ती कंसो वासो हिरण्यमश्वतरीरथः शिल्पम् (२,६.७ प्) शिल्पं हास्य समधिगम्यते य एवं वेद (२,६.७ ॠ) यदेव शिल्पानि शंसति तत्स्वर्गस्य लोकस्य रूपम् (२,६.७ र्) यद्वेव शिल्पान्यात्मसंस्कृतिर्वै शिल्पानि (२,६.७ स्) आत्मानमेवास्य तत्संस्कुर्वन्ति ॥ ७ ॥ (२,६.८ ) नाभानेदिष्ठं शंसति (२,६.८ ) रेतो वै नाभानेदिष्ठः (२,६.८ ) रेत एवास्य तत्कल्पयति (२,६.८ ) तद्रेतोमिश्रं भवति (२,६.८ ) <क्ष्मया रेतः संजग्मानो नि षिञ्चत्[ऋV १०.६१.७ ]>इति (२,६.८ ) रेतसः समृद्ध्या एव (२,६.८ ) तं सनारशंसं शंसति (२,६.८ ) प्रजा वै नरः (२,६.८ ) वाक्शंसः (२,६.८ ) प्रजासु तद्वाचं दधाति (२,६.८ ) तस्मादिमाः प्रजा वदन्त्यो जायन्ते (२,६.८ ) तं हैके पुरस्तात्प्रगाथानां शंसन्ति पुरुस्तादायतना वागिति वदन्तः (२,६.८ ) उपरिष्टादेक उपरिष्टादायतना वागिति वदन्तः (२,६.८ ) मध्य एव शंसेत् (२,६.८ ) मध्यायतना वा इयं वाक् (२,६.८ ) उपरिष्टान्नेदीयसीव (२,६.८ ) तं होता रेतोभूतं शस्त्वा मैत्रावरुणाय संप्रयच्छति (२,६.८ ) एतस्य त्वं प्राणान् कल्पयेति (२,६.८ ) वालखिल्याः शंसति (२,६.८ ) प्राणा वै वालखिल्याः (२,६.८ ) प्राणानेवास्य तत्कल्पयति (२,६.८ ) ता विहृताः शंसति (२,६.८ ) विहृता वै प्राणाः (२,६.८ ) प्राणेनापानः (२,६.८ ) अपानेन व्यानः (२,६.८श्) स पच्छः प्रथमे सूक्ते विहरति (२,६.८ अ) अर्धर्चशो द्वितीये [एद्. द्वितिये, चोर्र्. ড়त्यल्] (२,६.८ ब्) ऋक्शः तृतीये (२,६.८ च्) स यत्प्रथमे सूक्ते विहरति वाचं चैव तन् मनश्च विहरति (२,६.८ द्) यद्द्वितीये चक्षुश्चैव तच्छ्रोत्रं च विहरति (२,६.८ ए) यत्तृतीये प्राणां चैव तदात्मानं च विहरति (२,६.८ f) तदुपाप्तो विहरेत्कामः (२,६.८ ग्) नेतुर्वै प्रगाथाः कल्पन्ते (२,६.८ ह्) अतिमर्शमेव विहरेत् (२,६.८ इ) तथा वै प्रगाथाः कल्पन्ते (२,६.८ ज्) यदेवातिमर्शं तत्स्वर्गस्य लोकस्य रूपम् (२,६.८ क्) यद्वेवातिमर्शमात्मा वै बृहती (२,६.८ ल्) प्राणाः सतोबृहती (२,६.८ म्) स बृहतीमशंसीत् (२,६.८ न्) स आत्मा (२,६.८ ओ) अथ सतोबृहतीम् (२,६.८ प्) ते प्राणाः (२,६.८ ॠ) अथ बृहतीम् (२,६.८ र्) अथ सतोबृहतीम् (२,६.८ स्) तदात्मानं प्राणैः परिवृहन्नेति (२,६.८ त्) यद्वेवातिमर्शमात्मा वै बृहती (२,६.८ उ) प्रजाः सतोबृहती (२,६.८ व्) स बृहतीमशंसीत् (२,६.८ w) स आत्मा (२,६.८ x) अथ सतोबृहतीम् (२,६.८ य्) ते प्रजाः (२,६.८श्श्) अथ बृहतीम् (२,६.८ अअ) अथ सतोबृहतीम् (२,६.८ ब्ब्) तदात्मानं प्रजया परिवृहन्नेति (२,६.८ च्च्) यद्वेवातिमर्शमात्मा वै बृहती (२,६.८ द्द्) पशवः सतोबृहती (२,६.८ एए) स बृहतीमशंसीत् (२,६.८ ff) स आत्मा (२,६.८ ग्ग्) अथ सतोबृहतीम् (२,६.८ ह्ह्) ते पशवः (२,६.८ इइ) अथ बृहतीम् (२,६.८ ज्ज्) अथ सतोबृहतीम् (२,६.८ क्क्) तदात्मानं पशुभिः परिवृहन्नेति (२,६.८ ल्ल्) तस्य मैत्रावरुणः प्राणान् कल्पयित्वा ब्राह्मणाच्छंसिने संप्रयच्छति (२,६.८ म्म्) एतस्य त्वं प्रजनयेति (२,६.८ न्न्) सुकीर्तिं शंसति (२,६.८ ओओ) देवयोनिर्वै सुकीर्तिस् (२,६.८ प्प्) तद्यज्ञियायां देवयोन्यां यजमानं प्रजनयति (२,६.८ ॠॠ) वृषाकपिं शंसति (२,६.८ र्र्) आत्मा वै वृषाकपिः (२,६.८ स्स्) आत्मानमेवास्य तत्कल्पयति (२,६.८ त्त्) तं न्यूङ्खयति (२,६.८ उउ) अन्नं वै न्यूङ्खः (२,६.८ व्व्) अन्नाद्यमेवास्मै तत्संप्रयच्छति यथा कुमाराय जाताय स्तनम् (२,६.८ ww) स पाङ्क्तो भवति (२,६.८ xx) पाङ्क्तो ह्ययं पुरुषः पञ्चधा विहितः (२,६.८ य्य्) लोमानि त्वगस्थि मज्जा मस्तिष्कम् (२,६.८श्श्श्) स यावानेव पुरुषस्तावन्तं यजमानं संस्कृत्याच्छावाकाय संप्रयच्छति (२,६.८ अअअ) एतस्य त्वं प्रतिष्ठा कल्पयेति (२,६.८ ब्ब्ब्) एवयामरुतं शंसति (२,६.८ च्च्च्) प्रतिष्ठा वा एवयामरुत् (२,६.८ द्द्द्) प्रतिष्ठायामेवैनमन्ततः प्रतिष्ठापयति (२,६.८ एएए) याज्यया यजति (२,६.८ fff) अन्नं वै याज्या (२,६.८ ग्ग्ग्) अन्नाद्यमेवास्मै तत्संप्रयच्छति ॥ ८ ॥ (२,६.९ ) तानि वा एतानि सहचराणीत्याचक्षते यन्नाभानेदिष्ठो वालखिल्यो वृषाकपिरेवयामरुत् (२,६.९ ) तानि सह वा शंसेत्सह वा न शंसेत् (२,६.९ ) यदेषामन्तरीयात्तद्यजमानस्यान्तरीयात् (२,६.९ ) यदि नाभानेदिष्ठं रेतोऽस्यान्तरीयात् (२,६.९ ) यदि वालखिल्याः प्राणानस्यान्तरीयात् (२,६.९ ) यदि वृषाकपिमात्मानमस्यान्तरीयात् (२,६.९ ) यद्येवायामरुतं प्रतिष्ठा वा एवयामरुत्प्रतिष्ठाया एवैनं तं श्रावयेद्दैव्याश्च मानुष्याश्च (२,६.९ ) तानि सह वा शंसेत्सह वा न शंसेत् (२,६.९ ) स ह बुडिल आश्वितरास्युर्विश्वजितो होता सन्नीक्षां चक्र एतेषां वा एषां शिल्पानां विश्वजिति सांवत्सरिके द्वे होतुरुक्थे माध्यंदिनमभिप्रच्यवेते (२,६.९ ) हन्ताहमित्थमेवायापरुतं शंसयानीति (२,६.९ ) तद्ध तथा शंसयां चक्रे (२,६.९ ) तद्ध तथा शस्यमाने गोश्ल आजगम (२,६.९ ) स होवाच होतः कथा ते शस्त्रं विचक्रं प्लवत इति (२,६.९ ) किं ह्यभूदिति (२,६.९ ) एवयामरुदयमुत्तरतः शस्यत इति (२,६.९ ) स होवाचैन्द्रो वै माध्यंदिनः (२,६.९ ) कथेन्द्रं माध्यंदिनान्निनीषसीति (२,६.९ ) नेन्द्रं माध्यंदिनान्निनीषामीति स होवाच (२,६.९ ) छन्दस्त्विदममाध्यंदिनंसाचि (२,६.९ ) जागतं वातिजागतं वा (२,६.९ ) स उ मारुतः (२,६.९ ) मैवं संमृष्टेति (२,६.९ ) स होवाचारमाच्छावाकेति (२,६.९ ) अथास्मिन्ननुशासनमीषे (२,६.९ ) स होवाचैन्द्रमेष विष्णुन्यङ्गानि शंसति (२,६.९श्) अथ त्वं होतुरुपरिष्टाद्रौद्रिया धाय्यायाः पुरस्तान् मारुतस्य सूक्तस्याप्यस्यथा इति (२,६.९ अ) तथेति (२,६.९ ब्) तदप्येतर्हि तथैव शस्यते (२,६.९ च्) यथा षष्ठे पृष्ठ्याहनि कल्पत एव यज्ञः कल्पते यजमानस्य प्रजातिः कथमत्राशस्त एव नाभानेदिष्ठो भवत्यथ वालखिल्याः शंसति (२,६.९ द्) रेतो वा अग्रेऽथ प्राणाः (२,६.९ ए) एवं ब्राह्मणाच्छंसी (२,६.९ f) अशस्त एव नाभानेदिष्ठो भवत्यथ वृषाकपिं शंसति (२,६.९ ग्) रेतो वा अग्रेऽथात्मा कथमत्र यजमानस्य प्रजातिः कथं प्राणा अवरुद्धा भवन्तीति (२,६.९ ह्) यजमानं वा एतेन सर्वेण यज्ञक्रतुना संस्कुर्वन्ति (२,६.९ इ) स यथा गर्भो योन्यामन्तरेव प्राणानस्यान्तरियात् (२,६.९ ज्) यदि वृषाकपिमात्मानमस्यान्तरियाद्यद्येव या संभवञ्छेते (२,६.९ क्) न ह वै सकृदेवाग्रे सर्वं संभवति (२,६.९ ल्) एकैकं वा अङ्गं संभवतः संभवति (२,६.९ म्) सर्वाणि चेत्समानेऽहनि क्रियेरन् कल्पत एव यज्ञः कल्पते यजमानस्य प्रजातिः (२,६.९ न्) अथ हैवैवयामरुतं होता शंसेत् (२,६.९ ओ) तद्यास्य प्रतिष्ठा [एद्. तस्यास्य, चोर्र्. ড়त्यल्] (२,६.९ प्) तस्यामेवैनमन्ततः प्रतिष्ठापयति प्रतिष्ठापयति ॥ ९ ॥ [एद्. प्रतिस्थापयति २ , चोर्र्. ড়त्यल्] (२,६.१० ) देवक्षेत्रं वै षष्ठमहः (२,६.१० ) देवक्षेत्रं वा एत आगच्छन्ति ये षष्ठमहरागच्छन्ति (२,६.१० ) न वै देवा अन्योऽन्यस्य गृहे वसन्ति नर्तुरृतोर्गृहे वसतीत्याहुस् (२,६.१० ) तद्यथायथमृत्विज ऋतुयाजान् यजन्त्यसंप्रदायम् (२,६.१० ) तद्यदृतून् कल्पयन्ति यथायथं जनिता (२,६.१० ) तदाहुर्नर्तुप्रैषैः प्रेष्येयुर्नर्तुप्रैषैर्वषट्कुर्युः (२,६.१० ) वाग्वा ऋतुप्रैषाः (२,६.१० ) आप्यते वै वाक्षष्ठेऽहनीति (२,६.१० ) यदृतुप्रैषैः प्रेष्येयुर्यदृतुप्रैषैर्वषट्कुर्युर्वाचमेव तदाप्तां शान्तामृक्णवतीं वहरावणीमृच्छेयुः [एद्. ऋक्तवतीं, चोर्र्. ড়त्यल्] (२,६.१० ) अच्युताद्यज्ञस्य च्यवेरन् (२,६.१० ) यज्ञात्प्राणात्प्रजायाः पशुभ्यो जिह्मा ईयुस्[एद्. प्राणान्, चोर्र्. ড়त्यल्] (२,६.१० ) तस्मादृग्मेभ्य एव प्रेषितव्यम् (२,६.१० ) ऋग्मेभ्योऽधि वषट्कृत्यम् (२,६.१० ) तन्न वाचमाप्तां शान्तामृक्तवतीं वहरावणीमृच्छन्ति (२,६.१० ) नाच्युताद्यज्ञस्य च्यवेरन् (२,६.१० ) न यज्ञात्प्राणान् प्रजायाः पशुभ्यो जिह्मा यन्ति (२,६.१० ) पारुच्छेपीरुपदधति द्वयोः सवनयोः पुरस्तात्प्रस्थितयाज्यानाम् (२,६.१० ) रोहितं वै नामैतच्छन्दो यत्पारुच्छेपम् (२,६.१० ) एतेन ह वा इन्द्रः सप्त स्वर्गांल्लोकानारोहत् (२,६.१० ) आरोहति सप्त स्वर्गांल्लोकान् य एवं वेद (२,६.१० ) तदाहुर्यत्पञ्चपदा एव पञ्चमस्याह्नो रूपं षट्पदाः षष्ठस्याथ कस्मात्सप्तपदाः षष्ठेऽहनि शस्यन्त इति (२,६.१० ) षड्भिरेव पदैः षष्ठमहरवाप्नुवन्त्यवछिद्येवैतदहर्यत्सप्तमम् (२,६.१० ) तदेव सप्तमेन पदेनाभ्यारुह्या वसन्ति (२,६.१० ) संततैस्त्र्यहैरव्यवछिन्नैर्यन्ति य एवंविद्वांस उपयन्ति ॥ १० ॥ (२,६.११ ) देवासुरा वा एषु लोकेषु समयतन्त (२,६.११ ) ते वै देवाः षष्ठेनाह्नैभ्यो लोकेभ्योऽसुरान् पराणुदन्त (२,६.११ ) तेषां यान्यन्तर्हस्तानि वसून्यासंस्तान्यादाय समुद्रं प्रारूप्यन्त (२,६.११ ) तेषां वै देवा अनुहायैतेनैव छन्दसान्तर्हस्तानि वसून्याददत (२,६.११ ) तदेवैतत्पदं पुनःपदम् (२,६.११ ) स एवाङ्कुश आकुञ्चनाय (२,६.११ ) आ द्विषतो वसु दत्ते निरेवैनमेभ्यः सर्वेभ्यो लोकेभ्यो नुदते य एवं वेद (२,६.११ ) द्यौर्वै देवता षष्ठमहर्वहति (२,६.११ ) त्रयस्त्रिंश स्तोमः (२,६.११ ) रैवतं साम (२,६.११ ) अतिच्छन्दश्छन्दः (२,६.११ ) यथादेवतमेनेन यथास्तोमं यथासाम यथाछन्दसमृध्नोति य एवं वेद (२,६.११ ) यद्वै समानोदर्कं तत्षष्ठस्याह्नो रूपम् (२,६.११ ) यद्येव प्रथममहस्तदुत्तममहस् (२,६.११ ) तदेवैतत्पदं पुनर्यत्षष्ठं यदश्ववद्यद्रथवद्यत्पुनरावृत्तं यत्पुनर्निवृत्तं यदन्तरूपं यदसौ लोकोऽभ्युदितो यन्नाभानेदिष्ठं यत्पारुच्छेपं यन्नाराशंसं यद्द्वैपदा यत्सप्तपदा यत्कृतं यद्रैवतं तत्तृतीयस्याह्नो रूपम् (२,६.११ ) एतानि वै षष्ठस्याह्नो रूपाणि (२,६.११ ) छन्दसामु ह षष्ठेनाह्नाक्तानां रसोऽत्यनेदत् (२,६.११ ) तं प्रजापतिरुदानान्नाराशंस्या गायत्र्या रैभ्या त्रिष्टुभा परिक्षित्या जगत्या गाथयानुष्टुभा [एद्. गयत्र्या] (२,६.११ ) एतानि वै छन्दांसि षष्ठेऽहनि शस्तानि भवन्त्ययातयामानि (२,६.११ ) छनदसामेव तत्सरसताया अयातयामतायै (२,६.११ ) सरसानि हास्य छन्दांसि षष्ठेऽहनि शस्तानि भवन्ति (२,६.११ ) सरसैश्छन्दोभिरिष्टं भवति सरसैश्छन्दोभिर्यज्ञं तनुते य एवं वेद ॥ ११ ॥ (२,६.१२ ) अथ यद्द्वैपदौ स्तोत्रियानुरूपौ भवत <इमा नु कं भुवना सीषधाम [ऋV १०.१५७.१, श्ष्२०.६३.१, २०.१२४.४]>इति (२,६.१२ ) द्विपाद्वै पुरुषः (२,६.१२ ) द्विप्रतिष्ठः पुरुषः (२,६.१२ ) पुरुषो वै यज्ञस् (२,६.१२ ) तस्माद्द्वैपदौ स्तोत्रियानुरूपौ भवतः (२,६.१२ ) अथ सुकीर्तिं शंसत्य्<अपेन्द्र प्राचो मघवन्नमित्रान् [ড়्ष्१९.१६.८ , श्ष्२०.१२५.१ , सकलपाठ अत्२.६.४]> इति (२,६.१२ ) देवयोनिर्वै सुकीर्तिः (२,६.१२ ) स य एवमेतां देवयोन्यां सुकीर्तिं वेद कीर्तिं प्रतिष्ठापयति भूतानां कीर्तिमान् स्वर्गे लोके प्रतितिष्ठति (२,६.१२ ) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद (२,६.१२ ) अथ वृषाकपिं शंसति <वि हि सोतोरसृक्षत [ऋV १०.८६.१, श्ष्१०.१२६.१]>इति (२,६.१२ ) आदित्यो वै वृषाकपिस् (२,६.१२ ) तद्यत्कम्पयमानो रेतो वर्षति तस्माद्वृषाकपिस् (२,६.१२ ) तद्वृषाकपेर्वृषाकपित्वम् (२,६.१२ ) वृषाकपिरिव वै स सर्वेषु लोकेषु भाति य एवं वेद (२,६.१२ ) तस्य तृतीयेषु पादेष्वाद्यन्तयोर्न्यूङ्खनिनर्दान् करोति (२,६.१२ ) अन्नं वै न्यूङ्खः [एद्. न्युङ्खो, चोर्र्. ড়त्यल्] (२,६.१२ ) बलं निनर्दः (२,६.१२ ) अन्नाद्यमेवास्मै तद्बले निदधाति (२,६.१२ ) अथ कुन्तापं शंसति (२,६.१२ ) कुयं ह वै नाम कुत्सितं भवति (२,६.१२ ) तद्यत्तपति तस्मात्कुन्तापास् (२,६.१२ ) तत्कुन्तापानां कुन्तापत्वम् (२,६.१२ ) तप्यन्तेऽस्मै कुयानिति तप्तकुयः स्वर्गे लोके प्रतितिष्ठति (२,६.१२ ) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद (२,६.१२ ) तस्य चतुर्दश प्रथमा भवन्तीदं जना उप श्रुतेति (२,६.१२श्) ताः प्रग्राहं शंसति यथा वृषाकपिम् (२,६.१२ अ) वार्षरूपं हि (२,६.१२ ब्) वृषाकपेस्तन्न्यायमेत्येव (२,६.१२ च्) अथ रैभीः शंसति (२,६.१२ द्) <वच्यस्व रेभ वच्यस्व [ऋVKह्५.९.१, श्ष्२०.१२७.४]>इति (२,६.१२ ए) रेभन्तो वै देवाश्चर्षयश्च स्वर्गं लोकमायन् (२,६.१२ f) तथैवैतद्यजमाना रेभन्त एव स्वर्गं लोकं यन्ति (२,६.१२ ग्) ताः प्रग्राहमेत्येव (२,६.१२ ह्) अथ पारिक्षिताः शंसति राज्ञो विश्वजनीनस्येति (२,६.१२ इ) संवत्सरो वै परिक्षित् (२,६.१२ ज्) संवत्सरो हीदं सर्वं परिक्षियतीति (२,६.१२ क्) अथो खल्वाहुरग्निर्वै परिक्षित् (२,६.१२ ल्) अग्निर्हीदं सर्वं परिक्षियतीति (२,६.१२ म्) अथो खल्वाहुर्गाथा एवैताः कारव्या राज्ञः परिक्षित इति स नस्तद्यथा कुर्यात् (२,६.१२ न्) गाथा एवैताः शस्ता भवन्ति (२,६.१२ ओ) यद्यु वै गाथा अग्नेरेव गाथाः संवत्सरस्य वेति ब्रूयात् (२,६.१२ प्) यद्यु वै मन्त्रोऽग्निरेव मन्त्रः संवत्सरस्य वेति ब्रूयात् (२,६.१२ ॠ) ताः प्रग्राहमेत्येव (२,६.१२ र्) अथ कारव्याः शंसति<इन्द्रः कारुमबूबुधत्[ऋVKह्५.११.१, श्ष्२०.१२७.११]>इति (२,६.१२ स्) यदेव देवाः कल्याणं कर्माकुर्वंस्तत्कारव्याभिरवाप्नुवन् (२,६.१२ त्) तथैवैतद्यजमाना यदेव देवाः कल्याणं कर्म कुर्वन्ति तत्कारव्याभिरवाप्नुवन्ति (२,६.१२ उ) ताः प्रग्राहमित्येव (२,६.१२ व्) अथ दिशां कॢप्तीः पूर्वं शस्त्वा <यः सभेयो विदथ्यः [ऋVKह्५.१२.१, श्ष्२०.१२८.१]>इति जनकल्पा उत्तराः शंसति <योऽनाक्ताक्षो अनभ्यक्तः [ऋVKह्५.१३.१, श्ष्२०.१२८.६]>इति (२,६.१२ w) ऋतवो वै दिशः प्रजननस् (२,६.१२ x) तद्यद्दिशां कॢप्तीः पूर्वं शस्त्वा <यः सभेयो विदथ्यः [ऋVKह्५.१२.१, श्ष्२०.१२८.१]>इति जनकल्पा उत्तराः शंसत्यृतूनेव तत्कल्पयति (२,६.१२ य्) ऋतुषु प्रतिष्ठापयति (२,६.१२श्श्) प्रतिष्ठन्तीरिदं सर्वमनुप्रतितिष्ठति (२,६.१२ अअ) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद (२,६.१२ ब्ब्) ता अर्धर्चशः शंसति (२,६.१२ च्च्) प्रतिष्ठित्या एव (२,६.१२ द्द्) अथेन्द्रगाथाः शंसति <यदिन्द्रादो दाशराज्ञे [ऋVKह्५.१४.१, श्ष्२०.१२८.१२]>इति (२,६.१२ एए) इन्द्रगाथाभिर्ह वै देवा असुरानागायाथैनानत्यायन् (२,६.१२ ff) तथैवैतद्यजमाना इन्द्रगाथाभिरेवाप्रियं भ्रातृव्यमागायाथैनमतियन्ति (२,६.१२ ग्ग्) ता अर्धर्चशः शंसति (२,६.१२ ह्ह्) प्रतिष्ठित्या एव ॥ १२ ॥ (२,६.१३ ) अथैतशप्रलापं शंसत्य्<एता अश्वा आ प्लवन्ते [ऋVKह्५.१५.१, श्ष्२०.१२९.१]>इति (२,६.१३ ) ऐतशो ह मुनिर्यज्ञस्यायुर्ददर्श (२,६.१३ ) स ह पुत्रानुवाच पुत्रका यज्ञस्यायुरभिददर्शम् (२,६.१३ ) तदभिलपिष्यामि मा मा दृप्तं मन्यध्वमिति (२,६.१३ ) तथेति (२,६.१३ ) तदभिललाप (२,६.१३ ) तस्य हाभ्यग्निरैतशायनो ज्येष्ठः पुत्रोऽभिद्रुत्य मुखमपिजग्राह ब्रुवन् दृप्तो नः पितेति (२,६.१३ ) स होवाच धिक्त्वा जाल्मापरस्य पापिष्ठां ते प्रजां करिष्यामीति यो मे मुखं प्राग्रहीर्यदि जाल्म मुखं न प्राग्रहीष्यः शतायुषं गामकरिष्यं सहस्रायुषं पुरुषमिति (२,६.१३ ) तस्मादभ्यग्नय ऐतशायना आजानेयाः सन्तः पापिष्ठा अन्येषां बलिहृतः पितायच्छन्ताः स्वेन प्रजापतिना स्वया देवतया (२,६.१३ ) यदैतशप्रलापस्तत्स्वर्गस्य लोकस्य रूपम् (२,६.१३ ) यद्वेवैतशप्रलापोऽयातयामा वा अक्षितिरैतशप्रलापः [एद्. ऐतशैतशप्रलापो] (२,६.१३ ) अयातयामा मे यज्ञोऽसदक्षितिर्मे यज्ञोऽसदिति (२,६.१३ ) तं वा एतमैतशप्रलापं शंसति पदावग्राहम् [एद्. वा ऐतशैतशप्रलापं] (२,६.१३ ) तासामुत्तमेन पदेन प्रणौति यथा निविदः [एद्. प्राणौति, चोर्र्. ড়त्यल्] (२,६.१३ ) अथ प्रवल्हिकाः पूर्वं शस्त्वा <विततौ किरणौ द्वौ [ऋVKह्५.१६.१, श्ष्२०.१३३.१]>इति प्रतिराधानुत्तरान् शंसति <भुगित्यभिगतः [ऋVKह्५.१८.१, श्ष्२०.१३५.१]>इति [एद्. प्रतिराधानुत्तरान्ः] (२,६.१३ ) प्रवल्हिकाभिर्ह वै देवा असुराणां रसान् प्रववृहुस् (२,६.१३ ) तद्यथाभिर्ह वै देवा असुराणां रसान् प्रववृहुस्तस्मात्प्रवल्हिकास् (२,६.१३ ) तत्प्रवल्हिकानां प्रवल्हिकात्वम् (२,६.१३ ) ता वै प्रतिराधैः प्रत्यराध्नुवन् (२,६.१३ ) तद्यत्प्रतिराधैः प्रत्यराध्नुवंस्तस्मात्प्रतिराधास् (२,६.१३ ) तत्प्रतिराधानां प्रतिराधत्वम् (२,६.१३ ) प्रवल्हिकाभिरेव द्विषतां भ्रातृव्याणां रसान् प्रवल्हिकास् (२,६.१३ ) ता वै प्रतिराधैः प्रतिराध्नुवन्ति (२,६.१३ ) ताः प्रग्राहमित्येव (२,६.१३ ) अथाजिज्ञासेन्याः शंसति<इहेत्थ प्रागपागुदगधराक्[ऋVKह्५.१७.१, श्ष्२०.१३४.१]>इति [एद्. उदाग्, चोर्रेच्तेद्प्. ३०३] (२,६.१३श्) आजिज्ञासेन्याभिर्ह वै देवा असुरानाज्ञायाथैनानत्यायन् (२,६.१३ अ) तथैवैतद्यजमाना आजिज्ञासेन्याभिरेवाप्रियं भ्रातृव्यमाज्ञायाथैनमतियन्ति (२,६.१३ ब्) ता अर्धर्चशः शंसति (२,६.१३ च्) प्रतिष्ठित्या एव (२,६.१३ द्) अथातिवादं शंसति <वीमे देवा अक्रंसत [ऋVKह्५.१९.१, श्ष्२०.१३५.४]>इति (२,६.१३ ए) श्रीर्वा अतिवादस् (२,६.१३ f) तमेकर्चं शंसति (२,६.१३ ग्) एकस्ता वै श्रीस् (२,६.१३ ह्) तां वै विरेभं शंसति (२,६.१३ इ) विरेभैः श्रियं पुरुषो वहतीति (२,६.१३ ज्) तामर्धर्चशः शंसति (२,६.१३ क्) प्रतिष्ठित्या एव ॥ १३ ॥ (२,६.१४ ) अथादित्याश्चाङ्गिरसीश्च शंसत्य्<आदित्या ह जरितरङ्गिरोभ्यो अदक्षिणामनयन् [ऋVKह्५.२०.१, श्ष्२०.१३५.६]>इति (२,६.१४ ) तद्देवनीथमित्याचक्षते (२,६.१४ ) आदित्याश्च ह वा अङ्गिरसश्च स्वर्गे लोकेऽस्पर्धन्त वयं पूर्वे स्वरेष्यामो वयं पूर्व इति (२,६.१४ ) ते हाङ्गिरसः श्वःसुत्यां ददृशुस् (२,६.१४ ) ते हाग्निमूचुः परेह्यादित्येभ्यः श्वःसुत्यां प्रब्रूहीति (२,६.१४ ) अथादित्या अद्यसुत्यां ददृशुस् (२,६.१४ ) ते हाग्निमूचुरद्यसुत्यास्माकम् (२,६.१४ ) तेषां नस्त्वं होतासीत्युपेमस्त्वामिति (२,६.१४ ) स एत्याग्निरुवाचाथादित्या अद्यसुत्यामीक्षन्ते कं वो होतारमवोचन् वाह्वयन्ते युष्माकं वयमिति (२,६.१४ ) ते हाङ्गिरसश्चुक्रुधुर्मा त्वं गमो नु वयमिति (२,६.१४ ) नेति हाग्निरुवाचानिन्द्या वै माह्वयन्ते (२,६.१४ ) किल्बिषं हि तद्योऽनिन्द्यस्य हवं नैति (२,६.१४ ) तस्मादतिद्रूरमत्यल्पमिति यजमानस्य हवमियादेव (२,६.१४ ) किल्बिषं हि तद्योऽनिन्द्यस्य हवं नैति (२,६.१४ ) तान् हादित्यानङ्गिरसो याजयां चक्रुस् (२,६.१४ ) तेभ्यो हीमां पृथिवीं दक्षिणां निन्युस् (२,६.१४ ) तां ह न प्रतिजगृहुः (२,६.१४ ) सा हीयं निवृत्तोभयतःशीर्ष्णी दक्षिणाः शुचा विद्धाः शोचमाना व्यचरत्कुपिता मां न प्रत्यग्रहीषुरिति (२,६.१४ ) तस्या एते निरदीर्यन्त य एते प्रदरा अधिगम्यन्ते (२,६.१४ ) तस्मान्निवृत्तदक्षिणां नोपाकुर्यान्नैनां प्रमृजेत् (२,६.१४ ) नेद्दक्षिणां प्रमृणजानीति (२,६.१४ ) तस्माद्य एवास्य समानजन्मा भ्रातृव्यः स्याद्वृणहूयुस्तस्मा एनां दद्यात् (२,६.१४ ) तन्न पराची दक्षिणा विवृणक्ति (२,६.१४ ) द्विषति भ्रातृव्येऽन्ततः शुचं प्रतिष्ठापयति योऽयौ तपति (२,६.१४ ) स वै शंसत्य्<आदित्या ह जरितरङ्गिरोभ्यो दक्षिणामनयंस्तां ह जरितः प्रत्यायन् [ऋVKह्५.२०.१ ब्च्, श्ष्२०.१३५.६ ब्च्]>इति (२,६.१४श्) न हीमां पृथिवीं प्रत्यायन् (२,६.१४ अ) <तामु ह जरितः प्रत्यायन् [ऋVKह्५.२०.१ , श्ष्२०.१३५.६ ]>इति प्रति हि तेऽमुमायन् (२,६.१४ ब्) <तां ह जरितर्नः प्रत्यगृभ्णन् [ऋVKह्५.२०.२ , श्ष्२०.१३५.७ ]>इति (२,६.१४ च्) न हीमां पृथिवीं प्रत्यगृभ्णन् (२,६.१४ द्) <तामु ह जरितर्नः प्रत्यगृभ्ण [ऋVKह्५.२०.२ , श्ष्२०.१३५.७ ]>इति प्रगृह्यादित्यमगृभ्णन् (२,६.१४ ए) <अहानेतरसं न विचेतनानि [ऋVKह्५.२०.२ , श्ष्२०.१३५.७ ]>इत्येष ह वा अह्नां विचेता योऽसौ तपति (२,६.१४ f) स वै शंसति <यज्ञानेतरसं न पुरोगवासः [ऋVKह्५.२०.२ , श्ष्२०.१३५.७ ]>इति (२,६.१४ ग्) एषा ह वै यज्ञस्य पुरोगवी यद्दक्षिणा (२,६.१४ ह्) यथार्हामः स्रस्तमतिरेतदन्त्येतेष एवेश्वर उन्नेता (२,६.१४ इ) <उत श्वेत आशुपत्वा उत पद्याभिर्यविष्ठ उतेमाशु मानं पिपर्ति [ऋVKह्५.२०.३, श्ष्२०.१३५.८]>इति (२,६.१४ ज्) एष एव श्वेत एष शिशुपत्यैष उत पद्याभिर्यविष्ठः (२,६.१४ क्) <उतेमाशु मानं पिपर्ति [ऋVKह्५.२०.३ , श्ष्२०.१३५.८ ]>इति (२,६.१४ ल्) <आदित्या रुद्रा वसवस्तेनुत इदं राधः प्रतिगृभ्णीह्यङ्गिरः । इदं राधो विभु प्रभु इदं राधो बृहत्पृथु देवा ददत्वासुरं तद्वो अस्तु सुचेतनम् । युष्मां अस्तु दिवे दिवे प्रत्येव गृभायत [ऋVKह्५.२०.४५, श्ष्२०.१३५.९१०]>इति तद्यदादित्याश्चाङ्गिरसीश्च शंसति स्वर्गताया एवैतत् [एद्. यस्ंां, चोर्र्. ড়त्यल्] (२,६.१४ म्) अहरहः शंसति यथा निविदः (२,६.१४ न्) अथ भूतेछदः शंसति <त्वमिन्द्र शर्म रिणा [ऋVKह्५.२१.१, श्ष्२०.१३५.११]>इति (२,६.१४ ओ) इमे वै लोका भूतेछदः (२,६.१४ प्) असुरान् ह वै देवा अन्नं सेचिरे भूतेन जिघांसन्तस्तितीर्षमाणास् (२,६.१४ ॠ) तानिमे देवाः सर्वेभ्यो भूतेभ्योऽछादयन् (२,६.१४ र्) तद्यदेतानिमे देवाः सर्वेभ्योऽछादयंस्तस्माद्भूतेछदस् (२,६.१४ स्) तद्भूतेछदां भूतेछदत्वम् (२,६.१४ त्) छादयन्ति ह वापरमिमे लोकाः (२,६.१४ उ) सर्वेभ्यो भूतेभ्यो निरघ्नन् (२,६.१४ व्) सर्वेभ्यो भूतेभ्यो छन्दते य एवं वेद ॥ १४ ॥ (२,६.१५ ) अथाहनस्याः शंसति <यदस्या अंहुभेद्याः [ऋVKह्५.२२.१, श्ष्२०.१३६.१]>इति (२,६.१५ ) आहनस्याद्वा इदं सर्वं प्रजातम् (२,६.१५ ) आहनस्याद्वा एतदधिप्रजायते (२,६.१५ ) अस्यैव सर्वस्याप्त्यै प्रजात्यै (२,६.१५ ) ता वै षट्शंसेत् (२,६.१५ ) षड्वा ऋतवः (२,६.१५ ) ऋतवः पितरः (२,६.१५ ) पितरः प्रजापतिः (२,६.१५ ) प्रजापतिराहनस्यास् (२,६.१५ ) ता दश शंसेदिति शाम्भव्यस्य वचः (२,६.१५ ) दशाक्षरा विराट् (२,६.१५ ) वैराजो यज्ञस् (२,६.१५ ) तं गर्भा उपजीवन्ति (२,६.१५ ) श्रीर्वै विराट् (२,६.१५ ) यशोऽन्नाद्यम् (२,६.१५ ) श्रियमेव तद्विराजं यशस्यन्नाद्ये प्रतिष्ठापयति (२,६.१५ ) प्रतितिष्ठन्तीरिदं सर्वमनुप्रतितिष्ठति (२,६.१५ ) प्रतितिष्ठति प्रजया पशुभिर्य एवं वेद (२,६.१५ ) तिस्रः शंसेदिति वात्स्यस् (२,६.१५ ) त्रिवृद्वै रेतः सिक्तं संभवत्याण्डमुल्वं जरायु (२,६.१५ ) त्रिवृत्प्रत्ययं माता पिता यज्जायते तत्तृतीयम् (२,६.१५ ) अभूतोद्यमेवैतद्यच्चतुर्थीं शंसेत् (२,६.१५ ) सर्वा एव षोडश शंसेदिति हैके (२,६.१५ ) कामार्तो वै रेतः सिञ्चति [एद्. कामार्तौ, चोर्र्. ড়त्यल्] (२,६.१५ ) रेतसः सिक्तात्प्रजाः प्रजायन्ते प्रजानां प्रजननाय (२,६.१५श्) प्रजावान् प्रजनयिष्णुर्भवति प्रजात्यै प्रजायते प्रजया पशुभिर्य एवं वेद ॥ १५ ॥ (२,६.१६ ) अथ दाधिक्रीं शंसति <दधिक्राव्णो अकारिषम् [ऋV ४.३९.६, ऋVKह्५.२२.१३, श्ष्२०.१३७.३]> इति (२,६.१६ ) तत उत्तराः पावमानीः शंसति <सुतासो मधुमत्तमाः [ऋV ९.१०१.४, श्ष्२०.१३७.४]>इत्यन्नं वै दधिक्री [एद्. उत्ताराः, चोर्र्. ড়त्यल्] (२,६.१६ ) पवित्रं पावमान्यस् (२,६.१६ ) तदु हैके पावमानीभिरेव पूर्वं शस्त्वा तत उत्तरा दाधिक्रीं शंसन्तीयं वागन्नाद्या यः पवत इति वदन्तस् (२,६.१६ ) तदु तथा न कूर्यादुपनश्यति ह वागशनायती (२,६.१६ ) स दाधिक्रीमेव पूर्वं शस्त्वा तत उत्तराः पावमानीः शंसति (२,६.१६ ) तद्यद्दाधिक्रीं शंसतीयं वागाहनस्यां वाचमवादीत् (२,६.१६ ) तद्देवपवित्रेणैव वाचं पुनीते [एद्. देव पवित्रेण, चोर्र्. ড়त्यल्] (२,६.१६ ) सा वा अनुष्टुब्भवति (२,६.१६ ) वाग्वा अनुष्टुप् (२,६.१६ ) तत्स्वेनैव छन्दसा वाचं पुनीते (२,६.१६ ) तामर्धर्चशः शंसति (२,६.१६ ) प्रतिष्ठित्या एव (२,६.१६ ) अथ पावमानीः शंसति (२,६.१६ ) पवित्रं वै पावमान्यः (२,६.१६ ) इयं वागाहनस्यां वाचमवादीत् (२,६.१६ ) तत्पावमानीभिरेव वाचं पुनीते (२,६.१६ ) ताः सर्वा अनुष्टुभो भवन्ति (२,६.१६ ) वाग्वा अनुष्टुप् (२,६.१६ ) तत्स्वेनैव छन्दसा वाचं पुनीते (२,६.१६ ) ता अर्धर्चशः शंसति (२,६.१६ ) प्रतिष्ठित्या एव (२,६.१६ ) <अव द्रप्सो अंशुमतीमतिष्ठत्[ऋV ८.९६.१३, श्ष्२०.१३७.७]>इत्येतं तृचमैन्द्राबार्हस्पत्यं सूक्तं शंसति (२,६.१६ ) अथ हैतदुत्सृष्टम् (२,६.१६ ) तद्यदेतं तृचमैन्द्राबार्हस्पत्यमन्त्यं तृचमैन्द्राजागतं शंसति सवनधारणमिदं गुल्मह इति वदन्तस् (२,६.१६श्) तदु तथा न कुर्यात् (२,६.१६ अ) त्रिष्टुबायतना वा इयं वागेषां होत्रकाणां यदैन्द्राबार्हस्पत्या तृतीयसवने (२,६.१६ ब्) तद्यदेतं तृचमैन्द्राबार्हस्पत्यमन्त्यं तृचमैन्द्राजागतं शंसति स्व एवैनं तदायतने प्रीणाति स्वयोर्देवतयोः (२,६.१६ च्) कामं नित्यमेव परिदध्यात् (२,६.१६ द्) कामं तृचस्योत्तमया (२,६.१६ ए) तदाहुः संशंसेत्षष्ठेऽहनि न संशंसेत् (२,६.१६ f) कथमन्येष्वहःसु संशंसति (२,६.१६ ग्) कथमत्र न संशंसतीति (२,६.१६ ह्) अथो खल्वाहुर्नैव संशंसेत् (२,६.१६ इ) स्वर्गौ वै लोकः षष्ठमहः (२,६.१६ ज्) असमायी वै स्वर्गो लोकः (२,६.१६ क्) कश्चिद्वै स्वर्गे लोके शमयतीति (२,६.१६ ल्) तस्मान्न संशंसति (२,६.१६ म्) यदेव न संशंसति तत्स्वर्गस्य लोकस्य रूपम् (२,६.१६ न्) यद्वेवैनाः संशंसति यन्नाभानेदिष्ठो वालखिल्यो वृषाकपिरेवयामरुदेतानि वा अत्रोक्थानि भवन्ति तस्मान्न संशंसति (२,६.१६ ओ) ऐन्द्रो वृषाकपिः (२,६.१६ प्) सर्वाणि छन्दांस्यैतशप्रलापः (२,६.१६ ॠ) उपाप्तो यदैन्द्राबार्हस्पत्या तृतीयसवने तद्यदेतं तृचमैन्द्राबार्हस्पत्यं सूक्तं शंसत्यैन्द्राबार्हस्पत्या परिधानीया विशो अदेवीरभ्याचरन्तीरिति (२,६.१६ र्) अपरजना ह वै विशो देवीर्न ह्यस्यापरजनं भयं भवति (२,६.१६ स्) शान्ताः प्रजाः कॢप्ताः सहन्ते यत्रैवंविदं शंसति यत्रैवंविदं शंसतीति ब्राह्मणम् ॥ १६ ॥ (२,६.१६ ओल्) इत्यथर्ववेदे गोपथब्राह्मणोत्तरभागे षष्ठः प्रपाठकः ॥ (चोल्) इत्यथर्ववेदब्राह्मणपूर्वोत्तरं समाप्तम् ॥