आर्यभटकृतम् आर्यभटीयम् भास्कर-विरचित-भाष्योपेतम् गीतिकापादः [ मङ्गलाचरणम् ] यस्मातशेषजगतां प्रभवं स्थितिं च संहारमपि उपदिशन्ति समग्रधीकाः । भृग्वङ्गिरःप्रभृतयः विदितान्तरायाः तस्मै नमः कमलजाय चतुर्मुखाय । अथ अशेषजगदनुग्रहाय आचार्यार्यभटमुखारविन्दविनिस्सृत-दशगीतिका-सूत्रव्याख्यानमारभ्यते । तस्य एव अशेषविघ्ननिराकरणाय सर्वविद्याप्रभवस्य भगवतः कमलयोनेः प्रणामप्रक्रान्तशास्त्रवस्तुपरिग्रहाय आर्यामादौ प्रयुक्तवान् - प्रणिपत्य एकमनेकं कं सत्यां देवतां परं ब्रह्म । आर्यभटः त्रीणि गदति गणितं कालक्रियां गोलम् ॥ १ ॥ अस्याः पदविभागः: - प्रणिपत्य, एकम्, अनेकम्, कम्, सत्याम्, देवताम्, परम्, ब्रह्म, आर्यभटः, त्रीणि, गदति, गणितम्, कालक्रियाम्, गोलम् । अत्र प्रणिपत्य इति "प्र"-शब्दः प्रकर्षवाची, प्रकर्षेण निपत्य प्रणिपत्य, प्रणामं कृत्वा इति अर्थः । क्त्वाप्रत्ययेन पूर्वकालक्रिया अभिधीयते, यथा स्नात्वा भुङ्क्ते इति । स्नानक्रिया अनन्तरं भोजनक्रिया । एवमत्र अपि प्रणिपतनानन्तरं गणितम्, कालक्रियाम्, गोलं च गदति । एकम्, अभेदरूपेण व्यवस्थितम्, निर्विकारम् । अनेकम्, न एकमनेकम्, भेदरूपेण व्यवस्थितम् । कम्, कः इति प्रजापतेः आख्यानम् । कं प्रणिपत्य एवंगुणविशिष्टम् । अथ यदि असौ प्रजापतिः एकः कथमसौ अनेकः? यदि असौ अनेकः कथमेकः? एकानेकयोः परस्परविरुद्धयोः युगपतेकत्र अवस्थानं न सम्भवति, यथा अत्यन्तविरुद्धयोः च्छाया आतपयोः उष्णशीतयोः वा इति । अत्र उच्यते - यथा वृक्षः एकवस्तुरूपेण [तिष्ठति], असौ एव यदा मूल-स्कन्ध-शाखा-प्ररोहादिप्रपञ्चेन विकल्प्यते तदा अनेकः । एवमसौ अपि परमात्मा निर्विकारः निरञ्जनः एकः एव, असौ एव [यदा] अनेकप्राणिशरीरे व्यवस्थितः विकल्प्यते [तदा] अनेकः । आह च - एकः एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा च एव दृश्यते जलचन्द्रवत् ॥ [अमृतबिन्दूपनिषत्, श्लो¡ १२] इति । अथवा असौ एकः एव आसीत्, ततः स्वयमर्धेन पुरुषः अभवतर्धेन नारी इति । ततः सर्वान् प्राणिनः असृजतिति । अथवा असौ भगवान् प्रजापतिः विश्वरूपः । तस्मात्तस्य विश्वरूपत्वातेकानेकत्वमेकस्मिन् युगपत्सम्भवति इति अयमदोषः । सत्यां देवताम् । देवः एव देवता, सत्या च देवता च । स एव कः सत्यत्वेन देवतात्वेन च विशिष्यते । कं सत्यां देवतां प्रणिपत्य । न केवलं सत्यत्वेन देवतात्वेन च विशेषितः । केन च तर्हि इति आह - परं ब्रह्म । परं च तत्ब्रह्म परं ब्रह्म । परं श्रूयते पुलस्त्य-पुलह-क्रत्वादिकम् । एवमसौ भगवान् कः, सत्या देवता, परं ब्रह्म च । कम्, सत्यां देवताम्, परं ब्रह्म च प्रणिपत्य । अथ कथं कः शब्दः पुल्लिङ्गः, सत्या देवता स्त्रीलिङ्गः, परं ब्रह्म नपुंसकलिङ्गः? तैः भिन्नलिङ्गैः एकं वस्तु अभिधीयते । ननु च अत्र सर्वैः एव शब्दैः एकलिङ्गैः भवितव्यम्? न इति आह । एते शब्दाः आविष्टलिङ्गाः । तैः आविष्टलिङ्गैः शब्दैः एकमेव वस्तु अभिभीयते । यथा - "कारणमियं ब्राह्मणी, भूतमियं ब्राह्मणी, आवपनमियमुष्ट्रिका" इति [अष्टाध्यायी अ¡ ४, पादः १, सूत्रम् ३, पातञ्जलमहाभाष्यम्, आक्षेपवार्तिकः ५११७] अथवा ब्रह्मणोः द्वयोः अप्याचार्येण प्रणिपातः कृतः, शब्दब्रह्मणः परब्रह्मणः च । तयोः उपवर्णना इयं क्रियते - प्रणिपत्य इति । निगदव्याख्यानमेवम् - एकम्, परिज्ञानतः तु तत्त्वस्य अभेदरूपत्वात्, यस्मात्सर्वेषु एव ज्ञेयेषु परिज्ञानमात्रसामान्यमेकम्; अनेकमृग्यजुःसामाथर्वेतिहासपुराणशिक्षाकल्पव्याकरणनिरुक्तछन्दोविचितिज्योतिषमिति आदिशब्दरूपेण व्यवस्थितत्वातनेकम् । कः इति शब्दब्रह्मणः आख्यानम् । कमेकमनेकम् प्रणिपत्य । सत्यां देवतामिति एतत्द्वयोः ब्रह्मणोः शेषः, सत्या देवता शब्दब्रह्म । उक्तं च - ज्ञानान्तरभावि यत्च हि फलं ज्ञात्वा क्रिया अतः च यत् सर्वस्य अव्यभिचारिकारणमिति ज्ञानस्थितौ निश्चयः । ज्ञेयं च अपरिमाणमल्पविषयश्रौतादिशास्त्रं पुनर् दिव्यं चक्षुः अतीन्द्रिये अपि विषये व्याहन्यते न क्वचित् ॥ परं ब्रह्म । "परम्"-शब्दः प्रकर्षवाची । प्रकृष्टं ब्रह्म परं ब्रह्म, यत्सर्वैः अपि मुक्तिवादिभिः प्रार्थ्यते, मोक्षदः परमात्मा इति अर्थः । एवं च द्वयोः ब्रह्मणोः प्रणामः कृतः । अन्यत्र अपि "ब्रह्म"-शब्देन शब्दब्रह्म-परब्रह्मणोः एव ग्रहणम् । तद्यथा - द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्म अधिगच्छति ॥ [अमृतबिन्दूपनिषद्, श्लो¡ ७; वायुपुराणम्, अम्शः ६, अ¡ ५, श्लो¡ ६४] इति । अथवा, प्रणिपत्य कं हिरण्यगर्भम्, एकानेकस्वरूपम्, सर्वप्राणिनां महत्नाम । तत्र विशेषः एकम्, तस्य तस्य यतः अधिष्ठातृदेवता हिरण्यगर्भः एकः एव । यदा कारणानामधिष्ठातृदेवताविशेषभेदेन विवक्ष्यते तदा अनेकम् । तत्यथा - त्रयोदश कारणानि, त्वचः वायुः, चक्षुषः सूर्यः, श्रोत्रस्याः आकाशः, रसनस्याः आपः, घ्राणस्य पृथिवी, एवं पञ्चानां बुद्धीन्द्रियाणामधिष्ठात्र्यः देवताः, वाचः अग्निः, पाणेः इन्द्रः, पादस्य विष्णुः, पायुनः मित्रः, उपस्थस्य प्रजापतिः, एवं कर्मेन्द्रियाधिष्ठात्र्यः देवताः, मनसः चन्द्रः, बुद्धेः सविता, अहङ्कारस्य रुद्रः इति । सत्यां देवतामन्तर्यामिनः ईश्वरस्य भगवतः परमात्मनः कारणशक्त्या अधिष्ठिताः सर्वे एव पदार्थाः स्वार्थे प्रवर्तन्ते । अतः तां परमात्मनः कारणशक्तिं सत्यां देवताम् । अतः एव स्त्रीलिङ्गेन निर्देशः कृतः । परं ब्रह्म यत्ततधिकारी ब्रह्म परमात्मा तम् । एवं ब्रह्मत्रयं प्रणिपत्य । यदि एवम्, चकारः तर्हि कर्तव्यम् । न कर्तव्यम् । अन्तरेण अपि चकारं च अर्थः गम्यते एव । तत्यथा - बाले वृद्धे क्षते क्षीणे क्षीरं युक्त्या प्रयोजयेत् । इति । बाले च वृद्धे च क्षते च क्षीणे च इति गम्यते । एवमत्र अपि च अर्थः, कं च सत्यां देवतां च परं ब्रह्म च इति । आर्यभटः आचार्यस्य समाख्यानः । त्रीणि गदति । त्रीणि वस्तूनि गदति इति । ननु अत्र एवं युक्तं वक्तुम् - "आर्यभटः अहं त्रीणि गदामि" इति, अन्यथा अन्यस्य कस्यचितेतत्वाक्यमाभाति । यथा किंचित्कश्चित्पृच्छति - "राजकुले केन किमुक्तमिति आह - एवमुक्ते राजनि एवं देवदत्तो ब्रवीति । यज्ञदत्तः अपि एवमेव निगदति" इति । तस्मात्तत्र अपि आर्यभटः त्रीणि गदति इति, न तताचार्यस्य वचनमिति । अत्र उच्यते । अयमाचार्यः महानुभावः स्वयम् एव ब्रुवन् परत्वमापाद्य कथयति, यथा आह कौटिल्यः - सुखग्रहणविज्ञेयं तत्त्वार्थपदनिश्चितम् । कौटिल्येन कृतं शास्त्रं विमुच्य ग्रन्थविस्तरम् ॥ [अर्थशास्त्रम्, १.१.१९] इति । अथवा यः तेजस्वी पुरुषः समरेषु निकृष्टासितेजोवितानच्छुरितबाहुः शत्रुसङ्घातं प्रकाशं प्रविश्य प्रहरनेवमाह - "अयमसौ उदितः अदितिकुलप्रसूतः समरेषु अनिवारितवीर्यः यज्ञदत्तः प्रहरति । यदि कस्यचित्शक्तिः प्रतिप्रहरतु" इति । एवमसौ अपि आचार्यः गणितकालक्रियागोलातिशयज्ञानोदधिपारगः वित्सभामवगाह्य "आर्यभटः त्रीणि गदति गणितं कालक्रियां गोलम्" इति उक्तवान् । गणितं कालक्रियां गोलम् । गणितम्, क्षेत्रच्छायाश्रेढीसमकरणकुट्टाकारादिकम् । कालः, प्राणविनाडीनाड्यहोरात्रपक्षमाससंवत्सरयुगादिकम् । तत्परिज्ञानार्थं क्रिया कालक्रिया । अन्ये पुनः क्रिया अव्यतिरिक्तं कालमेतेन अभ्युपगच्छन्ति । तेषामयं विग्रहः - कालः च असौ क्रिया च कालक्रिया । एवमेतौ द्वौ पक्षौ - केचित्कालं क्रियाव्यतिरिक्तं मन्यन्ते, अन्ये क्रिया एव कालः इति । उभयथाः अस्माकमदोषः इति, येन अस्मदीये सिद्धान्ते सूर्योदयात्प्रभृति यावतपरः सूर्योदयः तावतहोरात्रम्, यः च सूर्याचन्द्रमसोः परः विप्रकर्षः सः अर्धमासः, यः च तयोः परः सन्निकर्षः स मासः; एवं द्वादशमासाः संवत्सरः इति अयं कालः, क्रियाव्यतिरिक्तः वा अस्तु क्रिया वा इति । गोलम्, ग्रहभ्रमणधरित्रीसंस्थानदर्शनोपायम् । गदति इति कर्तृवाचकः शब्दः, वाक्यत्वात् । गणितकालक्रियागोलानां द्वितीयैकवचने निर्देशः गणितं कालक्रियां गोलमिति गणितशब्दः नपुंसकलिङ्गम्, कालक्रिया स्त्रीलिङ्गम्, गोलः पुल्लिङ्गम् । एतेषां सामान्योपक्रमेण नपुंसकलिङ्गेन एव आचार्येण अभिधानम् [कृतम्] "त्रीणि गदति" इति । अत्र अयं गणितशब्दः अशेषगणिताभिधायी, तस्मातशेषगणिताभिधायित्वात्यथा क्षेत्रगणितं ब्रवीति, एवं ग्रहगणितमपि; ग्रहगणितस्य च क्षेत्राद्यव्यतिरिक्तत्वात्कालक्रियागोलयोः च गणिताव्यतिरिक्तत्वात्गणितं निगदति इति एतावतेव सिद्धे कालक्रियागोलग्रहणं कुर्वनाचार्यः ज्ञापयति - क्षेत्रच्छायाश्रेढीसमकरणकुट्टाकारादिकं सामान्यगणितं किंचित्वक्ष्ये, विशेषगणिते पुनः कालक्रियया गोलेन तात्पर्यमिति । अन्यथा अशेषगणिताभिधायिगणितशब्देन एव सिद्धत्वात्कालक्रियागोलयोः पृथग्ग्रहणमनावश्यकं स्यात् । तथा च, आचार्येण गणितपादे गणितवस्तु दिङ्मात्रमेव अभिहितम्, कालक्रियागोलयोः कालक्रियागोल [वस्तु] विशेषेण । अवश्यमयमर्थः अभ्युपगन्तव्यः - किंचित्गणितमिति । अन्यथा हि महत्गणितवस्तु, अष्टौ व्यवहाराः मिश्रक-श्रेढी-क्षेत्र-खात-चिति-क्राकचिक-राशि-च्छायाभिधायिनः । मिश्रकः इति सकलगणितवस्तुसंमिश्रकः संस्पर्शकः इति अर्थः । श्रेढी इति आद्युत्तरप्रचितः इति अर्थः । क्षेत्रमिति अनेकाश्रिक्षेत्रफलानि आनयति इति अर्थः । खातः इति खन्यप्रमाणं निर्दिशति इति अर्थः । चितिः इति इष्टकाप्रमाणेन उपरिनिचितवस्तुप्रमाणमावेदयति इति अर्थः । क्राकचिकमिति, क्रकचः नम दारुच्छेदकम्, तस्मिन् क्रकचे भवः क्राकचिकः, तद्वस्तुप्रमाणमवगमयति इति अर्थः । राशिः इति धान्यादिरूपवस्तुनिचितं तद्वस्तुप्रमाणं जनयति इति अर्थः । छाया इति शङ्क्वादिच्छायाप्रमाणेन कालं कथयति इति अर्थः । इति व्यवहारगणितस्य अष्टाभिधायिनः चत्वारि बीजानि प्रथमद्वितीयतृतीयचतुर्थानि यावत्तावत्वर्गावर्गघनाघनविषमाणि । एततेकैकस्य ग्रन्थलक्षणलक्ष्यं मस्करि-पूरण-मुद्गल-प्रभृतिभिः आचार्यैः निबद्धं कृतम्, स कथमनेन आचार्येण अल्पेन ग्रन्थेन शक्यते वक्तुम् । तत्सुष्ठु उक्तमस्माभिः किंचित्गणितं विशेषतः कालगोलौ इति । एवमियमार्या व्याख्याता ॥ १॥ [ संख्याविन्यासे परिभाषा ] युगभगणादिसङ्ख्यासंक्षेपं विवक्षुः आचार्यः [परि]भाषासूत्रप्रदर्शनाय गीतिकासूत्रमाह - वर्गाक्षराणि वर्गे अवर्गे अवर्गाक्षराणि कात्ङ्मौ यः । खद्विनवके स्वराः नव वर्गे अवर्गे नवान्ति अवर्गे वा ॥ २ ॥ अस्य गीतिसूत्रस्य पदानि - वर्गाक्षराणि, वर्गे, अवर्गे, अवर्गाक्षराणि, कात्, ङ्मौ, यः, खद्विनवके, स्वराः, नव, वर्गे, अवर्गे, नव, अत्यन्तवर्गे, वा । वर्गाक्षराणि, वर्गाक्षराणि ककारादीनि मकारपर्यन्तानि । "ते वर्गाः पञ्च पञ्च" इति [कातन्त्रम्, १.१.१० ] । वर्गाक्षरोच्चारणक्रमेण या सङ्ख्या अभिधीयते सा सङ्ख्या वर्गशब्देन उच्यते, अभेदोपचारात् । अतः वर्गाक्षरसङ्ख्या इति अर्थः । सा वर्गे, वर्गे इति गणितशास्त्रे विषमस्थानस्याः आख्या, तस्मिन् विषमस्थाने वर्गाक्षरसङ्ख्या उपचीयते । अवर्गे, न वर्गः अवर्गः समस्थानः, तस्मिनवर्गसंज्ञिते समस्थाने । अवर्गाक्षराणि, तानि यकारादीनि हकारपर्यवसानानि । कुतः एतत्? "नञिव युक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः" [अष्टाध्यायी, ३.१.१२, पातञ्जलभाष्यम्] इति । वर्गाक्षराणि ककारादीनि । यादीनाम् [तु] यथा अब्राह्मणमानय इति उक्ते ब्राह्मणाकृतितुल्यमेव क्षत्रियमानयति नान्त्यजादि, एवमत्र अपि केवलं व्यञ्जनानामेव ग्रहणम् । तेषां यकारादीनामवर्गाक्षराणां या सङ्ख्या सा अवर्गस्थाने उपचीयते । सा [वर्गाक्षराणां सङ्ख्या] वर्गस्थाने उपचीयमाना अवर्गस्थानमपि यदा प्राप्नोति, तदा प्राप्नुवाना या तेषां स्ववर्गाक्षराणामुपचितिः सा वर्गस्थानः एव, तस्याः अन्त्योपचितित्वात् । वर्गाक्षरसङ्ख्यायाः वर्गस्थाने उपचीयमानातवकाशः न अस्ति चेत्सङ्ख्यायाः सर्गः न विद्यते इति वर्गावर्गयोः स्थानयोः स्थाप्यते । अथवा, या दशादिका सङ्ख्या सा द्विस्थानावगाहिनी, तस्याः द्विस्थानावगाहनशीलत्वात्द्वयोः अपि स्थानयोः स्थाप्यते । अन्यथा दशादिसङ्ख्यायाः अभावः एव स्यात् । तदेकादिनवान्तसङ्ख्यया एव व्यवहारः स्यात् । अथवा "ङ्मौ" इति अत्र मकारग्रहणं कुर्वनाचार्यः ज्ञापयति - या दशोत्तरवर्गाक्षरसङ्ख्या सा वर्गे वा अवर्गे च भवति । अन्यथा "गो यः" इति एवं ब्रूयात् । एवमवर्गाक्षरसङ्ख्या अपि वर्गस्हाने योज्या । वर्गाक्षराणां सङ्ख्या वर्गस्थाने ककारादुपचीयते । एततुक्तं भवति - यानि वर्गाक्षराणि श्रूयते तानि ककारात्प्रभृति पठितानि भवन्ति इति । अन्यथा हि "स्वं रूपं शब्दस्य अशब्दसंज्ञा" [अष्टाध्यायी, १.२.६८] इति । यत्यतक्षरम् उच्चारितं तत्तस्य एव रूपस्य प्रतिपादकं स्यात्, न कादिसङ्ख्यायाः । अतः उक्तम् "कात्" इति । ङ्मौ, ङः च मः च ङ्मौ । अनच्कौ एव ङकारमकारौ, तयोः द्वि[वच]ननिर्देशः ङ्मौ । ङकारमकारयोः या सङ्ख्या सा एकत्र संवृत्ता यकारसङ्ख्या भवति । ङकारः पञ्च, मकारः पञ्चविंशतिः, एते सङ्ख्ये एकत्र त्रिंशत्, तेन त्रिंशत्संख्यो यकारः । रेफादीनामवर्गाक्षरत्वात्यकारसङ्ख्या एव केवलं प्राप्नोति, अनिर्देशातन्यत्सङ्ख्यायाः । न रेफादीनां यकारसङ्ख्या । कुतः? यदि रेफादीनामपि यकारसङ्ख्या एव स्यात्तदा यकारम् एव सर्वत्र ब्रूयात्, न रेफादीनि । "नवराषहः गत्वांशकान् प्रथमपाताः" इति अत्र [रा]षहेषु एकमेव अवर्गाक्षरं ब्रूयात् । तस्मात्न रेफादीनां यकारसङ्ख्या । का तर्हि? केचिताहुः - एकैकवृद्ध्या रेफादीनां सङ्ख्या, यकारत्रिंशत्, रकारः एकत्रिंशत्, लकारः द्वात्रिंशतिति आदि । एतत्न । कुतः? एकत्रिंशदादिसङ्ख्यायाः अन्येन एव प्रकारेण सिद्धत्वात् । यकारः त्रिंशत्, स एव यदा यकारः ककारसंयुक्तः तदा हि एकत्रिंशत्, खकारादिभिः द्वात्रिंशत्, त्रयः त्रिंशतादिः इति सङ्ख्या । अन्ये आहुः - रेफादयः दशोत्तरवृद्ध्या वर्धन्ते इति, रेफः चत्वारिंशत्, लकारः पञ्चाशत् । एवमवर्गाक्षराभावात्न शक्यते प्रतिपत्तुम् । यथा कातिति आचार्येण अभिहितत्वातेकाद्येकोत्तरिता सङ्ख्या वर्गाक्षराणां प्रतिपद्यते, एवमवर्गाक्षराणामपि यातिति यदा उच्यते तदा दशोत्तरिता सङ्ख्या प्रतिपत्तुं शक्यते । अन्यथा "यात्" इति अपि उच्यमाने कथं दशोत्तरिता सङ्ख्या, ननु च एकोत्तरिता स्यात् । न इति आह - यस्मात्कातिति [वर्गाक्षराणि] वर्गस्थाने उपचीयन्ते तस्मात्तेषामेकोत्तरिता सङ्ख्या, यानि पुनरवर्गाक्षराणि यादीनि एकोत्तरोपचयानि अवर्गस्थाने तस्मात्दशोत्तरिता एव वृद्धिः भवति, अवर्गस्थानस्य दशकसङ्ख्याधारत्वात् । एवं तर्हि याद्ग्रहणं कर्तव्यम् । न कर्तव्यम् । कथम्? अक्रियमाणे अयमर्थः अवगम्यते । अकृतमेव यदि कृतमेव, किमिति न पठ्यते? पठ्यते एव "ङ्मौ यः" । अत्र अयं यकारः अनच्कः ङ्मौ यः, अपरः यकारः अपि अनच्कः एवं पञ्चमीविभक्त्यन्तः ङ्मौ यः । अत्र एकः यकारः लुप्तनिर्दिष्टः प्रतिपत्तव्यः । यथा "क्ङिति च" [अष्टाध्यायी, १.१.५] इति अत्र लुप्तनिर्दिष्टः गकारः, किति गिति ङिति इति, एवमत्र अपि । अथवा द्वियकारोच्चारणे अपि विशेषः न अस्ति एव । एवं यादिति अस्य अयमर्थः सिद्धः । यदि एकोत्तराणि अवर्गस्हानस्थितत्वात्दशोत्तराणि एव भवन्ति तदा किमिति आचार्येण "ङ्मौ यः" इति महाप्रयासः कृतः । कथं तर्हि वक्तव्यः? "गः यः" इति गकारः त्रिसङ्ख्यः, अवर्गस्थानस्थितत्वातेव अयं त्रिंशत्कः भविष्यति । न, ङकारमकारसङ्ख्यावतेव शेषाणि अपि रेफादीनि चत्वारिंशदादिसङ्खानि भवन्ति इति अवर्गस्थानाश्रयातेव सिद्धे सति ङ्मकारग्रहणं कुर्वनाचार्यः ज्ञापयति इति उक्तम् - यावन्ति वर्गस्थानानि तेषु सर्वेषु एव सा सङ्ख्या युगपत्प्राप्ता, अवर्गाक्षराणां च या सङ्ख्या यावन्ति अवर्गस्थानानि तेषु सर्वेषु एव । अतः तत्सङ्ख्यानिरूपणार्थमाह - खद्विनवके स्वराः नव वर्गे अवर्गे । खानि शन्यानि, खानं द्विनवकं खद्विनवकम्, तस्मिन् खद्विनवके, अष्टादशसु शून्योपलक्षितेषु [स्थानेषु] । स्वराः नव वर्गे अवर्गे । वर्गे वर्गस्थाने नव स्वराः । अष्टादशसु च स्थानेषु नव वर्गस्थानानि, तत्र नवसु वर्गस्थानेषु नव स्वराः । के पुनर्ते नव स्वराः ग्राह्याः? यदि ह्रस्वाः एव केवलं परिगृह्यन्ते तदा न पूर्यन्ते । अथ दीर्घाः एव केवलम् परिगृह्यन्ते तदा अपि अष्टौ स्वराः भवन्ति, ननु लृवर्णस्य दीर्घाभावात् । अथ ह्रस्वाः दीर्घः च परिगृह्यन्ते तदा अतिरिच्यन्ते, अनिष्टं प्राप्नोति । "झा ग्ड ग्ला र्ध द्ड" [गीतिका¡, १०] इति अत्र आकारस्य द्वितीये च प्रतिपादितत्वात्द्वितीयवर्गस्थाने झकारसङ्ख्या स्थाप्यमाना नवशतानि स्युः, न नव । अभीष्यते च नवसङ्ख्या, नवसङ्ख्याकः झकारः । तत्र ह्रस्वः एव झकारः पठ्यते इति चेत्"नृषि योजनं ञिला भूव्यासः" [गीतिका¡, ६] इति अत्र लकारे पञ्चसहस्राणि स्युः, न पञ्चाशत् । तत्र च अवश्यं दीर्घः लकारः पठितव्यः, अन्यथा गीतिः एव भिद्येत । अतः न केवलं ह्रस्वाः न केवलं दीर्घाः, न अपि ह्रस्वदीर्घाः, न स्वराः मातृकापठितात्परिगृह्यन्ते । कस्मात्तर्हि स्वराः परिगृहीतव्याः? उच्यते - यत्र नव एव केवलाः स्वराः पठ्यन्ते, तस्मात्परिगृहीतव्याः । कस्मिन्नव एव केवलाः पठ्यन्ते? आह - पाणिनीये व्याकरणे प्रत्याहारे अ इ उ ऋ ळ ए ओ ऐ औ इति एते नव स्वराः । तत्र प्रथमे वर्गस्थाने अकारः, द्वितीये इकारः, तृतीये उकारः, इति आदि । एवं स्वरोपलक्षितेषु वर्गस्थानेषु वर्गाक्षरसङ्ख्या । अवर्गाक्षरसङ्ख्या च स्वरोपलक्षितवर्गस्थानोत्तरे अवर्गस्थाने । अथवा वर्गे अवर्गे इति अयं वीप्सा, वर्गे अवर्गे च, वर्गस्थाने अवर्गस्थाने च ते एव नव स्वराः । तद्यथा - अकारः प्रथमे वर्गस्थाने तदनन्तरावर्गस्थाने च । तद्यदि वर्गाक्षरसंयुक्तः अकारः प्रथमवर्गस्थाने "भृगुबुध" इति आदिषु, स एव यदा अवर्गाक्षरसंयुक्तः तदा तत्प्रथमवर्गस्थानानन्तरावर्गस्थाने "नवराषह" इति आदिषु । एवमिकारादिषु अपि स्वेषु वर्गावर्गस्थानेषु योज्यम् । अथ दीर्घेषु अकारादिषु कथं करणीयम्? उच्यते - यथा ते व्याकरणे अकारादयः स्वराः अष्टादशप्रभेदाः, द्वादश भेदाः च लृवर्णसन्धिस्वराः परिगृह्यन्ते, एवमत्र अपि । तेन "ञिला भूव्यास" इति आदिषु आकारः प्रथमः एव वर्गस्थानेषु । अष्टादशस्थानेषु यानि वर्गस्थानानि अवर्गस्थानानि च तेषु वर्गाक्षरावर्गाक्षरसङ्ख्या निरूपिता । यदा पुनरष्टादशव्यतिरिक्तेषु स्थानेषु सङ्ख्या कस्यचित्विवक्षिता भवति तदा कथं करणीयमिति? अत्र आह - नवान्त्यवर्गे वा । नवानामन्तः नवान्तः । नवान्ते भवं नवान्त्यम् । नवान्त्यः च असौ वर्गः च नवान्त्यवर्गः । तस्मिन्नवान्त्यवर्गे वा स्वराः भवन्ति, विकल्पिताः स्वराः भवन्ति । विकल्पः च कस्मिंशित्कथमुपलक्ष्यते? यथा "पुत्रच्छेद्यविकल्पा अपत्यच्छेद्यप्रकाराः", एवमत्र अपि केनचित्प्रकारेण विकल्पिताः नवात्यवर्गे दशमे वर्गस्थाने स्वराः भवन्ति । यदि प्रथमे वर्गस्थाने अकारः शुद्धः विकल्पितः स एव तस्मात्वर्गस्थानात्दशमे वर्गस्थाने अनुस्वारादिना विकल्प्यते, एवमिकारादयः स्वस्मात्वर्गस्थानात्दशमे वर्गस्थाने, पुनरपि च यावतभीष्टं भवति तावत्तेन अपि अनुबन्धेन स्वरान् विकल्प्य सङ्ख्योपदेष्टव्या । एतत्परिभाषाबीजमाचार्येण सङ्ख्याविवक्षूणामनुग्रहाय उपदिष्टम् । स्वशास्त्रव्यवहारः तु लृवर्णवर्गस्थानात्न अतिरिच्यते । वर्गाक्षराणामवर्गाक्षराणां च [या] सङ्ख्या सा अक्षराभिहितत्वात्यावन्ति वक्ष्यमाणानि गीतिकासूत्रेषु अक्षराणि तेषां सर्वेषामेव प्राप्नोति तत्च अनिष्टं प्रसज्येत, तेन अत्र अर्थवन्ति यानि अक्षराणि तेषां सङ्ख्या न भवेतिति एतत्वक्तव्यम् । यथा - "युगरविभगणाः ख्युघृ" [गीतिका ¡, ३] इति अत्र ख्युघृ-शब्दस्य सङ्ख्या इष्यते न युगरविभगणशब्दस्य । यदि प्रतिषेधः न उचते तदा ख्युघृ-शब्दस्य यथा सङ्ख्या एवं युगरविभगणशब्दस्य अपि प्राप्नोति । स तर्हि प्रतिषेधः अवश्यं वक्तव्यः । न वक्तव्यः । यदि सर्वेषामेव अक्षराणां गीतिकासूत्रप्रतिबद्धानां सङ्ख्या स्यात्तदा सर्वमेव एतत्शास्त्रमनर्थकं स्यात् । [ ज्योतिषशास्त्रप्रादुर्भावे व्याख्याकारमतम् ] अथ कथमस्य अतीन्द्रियाणां स्फुटग्रहगत्यर्थानां प्रादुर्भावः? ब्रह्मणः प्रसादेन इति । एवमनुश्रूयते - अनेन आचार्येण महद्भिः तपोभिः ब्रह्मा आराधितः । अतः अस्य तत्प्रसादेन स्फुटग्रहगत्यर्थानां प्रादुर्भावः इति । आह च - अतीन्द्रियार्थावगतेः तपोभिः परोपकारक्षमकाव्यदृष्टेः । यः अलङ्कृतेः अव्ययमन्वयस्य पराशरस्य अनुकृतिं चकार ॥ इति । ब्रह्मणः कुतः? ब्रह्मा स्वयंभूः ज्ञानराशिः । ततः सर्वासां विद्यानां प्रादुर्भावः । अतः अनेन लोकानुग्रहाय स्फुटग्रहगत्यर्थवाचकानि दश गीतिकासूत्राणि गणितकालक्रियागोलार्थवाचकमार्याष्टशतं च विनिबद्धम् । स्फुटग्रहगत्यर्थहेतवः अर्थाः, तस्मात्सर्वदा एव नित्याः, तेषां शब्देभ्यः अवगतिः इति शब्दबद्धाः, यथा सुवर्णिकारः सुवर्णमादाय कटककेयूरकुण्डलाद्यलङ्कारं निष्पाद्य निष्पन्नमपि अलङ्कारं भङ्क्त्वा अन्यत्वमापादयति । अथ च सुवर्णस्य तापच्छेदनिकषादिपरीक्षणेन अन्यत्वं मनागपि न भवति इति अर्थानामपि साधुशब्दालङ्कारनानावृत्तबन्धैः विरच्यमानानामनन्यत्वमिति । श्रुतौ अपि शतपथे बृहदारण्यके पठ्यते; तद्यथा - "पेशस्कारी पेशसः मात्रामपादयान्यन्नवतरं कल्याणतरं रूपं तनुते" [बृहदारण्यकोपनिषत्, ४.४.४] इति । एवमयमागमार्थः ब्रह्मणः सकाशाताचार्येण अधिगतः । अथ अन्ये मन्यन्ते - "ज्योतिषामुदयमध्यास्तमयप्राप्तीन् दृष्ट्वा प्रत्यक्षानुमानाभ्यां परिच्छिद्य स्वधीविरचितम्" इति । एतत्च न । ज्योतींषि क्षितितलं भित्वा पूर्वस्यां दिशि उद्गतानि क्रमेण अम्बरमध्यमतीत्य परस्यां दिशि क्षितितलं भित्वा एव प्रविशन्तः लक्ष्यन्ते । एतावति उदयास्तमयान्तरे वियत्युपलक्षणाभावात्ज्योतिषां गतिप्रमाणपरिच्छेदः दुःसम्पाद्यः, गतेः चेयत्तापरिज्ञानाभावात्"एतावता कालेन इयती गतिः एतावता कालेन कियती" इति गणितकर्म न प्रवर्तते । प्रमाणफलराश्योः अपरिज्ञानातप्रवत्तेः च गणितकर्मणः ग्रहाणां युगभगणापरिज्ञानम्, युगभगणापरिज्ञानात्ग्रहगतिपरिज्ञानाभावः । यथा अत्र अश्वादीनां गतिः प्रत्यक्षेण देशकालाभ्यां सह उपपद्यते इति अतः गणितकर्म प्रवर्तते, अतीन्द्रियत्वात्ग्रहगतेः वियत्युपलक्षणाभावात्न प्रत्यक्षेण परिच्छिद्यते, कथं तर्हि आगमातुपगतग्रहयुतिग्रहनक्ष्त्रयोगग्रहणादयः प्रत्यक्षीक्रियन्ते? अन्यत्च - ग्रहादीनि ज्योतींषि क्षितितलं भित्त्वा एव पूर्वस्यां दिशि उद्गतानि क्रमेण अम्बरमध्यमतीत्य क्षितितलं भित्वा एव अस्तं गच्छन्तः लक्ष्यन्ते । ज्योतिश्चक्रस्य प्रवहाक्षेपात्ज्योतिश्चक्रप्रतिबद्धाः ग्रहाः प्राङ्मुखाः स्वगत्या भ्रमन्तः अपि लघ्व्या ज्योतिश्चक्रगत्या अपरां दिशमासादयन्तः लक्ष्यन्ते, कुलालचक्रारूढकीटवत् । तस्मातन्या ज्योतिश्चक्रगतिः, अन्या ग्रहगतिः प्राङ्मुखी । कुतः? यस्मात्ग्रहः अश्विन्यां दृष्टः भरण्यादिषु परस्परं प्राग्व्यवस्थितेषु नक्षत्रेषु उपलक्ष्यते भचक्रे, न रेवत्यादिषु परस्परापरस्थितेषु । तस्मात्ज्योतिश्चक्रग्रहगत्योः भिन्नत्वातुदयास्तमयदेशान्तरप्राप्त्यनुमानमुपपद्यते । तस्मातयमागमः ब्रह्मणः प्रसादाताचार्येण अधिगतः इति । ग्रहस्य नक्षत्राणां च नित्यसम्बन्धात्नक्षत्राणां निस्चलत्वात्ग्रहगत्यनुमानमिति एतत्च न । बहूनि नक्षत्राणि तेषु ग्रहस्य पारम्पर्येण भुक्तेः अनेकरूपत्वात्विक्षेपापक्रमचक्रवशात् दक्षिणोत्तरमछ्यासन्नदूरचारित्वात्ग्रहस्य एकस्मिनेव नक्षत्रे गतिपर्ययेण उदयास्तमयवक्रानुवक्रसम्भवात्ग्रहगतिवैचित्र्यम्, गणितेन च एकरूपा गतिः अनुमीयते । तस्मातयमागमः ब्रह्मणः प्रसादाताचार्येण अधिगतः इति । अन्यत्च - देशान्तराक्षविशेषात्ग्रहगतिवैचित्र्यम् । तत्यथा - लङ्कायामक्षाभावात्सर्वदा एव तुल्ये रात्र्यहनी लङ्कासमीपवर्तिनां रोहणसिंहलानां च; ततः उत्तरतः दिवसस्य वृद्धिः निशायाः हानिः, दक्षिणतः निशायाः वृद्धिः दिवसस्य हानिः इति । सूर्यग्रहणमपि अक्षदेशान्तरवशात्क्वचित्खण्डम्, क्वचित्सकलम्, क्वचित्न एव । चन्द्रग्रहणं च इह घटीव्यतीतायां रात्र्याम्, घटिकादेशान्तरापरदेशस्थिता ग्रहीतारः दिनान्ते कथयन्ति, पूर्वतः च याता दूरोद्गतस्य चन्द्रमसः ग्रहणं कथयन्ति । तस्मातुदयमध्यास्तप्राप्तिनक्षत्रयोगपर्ययादिभिः विचित्रा इयं ग्रहगतिः देशान्तराक्षविशेषैः च अतिविचित्रत्वमापद्यमाना न शक्यते अनेकरूपत्वात्गणितन्यायेन आनेतुम् । न च कश्चितेवं प्रकाराणां देशकालपर्ययेण उपपद्यमानानां प्रतिजागरिता । यः च सर्वः चिरं जीवति स वर्षशतं जीवति । तस्य अपि युगपतनेकदेशान्तराक्षविशेषत्नक्षत्रयोगपर्ययादिभिः उत्पद्यमानग्रहगतयः युगपत्न प्रत्यक्षीभवन्ति । तस्मातयमागमः ब्रह्मणः प्रसादाताचार्येण अधिगतः इति । वक्ष्यति च - सदसज्ज्ञानसमुद्रात्समुद्धृतं ब्रह्मणः प्रसादेन । सज्ज्ञानोत्तमरत्नं मया निमग्नं स्वमतिनावा ॥ [गोलपादः, ४९] इति । [ वेदाङ्गेषु ज्योतिषशास्त्रप्राधान्यम् ] न केवलं ज्योतिषामयमागमः, वेदाङ्गं च । "तस्मात्ब्राह्मणेण निष्कारणं षडङ्गः वेदः अध्येयः" [पाताञ्जलमहाभाष्यम्, पस्पशाह्निकम्] षडङ्गेषु प्रधानं ज्योतिषामयनम् । कुतः अस्य प्राधान्यम्? यस्मातनधीतशिक्षादयः अपि प्राग्गुरूपदेशात्वेदानधीयते, न च तेषां दुरधीतं भवति । न अनधिगतज्योतिषामयना वेदोक्तान् यज्ञकालान् जानते । अथ शिक्षया वर्णानां स्थानकरणप्रयत्नानि निरूप्यन्ते - अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरः तथा । जिह्वामूलं च दन्ताः च नासिकोष्ठौ च तालु च ॥ [पाणिनीयशिक्षा, श्लो¡ १३] इति आदि । वर्णाः उच्चार्यमाणाः स्वैः स्वैः स्थानकरणप्रयत्नैः स्वभावतः एव आस्यात्निष्क्रामन्ति, न अन्यतः । "अकुहविसर्जनीयाः कण्ठ्याः, ऋटुरषाः मूर्धन्याः ।" अकुहविसर्जनीयाः उच्चार्यमाणा कण्ठप्रदेशातेव आस्यात्निष्क्रामन्ति न मूर्ध्नः, ऋटुरषाः उच्चार्यमाणाः मूर्ध्नः एव न अन्यस्मात्प्रदेशान्तरातिति । यस्मात्तेषां स्थानकरणप्रयत्नाः स्वभावतः एव सिद्धाः तस्मात्तेषां स्थानकरणप्रयत्नः निरर्थकः । तथा च अनधीतव्याकरणाः अपि ब्राह्मणाः वेदानधीयते । न च तेषां दुरधीतं भवति । न च अनधीतज्योतिषामयना वेदोक्तान् यज्ञकालान् जानते । व्याकरणेन किल वेदानां रक्षा क्रियते । रक्षा अपि प्रजानां पार्थिवैः दुष्टनिग्रहेण शिष्टानुग्रहेण च क्रियते । एवं वेदानां शब्दराशित्वातसाधूनामुद्धारः निग्रहः, साधूनां शब्दानां सम्यक्कृतः अनुग्रहः इति । एतत्च न । नित्याः वेदाः । तेषु शब्दराशिप्रक्षेपाणाम् [स्वतः सिद्धिः], दृष्टानुविधित्वात्छन्दसः । यः यः शब्दः वेदेषु पठ्यते तस्य तस्य अप्रसिद्धलक्षणस्य अपि स्वयं लक्षणं साध्यं प्रत्ययप्रकृतिलोपागमवर्णविकारादिभिः । न च ज्योतिषामयनस्य अपि । ये ये वेदे यज्ञकालाः दृष्टाः ते सर्वे एव ज्योतिषामयने गणितलक्षणसिद्धाः एव । अन्यत्च - "दृष्टानुविधित्वात्छन्दसः" इति यदि वेदेषु दृष्टः एव अनुविधीयते तदा नहि किञ्चित्प्रयोजनं व्याकरणेन । अथ ऋग्यजुःसाम्नां सर्वेषामेव प्रतिपदानिरुक्तेः निरुक्तस्य आव्यापिता । अथ छन्दोविचितैः ऋग्यजुःसाम्नां नित्यः एव छन्दः निबद्धः । न च तेषामिदानीं काव्यपदपूर्वः निबद्धः क्रियते । न च अन्यूनाधिकलक्षणानामृग्यजुःसाम्नामिदानीमन्यथाकरणं करणम् । एवं च बाह्वृचे श्रुतौ श्रूयते, न हि एकेन अक्षरेण द्वाभ्यां वा ऊनानि छन्दांसि क्रियन्ते इति । न हि एवं वेदोक्तानां यज्ञकालानामिति क्रमः श्रूयते । न हि आधानादिषु संस्कारेषु कालविशेषाः ज्योतिषामयनात्विना अवगम्यन्ते । तत्यथा संस्कारेषु - एवं गच्छन् स्त्रियं क्षामां मघां मूलं च वर्जयेत् । सुस्थः इन्दौ सुलक्षण्यां विद्वांसं पुत्रमश्नुयात् ॥ [याज्ञवल्क्यस्मृतिः, आचाराध्यायः, विवाहप्रकरणम्, श्लो¡ ८०] इति । तत्र मघामूलयोः प्रतिपत्तिच्छेदौ इन्दोः च सुस्थदुःस्थतां च नानधीतज्योतिषामयना जानते । "सा यदि गर्भं न दधीत सिंह्या श्वेतपुष्प्या उपोष्य पुष्येण मूलमुत्थाप्य" इति [पारस्करगृह्यसूत्रम्, का¡ १, कण्डिका १३, सू¡ १] तत्र पुष्यस्य प्रतिपत्तिच्छेदौ नानधीतज्योतिषामयना जानते । तथा च पुंसवने - "यतहः पुंसा नक्षत्रेण चन्द्रमाः [युज्येत] ततहरुपवास्य" इति [पारस्करगृह्यसूत्रम्, १. १४. ३] । तत्र पुंनक्षत्राणि पुनर् वसुपुष्यहस्तस्वातिश्रवणाः । एतेषां निरुपहतानामनुकूलहतानां च प्रतिपत्तिच्छेदौ नानधीतज्योतिषामयना जानते । अन्यत्च - नामधेयं दशम्यां तत्द्वादश्यां वा अस्य कारयेत् । पुण्ये अहनि मुहूर्त्ते वा नक्षत्रे वा गुणान्विते ॥ [मनुस्मृतिः, २.३०] इति । अत्र पुण्यस्य अह्नः, नक्षत्रस्य गुणान्वितस्य, मुहूर्तस्य वा प्रतिपत्तिच्छेदौ नानधीतज्योतिषामयना जानते । अन्यत्च - "उदगयने आपूर्यमाणपक्षे पुण्याहे कुमार्याः पाणिं गृह्णीयात्", "त्रिषु त्रिषु उत्तरादिषु", "स्वातौ मृगशिरसि रोहिण्यां च" [पारस्करगृह्यसूत्रम्, १.४.५-७] इति अत्र उदगयनादीनामुत्तरादीनां नक्ष्त्राणां वधूवरयोः अनुकूलानां च प्रतिपत्तिच्छेदौ नानधीतज्योतिषामयना जानते, एवमादि प्रतिशाखं संस्काराणां पुण्याहनक्षत्रमुहूर्तचोदना ज्योतिषामयनाङ्गविषयाः तद्विद्भ्यः एव अवगन्तव्याः, न गुरूपदेशात्सम्प्रदायाविच्छेदात् वा अवगन्तव्याः । इति अध्येयं ज्योतिषामयनम् । अन्यत्च - छन्दसः उपाकर्मणि "अथ अतः अध्यायोपाकर्म । ओषधीनां प्रादुर्भावे श्रवणेन श्रावण्यां पौर्णमास्यां श्रावणस्य पञ्चमी हस्तेन वा" [पारस्करगृह्यसूत्रम्, २.१०.१-२] इति अत्र श्रावणपौर्णमासीं श्रवणेन युक्ताम्, श्रावणस्य पञ्चमीं हस्तेन युक्तां नानधीतज्योतिषामयना जानते । अन्यत्च - [छन्दसः उत्सर्गे] "पौषस्य रोहिण्यां मध्यमायां वाष्टकायामध्यायानुत्सृजेरन्" [पारस्करगृह्यसूत्रम्, २.१२.१] इति एतत्च । अथ नक्षत्राधानेषु "या असौ वैशाखस्य आमावास्या तस्यामादधीत सा रोहिण्या सम्पद्यते" [आपस्तम्बश्रौतसूत्रम्, ४.३.२०; बौधायनव्याख्या] इति अत्र प्रागेव रोहिण्या वैशाखस्य आमावास्यायाः परिज्ञानयोग्यस्य आधानद्रव्यस्य अर्जनमृत्विजां च वरणमिति एतत्च ज्योतिषामयनाङ्गविषयम्, तद्विद्भ्यः एव अवगन्तव्यम्, न गुरूपदेशात्सम्प्रदायाविच्छेदात्वा अवगन्तव्यमिति अध्येयं ज्योतिषामयनम् । तथा च "कृत्तिकासु अग्निमादधीत" [तैत्तिरीयब्राह्मणम्, १.१.२.१] एवमादि नक्षत्राधानचोदनाः च "पश्विज्या संवत्सरे [संवत्सरे], प्रावृषि आवृत्तिमुखयोः वा" [कात्यायनश्रौतसूत्रम्, पशुबंध¡, १-२] इति आवृत्तिमुखयोः प्रतिपत्तिच्छेदौ वेदिनामनधीतज्योतिषामयना [न] जानते । अन्यत्च - "दर्शपौर्णमासाभ्यां यजेत" [शतपथब्राह्मणम्, ११.२.५.१०] इति एवमादि चोदनाः च [श्रौत]स्मार्तेषु च कर्मसु "अपरपक्षे श्राद्धं कुर्वीत ऊर्ध्वं वा चतुर्य्याम्" [पारस्करगृह्यसूत्रपरिशिष्टकारभाष्यम्, श्राद्धसूत्रम् १] । अपि नः स कुले जायात्यः नः दद्यात्त्रयोदशीम् । पायसं मधुसंयुक्तं वर्षासु च मघासु च ॥ [मनुस्मृतिः, ३.२६४] इति । किं बहुना, श्रौतस्मार्तविषयाणां तिथिनक्षत्रविषयाणां कर्मणां नित्यानां काम्यानां च न ज्योतिषामयनात्विना समारम्भः, इति अध्येयं ज्योतिषामयनम् । [ लोकव्यवहारे ज्योतिषशास्त्रोपादेयता ] लोकः च तिथिनक्षत्रमुहूर्तविषयाणाम् [सम्बन्धेन एव] शुभेषु कार्येषु प्रवर्तते । तथा च पुष्पफलपाणिः सर्वः एव दैवज्ञमुपेत्य पृच्छति - "कदा मे किं भविष्यति? कदा अहं कृष्यादिकर्मणि प्रवर्ते? कदा अहं दैवज्ञकेन उपतिष्ठे? कदा अहमध्वानं प्रपद्ये? कदा राजानं पश्यामि? इहस्थस्य शुभं मे भविष्यति आहोस्विदन्यस्थानगतस्य? केन कर्मणा प्रवृत्तस्य मे फलं भविष्यति?" इति एतत्दैवज्ञातवगतार्थः सर्वः एव शुभेषु कार्येषु प्रवर्तते । अशुभेषु अपि - "कदा परदेशं दिधक्षुः अहं प्रवर्ते? कदा वैरिणः विनाशाय प्रतिष्ठे? कदा गजाश्वहरणम् [विदधे]? कदा पुरं ग्रामं वा घातयामि?" एतत्च दैवज्ञातवगत्य सर्वः प्रवर्तते । म्लेच्छादयः अपि च शकुननिमित्तस्वप्नबलातेव कार्येषु प्रवर्तन्ते । यस्य च यत्किञ्चित्शुभं भवति स ब्रवीति "शुभनक्षत्रमुहूर्तेषु अहमागतः", यस्य वा यत्किञ्चित्स्खलितं भवति स ब्रवीति - "मम नक्षत्रपीडा वर्तते, न अनुकूलाः ग्रहाः" इति । तथा च हस्तिशिक्षाविदः स्वशास्त्रोक्ततिथिनक्षत्रेषु एव पारिबन्धादिहस्तिकर्मसु प्रवर्तन्ते । पक्षच्छिद्रेषु तिथयः ये यस्य -रवः मता। तेषु तेषु पारिप्रवेशबन्धं च परिवर्जयन्ति । नक्षत्रं हस्तिनां प्राह स्वयमेव प्रजापतिः । हस्तहस्तविशुद्धः हि हस्तिनां कर्म कीर्त्यते ॥ इति आदि । तथा च अश्वशिक्षायाम् - अश्विन्यां रेवतौ पुष्ये पुनर्वस्योः च कारयेत् । वाजिनां सर्वकर्माणि स्वातौ वारुणहस्तयोः ॥ इति । तथा च विषतन्त्रे - कृत्तिकासु विशाखासु मघासु भरणीषु च । सार्पे मूले तथा अर्द्रायां सर्पदष्टः न जीवति ॥ आविद्धम्लेच्छादयः अपि च न शुभतिथिनक्षत्रमुहूर्तानुल्लङ्घ्य प्रवर्तन्ते । तथा क्षुतरुदिताक्रुष्टप्रत्यस्खलितश्रवणं परिहरन्ति । तृणकाष्ठभारलवणास्थिमत्तोन्मत्तक्लीबाहिदर्शनं परिहरन्ति । सितकुसुमस्वादुफलेक्षुवंशा[म्बर]स[म]लङ्कृतस्त्रीपूर्णकुम्भादिदर्शनमभिनन्दन्ति । इति अध्येयं ज्योतिषामयनं लोकानुग्रहाय । इति एवमिदं प्रथमं गीतिकासूत्रम् ॥ २ ॥ [ ग्रहाणां युगभगणाः ] ग्रहाणां युगभगणप्रदर्शनाय आर्यामाह - युगरविभगणाः ख्युघृ शशि चयगियिङुशुछ्लृ कु ङिशिबुण्लृष्खृ प्राक् । शनि ढुङ्विघ्व गुरु ख्रि- च्युभ कुज भद्लिझ्नुखृ भृगुबुधसौराः ॥ ३ ॥ अस्याः पदानि - युगरविभगणाः, ख्युघृ अविभक्तिकः निर्देशः, शशि अविभक्तिकः एव, चयगियिङुशुछ्लृ अविभक्तिकः, कु अविभक्तिकः एव, ङिशिबुण्लृष्खृ अविभक्तिकः, प्राक्, शनि, ढुङ्विघ्व, गुरु, ख्रिच्युभ, कुज, भद्लिझ्नुखृ, एतानि शन्यादीनि अपि च पदानि अविभक्तिकनिर्दिष्टानि एव । अविभक्तिकनिर्देशाः अन्यत्र अपि दृश्यन्ते "ऐउणृळ्क्", "सर्वविश्व" इत्यादिषु च । भृगुबुधसौराः । [युगरविभगणाः] । युगे रविभगणाः युगरविभगणाः, युगस्य वा रविभगणाः युगरविभगणाः । युगं कालक्रियापादे वक्ष्यते । अथ अत्र द्वन्द्वनिर्देशः कस्मात्न भवति? - युगं च रविभगणाः च युगरविभगणाः, युगं ख्युघृ रविभगणाः ख्युघृ इति । एवं च सति द्वन्द्वनिर्देशे यत्तत्कालक्रियापादे वक्ष्यते, ततेव न वक्तव्यं भवति । सत्यम्, किन्तु त्रैराशिकं न सिद्ध्यति । सप्तमासमासे षष्ठीसमासे वा क्रियमाणे त्रैराशिकम् सिद्धम् । यदि दिवससङ्ख्ये वर्षसङ्ख्ये वा युगे यथानिर्दिष्टाः ग्रहभगणाः लभ्यन्ते तदा अस्मिन्निर्दिष्टे कियन्तः इति तत्कालमध्यमग्रहभगणादयः लभ्यन्ते । षष्ठीसमासे च यद्यस्य दिवससङ्ख्यस्य वर्षसङ्ख्यस्य युगस्य यथानिर्दिष्टाः ग्रहभगणाः लभ्यन्ते, अस्य इष्टस्य कियन्तः इति मध्यमग्रहभगणादिसिद्धिः । द्वन्द्वे पुनर्न एतत्सिद्ध्यति । असौ च अत्र युगभगणशब्दः सर्वत्र अधिकारार्थे प्रयुज्यते । अधिकारे च यथा युगरविभगणाः एवं युगे शशिभगणाः इत्यादि । अन्यथा कस्मिन् काले कस्य वा कालस्य एते ग्रहभगणाः इति एतत्ने निर्दिष्टं भवति । तस्मात्षष्ठीसप्तमीसमासाभ्यामन्यतरेण व्याख्येयम्, अर्केण एव ग्रहाणां युगप्रसिद्धेः । उक्तं च - विशिष्टदेशकालार्कभादिपर्याययोगजः । कालः ग्रहात्च सदसद्वर्गः स्यात्व्यावहारिकम् ॥ इति । उत्तरत्र अपि अधिकारार्थं रवियुगभगणशब्दः सम्बन्धनीयः, रवियुगे शशिभगणाः रवियुगस्य वा इति । कथमिदम्? [रवियुगभगणाः इति] पाठान्तरे अपि द्वन्द्वनिर्देशात्षष्ठीसप्तम्यर्थः दुर्लभः भवेतधिकारः च । एवं तर्हि एकशेषनिर्देशः अत्र प्रतिपत्तव्यः, रवियुगभगणाः च रवियुगभगणाः च रवियुगभगणाः इति । एकेन रवियुगभगणशब्देन रवियुगभगणाः च रवियुगभगणप्रमाणसंसिद्धिः द्वितीयेन षष्ठीसप्तमीसमासाभ्यां त्रैराशिकसिद्धिः इति । यदि एवं युगरविभगणशब्देन अपि अयमर्थः शक्यते ज्ञातुम्, न किञ्चित्पाठान्तरे प्रयोजनम् । युगरविभगणाः कियन्तः? उच्यन्ते - ख्युघृ । उकारवर्गस्थाने अयं खकारः यकारः च, तेन उकारवर्गस्थाने द्वात्रिंशत् । घृ ऋकारवर्गस्थाने घकारः, तेन तस्मिन् स्थाने चत्वारि । एवमेकत्र त्रिचत्वारिंशत्लक्षा विंशतिसहस्राणि । अङ्कैः अपि ४३२०००० । शशि चयगियिङुशुछ्लृ । प्रकृताधिकारयुगभगणसंयोगेन शशिशब्दः व्याख्येयः - युगशशिभगणाः । अत्र अपि तौ एव समासौ । युगशशिभगणाः चयगियिङुशुछ्लृ । पूर्ववतेव वर्गावर्गस्थानेषु सङ्ख्या स्थापनीया । रसाग्निरामदहनेष्वद्रिशैलशिलीमुखाः । अङ्कैः अपि ५७७५३३३६। कु ङिशिबुण्लृष्खृ । तथा एव युगकुभगणाः तथा एव स्वस्थाने अपि विनिवेशिताः, खाम्बरेष्वद्रिरामाश्वियमाष्टतिथयः, १५८२२३७५०० । भचक्रप्रतिबद्धानि नक्षत्राणि तस्य भचक्रस्य प्रवहाक्षेपवशातपरां दिशमासादयन्ति । नक्षत्राणि [भुवम्] ग्रहवत्स्वगत्या प्राङ्मुखीं भ्रमन्तीमिव पश्यन्ति इति अनया युक्त्या भुवः भगणनिर्देशः । प्राक् । ये एते ग्रहाः विवस्वदादयः प्राङ्मुखाः भ्रमन्ति । यदि अपि भपञ्जरप्रवहाक्षेपातपगच्छन्ति दिशम्, तथा अपि एते स्वगत्या प्राङ्मुखमेव गच्छन्ति । अल्पत्वात्गतेः कालान्तरेण प्राचीं दिशमासादयन्तः लक्ष्यन्ते, कुलालचक्रस्थकीटवत् । यदि एते प्राग्गतयः न स्युः, तदा अश्विन्यां दृष्टः [ग्रहः] भरण्यां न उपलक्ष्येत । यदि एते अपराभिमुखाः स्युः, तदा अश्विन्यां दृष्टाः रेवत्यामुपलक्ष्येरन् । तस्मातेते प्राङ्मुखाः एव भ्रमन्ति इति अतः "प्राक्" इति । किं पुनर्भूभगणोपदेशे प्रयोजनमिति आह - "रविभूयोगाः [भूदिवसाः]", [कालक्रिया¡, ५] इति भूदिवसानयनम् । न एततस्ति, प्रकारान्तरनिष्पन्नत्वात्कुदिवसानाम् । यदि अपि अयमेव कुदिवसप्रतिपत्तेः उपायः स्यात्तथा अपि उपदेशगौरवात्न युज्यते । का उपदेशगुरुता? उच्यते - "कु ङिशिबुण्लृष्खृ" इति कुभगणोपदेशः, "रविभूयोगाः भूदिवसाः" इति भूदिवसोपदेशः । कथं तर्हि अभिधीयते? उच्यते - भूदिवसप्रमाणनिर्देशः । एवं लघुतरप्रकारः । तस्मात्न एकं प्रयोजनमुपदेशस्य एतावतः कारणं भवितुमर्हति । अन्यतपि प्रयोजनान्तरमस्ति इति आह । तत्यथा - कलियातभूभगणैः सर्वे एव ग्रहाः मीनमेषसन्ध्युदयकालावधयः आनीयन्ते । कलि[यात]रविमण्डलाहर्गणसमासः [एव] कलियातभूभगणाः । तैः त्रैराशिकम् - यदि युगप्रसिद्धभूभगणैः इष्टग्रहभगणाः मीनमेषसन्धिप्रारब्धाः प्राप्यन्ते, तदा कलियातभूभगणैः कियन्तः इति इष्टग्रहभगणादयः । अथवा सूर्योदयकालावधेः एव ग्रहाः आनीयन्ते । कथम्? रविभगणाः याताहर्गणे क्षिप्त्वा तद्दिवससूर्यराश्यादीन् च अधः विन्यस्य इष्टग्रहभगणैः क्रमेण संगुणय्य स्वच्छेदैः षष्ट्यादिभिः भक्त्वा उपरि उपरि आरोप्य तथा एव भूभगणैः विभजेत, लब्धमिष्टग्रहमण्डलानि । शेषं द्वादशादिगुणितं कृत्वा तदवशिष्टम् [अधः अधः] प्रक्षिप्य तथा एव च अपहृते राश्यादयः । अथवा, रविमण्डलाहर्गणयोगं द्वादशभिः संगुणय्य रवियातराशयः प्रक्षिप्यन्ते, त्रिंशता भागानित्यादि [अर्घात्त्रिंशता संगुणय्य रवियातभागान् प्रक्षिपेतिति आदि] कर्म कृत्वा खखषड्घनच्छेदराशिं निधाय त्रैराशिकम् - यदि युगभूभगणैः अभीष्टग्रहभगणाः लभ्यन्ते, तदा खखषड्घनभागहारभूभगणैः कियन्तः? तेन खखषड्घनगुणितयुगभूभगणैः भागे हृते भगणादिलब्धिः । अथवा, राश्यादिगुणकारसंवर्ग- [१२ x ३० x ६०]-खखषड्घन-[२१६००]योः गुणकारभागहारयोः तुल्यत्वात्नष्टयोः अभीष्टग्रहभगणगुणितभूभगणलिप्तानां युगभूभगणाः एव भागहारः, फलमभीष्टग्रहलिप्ताः । शनि ढुङिवघ्व । पूर्ववत्शनियुगभगणाः ढुङ्विघ्व, कृतरसेषु अङ्गमनवः, अङ्कैः अपि १४६५६४ । गुरु ख्रिच्युभ । पूर्ववतेव, कृताश्वियमाब्धिरसाग्नयः, अङ्कैः अपि ३६४२२४ । तथा एव कुज भद्लिझ्नुखृ, वेदाश्विवसुरसरन्ध्रयमास्विनः, अङ्कैः अपि २२९६८२४ । भृगुबुधसौराः । भृगुः च बुधः च भृगुबुधौ, तयोः सौराः । सूर्यस्य इमे सौराः । के? भगणाः । भृगुबुधयोः सौराः, भृगुबुधसौराः । सूर्यस्य ये भगणाः ते एव शुक्रबुधयोः अपि ख्युघृ-सङ्ख्या इति । एतेषां युगभगणानामुत्पत्तिप्रत्याख्यानम् "क्षितिरवियोगादिनकृद्" [गोलपादः, ४८] इति अस्यां कारिकायां व्याख्यास्यामः । एवं द्वितीया गीतिः ॥ ३ ॥ [ ग्रहोच्चयुगभगणाः ] ग्रहोच्चयुगभगणप्रतिपादनाय आह - चन्द्रोच्च र्जुष्खिध बुध सुगुशिथृन भृगु जषबिखुछृ शेषार्काः । चन्द्रोच्च, र्जुष्खिध, बुध, सुगुशिथृन, भृगु, जषबिखुछृ, एतेषामविभक्तिकः निर्देशः, शेषार्काः । अत्र अपि अधिकृतयुगभगणसंयोगेन एव व्याख्येयम् । चन्द्रोच्चस्य युगभगणाः चन्द्रोच्चयभगणाः, र्जुष्खिध नवेन्दुयमाष्टवस्वब्धयः, अङ्कैः अपि ४८८२१९ । बुध एवं बुधोच्चयुगभगणाः सुगुशिथृन खाश्व्यम्बरमुनिरामरन्ध्राद्रिशशिनः, अङ्कैः अपि १७९३७०२० । भृगु तथा एव भृगूच्चयुगभगणाः जषबिखुछृ वस्वष्टाग्नियमाश्विशून्याद्रयः, अङ्कैः अपि ७०२२३८८ । अत्र अयं भृगुशब्दः, आहोस्वित्भृगुजशब्दः? भृगुः नाम भगवान्महर्षिः तस्य पुत्रः शुक्रः तस्य ये भगणाः निर्दिश्यन्ते; तेन भृगुजः इति, अथवा भार्गवः इति निर्देश्यः । यदि अयं भृगुजशब्दः, तदा षबिखुछृ इति एते भगणाः प्राप्नुवन्ति, जषबिखुछृ इति एते च इष्यन्ते । कथं तर्हि अत्र भृगुशब्दः एव विज्ञेयः, यतुत भृगुजशब्दः? भृगुशब्दः एव विज्ञायते । कुतः? अन्यत्र भृगुजशब्दस्य आश्रवणात् । अत्र शास्त्रे भृगुजशब्देन न क्वचित्शुक्रः आचार्येण निर्दिष्टः । तेन तर्हि भृगुशब्देन भृगुगुरुबुधशनि इति आदि यदि अपि उच्यते, भार्गवशब्देन निर्देशः कर्तव्यः, न भृगुशब्देन, भृगोः अपत्यं भार्गवः इति । न एषः दोषः, भृगोः अपत्यं भृगुः इति अपि भवति, "यथा बभ्रुः, मण्डुः, लमकः" [अष्टाध्यायी, ३.१.२. पातञ्जलभाष्यम्] इति । बभ्रोः अपत्यं बाभ्रव्यः इति आदि वक्तव्ये बभ्रुः इति उच्यते, एवं माण्डव्यः मण्डुः । तथा एव भार्गवः भृगुः । शेषार्काः । निर्दिष्टेभ्यः ये अन्ये ते शेषाः, ते च शनिगुरुभौमाः । तेषां शेषाणाम् । अर्कस्य इमे आर्काः । के? भगणाः । शेषाणामार्काः, शेषार्काः । "ख्युघृ"तुल्याः एव उच्चभगणाः शनिगुरुभौमानाम् । यतः सूर्यादयः विग्रहवन्तः परिभ्रमन्तः राशिषु उपलक्ष्यन्ते, तेन तेषां भगणाः कीर्त्यन्ते । एते पुनर्शश्युच्चादयः न एव लक्ष्यन्ते; तेषां कथं भगणाः भवन्ति, अलक्ष्यमाणत्वातिति? अत्र उच्यते - अत्र चन्द्रादीनामेव [स्वोच्चस्थितानाम् भगणाः] । अथवा स्फुटग्रहगतिः अत्र साध्यते । तस्याः साधनोपायाः मध्यमः, शीघ्रः, मन्दः, परिधयः, ज्या इति आदयः । सा च स्फुटा ग्रहगतिः एतैः उपायैः साधयितुं शक्यते, न अन्यथा । यथा प्रकृतिप्रत्ययलोपागमवर्णविकारादिभिः उपायैः साधुशब्दः साध्यते, एवमत्र अपि । तस्मातुपायाः उपेयसाधकाः । तेषां न नियमः । उक्तं च - उपादायाः अपि ये हेयाः तानुपायान् प्रचक्षते । उपायानां च नियमः न अवश्यमवतिष्ठते ॥ [वाक्यपदीयम्, २.३८] इति । तस्मातुपायमात्रत्वात्न दोषः । [ पातयुगभगणाः ] अथ पातभगणप्रदर्शनार्थमाह - बुफिनच पातविलोमा अधिकृतयुगभगणसंयोगात्युगपातविलोमभगणाः । बुफिनच रसाश्वियमदस्राग्नियमाः, अङ्कैः अपि २३२२२६; एते भगणाः । पातस्य विलोमा विपरीतगतिः प्रसिद्धा, तेन अत्र अनुलोमगतिजिज्ञासुभिः मण्डलात्विशोध्यते, तस्य पातस्य अनुलोमगतिः भवति । सा चन्द्रात्विशोध्यते । तस्मात्पातविशुद्धशेषात्चन्द्रमसः क्षेपः साध्यते । यदि एतावता प्रयोजनेन पातः मण्डलात्शोध्य अनुलोमः क्रियते अत्र, तर्हि महाप्रयासः - पातः मण्डलात्शोध्यः, स चन्द्रातिति । कथं तर्हि? यः एव करणागतपातः चन्द्रमसि क्षिप्यते, विलोमत्वातपचयः क्षेपः इति । तस्मातुत्तरः दक्षिणः वा विक्षेपः साध्यते । किमयं चन्द्रमसः पातः उच्यते, ननु च सर्वेषामेव अयमिति? नहि, पारिशेष्यात्चन्द्रस्य एव अयं पातः, ग्रहाणां पाताः वक्ष्यन्ते, "नवराषह" [गीतिका¡, ८] इति । तस्मात्परिशिष्टः चन्द्रस्य एव अयम् । ननु सूर्यः अपि अन्यः अस्ति? तस्य विक्षेपाभावात्पाताभावः । [ भगणारम्भकालादिनिर्देशः ] एते ग्रहोच्चपातभगणाः कस्मिन् काले, कस्मिन् देशे, कस्मात्ज्योतिश्चक्रप्रदेशात्प्रवृत्ताः इति एतत्न ज्ञायते । अतः तत्प्रदर्शनार्थमाह - बुधाह्नि अजार्कोदयात्च लङ्कायाम् ॥ ४ ॥ बुधाह्नि, अजार्कोदयात्, च, लङ्कायाम् । बुधस्य अहः बुधाहः, तस्मिन् बुधाह्नि । ननु च "राजाहस्सखिभ्यष्टच्" [अष्टाध्यायी, ५.४.१९] इति समासान्ते कृते बुधाहे इति भवितव्यम् । न एषः दोषः, समासान्तविधेः अनित्यत्वात् । अनित्यः समासान्तविधिः, कस्मिन् चित्भवति कस्मिन् चित्न भवति इति । तेन बुधाह्नि इति अपि भवति । बुधदिवसे बुधादिवारः अनन्तरकृतयुगप्रवृत्तौ । तेन बुधादिवारात्कृतयुगादि अहर्गणः गण्यते । अजार्कोदयातजः मेषः । अर्कस्य उदयः अर्कोदयः । अजः च अर्कोदयः च अजार्कोदयः । "सर्वः द्वन्द्वः विभाषायामेकवत्भवति" [अष्टाध्यायी २.२.२९, पातञ्जलभाष्यम्] इति एकवत्भावः । तस्मातजार्कोदयात्, मेषादेः अर्कोदयात्च । मेषादेः भगणप्रदेशात्सूर्योदयात्च लङ्कायामेते ग्रहाः स्वान् स्वान् भगणान् भोक्तुमारब्धाः । मेषादेः यस्मातेते प्रवृत्ताः तस्मातेषु ग्रहेषु न क्षेपः न अपचयः । यस्मात्सूर्योदयात्तस्मातर्धरात्र्यादिषु कालविशेषेषु यथा इष्टं स्वभोगैः सञ्चालनम्, यतः लङ्कायां ततः अन्येषु देशेषु देशान्तररेखायाः पूर्वतः अपरतः व्यवस्थितेषु देशान्तरफलापचयः क्षेपः च । चकार एतानेव अर्थान् समुच्चिनोति । बुधाह्नि अर्कोदयात्लङ्कायामिति । एवं तृतीया गीतिः ॥ ४ ॥ [ अल्पमानं तद्गतप्रमाणं च ] कल्पयुगमन्वन्तराणां गतागतप्रतिपादनाय आह - काहः मनवः ढ मनुयु- गाः श्ख गताः ते च मनुयुगाः छ्ना च । कल्पादेः युगपादाः ग च गुरुदिवसात्च भारतात्पूर्वम् ॥ ५ ॥ काहः, मनवः, ढ इति अविभक्तिकः निर्देशः, मनुयुगाः, श्ख अयमपि अविभक्तिकः एव, गताः, ते, च अविभक्तिकः, मनुयुगाः, छ्ना [अविभक्तिकः], च, कल्पादेः, युगपादाः, ग अविभक्तिकः एव, च, गुरुदिवसात्, च, भारतात्, पूर्वम् । कः इति प्रजापतेः आख्यानम् । कस्य अहः काहः, ब्रह्मदिवसः इति अर्थः । तस्य काहस्य कियत्प्रमाणमिति आह - मनवः ढ । चतुर्दश मनवः काहस्य प्रमाणम् । ब्रह्मणः दिवसे चतुर्दश मनवः परिवर्तन्ते । एकैकस्य मनः कियत्कियतन्तरमिति आह - मनुयुगाः श्ख । द्वासप्ततियुगानि मनः मनोः अन्तरम् । अत्र कथमुच्यते तद्द्वासप्ततियुगानि मनोः अन्तरमिति । अन्ये पुनरन्यथा मन्यन्ते - तदेकसप्ततिगुणं मन्वन्तरमिह उच्यते । इति । एकसप्ततिः चतुर्युगानि मनोः अन्तरम् । अत्र कथम्? उच्यते - ये एवं मन्यन्ते तेषां पूर्वापरविरोधः । एकसप्ततिः चतुर्युगानि मनोः अन्तरमिति उक्त्वा त एवं पुनरपि आह - सहस्रयुगपर्यन्तमहर्यत्ब्रह्मणः विदुः । रात्रिं युगसहस्रान्तां ते अहोरात्रविदः जनाः ॥ [श्रीमद्भगवद्गीता, ८.१७; मनुस्मृतिः, १.७३] इति । तत्र एकसप्ततिः चतुर्दशभिः गुणितानि न एव युगसहस्रं भवति । तस्मातुच्यते पूर्वापरविरोधः । यदि एकसप्ततिः मनोः अन्तरम्, कथं चतुर्दशमन्वन्तराणि युगसहस्रं भवति? अस्माकं तु द्वासप्ततिः चतुर्युगानि मनोः अन्तरम् । अष्टोत्तरं सहस्रं ब्राह्मः दिवसः इति एततुपपन्नम् । तेषु मनुषु चतुर्दशसु कियन्तः मनवः व्यतिक्रान्ताः इति आह - गताः ते च । गताः च-सङ्ख्या, षटिति अर्थः । सप्तमस्य मनोः कियन्ति युगानि इति आह - मनुयुगाः छ्ना । मनोः सप्तमस्य व्यतीतानि सप्तविंशतिः युगानि । अष्टाविंशतितमस्य युगस्य पादाः व्यतीताः ग त्रिसङ्ख्याः कृतत्रेताद्वापरसंज्ञिताः । च पादपूरणे । गुरुदिवसात्च भारतात्पूर्वम् । गुरोः दिवसः गुरुदिवसः, तस्मात्गुरुदिवसात्, भारतात्च पूर्वम् । गुरुदिवसेन उपलक्षितात् भारतात्पूर्वमिति सामान्येन अभिहितत्वात्कलियुगादेः पूर्वमिति व्याख्येयम् । अन्यथा पूर्वशब्दाततिरिच्यते । एते मनवः, एतानि च युगानि, एते च युगपादाः व्यतिक्रान्ताः । चकार एतानेव अर्थान् समुच्चिनोति । अत्र एतत्प्रष्टव्यम् - किमेतानि युगानि युगपादाः च तुल्यप्रमाणाः आहोस्वित्भिन्नप्रमाणाः इति? केचिताहुः भिन्नप्रमाणाः इति । तद्यथा - चत्वारि आहुः सहस्राणि [वर्षाणां यत्कृतं युगम्] । तस्य तावत्शती सन्ध्या सन्ध्यांशः च तथाविधः ॥ इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषु । एकापायेन वर्तन्ते सहस्राणि शतानि च ॥ [मनुस्मृतिः, १.६९-७०] अस्माकं पुनः तत्र युगपादाः सर्वे एव तुल्यप्रमाणाः । अन्यथा अतीतानागतग्रहगतिपरिज्ञानमेव न घटते । अयं च युगादिगतनिर्देशः ग्रहगतिपरिज्ञानाय एव । तद्यथा - षण्मनवः व्यतिक्रान्ताः इति । षण्णां च मनूनां व्यतीतानि युगानि द्व्यग्न्यब्धयः, ४३२ । एतानि च सप्तमस्य मनोः सप्तविंशतिः युगानि, तत्सहितानि नवेषु अब्धयः, ४५९ । एतानि व्यतीतयुगानि वर्षाणि क्रियन्ते । कथम्? ख्युघृ-सङ्ख्यानि वर्षाणि युगप्रमाणम् । तेन ख्युघृ-गुणानि वर्षाणि, वस्वष्टाश्विवस्तुरन्ध्ररूपाणि अयुतगुणानि, १९८२८८०००० । एतानि च अष्टाविंशतितमयुगस्य पादत्रयस्य वर्षाणि कृताश्व्यग्नयः अयुतगुणाः ३२४००००, एतैः सहितानि अर्कर्तुवसुरन्ध्ररूपाणि अयुतगुणानि १९८६१२०००० एतावान् कालः कलियुगादौ ब्रह्मदिवस्य अतीतः । यावन्ति वर्षाणि अतीतानि कलियुगस्य तावन्ति अत्र प्रक्ष्प्य अहर्गणः क्रियते । अस्मिनहर्गणे गुरोः प्रभृति दिनवारः, कृतयुगाद्यहर्गणे बुधात्, कलियुगादेः शुक्रात् । "बुधाह्नि अजार्कोदयात्च लङ्कायाम्" इति कृतयुगादौ बुधवासरोपदेशात्कल्पादेः गुरुः अभ्यूहितः, कलियुगादेः च भृगुः । एवं कल्पाद्यहर्गुणे, कृतयुगाद्यहर्गणे वा क्रियमाणे न कस्यदित्क्षेपः । यदा पुनः कलियुगव्यतीतातेव अहर्गणः क्रियते, तदा शश्युच्चस्य राशित्रयं क्षेपः, पातस्य षड्राशयः । कथम्? [द्वाप]रान्ताहर्गणं पातभगणैः शश्युच्चस्य भगणैः च पृथक्पृथक्संगुणय्य भूदिवसैः भागलब्धानि मण्डलानि, शेषे द्वादशगुणिते भूदिवसैः अपहृते षड्राशयः पातस्य, शश्युच्चस्य च त्रयः राशयः लभ्यन्ते । अथवा चतुर्भिः समैः युगपादैः पातभगणाः शश्युच्चभगणाः च लभ्यन्ते, ततेतैः समैः त्रिभिः युगपादैः कियन्तः इति भगणाः लभ्यन्ते । शेषे द्वादशगुणे [चतुर्विभक्ते राशयः] इति । एवमिदं चतुर्थं गीतिकासूत्रम् ॥ ५ ॥ [ ग्रहाणां कक्ष्याप्रमाणानि ] एते ग्रहाः भ्रमन्तः कियत्प्रमाणासु कक्ष्यासु भ्रमन्ति इति एतत्न ज्ञायते, तत्ज्ञानार्थमाह - शशिराशयः ठ चक्रम्, ते अंशकलायोजनानि य-व-ञ-गुणाः । प्राणेन एति कलां भम्, खयुगांशे ग्रहजवः, भवांशे अर्कः ॥ ६ ॥ [शशिराशयः, ठ अविभक्तिकः, चक्रम्, ते, अंशकलायोजनानि, य-व-ञ-गुणाः, प्राणेन, एति, कलाम्, भम्, खयुगांशे, ग्रहजवः, भवांशे, अर्कः ।] शशिग्रहणातभिहिताः शशिभगणाः परिगृह्यन्ते । ते शशिभगणाः राशयः कर्तव्याः । कथमिति आह - ठ चक्रम्, द्वादशराशयः चक्रं भवति इति । शशिभगणाः चक्रसंज्ञिताः द्वादशभिः गुण्यन्ते, ततः ते राशयः भवन्ति । ते राशयः अंशकलायोजनानि कर्तव्याः । कथमिति आह - ते अंशकलायोजनानि य-व-ञ-गुणाः । "य"गुणाः राशयः अंशाः, "व"गुणाः कलाः, "ञ"गुणाः योजनानि । एवमिमानि आकाशकक्ष्यायोजनानि भवन्ति । व्योमाम्बरखरसाद्रीषुखयमाद्रिसागरादिवेदरवयः, अङ्कैः अपि १२४७४७२०५७६०००, आकाशकक्ष्या । यावन्तमाकाशप्रदेशं रवेः मयूखाः समन्तात्द्योतयन्ति तावान् प्रदेशः खगोलस्य परिधिः, खकक्ष्या । अन्यथा हि अपरिमितत्वाताकाशस्य परिमाणाख्यानं न उपपद्यते । चन्द्रमसः लिप्ता दशयोजनानि इति अतः अणुत्वात्चन्द्रभगणैः एव उपदिष्टा खकक्ष्या । अन्येषां भगणैः अपि एषा शक्यते एव । ननु तद्यथा - रवेः युगभगणाः लिप्तीकृताः द्वयेकाग्निरामनवकाः दशलक्षाभ्यस्ताः, ते च अङ्कैः अपि ९३३१२०००००० । रवेः लिप्तायोजनानि रामाग्नीन्दवः, योजनाष्टादशसहस्त्रभागाः च रन्ध्रवस्वग्निरवयः, अङ्कैः अपि लिख्यन्ते १३३ १२३८९ १८००० । एतैः योजनैः योजनभागैः च गुणिताः युगरविलिप्ताः खकक्ष्यायोजनानि भवन्ति । शनैः चरस्य अपि लिप्तायोजनानि खवेदरन्ध्राग्नयः, रूपाब्धिरसाङ्गरामांशाः खाकाशाष्टाद्रीन्दवः, अङ्कैः अपि ३९४० १७८०० ३६६४१ । एतैः युगशनैः चरलिप्ताः गुणिताः तानि एव खकक्ष्यायोजनानि भवन्ति । एवमन्यभगणेभ्यः अपि खकक्ष्यायोजनानि भवन्ति । प्राणेन एति कलां भम् । ननु च अत्र कक्ष्याः प्रक्रान्ताः, तासु प्रक्रान्तासु "प्राणेन एति कलां भम्" इति एततप्राकरणिकम् । न एततस्ति । एतानि सूत्राणि । सूत्रेषु च केचितर्थाः प्राकरणिकाः केचितप्राकरणिकाः, विचित्रत्वात्सूत्राणाम् । प्राणेन उच्छ्वासेन, एति गच्छति, कलां लिप्ताम्, भं ज्योतिश्चक्रम् । प्रवहेणाक्षिप्यमाणं ज्योतिश्चक्रं कलामेति उच्छ्वासतुल्येन कालेन । ज्योतिश्चक्रं लिप्तानां खखषड्घनम्, ततहोरात्रेण पर्येति । अहोरात्रस्य प्राणाः खखषड्घनतुल्याः । तेन कलाः च ज्योतिश्चक्रसम्बन्धाः प्राणाः च तुल्याः । तस्मात्छायाकरणादिषु प्राणेषु एव ज्यादिकं कर्म प्रवर्तते । ज्योतिश्चक्राहोरात्रयोः आदिः रव्युदयातिति कालक्रियापादे विस्तरेण व्याख्यास्यामः । ग्रहकक्ष्याप्रदर्शनार्थमाह - खयुगांशे ग्रहजवः । ख इति अनेन पूर्वनिर्दिष्टा खकक्ष्या परिगृह्यते । युगग्रहणेन युगसम्बन्धिनः ग्रहाणां भगणाः परिगृह्यन्ते । यदि खयुगांशे ग्रहजवः इति युगं परिगृह्यते, एकत्वात्युगस्य एका एव सर्वेषां ग्रहाणां कक्ष्या स्यात् । खस्य युगांशः खयुगांशः । खकक्ष्यायाः स्वैः स्वैः युगभगणैः भागे हृते यत्लब्धं तत्युगांशः । तस्मिन् युगांशे । ग्रहाणां जवः ग्रहजवः । जवः वेगः गतिः इति अर्थान्तरम् । तावति परिधिप्रदेशे ग्रहाः परिभ्रमन्ति, स्वैः स्वैः गतिविशेषैः । खकक्ष्यायां स्वैः स्वैः युगभगणैः भागे हृते यथास्वं ग्रहकक्ष्याः भवन्ति । [कथम्?] उच्यते - त्रैराशिकगणितविशेषेण । "षष्ट्या सूर्याब्दानाम्" [कालक्रिया¡, १२] इति अत्र ख्युघृ-तुल्यैः अर्कवर्षैः खकक्ष्यातुल्यानि योजनानि सर्वे एव ग्रहाः पूरयन्ति इति वक्ष्यति । तेन यदि एतावद्भिः युगभगणैः इष्टग्रहस्य [= इष्टग्रहस्य युगभगणैः] खकक्ष्या [लभ्यते], ततः एकेन भगणेन का इति स्वकक्ष्या लभ्यते । भवांशे अर्कः । भस्य वांशः भवांशः, नक्षत्रपरिधेः षष्ट्यंशः सूर्यकक्ष्या भवति । कथमुच्यते नक्षत्रकक्ष्यायाः षष्टिभागः सूर्यकक्ष्या इति, नक्षत्रकक्ष्यायाः असिद्धत्वात्? न अत्र सूर्यकक्ष्या अभिधीयते । किं तर्हि? नक्षत्रकक्ष्या । कथम्? या अत्र सूर्यकक्ष्या सा नक्षत्रकक्ष्यायाः षष्टिभागः । सूर्यकक्ष्या च "खयुगांशे ग्रहजवः" इति अनेन सिद्धा यदि नक्षत्रकक्ष्यायाः षष्टिभागः तदा सर्वा नक्षात्रकक्ष्या कियती भवति इति षष्ट्या गुण्यते, तदा तस्याः नक्षत्रकक्ष्यायाः प्रमाणं भवति । सा च वसुगगनाम्बरशून्यरसाश्विरामाद्रिशशिनः, अङ्कैः अपि १७३२६०००८ । विचित्रत्वात्गणितनिर्देशस्य क्वचित्राशिः सकलः अभिधीयते, क्वचित्राशेः एकदेशः । अत्र पुनः राशेः एकदेशेन षष्ट्यंशेन सकलः राशिः अभ्यूह्यते । इष्टग्रहकक्ष्याभिः इष्टग्रहयोजनकर्णाः आनीयन्ते । यदि - चतुरधिकं शतमष्टगुणं द्वाषष्टिः तथा सहस्राणाम् । [गणितपादः, १०] इति एतावता परिधिना अयुतप्रमाणविष्कम्भार्धं लभ्यते, तदा इष्टकक्ष्यापरिधिना किमिति तत्कक्ष्यायोजनविष्कम्भार्धं लभ्यते । तदेव योजनकर्णः स्वस्फुटजिज्ञांसुभिः स्फुटीक्रियते । यदि व्यासार्धलिप्ताभिः इयानिष्टयोजनकर्णः लभ्यते, तदा तेन अविशेषकर्णेन भूताराग्रहविवरेण कियान् योजनकर्णः इति स्फुटयोजनकर्णः लभ्यते । एवमिदं पञ्चमं गीतिकासूत्रम् ॥ ६ ॥ [ भू-शशि-ग्रहाणां व्यासाः ] योजनानि इति उक्तम् । तेषां योजनानां प्रमाणं न ज्ञायते । तत्परिज्ञानार्थं भूग्रहाणां व्यासप्रमाणप्रतिपादनार्थं च आह - नृषि योजनम्, ञिला भू- व्यासः अर्केन्द्वोः घ्रिञा गिण, क मेरोः । भृगु-गुरु-बुध-शनि-भौमाः शशि-ङ-ञ-ण-न-मांशकाः, समार्कसमाः ॥ ७ ॥ नृषि अविभक्तिकः, योजनम्, ञिला अविभक्तिकः, भूव्यासः, अर्केन्द्वोः, घ्बिञा गिण क इति एते अविभक्तिकाः निर्देशाः, मेरोः, भृगु-गुरु-बुध-शनि-भौमाः, शशि-ङ-ञ-ण-न-मांशकाः, समाः, अर्कसमाः । नृणां षि नृषि, अष्टौ पुरुषसहस्राणि । नृषिः एव योजनं नृषि योजनम् । "पुरुषः धनुर्दण्डः नरः" इति पर्यायाः । एततुक्तं भवति - अष्टौ धनुस्सहस्राणि योजनम् । अनेन योजनप्रमाणेन ञिला भूव्यासः । "ञिला" इति पञ्चाशदुत्तरं सहस्रम् । ञिला एव भूव्यासः ञिला भूव्यासः, "व्यासः विष्कम्भः विस्तरः" इति पर्यायाः । अन्ये पुनरन्यथा मन्यन्ते - जम्बूद्वीपविष्कम्भः, ततः द्विगुणोत्तराः समुद्राः द्वीपाः च इति अनया प्रक्रियया द्विगुणश्रेढ्याः चतुर्दशगच्छायाः यत्सर्वधनं तावत्प्रमाणं तस्य इति । एततपि च गोलपादे विस्तारेण विचार्य प्रत्याख्यास्यामः । अन्यत्च तत्र एव अक्षोन्नत्या भूपरिधियोजनानयनमुपदेक्ष्यामः । अथ तु पुराणे गङ्गाद्वारकुमार्यन्तरालं योजनसहस्रमुच्यते । तत्च [न] प्रत्यक्षेण उपलभ्यते । तत्यथा - लङ्कोज्जयिन्योः अन्तरालं योजनानां शतद्वयम् । लङ्कातः दूरतुत्तरेण कुमारी । तथा च कुमार्युज्जयिन्योः अन्तरालं न योजनशतद्वयमपि पूर्यते । उज्जयिन्याः गङ्गाद्वारं न योजनशतमात्रमपि । एवं गङ्गाद्वारकुमार्यन्तरालं योजनशतत्रयमपि न पूर्यते, किमुच्यते योजनसहस्रमिति । अथ अन्ये मन्यन्ते विषयान्तरबहुत्वात्भुवः महत्त्वमिति । यथा पारशव-कुलपर्वत-[कु]रु- प्रभृतयः देशाः योजनशतसङ्ख्यया श्रूयन्ते, तेन भुवः महत्त्वम् इति । तत्च न, गोलाकारत्वात्भुवः । तत्पृष्ठपरिध्युपरिचक्रव्यवस्थिताः एते देशाः इति एतत्सर्वमेव सम्भवति । अथवा तत्र अल्पप्रमाणानि योजनानि श्रूयन्ते, येन एकेन दिवसेन विंशतिमात्राणि योजनानि गच्छन्ति इति । तस्मातेतावानेव भूव्यासः । भूव्यासः गणितेन अपि आनेतुं शक्यते । तत्यथा - स्फुटतिथिः तावत्सूर्यग्रहणे पूर्वापरयोः कपालयोः परे [= परमे तिथौ] विज्ञायते एव । तत्र परायाम् [=अमायाम्] तिथौ उदयास्तमययोः चतस्रः नाडिकाः अपचीयन्ते उपचीयन्ते वा । तत्र काले दृग्ज्या व्यसार्धम्, आदित्यस्य [लम्बनम्] मध्यमगत्या तिस्रः लिप्ताः षट्पञ्चाशद्विलिप्ताः च [३ऽ ५६ऽऽ] । चन्द्रमसः अपि द्वापञ्चाशल्लिप्तिकाः सार्धाः [५२ऽ ३०ऽऽ] । उभयोः अपि सूर्याचन्द्रमसोः विपरीतकर्मणा स्वाभिः स्वाभिः लम्बनलिप्ताभिः स्वयोजनकर्णावभ्यस्य, दृग्गतिज्यया व्यासार्धतुल्यया विभज्य, सूर्याचन्द्रमसोः भूव्यासार्धं पृथक्पृथक्लभ्यते । तद्द्विगुणं भूव्यासः । अतः सुष्ठु उक्तमाचार्येण "ञिला भूव्यासः" इति । अर्कः च इन्दुः च अर्केन्दू, तयोः अर्केन्द्वोः, व्यासः इति अनुवर्तमानात्, घ्रिञा चतुश्चत्वारिंशच्छतानि दशोत्तराणि [४४९०] अर्कस्य व्यांसः । इन्दोः गिण शतत्रयं पञ्चदशोत्तरम् [३१५] । सूर्याचन्द्रमसोः योजनव्यासौ एतौ । लिप्ताभिः व्यवहारः इति लिप्ताव्यासः क्रियते - यदि स्वयोजनक्रणेन व्यासार्धलिप्ताः लभ्यन्ते तदा योजनव्यासैः कियन्तः इति लिप्ताव्यासलब्धिः, मध्यमयोजनकर्णेन मध्यमः, स्फुटेन स्फुटः । क मेरोः । मेरोः एकयोजनं व्यासः । एततपि च "मेरुः योजनमात्रः" [गोलपादः, ११] इति अस्यां कारिकायां वक्ष्यामः । भृगु-गुरु-बुध-शनि-भौमाः । भृगुः च गुरुः च बुधः च शनिः च भौमः च भृगुगुरुबुधशनिभौमाः । अत्र अपि षष्ट्या निर्देशः युक्तः, भृगुगुरुबुधशनिभौमानां व्यासः इति । न एततस्ति । यदा व्यतिरेकः विवक्षितः तदा व्यतिरेकलक्षणा षष्ठी भवति । यदा पुनर्व्यतिरेकनेव न विव्क्षितः तदा षष्ठी न उत्पद्यते । तत्यथा कश्चित्कञ्चन ब्रवीति "आदित्यस्य बिम्बं पश" इति । तदाबिम्बव्यतिरेकेण आदित्यः, आदित्यव्यतिरेकण वा बिम्बम् निर्दिष्टं भवति । यदा पुनरव्यतिरेकविवक्षा तदा यतेव बिम्बं स एव आदित्यः । न ईक्षेत उद्यन्तमादित्यं न अस्तं यान्तं कदाचन [मनुसृतिः, ४.३७] इति आदि । अत्र अपि अयमेव । बिम्बाव्यतिरिक्ताः ग्रहाः निर्दिश्यन्ते । शशि-ङ-ञ-ण-न-मांशकाः । शशिव्यांसस्य अनन्तरोक्तस्य ङ-ञ-ण-न-मांशकाः, एते भृगु-गुरु-बुध-शनि-भौमाः । शशिव्यासस्य ङांशः भृगुः पञ्चभागः, ञांशः गुरुः दशभागः, णांशः बुधः पञ्चदशभागः, नांशः शनिः विंशतिभागः, मांशः भौमः पञ्चविंशतिभागः । एतानि चन्द्रकक्ष्याप्रमाणपरिमाणानि ग्रहाणां व्यासयोजनानि । अथ किमिति स्वकक्ष्याप्रमाणसम्भवानि एव च योजनानि न उच्यन्ते? अयमाचार्यस्य अभिप्रायः - यदि ग्रहाणां स्वकक्ष्यानिष्पन्नानि व्यासयोजनानि अभिधीयन्ते तदा व्यासलिप्तानयने स्वकक्ष्योत्पन्नाः स्फुटयोजनकर्णाः भागहाराः स्युः, लम्बनदृक्क्षेपलिप्तानयने च । तथा ग्रहाणां मनागपि लम्बनदृक्क्षेपलिप्ताः न स्युः । दृश्यन्ते च तेषां लम्बननतिविशेषाः । तदर्थमत्र भागहाराः प्रदर्श्यन्ते । कथम्? शशि-ङ-ञ-ण-न-मांशकाः इति । शशिव्यासस्य योजनप्रमाणस्य लिप्तानयने शशियोजनकर्णः भागहारः । तेन स भागहारः पञ्चादिभिः गुण्यते । स तावत्छेदः शशिव्यासः शुक्रादिव्यासः भवति । शुक्रस्य ३१५ १७१८८५; गुरोः ३१५ ३४३७७०; बुधस्य ३१५ ५१५६५५; शनेः ३१५ ६८७५४०; भूतनयस्य ३१५ ८५९४२५; उपरिमांशः व्यासार्धेन गुणितः छेदेन विभक्तः लिप्तागतः ग्रहव्यासः भवति मध्यमः । स्फुटार्थं पुनर्यथा - स्वभूताराग्रहविवरेण छेदान् संगुणय्य व्यासार्धेन विभजेत्, स्फुटाः भवन्ति । ते एव ग्रहयोगेषु भूव्यासार्धगुणितस्य स्वदृग्गतेः स्वदृक्क्षेपस्य च भागहाराः, फलं लम्बनावनतिलिप्ताः इति । चत्वारि मानानि वक्ष्यन्ते सौर-सावन-नाक्षत्र-चान्द्राणि । तत्र न ज्ञायते केन मानेन शास्त्रे अस्मिन् व्यवहारः कर्तव्यः इति अतः आह - समार्कसमाः । समाः वर्षम्, समाः अस्मिन् शास्त्रे अर्कसमाः । अर्केण वर्षेण व्यवहर्तव्यमस्मिन् । अस्य एव निश्चयावगमनार्थं वक्ष्यति "षष्ट्या सूर्याब्दानाम्" [कालक्रियापादः, १२] इति आदि । एवमिदं षष्ठं गीतिकासूत्रम् ॥ ७ ॥ [ परमापक्रमः ग्रहविक्षेपाः च ] एते ग्रहाः स्वकक्ष्यासु भ्रमन्तः विषुवते उत्तरेण दक्षिणेन च व्यावर्तमानाः लक्ष्यन्ते । तस्मात्तत्परिज्ञानार्थमाह - भापक्रमः ग्रहांशाः, शशिविक्षेपः अपमण्डलात्झार्धम् । शनि-गुरु-कुज ख-क-गार्धम्, भृगु-बुध ख, स्चाङ्गुलः घहस्तः ना ॥ ८ ॥ भापक्रमः, ग्रहांशाः, शशिविक्षेपः, अपमण्डलात्, झार्धम्, शनि-गुरु-कुज, ख-क-गार्धम्, भृगु-बुध, ख स्चाङ्गुलः, घतस्तः, ना । भ चतुर्विंशतिः । भ एव अपक्रमः भापक्रमः । प्राङ्मुख[गमनेन] यद्दक्षिणेन उत्तरेण वा समरेखातः अपगमनमपक्रमः । केषामयमपक्रमः किमात्मकः वा चतुर्विंशतिः इति आह - ग्रहांशाः । ग्रहाणामादित्यादीनामेते अंशकाः रासेः त्रिंसद्भागाः । समरेखातः उत्तरेण चतुर्विंशतिभागान् ग्रहः अपक्रामति मेषवृषमिथुनेषु क्रमेण, तानेव अपक्रमभागानुत्क्रमेण कर्कटकसिंहकन्यासु निवर्तते; दक्षिणेन तुलावृश्चिकधनुःषु [क्रमेण] तानेव उत्क्रमेण मकरकुम्भमीनेषु इति । अत्र ग्रहग्रहणं किमर्थं क्रियते? ग्रहाणां सर्वेषामेव एते अपक्रमांशकाः यथा स्युः इति, अन्यथा हि केषामेव स्युः । न एततस्ति । अत्र ग्रहाः प्रक्रान्ताः तेषां प्रकृतत्वात्ग्रहाणामेव एते अंशकाः न अन्येषाम् । अवश्यं ग्रहग्रहणं कर्तव्यम् । अपक्रममण्डलात्विक्षेपांशाः उच्यन्ते । अपक्रममण्डलात्झार्धं चन्द्रः विक्षिपति तथा शनिगुरुकुजभृगुबुधाः स्वान् भागान् विक्षिपन्ति । यस्मात्चन्द्रादीनामपक्रममण्डलात्विक्षेपभागाः अभिधीयन्ते अतः चन्द्रादीनामेव केवलानामपक्रमभागाः अपि स्युः न आदित्यस्य । ग्रहग्रहणे पुनः क्रियमाणे सर्वेषामेव अपक्रमभागाः सिद्ध्यन्ति इति । शशिविक्षेपः अपमण्डलात्झार्धम् । शशिनः विक्षेपः शशिविक्षेपः । सः अपमण्डलात् । अप-मण्डलमपक्रममण्डलम्, तस्मातपक्रममण्डलात्, उत्तरेण दक्षिणेन वा चन्द्रस्य विक्षेपः । विषुवन्मण्डलातपक्रमः उत्तरेण दक्षिणेन वा, अपक्रममण्डलम् [च], तस्मात्विक्षेपः उत्तरेण दक्षिणेन वा । झार्धम्, झकारेण नव, झस्य अर्धं झार्धम्, अर्धोनपञ्चभागाः चन्द्रमसः विक्षेपः । तथा एव अपक्रममण्डलातेव शेषाणाम् अपि ग्रहाणां विक्षेपाः । शनि-गुरु-कुज ख-क-गार्धम् । शनिगुरुकुजानां यथासङ्ख्येन, शनेः ख, द्वौ [भागौ] विक्षेपः; गुरोः क, एकः भागः; कुजस्य गार्धम्, गकारेण त्रयः भागाः, गस्य अर्धं गार्धम्, सार्धः अंशः । भृगु-बुध ख । भृगुबुधयोः ख-सङ्ख्या विक्षेपः द्वौ भागौ । अत्र "भृगुबुधशनीनां ख" इति उच्यमाने खकारग्रहणमेकं न कर्तव्यं भवति, तत्किमिति आचार्येण पृथक्पाठेन द्विः खकारग्रहणं कृतम्? उच्यते - पृथक् पृथक्कर्मप्रदर्शनार्थम्; शनिगुरुकुजानामेकं विक्षेपकर्म भृगुबुधयोः अन्यत्, तस्मातेतत्कर्मद्वयमिति पृथक्पृथक्पाठातेव सिद्ध्यति । "नृषि योजनम्" इति अत्र पुरुषः एव केवलः अभिहितः । सः पुरुषः कत्यङ्गुलः, कतिहस्तः वा इति एतत्न उपदिष्टम् । तदर्थमाह - स्चाङ्गुलः । सकारेण नवतिः, चकारेण षट्, स्चाङ्गुलः षण्णवत्यङ्गुलः । अङ्गुलस्य प्रमाणं गणितपरिभाषातः प्रतिपत्तव्यम् - अष्टौ यवमध्यान्यङ्गुलप्रमाणमिति आदि । घहस्तः चतुर्हस्तः । ना पुरुषः । ननु च "नृषियोजनम्" इति अत्र एव एतत्वक्तुं युक्तम् । एवं मन्यन्ते । यथा इष्टग्रहयोगेषु अन्तरम् विक्षेपलिप्ताः लभ्यन्ते । अङ्गुलानि हस्तान् च कृत्वा ग्रहयोः अन्तरमवधार्यमिति । एवमपि विज्ञायते एव कियतीभिः लिप्ताभिः अङ्गुलं भवति इति । अत्र स्वधिया प्रतिदिनग्रहचारगणितनिपुणतया अभ्यूह्यम् । उद्देशतः तु स्वधिया उपलक्षितमुच्यते - योगे पादाङ्गुलं लिप्ता यथा वा लक्ष्यते दृशा । [महाभास्करीयम्, ६.५५] इति । एवमिदं सप्तमं गीतिकासूत्रम् ॥ ८ ॥ [ ग्रहोच्चपातस्थानानि ] चन्द्रपातात्प्रवृत्तस्य चन्द्रमसोः विक्षेपः साध्यते । अनिर्दिष्टत्वात्पातस्य, ग्रहाणां पुनः कस्मात्प्रभृति विक्षेपाः साध्यन्ते एव इति एतत्न ज्ञायते । अतः तेशां पातभागानां मन्दोच्चभागानां च प्रतिपादनाय आह - बुध-भृगु-कुज-गुरु-शनि न-व- रा-ष-ह गत्वा अंशकान् प्रथमपाताः । सवितुः अमीषां च तथा द्वा-ञखि-सा-ह्दा-ह्ल्य-खिच्य मन्दोच्चम् ॥ ९ ॥ बुध-भृगु-कुज-गुरु-शनि अविभक्तिकः निर्देशः, न-व-रा-ष-ह अयमपि अविभक्तिकः, गत्वा, अंशकान्, प्रथमपाताः, सवितुः, अमीषाम्, च, तथा, द्वा ञखि सा ह्दा ह्ल्य खिच्य एतानि अपि द्वादीनि अविभक्तिकानि, मन्दोच्चम् । बुध-भृगु-कुज-गुरु[-शनि] अविभक्तिकमेतत्ग्रहणकवाक्यम् । सूत्राणां सोपसंस्कारत्वात्संस्कारमपेक्षते । कः अस्य संस्कारः? प्रक्रान्तद्योतिकया विभक्त्या संयोगः, बुध-भृगु-कुज-गुरु-शनीनामिति । एतेषां बुधादीनाम् "ना"दयः अंशाः । यथासङ्ख्येन बुधस्य न विंशतिः, भृगोः व षष्टिः, कुजस्य रा चत्वारिंशत्, गुरोः ष अशीतिः, शनेः ह शतम् । एतानंशकान् गत्वा, एतेषां बुध-भृगु-कुज-गुरु-शनीनां प्रथमपाताः व्यवस्थिताः इति । प्रथमपातग्रहणं द्वितीयपातनिराकरणार्थम् । यदि प्रथमपातग्रहणन्न क्रियते तदा सामान्येन द्वयोः अपि पातयोः ग्रहणं स्यात् । तथा च विक्षेपादिग्रहणे निश्चयः न स्यात्, यस्मात्प्रथमपातातुत्तरेण ग्रहाणां विक्षेपः भवति, द्वितीयात्पातात्दक्षिणेन । उक्तं च - प्रथमात्पातात्शशिनः अपमण्डलस्य उत्तरेण विक्षेपः । विक्षेपः दक्षिणतः पुनरपि पातात्द्वितीयात्च ॥ इति । एते एव पाताः षड्राशियुताः द्वितीयपाताः भवन्ति । अत्र "गत्वा अंशकान् प्रथमपाताः" इति उच्यते । यदि ग्रहपाताः चलन्ति तदा एवं युक्तं वक्तुम् - एतानंशकान् गत्वा प्रथमपाताः व्यवस्थिताः इति । बाढं चलन्ति एते ग्रहपाताः, अन्यथा हि अयं निर्देशः एव न घ्हटते "गत्वा अंशकान्" इति । यदि एतेषां ग्रहपातानाम् [गतिः तर्हि] चन्द्रपातवत्युगभगणनिर्देशः किमिति आचार्येण न क्रियते ? अन्यत्च, यदि एतेषां गतिः स्यात्ग्रहविक्षेपाः न स्फुटाः भवेयुः । अत्यन्तसूक्ष्मा एषां गतिः, महता कालेन कियती उपचीयते, ततः स्तोकत्वातन्तरस्य विक्षेपाः स्फुटाः एव लक्ष्यन्ते । आचार्येण गतिमत्वं पातानात्निर्देशता तेषां गतिः अपि निर्दिष्टा एव "यस्मातिङ्गितेन, चेष्टितेन, निमिषितेन, महता वा सूत्रप्रबन्धेन च, आचार्याणामभिप्रायः गम्यते" । तस्मातनेन एव सूत्रबन्धेन ग्रहपातानां गतिमत्वमुपदिषता तेषां युगभगणान्मुक्तकातेव निर्दिष्टवान्, अन्यथा हि तेषां गतिमत्वनिर्देशः अनर्थकः स्यात् । सम्प्रदायाविच्छेदात्स्मरन्ति वृद्धाः तत्युगभगणम् । तत्यथा - वस्वब्धियमाश्विखबाणाद्रीषुहुताशनः युगाब्दगणः । पातानां शतगुणितः मुक्तककथितं किल आर्येण ॥ एकत्रिद्विचतुरिषून् क्रमशः भगणान् प्रयान्ति सर्वेषाम् । कल्पादेः गतकालात्गणनीयमतः गतिः तेषाम् ॥ तदानयनमिदानीम् - कल्पादेः अब्दनिरोधातयमब्दराशिः इति ईरितः खाग्न्यद्रिरामार्करसवसुरन्ध्रेन्दवः । ते च अङ्कैः अपि १९८६१२३७३० । अस्मिन् बुधादिपातभगणगुणिते स्वयुगविभक्ते भगणादयः पातभोगाः लभ्यन्ते । पातयुगप्रमाणं सर्वेषामेव "खाकाशाष्टकृतद्विद्विव्योमेष्वद्रीषुवह्नयः" अङ्कैः अपि ३५७५०२२४८०० । एतैः युगवर्षैः बुधस्य पातः भगणमेकं भुङ्क्ते, शुक्रस्य त्रीणि, कुजस्य द्वौ, गुरोः चत्वारः, शनिपातः पञ्च । एतेषां यथास्वं लब्धाः पातभागाः यथापठिताः, एततेव गुरुशनैः चरयोः एका तत्परा [च] लभ्यते । अयमपरः प्रकारः - बुध-भृगु-कुज-गुरु-शनि । प्रथमाबहुवचनसंस्कृतमिदं ग्रहणकवाक्यं व्याख्यायते बुध-भृगु-कुज-गुरु-शनयः । न-व-रा-ष-ह इति एतानंशकान्मेषादिपरमाणोः प्रभृति गत्वा प्रथमपातेषु व्यवस्थिताः इति अर्थः । अत्र "तात्स्थ्यात्ताच्छाब्द्यम्", यथा "मञ्चाः क्रोशन्ति", मञ्चस्थेषु क्रोशत्सु मञ्चाः क्रोशन्ति इति उच्यते । एवमत्र अपि प्रथमपातव्यवस्थितानेव ग्रहान् प्रथमपातः इति उक्तवान् । तदा तावन्तः एव भागाः, न एते चलन्ति । यदि अपि कैश्चितेषां गतिः उच्यते तथा अपि अस्माकं नादरः, येन अतिमहता अपि कालेन मनागपि अन्तरं न भवति, यतः कलियुगान्ते शनैः चरपातस्य तिस्रः लिप्ताः, न किञ्चितन्तरम् । कलियुगे च परिसमाप्ते सर्वमेव जगत्प्रलीयते, प्रलीने च जगति पुनरन्या सृष्टिः जायते, तत्र न जानीमः किं भविष्यति इति । अथ च अन्तरे ने किञ्चितन्तरम्, न कश्चित्विशेषः । यतपि उक्तमाचार्येण तत्शास्त्रभावप्रक्रियासम्प्रदायाविच्छेदप्रदर्शनार्थम् । अन्यथा हि अनन्तत्वात्कालस्य गतिः एषामल्पा अपि उपचीयमाना महती सञ्जायते । सा च अन्यथा न प्रतिपत्तुं शक्यते इति पातयुगभगणनिर्देशः । सवितुः अमीषां च । सवितुः आदित्यस्य, अमीषां च ग्रहाणां बुधभृगुकुजगुरुशनीनां मन्दोच्चभागाः, केन एव प्रकारेण सवितुः द्वा अष्टसप्ततिभागाः, बुधस्य ञखि शतद्वयं दशोत्तरम्, भृगोः सा नवतिः, कुजस्य ह्दा शतमष्टादशोत्तरम्, गुरोः ह्ल्य साशीतिकं शतम्, शनेः खिच्य शतद्वयं षट्त्रिंशदुत्तरं मन्दोच्चम् । एते भागाः एषां ग्रहाणां पृथक्पृथक्मन्दोच्चम् । मन्दोच्चानां बहुत्वात्मन्दोच्चानि इति भवितव्यम् । न एततस्ति । सामान्योपक्रमः अत्र कृतः, यथा - "रक्षोहागमलघ्वसन्देहाः प्रयोजनम्" [अष्टाध्यायी, १.१.१., पातञ्जलभाष्यम्] इति, एवमत्र अपि "द्वा ञखि सा ह्दा ह्ल्य खिच्य मन्दोच्चम्" । अत्र शीघ्रोच्चं मन्दोच्चमिति । यस्य शीघ्रा गतिः तत्शीघ्रोच्चम्, यस्य पुनर्गतिः एव न अस्ति तत्मन्दोच्चमिति । कथम्? उच्यते । लोके - "शीघ्रः देवदत्तः" यः हि क्षिप्रतरं गच्छति स शीघ्रः, "मन्दः यज्ञदत्तः" इति यः हि मन्दतरं गच्छति स मन्दः । एवमत्र अपि यस्य अतिशीघ्रगतिः ग्रहगतेः तत्शीघ्रोच्चम् । यस्य पुनर्ग्रहगतेः अल्पीयसी गतिः [तत्मन्दोच्चम्] । एवं ग्रहाणामपि युक्तमेव एतत् । अथ किमिति मन्दोच्चगतिः न अभिहिता? उच्यते - सूक्ष्मत्वाताचार्यस्य न अत्र आदरः, महता अपि कालेन न किञ्चितेव अन्तरं भवति । अपि च मुक्तकेन एव आचार्येण अभिहितमिति सम्प्रदायाविच्छेदातवधार्यते । अथवा गत्वा अंशकान् सवित्रादीनां मन्दोच्चानि व्यवस्थितानि इति व्याख्यायते । अन्यथा हि "तथा"-शब्दः सार्थकः न स्यात् । यथा बुधादीनां प्रथमपाताः "ना"दीनंशकान् गत्वा व्यवस्थिताः, एवमेतेषां सवित्रादीनां मन्दोच्चानि "द्वा"दीनंशकान् गत्वा व्यवस्थितानि इति । तेषां च मन्दोच्चानामत्यन्तसूक्ष्मत्वात्वर्षगणेन एव आचार्येण यताख्यातं ततेव अव्यवच्छिन्नसम्प्रदायप्रतिपत्त्या अभिधीयते । तत्यथा - अष्टिकृताद्र्यष्टिनवाजैः उच्चयुगं तिग्मदीधितेः उक्तम् । दशघनगुणितैः अब्दैः विश्वान् भुङ्क्ते क्रमात्भगणान् ॥ दन्ताष्टाब्ध्यग्निगुणाष्टरामयमलाः युगं भवति अब्धाः । शतगुणिताः शशिजस्य प्राहुः भगणान् च सप्त एव ॥ व्योमाम्बरवेदकृतच्छिद्राब्धिकृताब्धिनन्दशैलाब्दाः । शुक्रस्य अर्धं सूरेः भगणः भोगः तयोः एकः ॥ व्योमाम्बरशून्यकृताश्विरुद्रशरशैलवसुमुनीन्दुसमाः । असितोच्चयुगं कौजं द्विगुणन् भग[णा]नवेषवस्तु तयोः ॥ कल्पादिकालगणिता मन्दोच्चानां भवन्ति या गतयः । "गत्वा"शब्दातेतत्व्याख्याता भास्करेण अत्र ॥ तत्यथा - मन्दोच्चानयनं प्रत्येतेषां कल्पादेः अब्दनिरोधात्गतकालः खाग्न्यद्रिरामार्करसवसुरन्ध्रेन्दवः, ते च १९८६१२३७३० । एतेषु वर्षेषु यथास्वं मन्दोच्चभगणगुणितेषु स्वयुगाब्दविभक्तेषु रव्यादीनां मन्दोच्चानां राशिभागादयः लभ्यन्ते । एतेषामपि कलियुगान्ते अपि अल्पमन्तरम्, यतः च शनैः चरस्य अपि सप्तमात्रा लिप्ता मन्दोच्चस्य उपचयः, न कश्चित्फलविशेषः । यथा अपि तु शास्त्रसम्प्रदायाविच्छित्तिकथने ग्रहपातेषु उक्तम् ततत्र अपि अवधारणीयमिति । एवमिदमष्टमं गीतिकासूत्रम् ॥ ६ ॥ [ ओजपदयोः मन्दशीघ्रपरिधयः ] मन्दशीघ्रोच्चपरिधिप्रमाणप्रतिपादनाय आह - झार्धानि मन्दवृत्तम् शशिनः छ, ग-छ-घ-ढ-छ-झ यथा उक्तेभ्यः । झा-ग्ड-ग्ला-र्ध-द्ड तथा शनि-गुरु-कुज-भृगु-बुधोच्चशीघ्रेभ्यः ॥ १० ॥ झार्धानि, मन्दवृत्तम्, शशिनः, छ ग छ घ ढ छ झ एते छादयः अविभक्तिकनिर्देशाः, यथा उक्तेभ्यः, झा-ग्ड-ग्ला-र्ध-द्ड अविभक्तिकः निर्देशः, तथा शनि-गुरु-कुज-भृगु-बुधोच्चशीघ्रेभ्यः । झार्धानि । झस्य अर्धानि झार्धानि । वक्ष्यमाणानि मन्दशीघ्रोच्चवृत्तानि झार्धप्रमाणानि प्रतिपत्तव्यानि । मन्दवृत्तमिति एकवचननिर्देशः । "प्रत्येकं वाक्यपरिसमाप्तिः" [अष्टाध्यायी, १.१.१, पातञ्जलभाष्यम्] इति अनेन न्यायेन मन्दवृत्तं शशिनः छ, सप्त झार्धानि, सार्धैकत्रिंशत्भागाः; यथा उक्तेभ्यः मन्दोच्चभागविधानक्रमेण सवितृ-बुध-भृगु-कुज-गुरु-शनयः परिगृह्यन्ते । सवितुः ग, त्रीणि झार्धानि, सार्धत्रयोदशभागाः । बुधस्य छ, सप्त झार्धानि, सार्धैकत्रिंशद्भागाः । भृगोः घ, चत्वारि झार्धानि, अष्टादशभागाः । कुजस्य ढ, चतुर्दश झार्धानि, त्रिषष्टिभागाः । गुरोः छ, सप्त झार्धानि, सार्धैकत्रिंशद्भागाः । शनेः झ, नव झार्धानि, सार्धचत्वारिंशद्भागाः । यथा उक्तेभ्यः यथा उक्तं यथोक्तम्, तेभ्यः यथा उक्तेभ्यः । सवित्रादीनां च मन्दोच्चेभ्यः । ननु च अत्र सम्बन्धलक्षणया षष्ठ्या भवितव्यम्, यथा उक्तानामिति । न एततस्ति । यथा उक्तेभ्यः इति अनया पञ्चम्या मन्दोच्चविशुद्धेभ्यः राशिभ्यः मन्दोच्चातधिकेभ्यः राशिभ्यः वा राश्यादिभ्यः ज्याविभागेन एते परिधयः गुणकाराः । यथा उक्तेभ्यः इति अनेन एव वचनेन मन्दोच्चं ग्रहमध्यात्पात्यते, परिशिष्टस्य ज्यासङ्कलनाय त्रैराशिकं क्रियते । परिधिसंस्कारकरणं च त्रैराशिकप्रसिद्ध्यर्थम् । यद्यस्य षष्टिशतत्रयपरिधेः इयं ज्या ततः अभीष्टग्रहपरिधेः का ज्या लभ्यते । सा एव ज्या भुजाफलं कोटिफलं च इति अभिधीयते । तत्र झार्धेन अपवर्त्य षष्टिशतत्रयपरिधिं यथा उक्ताः च ग्रहपरिधयः झार्धापवर्तिताः । तेन गुणकारभागहारयोः झार्धापवर्तितयोः कर्मणि क्रियमाणे इष्टज्यायाः अशीतिः भागहारः यथोक्ताक्षरसङ्ख्यापरिधयः गुणकाराः । शीघ्रोच्चपरिधयः - झा, नव झार्धानि, चत्वारिंशत्सार्धाः भागाः शनेः । ग्ड, षोडश झार्धानि, द्वासप्ततिभागाः गुरोः । ग्ला, त्रिपञ्चाशत्झार्धानि, शतद्वयमष्टत्रिंशदुत्तरं सार्धं भागानां कुजस्य । र्ध, एकोनषष्टिः झार्धानि, पञ्चषष्त्यधिकशतद्वयं सार्धं भागानां भृगोः । द्ड एकत्रिंशत्झार्धानि, एकोनचत्वारिंशदुत्तरं शतं सार्धं भागानां बुधस्य । शनि-गुरु-कुज-भृगु-बुधोच्चशीघ्रेभ्यः । शनि-गुरु-कुज-भृगु-बुधानामुच्चशीघ्राः तेभ्यः शनि-गुरु-कुज-भृगु-बुधोच्चशीघ्रेभ्यः । शीघ्रोच्चेभ्यः इति वक्तव्ये उच्चशीघ्रेभ्यः इति विपरीतनिर्देशं कुर्वनाचार्यः ज्ञापयति - शीघ्रोच्चात्ग्रहः शोध्यते इति । तस्मात्शुद्धशेषात्ज्या उत्पाद्यन्ते । ताभिः त्रैराशिकं पूर्ववत् । पूर्वमाचार्येण मन्दक्रमेण ग्रहाः निर्दिष्टाः । शशी सर्वेभ्यः शीघ्रः लक्ष्यते, तस्मात्मन्दः सविता, ततः मन्दः बुधः, तथा उत्तरं भृगु-कुज-गुरु-शनयः । अयं पुनर्शीघ्रक्रमः, शनि-गुरु-कुज-भृगु-बुधाः इति । एते शन्यादयः यथा उत्तरम् शीघ्राः । एवमिदं नवमं गीतिकासूत्रम् ॥ १० ॥ [ युग्मपदयोः मन्दशीघ्रपरिधयः ] एतेभ्यः एव मन्दशीघ्रेभ्यः द्वितीयचतुर्थपदपरिधिप्रमाणपरिज्ञानाय आह - मन्दात्ङ-ख-द-ज-डा वक्रिणां द्वितीये पदे चतुर्थे च । जा-ण-क्ल-छ्ल-झ्न उच्चात् शीघ्रात्, गियिङ्श कुवायुकक्ष्या अन्त्या ॥ ११ ॥ मन्दात्, ङ ख द ज डा इति एतानि अविभक्तिकानि, वक्रिणाम्, द्वितीये, पदे, चतुर्थे, च, जा ण क्ल छ्ल झ्न एतानि अविभक्तिकानि, उच्चात्, शीघ्रात्, गियिङ्श अविभक्तिकः, कुवायुकक्ष्या, अन्त्या । मन्दात् । तथा एव मन्दोच्चविशुद्धात्राश्यादिकातुत्पन्नायाः ज्यायाः एते परिधिसंज्ञिताः गुणकाराः । तथा एव झार्धप्रमाणपरिमिताः - बुधस्य ङ, पञ्च झार्धानि, द्वाविंशतिस्सार्धभागाः, भृगोः ख, द्वे झार्धे, नव भागाः । कुजस्य द, अष्टादश झार्धानि, एकाशीतिभागाः । गुरोः ज, अष्टौ झार्धानि, षट्त्रिंशद्भागाः । शनेः डा, त्रयोदश झार्धानि, अष्टपञ्चाशत्सार्धभागाः । वक्रिणां द्वितीये पदे चतुर्थे च । वक्रं येषां ते वक्रिणः । वक्रिणः इति अनेन शशिसवित्रोः अग्रहणम्, येन तयोः वक्रा गतिः न अस्ति । वक्रिणः च बुध-भृगु-कुज-गुरु-शनयः । तेषामेते परिधयः । द्वितीये पदे चतुर्थे च । ये पूर्वाभिहिताः परिधयः ते उत्सर्गेण चतुर्षु पदेषु प्राप्ताः । तेषां द्वितीयचतुर्थयोः पदयोः एते परिधयः अपवादेन अभिधीयन्ते । द्वितीयचतुर्थपादव्यतिरेकेण पूर्वोक्तपरिधीनां विषयः । चकारः द्वितीयेषु च चतुर्थेषु च इति एततर्थं समुच्चिनोति । अथवा - वक्रिणां द्वितीये पदे । एते बुधादयः ग्रहाः द्वितीये पदे वक्रिणः भवन्ति । वक्रां गतिं चरन्ति इति अर्थः । ननु च मन्दग्रहणानन्तरं द्वितीये पदे वक्रिणः इति उच्यन्ते, तेन मन्दोच्चस्य द्वितीयपदे वक्रपरिज्ञानं प्राप्नोति, तत्च न इष्यते । न एततस्ति । वक्रिणः द्वितीये पदे बुधादयः इति सामान्येन उच्यते । "सामान्यचोदनाः च विशेषे अवतिष्ठन्ते " इति विशेषे अवस्थाप्यते । कः च विशेषः ? शीघ्रोच्चद्वितीयपदे एतेषां बुधादीनाम् वक्रपरिज्ञानमिति अयं विशेषः । उक्तं च - मन्दोच्चातनुलोमं प्रतिलोमं च एव शीघ्रोच्चात् । [गोल¡, १७] इति । चतुर्हे च । एते परिधयः द्वितीये चतुर्थे च पदे गुणकाराः । द्वितीये एव पदे वक्रपरिज्ञानमन्यत्र अपि - प्रथमे दृश्यविधानं द्वितीयपदगाः तु वक्रगाः सर्वे । अनुवक्रगाः तृतीये पदे चतुर्थे अस्तमुपयान्ति ॥ इति । जा ण क्ल छ्ल झ्न । शीघ्रोच्चात्द्वितीयचतुर्थयोः पदयोः परिधयः । शनेः जा, अष्टौ झार्धानि, षट्त्रिंशद्भागाः । गुरोः ण, पञ्चदश झार्धानि, सप्तषष्टिः सार्धभागाः । कुजस्य क्ल, एकपञ्चाशत्झार्धानि, अर्धोनकं त्रिंशदुत्तरं शतद्वयं भागानाम् । भृगोः छ्ल, सप्तपञ्चाशज्झार्धानि, सार्धं षट्पञ्चाशदुत्तरं शतद्वयं भागानाम् । बुधस्य झ्न, एकोनविंशज्झार्धानि त्रिंशदुत्तरं शतं सार्धं भागानाम् । उच्चात्शीघ्रात् । अत्र अपि शीघ्रोच्चातिति वक्तव्ये उच्चात्शीघ्रातिति विपरीतग्रहणं कुर्वन्नाच्चार्यः ज्ञापयति - शीघ्रोच्चात्ग्रहः शोध्यते इति । पदचतुष्टयग्रहणात्च कर्मचतुष्टयम् - प्रथमं मन्दोच्चकर्म, तदनन्तरं शीघ्रकर्म, पुनर्मन्दकर्म, तदनन्तरं शीघ्रकर्म । ततः ग्रहस्फुटः लभ्यते । रविचन्द्रयोः एकपरिधिनिर्देशातेकमेव कर्म । अथ कश्चित्ज्यारहितं कर्म कर्तुमिच्छति, तदर्थमाह - गियिङ्श कुवायुकक्ष्यान्त्या । त्रयस्त्रिंशच्छतानि पञ्चसप्तत्यधिकानि [३३७५] कुवायुकक्ष्याप्रमाणम् । कुः भूः, कुवायुः भूसम्बन्धी वायुः, तस्य इयमन्त्या कक्ष्या । एतावतः वायुकक्ष्यापरिच्छिन्नाकाशप्रदेशात्परतः नियतः वायुः येन नियतगतिना प्रवहेण ज्योतिश्चक्रमिदं भ्राम्यते । कुवायुकक्ष्याप्रमाणपरिच्छिन्नाताकाशप्रदेशातारादनियताः वायवः इतः ततः परिभ्रमन्ति । कुवायुकक्ष्यायाः ग्रहकर्म - ये अभीष्टाः भागाः तान् चक्रार्धभागेभ्यः विशोध्य शेषं तैः एव अभीष्टभागैः गुणितं प्रतिराश्य एकं कुवायुकक्ष्यायाः द्वादशगुणितायाः शोध्यते, ततः शेषस्य यः चतुर्थोंशः स भागहारः । यत्प्रतिराशितं ततन्त्यफलेन गुणितं भागहारेण विभजेत् । लब्धमभीष्टफलम् । उक्तं च अस्माभिः कर्मनिबन्धे - मख्यादिरहितं कर्म कथ्यते तत्समासतः । चक्रार्धांशकससूहात्विशोध्याः ये भुजांशकाः ॥ तच्छेशगुणिताः द्विष्ठाः शोध्याः खखेषुखाब्धितः । शेषस्य चतुर्थांशेन द्विष्ठमन्त्यफलाहतम् ॥ बाहुकोट्योः फलं कृत्स्नं क्रमोत्क्रमगुणस्य वा । [ महाभास्करीयम्, ७.१७-१९ ] इति दशमं गीतिकासूत्रम् ॥ ११ ॥ [ चतुर्विंशतिज्यार्धानि ] अत्र अशेषग्रहकर्म, तत्च ज्याप्रतिबन्धमिति अतः ज्यादर्शनार्थमाह - मखि भखि फखि धखि णखि ञखि ङखि हस्झ स्ककि किष्ग श्घकि किघ्व । घ्लकि किग्र हक्य धकि किच स्ग झश ङ्व क्ल प्त फ छ कलार्धज्याः ॥ १२ ॥ "मखि"आदयः निगदेन एव व्याख्याताः । कलार्धज्याः । कलाः च ताः अर्धज्याः च कलार्धज्याः । एताः ज्याः लिप्ताप्रमाणपरिमिताः । अर्धज्याभिः यतः शास्त्रव्यवहारः तेन अर्धज्या एव उक्ता ॥ १२ ॥ [ दशगीतिकासूत्रपरिज्ञानफलम् ] दशगीतिकासूत्रपरिज्ञानफलप्रदर्शनाय आह - दशगीतिकसूत्रमिदम् भूग्रहचरितं भपञ्जरे ज्ञात्वा । ग्रहभगणपरिभ्रमणम् स याति भित्त्वा परं ब्रह्म ॥ १३ ॥ अत्र परिभाषागीतिकाः दशगीतिकाः गृह्यन्ते । एतत्दशगीतिकसूत्रं भूग्रहचरितम् । भुवि लोके । ग्रहाणां चरितनिबन्धनत्वातेततेव दशगीतिकसूत्रं ग्रहचरितम्, ग्रहचरितहेतुत्वात्वा यथासुखं कृतमिति । भुवि ग्रहचरितं भूग्रहचरितम् । न अन्यलोके ग्रहचरितनिबन्धनमस्ति यतः दशगीतिकसूत्रं तेन उच्यते भूग्रहचरितम् । भपञ्जरे ज्ञात्वा । भपञ्जरः गोलः, तस्मिन् गोले तत्ग्रहचरितं ज्ञात्वा, अवगम्य, ग्रहाणां स्फुटगतेः प्रतिपत्तिहेतुः यतः गोलः, एतत्ग्रहाणां भानां च परिभ्रमणमार्गं भित्त्वा परं ब्रह्म याति । यः गोले समग्रं दशगीतिकसूत्रप्रतिबद्धं ग्रहचरितं जानाति स परं ब्रह्म याति इति ॥ १३ ॥ दशगीतिकसूत्रर्था व्याख्याता भास्करेण मन्दधियाम् । प्रतिपत्तये प्रकामं सर्वः हि समानभूतये यतते ॥ इति भास्करस्य कृतौ दशगीतिकासूत्रव्याख्या परिसमाप्ता ॥ ङणितपादः [मङ्गलाचरणम् ] यन्नामसंस्मरणमात्रभवाभवानि श्रेयःऽशुभानि विबुधासुरमानवानाम् । तस्मै सकृष्णकमलोद्भवमौलिघृष्ट- पादारविन्दयुगलाय नमः शिवाय ॥ १ ॥ आचार्यार्यभटः तपोभिः अमलैः आराध्य पद्मोद्भवम् यत्लेभे ग्रहचारसारविषयं बीजं महार्थं स्फुटम् । तस्य अतीन्द्रियगोचरार्थनिपुणस्पष्टोरुसद्वस्तुनः व्याख्यानं गुरुपादलब्धमधुना किञ्चित्मया लिख्यते ॥ २ ॥ [ प्रतिपाद्यवस्तुनिर्देशः ] अथ आचार्यार्यभटमुखारविन्दविनिस्सृतं पदार्थत्रयम् - गणितम्, कालक्रिया, गोलः इति यतेतत्गणितं तत्द्विविधं चतुर्षु सन्निविष्टम् । वृद्धिः हि अपचयः च इति द्विविधम् । वृद्धिः संयोगः, अपचयः ह्रासः । एताभ्यां भेदाभ्यामशेषगणितं व्याप्तम् । आह च - संयोगभेदा गुणनागतानि शुद्धेः च भागः गतमूलमुक्तम् । व्याप्तं समीक्ष्य उपचयक्षयाभ्यां विद्यातिदं द्व्यात्मकमेव शास्त्रम् ॥ संयोगस्य वृद्धेः, भेदाः गुणनागतानि । तानि च - असदृषयः राश्योः अभ्यासः गुणना, यथा चतुर्णां पञ्चानां च विंशतिः । गतं सदृशाभ्यासः वर्गः घनः च । द्विगतं वर्गः, यथा चतुर्णां चतुर्णां च षोडश । एवं त्रिगतं घनः, यथा चतुर्णां चतुर्णां चतुर्णाञ्च चतुष्षष्टिः । "शुद्धेः च" इति अत्र योगार्थं चकारः पठ्यते । तेन श्रेढीकुट्टाकारादिषु लोके च अनियतस्वरूपवृद्धिः सा च परिगृहीता भवति । शुद्धेः च भागः गतमूलमुक्तम् । शुद्धेः अपचयस्य भेदः भागः, गतानां मूलानि च । अत्र अपि श्रेढीकुट्टाकारादि[षु] लोके च अनियतस्वरूपः अपचयः चकारातेव परिगृह्यते । एवं शास्त्रे, लोके च न सः अस्ति गणितप्रकारः यः अयं वृद्ध्यात्मकः अपचयात्मकः वा न भवति । यदि एवमत्र कथं प्रक्रिया परिकल्पनीया? यत्र चतुर्भागः पञ्चभागेन गुणितः जातः विंशतिभागः । इयं च गुणना संयोगस्य भेदः उच्यते । स च अयं शुद्धेः भेदः आपतितः । यत्र चतुर्भागेन विंशतिभागस्य भागः, तत्र दृष्टः पञ्चभागः । एवमयं शुद्धेः भेदः संयोगभेदः आपतितः । उभयत्र परिगारः उच्यते - [ एकायामविस्तारे चतुरश्रक्षेत्रे विंशत्यायातचतुरश्रक्षेत्राणि । ] तत्र एकस्य आयामः पञ्चभागः, विस्तारः चतुर्भागः । तयोः अभ्यासः फलं क्षेत्रस्य विंशतिभागः । विंशतिभागस्य चतुर्भागः पञ्चभागः इति न दोषः । एवं क्षेत्रगणिते परिहारः । राशिगणिते परिहारार्थं यत्नः करणीयः । अपरः आह - "गणितं राशिक्षेत्रं द्विधा" । एवं करणीपरिकर्म - कर्णभुजयोः समत्वं करोति यस्मात्ततः करणी । गणितं द्विप्रकारम् - राशिगणितं क्षेत्रगणितम् । अनुपातकुट्टाकारादयः गणितविशेषाः राशिगणिते अभिहिताः, श्रेढीच्छायादयः क्षेत्रगणिते । ततेवं राश्याश्रितं क्षेत्राश्रितं वा अशेषं गणितम् । यतेतत्करणीपरिकर्म तत्क्षेत्रगणिते एव । यदि अपि अन्यत्रे करणीपरिकर्म, तथा अपि तस्य न कर्णबुजाकोटिप्रतिपादकत्वमिति न दोषः । एतत्च करणीपरिकर्मत्वं यत्कर्णादिप्रतिपादकत्वम् । चतुर्षु सन्निविष्टम्, चत्वारि बीजानि, तेषु सन्निविष्टाम् । उक्तं गणितम् । कालक्रियागोलौ तत्र तत्र एव उपदेक्ष्यामः । अत्र आचार्यार्यभटः शास्त्रमारभमाणः चेतसि इष्टदेवताप्रणामः हि भक्त्या प्रयुक्तः - ब्रह्म-कु-शशि-बुध-भृगु-रवि- कुज-गुरु-कोण-भगणान्नमस्कृत्य । आर्यभटः तु इह निगदति कुसुमपुरे अभ्यर्चितं ज्ञानम् ॥ १ ॥ ब्रह्मा अस्य इष्टदेवता । इष्टदेवताप्रणामः हि भक्त्या प्रयुक्तः स्वाभिः लाषतेष्टकार्यविघातिनः विघ्नान् विनिहन्ति । अथवा देवासुरमुकुटमणिमयूखमालालङ्कृतचरणत्वात्सर्वासां देवतानां प्रधानतमः ब्रह्मा, अतः तस्य आदौ नमस्क्रियां कृतवानाचार्यः । अथवा आचार्येण स्वायंभुवसिद्धान्तसंक्षेपवस्तुरचना प्रस्तुता, स्वायंभुवसिद्धान्तस्य च विधाता भगवान् वेधाः, ततः अस्य युज्यते प्रथमं प्रणामः तं कर्तुम् । अक्षदेशान्तरायत्ता ग्रहगतिः, तौ च अक्षदेशान्तरविशेषौ भूवशातिति ततनन्तरं नमस्कृतवान् भुवम् । शश्यादीनुपरि उपरि अवस्थितान् तद्गतिनिबन्धनत्वात्शास्त्रस्य इति नमस्कृतवान् । ब्रह्मा च कुः च शशी च बुधः च भृगुः च रविः च कुजः च गुरुः च कोणः च भगणाः च ब्रह्म-कु-शशि-बुध-भृगु-रवि-कुज-गुरु-कोण-भगणाः । अतः तान् ब्रह्म-कु-शशि-बुध-भृगु-रवि-कुज-गुरु-कोण-भगणान्, नमस्कृत्य प्रणम्य इति अर्थः । भानि ज्योतींषि अश्विन्यादीनि, तेषां गणः भगणः । यतत्र शश्यादीनामुपरि उपरि अवस्थाने वक्तव्यं तत्कालक्रियापादे वक्ष्यामः । आर्यभटः इति स्वसंज्ञाभिधानेन अन्याः स्वायंभुवसिद्धान्तानुसारिण्यः कृतयः सन्ति इति एतत्प्रदर्शयति । तेन बहुत्वात्स्वायांभुवसिद्धान्तानुसारिणीनां कृतीनां केन इयं कृतिः कृता इति न ज्ञायते । अतः स्वसंज्ञाभिधानम् । यथा "कौटिल्येन कृतं शास्त्रम्" इति [अर्थशास्त्रम्, १.१.१९] । "तु"-शब्दः पादपूरणे । ["इह"-शब्दः] अस्य पुरम् प्रदर्शयति । निगदति ब्रवीति । कुसुमपुरे अभ्यर्चितं ज्ञानम् । कुसुमपुरं पाटलिपुत्रम्, तत्र अभ्यर्चितं ज्ञानं निगदति । एवमनुश्रूयते - अयं किल स्वायंभुवसिद्धान्तः कुसुमपुरनिवासिभिः कृतिभिः पूजितः, सत्सु अपि पौलिश-रोमक-वासिष्ठ-सौर्येषु । तेन आह - "कुसुमपुरे अभ्यर्चितं ज्ञानम्" इति ॥ १ ॥ [ सङ्ख्यास्थाननिरूपणम् ] सङ्ख्यास्थाननिरूपणार्थमाह - एकं च दश च शतं च सहस्रं तु अयुतनियुते तथा प्रयुतम् । कोट्यर्बुदं च वृन्दम् स्थानात्स्थानं दशगुणं स्यात् ॥ २ ॥ लघ्वर्थं सङ्ख्यास्थानानि प्रक्रम्यन्ते । अन्यथा हि सङ्ख्यास्थान निरूपणाभावात्गुरुः गणितविधिः स्यात् । कथम्? रूपबहुत्वस्थापनायां रूपाणि बहूनि स्थापयितव्यानि भवन्ति । सत्यां पुनः स्थानकल्पनायां यत्रूपैः बहुभिः निर्वर्त्यं कर्म ततेकेन एव निर्वर्तयितुं शक्यते । एकं च दश च शतं च सहस्रम् । एतेषामेकदशशतसहस्राणां प्रथमद्वितीयतृतीयचतुर्थानि स्थानानि । तु पादपूरणे । अयुतनियुते अयुतं च नियुतं च अयुतनियुते । अयुतस्य पञ्चमं स्थानम् । दशसहस्राणि अयुतम् । नियुतस्य षष्ठं स्थानम् । नियुतं लक्षः । तथा तेन एव प्रकारेण प्रयुतस्य सप्तमं स्थानम् । दशलक्षाः प्रयुतम् । कोटिः, कोट्याः अष्टमं स्थानम् । लक्षाः शतम्, कोटिः । अर्बुदम्, अर्बुदस्य नवमं स्थानम् । दशकोट्यः अर्बुदम् । वृन्दम्, वृन्दस्य दशमं स्थानम् । कोटिशतं वृन्दम् । स्थानात्स्थानं दशगुणं स्यात् । स्थानात्स्थानमन्यत्दशगुणं स्वपरिकल्पितस्थानातुत्तरं स्थानं दशगुणं भवति इति यावत् । किमर्थमिदमुच्यते । ननु च एतानि स्थानानि अनन्तरापेक्षया दशगुणानि एव । यदि एभ्यः अन्यस्थानपरिग्रहार्थं वचनं तथा सति स्थानाभिधानमनर्थकम् । कुतः? स्थानात्स्थानं दशगुणं स्यातिति अनेन एव अभिहिता, अभिहितस्थानपरिग्रहस्य सिद्धत्वात् । न एषः दोषः । स्थानात्स्थानं दशगुणम् स्यातिति एतत्लक्षणम् । एकादीनि स्थानानि अस्य लक्षणस्य उदाहृतानि । न एततस्ति । न हि सूत्रकाराः संक्षेपविवक्षवः लक्षणमुदाहरणं ब्रूयुः । न एवं विज्ञायते । यदा लक्षणमुदाहरणं च निरर्थकं तर्हि एकादिवृन्दानतायाः सङ्ख्यायाः संज्ञाः निरूप्यन्ते । स्थानात्स्थानं दशगुणमिति एकादिसंख्यायाः स्थाननिरूपणमात्रमेव उपदिश्यते, उपयोगाभावात्न सङ्ख्यासंज्ञा । अत्र एतत्प्रष्टव्यम् - का एषां स्थानानां शक्तिः, यतेकं रूपं दश शतं सहस्रं च भवति । सत्यां च एतस्यां स्थानशक्तौ क्रायकाः विशेषेष्टक्रय्यभोजनाः स्युः । क्रय्यं च विवक्षातः अल्पं बहु च स्यात् । एवं च सति लोकव्यवहारान् यथाभावप्रसङ्गः । न एषः दोषः । स्थाने व्यवस्थितानि र्तूपाणि दशादीनि कृतानि । किं तर्हि तैः? तानि प्रतिपाद्यन्ते लेखागमन्यायेन । अथवा लघ्वर्थं स्थानानि प्रक्रम्यन्ते इति उक्तमस्माभिः । न्यासः च स्थानानाम् - ० ० ० ० ० ० ० ० ० ० ॥ २ ॥ [ वर्गपरिकर्म ] वर्गपरिकर्मप्रदर्शनाय आर्यापूर्वार्धमाह - वर्गः समचतुरश्रः फलं च सदृशद्वयस्य संवर्गः । वर्गः करणी कृतिः वर्गणाः यावकरणमिति पर्यायाः । समाश्चतस्रः अश्रयः यस्य सः अयम् [सम]चतुरश्रः क्षेत्रविशेषः, स वर्गः । समचतुरश्रक्षेत्रविशेषः संज्ञी, वर्गः संज्ञा । अत्र संज्ञिसंज्ञयोः अभेदेन उपचारेण उच्यते "वर्गः समचतुरश्रः" इति । यथा "मांसपिण्डः देवदत्तः" इति । अन्यथा अत्र यावान् समचतुरश्रक्षेत्रविशेषः तस्य सर्वस्य अनिष्टस्य अपि वर्गसंज्ञाप्रसङ्गः । क्व अन्यत्र अनिष्टस्य समचतुरश्रक्षेत्रविशेषस्य वर्गसंज्ञाप्रसङ्गः? उच्यते - असमकर्णस्य परिलेखौ १ & २ समचतुरश्रक्षेत्रविशेषस्य अस्य (परिलेखः १) । द्विसमत्र्यश्रक्षेत्रस्य समुन्नतवदवस्थितस्य अस्य (परिलेखः २) । वर्गसंज्ञाप्रसङ्गे कः दोषः? उच्यते - "फलं च सदृशद्वयस्य संवर्गः" इति सदृशद्वयस्य संवर्गः फलं प्राप्नोति, न च इष्यते एवम् । क्व तर्हि? कर्णग्रहणं कर्तव्यम्; वर्गः समकर्णसमचतुरश्रक्षेत्रविशेषः इति । अथवा तुल्यसङ्ख्याभ्यां कर्णाभ्यामुपलक्षितस्य एव समचतुरश्रक्षेत्रविशेषस्य वर्गसंज्ञा जिज्ञास्यते । कुतः? न अनिष्टार्थत्वात्शस्त्रप्रवृत्तेः । अथवा न एव लोके एवमाकारविशिष्टस्य समचतुरश्रक्षेत्रस्य समचतुरश्रसंज्ञा सुसिद्धा । आयतचतुरश्रक्षेत्रादिषु वर्गकर्मणः अस्तित्वात्तेषामसमचतुरश्राणामपि वर्गसंज्ञाप्रसङ्गः । न एषः दोषः । तेशु अपि यः वर्गः स समचतुरश्रक्षेत्रफलम् । तत्यथा - समचतुरश्रक्षेत्रमालिख्य अष्टधा विभज्य त्रिकचतुष्कविस्तारायामानि चत्वारि आयतचतुरश्रक्षेत्राणि पञ्चकर्णानि परिकल्पयेत् । तत्र एवं परिकल्पितचतुरश्रायतचतुरश्रक्षेत्रकर्णबाहुकं समचतुरश्रं क्षेत्रं मध्ये अवतिष्ठते । यः तत्र आयतचतुरश्रक्षेत्रकर्णायतवर्गः, स च अन्तःसमचतुरश्रक्षेत्रे फलम् । त्रिभुजे अपि एततेव दर्शनम्, अर्धायतचतुरश्रत्वात्त्रिभुजस्य । दुर्विदग्धप्रत्यायनाय च क्षेत्रमालिख्यते - परिलेखः ३ अस्माद्यः यः वर्गः समचतुरश्रक्षेत्रविशेषः । एवं फलं च सदृशद्वयस्य संवर्गः । संवर्गः इति अस्य समचतुरश्रस्य क्षेत्रफलं निरुच्यते । सदृशस्य द्वयं सदृशद्वयम् । अथवा सदृशद्वयं च तद्द्वयं च समसदृशद्वयम् । सदृशद्वयस्य संवर्गः । संवर्गः घातः गुणना हतिरुद्धर्तना इति पर्यायाः । सदृशद्वयसंवर्गः फलं तस्य समचतुरश्रस्य । सदृशद्वयसंवर्गः इति अत्र इष्टबाहुवचनं कर्तव्यम् । अन्यथा हि ययोः कयोश्चित्सदृशयोः संवर्गः फलं प्राप्नोति । न एततस्ति । नहि फलार्थी अन्यक्षेत्रमुद्दिश्य अन्ययोः अभ्यासं करोति । न हि ओदनार्थी पांसूनादत्ते । उद्देशकः - एकादिनवान्तानां वर्गाः ये तान् पृथक्पृथक्ब्रूहि । शतपादस्य च वर्गं शतस्य तेन एव युक्तस्य ॥ १ ॥ न्यासः - १, २, ३, ४, ५, ६, ७, ८, ९; शतपादः २५, शतमनेन युक्तम् १२५ । यथासङ्ख्येन एकादिनवान्तानां फलं च "सदृशद्वयस्य संवर्गः" इति लब्धाः वर्गाः, न्यासः - १, ४, ९, १६, २५, ३६, ४९, ६४, ८१ । एवमेषां लक्षणानि सूत्राणि - अन्त्यपदस्य च वर्गं कृत्वा द्विगुणं ततेव च अन्त्यपदम् । शेषपदैः आहन्यातुत्सार्य उत्सार्य वर्गविधौ ॥ इति, तैः एकादिनवान्तानां रूपाणां वर्गसङ्ख्या वक्तव्या । कुतः? अज्ञातायां वर्गसङ्ख्यायां यतः अन्त्यपदस्य वर्गसङ्ख्या न शक्यते न्यस्तुम् । अस्माकं पुनः सर्वं लक्षणेन एव संगृहीतम् । शतपादस्य वर्गः ६२५; शतस्य तेन एव युक्तस्य १५६२५ । भिन्नवर्गः अपि एवमेव । किन्तु सदृशीकृतयोः छेदांशराश्योः पृथक्पृथक्वर्गं कृत्वा छेदराशिवर्गेण अंशराशिवर्गस्य भागलब्धं भिन्नवर्गः । उद्देशकः - षण्णां सचतुर्थानां रूपस्य च पञ्चभागसहितस्य । रूपद्वितयस्य च मे ब्रूहि कृतिं नवमहीनस्य ॥ २ ॥ न्यासः - ६ १ २ १ १ १ ४ ५ ९¡ करणम् - "छेदगुणं सांशम्" इति २५ ४ । एतयोः छेदांशयोः रास्योः पृथक्पृथक्वर्गराशी १६, ६२५. छेदराशिवर्गेण अंशराशिवर्गं हृत्वा लब्धम् ३९ १ १६ । एवं शेषयोः अपि यथासङ्ख्येन १ ३ ११ ४६ २५ ८१ ॥ २ ॥ [ घनपरिकर्म ] घनपरिकर्मप्रदर्शनाय आर्यापरार्धमाह - सदृशत्रयसंवर्गः घनः तथा द्वादशाश्रितः स्यात् ॥ ३ ॥ [ सदृशत्रयस्य संवर्गः ] सदृशत्रयसंवर्गः । सदृशत्रयसंवर्गः घनः भवति । घनः वृन्दं सदृशत्रयाभ्यासः इति पर्यायाः । स च द्वादशाश्रितः । द्वादश अश्रयः यस्य स अयं द्वादशाश्रितः, स्यात्भवेत् । "तथा"शब्देन समचतुरश्रतां घनस्य प्रतिपादयति । न एततस्ति । अन्तरेण अपि "तथा"शब्दमस्य घनस्य समचतुरश्रता शक्यते एव प्रतिपत्तुम् । कुतः ? सदृशत्रयसंवर्गः इति अनेन समचतुरश्रक्षेत्रफलस्य तत्क्षेत्रवाहुसडृशम् एव उच्छ्रायमाचष्टे, यस्मात्क्षेत्रफलमुच्छ्रायगुणितं घनफलम् । अथवा "वर्गः समचतुरश्रः" इति अत्र अधिकृतं समचतुरश्रग्रहणमनुवर्तते, अश्रयः यस्य मृदा अन्येन वा प्रदर्शयितव्याः । उद्देशकः - एकादिनवान्तानां रूपाणां मे घनं पृथक्ब्रूहि । अष्टाष्टाकवर्गघनं शतपादकृतेः कृतेः च अपि ॥ ३ ॥ न्यासः - १, २, ३, ४, ५, ६, ७, ८, ९; अष्टाष्टकवर्गः ४०९६; शतपादकृतेः कृतिः ३९०६२५ । एकादिनवान्तानाम् "सदृशत्रयसंवर्गः घनः" इति यथासङ्ख्येन लब्धाः घनाः १, ८, २७, ६४, १२५, २१६, ३४३, ५१२, ७२९ । अत्र अपि येषाम् "अन्त्यपदस्य घनं स्यात्" इत्यादि लक्षणसूत्रम्, तेषामेकादीनां घनसङ्ख्या वक्तव्या । कुतः ? अनिर्ज्ञातायां घनसङ्ख्यायां यतः हि अन्त्यपदस्य घनसङ्ख्या न्यस्तुं न शक्यते । अष्टाष्टकवर्गस्य [घनः] ६८७१९४७६७३६, शतपादस्य कृतेः कृतेः अपि ५९६०४६४४७७५३९०६२५ । भिन्नघनः अपि एवमेव । उद्देशकः - षट्पञ्चदशाष्टानां तावत्भागैः विहीनगणितानाम् । घनसङ्ख्यां वद विशदं यदि घनगणिते मतिविशदा ॥ ४ ॥ न्यासः - ५ ४ ९ ७ ५ ४ ९ ७ ६ ५ १० ८ लब्धाः यथासङ्ख्येन घनाः - १९८ ११० ९७० ४८८ १०७ ७४ २९९ १९१ २१६ १२५ १००० ५१२ [ वर्गमूलम् ] वर्गमूलानयनाय आह - भागं हरेतवर्गात्नित्यं द्विगुणेन वर्गमूलेन । वर्गात्वर्गे शुद्धे लब्धं स्थानान्तरे मूलम् ॥ ४ ॥ भागः हृतिः भजनमपवर्तनमिति पर्यायाः । तं भागम्, हरेत्गृह्णीयात् । कस्मात्स्थानात्प्रभृति इति आह - अवर्गात्, न वर्गः अवर्गः, तस्मातवर्गात् । अत्र गणिते विषमं स्थानं वर्गः । तस्य एव नञा विषमत्वे प्रतिषिद्धे अवर्गः इति समं स्थानम्, यतः हि विषमं समं च स्थानम् । केन भागं हरेतिति आह - नित्यं द्विगुणेन वर्गमूलेन । द्वौ गुणः यस्य तत्द्विगुणम् । किं तत्? वर्गमूलम् । तेन द्विगुणेन वर्गमूलेन । कथम् पुनर्तत्वर्गमूलं लभ्यते इति आह - वर्गात्वर्गे शुद्धे लब्धं स्थानान्तरे मूलम् । वर्गात्विषमस्थानात्, शुद्धे वर्गे वर्गगणिते इति अर्थः, यतत्र लब्धं तत्स्थानान्तरे मूलसंज्ञं भवति । स्थानातन्यस्थानं स्थानान्तरम्, तस्मिन् स्थानान्तरे तस्य लब्धस्य मूलसंज्ञा । यत्र पुनः स्थानान्तरमेव न विद्यते, तत्र तस्य तत्र एव मूलसंज्ञा । कुतः ? स्थानान्तरस्य असम्भवात् । एततेव सूत्रं पुनर्पुनरावर्तये यावत्परिसमाप्तं गणितकर्म इति । उद्देशकः - एकादीनां मूलं वर्गाणां पूर्वदृष्टसङ्ख्यानाम् । इच्छामि सखे ज्ञातुं शरयमरसवर्गराशेः च ॥ १ ॥ न्यासः - १, ४, ९, १६, २५, ३६, ४९, ६४, ८१, ६२५ । पृथक्पृथक्यथासङ्ख्येन वर्गमूलानि लब्धानि - १, २, ३, ४, ५, ६, ७, ८, ९, २५ । भिन्नमूलानयने उद्देशकः - षण्णां सचतुर्थानां त्रयोदशानाम् [स]चतुर्नवांशानाम् । विगणय्य वर्गमूले वद भटसङ्ख्यानुसारेण ॥ २ ॥ न्यासः - ६ १३ १ ४ ४ ९ करणम् - छेदोपरिराश्योः अभ्यासं कृत्वा अंशं प्रक्षिपेत् । जातम् २५ । १२१ ४ । ९ । एतयोः अंशच्छेदराश्योः पृथक्पृथक्मूले ५ । ११ २ । ३ । छेदराशिमूलेन अंशराशिमूलस्य भागलब्धं भिन्नवर्गमूलम् २ १ २ , त्रयोदशानां सचतुर्नवांशानां च भिन्नवर्गमूलम् ३ २ ३ ॥ ४ ॥ [ घनमूलम् ] घनमूलानयनाय आह - अघनात्भजेत्द्वितीयात् त्रिगुणेन घनस्य मूलवर्गेण । वर्गः त्रिपूर्वगुणितः शोध्यः प्रथमात्घनः च घनात् ॥ ५ ॥ न घनः अघनः, तस्मातघनात् । [भजेत्] भागं हरेत्, भागं गृह्णीयातिति अर्थः । अघनस्थानस्य अनेकत्वाताह - द्वितीयात् । अत्र गणिते घनः एकः, द्वौ अघनौ । कुतः एतत्घनः एकः द्वौ अघनौ इति उच्यते - "वर्गः त्रिपूर्वगुणितः शोध्यः प्रथमातघनात्" इति प्रथमाघनसिद्धिः, "अघनात्भजेत्द्वितीयात्" इति द्वितीयाघनसिद्धिः । घनः पुनरेकः एव, द्वितीयस्य अश्रवणात् । अघनात्द्वितीयात्प्रभृति केन भागं हरेतिति आह - त्रिगुणेन घनस्य मूलवर्गेण । त्रयः गुणाः अस्य त्रिगुणः । कः ? घनस्य मूलवर्गः । तेन त्रिगुणेन घनस्य मूलवर्गेण । वर्गः त्रिपूर्वगुणितः सोध्यः प्रथमात् । वर्गः त्रिभिः पूर्वेण च राशिना गुणितः त्रिपूर्वगुणितः । कस्य वर्गः ? लब्धस्य इति वाक्यशेषः । शोध्यः । शोधयितव्यः । प्रथमातघनातिति सम्बन्धनीयम् । घनः च घनात् । घनः च शोधयितव्यः । कुतः ? घनात् । घनस्थानात् । ततः घनमूलं भवति इति अध्याहार्यम् । अत्र इदमेव घनराशिं दृष्ट्वा घनः एकः द्वौ अघनौ इति विगणय्य यत्र घनः तस्मात्घनमूलं पूर्वमेव कुर्यात्, घनः च घनात्शोध्यः इति अनेन । ततः सर्वमिदमार्यासूत्रमुपस्थितं भवति, "अघनात्भजेत्द्वितीयात्" इत्यादि । उद्देशकः - एकादीनां मूलं घनराशीनां पृथक्तु मे ब्रूहि । वस्वश्विमुनीन्दूनां घनमूलं गण्यतामाशु ॥ १ ॥ न्यासः - १, ८, २७, ६४, १२५, २१६, ३४३, ५१२, ७२९, ९७२८. लब्धं घनमूलं यथासङ्ख्येन १, २, ३, ४, ५, ६, ७, ८, ९, १२. उद्देशकः - कृतयमवसुरन्ध्ररसाब्धिरूपरन्ध्राश्विनागसङ्ख्यस्य । मूलं घनस्य सम्यक्वद भटशास्त्रानुसारेण ॥ २ ॥ न्यासः - ८२९१४६९८२४ । लब्धं घनमूलम् २०२४ । एवमेव भिन्नघनमूलानयने अपि उद्देशकः - मूलं त्रयोदशानां पञ्चघनांशैः त्रिशून्यरूपाख्यैः । अधिकानां भिन्नाख्यं विगण्यतां सङ्ख्यया सम्यक् ॥ ३ ॥ न्यासः - १३ १०३ १२५ । लब्धं घनमूलम् २ २ ५ ॥ ५ ॥ [त्रिभुजक्षेत्रफलम् ] अथ त्रिभुजक्षेत्रफलानयनार्थमाह - त्रिभुजस्य फलशरीरं समदलकोटीभुजार्धसंवर्गः । तिस्रः भुजाः यस्य क्षेत्रस्य ततिदं क्षेत्रं त्रिभुजम् । भुजा बाहुः पार्श्वमिति पर्यायाः । तत्र त्रीणि क्षेत्राणि सम-द्विसम-विषमाणि । "त्रिभुजस्य" इति त्रिभुजक्षेत्रजातिमङ्गीकृत्य एकवचननिर्देशः । तस्य त्रिभुजस्य । फलशरीरम् । फलस्य शरीरं फलशरीरम्, फलप्रमाणमिति अर्थः । समदलकोटीभुजार्धसंवर्गः । समदलकोटी, अवलम्बकः । अत्र केचित्- समे दले यस्याः सा इयं समदला, समदला च असौ कोटी च समदलकोटी इति वर्णयन्ति । तेशां सम-द्विसमत्र्यश्रक्षेत्रयोः एव फलसिद्धिः, न विषमत्र्यश्रक्षेत्रस्य । अस्माकं पुनर्समदलकोटी इति अनेन अवलम्बकव्युत्पत्त्या ब्रुवतां त्रयाणामपि फलानयनं सिद्धम् । अथवा ये व्युत्पत्तिं कुर्वन्ति तेषामपि त्रयाणां त्र्यश्रक्षेत्राणां फलानयनं सिद्धमेव । कुतः ? "रूढेषु क्रिया व्युत्पत्तिकर्मार्था न अर्थक्रिया" इति । भुजायाः अर्धं भुजार्धम् । अथ अत्र भुजाशब्देन भुजा बाहुः पार्श्वमिति सामान्येन त्रयाणां पार्श्वानाम् प्रतिपत्तौ प्रसक्तायां विशिष्टा एव भुजा परिगृह्यते, भुजासंज्ञिता । "सामान्यचोदनाः च विशेषे अवतिष्ठन्ते" इति । अत्र गणिते भुजाशब्दः औणादिकः प्रतिपत्तव्यः, अन्यथा हि "भुजान्युब्जौ पाण्युपतापयोः" [अष्टाध्यायी, ७.३.६१ ] इति भुजाशब्दस्य पाणावर्थे निपातितत्त्वात्क्षेत्रपार्श्वे न लभ्यते । तस्याः भुजायाः अर्धं भुजार्धम् । समदलकोट्या भुजार्धस्य च संवर्गः समदलकोटीभुजार्धसंवर्गः, त्रिभुजस्य फलशरीरं भवति । उद्देशकः - सप्ताष्टनवभुजानां क्षेत्राणां यत्फलं समानां तु । पञ्चश्रवणस्य सखे षड्भूसङ्ख्यद्वितुल्यस्य ॥ १ ॥ न्यासः - परिलेखः ४ एतानि त्रीणि समानि । द्विसमस्य अपि न्यासः - परिलेखः ५ करणम् - "समत्र्यश्रिक्षेत्रे समा एव अवलम्बकस्थितिः" इति भूम्यर्धमाबाधा ३ १ २ । "यः च एव भुजावर्गः कोटीवर्गः च कर्णवर्गः सः" [गणित¡, १७ ] इति भुजाकोट्योः वर्गौ कर्णवर्गः । तेन, भुजावर्गे कर्णवर्गात्शुद्धे शेषं समदलकोटीवर्गः ३६ ३ ४, समदलकोटी करण्यः ३६ ३ ४ इति । भुजार्धमपि करण्यः १२ १ ४ । तेन, करण्योः संवर्गः अस्ति इति लब्धं क्षेत्रफलम् "समदलकोटीभुजार्धसंवर्गः" इति करण्यः ४५० ३ १६ । शेषयोः अपि समयोः एवमेव यथासङ्ख्येन फलम् [करण्यः ७६८ ], करण्यः १२३० ३ १६ । द्विसमत्र्यश्रिक्षेत्रस्य अपि "समा एव अवलम्बकस्थितिः" इति आबाधा ३, समदलकोटी पूर्वकरणेन एव ४, फलमपि तेन एव करणेन १२ । उद्देशकः - कर्णौ द्वौ दश निर्दिष्टौ धात्री [च] तस्य षोडश प्रोक्ता । द्विसमस्य तस्य वाच्यं फलसङ्ख्यानं प्रयत्नेन ॥ २ ॥ न्यासः - परिलेखः ६ लब्धं पूर्वकरणेन फलम् ४८ । विषमत्रिभुजक्षेत्रेषु उद्देशकः - कर्णः त्रयोदश स्यात्पञ्चदशान्यः मही द्विसप्ता एव । विषमत्रिभुजस्य सखे फलसङ्ख्या का भवेतस्य ॥ ३ ॥ न्यासः - परिलेखः ७ करणम् - भुजयोः वर्गविशेषः तयोः वा समासविशेषाभ्यासः त्रिभुजक्षेत्रे आबाधान्तरसमासविशेषाभ्यासः भवति । भूम्या आबाधान्तरसमासप्रमाणया विभज्य लब्धं भूमौ एव संक्रमणम् । "अन्तरयुक्तं हीनं दलितम्" इति [गणित¡, २४ ] । अनेन क्रमेण आबाधान्तरप्रमाणे लभ्येते । ताभ्यामाबाधान्तरप्रमाणाभ्यां विषमत्रिभुजस्य समदलकोट्यानयनम् । तत्यथा - भुजयोः वर्गराशी १६९, २२५ । एतयोः विशेषः ५६ । भुजयोः एकीभावः २८, तयोः विशेषः २ । तयोः अभ्यासः इति [भुजयोः वर्गविशेषः] आबाधान्तरसमासप्रमाणया भूम्या १४, अनया हृते लब्धम् ४, अनेन भुवा सह संक्रमणम् "अन्तरयुक्तं हीनम्" इति १८, १० । दलमिति यथाक्रमेण आबाधान्तरे १, ५ । एताभ्यां त्रिभुजक्षेत्रस्य अवलम्बकानयनम् - पञ्चदशकेन कर्णेन नवप्रमाणेन च आबाधान्तरेण लब्धा समदलकोटी १२; त्रयोदशप्रमाणेन कर्णेन पञ्चप्रमाणेन च आबाधान्तरेण लब्धा सा एव समदलकोटी १२ । फलम् "समदलकोटीभुजार्धसंवर्गः" इति भुजा भूमिः, तस्याः अर्धम् ७, समदलकोटीभुजार्धसंवर्गः इति फलमागतम् ८४ । उद्देशकः - पञ्चाशत्सा एका भूः त्रिंशत्सप्ताधिका भवेत्कर्णः । विंशतिः अन्यः प्रोक्तः विषमत्रिभुजस्य किं फलं वाच्यम् ॥ ४ ॥ न्यासः - परिलेखः ८ लब्धं पूर्वकरणेन च आबाधान्तरे १६, ३५, समदलकोटी १२, फलम् २०६ । [शडश्रिघनफलम् ] घनफलानयनार्थमस्य एव त्रिभुजक्षेत्रस्य आर्यापश्चार्धमाह - ऊर्ध्वभुजातत्संवर्गार्धं स घनः षडश्रिः इति ॥ ६ ॥ ऊर्ध्वभुजा क्षेत्रमध्यः उच्छ्रायः, ततिति क्षेत्रफलम्, ऊर्ध्वभुजायाः तस्य च संवर्गः ऊर्ध्वभुजातत्संवर्गः, तस्य अर्धमूर्ध्वभुजातत्संवर्गार्धम् । स घनः घनफलमिति यावत्, स च षडश्रिः । षडश्रयः यस्य सः षडश्रिः घनः । अथ निर्ज्ञाते ऊर्ध्वभुजाप्रमाणे घनफलमूर्ध्वभुजातत्संवर्गार्धमिति शक्यते वक्तुम्, न च अनिर्ज्ञाते । सत्यमेव एतत् । किन्तु अत्र निर्ज्ञातमेव ऊर्ध्वभुजाप्रमाणम् । कुतः ? शास्त्रे तदानयनोपायप्रदर्शनात् । तत्यथा - ऊर्ध्वभुजा हि नाम क्षेत्रमध्यः उच्छ्रायः इति प्रत्यक्षम् । स च तिर्यगवस्थितस्य शृङ्गाटकक्षेत्रबाहोः कर्णवदवस्थितस्य कोटिः, भुजाकर्णमूलक्षेत्रकेन्द्रान्तरालम् । तदानयने त्रैराशिकम् - यदि त्रिभुजक्षेत्रावलम्बकेन त्रिभुजक्षेत्रबाहुः लभ्यते तदा तस्य एव त्रिभुजक्षेत्रबाहुदलसङ्ख्यकस्य अवलम्बकस्य कियान् बाहुः इति । एतत्कर्णभुजाकोटित्रैराशिकविधानं प्रदेशान्तरप्रसिद्धमेव इति न अत्र अभिहितम् । स च प्रदेशः "यः च एव भुजावर्गः कोतीवर्गः च कर्णवर्गः सः" [गणित¡, १७] इति, "त्रैराशिकफलराशिं तमथ इच्छाराशिना हतम्" [गणित¡, २६ ] इति च । उद्देशकः - शृङ्गाटकघनगणितं द्वादशगणिताश्रितस्य यत्च अस्य । ऊर्ध्वभुजापरिमाणं स्फुटतरमाचाक्ष्व मे शीघ्रम् ॥ १ ॥ न्यासः - परिलेखः ९ करणम् - यदि अष्टोत्तरशतकरणिकेन [अवलम्बकेन] चतुश्चत्वारिंशदुत्तरशतकरणिकः कर्णः लभ्यते, तदा षट्त्रिंशत्करणिकेन अवलम्बकेन कियान् कर्णः इति । त्रैराशिकोपपत्तिप्रदर्शनार्थं क्षेत्रनयासः - परिलेखः १० त्रैराशिकन्यासः च १०८, १४४, ३६ । [ एताः करण्यः ] लब्धः अन्तःकर्णः [करण्यः] ४८ । अयमेव कर्णः ऊर्ध्वमवस्थितत्रिभुज[क्षेत्रस्य भुजा] । कर्णकृतेः भुजावर्गविशेषः ऊर्ध्वभुजावर्गः । स च १६ । तत्र ऊर्ध्वभुजा सूत्रकैः शलाकादिभिः वा प्रदर्शयितव्या । क्षेत्रफलम् [करण्यः] ३८८८. एतासां क्षेत्रफलकरणीनामूर्ध्वभुजाकरणीनां च संवर्गार्धं घनः भवति । अर्धमिति अत्र करणित्वात्द्वयोः करणीभिः चतुर्भिः भागः ह्रियते । लब्धं घनफलं करण्यः ९३३१२ । उद्देशकः - अष्टादश कर्णानां सङ्ख्या शृङ्गाटकस्य निर्दिष्टा । ऊर्ध्वभुजागणिताग्रं जिज्ञासुः अहं सखे तस्य ॥ २ ॥ न्यासः - परिलेखः ११ ऊर्ध्वभुजा पूर्वकरणेन एव करण्यः २१६ । फलमपि पूर्ववतेव लब्धं करण्यः १०६२८८२ ॥ ६ ॥ [ वृत्तक्षेत्रफलम् ] अथ वृत्तक्षेत्रफलानयनार्थमाह - समपरिणाहस्य अर्धं विष्कम्भार्धहतमेव वृत्तफलम् । परिणाहः परिधिः । समः च असौ परिणाहः च समपरिणाहः, तस्य अर्धम् । अन्ये पुनरन्यथा विग्रहं कुर्वन्ति - समः परिणाहः यस्य क्षेत्रस्य तत्समपरिणाहम्, तस्य अर्धमिति । तेषां क्षेत्रफलार्धस्य ग्रहणं प्राप्नोति, अन्य-पादार्थेन समपरिणाहशब्देन क्षेत्राभिधानात् । विष्कम्भः व्यासः, तस्य अर्धं विष्कम्भार्धम्, तेन हतं विष्कम्भार्धहतम्, विष्कम्भार्धगुणितमिति यावत् । एवकारकरणमार्यापूरणार्थं प्रतिपत्तव्यम् । अथवा एवकारकरणेन उपायनियमः क्रियते । समपरिणाहस्य अर्धं विष्कम्भार्धहतमेव वृत्तफलम्, न अन्यतुपायान्तरमिति । न, एततस्ति, उपायान्तरश्रवणातन्यत्र "व्यासार्धकृतिः त्रिसङ्गुणा गणितम्" इति । न एततुपायान्तरं सूक्ष्मम्, किन्तु व्यावहारिकमिति । तस्मातेकमेव उपायान्तरम्, सूक्ष्मगणितानयनस्य न अन्यतिति । उद्देशकः - अष्टद्वादशषट्काः विष्कम्भाः तत्त्वतः मया दृष्टाः । तेषां समवृत्तानां परिधिफलं मे पृथक्ब्रूहि ॥ १ ॥ न्यासः - ८, १२, ६ परिलेखः १२ एतेषां त्रैराशिकेन वक्ष्यमाणविष्कम्भपरिधिप्रमाणफलाभ्याम् [गणित¡, १०] लब्धाः परिधयः यथाक्रमेण - २५ ३७ १८ ८३ ४३७ ५३१ ६२५ ६२५ ६२५ फलानयने करणम् - समपरिणाहस्य अर्धमिति विष्कम्भार्धं जातम् ४ । अनेन एव तत्समपरिणाहस्य अर्धम् १२ ३५४ ६२५ गुणितं वृत्तफलं जातम् ५० १६६ ६२५ अनेन एव करणेन शेषयोः परिध्योः यथासङ्ख्येन फले - ११३ २८ ६१ ३४३ ६२५ १२५० [गोलघनफलम्] घनफलप्रदर्शनार्थमाह - तत्निजमूलेन हतं घनगोलफलं निरवशेषम् ॥ ७ ॥ ततिति अनेन पूर्वार्धगणितनिष्पन्नं वृत्तक्षेत्रस्य तत्फलं परिगृह्यते । निजमूलमात्मनः मूलम् । यत्क्षेत्रफलं तत्स्वकीयेन मूलेन गुणितमिति यावत् । अथवा तत्क्षेत्रफलम्, निजमवितथमाम्नायाविरुद्धमिति अर्थः, मूलेन हतम्, अन्यस्य अश्रुतत्वात्स्वेन मूलेन तत्क्षेत्रफलं गुणितम् । निजमूलेन हतं निजमूलहतमिति विग्रहः । तत्पुनर्क्षेत्रफलं मूलक्रियमाणं करणित्वं प्रतिपद्यते, यस्मात्करणीनां मूल[मपेक्षितम्] । ततः पुनरपि करणीनामकरणीभिः संवर्गः न अस्ति इति क्षेत्रफलं करण्यते । एवमयमर्थः अर्थातवसीयते क्षेत्रफलवर्गः क्षेत्रफलेन गुणितः इति । घनः च असौ गोलः च घनगोलः, गोलः वृत्तम्, घनगोलस्य फलं घनगोलफलम् । निरवशेषम् । न किञ्चितनेन कर्मणा शिष्यते । येन अन्येन कर्मणा घनगोलफलमानयन्ति न तेन घनगोलफलं निरवशेषं भवति, व्यावहारिकत्वात्तस्य कर्मणः - व्यासार्धघनं भित्वा नवगुणितमयोगुडस्य घनगणितम् । इति । उद्देशकः - द्वौ पञ्च तथा पङ्क्तिः व्यासाः ज्ञेयाः क्रमेण वृत्तानाम् । घनगोलफलानि एषां जिज्ञासुः अहं समासेन ॥ १ ॥ न्यासः - परिलेखः १३ एषां परिधयः त्रैराशिकेन एव लब्धाः यथासङ्ख्येन - ६ १५ ३१ १७७ १७७ ५२ ६२५ २५० १२५ करणम् - पूर्वाभिहितगणितकर्मणा [द्वि]विष्कम्भक्षेत्रस्य यत्फलमायातम् ३ १७७ १२५० तस्य मूलमेततेव करणीगतमशुद्धकृतित्वात्प्रतिपत्तव्यम् । तत्च सवर्णितं जातम् ३९२७ १२५०. एतत्क्षेत्रफलवर्गेण गुणितं जातं घनफलं करण्यः ३१, करणीभागाः च १२६८३९८३ १९५३१२५००० । एवं शेषयोः अपि यथासङ्ख्येन घनफलकरण्यः करणीभागाः च - ७५६९४८४४७६ ७५५८९८३ ५८९८३ ८०००००० १२५००० [समलम्बचतुर्भुजफलम्] द्वि[सम-विषम]चतुरश्रादीनामन्तःकर्णयोः च अत्र सम्पातप्रमाणफलपरिज्ञानाय आर्यामाह - आयामगुणे पार्श्वे तद्योगहृते स्वपातेलेखे ते । विस्तरयोगार्धगुणे ज्ञेयं क्षेत्रफलमायामे ॥ ८ ॥ आयामः विस्तारः दैर्घ्यमिति पर्यायाः । आयामः गुणः ययोः ते आयामगुणे । के ते ? पार्श्वे । भूः एकं पार्श्वं मुखमितरम् । आयामगुणे भूवदने इति अर्थः । तयोः योगः तद्योगः । कयोः ? पार्श्वयोः । तद्योगहृते । के ? आयामघ्ने पार्श्वे । स्वस्य पातः स्वपातः, स्वपातयोः लेखे स्वपातलेखे । द्वे अपि पृथक्पृथक्लब्धे इति वाक्यशेषः । स्वपातलेखा नाम अन्तःकर्णयोः संपातस्य भूमुखमध्यस्य च अन्तरालम् । विस्तरः क्षेत्रस्य पृथुत्वम् । यदि एवं विस्तारः इति प्राप्नोति "प्रथने वाक्यशब्दे" [अष्टाध्यायी, ३.३.३३] इति घञि कृते । ने एषः दोषः । अयमवस्त्रे स्तरशब्दः, तेन विशब्देन समासान्तः असौ "विविधस्तरः विस्तरः" इति । विस्तरयोः योगः विस्तरयोगः, भूवदनयोगः इति अर्थः । विस्तरयोगस्य अर्धं विस्तरयोगार्धम्, विस्तरयोगार्धं गुणः यस्य स विस्तरयोगार्धगुणः । कः ? आयामः । तस्मिन् विस्तरयोगार्धगुणे आयामे क्षेत्रफलं ज्ञेयम् । विस्तरयोगार्धगुणः आयामः क्षेत्रफलम् इति यावत् । सम्यकनादिष्टेन आलिखिते क्षेत्रे स्वपातलेखाप्रमाणं त्रैराशिकगणितेन प्रतिपादयितव्यम् । तथा त्रैराशिकेन एव उभयपार्श्वे कर्णावलम्बकसम्पातानयनम् । पूर्वसूत्रेण अत्र द्विसमविषमत्र्यश्रक्षेत्रफलं दर्शयितव्यम् । वक्ष्यमाणसूत्रेण अन्तरायतचतुरश्रक्षेत्रफलानयनमनेन वा अन्येषु अपि क्षेत्रेषु यानि तेषामन्तर्वर्तीनि क्षेत्राणि तेषां कर्णावलम्बकादिसाधनं ततुपदिष्टलक्षणेन एव । न च तेषामन्यत्र अवस्थानमात्रात् एव अन्यत्करणं स्यात् । उद्देशकः - भूमिः चतुर्दश स्यात्वदनं चत्वारि च एव रूपाणि । कर्णौ त्रयोदशाग्रौ संपाताग्रं फलं च वद ॥ १ ॥ न्यासः - परिलेखः १४ करणम् - मुखभूमिविशेषार्धं भुजा [५] । तया भुजया पृथगुक्तगणितेन एव अवलम्बकसिद्धिः, स च १२ । अयमेव अवलम्बकः आयामः । पृथक्पृथक्पार्श्वे अनेन गुणिते जाते ४८, १६८. पार्श्वयोः योगः १८. अनेन भागलब्धे स्वपातलेख २९ २१ ३३ विस्तरयोगार्धः १. अनेन आयामः गुणितः क्षेत्रफलम् १०८ । उद्देशकः - विंशतिः एकाभ्यधिका पङ्क्तिः नव च एव कीर्तिता सङ्ख्या । धात्रीकर्णमुखानां गणितं सम्पातलेखमाचक्ष्व ॥ २ ॥ न्यासः - परिलेखः १५ स्वपातलेखे पूर्वकरणेन २ ५ २ ३ ५ ५ । क्षेत्रफलम् १२० । उद्देशकः - त्रिंशत्त्र्यधिका भूमिः सप्तदश अन्यानि कीर्तितानि अत्र । गणितं तत्र कियत्स्यात्स्वपातलेखे च के स्याताम् ॥ ३ ॥ न्यासः - परिलेखः १६ अस्य त्रिसमचतुरश्रस्य क्षेत्रस्य लब्धे स्वपातलेखे ५ ९ १ ९ १० १० । क्षेत्रफलम् ३७५ । विषमचतुरश्रक्षेत्रेषु फलमात्रमेव उद्दिश्यते, न सम्पातलेखे, दुर्ज्ञातत्वातवलम्बकस्य । अन्यतपि च - यतत्र विषमचतुरश्रं क्षेत्रं न ततन्यगणितक्षेत्रैः समानम् । तत्च - पञ्चकृतिमुखेन युतं षष्टिः वसुधाप्रमाणमाख्यातम् । कर्णौ त्रयोदशमितौ चतुस्त्रिभिः ताडितौ क्रमशः ॥ ४ ॥ अस्य यौ अवलम्बकौ तौ न सदृशौ । अत्र च यतुपदिश्यते तस्य यौ अवलम्बकौ तौ तुल्यसङ्ख्यौ । तेन गणितशास्त्रान्तरोपदिष्टविषमचतुरश्रक्षेत्रस्य अस्य च असादृश्यं सति अपि च विषमत्वे । अथ यत्गणितशास्त्रान्तरोपदिष्टविषमचतुरश्रक्षेत्रं यत्च इह उपदिश्यते तयोः द्वयोः अपि फलनिर्देशः अपि अनेन उपदेशेन शक्यते [कर्तुम्] । दुर्ज्ञातावलम्बकस्य किम् ? उच्यते - विषमक्षेत्रेषु फलमात्रमेव उद्दिश्य[ते], न सम्पातलेखे च इति । अथ चेत्परिज्ञातः अवलम्बकः भवति तदा फलं च सम्पातलेखे च शक्यते विज्ञातुम् । कथम् ? पूर्वोपदिष्टगणितकर्मणा एव । उद्देशकः - आयामः द्वादश प्रोक्तः भूमिः एकोनविंशतिः । मुखं पञ्च समाख्यातं कर्णौ तस्य अथ कीर्तितौ ॥ दश पञ्च-त्रिभिः च एव सम्युक्तानि पृथक्पृथक् । फलं सम्पातलेखे च ज्ञातुमिच्छामि तत्त्वतः ॥ ५ ॥ न्यासः - परिलेखः १७ लब्धे सम्पातलेखे २ ९ १ १ २ २ । क्षेत्रफलम् १४४ । एवमन्येषु अपि एवंविधेषु क्षेत्रेषु फलानयनं सम्पातलेखानयनं च ॥ ८ ॥ [क्षेत्रफलं प्रत्ययकरणं च ] सर्वक्षेत्राणां फलप्रत्ययकरणार्थमाह - सर्वेषां क्षेत्राणां प्रसाध्य पार्श्वे फलं तदभ्यासः । सर्वेषां क्षेत्राणां फलं निर्देष्टव्यम् । कथम् ? प्रसाध्य पार्श्वे । "प्र"-शब्दः प्रकृष्टवाची, प्रकर्षेण पार्श्वे साधयित्वा इति । कः च तयोः प्रसाध्यमानयोः पार्श्वयोः प्रकर्षः ? उच्यते - पार्श्वता । कः पुनरर्थः पार्श्वताशब्दस्य इति । उच्यते - यदि सर्वक्षेत्रं प्रसाध्यमानम्, [तदा "पार्श्वता"-शब्दास्य अर्थः] पार्श्वे एव भवति, आयतचतुरश्रमेव इति यावत् । फलं तदभ्यासः । तेषां सर्वक्षेत्राणां प्रत्याकलितपार्श्वायतचतुरश्राणाम् फलं तयोः पार्श्वयोः अभ्यासः, विस्तारायामाभ्यासः इति यावत् । "अभ्यासः गुणना संवर्गः" इति पर्यायाः । अथ सर्वशब्दस्य निरवशेषवाचित्वात्निरवशेषाणि एव क्षेत्राणि आक्षिप्यन्ते, तस्मात्सर्वक्षेत्राणां फलस्य अनेन एव सूत्रेण सिद्धत्वात्पूर्वाभिहितसूत्राभिधानमनर्थकम् । न अनर्थकम् । प्रत्ययकरणं फलं च अनेन उच्यते । अभिहितानां क्षेत्राणां फलस्य प्रत्ययकरणम्, यस्मात्गणितविदः मस्करि-पूरण-पूतनादयः सर्वेषां क्षेत्राणां फलमायतचतुरश्रक्षेत्रे प्रत्याययन्ति । उक्तं च - करणैः उक्तैः नित्यं फलमनुगम्य आयते तु विज्ञेयम् । प्रत्ययकरणं क्षेत्रे व्यक्तं फलमायते यस्मात् ॥ अनभिहितानां क्षेत्राणां फलानयनमभीष्टक्षेत्रायतचतुरश्रीकरणेन एव । अथ कथमेकेन एव यत्नेन फलानयनं प्रत्ययकरणं च प्रसाध्यते ? अथ इदं प्रत्ययकरणार्थं प्रकृतम्, स कथं फलानयनाय भवति ? अथ फलानयनार्थम्, कथं प्रत्ययकरणाय ? नेअ एषः दोषः । अन्यार्थं प्रकृतमन्यार्थं साधकं दृष्टम् । तत्यथा - "शाल्यर्थं कुल्याः प्रणीयन्ते । ताभ्यः च पानीयं पीयते, उपस्पृश्यते च ।" [ अष्टाध्यायी, १.१.२२, पातञ्जलभाष्यम् ] एवमिह अपि । तत्यथा - आयतचतुरश्रक्षेत्रफलानयन उद्देशकः - अष्टौ पञ्च च पङ्क्तिविस्तारः दैर्घ्यमपि अमीषां यत् । अष्टिः द्वादश मनवः गणितं कियतायतानां तु ॥ १ ॥ न्यासः - परिलेखः १८ अष्टौ एकं पार्श्वम् ; षोडश अन्यत् । तयोः पार्श्वयोः अभ्यासः, फलमागतम् १२८ । शेषयोः अपि एवमेव ६०, १४० । पूर्वसूत्रनिष्पन्नक्षेत्रफलानां प्रत्ययकरणं प्रदर्श्यते । तत्यथा - त्रिचतुर्भुजवृत्तानां दृष्टानि फलानि यानि गणितेन । तेषां प्रत्ययकरणं कथय कथं भवति सर्वेषाम् ॥ २ ॥ अस्य समत्र्यश्रिक्षेत्रस्य पूर्वदृष्टस्य एव कथं फलप्रत्ययकरणम् [इति] न्यासः - परिलेखः १९ एततेव न्यस्तमायतचतुरश्रक्षेत्रं जातम् - परिलेखः २० [ त्रिभुजस्य अवलम्बकः आयामः ] करण्यः ३६ ३ ४ [भूम्यर्धं विस्तारः करण्यः १२ १ ४ ] फलं पार्श्वयोः अभ्यासः इति करण्यः ४५० ३ १६ पूर्वलिखिता [एव ] । एवमेव [द्वि]समेषु, विषमेषु च । विषमाख्यस्य न्यासः - परिलेखः २१ अस्य अपि अवलम्बकः आयामः १२, भूम्यर्धं विस्तारः ७ । परिलेखः २२ अस्य अपि पूर्ववतेव विस्तारायामयोः संवर्गः फलम् ८४ । अथवा आयतचतुरश्रक्षेत्रयोः अर्धक्षेत्रफलसंयोगः अस्य फलम् । तयोः द्वयोः पञ्चविस्तारस्य द्वादशायामस्य एकस्य, द्वितीयस्य अपि नवविस्तारस्य द्वादशायामस्य अर्धक्षेत्रफलसंयोगः अस्य फलम् । तयोः द्वयोः पञ्चविस्तारस्य द्वादशायामस्य एकस्य द्वितीयस्य अपि नवविस्तारस्य द्वादशायामस्य न्यासः - परिलेखः २३ द्वादशपञ्चकस्य फलं विस्तारायामाभ्यासक्रमेण ६०, अस्य अर्धमेव अस्मिन् विषमत्र्यश्रिक्षेत्रे इति ३०, नव[विस्तार]द्वादशायामस्य फलम् १०८, अस्य अपि अर्धमेव अस्मिननुप्रविष्टमिति ५४ ; एतयोः अर्धफलयोः योगः सा एव चतुरशीतिः ८४ । एवं द्विसमत्रिसमविषमचतुरश्रेषु अपि फलं प्रत्यायनीयम् । वृत्तक्षेत्रे विष्कम्भार्धं विस्तारः, परिध्यर्धमायामः, ततेव आयतचतुरश्रक्षेत्रम् । अनया दिशा प्रकीर्णक्षेत्रे फलं स्वधिया अभ्यूह्यम् । तत्यथा - मुखमेकादश दृष्टं प्रतिमुखमपि उच्यते तथा च नव । आयामः विंशतिकः फलमस्य कियत्भवेत्गणक ॥ ३ ॥ न्यासः - परिलेखः २४ करणम् - "प्रसाध्य पार्श्वे फलं तदभ्यासः" इति विषमयोः पार्श्वयोः योगः २०, अस्य अर्धम् १०. [ आयामः २० ]. एते दशकविंशतिके पार्श्वे । एतयोः अभ्यासः क्षेत्रफलम् [ २०० ] । उद्देशकः - अष्टाष्टौ पणवमुखे व्यासः द्वौ षोडश उच्यते दैर्घ्यम् । कियतस्य फलं वाच्यं पणवाकृतिसंस्थितस्य अस्य ॥ ४ ॥ न्यासः - परिलेखः २५ करणम् - मुखयोः समासः १६, अर्धम् ८. एतत्विस्तारेण २ युक्तम् १०. अस्य अर्धम् ५. एवम् "प्रसाध्य पार्श्वे फलं तदभ्यासः" इति आगतं फलम् ८० । उद्देशकः - विस्तारः पञ्च उक्तः नवोदरं पृष्ठमस्य पञ्चदश । करिदन्तक्षेत्रफलं कियत्प्रमाणं विनिर्देश्यम् ॥ ५ ॥ न्यासः - परिलेखः २६ करणम् - पृष्ठोदरसमासः २४. अर्धम् १२. एतत्विस्तारार्धगुणं फलं त्रिंशत्३० । एवं सर्वक्षेत्रेषु पार्श्वद्वयपरिकल्पनया फलं निर्देष्टव्यम् । [ व्यासार्धतुल्यज्या ] समवृत्तविष्कम्भार्धतुल्यज्याप्रदर्शनार्थमाह - परिधेः षड्भागज्या विष्कम्भार्धेन सा तुल्या ॥ ९ ॥ परिधिः परिणाहः वृत्तमिति पर्यायाः । तस्य परिधेः षड्भागस्य या ज्या सा विष्कम्भार्धेन तुल्या । परिधेः षड्भागः राशिद्वयम् । राशिद्वयक्षेत्रावगाहिनी या ज्या सा परिधेः षड्भागस्य ज्या । तस्याः अर्धं राशेः एकस्य अर्धज्या । एतत्च सर्वं छेद्यके प्रतिपादनीयमिति । अस्मिन् च विरचितमुखदेशसितवर्त्यङ्कुरकर्कटेन आलिखिते छेद्यके यत्षड्भागज्यायाः अर्धं तत्राशेः अर्धज्या । तया अर्धज्यया निर्ज्ञातायाः अर्धज्यकोत्पत्तिं वक्ष्यति । एतामेव षड्भागज्यां प्रतिपादयिषता वृतक्षेत्रे षट्समत्र्यश्रिक्षेत्राणि प्रसङ्गेन प्रदर्शितानि । अत्र विष्कम्भार्धबाहूनि । षट्वा धनुःक्षेत्राणि विष्कम्भार्धज्याकानि । एवं च षडश्रिक्षेत्रम् । प्रयोजनं च अस्य षड्भागज्याप्रदर्शनस्य "समवृत्तपरिधिपादं छिन्द्यात्" [ गणित¡, ११ ] इति अस्यां कारिकायां वक्ष्यति ॥ ९ ॥ [ वृत्ते व्यासपरिधिसम्बन्धः ] त्रैराशिकेन समवृत्तानयनार्थमाह - चतुरधिकं शतमष्टगुणं द्वाषष्टिः तथा सहस्राणाम् । अयुतद्वयविष्कम्भस्य आसन्नः वृत्तपरिणाहः ॥ १० ॥ चतुर्भिः अधिकं चतुरधिकम् । किं तत्? शतम् । अष्टाभिः गुणितमष्टगुणम् । एततुक्तं भवति - अष्टौ शतानि द्वात्रिंशदुत्तराणि इति । सहस्राणि च द्वाषष्टिः । एततुभयमेकत्र ६२८३२ । अयुतद्वयं च विष्कम्भः च अयुतद्वयविष्कम्भः । अथवा अयुतद्वयसङ्ख्यः विष्कम्भः अयुतद्वयप्रमाणः वा अयुतद्वयविष्कम्भः । तस्य अयुतद्वयविष्कम्भस्य । स च २०००० । आसन्नः विकटः । कस्य आसन्नः ? सूक्ष्मस्य परिणाहस्य । कथं विज्ञायते सूक्ष्मस्य आसन्नः इति, न पुनर्व्यावहारिकस्य आसन्नः ; यावता श्रुतपरिकल्पना सूक्ष्मव्यावहारिकयायोः तुल्या । न एषः दोषः, सन्देहमात्रमिदम् । सर्वसन्देहेषु वेदमवतिष्ठते "व्याख्यानतः विशेषप्रतिपत्तिः [ नहि सन्देहातलक्षणम् ]" [ अष्टाध्यायी, शिवसूत्रम् ६, पातञ्जलभाष्यम् ] इति । तस्मात्सूक्ष्मस्य आसन्नः इति व्याख्यास्यामः । अथवा आसन्नशब्देन तत्समीपवर्तिना अभिधीयते । तेन च ततेव आसन्नशब्देन उच्यते । तर्हि किञ्चित्भिन्नम् । यदि व्यावहारिकासन्नः व्यावहारिकातपि पापीयान् परिधिः, न कश्चित्पापतरं प्रयासं करोति, तेन सूक्ष्मासन्नः इति न्यायसिद्धम् । अथ आसन्नपरिधिः कस्मातुच्यते, न पुनर्स्फुटपरिधिः एव उच्यते ? एवं मन्यन्ते - स उपायः एव न अस्ति येन सूक्ष्मपरिधिः आनीयते । ननु च अयमस्ति - विक्खंभवग्गदसगुणकरणी वट्टस्स परिरओ होदि । [ विष्कम्भवर्गदशगुणकरणी वृत्तस्य परिणाहः भवति । ] इति । अत्र अपि केवलः एव आगमः न एव उपपत्तिः । रूपविष्कम्भस्य दशकरण्यः परिधिः इति । अथ मन्यते प्रत्यक्षेण एव प्रमीयमाणः रूपविष्कम्भक्षेत्रस्य परिधिः दशकरण्यः इति । न एतत्, अपरिभाषितप्रमाणत्वात्करणीनाम् । एकत्रिविस्तारायामायतचतुरश्रक्षेत्रकर्णेन दशकरणिकेन एव तद्विष्कम्भपरिधिः वेष्ट्यमाणः स तत्प्रमाणः भवति इति चेत्ततपि साध्यमेव । अन्यत्च - वृत्तक्षेत्रे चत्वारि धनुःक्षेत्राणि, एकमायतचतुरश्रक्षेत्रम् । तेषां फलसमासेन वृत्तक्षेत्रफलेन भवितव्यम् । तानि फलानि संयोज्यमानानि न वृत्तक्षेत्रफलतुल्यानि भवन्ति । तत्प्रतिपादनार्थमुद्देशकः - दशविष्कम्भक्षेत्रे पूर्वापरभागे एकरूपमवगाह्य । जीवा षड्दक्षिणोत्तरयोः अपि द्वे रूपे अवगाह्य अष्टौ ॥ तासां जीवानामानयनोपायसूत्रं गाथा - ओगाहूणं विक्खम्भमेगाहेण संगुणं कुर्यात् । चौगुणिअस्स तु मूळं जीवा सव्वखत्ताणम् ॥ [ अवगाहोनं विष्कम्भमवगाहेण सङ्गुणं कुर्यात् । चतुर्गुणितस्य तु मूलं सा जीवा सर्वक्षेत्राणाम् ॥ ] धनुःक्षेत्रन्यासः च - परिलेखः २७ धनुःक्षेत्रफलानयने सूत्रं गाथा - इसुपायगुणा जीवा दसिकरणि भवेत्विगणिय पदम् । धनुपट्ट अम्मिखत्ते एदं करणं तु णाअव्वम् ॥ [ इषुपादगुणा जीवा दशकरणीभिः भवेत्विगुण्य फलम् । धनुःपट्टे अस्मिन् क्षेत्रे एतत्करणं तु ज्ञातव्यम् ॥ ] अनया गाथया पूर्वापरधनुःक्षेत्रफले क¡ ९० ४, क¡ ९० ४. एते क्षेत्रफले करणिप्रक्षेपविधानेन प्रक्षेप्तव्ये । करणीप्रक्षेत्रपसूत्रं गाथा - औवट्टि अ दस्सकेण इ मूलसमासस्समोत्थवत् । ओवट्टणायगुणियं करणिसमासं तु णाअव्वम् ॥ [ अपवर्त्य च दशकेन हि मूलसमासः समोत्थं यत् । अपवर्तनाङ्कगुणितं करणिसमासं तु ज्ञातव्यम् ॥ ] तथाकृत्वा लब्धं क¡ ९० । दक्षिणोत्तरधनुषोः अपि तथा एव फले क¡ १६०, क¡ १६० । [ समासः च क¡ ] ६४० । समस्तयोः पुनर्समासः क¡ १२१० । मध्यस्थायतचतुरश्रक्षेत्रफलं करण्यः २३०४ । धनुःक्षेत्रफलसमासराशेः अस्य च करणीसमासक्रियया समस्यमाने राश्योः असंक्षेपता । पृष्ठानयनमपि च दशकरणीपरिधिप्रक्रियापरिकल्पनया सदा न [ भवति । यतः ] पृष्ठानयने सूत्रमार्यार्धम् - ज्यापादशरार्धयुतिः स्वगुणा [ दशसङ्गुणा करण्यस्ताः ] [अत्र उद्देशकः - द्विपञ्चासत्विष्कम्भे द्विः अवगाह्य । ] "ओगाहूणं विक्खम्भम्" इति अनेन ज्या लब्धा विंशतिः [२०] । [ अनया ज्यया ] पृष्ठानयनम् - ज्यापादः [२० ४ = ] ५, शरार्ध [१] युतिः ६, स्वगुणा ३६, दशसङ्गुणाः ३६०, एता करण्यः पृष्ठम् । सकलज्यावर्गः चत्वारि शतानि, पृष्ठं करणीनां षष्टिशतत्रयमिति, कथमेतत्संघटते । ज्यायसा ज्यातः पृष्ठेन भवितव्यम् । ततेतत्विचार्यमाणमत्यन्तसूक्ष्मवादिनां ज्यातः पृष्ठमल्पीयमानमापतितमतः अस्यै अविचारितमनोहरायै नमः अस्तु दशकरण्यै । अथ अपरः अपि उद्देशकः - षड्विंशतिविष्कम्भक्षेत्रे एकमवगाह्य । पूर्वकरणेन एव ज्या दश १० । पूर्ववतेव पृष्ठमस्याः नवतिः करणीनाम् ९० । ज्यावर्गः शतम् १०० । एवमिदमालोच्यमानमत्यन्तस्थूलतामापन्नमिति । तस्मात्स उपायः एव न अस्ति इति सूक्तम् । अथ एतौ महान्तौ राशी कस्मातुच्येते, न पुनरपवर्तितौ एव उच्येते; आचार्यः च लाघविकः, न तस्य लाघविकस्य महाराश्यभिधानं युज्यते । इदमेकमाचार्यस्य मृश्यताम् । अथवा अयुतद्वयविष्कम्भमिति अल्पैः अक्षरैः उच्यते । न तथा अपवर्तितविष्कम्भाभिधाने अल्पाक्षरता । अथवा मन्यते - महापरिधिविष्कम्भाभिधाने महाविष्कम्भासु ज्यासु अल्पपरिग्रहापचयेषु न फलविशेषः अल्पान्तरत्वातिति, तथा च "मखि" आदिषु क्वचित् असतः उपादानं कृतम्, क्वचित्च सतः परित्यागः । परिणाहः परिधिः, वृत्तं क्षेत्रम्, वृत्तस्य परिणाहः वृत्तपरिणाहः, वृत्तपरिधिः इति अर्थः । अनेन विष्कम्भे निर्ज्ञाते परिधिः आनीयते, परिधौ च निर्ज्ञाते विष्कम्भे इति । कथम् ? यदि अस्य विष्कम्भस्य अयं परिधिः इच्छाविष्कम्भस्य कियान्, यदि अस्य परिधेः अयं विष्कम्भः इच्छापरिधेः कियानिति । उद्देशकः - द्विचतुःसप्ताष्टानां व्यासानां यानि वृत्तगणितानि । सूक्ष्मासन्नानि सखे विगणय गणितानुसारेण ॥ १ ॥ क्षेत्रस्य न्यासः - परिलेखः २८ लभ्दानि वृत्तानि यथाक्रमेण - ६ १२ २१ २५ १७७ ३५४ १२३९ ८३ ६२५ ६२५ १२५० ६२५ परिधौ निर्ज्ञाते विष्कम्भानयने उद्देशकः - नवनवयमरामाणामष्टाभिः शरयमांशहीनानाम् । खखरसवृन्दस्य च मे व्यासौ आचक्ष्व विगणय्य ॥ २ ॥ न्यासः - ३२९९ ८ २५ । २१६०० लब्धौ यथाक्रमेण व्यासौ १०५० । ६८७५ ६२५ १३०९ [छेद्यकविधिना ज्या आनयनम् ] अथ ज्यानयनार्थमाह - समवृत्तपरिधिपादं छिन्द्यात्त्रिभुजात्चतुर्भुजात्च एव । समचापज्यार्धानि तु विष्कम्भार्धे यथा इष्टानि ॥ ११ ॥ समवृत्तं परिधिः यस्य क्षेत्रस्य तत्क्षेत्रं समवृत्तपरिधिः, तस्य पादः समवृत्तपरिधिपादः । सति एतस्मिन् व्याख्याने क्षेत्रफलस्य ग्रहणं प्राप्नोति । आचार्यप्रभाकरेण अयमेव विग्रहः प्रदर्शितः । स गुरुः इति कृत्वा अस्माभिः न उपालभ्यते । अन्यत्च - काष्ठतुल्यज्याभिधानं युक्तमिति अशास्त्रज्ञः अपि जानाति इति तेन एव काष्ठतुल्यज्या प्रत्याख्याता । वयं तु ब्रूमः - अस्ति काष्ठतुल्यज्या इति । यदि काष्ठतुल्यज्या न स्यात्तदा समायामवनौ व्यवस्थानमेव अयोगुडस्य न स्यात् । तेन अनुमीमहे कश्चित्प्रदेशः सः अस्ति इति येन असौ अयोगुडः समायामवनौ अवतिष्ठते । स च प्रदेशः परिधेः षण्णवत्यंशः । काष्ठतुल्यज्या अन्यैः अपि आचार्यैः अभ्यवगता - तत्परिधेः शतभागं स्पृशति धरां गोलकशरीरात् । इति । समवृत्तः अयं परिधिः समवृत्तपरिधिः, समवृत्तपरिधेः पादः समवृत्तपरिधिपादः, तं समवृत्तपरिधिपादं छिन्द्यात् । ज्याविभागेन इति वाक्यशेषः । ज्याविभागेन समवृत्तपरिधौ खण्ड्यमाने त्रिभुजात्चतुर्भुजात्च क्षेत्रात्समचापज्यार्धानि निष्पद्यन्ते, न विषमचापज्यार्धानि । तानि विशिष्टानि एव परिगृह्यन्ते, द्विचतुरष्टषोडशद्वात्रिंशतिति आदीनि द्विगुणोत्तराणि । "तु"-शब्दात्द्विचतुष्षडष्टदशद्वादशचतुर्दशादीनि च । विष्कम्भार्धे त्रिभुजक्षेत्रमुत्पद्यते । तस्मात्त्रिभुजात्चतुर्भुजात्च क्षेत्रज्यार्धानि निष्पद्यन्ते । कथं पुनर्विष्कम्भार्धे त्रिभुजं च चतुर्भुजक्षेत्रमुत्पद्यते इति उच्यते - यस्य व्यासार्धं भुजा कर्णः वा भवति तद्व्यासार्धे निष्पन्नम् । अथवा विष्कम्भार्धे एव ज्यार्धानि निष्पद्यन्ते । विष्कम्भार्धावयवत्वात्न विष्कम्भार्धमतिरिच्य वर्तन्ते इति अर्थः । अथवा विष्कम्भार्धे सति ज्यार्धानि निष्पद्यन्ते । निर्ज्ञाते हि विष्कम्भार्धे शक्यते ज्या कल्पयितुम्, न अन्यथा । कथम् ? यस्मातुक्तम् "परिधेः षड्भागज्या विष्कम्भार्धेन सा तुल्या" [ गणित¡, ९ ] इति । यथा इष्टानि यथा ईप्सितानि, समचापज्यार्धानि । अस्यां कारिकायां ज्योत्पत्तिविस्तुमात्रमेव प्रतिपादितमाचार्येण, [ करणम् ] तु न प्रतिपादितम्; प्रदेशान्तरप्रसिद्धत्वात्करणस्य । अथवा ज्योत्पत्तौ यत्करणं तत्सर्वं छेद्यकविषयम्, छेद्यकं च व्याख्यानगम्यमिति [ न ] प्रतिपादितम् । अथ किमर्थं समवृत्तपरिधिपादः एव ज्याविभागेन छिद्यते, न पुनर्समवृत्तपरिधिः छेद्यते ? न एषः दोषः । समवृत्तपरिधिपादप्रमाणमात्रं त्रयः राशयः । एवं चतुर्षु चतुर्भागेषु । यस्मात्परिधिपादप्रमाणस्य तुल्यत्वात्सर्वेषां परिधिपादानां ज्यार्धानि तुल्यानि भवन्ति इति परिधिपादज्यार्धे इति एव प्रतिपादितानि व्यवहारप्रसिद्ध्यर्थम् । उद्देशकः - वसुदहनकृतहुताशनसङ्ख्ये विष्कम्भार्धे कियत्प्रमाणानि ज्यार्धानि । राश्यर्धकाष्ठानि निष्पाद्यन्ते । विष्कम्भार्धम् ३४३८ । करणम् - यावत्तावत्प्रमाणपरिच्छिन्नविष्कम्भार्धतुल्येन कर्कटकेन मण्डलमालिख्य तत्द्वादशधा विभजेत् । ते च द्वादशभागाः राशयः इति परिकल्प्याः । अथ द्वादशधा विभक्ते मण्डले पूर्वेण राशिद्वयाग्रावगाहिनीं दक्षिणोत्तरां ज्याकारां लेखां कुर्यात् । एवं पश्चिमभागे अपि । एवमेव दक्षिणोत्तरभागयोः अपि च पूर्वापरायतां ज्यां कुर्यात् । पुनरपि च पूर्वापरदक्षिणोत्तरदिक्षु तथा एव च राशिचतुष्टयाग्रावगाहिन्यः लेखाः कुर्यात् । तथा त्र्यश्री[णि] कर्तव्यानि । तथा च परिधिनिष्पन्नं क्षेत्रं कर्कटकेन विरचितवर्तिकामुखेन लिख्यते । एवमालिखिते क्षेत्रे सर्वं प्रदर्शयितव्यम् । परिलेखः २९ अत्र आलेख्ये व्यासार्धतुल्या चतुर्णां काष्ठानाम् [पूर्ण]ज्या । तदर्धं द्विकाष्ठज्या । सा च १७१९ । एषा भुजा, व्यासार्धं कर्णः इति, भुजाकर्णवर्गविशेषस्य मूलमवलम्बकः । सा एव चतुर्णां काष्ठानां ज्या । सा च २९७८ । एतां व्यासार्धात्विशोध्य शेषं द्विकाष्ठशरः, शरद्विकाष्ठज्यावर्गयोगमूलं कर्णः । सा एव द्विकाष्ठ[पूर्ण]ज्या च १७८० । अर्धमस्याः काष्ठस्य एकस्य ज्या, ८९० । एषा भुजा, व्यासार्धं कर्णः । भुजाकर्णवर्गविशेषस्य मूलमवलम्बकः । स च पञ्चानां काष्ठानां ज्या । सा च ३३२१, विषमत्वाततः ज्या न उत्पद्यन्ते । एवं त्रिभुजात्पञ्च ज्यार्धानि व्याख्यातानि । अन्तःसमचतुरश्रक्षेत्रे व्यासार्धतुल्या बाहवः । तस्य कर्णः व्यासार्धयोः वर्गयोगमूलम् । तत्च ४८६२ । अस्य अर्धं त्रयाणां काष्ठानां ज्या । सा च २४३१ । एवमेका ज्या चतुर्भुजात्निष्पन्ना, विषमत्वातुत्पत्तिः न अस्ति । विष्कम्भार्धे षट्राश्यर्धकाष्ठज्यार्धानि प्रतिपादितानि । तस्मिनेव विष्कम्भार्धे राशिचतुर्भागकाष्ठज्या व्याख्यास्यामः । तत्यथा - पूर्ववतालिखिते क्षेत्रे व्यासार्धमेव अष्टानां काष्ठानाम् [पूर्ण]ज्या । तदर्धं चतुर्णां काष्ठानां ज्या, सा च १७१९ । इयं भुजा, व्यासार्धं कर्णः, भुजाकर्णवर्गविशेषमूलं कोटिः । सा अष्टानां काष्ठानां ज्या, सा च २९७८ । एतां व्यासार्धात्विशोध्य शेषं चतुःकाष्ठज्याशरः । शरचतुष्काष्ठज्यावर्गयोगमूलं कर्णः । सा चतुर्णां काष्ठानाम् [पूर्ण]ज्या, सा च १७८० । तद्दलं द्विकाष्ठज्या, [सा] च ८९० । एषा भुजा, व्यासार्धं कर्णः, भुजाकर्णवर्गविशेषमूलं कोटिः । सा दशानां काष्ठानां ज्या, सा च ३३२१ । एतां व्यासार्धात्विशोध्य शेषं द्विकाष्ठशरः । शरद्विकाष्ठज्यावर्गयोगमूलं कर्णः । सा एव द्विकाष्ठ[पूर्ण]ज्या, सा च ८९८ । अर्धमस्याः काष्ठस्य एकस्य ज्या, सा च ४४९ । एषा भुजा, व्यासाऋधं कर्णः, भुजाकर्णवर्गविशेषस्य मूलं कोटिः । सा एकादशानां काष्ठानां ज्या, सा च ३४०९ । विषमत्वाततः ज्या न उत्पद्यते । अथ द्विकाष्ठज्यां व्यासार्धात्विशोध्य शेषं दशकाष्ठशरः । शरदशकाष्ठज्यावर्गयोगमूलं कर्णः । स [एव] काष्ठानां दशानाम् [पूर्ण] ज्या, सा च ४१८६ । अर्धमस्याः पञ्चानां काष्ठानां ज्या, सा च २०९३ । एषा भुजा, व्यासार्धं कर्णः, भुजाकर्णवर्गविशेषस्य मूलं कोटिः । सा सप्तानां काष्ठानां ज्या, सा च २७२८ । विषमत्वाततः ज्या न उत्पद्यते । एवं त्रिभुजात्नव ज्यार्धानि । पूर्ववदुक्तसमचतुरश्रक्षेत्रस्य व्यासार्धबाहुकस्य व्यासार्धयोः वर्गयोगमूलं कर्णः । स च द्वादशानां काष्ठानाम् [पूर्ण]ज्या, सा च ४८६२ । अर्धमस्याः षण्णां काष्ठानां ज्या, सा च २४३१ । एतां व्यासार्धात्विशोध्य शेषं षट्काष्ठशरः, शरषट्काष्ठज्यावर्गयोगमूलं कर्णः । स एव षण्णां काष्ठानाम् [पूर्ण]ज्या, सा च २६३० । अर्धमस्याः त्रयाणां काष्ठानां ज्या, सा च १३१५ । एषा भुजा, व्यासार्धं कर्णः, भुजाकर्णवर्गविशेषस्य मूलं कोटिः । सा नवानां काष्ठानां ज्या । सा च ३१७७ । विषमत्वाततः ज्या न उत्पद्यते । एवं चतुर्भुजात्तिस्रः ज्याः । विष्कम्भार्धे द्वादश । द्वादश राशिचतुर्भागकाष्ठज्यार्धानि व्याख्यातानि । तस्मिनेव विष्कम्भार्धे राश्यष्टभागज्या वक्ष्यामः । तत्यथा - पूर्ववदालिखिते क्षेत्रे व्यासार्धमेव षोडशानां काष्ठानाम् [पूर्ण]ज्या । तदर्धमष्टानां काष्ठानां ज्या, सा च १७१९ । एषा भुजा, व्यासार्धं कर्णः, भुजाकर्णवर्गविशेषस्य मूलं कोटिः । सा षोडशानां काष्ठानां ज्या, सा च २९७८ । एतां व्यासार्धात्विशोधयेत् । शेषमष्टकाष्ठशरः । शराष्टकाष्ठज्यावर्गयोगमूलम् कर्णः । स एव अष्टानां काष्ठानाम् [पूर्ण]ज्या, सा च १७८० । अर्धमस्याः चतुर्णां काष्ठानां ज्या, सा च ८९० । एषा भुजा, व्यासार्धं कर्णः, भुजाकर्णवर्गविशेषस्य मूलं कोटिः । सा एव विंशतेः काष्ठानां ज्या, सा च ३३२१ । एतां व्यासार्धात्विशोध्य शेषं चतुःकाष्ठशरः । शरचतुष्काष्ठज्यावर्गयोगमूलं कर्णः । स एव चतुर्णां काष्ठानाम् [पूर्ण]ज्या, सा च ८९८ । अर्धमस्याः काष्ठयोः ज्या, सा च ४४९ । एषा भुजा, व्यासार्धं कर्णः, भुजाकर्णवर्गविशेषस्य मूलं कोटिः । सा एव द्वाविंशतेः काष्ठानां ज्या, सा च ३४०९ । एतां व्यासार्धात्विशोधयेत् । शेषं द्विकाष्ठशरः । शरद्विकाष्ठज्यावर्गयोगमूलं कर्णः । स एव काष्ठयोः [पूर्ण]ज्या, सा च ४५० । अर्धमस्याः काष्ठस्य ज्या, सा च २२५ । एषा भुजा, व्यासार्धं कर्णः, भुजाकर्णवर्गविशेषस्य मूलं कोटिः । सा एव त्रयोविंशतेः काष्ठानां ज्या, सा च ३४३१ । विषमत्वाततः ज्या न उत्पद्यते । अथ चतुर्णां काष्ठानां ज्यां व्यासार्धात्विशोधयेत् । शेषं विंशतेः काष्ठानां शरः । शरविंशतिकाष्ठज्यावर्गयोगमूलं कर्णः । स विंशतेः काष्ठानाम् [पूर्ण]ज्या, सा च ४१८६ । अर्धमस्याः दशानां काष्ठानां ज्या, सा च २०९३ । एषा भुजा, व्यासार्धं कर्णः, भुजाकर्णवर्गविशेषस्य मूलं कोटिः, सा एव चतुर्दशानां काष्ठानां ज्या, सा च २७२८ । एतां व्यासार्धात्विशोधयेत् । शेषं दशकाष्ठानां शरः । शरदशकाष्ठज्यावर्गयोगमूलम् कर्णः । स एव दशानां काष्ठानाम् [पूर्ण]ज्या, सा च २२१० । अर्धमस्याः पञ्चानां काष्ठानां ज्या, सा च ११०५ । एषा भुजा, व्यासार्धं कर्णः, भुजाकर्णवर्गविशेषमूलं कोटिः । सा एव एकोनविंशतेः काष्ठानां ज्या, सा च ३२५६ । विषमत्वाततः ज्या न उत्पद्यते । अथ द्विकाष्ठज्यां व्यासार्धात्विशोधयेत् । शेषं द्वाविंशतेः काष्ठानां शरः । शरद्वाविंशतिकाष्ठज्यावर्गयोगमूलं कर्णः । स एव द्वाविंशतेः काष्ठानाम् [पूर्ण]ज्या । सा च ४५३४ । अर्धमस्याः एकादशानां काष्ठानां ज्या, सा च २२६७ । एषा भुजा, व्यासार्धं कर्णः, भुजाकर्णवर्गविशेषस्य मूलं कोटिः । सा एव त्रयोदशानां काष्ठानां ज्या, सा च २५८५ । विषमत्वाततः ज्या न उत्पद्यते । अथ दशानां काष्ठानां ज्यां व्यासार्धात्विशोधयेत् । शेषं चतुर्दशानां काष्ठानां शरः । शरचतुर्दशकाष्ठज्यावर्गयोगमूलं कर्णः । स एव चतुर्दशानां काष्ठानाम् [पूर्ण] ज्या, सा च ३०४० । अर्धमस्याः सप्तानां काष्ठानां ज्या, सा च १५२० । एषा भुजा, व्यासार्धं कर्णः, भुजाकर्णवर्गविशेषमूलं कोटिः । सा एव सप्तदशानां काष्ठानां ज्या, सा च ३०८४ । विषमत्वाततः ज्या न उत्पद्यते । एवं त्रिभुजात्राश्यष्टभागकाष्ठज्याः व्याख्याताः । अथ चतुर्भुजात्व्याख्यास्यामः । अन्तःसमचतुरश्रक्षेत्रस्य व्यासार्धतुल्याः बाहवः । तयोः वर्गयोगमूलं कर्णः । स एव चतुर्विंशतेः काष्ठानाम् [पूर्ण]ज्या, सा च ४८६२ । अर्धमस्याः द्वादशानां काष्ठानां ज्या, सा च २४३१ । एतां व्यासार्धात्विशोधयेत् । शेषं द्वादशानां काष्ठानां शरः । शरद्वादशकाष्ठज्यावर्गयोगमूलं कर्णः । स एव द्वादशानां काष्ठानाम् [पूर्ण]ज्या, सा च २६३० । अर्धमस्याः षण्णां काष्ठानां ज्या, सा च १३१५ । एषा भुजा, व्यासार्धं कर्णः, भुजाकर्णवर्गविशेषस्य मूलं कोटिः । सा अष्टादशानां काष्ठानां ज्या, सा च ३१७७ । एतां व्यासार्धात्विशोधयेत् । शेषं षण्णां काष्ठानां शरः । शरषट्काष्ठज्यावर्गयोगमूलं कर्णः । स एव षण्णां काष्ठानाम् [पूर्ण]ज्या, सा च १३४२ । अर्धमस्याः त्रयाणां काष्ठानां ज्या, सा च ६७१ । एषा भुजा, व्यासार्धं कर्णः, भुजाकर्णवर्गविशेषस्य मूलं कोटिः, सा एव एकविंशतेः काष्ठानां ज्या, सा च ३३७२ । विषमत्वाततः ज्या न उत्पद्यते । अथ षण्णां काष्ठानां ज्यां व्यासार्धात्विशोधयेत् । शेषमष्टादशकाष्ठानां शरः । शराष्टादशकाष्ठज्यावर्गयोगमूलं कर्णः । स एव अष्टादशानां काष्ठानाम् [पूर्ण]ज्या, सा च ३८२० । अर्धमस्याः नवानां काष्ठानां ज्या, सा च १९१० । एषा भुजा, व्यासार्धं कर्णः, भुजाकर्णवर्गविशेषमूलं कोटिः । सा एव पञ्चदशानां काष्ठानां ज्या, सा च २८५९ । विषमत्वाततः ज्या न उत्पद्यते । एवं राश्यष्टभागकाष्ठज्याः चतुर्विम्शतिः । अनेन एव विधानेन विष्कम्भार्धे यथेष्टानि ज्यार्धानि निष्पादयितव्यानि इति ॥ ११ ॥ [ प्रकारान्तरेण खण्डज्या ] ज्याविभागप्रदर्शनार्थमाह - प्रथमात्चापज्यार्धात्यैः ऊनं खण्डितं द्वितीयार्धम् । तत्प्रथमज्यार्धांशैः तैः तैः ऊनानि शेषाणि ॥ १२ ॥ प्रथमाताद्यात्चापज्यार्धात् । यैः ऊनं यावद्भिः अंशैः ऊनमप्राप्तसदृशम् । किं तत्? खण्डितं द्वितीयार्धम्, खण्डितं पूर्वार्याभिहितच्छेद्यकविधिना छिन्नं द्वितीयचापज्यार्धम् । तत्प्रथमज्यार्धांशैः । ततिति यावद्भिः प्रथमचापज्यार्धात्द्वितीयचापज्यार्धमूनं तावन्तः तैः परिगृह्यन्ते, ज्यायाः अर्धं ज्यार्धम्, प्रथमं च तज्ज्यार्धं च प्रथमज्यार्धम् ; अथवा प्रथमा च असौ ज्या च प्रथमज्या, प्रथमज्या च असौ अर्धं च प्रथमज्यार्धम् ; प्रथमज्यार्धस्य अंशः प्रथमज्यार्धांशः ; प्रथमज्यार्धांशः च प्रथमज्यार्धेन भागं हृत्वा लब्धा यथा पञ्चांशः षडंशः, ते च प्रथमज्यार्धांशाः च तत्प्रथमज्यार्धांशाः तैः तत्प्रथमज्यार्धांशैः । तैः तैः अंशैः इति वीप्साग्रहणं च अर्थवत्भवति । ऊनानि शेषाणि । ऊनानि रहितानि, शेषाणि तृतीयादि ज्यार्धानि भवन्ति । तत्यथा - प्रथमं चापज्यार्धमिदं छेद्यकेन निष्पन्नम् २२५ । द्वितीयं चापज्यार्धच्छेदम् २२४ । एतत्प्रथमचापज्यार्धातेकेन ऊनम् । द्वितीयचापज्यार्धांशं प्रथमचापज्यार्धं च एकत्र ४४९ । अस्य प्रथमचापज्यार्धेन भागे [हृते] लब्धमर्धाधिकेन द्वे रूपे । ताभ्यां पूर्वेण च [एकेन ऊनम्] प्रथमचापज्यार्धम् [तृतीयज्यार्धम्] भवति । तत्च २२२ । त्रयाणां संयोगः ६७१ । अस्य प्रथमचापज्यार्धेन भागलब्धमर्धाधिकेन त्रीणि रूपाणि । तैः पूर्वलब्धैः च त्रिभिः ऊनं प्रथमचापज्यार्धं चतुर्थज्यार्धं भवति । तत्च २१९ । चतुर्णां ज्यार्धानां संयोगः ८९० । अस्य प्रथमज्यार्धेन भागलब्धं चत्वारि रूपाणि अर्धाधिकेन । तैः पूर्वैः च षड्भिः ऊनं प्रथमं चापज्यार्धं पञ्चमज्यार्धं भवति । तत्च २१५ । एतैः शेषाणि व्याख्यातानि इति । इदं च व्याख्यानमाचार्यप्रभाकरेण व्याख्यातम् । तत्च अयुक्तमनर्थकमप्रत्याख्याय व्याख्यानं कर्तुम् । कथमनर्थकम् ? अत्र गणितशास्त्रे लघूपायप्रदर्शनार्थमुपायान्तरप्रदर्शनार्थं वा सूत्रान्तरमारभ्यते । अत्र अन्यतरगन्धः अपि न अस्ति । कथम् ? पूर्वार्याभिहितछेद्यकविधिना निर्ज्ञाताभ्यां प्रथमद्वितीयचापज्यार्धाभ्यामिदं कर्म क्रियते । तस्मिन् द्विसूत्रायतत्वात्कर्मणः लाघवं न अस्ति । उपायान्तरता च [न] पूर्वसूत्राश्रयत्वात । एतस्मात्न अर्थः अनेन सूत्रेण । कथं पुनरिमाः ज्याः पृथक्पृथक्विज्ञायन्ते ? अतिबालिशवाक्यमेतत् । तज्ज्योत्पत्तेः । काष्ठद्विकाष्ठत्रिकाष्ठादिज्यार्धानि प्रतिपादितानि । तेषामन्योन्यविशेषेण पृथक्पृथक्ज्याः भवन्ति इति अगणितज्ञः अपि च जानाति, किं पुनर्सांवत्सरः । तथा च मन्दबुद्धिप्रतिपत्त्यर्थं प्रस्तीर्यते । तत्यथा - २२५, ४४९, ६७१, ८९०, ११०५, १३१५, १५२०. १७१९, १९१०, २०९३, २२६७, २४३१, २५८५, २७२८, २८५९, २९७८, ३०८४, ३१७७, ३२५६, ३३२१, ३३७२, ३४०९, ३४३१, ३४३८ । अनन्तरानन्तररहिताः क्रमेण पृथक्पृथक्ज्याः - २२५, २२४, २२२, २१९, २१५, २१०, २०५, १९९, १९१, १८३, १७४, १६४, १५४, १४३, १३१, ११९, १०६, ९३, ७९, ६५, ५१, ३७, २२, ७ । एताः एव उत्क्रमेण अन्त्यातारभ्य उत्क्रमज्याः ॥ १२ ॥ [ वृत्तादिसिद्धिः ] वृत्तादिसिद्धिं दिङ्मात्रप्रदर्शनार्थमाह - वृत्तं भ्रमेण साध्यं त्रिभुजं च चतुर्भुजं च कर्णाभ्याम् । साध्या जलेन समभूः अधः ऊर्ध्वं लम्बकेन एव ॥ १३ ॥ वृत्तं क्षेत्रं भ्रमेण साध्यते । भ्रमशब्देन कर्कटकः परिगृह्यते । तेन कर्कटेन समवृत्तं क्षेत्रं परिलेखप्रमाणेन परिमीयते । त्रिभुजं च चतुर्भुजं च कर्णाभ्याम् । त्रिभुजं क्षेत्रं चतुर्भुजं च क्षेत्रं कर्णाभ्यां प्रसाध्यते । त्रिभुज तावत्समायामवनौ सूत्रं प्रसार्य रेखां कुर्यात् । सा च - ---------------- परिलेखः ३० अत्र उभयाग्रव्यवस्थितेन कर्कटकेन मत्स्यमुत्पादयेत् । एतद्वक्त्रपुच्छनिष्क्रान्तापरसूत्रमवलम्बकः । परिलेखः ३१ अस्य अग्रे सूत्रस्य एकमग्रं निधाय द्वितीयाग्रं भूम्यग्रे निश्चलं निधाय रेखां कुर्यात् । द्वितीयाग्रे अपि तथा एव । एवं ते कर्णसूत्रे । ताभ्यां कर्णसूत्राभ्यां प्रसाधितं त्रिभुजम् - परिलेखः ३२ चतुर्भुजे इष्टचतुर्भुज[कर्ण]तुल्यं सूत्रं तिर्यक्प्रसारयेत् । तत्च सूत्रम् - परिलेखः ३३ द्वितीयं च एतत्मध्यजनितस्वस्तिकं तिर्यकेव प्रसार्यते । तथा च कर्णसूत्रे परिकेखः ३४ एतयोः पार्श्वानि पूरितानि, चतुरश्रक्षेत्रं निष्पन्नम् । परिलेखः ३५ साध्या जलेन समभूः । समभूः जलेन साध्यते । तत्यथा - चक्षुःसूत्रसमीकृतायामवनौ त्रिकाष्ठोपरि निर्वाते जलकुम्भं निधाय अधः सुषिरं कुर्यात्, यथा ततुदकमेकरूपया धारया स्रवति । तत्प्रस्रुतमम्भः समन्तात्परिवर्तुलं यत्र प्रयाति सा भूः समा, यत्र ततम्भः वृत्तं भङ्क्त्वा प्रतिष्ठते तत्निम्नम्, यत्र न अवगाहते ततुन्नतमिति । अधः ऊर्ध्वं लम्बकेन एव । अधः उपलक्षितस्य यः ऊर्ध्वप्रदेशः सः अवलम्बकेन एव साध्यते । ऊर्ध्वप्रदेशस्य वा यः अधःप्रदेशः असौ अपि अवलम्बकेन एव । अवलम्बकः च गुरुद्रव्यैकाग्रासक्तं सूत्रमिति ॥ १३ ॥ [ स्ववृत्तविष्कम्भार्धम् ] स्ववृत्तविष्कम्भार्धानयनार्थमाह - शङ्कोः प्रमाणवर्गं छायावर्गेण संयुतं कृत्वा । यत्तस्य वर्गमूलं विष्कम्भार्धं स्ववृत्तस्य ॥ १४ ॥ [ शङ्कोः आकारप्रकारविवेचनम् ] अत्र शङ्कोः आकारप्रमाणयोः विप्रवदन्ते सांवत्सराः । केचित्तावताहुः - द्वादशाङ्गुलशङ्कुः मूलत्रिभागे चतुरश्रः, मध्यत्रिभागे त्र्यश्रिः, उपरित्रिभागे शूलाकारः इति । सूक्ष्मत्वात्विग्रहस्य सूक्ष्मया एकया कोट्या छायाग्रस्य सुलक्ष्यत्वात्शेषैः च दुःसम्पादत्वातिति तत्च न । शूलाग्रस्य अवलम्बकस्य विन्यासाभावातृजुता एव दुःसम्पाद्या । तदभावात्सर्वगुणाभावः । गोपुच्छाकृतिवृत्तोदरः तु भ्रष्टावलम्बकत्वेन एव प्रत्याख्याता । अपरे आहुः - चतुरश्रः चतुर्दिशमवलम्बकसाधनसम्भवात्कोटिद्वयेन छायाग्रहणातभीष्टकोट्यां दिग्ग्रहणसिद्धिः इति । एततपि युज्यते, किन्तु तादृशस्य सम्प्रति शिल्पिनः समचतुरश्रक्षेत्रसम्पादिनः दुर्लभत्वात्यदि अपि स्वभ्यस्तविद्यः कश्चित्कदाचित्सम्भवेत्, तथा अपि प्रतिक्षणं सूर्यस्य अभिमुखस्थापनात्पुनर्पुनर्शङ्कोः मुखचालनं कर्तव्यम् । तथा च अतिसूक्ष्मदृशः तावता अभीष्टच्छायातिक्रान्ता स्यातिति दोषः, एतस्मात् परित्याज्यः अयमपि शङ्कुः । अनेन एव सर्वत्र शङ्कवः प्रयुक्ताः । आर्यभटीयाः स्वमतमभिनिनिष्ठापयिषवः व्यावर्णयन्ति । तत्यथा - प्रशस्तदारुमयः हि असुषिरः राजिग्रन्थव्रणवर्जितः भ्रमसिद्धः मूलमध्याग्रान्तरालतुल्यवृत्तः न अल्पव्यासः न अल्पायामः च प्रशस्तः । त्रिभिः चतुर्भिः वा अवलम्बकैः अस्य ऋजुस्थितिः साधयितव्या । शङ्कोः मध्यसूत्रस्य असिद्धत्वातवलम्बकस्थितिः अपि दुःसम्पाद्य इति अतः शङ्कुमध्यसूत्रसाधनं प्रदर्श्यते । तत्यथा - शङ्कुमुच्चे प्रदेशे निश्चलं निधाय अवलम्बकेन शङ्कुमूलमस्तकयोः मध्ये विज्ञाय तदग्रसक्तं सूत्रं प्रसार्य उभयपार्श्वे च लेखे कुर्यात् । एततुभयपार्श्वमध्यलेखे, ततः पुनरपि कर्कटकेन लोहेन मूलाग्रमध्यसूत्राभ्यां मत्स्यमुत्पाद्य शेषमध्यलेखासाधनम् । ननु च अत्र अपि दोषः अस्ति एव, सर्वदिक्षु तन्मस्तकस्य छायाग्रस्य विपुलवृत्तत्वात्छायामध्यं दुर्लक्ष्यम् । तेन च विना आदिग्रहणाभावः इति । न एषः दोषः । शङ्कोः उपरि केन्द्रे विष्कम्भार्धाधिकान्या समवृत्ता शलाका मध्यप्रसाधिनी लोही दार्वी वा क्रियते । तदा आदिग्रहणमध्यपरिज्ञानं च भविष्यति इति । अथवा प्राज्ञस्य अवलम्बकसूत्रेण पूर्वविन्यस्तेन एव किञ्चितुत्क्षिप्तेन मध्यपरिज्ञानम् । अथ अङ्गुलविभागात्तीक्ष्णेन शस्त्रेण मनाक्शकलितं कृतम् । अन्यथा हि प्रमाणग्रहणमनर्थकं स्यात् । तस्मात्यथेष्टप्रमाणः शङ्कुः द्वादशाङ्गुलः इति सुप्रसिद्धमङ्गीकृत्य उच्यते । उद्देशकेषु एतत्प्रतिपादयिष्यामः । यावत्यावतयं पृथुः गुरुः च भवति तावत्तावत्वायुना न एव चाल्यते, यावत्यावत्च दीर्घः भवति तावत्तावत्च अङ्गुलावयवाः सूक्ष्माः सुपरिज्ञाताः भवन्ति । तस्मात्पृथुगुरुदीर्घेषु आदरः कार्यः इति अभिहितः शङ्कोः आकारः । [ शङ्कुप्रमाणविवेचनम् ] इदानीं प्रमाणमुपदेक्ष्यामः । केचिताहुः - अर्धहस्तः द्वादशधा विभक्तशरीरः इति । न एषः नियमः । किन्तु अभीष्टसङ्ख्याप्रविभक्तशरीरः अभीष्टसङ्ख्याप्रविभक्तः इति अर्थः । यत्र प्रमाणग्रहणं कृतम्, तत्र अपि समाङ्गुलविभागे केन्द्रविभागे च कौशलमभ्यसनीयम् । [ श्लोक-व्यख्या ] शङ्कोः प्रमाणवर्गम्, शङ्कोः इत्थं प्रपञ्चतप्रमाणस्य प्रमाणग्रहणमनियतप्रमाणप्रतिपादनार्थमिति उक्तम् । यदि शङ्कोः नियतमेव प्रमाणं स्यात्तदा शङ्कोः वर्गमिति इयता अपि उच्यमाने तन्नियतप्रमाणः एव प्रतिपत्तिः । प्रमाणस्य वर्गः प्रमाणवर्गः, तं प्रमाणवर्गम् । छायावर्गेण, छायायाः वर्गः छायावर्गः, तेन छायावर्गेण । संयुतं कृत्वा, एकीकृत्य इति अर्थः । यत्तस्य वर्गमूलम्, तस्य संयुक्तस्य राशेः वर्गमूलं यत्, तत्स्ववृत्तविष्कम्भार्धं भवति । किं तत्वृत्तं यस्य इदं विष्कम्भार्धमिति उच्यते ? तत्मूलतुल्येन कर्कटकेन आलिखितस्य वृत्तस्य तत्विष्कम्भार्धम् । यदि एवं सर्वे एव संख्याविशेषः स्ववृत्तविष्कम्भार्धं भवति । न एषः दोषः । यदि सर्वसङ्ख्याविशेषः स्ववृत्तविष्कम्भार्धं भवति एव, किं नः छिन्नम् ? अत्र पुनर्शङ्कुप्रमाणच्छायावर्गयोगमूलं स्वविष्कम्भार्धं विशिष्टमेव परिगृह्यते, तेन अन्यस्य स्ववृत्तविष्कम्भार्धस्य ग्रहणं न एव अत्र प्रसज्यते । प्रसक्ते च दोषपरिहारः वा विधीयते । अत्र च स्ववृत्तविष्कम्भार्धग्रहणं त्रैराशिकप्रसिद्ध्यर्थम् - यदि अस्य स्ववृत्तविष्कम्भार्धस्य एते शङ्कुच्छाये तदा गोलविष्कम्भार्धस्य के इति शङ्कुच्छाये लभ्येते । तौ एव विषुवति अवलम्बकाक्षज्ये इति उच्यते । उद्देशकः - पञ्चनवार्धचतुर्था छाया दृष्टा क्षितौ समायां तु । विषुवन्मध्ये सूत्रे शङ्कोः द्वादशविभक्तस्य ॥ १ ॥ न्यासः - शङ्कुः १२, छाया ५; शङ्कुः १२, छाया ९; शङ्कुः १२, छाया ३ १ २ करणम् - शङ्कुच्छाययोः वर्गौ १४४, २५, एकत्र १६९ । अस्य मूलं स्ववृत्तविष्कम्भार्धम् । तत्च इदम् १३ । एतस्य क्षेत्रस्य न्यासः - परिलेखः ३६ स्ववृत्तविष्कम्भार्धं नाम छायाग्रातारभ्य शङ्कुमस्तकप्रापि सूत्रम् । तत्सूत्रानुसारेण भूमौ दृष्टिं निधाय शङ्कुमस्तकासक्तं विवस्वन्तं पश्यति । अक्षज्या आनयने त्रैराशिकस्थापना - १३ । ५ । ३४३८ । लब्धमक्षज्या १३२२ । एषा भुजा, व्यासार्धं कर्णः, भुजाकर्णवर्गविशेषमूलमवलम्बकः ३१७४ । त्रैराशिकेन अपि १३ । १२ । २३२८ । लब्धमवलम्बकः ३१७४ । अपरे अपि अत्र क्षेत्रविशेषाः । त्रैराशिके वाचः युक्तिः - यदि अस्य स्ववृत्तविष्कम्भार्धस्य छायातुल्या भुजा शङ्कुतुल्यः अवलम्बकः तदा अस्य गोलव्यासार्धस्य कौ भुजौ अलम्बौ इति । छायया घटिकानयने, मध्याह्ने छायया च सूर्यानयने स्ववृत्तविष्कम्भार्धस्य अयमेव विधिः । किन्तु छायया घटिकानयने शङ्कुना कार्यमिति शङ्कुः एव आनीयते । सममण्डलछायया सूर्यानयने स एव । मध्याह्नच्छायया सूर्यानयने नतज्यया प्रयोजनमिति छाया एव आनीयते । शेषयोः अपि स्ववृत्तविष्कम्भार्धे १५ । १२ १ २ । त्रैराशिकेन एव अक्षज्यावलम्बकौ २०६३, २७५०; ९६३, ३३०० । उद्देशकः - पञ्चदशाङ्गुलशङ्कोः पादेन युता षडङ्गुला छाया । विषुवत्दिनमध्याह्ने वाच्या अक्षज्या अवलम्बकौ च अत्र ॥ २ ॥ न्यासः - शङ्कुः १५, छाया ६ १ ४ । आगतं स्ववृत्तविष्कम्भार्धम् १६ १ ४ । अनेन स्ववृत्तविष्कम्भार्धेन आगतौ अक्षज्यौ अलम्बकौ १३२२, ३१७४ । उद्देशकः - त्रिंशत्प्रमाणशङ्कोः षोडश दृष्टा यदा अङ्गुलच्छाया । मध्यात्कियत्गतः अर्कः विततमयूखः ततः वाच्यः ॥ ३ ॥ न्यासः - शङ्कुः ३०, छाया १६ । आगतं स्ववृत्तविष्कम्भार्धम् ३४ । लब्धं तदक्षज्या १६१८ ॥ १४ ॥ [ प्रदीपच्छायाकर्म ] प्रदीपच्छायाकर्म आह - शङ्कुगुणं शङ्कुभुजाविवरं शङ्कुभुजयोः विशेषहृतम् । यत्लब्धं ता छाया ज्ञेया शङ्कोः स्वमूलाथि ॥ १५ ॥ शङ्कुः गुणः यस्य तत्शङ्कुगुणम् । किं ततिति आह - शङ्कुभुजाविवरम् । भुजाशब्देन प्रदीपोच्छ्रायः उच्यते, प्रदीपोच्छ्रायस्य शङ्कोः च यतन्तरालं तत्शङ्कुभुजाविवरम्, तत्शङ्कुगुणम् । शङ्कुभुजयोः विशेषहृतं शङ्कोः प्रदीपोच्छ्रायस्य यः विशेषः स शङ्कुभुजयोः विशेषः, तेन हृतं भक्तम् । यत्लब्धं सा छाया शङ्कोः तस्य एव स्वमूलात्तस्य एव शङ्कोः मूलात्सा छाया लभ्यते । उद्देशकः - यष्टिप्रदीपमूलात्द्वासप्तत्युच्छ्रितातशीत्यां च । त्रिंशत्काद्विंशत्यां स्थितस्य शङ्कोः वद च्छाये ॥ १ ॥ न्यासः - परिलेखः ३७ शङ्कुभुजाविवरम् ८०, एतत्शङ्कुगुणम् ९६०; भुजा ७२, शङ्कुः १२, एतयोः विशेषः ६०, अनेन हृतं शङ्कुगुणं शङ्कुभुजाविवरम्, लब्धा छाया १६ । द्वितीयोद्देशकन्यासः - परिलेखः ३८ पूर्वकरणेन एव लब्धा छाया १३ ५ ३ । एतत्कर्म त्रैराशिकम् । कथम् ? शङ्कुतः अधिकायाः उपरिभुजायाः यदि शङ्कुभुजान्तरालप्रमाणं छाया लभ्यते तदा शङ्कुना का इति छाया लभ्यते । विपरीतकर्मणा उद्देशकः - छाया षोडश दृष्टा द्वासप्तत्युच्छ्रितस्य दीपस्य । मूलं कियता शङ्कोः द्वादशकस्य त्वया वाच्यम् ॥ २ ॥ न्यासः - परिलेखः ३९ करणम् - शङ्कुभुजान्तरेण अनेन ६० छाया लब्धा, तेन "भागहराः ते भवन्ति गुणकाराः" [गणित¡, २८ ] इति छाया १६, गुणिता जाता ९६०; एततेव "शङ्कुगुणं शङ्कुभुजाविवरम्" अत्र अपि शङ्कुः गुणकारः आसीतिति "गुणकारा भागहरा" [ गणित ¡, २८ ] इति शङ्कुना १२ हृतं शङ्कुभुजाविवरं लब्धम् । तत्च ८० । उद्देशकः - यष्टिप्रदीपमूलात्पञ्चाशद्विवरसंस्थितः शङ्कुः । तस्य च्छाया पङ्क्तिः वाच्यः तस्मिन् कियान् दीपः ॥ ३ ॥ न्यासः - परिलेखः ४० करणम् - "शङ्कुगुणा कोटी सा छायाभक्ता भुजा भवति" [गणित¡, १६ ] इति वक्ष्यमाणकरणेन शङ्कुभुजाविवरयुक्तच्छाया कोटिः भवति इति । शङ्कुभुजाविवरम् ५०, छाया १०, एकत्र ६०, एतत्शङ्कुगुणम् ७२०, छायाभक्तं भुजाप्रमाणम् ७२ ॥ १५ ॥ [ शङ्कुच्छायाद्वयेन दीपोच्छ्रायापसारज्ञानम् ] अनिर्ज्ञातदीपोच्छ्रायावसानयोः शङ्कुच्छायाद्वयेन आनयनमाह - छायागुणितं छायाग्रविवरमूनेन भाजितं कोटी । शङ्कुगुणा कोटी साञ्छायाभक्ता भुजा भवति ॥ १३ ॥ छायागुणितं छायया गुणितम् । किं छायागुणितम् ? छायाग्रविवरम्, छायाग्रयोः विवरं छायाग्रविवरम्, छायाग्रान्तरालभूमिः इति अर्थः । तत्यथा - अनिर्ज्ञातोच्छ्राययष्टिप्रदीपात्कियतपि अपसृत्य शङ्कुः स्थापितः । तस्य छाया ज्ञायते एव । तच्छायाग्रात्परिगणिते अन्तरे द्वितीयशङ्कुः, तच्छायाग्रात्पूर्वशङ्कुच्छायाग्रमिति अन्तरं छायाग्रविवरम् । तदिष्टया प्रथमच्छायया द्वितीयच्छायया वा गुणितम् । ऊनेन भाजितम्, ऊनं छाययोः विशेषः, तेन ऊनेन भाजितम् । कोटी अवसानभूमिः । तत्यदि प्रथमच्छायया गुणितं तदा प्रथमच्छायाग्रयष्टिप्रदीपान्तरालं भवति, द्वितीयया छायया यदि तदग्रयष्टिप्रदीपान्तरालम् । शङ्कुगुणा कोटी, शङ्कुः गुणः यस्याः सा इयं शङ्कुगुणा कोटी । छायाभक्ता भुजा भवति, भुजा यष्टिप्रदीपोच्छ्रायः । छायाद्वयमपि तत्कोटिभ्यां प्रसाध्यते । उद्देशकः - शङ्कोः समयोः दृष्टे क्रमशः दशषोडशाङ्गुले छाये । अग्रान्तरं च दृष्टं त्रिंशत्कोटीभुजे वाच्ये ॥ १ ॥ न्यासः - परिलेखः ४१ करणम् - छायाग्रविवरम् ३०, एतत्प्रथमच्छायागुणितम् ३००; छाययोः विशेषः ६, अनेन लब्धं कोटी ५०; इयमेव कोटी शङ्कुगुणा जाता ६००, छायाभक्ता भुजा ६० । द्वितीयच्छायातः अपि कोटी ८०, भुजा सा एव ६० । उद्देशकः - पञ्च सप्त क्रमात्छाये नरयोः तुल्ययोः स्मृते । अष्टौ अग्रान्तरं दृष्टं भुजकोटी तदा उच्यताम् ॥ २ ॥ न्यासः - परिलेखः ४२ पूर्ववत्लब्धा कोटी २०, भुजा ४८ । द्वितीयच्छायातः अपि कोटी २८, भुजा सा एव ४८ । विषुवतहनि गगनतल[मध्य]वर्तिनि सवितरि समदक्षिणोत्तरदेशच्छायाग्रान्तरालयोजनैः छायाविशेषेण शङ्कुना [च] केचित्विवस्वदवनितलान्तरालयोजनानि आनयन्ति, ततयुक्तम् । अत्र प्रदीपच्छायाद्वयकर्मालापावतारः अपि न उपपद्यते । कुतः ? यस्माताह "भूरविविवरं विभजेत्" [गोल¡, ३९ ] इति । भूः शङ्कुः, रवियोजनकर्णः शङ्कुभुजाविवरम्, सकलजगदेकप्रदीपः भगवान् भास्करः स्वयमेव प्रदीपोच्छ्रायः इति अतः विवस्वदवनितलान्तरालयोजनानयनं न घटते, "भूरविविवरम्" इति सिद्धानामेव योजनानामुपदेशात् । अथ सविता एव प्रदीपोच्छ्रायः इति सवितृविष्कम्भप्रमाणमानीयते इति चेत्, तत्च न । यस्मात्स्वकक्ष्याकर्णभूविवरयोजनः गगनतलमध्यासीनः लोकान् द्योतयन् लक्ष्यते, तस्मात्प्रदीपोच्छ्रायः स्वयं सविता [न] भवितुमर्हति । अथ विवस्वान् प्रदीपोच्छ्रायः, सवितृधरित्रीमध्यान्तरालयोजनानि अशेषावनितलमण्डलव्यासप्रमाणस्य शङ्कोः विवरम्, तथा च द्वितीयस्य तावत्शङ्कोः अवस्थानाभावात्च न युज्यते । तस्मात्सुष्ठु उक्तम् "प्रदीपच्छाया[द्वय]कर्मालापावतारः अपि न उपपद्यते " इति । इयं च धरित्री गोलाकारा पठ्यते । तेन तत्पृष्ठवर्तिनामस्माकं वक्रत्वात्परिधेः शङ्कुच्छाया भुजकोटिकर्मपरिकल्पना अत्र [न] प्रवर्तते, यतः सलिलसमीकृते प्रदेशे शङ्कुच्छायया भुजाकोटिकर्णक्षेत्रसंस्थानम्, न च एतावत्या भुवः शक्यते समीकरणं कर्तुम् । अथ अभ्युपगम्य इदमुदाह्रियते - विषुवती उज्जयिन्यां दिनार्धवर्तिनी उष्णदीधितौ छाया पञ्चाङ्गुला । तया अक्षः लब्धः भागाः द्वाविंशतिः लिप्ताः सप्तत्रिंशत् । अनेन अक्षेण लङ्कोज्जयिन्यन्तरालयोजनानि लब्धानि सप्ताम्बरयमसङ्ख्यानि २०७ । ततः उज्जयिन्या उत्तरेण विषुवती एव मध्याह्नच्छाया स्थानेश्वरे सप्ताङ्गुला । तया च अक्षः लभ्दः भागाः त्रिंशत्सपादाः । अनेन अक्षेण लङ्कास्थानेश्वरान्तरालयोजनानि लब्धानि शराद्रियमसङ्ख्यानि २७५ । अत्र एतेषां योजनानां विशेषः अष्टषष्टिः शङ्कुद्वयविवरम्, छाययोः अन्तरेण द्वाभ्यां युक्ता अष्टषष्टिः, छायाग्रविवरं सप्ततिः । अत्र गणितकर्म "छायागुणितम् छायाग्रविवरम्" इति आदिकर्मणा कोटियोजनानि लभ्यन्ते । तैः च द्वितीयच्छायया नीयमानैः लङ्कास्थानेश्वरान्तरालयोजनैः एव भवितव्यम् , यस्मात्तस्मिन् काले विवस्वदधोवस्थितः देशः लङ्का । यदि विवस्वान् भुजा यदि वा विवस्वतः यः उच्छ्रायः, तस्मात्कोटेः लङ्कास्थानेशवरान्तरालयोजनसङ्ख्यानत्वात्गणितकर्म अपि अत्र न क्रामति । अत्र च यया कोट्या भुजा साध्यते सा च तावत्न सिद्धा, तया असिद्धया सिद्धभुजा साध्यते इति एततयुक्तम् । अन्यत् च यत्छाया द्वादशाङ्गुलस्य शङ्कोः प्रत्यक्षमस्माभिः उपलब्धा तया आङ्गुलप्रमाणया योजनैः कर्म क्रियते इति एतत्च न उपपद्यते । अथ द्वादशयोजनप्रमाणस्य शङ्कोः पञ्चयोजना सप्तयोजना च छाया इति एततपि तावतः शङ्कोः लम्बकेन ऋजुस्थितिः अशक्या ज्ञातुम्, न च उत्क्षेपणस्थापने । छाया च समायामवनौ साध्यते तावत्सु योजनेषु निम्नोन्नतसरितिति आदिविषमता तेन तदवगतिः न शक्यते । तस्मात्यथा आगमसिद्धौ एव सहस्रमरीचेः उच्छ्रायविष्कम्भौ । ततः न अत्र इयं गणितप्रक्रियाप्रकारवागुरा प्रसारणीया इति ॥ १६ ॥ [ भुजकोटिकर्णानां सम्बन्धः ] कर्णानयनार्थमाह - यः च एव भुजावर्गः कोटीवर्गः च कर्णवर्गः सः । यः च भुजावर्गः यः च कोटिवर्गः एतौ वर्गौ एकत्र कर्णवर्गः भवति । उद्देशकः - त्रिचतुष्कभुजाकोट्योः षडष्टसङ्ख्यानयोः तयोः च अपि । द्वादशकनवकयोः च क्रमेण कर्णाः विनिर्देश्याः ॥ १ ॥ न्यासः - परिलेखः ४३ करणम् - एते भुजाकोटी ३, ४; एतयोः वर्गौ ९, १६; एकत्र कर्णवर्गः २५, अस्य मूलं कर्णः ५ । एवमध्यर्धाश्रिक्षेत्रे आयतचतुरश्रक्षेत्रे वा कर्णः योज्यः । एवं परिशिष्टक्षेत्रयोः कर्णौ लब्धौ १०, १५ ॥ [ वृत्ते अर्धज्याशरयोः सम्बन्धः ] वृत्तक्षेत्रावगाहज्यानयनआय आर्यापश्चार्धमाह - वृत्ते शरसंवर्गः अर्धज्यावर्गः स खलु धनुषोः ॥ १७ ॥ वृत्ते क्षेत्रे, शरयोः संवर्गः शरसंवर्गः, सः अर्धज्यावर्गः भवति । स खलु धनुषोः, तयोः एव धनुषोः अर्धज्यावर्गः भवति । उद्देशकः - क्षेत्रे दशाविष्कम्भे द्विकाष्टसङ्ख्यौ शरौ मया दृष्टौ । तत्र एव नवैकमितौ अर्धज्ये तु क्रमात्वाच्ये ॥ १ ॥ न्यासः - परिलेखः ४४ करणम् - एतौ द्वौ शरौ २, ८ । एतयोः संवर्गः अर्धज्यावर्गः १६ । अस्य मूलम् ४, इयमर्धज्या । द्वितीयोद्देशके अपि लब्धा अर्धज्या ३ । अत्र एव श्येनमूषिकोद्देशान् व्यावर्णयन्ति । तत्यथा - अर्धज्या भुजा, अर्धज्यामण्डलकेन्द्रान्तरालं कोटिः, तद्वर्गयोगमूलं कर्णः मण्डलव्यासार्धम् । तत्तु प्रदर्श्यते - न्यासः - परिलेखः ४५ इयमर्धज्या श्येनस्थानोच्छ्रायः, अर्धज्यापरिध्यन्तरालं मूषिकप्रचारभूमिः, विष्कम्भार्धं कर्णः श्येनमार्गः । मण्डलकेन्द्रं मूषिकवधप्रदेशः । तत्र श्येनस्थानोच्छ्रायः अर्धज्या इति तद्वर्गः, मूषिकप्रचारभूमिः शरः इति तेन विभज्यते, लब्धं द्वितीयः शरः । तेन "अन्तरयुक्तं हीनम्" [श्लो¡ २४ ] इति एतं कृत्वा लब्धं मूषिकावासप्राप्यभूमिः श्येन[गति]कर्णप्रमाणं च । यः एव द्वितीयः महाशरः स एव वंशभङ्गपदे अर्धत्र्यश्रिक्षेत्राकारेण व्यवस्थितः । तत्च प्रदर्शितम् । एवं गणितं बीजमात्रमुपदिष्टम् । [ उद्देशकः ] - द्वादशहस्तोच्छ्रितस्य प्राकारस्य उपरि श्येनः व्यवस्थितः । तेन प्राकारमूलात्चतुर्विंशतिहस्तनिष्क्रान्तः मूषिकः [दृष्टः, तेन] मूषिकेन च श्येनः । तत्र मूषिकः तद्भयात्प्राकारावस्थितमात्मीयालयं द्रुततरं प्रस्थितः अन्तरे श्येनेन कर्णगतिना व्यापादितः । तत्र इच्छामः ज्ञातुम् [कि]यतन्तरमाखुना प्राप्तम्, कियत्वा श्येनेन आयातमिति ॥ २ ॥ न्यासः - परिलेखः ४६ करणम् - श्येनोच्छ्रायवर्गः १४४, एततनेन मूषिकप्रचारभूमिप्रमाणेन २४ विभज्य लब्धम् ६, अनेन अन्तरेण मूषिकप्रचारभूमिः युक्ता ३०, अपचिता १८ । एतयोः अर्धं श्येनगतिः मूषिकावासान्तरालं च यथाक्रमेण १५, ९. उद्देशकः - अष्टादशकोच्छ्राये श्येनः स्तम्भे स्थितः हि आखुः । आवासात्निष्क्रान्तः तु एकाशीत्या भयात्श्रयेनात् ॥ गच्छनालयदृष्टिः क्रूरेण निपातितः ततः मार्गे । कियता प्राप्नोति बिलं श्येनगतिः वा तदा वाच्यम् ॥ ३ ॥ न्यासः - परिलेखः ४७ लब्धमाखोः आगतभूमिः ८ १ २ , श्येनगतिः ४२ १ २ . अनेन एव प्रकारेण वंशभङ्गोद्देशकः - अष्टादशकोच्छ्रायः वंशः वातेन पातितः मूलात् । षड्गत्वा असौ पतितः त्रिभुजं कृत्वा क्व भग्नः स्यात् ॥ ४ ॥ न्यासः - वंशः १५, मूलात्यः अपसारः तत्प्रमाणमर्धज्या ६, तस्य वर्गः ३६, वंशप्रमाणेन अनेन १८ भक्तः लब्धम् २, पूर्ववत्"अन्तरयुक्तं हीनं दलितम्" [ गणित¡ २४ ] इति वंशशकले १०, ८. परिलेखः ४८ उद्देशकः - षोडशहस्तः वंशः पवनेन निपातितः स्वमूलात्तत् । अष्टौ गत्वा पतितः कस्मिन् भग्नः मरुत्वतः वाच्यः ॥ ५ ॥ न्यासः - परिलेखः ४९ लब्धे वंशशकले १०, ६. कमलोद्देशकेषु दृश्यकमलप्रमाणमेकः शरः । कमलनिमज्जनभूमिः अर्धज्या । अत्र पूर्ववतर्धज्यावर्गे शरहृते महाशरः लभ्यते तत्र दृश्यकमलसंक्रमणेन जलप्रमाणं कमलप्रमाणं च । उद्देशकः - कमलं जलात्प्रदृश्यं विकसितमष्टाङ्गुलं निवातेन । नीतं मज्जति हस्ते शीघ्रं कमलाम्भसी वाच्ये ॥ ६ ॥ न्यासः - परिलेखः ५० दृश्यकमलस्य [प्रमाणम्] ८, निमज्जनभूमिः २४ । करणम् - अर्धज्यायाः चतुर्विंशतेः वर्गः ५७६, तत्दृश्यकमलेन अष्टाभिः भागलब्धम् ७२ । एतत्दृश्यकमलयुक्तम् ८०, विहीनं च ६४ । एते दलिते कमलप्रमाणं जलप्रमाणं च ४०, ३२ । उद्देशकः - अङ्गुलषट्कं कमलं मज्जति हस्तद्वयं गतं मूलात् । इच्छामि तत्र बोद्धुं पङ्कजमम्भःप्रमाणं च ॥ ७ ॥ न्यासः - परिलेखः ५१ दृश्यम् ६, निमज्जनभूमिः ४८ । लब्धं पूर्ववत्पङ्कजप्रमाणम् १९५, अम्भः प्रमाणम् १८९. मत्स्यबकोद्देशकेषु अपि एवमेव आयतचतुरश्रक्षेत्रस्य एकः बाहुः अर्धज्या, बाहुद्वयं महाशरः, शेषं मूषिकोद्देशकवत्कर्म । उद्देशकः - षड्द्वादशिका वापी तस्यां पूर्वोत्तरे स्थितः मत्स्यः । वायव्ये कोणे स्यात्बकः स्थितः तद्भयात्तूर्णम् ॥ भित्वा वापीं मत्स्यः कर्णेन गतः दिशं ततः याम्याम् । पार्श्वेन आगत्य हतः बकेन वाच्यं तयोः यातम् ॥ ८ ॥ न्यासः - परिलेखः ५२ बकमत्स्यकरणम् - वापीपार्श्वमर्धज्या इति तस्य वर्गः ३६, पार्श्वद्वयं महाशरः इति जातम् १८ । अनेन भागलब्धम् २ । एतेन अष्टादशभिः संक्रमणेन लब्धं मत्स्यबकगतिप्रमाणं वापीपार्श्वशेषः च १०, ८ । पार्श्वशेषे पार्श्वपतिते शेषः दक्षिणापरकोणप्राप्तिः मत्स्यस्य । उद्देशकः - द्वादशदशिका वापी हि आग्नेयस्थः बकः अथ मत्स्यः अपि । ऐशान्यामपराशागतः हतः असौ कियत्वाच्यम् ॥ ९ ॥ न्यासः - परिलेखः ५३ पूर्ववत्लब्धं दक्षिणापरकोणात्बकेन गतम् ३ ३ ११ । पश्चिमबाहोः अनुप्रविष्टमत्स्यगतिः ८ ८ ११ । विलोमबीजकरणेन एतत्सर्वमनुष्ठितम् । प्रत्ययकरणं च सर्वेषु एव क्षेत्रेषु "यः च एव भुजावर्गः कोटीवर्गः च कर्णवर्गः सः" [गणित¡, १७ ] इति अनेन एव इति ॥ १७ ॥ [ वृत्तावगाहशरज्ञानम् ] वृत्तावगाहशरानयनाय आह - ग्रासोने द्वे वृत्ते ग्रासगुणे भाजयेत्पृथक्त्वेन । ग्रासोनयोगलब्धौ संपातशरौ परस्परतः ॥ १८ ॥ ग्रासेन ऊने ग्रासोने । के ? द्वे वृत्ते, ग्राह्यग्राहकमण्डलद्वयम् । ग्रासगुणे, ग्रासः गुणः ययोः ते ग्रासगुणे । भाजयेत्पृथक्त्वेन, एकैकम् । केन ? ग्रासोनयोगलब्धौ । ग्रासोनयोः योगः ग्रासोनयोगः, तयोः एव वृत्तयोः ग्रासविवर्जितयोः समासः ; तेन ग्रासोनयोगेन लब्धौ ग्रासोनयोगलब्धौ । सम्पाते शरौ सम्पातशरौ, अवग्राहशरौ इति यावत् । परस्परतः, अन्योन्यतः । यस्मात्महाविष्कम्भस्य अल्पः शरः महत्वात्मण्डलस्य, अल्पव्यासस्य महान् शरः । यस्मातल्पस्य मण्डलस्य अल्पः अपि अवयवः अतिवक्रः उपलभ्यते, न तथा महतः । तस्मात्तौ संपातशरौ परस्परतः भवतः । उद्देशकः - अशीतिविष्कम्भतमोमयेन द्वात्रिंशतिन्दोः स्थगिता यदा अष्टौ । ज्ञातुं ततिच्छामि शरौ कियन्तौ राहोः अथ इन्दोः परिपूर्णमूलैः ॥ १ ॥ न्यासः - परिलेखः ५४ करणम् - ग्रासोने द्वे वृत्ते ७२, २४ । ग्रासगुणे ५७६, १९२ । ग्रासोनयोगः ९६ । अनेन लब्धौ शरौ चन्द्रमसः ६, राहोः २, परस्परतः इति ॥ १८ ॥ [ श्रेढीगणितम् ] अथ इदानीं श्रेढीगणितानयनाय आह - इष्टं व्येकं दलितं सपूर्वमुत्तरगुणं समुखं मध्यम् । इष्टगुणितमिष्तधनं तु अथवा आद्यन्तं पदार्धहतम् ॥ १९ ॥ इष्टम्, ईप्सितम् । विगतमेकेन व्येकम् । दलितम्, अर्धितम् । सपूर्वम्, इष्टात्पदात्यानि प्रागवस्थितानि [ पदानि ] तानि पूर्वशब्देन उच्यन्ते, सह पूर्वेण वर्तते इति सपूर्वम् । उत्तरः गुणः यस्य तदुत्तरगुणम् । समुखम्, मुखमादिः, सह मुखेन वर्तते इति समुखम् । मध्यधनं भवति । इष्टगुणितम्, इष्टेन गुणितमिष्टगुणितम् । इष्टधनम्, इष्टस्य गच्छस्य धनं भवति । अत्र बहूनि सूत्राणि मुक्तकव्यवस्थितानि, तेषां यथासंयोगं सम्बन्धः । "इष्टं व्येकं दलितमुत्तरगुणं समुखम्" इति मध्यधनानयनार्थं सूत्रम् । "मध्यमिष्टगुणितमिष्टधनम्" इति गच्छधनानयनार्थम् । "इष्टं व्येकं सपूर्वमुत्तरगुणं समुखम्" इति अन्त्योपान्त्यादिधनानयनार्थम् । "इष्टं व्येकं दलितं सपूर्वमुत्तरगुणं समुखमिष्टगुणितमिष्टधनम्" इति अवान्तरयथेष्टपदसङ्ख्यानयनार्थम् । एवम् एतानि पादोनया आर्यया प्रतिबद्धानि । तानि यथाक्रमेण उद्देशकेषु एव प्रतिपादयिष्यामः । उद्देशकः - आदिः द्वितयं दृष्टं श्रेढ्याः प्रवदन्ति च उत्तरं त्रीणि । गच्छः पञ्च निरुक्तः मध्याशेषे धने ब्रूहि ॥ १ ॥ न्यासः - आदिः २, उत्तरम् ३, गच्छः ५ । करणम् - इष्टं गच्छः ५, व्येकम् ४, दलितम् २, उत्तरगुणम् ६, समुखम् ८, एतत्मध्यधनम् । एततेव इष्टगच्छेन गुणितं सर्वधनं जातम् ४० । उद्देशकः - अष्टावादिः यस्याः पञ्च प्रवदन्ति च उत्तरं श्रेढ्याः । गच्छः अष्टादश दृष्टः मध्याशेषे धने वाच्ये ॥ २ ॥ न्यासः - आदिः ८, उत्तरम् ५, गच्छः १८ । पूर्ववत्लब्धं मध्यधनम् ५० १ २, सर्वधनम् ९०९ । अन्त्योपान्त्यादिधनानयने उद्देशकः - एकादशोत्तरायाः सप्तादेः पञ्चविंशतिः गच्छः । तत्र अन्त्योपान्त्यधने वद शीघ्रं विंशतेः च कियत् ॥ ३ ॥ न्यासः - आदिः ७, उत्तरम् ११, गच्छः २५ । करणम् - इष्टं पञ्चविंशतिः २५, पूरणं पदमेकमिति एकं रूपम् १, एततेव व्येकं शून्यम् ०, एततेव सपूर्वमिति शून्येन क्षिप्ता चतुर्विंशतिः २४, उत्तरगुणम् २६४, समुखम् २७१, एततन्त्यधनम् । उपान्त्यधनानयने अत्र पूर्वाणि पदानि त्रयोविंशतिः २३ । एतैः पूर्वकरणेन उपान्त्यधनं लब्धम् २६० । विंशतेः तु पूर्वपदानि एकोनविंशतिः । एतैः पूर्ववत्विंशतितमस्य पदस्य धनम् २१६ । अवान्तरे यथेष्टपदसङ्ख्याधनानयने उद्देशकः - द्व्यादित्र्युत्तरसङ्ख्यं दिने दिने कार्तिके क्रमात्मासे । प्रददाति महीपालः पञ्चदशाहे गते विप्रः ॥ ब्रह्मिष्ठः सम्प्राप्तः तस्मै दत्ता दशाहधनसङ्ख्या । पञ्चदिनोत्था अन्यस्मै कथय धनं किं तयोः तत्र ॥ ४ ॥ न्यासः - आदिः २, उत्तरम् ३, गच्छः ३०। अत्र पञ्चदशाहे गते ब्रह्मिष्ठः आगतः तस्मै षोडशाहात्प्रभृति यतुपचितं दशाहधनं तत्दत्तमिति दश १० इष्टम्, व्येकमिति जातम् ९, दलितमिति ४ १ २, एतत्सपूर्वमिति १९ १ २ उत्तरगुणितमिति ५८ १ २, समुखमिति ६० १ २, इष्टगुणितमिष्टधनमिति दशगुणितं जातम् ६०५ । द्वितीयस्य अपि ४१५ । उद्देशकः - पञ्चदशादिः यस्मिनुत्तरमष्टादश उच्यते गच्छः । त्रिंशत्मध्यदशानां धनसङ्ख्यां गण्यतां शीघ्रम् ॥ ५ ॥ न्यासः - [ आदिः ] १५, उत्तरम् १८, गच्छः ३०, दशसु व्यतिरिक्तेषु च शेषेषु मध्यस्थितानि पदानि १० । लब्धं पूर्वकरणेन २७६० । सर्वधनानयने उपायान्तरं पुनरपि आर्यापादेन आह - तु अथवा आद्यन्तं पदार्धहतम् । अथवा अयमपरः प्रकारः । आदिः च अन्तः च आद्यन्तम् । आदिशब्देन आदिधनं परिगृह्यते, अन्तशब्देन अन्त्यधनम् । तताद्यन्तम् । पदं गच्छः, तस्य अर्धं पदार्धम्, पदार्धेन हतं पदार्धहतम् । तताद्यन्तं पदार्धगुणितमिष्टधनमिति अनुवर्तनातिष्टधनं भवति । उद्देशकः - पञ्चभिः आद्यः शङ्खः पञ्चोनशतेन यः भवेतन्त्यम् । एकादशशङ्खानां यत्तत्मूल्यं त्वमाचक्ष्व ॥ ६ ॥ न्यासः - आदिशङ्खमूल्यम् ५, अन्त्यस्य ९५, शङ्खाः ११ । करणम् - आद्यन्तधने १००, पदार्धम् ५ १ २ अनेन गुणितं सर्वशङ्खमूल्यम् ५५० । उद्देशकः - आदिधनमेकमुक्तं हि अन्त्यधनं प्रोच्यते शतं सद्भिः । पदमपि तावत्प्रोक्तं सर्वधनं तत्कियत्दृष्टम् ॥ ७ ॥ न्यासः - आदिधनम् १, अन्त्यधनम् १००, गच्छः अपि एततेव १०० । सर्वधनं पूर्ववत्५०५० ॥ १९ ॥ [ गच्छज्ञानम् ] गच्छानयनार्थमाह - गच्छः अष्टोत्तरगुणितात्द्विगुणाद्युत्तरविशेषवर्गयुतात् । मूलं द्विगुणाद्यूनं स्वोत्तरभजितं सरूपार्धम् ॥ २० ॥ गच्छः इति अनेन [प]दधनं परिगृह्यते । अष्टोत्तरगुणितातष्टाभिः उत्तरेण च गुणितमष्टोत्तरगुणितम् । तस्मातष्टोत्तरगुणितात् । द्विगुणाद्युत्तरविशेषवर्गयुतात्, द्विगुणः च असौ आदिः च द्विगुणादिः, द्विगुणादेः उत्तरस्य च विशेषः द्विगुणाद्युत्तरविशेषः, द्विगुणाद्युत्तरविशेषस्य वर्गः द्विगुणाद्युत्तरविशेषवर्गः, द्विगुणाद्युत्तरविशेषवर्गेण युतं द्विगुणाद्युत्तरविशेषवर्गयुतम्, तस्मात्द्विगुणाद्युत्तरविशेषवर्गयुतात्गच्छधनात् [सर्वधनात्] अष्टोत्तरगुणितात्मूलम्, द्विगुणाद्यूनं द्विगुणः च असौ आदिः च द्विगुणादिः, तेन द्विगुणादिना ऊनं द्विगुणाद्यूनम्, स्वोत्तरेण भजितं स्वोत्तरभजितम्, सह रूपेण वर्तते इति सरूपम्, अर्धं दलितम्, गच्छः भवति । उद्देशकः - आदिः पञ्च प्रोक्तः सप्ताख्यं च उत्तरं भवेत्श्रेढ्या । पञ्चोनशतं द्रव्यं गच्छः वाच्यः कियान् तस्य ॥ १ ॥ न्यासः - आदिः ५, उत्तरम् ७, सर्वधनम् ९५ । करणम् - गच्छधनातष्टोत्तरगुणितातिति गच्छधनमष्टाभिः उत्तरेण च गुणितं जातम् ५३२० । द्विगुणः आदिः १०, एततुत्तरविशेषितम् ३, एतस्य वर्गः ९, अनेन युक्तं जातम् ५३२९, एतस्मात्मूलम् ७३, द्विगुणाद्यूनम् ६३, स्वोत्तरेण अनेन ७ भजितम् ९, सरूपम् १०, अर्धं गच्छः ५ । उद्देशकः - नवकाष्टौ वृद्धिमुखे यत्र यत्कीर्त्यते धनं क्रमशः । रामाष्टशरं दृष्टं पदप्रमाणं त्वया वाच्यम् ॥ २ ॥ न्यासः - आदिः ८, उत्तरम् ९, गच्छधनम् ५८३ । पूर्ववत्लब्धं पदप्रमाणम् ११ ॥ २० ॥ [ चितिघनज्ञानम् ] सङ्कलनासङ्कलनानयनाय आह - एकोत्तराद्युपचितेः गच्छाद्येकोत्तरत्रिसंवर्गः । षड्भक्तः स चितिघनः सैकपदघनः विमूलः वा ॥ २० ॥ उत्तरं च आदिः च उत्तरादी । एकमुत्तरादी यस्याः सैकोत्तरादिः । एकोत्तरादिः च असौ उपचितिः च एकोत्तराद्युपचितिः । उपचितिः श्रेढी एकोत्तरादित्वेन विशेष्यते । स एव एकोत्तराद्युपचितिः सङ्कलना इति उच्यते । तस्याः एकोत्तराद्युपचितेः सङ्कलनासंज्ञितायाः गच्छात्प्रभृति एकोत्तरत्रिसंवर्गः एकोत्तराणां त्रयाणां गच्छादेः सम्वर्गः । तत्यथा - गच्छः, स एकोत्तरम्, पुनरपि एकोत्तरम् । त्रयाणां गच्छादेः संवर्गः । तत्यथा - गच्छः, स एकोत्तरम्, पुनरपि एकोत्तरम् । एततुक्तं भवति - गच्छः, स एव एकोत्तरः, स एव गच्छः द्व्युत्तरः, तेषां त्रयाणां संवर्गः, षड्भक्तः षड्भिः विभाजितः, स चितिघनः चितेः घनः चितिघनः सङ्कलनासङ्कलना इति अर्थः । अथ अन्यः करणोपायः - सैकपदघनः, सैकं च तत्पदं च सैकपदम्, सैकपदस्य घनः सैकपदघनः, विगतः मूलेन विमूलः षड्भक्तः इति अनुवर्तते । वा सैकस्य पदस्य घनगणितं वा स्वमूलविरहितं षड्भिः भक्तं चितिघनः भवति । उद्देशकः - पञ्चानामष्टानां चतुर्दशानां च याः क्रमात्चितयः । गच्छः तराः त्रिकोणा [ रूपविधानं च ] मे वाच्यम् ॥ १ ॥ न्यासः - परिलेखः ५५ यथाक्रमेण गच्छाः ५, ८, १४ । करणम् - गच्छः पञ्च ५ । अयमेकोत्तरः ६ । पुनरयमेकोत्तरः ७ । एतेषां त्रयाणां संवर्गः २१० । अयं षड्भक्तः सङ्कलनासङ्कलना भवति ३५ । द्वितीयोपायकरणम् - सैकपदम् ६, अस्य घनः २१६, अयं विमूलः इति षड्भिः एव रहितः २१०, पूर्ववत्षड्भक्तः सङ्कलनासङ्कलना भवति ३५ । शेषयोः अपि लब्धं यथाक्रमेण १२०, ५६० ॥ २१ ॥ [ वर्गचितिघनः घनचितिघनः च ] वर्गघनसङ्कलनानयनाय आह - सैकसगच्छपदानां क्रमात्त्रिसम्वर्गतस्य षष्ठः अंशः । वर्गचितिघनः स भवेत्चितवर्गः घनचितिघनः च ॥ २२ ॥ सह एकेन वर्तते इति सैकः । सह गच्छेन वर्तते इति सगच्छः । अनन्तरप्रकृतः सैकसगच्छः । पदं गच्छः तत्र सैकं च [सैक] सगच्छं च पदं च सैकसगच्छपदानि । तेषां सैकसगच्छपदानां क्रमातानुपूर्व्यात् । त्रयाणां संवर्गितं त्रिसंवर्गितम् । केषां त्रयाणाम् ? प्रकृतानां सैकसगच्छपदानम् । षष्ठः अंशः । तस्य त्रिसंवर्गितस्य षष्ठः अंशः षष्ठः भागः । वर्गचितिघनः स भवेत् । वर्गस्य चितिः वर्गचितिः वर्गचितेः घनः वर्गचितिघनः । वर्गसङ्कलना इति अर्थः । चितिवर्गः घनचितिघनः च । चितेः वर्गः सङ्कलनावर्गः इति यावत् । स एव चितिवर्गः घनचितिघनः भवति । उद्देशकः - सप्तानामष्टानां सप्तदशानां चतुर्भुजाः चितयः । एकविधानं वाच्यं पदः तराः ताः हि वर्गाख्याः ॥ १ ॥ न्यासः - परिलेखः ५६ करणम् - पदम् ७, सैकम् ८, एततेव सगच्छम् १५ । एतेषां त्रयाणां संवर्गः ८४०, षड्भक्तः वर्गचितिघनप्रमाणम् १४० । शेषयोः अपि यथाक्रमेण लब्धम् २०४, १७८५ । घनचितौ उद्देशकः - चतुरश्रघनाः चितयः पञ्चचतुर्नवस्तराः विनिर्देश्याः । एकावघटिताः ताः समचतुरश्रेष्टकाः क्रमशः ॥ २ ॥ न्यासः - परिलेखः ५७ परिलेखः ५८ करणम् - चितिसङ्कलना । सा च "अथवा आद्यन्तं पदार्धहतम्" [ गणित ¡, २९ ] इति अनेन आनीयते । अत्र आदिः एकः १, अन्त्यधनं पञ्च ५, एकत्र षट्६, पदार्धेन पञ्चानामर्धेन हतं सङ्कलनाचितिः पञ्चानां जाता १५, अस्य वर्गः घनचितिघनः भवति । स च २२५ । शेषयोः अपि यथाक्रमेण लब्धम् १००, २०२५ ॥ २२ ॥ [ प्रकारान्तरेण राशिद्वयसंवर्गज्ञानम् ] द्वयोः रास्योः संवर्गानयन उपायान्तरमाह - सम्पर्कस्य हि वर्गात्विशोधयेतेव वर्गसम्पर्कम् । यत्तस्य भवति अर्धं विद्यात्गुणकारसंवर्गम् ॥ २३ ॥ सम्पर्कः समासः । येन द्वयोः राश्योः सम्पर्कः भवति इति द्वयोः एव सम्पर्कः परिगृह्यते । तस्य सम्पर्कस्य । हि पादपूरणे । वर्गात्, कृतेः । विशोधयेतेव, अपनयेतेव । किमिति आह - वर्गसम्पर्कम् । वर्गीकृतयोः सम्पर्कः वर्गसम्पर्कः वर्गसमासः, तं वर्गसम्पर्कं सम्पर्कस्य वर्गात्विशोधयेत् । यत्तस्य भवति अर्धम्, तस्य शुद्धशेषस्य अर्धं दलं यत्भवति । विद्यात्, अवबुद्ध्यात् । गुणकारसंवर्गम्, गुणकारयोः संवर्गः गुणकारसम्वर्गः, तं गुणकारसंवर्गं विद्यात् । उद्देशकः - पञ्चानां च चतुर्णां सप्तनवानां च कः भवेत्घातः । अष्टानां च दशानां पृथक्पृथक्वाच्यतां शीघ्रम् ॥ १ ॥ न्यासः - ५ ७ ८ ४ ९ १० करणम् - पञ्चानां चतुर्णां च सम्पर्कः ९, अस्य वर्गः ८१; पञ्चानां वर्गः २५, चतुर्णां वर्गः १६, एकत्र ४१, सम्पर्कवर्गातिमं पञ्चवर्गचतुर्वर्गसम्पर्कं विशोधयेत् । तत्र शेषः ४० । अस्य अर्धं पञ्चानां चतुर्णां च संवर्गः लब्धः २० । शेषयोः अपि यथाक्रमेण ६३, ८० ॥ २३ ॥ [ गुण्य-गुणकयोः आनयनम् ] गुणकारयोः आनयनाय आह - द्विकृतिगुणात्संवर्गात्द्व्यन्तरवर्गेण संयुतात्मूलम् । अन्तरयुक्तं हीनं तत्गुणकारद्वयं दलितम् ॥ २४ ॥ द्वयोः कृतिः द्विकृतिः, द्विकृतिः गुणः यस्य स द्विकृतिगुणः, तस्मात्द्विकृतिगुणात् । कस्मातिति आह - संवर्गात् । द्व्यन्तरवर्गेण सम्युतात् । द्वयोः अपि अन्तरं द्व्यन्तरम्, द्व्यन्तरस्य वर्गः द्व्यन्तरवर्गः, तेन द्व्यन्तरवर्गेण संयुतात् । द्विकृतिगुणात्संवर्गात्द्वयोः अपि अन्तरवर्गेण मिश्रितात्यत्मूलम् । ततन्तरयुक्तमन्तरेण युक्तमन्तरयुक्तम् । हीनं विरहितम् । तद्गुणकारद्वयं तस्य संवर्गस्य गुणकारद्वयम् । दलितमर्धितम् । उद्देशकः - संवर्गः अष्टौ दृष्टः व्यक्तं तत्र अन्तरं भवेत्द्वितयम् । अष्टादशके मुनयः गुणकारौ तौ तयोः वाच्यौ ॥ १ ॥ न्यासः - संवर्गः ८, अन्तरम् २ । संवर्गः १८, अन्तरम् ७ । करणम् - संवर्गः ८, एतत्द्विकृतिगुणम् ३२; द्व्यन्तरम् २, अस्य वर्गः ४, अनेन संयुक्तः ३६ । अस्य मूलम् ६, एतत्तेन अन्तरेण युक्तम् ८, हीनम् ४ । यथाक्रमेण दलितौ परस्परगुणकारौ ४, २ । द्वितीयोद्देशके अपि गुणकारौ लब्धौ ९, २ । अत्र गुण्यगुणकारयोः अविशेषात्गुणकारद्वयमिति उच्यते ॥ २४ ॥ [ मूलफलज्ञानम् ] मूलफलानयनार्थमाह - मूलफलं सफलं कालमूलगुणमर्धमूलकृतियुक्तम् । तन्मूलं मूलार्धोनं कालहृतं स्वमूलफलम् ॥ २५ ॥ मूलं शतादि, फलं वृद्धिः, मूलस्य फलं मूलफलम् । सह फलेन वर्तते इति सफलम्, आत्मीयया वृद्ध्या युक्तं मूलफलमिति यावत् । कालमूलगुणम्, कालं च मूलं च कालमूले, कालमूले गुणौ यस्य मूलफलस्य तत्कालमूलगुणं मूलफलम् । अर्धमूलकृतियुक्तम्, [ अर्धं मूलस्य अर्धमूलं मूलार्धमिति, अर्धमूलस्य कृतिः अर्धमूलकृतिः, मूलकृतेः चतुर्थः भागः इति ], [अर्ध]कृतित्वात्द्वयोः वर्गेण इति चतुर्विभागः, तया अर्धमूलकृत्या युक्तमर्धमूलकृतियुक्तम् । तन्मूलम्, तस्य एव निष्पादितस्य मूलं तन्मूलम् । मूलार्धोनम्, मूलस्य शतादेः अर्धेन ऊनं मूलार्धोनम् । कालहृतम्, कालेन हृतं कालहृतम् । स्वमूलफलम्, स्वस्य मूलस्य फलं स्वमूलफलम् । उद्देशकः - जानामि शतस्य फलं न च किन्तु शतस्य यत्फलं सफलम् । मासैः चतुर्भिः आप्तं षड्वद वृद्धिं शतस्य मासोत्थाम् ॥ १ ॥ न्यासः - १०० ० १ ४ ० ६ मासः ४, फलम् ६ । करणम् - मूलफलं सफलम् ६, कालमूलगुणम् २४०० । अर्धमूलकृतिः २५००, अनया युक्तम् ४९०० । एतस्य मूलम् ७०, मूलार्धोनम् २०, कालहृतम् [स्व]मूलफलं जातम् ५ । प्रत्ययकरणं पञ्चराशिकेन - यदि शतस्य मासिकी वृद्धिः पञ्च तदा चतुर्भिः मासैः शतवृद्धेः [पञ्चधनस्य] का वृद्धिः इति । न्यासः - १ ४ १०० ५ ५ ० लब्धम् १ । एतत्सहिता शतवृद्धिः षड्रूपाणि ६ । उद्देशकः - पञ्चविंशतेः मासिकी वृद्धिः न ज्ञायते । या पञ्चविंशतेः मासिकी वृद्धिः सा तेन एव अर्धेण अन्यत्र प्रयुक्ता, सह वृद्ध्या पञ्चभिः मासैः दृष्टा रूपत्रयं पञ्चभागोनम् । तत्र इच्छामः ज्ञातुं का पञ्चविंशतेः मासिकी वृद्धिः, का वा पञ्चविंशतिव[ऋ]द्धेः पञ्चमासप्रयुक्ताया वृद्धिः इति ॥ २ ॥ न्यासः - २५ ० १ ५ ० २ ४ ५ लब्धं पूर्वकरणेन पञ्चविंशतेः मासिकी वृद्धिः २, पञ्चविंशतिवृद्धेः च पञ्चानां मासानां वृद्धिः ० ४ ५ । उद्देशकः - शतस्य मासिकी वृद्धिः न ज्ञायते । किन्तु शतवृद्धिः अन्यत्र प्रयुक्ता पञ्चभिः मासैः सह वृद्ध्या दृष्टा रूपपञ्चदशकम् । तत्र इच्छामः ज्ञातुं का च शतस्य मासिकी वृद्धिः का वा शतस्य वृद्धेः पञ्चमासप्रयुक्ताया वृद्धिः इति ॥ ३ ॥ न्यासः - १०० ० १ ५ ० १५ मासाः ५, सफलम् १५ । लब्धम् - पूर्ववत्शतवृद्धिः १०, शतवृद्धेः पञ्चमासप्रयोगात्वृद्धिः ५ ॥ २५ ॥ [ त्रैराशिकम् ] त्रैराशिकप्रतिपादनार्थमध्यर्धार्यामाह - त्रैराशिकफलराशिं तमथ इच्छाराशिना हतं कृत्वा । लब्धं प्रमाणभजितं तस्मातिच्छाफलमिदं स्यात् ॥ २६ ॥ छेदाः परस्परहताः भवन्ति गुणकारभागहाराणाम् । त्रयः राशयः समाहृताः त्रिराशिः । त्रिराशिः प्रयोजनमस्य गणितस्य इति त्रैराशिकः । त्रैराशिके फलराशिः त्रैराशिकफलराशिः । तं त्रैराशिकफलराशिम् । अथशब्दः परिज्ञानवस्तुपरिग्रहे उत्तरग्रन्थप्रतिपादने वर्तते । अत्र एवंप्रकारः अर्थः कः अत्र प्रतिपादितः ? उच्यते - परिभाषा । सा च लोकव्यवहारात्प्रतिविषयं भिन्ना इति लोकप्रयोगातेव प्रदर्शिता । अन्यथा हि प्रतिविषयं भिन्नाः परिभाषाः विषयाः च संख्यातीताः । तेन उपदेष्टुम् अशेषतः सा न शक्यते । अतः अथशब्देन लोकप्रसिद्धां परिभाषां प्रतिपादयति । इच्छाराशिना हतं कृत्वा, यः असौ फलराशिः स इच्छाराशिना हतः क्रियते, तमिच्छाराशिना हतं गुणितं कृत्वा । लब्धम्, लब्धमाप्तम् । कथमिति आह - प्रमाणभजितम्, प्रमाणराशिना भजितं प्रमाणभजितम् । तस्मातेवंविधात्राशेः प्रमाणभजितात् । इच्छाफलम्, इच्छायाः फलम्, इच्छाफलम्, इच्छाराशिफलमिति अर्थः । इदमिति लब्धं प्रत्यक्षीकृत्य उक्तम् । अत्र त्रैराशिकमेव केवलमभिहितमाचार्यार्यभटेन, पञ्चराशिकादयः अनुपातविशेषाः कथमवगन्तव्याः ? उच्यते - अनुपातबीजमात्रमेव आचार्येण उपदिष्टम् ; तेन अनुपातबीजेन सर्वमेव पञ्चराश्यादिकं सिद्ध्यति । कुतः ? पञ्चराशिकादीनां त्रैराशिकसङ्घातत्वात् । कस्मात्पञ्चराश्यादयः त्रैराशिकसंहताः ? पञ्चराशिके त्रैराशिकद्वयं संहतम्, सप्तराशिके त्रैराशिकत्रयम्, नवराशिके त्रैराशिकचतुष्टयमिति आदि उद्देशकेषु एव उपदेक्ष्यामः । यदा पुनः राशयः सच्छेदाः स्युः तदा कथं कर्तव्यमिति आह - छेदाः परस्परहताः भवन्ति गुणकारभागहाराणाम् । छेदाः परस्परस्य हताः अन्योन्यहताः । केषामिति अतः आह - गुणकारभागहाराणाम् । गुण्यगुणकारयोः परस्परापेक्षया गुणकारत्वम् , यस्मात्गुण्यः गुणकारेण गुण्यते, गुणकारः अपि गुण्येन, न कश्चित्फलविशेषः । तेन उक्तं गुण्यगुणकारौ गुणकारशब्देन । गुणकारौ च भागहारः च गुणकारभागहाराः । अतः तेषां गुणकारभागहाराणां छेकाः परस्परहताः ये गुणकारच्छेदाः भागहारहताः ते भागहाराः भवन्ति, भागहारच्छेदाः च गुणकारहताः गुणकाराः भवन्ति इति एततनुक्तमपि अवगम्यते एव, यस्मात्तद्धर्माय छेदाः परस्परं नीयन्ते । भागहाराणां संवर्गः भागहारः । गुणकाराणां संवर्गः गुणकारः इति अर्थातवगम्यते । उद्देशकः - चन्दनपलानि पञ्च क्रीतानि मया हि रूपकैः नवभिः । चन्दनमेकेन तदा लभ्यम् [ किम् ] रूपकेण एव ॥ १ ॥ तत्र यथाक्रमेण स्थापना । उक्तं च - आद्यन्तयोः तु सदृशौ विज्ञेयौ स्थापनासु राशीनाम् । असदृशराशिः मध्ये त्रैराशिकसाधनाय बुद्धेः ॥ इति । न्यासः - ९ ५ १ करणम् - रूपकैः नवभिः पञ्चचन्दनपलानि इति नव प्रमाणराशिः, पञ्च फलराशिः । एकेन रूपेण किमिति एकमिच्छाराशिः । तेन एकेन इच्छाराशिना फलराशिः गुणितः ५, प्रमाणराशिना नवकेन विभज्यते ५ ९ । तत्र फलेषु भागं न प्रयच्छति इति "चतुष्कर्षं पलम्" इति चतुर्भिः गुणितम् २० ९ । लब्धं कर्षद्वयं कर्षभागौ च [ नवानाम्] । कर्षब्२ कर्षभागः २ ९ । उद्देशकः - आर्द्रकभारः दशभिः सपञ्चभागैः यदा अभिविक्रीतः । पलशतमूल्यं शीघ्रं सार्धपलस्य अत्र मे वाच्यम् ॥ २ ॥ न्यासः - २००० १० १०० १ १ ५ २ सवर्णिते स्थापना - २००० ५१ २०१ ५ २ "छेदाः परस्परहताः" इति गुणकारयोः छेदाः भागहारं गताः । ५, २ एताभ्यां छेदाभ्यां भागहारः गुणितः जातः २०००० । [ गुणकारयोः २०१, ५१ अनयोः घातः ] १०२५१ । पूर्ववत्लब्धं विंशोपकाः १०, विंशोपकभागाः च २५१ १००० । उद्देशकः - अष्टाभिः सत्र्यंशैः मृगनाभ्या लभ्यते पलं सदलम् । कृतवीर्येण विगण्यं सपञ्चभागेन किं मया लभ्यम् ॥ ३ ॥ न्यासः - [ ८ १ १ १ १ १ ३ २ ५ ] सवर्णितेन - [ २५ ३ ६ ३ २ ५ ] [पूर्ववत्करणेन ] कृतवीर्यलब्धं मृगनाभ्या माषकाः १३, गुञ्जाः ४, गुञ्जाभागाः ३ २५ । उद्देशकः - नागः विंशतिहस्तः प्रविशति अर्धाङ्गुलं मुहूर्त्तेन । प्रत्येति च पञ्चांशं कतिभिः अहोभिः बिलं प्राप्तम् ॥ ४ ॥ न्यासः - सर्पः ४८० अङ्गुलात्मकः, प्रविशति अर्धाङ्गुलम् १ २, प्रतियेति [च अङ्गुलपञ्चभागः १ ५ ] । अत्र पञ्चभागविशुद्धमर्धाङ्गुलं सर्पस्य मौहूर्त्तिकी गतिः इति पञ्चभागमर्धात्विशोध्य स्थापना - ९ १०, मुहूर्तः १, सर्पप्रमाणाङ्गुलानि ४८० । लब्धं दिवसाः ५३ १ ३ मिश्रराशिषु अपि एततेव अनुपातबीजम् । तत्यथा - उद्देशकः - अष्टौ दान्ताः त्रयः दम्याः इति गावः प्रकीर्तिताः । एकाग्रस्य सहस्रस्य कति दान्ताः कति इतरे ॥ ५ ॥ न्यासः - अष्टौ दन्ताः ८, त्रयः दम्याः ३, दन्तदम्यानामेकोत्तरं सहस्रम् १००१ । अत्र अयं त्रैराशिकन्यासः - दान्तदम्याः ११, दान्ताः ८, सर्वसमुदायः १००१ । अत्र इयं वाचः युक्तिः - एकादशभिः दान्तदम्यैः अष्टौ दान्ताः लभ्यन्ते, ततेकाग्रेण सहस्रेण कियन्तः दान्ताः इति लब्धाः दान्ताः ७२८ तथा एव दम्याः २७३ । एवं प्रक्षेपकरणेषु अपि उद्देशकः - समवायकाः तु वणिजः पञ्चैकैकोत्तरादिमूलधनाः । लाभः सहस्रसंख्यः वद कस्मै तत्र किं देयम् ॥ ६ ॥ न्यासः - धनानि १, २, ३, ४, ५ । लाभः सहस्रम् १००० । करणम् - प्रक्षेपकधनेन अनेन १५, अयं लाभः १००० । यथाक्रमेण एकेन द्वाभ्यामिति आदि लब्धाः लाभाः [ प्रथमस्य ] ६६ २ ३, द्वितीयस्य १३३ १ ३, तृतीयस्य २००, चतुर्थस्य २६६ २ ३, पञ्चमस्य ३३३ १ ३ । भिन्ने अपि उद्देशकः - अर्धेन तृतीयेन प्रक्षेपेण अष्टमेन ये वणिजः । सप्ततिः एकेन ऊना लाभः तेषां कियान् कस्य ॥ ७ ॥ न्यासः - १ १ १ । लाभः ६९ । २ ३ ८ अत्र भिन्नगणितन्यायेन "छेदगुणः सच्छेदम्" इति सवर्णिते जाताः १२ ८ ९ २४ २४ २४ । छेदैः प्रयोजनं न अस्ति इति अंशाः केवलाः १२, ८, ३ । एतेषां पूर्ववत्प्रक्षेपन्यायेन एकत्र [ योगः ] २३ । अनेन प्रक्षेपेण अस्य लाभस्य ६९ भागः स्वांशैः पृथक्पृथक्गुणितस्य त्रैराशिकविभागेन लब्धाः भागाः ३६, २४, ९ । [ पञ्चराशिकम् ] पञ्चराशिके उद्देशकः - शतवृद्धिः मासे स्यात्पञ्च कियान्मासषट्प्रयुक्तायाः । वृद्धिं वद विंशत्या यदि भटगणितं त्वया बुद्धम् ॥ ८ ॥ न्यासः - १००१ २० १ ६ ५ करणम् - प्रथमत्रैराशिकम् १००, ५, २० । लब्धं रूपकः १ । द्वितीयत्रैराशिकम् - यदि मासेन रूपकः, षड्भिः कियन्तः इति लब्धं रूपकाः षट् । एततेव गणितं युगपत्क्रियमाणं पञ्चराशिकं भवति । तत्र अपि शतस्य मासे इति [ शतं रूपं च ] प्रमाणराशिद्वयम्, पञ्च इति फलराशिः विंशत्या षड्भिः मासैः किमिति विंशतिः षट्च इच्छाराशिः । तत्र पूर्ववतेव इच्छाराशिः फलराशिना गुणितः प्रमाणराशिभ्यां विभज्यते, फलं पूर्ववतेव । त्रैराशिकमेव एतत्द्विधा व्यवस्थितम् । छेदाः अपि पूर्ववत्गुणकारभागहाराणां परस्परं गच्छन्ति । [ उद्देशकः ] - [ शतस्य मासद्वय]प्रयुक्तस्य वृद्धिः पय्न्न्च । पञ्चविंशतेः पञ्चमासप्रयुक्तायाः का वृद्धिः इति ॥ ९ ॥ न्यासः - १०० २५ लब्धम् ३ २ ५ १ ५ ८ उद्देशकः - [शतस्य अर्धचतुष्क]मासप्रयुक्तस्य वृद्धिः अर्धपञ्चकाः रूपकाः । तदा पञ्चाशतः दशमासप्रयुक्तस्य का वृद्धिः इति ॥ १० ॥ न्यासः - १०० ५० ३ १० १ २ ४ १ २ लब्धं रूपकाः षट्६, सप्तभागाः त्रयः च ३ ७ । उद्देशकः - विंशत्याः सार्धायाः सत्र्यंशः रूपकः भवेत्वृद्धिः । मासे सपञ्चभागे पादोनानां तु सप्तानाम् ॥ मासैः षड्भिः वाच्यं दशभागयुतैः तु का भवेत्वृद्धिः । ज्ञात्वा छेदविकल्पं सम्यक्भटतन्त्रसूत्रेण ॥ ११ ॥ सवर्णिते स्थापना - ४१ २७ २ ४ ६ ६१ ५ १० ४ ० ३ लब्धं रूपकद्वयम् [ २, विंशोपकाः ] ४, विंशोपकभागाः च २६ ४१ । [ सप्तराशिकम् ] सप्तराशिके उद्देशकः - सप्तोच्छ्रितस्य करिणः त्रिंशत्परिधेः नवायतस्य यदा । नव कुडुवाः लभ्यन्ते नित्यं संशुद्धशालिपृथुकानाम् ॥ पञ्चोच्छ्रितस्य वाच्यं सप्तायामस्य दन्तिनः किं स्यात् । अष्टाविंशतिपरिधेः वाच्याः पृथुकाः तदा लभ्याः ॥ १२ ॥ स्थापना - ७ ५ ३० २८ ९ ७ ९ ० लब्धं पृथुककुडुवाः ४, सेतिके २, सेतिकभागाः २ ३ उद्देशकः - हस्त्युत्तमस्य चतुर्हस्तोच्छ्रितस्य षडायतस्य पञ्चपरिणाहस्य अर्धतृतीयाः कुडुवाः लभ्यन्ते माषानां यदा तदा त्र्युच्छ्रितस्य पञ्चायतस्य अर्धपञ्चमपरिणाहस्य किं लभ्यम् ॥ १३ ॥ न्यासः - ४ ३ ६ ५ ५ ९ २ ५ ० २ लब्धं कुडुवः १, सेतिका १, मानकौ २, अर्धमानकम् १ २ । एवं नवरास्यादिषु योज्याः । [ व्यस्तत्रैराशिकम् ] व्यस्तत्रैराशिकमपि एततेव । तत्र गुणकारभागहारविपर्यासे विशेषः । तत्यथा - [उद्देशकः ] पञ्चसौवर्णिके पले दृष्टानि षोडशा पलानि सुवर्णस्य यदा तदा चतुस्सौवर्णिके कियन्ति इति ॥ १४ ॥ न्यासः - ५ १६ ४ अत्र पञ्चसौवर्णिकेन पलेन षोडश पलानि इति पञ्चभिः षोडश गुणिताः सुवर्णाः भवन्ति । एते सुवर्णाः चतुर्भिः ह्र्टाः चतुस्सौवर्णिकपलानि भवन्ति । एवं लब्धानि पलानि २० । स्वसिद्धान्ते च यदि व्यासार्धमण्डले भुजाफलमिदं लभ्यते तदा तत्कालोत्पन्नकर्णविष्कम्भार्धमण्डले किमिति तत्र महति कर्णप्रमाणे अल्पीयस्यः [ भुजाफलकला ] भवन्ति, अल्पकर्णे वह्व्यः इति व्यासार्धं गुणकारः [ कर्णः भागहारः ] । उद्देशकः - अष्टौ पिटकाः दृष्टाः चतुर्दशप्रसृतिकेन मानेन । अष्टप्रसृतिकमाने पिटकाः के स्युः तदा वाच्याः ॥ १५ ॥ न्यासः - ८ १४ ८ लब्धं पिटकाः १४ ॥ २६-२७ ॥ [ कलासवर्णनम् ] कलासवर्णोद्देशप्रदर्शनार्थमार्यापश्चार्धमाह - छेदगुणं सच्छेदं परस्परं तत्सवर्णत्वम् ॥ २७ ॥ सह छेदेन वर्तते इति सच्छेदम् । किं तत्? राशिरूपम् । अत्र सच्छेदं राशिरूपं विन्यस्य एततुच्यते - "छेदगुणं सच्छेदं परस्परम्" इति । छेदः गुणः यस्य राशिरूपस्य तद्राशिरूपं छेदगुणम् । परस्परमन्योन्यम्, एकेन राशिच्छेदेन इतरः राशिः सच्छेदः गुण्यते, इतरेण अपि इतरः [ राशिः तद्वत्विन्यस्तः ] । तत्सवर्णत्वम्, ततेव निर्वर्तितं कर्म सवर्णत्वम् । सवर्णकयोः यथा इष्टं संयोगः विश्लेषः च । उद्देशकः - अर्धं षष्ठं द्वादशभागं चतुर्थभागसंयुक्तम् । एकत्र कियत्द्रव्यं निर्देश्यं तत्क्रमेण एव ॥ १ ॥ न्यासः - १ १ १ १ २ ६ १२ ४ करणम् - द्वयोः १ १ २ ६, एतौ परस्परच्छेदेन गुणितौ सच्छेदौ राशी ६ २ १२ १२ । एकत्र २ ३ । पुनर्तृतीयरासिना स्थापना २ १ ३ १२, प्रक्षिप्तेन [ ३ ] [ ४ ] । एवं चतुर्थराशिना ३ १ ४ ४, लब्धं रूपकम् १ । उद्देशकः - अर्धं षष्ठं भागं तृतीयकेन सहितं कियत्द्रव्यम् । अर्धं षष्ठः द्वादशकः विंशः सपञ्चभागः च ॥ २ ॥ न्यासः - १ १ १ २ ६ ३ द्वितीयोद्देशके स्थापना - १ १ १ १ १ २ ६ १२ २० ५ लब्धं पूर्वकरणेन उभयत्रैकराशिकं रूपम् १, १ । उद्देशकः - अर्धं षड्भागोनं पञ्चांशं च अपि सप्तभागोनम् । त्र्यंशं पादोनं वा गणयते [ गणकाः ] कियत्द्रव्यम् ॥ ३ ॥ न्यासः - १ १¡ १ १¡ ११¡ २ ६ ५ ७३४ लब्धं यथाक्रमेण -१ २ १ ३ ३५१२ [विपरीतकर्म ] प्रतिलोमकरणप्रदर्शनार्थमाह - गुणकाराः भागहराः भागहराः ते भवन्ति गुणकाराः । यः क्षेपः सः अपचयः अपचयः क्षेपः च विपरीते ॥ २८ ॥ गुणकाराः भागहराः, ये गुणकाराः आसन् ते प्रतिलोमक्रमणि [भागहाराः भवन्ति] । भागहराः ते भवन्ति गुणकाराः, [ये] भागहाराः ते गुणकाराः भवन्ति । यः क्षेपः सः अपचयः, पूर्वं यः क्षेपः आसीत्स विलोमकर्मणि अपचयः भवति । अपचयः क्षेपः च, यः अपचयः स क्षेपः विपरीतकर्मणि भवति । अत्र ये उद्देशकाः ते प्रायशः प्रदर्शिताः । स्वतन्त्रे अपि च छायानीतशङ्कोः घटिकानयनं प्रति व्यासार्धं भागहारः आसीतिति गुणकारः, लम्बकः गुणकारः आसीतिति भागहारः । तत्र उत्तरगोले [क्षितिज्या क्षिपे] दित्यपनीयते, दक्षिणगोले अपनयेतिति प्रक्षिप्यते । ततः विपरीतत्वातेव व्यासार्धं गुणकारः, स्वाहोरात्रार्धं भागहारः । लब्धज्या विपरीतकर्मणा एव काष्ठीक्रियते । तस्मिन् काष्ठे उत्तरगोले चरप्राणाः प्रक्ष्प्यन्ते विशोधितत्वात्, दक्षिणगोले विशोध्यन्ते क्षिप्तत्वातिति आदि । एवं सर्वत्र स्वतन्त्रे विपरीतकर्म नियोज्यम् । अन्यत्र अपि उद्देशकः - द्विगुणं रूपसमेतं पञ्चविभक्तं त्रिताडितं भूयः । द्व्यूनं सप्तविभक्तं लब्धं रूपं कियत्भवेत्पूर्वम् ॥ १ ॥ न्यासः - २ गु, १ क्षे, ५ हा, ३ गु, २ ऊ, ७ हा, सप्तभिः भागलब्धं रूपकम् १ । करणमेतत्- लब्धं रूपम् १, सप्तभिः गुणितं जातम् ७, द्वाभ्यां युक्तम् ९, त्रिभिः भक्तम् ३, पञ्चगुणम् १५, एकोनम् १४, दलितं लब्धम् ७ । उद्देशकः - त्रिगुणं रूपविहीनं दलितं द्वाभ्यां समन्वितं भूयः । भक्तं त्रिभिः तु तस्मात्द्विकहीनं किं भवेत्रूपम् ॥ २ ॥ न्यासः - ३ गु, १ ऊ, २ हा, २ क्षे, ३ हा, २ ऊ, लब्धं रूपम् १ ।पूर्ववतागतम् ५ ॥ २५ ॥ [ अनेकवर्णसमीकरणविशेषः ] राश्यूनक्रमसङ्कलितानयनमाह - राश्यूनं राश्यूनं गच्छधनं पिण्डितं पृथक्त्वेन । व्येकेन पदेन हृतं सर्वधनं तत्भवति एवम् ॥ २९ ॥ राशिना ऊनं राश्युनम् । [ राश्यूनम् ] राश्यूनमिति अनया वीप्सया अनन्त्यं गणितकर्म प्रदर्शयति । गच्छः पदं पर्यवसानमिति पर्यायाः । गच्छस्य धनं गच्छधनम्, पदधनम् । राश्यूनन्यायेन यावत्पदं तत्गच्छधनमुच्यते । पिण्डितं पृथक्त्वेन । पिण्डितमेकत्र कृतम् । पृथक्त्वेन इति राश्यूनक्रमलब्धपदानामविनष्टस्थापनां प्रदर्शयति । अविनष्टस्थापनाप्रयोजनं च सर्वधनं च सर्वधनातविनष्टस्थापितपदधने अपनीते पृथक्पृथक्पदानां धनानि भवन्ति । यदि केवलं सर्वधनपरिज्ञानमात्रमेव स्यात्तदा पृ(थ)क्त्वेन इति अनर्थकं स्यात्, यस्मातपृथक्करणे अपि सर्वधनस्य सिद्धत्वात् । विगतमेकं व्येकम्, तेन व्येकेन, तेन पदेन च । व्येकैः पदैः इति बहुवचनेन अत्र भवितव्यम् । न एषः दोषः । पदजातिमङ्गीकृत्य "जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्यात्" [अष्टाध्यायी, १.२.५८ ] इति एकवचनं कृतम् । तेन यः अर्थः व्येकैः पदैः इति स एव अर्थः व्येकेन पदेन इति अवगम्यते । हृतं भक्तम् । सर्वधनम्, सर्वेषां पदानां यथाक्रमेण धनमेकत्र तत्सर्वधनमुच्यते । तत्भवति एवम्, यतेवं कृते कर्मणि तत्सर्वधनं भवति । उद्देशकः - मत्तामत्तकरेणुविक्करचिता यूथा गजानां वने एकापायचयेन [ ये अत्र ] गणिताः त्रिंशत्रसानां कृतिः । सप्तानामपि सा एव च एकसहिता नागाग्रमागण्यताम् यूथानां च पृथक्पृथक्त्वगणितं निर्वर्ण्यतां तत्त्वतः ॥ १ ॥ न्यासः - ३०, ३६, ४९, ५० । करणम् - एतानि धनानि अविनष्टानि एकत्र १६५ । व्येकं पदम् ३ । अनेन लब्धं सर्वधनम् ५५ । एतस्मात्प्रथमपदमपास्य मत्ताग्रम् २५, द्वितीयमपास्य अमत्तसङ्ख्या १९, तृतीयमपास्य करेणुसङ्ख्या ६, चतुर्थमपास्य विक्कसङ्ख्या ५ । उद्देशकः - नागाः वाजखरोष्ट्रवेसरगवामेकैकहीनाः क्रमात् अष्टाविंशतिः एकहीनगणिता रूपोनमन्त्यं पुनर् । तेषां सर्वधनं पृथक्च नियमात्वाच्यं त्वया निश्चितम् कृत्स्नं च आर्यभटप्रणीतगणितं दृष्टं गुरोः अन्तिके ॥ २ ॥ न्यासः - २८, २७, २६, २५, २४, २३, २१ । लब्धं सर्वधनम् २९ । पृथक्पृथक्१, २, ३, ४, ५, ६, ८ ॥ २९ ॥ [ एकवर्णसमीकरणम् ] समकरणोद्देशकप्रदर्शनार्थमाह - गुलिकान्तरेण विभजेत्द्वयोः पुरुषयोः तु रूपकविशेषम् । लब्धं गुलिकामूल्यं यदि अर्थकृतं भवति तुल्यम् ॥ ३० ॥ गुलिकाशब्देन अविज्ञातमूल्यवस्त्वभिधीयते । गुलिकानामन्तरं गुलिकान्तरं तेन गुलिकान्तरेण, अविज्ञातमूल्यवस्तूनामन्तरेण इति अर्थः । विभजेत्द्वयोः पुरुषयोः तु रूपकविशेषम् । द्वयोः इति अनेन द्वयोः एव इदं कर्म न त्र्यादीनामिति एतत्प्रदर्शयति । रूपकविशेषमिति अनेन च निर्ज्ञातसङ्ख्यं धनं परिगृह्यते । रूपकं दीनारादिकम् । लब्धं गुलिकामूल्यम्, यतत्र लब्धं तत्गुलिकामूल्यम् । यदि अर्थकृतं भवति तुल्यम्, येन अर्थेन कृतं तत्तुल्यं सदृशं भवति । उद्देशकः - अश्वाः लक्षणयुक्ताः वणिजः नित्यं बलान्विताः सप्त । प्रथमस्य मया दृष्टं द्रव्यशतं च एव हस्तगतम् ॥ नव तुरगाः निर्दृष्टाः द्रव्याशीतिः धनं द्वितीयस्य । वाच्यं घोटकमूल्यं तुल्यार्धेण एव तुल्यधनौ ॥ १ ॥ न्यासः - ७ १०० ९ ८० करणम् - गुलिकान्तरम् २, रूपकविशेषम् २०, एतत्गुलिकान्तरेण विभक्तं घोटकस्य एकस्य मूल्यद्रव्यं दश १० । अनेन अर्धेण प्रथमस्य घोटकानां मूल्यम् ७०, द्वितीयस्य ९०, [स्व]स्वहस्तगतेन अनेन [च] गतौ तुल्यधनौ १७० उभयोः अपि । उद्देशकः - कुङ्कुमपलानि च अष्टौ एकस्य धनस्य रूपका नवतिः । द्वादश पलानि विद्यातन्यस्य धनस्य रूपकाः त्रिंशत् ॥ तुल्यार्धेण च क्रीतं कुङ्कुमं द्वाभ्यां कियत्पलार्धेण । इच्छामि तत्र बोद्धुं मूल्यं वित्तं च तुल्यमेव तयोः ॥ २ ॥ न्यासः - ८ ९० १२ ३० लब्धं पूर्ववत्कुङ्कुमपलस्य एकस्य मूल्यम् १५ । तुल्यधनम् २१० उभयोः । एते एव गुलिकाः अज्ञातप्रमाणाः यावत्तावन्तः उच्यन्ते, रूपकाः एव तत्र अपि । यावत्तावत्संज्ञया अपि उद्देशकाः अभिधीयन्ते । तत्यथा - [उद्देशकः ] सप्त यावत्तावत्सप्त च रूपकाः समाः द्वयोः यावत्तावतोः द्वादशानाम् [च] रूपकाणाम्, कियन्तः यावत्तावत्प्रमाणाः ॥ ३ ॥ न्यासः - ७ ७ २ १२ करणम् - पूर्ववत्गुलिकानां यावत्तावतां विशेषः उपरि शुद्धे ५ । अधः शुद्धे रूपकविशेषः ५ । यावत्तावत्विशेषेण रूपकविशेषस्य भागलब्धं यावत्तावत्प्रमाणम् १ । एतेन यावत्तावत्प्रमाणेन यावत्तावन्तः गुलिकाः जाताः क्रमेण ७, २; स्वान् स्वान् रूपान् प्रक्षिप्य समाः । प्रथमस्य १४, द्वितीयस्य ततेव १४ । उद्देशकः - नव गुलिकाः सप्त [च] रूपकाः समाः त्रयाणाम् [तु] गुलिकानाम् । त्रयोदशानां च रूपकाणां तदा किं गुलिकामूल्यम् ॥ ४ ॥ न्यासः - ९ ७ ३ १३ लब्धं गुलिकामूल्यम् १ । यदा पुनर्रूपकाः शोध्याः भवन्ति तदा - उद्देशकः - नव गुलिकाः रूपकाः चतुर्विंशतिः ऋणं द्वे गुलिके [च] । अष्टादश रूपकाः समाः [कथय] किं गुलिकामूल्यम् ॥ ५ ॥ न्यासः - ९ २४ २ १८ अत्र गुलिकाः उपरि शुद्ध्यन्ते, रूपकाः अधः शोध्याः न शुद्ध्यन्ति । ततः - सोज्झं भूणारधणमणमणदो नयमदो नयमदो सोज्झम् । विपरीते साधणए सोज्झं वा किं व गुहोळम् ॥ अत्र गुलिकाः उपरि शोध्याः गुलिकाभ्यः शुद्ध्यन्ते; अधःशोध्याः रूपकाः न, शोध्यत्वात्च विपरीतं प्रक्षिप्यन्ते । प्रक्षिप्ते सति जाताः ४२ । गुलिकाविशेषैः सप्तभिः भागलब्धं षट्६ । [प्रथमस्य यावत्ता]वत्प्रमाणम् ९, षड्गुणितम् ५४, ऋणगतरूपकाः चतुर्विंशतिः शुद्धाः शेषं त्रिंशत्३० । [द्वितीयस्य] द्वे गुलिके षड्भिः गुणिते १२, अष्टादशयुक्ते ३० । एवं समधनाः । समकरणेषु [एवम्] सर्वत्र योज्यम् ॥ ३० ॥ [ योगकालज्ञनम् ] योगकालानयनार्थमाह - भक्ते विलोमविवरे गतियोगेन अनुलोमविवरे द्वौ । गत्यन्तरेण लब्धौ द्वियोगकालौ अतीतैष्यौ ॥ ३१ ॥ भक्ते, हृते । विलोमविवरे, एकः गच्छति अपरः तत्प्रतिमुखं प्रत्यागच्छति तत्विलोमविवरम्, अनुलोमगतेः विलोमगतेः च अन्तरमिति । अत्र अनुलोमशब्दः लुप्तनिर्दिष्टः प्रत्येतव्यः । अथवा विलोमविवरमेवंप्रकारमेव परिगृह्यते, यदि द्वौ अपि विलोमगती स्याताम्, तदा अनुलोमविवरमेव स्यात् । तस्मिन् विलोमविवरे भक्ते । केन इति आह - गतियोगेन । गत्योः योगः गतियोगः, तेन गतियोगेन । अनुलोमविवरे, अनुलोमगत्योः विवरमनुलोमविवरम् । द्वौ इति द्वयोः प्रतिलोमानुलोमयोगकालयोः परमंशं करोति । गत्यन्तरेण, गत्योः अन्तरम् [गत्यन्तरम्] गतिविशेषः, तेन गत्यन्तरेण । लब्धौ द्वियोगकालौ, द्वयोः योगः द्वियोगः, द्वियोगस्य कालौ द्वियोगकालौ । अतीतैष्यौ अतीतः च एष्यः च अतीतैष्यौ । अतीतः अतिक्रान्तः, एष्यः भावि । तत्यथा - यदा एकः ग्रहः पुरस्तात्स्थितः वक्री, [अन्यः] पश्चातवस्थितः चारेण गच्छति, तयोः अन्तराललिप्ता विलोमविवरम् । तत्र एकस्य अनुलोमचारिणः, अपरस्य प्रतिलोमम् आगच्छतः अल्पेन कालेन योगः भविष्यति इति तयोः भुक्तियोगेन भागः ह्रियते, यस्मात्तावानेव तयोः आह्निकः भोगः । तेन त्रैराशिकं क्रियते - यदि अनेन आह्निकेन भोगेन एकः दिवसः लभ्यते, तदा अनेन विलोमविवरेण किमिति । दिवसा घटिका वा लभ्यन्ते । तावान् कालः अतिक्रान्ते योगे अतीतः, भाविनि योगे एष्यः । तत्र समलिप्ताविधानं भुक्त्या त्रैराशिकम् - यदि षष्ट्या घटिकाभिः ग्रहस्फुटगतिः लभ्यते, तदा विलोमोत्पन्नघटिकाभिः का भुक्तिः इति लब्धमनुलोमगतौ ग्रहे प्रक्षिप्यते विलोमगतेः अपनीयते । एवं तौ समलिप्तौ ग्रहाविष्टकालसम्भवौ भवतः । अथ वक्रगतिः पश्चातवतिष्ठते, पुरस्तातनुलोमगतिः तदा लब्धं फलं वक्रगतौ प्रक्षिप्यते अतिक्रान्तत्वात्, अनुलोमगतिः विशोध्यते अतिक्रान्तत्वातेव । यदा पुनरनुलोमगती एतौ भवतः तदा भुक्तिविशेषेण अनुलोमविवरस्य भागः, यस्मात्भुक्तिविशेषतुल्यमाह्निकं गत्यन्तरं तयोः । ततः अनेन गत्यन्तरेण भुक्तिविशेषेण जनितेन षष्तिः नाड्यः उपलभ्यन्ते तदा अनुलोमविवरेण किमिति घटिकाः लभ्यन्ते । ताभिः च ग्रहस्फुटभुक्त्या सह त्रैराशिकम् - यदि षष्ट्या स्फुटभुक्तिः लभ्यते, आभिः घटिकाभिः किमिति । लब्धं शीघ्रगतौ पश्चात्व्यवस्थिते उभयमुभयत्र स्वं स्वं प्रक्षिप्यते । शीघ्रगतौ पुरःस्थिते ततुभयमुभयस्मातपनीयते । एवं द्वियोगकालौ अतीतैष्यौ भवतः । यदा च द्वौ अपि वक्रगती भवतः तदा अपि एवमेव कर्म । इदमेव कर्म अस्माभिः कर्मनिबन्धे उक्तम् - ग्रहयोः अन्तरं भाज्यं प्रतिलोमानुलोमयोः । भुक्तियोगेन वा अन्यत्र भोगविश्लेषसङ्ख्यया ॥ दिनादिः लभ्यते कालः योगिनां योगकारकः । भुक्तेः अनेकरूपत्वात्स्थूलः कालः स गम्यते ॥ समलिप्तावतः युक्त्या कुर्यात्तन्त्रस्य वेदिता । सोपदेशात्गुरोः नित्यमभ्यासात्वा अवगम्यते ॥ [महाभास्करीयम्, ६.४९-५१] इति । सूर्याचन्द्रमसोः अपि - गन्तव्ययाततिथिशेषहते रवीन्द्रोः भुक्ती क्रमेण दिनभुक्तिविशेषभक्ते । लब्धेन युक्तरहितौ शशितिग्मरश्मी ज्ञेयौ समौ सकललोकविधानहेतू ॥ [महाभास्करीयम्, ४.६४] लौकिकगणिते अपि उद्देशकः - सार्धं योजनमेकः वलभीतः याति असौ दिनेन एव । आगच्छति हरुकच्छात्पादयुतं योजनं हि अपरः ॥ अन्तरमनयोः दृष्टं तु अष्टादश योजनानि पथिकेन । वाच्यं योगः कियता कालेन अभूत्तयोः गणक ॥ १ ॥ न्यासः - वलभीप्रस्थितस्य [गतिः] ३ २, हरुकच्छातागच्छतः [गतिः] ५ ४, तयोः विलोमविवरम् १८ । करणम् - अनयोः गतियोगः ११ ४ । अनेन विलोमविवरस्य भागलब्धं दिवसाः ६, दिवसभागाः च ६ ११ । अनुलोमविवरोद्देशकः - वलभीतः याति नरः गङ्गां दिवसेन योजनं सार्धम् । अपरः त्रिभागहीनं शिवभागपुरात्तदा याति । अष्टौ त्रिगुणानि तयोः अन्तरमुक्तं च योजनानि बुधैः । एकेन पथा यातौ कियता कालेन संयुक्तौ ॥ २ ॥ न्यासः - वलभीप्रस्थितस्य गतिः ३ २, शिवभागपुरप्रस्थितस्य गतिः २ ३, अनुलोमविवरम् २४ । करणम् - एतयोः गतिविशेषः ५ ६, अनुलोमविवरम् २४ । अस्य गतिविशेषेण भागलब्धं दिवसाः २८, दिवसभागाः च ४ ५ ॥ ३१ ॥ [ कुट्टाकारः ] इदानीं कुट्टाकारगणितमभिधीयते । तत्र आर्यासूत्रद्वयम् - अधिकाग्रभागहारं छिन्द्यातूनाग्रभागहारेण । शेषपरस्परभक्तं मतिगुणमग्रान्तरे क्षिप्तम् ॥ ३२ ॥ अधौपरिगुणितमन्त्ययुकूनाग्रच्छेदभाजिते शेषम् । अधिकाग्रच्छेदगुणं द्विच्छेदाग्रमधिकाग्रयुतम् ॥ ३३ ॥ अधिकाग्रभागहारं छिन्द्यात् । अग्रं शेषः । अधिकाग्रं यस्य सः अयमधिकाग्रः । अधिकाग्रः च असौ भागहारः च अधिकाग्रभागहारः । तमधिकाग्रभागहारम्, छिन्द्यात्विभजेतिति अर्थः । केन इति आह - ऊनाग्रभागहारेण । शेषपरस्परभक्तम् । लब्धेन न अस्ति प्रयोजनम्, शेषेण सह कर्म क्रियते । परस्परेण भक्तं परस्परभक्तम्, इतरेतरभक्तमिति अर्थः । शेषेण सह परस्परभक्तं शेषपरस्परभक्तम् । मतिगुणम्, स्वबुद्धिगुणमिति अर्थः । कथं पुनर्स्वबुद्धिगुणः क्रियते ? अयं राशिः केन गुणितमिदमग्रान्तरं प्रक्षिप्य विशोध्य वा अस्य राशेः शुद्धं भागं दास्यति इति । अग्रान्तरे क्षिप्तम् । समेषु क्षिप्तं विषमेषु शोध्यमिति सम्प्रदायाविच्छेदात्व्याख्यायते । एवं परस्परेण लब्धानि पदानि अवस्थाप्य, मतिः च अधः, पश्चिमलब्धं च मत्या अधः । अधुपरिगुणितम्, अधःस्थितेन राशिना उपरिरासिः गुणितः । अन्त्ययुक्, अन्त्येन राशिना पश्चिमलब्धेन सहितः । एवं भूयः भूयः कर्म यावत्कर्मपरिसमाप्तिमिति । ऊनाग्रच्छेदभाजिते शेषम्, ऊनाग्रस्य यत्छेदं तेन भाजिते शेषम्, तेन ऊनाग्रच्छेदेन पूर्वगणितकर्मणा निष्पन्नराशेः विभक्तशेषं परिगृह्यते । अधिकाग्रच्छेदगुणम्, अधिकाग्रच्छेदेन अभ्यस्तम् । द्विच्छेदाग्रम्, द्वयोः छेदयोः अग्रम्, अग्रं सङ्ख्या । अधिकाग्रयुतम्, अधिकाग्रेण युतमधिकाग्रयुतम् । एततुक्तं भवति - ऊनाग्रच्छेदभाजिते शेषमधिकाग्रच्छेदेन अभ्यस्तमधिकाग्रसहितं तत्द्वयोः अपि छेदयोः भाज्यराशिः भवति इति । एवं साग्रकुट्टाकारः व्याख्यातः । निरग्रकुट्टाकारः अपि उत्तरत्र वक्ष्यति । उद्देशकः - पञ्चभिः एकं रूपं द्वे रूपे च एव सप्तभागेन । अवशिष्यते तु राशिः विगण्यतां तत्र का सङ्ख्या ॥ १ ॥ न्यासः - १ २ ५ ७ करणम् - अधिकाग्रच्छेदं सप्त ७, ऊनाग्रच्छेदेन पञ्चकेन ५, भाजिते शेषमुपरि द्वौ २ अधः पञ्च ५ । अल्पः राशिः इति अत्र एव मतिः कल्प्यते । अयम् [उपरि] राशिः केन गुणितः रूपमग्रान्तरं प्रक्षिप्य पञ्चभिः शुद्धं भागं दास्यति इति लब्धा मतिः द्वे रूपे । भागलब्धमेकम् १, शेषम् ० । अस्य स्थापना २ १ । तृतीयपदस्य असम्भवातेततेव सञ्जातम् । ऊनाग्रच्छेदभाजिते शेषम् २, अधिकाग्रच्छेदेन सप्तकेन गुणितं जातम् १४, अधिकाग्र[२]सहितम् १६ । एततेव द्विच्छेदाग्रम् । अयमेव राशिः पञ्चभिः भागं ह्रियमाणः एकाग्रः, सप्तभिः द्व्यग्रः इति । उद्देशकः - द्वादशभिः पञ्चाग्रः सप्ताग्रः स च पुनर्मया दृष्टः । एकत्रिंशद्भक्तः कः असौ राशिः भवेतेकः ॥ २ ॥ न्यासः - ५ ७ १२ ३१ करणम् - "अधिकाग्रभागहारं छिन्यातूनाग्रभागहारेण" इति शेषमुपरि सप्त, अधः द्वादश । एतयोः परस्परभक्ते लब्धमेकम्, पुनरेकमेव, शेषमुपरि द्वौ अधः पञ्च । अत्र मतिः । समानि पदानि इति अयं राशिः केन गुणितः रूपद्वयमग्रान्तरं प्रक्षिप्य पञ्चभिः शुद्धं भागं दास्यति इति लब्धं रूपं चतुष्कं मतिः । तां पूर्वलब्धस्य अधः व्यवस्थापयेत् । भागलब्धं च रूपद्वयमिति एवं लब्धमधः व्यवस्थाप्यः । "अधौपरिगुणितमन्त्ययुग्" इति अनेन न्यायेन लब्धम् १० । एततेव "ऊनाग्रच्छेदभाजिते शेषमधिकाग्रच्छेदगुणम्" जातम् ३१०, "अधिकाग्रयुतं द्विच्छेदाग्रम्" तत्च इदम् ३१७ । उद्देशकः - अष्टाभिः पञ्चाग्रः चतुरग्रः कीर्तितः नवभिः एव । सप्तभिः एकाग्रः असौ विगण्यतां कः भवेत्राशिः ॥ ३ ॥ न्यासः - ५ ४ १ ८ ९ ७ करणम् - ५ ४ ८ ९. एतयोः कुट्टाकारेण [लब्धम्] रूपम् १, राशिः च त्रयोदश । अत्र छेदयोः अभ्यासः भागहारः इति स्थापना १३ १ ७२ ७ । एतयोः पूर्ववत्लब्धः राशिः ८५ । अयं राशिः अष्टाभिः भागं ह्रियमाणः पञ्चाग्रः, नवभिः चतुरग्रः, सप्तभिः एकाग्रः इति । उद्देशकः - द्व्याद्यैः शट्पर्यन्तैः एकाग्रः यः अवशिष्यते राशिः । सप्तभिः एव स शुद्धः वद शीघ्रं कः भवेत्गणक ॥ ४ ॥ न्यासः - १ १ १ १ १ ० २ ३ ४ ५ ६७ अत्र इच्छया अधिकाग्रः राशिः परिकल्पनीयः । लब्धं पूर्ववत्राशिप्रमाणम् ३०१ । एवं साग्रकुट्टाकारः व्याख्यातः । [ निरग्रकुट्टाकारः ] इदानीं तु एव सूत्रे निरग्रकुट्टकार्थं व्याख्यास्यामः । अधिकाग्रभागहारं छिन्द्यातपवर्तयेतिति अर्थः । केन इति आह - ऊनाग्रभागहारेण । अग्रं सङ्ख्या, ऊनं च तदग्रं च ऊनाग्रम्, ऊनाग्रं च तत्भागहारः च स ऊनाग्रभागहारः, तेन ऊनाग्रभागहारेण, अपवर्तयेतिति अर्थः । यथा एकविंशतिः सप्तभिः अपवर्त्यते । येन भागहारः अपवर्तितः तेन एव भाज्यः अपि अपवर्तनीयः । कथमिदमवगम्यते येन एव भागहारः अपवर्तितः तेन एव भाज्यः अपि अपवर्तनीयः इति ? सम्प्रदायाविच्छेदात् । अथवा न्यायः एषः, अपवर्तितस्य भागहारस्य अपवर्तितेन एव भाज्येन भवितव्यमिति, यथा सप्तभिः एकविंशतिः भागाः अपवर्तिताः त्रिभागाः । अथवा भागहारस्य अपवर्तनं ब्रुवता आचार्येण भाज्यस्य अपि अपवर्तनमभिहितमेव । कुतः ? भागहारभाज्ययोः सहचारित्वात् । यथा स्थलानि परिमृज्यन्तामिति उक्ते सरकाणि अपि परिमृज्यन्ते । अधिकाग्रभागहारमिति आदिना ग्रन्थेन एतत्प्रतिपादयति - अपवर्तितयोः भागहारभाज्ययोः कुट्टाकारः इति । शेषपरस्परभक्तम्, भागहारभाज्ययोः परस्परभक्तमिति । मतिगुणमिति एतत्पूर्वेण समानम् । अग्रान्तरे क्षिप्तम्, अग्रं सङ्ख्या, अग्रस्य अन्तरमग्रान्तरं सङ्ख्यान्तरमिति अर्थः । तत्च इच्छापरिकल्पितमिदं सङ्ख्यान्तरं प्रक्षिप्य अपनीय वा अस्य राशेः शुद्धं भागं दास्यति इति । अधौपरिगुणितमन्त्ययुकिति एतत्सर्वं पूर्वेण समानम् । ऊनाग्रच्छेदभाजिते शेषम्, अपवर्तितभागहारशेषमिति अर्थः । कुट्टाकारः भवति इति वाक्यशेषः । उपरि [रासिः] भागहारेण भक्तः [कार्यः] अधोराशिः भाज्यराशिना भाज्यः । गणिते अपि उक्तम् - उपरि च भागहारेण भक्ते हि राशिः भवेत्वा । इति एवमादिना ग्रन्थेन । शेषे कुट्टाकारभागलब्धे भवतः इति । अधिकाग्रच्छेदगुणमिति आदि न निरग्रकुट्टाकारेषु [उपयुज्यते ] । तत्यथा उद्देशकः - अष्टौ केन अभ्यस्ताः षड्रूपयुताः हृताः त्रयोदशभिः । दद्युः शुद्धं भागं कः गुणकारः किमाप्तं च ॥ ५ ॥ न्यासः - ८ ६ १३ भाज्यः अष्टौ, भागहारः त्रयोदश, अग्रान्तरं षट् । करणम् - भाज्यभागहारराशी रूपेण अपवर्तितौ ८ १३ "शेषपरस्परभक्तम्" इति जातम् १ १ १ १ । परस्परभक्तशेषम् १ २ । "मतिगुणमग्रान्तरे क्षिप्तम्" इति अयमेकः राशिः केन गुणितः षड्रूपाणि प्रक्षिप्य द्वाभ्यां शुद्धं भागं दास्यति इति मतिः द्वे २, मत्या गुणितं जातम् २ २ । एतत्षड्रूपयुतम् ८ २ । लब्धं रूपचतुष्कम् ४ । एतत्सर्वं यथाक्रमेण १ १ १ १ २ ४ । "अधौपरिगुणितमन्त्ययुक्" इति जातम् २२ १४ । "ऊनाग्रच्छेदभाजिते शेषम्" इति ऊनाग्र[=अपवर्तित]भागहारभाज्यभक्तशेषं स्थापितम् ९ ६ । अयं कुट्टाकारः भागलब्धं च । उद्देशकः - एकादश केन हताः त्रिकरहिताः ते हृताः त्रिविंशत्या । दद्युः शुद्धमथ अंशं लब्धं गुणकं च मे ब्रूहि ॥ ६ ॥ न्यासः - ११ २३ [त्रिक]रहितात्लब्धं पूर्वक्रमेण एव कुट्टाकारः भागलब्धं च १७ ८ । [ग्रहकुट्टाकारः, मण्डलशेषविधिः] अथ इदानीं ग्रहगणिते कुट्टाकारः योज्यते - रविभागणाः केन गुणिताः मण्डलशेषमपनीय भूदिवसानां शुद्धं भागं दद्युः इति रविभगणाः भूदिवसाः च न्यस्यन्ते ४३२०००० १५७७९१७५०० । एतौ ऊनाग्रच्छेदार्थं परस्परेण भाज्यौ । शेषमूनाग्रच्छेदः पञ्चसप्ततिशतानि ७५०० । अनेन अपवर्तितौ ५७६ २१०३८९। एतौ ऊनाग्रच्छेदभाजितौ शेषौ । एतयोः भगवतः भास्करस्य कुट्टाकारः साध्यः । उद्देशकः - मध्यं रवेः मृगपतौ धनुः अंशकार्धे दृष्टं मया दिनकरोदयकालजातम् । आगण्यतां दिनगणः भटशास्त्रसिद्धः याताः च तस्य भगणाः कलिकालसिद्धाः ॥ ७ ॥ न्यासः - [मध्यमरविः] ४ । २८ । २० । "गणकाराः भागहराः" [गणित¡, २८] इति मण्डलशेषानयनम् । तत्यथा - सवितारं लिप्तीकृत्य जातम् ८९०० । एततनेन २१०३८९ गुणितं खखषड्घनेन [२१६००] भक्तम्, लब्धं मण्डलशेषम् ८६६८८ । इदमेव मण्डलशेषमग्रान्तरं परिकल्प्य कुट्टाकारः क्रियते । [न्यासः] ५७६ अग्रान्तरम् ८६६८८ २१०३८९ लब्धं कुट्टाकारन्यायेन - ८२०१०६८५६५ २२४५२७६८ ऊनाग्रभागहारभाज्यभक्तशेषौ - [१०५३४५ २८८ ] [२८८] एतत्कलियातम्, अहर्गणः च - १०५३४५ । अथवा एकरूपापचयेन कुट्टाकारं कृत्वा अहर्गणः मण्डलानि च आनीयन्ते । तत्यथा - एकापचयेन कुट्टाकारभागलब्धौ - ९४६०२ २५९ अनेन मण्डलशेषेण च त्रैराशिकम् - यदि एकरूपापचयेन अयं कुट्टाकारः मण्डलशेषापचयेन कियानिति न्यासः - १, ९४६०२, ८६६८८ । अत्र लब्धं निरपवर्तितदिवसैः विभक्तशेषमहर्गणः पूर्वलिखितः एव । मण्डलानयने एकरूपापचयेन इदं भागलब्धम्, मण्डलशेषापचयेन कियतिति न्यासः - १, २५९, ८६६८८ । अत्र लब्धं निरपवर्तितमण्डलैः विभक्तं शेषं मण्डलानि पूर्वलिखितानि एव । [ मण्डलगन्तव्यविधिः] अथवा निरपवर्तितभागहारभाज्यराशी [मण्डलगन्तव्यम्] [क्षेपः च] परिकल्प्य कुट्टाकारः क्रियते । तत्यथा - गन्तव्यं रविणा अष्टमस्य भवनस्य आहुः कलानां शतम् सञ्चिन्त्य आशु वद अश्मकस्य गणितं ज्ञातं त्वया चेत्यदि । यावन्ति अद्य कलेः गतानि मतिमन् वर्षाणि सर्वाणि मे तु अह्नां यः च गणः स च एव विशदं वाच्यं कलेः यः गतम् ॥ ८ ॥ न्यासः - गन्तव्यं रविणा - ७ १ ४० अनेन मण्डलगन्तव्येन "गुणकाराः भागहराः" इति मण्डलगन्तव्यम् १२३७०१ । अनेन उपचयाग्रेण पूर्ववतहर्गणः कलियातं च १०५३४५ २८८ । एकरूपोपचयेन कुट्टाकारः भागलब्धं च ११५७८७ ३१७ । पूर्ववतनेन अपि यदि एकरूपोपचयेन अयं कुट्टाकारः भागलब्धं वा मण्डलगन्तव्योपचयेन [१२३७०१] कः कुट्टाकारः भागलब्धं च इति लब्धं निरपवर्तितभागहारभाज्यभक्तशेषमहर्गणः भागलब्धं च । अत्र मण्डलगन्तव्यप्रक्षेपातेकमधिकं भवति । अतः मण्डलमेकमपनीयते । एवं मण्डलकुट्टाकारः व्याख्यातः । [ राशिकुट्टाकारः ] इदानीं तु राशिकुट्टाकारः उच्यते । तत्यथा - उद्देशकः - वात्या हृताः सभगणाः दिवसस्य भर्त्तुः ये राशयः दिवसराशिवशेन लब्धाः । शेषं त्रिसप्त नवपञ्च च भागलिप्ताः वाच्यं दिवाकरगतं दिनराशिसाकम् ॥ ९ ॥ न्यासः - ० ० २१ ५९ करणम् - "गुणकाराः भागहराः" इति राशिशेषं लब्धम् १५४१६८ । अपवर्तितरविभगणाः द्वादशगुणाः रासयः इति स्थापना ६९१२ २१०३८९ । राशिशेषम् १५४१६८ । लब्धं कुट्टाकारक्रमेण अहर्गणः भागलब्धं च - १७६५६४ ५८०० भागलब्धं द्वादशभिः विभज्य लब्धं भुक्तभगणाः । शेषं राशयः । ते च ४८३, [४] । अहर्गणाः [१७६५६४ । अथवा] यावतभिरुचितं पृच्छकाय । एकरूपापचयेन अपि कुट्टाकारं कृत्वा लब्धम् - ११३०७८ ३७१५ एताभ्यामपि त्रैराशिकेन अहर्गणः भागलब्धं च १७६५६४ ५८०० शेषं समानम् । [ प्रकारान्तरेण साधनविधिः] अन्ये पुनर्द्वादशानां भूदिवसानां च एकापनयेन कुट्टाकारं कृत्वा त्रैराशिकं कुर्वन्ति । यस्मात्मण्डलशेषस्य द्वादश गुणकारः । तत्र गताः राशयः मण्डलशेषं च लभ्यन्ते । तत्यथा - न्यासः - १२ २१०३८९ अत्र लब्धं कुट्टाकारः भागलब्धं च - १२२७२७ ७ शेषमुक्तत्वात्न उक्तम् । [ भागकुट्टाकारः ] भागशेषः उद्देशकः - भगणभवनभागाः वातनीताः समस्ताः दिनकरपरिभुक्ताः लिप्तिकाः पञ्च दृष्टाः । वद यदि दिनराशिं वेत्सि चेताश्मकीयम् गतमपि दिनभर्तुः मण्डलाद्यं क्षणेन ॥ १० ॥ न्यासः - ० ० ० ५ [लब्धम्] भागशेषम् - १७५३२ पूर्ववत्लब्धमहर्गणः भागलब्धं च - ६२७१५ ६१८१२ यदा पुनरेकापनयेन कुट्टाकारं कृत्वा त्रैराशिकं क्रियते तदा अपि स एव अहर्गणः, ततेव भागलब्धम् । तत्यथा - एकापनयेन अपि कुट्टाकारभागलब्धे स्याताम् । ते च - ५९८७३ ५१०११ अनेन त्रैराशिकेन पूर्ववत्लब्धः एव अहर्गणः भागलब्धं च । भागलब्धे षष्टिशतत्रयभक्ते गतमण्डलानि राशिभागाः च जाताः १७१, ८, [१२] । अन्ये पुनर्त्रिंशतः निरपवर्तितभूदिनानां च कुट्टाकारं कृत्वा त्रैराशिकेन गतभागान् राशिशेषं च आनयन्ति । तत्यथा - [न्यासः] - ३० २१०३८९ [अत्र] कुट्टाकारः भागलब्धं च - ७०१३ १ अनेन त्रैराशिकं कृत्वा राशिशेषं गतभागाः च - ८४७४० १२ अनेन राशिशेषेण अहर्गणानयनस्य अभिहित्वात्न उक्तम् । [ लिप्ताकुट्टाकारः ] एवं लिप्ताशेषं दृष्ट्वा कुट्टाकारः क्रियते । तत्यथा - उद्देशकः - मण्डलर्क्षलवलिप्तिका हृता मारुतेन [विकला प्रदृश्यते] । कथ्यतां दिनगणः विवस्वतः भुक्तमण्डलगृहांशलिप्तिकाः ॥ ११॥ न्यासः - ० ० ० ० १ पूर्ववत्लब्धं लिप्तिकाशेषम् - ३५०६ करणम् - खखषड्घनेन अपवर्तितरविभगणान् संगुणय्य स्थापना - १२४४१६०० २१०३८९ अत्र भागहारेण भाज्यं विभज्य लब्धं पृथग्विनष्टं स्थापयेत् । शेषस्य भूदिवसानां च कुट्टाकारं कृत्वा लब्धस्य उपरिराशिं कुट्टाकारमविनष्टस्थापितेन पृथक्संगुणय्य भागलब्धं प्रक्षिपेत् । भागलब्धं भवति । अनेन क्रमेण लब्धमहर्गणः भागलब्धं च । स्थापना - १२५३४२ ७४१२२४६ भागलब्धे खखषड्घनभक्ते गतमण्डलानि राशिभागलिप्ताः च - ३४३ १ २७ २६ अथवा एकापनयेन कुट्टाकारं कृत्वा त्रैराशिकं क्रियते । तत्यथा - एकापनयेन कुट्टाकारः भागलब्धं च - ८१६४७ ४८२८२९१ शेषमुक्तत्वात्न उक्तम् । अथवा षष्ट्या भूदिवसानां च एकापनयेन कुट्टाकारं कृत्वा भागशेषं गतलिप्ताः च लभ्यन्ते अनुपातेन । तत्यथा - एकापनयेन षष्ट्या भूदिवसानां च कुट्टाकारः भागलब्धं च - १०८७०१ ३१ एवं लिप्तातत्पराशेषयोः अपि योज्यम् । अथ कश्चित्सूर्यमुद्दिश्य कियता कालेन पुनरेवंविधः सूर्यः भविष्यति इति पृच्छति, स एवं वक्तव्यः - निरपवर्तितभूदिनतुल्यैः इति, यस्मात्निरपवर्तितभूदिनैः क्षिप्तः सूर्यः तादृकेव भवति । [वारकुट्टाकारः ] अथ कश्चित्सूर्यदिने सूर्यमुद्दिश्य पुनर्कियता कालेन सूर्यदिने सोमदिने अन्यस्य वा ग्रहवारदिवसे सूर्यः एवं भविष्यति इति पृच्छति, तत्यथा - निरपवर्तितभूदिनेषु सप्तहृतावशिष्टेषु कुट्टाकारः क्रियते । ग्रहवारः यः निर्दिष्टः तस्मात्य[तु]त्तरः ग्रहवारः ततः प्रभृति एकोत्तरया वृद्ध्या अपचयं परिकल्प्य एवं लब्धं कुट्टाकारः निरपवर्तितभूदिनानां गुणकारः तेन गुणितेषु निरपवर्तितभूदिनेषु निर्दिष्टसूर्येण आनीतम् अहर्गणं प्रक्षिप्य जातदिवसतुल्यः कालः आदेष्टव्यः । तत्यथा - उद्देशकः - धन्विन्यंशाः शरकृतिसमाः षट्कृतिः मौरिकाणाम् मध्यं भानोः दश च विकलासंयुतं वर्णयन्ति । रात्रेः पातुः तनुजदिवसे केन कालेन तुल्यः भावी सूर्यः कथय विशदं जीवशुक्रज्ञवारे ॥ १२ ॥ बुधदिवसे अयं सूर्यमध्यमः - ८ २५ ३६ १० अनेन सूर्येण पूर्वकरणेन लब्धमहर्गणः १००० । अस्मिनहर्गणे बुधवारः । अथ कुट्टाकारानयनम् । निरपवर्तितभूदिवसेषु सप्तभक्तेषु शेषः ४ । जीवदिनार्थं कुट्टाकारः एकापनयेन २, अनेन निरपवर्तितभूदिवसाः गुणिताः जाताः ४२०७७८, अस्मिन् पूर्वलब्धा[हर्गणयुते जातः] कालः ४२१७७८ । शुक्रदिनार्थं कुट्टाकारे द्वौ अपनीयते । लब्धं पूर्ववत्कालः ८४२५५६ । बुधदिनार्थं कुट्टाकारः ७ । कालः च १४७३७२३ । एवं सर्वेषु एव दिवसवारेषु युक्त्या कालः कुट्टाकारः च योज्यः । [ ग्रहकुट्टाकारे विशेषः ] यः उपचयाग्रः कुट्टाकारः स च राशिभागलिप्ताशेषेषु अपि योज्यः । तत्यथा - उद्देशकः - ये भुक्ताः पवनहृताः सराशिभागाः दृश्यन्ते दिवसकरेण भोज्यलिप्ताः । तन्मात्राः विषयकृतिः शिवैः समेताः वाच्यः अह्नामथ च गणः द्वाकरः च ॥ १३ ॥ न्यासः - ० ० ३६ अत्र अपवर्तितभगणान् भागीकृत्य उपचयाग्रेण सह पूर्ववत्कुट्टाकारलब्धः अहर्गणः भागलब्धः च ६६०२७ ६५०७७ । अत्र भागलब्धमेकेन अधिकं भवति । एकमपनीय शेषे षष्टिशतत्रयभक्ते रवेः भगणाः राशयः भागाः च प्रतिवक्तव्याः । एकरूपोपचयेन अपि कुट्टाकारं कृत्वा गन्तव्याग्रेण अनेन १२६२३३ त्रैराशिकम् । अनेन अपि लब्धमहर्गणः भागलब्धं च पूर्वलिखितमेव । एवमन्येषामपि ग्रहाणां कुट्टाकारः योज्यः । [ वारकुट्टाकारे विशेषः ] अथ कश्चितेवं पृच्छति - सूर्याचन्द्रमसौ सूर्यदिने सोमदिने वा इयत्सङ्ख्यौ । एतौ पुनर्कियता कालेन एतावत्सङ्ख्यौ एव भविष्यतः इति । अत्र कुट्टकारक्रमः - कश्चित्राशिः सूर्यस्य निरपवर्तितभूदिवसैः भागं ह्रियमाणः शून्याग्रः, चन्द्रस्य अपि शून्याग्रः एव सः । अस्मिनुद्देशने द्वयोः अपि सम्बन्धः द्विच्छेदाग्रसंवर्गः हि नाम सदृशीकरणं राशेः । अत्र च सूर्यस्य निरपवर्तितदिवसाः अनेन ३४४९ अपवर्तिताः लब्धम् ६१ । चन्द्रस्य अपि तेन एव अपवर्तितेन जाताः ६२५ । ततः सूर्यस्य निरवर्तितदिनानामपवर्तितचन्द्रदिवसाः गुणकारः । ते च अत्र लिखिताः एव । गुणिते जातम् १३१४९३१२५ । चन्द्रस्य अपि सूर्यापवर्तितदिवसैः गुणिते जातम् १३१४९३१२५ । अनेन राशिना पूर्ववत्ग्रहकुट्टाकारः योज्यः । तत्यथा - उद्देशकः - सूर्याचन्द्रमसौ तुलाधरनरे दृष्टौ मया तत्त्वतः भागैः द्वादशभिः द्वयेन च युतौ सूर्यस्य वारोदये । लिप्ताभिः शशिसून्यसागरयुतौ जीवस्य वारे पुनर् शुक्रस्य अथ शनैश्चरस्य दिवसे तुल्यौ कियद्भिः दिनैः ॥ विलिप्ताभिः अधिकः अर्कः विज्ञेयः भूधरेन्दुभिः । शोधयेत्च निशानाथात्विलिप्ताः धृतिसम्मिताः ॥ १४ ॥ न्यासः - [सू¡] [चं¡] ६ ६ १२ २ १ ३९ १७ ४२ लब्धमाभ्यामहर्गणः - ७५०० । करणम् - सूर्याचन्द्रमसोः निरपवर्तितदिवसानां ग्रहभक्तशेषम् १ ७ । निर्दिष्टवारातुत्तरतः चतुर्थः जीवः, पञ्चमः शुक्रः, षष्ठः शनैश्चरः इति एतैः एवं तु इमे ग्रहभक्तशेषात्यथाक्रमेण लब्धाः जीवस्य ४, शुक्रस्य ५, शनैश्चरस्य ६ । एते एव सूर्याचन्द्रमसोः निरप[व]र्तितदिवसानां गुणकाराः । गुणकारगुणितेषु आनीताहर्गणं प्रक्षिप्य क्रमेण - [ ५२५९८००००, ६५७४७३१२५, ७८८९६६२५० दिवसाः ] [ ग्रहयोयेन कुट्टाकारः ] अथ कश्चित्द्वौ ग्रहौ एकत्र कृत्वा अहर्गणं पृच्छति तस्य अयमुपायः - निर्दिष्टग्रहभगणानां समासितानां भूदिवसानां च अपवर्तनं कृत्वा कुट्टाकारः करणीयः । तत्यथा - उद्देशकः - त्रिंशत्पञ्चशशाङ्काः संयुक्तौ शशिदिवाकरौ दृष्टौ । दिनराशिं ब्रूहि गतं चक्राणि च यानि भ्क्तानि ॥ १५ ॥ न्यासः - १ ५ ३० करणम् - चन्द्रादित्यभगणाः ६२०७३३३६ । [युगकुदिनप्रमाणं च] १५७७९१७५०० । एतौ द्वादशभागेन अपवर्तितौ जातौ - ५१७२७७८ १३१४९३१२५ मण्डलशेषम् - १२९६६६८३ । अत्र लब्धं पूर्ववतहर्गणः भागलब्धं च - ८७९४२८८६ ३४५९५६५ एकापनयेन अपि त्रैराशिकं कृत्वा स एव अहर्गणः भागलब्धं च लभ्यते । तत्यथा - एकरूपापचयेन अपि कुट्टाकारः भागलब्धं च - ५७६९९६९२ २२६९८३५ [ अत्र अपि त्रैराशिकेन पूर्वोक्तः एव अहर्गणः भागलब्धं च । ] एवमन्येषामपि समासप्रश्नेषु कुट्टाकारः कल्पनीयः, राशिभागलिप्ताशेषेषु अपि । एवमेव त्रिचतुःसमासेषु अपि विस्तरेण व्याख्येयम् । [ द्व्यग्रकुट्टाकारः ] अथ कश्चित्दिवसकरमण्डलशेषपरिसमाप्तिकाले जनितं दिविचरमुद्दिश्य दिवसकरं दिविचरभगणान् पृच्छति, तस्य अयमुपायः - निर्दिष्टदिविचरं रविभगणान् च अपवर्त्य कुट्टाकारः योज्यः । तत्यथा - उद्देशकः - भानुमण्डलसमाप्तिकालजः मेदिनीहृदयजः अभिलक्षितः । द्वित्रिपञ्चविषयाः गृहादयः ब्रूहि मण्डलगतं कुजार्कयोः ॥ १६ ॥ न्यासः - २ १५ ५ करणम् - कुजार्कभगणाः - २२९६८२४ ४३२०००० एतौ चतुर्विंशतिभिः अपवर्तितौ - ९५७०१ १८०००० मण्डलशेषमिदम् ३७५४२ । लब्धं रविकुजयोः यातभगणाः ६८१४२, ३६२२९ । एकापनयेन अपि कुट्टाकारं कृत्वा त्रैराशिकेन ते एव भगणाः । तत्यथा - एकापनयेन कुट्टाकारः भागलब्धं च - १७४३०१ ९२६७१ एवमेव अन्येषामपि ग्रहाणाम् । अथवा ग्रहमुद्दिश्य ग्रहमेव अन्यम् [पृच्छति तत्र] अपि भागहारभाज्यपरिकल्पनया कुट्टाकारः कल्पनीयः । अथ मण्डलपरिसमाप्तिकालातन्यकालसम्भूतग्रहभगणादीनुद्दिश्यते तथा [ग्रह]भगणात्तत्र रविभगणराशिभागलिप्तान् च पृच्छति, तस्य अपि कुट्टाकारानयनस्य अयमुपायः - रविभगणान् खखषड्घनेन संगुणय्य निर्दिष्टभगणैः सह अपवर्त्य कुट्टाकारविधिः इति । तत्यथा - उद्देशकः - स्वोच्चांशकार्धमधिरूढमहेन्द्रसूरी तेजोवितानविमलीकृतदिङ्मुखेन । सूर्येण यातमिह पृच्छति च आश्मकीये वाच्यं किमाशु वद तस्य विशालबुद्धे ॥ १७ ॥ न्यासः - ० ३ ४ ३० करणम् - [गुरुभगणाः] खखषड्घनगुणितसूर्यभगणैः सह अपवर्तिते द्विनवत्युत्तरशतभागेन जातौ १८९७ ४८६०००००० शेषमपचयः १२७५७५००० । लब्धं सूर्ययात[लिप्ताः गुरु]भगणाः च ७८९७५०००, [३०८] । लिप्ताः खखषड्घनभक्ताः मण्डलानि राशयः भागाः लिप्ताः च सूर्यस्य ३६५६ ३ ० ० एकापनयन अपि कुट्टाकारं कृत्वा त्रैराशिकेन एततेव लभ्यते । तत्यथा - एकापनयेन अपि कुट्टाकारः भागलब्धं च - १३५०१४२३३ ५२७ एवं राश्यादिशेषेषु अपि योज्यम् । [वेलाकुट्टाकारः ] अथ वेलाकुट्टाकारः । कश्चित्ग्रहमुदयकालातन्यकालजनितं प्रदर्श्य दिवसगणं पृच्छति, तस्य अयमानयनोपायः - इष्टकालच्छेदगुणितान्निरपवर्तितभूदिवसान् कृत्वा पूर्ववत्कुट्टाकारं निष्पाद्य इष्टकालच्छेदभक्तः अहर्गणः । तत्यथा - उद्देशकः - रात्र्यर्धकालजनितः दिवसस्य भर्तुः इष्टः मृगार्धसहितः अष्टचतुष्कलाग्रः । लिप्तात्रिभागशकलद्वितयेन युक्तः शीघ्रं दिनादि भगणान् च वद आश्मकीयम् ॥ १८ ॥ न्यासः - ९ १५ ३२ ४० करणम् - अहर्गणः चतुर्भागेन अनेन इति चत्वारि निरपवर्तितदिनानां गुणकारः इति चतुर्भागेन रविभगणानपवर्त्य स्थापना १४४ २१०३८९ । मण्डलशेषम् १६६८७६ । लब्धं पूर्ववत्कुट्टाकारः [७००३] । अस्य चतुर्थांशातहर्गणः [१७५०] । एवमास्तमयिकः उद्देशकः - अस्ताद्रेः तुङ्गशृङ्गव्यवहितवपुषः तिग्मरश्मेः गतानाम् चक्राद्यङ्कावलीनां क्रमगणितचयः विस्मृतः सर्वः एव । दृष्टः लिप्ताग्रशेषः गुणवियदुडुपाः स्पष्टः एव अङ्कराशिः शीघ्रं वाच्यः गणः अह्नां कलियुगगणितः मण्डलादिः च भास्वान् ॥ १९ ॥ न्यासः - २८८ [x २१६००] शेषम् १०३ २१०३८९ अनेन अपचयेन पूर्ववतहर्गणस्थापना - ९९२७५ भागलब्धं रवेः यातमण्डलराशिभागलिप्ताः - २७१ ९ १६ १३ एकापनयेन कुट्टाकारः भागलब्धं च १६३२९४ ४८२८२९१ । अनेन अपि त्रैराशिकेन पूर्वानीतः अहर्गणः भागलब्धं च मण्डलादि [पूर्वोक्तमेव] । माध्याह्निकः उद्देशकः - [यत्शेषं मण्डलानां ख] नवनगचतुर्भूतशीतांशुतुल्यम् मध्यं यातस्य भानोः पटुतरनिकरद्योतिताशामुखस्य । दृष्टं वाच्यः गणः अह्नां गतभगण[चयः यः अपि कालेन] सिद्धः कुट्टाकारोपदेशः विधिवतधिगतः येन तेन आश्मकीयः ॥ २० ॥ न्यासः - [ १४४ २१०३८९] मण्डलशेषम् १५४७९० । अनेन मण्डलशेषेण पूर्वकरणेन लब्धम् [कुट्टाकारः] भागलब्धं च ३९९७ २, कुट्टाकारस्य चतुर्थः अंशः अहर्गणः ९९९ । एकापनयेन कुट्टाकारः भागलब्धं च १६८०१९ ११५ । अनेन त्रैराशिकेन पूर्ववतहर्गणानयनम् । तथा च याममुहूर्तनाडीविनाडिकाकालेषु अपि यथायोगं युक्त्या कुट्टाकारः विकल्पनीयः । तत्यथा - उद्देशकः - नाडीभिः कियतीभिः अपि उपचितातह्नां गणातागतः तिग्मांशोः भगणादिकः अत्र विलयं नीतः अधुना वात्यया । दृष्टः सप्ततिः एकरूपसहिता शेषः कलानां मया वक्तव्यः द्युगणः गतः च सवितुः स्पष्टाः च याः नाडिकाः ॥ २१ ॥ लिप्ताशेषः ७१ । करणम् - अपवर्तितरविभगणान् षष्ट्या सह अपवर्तयेत् । षष्ट्या द्वादशभागेन पञ्च । अपवर्तितरविभगणानां द्वादशभागेन अष्टचत्वारिंशत् । पञ्चभिः भूदिनानि [शेषं च] संगुणय्य स्थापना - ४८ [x २१६००] शेषम् ७१ [x ५] १०५१९४५ [एषु पञ्चभिः अपवर्तनं कृत्वा स्थापना - २०७३६० शे¡ ७१] २१०३८९ पूर्ववत्कुट्टाकारं कृत्वा लब्धः अहर्गणः - ७२०, नाड्यः ३ । रवियातभगणादयः च - १ ११ १९ ४१ एकापनयनेन अपि कुट्टाकारः भागलब्धं च - ५९८७३ ५९०११ पूर्ववत्त्रैराशिकेन अहर्गणः भागलब्धं च । [अनपवर्तितशेषेण कुट्टाकारः ] अथ पुनर[न]पवर्तितमेव शेषमुद्दिश्य अहर्गणं यातं च पृच्छति, तस्य अपि अयमानयनोपायः । भागहारभाज्याग्राणामेकेन अपवर्तनच्छेदेन अपवर्तनं कृत्वा पूर्ववत्कुट्टाकारः क्रियते । अथ पुनरेतानि भागहारभाज्याग्राणि छेदेन एकेन अपवर्तनं न प्रयच्छन्ति यथा तथा असौ उद्देशकः, तादृशः च एकः राशिः एव न अस्ति अतः न आनीयते । उद्देशकः - शरयमवसवः शताभिनिघ्ना दिनकरमण्डलशेषराशिसङ्ख्या । अविकृतभगणक्षमादिनोत्था कथय तया दिनराशिमण्डलानि ॥ २२ ॥ न्यासः - ४३२०००० शेषम् - ८२५०० १५७७९१७५०० एते राशयः च खाकाशशरमुनिभिः अपवर्त्य कुट्टाकारेण अहर्गणः रवियातमण्डलानि च - १९९०६६ ५४५ । [द्व्यग्रकुट्टाकारविशेषः ] अथ कश्चित्[द्वि]च्छेदाग्रन्यायेन एकमहर्गणं ग्रहयोः भिन्नाग्रभगणशेषाभ्यां पृच्छति, तस्य अपि "अधिकाग्रभागहारं छिन्द्य" आदित्यनेन द्विच्छेदाग्रानयनम् । उद्देशकः - अर्काङ्गारकवासरैः अपहृतः कश्चित्दिनानां गणः लब्धौ [तत्र न वेद्मि] न एव च तयोः शेषौ मया लक्षितौ । यौ तौ मण्डलताडितौ अथ पुनर्भक्तौ दिनैः स्वैः पृथक् तत्र आप्तं मरुता अपनीत[मधुना च अग्रे तयोः ति]ष्ठतः ॥ अर्कस्य अश्विनगाब्धिनागशिखिनः शेषः कुजस्य उच्यते भूताश्व्यङ्गनभः अष्टशीतकिरणक्षोणीषरक्ष्माभृतः । एताभ्यां पृथक्[अर्कभूमिसुतयोः अह्नाम्] गणौ तद्गतौ द्व्यग्रं च अपि तयोः विगण्य गणकाः व्यावर्णयध्वं क्रमात् ॥ २३ ॥ न्यासः - अर्कस्य ३८४७२ भौमस्य ७७१८०६२५ एताभ्यां मण्डलशेषाभ्यां पृथक्पृथक्पूर्वेण क्रमेण कुट्टाकारं कृत्वा अहर्गणौ लब्धौ, अर्कस्य ८८३३, भौमस्य ६४०००० । एताभ्यामग्राभ्याम् "अधिकाग्रभागहारं छिन्द्यातूनाग्रभागहारेण" इति अनेन कुट्टाकारः क्रियते । तथा च न्यासः - [अर्कस्य] ८८३३ [भौमस्य] ६४०००० २१०३८९ १३१४९३१२५ अग्रान्तरम् - ६३११६७ एतयोः छेदाग्रान्तराणामनेन २१०३८९ अपवर्तनं कृत्वा स्थापना - १ ३ ६२५ अत्र ऊनाग्रच्छेदः एकः तेन सर्वः एव राशिः शुद्ध्यते इति अतः राशिविपर्ययात्व्याख्यायते । तथा च न्यासः १ । अत्र रूपं विद्यते । अयमेकः राशिः केन गुणितः अग्रान्तरं त्रीणि अपनीय [शरयमर्तुभिः भागे हृते] शुद्धं भागं प्रयच्छति इति लब्धः राशिः त्रीणि रूपाणि । अस्य विपर्यस्तराशिक्रमेण एव शरयमर्तुभिः भागे हृते शेषः कुट्टाकारः त्रिकः तेन अधिकाग्रच्छेदेन गुणितः जातः १८७५ । अनेन अधिकाग्रच्छेदः अयम् १३१४९३१२५ गुणितः अधिकाग्रयुतः द्विच्छेदाग्रं संजातं शराद्रिगुणनवाब्धिद्विवियद्भूतशररसाब्धिनेत्राणि, अङ्कैः अपि न्यासः २४६५५०२४९३७५ । अयं राशिः द्विच्छेदाग्रः । एवमन्येन छेदाग्रेण सह कुट्टाकारे क्रियमाणे द्विच्छेदाग्रसंवर्गः हारतां प्रतिपद्यते । द्विच्छेदाग्रराशिभ्यां सह कुट्टाकारेण त्रिच्छेदाग्रानयनम् । एवं चतुरग्राणि अपि स्वधिया अभ्यूह्यानि इति । [ कक्ष्याविधौ द्व्यग्रकुट्टाकारः ] अथ कक्ष्याहर्गणेषु उद्देशकः - कक्ष्याप्रक्रमसङ्ख्यया गणितयोः शेषौ रवीन्द्वः रवेः द्व्यष्टेषु अद्ब्धिकृताब्धिखेषुभुवनच्छिद्रेन्दवः कीर्तिताः । नन्दाङ्गाश्विनिशाकराः कृतिहताः सम्यक्सहस्रस्य ते द्व्यग्रं वाच्यमहर्गणः कलिभुजः याताः च तत्पर्ययाः ॥ २४ ॥ न्यासः - १९३५०४४४५८२ अवेः ४९७९७८१३९६६ १२६९०००००० चन्द्रस्य ३७२४९२०००० अग्रान्तरम् १८०८१४४४५८२ । एते भागहाराग्रराश्योः अपवर्तनं प्रयच्छन्ति । वेदनवर्तुशून्ययमैः [ २०६९४ ] अपवर्त्य स्थापना । २०६९४ एतैः अपवर्तिता रविकक्ष्या २४०६३८९ । चन्द्रस्य अपि १८०००० । अग्रान्तरमपवर्तितम् ८७३७५३ । एतैः अपवर्तितभागहाराग्रान्तरराशिभिः कुट्टाकारन्यायेन लब्धः राशिः गुणयमाद्रिपुष्करर्तुशरांगाद्रीन्दुयमाः, अङ्कैः अपि २१७६५६३७२३ । "ऊनाग्रच्छेदभाजिते शेषम्" इति । अयं राशिः ऊनाग्रच्छेदेन अनेन १८०००० भक्तः शेषम् [३७२७] । [अनेन] शेषेण अधिकाग्रच्छेदः [अयम् २४०६३८९] गुणितः जातः सप्तोदधियमाङ्गाष्टनन्दाष्टशरनन्दवसवः, अङ्कैः अपि ८९५८९८६२४७ । अयं राशिः अपवर्तनेन अनेन [२०६९४ गुणितः जा]तः वस्विन्दूदधिभूतरन्ध्राग्नीन्दुरसयमाद्रिनन्दाग्निशरधृतयः, अङ्कैः अपि १८५३९७२६१३९५४१८ । अयमेव अधिकाग्रेण युतः [वियदभ्रखखा]ब्धिवसुरुद्ररसाङ्गेन्दूदधिशरधृतयः, अङ्कैः अपि १८५४१६६११८४०००० । अयं राशिः द्विच्छेदाग्रः । अस्य भूदिनैः सह अपवर्तित[खकक्ष्यया भागे कृते ] अहर्गणः लभ्यते । कथं पुनर्खकक्ष्यायाः भूदिनस्य च अपवर्तनम् ? उच्यते - कक्ष्याभिः ग्रहानयने खकक्ष्यायाः अहर्गणः गुणकारः, स्वकक्ष्याभूदिनसंवर्गः भागहारः इति खकक्ष्यायाः भूदिनानां च अपवर्तनेन वियदम्बरतिथिनन्दैः लब्धं खकक्ष्यातः कृतोदधिनगशररामाग्निरसगुणेन्दवः, अङ्कैः अपि १३६३३५७४४ । भूदिनेभ्यः अपि शराब्धियमाद्रीन्दवः, अङ्कैः अपि १७२४५ । अनेन भूदिनलब्धेन यथा स्वग्रहकक्ष्या गुणिता, अहर्गणापवर्तितखकक्ष्याभ्यासस्य भागहाराः भवन्ति । पूर्वलिखितद्विच्छेदाग्रराशिः अपवर्तितखकक्ष्याहर्गणसंवर्गः इति अतः स्वभागहाराभ्याम् विभज्य लब्धं सूर्याचन्द्रमसोः यातभगणाः । रवेः ३७२३, चन्द्रस्य ४९७७७ । यौ अत्र शेषौ तयोः मण्डलशेषौ यथाक्रमेण निर्दिष्टौ भवतः । अस्मिनेव द्विच्छेदाग्रे अपवर्तितखकक्ष्यया विभक्ते लब्धमहर्गणः रसविश्वाः शतवर्गगुणिताः, अङ्कैः अपि १३६०००० । उद्देशकः - कक्ष्याख्यातविधिक्रमेण गणितौ शेषौ कलानां क्रमात् द्व्यङ्गेषु अब्धिशिलीमुखत्रिकनभोभूतेन्द्रियाष्ट्यः रवेः । चन्द्रस्य आयुतताडिताः कृतरसाः वस्वग्नयः सूक्ष्मकाः वाच्याः तद्भगणादयः दिनगणः द्व्यग्रं च ताभ्यां तयोः ॥ २५ ॥ न्यासः - रवेः १६५५०३५४५६२ ४९७९७८१३९६६ चन्द्रस्य अपि २४३८६४०००० ३७२४९२०००० अत्र कुट्टाकारस्य युगपत्सम्पादयितुमशक्यत्वात्पृथक्पृथक्कुट्टाकारेण सूर्याचन्द्रमसोः मण्डलशेषौ अपवर्तनीयौ स्वच्छेदाभ्याम् "अधिकाग्रभागहारं छिन्द्यातूनाग्रभागहारेण" इति अनेन क्रमेण अहर्गणानयनम् । तत्यथा - रवेः शेषभागहारौ अपवर्तितौ षड्भिः - २७५८३९२४२७ ८२९९६३५६६१ एताभ्यामपवर्तितशेषभागहाराभ्यां कुट्टाकारः चिन्त्यते । तत्र भागशेषं षष्ट्या सङ्गुणय्य अनेन एव अपवर्तितभागहारेण भागं हृत्वा रवेः लिप्ताः लभ्यन्ते, लिप्ताशेषः च अतिरिच्यते । स लिखितः एव । तत्र इदं चिन्त्यते - सष्टिः केन गुणिता लिप्ताशेषमपनीय अपवर्तितभागहारस्य शुद्धं भागं दास्यति इति । एवं भागशेषः उपलभ्यते । स च ७३७७३१८०४१ । अथवा षष्टिः केन गुणिता एकमपनीय षड्भिः अपवर्तितभागहारेण हृता शुद्धम् भागं दास्यति इति एकापनयनकुट्टाकारमपि आनीय तेन भागशेषानयनं लिप्तानयनं च । एकरूपापनयनेन कुट्टाकारः भागलब्धं च - ८१६१३०८४०० [५९] अनेन कुट्टाकारेण पूर्वलिखितः भागशेषः लभ्यते । ततः पुनरपि तेन भागशेषेण त्रिंशता च कुट्टाकारः क्रियते । त्रिंशत्केन गुणिता भागशेषमप[नीय] षड्भिः अपवर्तितभागहारस्य शुद्धं भागं दास्यति इति राशिशेषः उपलभ्यते । स च ५५०२३४६५२० । एवं पुनरपि अनेन कुट्टाकारः क्रियते । द्वादश केन गुणिता राशिशेषमपनीय तस्य एव षड्भिः अपवर्तितभागहारस्य शुद्धं भागं दास्यति इति मण्डलशेषः उपलभ्यते । स च ३२२५०७४०९७ । अयमपवर्तितभागहारभाज्याभ्यामुत्पन्नः इति षड्भिः गुणितः प्रागुपन्यस्तोद्देशकमण्डलशेषः भवति इति सः पूर्वलिखितः एव । एकापनयनेन [कुट्टाकारः] भागलब्धं च ७६०७९९९३५६ । भागलब्धैः पृतह्क्पृथक्राशिभागलिप्तानयनम् । [ ११] एवं चन्द्रस्य अपि शेषभागहारराशी क्रमेण आयुतगुणिताष्टोत्तरशतेन अपवर्त्य स्थापना -२२५८ ३४४९ आभ्यां क्रमेण कुट्टाकारः पूर्ववत् । षष्ट्या च भागशेषः लभ्यते, स च २२२२ । एकापनयनेन अपि कुट्टाकारः भागलब्धं च १७८२ ३१ । पुनरपि भागशेषापनयनेन त्रिंशता च कुट्टाकारं कृत्वा राशिशेषः लभ्यते । स च ३०४ । एकापनयनेन अपि कुट्टाकारः भागलब्धं च ११५ १ । ततः पुनरपि राशिशेषापनयनेन द्वादशानां च कुट्टाकारं कृत्वा मण्डलशेषः लभ्यते, स च ११७५ । एकापनयनेन अपि कुट्टाकारः भागलब्धं च २०१२ ७ । अत्र च आनीतः मण्डलशेषः एव अष्टोत्तरशतेन आयुतगुणितेन अभ्यस्तः प्रागुपन्यस्तोद्देशकमण्डलशेषः भवति "चन्द्रस्य आयुतताडिताः कृतरसाः" इति आदि पूर्वलिखिता एव । एवं मण्डलशेषौ सूर्याचन्द्रमसोः अवगम्य "अधिकाग्रभागहारं छिन्द्यातूनाग्रभागहारेण" इति अनेन पूर्वक्रमेण गतमण्डलानि अहर्गणः च पूर्वलिखितः एव । अथवा यः असौ पूर्वमण्डलशेषराशिना अनेन क्रमेण आनीतः खखषड्घनेन गुणितः स्वकक्ष्याभागहारेण अपहृतः यथाविहितलिप्ताशेषराशिः इति अतः इदं विचिन्त्य[ते - खख]षड्घनः केन गुणितः सूर्याचन्द्रमसोः पृथक्पृथकभिहितलिप्ताशेषमपनीय स्वकक्ष्योक्तभागहाराभ्यामपहृतं पृथक्शुद्धं भागं प्रयच्छति इति एवं कुट्टाकारे कृते सूर्याचन्द्रमसोः पृथक्पृथक्गतमण्डलानि तयोः मण्डलशेषराशी च लभ्येते । तानि मण्डलानि मण्डलशेषराशी च पूर्वलिखितः एव । [ कक्ष्याविधौ त्र्यग्रकुट्टाकारः ] एवं त्र्यग्रकुट्टाकारः अपि विगण्यते । तत्यथा - उद्देशकः - तिग्मांशोः गगनाग्निदस्रगगनं सूर्याब्धिरामेषवः रामाङ्गाब्धिवियत्कृशानुदहनाः शेषः स्मृतः माण्डलः । इन्दोः अम्बरशून्यवेदगगनं रामाब्धिदस्रद्विकम् रन्ध्राद्र्यम्बरसप्तभूतयमलाः शेषः गुरोः उच्यते ॥ व्योमाभ्राब्धिशरार्थसप्तगिरयः वस्वङ्कषट्षट्कका भूतेन्द्वङ्करसाग्निदृष्टनिचयः कक्ष्याभिधानातयम् । त्र्यग्राहर्गणमण्डलानि विधिव[त्वाच्यानि] तत्सङ्ख्यया कुट्टाकारविचित्रता परिगता यदि अश्मकोक्तक्रमात् ॥ २६ ॥ न्यासः - रवेः ३३०४६३५३४१२०२३० ४७२३३२२६५४६७५१० चन्द्रस्य २५७०७९२२४३०४०० ३५३३०८६६२००००० गुरोः ३६९१५६६९८७७५५४०० ५६०२२५४०७११७५००० अत्र एतयोः [रविचन्द्रा]ग्रयोः अन्तरं व्योमाग्निवसुनवाष्टषड्रुद्ररसशरभूताद्रि-कृताम्बराग्नयः, अङ्कैः अपि ३०४७५५६११६८९८३० । [भागहाराग्रा]णां सून्याङ्कशरयमवसुदस्ररसनवेन्दुभिः अपवर्तनम्, अङ्कैः अपि १९६२८२५९० । अनेन अपवर्तिते रवेः नवाष्टाग्निरसाम्बराब्धियमाः, अङ्कैः अपि २४०६३८९; चन्द्रस्य शून्याम्बराकाशवियदष्टेन्दवः, अङ्कैः अपि १८००००; अग्रान्तरमपवर्तितम् १५५२६३७ । एताभ्यामपवर्तितभागहाराभ्यामपवर्तिताग्रान्तरेण कुट्टाकारः लब्धः स्वराङ्गाद्रिरामाङ्गरसाद्रिरसवसुलोकाः, अङ्कैः अपि ३८६७६६३७६७ । अयमूनाग्रच्छेदेन अपवर्तितेन अपहृतः सनविशिष्टः स्वराङ्गाद्रिदहनाः ३७६७ । अयमपवर्तिताधिकाग्रभागहारेण गुणितः भूयः च अपवर्तितेन शून्याङ्कशरयमवसुदस्ररसनवेन्दुभिः [गुणितः] अधिकाग्रेण युतः जातः द्विच्छेदाग्रराशिः सून्याम्बरोदधिवियदग्नियमाकाशशरशराद्रिशून्येन्दुरसाम्बराङ्गाङ्काद्रि-स्वरेन्दवः, अङ्कैः अपि १७७९६०६१०७५५०२३०४०० । अस्य द्विच्छेदाग्रस्य तृतीयच्छेदाग्रेण सह कुट्टाकारे क्रियमाणे निवृत्तकर्मच्छेदयोः अभ्यासः छेदः भवति यमरसेन्दुमुनिशराश्विरसाद्रिजलधिशर-मुनिरूपदहनाद्रिशून्याष्टाम्बरनवमुनिवस्वङ्गाष्टयः, अङ्कैः अपि न्यासः - १६६८७९०८०७३१७५४७६२५७१६२०००००० । अत्र उपन्यस्ततृतीयच्छेदेन अधिकाग्रच्छेदस्य भागः तत्र शून्यम् अवशिष्यते । ततेव शून्यं कुट्टाकारः इति पूर्वनिष्पन्नं द्विच्छेदाग्रं त्र्यग्रं तत्पूर्वलिखितमेवम् । तस्य खकक्ष्योत्पन्नयोजनानामेव अङ्कराशिनः अनेन आकाशोदधिवसुरूपशिखिशरकृतमनुलोकाङ्करविभागः १२९३१४४५३१८४० । लब्धमहर्गणः शरवसुरूपाङ्गाद्रिविश्वाः १३७६१८५ । एवमयं कुट्टाकारविधिः विचिन्त्यमानः महोदधिजलतरणवदप्रमेयः इति विरम्यते । [ एकापचयेन कुट्टाकारलब्धी ] एते ग्रहकुट्टाकाराः श्लोकैः अपि उपनिबध्यन्ते । तत्यथा - भास्करादिशरीराय भास्करायुततेजसे । जगदुत्पत्तिसंहारहेतवे शम्भवे नमः ॥ १ ॥ कुट्टाकारः च लाभः च द्वन्द्वतः भगणातितः । निर्दिश्यते क्रमातत्र तद्विदां प्रीतये मया ॥ २ ॥ [ सूर्यस्य ] तिग्मांशोः [नयन]नभोरसाब्धिनन्दाः [९४६०२ ] तत्लब्धं भगणभवं नवेषुदस्राः [२५९] । राशीनां वसुनगखं गुणाः शिवाः च [११३०७८] लाभः स्यात्शरशशिनः अद्रिरामसङ्ख्या [३७१५] ॥ ३ ॥ रामाद्रिनागनवभूत[५९८७३]समांशकस्य लब्धः [अत्र रुद्र]वियदङ्कशराः [५९०११] प्रदिष्टाः । लप्तः अद्रिवेदरसरूपमतङ्गगजः [८१६४७] अधः रूपाङ्कदस्रभुजगद्विकनागवेदाः [४८२८२९१] ॥ ४ ॥ एकाद्रिरन्ध्रखरसाः तु [६०९७१] विलि[प्तिकानाम् सञ्जातमेव] गुणकारमतः अत्र लब्धम् । शीतांशुरन्ध्रकृतबाणगुणाग्निषट्क- चन्द्राश्वि[२१६३३५४९१]सङ्ख्यमनु तस्य च तत्पराणाम् ॥ ५ ॥ दस्रनाग[मुनिवेदपयोधिरूप १४४७८२ म्] अत्र गुणकारमुशन्ति । रूपनन्दजलधीन्दुनगाङ्गद्विद्विनागवियदग्नि[३०८२२६७१४९१]मधः च ॥ ६ ॥ षड्विंशतिः जलधिरन्ध्र[९४२६]समानसङ्ख्यः ज्ञेयः [प्रतत्परभवः] गुणकारराशिः । शीतांशुरन्ध्रमनुनन्दशशाङ्कदस्र- व्योमाब्धिशून्यरवयः [१२०४०२१९१४९१] खलु तत्र लब्धम् ॥ ७ ॥ एकः एव स्मृतः छेदः चक्रादीनां विवस्वतः । प्रतत्परान्तमा[नानाम्] खाम्बरेषुमहीभृतः [७५००] ॥ ८ ॥ [ चन्द्रस्य ] शीतरश्मि[भगणैः] प्रकुट्टिते सप्तरामवसुषट्स्वराद्रयः [७७६८३७] । लब्धराशिनिचयः व्यवस्थितः पुष्कराग्निकृतनागबाहवः [२८४३३] ॥ ९ ॥ राशितः अपि रसदस्रतापसा व्योमवेदगगनाश्विनः [२०४०७२६] गुणः । तत्र लब्धनिचयः विकथ्यते रुद्रवह्निरसनन्दपन्नगाः [८९६३११] ॥ १० ॥ चन्द्रसूर्यगगनाब्धिपावकाः [३४०१२१ ] भागशेषगुणकारसंज्ञितः । भूतबाणशरचन्द्रकुञ्जराः सागराम्बुनिवहाः च [४४८१५५५] लब्धकः ॥ ११ ॥ नागबाणशिवदस्र[२११५८]सम्मितः लिप्तिकासु विगणय्य कीर्त्यते । नन्दरुद्रगिरयः अश्विभूधराः [अष्टयः अत्र १६७२७११९] गणितेन लभ्यते ॥ १२ ॥ वेदविश्वरसरूप [१६१३४] सम्मितम् शीतरश्मिविकलासमुद्भवः । बाणरूपगुणशक्रपावकाः भूतषट्कमुनयः [७६५३१४३१५] परः स्मृतः ॥ १३ ॥ तत्परेषु धृतिभूतषट्ककाः [६५१८] निर्दिशन्ति गुणकारसङ्ख्यया । ऋक्षनन्दशशिरामकुञ्जर- व्योमबाणशरधार्तवः [१८५५०८३१९२७] अपरः ॥ १४ ॥ तत्परेषु परतः च कीर्तिताः रामनन्दयमदस्रकाः [२२९३] क्रमात् । रुद्रबाणगिरिदस्रसागराः भूतषट्कतिथिनन्दविक्रमाः [३९१५६५४२७५११] ॥ १५ ॥ अंशातारभ्य शीतांशोः पञ्च [५] पञ्च [५] गुणः परः । छेदः कल्प्यः क्रमातत्र दन्तशैल[७३२]समन्वितः ॥ १६ ॥ [ चन्द्रोच्चस्य ] नन्दर्षिनागागरसाः रसाष्ट- प्रालेयरश्म्यद्रि[७१८६६७८७९]समानसङ्ख्यः । इन्दूच्च[कस्य गुणकः अत्र] भचक्रदृष्टः चन्द्राङ्गलोकयमदस्रयमाः च [२२२३६१] लब्धः ॥ १७ ॥ अब्धीशु[दस्राश्विनभः यमेन्दु-] षट्क[६१२०२२५४]प्रमाणः गुणकारराशिः । लब्धः अद्रिलोकाश्विनगाश्विदस्राः [२२७२३७] राशिक्रमातत्र विगण्यमाणः ॥ १८ ॥ वेदाष्टबाणाङ्गरसाः नवाष्ट- प्रालेयरश्मि[१८९६६५८४]क्रमसङ्ख्यया उक्तः । अंशक्रमातग्नियमाङ्गसूर्य- शीतांशुदस्राः [२११२६२३] गणितेन लब्धः ॥ १९ ॥ लिप्तागतः दन्तनभोद्रिनाग- व्योमेषवः [५०८७०३२] अस्मिन् गुणकारराशिः । नक्षत्रषट्पर्वतनन्दरन्ध्र- लोकाग्नि[३३९९७६२७]सङ्ख्यः कथितः अत्र लब्धः ॥ २० ॥ विलिप्तिकायाः शशिसप्तदन्त- क्षोणीधराः [७३२७१] स्युः गुणकारसङ्ख्या । लोकाङ्गदिङ्नागकृशानुनन्दाः दस्रान्विताः [२९३८१०६३] लाभमुशन्ति तज्ज्ञाः ॥ २१ ॥ अष्टाङ्गधात्रीधररामनन्द[९३७६८]- सङ्ख्यासमानः अत्र हि तत्परोत्थम् । तन्मात्रनन्दाग्निशशाङ्करूप- व्योमाङ्गबाणाश्वियमाः च [२२५६०११३९५] लब्धः ॥ २२ ॥ प्रतत्प[रायाः] क्रमशः अब्धिशैल- वस्वङ्कषट्केन्दु[१६९८७४]समानसङ्ख्यः । लब्धः च रुद्राष्टशशाङ्कलोक- शून्येषुदस्राश्विशराब्धिदस्राः [२४५२२५०३१८११] ॥ २३ ॥ राश्यादीनां क्रमात्[अत्र छेदाः कल्प्याः यथोक्तवत्] । द्वादशः [१२] च ततः पञ्च [५] [पञ्च ५ यावत्तु] तत्परम् ॥ २४ ॥ [ चन्द्रपातस्य ] सप्ताद्रिचन्द्राङ्गनभोङ्गबाण- दस्राङ्ग[६२५६०६१७७]सङ्ख्यं गुणकारमाहुः । [लाभः च पातस्य] गणेषु सम्यक् दस्राश्वशून्याश्विनवप्रमाणः [९२०७२] ॥ २५ ॥ शीतांशुशून्याब्धिकृशानुषट्क- पञ्चेषुरुद्रम् [११५५६३४०१] प्रवदन्ति तज्ज्ञाः । त्रिच्छिद्रशून्याब्धिनभः यमाः च [२०४०९३] लाभः [अत्र] राशिक्रमसम्प्रभूतः ॥ २६ ॥ शीतांशुसप्ताङ्गकृशानुवेद- षट्लोकदस्राः [२३६४३६७१] गुणकारभूताः । हिमांशुनन्दाङ्गयमेषुसूर्याः [१२५२६९१] लाभः अनु भागक्रमसङ्ख्ययोक्तम् ॥ २७ ॥ अष्टेषुवस्विन्दुषडेकवेदाः [४१६१८५८] प्रोक्ताः कलानां गुणकारसंख्याः । पञ्चाग्निदस्राम्बरलोकदस्र- विश्वैः [१३२३०२३५] समानं प्रवदन्ति लब्धम् ॥ २८ ॥ वेदाङ्कभूभृद्यमसप्तनागाः [८७२७९४] राशिविलिप्तागुणकारयुक्त्या । लब्धः क्रमेण अत्र नगाम्बराष्ट- दस्राद्रिवेदाङ्गरसेन्दवः [१६६४७२८०७] स्युः ॥ २९ ॥ यः तत्परेभ्यः गुणकारराशिः वस्वङ्गषट्सप्तकृशानवः [३७६६८] अत्र । लब्धः अपि सप्ताम्बरबाण[सप्त]- सप्ताम्बरेन्द्वग्निकृत[४३१०७७५०७]प्रमाणः ॥ ३० ॥ नन्दाग्निनन्दवसुषट्कशशाङ्क[१६८९३९]सङ्ख्यम् प्रतत्पराणां प्रवदन्ति गुण्यम् । एकाद्रिबाणाद्रिनवेषुचन्द्र- शून्याम्बराष्टी शशिनः च [११६००१५९७५७१] लब्धः ॥ ३१ ॥ भगणानां द्विक[२]च्छेदः राशीनां द्वादश [१२] उच्यते । अंशादिनिचयानां तु पञ्चकः [५] कथ्यते बुधैः ॥ ३२ ॥ [भौमस्य] भौमस्य विश्वार्कदिगष्टयः [१६१०१२१३] स्युः भपर्ययाणां गुणकारजातः । लब्धः अत्र सप्ताग्निसमुद्रलोक- दस्र[२३४३७] प्रमाणं कथितं क्रमेण ॥ ३३ ॥ नन्दाब्धिशून्येषुशशाङ्कदस्र- वेदाग्नयः [३४२१५०४९] अस्मिन् गुणकारमानम् । राशिक्रमात्लोककृताङ्गसप्त- नन्देषवः [५९७६४३] लब्धिचयं निरुक्तम् ॥ ३४ ॥ भागप्रमाणं कृतशून्यवेद- नन्देन्दुविश्वम् [१३१९४०४] प्रवदन्ति गुण्यम् । लब्धस्य चन्द्राङ्ककृशानुचन्द्र- च्छिद्राङ्ग[६९१३९१]तुल्या विहिता अत्र सङ्ख्या ॥ ३५ ॥ [लैप्तः तु] दस्राङ्कशशाङ्कलोक- षण्णागरूपाणि [१८६३१९२] गुणः गुणज्ञैः । दृष्टा अत्र लब्धिः तु शशाङ्कलोक- [सप्ताम्बराष्टेषु] गजेषु [५८५८०७३१] तुल्यम् ॥ ३६ ॥ विलिप्तिकानां रसषट्कदस्र- पञ्चेषुरूपाणि [१५५२६६] गुणः प्रतीतः । लाभः शरार्थाङ्गकृशानुशून्य- रन्ध्राश्विनन्दद्विक[२९२९०३६५५]तुल्यमाहुः ॥ ३७ ॥ लोकाङ्गदस्राष्टधृति[१८८२६३]प्रमाणम् गुण्यं क्रमात्तत्परसङ्ख्यया अस्मिन् । बाणाग्निषट्सप्तनगाम्बराङ्क- बाणाग्निषट्सप्तनगाम्बराङ्क- शून्याग्निशीतांशुयमाः च [२१३०९०७७६३५] लब्धः ॥ ३८ ॥ दस्राश्विसप्ताष्टकृत[४८७२२]प्रमाणम् प्रतत्पराणां निचयः गुणस्य । रूपेषुषट्काग्निनभोश्विवेद- वस्वष्टशून्याग्निगुणाः च [३३०८८४२०३६५१] लब्धः ॥ ३९ ॥ मण्डलानां गृहाणां च छेदः द्वादशकः [१२] स्मृतः । पञ्च [५] पञ्च [५] परेषां तु भागादीनामिति स्थितिः ॥ ४० ॥ [बुधशीघ्रोच्चस्य ] अङ्गाद्रिदस्रक्षिति[भृद्गजेषु- लोकाश्वि २३५८७२७६ सङ्ख्यं शशि]जस्य गुण्यः । भपर्ययाणां नवसूर्यनाग- षड्दस्र[२६८१२९]सङ्ख्यं क्रमशः च लब्धः ॥ ४१ ॥ राशिक्रमे[ण अङ्क]शशाङ्कनाग- षण्णन्दनागेषुसमः [५८९६८१९] गुणः स्यात् । सप्ताष्टलोकाब्धिनभस्सनाग[८०४३८७]- निर्दिष्टसंख्यः विधिवत्च लब्धः ॥ ४२ ॥ भागेषु वेदाश्विसमुद्रनन्द- बाणाष्टचन्द्रान् [१८५९४२४] गुणकारमाहुः । छिद्राग्निलोकाङ्कनभः अङ्गशैल[७६०९३३९]- संख्याप्रमाणं खलु तत्र लब्धम् ॥ ४३ ॥ सिद्धं कलानां यमबाणनन्द- वेदेषुचन्द्रान् [१५४९५२] गुणकारमाहुः । लाभः शराङ्काङ्गरसाब्धिशून्य- वस्वग्नि[३८०४६६९५]सङ्ख्यः गणकैः निरुक्तः ॥ ४४ ॥ राशिः विलिप्तागुणकारसंज्ञः दस्राद्रिचन्द्राग्नितिथि[१५३१७२]प्रमाणम् । नन्दाद्रिचन्द्राष्टगिरीषुषट्क- भूताश्विदस्रा [२२५६५७८१७९] विधिना अत्र लब्धः ॥ ४५ ॥ उक्तः गुणः तत्परसङ्ख्यया अत्र पूर्णाङ्कसंस्कारधृतिम् [१८४८९०] वदन्ति । चन्द्राङ्कशून्येषुरसाब्धिचन्द्र- लोकाब्धिलोकाष्टि[१६३४३१४६५०९१]समः च लाभः ॥ ४६ ॥ षट्सप्तदस्राष्टनभः सरूपम् [१०८२७६] प्रतत्पराणां गुणना अथ लब्धम् । चन्द्राङ्कवस्वेषुषडेकदस्र- षट्पञ्चदस्राब्धिशिलोच्चया अर्थान् [५७४२५६२१६५८९१] ॥ ४७ ॥ विंशतिः [२०] च तथा षष्तिः [६०] छेदः मण्डलराशिजः । भागादीनां क्रमात्पञ्च [५] प्रवदन्ति मनीषिणः ॥ ४८ ॥ [ गुरोः ] अष्टौ गुणव्योमकृशानुभूत- शून्याङ्गशैला [७६०५३०३८] गुणजः समूहः । पञ्चेषुभूताद्रिसुधामयूखाः [१७५५५] लब्धः गुरोः स्यात्भगणक्रमेण ॥ ४९ ॥ वेदाद्रिदस्राग्निशराश्विनाग- दस्रा [२८२५३२७४] गुणः राशिविधानदृष्टः । लब्धः अङ्कतत्त्वाष्टनग[७८२५९]प्रमाणः निरुच्यते अस्मिन् गणितत्प्रसिद्धेः ॥ ५० ॥ नन्दाद्रिवस्वष्टनभः अद्रिवेदा [४७०८८७९] राशिः गुणाख्यः खलु भागजातः । भूताङ्कतिग्मांशुनवाग्नि[३९१२९५]तुल्यम् लाभप्रमाणं प्रवदन्ति तज्ज्ञाः ॥ ५१ ॥ सप्तेन्दुशैलाम्बरलोकनागान् [८३०७१७] लिप्ताक्रमात्गुण्यमुशन्ति तज्ज्ञाः । नन्देन्दुधृत्यब्धिशशाङ्कवेदा [४१४१८१९] लाभः कलानां कथितः विगण्य ॥ ५२ ॥ विलिप्तिकानां शशिषट्कनागा दस्राष्टषड्भिः [६८२८६१] गुणकारजातम् । रूपाङ्कनन्दाद्रिनगाश्विवेद- शून्याश्विनः [२०४२७७९९१] अस्मिन् प्रवदन्ति लब्धम् ॥ ५३ ॥ दन्ताङ्गनन्दाद्रिसुधामयूख[१७९६३२]- सङ्ख्यः गुणः च अत्र हि तत्पराणाम् । सप्ताम्बराद्र्यष्टियमाब्धिदस्रान् दन्तैः समेतान् [३२२४२१६७०७] कथयन्ति लब्धम् ॥ ५४ ॥ एकाग्निरामेषुधृति[१८५३३१]प्रमाणम् प्रतत्पराणां गुणजा अत्र लब्धम् । रूपाद्रिशीतांशुनगाष्टवेद- व्योमाङ्कतन्मात्रनवाङ्कचन्द्राः [१९९५९०४८७१७१] ॥ ५५ ॥ मण्डलानां च राशीनां छेदः द्वादशकः [१२] स्मृतः । भागलिप्तादिराशीनां छेदः पञ्च एव [५] कथ्यते ॥ ५६ ॥ [ शुक्रशीघ्रोच्चस्य ] नन्दाब्धिशून्याङ्गकृताभ्रशून्य- शैला [७००४६०४९] भृगूच्चस्य गुणः गणानाम् । लाभः अब्धिरामाद्रिशिवाग्नि[३११७३४]तुल्यः सङ्ख्याविधानक्रमसङ्ख्यया उक्तम् ॥ ५७ ॥ पक्षेषुवेदाम्बरचन्द्रशैल- नागाग्नयः [३८७१०४५२] राशिगुणः प्रदिष्टः । लब्धः निशानाथहुताशानाग्नि- शैलाङ्गशून्याश्विसमः [२०६७३३१] समूहः ॥ ५८ ॥ दस्रापगानाथशिलोच्चयेन्दु- [शराब्धिषट्६४५१७४२ सङ्ख्य]समः अंशगुण्यः । तन्मात्रभूताङ्गरसाग्निलोक- व्योमेन्दवः [१०३३६६५५] राशिः अथ अत्र लब्धः ॥ ५९ ॥ अङ्गाङ्गपक्षोदधिचन्द्रशक्रा [१४१४२६६] राशिः कलानां गुणकारजातः । [शशाङ्क]लोकाङ्कशशाङ्कबाण- च्छिद्रेषुलोकेन्दु[१३५९५१९३१]समः अत्र लाभः ॥ ६० ॥ अष्टाश्विनागाग्निकृताङ्ग[६४३८२८]तुल्यम् प्राहुः गुणाख्यं विकलासु जातम् । लब्धः च रूपाद्रिविवस्वदग्नि- वेदाग्निशीतांशुनगाग्नयः [३७१३४३१२७१] स्युः ॥ ६१ ॥ सङ्ख्याक्रमात्तत्परराशिगुण्यः पक्षाष्टभूभृद्दहनार्क[१२३७८२]सङ्ख्यः । लोकाष्टपक्षाङ्कयमेषुषट्क- रामाष्टपक्षाब्धि[४२८३६५२९२८३]समः अत्र लाभः ॥ ६२ ॥ प्रतत्पराणां गुणकारराशिः अङ्गक्षमाभृद्गगनाङ्क[९०७६]सङ्ख्यः । रूपेषुवस्वङ्गषडद्रिपक्ष- पञ्चाब्धिनागान् धृतिकं च [१८८४५२७६६८५१] लब्धः ॥ ६३ ॥ मण्डलानां सराशीनां छेदः द्वादशकः [१२] स्मृतः । शक्रारिपूज्यभागादेः पञ्च [५] पञ्च एव [५] कथ्यते ॥ ६४ ॥ [ शनेः ] रुद्राश्वि[भूताङ्गनभोग्निरुद्रा ११३०६५२११] गु[णः प्रदि]ष्टः भगणेषु तज्ज्ञैः ] तिग्मद्युतेः आत्मजलब्धराशिः दस्राभ्रबाणाम्बररात्रिनाथाः [१०५०२] ॥ ६५ ॥ वेदाष्टभूताङ्ककृशानुरूप- चन्द्रर्तवः [६११३९५८४] अस्मिन् गुणकारराशिः । राशिक्रमात्लब्धसमः तु सङ्ख्यः सप्ताब्धिचन्द्राष्टरसा [६८१४७] निरुक्ताः ॥ ६६ ॥ छिद्राग्निचन्द्राङ्गशराङ्कनाग- प्रालेयरश्मि[१८९५६१३९]प्रभवः गुणाख्यः । अंशावधेः अग्निरसाष्टलोक- रामर्तवः [६३३८६३] लाभभवः समूहः ॥ ६७ ॥ सप्ताब्धिशैलोदधिषट्कदस्रान् [२६४७४७] दृष्टः समूहः गुणकारजन्मा । लिप्ताक्रमातत्र विगण्यमानः रामाङ्गरुद्राग्निशराः [५३११६३] च लाभः ॥ ६८ ॥ शीटांशुदस्राम्बररुद्रनागा [८११०२१] राशिः विलिप्ताप्रभवः गुणस्य । सप्ताष्टनेत्राङ्कयमाङ्गसप्त- नन्द[९७६२९२८७]प्रमाणा विहिता अत्र लब्धिः ॥ ६९ ॥ निर्दिश्यते तत्परराशिगुण्यः सूर्याग्निशून्याङ्क[निशाधिनाथाः १९०३१२] । लाभः अद्रिशून्येषु[शराङ्ग]भूत- वेदाद्रिरामामृतसन्मयूखाः [१३७४५६५५०७] ॥ ७० ॥ प्रतत्पराणां नवशून्यबाण- भूताष्टचन्द्रा [१८५५०९] गुणना अथ लाभः । रुद्राश्विवेदाङ्कसमुद्रपक्ष- च्छिद्राग्निशून्यं फणिभृत्समेतम् [८०३९२४९४२११] ॥ ७१ ॥ चतुष्कः [४] भगणच्छेदः राशीनां द्वादश एव [१२] च । छेदः क्रमेण पञ्च [५] उक्तः सौरस्य लवतः स्फुटः ॥ ७२ ॥ [ चन्द्रकेन्द्रस्य ] अग्नीषुनन्दाग्निशशाङ्कसूर्य- वेदाग्नयः [३४१२१३९५३] स्युः भगणोत्थगुण्यः । शीतांशुकेन्द्रस्य गुणाङ्करूप- रामाष्टलोकार्क[१२३८३१९३]समः च लब्धः ॥ ७३ ॥ तद्राशितः रामनभः अद्रिसप्त- दस्राश्विवस्वद्रि[७८२२७७०३]समः गुणः स्यात् । लब्धः अश्विनागाम्बरपन्नगाङ्ग- शून्याब्धिरामा [३४०६८०८२] गणकैः निरुक्तः ॥ ७४ ॥ रामाङ्गदस्राद्रिभुजङ्गचन्द्र- षट्काश्वि[२६१८७२६३]सङ्ख्यः अंशकजः गुणः स्यात् । रूपाङ्गसप्तेषुगुणेन्दुदस्र- वेदाग्नि[३४२१३५७६१]सङ्ख्यं प्रवदन्ति लब्धम् ॥ ७५ ॥ लिप्तागतः अस्मिन् गुणकारराशिः वेदाश्विनागाग्निनगाग्निवेदाः [४३७३८२४[ । पञ्चेन्दुरामाश्विगुणा[ङ्गनाग- नेत्राब्धि]लोकाः [३४२८६३२३१५] खलु तत्र लब्धः ॥ ७६ ॥ विलिप्तिकानां गुणकारराशिः सप्ताग्निनागाग्निशशाङ्क[१३८३७]तुल्यः । नन्दाद्रिनागस्वरशून्यनाग- शून्येषुषट्[६५०८०७८७९]तुल्यकमत्र लब्धम् ॥ ७७ ॥ दृष्टः गुणः तत्परराशिलब्धः शून्याष्टनागाग्निरवि[१२३८८०]प्रमाणम् । रुद्राम्बराद्र्यङ्गकृताग्निरन्ध्र- बाणाङ्कवेदाः सगुणाः च [३४९५९३४६०११] लब्धः ॥ ७८ ॥ प्रतत्पराणां जिनवह्निदस्र- शक्रा [१४२३२४] गुणः तत्र [तु] लब्धराशिः । रूपेषुदस्राङ्कवसुस्वराश्वि- नागेषुनागाङ्कनभः जिनाः च [२४०९८५८२७८९२५१] ॥ ७९ ॥ छेदः अपवर्तकः ज्ञेयः राशीनां द्वादशात्मकः [१२] । भागादीनां क्रमात्छेदाः पञ्च [५] दृष्टाः क्रमात्बुधैः ॥ ८० ॥ [ अधिदिवसस्य ] रन्ध्रशून्येषुदस्राद्रिषट्क[६७२५०९]तुल्यः अधिकः गुणः । लब्धराशिः क्रमात्व्योम्[सप्ताङ]आम्बरदस्रकाः [२०६७०] ॥ ८१ ॥ [ अवमदिवसस्य ] चन्द्राग्न्यम्बरसप्ताब्धियमषट्कः [६२४७०३१] अवमः गुणः । लब्धः अपि नववेदाद्रिशैलरन्ध्राणि [९७७४९] कीर्त्यते ॥ ८२ ॥ [सूर्यापक्रमस्य ] अपक्रमस्य सप्ताब्धिपुष्कराणि [३४७] गुणः क्रमात् । लब्धराशिः क्रमात्दृष्टः [रूपवेद]निशाकरः [१४१] ॥ ८३ ॥ [ अधिमासस्य ] युगाधिमासैः मुनिचन्द्रलोक- व्योमाम्बराङ्कः धृतयः च [१८९००३१७] दृष्टः । गुण्यः अत्र लब्धः अपि शराष्टशून्य- नवेन्दवः [१९०८५] अस्मिन् भगणेषु नित्यम् ॥ ८४ ॥ शीतांशुरन्ध्राग्निनभःशिवाश्वि- सूर्यैः [१२२११०३९१] समानः गुणकारराशिः । लोकाब्धिषण्णन्दमुनीन्द्र[१४७९६४३]सङ्ख्यः लब्धः अत्र राशिः खलु राशिजातः ॥ ८५ ॥ रसाग्निवस्वब्धिकृशानुसप्त- वेदाश्विनः [२४७३४८३६] स्युः गुणकारराशिः । रूपेषुभूतैकनवाङ्कनागा [८९९१५५१] लब्धः क्रमेण अंशककर्मसिद्धः ॥ ८६ ॥ वस्वद्रिवेदेन्द्रगजाग्नि[३८१४४७८]सङ्ख्यः लिप्तासु दृष्टः गुणकारराशिः । नन्देन्दुनागाद्रिनवैकलोक- नाग[८३१९७८१९]प्रमाणं प्रवदन्ति लब्धम् ॥ ८७ ॥ नन्दाब्धिपञ्चाश्विमनु[१४२५४९]प्रमाणम् दृष्टः विलिप्तागुणकारसिद्धिः । रुद्राद्रिसंस्कारशराङ्गनाग- प्रालेयरश्मिम् [१८६५४८७११] प्रवदन्ति लाभम् ॥ ८८ ॥ सङ्ख्या [गुणस्य] अपि च तत्पराणाम् रसा नभः अङ्गाब्धिकृशानुचन्द्राः [१३४६०६] । लोकाष्टषण्णन्दकृशानुदस्र- च्छिद्राङ्गबाणाः सदिशः च [१०५६९२३९६८३] लब्धः ॥ ८९ ॥ प्रतत्परेभ्यः अर्ककृताग्निनन्द[९३४१२]- राशिः निरुक्तः गुणकारजातः । एकाग्निभूताष्ट[त्रिभूप]नाग- व्योमाभ्रवेदाब्धि[४४००८१६३८५३१]समः अत्र लाभः ॥ ९० ॥ भगणानां सराशीनां द्वादश [१२] एव अपवर्तकः । पञ्च [५] पञ्च एव [५] शेषाणां छेदः अस्मिनपवर्तने ॥ ९१ ॥ इति भास्करस्य कृतौ आर्यभटतन्त्रभाष्ये गणितपादः समाप्तः ॥ Kआलक्रियापादः [ मङ्गलाचरणम् ] सूर्येन्दुखाग्निमरुदप्क्षितिदीक्षिताख्यम् मूर्त्यष्टकं सकललोकहितार्थभावम् । यः अभूत्स्वयं हि करुणातनुः अप्रमेयः तस्मै नमः त्रिभुवनस्थितये शिवाय ॥ [ कालविभागः क्षेत्रविभागः च ] अथ गणितानन्तरं कालक्रिया प्रस्तूयते । अथ कः कालः, का वा क्रिया? अत्र केचित्वदन्ति - "क्रियाव्यतिरिक्तः कालः" । अपरे - "क्रिया कालः" इति । क्रियाव्यतिरिक्तः अस्तु कालः [क्रिया वा], किमेतेन । अस्माकं तु सूर्याचन्द्रमसोः यः परः विप्रकर्षः सः अर्धमासः । यः च तयोः सन्निकर्षः स मासः । एवं द्वादश मासाः संवत्सरः इति आदि कालः । क्रिया व्यापारः । कालस्य क्रिया कालक्रिया । कालपरिज्ञानार्था क्रिया इति यावत् । सा च क्रिया गतिः । तया क्रियया कालः ज्ञायते इति एतत्प्रतिपादयिष्यति । तत्यथा - वर्षं द्वादशमासाः त्रिंशद्दिवसः भवेत्स मासः तु । षष्टिः नाड्यः दिवसः षष्टिः च विनाडिका नाडी ॥ १ ॥ वर्षमब्दः समाः संवत्सरः इति पर्यायाः । अयं वर्षशब्दः नपुंसकलिङ्गः समायां वर्तते । तस्य वर्षस्य प्रमाणं द्वादश मासाः । द्वौ च दश च द्वादश । मासाः संवत्सरस्य शाखाः । त्रिंशद्दिवसः भवेत्स मासः तु । त्रिंशत्सङ्ख्या । दिवसाः दिनानि अहानि इति पर्यायाः । भवेत्स्यात् । स यः असौ मासः अभिहितः सः त्रिम्शद्दिवसः इति अर्थः । षष्टिः नाड्यः दिवसः । तस्य दिवसस्य एकस्य प्रमाणं षष्टिः नाड्यः । नाड्यः घटिकाः । षष्टिः च विनाडिका नाडी । तस्याः नाड्याः प्रमाणं विनाड्यः षष्टिः । विनाड्यः विघटिकाः । अत्र उच्यते - "वर्षं द्वादश मासाः" इति आदि न आरब्धव्यम्, लोकप्रसिद्धत्वात् । सर्वेषु एव अयं न्यायः लोकवेदप्रसिद्ध्या अङ्गीकरणीयः । "वर्षं द्वादशमासाः" इति आदि विना अपि लक्षणेन लोकः जानीते, तथा च भृतकेभ्यः भुक्तवेतनं ददाति । यदि लोकप्रसिद्धमपि अभिधीयते तदा अत्र बहु वक्तव्यं जायते । "नृषि योजनम्", [गीतिका¡, ७] "स्चाङ्गुलः घहस्तः ना" [गीतिका¡, ८] इति अत्र यव-सर्षप-यूक-लिक्षा-वालाग्र-रथरेणु-त्रसरेणुस्थूलसूक्ष्मपरमाणूनां प्रमाणं वक्तव्यम् । त्रैराशिके च अनेकजनपदव्यवहारात्मिका परिभाषा वक्तव्या । अथ यदि अपि लोकप्रसिद्धिः अङ्गीक्रियते तथा अपि तु "वर्गाक्षराणि वर्गे" [गीतिका¡, २] इति अत्र वर्गावर्गाक्षरस्वरनिरूपणं वक्तव्यमेव । कुतः? लोकाप्रसिद्धेः । [यदि एवं तदा] व्याकरणे वर्गावर्गाक्षर[स्वरनिरूपणमनर्थ]कम् । न एष दोषः । लोकः पूर्वाचार्याः अबाह्यशास्त्राणाम् प्रणेतारः इति उक्तम् । "वर्गाक्षराणि वर्गे" [गीतिका¡, २] इति अत्र वर्गावर्गाक्षरस्वरनिरूपणायां व्याकरणमबाह्यं शास्त्रम् । "गुर्वक्षराणि षष्टिः विनाडिका" [कालक्रिया¡, २] इति अत्र गुर्वक्षराणां लक्षणं वक्तव्यम् । यदि "वर्षं द्वादश मासाः" इति आदि ग्रन्थः न आरभ्यते तदा एतत्सर्वं लोकप्रसिद्ध्या सेत्स्यति । तस्मातप्रत्यायनमेव अस्तु । न एष दोषः । अनारभ्यमाणायामस्यां परिभाषायां सावनस्य एव मानस्य एते भेदाः स्युः न सौरचान्द्रनाक्षत्राणाम्, यस्मात्सावनमेव एकं मानं लोकप्रसिद्धम्, न सौरचान्द्रनाक्षत्राणि । तत्सर्वेषु एव मानेषु इयमेव परिभाषा यथा स्यातिति [सूत्रमारब्धव्यम्] । अन्यथा हि "रविमासेभ्यः अधिकाः तु ये चान्द्राः" [कालक्रिया¡, ६] इति अत्र रविभगणानां द्वादश गुणकारः न लभ्येत, "शशिदिवसाः विज्ञेयाः भूदिवसोनाः तिथिप्रलयाः" [कालक्रिया¡, ६] इति अत्र शशिदिवसानां त्रिंशत्कः गुणकारः न लभ्येत, "षष्टिः नाड्यः दिवसः" इति अत्र अपि होराशास्त्राविरोधेन षष्टिः नाड्यः परिकल्पिताः । अन्यथा हि इच्छया विभागः दिवसस्य शक्यते परिकल्पयितुम् । इच्छया विभागे परिकल्प्यमाने कः पुनर्होराशास्त्रविरोधः? उच्यते - आद्यन्तराश्योरुदयप्रमाणं द्वौ द्वौ मुहूर्तौ नियतं प्रदिष्टौ । इति अत्र द्विनाडिकः मुहूर्तः व्याख्यायते । सा च नाडिका दिवसस्य षष्टिभागः इति । अन्यथा परिकल्प्यमाने अयमर्थः अन्यथा स्यात् । कथं पुनर्दिवसस्य षष्टिभागः साध्यते इति अत्र अभिधीयते - अत्र केचित्ब्रुवते - "सुवर्णरजतताम्राणामन्यतमं पात्रमर्धवृत्ताकारं षष्टिपलपानीयाधारकं पूरकं निस्रावकं वा घटिके" इति । न एष नियमः । यावत्पलानि षष्टिः पानीयं प्रस्रवति आपूर्यते वा, तावता नाडिकाकालः इति । प्राज्ञाः तु न एवमिति मन्यन्ते । कथं तर्हि? अहोरात्रप्रस्रुतस्य पानीयस्य षष्टिभागः घटिकाप्रमाणः इति स्थूलः कल्पः, सूक्ष्मः तु समायामवनौ निर्दिष्टाकारस्य शङ्कोः घटिकाच्छायामङ्कयित्वा घटिका साध्यते, घटिकाछिद्रं च छायाकालवशातुक्त्या योजयितव्यम् ॥ १ ॥ गुर्वक्षराणि षष्टिः विनाडिका आर्क्षी षटेव वा प्राणाः । एवं कालविभागः क्षेत्रविभागः तथा भगणात् ॥ २ ॥ गुर्वक्षराणि षष्टिः विनाडिका आर्क्षी । गुरूणि च तानि अक्षराणि च गुर्वक्षराणि, षष्टिः विनाडिका आर्क्षी । यावता कालेन षष्टिः गुर्वक्षराणि पठितानि तावान् कालः विनाडीसंज्ञितः । "गुर्वक्षराणि षष्टिः विनाडिका" इति अनेन सर्वेषामेव सौरसावननाक्षत्रचान्द्राणां मानानां विनाडिकाकालतुल्यतायां प्रसक्तायां तद्विषयनिरूपणार्थमाह - आर्क्षी । कतमा विनाडिका गुर्वक्षराणि षष्टिः? आर्क्षी, न शेषाः । ऋक्षाणि नक्षत्राणि । नक्षत्रशब्देन नाक्षत्रम् मानं परिगृह्यते । ऋक्षाणामयं कालः आर्क्षः । अयं च कालः विनाडिकाभिधीयमानः स्त्रीत्वं प्रतिपद्यते इति स्त्रीलिङ्गनिर्देशेन विनाडिका इति उक्तम् । षटेव वा प्राणाः, प्राणाः उच्छ्वासाः, आर्क्ष्यविनाडिकायाः प्रमाणम् । आर्क्ष्यं च मानं भचक्रभ्रमणकालम् । यतः आह - "प्राणेन एति कलां भम्" [गीतिका¡, ६] इति । उच्छ्वासकालेन भचक्रं कलां पर्येति, ऋक्षचक्रमिति अर्थः । अत्र आर्क्षी विनाडिका षट्वा प्राणाः [तुल्याः] । आर्क्षीभिः विनाडिकाभिः [दशभिः] एकांशकः । अतः ज्योतिश्चक्रसम्बन्धिनः प्राणाः लिप्तासङ्ख्याः इति प्राणैः ज्यादिकर्म प्रवर्तते । अन्यथा हि "[फ छ] कलार्धज्याः" [गिईतिका¡, १२] इति उक्तत्वात्प्राणैः ज्याग्रहणं न प्राप्नोति । अन्यत्च - सामान्येन एव "षट्वा प्राणाः विनाडिका" इतुच्यमाने सर्वमानानामेव विनाडिकाकालस्य तुल्यताप्रसङ्गः । अवशिष्टानां मानानां विनाडिकायाः प्रमाणं नाडिकायाः षष्टिभागः एव । न तस्याः विनाडिकायाः अवयवप्रमाणाभिधानं क्रियते, प्रयोजनाभावात् । गुर्वक्षरेषु मध्यमवृत्तिग्रहणम् । "गुर्वक्षराणि षष्टिः" इति अत्र मध्यमायां वृत्तौ षष्टिः गुर्वक्षराणि विनाडिकाकालः इति वक्तव्यम् । अन्यथा हि तिसृषु अपि वृत्तिषु अविशेषेण ग्रहणं प्राप्नोति । तत्यथा - द्रुतायां वृत्तौ षष्टिः गुर्वक्षराणि अल्पेन कालेन पठ्यन्ते, बिलम्बितायां महता कालेन इति, मध्यमायां पुनर्न अल्पेन, न महता कालेन । तत्तर्हि मध्यमवृत्तिग्रहणं कर्तव्यम् । कथमनुच्यमानमवगम्यते? लोकप्रसिद्धेः । तत्यथा - लोके अनिर्दिष्टेषु कार्येषु मध्यमप्राप्तिः । एवमत्र अपि - "मासान्ते पक्षस्य अन्ते स हि आकाशे देशे स्वं मिश्रं वक्रं कान्तं वृत्तं पूर्णं चन्द्रं सत्त्वात्रात्रौ ते क्षुत्क्षाम प्रादन्ते श्वेतः प्राज्यः क्रूरः तस्मात्वा अन्ते हर्म्यस्य अन्तः संसुप्तस्य एकान्ते कर्तव्या" । एतानि षष्टिः गुर्वक्षराणि विनाडिकाकालः । षटेव वा प्राणाः । प्राणाः उच्छ्वासाः । ते वा षट्, तस्याः एव अर्क्ष्यविनाडिकायाः कालः । अत्र अपि स्वस्थस्य अश्रान्तस्य नीरुजस्य योगिनः प्राणाः परिगृह्यन्ते । अत्र अपि स्वस्थः न महता कालेन उच्छ्वसिति । एवम् [अ]श्रान्तः अपि । योगी न पुनर्व्यानवशान्महता कालेन उच्छ्वसिति । अत्र त्रुटि-त्रुट्यवयवादयः कालावयवाः कस्मात्न उच्यन्ते? एवं मन्यन्ते - तैः व्यवहारः न अस्ति इति । व्यवहारार्थं च कालावयवग्रहणमिति । एवं कालविभागः । एवं वर्षमासदिवसघटिकाप्राणाः कालविभागः । किमर्थमिदमभिधीयते - "एवं कालविभागः" इति । ननु च कालविभागः निर्दिष्टः । एवं तस्य निर्दिष्टस्य ग्रहणम् "एवं कालविभागः" इति । अस्य अनभिधानात्शक्यते ज्ञातुं यथा अप्रपञ्चितप्रमाणः कालविभागः इति । न एष दोषः । "एवं कालविभागः" एवंप्रकारः कालविभागः इति अर्थः । प्रकारार्थे तु व्याख्यायमाने अन्ये अपि कालविभागाः परिगृहीताः भवन्ति । तत्यथा - पञ्चसंवत्सराः युगम्, द्वादशमासाः संवत्सरः, द्वौ मासौ ऋतुः ते च वसन्त-ग्रीष्म-वर्षा-शरद्-हेमन्त-शिशिराख्याः, ऋतुत्रयमयनम्, मासार्धं पक्षः शुक्लः कृष्णः च, दिवसरात्रिचतुर्भागः यामः, द्विनाडिकः मुहूर्तः, इति एवमादि । क्षेत्रविभागः तथा भगणात् । क्षेत्रं भगोलः । तस्य क्षेत्रस्य विभागः । तथा तेन एव प्रकारेण । यथा कालस्य विभागः, क्षेत्रस्य अपि भगणात् । कालस्य वर्षात्प्रभृति विभागः उक्तः, क्षेत्रस्य तु भगणात्प्रभृति प्रवृत्तेः । तत्यथा - द्वादशराशयः भगणः, राशिः त्रिंशत्भागाः, षष्टिः लिप्ता भागः, षष्टिः विलिप्ता लिप्ता, षष्टिः तत्परा विलिप्ता इति ईदृशः । उद्देशकः - भगणः राशिः भागः कला च विकला च तत्परा च एव । क्षेत्रस्य एताः संज्ञाः कालविभागेन तुल्याः स्युः ॥ [द्वियोगपरिज्ञानम्] द्वियोगपरिज्ञानाय आर्यापूर्वार्धमाह - भगणाः द्वयोः द्वयोः ये विशेषशेषाः युगे द्वियोगाः ते । भगणाः निर्दिष्टाः एव ग्रहाणां गीतिकासु । द्वयोः द्वयोः इति वीप्साग्रहणं त्र्यादिनिवृत्त्यर्थम् । ये विशेषशेषाः, द्वयोः द्वयोः ग्रहयोः भगणानां ये विशेषशेषाः भगणाः तावन्तः तयोः युगे द्वियोगाः बभूवुः भविष्यन्ति वा । अत्र द्वयोः द्वयोः भगणविशेषाः एव तयोः योगाः इति कथमवसीयते, न पुनर्तयोः अभ्यासः योगः वा? उच्यते । तत्यथा - द्वौ अश्वौ च परिमण्डलारोहे परिकल्पितौ । तत्र एकस्य कक्ष्या षष्टिः धनुषाम्, अपरस्य त्रिंशत् । तौ पञ्चदण्डगती । महति मण्डले यावत्मण्डलचतुर्भागं गच्छति तावतल्पे मण्डले अर्धं गच्छति । यावत्महति मण्डले अर्धं गच्छति तावत्सकलमल्पमण्दलं गच्छति । एवं यावत्महति मण्डले एकः परावर्तः तावतल्पे मण्डले परावर्तद्वयम्, तावति च तयोः एकः योगः । एवं ग्रहेषु अपि योज्यम् । युज्यते एतत्यदि ग्रहाः समगतयः । समगतयः ग्रहाः इति प्रतिपादयिष्यति । उद्देशकः - गुरोः अङ्गारकस्य च युगे कियन्तः योगाः इति । लब्धं योगाः गगन[जल]दरसयमाग्निरन्ध्रशशाङ्काः [१९३२६००] । एवं सर्वेषामपि । कः पुनरत्र द्वियोगानां विनियोगः? उच्यते । यदि चतुर्युगाहर्गणेन इष्टग्रहयोः द्वियोगाः लभ्यन्ते, [तर्हि] कलियाताहर्गणेन कियन्तः इति लब्धं समतिक्रान्ताः द्वियोगाः । शेषं गतगन्तव्यं कृत्वा युगद्वियोगैः विभजेत् । लब्धं गतगन्तव्यदिवसा इति एकः विनियोगः । [शेषं षष्ट्या सङ्गुण्य युगद्वियोगैः विभजेत्लब्धं घट्यादि ।] यदि चतुर्युगाहर्गणेन इष्टग्रहयोः द्वियोगाः लभ्यन्ते [तर्हि] कलियाताहर्गणेन कियन्तः इति लब्धं समतिक्रान्ताः द्वियोगाः । शेषे द्वादशादिगुणिते रास्यादिलब्धिः । तैः द्वियोगराश्यादिभिः मन्दगतिग्रहः युक्तः शीघ्रगतिग्रहः भवति । शीघ्रगतिः च द्वियोगराश्यादिहीनः मन्दगतिः भवति इति अपरः विनियोगः । द्वियोगैः च राश्यादीनानीय तयोः अपि भगणसमासेन अपि भगणसमासगतभगणराश्यादीन् विधाय "अन्तरयुक्तं हीनम्" [गणित¡, २४] इति अनेन एकत्र क्षिपेतेकत्र विशोधयेत्, क्षिप्तविशोधितयोः अर्धं तयोः गतभगणराशिभागलिप्ताः इति अन्यः विनियोगः । कुट्टाकारविनियोगः तु प्रदर्शितः एव इति । [युगे व्यतीपातसंख्या] व्यतीपातज्ञानाय आर्यापश्चार्धमाह - रविशशिनक्षत्रगणाः सम्मिश्राः च व्यतीपाताः ॥ ३ ॥ नक्षत्राणां गणाः नक्षत्रगणाः । नक्षत्राणि अश्विन्यादीनि । रविः च शशी च रविशशी । रविशशिनः नक्षत्रगणाः चन्द्रादित्यभगणाः इति यावत् । ते च रसदहनशिखिगुणशैलाकाशयमर्तवः [६२०७३३३६] । एते व्यतीपाताः । सम्मिश्राः च व्यतीपाताः । सम्मिश्राः एकीकृताः । केन संमिश्राः? अन्यस्य अश्रुतत्वात्, रविशशिभगणाः नक्षत्रगणैः एव । ते एव व्यतीपाताः द्विगुणिताः इति अर्थः । ते च द्विशैलरसर्तुमनुकृतरवयः [१२४१४६६७२] । अथ एतौ व्यतीपातौ अभिहितौ द्वादशषड्राश्यात्मकौ । अत्र इदं प्रष्टव्यम् - [किमिदम्] व्यतीपातयोः उदाहरणमाहोस्वित्लक्षणमिति? यदि इदमुदाहरणं तदा सर्वमिष्टं सेत्स्यति, ततस्तु उदाहरणमिति । तत्यथा - चन्द्रादित्यौ स्फुटीकृतौ यदि एकत्र द्वादशराशयः तदा व्यतीपातः । ननु च लोके द्वादशराशिकः वैधृतः इति प्रसिद्धम् ? न एषः दोषः । संज्ञाकृतः भेदः न फलं प्रति, यस्मात्व्यतीपातस्य वैधृतस्य च तुल्यं फलम् भगवद्भिः गर्गादिभिः उपदिष्टम् । तौ एव सूर्याचन्द्रमसौ स्फुटौ एकत्र यदि षड्राशयः तदा अपि व्यतीपातः । अथ व्यतीपातस्य अतीतैष्यपरिज्ञानार्थं त्रैराशिकम् - यदि सूर्याचन्द्रमसोः स्फुटभुक्तिसमासेन षष्टिघटिकाः लभ्यन्ते, [तदा] अनेन अतीतैष्येण कियत्य इति लभ्दं घटिकाः विघटिकाः च । अथवा अतीतैष्यव्यतीपातकालिकौ सूर्याचन्द्रमसौ ज्ञातुमिच्छति, तदा अतीतैष्येण सह त्रैराशिकम् - यदि सूर्याचन्द्रमसोः स्फुटभुक्तिसमासेन सूर्यभुक्तिः चन्द्रभुक्तिः वा लभ्यते, [तदा] अनेन अतीतैष्यसूर्याचन्द्रमसोः भुक्तिसमासेन किमिति भुक्तिः लभ्यते । तेन रहितौ सहितौ सूर्याचन्द्रमसौ व्यतीपातकालिकौ । एवं स्थूला व्यतीपातभुक्तिः । यथा सूक्ष्मा भवति तथा प्रदर्श्यते । उक्तं च - नानायने व्यतीपातः तुल्यापक्रमयोः तयोः । उद्देशः तस्य चक्रार्धं विक्षेपं च अधिकोनकम् ॥ [महाभास्करीयम्, ४.३६ ] इति । सूर्याचन्द्रमसौ नानायने तुल्यापक्रमौ यदा भवतः तदा व्यतीपातः, चन्द्रस्य विक्षेपसहितः रहितः वा अपक्रमः । अस्मिन् किल व्यतीपातयोगे क्षीरतरुशाखावच्छेदे विगतक्षीरता ॥ ३ ॥ [ युगे ग्रहोच्चनीचभगणाः ] उच्चनीचपरिवर्तज्ञानार्थमाह - स्वोच्चभगणाः स्वभगणैः विशेषिताः स्वोच्चनीचपरिवर्ताः । स्वोच्चभगणाः स्वभगणैः विशेषिताः । स्वकीयमुच्चं स्वोच्चम्, तस्य स्वोच्चस्य भगणाः स्वोच्चभगणाः । अत्र ग्रहाणामुच्चद्वयम्, मन्दोच्चं शीघ्रोच्चं च । अत्र कतरतुच्चं परिगृह्यते? शीघ्रोच्चमिति आह । मन्दोच्चस्य यदि अपि गतिः अभ्युपगता तथा अपि युगभगणस्य व्यवहारः न अस्ति इति शीघ्रोच्चभगणाः एव परिगृह्यन्ते । स्वभगणैः विशेषिताः स्वोच्चनीचपरिवर्ताः । उच्चभगणानां स्वभगणानां च यः विशेषः स उच्चनीचपरिवर्तः । यस्मात्नैरंश्यात्यावत्नैरंश्यं तावतुदयास्तमयवक्रानुवक्राः भवन्ति इति उच्चपरिवर्तः परिकल्पितः । ये निरंशद्वयान्तरे दिवसाः ते परिवर्तस्य दिवसाः । परिवर्ताः ग्रहाः च युगादौ मेषादितः प्रवृत्ताः । मीनान्ते शीघ्रभगणपरिसमाप्तिः । ग्रहभोगाधिकः शीघ्रभोगः परिकल्पितः । उच्चनीचपरिवर्ताः । उच्चपरिवर्ताः नीचपरिवर्ताः च तावन्तः एव, यस्मातेकस्मिन्निरंशद्वयान्तरेषु ग्रहस्य उच्चनीचप्राप्ती संभवतः । अथ कः पुनरुच्चः, कः वा नीचः इति? यत्र ग्रहाः सूक्ष्माः लक्ष्यन्ते कर्णस्य महत्त्वात्स आकाशप्रदेशः उच्चसंज्ञितः । यत्र असौ एव ग्रहः महाबिम्बः लक्ष्यते कर्णस्य अल्पत्वात्स आकाशप्रदेशः नीचसंज्ञितः इति । अथ परिवर्तैः अपि उच्चं केन्द्रं वा आनीयते । कथम्? यदि चतुर्युगाहर्गणेन एते उच्चनीचपरिवर्ताः लभ्यन्ते, तदा कलियाताहर्गणेन कियन्तः इति लब्धं समतिक्रान्ताः परिवर्ताः, शेषे द्वादशा[दिगुणिते] राश्यादिकः परिवर्तभोगः । परिवर्तभोगरहितः ग्रहः ग्रहसहितः वा परिवर्तभोगः उच्चभोगः । उच्चभोगसहितः परिवर्तभोगः [परिवर्तभोगरहितः वा उच्चभोगः ] ग्रहभोगः । परिवर्तभोगः एव केन्द्रभोगः । अन्यत्च द्वियोगाभिहितेन समानम् । अथ "भगणाः द्वयोः द्वयोः ये विशेषशेषाः युगे द्वियोगाः ते" [कालक्रिया¡, ३] इति अस्यामेव कारिकायां ननु गतः अयमर्थः किमत्र अभिधीयते? उच्चनीचपरिवर्तसंज्ञार्थमयमारम्भः । तत्र द्वियोगमात्रमेव प्रतिपादितम् । अथ च तत्द्वयोः द्वयोः ग्रहयोः भगणविशेषः इति अभिहितः । न उच्चग्रहभगणविशेषः इति [ पृथकुक्तिः ] । [अश्वयुजाद्याः गुर्वब्दाः ] गुरुवर्षनिरूपणाय आह - गुरुभगणाः राशिगुणाः अश्वयुजाद्याः गुरोः अब्दाः ॥ ४ ॥ गुरुभगणाः राशिगुणाः । गुरोः भगणाः गुरुभगणाः, बृहस्पतिभगणाः इति यावत् । राशिगुणाः द्वादशगुणाः इति यावत् । अश्वयुजाद्याः गुरोः अब्दाः । अश्वयुकब्दः, आदौ भवति [इति] आद्यः, अश्वयुकाद्यः येषां ते अश्वयुजाद्याः । गुरोः अब्दाः गुरोः संवत्सराः इति अर्थः । ते च अश्वयुक्-कार्तिक-मार्गशीर्ष-पौष-माघ-फाल्गुन-चैत्र-वैशाख-ज्येष्ठाषाढ-श्रावण-प्रौष्ठपदाख्याः । अत्र त्रैराशिकम् - यदि चतुर्युगाहर्गणेन एते गुरोः अब्दाः वसुवसुरसाकाशमुनिदहनकृताः [४३७०६८८] [लभ्यन्ते, तदा] कलियाताहर्गणेन कियन्तः इति । लब्धाः समतिक्रान्ताः समाः । लब्धासु समासु द्वादशभक्ते, शेषाः अश्वयुजाद्याः समाः । कथमिदं विज्ञायते अश्वयुजाद्याः समाः इति ? उच्यते - "अश्वयुजाद्याः गुरोः अब्दाः" इति वचनात् । ननु ततेव वचनमस्माभिः चोदितं परिहारः अपि अस्माभिः उच्यते । यस्मात्युगादौ अश्विन्याममरपतिगुरुरुदयशिखरिशिखरमधिरूढः तस्मातश्वयुजाद्याः गुरोः समाः । उक्तं च - यस्मिनुदेति नक्षत्रे प्रवासोपगतः अङ्गिराः । संवत्सरः तदृक्षादिः बार्हस्पत्यः प्रगण्यते ॥ इति । अथ वसुवसुरसाकाशमुनिदहनकृतसङ्ख्यैः [४३७०६८८] त्रैराशिकेन बृहस्पतिः अपि आनीयते । कथम्? यदि चतुर्युगाहर्गणेन वसुवस्वादयः बृहस्पतिराशयः लभ्यन्ते, [तदा] कलियाताहर्गणेन कियन्तः इति लब्धाः राशयः । शेषे त्रिंशदादिगुणिते भागलिप्ता[दयः] । एवमिदमर्थातापन्नं भवति । ये समतिक्रान्ताः गुरोः राशयः ते समतिक्रान्ताः गुरोः अश्वयुजाद्याः संवत्सराः, शेषे च वर्तमानः इति । अथ वसुवस्वादयः गुरोः संवत्सराः इति अभिधीयन्ते । ननु च तैः युगसंवत्सरैः तुल्यैः भवितव्यम्? न इति आह । ये युगसंवत्सराः ते सौर्येण मानेन दृष्टाः, अं च ये गुरोः अब्दाः ते गुरुमानेन । त्ततेव युगं सौर्येण अनुमीयमानं गगनजलदबिन्दुमे[घ]यमहुताशकृत [४३२००००] सङ्ख्यम् । ततेव बार्हस्पत्येन वसुवस्वादि [४३७०६८८] सङ्ख्यम् । बार्हस्पत्याब्दं बृहस्पतेः राशिभोगः इति न सौर्यबार्हस्पत्यौ तुल्यौ इति ॥ ४ ॥ [ सौरचान्द्रसावननाक्षत्रमानानि ] सौर-चान्द्र-सावन-नाक्षत्रमानप्रदर्शनार्थमाह - रविभगणाः रव्यब्दाः रविशशियोगाः भवन्ति शशिमासाः । रविभूयोगाः दिवसाः भावर्ताः च अपि नाक्षत्राः ॥ ५ ॥ रविभगणाः रव्यब्दाः । रवेः भगणाः, रविभगणाः, रव्यब्दाः, रविवर्षाणि इति यावत् । ये एव रविभगणाः ते एव रव्यब्दाः । तथा इदमनुक्तमपि गम्यते रविराशि-भाग-लिप्ता रविमास-दिवस-नाड्यः इति । यस्मात्द्वादशराशयः भगणः, त्रिंशद्भागा राशिः, भागषष्ट्यवयवः लिप्ता, षड्राशयः अयनमुत्तरं दक्षिणं च मकरकुलीरादितः इति । कथमिदमवसीयते मकरकुलीरादितः इति न पुनर्धनिष्ठादेः आश्लेषार्धातिति, यस्मातुक्तम् - अर्धाश्लेषात्श्रविष्ठादेः प्रवृत्ते दक्षिणोत्तरे । क्षेमसस्यसुभिक्षाख्ये तु अयने घर्मतेजसः ॥ इति । अत्र उच्यते - श्रुत्योः भिन्नवाक्यता । शक्यते एव तत्वक्तुम्, अदृष्टार्थत्वात् । "श्रुत्यर्थानुष्ठानफलस्य सर्वशाखाप्रत्ययमेकं कर्म" इति । श्रुतिस्मृत्योः पुनर्भेदे या च स्मृतिः प्रत्यक्षाविरुद्धा सा परिगृह्यते । इयमस्माकं स्मृतिः प्रत्यक्षाव्यभिचारिणी, यतः प्रत्यक्षेण एव उत्तरदक्षिणप्रवृत्तिः मकरकर्कटादितः एव उपलक्ष्यते । कथम्? यस्मात्धनुषः अन्ते मकरादिस्थिते विध्वस्ताशेषध्वान्तसंघाते भगवति भास्करे दिनमध्यंगते सर्वमध्याह्नच्छायाभ्यः महती मध्याह्नच्छाया लक्ष्यते । सा च क्रमेण अपचीयमाना मकरादितः एव, न श्रविष्ठादेः । यत्च कर्कटादौ सर्वमध्याह्नच्छायाभ्यः स्वल्पीयसी मध्याह्नच्छाया, सा च क्रमेण उपचीयमाना कर्कटादितः एव, न अश्लेषार्धातिति अतः प्रत्यक्षसिद्धमयनम् । अथवा अयमन्यार्थपरः एव ग्रन्थः । कर्कटादेः दक्षिणायनं मकरादेः च उत्तरायणमिति एतस्य अभ्युपगमातेव उच्यते - यदा भवगान् भास्करः अर्धाश्लेषात्दक्षिणं मार्गं प्रवर्तते पुनर्वस्वोः चतुर्थांशदिम् [अर्थात्कर्कटादिम्] परित्यज्यते तदा क्षेमसस्यसुभिक्षाः भवन्ति । यदा च मकरादिं परित्यज्य श्रविष्ठादेः उत्तरम् [मार्गम्] प्रतिपद्यते तदा च तत्फलार्थत्वमिति । अथ अयं विवस्वान् कथमेवं प्रवर्तते इति? उच्यते - ग्रहाणां द्वयी गतिः, सङ्ख्यानुगता औत्पातिकी च । यदा औत्पातिकी गतिः एवं प्रकारा भवति तदा क्षेमसस्यसुभिक्षाख्ये अयने [भवतः] । यदा पुनर्कर्कटमकरादिमप्राप्त्वा एव दक्षिणोत्तरप्रवृत्तिनिवृत्ती भवतः तदा अक्षेमा असस्या असुभिक्षा इति एतत्प्रदर्शयति । अपि अत्र अविदितपरमार्थाः रोमकाः पठन्ति - वसुदैवादिसार्पार्धातयनं मुनयः जगुः । मृगकर्क्यादितः दृष्टं कथं तथि गतेः विना ॥ इति आदिग्रन्थेन । क्षुद्रविद्रावणोपन्यासक्रमेण युगभगणानाहुः - तस्मातत्र वियद्रुद्रकृतनन्दधृतीः (१८९४११०) युगम् । भगणान् सप्तविश्वाख्यानादित्यान्त्योत्क्रमात्क्रमात् ॥ इति । अत्र कथमिदं घटते यदि उत्क्रमेण क्रमात्वा पुनर्वस्वोः मेषादेः अपि दक्षिणायनं प्रवर्तते न कर्कटादौ एव? तथा च वर्षाऋतुः मेषादेः प्रवर्तेत [मकरादेः] वसन्तः । तथा च कालविपर्यासः प्रसज्येत । एवं च श्रुत्यर्थः न अनुष्ठितः भवति । "वसन्ते यजेत", चैत्रवैशाखौ वसन्तः, "मधुः च माधवः च वासन्तिकौ ऋतू" [तैत्तिरीयसंहिता, ४.४.११] । तथा च "शरदि वाजपेयेन यजेत्", अश्वयुक्कार्तिकौ शरत्, "इषः च ऊर्जः च शारदौ ऋतू" [तैत्तिरीयसंहिता, ४.४.११] इति । इदं च ज्योतिषामयनमङ्गं वेदस्य । तस्मात्न अयनस्य गतिः । मकरकर्कटादितः अयनमिति । सर्वसिद्धान्तगुरुः आचार्यलाटदेवः आह - मकरादौ उदगयनं दक्षिणमयनं च चन्द्रभवनादौ । इति । ऋतुनिश्चयाय आह - ऋतवः शिशिर-वसन्त-ग्रीष्म-घनागम-शरद्-हिमागमनाः । मकरात्राशिद्वयगतदिनकरभोगस्थितिसमानाः ॥ इति । अन्यत्च - अपक्रमवृद्धिः धनुः मिथुनान्ते एव इति । रात्रिदिवसयोः महती वृद्धिः मकरकर्कटादौ एव, न अन्यतः एव इति । प्रत्यक्षसिद्धमिदमिति । अतः अयनयुगभगणपरिकल्पना मुधा । अथ इदं प्रष्टव्यम् - स्फुटगत्या परिगह्यन्ते आहोस्वित्मध्यमगत्या इति । यदि मध्यमगत्या, [तदा] यानि सौर्यमानाभिहितानि प्रयोजनानि तानि मध्यमगत्या प्राप्नुवन्ति, स्फुटगत्या चेष्यन्ते । कानि पुनर्तानि प्रयोजनानि इति? उच्यते - वायोः मूर्च्छनमभ्राणामुत्पत्तिः चक्षुषोः बलम् । शीतोष्णवर्षप्राप्तिः च प्रसादः सलिसस्य च ॥ सत्त्वानां मदलाभाः स्युः आर्तवः च अपि योषिताम् । फलपुष्पोद्गमं च एव पत्राङ्कुरविरोहणम् ॥ अयनाना[मृतूनाम्] च मुहूर्तानां च दर्शनम् । परिवेषपरीधानं परिधीनां तथा एव च ॥ गन्धर्वनगराणां च तथा इन्द्रधनुषामपि । उल्कानामशनीनां च सन्ध्ययोः विद्युतां तथा ॥ भूरथाभ्रनिनादानां धिष्ण्यानां पतनस्य च । ज्योतिषां वर्णभेदस्य ग्रहाणां चेष्टितस्य च ॥ अग्नेः औष्ण्यस्य शक्त्योः च विलयस्य उद्भवस्य च । सौरं मानं विजानीयात्प्रवर्तकनिवर्तकम् ॥ इति आदि प्रयोजनानि । यदि स्फुटगत्या ततेतानि प्रयोजनानि परिगृहीतानि भवन्ति, इदं तु न सिद्ध्यति अधिकावमानां ग्रहणम् । यस्मातधिकावमानां ग्रहणं मध्यमेन मानेन । अथ कथं स्फुटार्थं वचनं मध्यमगतिप्रतिपत्तये भविष्यति । अथ मध्यमगतिप्रतिपत्तये स्फुटार्थं कथमिति । न एषः दोषः । "शल्यर्थं कुल्याः प्रणीयन्ते, ताभ्यः च पानीयं पीयते, तासु च उपस्पृश्यते" [अष्टाध्यायी, १.१.२२ पातञ्जलभाष्यम्] इति सिद्धम् । एततुभयग्रहणात् उभयमत्र परिगृह्यते इति मध्यमगत्या स्फुटगत्या च । मध्यमगत्या अधिकावमानां ग्रहणं सिद्धम्, स्फुटगत्या च संहिताकाराभिहितानि प्रयोजनानि । रविशशियोगाः भवन्ति शशिमासाः । रवेः शशिनः च योगाः रविशशियोगाः । भवन्ति शशिमासाः । ये युगे रविशशियोगाः अभिहिताः ते शशिमासाः । ते च प्राग्यथा सिद्ध्यन्ति तथा व्याख्यातम् । शशिमासैः शशिदिवसघटिकाः व्याख्याताः । शशिमासेन कानि पुनर्प्रयोजनानि? दर्शं च पौर्णमासं च तथेज्याद्याः क्रिया भुवि । पर्वाणां च परिज्ञानं तिथीनां प्रत्ययः तथा ॥ प्राबल्यमौषधीनां च रसानां व्यक्तिः एव च । पूरणं हीनता च इन्दोः तथा एव लवणाम्भसः ॥ गर्भाणां जीवनं च अपि तथा अपि अयनमेव च । राहोः आगमनप्राप्तिः [च] ऐन्दवं मानमाश्रिताः ॥ एवमादीनि प्रयोजनानि । रविभूयोगाः दिवसाः । रवेः भुवः च योगाः रविभूयोगाः । ये युगे रविभूयोगाः ते युगे भूदिवसाः । भूदिवसः नाम रवेः अर्धोदयात्प्रभृति पुनरर्धोदयमिति । सावनः दिवसः भूदिवसः इति उच्यते । रोमकैः स एव भूदिवसः रव्युदयः इति संज्ञितः । कानि पुनर्सावनमानस्य प्रयोजनानि? यज्ञकालपरिज्ञनं यज्ञेषु सवनानि च । व्रतः दीक्षणकालः च चूडोपनयनानि च ॥ आयुषां च अपि निर्लेखा प्रयोगाणां च वृद्धयः । ग्रहचारपरिज्ञानमादेशगमनानि च । यानि च अपि एवमादीनि सङ्ख्योद्दिष्टानि तानि वै । सावनेन एव मानेन गण्यन्ते इति निश्चयः ॥ एतानि प्रयोजनानि । भावर्ताः च अपि नाक्षत्राः । भानामावर्ताः भावर्ताः, भचक्रभ्रमणानि । तत्च भचक्रं किमादिः इति एतत्विचार्यम् । यदि मेषादिः स्यात्[तदा] मेषादिस्थे सवितरि सवितृभचक्राद्योः युगपतुदयः, द्वितीयः पुनरनुदिते एव सवितरि भचक्राद्युदयः, न च भचक्रादिद्वयोदयान्तरे षष्टिः नाड्यः । तथा च "प्राणेन इति कलां भम्" [गीतिका¡, ६] इति चक्रलिप्तानामहोरात्रघटिकाप्रमाणलिप्तानां च तुल्यता न उपपद्यते, यस्मातपूर्णे एव अहोरात्रे भचक्रादिः उदेति । यदा पुनरादित्योदयः भचक्रादिः परिगृह्यते तदा अहोरात्रप्राणाः स्वदेशराश्युदयप्राणतुल्याः । ते च खखषड्घनतुल्याः । भचक्रलिप्ताः च तावत्यः इति एततुपपन्नम् । अन्यत्च - उदयलग्नविधिः सूर्यातेव प्रवर्तते, औदयिकात्च रवेः । स चेष्टकाले स्वाभीष्टकालादित्य[राशेः विचार्य]माणः यावत्पुनरुदयः इति तावत्न अन्तरं विदधाति । तस्मात्रव्युदयः एव भचक्रादिः, व्यवहारप्रसिद्ध्यर्थम् । यदि एवं ग्रहभुक्तराशयः रव्याक्रान्तराशिप्रदेशातेव प्राप्नुवन्ति? न एषः दोषः, "बुधाह्न्यजार्कोदयात्च लङ्कायाम्" [गीतिका¡, ४] इति एषामजादिनिरूपणात् । कुभगणाः च युगाद्यन्तयोः अजार्कोदयातेव प्रतिपरिसमाप्ताः इति तेषां च अजादिता सिद्धा । ते एव युगभचक्रावर्ताः नाक्षत्रदिवसाः भूदिवसाः इति, दिवसग्रहणानुवर्तनात् । के पुनर्ते भावर्ताः? ये कुभगणाः, "कु ङिशिबुण्लृष्खृ" [१५८२२३७५००] इति गीतिकासु [गीतिका¡, ३] उक्ताः । कथमेते कुभगणाः भावर्ताः इति उक्ताः? भचक्रप्रतिवद्धानि नक्षत्राणि । तस्य प्रवहाक्षेपातपरां दिशमासादयन्ति । नक्षत्राणि भुवं स्वगत्या प्राङ्मुखं भ्रमन्तीमिव पश्यन्ति इति अनया गत्या भुवः भगणानिर्देशाः । तेन उक्तम् - "भावर्ताः च अपि नाक्षत्राः" इति । अन्ये पुनर्"क्व आवर्ताः च अपि नाक्षत्राः" इति पठन्ति । तेषा पाठातेव हि सर्वमुपपन्नम् । अथ अन्ये पुनरन्यथा वर्णयन्ति - द्दर्शात्दर्शः चान्द्रः त्रिंशत्दिवसाः तु सावनः मासः । सौर्यः अर्कराशिभोगः नाक्षत्रः च इन्दुमण्डलकम् ॥ [लाटदेवस्य कृतितः] दर्शात्दर्शः चान्द्रः इति सूर्याचन्द्रमसोः यः परः सन्निकर्षः स दर्शशब्देन उच्यते, स च तयोः योगः । "रविशशियोगाः भवन्ति शशिमासाः" इति तुल्यं लक्षणम् । त्रिंशत्दिवसाः तु सावनः मासः इति एततपि "रव्युदयाः त्रिंशत्" इति तुल्यम् । सौर्यः अर्कराशिभोगः इति "रविभगणाः रव्यब्दाः", "रवेः राशयः अपि रविमासाः" इति एततपि तुल्यं लक्षणम् । "नाक्षत्रं च इन्दुमण्डलकम्" इति इन्दोः मण्डलं नाक्षत्रः मासः इति । तत्र प्रत्यहं यः चन्द्रभोगः स तन्मासावयवः इति । नक्षत्राणि अपि विभज्यन्ते । तत्यथा - यः चन्द्रभगणस्य त्रिंशद्भागः स नाक्षत्रः दिवसः । एवं नवनक्षत्रदशभागः नाक्षत्रः दिवसः इति एततभिन्नं लक्षणम् । अस्माकमाचार्येण स्वतन्त्रान्तराविरुद्धप्रक्रियाप्रतिपादनार्थमिदमुक्तम् "भावर्ताः च अपि नाक्षत्राः" इति । का च स्वतन्त्रान्तरप्रक्रिया? "प्राणेन एति कलां भम्" [गीतिका¡, ६] इति, प्राणेन कलां भं गच्छति इति ज्योतिश्चक्रलिप्तानां भावर्तप्राणानां च तुल्यत्वे ज्यादयः विधयः सिद्ध्यन्ते, न अन्यथा इति इयं प्रक्रिया । येषां च "नाक्षत्रं च इन्दुमण्डलकम्" इति लक्षणम्, तैः संहिताकाराभिहितप्रयोजनसिद्ध्यर्थमुक्तम् । अत्र एकेन लक्षणेन प्रयोजनस्य अपरिग्रहात्लक्षणद्वयमिदमिष्यते । कथम्? तत्र आवृत्तिः एकशेषः इति, भावर्तशब्दस्य एकशेषव्याख्यानात्भावर्ताः च भावर्ताः च, भावर्ताः । भानि ज्योतींषि अश्विन्यादीनि । तेषामावर्ताः भावर्ताः, भपर्ययाः इति अर्थः । पर्ययः च नक्षत्राणां चन्द्रविषयः एव परिगृह्यते, लोकव्यवहारात् । लोकः हि चन्द्राक्रान्तनक्षत्रैः एव व्यवहरति । अथवा अन्यार्थं प्रकृतमन्यार्थमपि भवति, "शाल्यर्थं कुल्याः प्रणीयन्ते, तासु च उपस्पृश्यते" [अष्टाध्यायी, १.१.२२, पातञ्जलमहाभाष्यम्] इति । अथवा "भावर्तः च नाक्षत्रः" इति एकवचनेन सिद्धे "भावर्ताः च नाक्षत्राः" इति बहुवचननिर्देशं कुर्वनाचार्यः ज्ञापयति नाक्षत्रस्य अनेकलक्षणमिति । अथवा चकारः अत्र प्रयुक्तः, न तेन अत्र कश्चितर्थः साध्यते, अथ च प्रयुक्तेन मन्यामहे नाक्षत्रस्य अनेकं लक्षणमिति । तत्च अनेकं लक्षणं यथा व्यवस्थितं तथा व्याख्यातमिति अतः लक्षणद्वयमपि स्वसिद्धान्तसिद्धम् । अथ नाक्षत्रस्य मानस्य कानि प्रयोजनानि? संवत्सराणां मासानामृतूनां पर्वणां तथा । अयनानां च सर्वेषां समाप्तिप्रतिपत्तयः ॥ शुभाशुभं च लोकानां मानमुन्मानमेव वा । इति एवमादीनि प्रयोजनानि । अथ इयमुक्तिः वाग्वागुरा क्षुद्रविद्रावणपरा नाक्षत्रमानप्रदर्शितप्रयोजनैः लक्ष्यते "संवत्सराणां मासानामृतूनाम्" इति । संवत्सराणां तावत्प्रतिपच्छेदनिमित्तं नाक्षत्रम् [न] भवति, यतः संवत्सरः शास्त्रे चैत्रशुक्लादेः प्रवर्तते । स च चैत्रशुक्लादिः चान्द्रेण उपलक्ष्यते । संहिताकाराणां च बृहस्पतिचारे यः संवत्सरः बृहस्पतेः नक्षत्रोदयात्प्रवर्तते - यस्मिनुदेति नक्षत्रे प्रवासोपगतः अङ्गिराः । इति । मासानामपि न भवति । यस्मिन् कृत्तिकाभिः युतः चन्द्रमाः, अस्मिन्मासे अर्धमासे च इति कार्तिकः मासः । स चन्द्रनक्षत्रयोगविशेषः चान्द्रः मानविशेषः । ऋतूनामयनानाम् [च ज्ञानम्] सौर्येण मानेन इति प्रदर्सितमेव अस्माभिः । तस्मातेतत्न नाक्षत्रमानम् । यैः "नाक्षत्रं च इन्दुमण्डलकम्" इति अस्य अनुवर्तनात्"भावर्ताः च नाक्षत्राः" इति अस्य शब्दार्थव्याख्याने नैकशेषबहुवचननिर्देशः [कृतः] "च"-शब्दातिति बुधैः एव विदितपरमार्थैः मुखमायासितम् । तस्मातस्माकमाचार्येण अतीन्द्रियार्थदर्शिना अभिहितमाचार्यार्यभटेन ततेव नाक्षत्रमानम् । तस्मात्"इयमुक्तिः वग्वागुरा क्षुद्रविद्रावणपरा नाक्षत्रमानप्रदर्शितप्रयोजनैः लक्ष्यते" इति सुष्ठु उक्तम् । अथ एतानि सौर्य-सावन-चान्द्र-नाक्षत्राणि मानानि मध्यमगत्या प्रतिपादितानि । तत्प्रयोजनार्थं स्फुटगत्या प्रतिपत्तव्यानि इति प्रदिष्टम् । आचार्यलाटदेवेन तु स्फुटगत्या एव प्रतिपादितानि - दर्शात्दर्शः चान्द्रः त्रिंशत्दिवसाः तु सावनः मासः । इति आदिग्रन्थेन इति । अत्र च अयं प्रश्नः - "अवमाधिमासकैः विना द्युगणम्" इति । यातवर्षाणि मासीकृत्य वर्तमानमासैः संयोज्य त्रैराशिकम् - यदि युगरविमासैः युगचान्द्रमासाः लभ्यन्ते, [तदा] एतैः [रविः] मासैः कियन्तः चान्द्रमासाः इति, लब्धं चान्द्रमासाः । ते त्रिंशद्गुणाः वर्तमानतिथियुक्ताः कार्याः । ततः त्रैराशिकम् - यदि युगचान्द्रदिवसैः युगाहर्गणः लभ्यते [तदा] एतैः चान्द्रदिवसैः किमिति, अहर्गणः लभ्यते । तत्र एकः प्रक्षेपः । अथ कः च असौ एकः प्रक्षेपः? उच्यते - यः असौ लभ्यते अहर्गणः स अतीतः । शेषः वर्तमानः । वर्तमानेन अहर्गणः भवति इति एकः प्रक्षेपः । "तेन दिवाकरोडुपौ" इति एततुत्तरत्र वक्ष्यते । ताभ्यां स्फुटपर्वदर्शनमिति । चन्द्रादित्याभ्यां विना स्फुटतिथ्यानयनम् । तत्यथा - "[यदि] युगाहर्गणेन चन्द्रवर्षाणि वसुमुनिगिरियमविषयकृतवेद [४४५२७७८] तुल्यानि लभ्यन्ते, तदा अनेन इष्टाहर्गणेन कियन्ति इति वर्षाणि लभ्यन्ते । शेषे द्वादशा[दि]गुणिते मास-दिवस-घटिका-विघटिकाः च लभ्यन्ते । एवं मध्यमा तिथिः भवति । अथ शश्युच्चनीचपरिवर्तैः त्रैराशिकम् - यदि युगाहर्गणेन शश्युच्चनीचपरिवर्ताः लभ्यन्ते, [तदा] अनेन इष्टाहर्गणेन कियन्तः इति, अतीताः परिवर्ताः लभ्यन्ते । शेषे द्वादशादिगुणिते राश्यादयः लभ्यन्ते । त्रिराशिरहितं शशिकेन्द्रम् । ततः फलं शशिभुक्तिः च आनीयते । फलस्य द्वादशभिः भागे नाड्यः विनाड्यः च लभ्यन्ते । तावत्मध्यमतिथौ यथान्यायेन ऋणं धनं वा कर्तव्यम् । सूर्यानयनार्थं त्रैराशिकम् - यदि युगाहर्गणेन वसुमुनिगिरियमदहनेन्दु[१३२७७८]तुल्यानि अधिकवर्षाणि लभ्यन्ते, तदा कलियाताहर्गणेन कियन्तः इति, वर्ष-मास-दिवस-घटिकाः लभ्यन्ते । प्रतिराशितमध्यमतिथिवर्षादिभ्यः ते शोध्याः शेषं रविवर्षादयः । तेभ्यः मासद्वयम् [२] च अष्टादश [१८] च दिवसानपनीय रविकेन्द्रं भवति । तेन फलानयनं भक्त्यानयनं च । फलस्य द्वादशभिः भागे लब्धाः नाड्यः विनाड्यः च । तिथौ एव ऋणधनव्यत्यासं कुर्यात् । अथ किमिति ऋणधनव्यत्यासः क्रियते? उच्यते - सूर्यस्य यतृणं तत्तिथेः उपचयः, धनं यत्ततपचयः इति । एवं तिथिः निष्पन्ना भवति । ततः इदं क्रियते - यदि मध्यमभुक्त्यन्तरेण षष्टिः नाड्यः लभ्यन्ते, [तदा] स्फुटगत्यन्तरेण कियत्य इति, गत्यन्तरनाड्यः उपलभ्यन्ते । ताभिः त्रैराशिकम् - यदि एताभिः गत्यन्तरनाडिकाभिः षष्टिः नाड्यः लभ्यन्ते, [तदा] अनेन तिथिशेषेण कियत्य इति तिथिनाड्यः विनाड्यः च लभ्यन्ते । अथवा त्रैराशिकद्वयं भङ्क्त्वा इदं कर्म क्रियते । मध्यमभुक्त्यन्तरेण तिथिशेषं गुणयित्वा स्फुटभुक्त्यन्तरेण भागसिद्धं घटिकाविघटिकाः च । कथं पुनर्त्रैराशिकद्वयम् भिन्नम्? उच्यते - यदि मध्यमभुक्त्यन्तरेण षष्टिः नाड्यः लभ्यन्ते [तदा] स्फुटभुक्त्यन्तरेण कियत्य इति एकं त्रैराशिकम् । पुनर्- लब्धेन फलेन यदि षष्टिः नाड्यः, [तदा] अनेन तिथिशेषेण कियत्य इति । यः पूर्वत्रैराशिके गुणकारः स इह अर्थात्भागहारः इति । अथ देशान्तरविशेषेण च अक्षविशेषेण च यत्फलमुपजायते ततपि युक्त्या योजयितव्यमिति ॥ ५ ॥ [ अधिमासावमदिनानि] अधिमासावमपरिज्ञानाय आह - अधिमासकाः युगे ते रविमासेभ्यः अधिकाः तु ये चान्द्राः । शशिदिवसाः विज्ञेयाः भूदिवसोनाः तिथिप्रलयाः ॥ ६ ॥ ये रविमासेभ्यः अधिकाः चान्द्रमासाः ते युगे युगे अधिमासाः भवन्ति, ये च भूदिवसोनाः शशिदिवसाः ते युगे तिथिप्रलयाः । प्रलयः विनाशः । तिथीनां प्रलयाः तिथिप्रलयाः । अवमरात्राणि इति अर्थः । एवं ब्रुवता एतत्प्रदर्शितं भवति - सौर्यचान्द्रान्तरमधिमासभोगः, सावमं सावनं चान्द्रं मानमिति । अधिकावमयोः मध्यमगत्या उपचयः इति उक्तम् । यदि स्फुटगत्या स्यात्तदा द्वितीयायां प्रवृत्तायां प्रतिपत्तृतीया [नि]वृत्तिप्रवृत्ती न स्तः । अधिमासावमैः किं निर्वर्त्यते? अहर्गणः इति आह । न एततस्ति, विना अपि अधिमासावमैः अहर्गणस्य निर्वर्तितत्वात् । न एषः दोषः, उपायान्तरत्वात् । अधिमासावमैः विना अहर्गणस्य साधनं प्रदर्शितम् । येन च अधिमासावमैः अहर्गणः लभ्यते स उपायः प्रदर्शयितव्यः । न एततस्ति, एकोपायत्वात् । स च अयं च एकः उपायः । कथमेकोपायता? ये चान्द्रमासाः ते साधिकाः तेषां साधिकत्वात्साधिकः एव मासराशिः लभ्यते । पुनरपि च भूदिवसानाम् रहितावमत्वात्त्रैराशिकेन रहितावमः अहर्गणः लभ्यते । अथ कश्चित्लघूकरणार्थी गुणकारात्भागहारमपनयेत्तस्य शेषगुणिते लब्धं प्रतिराशितगुण्ये [क्षिपेत्] । यदि भागहारातवशिष्यते तत्र शेषगुणिते लब्धं गुण्यात्प्रतिराशितातपनीयमिति एषः गणितन्यायः । अथ अत्र गुणकाराधिकत्वात्मासाः क्षिप्यन्ते भागहाराधिकत्वात्दिवसाः अपचीयन्ते इति एकोपायता । तस्मात्न अर्थः अनया कारिकया, तथापि लोकव्यवहारार्थमधिमासावमानाम् उपदेशः कर्तव्यः । लोकः च अधिमासावमैः व्यवहरति । उक्तं च - "करणाधिष्ठितमधिमासकं कुर्यात्", "त्रिशतं सचतुष्पञ्चाश[तम]होरात्राणां कर्म सांवत्सरः" इति । अधिमासार्थं त्रैराशिकम् - यदि युगवर्षैः मासैः वा युगाधिमासकाः लभ्यन्ते, ततः यातवर्षादिभिः कियन्तः इति अधिमासकलब्धिः । एवमेव अवमानां चान्द्रदिवसैः इति । अत्र च अयं प्रश्नः - "तेन दिवाकरोडुपौ" इति अहर्गणेन विना चन्द्रादित्यानयनम् । तत्यथा - यातवर्षेषु द्वादशगुणितेषु गतमासान् क्षिपेत् । ततः त्रिंशद्गुणितेषु दिवसान् प्रक्षिप्य त्रैराशिकम् - यदि पूर्णवियदम्बरजलधरपयोधरयमशरविषयेषुचन्द्रैः [१५५५२०००००] युगसौरदिवसैः युगाधिमासकाः लभ्यन्ते, ततः एतैः दिवसैः कियन्तः इति, लभ्दमधिमासकाः । शेषे क्षेपः उच्यते - यदि भूदिवसतुल्येन अवमशेषेण युगाधिमासतुल्यः उपचयः अधिमासकशेषस्य लभ्यते, तदा अनेन अवमशेषेण कियानिति । यत्लब्धं ततधिमासकशेषे प्रक्षिप्य युगचान्द्रमासैः रसरामाग्निगुताशनत्रिकृतत्रिविषयैः [५३४३३३६] भागलब्धं भागाः, षष्टिगुणिते लिप्ताः । त्रिंशगुणाधिकयुतं दिवसराशिं कृत्वा त्रैराशिकम् - यदि युगचान्द्रदिनैः युगावमदिनानि लभ्यन्ते, ततः एतैः किमिति लभ्दमवमः । शेषं षष्ट्या संगुण्य भूदिवसैः पूर्णाम्बरशरनगशशिरन्ध्रमुनिगिरिविषयरूपैः [१५७७९१७५००] विभजेत्, लब्धं घटिकाः । अथ किमर्थमधिकावमशेषयोः शशिमासभूदिवसैः भागः ह्रियते? उच्यते - यः असौ अधिमासशेषः स चान्द्रमासावयवः । अतः तेन सच्छेदेन त्रैराशिकम् - यदि युगशशिमासैः सूर्यभगणाः लभ्यन्ते, ततः अनेन शशिमासावयवेन कियन्तः इति । तत्र शशिमासावयवच्छेदेन सह रविभगणेन अपवर्तनम् - रविभगणानां रविभगणभागेन एकः गुणकारः, छेदस्य तावत्भागेन षष्टिशतत्रयम् । तत्र भगणेषु भागं न प्रयच्छति इति द्वादश त्रिंशत्च गुणकारः । तत्र षष्टिशतत्रयभागेन रूपम्, तावत्भागेन एव छेदस्य अपि रूपमेव । शशिमासाः एव केवलाः भागहाराः इति । अवमशेषः अपि भूदिनावयवः इति त्रैराशिकम् - यदि भूदिनैः चान्द्रदिवसाः लभ्यन्ते, ततः अनेन भूदिवसावयवेन चान्द्रदिवसच्छेदेन किमिति । तत्र गुणकारभागहारयोः तुल्यत्वात्नाशः । शेषे षष्टिगुणे भूदिवसभक्ते घटिकाः इति । अथ यातवर्षाणि भगणाः, मासाः राशयः, दिनानि भागाः इति परिकल्प्य अवमशेषलब्धघटिकाः च लिप्ताः । एभ्यः अधिकशेषलब्धं विशोधयेत् । शेषं मध्यमसूर्यः । तेभ्यः एव त्रयोदशगुणितेभ्यः अधिकशेषफलं विशोधयेत् । शेषं मध्यमचन्द्रः । अधिमासकैः अपि अवमाः आनीयन्ते । तत्यथा - अभीष्टवर्षाणि दिनीकृत्य त्रैराशिकम् - [यदि] युगसूर्यदिवसैः युगाधिमासकाः लभ्यन्ते, ततः एतैः अभीष्टसूर्यदिवसैः कियन्तः इति, अधिमासकाः समतिक्रान्ताः लभ्यन्ते, वर्तमानस्य च शेषः । ततेतत्त्रैराशिकम् - यदि युगाधिमासैः युगावमरात्रा[णि] लभ्यन्ते ततः एतैः अधिमासकैः अभीष्टैः कियन्तः इति गणितन्यायेन सवर्णीकृत्य युगावमैः गुणयेत् । अथवा अभीष्टाधिमासराशिमंशराशिम् च पृथक्पृथक्युगावमैः संगुणय्य अंशराशिं युगसूर्यदिवसैः विभज्य लभ्दमुपरि क्षिप्त्वा युगाधिमासकैः भागलब्धमभीष्टकालावमाः । अथवा त्रैराशिकद्वयं भङ्क्त्वा अपि आनीयन्ते - यदि युगसूर्यदिवसैः अधिमासकाः लभ्यन्ते, ततः अभीष्टदिवसैः कियन्तः इति एकं त्रैराशिकम् । ततः पुनरपि - यदि युगाधिमासकैः युगावमाः लभ्यन्ते, ततः त्रैरासिकन्यायविरचितराश्युत्पन्नाधिमासकैः कियन्तः इति । तत्र पूर्वत्रैराशिके युगाधिमासकः गुणकारः द्वितीयत्रैराशिके भागहारः । अतः गुणकारभागहारयोः तुल्यत्वात्नष्टयोः अभीष्टदिवसानां युगावमः गुणकारः, युगसौर्यदिवसः भागहारः, लब्धमभीष्टावमाः । अभीष्टावमैः अपि अधिमासकाः आनीयन्ते । अभीष्टवर्षमासेषु ततुत्पन्नाधिमासकान् प्रक्षिप्य त्रिंशता संगुणय्य त्रैराशिकद्वयं क्रियते - यदि युगशशिदिवसैः युगावमाः लभ्यन्ते ततः अभीष्टशशिदिवसैः कियन्तः इति अवमाः । एवमेकं त्रैरासिकम् । पुनर्- यदि युगावमैः युगाधिमासकाः लभ्यन्ते ततः अभीष्टावमैः पूर्वत्रैराशिकविरचितैः कियन्तः इति, अधिमासकाः लभ्यन्ते । तत्र पूर्वत्रैराशिके युगावमाः गुणकारः, इह भागहारः । अतः गुणकारभागहारयोः तुल्यत्वात्नष्टयोः युगशशिदिवसः भागहारः, युगाधिमासकः गुणकारः, फलमभीष्टाधिमासकाः । पूर्ववत्वा पृथक्पृथक्त्रैराशिकेन अपि करणीयम् । अथ अधिमासकैः अभीष्टग्रहाः अपि आनीयन्ते । तत्यथा - यदि युगाधिमासकैः अभीष्टग्रहभगणाः लभ्यन्ते, तदा इष्टाधिमासकैः कियन्तः इति । अधिमासपतनकालावधेः अभीष्टग्रहभगणादयः लभ्यन्ते । असौ एव अभीष्टकालिकः क्रियते । कथम्? अधिमासक[शेषेण] अभीष्टग्रहभगणान् संगुणय्य अधिमासकैः गुणितशशिदिवसैः विभजेत् । तत्र भगणादयः लभ्यन्ते, [ते] पूर्वलब्धाधिमासकग्रहभगणेषु योज्यन्ते तदा अवमरात्रपतनकालावधेः भवति । ततः पुनरपि अवमरात्रशेषं षष्ट्या संगुणय्य शशिदिवसैः एव विभजेत् । लब्धं घटिकाः । ततः - यदि षष्टिघटिकाभिः अभीष्टग्रहभुक्तिः लभ्यते, [तदा] आभिः घटिकाभिः किमिति । लब्धं पूर्वस्थापिते ग्रहे दद्यात्, अभीष्टदिवसस्य उदयकालावधेः [ग्रहः] भवति । अथ अवमैः अपि - यदि युगा[वमैः अभीष्टग्रहभगणाः] लभ्यन्ते ततः यातावमैः कियन्तः इति । अवमरात्रपरिसमाप्तिकालावधेः अभीष्टग्रहभगणादयः लभ्यन्ते, ततः इष्टदिवसौदयिकः क्रियते । कथम्? अवमरात्रशेषेण अभीष्टग्रहभगणान् संगुणय्य युगावमभूदिवससंवर्गेण विभजेत् । लब्धं भगणादयः । तान् पूर्वलब्धभगणादिषु क्षिपेत् । औदयिकः ग्रहः भवति । अत्र अयं प्रश्नः - अवमैः यः अधिकमासानवमानि च यः करोति अधिकमासैःञ् । ताभ्यां वा ग्रहमिष्टं तस्य अहं शिष्यतां यामि ॥ १ ॥ इति। अधिमासावमशेषाभ्यां सूर्याचन्द्रमसोः आनयनमुक्तम् । इदानीमवमशेषातेव सर्वग्रहानयनमभिधास्यते । तत्यथा - युगावमं षष्ट्या अपवर्त्य स्थापना - ४१८०४३ । अथ आदित्यानयने तावतेते अपवर्तितावमाः केन गुणिताः अपवर्तितादित्यभगणानपनीय ततपवर्तितभूदिनानां तु शुद्धं भागं दद्युः इति कुट्टाकारः क्रियते । तत्र लब्धं कुट्टाकारः सप्तेन्दुरसाद्रिवसवः, अङ्कैः अपि ८७६१७ । अनेन अवमशेषं संगुणय्य अपवर्तितभूदिनैः एव विभजेत् । शेषं तत्र रवेः मण्डलशेषः । एतेन आदित्यानयनं व्याख्यातम् । उद्देशकः - षट्सप्तबाणेन्दुशराद्रिशून्यदस्रप्रमाणः अवमजातशेषः । एतेन शेषः रविमण्डलानां वाच्यः विवस्वान् च कलान्तसङ्ख्यम् ॥ २ ॥ अवमशेषः २०७५१५७६ । लब्धं रवेः मण्डलशेषः ४९६६५, रविः च २ । २४ । ५८ । चन्द्रस्य अपि कुट्टाकारानयनं पूर्ववतेव । अपवर्तितावमाः केन गुणिताः अपवर्तितचन्द्रभगणानपनीया अपवर्तित[भू]दिनानां शुद्धं भागं प्रयच्छति इति कुट्टाकारन्यायेन लब्धं कुट्टाकारः २११९२३६ । उद्दिष्टावमशेषेण चन्द्रानयनम् । अथवा मध्यमात्सूर्यात्सहयातभगणैः लिप्तीकृत्य त्रैराशिकम् - यदि युगरविलिप्ताभिः युगशशिभगणाः लभ्यन्ते, [तदा] एताभिः यातरविलिप्ताभिः कियन्तः इति । लब्धं भगणाः, शेषे द्वादशादिगुणिते मध्यमः चन्द्रः लभ्यते । अथवा खखषड्घनेन यदा युगरविलिप्ताः अपवर्तिताः भवन्ति [तदा] रविभगणाः भागहारः, शशिभगणाः यातरविलिप्तानां गुणकारः, फलं मध्यमचन्द्रलिप्ताः । एवमनेन न्यायन चन्द्रातभीष्टग्रहात् वा इष्टग्रहः आनीयते । कथम्? निर्ज्ञातग्रहयातलिप्तानामभीष्टग्रहभगणाः गुणकारः निर्ज्ञातग्रहयुगलिप्ताः भगणाः वा भागहारः, फलम् [भगणाः] लिप्ताः [वा] । अत्र अयं प्रश्नः - सवितुः शशिनं करोति यः शशिनः स्थितितः तारकग्रहान् । अस्मत्सिद्धान्तवर्जितात्कालज्ञप्रवरः स उच्यते ॥ ३ ॥ इति ॥ ६ ॥ [ मानुषपितृदेववर्षप्रमाणानि ] मानुषपितृदेवानां वर्षप्रमाणनिरूपणाय आह - रविवर्षं मानुष्यं ततपि त्रिंशद्गुणं भवति पित्र्यम् । पित्र्यं द्वादशगुणितं दिव्यं वर्षं विनिर्दिष्टम् ॥ ७ ॥ रविवर्षम्, रवेः वर्षं रविवर्षम् । रविवर्षस्य च प्रमाणमभिहितम् - "रविभगणाः रव्यब्दाः" [कालक्रिया¡, ५] इति । रवेः भगणभोगः मानुषाणां वर्षम् । यतेव रवेः वर्षं ततेव मानुषाणां वर्षमिति । ततपि त्रिंशद्गुणं भवति पित्र्यम् । तत्मानुष्यं वर्षं त्रिंशद्गुणितं पित्र्यं वर्षं भवति, यस्मात्मासः तेषामहोरात्रम् । उक्तं च - "शशिमासार्धं पितरः" [कालक्रिया¡, १७] इति । पित्र्यं द्वादशगुणितं दिव्यं वर्षम् विनिर्दिष्टम् । पिट्र्णां यत्वर्षं तत्द्वादशगुणितमेकं वर्षं देवानाम्, यस्मात्पित्र्यं वर्षं मासः देवानाम् । यथाक्रमेण एकत्रिंशत्षष्टिशतत्रय[गुणम्] च [रविवर्षम्] मनुजपितृदेवानाम् [वर्षाणि] ॥ ७ ॥ [युगमानं ब्रह्मदिनप्रमाणं च] चतुर्युगब्रह्मदिनज्ञापनार्थमाह - दिव्यं वर्षसहस्रं ग्रहसामान्यं युगं द्विषट्कगुणम् । अष्टोत्तरं सहस्रं ब्राह्मः दिवसः ग्रहयुगानाम् ॥ ८ ॥ यतेतत्दिव्यं वर्षं तत्द्वादशभिः सहस्रेण गुणितं ग्रहसामान्यं युगम् । ग्रहाणां सामान्यं ग्रहसामान्यम् । किं तत्? युगम् । यस्मात्सर्वे ग्रहाः सहशीघ्रोच्चैः युगपत्मीनमेषसन्धौ भवन्ति, तस्मात्युगं ग्रहसामान्यम् । तत्च वियदम्बराकाशशून्ययमरामवेदाः [४३२००००] । एततेव कृत-त्रेता-द्वापर-कलिवर्षाणां प्रमाणम् । अस्माकं तु युगपादाः सर्वे एव च तुल्यकालाः । पौराणिकैः तु भिन्नकालाः व्याख्याताः - चत्वारि आहुः सहस्राणि वर्षाणां यत्कृतं युगम् । तस्य तावत्शती सन्ध्या सन्ध्यांशः च तथाविधः ॥ इतरेषु ससन्ध्येषु ससन्ध्यांशेषु च त्रिषु । एकापायेन वर्तन्ते सहस्राणि शतानि च ॥ [मनुस्मृतिः, १.६९-७०] इति । कृतप्रमाणं वियदम्बराकाशवसुयममुनिचन्द्राः [१७२८०००] । त्रेताप्रमाणं वियदम्बराकाशरसनवार्काः [१२९६०००] । द्वापरप्रमाणं वियदम्बराकाशवेदरसवसवः [८६४०००] । कलिप्रमाणं वियदम्बराकाशयमरामवेदाः [४३२०००] । समासितानि वियदम्बराकाशशून्ययमरामवेदाः [४३२००००]। किं पुनरत्र युक्तम् - पुराणकारैः यथा भिन्नप्रमाणानि कृतादीनि व्याख्यातानि तथा प्रतिपत्तुम्, आहोस्वित्यथा अस्माकमाचार्येण प्रतिपादितानि समप्रमाणानि इति? यथा अस्माकं प्रसिद्धानि तथा इति आह । यदि पुराणप्रक्रियाप्रसिद्धानि युगपादप्रमाणानि परिगृह्यन्ताम्, तदा कलियुगादौ ग्रहाः मीनमेषसन्धौ युगपत्मध्यमगत्या न स्युः । कथमिति उच्यते । युगपादानां त्रयाणामेकत्रप्रमाणं वियदम्बराकाशाष्टवसुवसुरामाः [३८८८०००] इति एतैः अहर्गणमुत्पाद्य यथाविहितमध्यमग्रहगणितप्रक्रियायां युगपत्मीनमेषसन्धौ मध्यमग्रहाः न लभ्यन्ते । अनया एव प्रक्रियया इदानीम् अपि ग्रहगत्यां साध्यमानायामेव इष्टग्रहाणां गतिः न लभ्यते । यदि पुनर्सममेव कृतादीनां प्रमाणं ततिदं त्रयाणामपि युगपादानां प्रमाणं वियदम्बराकाशशून्यकृतयमाग्नयः [३२४००००], अनेन यातेन सर्वमिष्टमुपपद्यते । तस्मात्"यथा अस्माकं प्रसिद्धानि " इति सुष्ठु उक्तम् । अष्टोत्तरं सहस्रं ब्राह्मः दिवसः ग्रहयुगानाम् । ग्रहयुगमिति यतेतत्ग्रहसामान्यं युगं तत्परिगृह्यते । ततष्टोत्तरेण सहस्रेण गुणितं प्रजापतेः एकदिवसप्रमाणं भवति । ननु च अत्र अपि पौराणिकैः सह विरुध्यते । कथम्? पौराणिकैः - सहस्रयुगपर्यन्तमहर्यत्ब्रह्मणः विदुः । रात्रिं युगसहस्रान्तां ते अहोरात्रविदः जनाः ॥ [भगवद्गीता, ८.१७] इति सहस्रयुगपर्यन्तं ब्रह्मणः दिवसप्रमाणमुक्तम् । अत्र च अष्टोत्तरं सहस्रं चतुर्युगानामिति । अत्र तावत्विचार्यते । पौराणिकैः - "सहस्रयुगपर्यन्तमहर्यत्ब्रह्मणः विदुः" इति अभिधाय तैः एव एकसप्ततिः चतुर्युगानां मन्वन्तरं चतुर्दश मनवः ब्राह्मः दिवसः इति [अभिहितम्] । अत्र एकसप्ततिः चतुर्दशगुणिता सहस्रसङ्ख्यां न प्राप्नोति । उच्यते च - चतुर्दश मन्वन्तराणि ब्रह्मणः दिवसः, सहस्रं चतुर्युगानामिति स्ववचनविरोधः । अस्माकं तु द्वासप्ततिः चतुर्युगानां मन्वन्तरम्, अष्टोत्तरसहस्रं ब्राह्मः दिवसः इति युक्तिसिद्धमेतम् । कथं पुनरिदं ज्ञायते द्वासप्ततिः चतुर्युगानां मन्वन्तरमिति? गीतिकासूक्तत्वात् । काहः मनवः ढ मनुयुगाः श्ख । इति । [गीतिका¡, ५] ॥ ८ ॥ [उत्सर्पिण्यादियुगविभागः] उत्सर्पिण्यपसर्पिणीसुषमादुष्ष्मापरिज्ञानाय आह -- उत्सर्पिणी युगार्धं पश्चातपसर्पिणी युगार्धं च । मध्ये युगस्य सुषमा आदौ अन्ते दुष्षमा इन्दूच्चात् ॥ ९ ॥ उत्सर्पिणी नाम यस्मिन् प्राणिनामायुर्यशोवीर्यसौख्यादीनि उपचीयन्ते स कालः उतस्र्पिणीसंज्ञकः । तस्य च प्रमाणं युगार्धम् । युगस्य अर्धं युगार्धम् । युगं तु अभिहितमेव । तस्य अर्धसङ्ख्याप्रमाणमुत्सर्पिणी वियदम्बराकाशशून्यरसेन्दुयमाः [२१६००००] । पश्चातपसर्पिणी युगार्धं च । पश्चातिति अनेन उस्तर्पिणीकालानन्तरमपसर्पिणीकालं दर्शयति । यस्मात्पूर्वप्रवृत्तस्य पश्चातिति व्यपदेशः भवति । यस्मिन् प्राणिनाम् आयुर्यशोवीर्यसौख्यादीनि अपचीयन्ते स अपसर्पिणीसंज्ञकः कालः । तस्य च प्रमाणं युगस्य पश्चार्धं वियदम्बराकाशशून्यरसेन्दुयमाः [२१६००००] । एवं च - मध्ये युगस्य सुषमादौ अन्ते दुष्षमेनूच्चात् । तस्य पूर्वार्धस्य मध्ये सुषमा दुष्षमा च । आदौ अन्ते च । आदौ सुषमा अन्ते दुष्षमा । सुषमादुष्षमाप्रमाणं युगचतुर्भागः । कथम्? मध्ये इति वचनात् । युगार्धस्य अर्धं युगचतुर्भागः इति । प्रतिग्रहं युगभेदाताह - "इन्दूच्चात्" । इन्दूच्चात्निष्पन्नात्युगातेते उत्सर्पिण्यपसर्पिणीसुषमादुष्षमाकालाः अवगन्तव्याः इति । अथ किमुच्यते इन्दूच्चातिति ? ननु च ग्रहसामान्यम् युगमिति अभिहितम् । सत्यम् । एवमेतत् । प्रतिग्रहमपवर्तनविशेषात्युगभेदः । तत्यथा - रवेः मण्डलानि षण्मुनिशराः [५७६], दिवसप्रमाणेन युगमपि नववसुरामशून्येन्दुयमाः [२१०३८९] । चन्द्रस्य दिवसप्रमाणेन युगं शरयमाङ्गविषयेषुरूपदस्राः [२१५५६२५] । एवमन्येषामपि । अथ युगस्य किं लक्षणम्? उच्यते - चैत्रशुक्लप्रतिपदि अर्धोदिते सवितरि लङ्कायां मीनमेषसन्धौ प्रवृत्तः ग्रहः पुनर्मीनमेषसन्धौ चैत्रशुक्लप्रतिपदि सवितुः अर्धोदये लङ्कायां यावता कालेन प्राप्नोति तावत्कालः युगमिति । उक्तं च - चैत्रसितादौ सूर्ये विषुवति अर्धोदिते प्रवृत्तस्य । मेषादेः मीनान्तं तथाविधस्य एव संप्राप्तिः ॥ इति । भिन्नाग्रेषु युगेषु एकाग्रीकरणं कुट्टाकारेण अभिहितम् - "कश्चित्द्वाभ्यामेकाग्रः त्रिभिः द्व्यग्रः" इति आदि । अथवा इन्दूच्चात्निमित्तातुत्सर्पिण्यपसर्पिणीसुषमादुष्षमाणां गतगन्तव्यं विज्ञेयमिति । कथं पुनर्गतगन्तव्यपरिज्ञानस्य इन्दूच्चनिमित्तत्वं प्रतिपद्यते इति ? उच्यते - कुट्टाकारगणितेन, यस्मातिन्दूच्चयाताग्रस्य इन्दूच्चभगणाः युगवर्षाणि युगदिवसाः [वा] भाज्यभागहारतां प्रतिपद्यन्ते । तत्यथा अस्मिन् वस्तुभिः वा परिकल्पितः उद्देशकः - निशीथिनीनामधिपस्य तुङ्गजं गतं तु राशित्रितयं यदा भवेत् । तदा कियत्यातमथ आशु गण्यतां युगस्य वर्षाग्रदिनाग्रतां च मे ॥ १ ॥ लब्धं वर्षाग्रं वियदम्बराकाशशून्यकृतयमाग्नयः [३२४००००], दिनाग्रं च शररविवसुवह्निवेदरामवसुरुद्राः [११८३४३८१२५] । अथवा अयमपरः प्रकारः - उत्सर्पिणी युगार्धम् । उत्सर्पति इति उत्सर्पिणी, उपचीयते इति अर्थः । का सा उत्सर्पिणी? ग्रहभुक्तिः इति अध्याहार्यम् । सा पुनर्कियन्तं कालमुत्सर्पिणी इति आह - युगार्धम् । युज्यन्ते अस्मिन् ग्रहाः इति युगम् । तत्च नक्षत्रचक्रमेव परिगृह्यते, यस्मातेकस्मिन्मण्डले ग्रहस्य ग्रहैः सह योगः सम्भवति । तस्य युगस्य अर्धं युगार्धम्, षड्राशयः । पश्चातपसर्पिणी युगार्धं च । पश्चात्पुनरपि अपसर्पिणी युगार्धम् एव । राशिषट्कमिति अर्थः । मध्ये युगस्य सुषमा, तस्य युगस्य मध्ये अन्तरे इति अर्थः । सुषमा आदितः अन्ततः च गण्यमाने सुषमा, एकस्य पदस्य आदितः अपरस्य अन्ततः इति अर्थः । [आदौ अन्ते च] दुष्षमा दृष्टा । अन्यप्रकारेण इति वाक्यशेषः । कथमेताः पुनरुत्सर्पिण्यपसर्पिणीसुषमादुष्षमाग्रहभुक्तयः विज्ञायन्ते इति अत्र आह - इन्दूच्चात्, चन्द्रकेन्द्रातिति अर्थः । तत्यथा - इन्दोः केन्द्रस्य यदा राशित्रयं द्वौ भागौ अष्टाविंशतिः च कलाः, तदा प्रभृति मध्यमभुक्तिः उपचीयते, यावत्केन्द्रं राशिषट्कं संजातमिति । ततः तस्मात्राशिषट्कात्केन्द्रातुपचितानां भुक्तीनामुत्क्रमेण अपचयः, यावत्केन्द्रस्य अष्टौ राशयः सप्तविंशतिः भागाः द्वात्रिंशत्लिप्ताः च संजाताः । एताः एव उत्क्रमेण द्वितीयपदान्तात्प्रविगण्यमानाः तुल्याः इति आदौ अन्ते च सुषमा । अथवा आदौ अन्ते च, द्वितीयपदनिर्दिष्टकेन्द्रात्प्रभृति क्रमेण याः भुक्तयः याः च तृतीयपदनिर्दिष्टकेन्द्रातुत्क्रमेण भुक्तयः ताः तुल्याः, एवं चतुर्थप्रथमपदयोः अपि, इति आदौ अन्ते च सुषमा । अन्यथा दुष्षमा । अत्र इन्दुकेन्द्रमुद्दिश्य आचार्येण उत्सर्पिण्यपसर्पिणीसुषमादुष्षमाः प्रदर्शिताः । एतत्विधानमन्येषामपि ग्रहाणां प्रतिपत्तव्यम् । तत्यथा - सूर्यस्य यदा केन्द्रं राशित्रयं सचतुष्पञ्चाशल्लिप्तम्, तदा सूर्यस्य व्यासार्धतुल्यः कर्णः, भुक्तिः च मध्यमा । यदा च अष्टौ राशयः एकोनत्रिंशद्भागाः लिप्ताः च षट्गताः [तदा अपि] व्यासार्धतुल्यः [कर्णः] , मध्यमा भुक्तिः च । कुजा[दीनामपि] व्यासार्धतुल्यं भूताराग्रहविवरम् भवति । तथा "[कक्ष्याप्रतिमण्डलगाः] [कालक्रिया¡, १७] इति अस्यां कारिकायां वक्ष्यते ॥ ९ ॥ [आर्यभटजन्मकालः ] आचार्यार्यभटः स्वजन्मकालज्ञानार्थमाह - षष्ट्यब्दानां षष्टिः यदा व्यतीताः त्रयः च युगपादाः । त्र्यधिका विंशतिः अब्दाः तदा इह मम जन्मनः अतीताः ॥ १० ॥ षष्ट्यब्दानां षष्टिः । षष्टिः अब्दाः षष्टिगुणाः इति अर्थः । यदा व्यतीताः । यदा यस्मिन् काले, व्यतीताः व्यतिक्रान्ताः । त्रयः च युगपादाः । युगस्य पादाः युगपादाः, ते च यदा त्रिसङ्ख्याः व्यतीताः । त्र्यधिकाः विंशतिः अब्दाः । त्रिभिः अधिकाः त्र्यधिकाः विंशतिः अब्दाः । तदा । तस्मिन् काले । मम जन्मनः अतीताः । एततेव आचार्यार्यभटः शास्त्रव्याख्यानसमये वा पाण्डुरङ्गस्वामि-लाटदेव-निशङ्कु-प्रभृतिभ्यः प्रोवाच । अथ अत्र इदं प्रष्टव्यम् - अस्य व्याख्यानं किमुपकरोति इति? उच्यते - अनेन अतीतेन कालेन परिज्ञातेन सुखमादित्यादीनां कालः अतीतः अनागतः वा पठ्यते । अथ च सम्प्रदायाविच्छेदात्व्यतीतः कालः विज्ञायते । न एततस्ति । अनभिधाने बहु अत्र स्मरणीयम् । त्रयाणां युगपादानां वर्षसङ्ख्या शून्याम्बराकाशवियद्वेदयमाग्नयः [३२४००००] । गतं च कलियुगस्य । एकस्य अभिधाने एतावतः तावत्सम्प्रदायाविच्छेदातरः न कर्तव्यः । किन्तु आचार्यजन्मकालावधेः यः उत्तरः कालः अस्य एव सम्प्रदायाविच्छेदः अधिगन्तव्यः । अन्यत्च "षष्ट्यब्दानां षष्टिः" इति अस्य अभिधाने प्रयोजनमभिधास्यते । अयमस्य अभिप्रायः - कृतयुगादेः अहर्गणः साध्यः । अन्यथा क्षेपः शश्युच्चपातयोः जायते इति । कृतयुगादेः पुनरहर्गणे क्रियमाणे शश्युच्चपातयोः न एव क्षेपः । "बुधाह्न्यजार्कोदयात्च लङ्कायाम्" [गीतिका¡, ४] इति बुधादिः अहर्गणः दिवसवारः । इदानीं तु लघुगणितव्यवहारार्थं कलियुगाहर्गणः क्रियते । शुक्रादिदिवसवारः । चन्द्रोच्चस्य राशित्रयम्, राशिषट्कम् च राहोः क्षेपः, तमसः च मण्डलात्विलोमत्वात्विशोध्यते । अथवा करणागतमेव तमः यथा इष्टस्फुटचन्द्रमसि प्रक्षिप्य दक्षिणोत्तरदिग्विधेः विक्षेपानयनमिति । अथ अहर्गणे दृष्टे ग्रहगत्यानयनम् - यदि युगाहर्गणेन ग्रहाणां गीतिकाभिहितभगणाः लभ्यन्ते अनेन अहर्गणेन कियन्तः इति, लब्धं समतिक्रान्ताः भगणाः । शेषे द्वादशादिगुणिते राश्यादिमध्यमग्रहसिद्धिः । अथ अत्र रोमकाः प्रत्यब्दशोधनेन आदित्यमानयन्ति । तेन च आदित्येन सर्वानेव ग्रहानिति । एततत्र अपि प्रदर्श्यम् । तत्यथा - प्रत्यब्दशोधनं हि नाम चैत्रशुक्लप्रतिपदि अर्धोदयातारभ्य यावतादित्यौदयिकस्य मण्डलगन्तव्यस्य भोगकालः । स युगान्ते युगरविभगणैः प्रमाणेच्छाभूतैः दिवससङ्ख्याः एव भवन्ति । यथा इष्टरविभगणैः त्रैराशिकं क्रियते, तत्यथा - "यदि युगरविभगणैः भूदिवससङ्ख्यः अहर्गणः लभ्यते इष्टरविभगणैः कियानिति अहर्गणः लभ्यते, शेषे षष्ट्यादिगुणिते घटिकादयः इति रविभगणसमाप्तिकालावधेः अहर्गणः लभ्यते । तस्मात्चैत्रशुक्लावधिनिष्पन्नवर्षान्तिकः अहर्गणः शोध्यते, चैत्रशुक्लादेः उपरिष्टात्रविभगणसमाप्तिकालावधयः भविष्यन्ति । अथवा वर्षान्तिकेन अहर्गणेन त्रैराशिकम् - यदि चतुर्युगाहर्गणेन खुघृ-तुल्याः सूर्यभगणाः लभ्यन्ते, अनेन कलियाताहर्गणेन कियन्तः इति लब्धं भगणाः । शेषात्गतगन्तव्यं कृत्वा गतगन्तव्यराशेः युगसूर्यभगणैः भागलब्धं दिवसाः । शेषे षष्ट्यादिगुणिते घटिकादयः । चैत्रशुक्लादेः उपरिष्टातधः वा रविभगणसमाप्तिकालावधयः दिवसादयः भवन्ति । एततेव प्रत्यब्दशोधनमस्माभिः कर्मनिबन्धे लघुतरम् प्रतिपादितम् । तत्यथा - रुद्रैः सहस्रहतषट्छकलैः च हत्वा वर्षाणि रन्ध्रवसुवह्निसमानसङ्ख्यैः । युक्त्वा सदा प्रविगणय्य खरामभक्ते मासाः भवन्ति दिवसाः च हृते अवशिष्टाः ॥ संहत्य रन्ध्रयमलैः सररामभागः भूयः अग्निवेदगुणितेषु हरेत्च भागम् । खव्योमखद्विमुनिभिः प्रलयाः तिथीनाम् संयोज्य भूतयमरुद्रहृते दिनानि ॥ वर्षेषु रन्ध्रकृतचन्द्रसमाहतेषु षट्सप्तपञ्चविहृतेषु दिनादिलाभः । ते योजिताः दशहतासु समासु संज्ञाम् सम्प्राप्नुवन्ति रविजाः इति निश्चयः मे ॥ रविजदिवसयोज्याः च अवमाः ये अत्र लब्धाः सततमधिकमासान् शोधयेत्खाग्निनिघ्नान् । भवति यतवशिष्टं शोधनीयं समायाम् यदि ततधिकशुद्धं क्षेप्यमेव उपदिष्टम् ॥ इति । [महाभास्करीयम्, १.२२-२३, २७-२८] एवं प्रत्यब्दशोधनमानीय ततः अर्कः साध्यते । कथम्? एततपि तत्र उक्तमेव - मधुसितदिवसाद्यः हीनहीनः गणः अह्नाम् दिविचरहृतशिष्टः वारमाहाब्दपादिम् । ततः इदमपि शोध्यं शोधनीयं समायाम् पतितसमतिरिक्तः गृह्यते न अपरः अत्र ॥ सप्तत्या दिवसाद्याः शरभागाः द्विगुणिताः विघटिकाः च । तद्रहितः ग्रहदेहः रविबुधभृगवः च निर्दिष्टाः ॥ इति । [महाभास्करीयम्, १.३०-३१] एवं सूर्यः सिद्धः । [तस्मात्भगणेषु] द्वादशगुणितेषु सूर्यभुक्तराशयः प्रक्षिप्यन्ते । ततः त्रिंशद्गुणितेषु भागाः इति । एवं सूर्याहर्गणः सिद्धः । सूर्याहर्गण[तुल्य]मंशमादित्यः भुङ्क्ते । अथ सर्वेषां ग्रहाणां सूर्यदिवसभोगानयनम् । युगरव्यब्दाः षष्टिशतत्रयगुणिताः युगरविदिवसाः । यदि एतैः अभीष्टग्रहभगणाः लभ्यन्ते, तदा एकेन रविदिवसेन कियन्तः इति त्रैराशिकन्यायेन [लब्धं भगणात्मिका ग्रहगतिः] । राशिभागलिप्तानयने द्वादश-त्रिंशत्-षष्टिः च गुणकाराः । तेषां संवर्गः खखषड्घनः । अतः खखषड्घनस्य खखषड्घनभागे एकम्, युगरविदिवसानां खखषड्घनभागेन द्वासप्ततिः सहस्राणि, इति अतः द्वासप्ततिसहस्रैः प्रतिस्वस्वग्रहभगणानां भागः, लभ्यन्ते ग्रहाणां सूर्यदिवसभुक्तयः अतः च यथालब्धाः लिख्यन्ते - चन्द्रमसः लिप्ताः द्वाविंशतिः लिप्तात्रिसहस्रभागाः नववसुरामाः, भौमस्य लिप्ताः एकत्रिंशत्लिप्तात्रिसहस्रभागाः रूपखमुनिपक्षाः, बृहस्पतेः लिप्ताः पञ्च लिप्तापञ्चसप्तत्युत्तरत्रिंशतभागाः द्वाविंशतिः, शनैः चरस्य लिप्ताद्वयं लिप्ताष्टादशसहस्रभागाः शशिकृतरसाः, बुधोच्चस्य लिप्ताः नव लिप्ताषट्त्रिंशच्छतभागाः शशीषुवेदाः, भृगोः लिप्ताः सप्तत्रिंशत्लिप्ताषाट्सहस्रभागाः नवनवेन्दुरामाः । एवं यथाविलिखितसूर्यदिवसग्रहभुक्तिभिः सूर्याहर्गणं गुणयेत्, सूर्यभुक्तलिप्ताभिः च त्रैराशिकेन यतवाप्तं फलं प्रक्षिप्य खखषड्घनेन विभजेत्, शेषं ग्रहभुक्तलिप्ताः । इयान् तत्र विशेषः चन्द्रमसि त्रयोदशगुणः सूर्यः क्षेपः, बुधोच्चे चतुर्गुणः, शुक्रोच्चे रूपगुणितः इति । एततपि अशेषग्रहानयनं कर्म लघुतरमेव कर्मनिबन्धे प्रदर्शितम् तत्र एव अवगन्तव्यमिति ॥ १० ॥ [ युगादिकालानन्त्यनिर्देशः ] कालप्रवृत्यानन्त्यप्रतिपादनाय आह - युगवर्षमासदिवसाः समं प्रवृत्ताः तु चैत्रशुक्लादेः । कालः अयमनाद्यन्तः ग्रहभैः अनुमीयते क्षेत्रे ॥ ११ ॥ युगं च वर्षं च मासः च दिवसः च युगवर्षमासदिवसाः, एते समं प्रवृत्ताः युगपत्प्रवृत्ताः इति अर्थः । कस्मातिति आह - चैत्रशुक्लादेः । चैत्रः मासः, तस्य [यः] शुक्लः पक्षः, तस्य शुक्ल[पक्ष]स्य यः आदिः, [स] अर्धोदयः इति अर्थः, तस्मात्चैत्रशुक्लादेः युगादयः ये ते युगपत्प्रवृत्ताः । ननु च युगे चैत्रशुक्लादेः प्रवृत्ते सर्वे एव समं प्रवृत्ताः स्युः । तस्मात्युगं चैत्रशुक्लादेः प्रवृत्तमिति एततेव अस्तु । न इति आह - शास्त्रान्तरे वर्षादीनामन्यस्मात्प्रवृत्तिः अभिहिता - प्रथमे वासवस्य अंशे द्वितीयांशे तु अजस्य तु । रेवतीनां तृतीयांशे चतुर्थांशे यमस्य च ॥ सौम्यस्य प्रथमांशे च द्वितीयांशे पुनर्वसोः । सार्पस्य अंशे तृतीये तु चतुर्थांशे भगस्य च ॥ त्वाष्ट्रस्य आद्यांशके च एव द्वितीयांशे विशाखयोः । ऐन्द्रस्य अंशे तृतीये च आप्यस्य अंशे चतुर्थके ॥ यदा समानामधिपः बृहस्पतिः अतः उत्थितः । उदयति अंशकान्ते वा प्रथमः पर्ययः भवेत् ॥ इति। एवं वर्षाणां प्रवृत्तिः अतिदूरभिन्ना । तस्यां च वर्षप्रवृत्तौ भिन्नायां मासदिवसप्रवृत्ती अपि भिन्ने एव भवतः । अथवा एवं स्यात्- इयं वर्षाणां प्रवृत्तिः नानाप्रकारा फलार्थिभिः संहिताकारैः उपदिष्टा । न एषा प्रसिद्धा लोके, न परतन्त्रेषु । तस्मात्या परतन्त्रेषु लोके च प्रसिद्धा प्रवृत्तिः तस्याः ग्रहणं भविष्यति इति । एततपि न । तत्यथा - सुराष्ट्रासु कार्तिकशुक्लप्रतिपदः प्रवृत्तिः वर्षमासदिवसानाम्, आश्वयुजः [कृष्ण]पञ्चदश्याम् निवृत्तिः । तथा च मगधासु आषाढे कृष्णप्रतिपदः समामासदिवसानां प्रवृत्तिः, आषाढसितपञ्चदश्यां निवृत्तिः । तथा च अर्थशास्त्रे अपि अभिहितम् - "त्रिशतं सचतुष्पञ्चाशतमहोरात्राणां कर्म सांवत्सरः, तमाषाढीपर्यवसानमूनं पूर्णं वा दद्यात्" इति । सिंहराजेन सहस्राक्षरे निबद्धम् - रव्युदये लङ्कायामाषाढीपौर्णमास्यां तु सोमदिने । कृतकृतवर्षैः यातैः शकेन्द्रकालात्युगस्य आदिः ॥ इति । युगादीनां चैत्रशुक्लादेः प्रवृत्त्यभिधानं सिद्धमेव एतत् । इदानां प्रष्टव्यम् - सिंहराजेन न शुक्लान्तः मासः स्वतन्त्रे प्रतिपादितः, तथा च लोके शुक्लान्तः एव प्रसिद्धः, होरायामपि - चन्द्रयुतात्नवभागात्मासः शुक्लान्तनामसमः । इति । अत्र उच्यते - यत्तु सिंहराजेन अभिहितं तत्स्वाभिप्रायेण अधिकमासकावमानां युगपत्प्रवृत्तत्वाताषाढपौर्णमासी [तः आरभ्य चतुर्दशी] पर्यन्तावसानं संवत्सरः इति परिकल्पितः । यदि अपि उच्यते "शुक्लान्तः मासः लोके प्रसिद्धः" इति, तत्न । ननु सर्वेषु एव देशेषु मासाः । सन्ति च देशाः कृष्णान्तमासव्यवहाराः सुराष्ट्रप्रभृतयः । यतपि उच्यते - चन्द्रयुतात्नवभागात्मासः शुक्लान्तनामसमः । इति, अस्य अपि अन्यः एव अर्थः । चन्द्रयुतात्नवभागात्प्रष्टुः मासः वाच्यः । [स शुक्लान्तेन] नाम्ना सदृशः । शुक्लान्ते [न] हि मासस्य नामपरिज्ञानम् । कृत्तिकासु युक्तः चन्द्रमा अस्मिन् सति कार्तिकः मासः इति आदि । अन्यत्च - शुक्लान्तेन मासेन न कदाचितपि मीनमेषसन्धौ मासस्य वर्षस्य वा अन्ते ग्रहाः स्युः । अत्र आह यवनेश्वरः - मासे तु शुक्लप्रतिपत्प्रवृत्ते पूर्वे शशी मन्दबलः दशाहे । इति शुक्लादिः मासः । यदा पुनर्शुक्लादिः मासः तदा पुनर्श्रुत्यर्थः अनुष्ठितः भवति । एवं हि श्रुतौ पठ्यते - एषा हि वै संवत्सरस्य प्रथमा रात्रिः यत्फाल्गुनी पौर्णमासी या उत्तरा । इति । [यदि] कृष्ण[प्रतिपद्]आदिः मासः स्यात्, तदा कथमियमुत्तरा पौर्णमासी फाल्गुनी भवति, यतुत तत्चैत्रमासः स्यात्? कुतः? फाल्गुन्यां पौर्णमास्यां फाल्गुनः मासः पूर्णः, तदा उत्तरा पौर्णमासी चैत्र[मासस्य], प्रतिपत्कृष्णादित्वात्मासस्य । ततः मन्यामहे न अद्य अपि फाल्गुनः मासः समाप्यते इति । यस्माताह - फाल्गुनी पौर्णमासी या उत्तरा । इति । अन्यत्च - [ या असौ] वैशाखस्य अमावास्या तस्यामग्निमादधीत, सा रोहिण्या सम्पद्यते । [शतपथ-ब्राह्मणम्, ११.१.१.७] इति । यदि शुक्लान्तः मासः परिकल्प्यते तदा न वैशाखस्य अमावास्यायां रोहिण्या चन्द्रमसः योगः विद्यते । यस्मात्चैत्रपौर्णमास्यां चित्रायां सोमः युज्यते, तस्यां चैत्र्यां व्यतीतायां वैशाखप्रतिपत् । ततः च स्वात्यादिषु नक्षत्रेषु प्रतिपत्[प्रभृति] गण्यमाना अमावास्या भरण्या युज्यते, न रोहिण्या । अथ चन्द्रगतिविशेषातिति [चेत्, न] । नक्षत्रार्धस्य सकलस्य वा ह्रासवृद्धी भवतः, न नक्षत्रद्वयस्य । शुक्लादौ पुनर्मासे वैशाखपौर्णमास्याम् व्यतीतायां वैशाखस्य एव अमावास्या भविष्यति । ततः कृष्णपक्षप्रतिपत्प्रभृत्यनुराधादिषु गण्यमानासु रोहिण्या अमावास्यायाः च योगः संभवति । अन्यत्च - सः अपरपक्षे अप ओषधीः प्रविशति । इति । शतपथ [११.१.५.३] एवं पठ्यते । तत्र अपरपक्षः कृष्णः, [न] शुक्लः । अन्यत्च स्मार्तवचनम् - अपरपक्षे श्राद्धं कुर्वीत ऊर्ध्वं वा चतुर्थ्याः । इति अत्र कृष्णादि[मासत्वात्] पूर्वपक्षः कृष्णः, अपरः शुक्लः । अपरत्वात्शुक्लपक्षस्य शुक्लपक्षे एव श्राद्धविधिः प्राप्नोति न कृष्णे, इष्यते च शुक्ले [तरे], तस्मात्शुक्लादिः मासः इति । ततः "युगवर्षमासदिवसाः समं प्रवृत्ताः तु चैत्रशुक्लादेः" इति । अत्र उत्प्रेक्षितपूर्वपक्षः द्रष्टव्यः । युगादीनां चैत्र[शुक्लादितः प्रवृत्ति]त्वात्कालस्य आदिमत्ताप्रसङ्गः इति आह - कालः अयमनाद्यन्तः । अयं कालः अस्माभिः युगादिः अभिहितः, चैत्रशुक्लादेः प्रवृत्तः इति । न अस्य अन्तः न अस्य आदिः । व्यवहारार्थमादिः अन्तः च परिकल्पितः । यदि कालस्य आदिः स्यात्ततः किं स्यात्? आह - संसारस्य आदिमत्ता प्राप्नोति, इष्यते च अनादिः संसारः इति । तस्मात्युक्तम् "कालः अयमनाद्यन्तः" इति । कथं पुनरस्य आदिः व्यवहारार्थं परिकल्पितः इति आह - ग्रहभैः अनुमीयते क्षेत्रे । ग्रहाः च भानि च ग्रहभानि । तैः ग्रहभैः अनुमीयते आदिः अन्तः च । "माङ्माने" [पाणिनीयधातुपाठः ११४३] इति अयं धातुः धूमातग्न्यनुमानमिति अत्र माने वर्तते । अत्र पुनर्ग्रहभैः अनुमीयते इति मानार्थः एव । व्रीह्यादिराशयः प्रस्थादिभिः अनुमीयन्ते, कुङ्कुमादयः वा पलादिभिः, एवं ग्रहभैः इति । यदा सर्वे एव ग्रहाः युगपत् मीनमेषसन्धौ क्षितिसंयुक्ताः तदा युगस्य आदिः इति । कः भुवः ग्रहस्य च योगः, द्वयोः अत्यन्तविप्रकृष्टयोः? न एषः दोषः । मुख्यस्य योगस्य असंभवात्गौणः योगः परिगृह्यते । यत्र भूलग्नः इव ग्रहः लक्ष्यते स भूग्रहयोः योगः । स च उदयास्तमययोः संभवति इति उदयास्तमययोः वा परिगृह्यते । अन्ये पुनरन्यथा व्यावर्णयन्ति - ग्रहभैः अनुमीयते इति । ग्रहैः च नक्षत्रैः च कालस्य आदिः अन्तः च परिकल्प्यते । तत्यथा - उदेति यस्मिन्नक्षत्रे प्रवासोपगतः अङ्गिराः । तस्मात्संवत्सरः मासात्बार्हस्पत्यः प्रगण्यताम् ॥ इति । बृहस्पतिचारवशात्कालस्य आदिः परिकल्पितः । लोके च एवं वक्तारः भवन्ति - "स्वातौ उदिते प्रस्थास्यामहे उदयः " इति, "शुक्रे अस्तं गते प्रस्थितः" इति, "अद्य कृत्तिकासु मध्यस्थितासु दारुकः [गतः]" इति आदि । क्षेत्रे । क्षेत्रं भगोलः, तस्मिन् भगोले, नक्षत्रग्रहचारवशातादिः अन्तः च परिकल्पितः ॥ ११ ॥ [ ग्रहाणां समगतित्वम् ] ग्रहाणां समगतिप्रतिपादनाय आह - षष्ट्या सूर्याब्दानां प्रपूरयन्ति ग्रहाः भपरिणाहम् । दिव्येन नभःपरिधिं समं भ्रमन्तः स्वकक्ष्यासु ॥ १२ ॥ षष्ट्या सूर्याब्दानामादित्यवर्षाणां षष्ट्या ग्रहाः नक्षत्रकक्ष्यां प्रपूरयन्ति, नक्षत्रकक्ष्यातुल्यानि योजनानि स्वासु स्वासु कक्ष्यासु गच्छन्ति इति अर्थः । [कियद्योजनानि] पुनर्नक्षत्रकक्ष्यायां ग्रहाः सूर्याब्दानां षष्ट्या पूरयन्ति? उच्यते - वसुवियदम्बराकाशरसयमत्रिशैलचन्द्राः [१७३२६०००८] । न एततस्माभिः नक्षत्रकक्ष्याप्रमाणं दृष्टम् । किं तर्हि? का एषा प्रतिपादिता इति? उच्यते - "भवांशे अर्कः" [गीतिका¡, ६] इति । अत्र कथम् पुनरेतेन एव नक्षत्रकक्ष्यातुल्यानि योजनानि गच्छन्ति इति उच्यते? यदि ख्युघृ-तुल्यैः अर्कवर्षैः स्वान्-स्वान् भगणान् ग्रहाः भुञ्जन्ते [तदा] षष्ट्या सूर्याब्दैः कियन्तः इति । षष्टिभागेन अपि षष्ट्या एकः, पुनर्षष्टिभागेन एते[षाम्] ख्युघृ-तुल्यानामर्कवर्षाणां द्वासप्ततिसहस्राणि । एवं यथाभागेन अविनष्टराशयः स्थाप्याः । ततः पुनरपि - यदि एकेन भगणेन प्रतिस्वकक्ष्या लभ्यते [तदा] षष्ट्यब्दभोगेन का इति सर्वग्रहेभ्यः नक्षत्रकक्ष्या लभ्यते । दिव्येन नभःपरिधिम् । दिवि भवं दिव्यम्, युगमिति अर्थः । कथं पुनर्दिव्यशब्देन युगमभिधीयते? यस्मात्दिवि सञ्चरतां ग्रहाणामेकत्र योगः भवति, अतः [दिव्यं युगमुक्तं तेन] दिव्येन नभःपरिधिम् । नभसः परिधिः नभःपरिधिः, आकाशकक्ष्या इति अर्थः । कथमिदमुच्यते? ननु च वियतपरिमितयोजनप्रमाणमिति श्रूयते । तस्य परिमितयोजनप्रमाणं कथं कक्ष्या भवेत्? उच्यते - वियतस्माकं यावत् दिवसकरमरीचिनिधानमवभासयति तावत्वियतिति । अतः परमाकाशमप्रमेयमिति । अत्र खकक्ष्याभिधानेन एतत्प्रतिपादयति, इयत्प्रमाणं वियदर्कमरीचयः प्राप्नुवन्ति इति । समं भ्रमन्तः । तुल्यया [गत्या] भ्रमन्तः इति अर्थः । यावन्ति योजनानि स्वकक्ष्यायां शशी संचरति तावन्ति एव योजनानि आर्किः अपि स्वकक्ष्यायां सञ्चरति । तत्यथा - यदि एकेन भगणेन स्वकक्ष्या लभ्यते [तदा] युगभगणैः किमिति खकक्ष्या लभ्यते । अथवा - षष्ट्यब्दभोगेन नक्षत्रकक्ष्या लभ्यते स्वैः युगभगणैः किमिति खकक्ष्या लभ्यते । एवं योजनगतेन ग्रहाः तुल्यगतयः । कक्ष्यातः ग्रहाणां मध्यमानयनम् - यदि [युग]भूदिनैः सर्वे एव स्वासु कक्ष्यासु समगत्या भ्रमन्तः [ख]कक्ष्यातुल्यानि योजनानि प्रयान्ति, एकेन अह्ना कियन्ति इति सर्वग्रहाणां योजनगता दिनभुक्तिः लभ्यते इति, खकक्ष्यायां भूदिनैः भागे हृते योजनगता ग्रहाणां दिनभुक्तिः लभ्यते । तया त्रैराशिकं भङ्क्त्वा मध्यमग्रहाः आनीयन्ते - यदि स्वकक्ष्यायोजनैः भगणः लभ्यते तदा गतियोजनैः किमिति आह्निकी भुक्तिः लभ्यते, ततः पुनरपि - यदि एकेन अह्ना भुक्तिः लभ्यते अहर्गणेन किमिति । अत्र एकः पूर्वत्रैराशिके गुणकारः, [अपरे भागहारः ।] अतः गुणकारभागहारयोः तुल्यत्वात्नष्टयोः अहर्गणस्य दिन[गति]योजनानि गुणकारः स्थितः, [स्वकक्ष्यायोजनानि भागहारः, लब्धिः] भगणादयः । [उक्तं च] - अम्बरकक्ष्या भूदिनहृता फलं तत्र योजनानि तेषु । गताहसंगुणितेषु स्वग्रहकक्ष्याप्तभगणाद्यम् ॥ इति । अ[थवा खकक्ष्या]हर्गणसंवर्गे स्वकक्ष्याभूदिनसंवर्गहृते भगणादयः भवन्ति ॥ १२ ॥ [ग्रहाणां समगतित्वेन कक्ष्याव्यवस्था ] समगत्या प्रवृत्तग्रहकक्ष्याव्यवस्थाप्रदर्शनार्थमाह - मण्डलमल्पमधस्तात्कालेन अल्पेन पूरयति चन्द्रः । उपरिष्टात्सर्वेषां महत्च महता शनैः चारी ॥ १३ ॥ मण्डलमल्पमधस्तात् । सर्वेषामधः व्यवस्थितं मण्डलमल्पमल्पे[न कालेन पूरय]ति चन्द्रमाः । अधस्तातिति अनेन एव मण्डलस्य अल्पत्वसिद्धिः, अल्पमिति एतत्न वक्तव्यम् । कथमधस्तातिति एतावति उच्यमाने मण्डलस्य अल्पत्वं गम्यते? उच्यते - उपरि उपरि कक्ष्याः व्यवस्थिताः । तासामुपरि उपरि व्यवस्थितानामधः या व्यवस्थिता सा सर्वतनीयसी । तस्मातधस्तात्[इन्दुः] स्यात् । न एततस्ति । "भानामधः शनैः चर" [कालक्रिया¡, १५] इति अत्र कक्ष्याणामुपरि उपरि व्यवस्थितिं वक्ष्यति । ननु च अन्ये ब्रुवते - सर्वेषामुपरि चन्द्रमसः कक्ष्या इति । [ततयुक्तम् ।] सर्वेषां ग्रहाणामधः चन्द्रकक्ष्या इति आह । यदि उपरि स्यात्तदा चन्द्रस्य ग्रहनक्षत्रभेदे स्फुटकलङ्कहरिणे ग्रहनक्षत्र[ताराः दृश्येरन्] । सूर्यवशात्यदि उपरि चन्द्रः स्यात्तदा सूर्येण आरात्व्यवस्थितेन सदा चन्द्रमसोः अपि स्वस्य आरात्भागमखण्डं दृश्येत, उपरिस्थितः [न उपलक्ष्यते] । तस्मात्सर्वेषाम् अधः चन्द्रमाः । अन्ये पुनर्सुगत[मता]वलम्बिनः सूर्याचन्द्रमसोः एकां कक्ष्यामाचक्षते - अर्धेन मेरोः चन्द्रार्कौ पञ्चाशत्सैक[योजनौ] । अर्धरात्रः अस्तगमनं मध्याह्नः उदयः सकृत् ॥ इति ॥ न एवं युज्यते । यदि पञ्चाशत्योजनानि चन्द्रः, एकपञ्चाशत्[योजनानि] सूर्यः तदा किमिति सूर्यः [न] महानुपलभ्यते, तुल्यौ एतौ [अर्धो]दितौ अर्धास्तमितौ पौर्णमास्यां लक्ष्येते? अथ विदूरत्वातर्कः न महानुपलक्ष्यते इति चेत्न । तर्हि मन्दरार्धे सूर्याचन्द्रमसोः दूरीभूतः अर्कः । अन्यत्च तुल्यकक्ष्याव्यवस्थितत्वात्सूर्याचन्द्रमसोः सूर्यग्रहणं न एव स्यात् । न च चन्द्रमसं मुक्त्वा अन्यः राहुः अस्ति येन सविता छाद्यते । यदि अपि अधः चन्द्रः स्यात्तथा अपि महत्त्वात्सूर्यबिम्बस्य न एव अर्कः सकलः छाद्यते । न एव अर्कः चन्द्रेण छाद्यते इति चेत्ततपि उत्तरत्र व्याख्यास्यते । कालेन अल्पेन पूरयति चन्द्रः । अल्पेन स्तोकेन कालेन पूरयति । किम्? ततल्पं मण्डलमधः व्यवस्थितम् । उपरिष्टात्सर्वेषां मण्डलानां महत्मण्डलं महता कालेन शनैः चरः पूरयति । एतौ अल्पमहत्कक्ष्यामण्डलपरिमाणौ ग्रहौ उद्दिष्टौ, अन्येषां च [मण्डलानि स्वबुद्ध्या विज्ञेयानि] । तत्यथा - चन्द्रमाः दिवससङ्ख्यया सप्तविंशत्या सार्धैकया मण्डलं गच्छति, बुधशुक्ररवयः किञ्चितूनेन वर्षेण, भौमः किञ्चितूनेन वर्षद्व[येन, गुरुः] तु वर्षैः द्वादशभिः किञ्चितूनैः, शनैश्चरः तु त्रिंशता वर्षैः किञ्चितूनैः इति । एवमेते भिन्नकक्ष्यास्थाः योजनगतेन तुल्यगतयः ग्रहाः व्याख्याताः । अथ यदि तुल्यकक्ष्यास्थाः योजनगतेन तुल्यगतयः एव स्युः तदा एतेषां युगादेः संप्रवृत्तानां न कदाचित्वियोगः स्यात् । अथ [यदि] योजनगतेन एते भिन्नगतयः स्युः तदा एतेषां भुक्तिलिप्तानयने योजनैः यथास्वं प्रसिद्धभुक्तिलिप्ताः न आगच्छेयुः । तस्मात्भिन्नकक्ष्यास्थाः अपि ग्रहाः योजनगतेन तुल्यगतयः एव इति ॥ १३ ॥ [ भिन्नकक्ष्यासु राश्यादीनामल्पमहत्त्वम् ] कक्ष्याणामल्पमहत्त्वात्राशिभागलिप्ताः बह्व्यः अल्पाः इति सन्देहः तन्निवृत्त्यर्थमाह - अल्पे हि मण्डले अल्पाः महति महान्तः च राशयः ज्ञेयाः । अंशाः कलाः तथा एवं विभागतुल्याः स्वकक्ष्यासु ॥ १४ ॥ अल्पे मण्डले अल्पाः राशयः महति मण्डले महान्तः, एवमंशाः कलाः च, केवलं तु विभागेन सदृशाः । तत्यथा - अल्पे महति च मण्डले मण्डलद्वादशभागः राशिः, षष्टिशतत्रयभागः भागः, खखषड्घनभागः लिप्ताः इति, स्वासु स्वासु कक्ष्यासु ज्योतिश्चक्रस्य तुल्यत्वात् ॥ १४ ॥ [ ग्रहकक्ष्यावस्थितिक्रमः ] कक्ष्याणामुपरि अधः अव[स्थिति]क्रमपरिज्ञानाय आह - भानामधः शनैश्चरसुरगुरुभौमार्कशुक्रबुधचन्द्राः । एषामधः च भूमिः मेधीभूता खमध्यस्था ॥ १५ ॥ भानि ज्योतींषि, अश्विन्यादीनि । तेषामधः शनैश्चरः, तस्य अपि अधः बृहस्पतिः, ततः अङ्गारकः इति आदि । एषामधः च भूमिः । एषां नक्षत्रादीनां भूः अधः । मेधीभूता । अत्र "भूत"-शब्दः बहुषु अर्थेषु वर्तमानः इव अर्थे प्रतिपत्तव्यः । मेधी इव स्थिता । खमध्यस्था । खमाकाशं तस्य मध्यं खमध्यम्, तस्मिन् स्थिता खमध्यस्था । एषामधः च भूमिः इति । अत्र उच्यते - यदा दृश्ये चक्रार्धे ग्रहनक्षत्राणि, तदा तेषामधः भूमिः । यदा अतः अन्येषु ग्रहनक्षत्राणि स्मररिपुसुतहिबुकसहजधनेषु वर्तन्ते तदा कथमधः भूः, यतुत उपरि स्यात् । न एवं विज्ञायते । यस्मात्सर्वेषामस्मदादीनां भूः अधः, उपरि च आकाशः, [तस्मात्] सर्वदा ग्रहाः उपरि, भूः अधः । वक्ष्यति च - यद्वत्कदम्बपुष्पग्रन्थः प्रचितः समन्ततः कुसुमैः । तद्वथि सर्वसत्त्वैः जलजैः स्थलजैः च भूगोलः ॥ इति । [गोल¡, ७] [अन्ये तु इमां कल्पनाम्] दूरविप्रतिपन्नाम्, भगणशनैःचरबृहस्पतिकुजरविसितबुधनिशाकरानुपर्युपरिव्यवस्थितान् तुल्य[गतिकान्मन्यन्ते । तत्यथा - या]वतल्पमण्डलं भानि भ्रमन्ति, तावत्महान्ति मण्डलानि शनैश्चरादयः [न] शक्नुवन्ति पूरयितुमिति पृष्ठतः लक्ष्यन्ते, यथाकक्ष्या[मण्डलक्रमेण] इति । अत्र परिहारः प्राक्प्रदर्शितः - यदि उपरि स्यात्तदा चन्द्रस्य ग्रहनक्षत्रभेदे स्फुटकलङ्कहरिणे ग्रहनक्षत्रताराः कृश्येरन् [पृ¡ २१२] इति आदिना ग्रन्थेन । अन्ये मन्यन्ते - तुल्यकक्ष्यास्थाः एव भगणशनैश्चरबृहस्पतिकुजरविसितबुधनिशाकराः । किन्तु यथाक्रमेण शीघ्रगतयः । अतः द्रुतगतिभिः नक्षत्रैः ईषमन्दगतिः ईषत्जीयते, अतिमन्दगतिः तु दूरातिति । ईषन्मन्दगतित्वात्शनैश्चरः इषत्जीयते, अतिमन्दगतित्वात्चन्द्रमाः [दू]रमिति । अत्र अपि यदि प्राङ्मुखाः ग्रहादयः तदा प्राङ्मुखैः द्रुतगतिभिः नक्षत्रैः जीयमानः अश्विन्यां दृष्टः रेवत्यामुपलक्ष्येत, न भरण्याम् । वक्रकाले अपि च, प्रतिलोमगतित्वातश्विन्यां दृष्टः भरण्यामेव उपलक्ष्येत । अथ एते ग्रहादयः अपराभिमुखाः कल्प्यन्ते, तथा अपि वक्रकाले अश्विन्यां दृष्टः प्रतिलोमगतित्वात्भरण्यामुपलक्ष्येत । तुल्यकक्ष्याव्यवस्थितानां च लम्बनविशेषः न स्यात् । अन्यत्च - अन्योन्यबिम्बच्छादनं न स्यात् । ग्रहोपरागः अपि च तुल्यकक्ष्याव्यवस्थितत्वात्न युज्यते । तस्मात्"भानामधः शनैश्चरः" इति आदि सुष्ठु उक्तम् ॥ १५ ॥ [ कालहोरादिनाधिपतिज्ञानम् ] कालहोरादिनाधिपतिज्ञापनाय आह - सप्त एते होरेशाः शनैश्चराद्याः यथाक्रमं शीघ्राः । शीघ्रक्रमात्चतुर्थाः भवन्ति सूर्योदयात्दिनपाः ॥ १६ ॥ एते ग्रहाः शनैश्चरादयः तुल्यगतयः अपि सन्तः यथाक्रमेण शीघ्राः लक्ष्यन्ते, मण्डलानां यथाक्रमेण अल्पत्वात् । ते एव होरेशाः यथाक्रमेण । तत्यथा - शनैश्चरस्य कालहोरायां निवृत्तायां बृहस्पतेः कालहोरा, ततः अङ्गारकस्य, ततः रवेः इति आदि । एवं सूर्योदयात्प्रभृति यावत्सूर्यस्य अर्धास्तमयः इति द्वादश कालहोराः । ततः च अर्धास्तमयातर्धोदयः इति पुनर्द्वादश । एवमहोरात्रे चतुर्विंशतिकालहोराः । कालहोरा हि नाम लग्नराशेः अर्धोदयस्य कालः । सा च दिवसे दिवसे दिवसाधिपातः प्रभृति प्रतिपत्तव्या । उक्तं च स्फुजिध्वजयवनेश्वरेण - आदित्यशुक्रेन्दुजचन्द्रसौरजीवावनेयाः स्युः अहर्निशासु । होरेश्वराः तद्दिवसाधिपादिक्रमेण ताः तत्र चतुर्गुणाः षट् ॥ एवं दिवसाधिपात्सूर्योदयात्गण्यमानातुत्तरदिवसस्य अधिपातेव अर्धोदयात्शीघ्रक्रमात्चतुर्थः, यः शीघ्रक्रमः अभिहितः "भानामधः शनैश्चरः" इति आदि तस्मात्चतुर्थः दिवसाधिपतिः । तत्यथा - शनैश्चरात्चतुर्थः सूर्यः दिवसाधिपतिः, सूर्यात्सोमः चतुर्थः, सोमातङ्गारकः इति आदि । एवमनेन क्रमेण मासाधिपाः अब्दाधिपाः च अवगन्तव्याः । कथम्? [मासस्य वर्षस्य च यः] प्रथमदिवसे अधिपः स मासाधिपः वर्षाधिपः च । सूर्योदयात्दिनपाः । सूर्यस्य उदयः सूर्योदयः । यदि अपि शेषेण उक्तः सूर्योदयशेषेण अर्धोदयः प्रतिपत्तव्यः । कुतः? इदं बिम्बावयवाभिधाने अपि तदवयवप्रमाणस्य मानकालावधारणाशक्यत्वातर्धोदयस्य च व्यक्तलक्षणत्वात्सुपरिच्छेदनया अर्धोदयः आश्रियते । अथवा अनिर्दिष्टेषु वस्तुषु मध्यमप्रतिपत्तेः अर्धोदयातारभ्य पुनरर्धोदयः इति । अत्र केचितर्धास्तमयात्वारप्रवृत्तिं मन्यन्ते । तत्च अयुक्तम् । यस्मातुक्तम् - आसीतिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥ [मनुस्मृतिः, १.५] अत्र जनपदज्योतिश्चक्राभावात्न वारादिव्यवहारः सञ्जातः । यदा प्रोत्पन्नः सहस्रकिरणः तदा प्रभृति वारादिव्यवहारः सञ्जातः इति । अतः सुष्ठु उक्तं सूर्योदयात्दिनपाः इति ॥ १६ ॥ [ प्रतिमण्डलविधिना ग्रहगतिनिरूपणम् ] एते ग्रहाः कस्मिन्मण्डले भ्रमन्ति इति [न ज्ञायते] अतः तन्निरूपणाय आह - कक्ष्याप्रतिमण्डलगाः भ्रमन्ति सर्वे ग्रहाः स्वचारेण । मन्दोच्चातनुलोमं प्रतिलोमं च एव शीघ्ह्रोच्चात् ॥ १७ ॥ कक्ष्यायाः प्रतिमण्डलं कक्ष्याप्रतिमण्डलम्, तत्गच्छन्ति इति कक्ष्याप्रतिमण्डलगाः । अथवा कक्ष्या च प्रतिमण्डलं च कक्ष्याप्रतिमण्डले, ते गच्छन्ति इति कक्ष्याप्रतिमण्डलगाः । अत्र कक्ष्यागाः मध्यमाः ग्रहाः, स्फुटाः [प्रति]मण्डलगाः । अथवा कक्ष्याप्रतिमण्डलयोः यत्र सम्पातः स कक्ष्याप्रतिमण्डलशब्देन उच्यते । तं गच्छन्ति इति कक्ष्याप्रतिमण्डलगाः । अत्र अनेकत्वात्विग्रहयोगस्य, कतमः विग्रहः परिगृह्यते इति सन्देहे उच्यते - कक्ष्या च प्रतिमण्डलं च कक्ष्याप्रतिमण्डले । ते गच्छन्ति इति कक्ष्याप्रतिमण्डलगाः, इति अयं परिगृह्यते । कथम्? इष्टत्वात्शेषविग्रहार्थवाचकत्वात्च अत्र इष्यते । कक्ष्यागाः मध्यमाः ग्रहाः यस्मात्तुल्यभुक्तयः, प्रतिमण्डलगाः स्फुटग्रहाः यतः ससदृशभुक्तयः । अथ के ते मध्यमाः, के वा स्फुटाः ग्रहाः? ननु च एकः एव सूर्यः, एकः एव चन्द्रमाः, एकः एव अङ्गारकः इति आदि । मध्यमस्फुटतायां परिगृह्यमाणायां ग्रहद्वयं प्राप्नोति । न एवं विज्ञायते मध्यमः ग्रहः स्फुटः ग्रहः इति । कथं तर्हि? मध्यमग्रहशब्देन मध्यमग्रहस्य ग्रहगतिः अभिधीयते, स्फुटग्रहशब्देन च स्फुटग्रहगतिः इति? तत्यथा - कश्चित्सांवत्सरं पृच्छति - "कः सविता" इति, स तस्मा आह - राशिः एकः पञ्चदश भागाः त्रिंशत्लिप्ताः इति । तत्र यः परिपृच्छति यः च आचष्टे तयोः उभयोः अभि[प्राय]द्वयप्रसङ्गः । न एष दोषः । या मध्यमा गतिः सा स्फुटगतिसाधनस्य उपायः । अन्यथा अनियतत्वात्स्फुटगतिः अशक्या स्यात्विज्ञातुम् । एवमेव च [मध्यमग्रहः] प्रतिमण्डलपरिज्ञानार्थं परिकल्पितः । यतस्य ग्रहस्य व्यासार्धतुल्यं भूताराग्रहविवरं स तस्मात्प्रदेशात्प्रभृति कक्ष्यामण्डलस्य उपरि अधः वा अवतिष्ठते । अथ कः असौ अयं प्रदेशः? उच्यते - यदा तृतीये कर्मणि द्वितीये पदे मन्दोच्चकेन्द्रं राशित्रयं द्वौ भागौ पञ्चाशत्लिप्ताः, तदा बृहस्पतेः मन्दोच्चकर्णः व्यासार्धतुल्यः । चतुर्थे कर्मणि यदा शीघ्रोच्चकेन्द्रं राशित्रयं पञ्चभागाः विंशतिः च कला, तदा व्यासार्धतुल्यः शीघ्रोच्चकर्णः । अत्र व्यासार्धतुल्यं भूताराग्रहविवरम् । अस्मात्प्रदेशात्प्रभृति भूताराग्रहविवरं प्रतिदिनमपचीयते । अनया युक्त्या शेषाणामपि ग्रहाणाम् व्यासार्धतुल्यं भूताराग्रहविवरमूह्यम् । भ्रमन्ति सर्वे ग्रहाः स्वचारेण इति एतत्निगदव्याख्यानमेव । मन्दोच्चातनुलोमम् । "मन्दोच्चात्" इति हेतौ पञ्चमी । तेन मन्दोच्चाथेतोः अनुलोममिति व्याख्यायते, यस्मात्न मन्दोच्चे वक्रपरिज्ञानम् । प्रतिलोमं च एव शीघ्रोच्चात् । शीघ्रोच्चाथेतोः प्रतिलोमम्, यस्मात्शीघ्रोच्चे वक्रपरिज्ञानम् । कथं पुनर्शीघ्रोच्चे वक्रपरिज्ञानम्? उच्यते - यदा शीघ्रोच्चकेन्द्रं द्वितीयपदे तदा सर्वे ग्रहाः वक्रिणः भवन्ति, यदा च तृतीयपदे शीघ्रोच्चकेन्द्रम् तदा अनुवक्रगतयः । उक्तं च - ग्रहोनशीघ्रग्रहेषु कृतषड्वसुषु क्रमात् । भवेत्वक्रातिवक्रा च तथा अनुकुटिला गतिः ॥ इति । सूक्ष्मतरः [च अयम्] विधिः इति । उच्यते - यदा अद्यतनात्ग्रहात्श्वस्तनः ग्रहः तुल्यः भवति तदा वक्रप्रारम्भः । अथवा ह्यस्तनात्ग्रहातद्यतनः ग्रहः तुल्यः तदा अपि वक्रप्रारम्भः । यदा अद्यतनात्तृतीयपदे श्वस्तनः ग्रहः अधिकः तदा वक्रस्य निवृत्तिः । अथवा ह्यस्तनात्ग्रहातद्यतनः ग्रहः अधिकः तृतीयपदे तदा अपि वक्रस्य निवृत्तिः । यदा ग्रहः बह्वीः लिप्ताः निवर्तते तदा अतिवक्रगतिः । कथं पुनरिदं विधानं शीघ्रोच्चातेव गणकः प्रजानते, न पुनर्मन्दोच्चातिति? उच्यते - यस्मात्सूर्यवशात्ग्रहाणामुदयास्तमयवक्रानुवक्राः गतयः । यदि एवमत्र कथं बुधशुक्रयोः अन्यत्शीघ्रोच्चम्, [मध्यः] सूर्यः । अत्र अपि सूर्यवशातेव तयोः उदयास्तमयपरिज्ञानम् । वक्रगतिः तु एकत्वातुपायान्तरेण विज्ञायते । अथवा उच्चनीचमध्यमपरिधिः इति एवमादिस्फुटगतिसाधनोपाय[भूतानां च] उपायानां न [एव नियमो]क्तिः वा विद्यते । केवलं तु उपेयसाधकाः उपायाः । तस्मातियं सर्वा प्रक्रिया असत्या, यया ग्रहाणां स्फुटगतिः साध्यते । [एवं च परमार्थजिज्ञासुभिः असत्योपाये]न सत्यं प्रतिपद्यते । तथा हि भिषजः हि उत्पलनालादिषु वधादीनि अभ्यस्यन्ते । नापिताः पिठरादिषु मुण्डनादीनि, यज्ञशास्त्रविदः शु[ष्केष्ट्या] यज्ञादीनि, शाब्दिकाः प्रकृतिप्रत्ययविकारागमवर्णलोपव्यत्ययादिभिः शब्दान् प्रतिजानते । एवमत्र अपि मध्यममन्दोच्चशीघ्रोच्चतत्परिधिज्याकाष्ठभुजाकोटिकर्णादि-व्यवहारेण सांवत्सराः ग्रहाणां स्फुटगतिं प्रतिजानते । तस्मातुपायेषु असत्येषु सत्यप्रतिपादनपरेषु न चोद्यमस्ति । अथ किमर्थमिमे ग्रहाः प्रतिदिनं भ्राम्यन्ति । अथ च लोके कश्चित्भ्रमन् कारणेन भ्रमति । अन्यत्च - न एवंविधः कश्चित्दृश्यते अनवरतगतिः यथा इमे ताराग्रहाः भ्रमन्ति इति दृष्टान्तत्वेन उदाहरणभूतः इति । उच्यते - सर्वादौ किल भगवान् प्रजापतिः ग्रहानुक्तवान् यत्"भवन्तः मेषादिगणेषु प्रजानां शुभाशुभफलाय भ्राम्यत" इति । उक्तं च स्फुजिध्वजयवनेश्वरेण - प्रजाः सिसृक्षुः किल विश्वधाता प्रजापतिः प्राग्व्रतमाचचार । स द्वादशाङ्गप्रभवं स्वदेहम् सृष्ट्वा आदितः वै भगणं ससर्ज ॥ तेभ्यः स मेषादिगणान् प्रजज्ञे तेभ्यः च तद्भेदविकल्पतः अन्यान् । अतः भवर्गस्य विभुः प्रणेता प्रजाभवाभावविधीश्वरत्वम् ॥ इति आदि । अथवा शब्देन अर्थानुमानं क्रियते । श्रूयन्ते च शब्दाः ये च अपरे अत्र गतिवाचकाः । तत्यथा - "पथः ष्कन्" [अष्टाध्यायी, ५.१.७५] इति वर्तमाने "पन्थः ण नित्यम्" [अष्टाध्यायी, ५.१.७६] इति अनेन नित्यं पन्थानं गच्छति इति अस्मिनर्थे पान्थः इति अयं शब्दः । अत्र लोके न कश्चितध्वानमनवरतं गच्छन् दृश्यते, तस्मातमी एव ग्रहाः पान्थाः । न च अयं शब्दः असत्स्वार्थेषु शशविषाणकूर्मरोमवन्ध्यापुत्रशब्दवत्प्रवृत्तः । तस्मात् सुष्ठु उच्यते शब्देन अर्थानुमानं पान्थाः ग्रहाः इति । अथवा अयमपरः प्रकारः । मन्दोच्चातनुलोमं प्रतिलोमं च एव शीघ्रोच्चात् । मन्दोच्चात्यतः मन्दोच्चकेन्द्रात्प्रतिमण्डलविधानेन आनीतं फलं प्रत्यहमुपचीयते । क्व? अन्यस्य अश्रुतत्वात्मन्दोच्चे एव । तस्मात्मन्दोच्चातनुलोमम् । प्रतिलोमं च एव शीघ्रोच्चात् । यस्मात्प्रतिमण्डलविधानेन आनीतं फलं सर्वदा अपचीयते । कुतः? अन्यस्य अशृउतत्वात्शीघ्रोच्चातेव । तस्मात्"प्रतिलोमं च एव शीघ्रोच्चात्" इति ॥ १७ ॥ [ प्रतिमण्डलविधानम् ] स्फुटाः प्रतिमण्डले भ्रमन्ति इति उक्तम्, अतः तज्ज्ञापनाय आह - कक्ष्यामण्डलतुल्यं स्वं स्वं प्रतिमण्डलं भवति एषाम् । प्रतिमण्डलस्य मध्यं घनभूमध्याततिक्रान्तम् ॥ १८ ॥ कक्ष्यामण्डलतुल्यम् । कक्ष्यामण्डलेन तुल्यं कक्ष्यामण्डलतुल्यम् । कक्ष्यामण्डलप्रमाणम् "शशिराशयष्ठ चक्रम्" [गीतिका¡, ६] इति एतस्मिन् सूत्रे व्याख्यातम् । स्वं स्वं प्रतिमण्डलमात्मीयमात्मीयं प्रतिमण्डलम्, भवति । एषां ग्रहाणाम् । प्रतिमण्डलस्य मध्यम् । यत्मध्यं केन्द्रं तत्घनभूमध्याततिक्रान्तम् । घनाः च असौ भूः च घनभूः, तस्याः घनभुवः मध्यं घनभूमध्यम्, तस्मात्घनभूमध्यात्, अतिक्रान्तं निर्गतमुपरिस्थितमिति अर्थः । तत्यथा - यावत्प्रमाणपरिकल्पितं षष्टिशतत्रयांशावच्छिन्नं कक्ष्यामण्डलं पूर्वापरमूर्ध्वं विन्यस्य, तादृशेव अन्यत्मण्डलमुपरि अधः कक्ष्यामण्डलात्वक्ष्यमाणेन अन्तरेण पूर्वापरयोः दिशोः यत्र सम्पातः तत्र यत्बध्यते गोले तत्प्रतिमण्डलं नाम । एवमेते कक्ष्याप्रतिमण्डले व्याख्याते ॥ १८ ॥ [ नीचोच्चवृत्तिविधिना ग्रहगतिप्रतिपादनम् ] कक्ष्याप्रतिमण्डलान्तरप्रतिपादनार्थमाह - प्रतिमण्डलभूविवरं व्यासार्धं स्वोच्चनीचवृत्तस्य । वृत्तपरिधौ ग्रहाः ते मध्यमचारात्भ्रमन्ति एवम् ॥ १९ ॥ प्रतिमण्डलस्य भूमण्डलस्य च विवरं प्रतिमण्डलभूविवरम् । व्यासार्धं स्वोच्चनीचवृत्तस्य । उच्चवृत्तं नीचवृत्तं च उच्चनीचवृत्तम्, स्वस्य उच्चनीचवृत्तं स्वोच्चनीचवृत्तम्, तस्य स्वोच्चनीचवृत्तस्य व्यासार्धं प्रतिमण्डलभूविवरम् । तत्यथा - "झार्धानि मन्दवृत्तम्" इति अधिकृत्य "शशिनः छ" [गीतिका¡, १०] इति सप्त शशिनः झार्धानि उच्चनीच्चवृत्तम्, सार्धैकत्रिंशद्भागप्रमाणमिति अर्थः । यस्य यत्व्यासार्धं तत्त्रैराशिकगणितेन सिद्धम् । यदि "चतुरधिकं शतमष्टगुणम्" [गणित¡, १०] इति एवमादेः परिधेः अयुततुल्यं व्यासार्धं लभ्यते तदा सार्धैकत्रिंशद्भागप्रमाणस्य परिधेः किमिति लब्धं भागाः पञ्च, लिप्ता च अर्धाधिकेन एका । सूर्यस्य अपि त्रीणि झार्धानि मन्दवृत्तम्, सार्धत्रयोदशभागप्रमाणम्, तस्य च त्रैराशिकेन स्ववृत्तविष्कम्भार्धं लब्धं भागद्वयम्, अर्धाधिकेन नव लिप्ताः । अथवा - यदि षष्टिशतत्रय[भागमित]परिधेः [वसुत्रिकृतवह्निलिप्तामितम्] व्यासार्धं लभ्यते तदा उच्चनीचपरिधेः किमिति लब्धं चन्द्रस्य उच्चनीचव्यासार्धं लिप्तात्रिशती सार्धाधिकरूपा । एवं सूर्यस्य अपि शतमेकोनत्रिंशदुत्तरम् [सार्धम्] । तत्र भागप्रमाणेन लिप्ताप्रमाणेन वा कक्ष्याप्रतिमण्डलमध्यान्तरं परिकल्प्यम् । एवं सूर्याचन्द्रमसोः । अन्यथा अन्येषां समविषमवृत्तमन्दोच्चशीघ्रोच्चभेदेन अनेकप्रतिमण्डलप्रसङ्गभयातुत्तरत्र वक्ष्यति - "भूताराग्रहविवरम्" [कालक्रिया¡, २५] इति । वृत्तपरिधिः कक्ष्यामण्डलम्, तस्मिन् वृत्तपरिधौ मध्यमचारं ग्रहाः भ्रमन्ति । प्रतिमण्डलेषु स्फुटचारं भ्रमन्ति इति अर्थातवसीयते ॥ १९ ॥ [ नीचोच्चवृत्तपरिधौ ग्रहगतिः ] ग्रहभुक्त्यानयनवक्रानुवक्रपरिज्ञानाय आह - यः शीघ्रगतिः स्वोच्चात्प्रतिलोमगतिः स्ववृत्तकक्ष्यायाम् । अनुलोमगतिः वृत्ते मन्दगतिः यः ग्रहः भवति ॥ २० ॥ शीघ्रा गतिः यस्य तत्शीग्रह्गतिः, शीघ्रगतिः च तत्स्वोच्चं च शीघ्रगतिः स्वोच्चम्, शीघ्रततिःस्वोच्चात्यः प्रतिलोमगतिः शीघ्रगतिः । स्वोच्चशब्देन स्वशीघ्रोच्चभुक्तिः परिगृह्यते । सा यदि शीघ्रोच्चभुक्तिः स्वकेन्द्रान्तज्या[साधितस्फुटमध्य]मभुक्तेः [न पतति] तदा सा एव स्फुटमध्यमा भुक्तिः स्वकेन्द्रान्तज्यासाधिता स्वशीघ्रोच्चभुक्तेः प्रतिलोमे[न] पात्यते । तदा शीघ्रगतिः स्वोच्चगतिः इति उच्यते । प्रतिलोमशब्देन च विपरीतपातितशेषलिप्ताः परिगृह्यन्ते । एवमयं विग्रहार्थः निष्पन्नः भवति । प्रतिलोमा गतिः यस्य सः प्रतिलोमगतिः इति । आदितः एव एतत्भुक्त्यानयनं प्रति वक्ष्यते । तत्यथा - मन्दोच्चकेन्द्रान्तज्यां क्रमेण उत्क्रमेण वा निष्पन्नां स्वमध्यमभुक्तिलिप्ताभिः गुणयेत् । पुनर्च तत्कालप्रतिधिना गुणितस्य अष्टादशभिः सहस्रैः भागलब्धं केन्द्रपदवशातर्धीकृत्य ग्रहमध्यमभुक्तिलिप्तासु प्रक्षिप्य विशोध्य वा स्वशीघ्रोच्चभुक्तिलिप्ताभिः शोधयेत् । शेषं स्वशीघ्रोच्चकेन्द्रान्तज्याक्रमोत्क्रमज्यागुणं तत्कालशीघ्रोच्चपरिधिना गुणयेत् । भागः अष्टादशभिः सहस्रैः । लब्धं व्यासार्धगतं स्वकर्णेन विभजेत् । लभ्दस्य अर्धं केन्द्रपदवशात्ग्रहमध्यमभुक्तिलिप्तासु क्षिपेत्, विशोधयेत्वा । ततः तं क्षिप्तविशोधितशेषं गृहीत्वा तृतीयकर्म - मन्दोच्चकेन्द्रान्तज्याक्रमोत्क्रमज्यां तत्कालपरिधिगुणमष्टादशभिः सहस्रैः विभजेत् । लब्धं समस्तमेव ग्रहमध्यमभुक्तिलिप्तासु मन्दकेन्द्रपदवशात्क्षिपेत्, विशोधयेत्वा । क्षिप्तं विशोधितशिष्टं वा स्फुटमध्यमभुक्तिलिप्ताः अविनष्टाः ताः स्वशीघ्रोच्चभुक्तिलिप्ताभ्यः विशोधयेत् । शेषम् [गृहीत्वा] चतुर्थकर्म - शीघ्रोच्चकेन्द्रान्त[ज्याक्रमोत्क्रम]ज्यां तत्कालपरिधिगुणमष्टादशभिः सहस्रैः विभजेत् । लब्धं व्यासार्धगुणं कर्णेन विभजेत् । तत्र यदवाप्तं तत्यदि क्षेप्यं स्फुटमध्यमभुक्तिलिप्तासु क्षिपेत्, निष्पन्ना ग्रहस्य स्फुटभुक्तिः । अथ विशोध्यं सद्यदि स्फुटमध्यमभुक्तितः न पतति तदा प्रतिलोमगतिः ग्रहः स्फुटमध्यमभुक्तिलिप्ताः एव विपरीतम् शोध्याः । शेषं वक्रभोगः । अस्मिनर्थे इयं कारिका - यः शीघ्रगतिः स्वोच्चात्प्रतिलोमगतिः स्ववृत्तकक्ष्यायाम् । प्रतिलोमगतिः वक्रगतिः इति अर्थः । अनुलोमगतिः वृत्ते । असौ अनुलोमगतिः भवति । यदा शीघ्रोच्चात्शीघ्रोच्चकेन्द्रान्तज्यानिष्पन्ना लिप्ताः स्फुटमध्यमभुक्तिलिप्ताभ्यः विशुद्धाः, तदा असौ ग्रहः अनुवक्री । तत्र च विशेषलिप्ताः अनुलोमशब्दवाच्याः । ततः अर्थातयं विग्रहः अवसितः - अनुलोमा गतिः यस्य स अनुलोमगतिः इति । स च अल्पं गच्चहति इति मन्दगतिः अभिधीयते ॥ २० ॥ [ नीचोच्चवृत्तभ्रमणप्रकारान्तरम् ] ग्रहाणां स्फुटीकरणप्रकारान्तरमाह - अनुलोमगानि मन्दात्शीघ्रात्प्रतिलोमगानि वृत्तानि । कक्ष्यामण्डललग्नस्ववृत्तमध्ये ग्रहः मध्यः ॥ २१ ॥ अनुलोमं गच्छति इति अनुलोमगतिः । ततुक्तम् - मन्दात्, उक्तमन्दोच्चावधेः मध्यमातिति । ततत्र अपि शीघ्रोच्चावधेः मध्यमातिति एततेकप्रक्रमेण भवितव्यम् । न इति आह - शीघ्रा[त्प्रतिलोमग]तिः प्रतिलोमावधेः । शीघ्रोच्चस्य प्रतिलोमगतीनि विपरीतगतीनि यानि वृत्तानि परिधयः । अत्र वृत्तस्य एकदेशे वृत्तशब्दोप[चारात्परिधयः च] इति, यथा मन्दशीघ्रकेन्द्रयोः तज्ज्याकाष्ठे धनूंषि । अतः तानि धनूंषि मन्दकेन्द्रात्जातानि क्रमेण उप[चीयन्ते, शीघ्रकेन्द्रात्] जातानि उत्क्रमेण उपचीयन्ते । अतः "अनुलोमगानि मन्दात्शीघ्रात्प्रतिलोमगानि वृत्तानि" । कथं पुनर्वृत्तानि मन्दशीघ्रकेन्द्रयोः तज्ज्याधनूंषि क्रमोत्क्रम[गतीनि? गते]ः अवस्थावाचकत्वात् । यथा - गतिः अस्ति इति भूतानां सुकुमारायते मनः । [अनस्त्वनिशमेव ऊढं धुरम्] वहति गौः इव ॥ तथा - दानं भोगः नाशः तिस्रः गतयः भवन्ति वित्तस्य । यः न ददाति न भुङ्क्ते तस्य तृतीया गतिः भवति ॥ [भर्तृहरिः, नीतिशतकम्, ३४] तस्मात्यानि एव ज्याधनूंषि तानि एव प्रतिलोमानुलोमगतीनि । अथ अत्र इदं प्रष्टव्यम् - मन्दोच्चज्याधनूंषि मन्दोच्चातुपचीयन्ते, शीघ्रोच्चज्याधनूंषि शीघ्रोच्चातपचीयन्ते । कुतः एतत्? सम्प्रदायाविच्छेदात् । अथ "व्याख्यानतः विशेषप्रतिपत्तिः, न हि सन्देहातलक्षणम्" [अष्टाध्यायी, शिवसूत्रम् ६, पातञ्जलमहाभाष्यम्] इति । अथवा मन्दोच्चशीघ्रोच्चश्रवणात्मन्दोच्चशीघ्रोच्चयोः एव प्रतिपत्तिः, अन्यस्य अश्रुतत्वात्च । [ प्रतिमण्डलविधिना ग्रहस्फुटीकरणप्रक्रिया ] अयमार्यासूत्रार्थः यथा घटते तथा कर्मणा प्रतिपादयिष्यामः । इष्टात्ग्रहात्तत्मन्दोच्चं विशोधयेत् । शेषं राश्यादिकं मन्दोच्चात्प्रवृत्तं तत्कक्ष्यामण्डलोत्पन्नमिति प्रतिमण्डले क्रियते, यस्मात्प्रतिमण्डले स्फुटग्रहः भ्रमति । तेन तस्मात्मन्दोच्चातारभ्य यत्काष्ठं तत्महति मण्डले अल्पं भवति । "महति महान्तः च राशयः ज्ञेयाः । अंशाः कलाः तथा एवम् [कालक्रिया¡, १४] इति । अल्पे प्रतिमण्डले ततेव काष्ठं बहुतरम् भवति, मानाल्पत्वात् । व्रीह्यादयः महता मानविशेषेण प्रमीयमानाः प्रस्थादिसङ्ख्यया अल्पाः भवन्ति, [ते] एव अल्पेन मानविशेषेण मीयमानाः प्रस्थादिशङ्ख्यया बहवः भवन्ति एवमत्र अपि । कथं पुनर्तत्काष्ठं कक्ष्यामण्डलोत्पन्नं प्रतिमण्डले प्रमीयते? उच्यते - तत्काष्ठस्य पदानि व्यतीतानि प्रत्याकलय्य वर्तमानपदस्य भुजाकोटिज्यया कर्म इदं क्रियते - "प्रतिमण्डलस्य मध्यं घनभूमध्याततिक्रान्तम्" [कालक्रिया¡, १८] इति प्रतिमण्डलभूविवरं कोट्यां प्रथमचतुर्थयोः पदयोः प्रक्षिप्यते, द्वितीयतृतीययोः अपनीयते । एतत्प्रतिपादनार्थं समायामवनौ वृत्तकेन्द्रं निधाय यावत्तावत्प्रमाणपरिकल्पितव्यासार्धप्रमाणेन कर्कटकेन वृत्तमालिखेत् । तस्य वृत्तस्य पूर्वापर[दक्षिणोत्तर]लेखे कृत्वा [तद्वृत्तकेन्द्रातन्त्य]फल[ज्या]प्रमाणम् [सूत्रं मन्दोच्चाभिमुखम्] दक्षिणेन निधाय तत्र कक्ष्यामण्डलव्यासार्धतुल्यकर्कटकेन वृत्तमालिखेत् । तत्प्रतिमण्डलमिति उच्यते । [तत्प्रथमचतुर्थपदयोः] कक्ष्यामण्डलातुपरि अवतिष्ठते, द्वितीयतृतीययोः अधः । तत्र या कोटिज्या सा कक्ष्यामण्डलोत्पन्ना कक्ष्यामण्डलभूम्यन्तरालप्रमाणा । तेन प्रतिमण्डलभूविवरान्तरालमात्रेण प्रतिमण्डलं प्रथमचतुर्थयोः पदयोः कोटिः न प्राप्नोति इति प्रक्षिप्यते, द्वितीयतृतीयपदयोः तावता अतीतात्प्रतिमण्डलात्कोटिः इति अपनीयते । एवं प्रतिमण्डलोत्पन्ना कोटिः भवति । अथ यदि कोटि[ज्यातः] प्रतिमण्डलभूविवरं न शुध्यति, तदा प्रतिमण्डलभूविवरात्कोटिज्या शोध्यते । तावती प्रतिमण्डलकोटिः भवति । तत्र एवं निष्पन्नायाः कोटेः भुजज्यायाः च वर्गसमासमूलं कर्णः । तत्सूक्ष्मार्थिभिः अविशिष्यते, प्रतिमण्डलकर्णस्य वृद्धिह्रासवशात्दृष्टिः भिद्यते इति । तत्यदि व्यासार्धतुल्येन प्रतिमण्डलकर्णेन यथा उक्तं प्रतिमण्डलभूविवरं लभ्यते तदा तेन प्रतिमण्डलकर्णेन किमिति । लब्धं पूर्वकोटिज्यायां प्रक्षिप्यते अपनीयते वा । ततः तद्भुजज्यावर्ग[समास]मूलं कर्णः । तेन पुनर्प्रतिमण्डलभूविवरानयनमिति यावतविशेषः । ततः अविशिष्टकर्णेन व्यस्तत्रैराशिकं क्रियते - यदि व्यासार्धविष्कम्भस्य कक्ष्यामण्डलस्य इयं भुजज्या लभ्यते, तदा तेन कर्णेन प्रतिमण्डलजेन का इति । व्यस्तत्रैराशिकत्वात्व्यासार्धं गुणकारः, कर्णः भागहारः, लब्धं प्रतिमण्डलभुजज्या । तत्काष्ठं मन्दोच्चे प्रक्षिप्य स्फुटः ग्रहः भवति, यस्य मन्दोच्चकेन्द्रं प्रथमपदे । द्वितीयपदे षड्भ्यः राशिभ्यः विशोध्य भुजा गृहीता इति षङ्भ्यः अपनीयते, शेषं मन्दोच्चे प्रक्षिप्यते । तृतीयपदे चक्रार्धाधिकभुजा इति तत्चापं चक्रार्धसहितं मन्दोच्चे प्रक्षिप्यते । चतुर्थपदे द्वादशेभ्यः विशुद्धशेषं भुजा इति चक्रात्तत्काष्ठं विशोध्य शेषं मन्दोच्चे प्रक्षिप्यते । एवं स्फुटग्रहः भवति, यस्य शीघ्रोच्चं न विद्यते । येषां पुनर्शीघ्रोच्चं विद्यते तेषां कर्मविशेषः उच्यते । तत्यथा - परिधिचालनाप्रयोगेण स्फुटीकृतपरिधिना व्यासार्धं सम्गुणय्य अशीत्या भागलब्धं प्रतिमण्डलभूविवरं मन्दशीघ्रोच्चयोः । तेन अनन्तराभिहितमन्दोच्चकर्मणा मन्दोच्च[फलम्] साधयेत् । [तत्] सकलसंस्कृतः ग्रहः भवति । ततेवं निष्पन्नस्य, मध्यमस्य ग्रहस्य [च] यतन्तरार्धं तत्मध्यमात्मन्दोच्चसिद्धे अधिके मध्यमग्रहे धनम्, ऊने ऋणम् । एवं मन्दोच्चसं[स्करणम्] । एततेव कर्म "शनिगुरुकुजेषु मन्दे अर्धमृणधनं भवति पूर्वम्" [कालक्रिया¡, २२] इति अनेन ग्रन्थेन अभिधीयते । कथम्? सनिगुरुकुजेषु, मन्दारगुरुषु मध्यमेषु मध्यमकर्मणा सिद्धेषु मन्दारगुरुषु इति अर्थः । "अर्धमृणधनं भवति पूर्वम्" [कालक्रिया¡, २२] इति कस्य अर्धमृणं धनं वा भवति इति अत्र सम्प्रदायाविच्छेदात्मन्दसिद्धमध्यमान्तरं परिगृह्यते । किं तस्य अर्धं मध्ये ग्रहे धनमृणं वा पूर्वसिद्धे मन्दोच्चकर्मणि भवति? इदं च कर्म मन्दोच्चशीघ्रोच्चयोः सामान्येन प्रसिद्धम् । कुतः? विशेषानुवादना[भावा]त् । तत्यथा - एवमर्धेन फलेन संस्कृतं मध्यमं ग्रहं शीघ्रोच्चात्ग्रहात्विशोधयेत् । तत्र केन्द्रपदविभागेन भुजाकोटिज्ये गृहीत्वा स्फुटीकृतस्वशीघ्रोच्चपरिधिना व्यासार्धं संगुणय्य अशीत्या भागलब्धप्रतिमण्डलभूविवरेण पूर्वकर्मणा एव संस्कृतात्कर्णमानयेत् । अत्र अविशेषाभावात् अविशेषकर्म न प्रवर्तते । ततः भुजज्यया व्यासार्धं संगुणय्य कर्णेन भागलब्धस्य काष्ठं शीघ्रोच्चकेन्द्रे प्रथमपदे शीघ्रोच्चातपनीयते, द्वितीये पदे षड्भ्यः विशोध्य शेषं शीघ्रोच्चातपनीयते । तृतीये पदे चक्रार्धयुक्तम्, चतुर्थे पदे द्वादशभ्यः विशुद्धशेषम्, "शीघ्रात्प्रतिलोमगानि वृत्तानि" इति वचनात् । एवं सीघ्रोच्चसकलफलसंस्कृतः ग्रहः भवति । तस्य मन्दोच्चसिद्धस्य च पूर्ववतेव अन्तरार्धं मन्दोच्चसिद्धे पूर्वकल्पनया एव धनमृणं वा कुर्यात् । तत्मन्दशीघ्र[सिद्ध]मविनष्टं विधाय तस्मात्मन्दोच्चं विशोध्य पूर्ववतेव मन्दोच्चं साधयेत् । तस्य मन्दोच्चसिद्धस्य द्विसंस्कृतस्य अविनष्टस्थापितस्य च यः विशेषः तं सकलमेव द्विसंस्कृतहीनमध्यमात्विशोधयेत्, अधिकमध्यमे प्रक्षिपेत् । [अर्थात्द्विसंस्कृतमन्दसिद्धे ऊने सति विशोधयेतन्यथा प्रक्षिपेत्] । तमेवंकृतं शीघ्रोच्चात्विशोध्य शीघ्रोच्चप्रसिद्धकर्मणा संसिद्धः स्फुटः ग्रहः भविष्यति इति । एततेव कर्म संक्षेपेण अस्माभिः कर्मनिबन्धे उक्तम् - प्रतिमण्डलकर्म अपि योज्यमत्र विपशिचिता । मन्दोच्चे पूर्ववत्कुर्यात्शीघ्रोच्चात्तत्विशोध्यते ॥ ततेव केवलं शोध्यम् [चक्रार्धात्शोध्य तत्चलात्] । चक्रार्धसंयुतं चापं चक्रात्शुद्धं च शेषयोः ॥ स्फुटवृत्तगुणां त्रिज्यां भक्त्वा अशीत्या स्वकोटितः । त्यक्त्वा पदेषु युक्त्वा वा कर्णः प्राग्वत्प्रसाध्यते । मन्दोच्चसिद्धतन्मध्यविश्लेषार्धसमन्वितः । मन्दसिद्धे अधिके हीने रहितः मध्यमः ग्रहः ॥ स शीघ्रोच्चात्पुनर्साध्यः सिद्धयोः अन्तरालजम् । अर्धीकृत्य सकृत्सिद्धे पूर्ववत्परिकल्पयेत् ॥ एवंकृतस्य भूयः अपि मन्दसिद्धिं समाचरेत् । मन्दसिद्धस्य तस्य अयं विशेषः यः अभिधास्यते ॥ द्विसिद्धमन्दसिद्धस्य द्विसिद्धस्य यतन्तरम् । प्राग्वत्तत्मध्यमे कृत्वा शीघ्रसिद्धः स्फुटः ग्रहः ॥ [महाभास्करीयम्, ४.४५-५१] अत्र शनिगुरुकुजग्रहणं शीघ्रोच्चवत्ग्रहप्रतिपादनार्थम् । तेन बुधशुक्रयोः अपि इदं कर्म क्रियते । कक्ष्यामण्डललग्नस्ववृत्तमध्ये । कक्ष्यामण्डले लग्नं कक्ष्यामण्डललग्नम् । किं तत्? स्ववृत्तमध्यम्, स्ववृत्तमण्डलमध्यम् । कक्ष्यामण्डललग्नं च तत्स्ववृत्तमध्यं च कक्ष्यामण्डललग्नस्ववृत्तमध्यम् । तस्मिन् कक्ष्यामण्डललग्नस्ववृत्तमध्ये । ग्रहः मध्यः । यः असौ मध्यः ग्रहः स कक्ष्यामण्डललग्नस्ववृत्तमध्ये भवति । एततुक्तं भवति - कक्ष्याप्रतिमण्डलयोः यत्र सम्पातः तत्र यः असौ मध्यमग्रहः, स एव स्फुटः इति । [ ग्रहस्फुटीकरणे अन्येषां मतप्रदर्शनम् ] अथ अन्ये अन्यथा व्याख्यानं कुर्वन्ति । अनुलोमं गच्छन्ति इति अनुलोमगानि । कानि? वृत्तानि, परिधयः इति अर्थः । मन्दात् । मन्दोच्चात्प्रभृति यानि मन्दोच्चवृत्तानि मन्दोच्चातारभ्य अनुलोमं गच्छन्ति, यस्मात्मन्दोच्चकेन्द्रमहरहरुपचीयते । शीघ्रात्प्रतिलोमगानि । शीघ्रात्शीघ्रोच्चातारभ्य यानि शीघ्रोच्चवृत्तानि तानि प्रतिलोमं गच्छन्ति, यस्मात्शीघ्रोच्चकेन्द्रमहरहरपचीयते । अत्र इदं प्रष्टव्यम् - कथं वा मन्दोच्चकेन्द्रम् अहरहरुपचीयते, कथं वा शीघ्रोच्चकेन्द्रमहरहरपचीयते इति? उच्यते - ग्रहात्पतिते मन्दोच्चे [मन्दकेन्द्र]भुक्तयः उपचीयन्ते, ग्रहात्पतिते शीघ्रोच्चे शीघ्रकेन्द्रभुक्तयः अपचीयन्ते । यदि एवं ग्रहात्शीघ्रोच्चं न पतति महत्त्वात्तर्हि मण्डलं प्रक्षिप्य पात्यते इति । तत्र भगणाः भगणेभ्यः विशोध्याः, राशयः राशिभ्यः, भागाः भागेभ्यः, लिप्ताः लिप्ताभ्यः इति एषः क्रमः । तत्र ग्रहभगणेभ्यः शीघ्रोच्चभगणाः एव तावत्न शुद्ध्यन्ति । कुतः असौ भगणः यं प्रक्षिप्य शीघ्रोच्चं विशोध्यते? तस्मात्गणितयुक्त्या यानि अपि शीघ्रवृत्तानि तानि अपि अनुलोमगानि एव । आचार्येण तु करणलाघवार्थम् "प्रतिलोमगानि वृत्तानि" इति उक्तम् । किं पुनरत्र करणलाघवम्? कामचारः । यदि ग्रहः शीघ्रोच्चात्पतति तदा ग्रहः शीघ्रोच्चात्विशोध्यते । यदा च शीघ्रोच्चं ग्रहात्पतति तदा ग्रहात्शीघ्रोच्चं विशोध्यते इति । सत्यमेव एतत्, किन्तु ज्यापरिधिकल्पना व्यभिचरति । यदा ग्रहात्शीघ्रोच्चम् विशोधितं भवति तदा अन्यथा ज्या अन्यथा परिधिः, तदानीमेव शीघ्रोच्चात्विशुद्धे ग्रहे अन्यथा ज्या अन्यथा एव परिधिः । अथ मन्यते शीघ्रोच्चविशुद्धे ग्रहे यत्प्रथमपदं तत्चतुर्थपदम्, यत्द्वितीयपदं तत्तृतीयपदम्, यत्तृतीयपदं तत्द्वितीयपदम्, यत्चतुर्थपदं तत्प्रथमपदमिति । एवं तर्हि यत्ज्यायसी कल्पना, तस्मात्मन्दोच्चं ग्रहात्विशोध्यम् । ग्रहः च शीघ्रोच्चात् । मन्दशीघ्रवृत्तानि क्रमोत्क्रमेण एव गच्छन्ति । कक्ष्यामण्डललग्नः । कक्ष्यायाः मण्डलं कक्ष्यामण्डलम् । अथवा कक्ष्या च सा मण्डलं च तत्कक्ष्यामण्डलम् । तेन कक्ष्यामण्डलेन लग्नः कक्ष्यामण्डललग्नः । कः? ग्रहः मध्यः । स्ववृत्तमध्ये । स्वस्य वृत्तं स्ववृत्तम् । तत्च सामान्येन मन्दवृत्तं शीघ्रवृत्तं च परिगृह्यते । तस्य स्वमन्दवृत्तस्य [स्वशीघ्र]वृत्तस्य च मध्यं स्ववृत्तमध्यम् । तत्र ग्रहस्य मध्यः, स च कक्ष्यामण्डलासक्तः । स्ववृत्तस्य कक्ष्यामण्डले यथा मध्यं भवति तथा बध्नीयात् । तस्मिन् स्ववृत्ते यथा कक्ष्यामण्डले यथा मध्यं भवति तथा बध्नीयात् । तस्मिन् स्ववृत्ते यथा कक्ष्यामण्डले ज्या अवितिष्ठते तथा एव अवतिष्ठमाना द्रष्टव्या । कथम्? यथा कक्ष्यामण्डलस्य षण्णवत्यंशका काष्ठज्या । एवमत्र अपि षण्णवत्यंशका काष्ठज्या परिकल्पनीया । तत्यथा - उच्चातारभ्य भुजज्याकोटिज्याभ्यां त्रैराशिकम् - यदि षष्टिशतत्रयपरिधौ इमे भुजज्याकोटिज्ये, [तदा] उच्चनीचपरिधौ के इति । अथवा - व्यासार्धेन इमे भुजज्याकोटिज्ये, ततः अन्त्यफलतुल्येन उच्चनीचवृत्तव्यासार्धेन के इति । लब्धे उच्चनीचवृत्तस्य भुजज्याकोटिज्ये । तत्र प्रथमचतुर्थयोः पदयोः व्यासार्धातुपरि कोटिसाधनं स्थितमिति व्यासार्धे प्रक्षिप्यते । द्वितीयतृतीययोः पदयोः व्यासार्धोनं प्रवृत्तमिति व्यासार्धातपनीयते । एवं कोटिका निष्पन्ना भवति, भुजाकोटिवर्गसमासमूलं कर्णः । एवं मन्दशीघ्रयोः कर्णोत्पत्तिः ॥ २१ ॥ [ नीचोच्चवृत्तविधिना शनिगुरुकुजस्फुटीकरणम् ] ग्रहाणामृणधनप्रतिपादनाय आह - क्षयधनधनक्षयाः स्युः मन्दोच्चात्व्यत्ययेन शीघ्रोच्चात् । शनिगुरुकुजेषु मन्दातर्धमृणं धनं भवति पूर्वे ॥ २२ ॥ क्षयधनधनक्षयाः । क्षयः च धनः च धनः च क्षयः च क्षयधनधनक्षयाः । एते क्षयधनधनक्षयाः यथासङ्ख्येन पदेषु प्रत्येतव्याः । तत्यथा - प्रथमे पदे क्षयः, द्वितीये पदे धनम्, तृतीये पदे धनमेव, चतुर्थे पदे क्षयः इति । अयं क्षयादिक्रमः । पदक्रमः च कस्मात्परिगृह्यते इति आह - मन्दोच्चात्प्रवृत्तात्ग्रहात् । कुतः? उच्यते - "मन्दोच्चात्" इयं पञ्चमी मर्यादाभिधायिनी । ततः मन्दोच्चातिति अनेन मन्दोच्चात्प्रवृत्तः ग्रहः परिगृह्यते । स कथं मन्दोच्चात्प्रवृत्तः ग्रहः ज्ञेयः? उच्यते - न अत्र किञ्चितपि ज्ञेयम् । यावद्भिः मन्दोच्चातधिकः ग्रहः तवता असौ मन्दोच्चात्प्रवृत्तः ग्रहः ज्ञेयः । तेन तत्परिज्ञानार्थं मन्दोच्चं ग्रहात्पात्यते, तत्र शेषेण राश्यादिना मन्दोच्चात् प्रवृत्तः असौ ग्रहः भवति । तस्मात्प्रथमपदे या क्रमज्या तस्याः फलं त्रैराशिकेन आनीयते । यदि षष्टिशतत्रयपरिधेः इयं ज्या, तदा इष्टग्रहपरिधेः का इति फलं लभ्यते । एततेव त्रैराशिकम् । झार्धापवर्तमानषष्टिशतत्रयपरिधेः अशीतिः, स्वपरिधिभागानां यथा उक्ताक्षरसङ्ख्या । तेन परिधिना गुणितज्यायाः अशीतिः भागहारः । स्वपरिध्यक्षरसङ्ख्या गुणकारः । लब्धं फलमृणमेव । द्वितीयपदे उत्क्रमेण ज्या व्यवस्थिता इति, उत्क्रमज्याफलं धनम् । पुनर्तृतीयपदे क्रमेण ज्या व्यवस्थिता इति क्रमज्याफलं धनम् । चतुर्थे पदे उत्क्रमेण ज्या व्यवस्थिता इति उत्क्रमज्याफलं क्षयः । तत्र प्रथमपदे एव मन्दकेन्द्रम्, ततुत्पन्नमेव फलं ग्रहमध्ये क्षयः । यदा द्वितीयपदे केन्द्रं तदा प्रथमपदव्यासार्धज्योत्पन्नमशेषफलं क्षयः, द्वितीयपदोत्क्रमज्याफलं धनम् । प्रथमद्वितीयपदाभ्यां तृतीयचतुर्थपदे व्याख्याते । अथवा करणलाघवार्थमेवं क्रियते - प्रथमपदे यतुत्पन्नं क्रमेण ज्याफलं क्षयः । द्वितीयपदे यतुत्पन्नं पुनर्यत्गतं राश्यादिकमतीतं प्रथमपदसंज्ञितराशित्रयात्क्षयात्मकात्धनात्मकं तत्द्वितीयपदस्य यत्गतं तत्विशोध्य शेषं तत्र क्षयः एव अवतिष्ठते, तेन ततुत्पन्नं फलं मध्यमग्रहे क्षयः । एवं द्वितीयपदान्ते क्षयधनयोः तुल्यत्वात्न किञ्चितवतिष्ठते । तस्मात्सामर्थ्यतः अयमर्थः संजातः - प्रथमपदे गतज्याफलं क्षयः, द्वितीयपदे अपि आगतज्याफलं क्षयः । एतेन मन्दकेन्द्रफलं मेषादिके क्षयः । ततेतत्प्रथमपदे गतं भुजासंज्ञितं द्वितीयपदे अनागतम् । कोटिसंज्ञितम् [प्रथमपदे अनागतम्] द्वितीयपदे गतम् । तृतीयचतुर्थयोः च । तृतीयपदे क्रमज्याफलं धनम् । चतुर्थपदे तृतीयपदराशित्रयात्धनात्धनसंज्ञितात्चतुर्थपदराश्यादिगतक्षयसंज्ञितं विशोध्यते, शेषं धनमेव अवतिष्ठते । एवम् चतुर्थपदान्ते धनक्षययोः तुल्यत्वात्न किंचितवशिष्यते । तस्मातत्र अपि स एव अर्थः तुलादिकेन्द्रे भुजाफलं धनमिति । सुष्ठु खलु एततवगम्यते । यदि पदेषु सर्वेषु तुल्याः परिधयः तदा एवं स्यात् । न च तुल्याः परिधयः पठ्यन्ते । अतुल्येषु च परिधिषु प्रतिमण्डलस्य च अपि अवस्था विरुध्यते । कुतः? प्रथमपदे शुक्रस्य चतुष्कः परिधिः । तत्र द्वितीयपदप्राप्तौ एव द्विकः परिधिः । तत्र अर्धपहलं परिहीयते । ग्रहः तु गच्छन् क्रमेण गच्छति, न हरिणप्लुतेन । न एष दोषः । तुल्याः परिधयः । ननु च उक्तम् - न च तुल्याः परिधयः पठ्यन्ते इति । न एततस्ति । एवं विज्ञायते - एते परिधयः उपचया[पचया]त्मकाः, यतः तेन तुल्योपचयापचयात्मकत्वात्क्रमोत्क्रमव्यवस्थायाः, यतः ते एव भवन्ति इति । तेन तुल्याः उच्यन्ते । तत्यथा - प्रथमपदे क्रमज्यां परिध्यन्तरेण हत्वा व्यासार्धेन लब्धमूने विषमपदपरिधौ प्रक्षिप्यते, अधिके अपनीयते । प्रथमद्वितीयपदाभ्यां तृतीयचतुर्थपदे व्याख्याते । व्यत्ययेन शीघ्रोच्चात् । शीघ्रोच्चकेन्द्रात्पदवशात्क्रमोत्क्रमज्याफलं विपरीतम् । प्रथमचतुर्थयोः पदयोः धनम्, द्वितीयतृतीययोः क्षयः इति विपर्ययः । अथवा भुजाफलं शीघ्रक्रमेण आनीतं मेषादौ धनम्, तुलादावृणम् । परिधिचालनाद्यशेषं पूर्ववतेव । अत्र शीघ्रफलं व्यासार्धेन संगुणय्य ततुत्पन्नक्रर्णेन भागलब्धं फलं धनमृणं वा । एतत्च कर्म त्रैराशिकम् - यदि व्यासार्धमण्डले इदं फलम् लभ्यते, तदा शीघ्रोच्चकर्णमण्डले कियतिति व्यस्तत्रैराशिकेन व्यासार्धं गुणकारः, कर्णः भागहारः । अत्र किमिति व्यस्तत्रैराशिकम्? उच्यते - "अल्पे हि मण्डले अल्पाः महति महान्तः च राशयः ज्ञेयाः" [कालक्रिया¡, १४] इति अनेन । अथ मन्दोच्चफलमेवं कस्मात्न क्रियते? उच्यते - क्रियमाणे अपि तावतेव तत्फलं भवति इति न क्रियते । कुतः? मन्दोच्चकर्णः अविशिष्यते । तत्र च अविशेषितेन फलेन व्यासार्धं संगुणय्य कर्णेन भागे हृते पूर्वम् आनीतमेव फलं भवति इति । अथ किमिति शीघ्रोच्चकर्णः न अविशिष्यते? अभावातविशेषकर्मणः । अथ अत्र इदं प्रष्टव्यम् - कक्ष्यामण्डलस्य यथा स्वयोजनकर्णः व्यासार्धः, तत्च स्वलिप्ताभिः मीयमानः वस्वग्निवेदरामाः [३४३८], प्रतिमण्डलस्य अपि एततेव व्यासार्धमिति एतत् । कक्ष्यामण्डलोत्पन्नज्याफललिप्ताभिः त्रैराशिकाभावः, कक्ष्याप्रतिमण्डलयोः तुल्यव्यासार्धत्वात् । अथ मन्यते - तत्कालोत्पन्नभुजाकोटिनिष्पन्नकर्णः व्यासार्धं प्रतिमण्डलस्य । तेन त्रैराशिकोपपत्तिः । एवं तर्हि न कक्ष्यामण्डलतुल्यं प्रतिमण्डलम् इति । अत्र उच्यते - चतुर्थपदादौ कक्ष्याप्रतिमण्डले तुल्ये । तेन कक्ष्याप्रतिमण्डलयोः तुल्यं व्यासार्धम् । ततः प्रभृति प्रतिमण्डलव्यासार्धम् [क्रमेण उपचीयते] । एवं क्रमेण उपचीयमानमुच्चतुल्यग्रहे स्वोच्चवृत्तविष्कम्भार्धमुपचितं भवति । ततेव प्रथमपदादौ प्रभृति उत्क्रमेण अपचीयमानं प्रथमपदान्ते व्यासार्धमेव भवति । एवं क्रमेण अपचीयमानं द्वितीयपदान्ते उच्चवृत्तविष्कम्भार्धमपचितं भवति । तृतीये [पदान्ते] च उत्क्रमेण उपचीयमानमिति एतत्कक्ष्यामण्डलव्यासार्धमेव । ग्रहस्य उच्चनीचगतिक्रमातुपचयापचयात्मकं भवति इति अतः प्रतिमण्डलस्य उपदेशः । घनभूमध्यातेव ग्रहस्य उच्चनीचपरिज्ञानमिति अतः व्यासार्धमेव कोटिफलेन उपचीयते अपचीयते वा । अथ यदि प्रतिमण्डलमध्यात्व्यासार्धस्य वृद्धिह्रासौ स्याताम् । तदा तृतीयं मण्डलं परिकल्पयितव्यं स्यात् । घनभूमध्यात्कर्णस्य उपचयापचयौ, तेन तत्कर्णेन व्यस्तत्रैराशिकोपपत्तिः इति । एतत्गणितन्यायसिद्धमेव । शनिगुरुकुजेषु । शनिः च गुरुः च कुजः च शनिगुरुकुजाः । अतः तेषु शनिगुरुकुजेषु मन्दात्मन्दोच्चात्प्रभृति य[त्फलमुपपद्यते] ततर्धमृणं धनं वा भवति । पूर्वे पूर्वकर्मणि, मन्दात्प्रभृति इति । शीघ्रातपि च यत्फलं तत्तेषु अर्धं क्रियते प्रथमे शीघ्रकर्मणि । अन्यत्र द्वितीयकर्मणि मन्दशीघ्रयोः सकलफलमिति अर्थातवसीयते । मन्दशीघ्रफलानि काष्ठानि ऋणं धनं वा परिकल्प्यते । यतः काष्ठेन ग्रहः भ्रमति । तत्फलं क्व ऋणं क्व वा धनमिति - शनिगुरुकुजेषु । अत्र शनिगुरुकुजाः मध्यमाः एव परिगृह्यन्ते । कुतः? मध्यमस्य स्फुटीकरणोपायत्वात् । तदा हि एते स्फुटीभवन्ति । यदि एतत्कर्म शनिगुरुकुजेषु मध्यमेषु क्रियते, मन्दोच्चफलार्धेन मध्यमे ऋणधने कृते तस्य ऋणधनीकृतस्य मध्यमत्वं हीयते । [अतः] शीघ्रोच्चफलचापार्धस्य अविकृतमध्यमे धनर्णे प्राप्नुतःञ् । न एततस्ति । मन्दोच्चफलचापार्धधनर्णीकृतः एव भविष्यति । कुतः? "एकदेशविकृतमनन्यवत्भवति" इति [अष्टाध्यायी, ४.१.८३ पातञ्जलमहाभाष्यम्] एकदेशविकृतः अपि मध्यः एव । यथा देवकत्तः स्वलङ्कृतः अपि स्वमाख्यानम् न जहाति, न च कर्णनासावच्छेदेन अपि, एवमत्र अपि, द्वे कर्मणी तत्र तत्र एव मध्यमे क्रियेते । अथवा प्रथममध्यमात्मन्दोच्चायातं फलार्धं मध्यमोत्पन्नत्वात्मध्यमे क्रियते । यत्पुनर्शीघ्रोच्चायातं सकृत्संस्कृतात्फलार्धं तत्सकृत्संस्कृतायातमेव इति कृत्वा सकृत्संस्कृतः एव क्रियते । तस्मात्द्विकर्मसंसिद्धात्मन्दोच्चफलं तत्सकलमेव मध्यमे ग्रहे क्रियते । स स्फुटमध्यमः भवति । अथ इदं प्रष्टव्यम् - यतेतत्द्विकर्मसिद्धमन्दोच्चायातं तत्द्विकर्मसंसिद्धे एव कस्मात्न क्रियते । उच्यते - " मन्दोच्चात्स्फुटमध्याः" [कालक्रिया¡, २३] इति मध्यमे क्रियते । ननु च द्विकर्मसिद्धः अपि मध्यमः एव । कुतः? "एकदेशविकृतमनन्यवत्भवति" इति वचनात् । एवं तर्हि सिद्धे, पुनर्स्फुटमध्यमग्रहणं कुर्वनाचार्यः ज्ञापयति अविकृतमध्यः इति । अन्यथा हि स्फुटमध्यमग्रहणमतिरिच्यते । तस्मात्द्वितीयफलम् मन्दोच्चायातं तत्सकलमेव मध्यमे ग्रहे क्रियते । शीघ्रोच्चात्च स्फुटाः ज्ञेयाः इति । स एवंकृते स्फुटमध्यमः शीघ्रोच्चकर्मणा स्फुटः भवति इति स्फुटमध्यमे शीघ्रोच्चफलधनुः सकलं क्रियते, स्फुटः भवति । ऋणधनयुक्तिप्रदर्शनार्थं व्यासार्धतुल्येन कर्कटकेन समायामवनौ समवृत्तमण्डलमालिख्य मातृपितृरेखां कुर्यात् । तत्कक्ष्यामण्डलं राशिज्यारेखाविरचितम् । तन्मण्डलकेन्द्रात्यावत्यः अभीष्टग्रहान्त्यफललिप्ताः तावति अन्तरे च दक्षिणेन केन्द्रं कृत्वा व्यासार्धतुल्येन एव कर्कटकेन तथा एव समवृत्तमण्डलमालिखेत् । तत्प्रतिमण्डलम् । [कक्ष्या]मण्डलात्यावद्भिः प्रतिमण्डलं निष्क्रान्तं तावता व्यासार्धेन कक्ष्यामण्डलदक्षिणोत्तररेखासंपाते केन्द्रं कृत्वा उभयत्र वृत्तद्वयमालिख्य[ते । ते नीचोच्च]वृत्ते । तयोः यथा कक्ष्यामण्डले राशिज्याविकल्पः तथा करणीयम् । प्रथमचतुर्थयोः पदयोः कक्ष्यामण्डलातुपरिस्थितत्वात्प्रतिमण्डलस्य व्यासार्धे कोटिसाधनं प्रक्षिप्य कर्णः कृतः, तावत्प्रमाणं सूत्रम् [प्रतिमण्डलपरिधिम्] यत्र स्पृशति तत्र स्थाने स्फुटः ग्रहः । कक्ष्यामण्डलज्या च तस्मात्पुरतः इति अर्थः । प्रथमचतुर्थयोः पदयोः ततुत्पन्नं फलं मध्यमग्रहातपचीयते । द्वितीयतृतीययोः पदयोः कक्ष्यामण्डलातधोव्यवस्थितत्वात्प्रतिमण्डलस्य, व्यासार्धात्कोटिसाधनमपनीय कृतः कर्णः, तावत्प्रमाणं सूत्रं कक्ष्यामण्डलमध्यात्प्रतिमण्डलपरिधिं यत्र स्पृशति तत्र स्फुटः ग्रहः । स च कक्ष्यामण्डलज्याप्रदेशात्पुरतः अवतिष्ठते । तेन ततुत्पन्नं फलं द्वितीयतृतीययोः पदयोः मध्यमग्रहातुपचीयते । शीघ्रोच्चे पुनर्येषां क्षयधनधनक्षयाः स्युः मन्दोच्चातेवमेव शीघ्रोच्चातिति अयं पाठः तेषामियमृणधनोपपत्तिः । येषां पुनर्व्यत्ययेन शीघ्रोच्चातिति अयं पाठः तेषामियमेव उपपत्तिः विपरीता । कथम्? प्रतिमण्डले स्फुटः च ग्रहः, मध्यमः च शीघ्रोच्चपरिकल्पनाय कक्ष्यामण्डले । पुनर्केन्द्रज्या तेन प्रथमचतुर्थयोः पदयोः पृष्ठतः स्थितत्वात्मध्यमस्य केन्द्रज्याग्रहस्य आनीयमानस्य केन्द्रज्योत्पन्नम् फलं धनं भवति पुरःस्थितत्वात्केन्द्रज्याग्रहस्य, द्वितीयतृतीययोः पदयोः पृष्ठतः स्थितत्वात्केन्द्रज्याग्रहस्य तत्फलमपनीयते । अतः एवं मन्दशीघ्रयोः परस्परविरुद्धत्वातुपपत्तेः, आचार्येण परमार्थस्फुटग्रहप्रदेशः भूताराग्रहविवरप्रमाणप्रदेशः दर्शितः । तेन यावत्भूताराग्रहविवरप्रमाणं सूत्रं कक्ष्यामण्डलमध्यात्प्रतिमण्डलपरिधिं पदविभागेन प्रसारितं यत्र स्पृशति, तत्र स्फुटः ग्रहः । अन्ये पुनरन्यथा पठन्ति - शनिगुरुकुजेषु मन्दे अर्धमृणं धनं भवति पूर्वमिति । मन्दे मन्दोच्चे अर्धं फलस्य ऋणं धनम्, यदि तत्ग्रहे ऋणं धनं तदा तत्मन्दोच्चे धनमृणमिति अर्थातवसीयते । तत्र कियत्तत्फलं मन्दोच्चे ऋणं सत्धनं भवति, धनं सतृणं भवति इति उच्यते - शीघ्रोच्चफलं यस्मात्मन्दोच्चफलं च फलद्वयमेतत् । तयोः मन्दोच्चमाधारः । फलद्वयमाधेयः । अतः शीघ्रोच्चफलम् क्रियते । कर्मचतुष्टयग्रहणात्ततुत्पन्नं च फलं तत्र एव । तत्यथा - प्रागेव शीघ्रफलमानीय ततर्धमृणं धनं वा मन्दोच्चे कृत्वा तत्मन्दायातं च तेन फलद्वयसंस्कृतेन मन्दोच्चेन संस्कृतः स स्फुटमध्यः ग्रहः भवति । स शीघ्रकर्मणा स्फुटः इति प्रक्रियान्तरमेतत् ॥ २२ ॥ [ प्रकारान्तरेण शनिगुरुकुजस्फुटीकरणम् ] ग्रहाणां स्फुटीकरणप्रकारान्तरमाह - मन्दोच्चात्शीघ्रोच्चातर्धमृणं धनं ग्रहेषु मन्देषु । मन्दोच्चात्स्फुटमध्याः शीघ्रोच्चात्च स्फुटाः ज्ञेयाः ॥ २३ ॥ मन्दोच्चात्यत्फलमायातं तस्य चापार्धमृणं धनं वा ग्रहेषु ऋणं धनम् [मन्देषु वा कर्तव्यम्] । एवं तर्हि चकारः कर्तव्यः । चकारेण विना ग्रहेषु मन्देषु च इति चार्थः न लभ्यते । न चकारः कर्तव्यः । अन्तरेण अपि चकारं चार्थः अवगम्यते । [कथम्?] एवम् - बाले वृद्धे क्षते क्षीणे क्षीरं युक्त्या प्रयोजयेत् । इति अत्र चकारेण विना चार्थस्य अवगमनात् । एवमयमपि । "स्व"मन्देषु अपि वक्तव्यम्, येन स्वेषु मध्यमेषु स्वेषु च मन्देषु क्रियते । "स्व"शब्दः अपि न कर्तव्यः । स्वस्य ग्रहस्य यः मध्यमः स्वस्य च यत्मन्दं तत्र एव कर्मसिद्धेः । यथा "मातरि वक्तव्यं पितरि शुश्रूषितव्यम्" इति । न च तत्र उच्यते - "स्वस्यां मातरि स्वस्मिन् वा पितरि" इति । एवमत्र अपि इति । अथ यतेतत्मन्दोच्चायातं फलार्धं तत्क्षयधनक्रमेण मध्ये ग्रहे धनमृणं वा क्रियते । मन्दे पुनर्कथं क्रियते, मन्दस्य ऋणधनक्रमस्य अनभिधानात्? उच्यते - मन्दोच्चं सर्वदा एव ग्रहस्य ऋणभूतम् । तत्र यत्ग्रहस्य ऋणं तत्मन्दोच्चे प्रक्षिप्यते, ऋणभूतत्वात् । यत्ग्रहे धनभूतं तत्मन्दोच्चातपनीयते, मन्दोच्चस्य ऋणभूतत्वातेव । अयं च गणितन्यायः - ऋण[ऋणयोः धन]धनयोः संक्षेपः ऋणधनयोः च विशेषः । इति । तस्मातनेन क्रमेण मन्दोच्चे फलार्धस्य उपचयापचयौ भवतः । शीघ्रोच्चात्च यत्फलार्धं ततपि एवमेव ग्रहवैपरीत्येन मन्दे धनमृणं वा क्रियते । ग्रहेषु पुनर्प्रयोजनाभावात्न क्रियते । मन्दोच्चात् । मन्दोच्चशीघ्रोच्चफलार्धेन संस्कृतं मन्दोच्चं परिगृह्यते । कुतः? कर्मद्वयवृत्तौ मन्दनिर्देशात् । तेन तादृग्विधेन मन्देन मध्यमात्विशोधितेन यत्फलमायातं तत्सकलं मध्येषु ऋणं धनं वा क्रियते । स्फुटमध्याः । [मध्यमस्य] स्फुटस्य अन्तर्वर्तित्वात्[स्फुटाः ये न, न अविकृतेषु] मध्यमेषु फलस्य करणात्मध्यमाःञ् । अथवा स्फुटस्य मध्यमाः स्फुटमध्यमाः । एकेन कर्मणा निष्पन्ना येन द्वितीयं कर्मान्तरमपेक्षन्ते । शीघ्रोच्चात्च स्फुटाः ज्ञेयाः । शीघ्रोच्चातायातं फलं तेन संस्कृताः स्फुटाः । चकारः फलयोः समुच्चयमभिधत्ते । ज्ञेयाः अवगन्तव्याः बोद्धव्याः इति यावत् ॥ २३ ॥ [ भृगुबुधयोः स्फुटीकरणम् ] भृगुबुधयोः कर्म आह - शीघ्रोच्चातर्धोनं कर्तव्यमृणं धनं स्वमन्दोच्चे । स्फुटमध्यौ तु भृगुबुधौ सिद्धात्मन्दात्स्फुटौ भवतः ॥ २४ ॥ शीघ्रोच्चातिति प्राक्शीघ्रोच्चनिष्पन्नं फलं गृह्यते । ततेव शीघ्रोच्चफलमग्रे । तत्र ततर्धोनमर्धमिति अर्थः । ऋणधनं कर्तव्यम् । यदि ग्रहे ऋणं तदा धनं कर्तव्यम् । धनस्य ऋणं कर्तव्यमिति अर्थातवसीयते । क्व इति आह - स्वमन्दोच्चे । स्वकीयं मन्दोच्चं स्वमन्दोच्चम्, तस्मिन् स्वमन्दोच्चे । स्फुटमध्यौ भृगुबुधौ भवतः । कथम्? सिद्धात्मन्दात् । यतेव शीघ्रोच्चफलार्धेन संस्कृतं मन्दोच्चं तत्सिद्धम् इति अभिधीयते । तस्मात्सिद्धात्मन्दात्स्फुटमध्यौ भवतः । एततुक्तं भवति - यतेत[त्सिद्धमन्दं तत्मध्यम]ग्रहात्विशोध्य शेषफलस्य च ऋणधनेन तयोः भृगुबुधयोः मध्यौ स्फुटमध्यौ भवतः । "तु"-शब्दात्"शीघ्रोच्चात्च स्फुटाः ज्ञेयाः" [कालक्रिया¡, २३] इति एतत्क्रियते ॥ २४ ॥ [ भूताराग्रहान्तरालम् ] [भूताराग्रहा]न्तरालप्रमाणानयनाय आह - भूताराग्रहविवरं व्यासार्धहृतः स्वकर्णसंवर्गः । कक्ष्यायां ग्रहवेगः यः भवति स मन्दनीचोच्चे ॥ २५ ॥ ताराग्रहाणां भुवः च यतन्तरं तस्य आनयनोपायः उच्यते । भूताराग्रहविवरं भुवः ताराग्रहस्य च यतन्तरं तत्भूताराग्रहविवरं भवति इति वक्ष्यति । व्यासार्धहृतः स्वकर्णसंवर्गः । व्यासार्धं त्रिज्या । त्रिज्यया हृतः व्यासार्धहृतः । स्वकर्णयोः संवर्गः स्वकर्णसंवर्गः । एततुक्तं भवति - मन्दोच्चकर्णस्य शीघ्रोच्चकर्णस्य च यः घातः सः स्वकर्णसंवर्गः व्यासार्धहृतः । कक्ष्यायां ग्रहवेगः । तावतुच्छ्रितायाम् [कक्ष्यायाम्] ग्रहस्य यः मन्दशीघ्रोच्चफलजनितः वेगः स तस्य भूताराग्रहविवरस्य अग्रे भवति इति । अतः एव भूताराग्रहविवरं विक्षेपानयने भागहारः । अपरे आहुः - न भूताराग्रहविवरं भागहारः । कः तर्हि? व्यासार्धम् । यस्मातेततत्र त्रैराशिकम् - यदि त्रिज्यया स्वग्रहाभिहितविक्षेपः लभ्यते, अनया अभीष्टग्रहस्वपातविवरान्तरालांशज्यया भुजज्यया किमिति । न एतत्सम्यकवसीयते । यदि इदमेव त्रैराशिकं स्यात्, तदा नक्षत्रताराग्रहशशियोगाः सर्वदा तस्यामेव दिशि तुल्यविक्षेपविवराः स्युः, नक्षत्रताराणामुच्चनीचगत्यसम्भवात् । दृश्यन्ते च अमी ग्रहनक्षत्राणां दूरासन्न[वशात्] भेदांशुमर्दनसव्यापसव्ययोगगत[यः । यदि व्यासार्ध]मेव भागहारः स्यात्तदा सर्वे एव तुल्यगतयः स्युः । भूताराग्रहविवरम् । भूताराग्रहविवरवशात्विक्षेपः अल्पः महान् च नक्षत्रताराग्रहयोगेषु लभ्यते । [अल्पे वा] महद्विक्षेपे दक्षिणोत्तरदिग्वशात्नियतविक्षेपान्तरदिशः योगाः उपपद्यन्ते । तस्मात्भूताराग्रहविवरमेव भागहारः । एततपि कर्म त्रैराशिकद्वयम् । कथम्? यदि व्यासार्धतुल्यया पातान्तरभुजज्यया यथास्वं विक्षेपः अल्पः महान् च लभ्यते, तदा अन[या भुज]ज्यया पातान्तरोत्पन्नया कः इति विक्षेपः लभ्यते । [अतः] पुनरपि व्यस्तत्रैराशिकम् - यदि अयं विक्षेपः कक्ष्यामण्डले व्यासार्धविष्कम्भे लभ्यते, तदा परमार्थप्रतिमण्डले भूताराग्रहविवरविष्कम्भार्धे कियानिति । पूर्वत्रैराशिके व्यासार्धं भागहारः आसीत्, ततेव द्वितीयत्रैराशिके व्यस्तत्वात्गुणकारः । अतः गुणकारभागहारयोः नष्टयोः, पातान्तरभुजज्यायाः विक्षेपः गुणकारः, भूताराग्रहविवरम् भागहारः, फलमिष्टग्रहस्य विक्षेपः । एवमिष्टग्रहयोः विक्षेपावभिन्नदिक्कौ विशिष्यते, यस्मातपक्रममण्डलात्तौ प्रवृत्तौ । ततः तद्विशेषतुल्यं तयोः अन्तरं भवति, तत्र अपि तयोः ऊनाधिकविक्षेपवशात्परस्परापेक्षया [तयोः याम्योत्तरदिक्त्वम्] । भिन्नदिक्कौ विक्षेपौ योज्यते । यस्मातेकः अपक्रममण्डलात्दक्षिणेन अपरः उत्तरेण, तस्मात्तदन्तरम् [विक्षेपयोग]प्रमाणं भवति । विक्षेपलिप्तान्तरचतुर्भागः अङ्गुलप्रमाणं वाच्यम् । यदा पुनरन्तरलिप्ताः न स्युः, अल्पाः वा [स्युः] तदा तयोः अन्योन्याशेषात्छादनमेकदेशात्छादनं वा [भवति] । तत्र ग्रहणवतिष्टग्रहसंपर्कार्धतद्विक्षेप[विश्लेषेण योगेन वा] स्थित्यर्धनाडिकानयनम् । [ ताराग्रहाणां स्फुटयोजनकर्णानयनम् ] अथ नक्षत्रताराग्रहयोगेषु नतिलम्बनपरिज्ञानार्थमिदं कर्म क्रियते । "शशिङञणनमांशकाः" [गीतिका¡, ७] इति अत्र शशियोजनकर्णः ङादिभिः गुणितः शुक्रादीनां भागहाराः भवन्ति इति व्याख्यातम् । तेन शशियोजनकर्णः पञ्चभिः गुणितः शुक्रस्य योजनकर्णः भवति दशभिः गुरोः, पञ्चदशभिः बुधस्य, विंशत्या शनेः, पञ्चविंशत्या अङ्गारकस्य । यदि एवं तर्हि ग्रहाणां कक्ष्याभिधानं विरुध्यते । न एषः दोषः । तावत्कक्ष्यास्थाः एव ग्रहाः, अत्र पुनर्ङादिगुणकारैः दृष्टिपरिकर्म क्रियते इति । अयं योजनकर्णः भूताराग्रहविवरगुणितः व्यासार्धहृतः स्फुटः भवति । एततपि त्रैराशिकम् - यदि व्यासार्धलिप्ताभिः एतावन्ति योजनानि लभ्यन्ते भूताराग्रहविवरलिप्ताभिः कियन्ति इति, अथवा त्रैराशिकद्वयैकीकरणेन अभीष्टग्रहस्फुटयोजनकर्णः आनीयते । कथम्? भूताराग्रहविवरानयने व्यासार्धं भागहारः आसीत्, इह च भूताराग्रहविवरस्वमध्यमयोजनकर्णाभ्यासस्य व्यासार्धमेव भागहारः । अतः भागहारयोः संवर्गः मन्दोच्चशीघ्रोच्चकर्णस्वमध्यमयोजनकर्णाभ्यासस्य भागहारः । फलं स्फुटयोजनकर्णः । तयोः अयमर्थः सञ्जातः - मन्दशीघ्र[कर्ण]गुणितः मध्यमयोजनकर्णः व्यासार्धकृतिविभक्तः स्फुटयोजनकर्णः भवति । मन्दनीचोच्चे मन्दस्य मन्दोच्चस्य उच्चे नीचे च आनीतः मन्दकर्णः एव अनेन विधिना स्फुटीकृतः इति । [ ग्रहस्फुटीकरणे विशेषः ] अथ विवस्वद्धनर्णोदयास्तमयवशात्सामान्यसर्वग्रहाणां स्फुटगणितविधिविशेषः अभिधास्यते । तत्यथा - सवितुः भुजाफलेन रव्यादिभुक्तयः गुणिताः खखषड्घनेन विभज्य आप्तकला ग्रहेषु भुजाफलधनर्णवशात्क्रियते । तत्विचार्यते - इदं कर्म अनुपदिष्टं कथमवगम्यते? न एषः दोषः । उपदिष्टमेव एतत्- "बुधाह्न्यजार्कोदयात्च लङ्कायाम्" [गीतिका¡, ४] इति । अर्कोदयावधेः गतेः एतेषां प्रतिपच्छेदौ इति उपदेशात् अर्कः हि स्फुटगणितावगतगतेः एव उदयशिखरमध्यास्ते इति स्फुटस्य अर्कस्य उदयः परिगृह्यते । स्फुटगतिः च मध्यमा एव स्वभुजाफलादिलिप्ताभिः उपचितापचिता वा इति अतः भुजाफललिप्ताभिः प्राणतुल्याभिः त्रैराशिकं क्रियते - यदि अहोरात्रप्राणैः खखषड्घनतुल्यैः विवस्वदादिस्फुटभुक्तयः लभ्यन्ते, भुजाफललिप्ताभिः प्राणतुल्याभिः किमिति । आसां भुजाफललिप्तानां प्राणतुल्यत्वमिति । अत्र उच्यते - रव्युदयातेव ज्योतिश्चक्रादेः अपि उदयादिः इति व्याख्यातम् । तेन प्रवहाक्षेपात्मध्यमः सर्वदा स्वभुजाफलेन अधिकः ऊनः वा भवति । यदा अधिकः तदा ज्योतिश्चक्रं भुजाफललिप्तातुल्यं रविगत्या जीयते, [ऊनः चेत्भुजाफललिप्तातुल्यं रविगत्या अपचीयते] इति । अनया परिकल्पनया ज्योतिश्चक्रसम्बन्धिन्यः तदा भुजाफललिप्ताः भवन्ति, ज्योतिश्चक्रलिप्ताः प्राणाः च तुल्याः इति । अतः तासां प्रा[णतुल्यभुजाफललिप्तानामभावः, अहर्गणाताग]तः [सकलः सूर्यः] यदा स्वोच्चतुल्यः तदा एव उदये भवति इति । अन्यथा तत्र अपि भुजान्तरफलं क्रियते एव । अर्कः हि स्फुटगणि[तावगतेः एव उदय]शिखरमध्यास्ते इति । एवमेतेषां विवस्वदादीनां ग्रहाणां स्फुटगतयः सूर्योदयावधेः भवन्ति इति अतः रवि[वशातेव उपचयापच]यात्मकं फलं क्रियते । देशान्तरचरदलकर्मणी च अनया एव उपपत्त्या । अर्धरात्रास्तमयदिनमध्यसंस्थितसूर्या[त्त्रैराशिकम्] - यदि षष्ट्या नाडीभिः यथास्वं मध्यमा भुक्तिः लभ्यते तदा पञ्चदशभिः घटिकाभिः त्रिंशता पञ्चचत्वारिंशद्भिः च किमिति [फललि]प्ताः औदयिकेभ्यः ग्रहेभ्यः विशोध्यन्ते, ततः तेन रव्यादयः तात्कालिकाः भवन्ति । तेषां च स्फुटप्रक्रिया पूर्वाभिहिता एव । [दिनमध्यार्धरात्रयोः चर]दलकर्म न प्रवर्तते । क्षितिजमण्डलप्राप्त्यतिक्रान्ती रव्युदयास्तमययोः एव इति । एवमादित्यगत्यवधयः ग्रहाः । यदा पुनर्पर[स्य ग्रहस्य रवेः इव] कल्प्यन्ते तदा चन्द्रोद[यज्ञा]नेन उदयकालमेव अवगत्य तदुदयकालावधयः क्रियन्ते । [तिथिप्रतिपच्छेदपरिज्ञानम् ] एवं यथोपदिष्टगणितप्रक्रिय[या तिथि]प्रतिपच्छेदपरिज्ञानाय उच्यते । तत्यथा - स्फुटशशिनः स्फुटः रविः अपनीयते, यस्मात्तिथिः शशिमासवशात्भवति तेन "रविशशियोगाः भवन्ति [शशिमासाः" [कालक्रिया¡, ५] इति स्फुटविधो]रिनः अपनीयते । यथासम्भवमत्र भगणः न सम्भवति इति राश्यादयः एव राश्यादिभ्यः अपनीयन्ते । अथवा क[ल्पादितः ये रविघगणाः] भुक्ताः ते शशिभगणेभ्यः विशोध्यन्ते, राश्यादिभ्यः राश्यादयः इति । तत्र अवशिष्टाः शशिमासादयः भवन्ति । [मासानां प्रयोजनाभावः इ]ति मासाः त्यज्यन्ते । तत्र ये अवशिष्टाः राश्यादयः वर्तमानशशिमासस्य अवयवभूताः तैः लिप्तीकृतैः त्रैराशि[कम् - यदि खखषड्घन]तुल्येन सूर्याचन्द्रमसोः विशेषेण शशिमासः लभ्यते तदा आभिः चन्द्रादित्यविशेषलिप्ताभिः कियच्छशिमास्[आः इति सम्पूर्ण]मासं न प्रयच्छति इति दिवसाः क्रियन्ते । "त्रिंशद्दिवसः भवेत्स मासः" [कालक्रिया¡, १] इति त्रिंशत्कः गुणकारः । तत्र गुणकारभागहारयोः अपवर्तने [त्रिंशतः त्रिंशद्भागेन एकम्] खखषड्घनस्य तावद्भागेन सप्तशतानि विंशत्यधिकानि । सप्तशत्या विंशत्युत्तरया रविचन्द्रविवरलिप्ताः विभज्यन्ते । [फलं गततिथयः व]र्तमानशशिमासस्य शुक्लप्रतिपत्प्रवृत्ताः, तत्र शेषलिप्ताः वर्तमानतिथेः भुक्ताः, तद्विशुद्धाः भागहारलिप्ताः भोज्याः इति । अतः ताभिः भुक्तभोज्यलिप्ताभिः त्रैराशिकम् - यदि ततहः सूर्याचन्द्रमसोः स्फुटभुक्त्यन्तरलिप्ताभिः एकः शशिदिवसः लभ्यते ततः आभिः भुक्तभोज्यलिप्ताभिः कियान् शशिदिवसस्य लभ्यते इति, तत्र दिवसेषु भागं न प्रयच्छन्ति इति नाड्यः क्रियन्ते । "षष्टिः नाड्यः दिवसः" [कालक्रिया¡, १] इति षष्ट्या सङ्गुणय्य स्फुटभुक्त्यन्तरलिप्ताभिः भागलब्धाः भुक्तभोज्याः तिथेः नाड्यः सूर्योदयावधेः गताः गन्तव्याः वा भवन्ति इति । [ सूर्याचन्द्रमसोः समलिप्तीकरणम् ] इष्टकालावधेः वा पर्वणि समलिप्ताविधानम् । गतगन्तव्यतां पर्वणः विधाय गतगन्तव्यलिप्ताभिः त्रैराशिकम् । तत्यथा - यदि सूर्याचन्द्रमसोः तद्दिनस्फुटभुक्त्यन्तरलिप्ताभिः सूर्याचन्द्रमसोः स्फुटभुक्तिः यथास्वं लभ्यते ततः आभिः गतगन्तव्यतिथिलिप्ताभिः कियत्यः स्फुटभुक्तिलिप्ताः इति लब्धाः लिप्ताः रवौ गन्तव्यपर्वणि प्रक्षिप्यन्ते, शशिनि च । अथ गतपर्वणि तयोः एव यथास्वं त्रैराशिकायातलिप्ताः विशोध्यन्ते । एवम् गन्तव्यगतपर्वणः पर्यवसानकालिकौ समलिप्तौ भवतः इति गणितपादे अपि अस्माभिः "भुक्तेः विलोमविवरे" [गणित¡, ३१] इति अस्यामार्यायां संक्षेपतः अभिहितमिति कृत्वा इह तु विस्तरेण प्रदर्शितम् । [ चन्द्रनक्षत्रप्रतिपच्छेदपरिज्ञानम् ] चन्द्रयुक्तेन नक्षत्रेण व्यवहारः इति प्रत्यहं चन्द्रयुक्तनक्षत्रप्रतिपच्छेद [परिज्ञानम्] क्रियते । तत्यथा - शशिलिप्ताभिः त्रैराशिकम् - यदि मण्डललिप्ताभिः खखषड्घनतुल्याभिः सप्तविंशतिः नक्षत्राणि लभ्यन्ते ततः [आभिः चन्द्रगतलिप्ताभिः किमिति । अत्र गुणकारभागहारयोः अप]वर्तनं क्रियते । सप्तविंशतेः सप्तविंशतिभागेन एकं खखषड्घनस्य अपि तावत्भागेन अष्टौ [शतानि, अतः शशिलिप्ता]नामष्टाभिः शतैः भागे नक्षत्राणामश्विन्यादीनाम् [यानि गतानि तेषां संख्या] लभ्यते । शेषे गतगन्तव्यं कृत्वा वर्तमानस्य नक्षत्रस्य गतगन्तव्याः नाड्यः साध्यन्ते । कथम्? यदि स्फुटभुक्त्या षष्टिः नाड्यः लभ्यन्ते, आभिः गतगन्तव्यलिप्ताभिः कियत्यः इति गतगन्तव्यनाड्यः लभ्यन्ते । शशिभुक्तेः अहोरात्रकालावधिनिष्पन्नत्वात्, अहोरात्रस्य च प्रमाणं षष्टिः नाड्यः इति षष्ट्या त्रैराशिकं क्रियते ॥ २५ ॥ इति भास्करस्य कृतौ आर्यभटतन्त्रभाष्ये कालक्रियापादः समाप्तः ॥ ङोलपादः [मङ्गलाचरणम् ] नमः सन्मङ्गलज्ञानपूर्णकुम्भाय राजते । सुरासुरशिरोघृष्टपादपीठाय वेधसे ॥ [ गोलबन्धः ] कालक्रियानन्तरं गोलम्, "त्रीणि गदति गणितं कालक्रियां गोलम्" इति उक्तत्वात् । गम्यते ज्ञायते अस्मातिति गोलम् । किं पुनरस्मात्गम्यते? ग्रहभ्रमणधरित्रीसंस्थानादीनि सर्वम् । एवं परमार्थजिज्ञासवः हि असत्यपूर्वकं सत्यं प्रतिपद्यन्ते । तत्यथा भिषजः हि उत्पलनालादिषु सिरावेधनादीनि प्रतिपद्यन्ते, यज्ञशस्त्रविदः शुष्केष्ट्या यज्ञादीनि [प्रतिपद्यन्ते], वैयाकरणाः प्रकृतिप्रत्ययलोपागमवर्णविकारादिभिः साधुशब्दं प्रतिपद्यन्ते, एवमत्र अपि सांवत्सराः वृत्तशलाकासूत्रावलम्बकादिभिः क्षेत्रगणितविशेषैः पारमार्थिकं गोलं प्रतिपद्यन्ते । तस्मात्दिङ्मात्रप्रदर्शनमेव एततारभ्यते, अशक्यत्वातशेषप्रदर्शनस्य । कः हि चित्रयन्निमेषोन्मेषादि अपि चित्रयति । तस्मात्श्रीपर्णिवञ्चुलकाष्ठयोः अन्यतममर्धवृत्तचक्रस्वरूपं क्राकचिकैः वृत्तमेकं निष्पादयेत् । ततः सुघटितार्धवृत्तद्वयेन त्रिभिः वा सुघटितवृत्तशकलैः वृत्तमेकं निर्मापयेत् । तत्र वृत्तशकलसन्धिच्छेदाः त्रयः शुरपुङ्खपार्श्वच्छेदावयवार्धच्छेदः इति । तत्र एतेषामन्यतमेन वृत्तशकलानि अन्योन्यं घटयेत् । ताम्रकीलकैः तत्र एवं निष्पन्नमेकं वृत्तं पूर्वापरं निधाय द्वितीयं दक्षिणोत्तरमुपरि अधः च जनितस्वस्तिकं स्वस्तिकसम्पाते च मण्डलद्वयमर्धच्चेदेन छित्वा तथा संयोज्यं यथा एकमेव वृत्तं लक्ष्यते । तौ विहितार्धच्छेदेन स्वस्तिकचतुष्टयं प्रवेश्य निश्चलं निदध्य ताम्रकीलकैः निश्चलीक्रियते । ततः तयोः मण्डलयोः बहिः परिकरवत्दिक्चतुष्टयजनितस्वस्तिकमन्यं तथा एव अर्धच्छेदेन स्वस्तिकचतुष्टयं प्रवेश्य निश्चलं निदध्यात् । पूर्वापरमण्डलं षष्ट्यङ्काङ्कितं कारयेत्, यथा एकैकस्मिन् चतुर्भागे पञ्चदश पञ्चदशाङ्काः स्युः । ते च अहोरात्रघटिकाः । एवं परिशेषं मण्डलद्वयमपि, एकैकं षष्टिशतत्रयाङ्कितम् [कारयेत्] । तानि विषुवत्[याम्य उत्तरक्षितिज]मण्डलानि । तत्तुल्यमेव अपरं मण्डलं षष्टिशतत्रयाङ्कितम् पूर्वस्वस्तिके अपरस्वस्तिके च तिर्यक्त्रिभागच्छेदं कृत्वा द्वौ त्रिभागौ मण्डलप्रदेशस्य स्वस्तिकं घटयेत् । यथा वा मण्डलत्रयसम्पातमेकमेव लक्ष्यते तथा अवछेदः कल्पनीयः । पूर्वापरदक्षिणोत्तरमण्डलयोः यः अधः स्वस्तिकः तस्मातुत्तरेण उत्तरशलाकायां चतुर्विंशतिभागे तथा एव अर्धच्छेदेन स्वस्तिकं कारयेत् । उपरि अपि तथा एव उपरिस्वस्तिकात्दक्षिणेन [दक्षिण]शलाकायां चतुर्विंशतितमे भागे स्वस्तिकं कारयेत् । सर्वत्र निश्चलीकरणम् ताम्रकीलकैः । एवं तिर्यक्राशिपदः व्यवस्थितः । स एव अपमण्डलमिति उच्यते । तावत्प्रमाणमेव अन्यत्मण्डलं सञ्चारि यत्र चन्द्रमसः सम्पातः वर्तते तस्मिन् बध्वा ततः उत्तरेण परतः निवतितमे भागे यथा च अर्धपञ्चमभागाः तस्य च अपक्रममण्डलस्य च अन्तरे भवन्ति तथा विधाय पातभागे चक्रार्धान्तरे बधीयात् । एवं ततः दक्षिणेन नवतितमे भागे अर्धपञ्चमा भागाः तस्य अपक्रममण्डलस्य च यथा अन्तरे भवन्ति तथा निदध्यात् । एवं तत्विमण्डलम्, ततेव विक्षेपमण्डलमिति उच्यते । एवमन्येषामपि स्वेभ्यः स्वेभ्यः पातभागेभ्यः अपि मण्डलानि । बुधशुक्रयोः शीघ्रोच्चाभ्याम् । स्वाहोरात्रमण्डलानि अपि सञ्चारीणि - विषुवतः उत्तरेण मेषापक्रमकाष्ठतुल्यान्तरे पूर्वापरायतं मण्डलं मेषस्य अहोरात्रमण्डलम्, वृषान्तापक्रमतुल्यकाष्ठान्तरे वृषस्य, मिथुनान्तापक्रमतुल्यकाष्ठान्तरे मिथुनस्य, तानि एव उत्क्रमेण कर्कटकसिंहकन्यानाम्; एवम् [विषुवतः] दक्षिणेन तुलावृश्चिकधनुषां स्वाहोरात्रमण्डलानि, तानि एव उत्क्रमेण मकरकुम्भमीनानाम् । स्वाहोरात्रमण्डलेषु दक्षिणोत्तरायतानि सूत्राणि बध्नीयात् । तेषामर्धानि अपक्रमज्याः । मेषस्य अहोरात्रमण्डलेन उन्मण्डलस्य यत्र सम्पातः तत्र सूत्रस्य एकमग्रं बध्वा मीनस्य अहोरात्रोन्मण्डलसम्पाते द्वितीयमग्रं बध्नीयात् । भूमध्यावभेदिसूत्रं विषुवता सह बध्नीयात्, तस्य प्रथमसूत्रस्य च यत्र सम्पातः तत्र प्रथमसूत्रार्धं भवति । एवमन्येषां सूत्राणामर्धानि । तानि सर्वाणि अहोरात्रापक्रमज्याः सन्ति । अशक्यत्वात्क्वचित्तु प्रदर्श्यन्ते । यानि विक्षेपापक्रमस्वाहोरात्रमण्डलानि व्याख्यातानि [तानि न] प्रदर्श्यन्ते । अन्यथा कालसमः गोलः भ्रमयितुं न शक्यते, मण्डलबहुत्वात् । अथ सुश्लक्ष्णामृज्वीमयःशलाकां गोपुच्छायतवृत्तां दक्षिणोत्तरस्वस्तिकावभेदिनीं निर्गतोभयाग्रां पञ्जरभारसहां निदध्यात् । तन्मध्ये भुवं समवृत्तां मृदा अन्येन वा रचयेत् । एवमयमेकः एव पञ्जरः सर्वेषां ग्रहाणाम् । यस्मात्भिन्नकक्ष्यास्थाः अपि ग्रहाः एककक्ष्यागताः एव उपलक्ष्यन्ते, तस्मातयमेव एकः पञ्जरः । अथवा सर्वेषामेव पृथक्पृथक्पञ्जराः यावत्तावत्परिच्छिन्नस्वकक्ष्याप्रमाणाः एव प्रदर्शयितव्याः । अथवा पञ्जरस्य बहिः [दक्षिणोत्तर]स्वस्तिकयोः अयःशलाकायां त्र्यङ्गुलां चतुरङ्गुलां वा श्लक्ष्णां शरदण्डिकां निश्चलां निदध्यात् । ततः यावत्तावत्प्रमाणपरिच्छिन्नखकक्ष्यापरिकल्पितमुभयतः चक्रार्धान्तरकृतवेधम् [मण्डलम्] दक्षिणोत्तरावगाहि निधाय तस्य मध्ये पञ्जरं प्रवेश्य तामयःशलाकामुभयत्र पार्श्ववेधौ प्रवेशयेत्, यथा सा शरदण्डिका पञ्जरद्वयसीमावगाहिनी भवति । तावत्प्रमाणमेव अन्यद्वृत्तम् पूर्वापरावगाहि उपरि अधः च जनितस्वस्तिकं पूर्ववत्निदध्यात् । तत्सममण्डलम् । पुनरपि तावतेव अन्यत्मण्डलं परिकरवत्दिक्चतुष्टयजनितस्वस्तिकं दक्षिणोत्तरस्वस्तिकसम्पातकृतवेधमुभयत्र लोहशलाकां प्रवेश्य निश्चलं निदध्यात् । तत्क्षितिजमण्डलम् । एवमयं गोलः विषुवति समः एव अवतिष्ठते । विषुवतः उत्तरेण यावानक्षः तावत्सु भागेषु खगोलोत्तरस्वस्तिकातुपरि वेधं कारयेत्, दक्षिणतः च तावति एव अन्तरे [अधः] वेधः । पूर्ववेधाभ्यामयःशलाकां निष्कास्य स्वदेशाक्षभागप्रमाणपरिकल्पितवेधयोः प्रवेशयेत् । एवं स्वविषयाक्षप्रमाणेन अवस्थितः गोलः, तत्र सर्वमेव प्रदर्शयेत् । अथ खगोलप्रमाणमेव अन्यद्वृत्तमुभयतः चक्रार्धान्तरकृतवेधमुत्तरः निर्गतायःशलाकाग्रं प्रवेशयेत् । द्वितीयवेधं दक्षिणतः निर्गतायःशलाकाग्रं प्रवेशयेत् । तत्र तत्निश्चलं निधाय, तस्य पूर्वापरस्वस्तिकसम्पाते पूर्ववत्तिर्यग्भेदेन पूर्वापरस्वस्तिकयोः निश्चलं तत्मण्डलं निदध्यात् । ततुन्मण्डलमिति आचक्षते । सर्वाणि एव वृत्तानि षष्टिशतत्रयभागाङ्कितानि कारयेत् । अन्ये पुनर्समायामवनौ खगोलार्धप्रमाणमवटं खात्वा तत्र यथा क्षितिजमण्डलमुपरि भवति तथा अर्धनिमग्नं खगोलं निधाय दर्शयन्ति । एवमयं काष्ठमयः गोलः क्रियते । काष्ठासम्भवे परिपक्वाल्पसुषिरश्लक्ष्णवंशशलाकावृत्तैः वा गोलः क्रियते । एवं गोलं बध्वा सर्वमेव अवशेषं शास्त्रे व्याख्यायते । [ भगोले अपक्रममण्डलम् ] अत्र आदितः एव तावतपक्रममण्डलमाह - मेषादेः कन्यान्तं सममुदकपमण्डलार्धमपयातम् । तौल्यादेः मीनान्तं शेषार्धं दक्षिणेन एव ॥ १ ॥ मेषादेः मेषस्य आदिः मेषादिः, तस्मात्मेषादेः, कन्यान्तमन्तं पर्यवसानम्, कन्यायाः अन्तं कन्यान्तम्; मेषादेः आरभ्य यावत्कन्यान्तम् । समं तुल्यम् । उदकुत्तरेण । अपमण्डलार्धम् । अपमण्डलस्य अपक्रममण्डलस्य अर्धम्, अपक्रममण्डलार्धम् । अपयातं तिर्यक्व्यवस्थितम् । तौल्यादेः तौलिनः आदिः तौल्यादिः, तस्मात्तौल्यादेः, मीनस्य अन्तं मीनान्तम्; तौल्यादेः आरभ्य यावत्मीनान्तम् । शेषार्धं शेषं च तदर्धम् च शेषार्धम्, अथवा शेषस्य ज्योतिश्चक्रस्य अपमण्डलसंज्ञितस्य अर्धं शेषार्धम् । तत्दक्षिणेन, दक्षिणदिग्भागेन तदर्धम् । "एव"शब्दः आर्यापूरणार्तह्ं प्रतिपादितः । अथवा एवमर्धमात्रमपि पश्चार्धे प्रदर्शयति, यथा उत्तरेण सममपक्रममण्डलं तिर्यक्व्यवस्थितम्, एवमत्र अपि दक्षिणेन तस्य एव अपक्रममण्डलस्य अर्धं तिर्यकेव अवतिष्ठते इति । अत्र विना अपि "सम"शब्देन षड्राशिप्रमाणाभिधानातुदग्दक्षिणापक्रममण्डलार्धसमत्वं गम्यते, समग्रहणमतिरिच्यते । न अतिरिच्यते - प्रतिदेशमक्षविशेषात्राशीनामुदयकालाः विषमाः उपलक्ष्यन्ते, तेन समशब्दातृते विषमप्रमाणानां राशीनां ग्रहणं स्यात्, ततः च अक्षविशेषात्मेषादीनामपक्रमज्याः प्रतिदेशं भिन्नप्रमाणाः स्युः । "सम"शब्दे पुनर्क्रियमाणे तुल्यप्रमाणराशिग्रहणं सिद्धम्, यस्मात्सर्वः एव राशिः ज्योतिश्चक्रद्वादशभागः, स च त्रिंशत्त्रिंशद्भागप्रमाणः इति ।ेवमपक्रममण्डलं विषुवतः उत्तरेण मेषादेः कन्यान्तं तिर्यकवतिष्ठते । ततेव तुल्यादेः मीनान्तं दक्षिणेन विषुवतः तथा एव अवतिष्ठते । कथमिदमनुक्तं गम्यते विषुवतः इति । न एषः दोषः । उदग्दक्षिणेन इति ब्(र्)उवनाचार्यः सिद्धमेव विषुवन्मण्डलं प्रदर्शयति । अन्यथा हि उदग्दक्षिणेन इति, एततनर्थकं स्यात् । उदग्दक्षिणशब्दौ च दिग्वाचिनौ, दिक्व्यवस्था अपेक्षया भवति । अतः पूर्वं विषुवन्मण्डलं बध्वा ततः अपक्रममण्डलं बध्यते । सर्वाणि एव मण्डलानि षष्टिशतत्रयाङ्कितानि क्रियन्ते, यस्मात्षष्टिशतत्रयांशं ज्योतिश्चक्रम् ॥ १ ॥ [ अपक्रममण्डलचारिणः ] तस्मिन् च अपक्रममण्डले के भ्रमन्ति इति आह - ताराग्रहेन्दुपाताः भ्रमन्ति अजस्रमपमण्डले अर्कः च । अर्कात्च मण्डलार्धे भ्रमति हि तस्मिन् क्षितिच्छाया ॥ २ ॥ ताराग्रहाः भौमबुधबृहस्पतिशुक्रशनैश्चराः, ताराग्रहेन्दुपाताः भ्रमन्ति अजस्रमव्यवच्छेदेन, अपमण्डले अपक्रममण्डले, अर्कः च न केवलमेते ताराग्रहेन्दुपाताः अपमण्डले भ्रमन्ति, अर्कः च । तत्र अपमण्डले अजस्रमर्कः च भ्रमति । अर्कात्च मण्डलार्धे अर्कात्पुनर्मण्डलार्धे षड्राश्यन्तरे, भ्रमति हि तस्मिन् तत्र मण्डलार्धे, भूच्छाया । यथा स्तम्भादीनां प्रदीपवशात्छाया भ्रमति, एवं भुवः अपि अर्कवशात्, न केवलं ताराग्रहेन्दुपाताः इति । पातानामपक्रममण्डले गतिः उक्ता । तत्किमिदानीमर्कात्मण्डलार्धे भूच्छाया भ्रमति इति उच्यते । न च भूच्छायाव्यतिरिक्तः पातः अस्ति चन्द्रमसः । न एषः दोषः । सर्वेषामेव ताराग्रहाणां ये पाताः ते अपक्रममण्डले भ्रमन्ति । चन्द्रमसः पुनर्पातः अर्कात्मण्डलार्धे अपक्रममण्डले भ्रमति इति एततेव अर्थम् । "अर्कात्च मण्डलार्धे भ्रमति हि तस्मिन् क्षितिच्छाया" इति कथयति । ननु च बुधादीनां ये पाताः ते निश्चलाः तेषाम् निश्चलानां कथमपक्रममण्डलगतिः उच्यते ? न ते निश्चलाः, "नवराषह गत्वा अंशकान् प्रथमपाताः" [गीतिका¡, ९] इति अत्र "गत्वा"-शब्देन तेषां गत्युपदेशात् । "ताराग्रहेन्दुपाताः" इति इयमार्या किमर्थमारभ्यते? ताराग्रहादीनां गतिः अपक्रममण्डले विज्ञायते । उक्तं च "भापक्रमः ग्रहांशाः" [गीतिका¡, ८] इति सर्वे[षां गतिमता]मेते अपक्रमभागाः इति । यदि च गीतिकोक्तमपि अत्र पुनरुच्यते, तदा तर्हि बहु अत्र अभिधेयमिति । अथवा रवेः चक्रार्धे भूच्छाया भ्रमति इति एतत्प्रदर्शयितव्यं स्यात्, तत्च न प्रदेशान्तरप्रदर्शितत्वात् । "भूरविविवरं विभजेत्" [गोल¡, ३९] इति अत्र प्रदीपच्छायोपपत्या भूच्छायानयनमुपदिशेत् । रवेः चक्रार्धे भूच्छाया भ्रमति इति एतत्प्रदर्शयति, यतः हि शङ्कः ऋजुस्थितस्य प्रदीपस्य ततृजुप्रवृत्तच्छाया । तस्मातियमार्या आरब्धव्या इति ॥ २ ॥ [ विक्षेपमण्डलचारिणः ] ग्रहाणां विक्षेपमण्डलप्रदर्शनाय आह - अपमण्डलस्य चन्द्रः पातात्याति उत्तरेण दक्षिणतः । कुजगुरुकोणाः च एवं शीघ्रोच्चेन अपि बुधशुक्रौ ॥ ३ ॥ अपमण्डलस्य । अपमण्डलमपक्रममण्डलम् । अपक्रममण्डलस्य चन्द्रः । अपमण्डलसंबन्धी चन्द्रः "अपमण्डलस्य चन्द्रः" इति उच्यते । अपमण्डलसंस्थितः वा चन्द्रः अपमण्डलस्य चन्द्रः, यथा - कुसूलस्य व्रीहयः । अथवा अधिकरणार्था इयं षष्ठी, यतः हि एकशतं षष्ठ्यर्थाः, अपमण्डले चन्द्रः इति एतस्मिनर्थे । स अपमण्डलव्यवस्थितः चन्द्रः पातात्याति गच्छति । पातशब्देन चन्द्रमसः विक्षेपापक्रममण्डलयोः संयोगः अभिधीयते । तस्य च संयोगस्य प्रतिक्षणं गतिमत्त्वात्, सा गतिः पातशब्देन अभिधीयते, उपचारात् । अतः स गतिसंज्ञितः पातः यस्मिन् राशौ यावतिथे भागे वर्तते तस्मिन् राशौ तावतिथे भागे अपक्रममण्डलप्रमाणमेव अन्यत्मण्डलं तस्मिन् बध्वा द्वितीयमर्धं चक्रार्धान्तरे तथा एव बध्नीयात्यथा ततपक्रममण्डलातुत्तरेण अवतिष्ठते तस्य [प्रथममर्धम्], यथा द्वितीयमर्धं वा दक्षिणेन उपलक्ष्यते । एवं च प्रथमपातात् अपक्रममण्डलस्य उत्तरेण विक्षेपमण्डलम्, द्वितीयपातात्च दक्षिणेन, उभयत्र चक्रचतुर्भागान्तरे यथा अर्धपञ्चमाः भागाः तस्य च अपक्रममण्डलस्य अन्तरे भवन्ति तथा बध्नीयात्विक्षेपमण्डलम् । तस्मिन् चन्द्रमाः भ्रमति । विषुवतः उत्तरेण दक्षिणेन वा ततपक्रममण्डलम् । तस्मातपक्रममण्डलातुत्तरेण दक्षिणेन वा विक्षेपमण्डलं प्रदर्शयेत् । चन्द्रस्य च विक्षेपमण्डलव्यवस्थितस्य विषुवतः च अन्तरानयने इयं युक्तिः - स्फुटचन्द्रमसः भुजज्यया त्रैराशिकम् - यदि व्यासार्धतुल्यया भुजज्यया चतुर्विंशत्यपक्रमभागज्या लभ्यते ततः चन्द्रभुजज्यया का इति, अपक्रमभागज्या लभ्यते । ततः पातातपक्रममण्डलव्यवस्थितः चन्द्रः दक्षिणेन उत्तरेण वा याति इति उक्तवान् । पातावधि परिज्ञानाय स्फुटचन्द्रमसः पातः विशोध्यते, तत्र विशेषस्य या ज्या तया त्रैराशिकम् - यदि व्यासार्धज्यया चन्द्रविक्षेपभागज्या लभ्यते अनया इष्टज्यया का इति, इष्टविक्षेपज्या लभ्यते । तयोः विक्षेपापक्रमज्ययोः काष्ठीकृतयोः तुल्यदिक्कयोः योगः, यस्मातपक्रममण्डलात्परतः चन्द्रः वर्तते । भिन्नदिक्कयोः विशेषः, यस्मातारातपक्रममण्डला[त्विक्षेपमण्डलम्] चन्द्रः च । गोले यथार्थं प्रदर्शयेत् । योगविश्लेषभागानां या ज्या तावतन्तरं विषुवतः चन्द्रमसः च । ज्याप्रमाणेन काष्ठप्रमाणमुक्तम् । कुजगुरुकोणाः च एवं भौमबृहस्पतिशनैश्चराः च । यथा चन्द्रः स्वस्मात्पातातुत्तरेण दक्षिणेन वा अपक्रममण्डलस्थितः याति, एवमेव कुजगुरुकोणाः । एतेषां विक्षेपमण्डलानि विक्षेपापक्रमयोगविशेषयुक्तयः चन्द्रवत्प्रतिपत्तव्याः । चकारः एततेव अर्थं समुच्चिनोति । शीघ्रोच्चेन अपि बुधशुक्रौ । शीघ्रोद्भूतेन बुधशुक्रौ पातात्विक्षेपमण्डलयोः भ्रमतः । एतयोः शीघ्रोच्चौ अपक्रममण्डले पातभागप्रमाणगती भवतः । पातभा[गात्तत्तत्प्रदेशे] विक्षेपमण्डले बध्नीयात् । [एवं तर्हि] एतयोः अपक्रमपरिज्ञानमपि शीघ्रोच्चातेव । कुतः? अपक्रममण्डलात्पातात्विक्षेपं ब्रुवता तदुच्चयोः अपक्रममण्डलस्थितिः प्रदर्शिता भवति, यतः अपक्रममण्डलस्थितः विक्षेपमण्डले प्रवर्तते । [ते]न सम्यकिदमवगम्यते - एतयोः अपक्रममपि शीघ्रोच्चातिति । कुतः विक्षेपस्य एव केवलस्य? "शीघ्रोच्चेन अपि बुधशुक्रौ" इति शीघ्रोच्चात्पातप्रवृत्तातेतयोः विक्षेपपरिज्ञानमुच्यते, नापमपरिज्ञानम् । अतः स्वतः ए[व ए]तयोः अपक्रमानयनं शीघ्रोच्चात् । एवमपि अपक्रममण्डलस्थितौ एतौ विक्षेपमण्डले प्रतर्तते इति एत[तुपप]न्नमेव । एतत्कुतः विक्षेपपरिज्ञानमात्रमेव एतयोः? उपायान्तरेण विक्षिप्तं पुनर्स्वतः एव अपमण्डलात्प्रतियक्षेण उपदिष्टम्, चन्द्रविक्षेपप्रदर्शितमेव अर्थविशेषं सम्भावयति । सर्वेषामेव विक्षेपः अपक्रममण्डलातुत्तरेण दक्षिणेन च । [पातात्] चक्रचतुर्भागान्तरे यथा उक्ताः [विक्षे]पभागाः विक्षेपापक्रममण्डलयोः अन्तरे यथा अवतिष्ठन्ते तथा प्रदर्श्यन्ते । "अपमण्डलस्य चन्द्रः पातात्याति" इति एततपि गीतिकासु उपपदिष्ट[पातानुसारेण अव]धेयम् । शशी विक्षेपमण्डलस्थितपातात्प्रभृति विक्षेपमण्डले प्रवर्तते, इति एततनुक्तं न गम्यते । "शीघ्रोच्चेन अपि बुधशुक्रौ" इति ए[ततपि] वक्तव्यम् । अतः अवश्यमेततार्यासूत्रं वक्तव्यम् ॥ ३ ॥ [ ग्रहाणां कालांशाः ] ग्रहाणामुदयास्तमयपरिज्ञानाय आदित्यग्रहान्तरभागानाह - चन्द्रः अंशैः द्वादशभिः अविक्षिप्तः अर्कान्तरस्थितः दृश्यः । नवभिः भृगुः भृगोः तैः द्व्यधिकैः द्व्यधिकैः यथा श्लक्ष्णाः ॥४॥ चन्द्रः अंशैः द्वादशभिः । अयमंशशब्दः सामान्येन विभागमात्रवाची । तेन "सामान्यचोदनाः च विशेषे अवतिष्ठन्ते" इति अंशविशेषेषु अवस्थाप्यन्ते । विशेषः च कालांशता । एते कालविभागाः । ते कालभागाः उच्यन्ते । "प्राणेन एति कलां भम्" [गीतिका¡, ६] इति उक्तम् । तेन उच्छ्वासप्राणस्य लिप्तासंज्ञात्वम् । ततः प्राणानां सप्तशतस्य विंशत्यधिकस्य [७२०] द्वादश भागाः, घटिकाद्वयमिति अर्थः । यतः घटिकाद्वयस्य प्राणाः सप्तशतानि विंशत्यधिकानि [७२०] । अथवा सूर्यात्पश्चात्प्राक्वा कालेन अन्तरितः ग्रहः यस्मात्[दृश्यः तस्मात्] कालांशत्वम् । एवं कालभागैः द्वादशभिः अन्तरितः चन्द्रः । अविक्षिप्तः, न विक्षिप्तः अविक्षिप्तः । अर्कान्तरस्थितः । अर्कातन्तरमर्कान्तरम्, तस्मिनर्कांतरे द्वादशकालांश-प्रमाणेन अविक्षिप्तः व्यवस्थितः, नभसि व्यपेताभ्रतमसि लक्ष्यते । यदा पुनरसौ विक्षिप्तः घटिकाद्वयातूनाधिके काले दृश्यते, यस्मातर्कातुत्तरेण विक्षिप्तः चन्द्रः गोलस्य उत्तरोन्नतत्वातूने अपि घटिकाद्वये काले दृश्यते, दक्षिणविक्षिप्तः च उन्नतत्वात्गोलस्य दक्षिणेन घटिकाद्वयाधिककाले दृश्यते । तस्मातुक्तमविक्षिप्तः इति । तस्मात्विक्षेपकर्मकृत्वा एततन्तरमालोच्यते । नवभिः भृगुः । तथा एव कालभागैः नवभिः अर्कान्तरस्थितः अविक्षिप्तः भृगुः दृश्यते । नवभिः कालभागैः विक्षिप्तस्य विक्षेपकर्म चन्द्रवतेव । भृगोः तैः । भृगोः शुक्रस्य ये भागाः । नवभिः भृगुः तैः द्व्यधिकैः द्व्यधिकैः इति एतावता सिद्धे पुनर्भृगुग्रहणं कुर्वनाचार्यः ज्ञापयति - भृगोः इयं काष्ठभागाः नव इति, तेभ्यः एव नवभ्यः गुर्वाद्यन्तरभागप्रतिपत्तिः । अन्यथा हि अयं भृगुः अतः न्यूनेषु अपि त्रिषु चतुर्षु वा अन्तरितः वक्रकाले उदयास्तमयौ कुर्वन् लक्ष्यते इति एतत्पुनर्भृगुग्रहणम् । तैः द्व्यधिकैः द्व्यधिकैः इति वीप्साग्रहणं च भागद्वयान्तरग्रहणार्थम् । अन्यथा हि सर्वेषामेव नव एव भागाः स्युः । यथा श्लक्ष्णाः । एते ग्रहाः श्लक्ष्णाः परिहीयमानशरीराः प्रतिपादिताः तथा द्व्यधिकैः द्व्यधिकैः अर्कान्तरस्थिताः अविक्षिप्ताः सन्तः दृश्यन्ते । उक्तः च एषां यथाश्लक्ष्णक्रमः - भृगुगुरुबुधशनिभौमाः शशि-ङ-ञ-ण-न-मांशाकाः । [गीतिका¡, ७] इति । भृगोः भागैः द्व्यधिकैः बृहस्पतिः दृश्यते षड्भागोनघटिकाद्वयेन, तैः द्व्यधिकैः बृहस्पतेः त्रयोदशभिः षड्भागोत्तरघटिकाद्वयेन बुधः, बुधभागैः द्व्यधिकैः शनैश्चरः सार्धेन घातिकाद्वयेन, शनैश्चरभागैः द्व्यधिकैः भौमः षड्भागोनघटिकात्रयेण, एतावद्भिः कालभागैः अन्तरिताः दृश्यन्ते इति उक्तम् । अदर्शनं पुनरेषां कथमवगम्यते? केचित्तावताहुः - एतावद्भिः एव भागैः । कुतः? तुल्यता संहितायाम् । अर्कान्तरस्थितः दृश्यः अदृश्यः च । कथमेतावद्भिः एव बागैः दृश्यः अदृश्यः च? यदा अर्कात्निष्क्रामति ग्रहः तदा तावद्भिः एव दृश्यते, यदा स एव अर्कं प्रविशति तदा [तावद्भि]ः एव अन्तरितः न दृश्यते । एतत्च [न] - यावता निष्क्रामतः प्रविशतः वा ग्रहस्य तुल्यमिदमन्तरम्, तेन दृश्येन वा ग्रहेण भवितव्यमदृश्येन वा । स तावतिष्टकालांशकैः दृश्यः एव उपलभ्यते । तस्मात्तुल्यसंहिताव्याख्यानमसतिति । कथं तर्हि? उच्यते - एतावद्भिः एव भागैः अर्कान्तरस्थितः निष्क्रामत्प्रविशत्वा दृश्यते । ऊनैः अतः दृश्यते इति अर्थातवगम्यते, अधिकैः पुनर्नितरां दृश्यते इति एततशास्त्रज्ञः अपि जानाति । कालानयनं पुनरत्र देशान्तराक्षविशेषराश्युदयप्रमाणैः परिकल्प्यते । तत्यथा - यदि त्रिंशता स्वदेशराश्युदयकालः लभ्यते तदा इदानीं निष्पन्नार्कग्रहान्तरभागैः कः इति, कालः लभ्यते । स यदि अभीष्टग्रहान्तरकालेन तुल्यः तदा असौ ग्रहः दृश्यते, ऊने अस्तं गतः, अधिके नितरां दृश्यते । अथवा स्वदेशराश्युदयेन त्रिंशता च त्रैराशिकं कृत्वा सर्वराशिषु अन्तरभागानयनम् - यदि राश्युदयकालेन त्रिंशद्भागाः लभ्यन्ते तदा इष्टग्रहान्तराभिहितकालेन कियन्तः इति सर्वराशिषु अन्तरभागाः लभ्यन्ते । तैः वा सकृत्सिद्धैः एव अन्तरभागैः इष्टदेशे ग्रहस्य दर्शनं वक्तव्यम् । ग्रहाणां पूर्वोदयास्तमययोः इदं कर्म । अपरोदयास्तमययोः तत्सप्तमराश्युदयकालेन एतत्परिकल्पनम्, यस्मातुदयराशिवशातेव अस्तं राशयः गच्छन्ति ॥ ४ ॥ [ भूग्रहादीनां प्रकाशहेतुः ] धरित्रीग्रहनक्षत्रताराणां प्रकाशहेतुप्रदर्शनाय आह - भूग्रहभानां गोलार्धानि स्वच्छायया विवर्णानि । अर्धानि यथासारं सूर्याभिमुखानि दीप्यन्ते ॥ ५ ॥ भूः पृथिवी । ग्रहाः सूर्यादयः । भानि ज्योतींषि नक्षत्राणि । भूः च ग्रहाः च भानि च भूग्रहभानि, तेषां भूग्रहभानाम् । गोलार्धानि । धरित्र्यादीनां शरीराणि गोलशब्देन उच्यन्ते । अतः तेषां गोलानामर्धानि गोलाकारशरीरार्धानि इति यावत् । कथमेते ग्रहादयः गोलाकारशरीराणि प्रतिपद्यन्ते? भुवं तावतन्ये शकटाकारां दर्पणवृत्ताकारां च मन्यन्ते । न एततेवम् । यथा गोलाकारा भूः प्रतिपद्यते तथा उत्तरतः वक्ष्यामि । कथं पुनरत्र अमी ग्रहाः गोलाकाराः प्रतिपद्यन्ते? अथ च दर्पणवृत्ताकारौ सूर्याचन्द्रमसौ लक्ष्येते, एवमन्ये अपि । अन्यत्च - स्थित्यर्धादिपरिलेखनप्रक्रिया च गोलाकारशरीरेषु न घटते । न एततस्ति । एते ग्रहादयः गोलशरीराः अपि सन्तः दूरदेशवर्तित्वात्दर्पणवृत्ताकाराः उपलक्ष्यन्ते । या स्थित्यर्धादिपरिलेखनप्रक्रिया सा दृग्विषया, तस्याः दृग्विषयत्वात्यथादर्शनगतानि एव बिम्बसंस्थानानि अङ्गीकृत्य आचार्येण उक्तम् । अथवा गोलाकारेषु अपि स्थित्यर्धाद्युपपत्तिः शक्यते वक्तुम् । यस्मात्विक्षेपादयः बिम्बमध्यात्प्रवृत्ताः तावत्ज्ञात्वा गोलकानां बिम्बार्धं दर्पणवृत्ताकारः इव यथा भ्रमन्निष्पादितः समुद्गतः तस्याः उदरं दर्पणवृत्ताकारमेव उपलक्ष्यते, तस्मात्गोलाकारात् अपि स्थित्यर्धाद्युपपत्तिसिद्धिः च । अतः परमार्थतः एव गोलाकाराः, अन्यथा हि चन्द्रमसः सितक्षयवृद्धी दर्पणवृत्ताकारे बिम्बे न संवदेते । तस्मात्गोलाकारशरीराः एते । उक्तं च - सूर्यः अग्निमयः गोलः चन्द्रः अम्बुमयः स्वभावतः स्वच्छः । इति । स्वच्छायया विवर्णानि । स्वा च्छाया स्वच्छाया, तया स्वच्छायया अर्धानि एषाम् [विवर्णानि अप्रकाशात्मकानि कृष्णानि इति अर्थः, न ततः अन्यत्काराण]मस्ति वैवर्ण्यस्य । यथा घटस्य आतपस्थस्य एकं पार्श्वं स्वच्छायया एव विवर्णम्, एवमत्र अपि । या[नि अर्धानि] प्रकाशन्ते तानि सूर्याभिमुखानि । अर्धानि । तेषां गोलानामर्धानि, यावन्ति अवशिष्टानि स्वच्छायावैवर्ण्यानि व्यतिरिक्तानि । यथासारम् । अल्पानामल्पानि, महतां महान्ति । सूर्याभिमुखानि, आदित्याभिमुखानि । दीप्यन्ते चकासन्ति । [ चन्द्रस्य सितभागः ] यदि अर्धानि ग्रहाणां सूर्याभिमुखानि चकासन्ति तदा किमिति चन्द्रमसः अर्धबिम्बं सर्वदा न चकास्ति? चकास्ति एव । किमिति न उपलभ्यते? उच्यते - अमावास्यायां चन्द्रमसः उपरि आदित्यः तदा तस्य चन्द्रमसः उपरि यत्बिम्बार्धं ततशेषमवभासयति । चन्द्रस्य अमावास्योपलक्षितोपरिबिम्बकेन्द्रात्यथा यथा पश्चातादित्यः अवलम्बते तथा तथा बिम्बकेन्द्रमपि अपरतः अवलम्बते । तत्केन्द्रवशात्चन्द्रमसः बिम्बार्धं यावत् एव अमावास्योपलक्षितं बिम्बपरिध्यर्धावधेः अवलम्बते तावत्चन्द्रमसः बिम्बमस्माभिः उपलक्ष्यते । शेषमुपरिस्थितत्वात्न उपलक्ष्यते । सूर्याभिमुखमपि सवितृकरा[त्छादितमपि न दृश्यते] । तस्मात्यावत्यावत्चन्द्रमसः बिम्बं सवितृबिम्बात्श्लक्ष्णमवलम्बते तावान् स्वच्छः चन्द्रमसः शुक्लः उपलक्ष्यते । तेन च अमी ज्योत्स्नावितानावभासिनः चन्द्रकराः । तेन तर्हि सवितृमरीचयः तु स[लिल]मये स्वभावातेव [स्वच्छ]चन्द्रबिम्बे सम्मूर्च्छिताः नैशं ध्वान्तमवध्वांसयन्ति, यथा दर्पणे जले वा दिवसकराः सम्मूर्च्छिताः सन्तः गृहान्तर्गतं तमः क्षपयन्ति । [ चन्द्रशृङ्गोन्नतिः ] अन्यत्च - यः यः चन्द्रबिम्बप्रदेशाः सवितृमार्गे ऋजुत्वेन व्यवस्थितः स एव शृङ्गोन्नतौ उपलभ्यते, न इतरः । तथा च तत्जिज्ञासवः कर्म कुर्वन्ति । तत्यथा - शुक्लप्रतिपदादिषु सूर्यार्धास्तमयकालिकौ सूर्याचन्द्रमसौ कृत्वा सूर्योनचन्द्रोत्क्रमज्या गृह्यते । सा यस्मात्प्रतिदिवसमुपचीयमाना, चन्द्रमसः शुक्लमुपचीयते । उत्क्रमज्या च उपचीयमानप्रमाणा । तेन तया उत्क्रमज्यया त्रैराशिकम् - यदि व्यासार्धतुल्यया उत्क्रमज्यया स्फुटचन्द्रबिम्बार्धमुपलभ्यते, तदा अनया उत्क्रमज्यया कियतिति, तत्कालसितमानं लभ्यते । शुक्लाष्टम्याः परतः या सितवृद्धिः सा क्रमज्यावशातुपचीयमाना लक्ष्यते इति क्रमज्या गृह्यते । ताः क्रमज्याः पूर्वोपचितव्यासार्धज्यासु प्रक्षिप्य त्रैराशिकं क्रियते । अथवा - ताभिः एव क्रमज्याभिः चन्द्रबिम्बार्धेन त्रैराशिकं कृत्वा यत्लब्धं चन्द्रबिम्बार्धे प्रक्षिप्तं सितमानं भवति । शुक्लप्रतिपदादिषु यथा चन्द्रमसः सितमानं वर्धते तथा कृष्णप्रतिपत्प्रभृतिभ्यः सितमानमुत्क्रमेण अपचीयते । तेन सूर्याचन्द्रमसोः विशेषात्राशिषट्कमपनीय तथा एव कर्म क्रियते । [ चन्द्रस्य दर्शनकालः ] दर्शनकालः हि यावन्तं कालं चन्द्रः दृश्यते । यवता कालेन उदेति ततानयनोपायः - शुक्लपक्षे तावतुदयराशिवशातेव ज्योतिश्चक्रगतिः इति अतः यावन्तः सूर्यात्चन्द्रराशिभागाः तावन्तः एव उदयावधेः स्वदेशराश्युदयप्राणाः परिगृह्यन्ते । तत्यथा - आस्तमयिके सवितरि षड्राशयः परिक्षिप्यन्ते स सूर्यात्सप्तमः राशिः भवति । तथा च चन्द्रमसि षड्राशयः परिक्षिप्य सूर्यगतराशिभागान् त्रिंशता विशोधयेत्शेषं सूर्यस्य आगतराशिभागः । तत्षड्राशियुतसूर्यवर्तमानराश्युदयेन सङ्गुणय्य त्रिंशता विभजेत्, लब्धं प्राणाः । तानेकतः विन्यसेत् । सूर्यागतराशिभागान् च षड्राशियुतसूर्ये प्रक्षिप्य तावत्स्वदेशराश्युदयप्राणाः संकलनीयाः यावत्षड्राशियुतचन्द्रगताः भागाः । ततः षड्राशियुतचन्द्रगताः भागाः तत्राश्युदयप्राणैः सङ्गुण्य त्रिंशता विभजेत्, लब्धं प्राणाः । तान् पूर्वसङ्कलितप्राणान् च सर्वानेकत्र न्यस्तप्राणेषु प्रक्षिप्य षड्भिः भागः, लब्धं विघटिकाः, षष्ट्या घटिकाः । एवं घटिकादिलक्षणः दर्शनकालः । तावता कालेन सूर्याचन्द्रमसोः गतिविशेषः अस्ति इति अविशेषकर्म प्रवर्तते । तत्यथा - यदि षष्ट्या घटिकाभिः सूर्यभुक्तिः चन्द्रभुक्तिः वा लभ्यते ततः अनेन दर्शनकालेन ते कियत्यौ तयोः भुक्ती इति । सूर्यभुक्तिलब्धं षड्राशियुक्तसूर्ये प्रक्षिपेत्, चन्द्रभुक्तिलब्धमपि षड्राशियुतचन्द्रमसि प्रक्षिप्य तावतिदं कुर्यात्यावतविशेषः । तत्र यः अविशिष्टः कालः स दर्शनकालः । तावन्तं कालं शर्वर्याम् शशी दृश्यते । यः च षड्राशियुक्तः चन्द्रः अविशिष्टः तस्मात्चक्रार्धमपनयेत्तावान् चन्द्रः दर्शनकालपरिसमाप्तौ अस्तमेति । अथ कश्चित्यदि कियता कालेन अ[न]स्तमिते सवितरि चन्द्रोदयः भविष्यति इति एतत्जिज्ञासुः, इदं कर्म कुर्यात् । तत्यथा - अविकृतास्तमयकालादित्यभागेभ्यः प्रभृति तावत्प्राणाः संकलनीयाः यावतविकृतशीतांशोः गतभागप्राणाः । तान् पूर्ववत्घटिकाः कृत्वा [दिन]प्रमाणघटिकाभ्यः विशोधयेत् । तत्र यः शेषः स दिवसशेषः । तावता दिवसशेषेण तदा चन्द्रोदयः भविष्यति । अत्र अपि सूर्याचन्द्रमसोः अविशेषकर्म प्रवर्तते । तत्यथा - आसाम् नाडीनां यः यः भोगः तेन अधिकौ सूर्याचन्द्रमसौ इति अतः ताभ्यामपनीय अपनीय अविशेषः क्रियते । अविशेषितः दर्शनकालः तावता कालेन दिवसशेषः एव चन्द्रोदयः । यः असौ अविशिष्टः चन्द्रः तावान् तत्र दिवसशेषोदयकाले चन्द्रः । अथवा प्रथमानीतदिवसशेषचन्द्रोदयकालेन चन्द्रमसः भुक्तिं सङ्गुणय्य षष्ट्या विभजेत् । लब्धं चन्द्रात्विशोधयेत् । स तावत्दिवसशेषकालिकः चन्द्रः भवति । ततः प्रथमानीतदिवसकालेन उदयलग्नं कुर्यात् । ततुदयलग्नं तेन दिवसशेषोदितचन्द्रेण तुल्यं यदा, तदा दिवसशेषं चन्द्रोदयकालः । अथ यदि तस्मात्लग्नातूनः चन्द्रः तदा प्रथमतरमुदितः इति । तयोः लग्नचन्द्रयोः अन्तरालप्राणान् प्रथमानीतदिवसशेषकालात् विशोधयेत् । तेषां च प्राणानां यावती चन्द्रभुक्तिः त्रैराशिकेन लभ्यते तावती प्रथमदिवसशेषोदितकालचन्द्रात्विशोध्यते तावान् चन्द्रः दिवसशेषोदितः, तावान् च दिवसशेषकालः । चन्द्रः च यदा अधिकः तदा पूर्ववत्तदन्तरप्राणान् दिवसशेषकाले प्रक्षिपेत्तावतां प्राणानां चन्द्रभोगं चन्द्रमसि प्रक्षिपेत्, तावत्कर्म यावतविशेषः । अथवा प्रथमास्तमयिकचन्द्रातेव अन्तरोत्पन्नदिवसशेषकालभोगः चन्द्रमसः विशोध्य तत्काललग्नक्रमेण अविशेषकर्म क्रियते । अथ यदि उदयलग्नात्चन्द्रः अधिकः तदा [कियन्]नाड्या अभ्युदेति चन्द्रः इति तदन्तरप्राणान् प्रथमानीतदिवसशेषे प्रक्षिपेत् । तत्भुक्तिं चन्द्रमसि प्रक्षिपेत्तावत्यावतविशेषः । एवमुदयलग्नं चन्द्रः च कृतः भवति, दिवसशेषचन्द्रोदयकालः च । एवं यावत्पौर्णमासी तावत्दर्शनकालानयनम् । पौर्णमास्यां पुनर्तावतेव अन्तरघटिकाः यदि दिनप्रमाणघटिकाभ्यः ऊनाः भवेयुः तदा अनस्तमिते आदित्ये चन्द्रोदयः, यदि अतिरिक्ताः तदा अस्तंगते । उभयत्र अपि अन्तरकालप्रमाणेन अविशेषकर्म अनन्तरकर्मवतेव । कृष्णपक्षप्रतिपदादिषु च चन्द्रादित्यान्तरघटिकाभ्यः दिनप्रमाणघटिकाः विशोध्य शेष[घटिका]भिः भुकिः त्रैराशिकेन सूर्याचन्द्रमसौ सञ्चार्य पुनर्तयोः अन्तरघटिकाभ्यः दिनप्रमाणघटिकाः विशोधयेत् । शेषघटिकाभिः चन्द्रादित्यौ तदन्तरालघटिकाः इति आद्यविशेषान्तं कर्म क्रियते, तत्र अविशिष्टेन कालेन [सूर्यास्तमयात्पश्चात्चन्द्रोदयः । एवम् एव अविशिष्टेन कालेन] सूर्योदयात्प्राक्चन्द्रोदयः । अथ अनस्तमिते सवितरि कियता कालेन चन्द्रः अस्तं यास्यति इति एतत्जिज्ञासुः इदं कर्म कुर्यात् । तत्यथा - सूर्योदयकालोत्पन्नं चन्द्रमसं कृत्वा तत्र राशिषट्कं प्रक्षिपेत् । [ततः] प्राक्चन्द्रोदयः [ज्ञातव्यः] । अथ औदयिकातादित्यात्षड्राशियुक्तनिशाकरावधेः स्वदेशराश्युदयविधानेन यावत्यः घटिकाः ताः अविशेष्यन्ते । कथम्? तासां त्रैराशिकेन यावत्चन्द्रमसः भुक्तिः तां चन्द्रमसि प्रक्षिपेतिति अतः पुनरपि तस्मातादित्यात् षड्राशियुक्तचन्द्रावधेः पूर्ववत्घटिकाः तावत्यावतविशेषः । तत्र याः अविशेषिताः घटिकाः तावतीभिः दिवसे व्यतीताभिः चन्द्रः अस्तमेति । दिवसप्रमाणात्विशोध्य शेषं दिनशेषघटिकाः च । अत्र यः अविशिष्टः चन्द्रः स तस्मिन् काले तावान्, यः च षड्राशियुक्तः चन्द्रः स तस्मिन् काले उदयलग्नमिति । [ चन्द्रस्य याम्योत्तरप्रदेशः ] अथ कश्चित्कियता कालेन शुक्लाष्टम्या परतः चन्द्रः गगनमध्यमवगाहते, कियान् वा तत्र चन्द्रः इति जिज्ञासुः, इदं कर्म कुर्यात् । अथ तत्कालात्परतः स्वधिया आसन्नौ मध्यलग्ननिशाकरौ अभ्यूह्य, तत्र यदि मध्यलग्ननिशाकरौ तुल्यौ स्यातां तदा तावान् चन्द्रः तावता एव कालेन गगनमध्यमारोक्ष्यति । अथ यदि अधिकः चन्द्रः तदा न अद्य अपि प्राप्नोति गगनमध्यम् । तत्र मध्यलग्नचन्द्रान्तरकालं स्वधिया अभ्यूहितकाले प्रक्षिप्य मध्यलग्नचन्द्रौ कुर्यात्यावत्तुल्यौ इति । अथ मध्यलग्नातूनः चन्द्रः तदा तदन्तरालकालं स्वधिया अभ्यूहित[कालात्विशोध्य] मध्यलग्नचन्द्रौ तावत्कुर्यात्यावत्मध्यलग्नचन्द्रौ तुल्यौ स्याताम् । एवं प्रसाधितगगनमध्याधिरूढामृतदीधितेः अपक्रमविक्षेपाक्षैः मध्यच्छाया प्रसाध्यते । [ चन्द्रशृङ्गोन्नतिपरिलेखनविधिःञ्] अथ चन्द्राग्राचन्द्रशङ्क्वग्रयोः तुल्यदिक्कयोः योगः, भिन्नदिक्कयोः विशेषः, तत्योगविशेषतुल्यमिष्टकाले [बाहु]ः चन्द्रमसः । स च अन्तरालतः सूर्याग्रया सह एकदिक्कं विशेष्यते, यतः अर्कातेव उत्तरेण दक्षिणेन वा चन्द्रः साध्यते, न विषुवतः । विदिक्कयोः योज्यते यस्मात्योगः अर्कचन्द्रान्तरम् । एतत्छेद्यके गोले वा प्रदर्श्यम् । एवं परिनिष्ठितप्रमाणं भुजा सूर्यात्याम्य उत्तरायता प्रसार्यते । चन्द्रशङ्कुः कोटिः । स यदि सूर्यात् उत्तरेण चन्द्रः तदा भुजोत्तराग्रतः पूर्वापरायता प्रसार्यते । यदा दक्षिणेन चन्द्रः सूर्यात्तदा तस्याः भुजायाः दक्षिणाग्रतः पूर्वापरायता । एवं भुजकोटी यथागतप्रमाणेन विन्यस्य भुजाकोटिमस्तकावगाही कर्णः दूरनिर्गताग्रः प्रसार्य कोट्यग्रकर्णसम्पाते केन्द्रं विरच्य चन्द्रबिम्बमालिखेत् । तस्य चन्द्रबिम्बपरिधेः अपरतः कर्णानुसारेण सितमानं नीत्वा बिन्दुं कुर्यात् । चन्द्रबिम्बकेन्द्रपूर्वापरे कर्णः, तत्मत्स्यविधानात्दक्षिणोत्तरे साध्ये । दक्षिणोत्तररेखाचन्द्रपरिधिसम्पाते बिन्दू क्रियेते । ततः ताभ्यां पूर्वविहितबिन्दुना च तथा छेद्यकविधानेन तत्बिन्दुत्रयशिरःस्पृग्वृत्तमालिखेत् । तस्य वृत्तस्य चन्द्रबिम्बपरिधेः च यतन्तरं तत्चन्द्रमसः शुक्लः । अथ एव श्र्ङ्गोन्नतिः नभसि उपलक्ष्यते । शुक्लाष्टम्याः परतः अस्तकालोदयलग्नाग्रज्यया अर्काग्रावत्कर्म [क्रियते] । चन्द्रोदयलग्नान्तरप्राणोत्पन्नः शङ्कुः, कोटिः अपराभिमुखी तथा एव प्रसार्यते । तत्र यथागतं सितमानं चन्द्रबिम्बप्रमाणात्विशोध्यं शेषमसितं भवति । तत्कर्णानुसारेण चन्द्रपरिधिपूर्वभागात्बिम्बान्तरे असितमानं नीत्वा बिन्दुं कुर्यात् । तेन दक्षिणोत्तरबिन्दुभ्यां च पूर्ववत्बिन्दुत्रयशिरःस्पृग्वृत्तमालिखेत् । तस्य चन्द्रबिम्बपरिधेः च यत् अन्तरं ततसितम् । कृष्णप्रतिपदादिषु च अपराभिमुखप्रसारितकोटिकर्णाग्रलिखितचन्द्रपरिध्यपरभागात्कर्णानुसारेण असितमन्तः पूर्ववत्वृत्तमालिखेत् । इष्टकाले तु यथा प्रत्यासन्नास्तोदयलग्नज्यामर्काग्रां परिकल्प्य तत्कालचन्द्रशङ्क्वग्रमापाद्य इष्टलग्नचन्द्रान्तरप्राणोत्पन्नशङ्कुकोट्या चन्द्रः परिलेखनीयः । एवं सर्वत्र क्षितिजातुपरि व्यवस्थितस्य चन्द्रस्य परिलेखनप्रक्रिया । [ गृहपटलं विदार्य शृङ्गोन्नतिदर्शनम् ] अथ शङ्कुभुजाकोटिकर्णप्रमाणपरिकल्पितयन्त्राग्रे गृहपटलबिम्बान्तरे शिशिरदीधितिगणितसितप्रमाणशृङ्गोन्नतिः प्रदृश्यते । तत्यथा - सम्यक्प्रसिद्धगृहोदरे पूर्वापररेखातः उत्तरेण दक्षिणेन वा परिकल्पिताङ्गुलप्रमाणमर्काग्रासूत्रं पूर्ववत्प्रसार्य बिन्दुं कुर्यात् । सः अर्कबिन्दुः । पूर्वापररेखायाः एव दक्षिणोत्तरतः चन्द्राग्रतः शङ्क्वग्रयोः योगविशेषज्याङ्गुलतुल्यं सूत्रं यथा आगतदिशं प्रसार्य बिन्दुं कुर्यात् । स शशिबिन्दुः । अर्केन्दुबिन्द्वोः अन्तराङ्गुलतुल्या भुजा । तत्काल[चन्द्र]शङ्कुतुल्या कोटिः अवलम्बकः । तदनुसारेण अवलम्बकस्थित्या चन्द्रबिम्बानुसारिण्या गृहपटलं विदारयेत् । तत्र शङ्क्वग्रायतदण्डशिरसि यथालिखितं तत्छेद्यकसितशृङ्गोन्नतिमर्कबिन्दुन्यस्तदृष्टिः कर्णानुसारेण उत्क्षिप्तावलम्बकाङ्गुलप्रमाणमस्तकासक्तं शशलक्ष्माणं पश्यति । एवमेव ग्रहाः अपि गृहोदरव्यवस्थितैः दर्शनीयाः इति । [ अर्धोदिते चन्द्रे शृङ्गोन्नतिकल्पना ] क्षितिजमण्डलाक्रान्तार्धबिम्बस्य चन्द्रमसः कोटेः अभावात्न परिलिख्यते । तत्र उदयास्तज्याचन्द्राग्रे शृङ्गस्य उन्नतिः परिकल्प्यते । तत्यथा - यदि चन्द्राग्रा दक्षिणेन उदयज्या उत्तरेण तदा चन्द्रमसः उत्तरशृङ्गं प्राक्प्रदृश्यते, यतः भवृत्तचन्द्रः दक्षिणेन व्यवस्थितः । भवृत्तचन्द्रानुसारेण च सूर्यमरीचयः चन्द्रबिम्बं कर्णगत्या अवगाहन्ते । यदा पुनर्चन्द्राग्रा उत्तरेण उदयज्या दक्षिणेन तदा चन्द्रमसः दक्षिणशृङ्गम् प्राक्प्रदृश्यते । यस्मात्चन्द्रमसः दक्षिणेन भवृत्तः स्थितः । भवृत्तानुसारेण च सूर्यमरीचयः चन्द्रबिम्बमवगाहन्ते । दक्षिणेन तुल्यदिक्कयोः विशेषः, चन्द्राग्रा यदा अतिरिच्यते तदा चन्द्रमसः उत्तरशृङ्गं प्राक्प्रदृश्यते, अन्यथा दक्षिणम् । उत्तरेण यदा चन्द्राग्रा अतिरिच्यते तदा दक्षिणशृङ्गं प्राक्प्रदृश्यते, अन्यथा उत्तरम् । यदा पुनर्विशेषेण न किञ्चितन्तरं तदा युगपतुभयशृङ्गदर्शनम् । यदा च उदयज्या चन्द्राग्रे न भवतः तदा च अस्तमये चन्द्रमसः अस्तलग्नज्यया चन्द्राग्रया च शृङ्गस्य प्राक्पश्चात्वा अस्तमयं परिकल्पनीयम् । [ चन्द्रस्य सितासितहेतुः ] एवं चन्द्रमसः सितासितशृङ्गोन्नतिदर्शनकालादयः सवितृवशातेव । एवं च निरुक्ते पठ्यते - तस्य एकौ रश्मिः चन्द्रमसं प्रति दीप्यते । न हि तेन उपेक्षितव्यम् । आदित्यतः अस्य दीप्तिः भवति । सुषुम्णः सूर्यरश्मिचन्द्रमाः गन्धर्वः । [वाजसनेयसंहिता, अ¡ १८, मं¡ ४०; तैत्तिरीयसंहिता, ३.४.७.१ ] इति अपि च निगमः भवति इति । तस्मातेतेन एव लिङ्गेन चन्द्रमार्गातुपरि सूर्यमार्गः इति, अन्यथा अनुपपत्या । परिशिष्टाः च ताराग्रहाः सूर्यमार्गातुपरि दूरेण व्यवस्थिताः । तेन तेषामारात्स्थितानि गोलार्धानि सर्वदा सकलानि एव चकासते । ऊर्ध्वमुखाः सूर्यमरीचयः सदा आराद्भागं प्रकाशयन्ति इति । बुधशुक्रयोः च प्रत्यासन्नवर्तित्वात्सर्वतः बिम्बमवगाहन्ते अर्कमरीचयः प्रदीपप्रत्यासन्नगोलवत्तेन तयोः अपि असकलबिम्बताभावः । यदि एवमस्तमिते सवितरि कथमेते ग्रहादयः चकासते सवितृकराभावात्? न एषः दोषः । भूमेः दूरेण सूर्यमार्गः । तेन उपरिमुखानां सूर्यमरीचीनां न व्यवधानाय भूः वर्तते । यथा घटस्य उपरि अधः दूरेण अवस्थितस्य प्रदीपस्य घटः न व्यवधानकारणम् । कृष्णपक्षप्रतिपदादिषु चन्द्रमसः बिम्बपूर्वभागः प्रत्यासन्नः सवितुः इति तेन तत्शुक्लमुपलभ्यते । रत्नानां च आदित्यकराः एव दीप्तिकारणत्वं प्रपद्यते । तेन तानि अपि रात्रौ न प्रकाशात्मकानि । उक्तं च रत्नपरीक्षायाम् - भानोः च भासामनुवेधयोगमासाद्य रश्मिप्रकरेण दूरम् । पार्श्वाणि सर्वाणि अनुरञ्जयन्ति गुणैः उपेताः स्फटिक्[आदयः हि] ॥ [यत्] उपाख्यानादिषु रत्नानि एव ध्वान्तं ध्वंसयन्ति इति श्रूयते ततुपाख्यान[मर्थवादमात्र]मेव । अन्ये पुनरन्यथा मन्यन्ते - स्वच्छायया अर्कसामीप्यात्विकलेन्दुसमीक्षणम् । इति । स्वच्छायया चन्द्रः शुक्लः उपलभ्यते, तस्य शुक्लस्य चन्द्रमसः सवितृसन्निकर्षात्वैवर्ण्यं भवति इति । कुतः एतत्? यदि स्वभावतः शुक्लस्य चन्द्रमसः सूर्यसन्निकर्षात्वैवर्ण्यं स्यात्तदा शुक्लप्रतिपदादिषु चन्द्रस्य अपरभागः विवर्णः स्यात्सूर्यसन्निकर्षात्, न पूर्वभागः । तथा च अवाङ्मुखं चन्द्रबिम्बमुपलक्ष्यते । तस्मात्मिथ्याज्ञानमेव एतत्यत्सौगतैः उच्यते ॥ ५ ॥ [ भूगोलसंस्थानम् ] भादिकक्ष्याभूसंस्थानप्रदर्शनाय आह - वृत्तभपञ्जरमध्ये कक्ष्यापरिवेष्टितः खमध्यगतः । मृज्जलशिखिवायुमयः भूगोलः सर्वतः वृत्तः ॥ ५ ॥ भानि ज्योतींषि नक्षत्राणि । तेषां भानां पञ्जरः भपञ्जरः । यस्मात्[भानि] समन्ततः वियति पञ्जरस्थानि इव लक्ष्यन्ते ततः अनेन दर्शनेन एततुक्तम् । वृत्तः च असौ भपञ्जरः च वृत्तभपञ्जरः । वृत्तभपञ्जरमध्यम्, मध्यमन्तः, तस्य वृत्तभपञ्जरस्य । तत्र वृत्तभपञ्जरमध्ये । कक्ष्यापरिवेष्टितः कक्ष्याभिः ग्रहाणां परिवेष्टितः कक्ष्यापरिवेष्टितः । खमध्यगतः, खमाकाशम्, तस्य मध्यं खमध्यम्, खमध्यंगतः खमध्यगतः, आकाशमध्यस्थः इति यावत् । कथमाकाशमध्ये निरालम्बना भूः अवतिष्ठते? [उच्यते - स्वभाव]प्राधान्यात्; यथा सलिलाग्निवायवः क्लेददहनप्रेरणात्मकाः, न तेषामन्यः अस्ति कश्चित्क्लेददहनप्रेरणप्रयोजकः, एवमियमपि भूः धारणात्मिका, न च धार्यमाणात्मिका । अथवा पतन्ती भूः, "पततु अधः" इति आह । अथ किमिदमधः नाम । यथा अस्मदीयानां पृथिवी अधः, एवं पृथिव्याः किमधः? "अधः"-शब्दः च दिग्वाची, दिशः च व्यवस्थापेक्षया भवन्ति । यथा यत्र विवस्वानुदेति सा प्राची, यत्र अस्तमेति सा परा, यस्यामदृश्यः गच्छति सा उत्तरा, शेषा दक्षिणा । आसामन्तरालेषु एव विदिशः । एवमुपरि अधः च पृथिवी अपेक्षया भवतः । तेन तस्याः पृथिव्याः न किञ्चितुपरि, न अधः, तस्मात्पतनाभावः भुवः । एवं च पृथिव्याः अर्धं परिवेष्ट्या अवस्थितः समुद्रः न पतिति । पतन्त्यां च भुवि लोष्टशिलीमुखादयः वियति क्षिप्ता न भुवमासादयेयुः । भूः मन्दम् पतति इति चेत्, साध्यते च एतत्मायाविद्भिः च, वियति खातकीलकः अनाश्रयः भवेत् । अथ अन्ये मन्यन्ते - शेषेण अन्येन [वा] भूः ध्रियते इति । ततुक्तम् । शेषादीनामपि अवश्यमाधारविशेषः कश्चित्कल्पनीयः, [तय अन्यः आ]धारः स्या[त्तस्य अपि अन्यः] इति अनवस्था । अथ ते स्वशक्त्या एव अवतिष्ठन्ते इति चेत्, भुवः एव कस्मात्सा शक्तिः न परिकल्प्यते । तस्मात्जगतः धर्माधर्मापेक्षया सर्वभूतधात्री भूः निश्चला आकाशे तिष्ठति । मृज्जलशिखिवायुमयः भूगोलः, प्रत्यक्षं यतः उपलभ्यते । सर्वतः वृत्तः । मृदादिना काष्ठादिना वा अयःशलाकायां मध्ये समवृत्तवतवगन्तव्यः । अस्य बहिः चन्द्रादीनां कक्ष्याः दर्शयितव्याः ॥ ६ ॥ [ भूगोलपृष्ठे प्राणिनां स्थितिः ] भूगोलप्रदर्शनाय आह - यद्वत्कदम्बपुष्पग्रन्थिः प्रचितः समन्ततः कुसुमैः । तद्वथि सर्वसत्त्वैः जलजैः स्थलजैः च भूगोलः ॥ ७ ॥ यद्वत्कदम्बपुष्पग्रन्थिः [समन्तात्केसरैः] प्रचितः, व्याप्तः इति अर्थः, तथा अयं भूगोलः समन्तात्जलजैः स्थलजैः च प्राणिभिः आवृत्तः । अथ ये भुवि व्यवस्थिताः प्राणिनः पर्वतादयः तेषां कथमवस्थानं ततुच्यते - यत्र यत्र प्राणिनः गच्छन्ति तत्र तत्र तेषां भूः एव अधः, वियतुपरि प्रतिभाति यथा अस्माकम् ॥ ७ ॥ [ भुवः वृद्ध्यपचयौ ] भूवृद्ध्यपचयज्ञानाय आह - ब्रह्मदिवसेन भूमेरुपरिष्टात्योजनं भवति वृद्धिः । दिनतुल्यया एकरात्र्या मृदुपचितायाः भवति हानिः ॥ ८ ॥ तृणकाष्ठभस्मादिरूपेण विद्यमानायाः [भुवः] योजनवृद्धिः भवति । अतः एव गृहपादपतडागादिखातेषु घटपिटकादि उपरि उपरि अवयवाः लभ्यन्ते । दिनतुल्यया एकरात्र्या ब्रह्मदिवसतुल्यया रात्र्या । मृदुपचितायाः भवति हानिः । मृदा उपचिता मृदुपचिता, तस्याः मृदुपचितायाः हानिः भवति । केन पुनर्कारणेन यतुपचितं बुवः तत्परिक्षीयते? ब्रह्मदिवसावसाने किल संवर्तकाभिधानैः जलधरैः विच्छिन्नधाराभिमुक्तेन पयसा यतुपचितं भुवः तत्परिक्षीयते ॥ ८ ॥ [ भूप्रमाणम् ] भूभ्रमणवाचकपूर्वोत्तरपक्षप्रतिपादनाय आह - अनुलोमगतिः नौस्थः पश्यति अचलं विलोमगं यद्वत् । अचलानि भानि तद्वत्समपश्चिमगानि लङ्कायाम् ॥ ९ ॥ अनुलोमगतिः नौस्थः, कश्चितनुलोमगतिः नौस्थः, पश्यति अचलम्, न चलं वस्तुगत्या अपि स्थिरम्, विलोमगं यथा पश्यति सरित्सागरोभयतटस्थितं वृक्षदिकम्, [तथा एव] च भूमौ प्राङ्मुखं भ्रमत्यामुपरि[स्थिताः जनाः] नभस्थितानि अचलानि भानि प्रतिलोमगानि अपरगानि पश्यन्ति । तथा हि लङ्कास्थाः भानि समपश्चिमगानि पश्यन्ति । लङ्का उपलक्षणमात्रम् । एवमन्ये अपि पश्यन्ति । तस्मातियं भूः एव प्राङ्मुखं भ्रमति । निश्चलं ज्योतिश्चक्रम् । भूगत्या तदुपरिस्थितः यः भचक्रप्रदेशः पुरस्तात्स उदयनिव च लक्ष्यते, यः तु मध्ये स गगनमध्यस्थितः इव, यः हि दूरेण सः अस्तं गच्छनिव लक्ष्यते । अन्यथा हि निश्चलस्य भचक्रस्य उदयास्तासम्भवः स्यात् । इदमस्य आदर्शनम् । भूमण्डले भ्रमति [सति] जगत्जलधिना आप्लावेत्, भूगोलवेगजनितप्रभञ्जनेन आक्षिप्ताः तरुशिखरप्रासादादयः विशीर्येरन् । पक्षिणः अपि वियति उत्पतन्न स्वनीडमासादयेयुः । तस्मात्धरित्रीभ्रमणे न किञ्चित्लिङ्गमस्ति । तस्मातन्यथा व्याख्येयं सूत्रम् । यथा अनुलोमगतिः नौस्थः पुरुषः चलवस्तूनि विलोमगं पश्यति, एवं भानि चलानि प्रवहानिलाक्षिप्तानि वेगवशात्लङ्कायां यानि वस्तूनि तानि प्रतिलोमगानि पश्यन्ति; अधोव्यवस्थितां भुवं निश्चलां भ्रमन्तीमिव पश्यन्ति । प्रत्यक्षे अपि नक्षत्राणि प्रागुदितानि अपरां दिशमासादयन्ति ॥ ९ ॥ [ भूभ्रमणकारणम् ] भ्रमणकारणमाह - उदयास्तमयनिमित्तं नित्यं प्रवहेण वायुना क्षिप्तः । लङ्कासमपश्चिमगः भपञ्जरः सग्रहः भ्रमति ॥ १० ॥ उदयः च अस्तमयः च [उदयास्तमयौ । तयोः ] उदयास्तमययोः निमित्तं नित्यं प्रवहेण प्रवहसंज्ञितेन वायुना क्षिप्तः भपञ्जरः, भपञ्जरः अपि नित्यगतिः एव, लङ्कायां समपश्चिमः यः दिक्प्रदेशः स लङ्कासमपश्चिमः, तं गच्छति इति लङ्कासमपश्चिमगः, सह ग्रहैः वर्तते इति सग्रहः, भ्रमति क्षणमपि न अवतिष्ठते । यदि अपि ग्रहाः प्राङ्मुखं व्रजन्ति तथा अपि भपञ्जरापेक्षया अपरदिक्सङ्क्रमणं कुर्वन्ति, महता भपञ्जरगत्या नीयमानाः लक्ष्यन्ते, कुलालचक्रस्थाः कीटाः इव ॥ १० ॥ [ मेरुवर्णनम् ] मेरुप्रमाणमाह - मेरुः योजनमात्रः प्रभाकरः हिमवता परिक्षिप्तः । नन्दनवनस्य मध्ये रत्नमयः सर्वतः वृत्तः ॥ ११ ॥ योजनं मात्रा यस्य स योजनमात्रः, प्रमाणे मात्रन्प्रत्ययः । प्रभाकरः, प्रभां करोति इति प्रभाकरः । [हिमवता परिक्षिप्तः], हिमवता पर्वतेन समन्तात्वेष्टितः । [नन्दनवनस्य मध्ये], नन्दनं वनम् [देवानामप्सरोगणपरिवृतानाम्] क्रीडास्थानम्, तस्य मध्ये । रत्नमयः । रत्नानि [सुवर्णरजत]मुक्ताप्रवालपद्मरागमरकतप्रभृतीनि, तैः निर्मितः रत्नमयः । [सर्वतः] समन्तात् । वृत्तः गोलकाकारः इति अर्थः । अथ पौराणिकैः लक्षयोजनप्रमाणः मेरुः पठ्यते तत्युक्तिरहितम् । [लङ्कातः यावत्मेरुमध्यं तावत्योजनसहस्रमपि न अस्ति, कुतः ततेकदेशे भविष्यति । अथ भूः एव महाप्रमाणा परिकल्प्यते, ततयुक्तम् ।] यत्सपञ्चाशत्सहस्रं योजनानां भूव्यासामनमक्षोन्नतिप्रसाधितं तत्सोपपत्तिकम् । ग्रहोदयास्तमयमध्याह्निच्छायावनतिलम्बनादिभिः सिद्धमुत्सृज्य किमन्यतुपलभ्यते । किं च पुराणेषु पुष्करद्वीपस्य उपरिगतः विवस्वान्मध्याह्नं करोति इति पठ्यते । लक्षयोजनानां किल जम्बूद्वीपः, [ततः द्विगुणोत्तराः] समुद्राः [द्वीपाः च] सप्त, सप्तमः च पुष्करद्वीपः । ततनेकैः योजनसहस्रैः अन्तरैः व्यवस्थितम् । तत्र यदि मध्याह्नः विवस्वतः स्यातस्माकमुत्तरगोलभूतत्वात्शङ्कोः छायानाशः [न] स्यात् । दृश्यते तच्छायानाशः । तस्मात्विषुवति लङ्कामध्ये सविता गच्छति इति सिद्धम् । [विषुवति लङ्कामध्ये न सविता गच्छति इति तैः एव उक्तम् । तत्च अतिदूरत्वात्न घटते । यदि पतङ्गवतुत्प्लुत्य गच्छति ततः युज्यते । तत्च अशक्यं परिकल्पयितुम्, प्रत्यक्षविरुद्धत्वात् ।] तस्मात्ध्रुवोन्नत्या [आनीतमेव] भुवः प्रमाणं सिद्धम् । तत्र महाप्रमाणस्य मेरोः अवस्थानमेव न अस्ति । [यदि कथञ्चित्महाप्रमाणः एव मेरुः अवतिष्ठते तदा स किमस्माभिः न दृश्यते । ] दूरत्वात्मेरुः अस्माभिः न दृश्यते, अथवा निष्प्रभत्वात्तत्न दृश्यते, न तर्हि रत्नमयः । किं च यदि महाप्रमाणः मेरुः स्यात्मेरुशिखरान्तरितत्वात्भावातुत्तरेण तारकाः न दृश्येरन् । तस्मात्तस्य कनकगिरेः उपरिशिखरप्रदेशे एव सर्वरत्नमयः मेरुशब्देन उच्यते ॥ ११ ॥ [ मेरुबडवामुखयोः स्थिती ] क्व भूप्रदेशे मेरुः, क्व वा बडवामुखमिति आह - स्वः मेरू स्थलमध्ये नरकः बडवामुखं च जलमध्ये । अमरमराः मन्यन्ते परस्परमधःस्थिताः नियतम् ॥ १२ ॥ स्वः स्वर्गोपलक्षितः, मेरुः च, स्थलमध्ये । नरकः बडवामुखं च जलमध्ये । अमरमराः अमराः देवाः, मराः नरकस्थाः, ते परस्परमधःस्थाः मन्यन्ते । यतः सर्वेषां भूः अधः, अतः अन्योन्यमधःस्थिताः मन्यन्ते । यत्र उत्तरेण अयःशलाका भुवं भित्वा निर्गता तत्र प्रदेशे स्वर्गः मेरुः, यत्र दक्षिणेन निर्गता तत्र नरकः बडवामुखं च ॥ १२ ॥ [ उदयादिव्यवस्था ] प्रकृष्टदेशान्तरव्यवस्थितान् देशानाह - उदयः यः लङ्कायां सः अस्तमयः सवितुः एव सिद्धपुरे । मध्याह्नः यमकोट्यां रोमकविषये अर्धरात्रः स्यात् ॥ १३ ॥ लङ्कानिवासिनां यः उदयः स एव सिद्धपुरनिवासिनामस्तमयः, [यतः लङ्काप्रदेशातधः व्यवस्थितं सिद्धपुरम्] । मध्याह्नः यमकोट्याम्, यः एव लङ्कापुरनिवासिनामुदयः स एव यमकोटिनिवासिनां मध्याह्नः, यतः लङ्काप्रदेशात्पूर्वस्यां भूपरिधिचतुर्भागे यमकोटिः । यः लङ्कानिवासिनामुदयः स रोमकनिवासिनामर्धरात्रः, यतः लङ्कातः अपरभागे भूपरिधिचतुर्भागे रोमकम् । एवमेते भूचतुर्थभाग्[आन्तराल]व्यवस्थिताः स्थलजलसन्धिवर्तिनः देशाः परस्परमहोरात्रचतुर्भागकालदेशान्तरप्रमाणाः प्रदर्शयितव्याः ॥ १३ ॥ [ समरेखास्थनगर्यौ ] देशान्तरप्रदर्शनार्थमाह - स्थलजलमध्यात्लङ्का भूकक्ष्यायाः भवेत्चतुर्भागे । उज्जयिनी लङ्कायाः तच्चतुरंशे समोत्तरतः ॥ १४ ॥ स्थलमध्यात्मेरोः आरभ्य जलमध्यात्च बडवामुखात्लङ्का भूकक्ष्यायाः चतुर्थभागे व्यवस्थिता । भूपरिधिः ३२९८ १७ २५, चतुर्भागः ८२४ ६७ १०० । एतावति अन्तरे व्यवस्थिता । उज्जयिनी स्थलजलसन्धिवर्तिलङ्कायाः समोत्तरे दिग्भागे व्यवस्थिता । तच्चतुरंशे, तस्य भूचतुर्थभागस्य चतुर्थभागे । भूपरिधेः षोडशभागः २०६ ६७ ४०० । एतावति अन्तरे लङ्कातः उज्जयिनी । लङ्कोज्जयिनीसमदक्षिणोत्तररेखायां वात्स्यगुल्मचकोरपुरप्रभृतीनि स्थानानि व्यवस्थितानि । उज्जयिन्याः उत्तरेण दशपुरमालवनगरचट्टशिवस्थानेश्वरप्रभृतीनि यावत्मेरुः इति । सर्वे ग्रहाः करणागताः भूमध्यसमदक्षिणोत्तररेखायां भवन्ति । पूर्वभागव्यवस्थिताः प्रथमतरमेव रविं पश्यन्ति, अतः देशान्तरफलमपनीयते । पश्चिमभागे [व्यवस्थिताः] चिरेण पश्यन्ति, अतः तत्र देशान्तरफलं क्षिप्यते । स्वदेशाक्षसमरेखाक्षविवरभागैः त्रैराशिकम् - यदि चक्रांशकैः भूपरिधियोजनानि लभ्यन्ते ३२९८ १७ २५, तदा अक्षांशाविवरभागैः किमिति, समदक्षिणोत्तररेखान्तरालयोजनानि भवन्ति कोट्यात्मकानि । स्वदेशस्थानतः तिर्यग्व्यवस्थितोज्जयिन्यादिस्थानम् । तस्य अन्तरालयोजनानि लोकातवगतानि कर्णः । कर्णकोटिवर्गविशेषमूलं भुजयोजनानि । ततः यदि व्यासार्धतुल्यावलंबके[न भूपरिधिः तदा इष्टावलंबकेन का इति, स्पष्टभूपरिधिः । पुनर्यदि] स्पष्टभूपरिधिना ग्रहभुक्तिः लभ्यते देशान्तरयोजनैः का भुक्तिः इति देशान्तर्फलं लभ्यते । पूर्ववत् धनमृणमिति ॥ १४ ॥ [ भगोलस्य दृश्यादृश्यभागौ ] भगोलदृश्यादृश्यज्ञापनाय आह - भूव्यासार्धेन ऊनं दृश्यं देशात्समात्भगोलार्धम् । अर्धं भूमिच्छन्नं भूव्यासार्धाधिकं च एव ॥ १५ ॥ भुवः व्यासः भूव्यासः तस्य अर्धं भूव्यासार्धम्, ५२५ । तेन ऊनं भगोलार्धं दृश्यमुपलभ्यते । कस्मात्? समात्देशात् । अनन्तरितः समः, महाद्रिद्रुमाद्युन्नतपदार्थरहितः देशः समः इति । अर्धं भूमिच्छन्नं न दृश्यते भूव्यासार्धेन अधिकमदृश्यम् । एतत्जिज्ञासुः भूगोलपृष्ठावगाहि सूत्रं प्रसार्य पूर्वक्षितिजे अपरक्षितिजे [च] बध्नीयात् । भूपृष्ठस्थितस्य द्रष्टुः प्रसारितसूत्रानुसारिणी दृष्टिः याति । तत्र [पूर्व]प्रदेशे ज्योतींषि अर्धोदितानि पश्यति, पश्चातर्धास्तमितानि [पश्चति] । एवं भूव्यासार्धेन ऊनम् [गोलार्धम्] गोलसूत्रान्तरालस्थितं दृश्यम् । यतेततदृश्यं गोलार्धं गोलसूत्रान्तरालं तत्भूव्यासार्धाधिकम् । एतत्समायां भुवि । यः पुनर्द्रष्टा तुंगशैलमस्तके भवति तत् शैलप्रमाणाधिकं तस्य अदृश्यं भवति । विद्याधरादयः वियति दूरे स्थिताः प्रभूतं ज्योतिश्चक्रं पश्यन्ति, [यस्मात्] उपरि दूरस्थितस्य निर्विरोधप्रसारणा दृष्टिः भवति । अतिदूरे स्थितः ब्रह्मा सर्वदा विवस्वन्तं पश्यति । [भूपृष्ठव्यवस्थितानां भूव्यासार्धोनभपञ्जरार्धदर्शिनां स्वात्प्रमाणात्सततं दिवसः हीयते, निशा वर्धते । तदर्थम्] त्रैराशिकम् - यदि रविकक्ष्यायां षष्टिः नाड्यः लभ्यन्ते तदा भूव्यासार्धयोजनैः ५२५ कियत्यः । लब्धेन द्विगुणेन सर्वदा हीनः दिवसः अधिका रात्रिः ॥ १५ ॥ [ मेरुवडवामुखस्थानां भगोलभ्रमणदर्शनम् ] मेरुबडवामुखनिवासिनां दर्शनार्थमाह - देवाः पश्यन्ति भगोलार्धमुदङ्मेरुसंस्थिताः सव्यम् । अर्धं तु अपसव्यगतं दक्षिणबडवामुखे प्रेताः ॥ १६ ॥ [ उदङ्मेरुस्थिताः देवाः भगोलस्य उत्तरम्] अर्धं सव्यं प्रदक्षिणगतिं पश्यन्ति । द्वितीयमर्धं दक्षिणं ज्योतिश्चक्रस्य अपसव्यमप्रदक्षिणगतिं बडवामुख[स्थिताः] प्रेताः पश्यन्ति । [स्थलजलसन्धौ स्थित्वा एतताचार्यः प्रतिपादयति । ततपेक्षया हि मेरुबडवामुखयोः उत्तरदक्षिणत्वम् । न मेरुबडवामुखस्थानां दिङ्नियमः अस्ति ।] सूर्यगत्यपेक्षया प्राच्यादिव्यवहारः । यत्र विवस्वानुदेति सा प्राची, [यत्र अस्तमेति सा प्रतीची] । [न तथा मेरुबडवामुखस्थानामपि, परितः सर्वत्र रवेः उदयास्तमयसम्भवात् ।] देशान्तरव्यवधानातन्यथा भचक्रार्धदर्शनं भवति । कश्चित्पुरुषः उत्तरेण गतः देशान्तरमेति तथात्वे ध्रुवमुपरि आरोहितं पश्यति, क्रमेण मेरुं प्राप्तस्य उपरि ध्रुवः भवति । मेरोः उत्तरेण दक्षिणेन ध्रुवः अवलम्बते । एततुत्तरायःशलाकाग्रस्वस्तिकमुपरि निधाय दक्षिणायःशलाकाग्रस्वस्तिकं च अधोमुखं निधाय दर्शयेत् । तथा लङ्कास्थस्य यः विषुवत्मार्गप्रदेशः पूर्वापरः प्रतिभासते स मेरुस्थानां क्षितिजासक्तः । एवं बडवामुखस्थानामपि चक्रवत्भास्करः प्रतिभासते ॥ १६ ॥ [ देवासुरपितृनराणां दिनप्रमाणम् ] मेरुबडवामुखस्थाः कियन्तं कालं रविं पश्यन्ति इति आह - रविवर्षार्धं देवाः पश्यन्ति उदितं रविं तथा प्रेताः । शशिमासार्धं पितरः शशिगाः, कुदिनार्धमिह मनुजाः ॥ १७ ॥ देवाः मेरुनिवासिनः मेषादिषु षट्सु राशिषु समुद्गतं सूर्यं रविवर्षार्धं पश्यन्ति षण्मासान् यावतिति अर्थः, प्रदक्षिणं चक्रवत्भ्रमन्तं क्षितिजासक्तं क्रमेण चतुर्विंशतिक्रान्तिभागान् यावत्परित्यक्तक्षितिजं पश्यन्ति । एवं प्रेताः अपि रविवर्षार्धमेव सकृतुद्गतं सूर्यं पश्यन्ति दक्षिणगोले षट्सु राशिषु । शशिमासार्धं पितरः शशिगाः, शशिनं गच्छन्ति इति शशिगाः, चन्द्रलोकनिवासिनः पितरः शशिनः मासार्धं पञ्चदशतिथयः एतावन्तं कालं पश्यन्ति । पितॄणाममावास्यायामुपरि सविता भवति । [तत्] तेषामहर्मध्यम् । ततः यथा यथा सविता प्रतिपदादिषु परतः अवलम्बते तथा तथा पितॄणां मध्याह्नोत्तरभागः, राशित्रयान्तरितः अस्तमेति, अस्तमितः पक्षेण राशिषडन्तरितः प्राच्यामुदेति । अतः तेषां पक्षः अहः, पक्षः रात्रिः इति । कुदिनार्धमिह मनुजाः । कुदिनं भूदिनं रव्युदयात्रव्युदयं यावत्, तदर्धमिह मनुजाः पश्यन्ति । सर्वं यथावत्स्थितं गोले प्रदर्शयेतिति ॥ १७ ॥ [ खगोले क्षितिजमण्डलम् ] खगोले क्षितिजमण्डलप्रदर्शनाय आह - पूर्वापरमधऊर्ध्वं मण्डलमथ दक्षिणोत्तरं च एव । क्षितिजं समपार्श्वस्थं भानां यत्र उदयास्तमयौ ॥ १८ ॥ पूर्वापरमण्डलं ततिह खगोलप्रमाणम् । स एव ऊर्ध्वमुपर्यधोवगाहि सर्वभपञ्जराणाम् । तथा दक्षिणोत्तरमन्यत्मण्डलं तावत्प्रमाणम्, दक्षिणोत्तरावगाहि याम्य उत्तरमण्डलमुपरि अधः च जनितस्वस्तिकम् । क्षितिजं समपार्श्वस्थं तथा अन्यत्मण्डलं तावतेव । समपार्श्वावगाहि परिकरवत्दिक्चतुष्टयजनितस्वस्तिकं क्षितिज इति उच्यते । भानां यत्र उदयास्तमयौ । यत्र मण्डले भानामुदयास्तमयौ लक्ष्येते । हरिजम् इति कैश्चितुच्यते । अयं खगोलः सर्वभपञ्जराणां बहिः अवतिष्ठते ॥ १८ ॥ [ उन्मण्डलम् ] उन्मण्डलप्रदर्शनाय आह - पूर्वापरदिग्लग्नं क्षितिजातक्षाग्रयोः च लग्नं यत् । उन्मण्डलं भवेत्तत्क्षयवृद्धी यत्र दिवसनिशोः ॥ १९ ॥ दक्षिणोत्तरक्षितिजस्वस्तिकात्याम्य उत्तरमण्डले स्वदेशाक्षभागतुल्ये अन्तरे वेधे कृत्वा लोहशलाकाग्रे प्रवेश्य गोलं निदध्यात् । ततः उन्मण्डलं दर्शयेत् । पूर्वापरदिग्लग्नं पूर्वापरयोः दिशोः लग्नम् । क्षितिजातक्षाग्रयोः च लग्नं यत् । दक्षिणोत्तरक्षितिजस्वस्तिकयोः उपरि अधः स्वदेशाक्षभागतुल्ये अन्तरे लग्नं कारयेत् । ततुन्मण्डलम् । उदयमण्डलमुन्मण्डलम् । यत्र मण्डले दिवसस्य रात्रेः च क्षयवृद्धी लक्ष्येते । विषुवति उन्मण्डलक्षितिजयोः एकत्वात्दिवसनिशोः क्षयवृद्धी न स्तः । विषुवतः उत्तरेण उन्मण्डलमुपरि क्षितिजमधः अवतिष्ठते । तस्मातुत्तरगोले अप्राप्ते एव उन्मण्डलम् [सविता] चरदलघटिकाप्रमाणेन उदेति । पश्चातुन्मण्डलमतिक्रान्तः अस्तमेति । अतः दिवसः उत्तरगोले वर्धते । दक्षिणगोले उन्मण्डलमतिक्रान्तः क्षितिजातुदेति । अप्राप्तः एव अस्तमेति । अतः दक्षिणगोले रात्रिः उपचीयते । अतः तत्तुल्या दिवसनिशोः क्षयवृद्धी । तदर्थम् त्रैराशिकम् - यदि षष्ट्या ग्रहभुक्तिः लभ्यते, तदा चरदलघटिकाभिः कियती इति । लब्धमुत्तरगोले रवौ उदये विशोधयेत् । याम्ये विपरीतम् । एवमुत्तरदिशि व्यवस्थितानां क्रमेण दिवसनिशोः महत्यौ क्षयवृद्धी भवतः । यत्र देशे रविः मिथुनान्तस्थः न अस्तमेति, षष्टिः नाड्यः दिवसः, तत्र त्रिंशद्घटिकाः चरम्, पञ्चदशघटिकाः चरार्धम् । तस्य काष्ठस्य ज्या चरज्या । तया विपरीतकर्मणा क्षितिज्या आनीयते - यदि व्यासार्धस्य इयम् [व्यासार्धतुल्या] चरज्या तदा मिथुनान्तस्वाहोरात्रार्धस्य का इति मिथुनान्तस्वाहोरात्रार्धतुल्या क्षितिज्या लभ्यते । तस्याः क्षितिज्यायाः मिथुनान्तापक्रमज्यायाः च वर्गयुतेः मूलमर्काग्रा त्रिज्यातुल्या । तेन तत्र देशे याम्य उत्तरे क्षितिजातुपरि क्रमेण [सम]मण्डलमवगाह्य खमध्यात्दक्षिणेन द्विचत्वारिंशद्भागे [याम्य उत्तरमतिक्रम्य] ततः प्रथमोदये पुनर्क्षितिजमाप्नोति च एव । तत्र षष्तिः नाड्यः दिवसः उपलक्ष्यते । स्वार्काग्रतः [क्षितिज्या । तदर्थं त्रैराशिकम्] - अर्काग्रया इष्टतुल्यया क्षितिज्या लभ्यते व्यासार्धेन किमिति । गुणकभाजकयोः तुल्यत्वात्नष्टयोः क्षितिज्याप्रमाणा अक्षज्या भवति । तत्कथम्? अक्षः षट्षष्टिभागाः । तत्र देशे व्यभिचारात्ग्रहगतिः । उत्तरेण तस्मातियं व्यवस्था न अस्ति इति ॥ १९ ॥ [ खगोलापेक्षया द्रष्टुः स्थितिः ] प्राच्यादिव्यवस्थाप्रतिपादनाय आह - पूर्वापरदिग्रेखा अधः च ऊर्ध्वा दक्षिणोत्तरस्था च । एतासां सम्पातः द्रष्टा यस्मिन् भवेत्देशे ॥ २० ॥ पूर्वापररेखा, अधः च ऊर्ध्वा च या रेखा, दक्षिणोत्तरस्था च । च[कारः] समुच्चये । एतासां रेखाणां सम्पातः एकत्र योगः, यस्मिन् देशे द्रष्टा तत्र तत्र तासां सम्पातः । तस्मात्द्रष्टृवशात्दिग्व्यवस्था । यत्र द्रष्टा रविमुद्गच्छन् पश्यति सा प्राची, यत्र [रविः] मध्याह्नं करोति सा दक्षिणा, यत्र अस्तमेति सा परा, यत्र अर्धरात्रं करोति सा उत्तरा । सर्वेषामुत्तरः मेरुः । लङ्कानिवासिनां यदा मध्याह्ने रविः भवति रोमकनिवासिनामुदेति । तत्र लङ्काप्रदेशे तेषां प्राची । तदपेक्षया स्वस्थानातुत्तरः मेरुः प्रतिभासते । यदा रोमके मध्याह्नः तदा सिद्धपुरनिवासिनामुदयः [तत्र रोमकप्रदेशे तेषां प्राची] । तदपेक्षया तेषां स्वस्थानातुत्तरः मेरुः । एवं यमकोट्यामपि । भूमौ यावत्तावत्प्रमाणं वृत्तमालिख्य पूर्वाह्णे [अपराह्णे च] छायां लक्षयेत् । यत्र प्रदेशे शङ्कुच्छाया वृत्तं प्रविशति सा पश्चिमा । यत्र निर्याति सा प्राची । तदग्रयोः मत्स्यमुत्पाद्य तन्मुखपुच्छस्पृक्सूत्रं प्रसारयेत् । सा दक्षिणोत्तरा दिग्भवति । अथवा त्रिच्छायाग्रमत्स्यद्वयमुखपुच्छस्पृक्सूत्रद्वयसम्पातः उत्तरा दक्षिणा च । [अथवा दिक्] प्रसाधनीया चित्रास्वात्योः ॥ २० ॥ [ दृङ्मण्डलं दृक्क्षेपमण्डलं च ] [ दृङ्मण्डलदृक्क्षेपमण्डलस्वरूपमाह -] ऊर्ध्वमधस्तात्द्रष्टुः ज्ञेयं दृङ्मण्डलं ग्रहाभिमुखम् । दृक्क्षेपमण्डलमपि प्राग्लग्नं स्यात्त्रिराश्यूनम् ॥ २१ ॥ दृङ्मण्डलम् [द्रष्टुः ऊर्ध्वमधस्तात्] ग्रहाभिमुखम् [भवति] । यत्र द्रष्टा भवति तत्र अस्य मध्यम्, यत्र ग्रहः तत्र अस्य परिधिः, यावान् दृग्ग्रहयोः अन्तरं तावता विष्कम्भार्धेन दृङ्मण्डलं प्रदृश्यम् । ततेव मध्याह्नस्थिते ग्रहे दृक्क्षेपमण्डलं भवति । दृक्क्षेपमण्डलमपि । सममण्डलमध्यात्दक्षिणेन उत्तरेण वा यत्र ग्रहाभिमुखं दृष्टेः क्षेपः तत्र यः महाप्रमाणकक्ष्यः ग्रहः स स्तोकतरं क्षिप्यते, अल्पप्रमाणकक्ष्यः बहुतरं क्षिप्यते इति । एतत्मध्याह्ने दृग्ज्याप्रमाणव्यासार्धेन सममण्डलमध्यात्बध्नीयात् । अस्य आनयनोपायः - प्राग्लग्नं स्यात्त्रिराश्यूनम् । पर्वकालघटिकाः पूर्वाह्णे दिनार्धात्शोधयेत् । शेषप्राणान् त्रैराशिकानीतरविभुक्तलङ्कोदयप्राणैः ऊनीकुर्यात् । शेषेभ्यः यावत्लङ्कोदयप्राणाः शुध्यन्ति तावत्शोध्याः । तान्वन्तः एव राशयः विशोध्यन्ते । शेषप्राणान् त्रिंशता गुणयेत्, अशुद्धलङ्कोदयेन विभजेत्, लब्धं भागादि पूर्वविशोधितैः एव शोधयेत् । पूर्वाह्णे मध्यलग्नं भवति । अपराह्णे अधिकत्वात्रवेः यावन्तः लङ्कोदयाः विशुध्यन्ति तावन्तः प्रक्षिप्य लग्नं क्रियते । आचार्येण स्थूलप्रकृत्या इष्टघटिकाभिः पूर्वलग्नं लग्नविधिना कृत्वा त्रिराश्यूनं क्रियते, मध्यलग्नं भवति इति । राशयः लङ्कोदयैः मध्यमवगाहन्ते इति लङ्कोदयैः यत्मध्यलग्नं तत्सूक्ष्ममिति । तस्य अपक्रमकाष्ठं स्वदेशाक्षभागयुतं समदिशोः भिन्नदिशोः विशुद्धम् खमध्यरविकक्ष्यान्तरालं भवति । तस्य जीवा मध्यज्या इति उच्यते । चन्द्रस्य अपक्रमकाष्ठं विक्षेपयुतं वियुतं क्रियते । यतः विमण्डले चन्द्रः ततः अक्षभागयुतवियुतस्य ज्या चन्द्रमध्यज्या भवति । अनया अत्र मध्यज्या व्याख्याता ॥ २१ ॥ [ स्वयंवहगोलयन्त्रम् ] स्वयंवहगोलयन्त्रप्रतिपादनाय आह - काष्ठमयं समवृत्तं समन्ततः समगुरुं लघुं गोलम् । पारततैलजलैः तं भ्रमयेत्स्वधिया च कालसमम् ॥ २२ ॥ काष्ठैः निर्मितं काष्ठमयं श्रीपर्ण्यादिभिः पूर्ववत् । समवृत्तम् । सर्वेषु प्रदेशेषु [समम्], न हीनाधिकमिति । समगुरुम् । समन्ततः समा गुरुता कार्या । यदि अतिमात्रगुरुः भवति पाषाणवत्निश्चलः स्यात्, [महता कालेन भ्रमति इति अतः] समवृत्तं समगुरुम् । लघुमत्र अपि समशब्दः प्रयोक्तव्यः । एतत्गुणविशिष्टं गोलं कथं भ्रमयेत्? पारततैलजलैः इति । स्वधिया च स्वकीयप्रज्ञया च तं भ्रमयेत् । कालसमं कालेन समं कालसमम् । कालसममहोरात्रसमं यथा भ्रमति तथा भ्रमयेत् । तत्यथा - षष्टिघटिकाङ्कितस्वाहोरात्रमण्डले कन्यातुलासन्धिप्रदेशे कीलकमीषतुन्नतमेकं कारयेत् । सिद्धपूर्वापरदक्षिणोत्तरस्थाने जलपात्रमेकं स्थापयेत् । पात्रं च समं वत्तं दीर्घम् [तल]मध्यनिहितसूक्ष्मच्छिद्रं घटिकाषष्ट्या जलपूर्णं यथा रिक्तं भवति तथा स्वधिया प्रसाध्य ततः कर्म क्रियते । यावत्पात्रातुदकं स्रवति तावत्गुरुत्वात् अलाबुः जलवशातधोगच्छन् गोलमाकर्षति । एवं सकृत्युक्तः गोलः परमार्थभगोलवतहोरात्रे भ्रमति । प्रथमं ताम्रकीलके पाशकसूत्रस्य एकमग्रं बध्वा गोलयन्त्रमधस्तात्प्रभृति परिवेष्ट्य तत्र एव प्रदेशे सूत्रं प्रापयेतिति क्रमः ॥ २२ ॥ [ अक्षक्षेत्रम् ] विषुवत्ज्याप्रदेशप्रतिपादनाय आह - दृग्गोलार्धकपाले ज्यार्धेन विकल्पयेत्भगोलार्धम् । विषुज्जीवाक्षभुजा तस्याः तु अवलम्बकः कोटिः ॥ २३ ॥ दृग्गोलार्धं घटकपालवतवस्थितत्वात्दृग्गोलार्धकपालम् । भगोलार्धमेव केवलं दृश्यते । येन व्यवहारः दृश्यः । भगोलार्धं जातौ एकवचनम् । ज्यार्धेन विकल्पयेत् । भूमौ वृत्तमालिख्य पूर्वापरदक्षिणोत्तरदिक्चिह्नितं कृत्वा एकैकस्मिन् चतुर्थभागे राशित्रयमङ्कयेत् । पुनरेकैकः राशिः अष्टधा विभजेत् । तत्र सूत्राणि प्रसारयितव्यानि । तानि ज्यासूत्राणि । तदर्धानि ज्यार्धानि । अथवा अन्यः विकल्पक्रमः । विषुवज्जीवाक्षभुजा । सममण्डलस्य विषुवतः उत्तरेण अक्षतुल्यान्तरे अवस्थितत्वातक्षः इति उच्यते । तस्य अक्षकाष्ठस्य भुजा, अक्षज्या विषुवज्ज्या इति पर्यायाः । व्यासार्धं कर्णः । भुजाकर्णकृतिविशेषमूलमवलम्बकः । सा कोटिः इति । एतत्गोले प्रदर्शयेत् । सममण्डलमध्यात्दक्षिणेन आक्षज्यातुल्ये अन्तरे सूत्रस्य एकमग्रं बध्वा ग्रहं प्रापयेत् । सः अवलम्बकः । भुजाकोटिवर्गयोगस्य मूलं कर्णः व्यासार्धमिति । एवमन्यत्र अपि दृग्गोलार्धे कल्पितज्यार्धेषु भुजाकोटिकर्णव्यवस्था कल्पनीया ॥ २३ ॥ [ स्वाहोरात्रार्धविष्कम्भः ] अपक्रमादिभिः भुजादिकल्पनामाह - इष्टापक्रमवर्गं व्यासार्धकृतेः विशोध्य यत्मूलम् । विषुवदुदग्दक्षिणतः ततहोरात्रार्धविष्कम्भः ॥ २४ ॥ सूर्यस्य इष्टापक्रमज्यायाः चन्द्रस्य इष्टापक्रमज्यायाः च यः वर्गः स इष्टापक्रमवर्गः । तं व्यासार्धकृतेः विशोध्य [शेषस्य] यत्मूलं तत्विषुवतः उत्तरेण दक्षिणेन वा अहोरात्रस्य विष्कम्भः भवति । क्रान्तिज्या भुजा । व्यासार्धं कर्णः । तयोः यत्वर्गविशेषमूलं तत्स्वाहोरात्रार्धविष्कम्भः । पूर्वविधिना ततुत्तरगोले उत्तरेण, दक्षिणगोले दक्षिणेन प्रदर्शयेत् ॥ २४ ॥ [ मेषादीनां लङ्कोदयाः ] लङ्कोदयप्राणानयनमाह - इष्टज्यागुणितमहोरात्रव्यासार्धमेव काष्ठान्त्यम् । स्वाहोरात्रार्धहृतं फलमजात्लङ्कोदयप्राग्ज्याः ॥ २५ ॥ इष्टज्या इति मेषवृषमिथुनान्तज्याः गृह्यन्ते । एताभिः गुणितमहोरात्रव्यासार्धं स्वाहोरात्रार्धविष्कम्भः इति अर्थः । काष्ठस्य अन्तः काष्ठान्तः, तत्र भवं काष्ठान्त्यम् । नवतिः भागाः यस्मिन् [काष्ठे तस्य अन्ते भवम्] यत्स्वहोरात्रार्धं ततेव [इष्ट]ज्याभिः गुणितं स्वहोरात्रार्धहृतं स्वकीयस्वकीयाहोरात्रार्धहृतं फलमिष्टलङ्कोदयप्राग्ज्याः । अजात्मेषात्प्रभृति काष्ठं भवति इति काष्ठीक्रियते । [मिथुनान्त]प्राग्ज्याकाष्ठात् वृषान्तप्राग्ज्याकाष्ठं विशोधयेत् । शेषं मिथुनस्य लङ्कोदयप्राणाः । [एवम्] वृषान्तप्राग्ज्याकाष्ठात्[मेषान्तप्राग्ज्याकाष्ठं विशोधयेत् । शेषं वृषभस्य लङ्कोदयप्राणाः] । स्वरूपतः एव मेष[लङ्को]दयप्राणाः भवन्ति ॥ २५ ॥ [ क्षितिज्या ] दिननिशोः क्षयवृद्धिप्रतिपादनाय आह - इष्टापक्रमगुणितामक्षज्यां लम्बकेन हृत्वा या । स्वाहोरात्रे क्षितिजा क्षयवृद्धिज्या दिननिशोः सा ॥ २६ ॥ इष्टापक्रमेण गुणितामिष्टापक्रमगुणिताम् । [इष्टापक्रमगुणिताम्] अक्षज्यां लम्बकेन हृत्वा फलं स्वाहोरात्रमण्डले क्षितिज्या भवति । तत्र इष्टापक्रमज्या कोटिः, क्षितिज्या भुजा, तद्वर्गयुतिमूलं कर्णः अर्काग्रा भवति इति । पूर्वापरस्वस्तिकयोः अर्काग्रयोः सूत्रं बध्वा भुजकोटिवासना प्रदर्श्या । क्षितिजोन्मण्डलयोः अन्तरं क्षितिजा इति । तया दिननिशोः क्षयवृद्धी । पूर्वक्षितिजातुपर्यधोव्यवस्थितोन्मण्डल[क्षितिजयोः मध्ये ज्या]वत्सा प्रदर्श्यते ॥ २६ ॥ [ स्वदेशोदयाः ] राश्युदयकालप्रतिपादनाय आह - उदयति हि चक्रपादः चरदलहीनेन दिवसपादेन । प्रथमः अन्त्यः च अथ अन्यौ तत्सहितेन क्रमोत्क्रमशः ॥ २७ ॥ उदयति दर्शनं याति, अर्धमुपरि चक्रपादः, त्रयः राशयः । चरदलहीनेन दिवसपादेन इति अनेन लङ्कोदयाः त्रयः परिगृह्यन्ते । यतः त्रिभिः मेषादिलङ्कोदयैः पञ्चदशघटिकाः ताः स्वाहोरात्रचतुर्थः अंशः, ततः क्रमेण व्यवस्थितलङ्कोदयप्राणेभ्यः मेषादिचरदलप्राणान् स्वदेशाक्षोत्पन्नान् स्वकीयान् विशोधयेत् । मेषादीनां स्वदेशोदयाः भवन्ति । अन्त्यः चक्रपादः मीनकुम्भमकराः । एते अपि चरदलहीनेन चक्रपादेन उदयन्ति । चरदलसहितेन दिवसपादेन । अत्र अपि दिवसपादग्रहणेन कर्कटसिंहकन्यायाः उत्क्रमेण लङ्कोदयाः गृह्यन्ते । तेन कर्कटसिंहकन्यायाः चरप्राणैः उत्क्रमेण सहिताः उदयन्ति । क्रमोत्क्रमशः इति । क्रमोत्क्रमगत्या क्रमेण चरदलहीनाः मेषवृषमिथुनाः, उत्क्रमेण सहिताः कर्कटसिंहकन्याः । एते एव उत्क्रमेण तुलावृश्चिकधनूंषि । ततः मकरकुम्भमीनाः उत्क्रमेण चरदलहीनाः । मेषवृषमिथुनाः क्रमेण अपमण्डले तिर्यग्व्यवस्थिताः, तेन मेषः शीघ्रमुदेति अतः चरदलासुभिः अपचीयते । एवं वृषः मिथुनः च । एतैः मकरादयः व्याख्याताः । कर्कटसिंहकन्याः [तद्भिन्न]संस्थानत्वात्चिरेण उद्गच्छन्ति । अतः चरदलप्राणैः उपचीयन्ते । एतैः तुलादयः व्याख्याताः । क्षितिज्या व्यासार्धगुणा स्वाहोरात्रार्धहृता चरज्या, तत्काष्ठं चरदलप्राणाः । पृथक्मेषादीनां लङ्कोदयवतुत्पाद्याः । स्वदेशराश्युदयैः इष्टकाललग्नार्थं सूर्योदयात्प्रभृति घटिकाः प्राणीकृत्य सूर्यभोग्यराश्युदयप्राणाः तेभ्यः विशोधयेत् । सूर्ये भोग्यांशं क्षेप्यम् । पुनर्यावन्तः राश्युदयाः शुद्ध्यन्ति तावन्तः विशोध्य सूर्ये राशयः क्षिप्यन्ते । शेषं त्रिंशता गुणितमसुद्धोदयभक्तं भागादि वर्धितरवौ क्षिपेत् । लग्नम् भवति । एवं रात्रौ अपि रात्रिगतघटिकाः दिनमानघटिकासु प्रक्षिप्य लग्नमनेन विधिना कर्तव्यम् । रात्रिशेषघटिकाभिः विपरीतकर्मणा रवेः गतभागादिना तदुत्क्रमेण यावन्तः उदयप्राणाः विशुद्धेयुः तावन्तः शोधनीयाः ] शेषं त्रिंशता गुणितं वर्तमानोदयभक्तं भागादि शोधितमुदयलग्नम् । अथ रवेः लग्नस्य च अन्तरकालसाधनम् । रवेः अभुक्तभागैः अभ्युदयं संगुण्य त्रिंशता भजेत् । लब्धं रवेः अभुक्तप्राणाः । एवं लग्नभुक्तभागैः तदुदयं संगुण्य त्रिंशता विभजेत् । लब्धं लग्नभुक्तप्राणाः । अन्तरप्राणयुक्ताः षड्भिः भक्ताः विघटिकाः, षष्ट्या घटिकाः, सूर्योदयातारभ्य भवन्ति ॥ २७ ॥ [ इष्टकालशङ्कुः ] [ इष्टकालशङ्क्वानयनार्थमाह - ] स्वाहोरात्रेष्टज्या क्षितिजातवलम्बकाहतां कृत्वा । विष्कम्भार्धविभक्ते दिनस्य गतशेषयोः शङ्कुः ॥ २८ ॥ [स्वाहोरात्रे]ष्टज्यानयनं दिनगतशेषघटिकाभ्यः । उत्तरगोले क्षितिज[मुन्मण्डला]तधः व्यवस्थितमतः चरदलघटिकाः [दिनगतशेषघटिकाभ्यः ] विशोध्य निष्पन्नाः उन्मण्डलावधेः भवन्ति । ताः प्राणीकृत्य जीवा ग्राह्या । चरदलज्यया सौम्येतरगोलयोः युतवियुता क्षितिजावधेः भवति । [अतः त्रैराशिकम्] - यदि व्यासार्धमण्डले इयं ज्या भवति स्वाहोरात्रार्धमण्डले कियती इति क्षितिजमण्डलावधेः स्वाहोरात्रेष्टज्या अभिधीयते । तामिष्टज्यामवलम्बकाहृतां कृत्वा विष्कम्भार्धेन व्यासार्धेन विभजेत् । दिवसस्य पूर्वाह्णे गतस्य, अपराह्णे शेषस्य शङ्कुः भवति । चन्द्रशङ्क्वानयनम् । रात्रौ चन्द्रच्छाया उपलक्षयेत् । तत्र पूर्वकपाले चन्द्रमसः इष्टकालघटिकाः, अपरकपाले तु चन्द्रास्तलग्नान्तरालघटिकाः चन्द्रमसः शेषघटिकाः आनीय इष्टकर्म । चन्द्रस्वाहोरात्रार्धं क्षितिज्यां चरदलज्यां च आनीय चरदलविपर्ययनिष्पन्नप्राणैः सूर्यवत्कर्म कर्तव्यम् । अथ स्वाहोरात्रेष्टज्या द्वादशगुणा विषुवत्कर्णेन भक्ता इष्टशङ्कुः भवति । अथवा चरदलेन अधिकोनघटिकाज्याम् चरदलज्याविपर्ययनिष्पन्नाम्, लम्बकगुणितां स्वाहोरात्रेण संगुण्य त्रिज्यावर्गेण [विभज्य] शङ्कुलब्धिः । अथवा तां द्वादशगुणस्वाहोरात्रेण संगुण्य विषुवत्कर्णगुणव्यासार्धेन भजेत् । फलं शङ्कुः । दिवसगतघटिकानयने च शङ्कुना गुणितं व्यासार्धं शङ्कुच्छायावर्गयुतिमूलेन भक्तं बृहच्छङ्कुः भवति । त्रिज्यागुणितः लम्बकभक्तः स्वाहोरात्रेष्टज्या लभ्यते । तेन उत्तरगोले क्षितिज्या शोध्यते, दक्षिणे क्षिप्यते । ततः व्यासार्धेन हत्वा स्वाहोरात्रार्धेन भजेत् । लब्धस्य काष्ठमुत्तरगोले चरदलयुतं दक्षिणे हीनं दिनगतशेषप्राणाः [ भवन्ति । तैः ] प्राग्वत्घटिकाः ॥ २८ ॥ [ शङ्क्वग्रम् ] शङ्क्वग्रप्रदर्शनाय आह - विषुवज्जीवागुणितः स्वेष्टः शङ्कुः स्वलम्बकेन हृतः । अस्तमयोदयसूत्रात्दक्षिणतः सूर्यशङ्क्वग्रम् ॥ २९ ॥ स्वेष्टशङ्कुः इष्टकालोत्पन्नशङ्कुः, विषुवज्ज्यया अक्षजीवया गुणितः लम्बकेन भक्तः अस्तोदयसूत्रात्दक्षिणतः सूर्यशङ्क्वग्रं भवति । शङ्कोः अग्रमन्तरालं शङ्कुमूलात्समोत्तरावगाहिसूत्रं यावतस्तमयोदय[सूत्र]मिति । क्षितिजमण्डले प्राक्स्वस्तिकात्दक्षिणमुत्तरं वा अर्काग्राकाष्ठतुल्यान्तरे सूत्रस्य एकमग्रं बध्वा, द्वितीयमग्रं तावत्[अर्काग्राकाष्ठतुल्यान्तरे] एव अपरभागे बध्नीयात् । तत्पूर्वापरायतमुदयास्तसूत्रम् । तस्य सूत्रस्य शङ्कुतलस्य अन्तरे शङ्क्वग्रम् । शङ्कुमूलात्भूमध्यं यावत्सूत्रं दृग्ज्या । भूमध्यातुपरि शङ्कुमस्तकप्रापि यत्सूत्रं कर्णः व्यासार्धमिति ॥ २९ ॥ [ अर्काग्रा ] अर्काग्रानयनाय आह - परमापक्रमजीवामिष्टज्यार्धाहतां ततः विभजेत् । ज्या लम्बकेन लब्धार्काग्रा पूर्वापरे क्षितिजे ॥ ३० ॥ परमापक्रमज्या चतुर्विंशतिभागज्या १३९७ । तामिष्टस्य रवेः भुजज्यया गुणिताम् [कृत्वा] लम्बकेन विभजेत्, [लब्धा ज्या] अर्काग्रा भवति । इयति अध्वनि विषुवतः उत्तरेण दक्षिणेन वा रविः उदेति, पूर्वापरे च क्षितिजमण्डलप्रदेशे ॥ ३० ॥ [ समशङ्कुः ] सममण्डलशङ्क्वानयनाय आह - सा विषुवज्ज्योना चेत्विषुवदुदग्लम्बकेन सङ्गुणिता । विषुवज्ज्यया विभक्ता लब्धः पूर्वापरे शङ्कुः ॥ ३१ ॥ सा इति अनेन अपक्रमज्या गृह्यते । उत्तरगोले विषुवज्ज्यातुल्या क्रान्तिज्या [यदा] भवति, तदा मध्याह्ने एव सविता सममण्डलं विशति । विषुवज्ज्या [यदा] क्रान्तिकाष्ठज्यया ऊना [तदा] सममण्डलातुत्तरेण याति । [क्रान्तिकाष्ठज्या यदा] विषुवज्ज्यया ऊना तदा सममण्डलं विशति । [क्रान्तिकाष्ठज्या] यदा ऊना विषुवज्ज्यया, तदा [पूर्वानीता अर्काग्रा] लम्बकेन गुणिता विषुवज्ज्यया भक्ता सममण्डलशङ्कुः भवति । पूर्वसममण्डलेन अपरसममण्डलेन [च] क्षितिजे अर्काग्रान्तरे अस्तमयोदयसूत्रं बध्वा अर्काक्रान्तराशिभागप्रदेशः समपूर्वापरमण्डले यत्र लग्नं प्राग्बिन्दुतः तत्सममण्डलचापं तथा गोले भ्रमयेत्यथा क्षितिजाधोभागे सममण्डले तावति अन्तरे लग्नं भवेत् । तयोः सममण्डलबिन्द्वोः अन्तरे सूत्रं बध्वा तदर्धं शङ्कुः पूर्ववतेव पूर्वापररेखास्पृक्भवति । शङ्कोः उत्तरेण अस्तमयोदयसूत्रं यावतन्तरं शङ्क्वग्रम् अर्काग्रातुल्यम् । सममण्डलशङ्कुः अक्षज्यया गुणितः परमक्रान्तिज्याभक्तः सूर्यभुजज्या भवति । [सूर्ये मेषादिगे] तत्काष्ठमादित्यः, कर्कटकादिगे षड्राशिविशुद्धम्, तुलादिगे षड्राशियुतम्, मकरादिगे चक्रविशुद्धं रविः भवति । छेद्यके अपि - समायां भूमौ वृत्तमालिख्य दिक्चिह्नितं कृत्वा सूर्यबिम्बोदये अस्ते च पूर्वापरयोः बिन्दू कृत्वा पूर्वापररेखायाः दक्षिणे [मध्याह्ननतज्यातुल्ये अन्तरे] तृतीयं बिन्दुं प्रकल्प्य बिन्दुत्रयावगाहि मत्स्यद्वयेन वृत्तमालिखेत् । ततर्कभ्रमवृत्तम् । अर्काग्राग्रे सविता उदितः तद्वृत्तानुसारेण सममण्डलमवगाह्य दक्षिणेन नतज्यातुल्ये अन्तरे मध्याह्नं कृत्वा क्रमेण अपरभागे सममण्डलात्निष्क्रान्तः अपराग्राग्रे अस्तमेति । अर्कभ्रमवृत्तस्य प्रागपररेखायाः यत्र सम्पातः तत्र सममण्डले प्रवेशः । सममण्डले तु मध्यं यावतन्तरं सममण्डलशङ्कुच्छाया भवति । दक्षिणगोले सममण्डलात्दक्षिणेन याति । [तदा] सममण्डलस्य प्रवेशाभावः ॥ ३१ ॥ [ मध्याह्नशङ्कुः ] मध्याह्नशङ्कुच्छाययोः आनयनाय आह - क्षितिजातुन्नतभागानां या ज्या सा परः भवेत्शङ्कुः । मध्यात्नतभागज्या छाया शङ्कोः तु तस्य एव ॥ ३२ ॥ क्षितिजातिति समदक्षिणोत्तरस्वस्तिकप्रदेशात्ये उन्नतभागाः गोलमध्यस्थिते रवौ लक्षिताः तेषां या ज्या सा परमः शङ्कुः भवति । या मध्यात्नतभागज्या सा परमशङ्कोः छाया स्यात् । इष्टमध्याह्ने रवेः अपक्रमभागाः अक्षभागेषु दक्षिणगोले प्रयोजयेत् । उत्तरे गोले वियोजयेत् । ते नतभागाः भवन्ति । चन्द्रस्य विक्षेपयुतवियुताः नतभागाः भवन्ति, यतः विमण्डले चन्द्रः । एते नवतेः विशोध्यन्ते । शेषमुन्नतभागाः । तेषाम् [ज्या] उन्नतभागज्या । अथवा तद्दिनस्वाहोरात्रार्धं क्षितिज्यया स्वया उदग्याम्ये वियुतयुतं[व्यासार्धगुणं स्वाहोरात्रार्धभक्तम्] द्वादशगुणं विषुवत्कर्णहृतं महाशङ्कुः तदुन्नतज्या भवति ॥ ३२ ॥ [ दृक्क्षेपज्या ] दृक्क्षेपप्रतिपादनाय आह - मध्यज्योदयजीवासंवर्गे व्यासदलहृते यत्स्यात् । तत्मध्यज्याकृत्योः विशेषमूलं स्वदृक्क्षेपः ॥ ३३ ॥ मध्यज्या च उदयजीवा च मध्योदयजीवे । तयोः संवर्गः परस्परगुणनं व्यासदलहृतं यत्भवति तस्य मध्यज्यायाः च कृत्योः विशेषमूलं स्वकीयः दृक्क्षेपः । स्वग्रहणेन तु रविचन्द्रकक्ष्ययोः भिन्नः दृक्क्षेपः ॥ ३३ ॥ [ दृग्गतिज्या ] दृग्गतिज्यानयनाय आह - दृग्दृक्क्षेपकृतिविशेषितस्य मूलं स्वदृग्गतिः कुवशात् । क्षितिजे स्वा दृक्छाया भूव्यासार्धं नभोमध्यात् ॥ ३४ ॥ दृग्ज्यादृक्क्षेपकृत्योः विवरस्य मूलं स्वकीया दृग्गतिः भवति । कुवशात्भूवशातियं भवति । मध्यज्योदयजीवयोः संवर्गे व्यासदलहृते यत्तत्मध्यज्याकृत्योः विशेषात्मूलं दृक्क्षेपः हि भवति । एवं भूवशातुत्पन्नत्रिज्याशङ्कुवर्गविशेषात्मूलं दृग्ज्या भवति । अतः भूवशातुत्पन्न[दृग्ज्या]दृक्क्षेपनिष्पन्नत्वात्कुवशातिति उच्यते । "क्षितिजे स्वा दृक्छाया" इति अत्र तु "स्वा" इति अनेन स्वकीयदृक्क्षेपदृग्गती अभिधीयेते । भूव्यासार्धम् ५२५ । क्षितिजमण्डले स्वा दृक्छाया कस्मातुत्पन्ना? नभोमध्यात् । व्यासार्ध[तुल्य]मेतत्भवति । तत्यतः कुदृष्टिवशात्सममण्डलमध्यात्पूर्वापरयोः दिशोः दृग्गतिः [लम्बनम्] ऋणं धनं वा इति, तथा एव भगोलमध्यात्दक्षिणोत्तरदिशोः दृक्क्षेपस्य ग्रहणेन नतिः वा स्यात् । ज्यानां विशेषोत्पत्तिं दर्शयति । [भूमेः गोलाकारत्वात्] भूव्यासार्ध[तुल्य]मन्तरं क्षितिजे सूर्यकक्ष्यायां चन्द्रकक्षायां च [भवति] । सूर्यकक्ष्योत्पन्नमध्यज्यां सूर्यकक्ष्योदयज्यया संगुण्य त्रिज्यया भागलब्धस्य वर्गं मध्यज्यावर्गात्विशोध्य मूलं रविकक्ष्यायां दृक्क्षेपः, तथा चन्द्रकक्ष्योत्पन्नमध्यज्यां स्वोदयज्यया संगुण्य त्रिज्यया भागलब्धस्य वर्गं स्वमध्यज्यावर्गात्विशोध्य मूलं चन्द्रकक्ष्यायां दृक्क्षेपः । सूर्यस्वाहोरात्रादिभिः साधितदृग्ज्यावर्गात्सूर्यदृक्क्षेपवर्गं विशोध्य मूलं सूर्यकक्ष्यायां दृग्गतिज्या । चन्द्रस्वाहोरात्रादिभिः साधितदृग्ज्यावर्गात्चन्द्रदृक्क्षेपवर्गं विशोध्य मूलं चन्द्रकक्ष्यायां दृग्गतिज्या भवति । एवमन्येषामपि ग्रहाणां सममण्डलमध्यात्दृग्गतेः भावः । उदये [सूर्य]ग्रहणे चन्द्रस्य तावदधःस्थितत्वात्चन्द्रकक्ष्यायां सूर्यबिम्बकेन्द्रसूत्रात्पूर्वेण चन्द्रबिम्बं नतं लक्ष्यते । अस्तमये तु तथा एव अपरतः । समभूप्रदेशे स्थितस्य द्रष्टुः व्यासार्धतुल्यया दृग्गतिज्यया भूव्यासार्धतुल्यं दृग्गत्यन्तरम् [= लम्बनम्] । एवमेव दक्षिणोत्तरकपालयोः दृक्क्षेपान्तरम् [= नतिः] । [तत्र इदं त्रैराशिकम्] - यदि व्यासार्धतुल्यया दृग्गतिज्यया भूव्यासार्धयोजनतुल्यं दृग्गत्यन्तरम् [=लम्बनम्] तदा इष्टकालोत्पन्नदृग्गतिज्यया कियतिति । [पुनर्च त्रैराशिकम् - यदि] स्फुटयोजनकर्णेन त्रिज्यातुल्याः कलाः लभ्यन्ते, तदा दृग्गति[= लम्बन]योजनैः कियत्यः इति । अत्र प्रथमे त्रैराशिके त्रिज्या भागहारः द्वितीये गुणकारः तुल्यत्वात्[नाशे कृते] रविचन्द्रयोः दृग्गतेः भूव्यासार्धं गुणकारः स्फुटयोजनकर्णः भागहारः, फलं लिप्ताः । सूर्यलिप्ताः चन्द्रलिप्ताभ्यः विशोध्य त्रैराशिकम् - यदि [दिनस्फुट]भुक्त्यन्तरेण षष्टिः नाड्यः [लभ्यन्ते, तदा] आभिः लिप्ताभिः कियत्यः इति । लब्धं नाड्यः भवन्ति, ताः दृग्गति[=लम्बन]घटिकाः । पूर्वकपाले पूर्वतः ग्रहः कक्ष्यायां नतः । तस्मात्प्राग्योगः अतः ग्रहे अपनीयन्ते । अपरकपाले परतः नतत्वात्लम्बनघटिकातुल्यकालेन योगः भविष्यति इति अतः प्रक्षिप्यन्ते । एवमेतत्कर्म तावत्क्रियते यावतविशेषः । एवम् [रविचन्द्रयोः] दृक्क्षेपलिप्ताः प्राग्वत्त्रैराशिकेन ज्ञाताः । यदि रविचन्द्रयोः मध्य[ज्ये] समदिक्स्थे भवतः तदा [रविचन्द्रयोः] नतिलिप्तानां विशेषः अन्यथा योगः । ततः अवनतिः भवति । ततः मध्यग्रहणचन्द्रात्पातं विशोध्य शेषस्य दक्षिणोत्तरभुजज्या अर्धपञ्चमेन गुणिता त्रिज्याभक्ता विक्षेपः । अवनतिविक्षेपयोः समदिशि योगः, भिन्नदिशि वियोगः [स्फुटविक्षेपः] । स्फुटविक्षेपः अवनतिः इति पर्यायः । तया च अवनत्या स्थित्यर्धम् आनीय मध्यतिथेः विशोध्य शेषः स्पर्शकालः । तेन प्राग्वत्लम्बनविधिः । स्पर्शमध्यलम्बनघटिकान्तरेण स्थित्यर्धमुपचीयते । तत्पुनर्मध्यकालात्विशोध्य असकृत्स्थित्यर्धमुत्पादयेत्यावत्स्थिरं भवति । मोक्षे पुनर्प्रथमानीतस्थित्यर्धं मध्यतिथौ प्रक्षिपेत् । पूर्ववत्मोक्षलम्बनमध्यलम्बनघटिकान्तरेण स्थित्यर्धमुपचीयते । तत्पुनर्मध्यतिथौ प्रक्षिप्य पूर्ववत्लम्बनघटिकाः उत्पाद्य तन्मध्यलम्बनान्तरेण स्थित्यर्धमुपचितं कृत्वा ततेव कर्म पुनर्क्रियते यावत्स्थिरं भवति । एवं स्थिरीकृतस्थित्यर्धसम्बन्धिनं सूर्येन्दुगतिकलाभोगं मध्यग्रहणसूर्येन्दोः स्पर्शे विशोधयेत्मोक्षे क्षिपेत् । स्पर्शमोक्षकालिकौ भवतः । अथ प्रागपरकपालद्वये अपि लम्बनयोः तयोः योगेन युतं स्थित्यर्धं स्फुटं भवति । समायामवनौ [व्यासार्धप्रमाणेन सूत्रेण] वृत्तमालिख्य दिक्चिह्नितं कृत्वा मण्डलपूर्वभागे प्रागपररेखायाः उत्तरेण दक्षिणेन वा उदयज्याकाष्ठतुल्ये अन्तरे बिन्दू कृत्वा बिन्दुद्वयशिरस्पृक्सूत्रं प्रसार्य रेखा कुर्यातुदयज्या भवति । [पुनर्] मध्यं मण्डलकेन्द्रं कृत्वा मध्यज्यातुल्यसूत्रेण वृत्तं भ्रामयेत् । तत्मध्यज्यामण्डलम् । त्रिज्यामण्डलपरिधिबिन्दुद्वयात्सूत्रद्वयं मध्यकेन्द्रमानीय रेखाद्वयं कुर्यात् । ततन्तरज्यार्धं मध्यज्यामण्डले तथा एव पूर्वापरतः उत्तरेण दक्षिणेन वा व्यवस्थाप्यते । तत्मध्यज्यावर्गविशेषमूलं दृक्क्षेपज्याकोटिः मध्यज्यामण्डले भवति । [त्रिज्यामण्डले पूर्वापरयोः उदयज्याकाष्ठतुल्ये अन्तरे] बिन्दू कृत्वा [वृत्तकेन्द्रात्मध्याह्न]नतज्यातुल्ये अन्तरे दृक्क्षेपबिन्दुः दक्षिणेन [प्रकल्प्य] बिन्दुत्रयेण मत्स्यमुत्पाद्य तन्मुखपुच्छस्पृक्सूत्रसम्पातात्बिन्दुत्रयस्पृग्वृत्तं भ्रमयेत् । ततर्कभ्रमवृत्तम् । तत्र क्षितिजातूर्ध्वं यत्र प्रदेशे रविः तन्मध्यकेन्द्रान्तरालसूत्रं दृग्ज्या कर्णः, स्थानीया दृक्क्षेपज्या कोटिः, तदग्रातारभ्य दृग्ज्याग्रं यावत्रविचिह्नोपलक्षितं तदन्तरालम् दृग्गतिज्या सा पूर्वापरा । एवं विशिष्टं त्र्यश्रं क्षेत्रं निष्पाद्यते ॥ ३४ ॥ [ अक्षदृक्कर्म ] उदयास्तमययोः विक्षेपवशातृणधनत्वप्रतिपादनाय आह - विक्षेपगुणा अक्षज्या लम्बकभक्ता भवेतृणमुदक्स्थे । उदये धनमस्तमये दक्षिणगे धनमृणं चन्द्रे ॥ ३५ ॥ अक्षज्या विक्षेपगुणा लम्बकभक्ता फलं लिप्ताः । उत्तरविक्षेपे उदयस्थितचन्द्रे ऋणम्, अस्तमये धनम् । याम्ये विक्षेपे उदयस्थे चन्द्रे धनम्, अस्तमये ऋणमिति । ऋणधनयुक्ती रविचरदलफलोपपत्तितुल्या ॥ ३५ ॥ [ अयनदृक्कर्म ] अयनवशातृणधनत्वप्रतिपादनाय आह - विक्षेपापक्रमगुणमुत्क्रमणं विस्तरार्धकृतिभक्तम् । उदगृणधनमुदगयने दक्षिणगे धनमृणं याम्ये ॥ ३६ ॥ विक्षेपः च अपक्रमः च विक्षेपापक्रमौ । [विक्षेपापक्रमौ गुणौ यस्य तत्विक्षेपापक्रमगुणम् । विक्षेपः तात्कालिकः गृह्यते, अपक्रमः च परमापक्रमः । उत्क्रमणमुत्क्रमज्याम् ।] विक्षेपेण परमापक्रमेण गुणितां राशित्रययुतचन्द्रस्य उत्क्रमजीवामिति अर्थः । कथं राशित्रययुतचन्द्रस्य ततुत्क्रमणम्? उत्क्रमणग्रहणात्राशित्रयक्षेपः अवगम्यते । [राशित्रययुतचन्द्रस्य] उत्क्रमज्यां गुणयेत् । व्यासार्धकृत्या भजेत् । फलम् लिप्ताः उदग्विक्षिप्ते उत्तरायणे ऋणं दक्षिणे धनम् । ततेव फलं दक्षिणे अयने उत्तरविक्षिप्ते धनम्, ऋणं याम्ये, विक्षेपे दक्षिणे ऋणं भवेतिति । ऋणे धने युक्तिः अपि । यस्मात्तुल्यदिग्विक्षेपायनयोः ग्रहः तावतधिकः प्राप्यते, उदयास्तमयक्षितिजयोः विशोध्यते; भिन्नायनविक्षेपयोः तावथीनः इति क्षिप्यते । सर्वग्रहाणां स्वोदयास्तमययोः इदं कर्म प्रवर्तते । न मध्याह्नार्धरात्रयोः ॥ ३६ ॥ [ चन्द्रादिस्वरूपं ग्रहणकारणं च ] चन्द्रादिस्वरूपव्यावर्णनाय आह - चन्द्रः जलमर्कः अग्निः मृद्भूच्चाया अपि या तमः तथि । छादयति शशी सूर्यम्, शशिनं महती च भूच्छाया ॥ ३७ ॥ यतेतत्चन्द्रमण्डलं तत्प्रत्यक्षेण जलम्, विवस्वानुष्णस्वभावातग्निः, भूः पृथिवी मृण्मयी, भूच्छाया तमः स्वभावातिति । शशी चन्द्रः सूर्यं छादयति । उपरिस्थितः सूर्यः अधःस्थितेन चन्द्रमसा छाद्यते । महती च भूच्छाया शशिनं छादयति । ग्राहकभेदः च अनयोः अस्ति, यतः कुच्छाया विशाला न्यूनः शशी, शशी न्यूनः विशालः दिनकृत् ॥ ३७ ॥ [ ग्रहणमध्यकालः ] कदा ग्रहणे भवतः, तत्प्रतिपादनाय आह - स्फुटशशिमासान्ते अर्कं पातासन्नः यदा प्रविशति इन्दुः । भूच्छायां पक्षान्ते तदा अधिकोनं ग्रहणमध्यम् ॥ ३८ ॥ स्फुटः शशिमासः स्फुटशशिमासः, तस्य अन्ते परिसमाप्तौ अमावास्यायामर्कमादित्यम्, पातासन्नः विक्षेपमार्गगत्या पातासन्नः, यदा प्रविशति इन्दुः यदा अर्कग्रहणं भवति । [पक्षान्ते पौर्णमास्यन्ते पातासन्नः इन्दुः यदा] भूच्छायां प्रविशति । तदा अधिकमूनं वा ग्रहणमध्यं भवति । यतः पूर्वकपाले ग्रहणमध्यमधिकं भवति स्फुटतिथिच्छेदजनितं तेन तत्र लम्बनघटिकाः विशोध्याः तावता कालेन अतीतत्वात् ग्रहणमध्यस्य । अपरकपाले ग्रहणमध्यमूनं भवति स्फुटतिथिच्छेदजनितं तेन तत्र लम्बनघटिकाः क्षिप्यन्ते, भावित्वात्ग्रहणमध्यस्य ॥ ३८ ॥ [ भूच्छायादैर्घ्यम् ] भूच्छायाप्रमाणमाह - भूरविविवरं विभजेत्भूगुणितं तु रविभूविशेषेण । भूच्छायादीर्घत्वं लब्धं भूगोलविष्कम्भात् ॥ ३९ ॥ भुवः रवेः च अन्तरं भूरविविवरम्, रवियोजनकर्णः ४५९५८५, भूगुणितं भूव्यासेन १०५० गुणितम्, रविभुवोः विशेषेण रविभुवोः व्यासयोः ४४१०, १०५०, अन्तरेण ३३६० विभजेत् । तत्भूगोलच्छायादीर्घत्वं भवति १४३६२० भूगोलविष्कम्भात्प्रभृति । अत्र इदं प्रदीपच्छायाकर्म । रविव्यासः प्रदीपः भुजा, भूव्यासः शङ्कुः, रविभूव्यासयोः अन्तरं रविभूव्यासविशेषः, रवियोजनकर्णः शङ्कुप्रदीपच्छाययोः अन्तरमिति प्रदीपच्छायाकर्मसूत्रनिबन्धनम् । उपपत्तिः प्रदीपच्छायाकर्मणा एव । रविभूगोलवृत्तपार्श्वयोः सूत्रद्वयं तथा सूर्यभूव्याससूत्रद्वयमेकत्र बध्नीयात् । भूच्छाया क्रमेण अपचीयमाना भूविष्कम्भात्लक्ष्यते ॥ ३९ ॥ [ तमसः विष्कम्भम् ] चन्द्रकक्ष्यायां भूच्छायानयनाय आह - छायाग्रचन्द्रविवरं भूविष्कम्भेण तत्समभ्यस्तम् । भूच्छायया विभक्तं विद्यात्तमसः स्वविष्कम्भम् ॥ ४० ॥ भूछायाग्रातारभ्य चन्द्रं यावतन्तरं छायाग्रचन्द्रविवरम् । भूच्छायादैर्घ्यम् १४३६२० चन्द्रकर्णेन ३४३७७ अनेन हीनम् १०९२४३ छायाग्रचन्द्रविवरं जातम्, भूविष्कम्भेण १०५० गुणितं भूच्छायादैर्घ्येण १४३६२० विभक्तं लब्धं तमसः विष्कम्भः ६८९ स्वग्रहणे चन्द्रकक्ष्यायां भूच्छायाविष्कम्भः भवति । यदि चन्द्रयोजनकर्णेन व्यासार्धम् ३४३९ लभ्यते तदा तमोविष्कम्भार्धेन कियतिति लब्धम् [तमोविष्कम्भार्ध]लिप्ताप्रमाणम् ८०० । १९ ॥ एवं स्वकीयस्फुटयोजनकर्णाभ्यां रविचन्द्रयोः व्यासलिप्तानयनम् । रविव्यासः ४४१० व्यासार्ध ३४३८ गुणितः रवियोजनकर्ण ४५७५८५ भक्तः रविबिम्बकलाः ३३ । ०० ॥ चन्द्रव्यासः ३१५ व्यासार्ध ३४३८ गुणितः चन्द्रयोजनकर्ण ३४३७७ हृतः चन्द्रबिम्बकलाः ३१ । १० ॥ ४० ॥ [ स्थित्यर्धानयनम् ] स्थित्यर्धप्रतिपादनाय आह - तच्छशिसम्पर्कार्धकृतेः शशिविक्षेपवर्गितं शोध्यम् । स्थित्यर्धमस्य मूलं ज्ञेयं चन्द्रार्कदिनभोगात् ॥ ४१ ॥ छाद्यछादकयोः सम्पर्कार्धं मानैक्यार्धमिति अर्थः । तस्य कृतिः तच्छशिसम्पर्कार्धकृतिः । तस्याः शशिनः विक्षेपवर्गितं शोध्यम् । ग्रहणद्वये अपि चन्द्रात्विक्षेपः इति । रविग्रहणे अवनतियुतवियुतः स्फुटविक्षेपः गृह्यते । तस्य मूलं स्थित्यर्धं भवति । कथम्? चन्द्रार्कदिनभोगात् । चन्द्रार्कदिनभोगशब्देन चन्द्रार्कदिनभुक्तिः गृह्यते । तयोः अनुलोमगतिकयोः दिनगत्यन्तरेण त्रैराशिकं कर्म - यदि रविशशिगतिविशेषेण षष्टिः नाड्यः लभ्यन्ते, [तदा] स्थित्यर्धलिप्ताभिः कियत्यः इति स्थित्यर्धघटिकाः लभ्यन्ते ॥ ४१ ॥ [ विमर्दार्धानयनम् ] एवं विमर्दार्धमानेयम् । कथम्? चन्द्रव्यासार्धोनस्य वर्गितं यत्तमोमयार्धस्य । विक्षेपकृतिविहीनं तस्मात्मूलं विमर्दार्धम् ॥ ४२ ॥ इति एतस्मात् । [स्थित्यर्धम्] तिथेः स्पर्शे शोध्यं मोक्षे देयम्, रविचन्द्रपाताः अपि स्पर्शमोक्षकालिकाः स्थित्यर्धघटिकाभिः कृत्वा पुनर्स्पर्शमोक्षयोः विक्षेपौ, ताभ्यां स्थित्यर्धे उभे यावतविशेषम् । गणितकर्मणा उपपत्तिः दृश्यते । ग्राह्यबिम्बमानार्धेन वृत्तमालिखेत् । तत्ग्राह्यबिम्बम् । ततः मानैक्यार्धतुल्येन कर्कटकेन तेन एव केन्द्रेण अपरं वृत्तमालिखेत् । तत्ग्राह्यग्राहकसम्पर्कार्धमण्डलम् । ततः दक्षिणोत्तररेखायां यथादिशं केन्द्रातुत्तरेण दक्षिणेन वा विक्षेपतुल्यं सूत्रं प्रसार्य बिन्दुं कुर्यात् । तन्मत्स्यविधिना पूर्वा[परां रेखां कुर्यात् । तत्सम्पर्कार्धमण्डलसम्पातात्केन्द्रप्रापिणीं रेखां नयेत् । एवमर्धायतचतुरस्रं क्षेत्रमुत्पद्यते । तत्र सम्पर्कार्धं कर्णः, विक्षेपः च भुजा । तद्वर्गविश्लेषमूलं कोटिः स्थित्यर्धमिति । यदा ग्राह्यबिम्बार्धोनग्राहकबिम्बार्धतुल्यं ग्राह्यग्राहकयोः केन्द्रान्तरालम्, तदा ग्राह्यग्राहकबिम्बार्धविश्लेषः कर्णः, विक्षेपः एव भुजा । तद्वर्गविशेषमूलं कोटिः विमर्दार्धमिति ॥ ४२ ॥ [ चन्द्रस्य अग्रस्तमानम् ] ग्रस्तशेषप्रमाणानयनाय आह - तमसः विष्कम्भार्धं शशिविष्कम्भार्धवर्जितमपोह्य । विक्षेपात्यत्शेषं न गृह्यते तत्शशाङ्कस्य ॥ ४३ ॥ शशिविष्कम्भार्धवर्जितं तमसः विष्कम्भार्धं चन्द्रविक्षेपातपोह्य । यत्शेषं तत्चन्द्रस्य न छाद्यते । ग्रहणमध्ये उत्तरेण दक्षिणेन वा यावतेव विक्षेपः, तदा तावतेव तयोः केन्द्रान्तरालं भवति । यदा पुनर्विक्षेपः, तस्मात्शशितमसः विष्कम्भार्धविशेषातधिकः भवति, तदा तावत्प्रमाणमेव बिम्बकेन्द्रान्तरालस्य द्वितीय पार्श्वतः चन्द्रबिम्बं तमोमध्यात्निष्क्रान्तं लक्ष्यते । यावान् भागः चन्द्रस्य न गृह्यते तं चन्द्रबिम्बात्विशोध्य शेषं ग्रासप्रमाणं स्यात् । चन्द्रवतर्के अपि ॥ ४३ ॥ [ इष्टकालिकग्रासः ] इष्टकालग्रासप्रतिपादनाय आह - विक्षेपवर्गसहितात्स्थितिमध्यातिष्टवर्जितात्मूलम् । सम्पर्कार्धात्शोध्यं शेषः तात्कालिकः ग्रासः ॥ ४४ ॥ विक्षेपवर्गः तेन सहितात्, स्थितिः स्पर्शातारभ्य यावन्मोक्षः, तस्य मध्यं स्थित्यर्धम्, इष्टकालवर्जितमिष्टवर्जितम्, तस्मात् । यत्मूलम् [तत्] सम्पर्कार्धात्शोध्यं मानैक्यार्धात्विशोध्यम् । शेषः तात्कालिकः ग्रासः भवति । स्थित्यर्धमिष्टकालहीनं भुक्त्यन्तरगुणं षष्टिहृतं लिप्ताः । वर्गः तावतः विक्षेपस्य लिप्तात्मकस्य वर्गे युक्त्वा मूलीक्रियते, मूलं कर्णः । [तावत्कर्णं मानैक्यार्धात्विशोध्य शेषः तात्कालिकः ग्रासः भवति ।] तावता कर्णेन प्रविष्टः ग्राहकः ॥ ४४ ॥ [ अक्षवलनमयनवलनं च ] वलनज्याप्रतिपादनाय आह - मध्याह्नोत्क्रमगुणितः अक्षः दक्षिणतः अर्धविस्तरहृतः दिक् । स्थित्यर्धात्च अर्केन्द्वोः त्रिराशिसहितायनात्स्पर्शे ॥ ४५ ॥ मध्याह्नात्प्रभृति उत्क्रमः मध्याह्नोत्क्रमः । मध्याह्नतिथ्यन्तरालघटिका मध्याह्नशब्देन उच्यते । तत्र प्राक्कपाले तिथिघटिका दिनार्धात्विशोध्या, अपरकपाले तेभ्यः दिनार्धम् । मध्याह्ने इति उपलक्षणम् । तथा च इन्दुग्रहणे मध्यरात्रितिह्यन्तरालघटिकाः गृह्यन्ते । ताः षड्गुणाः भागाः तेषामुत्क्रमज्या, तया अक्षज्या दक्षिणतः व्यवस्थिता गुणनीया, अर्धविस्तरेण व्यासार्धेन भक्ता दिक्भवति । दक्षिणतः इति अपरकपालम् अधिकृत्य उत्क्तमाचार्येण, यतः अपरकपाले पूर्वभागः दक्षिणेन वलति, अपरभागः उत्तरेण; प्राक्कपाले पुनर्पूर्वभागः उत्तरेण, अपरभागः दक्षिणेन वलति । एवं बिम्बस्य पूर्वापरभागः उत्तरेण दक्षिणेन वलति, यतः दिक्शब्देन वलनमुच्यते । यत्र चन्द्रः भूच्छायायां प्रविशति तत्र चन्द्रबिम्बे खण्ड्यमाने तद्वलनं प्राक्कपाले चन्द्रबिम्बपूर्वभागे उत्तरेण अवतिष्ठते, अपरभागे दक्षिणेन । अपरकपाले विपरीतम् । विक्षेपः रविग्रहणे यथादिशमेव भवति । यदा पुनर्भूच्छाया ग्राहकत्वेन कल्पिता तदा विक्षेपस्य दिग्विपर्ययः । स्थितेः अर्धं स्थित्यर्धम्, विक्षेपः । यतः स्थितेः अर्धं विक्षेपवशात्भवति, तेन स्थित्यर्धशब्देन विक्षेपः उच्यते । तस्मात्विक्षेपवशात्द्वितीयवलनानयनम् - अर्केन्द्वोः इति । अर्कः च इन्दुः च अर्केन्दू, तयोः अर्केन्द्वोः त्रिराशिसहितयोः यतयनम् । अयनशब्देन क्रान्तिः, त्रिराशिशब्देन ज्या उत्क्रमेण ग्राह्या । त्रिराशिसहितौ यदा रविचन्द्रौ चक्रार्धातूनौ भवतः तदा [पूर्वकपाले] उत्तरं दिग्वलनम् । चन्क्रार्धातधिकौ तदा [पूर्वकपाले] दक्षिणं दिग्वलनम् । उत्क्रमज्या परक्रान्तिगुणा त्रिज्याहृता क्रान्तिवलनज्या । तद्बिम्बपूर्वभागे उत्तरेण उत्तरम्, दक्षिणेन दक्षिणम् । अपरकपाले तु [व्यत्ययेन] दिक्साधनं कर्तव्यम् । सममण्डलमध्यात्दक्षिणेन अक्षतुल्ये अन्तरे पूर्वापरायतमण्डलस्य [नाडीमण्डलस्य] यतन्तरं ततक्षवलनम् । तत्मध्यातुत्क्रमेण उपचीयते । एततानयनम् - सममण्डलमध्यात्नतस्य उत्क्रमज्यया कर्तव्यम् । पूर्वकपाले कर्णगत्या बिम्बपूर्वभागः उत्तरेण प्रतिभासते, अपरभागः दक्षिणेन । परकपाले बिम्बपूर्वभागः दक्षिणेन अपरभागः उत्तरेण । इति गोले प्रदर्शयेत् । अयनवलनं तु उत्तरदक्षिणायनादौ भिन्नत्वेन प्रतिभासते, मेषादौ उत्तरम्, तुलादौ दक्षिणम् । एवमक्षवलनत्रयेण परिलेखः क्रियते । प्रथमं समभूमौ ग्राह्यमण्डलं लिखेत् । तत्केन्द्रातेव सम्पर्कार्धमण्डलम् [व्यासार्धमण्डलं च लिखेत्] । व्यासार्धमिष्टच्छेदेन छिन्नं कर्तव्यम् । [व्यासार्धमण्डलम्] पूर्वापरदक्षिणोत्तरदिगङ्कितम् [कार्यम्] । अक्षायनवलने काष्टीकृत्य तुल्यदिग्योगः भिन्नदिग्विश्लेषः [च कार्यः] । व्यासार्धमण्डले दक्षिणेन उत्तरेण वा अपमण्डलगत्या [पश्चिमभागे] वलनं विधाय बिन्दुं कुर्यात् । ततः केन्द्रप्रापि सूत्रं नयेत् । तस्य सूत्रस्य मानैक्यार्धपरिधेः यत्र सम्पातः तस्मातुत्तरेण दक्षिणेन विक्षेपं च अपगत्या परिध्यनुसारेण नीत्वा अग्रे बिन्दुं कुर्यात् । तस्मात्बिन्दोः केन्द्रप्रापि सूत्रं नयेत् । यत्र ग्राह्यबिम्बं स्पृशति तत्र रवेः अपरभागे स्पर्शः, चन्द्रस्य बिम्बे पूर्वभागे स्पर्शः । [ग्राहकबिम्बकेन्द्रः तु] सम्पर्कार्धमण्डले भवति । रविग्रहणे स्पर्शवलनं दिग्वशेन मानैक्यार्धपरिधौ पूर्ववत् । तदग्रात्विक्षेपं यथादिशम्, चन्द्रग्रहणे विपरीतम् प्रसारयेत् । तदग्रात्केन्द्रप्रापि सूत्रं नयेत् । यत्र ग्राह्यपरिधिं स्पृशति तत्र स्पर्शः । मोक्षवलनं रविग्रहणे पूर्वभागे, चन्द्रग्रहणे अपरभागे व्यस्तं प्रसार्यते । ततः मोक्षविक्षेपं यथादिशं सवितुः, चन्द्रस्य विपरीतं प्रसार्य बिन्दुं कुर्यात् । तदग्रात्केन्द्रप्रापिसूत्रं नयेत् । यत्र ग्राह्यपरिधिं स्पृशति तत्र मोक्षः । मध्यग्रहणे मध्यग्रहणवलनं विक्षेपवशात् । सम्पर्कार्धमण्डले दक्षिणविक्षेपे उत्तरं वलनं पूर्वेण, दक्षिणं परेण; उत्तरे विक्षेपे, उत्तरं वलनं परेण, दक्षिणं पूर्वेण प्रशारयेत् । [रविग्रहणे विपरीतं कार्यम् ।] तदग्रात्याम्य उत्तररेखा कार्या । तन्मानैक्यार्धवृत्तसम्पातात्केन्द्रप्रापि सूत्रं नीत्वा रेखां कुर्यात् । रेखानुसारेण केन्द्रमध्यात्सवितुः यथादिशम्, चन्द्रस्य विपरीतम्, विक्षेपं प्रसार्य तदग्रे बिन्दुं कुर्यात् । तस्मात्ग्राहकबिम्बव्यासार्धेन [ग्राह्यबिम्बम्] खण्डयेत् । ग्राह्यबिम्बं तावत्ग्रस्तं दृश्यते । इष्टपरिलेखे, प्रग्रहणमध्यमोक्षविक्षेपबिन्दुत्रयेण मत्स्यद्वयमुत्पाद्य तन्मुखपुच्छनिर्गतसूत्रसम्पातात्बिन्दुत्रयस्पृक्सूत्रेण वृत्तं भ्रामयेत् । [स] ग्राह्यबिम्बकेन्द्रमार्गः । तत्र इष्टग्रासकर्णप्रमाणम् [सूत्रम्] केन्द्रात्यथादिशं ग्राहकमार्गाभिमुखं प्रसार्य यत्र ग्राहकमार्गं स्पृशति तस्मात्ग्राहकार्धेन परिलेखात्तत्कालखण्डग्रहणं दृश्यते । निमीलनोन्मीलनयोः विमर्दार्धलिप्ताभिः इष्टग्रासवत्कर्णमानीय इष्टग्रासविधिना निमीलनोन्मीलने दर्शयितव्ये ॥ ४५ ॥ [ ग्राह्यबिम्बस्य वर्णः ] [ग्राह्यबिम्ब]वर्णप्रतिपादनाय आह - प्रग्रहणान्ते धूम्रः खण्डग्रहणे शशी भवति कृष्णः । सर्वग्रासे कपिलः सकृष्णताम्रः तमोमध्ये ॥ ४६ ॥ प्रग्रहणे स्पर्शे, अन्ते मोक्षे, शशी धूम्रः भवति । खण्डग्रहणे कृष्णः भवति । खण्डग्रहणं प्रग्रहणातर्धासन्नं सर्वैः गृह्यते । सर्वग्रासे कपिलः सकृष्णताम्रः तमोमध्ये । यदा सकलं बिम्बं छन्नं भवति तदा सर्वग्रासः, तत्र कपिलवर्णः । तस्मात्परतः विमर्दकालात्मध्यं यावत्सकृष्णताम्रः भवति । सूर्यग्रहणे पुनर्सर्वदा कृष्णवर्णः ॥ ४६ ॥ [ अनादेश्यं रविग्रहणम् ] ग्रहणोपलब्धिप्रदर्शनाय आह - सूर्येन्दुपरिधियोगे अर्काष्टमभागः भवति अनादेश्यः । भानोः भास्वरभावात्स्वच्छतनुत्वात्च शशिपरिधेः ॥ ४७ ॥ सूर्येन्दुपरिधियोगः सूर्यग्रहणम् । अत्र अर्कबिम्बस्य अष्टमभागः छन्नः अपि अनादेश्यः । भानोः भास्वरभावात् । तीक्ष्णांशोः भास्वरस्वरूपत्वातिति । चन्द्रस्य अपि स्वच्छतनुत्वातष्टमभागः बिम्बस्य छन्नः अपि अनादेश्यः इति । ग्राह्यबिम्बस्य अष्टमभागः मानैक्यार्धात्विशोध्य शेषः इष्टग्रासकर्णः । तद्वर्गात्स्फुटविक्षेपवर्गोनात्मूलमिष्टोनस्थितिदललिप्ताः भ्वन्ति । ताः षष्टिगुणाः गत्यन्तरहृताः घटिकाः । ताः स्पर्शे तिथ्यन्ते विशोधयेत् । मोक्षे अपि तिथ्यन्ते योजयेत् । तौ स्पर्शमोक्षकालौ भवतः ॥ ४७ ॥ [ ग्रहसाधनोपायः ] ग्रहसाधनोपायप्रदर्शनार्थमाह - क्षितिः अवियोगात्दिनकृत्रवीन्दुयोगात्प्रसाधयेत्च इन्दुम् । शशिताराग्रहयोगात्तथा एव ताराग्रहाः सर्वे ॥ ४८ ॥ क्षितिः च रविः च, तयोः योगः क्षितिरवियोगः । तस्मात्रविं साधयेत् । रवीन्दुयोगातिन्दुं साधयेत् । शशिताराग्रहयोगात्च सर्वे ताराग्रहाः च साधनीयाः । दृगुच्छ्रितं सलिलसमीकृतभूप्रदेशमण्डलकं चक्रभागाङ्कितवृत्तपरिधिं दिक्चतुष्टयचिह्नितं कारयेत् । तस्य अपरभागे स्थितः सांवत्सरः प्राक्परिधौ आसक्तमुद्गच्छन्तं सूर्यं लक्षयेत् । ततः तत्प्रदेशे चिह्नं कृत्वा तिष्ठेत्यावतन्योदयम् । तत्र अपि यत्र परिधिप्रदेशे सूर्यः उदितः लक्ष्यते तत्र चिह्नं निदध्यात् । एवमुदयत्रयेण चतुष्केण वा अन्तरघटिकाः यन्त्रादिना लक्षयितव्याः । ताः रविभुक्तयः रव्युदयान्तराले भवन्ति । ताः एव स्फुटरविभुक्तिलिप्ताः । मध्यदिनच्छाययोः वेधेन तज्ज्यादिविधिना [रविद्वयमानयेत् ।] तयोः अन्तरम् [वा] स्फुटरविभुक्तिः । अथ मेषादौ प्रवृत्ते सवितरि सूर्योदयाः गण्यन्ते यावत्मेषादिं प्रविशति, ते रविभूयोगाः जायन्ते । एवं सम्यकुपलक्ष्यमाणाः रविभगणभोगे शतत्रयं पञ्चषष्ट्या अधिकं दिनं भवति ३६५ । घटिकाः पञ्चदश १५ । विघटिकाः एकत्रिंशत्३१ । प्राणाः सार्धैकाः ३ २। ताः क्रमेण सवर्णिताः उपरि भागाः २१०३८९, छेदः ५७६ । एवमेतैः अंशैः षष्टसप्तपञ्चच्छेदैः एकः अर्कभगणः । एतैः यगादिमानं क्रियते । रवीन्दुयोगप्रसाधनाय सूर्याधिक्रान्तचन्द्रमुपलक्षयेत् । पुनर्द्वितीयमेवं वर्षं प्रति जागरेण द्वादश रवीन्दुयोगाः १२, चत्वारः राशयः ४, द्वादश भागाः १२, षट्चत्वारिंशत्लिप्ताः ४६, चत्वारिंशत्विलिप्ताः ४०, अष्टचत्वारिंशत्तत्पराः ४८ । एकेन रविभगणेन युताः एते सवर्णिताः १०३९५६००४८ ७७७६०००० युगगतचन्द्रभगणाः त्रैराशिकेन - यदि एकेन रविभगणभोगेन एतावन्तः १०३९५६००४८ ७७७६०००० चन्द्रभगणाः लभ्यन्ते, तदा युग[रविभगण]भोगेन अनेन ४३२०००० कियन्तः इति, लब्धं युगे चन्द्रभगणाः ५७७५३३३६ । अथवा चन्द्रस्य इष्टशुक्लप्रतिपतारभ्य प्रतिदिनं चन्द्रोदयमुपलक्ष्य बिन्दुः कार्यः यावत्रविभगणम् । एवं रविभगणभोगे चन्द्रोदयसंख्याः जाताः ३५२ ५३ २३ २८ १२ सवर्णिताः ३५२ । ११५३२४९२ २१६००० एतैः त्रैराशिकम् - यदि एकस्मिन् [रवि]भगणभोगे एतावन्तः [चन्द्रोदयाः] भवन्ति, [तदा युग]रविभगणभोगे कियन्तः । प्राग्वत्युगे चन्द्रोदयाः जाताः १५२४४८४१६४ । क्षितिभगणेभ्यः १५८२२३७५०० शुद्धाः युगचन्द्रभगणाः ५७७५३३३६ । शशिताराग्रहयोगान् शशिभगणेभ्यः विशोध्य शेषमिष्टग्रहस्य भगणाः । वर्षं प्रति जागरेण चन्द्रबृहस्पतियोगाः भगणाः १३, राशयः ३, भागाः १२, लिप्ताः २५, विलिप्ताः ३३, तत्पराः ३६ । एते क्रमेण सवर्णिताः जाताः १०३३००४०१६ ७७७६०००० यदि एकस्मिन् रविभगणे एतावन्तः १०३३००४०१६ ७७७६०००० गुरुशशियोगाः लभ्यन्ते, तदा युगरविभगणे ४३२०००० कियन्तःञिति, लब्धाः युगाब्दे गुरुशशियोगाः ५७३८९११२ चन्द्रभगणेभ्यः ५७७५३३३६ विशोध्य शेषं गुरुभगणाः युगे जाताः ३६४२२४ । एवं भौमादीनामपि रविभगणभोगं यावत्चन्द्रेण सह योगान् प्रसाध्य ग्रहभगणसाधनं कर्तव्यम् । मार्गदर्शनमेव एततस्मदादीनामविषयः । बुधशुक्रयोः शीघ्रसाधनम् । प्राच्यामस्तमितः पश्चात्यावद्भिः दिनैः उदितः तावतां दिनानामर्धमुदयदिनेभ्यः पातयेतस्तमितदिनेषु क्षिपेत् । पुनर्प्राच्यां यदा अस्तमयः प्रतीच्यामुदयः तदा अनेन एव विधिना निरंशदिनसिद्धिः कार्या । तयोः आद्यन्तनिरंशयोः मध्ये शीघ्रकेन्द्रभगणः भवति । बुधस्य शीघ्रकेन्द्रभगणदिनानि आसन्नानि ११६, शुक्रस्य ५८४ । एतैः भूदिनेभ्यः १५७७९१७५०० भागं दत्वा लब्धम् बुधशुक्रशीघ्रकेन्द्रभगणाः भवन्ति । रव्युच्च[परिधि]साधनम् । मध्याह्नच्छायया रविं प्रसाध्य तद्दिनमध्यमरविणा विशेष्य मध्यमे अधिके ऋणम्, धनमूले । एवं प्रतिदिनमुपलभ्य यावत्वर्धमानं रविफलं स्थिरीभवति, तत्फलं परमफलम् । ततः परं ह्रासमेष्यति । परमफलदिने मध्यमे अर्के ऋणफलोपलक्षिते राशित्रयं शोधयेत्, शेषं रविमन्दोच्चम् । धनफलोपलक्षिते राशित्रयं क्षिपेत्, मन्दोच्चं भवति । परमफलज्या चक्रांशहता त्रिज्याहृता रवेः परिधिः भवति । चन्द्रोच्चपरिधिसाधनम् । सूर्यास्तमयात्कृष्णे पक्षे यावतीभिः घटिकाभिः चन्द्रोदयः भवति घटिकायन्त्रसाधिताभिः ताभिः षड्राशियुतातर्कात्लग्नं स्वोदयैः त्रिप्रश्नोक्तविधिना कर्तव्यम् । स स्फुटचन्द्रः । तत्तात्कालिकमध्यमचन्द्रविश्लेषशेषं मान्दफलं धनुमृणं वा । एवं प्रत्यहमुपलक्षयेत्पूर्ववत्यावत्वर्धमानफलं स्थिरीभवति । ततः रविवतुच्चपरिधिसाधनम् । एवं प्रतिदिनं कुर्यात्यावत्मध्यमस्फुटयोः न किञ्चितन्तरं स्यात् । स एव चन्द्रः तदुच्चं भवति । तद्दिनपरमफलपातदिनोच्चयोः अन्तरं कृत्वा तद्दिनपरमफलार्कयोः अन्तरं कार्यम् । तत[ः त्रैराशिकम्] - यदि अनेन गत्यन्तरेण एततुच्चान्तरम्, तदा सूर्यभगणैः किमिति अन्द्रोच्चभगणसिद्धिः । चन्द्रस्य पातभगणसाधनम् । चन्द्रग्रहणे [स्पर्शकालात्] मध्यग्रहणं यावत्स्थित्यर्धघटिकाः चन्द्रग्रहणकालोत्पन्नाः ताः स्फुटसूर्यशशिभुक्त्यन्तरेण गुणयेत्, षष्ट्या विभजेत्, स्थित्यर्धलिप्ताः स्युः । तद्वर्गं सम्पर्कार्धवर्गात्विशोध्य शेषस्य मूलं चन्द्रविक्षेपः । स त्रिज्याहतः खागाक्षिभक्तः [२७०] काष्ठितः भुजचापम् । एवं मोक्षमपि [स्थित्यर्धम्] मध्यग्रहणात्जानीयात् । यदि प्रथमस्थित्यर्धं महतोजपदे ग्रहः भवति, अन्यथा युग्मपदे स्यात् । यदि उत्तरविक्षेपः विषमपदे भुजचापं स्फुटम्, युग्मपदे चक्रार्धात्विशोध्य भवति । दक्षिणविक्षेपे विषमपदे चक्रार्धं क्षिपेत्, युग्मपदे चक्रात्विशोधयेत् । स बाहुः स्यात् । एवं स्वधिया शेषं च । एवमन्यत्ग्रहणकालिकं बाहुमुत्पादयेत् । उभयोः अन्तरं साधयेत् । ग्रहणद्वयकालान्तरजा तत्पातभुक्तिः । ततः चन्द्रपातभगणसिद्धिः । अथवा चन्द्रस्य दिनार्धच्छायया क्रान्तिमुक्तवत्प्रसाधयेत् । तस्याः तद्दिनचन्द्रक्रान्त्यन्तरं विक्षेपः । शेषं प्राग्वतिति । बुधसितयोः यावता रात्रिगतकालेन अस्तमयः जायते तावता लग्नं षड्राशियुतं स्फुटः बुधः शुक्रः च । शेषाणां चन्द्रवतानयनं रात्रिगते काले । मध्यस्फुटयोः अन्तरं मन्दफलयुतवियुतं शीघ्रफलम् । पुनर्पञ्चभिः अहोभिः फलसाधनं कर्तव्यम् । प्राक्फलेन सह विश्लेषयेत् । एवं तावत्परीक्षयेत्यावत्वर्धमानं शीघ्रफलं स्थिरीभवति । एवं स्वधिया अभ्यूह्य शीघ्रोच्च[परिधि]साधनम् । ताराग्रहयोगान्तरात् ग्रहविक्षेपसाधनं कर्तव्यम् । उदयास्तमयवक्रानुवक्रैः शीघ्रभगणसाधनं विधेयम् । अथवा ग्रहं यष्ट्यादियन्त्रेण विदित्वा द्वितीये अपि दिने तावति एव काले विद्ध्यात्, तदन्तरं स्फुटभुक्तिः । सा मध्यमभुक्तेः यदा ऊना स्यात्तदा कक्ष्यामण्डलातुपरि ग्रहः, अधिका चेत्तदा अधः वर्तते । तद्भूमध्यान्तरं कर्णः । तद्वशात्परमाल्पतां परमाधिकतां च भुक्तेः लक्षयेतिति भगणभोगं यावत् । भगणभोगः मध्यमगत्या एव भवति । एवं मन्दफलस्य परमाधिकतां लक्षयित्वा परममन्दकर्णव्यासार्धान्तरं परमफलं मान्दं भवति ॥ ४८ ॥ [ सम्प्रदायसंस्मरणम् ] भगणादीनां प्रमाणानि कथं ज्ञातानि आचार्येण तत्प्रतिपादनाय आह - सदसज्ज्ञानसमुद्रात्समुद्धृतं ब्रह्मणः प्रसादेन । सज्ज्ञानोत्तमरत्नं मया निमग्नं स्वमतिनावा ॥ ४९ ॥ सदसत्सतसत् । सत्शुभम्, असतशुभम् । ज्ञानं ज्ञायते अनेन इति । सज्ज्ञानोत्तमरत्नं सत्ज्ञानं ततेव उत्तमरत्नम्, उत्कृष्टं रत्नम्, ज्योतिःशास्त्रम् । निमग्नं निलीनम् । स्वमतिनावा स्वकीया मतिः (स्वमतिः), स्वमतिः एव नौः तया स्वमतिनावा सदसज्ज्ञानसमुद्रात्समुद्धृतमिति ॥ ४९ ॥ [ प्रतिकञ्चुककारिणे दण्डविधानम् ] शपथप्रतिपादनाय आह - आर्यभटीयं नाम्ना पूर्वं स्वायम्भुवं सदा नित्यम् । सुकृतायुषोः प्रणाशं कुरुते प्रतिकञ्चुकं यः अस्य ॥ ५० ॥ आर्यभटस्य इदमार्यभटीयम् । किं तत्? यदा एव अत्यन्तविप्रलीनसम्प्रदायं ब्रह्मणः प्रसादेन वा स्वनामधेयम् । यः पूर्वं स्वायम्भुवमासीतिदानीमार्यभटेन प्रकाशितत्वातार्यभटीयम् । स्वायम्भुवं तत्सर्वदा नित्यम् । स्वयंभुवा प्रणीतमर्थं गृहीत्वा आचार्याः शास्त्राणि रचयन्ति । सम्प्रदायाविच्छेदात्तु सः अर्थः ज्ञातः एव । अन्यथा अतीन्द्रियार्थानां कथं मानुषमात्रैः इयं युक्तिः कर्तुं शक्यते । अस्य प्रतिकञ्चुकम् प्रतिबिम्बं यः करोति तस्य सुकृतस्य आयुषः च प्रणाशं भवति ॥ ५० ॥ [ सोमेश्वरभाष्यस्य उपसंहारश्लोकः ] स्पष्टार्थप्रतिपादकं मृदुधियां सूक्तं प्रबोधप्रदम् तर्कव्याकरणादिशुद्धमतिना सोमेश्वरेण अधुना । आचार्यार्यभटोक्तसूत्रविवृतिः या भास्करोत्पादिता तस्याः सारतरं विकृष्य रचितं भाष्यं प्रकृष्टं लघु ॥ इति सोमेश्वरविरचितमार्यभटीयं भाष्यं समाप्तम् । [ भास्करभाष्यस्य उपसंहारश्लोकः ] अतीन्द्रियार्थप्रतिपादकानि सूत्राणि अमूनि आर्यभटोदितानि । तेषामशक्यः अर्थशतांशकः अपि वक्तुं कुतः अस्मत्सदृशैः अशेषम् ॥ इति भास्करस्य कृतौ आर्यभटतन्त्रभाष्ये गोलपादः समाप्तः ।