ओं गौतमगृह्यसूत्रम्. मस्करिभाष्यसहितम्. प्रणिपत्यादिदेवाय वासुदेवाय भक्तितः । गौतमीयच्छलेनेदं सर्वस्मृतिनिबन्धनम् ॥ क्रियतेऽद्य मया भाष्यं सूनुना वामनस्य तु ॥ को वाभिसम्बन्धः ? अयमुच्यते-सन्ति चतुर्दश विद्यास्थानानि, तद्यथा- अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥ इति ॥ तेषां मध्ये परिगणितमिदं धर्मशास्त्रमारभ्यत इत्यभिसम्बन्धः । अथवा-पुरुषस्य सुखदुःखोपभोगार्थैः शरीरेन्द्रियविषयैः संयोगवियोगरूपो जन्मजरामरणप्रबन्धः संसारः । स च धर्माधर्मनिमित्तो नान्यनिमित्तः । तयोश्च धर्माधर्मयोरिष्टानिष्टोपभोगहेतुत्वादुपादानपरिवर्जनार्है तौ भवतः । तदुभयमपरिज्ञाने न सम्भवतीति धर्माधर्मस्वरूपावबोधनार्थं गौतमेन शास्त्रं प्रणीतमिति । प्रयोजनमपि चास्यैतदेव, धर्माधर्मोपादानपरिवर्जनयोः पुरुषार्थत्वादिति । अभिधेयमष्टकादीनि, यथा श्रौतान्यग्निष्टोमादीन्यवश्यकर्तव्यानि तथाष्टकादीन्मपीति । तत्र सर्वकार्याणां कारणतः प्रवृत्तिदर्शनात्पूर्वं कारणविशेषप्रतिपादनार्थमाह- वेदो धर्ममूलम् ॥ १.१ ॥ ननु विधिप्रतिषेधरूपत्वाच्छास्त्रस्यऽउपनयनं ब्राह्मणस्याष्टमेऽ इत्याद्येव वक्तव्यम्, न त्वनुवादरूपत्वाद्वेदो धर्ममूलमित्यादि, निष्प्रयोजनत्वादनुवादस्येति । न चानेन वेदस्य प्रामाण्यं प्रतिपाद्यते, तस्य स्वत एव सिद्धेः अन्यथा येन प्रामाण्यं प्रतिपाद्यते तस्याप्यन्येन प्रामाण्यं तस्याप्यन्येनेत्यनवस्था स्यादिति ॥ उच्यते-वेदस्य धर्ममूलत्वानुवादः तद्द्वारेण स्मृतिशीलयोरपि धर्ममूलत्वप्रतिपादनार्थः । कथमिति चेदुच्यते-वेदवचनादुच्चरितात्तत्पदार्थविदां विशिष्टेर्ऽथे या प्रतिपत्तिर्निःसंदिग्धा जायते न च कालान्तरे देशान्तरे पुरुषान्तरेऽवस्थान्तरे वा विपर्येति सा धर्ममूलमिति । यच्च निःसंदिग्धमविपरीतं च ज्ञानमुत्पद्यते तस्य प्रामाण्यमध्यवसितुं शक्यते । न च वेदजनितप्रत्ययस्य कारणदोषकृतं मिथ्यात्वं, कर्तुरनभ्युपगमात् । कर्तृगतो हि दोषः शब्दजनितस्य प्रत्ययस्य मिथ्यात्वमापादयति । एवमुत्तरार्थोऽनुवादः ॥ इदानीं सूत्रं विब्रीयते-तत्र वेदो मन्त्रब्राह्मणाख्यो ग्रन्थराशिः । विद ज्ञाने, ज्ञायतेऽनेन धर्मादिस्वरूपमिति वेदः । यद्यपि स्मृत्यादेरेतत्तुल्यत्वम् । तथापि परिव्राजकादिवद्रूढत्वाददोषः । तथा च स्मृत्यन्तरं- श्रुतिश्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः ॥ इति ॥ स च ऋग्वेदादिभेदेन भिद्यते । जात्यपेक्षयैकवचनम् । धर्मः कर्म आचार इत्यर्थः, अपूर्वाख्यो वा । मूलं कारणं ज्ञापकं, प्रमाणमित्यर्थः । तत्र विधिप्रतिषेधात्मको हि वेदो धर्माद्यवबोधकत्वं प्रतिपद्यते, न तु मन्त्रार्थवादरूप इति चेदुच्यते- अर्थवादादेरपि विध्येकवाक्यत्वेनोपकारकत्वात्पारंपर्येण धर्ममूलत्वमविरुद्धम् । अर्थवादस्तावत्स्तुतिनिन्दाद्वारेण विधिप्रतिषेधरूपत्वं प्रतिपद्यते, मन्त्रस्त्वनुष्टानकाले विहितार्थस्मारकत्वात् । ततः सर्वप्रकार एव वेदो धर्ममूलमिति । केचिन्मन्त्रार्थवादमूलमेव प्रतिजानते यताऽधन्वन्निव प्रपा असिऽ इत्यत्र प्रपा कर्तव्येत्यादि । अन्ये त्वाहुः-अध्ययनमात्रादेव धर्मसिद्धिः, यथाऽह- आ हैव स नखाग्रेभ्यः परमं तप्यते तपः । यः स्रग्व्यपि द्विजोऽधीते स्वाध्यायं शक्तितोऽन्वहम् ॥ इति ॥ अतः पाठ एव धर्ममूलमिति । तदयुक्तं, कर्मफलश्रुतेः आनर्थक्यप्रसङ्गात्, मीमांसकैरध्ययनफलस्य निस्तत्वाच्च । अथवा वेदवाच्या क्रिया वेदशब्देनोच्यते, स धर्मस्य मूलमिति । श्येनादिषु न भवतीति चेत्, उच्यते-तत्रापि वैरिवधात्प्राणधनपुत्रदारादिरक्षणद्वारेण धर्मोऽस्त्येवेति । ततश्चावगम्यते-यदिदं पुत्रपशुग्रामादि दृष्टं, यच्च सर्गाद्यदृष्टं, तत्सर्वं धर्महेतुकमिति ॥ धर्मः पञ्चप्रकारः-वर्णधर्म आश्रमधर्मो गुणधर्मो वर्णाश्रमधर्मो निमित्तधर्म इति । वर्णधर्मोऽध्ययनादिः, आश्रमधर्मः समिदाधानादिः गुणधर्मोऽभिषेकादिगुणयुक्तस्य रक्षणादिः, वर्णाश्रमधर्मो ब्राह्मणस्य पालाशो दण्ड इत्यादिः, निमित्तधर्मः प्रायश्चित्तादिः । मूलं कारणम् । तथा चाह-ऽवेदाद्धर्मो हि निर्बभौऽ इति । सूत्रारम्भप्रयोजनं च-यथैव वेदो धर्ममूलं तथा स्मृतिशीले अपीति ॥ न केवलं वेद एव धर्ममूलं, किं तर्हि- तद्विदां च स्मृतिशीले ॥ १.२ ॥ वेदविदां च ये स्मृतिशीले ते अपि धर्ममूले भवतः ते अपि वेदाविरोधिनी, तद्विदामित्यारम्भात् । मूलशब्दश्चेह द्वाभ्यामभिसम्बध्यमानो द्विचनान्तो द्रष्टव्यः । तच्छब्देन षडङ्गो वेदो लक्ष्यते । स्मृतिरुपनिबनन्धनं मनु-यम-वसिष्ठ-भृग्वङ्गिरो-बृहस्पत्युशनो-भारद्वाज-गौतपापस्तम्ब-संवर्त-व्यास-शतातप- शङ्ख-लिखित-हारीत-बोधायन-याज्ञवल्क्य-प्रचेतादिभिः कृतम् । शीलमनुपनिबद्धः समाचारः कौतुकमङ्गलादिः बहुत्वात्प्रतिदेशं भिद्यमानत्वाच्चानुपनिबद्धः । चकारोऽनुक्तसमुच्चयार्थः । यथाऽह मनु-- वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् । आचारश्चैव साधूनामात्मनस्तुष्टिरेव च ॥ इति ॥ सन्ध्योपरमणकाले त्रिः प्रदक्षिणादिः शिष्टाचार । वेदविदां सकलानुष्ठानपराणां निर्देषत्वेन यद्विज्ञानमुत्पद्यते, साऽत्मतुष्टिः । वक्ष्यति-"यच्चात्मवन्तो वृद्धाः"इत्यादि ॥ केचिद्वर्णयन्त्यष्टकादिवदेषां कौतुकमङ्गलादीनामनुपनिबन्धोऽकरणे प्रत्यवायाभावात् । आचारात्मतुष्टी अपि शील एवान्तर्भूते इति न पृथगुपन्यस्ते । चकारोप्युक्तसमुच्चयार्थ एवेति ॥ इदानीं पूर्वपक्षीकरोति वेदविदां शीलं धर्ममूलं न भवति यतः- दृष्टो धर्मव्यतिक्रमः ॥ १.३ ॥ धर्ममूलत्वं न प्राप्नोतीति शेषः । यथा प्रजापतिः स्वां दिहितरमभ्यध्यायत्,यथेन्द्रस्याहल्यागमनादिः यथा व्यासभीष्मादीनामनाश्रमावस्थानम् ॥ किञ्च- साहसं च महताम् ॥ १.४ ॥ अत्रापि धर्ममूलत्वं न प्राप्नोतीति शेषः चशब्दोपादानात् । सहःशब्देन बलमुच्यते । यथा च नारदः-"सहो बलमिहोच्यते"इति । तेन शास्त्रं लोकसंव्यवहारं चानवेक्ष्य यत्क्रियते तत्साहसम् । महतां लोकविख्यातानामित्यर्थः । यथा रामस्य ताटकादिस्त्रीवधः । जामदग्न्यस्य मातुःशिरचश्छेदः, वसिष्ठस्य जलप्रवेशः इत्यादि । तेन अयुक्तं शीलस्य धर्ममूलत्वमिति ॥ कथं पुनर्धर्मव्यतिक्रमसाहसयोः भेदः-विषयाभिलाषेण यदयुक्तमाचर्यते, स धर्मव्यतिक्रमः, क्रोधाद्यभिभवेन यत्क्रियते तत्साहसम् ॥ अत्रोत्तरमाह- न तु दृष्टार्थेऽवरदौर्बल्यात् ॥ १.५ ॥ तुशब्द- पक्षनिवृत्त्यर्थः । दृष्टार्थो दृष्टप्रयोजनः तस्मिन् दृष्टप्रयोजने शीलं धर्ममूलं न भवति । तथा च वसिष्ठः-"अगृह्यमाणकारणो धर्मः"इति । नैताद्विवचनं, दृष्टार्थे धर्मव्यतिक्रमसाहसे इति । तस्मिन् गृह्यमाणे"ईदुदेत्"इत्यादिना प्रगृह्यसंज्ञायां सत्यां"दृष्टार्थे अवरदौर्बल्यात्"इति पाठः प्राप्नोति । अवरदौर्बल्यात्न वरः अवरो निकृष्टः द्वेषाद्यभिभूतः अपरमार्थज्ञान इत्यर्थः तस्य दौर्बल्यात्धर्माधर्मपरिज्ञानाशक्तेरित्यर्थः । एतच्चानेन ज्ञापितं भवति- महतामपि तद्विदां कदा चिदभिभवोऽस्तीति, शरीरवत- प्रियाप्रिययोरवश्यंभावित्वात् । तस्माद्यावदेतेषां रागादिदोषेणाभिभवः, तावत्तेषामाचारोऽपि न ग्राह्यः । तथाच वसिष्ठः--"शिष्टः पुनरकामात्मा"इति । अथवावरशब्देनेदानींतनाः कलियुगपुरुषा उच्यन्ते, तेषां दौर्बल्यातसार्मथ्यात् ॥ एवं स्मृतिप्रमाणमुक्त्वा अधुना एकार्थोपनिपतितानां वाक्यानां परस्परविरोधे सति किं क्रव्यमित्यात आह- तुल्यबलविरोधे विकल्पः ॥ १.६ ॥ तुल्यप्रमाणप्रापितः पदार्थस्तुल्यबलः । तयोः परस्परविरोधे सति विकल्पो वेदितव्यः, अयं वायं वेति । नोभयपरित्यागः, उभयोः प्रमाणप्रापितत्वात् । नान्यतरपरिग्रहः, एकस्मिन् गृह्यमाणे द्वितीयस्यानर्थक्यप्रसङ्गः स्यादिति । किमुदाहरणं-श्रुतौ तावतुदिते होतव्यं, अनुदिते होतव्यमित्येवमादि । स्मृतावपि,"नित्यमभोज्यं केशकीटावपन्नम्"इति गौतमः । पक्षिजग्धं गवाघ्रातमवधूतमवक्षुतम् । दूषितं केशकीटैश्च मृत्प्रक्षेपेण शुध्यति ॥ इति मनुः ॥ ननु-चात्र सार्मथ्यादेव विकल्पप्रसिद्धेः अनर्थकमिदं सूत्रं समुच्चयस्तावदत्र न संभतीति । न ह्यनुदिते हुत्वा पुनरुदिते होतुं शक्यते, गुणभूतकालवशेन प्रधानस्य होमस्यावृत्तेरन्याय्यत्वात् । प्रधानवशवर्तिनो हि गुणाः, न गुणवशवर्ति प्रधानमिति । न चानावृत्तमुभयो- कालयोर्हेतुं शक्यते । एवं स्मृतावपि शुद्धिपरित्यागयोनैर्व समुच्चयः सम्भवतीति, परस्परविरोधादिति । न चोभयपरित्यागो युक्त इत्युक्तम् । तेनात्र विकल्प एव प्राप्नोतीति नार्थोऽनेनेति ॥ एवं तर्हि न्यायप्राप्तानुवादोऽयं विशेषार्थः । को विशेषः ? तुल्यबलयोरेव विरोधे विकल्पः, अतुल्यबलयोस्तु बाध एवेति । तेन श्रुतिस्मृत्योर्विरोधे स्मृतिरेव बाध्यते । श्रुतौ हि प्रत्यक्षः शब्दः स्मृतावानुमानिकः । न चानुमानं प्रत्यक्षविरोधे प्रमाणीभवति । एवं स्मृत्याचारविरोधे च मातुलदुहितृपरिणयनाद्याचारो बाध्यत इति, तत्र ह्याचारात्स्मृत्यनुमानमिति । विरोधे विकल्पवचनात्, अविरोधे तु तुल्यप्रमाणशिष्टानां समुच्चयः यथा आचमनादीनां श्रौतेषु कर्मस्विति ॥ ननु च यदि वेदलिङ्गप्रभवत्वाभ्युपगम एव स्मृतेः श्रुत्या सहातुल्यबलत्वमुपपाद्यते, तदा हि मन्त्रार्थवादवाक्येष्वन्यपरेष्वपि यानि स्मार्तधर्ममबलभूतानि लिङ्गानि"कुमारा विशिखा इव"इत्येवमादीनि तेषां प्रत्यक्षवेदवाक्यविरोधे सति विरोधिवाक्यानुमानविरोधात्दुर्बलत्वं प्रसज्यते । यदा तूत्सन्नशाखापूर्विका स्मृतिरभ्युपगमे-यथाऽहापस्तम्बः-"ब्राह्मणोक्ता विधयस्तेषामुत्सन्नाः पाठाः प्रयोगादनुमीयन्ते"इति तदोभयोश्च वैदिकत्वात्तुल्यबलतैव प्रसज्यते । न ह्यनुमितस्य वेदवाक्यस्य प्रत्यक्षस्य च बलाबलविशेषोऽस्ति प्रत्यक्षानुमानपरिच्छिन्नाग्निवदिति । स्यादेतत्यत्र स्मृतिवचने वेदविरोधोऽस्ति तन्नैव वेदवाक्यानुमापकं भवति, किं तर्हि भ्रान्त्यादिप्रभवमेवैतदिति । तच्च न युक्तं, धर्मशास्त्रप्रणेतुरनाप्तत्वाभ्युपगमे अविश्वासप्रसङ्गात् । यदापि वेदवदविच्छिन्नपारंपर्येणागता स्मृतिरभ्युपगम्यते तदापि तुल्यबलत्वमुपपद्यत इति तत्रापि तन्नैवोपपद्यते । यस्तावन्मातुलदुहितृपरिणयनादिकः समाचार उपन्यस्तः स कामाद्यभिभवे सति दुष्टाचारत्वाच्छिष्टाचार एव नोपपद्यते । यस्त्वविगानेनोक्तलक्षणैः शिष्टैराचर्यते तस्य वेदमूलत्वाविशेषात्स्मृत्या सह तुल्यबलत्वमेव प्राप्नोति । विबन्धनानिबन्धनयोस्त्वन्यदेव प्रयोजनमुपदिष्टम् । न च समाचारस्य स्मृतिवाक्यान्तरितरूप्सय वेदवाक्यानुमानसंनिकर्षकृतं बलाबलत्वं सिध्यति ॥ अत्रोच्यतेऽतुल्यबलत्वं तावत्वेदादीनां सूत्रारम्भसार्मथ्यादेवावगम्यते । यदि हि तुल्यबलान्येतानि स्युः तदा विरोधे विकल्पः सार्मथ्यादेव सिद्धः, किमनेन सूत्रेणेति तुल्यबलग्रहणं चानर्थकं स्यादिति । अस्मिनपि वेदाद्युर्बलतरत्वं स्मृतेरुपपद्यते । तत्र लिङ्गप्रभवत्वमुपपद्यते इत्युक्तम् । तेनायमेव पक्षोयुक्तः वस्तु स्वतन्त्रपक्षोऽभिहितः, स पक्षः"तद्विदां च स्मृतिशीले"इत्येतस्मिन् सति दुरुपपाद एवेति । तस्माद्वेदलिङ्गप्रभवत्वमेव स्मृतीनां निर्देषतरमिति ॥ ननु चैवमपि नोपपद्यते, क्वचित्स्मृत्या श्रुतेर्बाधदर्शनात्यथा सामान्येन प्रवृत्तो वैदिककर्माधिकारः स्मृत्या उपनीतादिपुरुषविशेष एवाधिक्रियते । तथा संस्कारैकदेशेनाप्यात्मगुणयोगे सति विशिष्टफलाभिधानात्, तथा गामालभेतेति श्रुतिचोदितोऽपि गोवधः स्मार्तप्रतिषेधबलीयस्त्वान्न क्रियते, तथाग्निहोत्रादिकं चोदितजीवनोपाधिकं कर्म द्रव्यसाध्यमपि न स्मार्तचौर्यादिप्रतिषद्धेनापि द्रव्यमार्जयित्वा तत्क्रियते । अतः श्रुत्या स्मृतिर्बाध्यत इत्ययुक्तमुक्तमिति ॥ उच्यते-विरोधे सत प्रमाणानां बलाबलचिन्ता युज्यते । यत्र तु विरोधाभावः तत्र दुर्बलोपि नैव बाध्यत इति । यस्तावदुपनीतस्य कर्माधिकारः सः श्रुत्या नैव विरुध्यते, उपनयनस्य वेदग्रहणार्थत्वात्, तस्य च कर्मार्थत्वात्, न चापूर्वसंयोगमन्तरेण प्रधानसिद्धिः । यच्चोक्तं गोवर्धेस्तु श्रुतिचोदितोपि न क्रियत इति, तदपि न केवलं स्मृत्या, किन्तु मन्त्रवर्णाच्चऽमा गाः प्रमापयाश्वान् प्रमापयऽ इत्यादि । अतः स्मृत्या श्रुतिर्नैव बाध्यते । केचिदुत्सन्नशाखापूर्विकां स्मृतिमाहुः । तदयुक्तम् । तत्र विचार्यते-किं स्मरणात्पूर्वमेव नष्टाः शाखाः उतोत्तरकालमिति । यादे पूर्वं तत्र स्मरणं नोपपद्यते, विनष्टत्वात्, पूर्वविज्ञानसदृशत्वात्स्मृतेः । यद्युत्तरकालं, तदोत्सन्नशाखापूर्वकत्वं वक्तुं न युज्यते, तदानीमुपलभ्यमानत्वात् । आपस्तम्बोक्तस्याप्ययमभिप्रायः-उत्सन्नाः क्वचित्क्वचिद्देशे न सर्वत्रेतिऽतेषामुत्सन्नाः पाठाः प्रयोगादनुमीयन्तेऽ इत्यत्रापि व्याख्या कर्तव्या ॥ एवमियं धर्मप्रमाणपरिभाषोक्ता । इदानीं स्मृत्या यत्प्रमीयते तदभिधानार्थमाह- उपनयनं ब्राह्मणस्याष्टमे ॥ १.७ ॥ वेदस्य अग्नेराचार्यस्य यमनियमानां वा समीपे नयनमुपनयनम् । तदष्टमे वर्षे, वर्षगणनासार्मथ्यात् । नित्योऽयमुपनयनकालः, काम्यापत्कल्पयोरूर्ध्वमभिधानात् । क्षत्रियवैश्ययोरूर्ध्वमभिधानात्शूद्रस्यैकजातित्वादर्थसिद्धस्यापि ब्राह्मणग्रहणस्य जातिनिमित्तत्वप्रसिद्ध्यर्थमारम्भः । न च द्विजत्ववत्ब्राह्मणत्वं क्रियत इति । एवं च सुरापस्य ब्राह्मणस्यऽसुरापस्य ब्राह्मणस्योष्णामासिंचेयुःऽ इत्येवमादयो ब्राह्मणोद्देशेन विधीयमाना अनुपनीतस्यापि भवन्ति । यद्वा-ब्राह्मणग्रहणेन विना त्रयाणामप्येतन्नित्यं स्यात्, काम्यं तु ब्राह्मणस्य नवमे पञ्चमे वा स्यात्, इतरयोस्त्वेकादशद्वादशयोः स्यातां, काम्यानन्तरमभिधानात् । पूर्वसंस्कारभावेऽपि उपनयनेनाधिक्रियते, न त्वनेन विनोपरितनैरिति गर्भाधानादिमनुक्त्वा उपनयनस्यैवेहारम्भः ॥ नवमे पञ्चमे वा काम्यम् ॥ १.८ ॥ कामाय हितं काम्यं तदुपत्पादनसमर्थम् । पञ्चमे नवम इति वाच्ये क्रमभेदः अनयोरन्तरा क्षत्रियवैश्ययोः काम्यकालपरिग्रहार्थः । तथा च मनुः- राज्ञो बलार्थिनष्षष्ठे वैश्यस्यार्थार्थिनोऽष्टमे ॥ विसमासः काम्यभेदज्ञापनार्थः । तथाचच स्मृत्यन्तरं-ऽनवमे त्वायुष्माकं पञ्चमे ब्रह्मवर्चसकामम्ऽ इति । वाशब्दो विकल्पार्थः । स इच्छातो द्रष्टव्यः ॥ गर्भादिःसङ्ख्या वर्षाणाम् ॥ १.९ ॥ गर्भसहचरिता दश मासा गर्भ इत्युच्यते । तत्प्रभृति वर्षगणना कर्तव्या, न तु जन्मत आरभ्य । ततश्चऽउपनयनं ब्राह्मणस्यऽ इत्येवमादौऽगर्भाष्टमेऽ इत्येवमादि योज्यम् ॥ तद्द्वितीयं जन्म ॥ १.१० ॥ ततुपनयनं द्वितीयं जन्म । तेन संस्कृतो द्विजो भवतीत्यर्थः । ऽद्विजातीनामध्ययनम्ऽ इत्येवमादौ व्यवहारार्थं द्विजसंज्ञाकरणम् । तद्ग्रहणं नित्यकाम्योपनयनसंग्रहणार्थम् ॥ तद्यस्मात्स आचार्यः ॥ १.११ ॥ तद्ग्रहणं नित्यकाम्योपनयनसंग्रहणार्थम् । ऽआचार्यः श्रेष्ठो गुरूणाम्ऽ इत्यादौ व्यवहारार्थं संज्ञाकरणम् ॥ वेदानुवचनाच्च ॥ १.१२ ॥ वेदानुवचनं समस्तवेदानुचनम् । अदृष्टार्थमेकदेशाध्यापनेन गुरुः । तथा च मनुः- अल्पं वा बहु वा यस्य श्रुतस्योपकरोति यः । तमपीह गुरुं विद्यात्श्रुतोपक्रियया तया ॥ इति ॥ दृष्टार्थं चेदुपाध्यायः । तथाच वसिष्ठः-ऽयस्त्वेकदेशं स उपाध्यायःऽ इति । चकारातङ्गव्याख्यातापि । तथाच यास्कः-ऽआचार्य आचारानाचिनोति, अर्थानाचिनोति, बुद्धिं वाऽ इति । केचिच्चकारं पूर्वसूत्रेण समुच्चयार्थं व्याचक्षते । तेनोभयकरणादेवाचार्यः । तथाच मनुः- उपनीय तु यःशिष्यं वेदमध्यापयेद्द्विजः । सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ॥ इति ॥ एकादशद्वादशयोः क्षत्रियवैश्ययोः ॥ १.१३ ॥ नित्योऽयं कालः, काम्यापकत्कल्पयोरूर्ध्वमभिधानात् ॥ यदा तु नित्यकाम्ययोः केनचिद्दुर्भिक्षादिना निमित्तेनातिक्रमः स्यात्तदानीमापत्कल्पमाह- आ षोडशाद्ब्राह्मणस्यापतिता सावित्री ॥ १.१४ ॥ आङ्त्राभिविध्यर्थः, सहषोडसेन वर्षेणेति,ऽद्व्यधिकायाःऽ इति लिङ्गात्ऽषोडशे सर्वकामम्ऽ इति स्मृत्यन्तरदर्शनाच्च । अपतिता अनपगता । सावित्रीशब्देन तत्साधनमुपनयमुच्यते, उपनयनस्याधिकृतो भवतीत्यर्थः । एवं च पित्रादिष्वनुपनीतेष्वपि प्रायश्चित्तेनोपनयनेऽधिक्रियते । तथाचापस्तम्बः-ऽयस्य पिता... पितामहः....प्रपितामहःऽ इत्यादि ॥ द्वावंशते राजन्यस्य ॥ १.१५ ॥ अत्राप्याङ्नुवर्तते वर्षसहितम् । राजन्यशब्दप्रयोगो राजत्वप्रसिद्ध्यर्थः, तस्योपनीतस्यैव राज्याधिकार इति ॥ द्व्यधिकाया वैश्यस्य ॥ १.१६ ॥ द्वाभ्यामधिकाभ्यां सहिता या द्वाविंशतिः सा द्व्यधिकाः, चतुर्विंशातेरित्यर्थः । चतुर्विंशतेरिति वक्तव्ये एवमभिधानं पूर्वत्राङोऽभिविधिज्ञापनार्थम् ॥ उक्त उपनयनकालः । इदानीं तत्साधनाभिधित्सयाऽह- मौञ्जीज्यामौर्वीसौत्रयो मेखलाः क्रमेण ॥ १.१७ ॥ मुञ्जविकारा मौञ्जी । मूर्वा प्रसिद्धा, तद्विकारा मौर्वी । ज्याचासौ मौर्वी चेति समानाधिकरणसमासः । ततश्च धनुषोऽपनीय ग्राह्या । सूत्रं शणसूत्रम् । एकगुणा मौर्वी, इतरे त्रिवृतौ । यथाऽह मनुः- मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्या विप्रस्य मेखला । क्षत्रियस्य तु मौर्वी ज्या वैश्यस्य शणतान्तवी ॥ इति ॥ ज्यामौर्व्योर्द्वित्वव्यावृत्त्यर्थं क्रमग्रहणम् । केचिदभावे वैकल्पिकार्थमिति वर्णयन्ति । तथाच मनुः- मुञ्जाभावे तु कर्तव्या कुशाश्मन्तकबल्बजैः । त्रिवृता ग्रन्थिनैकेन त्रिभिः पञ्चभिरेव वेति ॥ न्यायसिद्धे क्रमग्रहणस्यान्यार्थत्वादिति ॥ कृष्णरुरुबस्ताजिनानि ॥ १.१८ ॥ अजिनशब्दः प्रत्येकमभिसम्बध्यते । कृष्णः कृष्णमृगः, रुरुः पृषन्मृगः, बस्तः प्रसिद्धः । एतानि क्रमेणोत्तरीयाणि । तथा च स्मृत्यन्तरम्-ऽअजिनमेवोत्तरीयं धारयेयुःऽ इति ॥ वासांसि शाणक्षौमचीरकुतपाःसर्वेषाम् ॥ १.१९ ॥ शणाधिकारःशाणः । क्षुमा अतसी,तद्विकारः क्षौमः । दर्भादिपरिनिष्पन्नं चीरम् । कुतपः पार्वतीयच्छागरोमनिष्पन्नः । एतान्यधोवसनानि । विषमसङ्ख्यत्वादेव सर्वेषां सिद्धेः स्मृत्यन्तरेऽशाणं क्षौमं वासो ब्राह्मणस्यऽ इति तदाश्रित्य यद्यथासङ्ख्यं तन्निवृत्त्यर्थं सर्वेषां ग्रहणं, अधिकारार्थं वा ॥ कार्पासं चाविकृतम् ॥ १.२० ॥ सर्वेषामित्यनुवर्तते, वास इति च । अविकृतमरागसम्बन्धम् । स्वभावतः शुक्लमेवेत्यर्थः । पूर्वेषामप्यविकृतत्वज्ञापनार्थश्चशब्दः ॥ काषायमप्येके ॥ १.२१ ॥ रागसम्बन्धमपि केचिदिच्छन्ति । अपिशब्दो निन्दार्थः । अतः पूर्वेषामभावे द्रष्टव्यम् ॥ इदानीं काषायपक्षे नियमार्थमाह- वार्क्षं ब्राह्मणस्य ॥ १.२२ ॥ वृषकषायकृतं वार्क्षं तदेव ब्राह्मणस्य वासः ॥ माञ्जिष्ठहारिद्रे इतरयोः ॥ १.२३ ॥ मञ्जिष्ठया विकृतं क्षत्रियस्य । हरिद्रया विकृतं वैश्यस्य ॥ बैल्वपालाशौ ब्राह्मणदण्डौ ॥ १.२४ ॥ बैल्वः पालाशो वा ब्राह्मणस्य दण्डः । यद्यपि द्वन्द्वनिर्देशैः, तथापिऽयज्ञियो वा सर्वेषाम्ऽ इत्येकवचननिर्देशात्,ऽप्रतिगृह्येप्सितं दण्डम्ऽ इति स्मृत्यन्तरदर्शनाच्च एकस्यैव धारणं युक्तम् ॥ आश्वत्थपैलवो शेषे ॥ १.२५ ॥ अश्वत्थः प्रसिद्धः, पीलुः कल्किः, शेषे क्षत्रियवैश्यविषये । तत्रापि क्षत्रियस्याश्वत्थः, वैश्यस्य पैलवः ॥ यज्ञियो वा सर्वेषाम् ॥ १.२६ ॥ यज्ञार्हे वा स्यात्विभीतकबिल्वकयावकादिर्वर्जितो वृक्षविशेष इत्यर्थः । वाशब्दोऽभावविकल्पार्थः, अतः पूर्वेषामभावे । अन्यथापार्थो वाशब्दः । सर्वेषांग्रहणमनन्तरयोरेव मा भूदिति ॥ इदानीं दण्डगुणमाह- अपीडिता यूपवक्राःसशल्काः ॥ १.२७ ॥ अपीडिता वल्लीवेष्टनकीटाग्न्यादिभिरनुपहता इत्यर्थः । यूपवक्राः यूपवन्नताग्रा इत्यर्थः । सशल्काः सत्वचः । असमासात्सर्व एवंरूपाः, न तु यथासङ्ख्यम् । तथा चाह मनुः- ऋजवस्ते तु सर्वे स्युरव्रणाःसौम्यदर्शनाः । अनुद्वेगकरा नॄणां सत्वचोऽनग्निदूषिताः ॥ इति ॥ मूर्घललाटनासाग्रप्रमाणाः ॥ १.२८ ॥ प्रमाणशब्दः प्रत्येकं सम्बध्यते । मूर्धप्रमाणा ब्रह्मणस्य, ललाटप्रमाणाः क्षत्रियस्य, नासाग्रप्रमाणा वैश्यस्य । तथा च मनुः - केशान्तिको ब्राह्मणस्य दण्डः कार्यः प्रमाणतः । ललाटसम्मितो राज्ञः स्यात्तु नासान्तिको विशः ॥ इति ॥ इदानीं ब्रह्मचारिवेषमाह- मुण्डजटिलशिखाजटाश्च ॥ १.२९ ॥ मुण्डो मुण्डितशिरस्कः । जटिलः सकेशः । शिखा एव जटा यस्य स शिखाजटः । एवं मुण्डशब्देन समस्तमुण्डनमुच्यते । चकारो वार्ऽथः प्रत्येकमभिसम्बध्यते-मुण्डो वा जटिलो वा शिखाजटो वेति । ब्राह्मणक्षत्रियवैश्याभिप्रायं बहुवचनम् । यथाक्रमनिवृत्त्यर्थं वेति नोक्तम् । तथा च मनुः- मुण्डो वा जटिलो वा स्यादस्य वा स्याच्छिखाजटः ॥ इति ॥ इदानीं शौचतोऽध्ययनाधिकारात्शौचार्थं पूर्वं द्रव्यशुद्धिरुच्यते- द्रव्यहस्त उच्छिष्टो निधायाचामेत् ॥ १.३० ॥ ब्राह्मणभोजनादौ प्रवृत्तो द्रव्यहस्तः पूर्वमनुच्छिष्टः केनचित्कारणेनोच्छिष्टस्पर्शादप्रयतो भवति, तदा तद्द्रव्यं भूमौ निधाय स्थापयित्वाऽचामेत् । तथा च वसिष्ठः- प्रचरन्नभ्यवहार्येषु उच्छिष्टं यदि संस्पृशेत् । भूमौ निधाय तद्द्रव्यमाचम्य प्रचरेत्पुनः ॥ इति ॥ पुरुषशौचविवक्षायां द्रव्यहस्तग्रहणमनर्थकम् । अतो द्रव्यस्य निधानमात्रादेव शुद्धिः, पुरुषस्याचमनात् । यत्तु द्रव्यस्य स्मृत्यन्तरे प्रोक्षणमुक्त-ऽभूमौ निक्षिप्य प्रोक्षणाद्द्रव्यं शुद्ध्यतिऽ इति तदभ्यवहार्यपक्वद्रव्यविषयमेव द्रष्टव्यम् । कथं पुनस्तुल्यसंहिते सूत्रे विशेषोऽवगम्यते-निधायाचचमनं न पुनरनिधायेति । उच्यते-यद्यनिधायाचमनमिष्टं स्यात्ततोऽद्रव्यहस्त उच्छिष्ट आचामेत्ऽ इत्येतावदेव वक्तव्यं स्यात्, किं निधानेन क्रियत इति, ततः सूत्रातिरेकान्निधानपक्ष एवाभीष्ट इत्यवगम्यते । यत्तु मनुनोक्तं- उच्छिष्टेन तु संस्पृष्टो द्रव्यहस्तः कथंचन । अनिधायैव तद्द्रव्यमाचान्तःशुचितामियात् ॥ इति ॥ तदनभ्यवहार्यद्रव्यविषयं द्रष्टव्यम् । एवंचाभ्यवहार्यद्रव्यस्यापक्वस्य कदलीफलादेः निधानमात्रादेव शुद्धिः । पक्वस्य भूमौ निक्षिप्य प्रोक्षणाच्छुद्धिः । अनभ्यवहार्यद्रव्यस्य वस्त्रादेरनिधायाचमनाच्छुद्धिः ॥ इदानीं द्रव्यशुद्धिमाह- द्रव्यशुद्धिः परिमार्जनप्रदाहतक्षणनिर्णेजनानि तैजसमार्त्तिकदारवतान्तवानाम् ॥ १.३१ ॥ तैजसादीनां द्रव्याणां परिमार्जनादिना क्रमेण शुद्धिः । द्रव्यत्वे सिद्धे तेषां द्रव्यवचनं स्वकार्यनिष्पादनसार्मथ्यार्थम् । ततश्च भिन्नभाण्डादीनां न शौचम् । तेजसा हेतुभूतेन यानि क्रियन्ते तानि तैजसानि सौवर्णादीनि । तेषां तैजसानामुच्छिष्टलिप्तानाम् । कुत एतत्? मूत्राद्युपहतानां स्मृत्यन्तरे शुद्ध्यन्तरविधानात् । तथा चौशनसं-ऽतैजसानां मूत्रपुरीषरेतः कुणपोपहतानामावर्तनमुल्लेखनं भस्मना त्रिः सप्तकृत्वः परिमार्जनम् । अतैजसानामेवंभूतानामुत्सर्गःऽ इति । तथा अन्यशरीरमलदूषिते कण्ववचनमारब्धम्-ऽश्लेष्माद्युपहतानामेकविंशतिपरिमार्जनच्छुद्धिःऽ इति । तथाचास्पृश्योछिष्टानामौशनसं वचनं संगतमारब्धम्-ऽअनुलोमशूद्रश्वकाकोपहतानामुल्लेखनं प्रतिलोमेषु स्पृश्योपहतानोमकविंशतिपरिमर्जनमस्पृश्योपहतानामावर्तनम्ऽ इति । तथा मांसरुधिरोपहतानां शङ्खवचनमारब्धं-ऽमृदरिष्टकेङ्गुदबिल्वसर्षपकल्कगोमूत्रगोमयादीनि शौचद्रव्याणिऽ इति । तथाऽरजस्वलादुष्टानामेकदिनं पञ्चगव्ये निक्षिप्य एकविंशतिपरिमार्जनाच्छुद्धिःऽ इति पैठीनसिवचनम् । एवमन्येष्वपि स्मृत्यन्तरेषु मलान्तरदूषितेषु तैजसेषु शुद्ध्यन्तराण्याम्नातानि । अतोत्रोच्छिष्टलिप्तानामेव कल्पयितुं न्याय्यमिति । तेषामुच्छिष्टलिप्तानां परिमार्जनं भस्मना परितः सर्वतः । मार्त्तिकानां मृन्मयानामस्पृश्योपहतानाम् । कुतः? स्मृत्यन्तरे विशेषदर्शनात् । तथोशनसो वचनं-ऽमृन्मयानामुच्छिष्टलिप्तानामपमार्जनमुच्छष्टस्पृष्टानां प्रोक्षणम्ऽ इति । तथा वसिष्ठवचनम्- मद्यमूत्रपुरीषैश्च श्लेष्मपूयाश्रुशोणितैः । संस्पृष्टं नैव शुद्ध्येत पुनःपाकेन मृन्मयम् ॥ इति मद्यादिदूषितानां त्याग उक्तः । अतोत्र चण्डालाद्युपहतानामेव कल्पयितुं न्याय्यमिति । प्रदाहः प्रकर्षेण दाहः पूर्वस्वभावोत्पादनमित्यर्थः । दारवाणामासनशयनादीनामणेध्याद्युपहतानां तक्षणं तनूकरणं यावन्मात्रमुपहतम् । अस्पृश्यस्पृष्टानां प्रोक्षणम् । कुतः ?ऽप्रोक्षणं संहतानाम्ऽ इति मनुवचनात् । प्रक्षालनशक्यानां प्रक्षालनम् । तान्तवानां तन्तुमयानां कार्पासादिविकाराणामस्पृश्यदूषितानाम् । मलदूषिते स्मृत्यन्तरं द्रष्टव्यम्-ऽधावनं तन्मात्रच्छेदनमुत्सर्गःऽ इति । ऽचेलादीनां मलादिदूषितानाम्ऽ इति पैठीनसिवचनम् । तथाऽश्रीफलैरंशुपट्टानाम्ऽ इत्येवमादीनि मनुनोक्तानि द्रष्टव्यानि,अस्पृश्यदूषितानां बहूनां वस्त्राणां प्रोक्षणम्ऽबहूनां धान्यवाससामऽ इति मनुना प्रोक्षणेनैव शुद्धिविधानात् । अतोल्पानामस्पृश्यदूषितानां निर्णेजनम् ॥ तैजसवदुपलमणिशङ्खशुक्तीनाम् ॥ १.३२ ॥ तैजसवच्छुद्धिरुपलादीनाम् । अतिदेशः स्मृत्यन्तरोक्तशुद्ध्यपेक्षार्थः । उपलानां मणीनां तावच्छ्रूयते- निर्लेपं काञ्चनं भाण्डमद्भिरेव विशुद्ध्यति । अब्जमश्ममयं चैव राजतं चानुपस्कृतम् ॥ शङ्खशुक्तिमणीनां च गोमूत्रेणोदकेन वा ॥ इति मनुवचनम् । ऽपयसा शङ्खशुक्तीनाम्ऽ इति पैठीनसिवचनम् ॥ दारुवदस्थिभूम्योः ॥ १.३३ ॥ अस्थि हस्तिदन्तादिसंव्यवहार्यद्रव्याणि । भूमिः, गृहादिः दारुवदिति प्रकृतिद्रव्येणातिदेशं ब्रुवनेतत्ज्ञापयति-यत्विकारस्य शोचमुच्यते प्रकृतिद्रव्यस्यापि तदेव भवतीति । इतरथा दारववदिति वक्तव्यमासीदिति । अस्थिभूम्योः स्मृत्यन्तरोपदिष्टापेक्षार्थोऽतिदेशः । तथा च स्मृत्यन्तरोपदिष्टापेक्षार्थोऽतिदेशः । तथा च स्मृत्यन्तरम्-ऽअस्पृश्यस्पृष्टानां भूम्यस्थ्नां प्रोक्षणाच्छुद्धिःऽ इति कण्ववचनम् ॥ आवपनं च भूमेः ॥ १.३४ ॥ भूमिग्रहणमस्थिनिवृत्त्यर्थम् । चकोरात्स्मृत्यन्तरोक्तान्यपि द्रष्टव्यानि । तथाचोक्तं वसिष्ठेन- खननाद्दहनाद्धर्षात्गोभिराक्रमणादपि । चतुर्भिःशुद्ध्यते भूमिः पञ्चमाच्चोपलेपनात् ॥ इति । तथा च मनुः- सम्मार्जनेन सेकेन दाहेनोल्लेखनेन च । गवां च परिवासेन भूमिःशुद्ध्यति पञ्चभिः ॥ इति । यथालेपं विकल्पेन समुच्चयेन वा शौचं कर्तव्यम् ॥ चेलवद्रज्जुविदलचर्मणाम् ॥ १.३५ ॥ रज्जुः दर्भादिनिष्पन्नः । विदलः वंशमयूरपक्षादिनिष्पन्नः चर्म व्याघ्रचर्मादि तेषामस्पृश्यस्पृष्टानां चेलवत्वस्त्रवच्छौचम् । चर्मशब्देन प्रकृतिग्रहणेन विकारस्यापि ग्रहणम् । रज्ज्वादीनां प्रोक्षणस्यापि प्रवेशार्थमतिदेशः । अतोस्पृश्यस्पृष्टानां प्रोक्षणमपि कर्तव्यम् । तथा च पैठनसिः-ऽरज्जुविदलचर्मणामस्पृश्यस्पृष्टानां प्रोक्षणाच्छुद्धिःऽ इति ॥ उत्सर्गो वात्यन्तोपहतानाम् ॥ १.३६ ॥ रज्ज्वादीनां त्यागो वा । व्यवस्थैतविकल्पोऽयम् । अतोऽत्यन्तोपहतानां त्यागः । इतरेषां शौचमिति ॥ इदानींऽद्रव्यहस्त उच्छिष्टो निधायाचामेत्ऽ इत्युक्तं, तदाचमनविधित्सयाऽह- प्राङ्मुख उदङ्मुखो वा शौचमारभेत ॥ १.३७ ॥ प्राङ्मुख उदङ्मुखो वेतीच्छातो विकल्पः । ननु च शौच ग्रहणमनर्थकम्, उत्तरत्राचामोदिति वक्ष्यति, तेनैवार्थसिद्धत्वादिति । उच्यतेऽन्यदपि शौचाङ्गमेतद्दिगभिमुख एव कुर्यादिति । एवं च पादप्रक्षालनादिकमपि तद्दिगभिमुख एव कुर्यादिति । आरभेतेति समाहितार्थम्, अतो यावदाचमनपरिसमाप्तिः तावन्तं कालमनन्यचित्तो भवेत् ॥ शुचौ देश आसीनो दक्षिणं बाहुं जान्वन्तरा कृत्वा यज्ञोपवीत्या मणिबन्धात्पाणी प्रक्षाल्य वाग्यतो हृदयस्पृशस्त्रिश्चतुर्वाप आचामेत् ॥ १.३८ ॥ शुचौ देशे स्थाने अनुपहते । एवं च पादप्रक्षालनमप्यर्थसिद्धं मा भूत् अशुद्धिपादसम्बन्धाद्देशस्याप्यशुचिभाव इति । तथा च वखिष्ठः-ऽप्रक्षाल्य पादौ पाणो चा मणिबन्धनात्ऽ इति । आसीन एव, नान्यावस्थः । तथाच वसिष्ठः-ऽव्रजन् तिष्ठन् शयानः प्रणतो वा नाचामेत्ऽ इति । दाक्षिणं बाहुं जान्वोर्मध्ये कृत्वा । यज्ञोपवीतोति । यदि कदाचितयज्ञोपवीति भूत्वाप्यास्ते तथाप्याचमने अवश्यं यज्ञोपवीतिना भवितव्यमिति । तथा चापस्पम्बः-ऽउपासने गुरूणां वृद्धानामतिथीनां होमे जप्यकर्मणि भोजन आचमने स्वाध्याये च यज्ञोपवीति स्यात्ऽ इति । आचमनाङ्गत्वेनान्ययज्ञोपवीतोत्पादनार्थं वा । तथा च वसिष्ठः- स्नातकानां तु नित्यं स्यादन्तर्वासस्तथोत्तरम् । यज्ञोपवीते द्दे यष्टिः सोदकश्च कमण्डलुः ॥ इति ॥ मणिर्यस्मिन्देशे बध्यते स मणिबन्धः । तस्मादामणिबन्धनात्पाणी प्रक्षाल्य वाग्यतस्तूर्ष्णीं हृदयस्पृशो हृदयंगमाः । अपांपरिमाणार्थमिदम् । माषनिमज्जनमात्रास्तावत्यो भवन्ति । तथाचाहोशनाऽमाषनिमज्जनमात्रा हृदयंगमा भवन्तिऽ इति । त्रिश्चतुर्वेत्यत्र विकल्पो व्यवस्थितः- यदाऽआपः पुनन्तुऽ इत्यादिमन्त्रमुक्त्वाऽचम्यते तदा चतुः अन्यत्र त्रिरिति । अब्ग्रहणं गोमूत्रादिनिवृत्त्यर्थं तेषां शुद्धिहेतुत्वसामान्याद्ग्रहणं मा भूदिति । उष्णबुद्धुदफेनकषायादिवर्जनार्थं वा । पिबेदिति वक्तव्ये आचामेदिति गुरुसूत्रकरणं विध्यन्तरोपसङ्ग्रहार्थम् । तत्र तूशनाऽह-ऽदक्षिणं हस्ततलं गोकर्णाकारं विन्यस्य ब्राह्मेण तीर्थेनाशब्दं पिबेदृग्यजुःसामवेदान् ध्यायन्ऽ इति ॥ द्विः परिमृज्यात् ॥ १.३९ ॥ प्रकृताबोष्ठौ, अत्रानुक्तत्वात्, स्मृत्यन्तरदर्शनाच्च, ब्राह्मेणैव तीर्थेन । परित्युपसर्गो विध्यन्तरोपसंग्रहार्थः । तत्र तूक्तं कण्वेन-ऽअथर्ववेदेतिहासपुराणानि ध्यायन् ब्राह्मेण तीर्थेनोष्ठयोः सलोमप्रदेशं मृज्यात्ऽ इति ॥ पादौ चाभ्युक्षेत् ॥ १.४० ॥ चकारात्मुखं च । अभ्युपसर्गो विध्यन्तरोपसंग्रहार्थः । तत्राह भार्गवः-ऽओष्ठौ परिमृज्यात्ततो मुखं परिमृजेदग्नान्ध्यायं स्ततः पादावभ्युक्षेत्विष्णुं ध्यान्ऽइति ॥ खानि चोपस्पृशेच्छीर्षण्यानि ॥ १.४१ ॥ खानि शीर्षण्यानि नयननासिकाकर्णानि । चकाराद्धृदयं च । तथाच मनुः- त्रिराचामेदपः पूर्वं द्विरुन्मृज्यात्ततो मुखम् । खानि चोपस्पृशेदद्भिरात्मानं हृदयं शिरः ॥ इति ॥ उपोपसर्गो विध्यन्तरोपसंग्रहार्थः तन्नोशनाऽअङ्गुष्ठोपकनिष्टिकाभ्यां नयने चन्द्रादित्यौ ध्यात्वा तत उपस्पृश्य तर्जन्यङ्गुष्ठाभ्यां नासिकावकाशौ प्राणान् ध्यात्वा तत उपस्पृश्य कनिष्ठिकाङ्गुष्ठाभ्यां कर्णौ दिशो ध्यात्वा तत उपस्पृश्याङ्गुष्ठेन केवलेन हृदयमुपस्पृशेदात्मानं ध्यायन्ऽ इति ॥ मूर्धनि च दद्यात् ॥ १.४२ ॥ मूर्धनि चेत्वक्तव्ये दद्यादिति ग्रहणं सर्वाङ्गुल्यर्थम् । तथाच स्मृत्यन्तरंऽसर्वाङ्गुलिभिः श्रियं ध्यात्वा मूर्धनि प्रक्षिपेत्ऽ इति । चकारात्सव्ये च पाणौ । तथा च वसिष्ठः-ऽमूर्धनि च दद्यात्सव्ये पाणौऽ इति । क्षत्रियवैश्ययोरप्येतदेवाचमनं विशेषानभिधानात्स्त्रीशूद्रौ च सकृत्सकृत्ऽ इति स्मृत्यन्तराभिधानात्स्त्रीशूद्रयोश्च सकृत्पानात्सकृदोष्ठस्पर्शनाच्च शुद्धिर्द्रष्टव्या अत्रानुक्तापि ॥ न केवलमुच्छिष्टस्पर्श एवाचमनं, अन्यदप्याचमननिमित्तमिदानीमाह- सुप्त्वा भुक्त्वा क्षुत्वा च पुनः ॥ १.४३ ॥ पुनर्ग्रहणमादावन्ते चाचमनं कुर्यादित्येवमर्थम् । चकारात्स्नात्वा रुदित्वा च । तथा च वसिष्ठः-ऽसुप्त्वा भुक्त्वा क्षुत्वा स्नात्वा पीत्वा रुदित्वा चाचान्तः पुनराचामेत्ऽ इति ॥ तत्र क्षुतस्यानियतकालत्वातादावशक्यमाचमनमिति चेत्तत्रापि नित्यप्रायत्यार्थ आरम्भः । यथाऽहापस्तम्बः-ऽमुहूर्तमपि शक्तिविषये नाप्रयतस्तिष्ठेत्ऽ इति । स्वापादौ प्रयतस्याप्याचमनमारम्भसार्मथ्यात् । अतस्तत्रादावन्ते चाचमनं कुर्यात्तत्र भोजने केचिदादावपि द्विराचमनमिच्छन्ति । तथाचापस्तम्बःऽभोक्ष्यमाणस्तु प्रयतो द्विराचामेत्ऽ इति । अन्ये स्वापादावन्त एव द्विराचमनमिच्छन्ति यथाऽहोशना- ऽसुप्त्वा भुक्त्वा क्षुत्वा स्नात्वा पीत्वा रुदित्वा चाचान्तः पुनराचामेद्द्विऽ इति । एवं च भोजने आदावन्ते च्च द्विराचमनं स्वापादावेकमन्ते च द्विः । क्षुतस्यानियतत्वादन्त एव द्विरिति सिद्धान्तः ॥ इदानीनुच्छिष्टसंश्लेषे अशुचित्वे प्राप्ते आह- दन्तश्लिष्टेषु दन्तवदन्यत्र जिह्वाभिमर्शनात् ॥ दशनान्तरलग्नेषु भक्ष्यभोज्यावयवेषु दन्तवतनुच्छिष्टो भवतीत्यर्थः । न चेज्जिह्वया संस्पृश्यन्ते ॥ अत्रापि- प्राक्च्युतेरित्येके ॥ १.४४ ॥ सत्यपि जिह्वाभिमर्शने यावत्स्वस्थानान्न च्यवन्ति तावच्छुचिरित्येके मन्यन्ते ॥ च्युतेष्वास्राववद्विद्यान्निगिरन्नेव तच्छुचिः ॥ १.४६ ॥ च्युतेषु आस्ये यज्जलं तदास्रावे यद्वद्विजातीयात्तन्निगिरन् शुचचिरेव भवति । आचमनशङ्का नास्तीत्यर्थः । एवं चास्रावमपि निगिरन् शुचिरेव भवति । कुतः च्युतेषु निगिरन् शुचिरिति वक्तव्ये आस्राववद्विद्यादित्यारम्भात् । गौतमस्तु दन्तश्लिष्टानां सति जिह्वाभिमर्शने अशुचिर्भवतीति । अन्यमतं तु प्राक्च्युतेरिति । सोऽयं व्यवस्थितविकल्पः, कर्मानुष्ठानाधिकृतस्याचमननमन्यस्य नेति ॥ यथोच्छिष्टावयवो बहिर्भूतः अशुचित्वमापादयति तद्वदास्रावस्यापि प्राप्त आह- न मुख्या विप्रुष उच्छिष्टं कुर्वन्ति न चेदङ्गे निपतन्ति ॥ १.४७ ॥ मुखे भवा मुख्याः विप्रुष आस्राबावयवाः ते मन्त्रयमाणस्य विनिर्गता नाप्रायत्यं जनयन्ति यद्यङ्गे स्तनोदरादौ न निपतन्ति । निशब्दो निश्चयार्थः अतो निश्चयेन यद्यङ्गे पतन्ति तदानीमेवोच्छिष्टं जनयन्ति नाशङ्कामात्रेणेति । एवं चोच्छिष्टावयवो यत्रकुत्रचिन्निपतन्नुच्छिष्टं जनयति, आस्रावोऽङ्ग एवेति सिद्धान्तः ॥ सर्वशौचार्थमिदमधुनोच्यते- लेपगन्धापकर्षणे शौचममेध्यलिप्तस्य ॥ १.४८ ॥ लेपगन्धयोरपनयने कृते अमेध्यलिप्तस्य अमेध्यसम्बद्धस्य शुचित्वं भवति । अमेध्यशब्देन द्वादशमला उच्यन्ते ॥ यथाऽह मनुः- वसा शुक्लमसृङ्मज्जा मूत्रविड्घ्राणकर्णविट् । श्लेष्माश्रु दूषिका स्वेदो द्वादशैते नृणां मलाः ॥ अनभिव्यक्तगन्धानां श्लेष्मादीनां लेपमात्रदर्शनात्लेपग्रहणम् । मूत्रादीनां लेपानुपलब्धेर्गन्धमात्रोपलब्धेश्च गन्धग्रहणम् । शौचाधिकारे पुनः शौचग्रहणं तैजसादीनामपि लेपगन्धापनयनयादेव शौचमित्येवमर्थम् ॥ तत्केन कर्तव्यमित्यत आह- तदद्भिः पूर्वं मृता च ॥ १.४९ ॥ तच्छौचमद्भिः पूर्वं ततो मृदा । चकारात्तत उभयेन । तद्ग्रहणमन्नलेपस्यापि चूर्णादिना अपकर्षणार्थम् । तदद्भिर्मृदा चेति वक्तव्ये पूर्वग्रहणं यत्र नातीव लेपो लक्ष्यते तत्राद्भिरेव शसौचमित्येवमर्थं, यथाऽह मनुः- निर्लेपं काञ्चनं भाण्डमद्भिरेव विशुध्यति । अब्जमश्ममयं चैव राजतं चानुपस्कृतम् ॥ इति ॥ अथवा यत्र यत्र शौचमुक्तं तत्र तत्राद्भिरेव शौचं प्रथमं कार्यमित्येवमर्थम् । यथा मृदा अद्भिरिति समुच्चीयते तथा भस्मादिभिरपि समुच्चयार्थो विसमासः । तैसजादीनां द्रव्याणामुक्तत्वातिदं शौचं शरीरावयवस्यामेध्यलिप्तस्य द्रष्टव्यम् ॥ मूत्रपुरीषस्रेहुविस्रंसनाभ्यवहारसंयोगेषु च ॥ १.५० ॥ चकारः आचमनानुकर्षणार्थः । विस्रंसनं निरसनं, तत्मूत्रपूरीषस्रेहूणां प्रत्येकं सम्बध्यते । अभ्यवहारसंयोगोऽभ्यवहार्यद्रव्योपयोगः । तस्यानमेध्यत्वात्लेपगन्धापकर्षणार्थमभिधानं, आचमनस्यऽसुप्त्वा भुक्त्वाऽ इत्यनेन सिद्धत्वात्लेपगन्धापकर्षणं च मृत्सलिलप्रक्षालनेन कुर्यात् । एवं चऽतदद्भिः पूर्वम्ऽ इत्यत्र यदुक्तं चूर्णादिना अन्नलेपापकर्षणं तेनाशक्यमिदं द्रष्टव्यम् । अथवाभ्यवहारसंयोगस्यापि आचमनार्थ एवोपन्यासः । ऽसुप्त्वा भुक्त्वाऽ इत्यनेनैव सिद्धमनूद्यते क्रमार्थम्, कथं-तद्ग्रहणेनान्नलेपापकर्षणमुक्तं तदपकर्षणं पूर्वं कृत्वा ततआचामेदित्येवमर्थमन्यथा सन्देहः स्यादिति । तथा चापस्तम्बःऽमूत्रं कृत्वा पूरीषं वा मूत्रपुरीषलेपानन्नलेपानुच्छिष्टलेपान् रेतसश्च ये लेपास्तान् प्रक्षाल्य पादौ चाचम्य प्रयतो भवतिऽ इति । मूत्रपुरीषौ प्रसिद्धौ । स्रेहू रेतः । मूत्रादीनामाचमनार्थमुपन्यासः लेपगन्धापकर्षस्यऽलेपगन्धापकर्षणे शौचम्ऽ इत्यनेनैव सिद्धत्वात् ॥ यत्र चाम्नायो विदध्यात् ॥ १.५१ ॥ तत्र तदेव भवतीति शेषः । आम्नायो वेदः, स यत्र यज्ञविषये स्फ्यादीनां प्रक्षालनमात्रादेव शुद्धिं विदध्यात्तत्र तदेव, न दारुसामान्येन तक्षणादि । अतुल्यबलत्वादेवेदं सिद्धमिति चेत्श्रुत्युक्तस्य लौकिके अननुप्रवेशनार्थ उपन्यासः, यथार्दव्या यागविषये श्रुत्या प्रक्षालनेन शुद्धिरुक्ता, तस्या लौकिके व्यापृताया अपि दर्वीसामान्येन श्रुत्युक्ता मा भूत्स्मृत्युक्तामेव कुर्यादित्येवमर्थमुपन्यासः । अथवाम्नायशब्देन मनुरुच्यते । स यत्र शौचं विदध्यात्तत्र तदेव, यथाऽयतीनां तु चतुर्गुणम्ऽ इत्यादि । तदुक्तत्वादेवासन्देह इति चेतुच्यते- यस्मिन्विषये न किंचिदुच्यते तत्र स्मृत्यन्तरोक्तं भवति । यत्र लेपगन्धापकर्षणादि किंचिदुच्यते तत्र स्मृत्यन्तरेण विकल्पशङ्का भवतीति तन्निरासार्थमुक्तंऽयत्र चाम्नायो विदध्यात्ऽ इति । एवं च लेपगन्धापकर्षणे कृतेऽपिऽद्विगुणं ब्रह्मचारिणःऽ इत्येवमाद्याश्रयणीयम् ॥ इदानीं कृतशौचस्य ब्रह्मचारिणोऽध्ययनार्थं गुरूपसदनविधिमाह- पाणिना सव्यमुपसङ्गृह्यानङ्गुष्ठमधीहि भो इत्यामन्त्रयेत गुरुम् ॥ १.५२ ॥ पाणिना दक्षिणेन सव्यं पाणिमनङ्गुष्ठवर्जितं गृहीत्वा अधीहि भो इति प्रार्थयेत गुरुमध्यापकम् । पाणिग्रहणं पादनिवृत्त्यर्थम् । पाणिप्रकरणातसव्यमपि पाणिमेवेति गम्यते । उपसङ्ग्रहणमङ्गुलिप्रदेशे इति गम्यते अनङ्गुष्ठमित्युक्तत्वात् ॥ किञ्च- तत्र चक्षुर्मनाः ॥ १.५३ ॥ तत्र गुरौ चक्षुर्मनसी व्यवस्थापयेदित्यर्थः ॥ किञ्च- प्राणोपस्पर्शनं दर्भैः ॥ १.५४ ॥ कार्यमिति शेषः । साक्षात्प्राणानामुपस्पर्शनासम्भवात्प्राण इति चक्षुरादीन्द्रियाणि शीर्षण्यान्युच्यन्ते । तान्युपस्पर्शयेद्दर्भैराचमनोक्तेन क्रमेण ॥ किञ्च- प्राणायामास्त्रयः पञ्चदशमात्राः ॥ १.५५ ॥ कार्या इति शेषः । प्राणायामः प्राणनिरोधः निरुच्छ्वासेनावस्थानं, ते त्रयः कार्याः । प्रत्येकं पञ्चदशमात्राः । मात्रा नाम मध्यमाङ्गुष्ठशब्देन लोके प्रसिद्धा ॥ किञ्च- प्राक्कूलेष्वासनं च ॥ १.५६ ॥ प्रागग्रेषु, प्रकरणाद्दर्भेषु, आसनमुपवेशनं, कार्यमिति शेषः । चकारात्दर्भपवित्रप्राणिश्च ॥ किञ्च- ओंपूर्वा व्याहृतयः पञ्च सत्यान्ताः ॥ १.५७ ॥ उदाहर्तव्या इति शेषः । प्रत्येकं प्रणवपूर्वा भूराद्यास्तिस्रः पुरुषमध्याः सत्यान्ताः । एवं जाबालिश्रुतौ प्रसिद्धः ॥ किञ्च- गुरोः पादोपसङ्ग्रहणं प्रातः ॥ १.५८ ॥ कार्यमिति शेषः । उपसङ्ग्रहणमिति वक्तव्ये पादग्रहणं स्मृत्यन्तरोपदिष्टविध्युपसङ्ग्रहणार्थम् । यथाऽह मनुः- व्यत्यस्तपाणिना कार्यमुपसङ्ग्रहणं गुरोः । सव्येन सव्यः स्पृष्टव्यो दक्षिणेन तु दक्षिणः ॥ इति ॥ प्रातरुत्थायोत्थाय प्रतिदिनम् । गुरुग्रहणमात्मनो मा भूदिति । तटः पूर्वं प्राणोपस्पर्शनमात्मनः ॥ किञ्च- ब्रह्मानुवचने चाद्यन्तयोः ॥ १.५९ ॥ वेदपाठस्याद्यन्तयोः आरम्भावसानयोः । चकारः पादोपसङ्ग्रहणानुकर्षणार्थः ॥ किञ्च- अनुज्ञात उपविशेत्प्राङ्मुखो दक्षिणतः शिष्य उदङ्मुखो वा ॥ १.६० ॥ आचार्येणादिष्टः तस्य दक्षिणस्यां दिशि प्राङ्मुख उदङ्मुखो वोपविशेत्संभवतो विकल्पः आसीनस्याचार्यस्य यथा तदभिमुखो भवति तथा प्राङ्मुख उदङ्मुखो वा उपविशेदित्यर्थः । कथं ?ऽतत्र चतुर्मनाःऽ इत्युक्तत्वात् । शिष्यग्रहणमन्यस्याप्युपसन्नस्यायमेव विधिरिति ज्ञापनार्थम् । ऽअनुज्ञातो दक्षिणतःऽ इति च नियमार्थः नाननुज्ञात उपविशेन्नादक्षिणत इति ॥ किञ्च- सावित्री चानुवचनमादितो ब्रह्मण आदाने ॥ १.६१ ॥ सावित्री तत्सवितुरित्यादि । चकारादोङ्कारपूर्वा व्याहृतयश्च । तथाच मनुः- ओङ्कारपूर्विकास्तिस्रो महाव्याहृतयोऽव्ययाः । त्रिपदा चैव गायत्री विज्ञेया ब्रह्मणो मुखम् ॥ इति ॥ अनुवचनमध्येतव्यम् । ब्रह्मणो वेदस्यादाने आरम्भे अध्ययनारम्भकाल इत्यर्थः । आदितः पूर्वम् ॥ किंच- ओङ्कारोऽन्यत्रापि ॥ १.६२ ॥ अनुवचनानन्तरमोङ्कारश्चोदाहर्तव्यः अन्यत्रापि । अत्र क्रमः प्रातरुत्थाय पादौपसङ्ग्रहणं, तदाहूय उपविशेत्दर्भेषु, ततः प्राणोपस्पर्शनं दर्भैः, ततः प्राणायामान्कृत्वा महाव्याहृतीः पञ्च उक्त्वा, अञ्जलिनाऽअधीहि भोःऽ इति गुरुमामन्त्र्य, ओङ्कारपूर्विका व्याहृतीः सावित्रीं चोक्त्वा प्रणवपूर्वमधीयीत । प्रथमाध्ययन एवायं विधिः कुतः ? सावित्री चानुवचनं ततोऽधीयीतेति वक्तव्ये आदितो ब्रह्मण आदान इत्यारम्भात् । प्रतिदिवसमोङ्कारमेवोक्त्वा । कुतः ? ओङ्कारोऽन्यत्रेत्युक्तत्वात् । अन्यत्र प्रथमाध्ययनादन्यत्र । अपिशब्दः प्रथमाध्ययनेऽपि प्रणवप्रवेशनार्थः । केचिदन्यत्रापीत्यनेनाङ्गादौ प्रणवमिच्छन्ति ॥ अन्तरागमने पुनरुपसदनम् ॥ १.६३ ॥ यद्यधीयतामन्तरा मध्ये कश्चिद्गच्छेत्ततः पुनरपि पादोपसङ्ग्रहणादिप्रणवोच्चारणान्तो यो विधिस्तं कुर्यात्तस्य प्रायश्चित्तार्थम् । अप्रकरणेऽपि प्रायश्चित्तमानन्तर्येणानुष्ठानार्थम् । मानुषाणां गमन एतत्, इतरेषामूर्ध्वमभिधानात् । अत्रानध्यायश्रवणाभावात्प्रायश्चत्तानन्तरमधीयीत । प्रथमाध्ययनापे७ आ पुनर्ग्रहणम्, अन्यत्रोपसदनाभावात् । अतोऽन्यत्र प्रायश्चित्तार्थमेवोपसदनं कर्तव्यं तदनन्तरमध्ययनं कर्तव्यम् । तथाऽहापस्तम्बः-ऽअधीहि भो इत्युक्त्वाधीयीताध्यापयेद्वाऽ इति ॥ किञ्च- श्वनकुलसर्पमण्डूकमार्जाराणां त्र्यहमुपवासो विप्रवासश्च ॥ १.६४ ॥ एते प्रसिद्धाः । श्वादीनां प्रत्येकमन्तरा मनगे त्र्यहं भक्तत्यागः प्रायश्चित्तं, विप्रवासो गुरुणा विरहितस्यावस्थानमेकाहम् । एवं च गुरुविप्रयोगोपदेशादेव एकाहमनध्यायसिद्धिः । कुत एकाहोपलब्धिरिति चेत्, विसमासात् । अन्यथा त्र्यहमुपवासविप्रवासौ चेत्यवक्ष्यत् । अत एकाहमेवानध्यायः । तथा च मनुः- पशुमण्डूकमार्जारश्वसर्पनकुलेषु च । अन्तरा गमने विद्यादनध्यायमहर्निशम् ॥ इति ॥ एवं चात्रापि श्वग्रहणं चतुष्पदां पशूनामुपलक्षणम् । चतुष्पाद्ग्रहणेन गृह्यमाणत्वात्मार्जारस्य पुनरुपन्यासः प्रायश्चित्तगौरवार्थः । यथाऽहोशना-ऽमार्जारान्तरागमने धृतं प्राश्यत्र्यहमुपवसेत्ऽ इति । उपसदनानुकर्षणार्थश्चकारः । अतोऽध्ययनकाले तत्कृत्वाधीयीत । केचिदुपवासमध्ययनत्यागमाहुः । तद्युक्तमयुक्तं वेति विचार्यम् ॥ किञ्च- प्राणायामा घृतप्राशनं चेतरेषाम् ॥ १.६५ ॥ इतरेषां काकादीनां प्राणायामास्त्रयः, बहुवचनश्रवणात् । घृतप्राशनं कायाप्लवनमात्रम् । उपसदनानुकर्षेणार्थः चकारः । ततस्त्रीन्प्राणायामान् धारयित्वा घृतं प्राश्योपसदनं च कृत्वाधीयीत, अनध्यायाश्रवणात् ॥ श्मशानाभ्यध्ययने चैवं श्मशानाभ्यध्ययने चैवम् ॥ १.६६ ॥ आपस्तम्बेन सर्वतःशम्याप्रासान्नाधीयीतेत्युक्तम् । तस्मात्तत्समीपेऽध्ययनं श्मशानाध्ययनम् । अभ्युपसर्गो बुद्धिपूर्वसूचनार्थः । ततोऽबुद्धिपूर्वे अन्यत्प्रायश्चित्तं लघुतरं द्रष्टव्यम् । तथा चाहोशना-ऽअनभिसन्ध्या श्मशानाभ्यध्ययनेऽधीहि भो इत्युक्त्वाधीयीतऽ इति । चकारादनन्तरोक्तस्य प्रणायामादेः सर्वस्य प्राप्तौ एवंशब्देन अनन्तरोक्तस्योपसदनस्यैव प्राप्तिः क्रियते । तर्ह्येवंशब्द एव वक्तव्य इति चेत्न, उभयसकाश एवायमर्थो लभ्यते । कथं ? एवंशब्दे चशब्दे वा वक्तव्ये उभयपाठस्य प्रयोजनान्तरं कल्पयितुं न्याय्यं, न ह्येकस्यैवेति । अत उपसदनमेव कर्तव्यम् । तथाच स्मृत्यन्तरं-ऽश्मशानसमीपेऽधीत्य प्राणान् धारयेत्प्राणोपस्पर्शनमभिवादनं सावित्र्यनुवाचनंऽ इत्यादि । द्विरुक्तिरध्यायपरिसमाप्त्यर्था । उक्तमिदं सर्वं प्रायश्चित्तं शिष्यस्यैव, तदर्थत्वादध्यनप्रभृतेः । किञ्च-सर्वत्र सोपसदनमेव प्रायश्चित्तं, उपसदनं त्वभिवादनादि, तदभिवादनमाचार्यस्य न सम्भवतीति ॥ इति मस्करीये गौतमभाष्ये प्रथमोऽध्यायः ॥ _______________________________________________________________________________ द्वितीयोऽध्यायः द्विजानामुक्तमुपनयनम् । तेषामुपनयनात्प्रागपि कैश्चिद्वर्णधर्मैरधिकार इष्यत इति तदर्थमाह- प्रागुपनयनात्कामचारवादभक्षः ॥ २.१ ॥ ननु च प्रागेवोपनयनादेतद्वक्तव्यं, तत्र प्रागुपनयनादित्येतन्न वक्तव्यं भवति ॥ उच्यते-सत्यमेतत् । किन्तु उपनयनस्यादावभिधाने प्रयोजनमुक्तम् । नानेन विधीयते, अर्थप्राप्तत्वात् । न च नियम्यते, अवश्यकर्तव्याभावात्,ऽउपनयनादिर्नियमःऽ इति वक्ष्यमाणत्वात्पाक्षिकत्वाभावाच्च । नापि परिसङ्ख्या, निर्वत्याभावात् । न ह्यस्याकामचारित्वादिकं प्राप्तम् । अतः इदं सूत्रमनुवादकं प्रायश्चित्तराजदण्डाभावज्ञापनार्थं, तयोः सामान्येनोपदिश्टत्वात् ॥ ननु च राजदण्डप्रायश्चित्तानि च विहिताकरणे निषिद्धसेवने वा विधीयन्ते । न चास्य विधिप्रतिषेधाभ्यामधिकारः । न चास्य विधिः प्रतिषेधाभ्यामधिकारः । न चास्य विधिः प्रतिषेधो वा श्रूयत इति । न त्वस्याहुतात्त्वादि विधायिष्यते प्रतिषिध्यते वा, यद्व्यतिक्रमे उभयं भविष्यतीति, पित्रादीनामुपदेशात् । अत इदं सूत्रमनर्थकमिति ॥ अत्रोच्यते-यद्विहिताकरणे प्रतिपिद्धसेवने वा प्रायश्चित्तमुक्तं राजदण्डो वा तदुभयमस्यापि प्राप्नोत्येव । यद्यप्यस्यैवोद्देशेन विधिः प्रतिषेधो वा न श्रूयते, तथापि यत्तु सामान्येनोक्तंऽअहिंसा सत्यमस्तेयम्ऽ इत्यादि, त्दवर्णधर्मत्वादस्यापि प्राप्नोति । तद्व्यतिक्रमे राजदण्डप्रायश्चित्ते अपि भवतः । अतः तन्निवृत्त्यर्थमनुवादस्वरूपं सूत्रमारब्धम् ॥ ऽउपनयनादिर्नियमःऽ इत्यनेन सूत्रेण उपनयनादारभ्य यो विधिरुच्यते-तद्व्यतिक्रमे एव प्रायश्चित्तं नान्यव्यतिक्रमे इति वक्ष्यमाणत्वात् । तेनैवास्यापि वर्णध्रमातिक्रमे प्रायश्चित्ताभावो ज्ञातुं शक्यते, राजदण्डाभावोऽपि । तथापि नित्योपनयनकालातीतस्य भिन्नबुद्धेः शक्तस्य एकादशवर्षादूर्ध्वं षोडशवर्षात्प्राक्प्रायश्चित्तार्धप्रवेशनार्थं, ततोर्ऽवाक्पञ्चवर्षादूर्ध्वं पित्रादीनां प्रायश्चित्तप्रवेशार्थं, तत अर्वागपराधाभावज्ञापनार्थं च सूत्रमारब्धम् । तथाच भार्गवीयं- आशीतिर्यस्य वर्षाणि बालो वाप्यूनषोडशः । प्रायश्चित्तार्धमर्हन्ति स्त्रियो व्याधित एव च ॥ ऊनैकादशवर्षस्य पञ्चवर्षात्परस्य च । चरेत्सुहृद्गुरश्चैव प्रायश्चित्तं विशुद्धये ॥ अतो बालतरस्याथ नापराधोऽस्ति कुत्र चित् । राजदण्डश्च तस्यातः प्रायश्चित्तं च नेष्यते ॥ इति ॥ एवं चोपनयनात्प्राग्यद्यपि सामान्येन कामचारित्वाद्युक्तं, तथापि पञ्चवर्षात्प्रागेवात्यन्तकामचारिता, तत ऊर्ध्वं वर्णधर्मेषु नियोक्तव्यः पित्रादिभिः, तद्व्यतिक्रमे बालस्य सतः पित्रादीनां प्रायश्चित्तस्य श्रवणात् । अलमतिप्रसङ्गेन ॥ इदानीं सूत्रं विव्रियते उपनयनात्प्राक्कामचार इच्छागतिः तस्माच्चण्डालस्पर्शनादौ प्रोक्षणमात्रं वक्ष्यतिऽअवोक्षणेभ्यःऽ इति तदपि पञ्चवर्षात्प्रागेवेत्युक्तम् । अत ऊर्ध्वं चण्डालादिस्पर्शने स्नापयितव्यः । एकादशवर्षादूर्ध्वं स्वयमेव स्नायात् । एवं सर्वत्र । कामवादः अश्लीलाद्यपि वदति । कामपक्षः पर्युषिताद्यपि भक्षयति । पञ्चवर्षादूर्ध्वं वर्णधर्माविरोधीनि कारयितव्यानि । उपनयनात्प्रागित्यापत्कल्पोपनयनस्यापि ग्रहणम् । कुतः ? ब्रह्मचारीति लिङ्गात् । नित्यकालात्प्राक्ब्रह्मचर्यस्य स्खलनासम्भवादेव सिद्धत्वात्ब्रह्मचर्यरक्षणोपदेशोऽनर्थकःस्यादिति । कामचारस्योदाहरणं स्वयमेव वक्ष्यतिऽयथोपपादमूत्रपुरीषो भवतिऽ इति । अतोऽत्यन्तबालावस्थायामपि ब्रह्महत्यादेर्यत्नतो निवारयितव्यः । कामवादे अभिशंसादौ कामभक्षणे सुरापानादौ चात्यन्तवाल्यावस्थायामपि यत्नतो निवारयितव्य-, कामचार इत्यनेनैव सिद्धे वादभक्षणयोः पुनरुपन्यासात् । उपनयनादिति वक्तव्ये प्राग्ग्रहणं नियमार्थं, उपनयनात्प्रागेव कामचारित्वादीति । असति नियमेऽउत्तरेषां चैतदविरोधिऽ इत्यनेन हुतशिष्टभक्षणवर्जनादि यतीनामपि प्राप्नोतीति ॥ इदानीं कामवादभक्षणस्यापवादमाह- अहुताद्ब्रह्मचारी ॥ २.२ ॥ हुतं हुतशिष्टं चरुपुरोडाशादि, न वैश्वदेवशिष्टं, तस्य सर्वार्थत्वात् । तथाऽहापस्तम्बः-ऽसर्वान् वेश्वदेवे भागिनः कुर्वीतऽ इति । अहुतात्कार्य इति शेषः । अर्थप्राप्तस्य प्रतिषेधोऽयं पित्रादीनामुपदेशः, बालस्य विज्ञानाभावात् । एकादशवर्षादूर्ध्वं तस्यैवेत्युक्तम् ॥ ब्रह्मचारी ॥ २.३ ॥ ब्रह्मचर्यरक्षणं कर्तव्यम् ॥ इदानीं कामचारस्योदाहरणमाह- यथोपपादमूत्रपुरीषो भवति ॥ २.४ ॥ यथापरिवेष्टितशिरसः कृष्टादावपि मूत्रपुरीषावुत्पद्येते तिष्ठतो वा तथा तत्रैव कुर्यादित्यर्थः ॥ किञ्च- नास्याचमनकल्पो विद्यते ॥ २.५ ॥ पञ्चवर्षादूर्ध्वमस्यैकादशवर्षात्प्राकाचमनकल्पः आचमनविधिर्न विद्यते । कल्पप्रतिषेधाताचमनमात्रमस्तीत्यवगम्यते । तत्रऽशूद्रेण हि समस्तावद्यावद्वेदेन जायतेऽ इति स्मृत्यन्तरे शूद्रेण तुल्यधर्मश्रवणादाचमनं शूद्रवद्द्रष्टव्यम् । ऊनैकादशवर्षस्येति कुतः ? अस्येत्यारम्भात्, पञ्चवर्षत्प्राग्दोषाभावश्रवणातेकादशवर्षादूर्ध्वं वर्णधर्मेऽधिकृतत्वाच्च । एकादशवर्षादूर्ध्वमाचमनकल्पोऽपि तस्य विद्यत एवेति गम्यते ॥ इदानीमतिबालस्याह- अन्यत्रापमार्जनप्रधावनावोक्षणेभ्यः ॥ २.६ ॥ अस्य न विद्यत इति वर्तते । अस्योनपञ्चवर्षस्यापमार्जनादिभ्यः अन्यत्र किञ्चिदपि शौचप्रकारः न विद्यत इत्यर्थः । अपमार्जनं भुक्तोच्छिष्टस्य सोदकेन पाणिना तदुच्छिष्टापनयनम् । प्रधाबनं प्रक्षालनं मूत्रोच्चारादौ । अवोक्षणं चण्डालादिस्पर्शने प्रोक्षणम् । प्राप्त्यभावात्ऽनास्याचमनकल्पो विद्यते । अन्यत्रापमार्जनप्रधावनावोक्षणेभ्यःऽ इति प्रतिषेधद्वयस्यानारम्भः प्राप्नोतीति चेत्, नैष दोषः,ऽनास्याचमनकल्पो द्यिततेऽ इत्यनेनोनषोडशवर्षस्याचमनकल्पो विधीयते ऊनैकादशवर्षस्य प्रतिषेधद्वारेण । ऽअन्यत्रापमार्जनप्रधावनावोक्षणेभ्यःऽ इत्यनेन पुनः ऊनपञ्चवर्षस्यापमार्जनादि विधीयते अन्यशौचप्रतिषेधद्वारेणेति ॥ किञ्च- न तदुपस्पर्शनादशौचम् ॥ २.७ ॥ तद्ग्रहणेनाकृतशौचो गृह्यते । अकृतशौचस्पर्शनात्तेन वा स्पृष्टस्याशुचित्वं न भवति । अतिबालविषयमेवैतत् ॥ तर्ह्यस्य शौचविधानमनर्थकं, कुतः ? द्वयमेव प्रयोजनं शौचविधानस्य दृश्यते इतरस्पर्शयोग्यार्थमनुष्ठानार्थं च । अस्य तु इतरस्पर्शयोग्यार्थं न भवति, अकृतशौचस्यापि स्पर्शयोग्यत्वात् । ऽन तदुपस्पर्शनादशौचम्ऽ इत्यनेन । अनुष्ठानार्थं च न भवति, अस्यानुष्ठानाभावादिति ॥ नानर्थकं, रक्षार्थत्वाच्छौचविधानस्येति । तथाच स्मृत्यन्तरं-ऽबालस्यापञ्चमाद्वर्षाद्रक्षार्थं शौचं कुर्यात्ऽ इति ॥ अकृतशौचस्यास्यैव स्पर्शने दोषाभावज्ञापनार्थः उपशब्दप्रयोगः । एवं चान्येषामुच्छिष्टकृत मूत्रपुरीषाणां स्पर्शने आचमनं कर्तव्यम् । तत्स्पर्शने न दोषः शवस्पृष्टिसूत्रे परिगणितत्वात् । तथा स्मृत्यन्तरं- अशुचिं स्पृशते यस्तु एक एव हि दुष्यते । तं स्पृष्ट्वान्यो न दुष्येत सर्वद्रव्येष्वयं विधिः ॥ इति ॥ चण्डालस्पर्शने तु शवस्पृष्टिसूत्रे वक्ष्यति । ऽतमुपस्पृशेत्ऽ इति वक्तव्येऽन तदुपस्पर्शनादशौचम्ऽ इति गुरसूत्रकरणं प्रागुपनयनादित्यत्र नियमम्यापि बाधनार्थम् । ततश्चोपनयनादूर्ध्वमप्युच्छिष्टकृतमूत्रपुरीषाणां स्पर्शने आचमनं कर्तव्यम् ॥ किञ्च- न त्वेनैनमग्निहवनबलिग्रहणयोर्नियुञ्ज्यात् ॥ २.८ ॥ एनमिति सर्वस्यानुपनीतस्योपसङ्ग्रहार्थम् । अग्नौ यत्क्रियते अग्निहोत्रहोमादि ततग्निहवनम् । वैश्वदेवोत्तरकालं दिग्देवताभ्यो यो बलिर्दीर्यते तद्बलिहरणम् । तुशब्दो विशेषवाची, अष्टकादौ ब्राह्मणपादप्रक्षालनादावपि न नियुञ्ज्यात्, विशेषतोऽग्निहवनबलिहरणयोरिति । कामचारित्वाद्यत्रकुत्रचिन्मन्त्रमधीत्याग्निहोत्रादौ यदि स्वयमेव प्रवर्तते तदा तं दृष्ट्वानुमन्तापि न स्यादित्येवमर्थ एवशब्दः । उपनीतस्य नियोगार्थमिदं वचनं, अन्यत्र प्राप्त्यभावात्प्रतिनिषेधस्य । एवं चऽविद्वानाग्निहोत्रं जुहुयात्ऽ इति यद्यपि श्रुत्या बहुश्रुतस्यैवाधिकारः, तथापि तदसम्भवे अल्पविद्यमप्युपनीतं नियुञ्ज्यात् । तथाच मनुः- नैव कन्या न युवतिर्नाल्पविद्यो न बालिशः । होता स्यादग्निहोत्रस्य नार्तो नासंस्कृतस्तथा ॥ इति ॥ तत्राल्पविद्यप्रतिषेधादेव प्रतिषेधे सिद्धे नासंस्कृत इति प्रतिषेधोऽन्यस्य विदुषोऽभावेल्पविद्यस्यापि संस्कृतस्याभ्यनुज्ञानार्थमिति प्रतिपादितम् । प्रागुपनयनादित्यादि यदुक्तं तत्स्त्रीणामपि अविवाहाद्द्रष्टव्यम् । कुतः ?ऽवैवाहिको विधिः स्त्रीणामौपनायनिकः स्मृतःऽ इति स्मृत्यन्तरदर्शनात् । एवं चाग्निहवनबलिर्हरणयोः कन्याया अपि नियोगप्रतिषेधः सिद्धः । अतो विवाहोत्तरकालं नियोगः कर्तव्यः । तत्रऽन स्त्री जुहुयात्ऽ इति श्रुत्याग्निहोत्रे प्रतिषिद्धत्वातौपासनादौ द्रष्टव्यम् । तथा च स्मृत्यन्तरं-ऽपत्न्यौपासनं जुहुयाद्वैश्वदेवं चऽ इत्यादि । न युवतिरिति प्रतिषेधश्च परदारविषयत्वाददोषः ॥ किञ्च- न ब्रह्माभिव्याहारयेदन्यत्र स्वधानिनयनात् ॥ २.९ ॥ एवमित्यनुवर्तते । ब्रह्मशब्देन वेदा उच्यन्ते । तस्मादेनं नाध्यापयेत् । उपनीतस्योपाकरणादूर्ध्वंऽअधीयीत छन्दांसिऽ इत्यनेन वेदाध्ययनविधानादेवानुपनीतस्य प्रतिषेधे सिद्धे वेदस्य पुनः प्रतिषेधः वेद एव नाध्यापयितव्यः इति नियमार्थः ततश्चाङ्गाध्यापने न दोषः । कामचारित्वाद्येनकेनचित्प्रकारेण गृहातं मन्त्रमपि नोच्चारयेत् । कुतः ? अध्यापययेदित्यनारभ्याभिव्याहारयेदित्यारम्भात् । अन्यत्र स्वधानिनयनात्, स्वधानिनयनं वर्जयित्वा । अमुष्मै स्वधेत्युक्त्वा यत्पिण्डोदकादि प्रेतेभ्यो दीयते तत्स्वधानिनयनम् । तदपि प्रेतकर्मणः समस्तस्याप्युपलक्षणम् । तथाच वसिष्ठः-ऽअन्यत्रोदककर्मस्वधाषितृसंयुक्तेभ्यःऽ इति । एवंच पुत्रेऽनुपनीतेऽपि सति सपिण्डादिभिः प्रेतक्रिया न कर्तव्या, शास्त्रचोदनानर्थक्यप्रसङ्गो मा भूदिति ॥ अनुपनीतस्योक्त्वेदानीमुपनीतस्याह- उपनयनादिर्नियमः ॥ २.१० ॥ उपनयनादारभ्य यो विधिरुक्तः स नियमसंज्ञो भवति । एवं चास्याकरणे प्रायश्चित्तं न पूर्वस्य । अतो वा आरभ्य नियमः व्रतधारणं यो वक्ष्यतेऽग्नीन्धनादिः स नियमः उपनयनादिः कर्तव्यः ॥ किञ्च- उक्तं ब्रह्मचर्यम् ॥ २.११ ॥ उक्तग्रहणं प्रागुपनयनान्नियम एवैतदिति । ततश्च तत्स्खलनेऽनुपनीतस्यापि अवकीर्णिप्रायश्चित्तेनैवाधिकारो द्रष्टव्यः । तथाच स्मृत्यन्तरं-ऽविप्लुतमवकीर्णिव्रतेन शुद्धमुपनयेदूनसप्तदशवर्षं, अत ऊर्ध्वं ब्रात्यावकीर्णिव्रताभ्याम्ऽ इति । ब्रह्मचारिणस्तु स्त्रीप्रेक्षणादिप्रतिषेधादर्थसिद्धमिति चेत्, न, पश्वादष्वपि सम्भवात् ॥ किञ्च- अग्नीन्धनभैक्षचरणे ॥ २.१२ ॥ अग्नीन्धनं समिद्धोमः । इतरत्प्रसिद्धम् । ते प्रतिदिनं कर्तव्ये । सहनिर्देशोऽनन्तरानुष्ठानार्थः । तथाच मनुः- प्रतिगृह्येप्सितं दण्डमुपस्थाय च भास्करम् । प्रदक्षिणं परोत्याग्निं चरेद्भैक्षं यथाविधि ॥ इति । तत्रापि प्रदक्षिणं परीत्याग्निमित्यनेन समिद्धोम उक्त इत्युक्तम् । ऽसायं प्रातस्त्वन्नमभैपूजितमनिन्दन् भुञ्जीतऽ इति द्विर्भोजनश्रवणात्सायं प्रातः द्विरग्नीन्धनमपि द्रष्टव्यम् । तथा च स्मृत्यन्तरम्- दूरादाहृत्य समिधः सन्निदध्याद्विहायसि । सायं प्रातश्च जुहुयात्ताभिरग्निमतन्द्रितः ॥ इति । केचित्समिद्धोमं सायमेवेच्छन्ति ॥ किञ्च- सत्यवचन् ॥ २.१३ ॥ सर्वत्र कर्तव्यक्रियाध्याहर्तव्या । वचनग्रहणमसंदेहार्थं, सत्यमपामुपस्पर्शनमित्येवं संदेहः स्यादिति । पृथग्ग्रहणमातुरस्याप्यनुष्ठानार्थम् । ततश्च पूर्वयोस्तन्न । तथाचच मनुः- अकृत्वा भैक्षचरणमसमिध्य च पावकम् । अनातुरः सप्तरात्रमवकीर्णिव्रतं चरेत् ॥ इति ॥ किञ्च- अपामुपस्पर्शनम् ॥ २.१४ ॥ अब्ग्रहणं भस्मादीनामुपलक्षणम् । तथाच भृगुः- स्नानानि पञ्च पुण्यानि कीर्तितानि महर्षिभिः । आग्नेयं वारुणं व्राह्यं वायव्यं दिव्यमेव च ॥ आग्नेयं भस्मना स्नानमवगाहं तु वारुणम् । आपो हिष्ठेति च ब्राह्मं वायव्यं गोरजः स्मृतम् ॥ यत्तु स्यात्सातपं वर्षं दिव्यं स्नानं तदुच्यते । अशक्तो वारुणे स्नाने आग्नेयादि समाचरेत् ॥ इति ॥ स्नानमिति वक्तव्ये एवमभिधानं स्मृत्यन्तरोक्तस्नानविधेरुपसङ्ग्रहणार्थम् । एवं च स्मृत्यन्तरोक्तं द्रष्टव्यम् । उपशब्दोऽविज्ञातजलवर्जनार्थः । अग्नीन्धनभैक्षचरणयोः पृथग्ग्रहणं भुक्तस्य नित्यस्नानप्रतिषेधार्थं, न नैमित्तिकस्य । अतो नैमित्तिकं कर्तव्यम् । सत्यवचनस्य पृथग्ग्रहणमातुरस्य नैमित्तिकस्यापि प्रतिषेधार्थम् । उपशब्दोर्ऽधरात्रस्नानप्रतिषेधार्थमिति केचिद्वदन्ति । यदुक्तमत्र तत्सर्वं मनुननाप्युक्तं- न स्नानमाचरेद्भुक्त्वा नातुरो न महानिशि । न वासोभिःसहाजस्रं नाविज्ञाते जलाशये ॥ इति ॥ एके गोदानादि ॥ २.१५ ॥ गोदानं नाम छन्दोगानां द्वितीयं व्रतमन्येषामपि षोडशे वर्षे धारयितव्यम् । तेषामपि षोडशे गोदानधारणं केचिदिच्छचन्ति । तत आरभ्यैके स्नानमिच्छन्ति । गोदानात्प्राक्नित्यस्नानं न कुर्यात्, नैमित्तिकमेव कर्तव्यम् । तत ऊर्ध्वं नित्यस्नानमपीत्येके आचार्या इच्छन्ति । एक इति वचनात्न तु गौतमः ॥ बहिःसन्ध्यत्वं च ॥ २.१६ ॥ एकेग्रहणानुवर्तनार्थश्चचकारः । वहिर्ग्राभात्सन्ध्योपासनमेके इच्छन्ति । न तु गौतमः । न तु गौतमः । एतदुक्तं भवति-ग्रामाद्बहिरेव सन्ध्योपासनं कर्तव्यमित्येकेषां मतं, बहिरभ्यन्तरे वा यत्र कुत्र चिच्छुद्धदेशे कर्तव्यमिति गौतममतम् ॥ इदानीं प्रसङ्गात्तत्सन्ध्योपासनं कदा कथं च कर्तव्यमित्यत आह- तिष्ठेत्पूर्वामासीतोत्तरां सज्योतिष्या ज्योतिषो दर्शनाद्वाग्यतः ॥ २.१७ ॥ वाग्यत इति स्थानासनयोः प्रत्येकं सम्बध्यते । यस्यामादित्य उदेति सा पूर्वा सन्ध्या । पूर्वसूत्रखण्डात्सन्ध्याशब्दोऽनुवर्तते । यस्यामादित्योऽस्तमेति सोत्तरा सन्ध्या । स्थानासने अत्र गुणभूते । उपासनमत्र प्रधानं कर्म । अतो यद्यपि तिष्ठेदित्युक्तं, तथापि तिष्ठन्नुपासीत, आसीन उपासीतेति द्रष्टव्यम् । तथाच मनुः- पूर्वां सन्ध्यां जपन् तिष्ठेन्नैशमेनो व्यपोहति । पश्चिमां तु समासीनो मलं हन्ति दिवा कृतम् ॥ इति । सज्योतिः कालः, पूर्वस्यां नक्षत्रज्योतिः । यः कालो नक्षत्रज्योतिषा सह वर्तत स सज्योतिः तस्मिन् सज्योतिषि काले आरम्भः कर्तव्यः । इतरस्यां तथा आदित्यज्योतिः । तत आ ज्योतिषो दर्शनात्-पूर्वस्यामादित्यदर्शनातुत्तरस्यां नक्षत्रदर्शनात् । आ ज्योतिष इति वक्तव्ये दर्शनग्रहणं सम्पगर्थम् । तथाच मनुः- ऋषयो दीर्घसन्ध्यत्वाद्दीर्घमायुरवाप्नुयुः । प्रज्ञां यशश्च कीर्तिं च ब्रह्मवर्चसमेव च ॥ इति ॥ ननु चऽउत्तरेषां चैतदविरोधिऽ इत्यनेन स्नातकस्याग्निमत एतन्न प्राप्यते, तस्याग्निहवनेनास्य कालस्यावरुद्धत्वादिति । उच्यते-यस्तावत्स्मार्तः सायंप्रातर्हेमः तत्र कालभेदादविरोध एव । कथं ? सायंशब्देन रात्रिरुच्यते, प्रातःशब्देन च दिवसः, उदितहोमादिवाक्यवदत्र तथाविधस्याभावात्सन्ध्योपासनानन्तरमेव होमस्यानुप्रवेशः स्यादिति । अथापि केषांचित्सन्ध्याकाल एव होम उक्तः,तत्रापि दीर्घसन्ध्यत्वस्याभिष्टत्वाद्धोमानन्तरमपि सन्ध्योपासनस्यावकाशोऽस्तीति । एवं श्रौते उदितहोमादिविषयेऽप्यविरोध एवेति ॥ ऽतिष्ठन्पूर्वां सन्ध्यामासीन उत्तरामुपासीतऽ इति वक्तव्ये एवमभिधानं स्मृत्यन्तरोक्तस्यापि विधेर्ग्रहणार्थम् । तथाऽहोशना-ऽसायं प्रातरुदकं गत्वा पूतो भूत्वा पवित्रेण मार्जयित्वा आपोहिष्ठीयाभिस्तिसृभिरब्लिङ्गाभिः वामदेव्येन च, ततः शुचो देशे दर्भेष्वासीनो दर्भान्धारयमाणः प्रत्यङ्मुखो वाग्यत आत्मानं ध्यात्वा ततः सरेचकषूरककुम्भकादीन् त्रीन् प्राणायामान् धारयित्वा ऋषिच्छब्दोदेवताध्यानपूर्वकं भूर्भुवःस्वरित्यादिकां सावित्रीं सहस्रकृत्व आवर्तयेच्छतकृत्वो वा दशावरामथोत्तिष्ठम्नग्नियमब्रह्मभ्यः प्रत्यग्दक्षिणोदीच्यासु नमस्कृत्वा त्रिः प्रदक्षिणं कृत्वा पुनरपि प्रतीचीं दिशं नमस्कुर्यात् । एवमेव प्रातः प्राङ्मुखस्तिष्ठन्मित्रादिभ्यो नमस्कुर्यात्ऽ ॥ इति ॥ नादित्यमीक्षेत ॥ २.१८ ॥ यदि सन्ध्याकालयोरेवायं प्रतिषेधः स्यात्तदानीमेकमेव सूत्रं क्रियेतऽतिष्ठेत्पूर्वामासीतोत्तरां सज्योतिप्या ज्योतिषो दर्शनाद्वाग्यतो नादित्यमीक्षेतऽ इति । यदि सर्वदा स्यात्तदानींऽवर्जयेन्मधुमांसऽ इत्यादावादित्येक्षणमपि पठेत् । उभयथाकरणादन्याभिप्रायेणेदमुक्तमिति ज्ञातुं शक्यते । अभिप्रायश्च स्मृत्यन्तरोक्तो द्रष्टव्यः यथा चाहोशना-ऽनेक्षेतादित्यं सन्ध्यागतं मध्यंदिनगतं राहुग्रस्तं वारिस्थम्ऽ इति ॥ वर्जयेन्मधुमांसगन्धमाल्यदिवास्वप्नाञ्जनाभ्यञ्जनयानोपानच्छत्रकामक्रोधलोभमोहवादवादनस्नानदन्तधावनहर्षनृत्तगीतपरिवादभयानि ॥ २.१९ ॥ वर्जयेदिति प्रत्येकं सम्बध्यते । मधु माक्षिकं, तस्याबुद्धिपूर्वभक्षणे न दोषः,ऽअकामोपनतं मधु वाजसनेयके न दुष्यतिऽ इति स्मृत्यन्तरदर्शनात् । मांसं गृहस्थस्य अप्रतिषिद्धमपि । तत्राप्यातुरस्यौषधार्थं गुरोरुच्छिष्टस्य मांसस्य भक्षणे न दोषः,ऽस चेदव्याधीयीत कामं गुरोरुच्छिष्टं भैषज्यार्थे सर्वं प्राश्नीयात्ऽ इति स्मृत्यन्तरदर्शनात् । एवं चानातुरस्य श्राद्धेऽपि वर्जनीयम् । तथाच मनुः- व्रतवद्देवदैवत्ये प्रित्रयै कर्मण्यथर्षिवत् । काममभ्यर्थितोऽश्नीयाद्व्रतमस्य न लुप्यते ॥ इत्यादि । गन्धं चन्दनादि । तस्यापि सुखार्थस्य प्रतिषेधः, न देवताशिष्टस्य,ऽदेवताशिष्टमेव गृह्णीयाद्ब्रह्मचारीऽ इति स्मृत्यन्तरदर्शनात् । मालाया अपि तथैव । दिवास्वप्नो दिवा निद्रासेवनं, तदप्यातुरस्य न दोषः । अञ्जनमक्ष्णोः । अत्राप्युपभोगार्थस्य प्रतिषेधः, नौषधार्थस्य । अभ्यञ्जनं तैलेन गात्राभ्यङ्गः । केचिद्गन्धतैलस्यायं प्रतिषेध इति वदन्ति । तस्मिन्पक्षे इतरस्य न दोषः । गन्धप्रतिशेधेनैवायं प्रतिषेधः सिद्ध इति चेन्न, विशेषत एव लोकप्रसिद्धेर्न गन्धसामान्यस्य ग्रहणं भवतीति । यानं शिबिकादि । तदप्यनातुरस्यैव । उपानच्छत्रे प्रसिद्धे । मयूरपत्रकृतस्यादोषः । कामः स्त्रीगतो भोगाभिलाषः । क्रोधः परस्यानिष्टचिन्तनम् । लोभः अन्यायेन परद्रव्याद्यपहरणम् । मोहोऽज्ञानम् । वादो बहुप्रलापः । वादनं भेरीताडनादि । स्नानं शिरस्नानादि येनोपभोगः, विहितत्वादितरस्य । दन्तधावनं प्रसिद्धम् । ताम्बूलपत्रेणापि तन्न कर्तव्यंऽपङ्कदन्तो भवेद्व्रतीऽ इति स्मृत्यन्तरदर्शनात् । हर्षः प्रीतिः एवं च तद्धेतूनां नाटकादीनां प्रेक्षणस्यापि प्रतिषेधः सिद्धः, तद्दर्शने प्रीत्युत्पत्तेः निवारायेतुमशक्यत्वात् । नूत्तं गात्रविक्षेपः । गीतं गान्धर्वसम्बन्धवाक्यस्याभिधानम् । परिवादः परदोषसंकीर्तनम् । भयं परस्य भीषणं, इतरस्य परिहर्तुमशक्यत्वात् ॥ किञ्च- गुरुदर्शने कण्ठप्रावृतावसक्थिकापाश्रयणपादप्रसारणानि ॥ २.२० ॥ गुरुराचार्यादि । कुतः ? यद्याचार्यस्यैव ग्रहणं तदानीमाचार्यदर्शन इति वक्तव्यम् । गुरुग्रहणं सर्वेषां गुरूस्थानीयानामप्युपलक्षणम् । तथाच स्मृत्यन्तरं-ऽमन्यानां सर्वेषां सकाशे संकुचितस्तिष्ठेत्ऽ इति । कण्ठप्रावरणं कण्ठे वस्त्रप्रक्षेपः । अवसक्थिकां जान्वोरुपरि परिकरबन्धः । शेषं प्रसिद्धम् । परवशाद्ध्येतानि क्रियन्त इति प्रतिषेधः ॥ किञ्च- निष्ठीवितहसितविजृम्भितावस्फोटनानि ॥ २.२१ ॥ गुरुसमीपेऽन्यसमीपेऽपि वर्जनार्थं पृथगभिधानम् । निष्ठीवनं प्रसिद्धम् । हसनं परवशेऽपि यत्नतो निवारयितव्यम् । तथा चापस्तम्बः-ऽन स्मयेत यदि स्मयेतापपृह्य स्मयेतेति ब्राह्मणंऽ इति । विजृम्भणं प्रसिद्धम् । अवस्फोठनं सशब्दसन्धिप्रमोकः ॥ किञ्च- स्त्रीप्रेक्षणलम्भने मैथुनशङ्कायाम् ॥ २.२२ ॥ वर्जयेदिति वर्तते । प्रेक्षणं प्रकर्षेणेक्षणमवयवनिरूपणं, न रूपमात्रदर्शनं, तस्य निमिषतो वारयितुमशक्यत्वात् । आलम्बनं स्पर्शनम् । स्पर्शने इति वक्तव्ये एवमभिधानमभिसन्धिस्पर्शनवर्जनार्थम् । एवं च प्रमादान्न दोषः । अभिसन्ध्या त्वन्धकारादावपि स्पर्शनं न कर्तव्यम् । तदुभयं स्त्रियां न कुर्यात् । यस्यां मैथुनशङ्कान्येषां भवति तस्यामेव, नान्यस्याम् ॥ द्यूतं हीनसेवामदत्तादानं हिंसाम् ॥ २.२३ ॥ वर्जयेदित्येव । द्यूतमक्षादिना । हीनसेवाः मूत्रपुरीषापमार्जनादिना सेवा । एवं च गुरोरप्यनुरूपा सेवा न कर्तव्या । अदत्तादानमननुज्ञातस्योत्सृष्टस्यापि ग्रहणम् । हिंसा प्राणिवधः प्राणिपीडा वा । विसमासान्न कारयेन्नानुमन्येतापि ॥ किञ्च- आचार्यतत्पुत्रस्त्रीदीक्षितनामानि ॥ २.२४ ॥ वर्जयेदिति प्रस्तुतम् । आचार्यस्य तत्पुत्रस्य च तद्भार्यायाश्च दीक्षितस्य च संज्ञां पित्रादिकृतां नोच्चारयेत् ॥ किञ्च- शुक्ता वाचः ॥ २.२५ ॥ शुक्ताः निष्ठुराः परस्योग्वेगकारिण्वः । सर्वेषां वर्जयेत् ॥ मद्यं नित्यं ब्राह्मणः ॥ २.२६ ॥ वर्जयेदिति प्रकृतम् । मद्यं गुडमधुपिष्टकृतमन्यदपि यन्मदकरं यत्सर्वं ब्राह्मणो नित्यं प्रागप्युपनयनाद्वर्जयेत् । एवं क्षत्रियवैश्ययोः प्रागुपनयनादूर्ध्वं च ब्रह्मचर्यात्पैष्टीवर्जितायाः सुराया अप्रतिषेधः, स्मृत्यन्तरदर्शनात् । यथाऽह मनुः- गौडी माध्वी च पैष्टी च विज्ञेया त्रिविधा सुरा । यथैवैका तथा सर्वा न पातव्या द्विजोत्तमैः ॥ इति ॥ इदानीं कर्तव्यप्रतिपादनार्थमाह- अधःशय्यासनी पूर्वोत्थायी जघन्यसंवेशी ॥ २.२७ ॥ गुर्वपेक्षया नीचैःशय्यासने कुर्यात् । तस्यैव च पूर्वोत्थायी पश्चात्संवेशी । यथाऽह मनुः- नीचैःशय्यासनं चास्य नित्यं स्याद्गुरुसन्निधौ । उत्तिष्ठेत्प्रथमं चास्य चरमं चैव संविशेत् ॥ इति ॥ किञ्च- वाग्बाहूदरसंयतः ॥ २.२८ ॥ स्यादिति शेषः । वाक्यसंयतः अनिबद्धप्रलापोपरतः । बाहुसंयतो लोष्टमर्दनादिवर्जकः । उदरसंयतः हितमितभुक् । ऽवाग्बाहूदरकर्मसंयतःऽ इति केचित्पठन्ति । तत्बाहुसंयतत्वेनार्थसिद्धत्वात्युक्तमयुक्तं वेति विचारणीयम् ॥ किञ्च- नामगोत्रे गुरोःसमानतो निर्दिशेत् ॥ २.२९ ॥ गुरुग्रहणमाचार्यादीनामप्युपलक्षणम् । समानतः सम्यगानतः प्रह्वः । तं ध्यात्वा नमस्कारं कृत्वेत्यर्थः । एवञ्च तत्रापिऽआचार्यतत्पुत्रऽ इत्यस्मिन्नाचार्यग्रहणं गुर्वादीनामप्युपलक्षणम्, तेषामपि नामधेयोच्चारणस्य प्रतिषिद्धत्वात् । तथाच स्मृत्यन्तरम्- आचार्यं चैव तत्पुत्रं तद्भार्यां दीक्षितं गुरुम् । पितरं च पितृव्यं च मातरं मातुलं तथा ॥ हितैषिणं च विद्वांसं श्वशुरं पतिमेव च । न ब्रूयान्नामतो विद्वान्मातुश्च भगिनीं तथा ॥ यदि ब्रूयात्तु तं ध्यात्वा नमस्कृत्वा वदेदथ ॥ इति ॥ अर्चिते श्रेयसि चैवम् ॥ २.३० ॥ अर्चितो मान्यो विद्वानित्यर्थः । श्रेयान् हितैषी वयसा च वृद्ध इति द्रष्टव्यम् । चकारादेवैतस्मिन् सिद्धे एवंशब्दःसमस्तातिदेशार्थः । ततश्च गुरुदर्शने यदभिवादनादि तदत्रापि द्रष्टव्यम् ॥ शय्यासनस्थानानि विहाय प्रतिश्रवणम् ॥ २.३१ ॥ यदा गुरुराज्ञां दद्यात्तदा शयनं खट्वादि । आसनं फलकादि । स्थानं यत्र स्थितः । एतानि विहाय त्यक्त्वा प्रतिश्रवणं प्रतिवचनं दद्यादित्यर्थः ॥ अभिक्रमणं वचनाददृष्टेन ॥ २.३२ ॥ अदृष्टेन गुरुणा आज्ञायां दीयमानायामभिक्रमणं तदभिमुखेन गमनं कुर्यादित्यर्थः ॥ अधःस्थानासनतिर्यग्वातसेवायां गुरुदर्शने चोत्तिष्ठेत् ॥ २.३३ ॥ यदा गुरुः अधो नीचैः तिष्ठेतासीत वा, तिर्यग्वातसेवा मूत्रपुरीषोत्सर्गः । तत्र गुरुं दृष्ट्वा उत्तिष्ठेत् । चकारादन्यमुखो भूत्वा । तथाच स्मृत्यन्तरम्- कूपस्थितं गुरुं दृष्ट्वा तटाकस्थं तथैव च । तिष्ठेदन्यमुखो भूत्वा शिष्यो दासस्तथैव च ॥ इति ॥ अथवा-चकारादपगमनमुच्यते । एवं सूत्रार्थश्च तदानीं द्रष्टव्यः अधःस्थानासनतिर्यग्वातसेवायामुत्तिष्ठेतपयायाच्च क्रमेणेति तत्राधःस्थानासने दृष्ट्वोत्तिष्ठेत् । तिर्यग्वातसेवायामपयायादिति क्रमः ॥ गच्छन्तमनुव्रजेत् ॥ २.३४ ॥ गच्छन्तं दृष्ट्वानुव्रजेत् । चकारोऽनुवर्तते । तेन अनुक्तमपि समुच्चीयते आसीनं दृष्ट्वा उत्तिष्ठेत्शयानं दृष्ट्वाऽसीतेति । तथाच स्मृत्यन्तरम्-ऽगच्छन्तमनुगच्छेदासीनं चोत्तिष्ठेच्छयानं चासीन उपासीतऽ इति ॥ कर्म विज्ञाप्याख्याय ॥ २.३५ ॥ यदस्य कर्म कर्तव्यं तत्करोमीत्याचार्यस्य विज्ञाप्य तत्कृत्वा कृतमित्याख्याय तिष्ठेत् । वाक्यस्यापरिपूर्णत्वात्विज्ञाप्येत्यत्र कृत्वा इत्यध्याहर्तव्यम् । आख्यायेत्यत्रापि तिष्ठेदिति क्रिया च,ऽप्रविश पिण्डीम्ऽ इतिवत् ॥ आहूताध्यायी ॥ २.३६ ॥ यदैव गुरुणाऽहूतो भवति तदैवाधीयीत । न त्वेनं चोदयेदित्यर्थः ॥ युक्तः प्रियहितयोः ॥ २.३७ ॥ स्यादिति शेषः । युक्तस्तत्परः । प्रियहितयोःसमुच्चितयोः । हितस्य चाप्रियस्याकर्तव्यत्वात् । प्रियं प्रीतिकरं, हितमायतिक्षमम् । यत्प्रियमायतिक्षमं च तदेव कुर्यादित्यर्थः ॥ तद्भार्यापुत्रेषु चैवम् ॥ २.३८ ॥ तस्य यौ सवर्णौ सदृशौ भार्यापुत्रौ तयोरपि प्रियहितयोर्युक्तःस्यात् । चकारात्कण्ठप्रावृताद्यपि । कुतःसवर्णयोरेव ग्रहणमिति चेत्बहुवचनस्य पूजार्थत्वात् ॥ इदानीं तस्यापवादमाह- नोच्छिष्टाशनस्नापनप्रसाधनपादप्रक्षालनोन्मर्दनोपसंग्रहणानि ॥ २.३९ ॥ तद्भार्यापुत्रयोरेतानि न कुर्यात् । प्रियहितत्वात्प्राप्तं प्रतिषिद्ध्यते । अनयोरेव प्रतिषेधात्गुरोरेतानि कर्तव्यान्येव । तथाचापस्तम्बः-ऽप्रोषितो भैक्षादग्नौ कृत्वा भुञ्जीत भैक्षं हविषा संस्तुतं तत्राचार्यो देवतार्थ आहवनीयार्थे च तं भोजयित्वा यदुच्छिष्टं प्राश्नाति हविरुच्छष्टमेव तत्ऽ इत्यादि । तथाच वसिष्ठोऽपि-ऽउच्छिष्टमगुरोरभोज्यम्ऽ इत्यादि । प्रसाधनमलंकारः । शेषं प्रसिद्धम् ॥ उपसंग्रहणस्येदानीं प्रतिप्रसवमाह- विप्रोष्योपसंग्रहणं गुरभार्याणाम् ॥ २.४० ॥ विप्रोष्य प्रत्यागतेन गुरुभार्याणामुपसंग्रहणं कार्यम् । नान्यदा । नान्यस्याः ॥ तत्रापि तु- नैके युवतीनां व्यवहारप्राप्तेन ॥ २.४१ ॥ व्यवहारसमर्थेन पूर्णषोडशवर्षेणेत्यर्थः । युवतीनां तरुणीनां विप्रोष्यापि न कार्यमित्येके मन्यन्ते न तु गौतमः । आशङ्कनीयानाशङ्कनीयापेक्षया द्रष्टव्यः ॥ उक्तंऽअग्नीन्धनभैक्षचरणेऽ इति । तत्राग्नीन्धनं गृह्येभ्य एव पृथक्पृथगुपलभ्यत इति, भैक्षचरणविधिमाह- सार्ववर्णिकं भैक्षचरणमभिशस्तपतितवर्जम् ॥ २.४२ ॥ किमर्थमिदं सूत्रमारभ्यते ? भैक्षचरणं तावदनेन न विधीयतेऽअग्नीन्धनभैक्षचरणेऽ इत्यनेन विहितत्वात् । अभिशस्तपतिवर्जनं चऽप्रशस्तानां स्वकर्मसुऽ इत्यनेनोक्तत्वादिति ॥ अत्रैक आहुः-शूद्रप्रापणार्थोऽयमारम्भः,ऽप्रशस्तानां स्वकर्मसुऽ इत्यनेनाप्राप्तत्वादिति । न चैतद्युक्तं,ऽवृत्तिश्चेन्नान्तरेण शूद्रातित्यनेनापदि शूद्राभ्यनुज्ञानसिद्धेः । न चानापद्यपि ब्रह्मचारिणः शूद्राभ्यनुज्ञानमनेन कल्पयितुं युक्तं, स्मृत्यन्तरे अत्यन्तप्रतिषिद्धत्वात्,ऽ- शूद्रान्नरसपुष्टाङ्गो योधीयानोपि नित्यशः । जुह्वन्नपि जपन्वापि गतिमूर्ध्वां न विन्दति ॥ इति ॥ तस्मादनापद्येव ब्रह्मचारिणः अप्रशस्तद्विजातिप्रापणार्थोयमारम्भः अप्रशस्तानामविशेषेण प्राप्तौ सत्यांऽअभिशस्तपतितवर्जंऽ इति युज्यते च प्रतिषेधः । इतरथा शूद्रप्रापणे सति अभिशस्तादीनां प्राप्त्यभावादेव प्रतिषेधो न युज्यत इति न च शक्यते वक्तुं शूद्रविषय एवायमपवाद इति, यत्र हि द्विजातयः प्रशस्ता अधिक्रियन्ते तत्र शूद्रोऽपि प्रशस्त एवेति इतरस्य प्रसङ्ग एव नास्तीति ॥ तेन प्रथमकल्पस्तावत्ब्रह्मचारिणः प्रशस्तेभ्य एव भैक्षचरणं, तदलाभे अप्रशस्तेभ्यः, तदलाभे आचार्यादिभ्यः, सर्वाभावे आपदि शूद्रादिति स्थितम् ॥ सर्ववर्णानर्हतीति सार्ववर्णिकं, सर्वेषां भवतीत्यर्थः । सर्वग्रहणं क्षत्रियवैश्यप्रापणार्थं, अन्यथा ब्राह्मणस्यैव प्रतिग्रहाधिकारात्तस्यैव स्यादिति । वर्णग्रहणं शूद्रस्यापि प्रापणार्थमसति वर्णग्रहणे सर्वग्रहणं तयोरेव स्यादिति तदर्थं वर्णग्रहणं कृतम् । तेन शूद्रस्याप्राप्तौ तत्प्रापणार्थं वर्णग्रहणम् । ततश्च शूद्रस्यापि वृत्तिहीनस्य भिक्षाचरणे न दोषः । भिक्षासमूहो भैक्षं, ततश्च बहुभ्यो गृहेभ्य आहर्तव्यम् । अभिशस्त उपपातकदोषेणाभिशस्तो गृह्यते, पातकदोषेणाभिशस्तस्य पतितग्रहणेनैव सिद्धत्वात् । तथाच वसिष्ठः-ऽब्राह्मणमनृतेनाभिशस्य पतनीयेनोपपतनीयेन वाऽ इति ॥ केचित्सर्वेषु वर्णेषु भवं सार्ववर्णिकमिति विग्रहं कुर्वन्ति तेषां सर्वशब्दस्य प्रयोजनं न विद्मः । अप्रशस्तद्विजातिप्रापणार्थं चेन्न सूत्रारम्भस्यापि तस्यैव प्रयोजनत्वात् । शूद्रप्रापणार्थत्वेऽप्युक्त एव परिहारः तस्मात्तद्भूसुरैर्विचारणीयम् ॥ अदिमध्यान्तेषु भवच्छब्दः प्रयोज्यो वर्णानुपूर्व्येण ॥ २.४३ ॥ द्विपदस्य भिक्षां देहीति शब्दस्य प्रार्थनायां देहीत्यस्यापि च सार्मथ्यात्प्राप्तस्यादौ ब्राह्मणेन भवच्छब्दः प्रयोक्तव्यः, मध्ये क्षत्रियेण, अन्ते वैश्येन । भवच्छब्दस्य प्रातिपदिकत्वात्केवलस्य च प्रयोगाभावात्स्त्रीणां सकाशे तदामन्त्रितविभक्त्यन्तः प्रयोक्तव्यः, भवति भिक्षां देहीति । पुरुषसकाशे भवन् भिक्षां देहीति । प्रेत्युपसर्गात्स्मृत्यन्तरोक्तमपि द्रष्टव्यम् । तदपि क्षकारहिकारौ नोच्चैर्वक्तव्याविति । यथाह गृह्यस्मृतिःऽब्राह्मणो भिक्षेत भवति भिक्षां देहीति, भवन्मध्यया राजन्यो भिक्षां भवति देहीति, भवदन्त्यया वैश्यो भिक्षां देहि भवति, क्षां च हिं च न वर्धयेत्ऽ इति । वर्णग्रहणं शूद्रस्य मन्त्रप्रापणार्थं, ततश्च त्रयाणामेव वर्णानामन्यतमो मन्त्रो द्रष्टव्यः । अन्यो वा रचनाविशेषः कर्तव्यः । "वैश्यवच्चूद्रवृत्तिः"इति स्मृत्यन्तरदर्शनात्वैश्योक्तो वा द्रष्टव्यः । अनियतवृत्तिविज्ञापनार्थं साक्षान्मन्त्रो नोक्तः । तथा च वसिष्ठः-"अनियता च वृत्तिरनियतकेशवेषाः"इत्यादि । एकस्यैव विकल्पो मा भूदिति अनुपूर्वग्रहणम् ॥ आचार्यज्ञातिगुरुस्वेष्वलाभेऽन्यत्र ॥ २.४४ ॥ आचार्य उक्तः । ज्ञातिः सपिण्डः, गुरुर्मातुलादिः, स्वमात्मीयम् । अन्यत्रालाभे एषु भैक्षं प्रार्थनीयम् । क्रमस्तु प्रतिपादितः ॥ अत्रापि- तेषां पूर्वं पूर्वं परिहरेत् ॥ २.४५ ॥ तेषां यो यः प्रथमनिर्दिष्टः तत्र तत्र परिहरेत् । अन्यत्रालाभे पूर्वं पूर्वं परिहृत्यापि तेषामेव सकाशे भैक्षं परिचरितव्यम् । नोपाध्यायगृहादित्येवं नियमार्थं तेषां ग्रहणम् । ततश्च सर्वत्रालाभे उपाध्यायगृहादित्येव द्रष्टव्यम् । तथाच स्मृत्यन्तरं"अलाभेऽन्यत्रोपाध्यायगृहादपि"इति ॥ निवेद्य गुरवेऽनुज्ञातो भुञ्जीत ॥ २.४६ ॥ इदं भैक्षमिति गुरवे कथयित्वा ततो भुंक्ष्वेति तेनानुज्ञातो भुञ्जीत । एवञ्च निवेदनं भैक्षसंस्कारार्थं, अनुज्ञात इति वचनात् । यदि गुरुर्गृह्णीयात्तदान्यदाहर्तव्यम् ॥ असन्निधौ तद्भार्यापुत्रसब्रह्मचारिसद्भ्यः ॥ २.४७ ॥ आचार्यसन्निधानेन तद्भार्यादीनां निवेदनं यथासम्भवं कर्तव्यम् । तद्ग्रहणं भार्यापुत्रयोः समानजातीयत्वज्ञापनार्थम् । सब्रह्मचारी समानचरणः, सन् साधु प्रकृष्टगुणः ॥ तत्कथ भुञ्जीतेत्यत आह- वाग्यतस्तृप्यन्नलोलुप्यमानः सन्निधायोदकम् ॥ २.४८ ॥ वाग्यतस्तूष्णीं, तृप्यन्संतोषं कुर्वन्, पूर्वमसंतुष्टोऽप्यन्नदर्शनमात्रादेव हृष्येदित्यर्थः । तथाच स्मृत्यन्तरम्- दृष्ट्वा हृष्येत्प्रसीदेच्च प्रतिनन्देच्च सर्वशः ॥ इति । अलोलुप्यमानो विशेषस्पृहां परिहरन्नतिभोजनं वर्जयेदित्यर्थः । तथाच स्मृत्यन्तरम्- अनायुष्यमनारोग्यर्मस्वग्यं चातिभोजनम् ॥ अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् ॥ इति । अथवा भोजनविधिमपरिवर्जयन्नित्यर्थः । तथाच स्मृत्यन्तरे भोजनविधिर्द्रष्टव्यः । सम्यङि॰नधायोदकं प्राश्येत्यर्थः । समुपसर्गः स्मृत्यन्तरोक्तमार्गोपसंग्रहार्थः । तथाऽहोशना-"सत्यं त्वर्तेनेत्यादिनोदकं परिषिच्यामृतोपस्तरणमित्यादिना प्राशयेत्"इति । अथवोदकमिति कमण्डलुरुच्यते, तत्सन्निधाय । ततश्च ब्रह्मचारिणोऽपि कमण्डलुधारणं कर्तव्यम् । तथैव मनुरपि मेखलादिभिः सह प्रतिपत्तिविधानात्ब्रह्मचारिणः कमण्डलुधारणं ज्ञापयति- मेखलामजिनं दण्डमुपवीतं कमण्डलुम् । अप्सु प्रास्य विनष्टानि गृह्णीतान्यानि मन्त्रवत् ॥ इति । एवंच तत एवाचमनं कर्तव्यं, वचनसार्मथ्यात् । उच्छिष्टस्पर्शने न दोषः । स्मृत्यन्तरोक्तं वा द्रष्टव्यम् । यथाऽह वसिष्ठः- अप्सु पाणौ च काष्ठे च कल्पितः पावकः शुचिः । तस्मादुदकपाणिभ्यां परिमृज्यात्कमण्डलुम् ॥ इति । केचित्समुपसर्गादेवैतमर्थं समर्थयन्ति ॥ इदानीं यदि ब्रह्मचारी गुरोः सम्यग्विनयेनावतिष्ठेत तदानीं किं कर्तव्यमित्यत आह- शिष्यशिष्टिरवधेन ॥ २.४९ ॥ शिष्याशिष्टिः शिष्यशासनं, अवधेन वधं मुक्त्वा, निर्र्भत्सनादिना कर्तव्यमित्यर्थः । अधिकारादेव सिद्धे शिष्यग्रहणमन्यस्यापि शासनीयस्य भार्यापुत्रादेरयमेव धर्म इति ज्ञापनार्थम् ॥ अशक्तौ रज्जुवेणुविदलाभ्यां तनुभ्याम् ॥ २.५० ॥ निर्र्भत्सनादिना शासनाशक्तौ रज्ज्वा वेणुविदलेन वा । सहनिर्दिष्टयोरपि तुल्यार्थत्वात्विकल्पः । तेनापि तनुना शास्यः ॥ अन्येन घ्नत्राज्ञा शास्यः ॥ २.५१ ॥ अन्येन हस्तपादादिना क्रोधेन घ्नत्राज्ञा दण्ड्यः । गौरवार्थं राजग्रहणम् ॥ अथ कियन्तं कालमेवं वर्तेतेत्याह- द्वादश वर्षाण्येकवेदे ब्रह्मचर्यं चरेत् ॥ २.५२ ॥ एकवेदमध्येष्यमाणो द्वादशवर्षाण्यभिहितरूपं ब्रह्मचर्यं चरेत्कुर्यात् । ब्रह्मचर्यशब्देन यमनियमकलाप उच्यते, ब्रह्मार्थत्वात् ॥ प्रति द्वादश वा ॥ २.५३ ॥ प्रतिवेदं वा द्वादशवर्षाणि ब्रह्मचर्यं चरेत् ॥ सर्वेषु ग्रहणान्तं वा ॥ २.५४ ॥ सर्वेषु वेदेषु यावतैव कालेनाध्ययनमभिनिर्वर्तयेत्तावन्तमेव कालं ब्रह्मचर्यं चरेत्तस्य तदर्थत्वात् । सर्वग्रहणं यद्येकमधीयीत यदि वा द्वौ यदि वा सर्वानित्येवमर्थम् । तथाच मनुः- वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् ॥ इति । सोयमुक्तावधेरूर्द्वमर्वाग्वापवादः । नियमेनाधीतं वीर्यवद्भवतीति नियमोक्तिः ॥ विद्यान्ते गुरुरर्थेन निमन्त्र्यः ॥ २.५५ ॥ विद्यासमाप्तौ, न तु व्रतानाम्, गुरुराचार्यः अर्थेन प्रयोजनेन निमन्त्र्यः प्रष्टव्यः किं गुर्वर्थे करवाणीति ॥ ततः- कृत्वानुज्ञातस्य वा स्नानम् ॥ २.५६ ॥ कृत्वा दत्वेत्यर्थः, गुरूपदिष्टमर्थम् । तेन वा अलं गुरुदक्षिणयेत्यनुज्ञातस्य स्नानं समावृत्तिः ॥ इदानीं पित्राद्यनेकगुरुसन्निधाने कः प्रथमः पूज्य इत्यत आह- आचार्यः श्रेष्ठो गुरूणाम् ॥ २.५७ ॥ आचार्य उक्तलक्षणः, स श्रेष्ठः प्रधानो गुरूणामन्येषां पित्रादीनाम् । ततश्चऽसंनिपाते परस्यऽ इत्यत्र परशब्देनायमेवोच्यते ॥ मातेत्येके मातेत्येके ॥ २.५८ ॥ एके माता श्रेष्ठेति मन्यन्ते । इतिकरणात्पितेत्यपरे । अन्यथा मातैक इत्येव सिद्धत्वात् । केवलात्पितुराचार्यः प्रधानः । तथाच मनुः- कामान्माता पिता चैनं यदुत्पादयतो मिथः । सम्भूतिं तस्य तां विद्यात्यद्योनावभिजायते ॥ आचार्यस्त्वस्य यां जातिं विधिवद्वेदपारगः । उत्पादयति सावित्र्या सा सत्या साजरामरा ॥ इति । यदि पितैवाचार्यो भवति तदा पिता विशिष्यते । माता सर्वेषां श्रेष्ठा । तथाच वसिष्ठः- उपाध्यायद्दशाचार्य आचार्यात्तु शतं पिता । सहस्रं तु पितुर्माता गौरवेणातिरिच्यते ॥ इत्यत्र पितृशब्देन पितैवाचार्यो यो भवति स एव गृह्यत इति ॥ इति मस्करीये गौतमभाष्ये द्वितीयोऽध्यायः ॥ _______________________________________________________________________________ तृतीयोऽध्यायः एवं कृतनियमस्य कृतविद्यस्य च- तस्याश्रमविकल्पमेके ब्रुवते ॥ ३.१ ॥ तस्याखण्डितब्रह्मचर्यस्य । तथाच मनुः- वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् । अविप्लुतब्रह्मचर्यो गृहस्थाश्रममावसेत् ॥ इति । एवं च विप्लुतस्योपपातकप्रायश्चित्तं द्रष्टव्यम् । शूद्रपर्युदासार्थं वा तद्ग्रहणं, आश्रमधर्माभिधानं मा भूत्तस्यापीति । वीप्सार्थं वा तस्य तस्येति, ब्राह्मणस्य क्षत्रियस्य वैश्यस्य चेति । तद्ग्रहणमन्तरेणाप्यधिकारादेवैतत्सिद्धमिति चेन्न, स्मृत्यन्तराभासाशङ्कानिवृत्त्यर्थत्वात् । एवं हि स्मृत्यन्तरं प्रतिभाति-"एष वोऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः"इति, तत्र ब्राह्मणस्यैवायं चतुर्विधो धर्मः इतरयोरेकविध इत्याशङ्का स्यादिति । तर्हि तत्कथमिति चेत्तत्र ब्राह्मणग्रहणं प्रदर्शनार्थम् । तत्कथं गम्यत इति चेत्त्रयाणामेव वर्णानां चत्वार आश्रमा इति स्मृत्यन्तरदर्शनात् । तथा चापस्तम्बः-"सर्वेषामुपनयनप्रभृति समानमाचार्यकुले वासः सर्वेषामनूत्सर्गो विद्याया बुद्ध्वा कर्माणि यत्कामयेत्तदारभेत"इति । एके ब्रुवते,- तुल्यफलत्वादाश्रमविकल्पः । द्विविधं हि फलमभ्युदयरूपं निःश्रेयसरूपं चेति, तदन्यतमेनव लभ्यत इति । तथा च श्रुतिः-"त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमस्तप एव द्वितीयस्तृतीयमाचार्यकुले वसनमेतानारुह्य ब्रह्मलोकं गच्छति ब्रह्मसंस्थोऽमृतत्वमेति"इति । अर्थस्तु-त्रयो धर्मस्याश्रया-, यज्ञाध्ययनं दानमिति गृहस्थनिर्देशः, तप एवेति वानप्रस्थपरिव्राजकयोर्धर्मः, आचार्यकुलवसनं ब्रह्मचारिणः । एतानारुह्येति ब्रह्मचार्याश्रमं, गृहस्थाश्रमं, वानप्रस्थाश्रमं, परिव्राजकाश्रमं वा सम्यगास्थायेत्यर्थः । यस्तेषां ब्रह्मसंस्थो ब्रह्मनिष्ठो ज्ञानी अमृतत्वं मोक्षमेति गच्छतीति ॥ ततश्च सर्वेषामपि ब्रह्मलोकप्राप्तिप्रतिपादनात्, तुल्यफलतैवोक्ता । तथा जाबालश्रुतावपि तुल्यफलतैव श्रूयते-ऽब्रह्मचर्यं समाप्य गृही भवेत् । गृही भूत्वा वनी भवेत् । वनी भूत्वा प्रव्रजत् । यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेत्गृहाद्वा वनाद्वा ब्रह्मलोकं गच्छतिऽ इति । मनुरप्याह- सर्वेऽपि क्रमशस्त्वेते यथाशास्त्रं निषेविताः । यथोक्तकारिणं विप्रं नयन्ति परमां गतिम् ॥ इति । अत्रापिशब्दादेकोऽपि द्रष्टव्यः । आपस्तम्बोप्याह-ऽचत्वार आश्रमा गार्हस्थ्यमाचार्यकुले वसनं मौनं वानप्रश्थ्यामिति । तेषु सर्वेषु यथोपदेशमव्यग्रं वर्तमानः क्षेमं गच्छतिऽ इति । तेन तुल्यफलत्वाद्विकल्प इति ॥ ननु तुल्यत्वे सति ब्रह्मचर्येणैवोभयविधफलप्राप्तेरितराश्रमविधानानर्थक्यप्रसङ्गः इति । उच्यते- यो यस्यानुष्ठाने समर्थः तस्य तदाश्रमप्रतिपत्त्यर्थमितराश्रमविधानमिति । जन्मान्तरवासनया वा इष्टाश्रमप्रतिपत्त्यर्थम् । श्रुतिरुपि-"तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च"इति । यावज्जीवश्रुतिरपि गृहस्थस्यार्थिनः शक्तिविषये द्रष्टव्या । एवं गृहीते व्युत्थानश्रुतिरप्युपपद्यते-ऽएवं वै तमात्मानं विदित्वा पुत्रेषणायाश्च वित्तेषणायाश्च लोकेषणायाश्च व्युत्थायाथ भिक्षाचर्यं चरन्तिऽ इति । इतरथा हि भिक्षाचर्यमिति संन्यासोपदेशो नोपपद्यत इति । जायमानश्रुत्यापि यज्ञादीनामवश्यकर्तव्यता प्रतिपाद्यते गृहस्थस्य, न तु जायमानस्यैव, ऋणत्रयसम्बन्धस्यात्यन्तासम्भवात्ऽब्रह्मचर्यादेव प्रव्रजेत्ऽ इति श्रुतिविरुद्धत्वात्ऽसोऽत एव ब्रह्मचर्यात्प्रव्रजति,ऽऽयमिच्छेत्तमावसेत्ऽ इत्यादिस्मृतेरविरुद्धत्वाच्च । अर्थवादानां च कार्यशेषत्वात् । ततश्च पदार्थोऽप्येवं ग्रहीतव्यः-गृहस्थो जायमानः पूर्ववासनया गार्हस्थ्यं प्रविष्टः । ब्रह्मणग्रहणं क्षत्रियवैश्ययोरुपलक्षणम् । त्रिभिः ॠणैः सम्बध्यते-यज्ञेन देवेभ्य ॠणी भवत्यतो यज्ञः कर्तव्यः । प्रजया पितृभ्यः अतः प्रजोत्पादनं कर्तव्यम् । ब्रह्मचर्येण ॠषिभ्यः अतः पर्वादौ ब्रह्मचर्यरक्षणं कर्तव्यमिति । एवं गृहीते सर्वत्र श्रुतिस्मृत्यरविरोधो भवति । एकेग्रहणान्न तु गौतमः, तस्य तु समुच्चयो मतः । कथमवगम्यते ?"ऐकाश्रम्यं त्वाचार्याः"इति बाधपक्षस्यापि परमतत्वेन निर्देशात्,"प्रागुत्तमात्त्रय आश्रमिणः"इति च लिङ्गात्,प्रागुत्तमाश्रमात्त्रयस्याभावात् । विकल्पपक्षे गौतमस्तावदेवं मन्यते- यज्ञेन देवानाप्नोति वैराजं तपसा पुनः । संन्यासाद्ब्रह्मणः स्थानं वैराग्यात्प्रकृतौ लयम् ॥ इति भिन्नफलत्वेनोपदेशात्जाबालश्रुतावप्यन्यतममारुह्येत्यनुक्त्वा एतानारुह्येति समुच्चयाभिप्रायेणोक्तत्वात्, ब्रह्मलोकप्राप्तेरपि समुच्चयफलत्वेनोपदिष्टत्वात्जाबालश्रुतावपि प्राधान्येन पूर्वं समुच्चयपक्षस्यैवाभिहितत्वात्,ऽसर्वेऽपि क्रमशःऽ इत्यस्मिन्मनुवाक्येऽपिशब्दस्य समुच्चयार्थत्वात्, आपस्तम्बवाक्येऽपि तेषु सर्वेष्विति बहुवचनात्- नैकस्मिन्नेव वर्तमानः किं तु सर्वेष्वेव वर्तमान इत्यभिप्रायेणोक्तत्वात्, ऋणत्रयश्रुतेरपि यथार्थ एवोपपद्यमानत्वात्,"पूर्वप्रज्ञा च"इति श्रुतेरपि विद्याभिप्रायेणोपपद्यमानत्वात्, यावज्जीवश्रुतेरपि"गृही वनं प्रविशेद्यदि गृहमेव कामयेत तदा यावज्जीवसग्निहोत्रं जुहुयात्"इति जाबालश्रुतिवाक्ये अनित्यत्वदर्शनात्, अस्मिन् पक्षे व्यत्थानश्रुतेरपि सुतरामुपपद्यमानत्वात्,"चतुर्थमायुषो भागं"इत्यनेनापि मनुना समुच्चयपक्षमेवाश्रित्योक्तत्वात्, समुच्चयपक्ष एव श्रेयानिति । अत एव विकल्पबाधपक्षौ परमतत्वेनोपन्यस्तौ । एवञ्च -"यमिच्छेत्तमावसेत्"इत्यादिवाक्यानि विकल्पाचार्यदर्शनेनोक्तानीति द्रष्टव्यानि । असमर्थो यः समुच्चयानुष्ठाने अन्धपङ्गुत्वादिदोषेण निःस्वत्वादिना वा तेन विकल्पपक्षोऽप्याश्रयणीयः इत्यभिप्रायेण ब्रुवत इत्यर्थसिद्धस्याप्युपन्यासः । अथवा-योऽध्यात्मज्ञानी तेन विकल्पपक्ष आश्रयणीयः,इतरेण समुच्चयपक्ष इति । कुतः ? अनुष्ठानस्य विज्ञानोत्पत्तिः प्रयोजनम् । तस्मिन्नुत्पन्ने यत्र क्वाप्याश्रमे स्थितस्य पुरुषार्थः सिध्यतीति । आश्रमग्रहणं संव्यवहारार्थंऽवर्णानाश्रमांश्चऽ इत्यादौ ॥ के पुनस्त आश्रमा इत्यत आह- ब्रह्मचारी गृहस्थो भिक्षुर्वैखानसः ॥ ३.२ ॥ ब्रह्मचर्यं चरतीति, ब्रह्मण एव वा विषये निःस्पृहश्चरतीति, ब्रह्मचारी । गृहं पत्नी तत्संयोगादगृहस्थः । भिक्षाशीलत्वादिभक्षुः । विखनसा प्रोक्तं शास्त्रं वैखानसं तद्विधिना वर्तत इति वैखानसः । विसमास एषामेव पृथक्त्वज्ञापनार्थः, यथाऽहोशना-ऽद्वौ ब्रह्मचारिणावुपकुर्वाणो नैष्ठिकश्चेति, द्वौ वैखानसौ सपत्नीको विपत्नीकश्चेति, द्वौ संन्यासिनौ भिक्षुसन्यासी वेदसन्यासी चेति, बहुधा गृहस्थः शालीनयायावरादिभेदेनऽ इत्यादि । ननु च स्मृत्यन्तरे वैखानसमभिधाय भिक्षुरित्युक्तः इह किमर्थं क्रमभेद इति । उच्यतेऽप्रागुत्तमास्त्रय आश्रमिणःऽ इत्यत्र वैखानसवर्जनार्थः क्रमभेदः । तस्य ग्रामप्रवेशनप्रतिषेधादेव सिद्धमिति चेत्न, अर्थिनामरण्यगमनस्यापि सम्भवात्तथाच स्मृत्यन्तरम्- चातुर्वैद्यो विकल्पी च नैरुक्तो धर्मपाठकः । ब्रह्मचारी गृही भिक्षुः पर्षदेषा दशावरा ॥ इति ॥ केचित्तु- प्रजापत्यां निरुप्येष्टिं सर्ववेदसदक्षिणाम् । आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजेत्गृहात् ॥ इति स्मृत्यन्तरमवलम्ब्य गार्हस्थ्यादेव संन्यासः कर्तव्य इत्येवमर्थः क्रमभेद इति वर्णयन्ति । तत्पूर्वसूत्रेणैव प्रतिपादितमुत नेति भूसुरैर्विचारणीयम् ॥ तेषां गृहस्थो योनिरप्रजनत्वादितरेषाम् ॥ ३.३ ॥ चतुर्णामप्याश्रमाणां गृहस्थः कारणं, अप्रजनत्वादितरेषां ब्रह्मचार्यादीनाम् । वैखानसार्था हेतूक्तिः, ब्रह्मचारिणो ब्रह्मचर्यरक्षणादेव सिद्धत्वादिभक्षोरप्यूर्ध्वरेतस्त्वविधानात् । एवं च वैखानसस्य सपत्नीकत्वपक्षेऽपि ब्रह्मचर्यरक्षणं कर्तव्यम् । अधिकारादेव सिद्धेऽतेषांऽ ग्रहणं गृहस्थोत्पन्नानामेव तेषां धर्मे आधिकार इत्येवमर्थम् । तथाच शातातपः- चण्डालाः प्रत्यवसिताः परिव्राजकतापसाः । तेषां जातान्यपत्यानि चण्डालैःसह वासयेत् ॥ इति तेषां गृहस्थ एव योनिरित्युक्ते एवकारादेवेतरेषां ब्रह्मचर्यरक्षणे सिद्धे एवमभिधानमेषां पुनर्निवृत्तिर्मा भूदिति । यदि ते गार्हस्थ्यं प्रति निवृत्ति भवेयुः तदा ते चण्डाला भवन्ति कुतः ? उदाहृतशातातपवचनात् । तत्र- चण्डाला भवन्ति । प्रत्यवसिताः प्रतिनिवृत्ताः ये परिव्राजकतापसाः नैष्ठिकवैखानसाः तस्मात्तेषां जातान्यपत्यानि चण्डालैःसहवासयेद्राजा ग्रामो वेत्यर्थः ॥ इदानीमाश्रमधर्मेषु क्रमेण वक्तव्येषु प्राप्तेषु सर्वाश्रमसाम्यादुपकुर्वाणस्य पूर्वमुक्त्वा नैष्ठिकस्य क्रमेण प्राप्तं वक्तुमाह- तत्रोक्तं ब्रह्मचारिणः ॥ ३.४ ॥ तत्रोपनयनप्रकरेण यदग्नीन्धनाद्युक्तं तदस्यापि भवतीत्यतिदेशः । ननु च नैष्टिकस्यैवेदं नोपकुर्वाणस्येति कथं ज्ञायत इति ? उच्यते उपकुर्वाणस्योक्तत्वात्, गृहस्थभिक्षुवैखानसानां वक्ष्यमाणत्वात्, नैष्टिकस्यैव भवतीति । तर्हि ब्रह्मचारिग्रहणं किमर्तमिति चेत्येनोपकुर्वाणव्रतमनुष्ठितं तस्यैव नैष्ठिकत्वस्याधिकार इत्येवमर्थम् । अतिदेशातुपकुर्वाणव्रतमेव नैष्ठिकस्याप्यनुष्टातव्यमित्युक्त्वा इदानीमस्य विशेषविधिमाह- आचार्याधीनत्वमान्तम् ॥ ३.५ ॥ आचार्यपारतन्त्र्यं तच्चित्तानुविधायित्वमा मरणात्कर्तव्यम् ॥ किंच- गुरोः कर्मशेषेण जपेत् ॥ ३.६ ॥ गुरुशुश्रूषातिरिक्तकाले जपं कुर्यात् । एवं च जप एवास्य विशिष्टं धर्मसाधनमिति ॥ आचार्य इति प्रकृते गुरुग्रहणं मातापित्रोरपि शुश्रूषाप्रापणार्थम् । तथाच मनुः- तेषां त्रयाणां शुश्रूषा परमं तप उच्यते । न तैरनभ्यनुज्ञातो धर्ममन्यं समाचरेत् ॥ इति ॥ गुर्वभावे तदपत्ये वृत्तिः ॥ ३.७ ॥ गुरोरभावे तदपत्ये शुश्रूषा, अध्यापयितुरभावे तदपत्ये शुश्रूषेति नियमार्थम् । गुरुग्रहणं समानजातीयापत्यग्रहणार्थम् । अपत्यग्रहणं भार्यानिवृत्त्यर्थम् ॥ तदभावे वृद्धे सब्रह्मचारिण्यग्नौ वा ॥ ३.८ ॥ तदभावे गुरुपुत्राभावे विद्यादिभिर्वृद्धे, तदभावे सब्रह्मचारिणिं समानचरणे, तदभावे अग्नौ । अग्नेः शुश्रूषा ज्योतीरूपस्याग्नेर्ध्यानम् ॥ किं पुनरस्याश्रमस्य फलमित्यत आह- एवंवृत्तो ब्रह्मलोकमवाप्नोति जितेन्द्रियः ॥ ३.९ ॥ एवं यथोपदेशं वर्तमानो ब्रह्मलोकं ब्रह्मणः स्थानमवाप्नोति स चेज्जितेन्द्रियो भवति । ब्रह्मचर्यरक्षणोपदेशातुपस्थेन्द्रियस्योक्तत्वातिदं चक्षुरादिविषयं द्रष्टव्यम् । यथाऽह मनुः- श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नर । न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः ॥ इति । उत्तरेषामप्येतदेव प्रधानमित्येवमर्थं फलावसाने विधानम् ॥ इदानीमन्येषामपि सामान्यधर्ममाह- उत्तरेषां चैतदविरोधि ॥ ३.१० ॥ यद्ब्रह्मचारिण उक्तं तदुत्तरेषामपि भवति यदविरुद्धं द्यूतादिवर्जनम् । यद्विरुध्यते तद्व्यावर्तते यथाग्निकार्यं प्रव्रजितस्य, गुरुकुलवासो वैखानसस्य, गृहस्थस्य ब्रह्मचर्यरक्षणम् । चशब्दः उत्तरस्य यद्वक्ष्यमाणं तदप्यविरुद्धं पूर्वेषामपि भवतीति ज्ञापयति,ऽयथा न म्लेच्छाशुच्यधार्मिकैःसह सम्भाषेतऽ इत्यादि ॥ अनिचयो भिक्षुः ॥ ३.११ ॥ इदानीं क्रमप्राप्तस्य गृहस्थस्य धर्मा वक्तव्याः, तान्विलङ्घ्य किमर्थं भिक्षोरभिधीयत इति चेत्,अत्रोच्यते- बहुवक्तव्यो गृहस्थः । तस्याभिधीयमानाः धर्माः अविरुद्धाः केचित्कथं नाम पूर्वेषां स्युरिति तदर्थं व्युत्क्रमेणाभिधानम् । तर्हि वैखानसस्य वक्तव्य इति चेत्, उपन्यासक्रमेणोक्तत्वाददोषः ॥ अतो भिक्षोस्तावदुच्यते । अनिचयशब्देनौपचयिकद्रव्यस्य त्याग उच्यते, न नित्यद्रव्यस्य शिखायज्ञोपवीतादेः ॥ ननु च नित्यस्यैव त्यागो युक्तः उपवीतशब्देन न्यासविशेषोऽभिधीयते- उद्धृते दक्षिणे पाणावुपवीत्युच्यते बुधैः ॥ इति ॥ यथार्थमुपवीतं यज्ञोपवीतम् । अस्य यज्ञाधिकाराभावात् । न कुण्ड्यां नोदके सङ्गे न चेले न त्रिपुष्करे ॥ नागारे नासने नान्ने यस्य स्यान्मोक्षवित्तु सः ॥ इति कुण्ड्यादीनां त्यागोपदेशात् । जाबालश्रुतावपि-ऽनखानि निकृत्य यज्ञोपवीतं विसृज्यऽ इति यज्ञोपवीतस्य त्यागोपदेशाच्चेति ॥ उच्यते-प्रथमं तावद्यदुक्तं यज्ञाधिकाराभावातिति तत्र यागशब्दो देवपूजनादावपि वर्तते देवपूजनं त्वस्य ध्यानेन परमात्मपूजनामस्त्येव कुतः ? अरण्यनित्यस्य जितेन्द्रियस्य सर्वात्मकप्रीतनिवर्तकस्य । अध्यात्मचिन्तागतमानसस्य ध्रुवा ह्यनावृत्तिरुपेक्षकस्य ॥ इति स्मृत्यन्तरदर्शनातौत्मयाग एवाधिकारात् । तथाच श्रूयते श्रुतौ-ऽधर्माधर्मौ हविर्मनःस्रुवः प्राणोऽध्वर्युरिन्द्रियाण्युद्गातारः शब्दादयो होता एतै ऋत्विग्भिस्तेन स्रुवेण तद्धविरहरहर्यतिना परमात्मन्यग्नौ होतव्यम्ऽ इति । अतो योगाधिकारसद्भावाददोषः । यच्चोक्तम्-ऽन कुण्ड्यां नोदके सङ्गःऽ इति तत्रापि कुण्डिकादीनां वैचित्र्यवर्जनार्थः सङ्गस्यैव परित्यागः, न कुण्डिकादेः । कुतः ? तत्रैव ऽयज्ञोपवीत्युदककमण्डलुहस्तःऽ इति वक्ष्यमाणत्वात् । तत्रऽसर्वाश्रयाणां धर्मिष्ठंऽ इति सर्वाश्रमाधिकारात्सामान्यत्वेन वर्तमानोऽपि विशेषधर्मेण बाध्यत इति चेत्, न, यदि सर्वाश्रमाधिकारस्तत्रेष्यते तत्र प्रकरणे वाक्यार्थघटनार्थंऽयज्ञोपवीत्युदककमण्डलुहस्तत्वम्ऽ इति भावप्रत्ययेनैवावक्ष्यत्ऽपैशुनमत्सराभिमानाहंकारानार्जवात्मस्तवपरगर्हदम्भलोभक्रोधमोहविवर्जनं सर्वाश्रमाणां धर्मिष्ठम्ऽ इति पूर्वमुक्त्वा ततश्चाभावप्रत्ययेन विशेषोद्देशेनऽयज्ञोपवीत्युदककमण्डलुहस्तःऽ इति निर्देशः सर्वाश्रमाधिकारनिवृत्त्यर्थ इति ज्ञातुं शक्यते । ततस्तत्र सर्वाश्रमाधिकाराभावात्पूर्वापरविरोधप्रसङ्गो मा भूदितिऽन कुण्ड्यां नोदके सङ्गःऽ इति सङ्गमात्रस्यैव त्यागः क्रियत इति ग्रहीतुं शक्यत एवेति । तदर्थ एव सङ्गशब्दस्यापि निर्देशः । तस्मात्तेनापि न कुण्ड्यादीनां त्यागः यच्चोक्तम्-ऽनखानि निकृत्य यज्ञोपवीतं विसृज्यऽ इति तत्रापि प्रथमं संन्यासाश्रमप्रवेशकाले पुराणस्य यज्ञोपवीतस्य त्यागमात्रं क्रियते, न तदानीं गृह्यमाणस्य प्रतिषेधः । कुतः ?ऽनखानि निकृत्य पुराणं वस्त्रं यज्ञोपवीतं कमण्डलुं त्यक्त्वा नवानि गृहीत्वाऽश्रमं प्रविशेत्ऽ इति स्मृत्यन्तरश्रवणात् । तस्मादौपचयिकतद्द्रव्यस्य त्यागः ॥ किञ्च-नित्यद्रव्यत्यागे भिक्षोराचमनाभावश्च प्राप्नोति,ऽआचमने यज्ञोपवीतिऽ इत्यारम्भात्तदभावे आचमनस्याप्यभावः प्राप्नोतीति । ऽमुण्डशिखी वाऽ इति मुण्डपक्षे आचमनाङ्गशिखावर्जितस्यापि आचमनं युष्माभिरभ्युपगम्यते, तद्वदस्माभिरपीति चेत्, न, तत्र वचनाददोषःऽमुण्डःशिखी वाऽ इति । युष्माकं तु यज्ञोपवीतं त्यक्तव्यमिति वचनाभावाद्दोष एवेति ॥ भिक्षुरनिचय इति वक्तव्ये धर्मास्यादावभिधानं नित्यस्याग्निहोत्रदारादेरपि त्यागार्थम् । एवं च गार्हस्थ्यादेव यः प्रव्रजेत्तेन श्रौतस्य च स्मार्तस्य चाग्नेः दारपुत्रप्रपञ्चयज्ञादिसहितस्य त्यागः कर्तव्यः । वैसानसादेव यः प्रव्रजेत्तत्रापि सपत्नीकपक्षे प्राप्तस्य दारस्य श्रामणकाग्निसहितस्य पञ्चयज्ञादेरपि त्यागः कर्तव्यः ॥ केचिन्नैष्ठिकस्याप्यनिचयत्वविधानार्थमादाबभिधानमिति वर्णयन्ति । तदयुक्तं,ऽगुरोः कर्मशेषेण जपेत्ऽ इति जपस्यैव प्रधानत्वेनोपदिष्टत्वात्तेनैवाग्निपरिग्रहादेरप्यभावो ज्ञातुं शक्यत एवेति ॥ ऊर्ध्वरेताः ॥ ३.१२ ॥ ऽउत्तरेषां चैतदविरोधिऽ इत्यनेन ब्रह्मचारिणः उक्तेन ब्रह्मचर्यरक्षणेनास्यापि सिद्धेरूर्ध्वरेतोग्रहणं यथा यथा रेतसः क्षयो भवति तथा तथोपायः कर्तव्य इत्येवमर्थम् । उपायश्चाल्पान्नाभ्यवहारादि । यथा चाह भगवान्वासुदेवः- विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्जं रसोप्यस्य परं दृष्ट्वा निवर्तते ॥ इति । तथाल्पान्नाम्यवहाराभिप्रायेण स्मृत्यन्तरेऽप्युक्तम्ऽअष्टौ ग्रासा मुनेर्भक्षःऽ इत्यादि । एवंच ब्रह्मचारिणः संपूर्णभोजने न दोषः । तथा च स्मृत्यन्तरम्- अनड्वान्ब्रह्मचारी च आहिताग्निश्च ते त्रयः । भुञ्जाना एव सिध्यन्ति नैषां सिद्धिरनश्नताम् ॥ इति । ध्रुवशीलो वर्षासु ॥ ३.१३ ॥ वर्षास्विति बहुवचनात्ग्रामाद्ग्रामान्तरं चतुर्षु मासेषु न गच्छेदित्यर्थः । एकत्रापि वसन्न चङ्क्रमणप्रयासः स्यादिति शीलग्रहणम् । अनेनैवास्यानिकेतनत्वं सिध्यति । तथाच स्मृत्यन्तरम्-ऽग्रामान्ते देवगृहे शून्यागारे वृक्षमूले वाऽ इति । शीलग्रहणं च कुर्वन्नेतत्ज्ञापयति, नावश्यमेवं भवेत् । ततश्च दुर्भिक्षराष्ट्रभ्रंशादौ गच्छेदपीति ॥ भिक्षार्थी ग्राममियात् ॥ ३.१४ ॥ भिक्षा भिक्ष्यमाणत्वादन्नं वासः कमण्डल्वादिः, तदर्थं ग्रामं गच्छेतर्थाच्छेषं कालमरण्ये देवायतनादौ तिष्ठेदिति सिद्धम् ॥ ब्रह्मचारिभिक्षाकाले प्राप्त आह- जघन्यमनिवृत्तं चरेत् ॥ ३.१५ ॥ जघन्यं भोजनक्रियातः पश्चादित्यर्थः । तथाच मनुः- विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने । वृत्ते शरावसंपाते भिक्षां नित्यं यतिश्चरेत् ॥ इति । अनिवृत्तं यस्मिन् गृहे प्रत्याख्यातं तस्मिन्दिने तद्ग्रहं पुनर्न प्रविशेदित्यर्थः । चरेदिति स्मृत्यन्तरोपसङ्ग्रहणार्थम् । यथाऽह वसिष्ठः-ऽविधूमे सन्नमुसले एकशाठीपरिहितोऽजिनेन वाऽ इति ॥ निवृत्ताशीः ॥ ३.१६ ॥ भिक्षादानाभिवादनादावाशिषामप्रयोक्तेत्यर्थः । ऽहिंसानुग्रहयोरनारम्भीऽ इत्यनेनैवेतल्लभ्यमिति चेत्, न , क्रियारूपत्वादनुग्रहस्य, वागात्मकत्वादाशिषः ॥ वाक्चक्षुःकर्मसंयतः ॥ ३.१७ ॥ ब्रह्मचारिप्रकरणेऽवाग्बाहूदरसंयतःऽ इत्यनेनैव सिद्धे अतिशयार्थं पुनर्वचनम् । अतो वाक्संयमो मौनम्, अन्यत्र स्वाध्यायजपपथिप्रश्नधर्मयोगप्रश्नेभ्यः- धर्मयोगं पथिप्रश्नं स्वाध्यायं च तथैव च । भिक्षार्थं देहिवचनं न निन्दति यतेरपि ॥ इति स्मृत्यन्तरवचनात् । चक्षुःसंयमः, आत्मनो व्याधेरपीक्षणं न कर्तव्यम् । तथा च वसिष्ठः-ऽउपेक्षकःसर्वभूतानाम्ऽ इति । कर्मसंयमः यावद्विहितानुष्ठानमात्रं, काम्ये प्रवृत्तिर्मा भूदिति ॥ इदानींऽअनिचयो भिक्षुःऽ इत्यनेन सर्वस्यैपचयिकद्रव्यस्य परित्यागे सति प्रतिप्रसवः क्रियते- कौपीनाच्छादनार्थं वासो बिभृयात् ॥ ३.१८ ॥ कौपीनामिति नग्नतोच्यते । तदावरणमात्रं वासः परिदध्यात् । एवं च प्रशस्तद्विजातिभ्यस्तावन्मात्रप्रतिग्रहे न दोष । ततश्च- अभयं सर्वभूतेभ्यो दत्वा यस्तु निवर्तते ॥ हन्ति जातानजातांश्च प्रतिगृह्णाति यःसदा ॥ इति स्मृत्यन्तरे यद्दोषसंकीर्तनं तदस्मादन्यत्रेति द्रष्टव्यम् ॥ प्रहीणमेके निर्णिज्य ॥ ३.१९ ॥ एके मन्यन्ते प्रतिग्रहदोषपरिहारार्थं प्रहीणं यद्रथ्यादौ त्यक्तं तत्प्रक्षाल्य परिदध्यात्निर्णिज्येति प्रत्यात्मिकशौचप्रापणार्थम् ॥ नाविप्रयुक्तमोषधिवनस्पतीनामङ्गमुपाददीत ॥ ३.२० ॥ ओषधयः फलपाकान्ताः । अपुष्पेण ये फलवन्तस्ते वनस्पतयः । उभयग्रहणेन सर्वे स्थावरा अपि गृह्यन्ते । तेषामविप्रयुक्तं ततोऽनपगतं शाखापत्रादि न गृह्णीयात्ऽहिंसानुग्रहयोरनारम्भीऽ इत्यनेन सिद्धमिति चेत्, तत्र जङ्गमवध एव हिंसेति केचिद्वदन्ति । तदभिप्रायेणोक्तत्वाददोषः । उपशब्दात्प्रयोजयितापि न स्यात् ॥ ध्रुवशीलत्वोपदेशाद्वर्षाभ्योऽन्यत्र कामचारे प्राप्ते आह- द्वितीयामपर्तु रात्रिं ग्रामे वसेत् ॥ ३.२१ ॥ ऋतुशब्देन वर्षा एवोच्यन्ते । अपगते ऋतौ द्वितीयां रात्रिं ग्रामे न वसेत् । एकस्मिन्ग्रामे दिनद्वयं न वसेदित्यर्थः । ग्रामग्रहणादरण्ये न दोषः । अपर्तुग्रहणाद्वर्षासु कदाचित्द्वितीयामपि वसतो न दोषः । वर्षाशब्देन हेमन्तग्राष्मावुच्येते । ततश्च तस्मिन्वर्षाकाले एकत्रैव वसेदन्यत्र न वसेदित्यर्थसिद्धम् ॥ मुण्डःशिखी वा ॥ ३.२२ ॥ जटिलप्रतिषेधार्थ आरम्भः । इच्छातो विकल्पः । वर्जयेद्बीजवधम् ॥ ३.२३ ॥ बीजानां व्रीह्यादीनां वधमवहननादि न कुर्यात् ॥ समो भूतेषु ॥ ३.२४ ॥ सर्वप्राणिषु मध्यस्थः स्यातात्मपरपक्षविभागवर्जक इत्यर्थः ॥ हिंसानुग्रहयोरनारम्भी ॥ ३.२५ ॥ ब्रह्मचारिप्रकरणे हिंसामित्यनेनैव सिद्धे अतिशयार्थमिदं पुनर्वचनम् । ततश्चाज्ञातेऽपि प्राणिवधे अहरहस्तत्परिहारार्थं प्रायश्चित्तं कर्तव्यम् । तथाचाहोशना-ऽअज्ञातवधशुद्ध्यर्थं रात्रावहस्त्रीन्मप्राणायामान्धारयेत्ऽ इति । अनुग्रहशब्देन स्नेह उच्यते । तमपि न कुर्यादित्यर्थः ॥ भिक्षोरुक्त्वा इदानीं वैखानसधर्ममाह- वैखानसो वने मूलफलाशी तपःशीलः ॥ ३.२६ ॥ वैखानसशब्दः सृतनिर्वचनः । सोऽरण्ये वसन्मूलाद्यशनशीलः स्यात्, न संस्कृतमन्नमश्नीयादित्यर्थः । तपःशीलः शरीरपरिशोषणशीलः । एवंच मूलफलाद्यपि स्वल्पमेवाश्नीयात्, स्मृत्यन्तरदर्शनात्षोडशकृत्व एवऽवानप्रस्थस्य षोडशऽ इति ॥ श्रामणकेनाग्निमाधाय ॥ ३.२७ ॥ श्रामणको नाम वैखानसानां शास्त्रम् । तेनाग्निमाधाय गृहीत्वा सायंप्रातर्हेमं कुर्यादिति शेषः ॥ अग्राम्यभोजी ॥ ३.२८ ॥ मूलफलमपि ग्राम्यं न भक्षयेत् ॥ देवपितृमनुष्यभूतर्षिपूजकः ॥ ३.२९ ॥ ग्राम्यान्नसाधनाः गृहस्थस्य पञ्च महायज्ञाः । अस्य चाग्राम्याहारप्रतिषेधात्तन्निवृत्तिर्मा भूदित्यारम्भः । तथाच मनुः- आरण्यैर्विविधैर्मेध्यैः शाकमूलफलेन वा । एतानेव महायज्ञान्निर्वपेद्विधिपूर्वकम् ॥ सर्वातिथिः प्रतिषिद्धवर्जम् ॥ ३.३० ॥ यावदस्य आश्रमं गच्छति तत्सर्वमस्यातिथिरेव । ऽब्राह्मणस्यानतिथिरब्राह्मणःऽ इत्यादिवर्णनियमः सङ्ख्यानियमो वा नास्तीत्यर्थः । प्रतिषिद्धाः स्तेनादयः प्रतिलोमजाश्च, तद्वर्जम् ॥ वैष्कमप्युपयुञ्जीत ॥ ३.३१ ॥ विष्कैर्व्याघ्रादिभिर्हतस्य पशोर्मांसं वैष्कम् । तदुपयुञ्जीत । अपिशब्दो गर्हायाम् । ततश्चापद्येवोपयुञ्जीत ॥ न फालकृष्टमधितिष्ठेत् ॥ ३.३२ ॥ अरण्येऽपि फालकृष्टप्रदेशं नाक्रामेत, आवासं तत्र न कुर्यादित्यर्थः । आक्रामेदिति सिद्धे अधितिष्ठेदिति वचनं प्रमादादाक्रमतो दोषाभावज्ञापनार्थम् । कृष्टमिति सिद्धे फालग्रहणं क्षेत्रसमीपे वासप्रतिषेधार्थम् ॥ ग्रामं च न प्रविशेत् ॥ ३.३३ ॥ अफालकृष्टेनापि मार्गेण जनवासं न प्रविशेत् । चशब्दाद्ग्रामान्तरमपि ॥ जटिलश्चीराजिनवासाः ॥ ३.३४ ॥ जटिलः केशी । जटिल एव स्यादिति नियमार्थ आरम्भः । चीरं दर्भादिनिष्पन्नम् । इदमधोवासो द्रष्टव्यम् । अजिनं चर्म । उत्तरीयमिदम् । तथाच स्मृत्यन्तरम्-ऽचीरवासा अजिनोत्तरीयश्चऽ इति ॥ नातिसंवत्सरं भुञ्जीत ॥ ३.३५ ॥ मूलफलमपि गतसंवत्सरं न भुञ्जीत । तथाच मनुः-ऽत्यजेदाश्वयुजे मासिऽ इत्यादि । एवंच संवत्सरमात्रनिचयः सिद्धः ॥ वैखानसस्योक्त्वा इदानीमेकीयमतेनाश्रमबाधपक्षं वक्तुकाम आह- ऐकाश्रम्यं त्वाचार्यः प्रत्यक्षविधानात्गार्हस्थस्य गार्हस्थस्य ॥ ३.३६ ॥ एकाश्रमे भवमैकाश्रम्यम् । तुशब्दोऽवधारणे । गार्हस्थस्येति कर्मणि षष्ठी । गार्हस्थ्यमेवाचार्या इच्छन्ति । कुतः ? प्रत्यक्षविधानातुपलब्धश्रुतिविधानादित्यर्थः । यद्यपि गृहस्थोभवेदित्येवं न विहितम्, तथाप्यग्निहोत्रादिगृहस्थसाध्यक्रियाविधानात्तस्यैव विधानं द्रष्टव्यम् ॥ इति मस्करीये गौतमभाष्ये तृतीयोऽध्य्