हर्षचरितम् प्रथम उच्छ्वासः नमस्तुङ्गशिरश्चुम्बिचन्द्रचामरचारवे । त्रैलोक्यनगरारम्भमूलस्तम्भाय शम्भवे ॥ १.१ ॥ हरकण्ठग्रहानन्दमीलिताक्षी नमाम्युमाम् । कालकूटविषस्पर्शजातमूर्च्छागमामिव ॥ १.२ ॥ नमः सर्वविदे तस्मै व्यासाय कविवेधसे । चक्रे पुण्यं सरस्वत्या यो वर्षमिव भारतम् ॥ १.३ ॥ प्रायः कुकवयो लोके रागाधिष्ठितदृष्टयः । कोकिला इव जायन्ते वाचालाः कामकारिणः ॥ १.४ ॥ सन्तिश्वान इवासंख्या जातिभाजो गृहे-गृहे । उत्पादका न बहवः कवयः शरभा इव ॥ १.५ ॥ अन्यवर्णपरावृत्त्या बन्धचिह्ननिगूहनैः । अनाख्याताः सतां मध्ये कविश्चौरो विभाव्यते ॥ १.६ ॥ श्लेषप्रायमुदीच्येषु प्रतीच्येष्वर्थमात्रकम् । उत्प्रेक्षा दाक्षिणात्येषु गौडेष्वक्षरडेम्बरम् ॥ १.७ ॥ नवोर्ऽथो जातिरग्राम्या श्लेषोऽक्लिष्टः स्फुटो रसः । विकटाक्षरबन्धश्च कृत्स्नमेकत्र दुष्करम् ॥ १.८ ॥ किं कवेस्तस्य काव्येन सर्ववृत्तान्तगामिनी । कथेव भारती यस्य न व्याप्नोति जगत्त्रयम् ॥ १.९ ॥ उच्छ्वासान्तेऽप्यखिन्नास्ते येषां वक्त्रे सरस्वती । कथमाख्यायिकाकारा न ते वन्द्यः कवीश्वराः ॥ १.१० ॥ कवीनामगलद्दर्पो नूनं वासवदत्तया । शक्त्येव पाण्डुपुत्राणां गतया कर्णगोचरम् ॥ १.११ ॥ पदबन्धोज्ज्वलो हारी कृतवर्णक्रमस्थितिः । भट्टारहरिश्चन्द्रस्य गद्यबन्धो नृपायते ॥ १.१२ ॥ अविनाशिनमग्राम्यमकरोत्सातवाहनः । विशुद्धजातिभिः कोशं रत्नैरिव सुभाषितैः ॥ १.१३ ॥ कीर्तिः प्रवरसेनस्य प्रयाता कुमुदोज्ज्वला । सागरस्य परं पारं कपिसेनैव सेतुना ॥ १.१४ ॥ सूत्रधारकृतारम्भैर्नाटकैर्बहुर्भूमिकैः । सपताकैर्यशो लेभे भासो देवकुलैरिव ॥ १.१५ ॥ निर्गतासु न वा कस्य कालिदासस्य सूक्तिषु । प्रीतिर्मधुरसान्द्रासु मञ्जरीष्विव जायते ॥ १.१६ ॥ समुद्दीपितकन्दर्पा कृतगौरीप्रसाधना । हरलीलेव नो कस्य विस्मयाय बृहत्कथा ॥ १.१७ ॥ आढ्यराजकृतोत्साहैर्हृदयस्थैः स्मृतैरपि । जिह्वान्तःकृष्यमाणेव न कवित्वे प्रवर्तते ॥ १.१८ ॥ तथापि नृपतेर्भक्त्वा भीतो निर्वहणाकुलः । करोम्याख्यायिकाम्भोधौ जिह्वाप्लवनचापलम् ॥ १.१९ ॥ सुखप्रबोधललिता सुवर्णघटंनोज्ज्वलैः । शब्दैराक्यायिका भाति शय्येव प्रतिपादकैः ॥ १.२० ॥ जयति ज्वलत्प्रतापज्वलनप्राकारकृतजगद्रक्षः । सकलप्रणयिमनोरथसिद्धिश्रीपर्वतो हर्षः ॥ १.२१ ॥ एवमनुश्रूयते--पुरा किल भगवान्स्वलोकमधितिष्ठन्परमेष्ठी विकासिनि पझविष्ठरे समुपविष्टः सुनासीरप्रमुखैर्गीर्वाणैः परिवृतो ब्रह्नोद्याः कथाः कुर्वन्नन्याश्च निरवद्या विद्यागोष्ठीर्भावयन्कदाचिदासाञ्चक्रे । तथासीनं च तं त्रिभुवनप्रतीक्ष्यं मनुदक्षचाक्षुषप्रभृतयः प्रजापतयः सर्वे च सप्तर्षिपुरःसरा महर्षयः सिषेविरे । केचिदृचः स्तुतिचतुराः समुदचारयन् । केचिदपचितिभाञ्जि यजूंष्यपछन् । केचित्प्रशंसासामानि सामानि जगुः । अपरे विवृतक्रतुक्रियातन्त्रान्मन्त्रान्व्याचचक्षिरे । विद्याविसंवादकृताश्च तत्र तेषामन्योन्यस्य विवादाः प्रादुरभवन् । अथातिरोषणः प्रकृत्या महातपा मुनिरत्रेस्तनयस्तारापतेर्भ्रता नाम्ना दुर्वासा द्वितीयेन मन्दपालनाम्ना मुनिना सह कलहायमानः सामगायन्क्रोधान्धो विस्वरमकरोत् । सर्वेषु च तेषु शापभयप्रतिपन्नमौनेषु मुनिष्वन्यालापलीलया चावधीरयति कमलसम्भवे, भगवती कुमारी किञ्चिदुन्मुक्तबालभावे भूषितनवयौवने वयसि वर्तमाना, गृहीतचामरप्रचलद्भुजलता पितामहमुपवीजयन्ती, निर्भर्त्सनताजनजातरागाभ्यामिव स्वभावारुणाभ्यां पादपल्लवाभ्यां समुद्भासमाना, शिष्यद्वयेनेव पदक्रममुखरेण नूपुरयुगलेन वाचालितचरणयुगला, धर्मनगरतोरणस्तम्भविभ्रमं बिभ्राणा जङ्घाद्वितयम्, सलीलमुत्कलहंस कुलकलालापप्रलापिनि मेखलादाम्नि विन्यस्तवामहस्तकिसलया, विद्वन्मानसनिवासलग्नेन गुणकलापेनेवांसावलम्बिना ब्रह्नासूत्रेण पवित्रीकृतकाया, भास्वन्मध्यनायकमनेकमुक्तानुयातमपवर्गमार्गमिव हारमुद्वहन्ती, वदनप्रविष्टसर्वविद्यालक्तकरसेनेव पाटलेन स्फुरता दशनच्छदेन विराजमाना, संक्रान्तकमलासनकृष्णाजिनप्रतिमां मधुरगीताकर्णनावतीर्णशशिहरिंणामिव कपोलस्थलीं दधाना, तिर्यक्सावज्ञनुन्नमितकभ्रूलता, श्रोत्रमेकं विस्वरश्रवणकलुषितं प्रक्षालयन्तीवा पाङ्गनिर्गतेन लोचनाश्रुजलप्रवाहेणेतरश्रवणेन च विकसितसितसिन्धु वारमञ्जरीजुषा हसतेव प्रकटितविद्यामदा, श्रुतिप्रणयिभिः प्रणवैरिव कर्णावतंस कुसुममधुकरकुलैरपास्यमाना, सूक्ष्मविमलेन प्रज्ञाप्रतानेनेवांशुकेनाच्छादितशरीरा, वाङ्मयमिव निर्मलं दिक्षु दशनज्योत्स्नालोकं विकिरन्ती देवी सरस्वती श्रुत्वा जहास । दृष्ट्वा च तां तथा हसन्तीं स मुनिः "आः पापकारिणि, दुर्गृहीतविद्यालवावलेपदुर्विदग्धे, मामुपहससिऽ इत्युक्त्वा शिरःकम्पशीर्यमाणबन्धविशरारोरुन्मिषत्पिङ्गलिम्नो जटाकलापस्य रोचिषा सिञ्चन्निव रोषदहनद्रवेण दश दिशः, कृतकालसन्निधानामिवान्धकारितललाटपट्टाष्टापदामन्तकान्तः पुरमण्डनपत्रभङ्गमकरिकां भ्रुकुटिमावध्नन्, अतिलोहितेन चक्षुषामर्षदेवतायै स्वरुधिरोपहारमिव प्रयच्छन्, निर्दयदष्टदशनच्छदभयपलायमानामिव वाचं रुन्धन्दन्तांशुच्छलेन, असावस्रंसिनः शापशासनपट्टस्येव ग्रथ्नन्ग्रन्थिमन्यथा कृष्णाजिनस्य, स्वेदकमप्रतिबिम्बितैः शापशङ्काशरणागतरिव सुरासुरमुनिभिः प्रतिपन्नसर्वावयवः, कोपकम्पतरलिताङ्गुलिना करेण प्रसादनलग्नामक्षरमालामिवाक्षमालामाक्षिप्य कामण्डलवेन वारिणा समुपस्पृश्य शापजलं जग्राह । अत्रान्तरे स्वयम्भुवोऽभ्याशे समुपविष्टा देवी मूर्तिमती पीयूषफेनपटलपाण्डुरं कल्पद्रुमदुकूलवल्कलं वसाना, विसतन्तुमयेनांशुकेनोन्नतस्तनमध्यबद्धगात्रिकाग्रन्थिः, तपोबलनिर्जितत्रिभुवनजयपताकाभिरिव तिसृभिर्भस्मपुण्ड्रकराजिभिर्विराजितललाटाजिरा, स्कन्धावलम्बिना सुधाफेनधवलेन तपःप्रभावकुण्डलीकृतेन गङ्गास्रीतसेव योगपट्टकेन विरचितवैकक्ष्यका, सव्येन ब्रह्नोत्पत्तिपुण्डरीकमुकुलमिव स्फटिककमण्डलुं करेण कलयन्ती, दक्षिणमक्षमालाकृतपरिक्षेपं कम्बुनिर्मितोर्मिकादन्तुरितं तर्जनतरङ्गिततर्जनीकमुत्क्षिपन्ती करम्, "आः पाप, क्रोधोपहत, दुरात्मन्, अज्ञ, अनात्मन्, अज्ञ, अनात्मज्ञ, ब्रह्नबन्धो, मुनिशेट, अपसद, निराकृत, कथमात्मस्खलितविलक्षः सुरासुरमुनिमनुजवृन्दवन्दनीयां त्रिभुवनमातरं भगवतीं सरस्वतीं शप्तुमभिलषसिऽ इत्यभिदधाना, रोषविमुक्तवेत्रासनैरोङ्कारमुखरित मुखेरुत्क्षेप दोलायमानजटाभारभरितदिग्भिः परिकरबन्धभ्रमित कृष्णाजिनाटोपच्छायाश्यामायमानदिवसैरमर्षनिःश्वासदोलाप्रेङ्खोलितब्रह्नलोकैः सोमरसमिव स्वेदविसरव्याजेन स्रवद्भिरग्निहोत्रपवित्रभस्मस्मेरललाटैः कुशतन्तुचामरचीरचीवरिभिराषाढिभिः प्रहरणीकृतकमण्डलुमण्डलैर्मूर्तैश्चतुर्भिर्वेदैः सह बृसीमपहाय सावित्री समुत्तस्थौ । ततो "मर्षय भगवन्, अभूमिरेषा शापस्यऽ इत्यनुनाथ्यमानोऽपि विबुधैः, "उपाध्याय । स्खलितमेकं क्षमस्वऽ इति बद्धाञ्जलिपुटैः प्रसाद्यमानोऽपि स्वशिष्यैः, "पुत्र, मा कृथास्तपसः प्रत्यूहम्ऽ इति निवार्यमाणोऽप्यत्रिणा, रोषावेशविवशो दुर्वासाः "दुर्विनीते! व्यपनयामि ते विद्यजनितामुन्नतिमिमाम्, अधस्ताद्गच्छ मर्त्यलोकम्ऽ इत्युक्त्वा तच्छा पोदकं विससर्ज । प्रतिशापदानोद्यतां सावित्रीम् "सखि, संहर रोषम्, असंस्कृतमतयोऽपि जात्यैव द्विजन्मानो माननीयाःऽ इत्यभिदधाना सरस्वत्येव न्यवारयत् । अथ तां तथा शप्तां सरस्वतीं दृष्ट्वा पितामहो भगवान्कमलोत्पत्तिलग्नमृणालसूत्रामिव ध्वलयज्ञोपवीतिनीं तनुमुद्रहन्, उद्गच्छदच्छाङ्गुलीयमरकतमयूखलताकलापेन त्रिभुवनोपप्लवप्रशमकुशापीडधारिणेव दक्षिणेन करेण निवार्य शापकलकलम्, अतिविमलदीर्घैर्भाविकृतयुगारम्भसूत्रपातमिव दिक्षु पातयन् दशनकिरणैः सरस्वतीप्रस्थानमङ्गलपटहेनेव पूरयन्नाशाः, स्वरेण सुधीरमुवाच--"ब्रह्नन्, न खलु साधुसेवितोऽयं पन्ता । येनासि प्रवृत्तः । निहन्त्येष पररतात् । उद्दामप्रसृतेन्द्रियाश्वसमुत्थापितं हि रजः कलुषयति दृष्टिमनक्षजिताम् । कियद्दूरं वा चक्षुरीक्षते । विशुद्धया हि धिया पश्यन्ति कृतबुद्धयः सर्वानर्थानसतः सतो वा । निसर्गविरोधिनी चेयं पयःपावकयोरिव धर्मक्रोधयोरेकत्र वृत्तिः । आलोकमपहाय कथं तमसि निमज्जसि! क्षमा हि मूलं सर्वतपसास्। परदोषदर्शनदक्षा दृष्टिरिव कुपिता बुद्धिर्न ते आत्मरागदोषं पश्यति । क्व महापोभारवैवधिकता, क्व पुरोभागित्वम्? अतिरोषणश्चक्षुष्मानन्ध एव जनः । नहिं कोपकलुषिता विमृशति मतिः कर्तव्यमकर्तव्यं वा । कुपितस्य प्रथममन्धकारीभवति विद्या, ततो भ्रुकुटिः । आदाविन्द्रियाणि रागः समास्कन्दति, चरमं चक्षुः । आरम्भे तपो गलति, पश्चात्स्वेदसलिलम् । पूर्मयसः स्फुरति, अनन्तरमधरः । कथं लोकविनाशाय ते विषपादपस्येव जटावल्कलानि जातानि । अनुचिता खल्वस्य मुनिवेषस्य हारयष्टिरिव वृत्तमुक्ता चित्तवृत्तिः । शैलूष इव वृथा वहसि कृत्रिममुपशमशून्येन चेतसा तापसाकल्पम् । अल्पमपि न ते पश्यामि कुशलजातम् । अनेनातिलघिम्नाद्याप्युपर्येव प्लवसे ज्ञानोदन्वतः । न खल्वेनहमूका एडा जडा वा सर्वं एते महर्षयः । रोषदोषनिषद्ये स्वहृदये निग्राह्ये किमर्थमसि निगृहीतवाननागसां सरस्वतीम् । एतानि तान्यात्मप्रमादस्खलितवैलक्ष्याणि, यैर्याप्यतां यात्यविदग्धो जनःऽ इत्युक्त्वा पुनराह-- "वत्से सरस्वति, विषादं मा गाः । एषा त्वामनुयास्यति सावित्री । विनोदयिष्यति चास्मद्विरहदुःखिताम् । आत्मजमुखकमलावलोकनावधिश्च ते शापोऽयं भविष्यतिऽ इति । एतावदभिधाये विसर्जितसुरासुरमुनिमनुजमण्डलः ससंभ्रमोपगतनारतस्कन्धविन्यस्यहस्तः समुचिताह्निककरणायोदतिष्ठत् । सरस्वत्यपि शप्ता किञ्चिदधोमुखी धवलकृष्णशारा कृष्णाजिनलेखामिव दृष्टिमुरसि पातयन्ती सुरभिनिः- श्वासपरिमललग्नैर्मूर्तैः शापाक्षरेरिव षट्चरणचक्रैराकृष्यमाणा शापशोकशिथिलितहस्ताधोमुखीभूतेनोपदिव्यमानमर्त्यलोकावततरणमार्गेवनखमयूखजालकेन नूपुरव्याहाराहूतैर्भवनकलहंसकुलैर्ब्रह्नलोकनिवासिहृदयैरिवानुगम्यमाना समं सावित्र्या गृहमगात् । अत्रान्तरे सरस्वत्यवतरणवार्तामिव कथयितुं मध्यमं लोकमवततारांशुमाली । क्रमेण च मन्दायमाने मुकुलितविसिनीविसरव्यसनविषण्णसरसि वासरे, मधुमदमुदितकामिनीकोपकुटिलकटाक्षक्षिप्यमाण इव क्षेपीयः क्षितिधरशिखरमवतरति तरुणतरकपिलपनलोहिते लोकैकचक्षुषि भगवति, प्रस्नुतमुखमाहेयीयूथक्षरत्क्षीरधाराधवलितेष्वासन्नचन्द्रोदयोददामक्षीरोदलहरीक्षालितेष्विव दिव्याश्रमोपशल्येषु, अपराह्णप्रचारचलिते चामरिणि च्रामीकरतटताडनरणितरदने रदति सुरस्रवन्तीरोधांसि स्वैरमैरावते, प्रसृतानेकविद्याधराभिसारिकासहस्रचरणालक्तकरसानुलिप्त इव प्रकटयति च तारापथे पाटलताम्, तारापथप्रश्थितसिद्धदत्तदिन्करास्तमयार्घ्यविर्जिते रञ्जितककुभि, कुसुम्भभासि स्रवति पिनाकिप्रर्णातमुदितसंध्यास्वेदसलिल इव रक्तचन्दनद्रेवे, वन्दारुमुनिवृन्दारकवृन्दबध्यमानसंध्याञ्जलिवने, ब्रह्नोत्पत्तिकमलसेवागतसकलकमलाकर इव राजति ब्रह्यलोके॑ समुच्चारिततृतीयसवनब्रह्नणि ब्रह्नणि, ज्वलितवैतानज्वलनज्वालाजटालाजिरेष्वारब्धधर्मसाधनशिबिरनीराजनेष्विव सप्तर्षिमन्दिरेषु, अघमर्षणमुषितकिल्बिषविषगदोल्लाघलघुषु यतिषु संध्योपासनासीनतपस्विपङ्क्तिपूतपुलिने प्लवमाननलिनयोनियानहंसहासदन्तुरितोर्मिणि मन्दाकिनीजले, जलदेवतातपत्रे पत्ररथकुलकलत्रान्तःपुरसौधे निजमधुमधुरामोदिनि कृतमधुपमुदि मुमुदिषमाणे कुमुदवने, दिवसावसानताम्यत्तामरसमधुरमधुसपीतिप्रीते सुषुप्सति मृदुमृणालकाण्डकण्डूयनकुण्डलितकन्धरे धुतपत्रराजिवीजितराजीवसरसि राजहंसयूथे, तटलताकुसुमधूलिधूसरितसरिति सिद्धपुरपुरन्ध्रिधम्मिल्लमल्लिकागन्धग्राहिणि सायन्तने तनीयसि निशानिश्वासनिभे नभस्वति, संकोचोदञ्चदुच्चकेसरकोटिसंकटकुशेशयकोशकोटरकुटीशायिनि षट्चरणचक्रे, नृत्योद्धूतधूर्जटिजटाटवीकुटजकुढ्मलनिकरनिभे नभस्तलं स्तबकयति तारागणे, संध्यानुबन्वताम्रे परिणमत्तालफलत्वक्त्विषि कालमेघमेदुरे, मेदिनीं मीलयति नववयसि तमसि तरुणतरतिमिरपटलपाटनपटीयसि स,मुन्मिषति यामिनीकामिनीकर्णपूरचम्पककलिकाकदम्बके प्रदीपप्रकरे, प्रतनुतुहिनकिरणकिरणलावण्यालोकपाण्डुन्याश्याननीलनीरमुक्तकालिन्दीकुलबालपुलिनायमाने शातक्रतवे क्रशयति तिमिरमाशामुखे, समुचि मेचकितविकचितकुवलयसरसि शशधरकरनिकरकचग्रहाविले विलोयमाने मानिनीमनसीव सर्वरीशब्दचिकुरचये चाषपक्षत्विषि तमसि, उदिते भगवत्युदयगिरिशिखरकटककुहरहरिखरनखरनिवहहेतिनि हतनिजहरिणगलितरधिरनियानिचितमिव लोहितं वपुरुदयरागधरमधरमिव विभावरीवध्वा धारयति श्वेतभानौ, अचलच्युतचन्द्रकान्तजलधाराधौत इव ध्वस्ते ध्वान्ते, गोलोकगलितदुग्धविसरवाहिनि दन्तमयकरमुखमहाप्रणाल इवापूरयितुं प्रकृते पयोधिमिन्दुमण्डले, स्पष्टे प्रदोसमये सावित्री शून्यहृदयामिव किमपि ध्यायन्तीं सास्रां सरस्वतीमवादीत्--"सखि, त्रिभुवनोपदेशदानदक्षायास्तव पुरो जिह्वा जिह्रेति मे जलपन्ती । जानास्येव यादृश्यो विसंस्थुला गुणवत्यपि जने दुर्जनवन्निर्दाक्षिण्याः क्षणभङ्गिन्यो दुरतिक्रमणीया न रमणीया दैवस्य वामा वृत्तयः । निष्कारणा च निकारकणिकापि कलुषयति मनस्विनोषपि मानसमसदृशजनादापतन्ती । अनवरतनयनजलसिच्यमानश्च तरुरिव विपल्लवोऽपि सहस्रधा प्ररोहति । अतिसुकुमारं च जनं संतापपरमाणवो मालतीकुसुममिव म्लानिमानयन्ति । महतां चोपरि तिपतन्नणुरपि सृणिरिव करिणां क्लेशः कदर्थनायालम् । सहजस्नेहपाशग्रन्थिबन्धनाश्च बान्धवभूता दुस्तयजा जन्मभूमयः । दारयति दारुणः क्रकच्पात इव हृदयं संस्तुतजनविरहः, सा नार्हस्येवं भवितुम् । अभूमिः खल्वसि दुःखक्ष्वेडाङ्कुरप्रसवानाम् । अपि च पुराकृते कर्मणि बलवति शुभेऽशुभे वा फलकृति तिष्ठत्यधिष्ठातरि प्रराकृते कर्मणि बलवति शुभेऽशुभे वा फलकृति तिष्ठत्यधिष्ठातरि प्रष्ठे पृष्ठतश्च कोऽवसरो विदुषि शुचाम् । इदं च ते त्रिभुवनमङ्गलैककमलममङ्गलभूताः कथमिव मुखमपवित्रयन्त्यश्रुबिन्दवः । तदलम् । अधुना कथय कतमं भुवो भागमलङ्कर्तुमिच्छिसि । सक्मिन्नवतितीर्षति ते पुण्यभाजि प्रदेश हृदयम् । कानि वा तीर्थान्यनुग्रहीतुमभिलषसि । केषु वा धन्येषु तपोवनधामसु तपस्तन्ती रथातुमिच्छसि । सज्जोऽयमुपचरणचतुरः सहपांशुक्रीडापरिचयपेशलः प्रेयान्सखीजनः क्षितितलावतरणाय । अनन्यशरणा चैद्यैव प्रभृति प्रतिपद्यस्व मनसा वाचा क्रियया च सर्वविद्याविधातार दातारं च श्वःश्रेयसस्य चरणरजःपवित्रितत्रिदशासुरं सुधासूतिकलिकाकल्पितकर्णवतंसं देवदेवं त्रिभुवनगुरुं त्र्यम्बकम् । अल्पीयसैव कालेन स ते शापशोकविरतिं वितरिष्यितऽ इति । एवमुक्ता मुक्तमुक्ताफलधवललोचनजललवा सरस्वती प्रत्यवादीत्--"प्रियसखि, त्वया सह विचरन्त्या न मे काञ्चिदपि पीणामुत्पादयिष्यति ब्रह्नलोकविरहः शापशोको वा । केवलं कम्लसनसेवासुखमार्द्रयति मे हृदयम् । अपि च त्वमेव वेत्सि मे भुवि धर्मधामानि समाधिसाधानानि योगयोग्यानि च स्थानानि स्थातुम्ऽ इत्येवमभिधाय विरराम । रणरणकोपनीतप्रजागरा चानिमीलितलोचनैव ता निशामनयत् । अन्येद्युरुदिते भगवति त्रिभुवनशेखरे खणखणायमानस्खलत्खलीनक्षतनिजतुरगमुखक्षिप्तेन क्षतजेनेव पाटलितवपुष्युदयाचलचूडामणौ जरत्कृकवाकुचूडारुणारुणपुरःसरे विरोचते नातिदूरवर्ती विविच्य पितामहविमान हंसकुलपालः पर्यटन्नपरवक्त्रमुच्चैरगायत्-- "तरलयसि दृशं किमुत्सुकामकलुषमानसवासलालिते । अवतर कलहंसि वापिकां पुनरपि यास्यसि पङ्कजालयम्ऽ ॥ तच्छ्रुत्वा सरस्वती पुनरचिन्तयत्-"अहमिवानेन पर्यनुयुक्ता । भवतु । मानयामि मुनेर्वचनम्ऽ इत्युक्त्वोत्थाय कृतमहीतलावतरणसंकल्पा परित्यज्य वियोगविक्लवं स्वपरिजनं ज्ञातिवर्गमविगणय्यावगणा त्रिः प्रदक्षिणीकृत्य चतुर्मुखं कथमप्यनुनयनिवर्तितानुयायिव्रतिव्राता ब्रह्नलोकतः सावित्रीद्वितीया निर्जगाम । ततः क्रमेण ध्रुवप्रवृत्तां धर्मधेनुमिवाधोधावमानधवलपयोधराम्, उद्धुरध्वनिम्, अन्धकमथनमौलिमालतीमालिकाम्, आलीयमानबालखिल्यरुद्धरोधसम्, अरुन्धतीधौततारवत्वचं त्वङ्गत्तुङ्गतरङ्गतरत्तरलतरतारतारकाम्, तापसवितीर्णतरलतिलोदकपुलकितपुलिनामाप्लवनपूतपितामहपातितपितृपिण्डपाण्डुरितपाराम्, पर्यन्तसुप्तसप्तर्षिकुशशयनसूचितसूर्यग्रहसूतकोपवासाम्, आचमनशुचिशचीपतिमुच्यमानार्चनकुसुमनिकरशाराम्, शिवपुरपतितनिर्माल्यमन्दरदामकाम्, अनादरदारितमन्दरदरीदृषदम्, अनेकनाकनायकनिकायकामिनोकुचकलशविलुलितविग्रहाम्, ग्राहग्रावग्रामस्खलनमुखरितस्रोतसम्, सुषुम्णास्रुतशशिसुधाशीकरस्तबकतारकिततीराम्, धिषणाग्निकार्यधूमधूसरितसैकताम्, सिद्धविरचितवालुकालिङ्गलङ्घनत्रासविद्रुतविद्याधराम्, निर्मोकमुक्तिमिव गगनोरगस्य, लीलाललाटिकामिवत्रिविष्टपविटस्य, विक्रयवीथीमिव पुण्यपण्यस्य, दत्तार्गलामिंव नरकनगरद्वारस्य, अंशुकोष्णीषपट्टिकामिव सुमेरुनृपस्य, दुगूलकदलिकामिव कैलासकुञ्जरस्य, पद्धतिमिवापवर्गस्य, नेमिमिव कृतयुगस्य सप्तसाग्राजमहिषीं मन्दाकिनीमनुसरन्ती मर्त्यलोकमवततार । अपश्यच्चाम्बरतलस्थितैव हारमिव वरुणस्य, अमृतनिर्झरमिव चन्द्राचलस्य, शशिमणिनिष्यन्दमिव विन्ध्यस्य, कर्पूरद्रुमद्रवप्रवाहमिव दण्डकारण्यस्य, लावण्यरसप्रस्रवणमिव दिशाम्, स्फाटिकशिलापट्टशयनमिवाम्बरश्रियाः स्वच्छशिशिरसुरसवारिपूणं भगवतः पितामहस्यापत्यं हिरण्यवाहनामानं महानदम्, यं जनाः शोण इति कथयन्ति । दृष्ट्वाच तं रामणीयकहृतदया तस्यैव तीरे वासमरचयत् । उवाच च सावित्री--"सखि, मधुरमयूरविरुतयः कुसुमपांशुपटलसिकतिलतरुतलाः परिमलमत्तमधुपवेणीवीणारणितरमणीया रमयन्ति मां मन्दीकृतमन्दाकिनीद्युतेरस्य महानदस्योपकण्ठभूमयः । पक्षपाति च हृदयमत्रैव स्थातुं मेऽ इति । अभिनन्दितवचना च तथेति तया तस्य पश्चिमे तीरे समवातरत् । एकस्मिंश्च शुचौ शिलातलसनाथे तटलतामण्डपे गृहबुद्धिं बबन्ध । विश्रान्ता च नातिचिरादुत्थाय सावित्र्या सार्धंमुच्चितार्चनकुसुमा सस्नौ । पुलिनपृष्ठप्रतिष्ठितशिवलिङ्गा च भक्त्या परमया परब्रह्नपुरःसरां सम्यङ्मुद्राबन्धविहितपरिकरां ध्रुवागीतिगर्भामवनिपवनवनगगनदहनतपनतुहिनकिरणयजमानमयीर्मूर्तिरष्टावपि ध्यायन्ती सुचिरमष्टपुष्पिकामदात् । अयत्नोपनतेन फलमूलेनामृतरसममप्यतिशिशयिषमाणेन च स्वादिम्ना शिशिरेण शोणवारिणा शरीस्थितिमकरोत् । अतिवाहितदिवसा च तस्मिंल्लतामण्डपशिलातले कल्पितपल्लवशयना सुष्वाप । अन्येद्युरप्यनेनैव क्रमेण नक्तन्दिनमत्यवाहयत् । एवमतिक्रामत्सु दिवसेषु गच्छति च काले याममात्रोद्गते च रवावुत्तरस्यां ककुभि प्रतिशब्दपूरितवनगह्वरं गम्भीरतारतरं तुरङ्गहेषितह्लादमशृणोत् । उपजातकुतूहला च निर्गत्य लतामण्डपाद्विलोकयन्ती विकचकेतकीगर्भपत्रपाण्डुरं रजःसङ्घातं नातिदवीयसि संमुखमपितन्तमपश्यत् । क्रमेण च सामीप्योपजायमानाभिव्यक्ति तस्मिन्महति शफरोदरधूसरे रजसि पयसीव मकरचक्रं प्लवमानं पुरः प्रधावमानेन, प्रलम्बकुटिलकचपल्लवघटितललाटजजूटकेन, धवलदन्तपत्रिकाद्युतिहसितकपोलभित्तिना, पिनद्धकृष्णागुरुपङ्ककल्कच्छुरणकृष्णशबलकषायकञ्चुकेन, उत्तरीयकृतशिरोवेष्टनेन, वामप्रकोष्ठनिविष्टस्पष्टहाटककटकेन, द्विगुणपट्टपट्टिकागाढग्रन्थिग्रथितासिधेनुना, अनवरतव्यायामकृतकर्कशशरीरे, वातहंरिणयूथेनेव मुहुर्मुहुः खमुड्डीयमानेन, लङ्घितसमविषमावटविटपेन, कोणधारिणा, कृपाणपाणिना, सेवागृहीतविविधवनकुसुमफलमूलपर्णेन, "चल चल, याहि याहि, अपसर्पापसर्प, पुरः प्रयच्छ पन्थानम्ऽ इत्यनवरतकृतकलकलेन युवप्रायेण, सहस्रमात्रेण पदातिजनेन सनाथमश्ववृन्दं सददर्श । मध्ये च तस्य सार्धचन्द्रेण मुक्ताफलजालमालिना विविधरत्नखण्डखचितेन शङ्खक्षीरफेनपाण्डुरेण क्षीरोदेनेव स्वयं लक्ष्मीं दातुमागतेन गगनगतेनातपत्रेण कृतच्छायम्, अच्छाच्छेनाभरणद्युतीनां निवहेन दिशामिव दर्शनानुरागलग्नेन चक्रवालेनानुगम्यमानम्, आनितम्बविलम्बिन्या मालतीशेखरस्रजा सकलभुवनविजयार्जितया रूपपताकयेव विराजमानम्, उत्सर्पिभिः शिखण्डखण्डिकापझरागमणेररुणैरंशुजालैरदृश्यमानवनदेवताविधृतैर्बालपल्लवैरिव प्रमृज्यमानमार्गरेणुपरुषवपुषम्, बकुलकुड्मलमण्डलीमुण्डमालामण्डनमनोहरेण कुटिलकुन्तलस्तबकमालिना मौलिना मीलितातपं पिबन्तमिव दिवसम्, पशुपतिजटामुकुटमृगाङ्कद्वितीयशकलघटितस्येव सहजलक्ष्मीसमालिङ्गितस्य ललाटपट्टस्य मनःशिलापङ्कपिङ्गलेन लावण्येन लिम्पन्तमिवान्तरिक्षम्, अभिनवयौवनारम्भावष्टम्भप्रगल्भदृष्टिपाततृणीकृतत्रिभुवनस्य चक्षुषः प्रथिम्ना विकचकुमुदकुवलयकमलसरःसहस्रसछादितदशदिशं शरदमिव प्रवर्तयन्तम्, आयतनयननदीसीमान्तसेतुबन्धेन ललाटतटशशिमणिशिलातलगलितेन आन्तिसलिलस्रोतसेव द्राघीयसा नासावंशेन शोभमानम्, अतिसुरभिसहकारकर्पूरकक्कोललवङ्गपारिजातकपरिमलपुचा मत्तमधुकरकुलकोलाहलमु खरेण मुखेन सनन्दनवनं वसन्तमिवावतारयन्तम्, आसन्नसुहृत्परिहासभावनोत्तानितमुखमुग्धहसितैर्दशनज्योत्स्नास्नपितदिङ्मुखैः पुनःपुनर्नभसि संचारिणं चन्द्रालोकमिव कल्पयन्तम्, कदम्बमुकुलस्थलमुक्ताफलयुगलमध्याध्यासितमरकतस्य त्रिकष्टककर्णाभरणस्य प्रेङ्खतः प्रभया समुत्सर्पन्त्या कृतसकुसुमहरितकुन्दपल्लवकर्णावतंसमिवोपलक्ष्यमाणम्, आमोदितमृगमदपङ्कलिखितपत्रभङ्गभास्वरम्, भुजयुगलमुद्दाममकराक्रान्तशिखरमिव मकरकेतुकेतोः दण्डद्वयं दधानम्, धवलब्रह्नसूत्रसीमन्तितं सागरमथनसामर्षगङ्गास्रोतःसंदानितमिव मन्दरं देहमुद्वहन्तम्, कर्पूरक्षोदमुष्टिच्छुरणपांशुलेनेव कान्तोच्चकुचचक्रवाकयुगलविपुलपुलिनेनोरःस्थलेन स्थूलभुजायामपुञ्जितम्, पुरो विस्तारयन्तमिव दिक्चक्रम्, पुरस्तादीषदधोनाभिनिहितककोणकमनीयेन पृष्ठतः कक्ष्याधिकक्षिप्तपल्लवेनोभयतःसंवलनप्रकटितोरुत्रिभागेन हारीतहरिता निबिडनिपीडितेनाधरवाससा विभज्यमानतनुतरमध्यभागम्, अनवरतश्रमोपचितमांसकठिनविकटमक रमुखसंलग्नजानुभ्यामतिविशालवक्षःस्थलोपलवेदिकोत्तम्भनशिलास्तम्भाभ्यां चारुचन्दनस्थासकस्थूलतरकान्तिभ्यामुरुदण्डाभ्यामुपहसन्तमिवैरावतकरायामम्, अतिभरितोरुभारवहनखेदेनेव तनुहसन्तमिवैरावतकरायामम्, अतिभरितोरुभारवहनखेदेनेव तनुतरजङ्घाकाण्डम्, कल्पपादपपल्लवद्वयस्येव पाटलस्योभयपार्श्वावलम्बिनः पादद्वयस्य दोलायमानैर्नखमयूखैरश्वमण्डनचामरमालामिव रचयन्तम्, अभिमुखमुच्चैरुदञ्चद्भिरतिचिरमुपरिविश्राम्यद्भिरिव वलितविकटं पतद्भिः खुरैः खण्डितभुवि प्रतिक्षणदशनविमुक्तखणखणायितखरखलीने दीर्घघ्राणलीनलालिके ललाटलुलितचारुचामीकरचक्रमे शिञ्जानशातकौम्भायानशोभिनि मनोरंहसि गोलाङ्गूलकपोलकालकायलोम्नि नीलसिन्धुवारवर्णे वाजिनि महति समारूढम्, उभयतः पर्याणपट्टश्लिष्टहस्ताभ्यामासन्नपरिचारकाभ्यां दोधूयमानधवलचामरिकायुगलम्, अग्रतः पठतो वन्दिनः सुभाषितमुत्कण्टकितकपोलफलकेन लग्नकर्णोत्पलकेसरपक्ष्मशकलेनेव मुखशशिना बावयन्तम् । अनङ्गयुगावतारमिव दर्शयन्तम्, चन्द्रमयीमिव सृष्टिमुत्पादयन्तम्, विलासप्रायमिव जीवलोकं जनयन्तम्, अनुरागमयमिव सर्गान्तमारचयन्तम्, शृङ्गारमयमिव दिवसमापादयन्तम्, रागराज्यमिव प्रवर्तयन्तम्, आकर्षणाञ्जनमिव चक्षुषोः, वशीकरणमन्त्रमिव मनसः, स्वस्थावेशचूर्णमिवेन्द्रियाणाम्, असंतोषमिव कौतुकस्य, सिद्धयोगमिव सौभाग्यस्य, पुनर्जन्मदिवसमिव मन्मथस्य, रसायनमिव यौवनस्य, एकाराज्यमिव रामणीयकस्य, कीर्तिस्तम्भमिव रूपस्य, मूलकोशमिव लावण्यस्य, पुण्यकर्मपरिणाममिव संसारस्य, प्रथमाङ्कुरमिव कान्तिलतायाः, सर्गाभ्यासफलमिव प्रजापतेः, प्रतापमिव विभ्रमस्य, यशःप्रवाहमिव वैदग्धयस्य, अष्टादशवर्षदेशीयं युवानमद्राक्षीत् । पार्श्व च तस्य द्वितीयमपरसंश्लिष्टतुरङ्गम्, प्रांशुमुत्तप्ततपनीयस्तम्भाकारम्, परिणतवयसमपि व्यायामकठिनकायम्, नीचनखश्मश्रुकेशम्, शुक्तिखलतिर्म्, इषत्तुन्दिलम्, रोमशोरःस्थलम्, अनुल्वणोदारवेषतया जरामपि विनयमिव शिक्षयन्तम्, गुणानपि गरिमाणमिवानयन्तम्, महानुभावतामपि शिष्यतामिवानयन्तम्, आचारस्याप्याचार्यमिव कुर्वाणम्, वलक्षवारबाणधारिणम्, धौतदुकूलपट्टिकापरिवेष्टितमौलिं पुरुषम् । अथ स युवा पुरोयायिनां यथादर्शनं प्रतिनिवृत्यातिविस्मितमनसां कथयतां पदातीनां सकाशादुपलभ्य दिव्याकृति तत्कन्यायुगलमुपजातकुतूहलः प्रतूर्णतुरगो दिदृक्षुस्तं लतामण्डपोद्देशमाजगाम । दूरादेव च तुरगादवततार । निवारितपरिजनश्च तेन द्वितीयेन साधुना सहचरणाभ्यामेव सविनयमुपससर्प । कृतोपसंग्रहणौ तौ सावित्री समं सरस्वत्या किसलयासनदानादिना सकुसुमफलार्घ्यावसानेन वनवासोचितेनातिथ्येन यथाक्रममुपजग्राह । आसीनयाश्च तयोरासीन नातिचिरमिव स्थित्वा तं द्वितीयं प्रवयसमुद्दिश्यावादीत्--"आर्य, सहजलज्जाधनस्य प्रमदाजनस्य प्रथमाभिभाषणमशालीनता, विशेषतो वनमृगीमुग्धस्य कुलकुमारीजनस्य । केवलमियमालोकनकृतार्थाय चक्षुषे स्पृहयन्ती प्रेरयत्युदन्तश्रवणकुतूहलिनी श्रोत्रवृत्तिः । प्रथमदर्शने चोपायनमिवोपनयति सज्जनः प्रणयम् । अप्रगल्भमपि जनं प्रभवता प्रश्रयेणार्पितं मनो मध्विव वाचालयति । अयत्नेनैवातिनम्रे साधौ धनुषीव गुणः परां कोटिमारोपयति विस्रम्भः । जनयन्ति च विस्मयमतिधीरधियामप्यदृष्टपूर्वा दृश्यमाना जगति स्रष्टुः सृष्ट्यतिशयाः । यतस्त्रिभुवनाभिभावि रूपमिदमस्य महानुभावस्य । सौजन्यपरतन्त्रा चेयं देवानांप्रियस्यातिभद्रता कारयति कथां न तु युवतिजनसहोत्था तरलता । वत्कथयागमनेनापुण्यभाक्कतमो विजृम्भितविरहव्यथः शून्यतां नीतो देशः? क्व वा गन्तव्यम्? को वायमपहृतहरहुङ्काराहङ्कारोऽपर इवानन्यजो युवा? किंनाम्नो वा समृद्धतपसः पितुरयममृतवर्षी कौस्तुभमणिरिव हतेर्हृदयमाह्लादयति? का चास्य त्रिभुवननमस्या विभातसंध्येव महतस्तेजेसो जननी? कानि वास्य पुण्य भाञ्जि भजन्त्यभिक्यामक्षराणि? आर्यपरिज्ञानेऽप्ययमेव क्रमः कौतुकानुरोधिनो हृदयस्यऽ इत्युक्तवत्यां तस्यां प्रकटितश्रयोऽसौ प्रतिव्याजहार--"आयुष्मति, सतां हि प्रियंवदता कुलविद्या । न केवलमाननं हृदयमपि च ते चन्द्रमयमिव सुधाशीकरशीतलैराह्लादयति वचोभिः । सौजन्यजन्मभूमयो भूयसा शूभन सज्जननिर्माणशिल्पकला इव भावदृश्यो दृश्यन्ते । दूरे तावदन्योन्यस्याभिलपनमभिजातैः सह दृशोऽपि मिश्रीभूता महतीं भूमिमारोपयन्ति । श्रूयताम्--अयं खलु भूषणं भार्गववंशस्य भगवतो भूर्भुवःस्वस्त्रितयतिलकस्य, अदभ्रप्रभावस्तम्भितजम्भारिभुजस्तम्भस्य, सुरासुरमुकुटमणिशिलाशयनदुर्ललितपादपङ्केरुहस्य, निजतेजःप्रसरप्लुष्टपुलोम्नश्च्यवनस्य बहिर्वृत्तिजीर्वितं दधीचो नाम तनयः । जन्यन्यस्य जितजगतोऽनेकपार्थिवसहस्रानुयातस्य शर्यातस्य सुता राजपुत्री त्रिभुवनकन्यारत्नं सुकन्या नाम । तां खलु देवीमन्तर्वत्नीं विदित्वा वैजनने मासि प्रसवाय पिता पत्युः पार्श्वात्स्वगृहमानाययत । असूत च सा तत्र देवी दीर्घायुषमेनम् । अवर्धतानेहसा च तत्रैवायमानन्दितज्ञातिवर्गो बालस्तारकराज इव राजीवलोचनो राजगृहे । भर्तृभवनमागच्छन्त्यामपि दुहितरि नासेचनकदर्शनमिमममुञ्चन्मातामहो मनोविनोदनं नप्तारम् । अशिक्षतायं तत्रैव, सर्पा विद्याः सकलाश्च कलाः । कालेन चोपारूढयौवनमिममालोक्याहमिवासावप्यनुभवतु मुखकमलावलोकनानन्दमस्येति मातामहः कथङ्कथमप्येनं पितुरन्तिकमधुना व्यसर्जयेत् । मामपि तस्यैव देवस्य सुगृहीतनाम्नः शर्यातस्याज्ञाकारिणं विकुक्षिनामानं भृत्यपरमाणुमवधारयतु भवती । पितुः पादमूलमायान्तं मया साभिसारमकरोत्स्वामी । तद्धि नः कुलक्रमागतं राजकुलम् । उत्तमानां च चिरन्तनता जनयत्यनुजीविन्यपि जने कियन्मात्रमपि मन्दाक्षम् । अक्षीणः खलु दाक्षिण्यकोशो महताम् । एतश्च गव्यूतिमात्रमिव पारेशोणं तस्य भगवतश्च्यवनस्य स्वनाम्ना निर्मितव्यपदेशं च्यावनं नाम चैत्ररथकल्पं काननं निवासः । तदवधिरेवेयं नौ यात्रा । यदि च वो गृहीतक्षणं दाक्षिण्यमनवहेलं वा हदयमस्माकमुपरि भूमिर्वा प्रसादानामयं जनः श्रवणार्हे वा, ततो न विमाननीयोऽयं नः प्रथमः प्रणयः कुतूहलस्य । वयमपि शुश्रूषवो वृत्तान्तमायुष्मत्योः । नेयमाकृतिर्दिव्यतां व्यभिचरति । गोत्रनामनी तु श्रोतुमभिलषति नौ हृदयम् । तत्कथय कतमो वंशः स्पृहणीयतां जन्मना गीतः । का चेयमत्रभवती भवत्याः समीपे समवाय इव विरोधिनां पदार्थानाम् । तथा हि, सन्निहितबालान्धकारा भास्वन्मूर्तिश्च, पुण्डरीकमुखी हरिणलोचना च, बालातपप्रभाधारा कुमुदहासिनी च, कलहंसस्वना समुन्नतपयोधरा च, कमलकोमलकरा हिमगिरिशिलापृथुनितम्बा च, करभोरुर्विलम्बितगमना च, अमुक्तकुमारभावा स्निग्धतारका चऽ इति । सा त्वावादीत्--"आर्य, श्रोष्यसि कालेन । भूयसो दिवसानत्र स्थातुमभिलषति नौ हृदयम् । अल्पीयांश्चायमध्वा । परिचय एव प्रकटीकरिष्यति । आर्येण न विस्मरणीयोऽयमनुषङ्गदृष्टो जनःऽ इत्य भिधाय तूष्णीमभूत् । दचीचस्तु नवाम्भोभरगभीराम्भोधरध्वाननिभया भारत्या नर्तयन्वनलताभवनभाजो भुजङ्गभुजः सुधीरमुवाच--"आर्य, करिष्यति प्रसादमार्याराध्यमाना । पश्यामस्तावत्तातम् । उत्तिष्ठ । षजामःऽ इति । तथेति च तेनाभ्यनुज्ञातः शनकैरुत्थाय कृतनमस्कृतिरुच्चचाल । तुरगारूढं च तं प्रयान्तं सरस्वती सुचिरमुत्तम्भितपक्ष्मणा निश्चलतारकेण लिखितेनेव चक्षुषा व्यलोकयत् । उत्तीर्य च शोणम चिरेणैव कालेन दधीचः पितुराश्रमपदं जगाम । गत च तस्मिन्सा तामेव दिशमालोकयन्ती सुचिरमतिष्ठत् । कृच्छ्रादिव च संजहार दृशम् । अथ मुहूर्तमात्रमिव स्थित्वा स्मृत्वा च तां तस्य रूपसपदं पुनःपुनर्व्यस्म यतास्या हृदयम् । भूयोऽपि चक्षुराककाङ्क्ष तद्दर्शनम् । अवशेव केनाप्यनीयत तामेव दिशं दृष्टिः । अप्रिहतमपि मनस्तेनैव साधंमगातजायत च नवपल्लव इव बालवनलतायाः कुतोऽप्यस्या अनुरागश्चेतसि । ततः प्रभृति च सालस्येव शून्येव सनिद्रेव दिकसमनयत् । अरतमुपयाति च प्रत्यक्पर्यस्तमण्डले लाङ्गलिकास्तबकताम्रत्विषि कमलिनीकामुके कठोरसालसशिरःशोणशोचिषि सावित्रे त्रयीमये तेजसि, तरुणतरतमालश्यामले च मलिनयति व्योम व्योमव्यापिनि तिमिरसंचये, संचरत्सिद्धसुन्दरीनूपुररवानुसारिणि च मन्दं मन्दं मन्दाकिनीहंस इव समुत्सर्पति शशिनि गगनतलं कृतसंध्याप्रणामा निशामुख एव निपत्य विमुक्ताङ्गी पल्लवशयने तस्थौ । सावित्र्यपि कृत्वा यथाक्रियमाणं सायन्तनं क्रियाकलापमुचिते शयनकाले किसलयशयनमभजत जातनिद्रा च सुष्वाप । इतरा तु मुहुर्मुहुरङ्गवलनैर्विलुलितकिसलयशयनतला निमीलितनयनापि नालभत निद्राम् । अचिन्तयच्च--"मर्त्यलोकः खलु सर्वलोकानामुपरि, यस्मिन्नेवंविधानि भवति त्रिभुवनभूषणानि सकलगुणग्रामगुरूणि रत्नानि । तथा हि--तस्य मुखलावण्यप्रवाहस्य निष्यन्दबिन्दुरिन्दुः । तस्य च चक्षुषो विक्षेपाः कुमुदकुवलयकमलाकाराः । तस्य चाधरमणेर्दीधितयो विकसितबन्धकवनराजयः । तस्य चाङ्गस्य परभागोपकरणमनङ्गः । पुण्यभाञ्जि तानि चक्षूंषि चेतांसि यौवनानि वा स्त्रैणानि, येषामसावविषयो दर्शनस्य । क्षणं नु दर्शयता च तमन्यजन्मनितेनेव मे फलितमधर्मेण । का प्रतिपत्तिरिदानीम्?ऽ इति चिन्तयन्त्येव कथङ्कथमप्युपजातनिद्रा चिरात्क्षणमशेत । सुप्तापि च तमेव दीर्घलोचनं ददर्श । स्वप्नासादितद्वितीयदर्शना चाकर्णाकृष्टकार्मुकेण मनसि निर्दयमताड्यत मकरकेनुना । प्रतिबुद्धाया मदनशराहतायाश्च तस्या वार्तामिवोपलब्धुमरतिराजगाम । तथा हि--ततः प्रभृति कुसुमधूलिधवलाभिर्वनलताभिस्ताडितापि वेदनामधत्त । मन्दमन्दमारुतविधुतेः कुसुमरजोभिरदूषितलोचनाप्यश्रुजलं मुमोच । हंसपक्षतालवृन्तवातव्रातविततैः शोणशीकरैरसिक्ताप्यार्द्रतामगात् । प्रेङ्खत्कादम्बमिथुनाभिरनूढाप्यघूर्णत वनकमलिनीकल्लोलदोलाभिः । विघटमानचक्रवाकयुगलविसॄष्टैरस्पृष्टापि श्यामतामाससाद विरहनिःश्वासधूमैः । पुष्पधूलिधूसरैरदष्टापि व्यचेष्ट मधु करकुलैः । अथ गणरात्रापगमे निवर्तमानस्तेनैव वर्त्मना तं देशं समागत्य तथैव निवारितपरिजनश्छत्रधारद्वितीयो विकुक्षिर्डुढौके । सरस्वती तु तं दूरादेव संमुखमागच्छन्तं प्रीत्या ससंभ्रममुत्थाय वनमृगीवोद्ग्रीवा विलोकयन्ती मार्गपरिश्रान्तमस्नपयदिव धवलितदशदिशा दृशा । कृतासनपरिग्रहं तु तं प्रीत्या सावित्री पप्रच्छ--"आर्य, कच्चित्कुशली कुमारः?ऽ इति । सोऽब्रवीत्--"आयुष्मति, कुशली । स्मरति च भवत्योः । केवलममीषु दिवसेषु तनीयसीमिव तनु बिभर्ति । अविज्ञायमाननिमित्तां च शून्यतामिवाधत्ते । अपि च । अन्वक्षमागमिष्यत्येव मालतीति नाम्ना बाणिनी वार्तां वो विज्ञातुम् । उच्छ्वसित हि सा कुमारस्यऽ इति । तच्छ्रुत्वा पुनरपि । सावित्री समभाषत--"अतिमहानुभावः खलु कुमारो येनैवनमविज्ञायमाने क्षणदृष्टेऽपि जने परिचितिमनुबध्नाति । तस्य हि गच्छतो यदृच्छया कथमप्यंसुकमिव मार्गलतासु मानसमस्मासु मुहूर्तमासक्तमासीत् । अशून्यं हि सौजन्यमाबिजात्येन वः स्वामिसूनोः । अलसः खलु लोको यदेवं सुलभसौहार्दानि येन केनचिन्न क्रीणाति महतां मनांसि । सोऽयमौदार्यातिशयः सोऽपि महात्मनामितरजनदुर्लभो येनोपकरणीकुर्वन्ति त्रिभुवनम्ऽ इति । विकुक्षिस्तूच्चावचैरालापैः सुचिरमिव स्थित्वा यथाभिलषितं देशमयासीत् । अपरेद्युरुद्यति भगवति द्युमणावुद्दामद्युतावभिद्रुततारके तिरस्कृततमसि तामरसव्यासव्यसनिनि सहस्ररश्मौ शोणमुतीर्यायान्ती, तरलदेहप्रभावितानच्छलेनात्यच्छं सकलं शोणसलिलमिवानयन्तीं, स्फुटितातिमुक्तककुसुमस्तबकसमत्विषि सटाले महति मृगपताविव गौरी तुरङ्गमे स्थित, सलीलमुरोबन्धारोपितस्य तिर्यगुत्कर्णतुरगाकर्ण्य, माननूपुरपटुरणितस्यातिबहलेन पिण्डालक्तकेन पल्लवितस्य कुङ्कुमपिञ्जरितपृष्ठस्य चरणयुगलस्य प्रसरद्भिरतिलोहितैः प्रभाप्रवाहैरुभयतस्ताडनदोहदलोभागतानि किसलयितानि रक्ताशोकवनानीवाकर्षयन्ती, सकलजीवनलोकहृदयहठहरणाघोषणयेव रशनया शिञ्जानजघनस्थला, धौतधवलनेत्रनिर्मितेन निर्मोकलघुतरेणाप्रपदीनेन कञ्चुकेन तिरोहिततनुलता, छातकञ्चुकान्तरदृश्यमानैराश्यानचन्दनधवलैरवयवैः स्वच्छसलिलाब्यन्तरविभाव्यमानमृणालकाण्डेव सरसी, कुसुम्भरागपाटलं पुलकबन्धचित्रं चण्डातकमन्तःस्फुटं स्फटिकभूमिरिव रत्ननिधानमादधाना, हारेणामलकीफलनिस्तुलमुक्ताफलेन स्फुरितस्थूलग्रहगणशारा शारदीव श्वेतविरलजलधरपटलावृता द्यौः, कुचपूर्णकलशयोरुपरि रत्नप्रालम्बमालिकामरुणहरितकिरणकिसलयिनीं कस्यापि पुण्यवतो हृदयप्रवेशवनमालिकामिव बद्धां धारयन्ती, प्रकोष्ठनिविष्टस्यैकस्य हाटककटकस्य मरकतमकरवेदिकासनाथस्य हरितीकृतदिगन्ताभिर्मंयूखसंततिभिः स्थलकमलिनीबिरिव लक्ष्मीशङ्खयानुगम्यमाना, अतिबहलताम्बूलकृष्णिकान्धकारितेनाधरसंपुटेन मुखशशिपीतं ससंध्यारागं तिमिरमिव वमन्ती, विकचनयनकुवलयकुतूहलालीनयालिकुलसंहत्या नीलांशुकजालिकयेव निरुद्धाधवदना, नीलीरागनिहितनीलिम्ना शिखिद्योतमाना, बकुलफलानुकारिणीभिस्तिसृभिर्मुक्ताभिः कल्पितेन बालिकायुगलेनाधोमुखेनालोकजलवर्षिणा सिञ्चन्तीवातिकोमले भुजलते, दक्षिणकर्णावतंसितया केतकीगर्भपलाशलेखया रजनिकरजिह्वालतयेवलावण्यलोभेन लिह्यमानकपोलतला, तमालश्यामलेन मृगमदामोदनिष्यदिना तिलकबिन्दुना मुद्रितमिव मनोभवसर्वस्वं वदनमुद्वहन्ती, ललाटलासकस्य सीमन्तचुम्बिनश्चटुलातिलकमणेरुदञ्चता चटुलेनांशुजालेनेव रक्तांशुकेनेव कृतशिरावगुण्ठना, पृष्ठप्रेङ्खदनादरसंयमनशिथिलजूटिकाबन्धा नीलचामरावकूलिनीव, चूडामणिमकरिकासनाथा मकरकेतुपताकेव कुलदेवतेव चन्द्रमसः, पुनःसञ्जीवनौषधिरिव पुष्पधनुषः, वेलेव रागसागरस्य, ज्योत्स्नेव यौवनचन्द्रोदयस्य, महानदीव रतिरसामृतस्य, कुसुमोद्गतिरिव सुरततरोः, बालविद्येव वैदग्ध्यस्य, कौमुदीव कान्तेः, धृतिरिव धैर्यस्य, गुरुशालेव गौरवस्यबीजभूमिरिव विनयस्य, गोष्ठीव गुणानाम्, मनस्वितेव महानुभावतायाः, तृप्तिरिव तारुण्यस्य, कुवलयदलदामदीर्घलोचनया पाटलाधरया कुन्दकुढ्मलस्फुटदशनया शिरीषमालासुकुमारभुजयुगलया कमलकोमलकरया बकुलसुरभिनिःश्वसितया चम्पकावदातदेहया कुसुममय्येव ताम्बूलकरण्डवाहिन्या मालती समदृश्यत । दूरादेव च दधीचप्रेम्णा सरस्वत्या लुण्ठितेव मनोरथैः, आकृष्टेव कुतूहलेन, प्रत्युद्गतेवोत्फलिकाभिः, आलिङ्गितेवोत्कण्ठया, अन्तःप्रवेशितेव हृदयेन, स्नपितेवानन्दाश्रुभिः, विलिप्तेव स्मितेन, वीजितेवोच्छ्वसितैः, आच्छादितेव चक्षुषा, अम्यर्चितेव वदनपुण्डरीकेण, सखीकृतेवाशया सविधमुपययौ । अवतीर्य च दूरादेवानतेन मूर्ध्ना प्रणाममकरोत् । आलिड्गिता च ताभ्यां सविनयमुपाविशत् । सप्रश्रयं ताभ्यां संबाषिता च पुण्यभाजनमात्मानममन्यत । अकथयच्च दधीचसंदिष्टं शिरसि निहितेनाञ्जलिना नमस्कारम् । अगृह्णाच्चाकरतः प्रभृत्यग्राम्यतया तैस्तरतिपेशलैरालापैः सावित्रीसरस्वत्योर्मनसी । क्रमेण चातीते मध्यन्दिनसमये शोणमवतीर्णायां सावित्र्यां स्नातुमुत्सारितपरिजना साकूतेव मालती कुसुमस्रस्तशायिनीं समुपसृत्य सरस्वतीमाबभाषे--देवि, विज्ञाप्यं नः किञ्चिदस्ति रहसि । यतो मुहूर्तमवधानदानेन प्रसादं क्रियमाणमिच्छामिऽ इति । सरस्वती तु दधीचसदेशाशङ्किनी किं वक्ष्यतीति स्तननिहितवामकरनखरकिरणदन्तुरितमुद्भिद्यमानकुतूहलाङ्कुरनिकरमिव हृदयमुत्तरीयकूलवल्कलैकदेशेन संछादयन्ती, गलतावतंसपल्लवेन श्रोतुं श्रवणेनेव कुतूहलाद्धावमानेनाविरतश्वाससंदोहदोलायितां जीविताशामिव समासन्नतरुणतरुलतामवलम्बमाना, समुत्फुल्लस्य मुखशशिनो लावण्यप्रवाहेण शृङ्गाररसेनेवाप्लावयन्ती सकलं जीवलोकम्, शयनकुसुमपरिमललग्नैर्मधुकरकदम्बकैर्मदनानलदाहश्यामलैर्मनोरथैरिव निर्गत्य मूर्तैरुत्क्षिप्यमाणा, कुसुमशयनीयात्स्मरशरसंज्वरिणी, मन्दं मन्दमुदागात् । "उपांशु कथयऽ इति कपोलतलनतिबिम्बितां लज्जया कर्णमूलमिव मालतीं प्रवेशयन्ती मधुरया गिरा सुधीरमुवाच--"सखि मालति, किमर्थमेवमभिदधासि? काहमवधानदानस्य शरीरस्य प्राणानां वा? सर्वस्याप्रार्यितोऽपि प्रभवत्येवातिवेलं चक्षुष्यो जनः । सा न काचिद्या न भवसि मे स्वसा सखी प्रणयिनी प्राणसमा च । नियुज्यतां यावतः कार्यस्य क्षमं क्षोदीयसी गरीयसी वा शरीरकमिदम् । अनवस्करमाश्रवं त्वयि हृदयम् । प्रीत्या प्रतिसरा विधेयास्मि ते । व्यावृणु वरवर्णिनि, विवक्षितम्ऽ इति । सा त्ववादीत्--"देवि, जानास्येव माधुर्यं विषयाणाम्, लोलुपतां चेन्द्रियग्रामस्य, उन्मादितां च नवयौवनस्य, पारिप्लवतां च मनसः । प्रख्यातैव मन्मथस्य दुर्निवारता । अतो न मामुपालम्भेनोपस्थातुमहसि । न च बालिशता चपलता चारणता वा वाचालतायाः कारणम् । न किञ्चिन्न कारयत्यसाधारणा स्वामिभक्तिः । सा त्वं देवि, यदैव दृष्टासि देवेन तत एवारब्यास्य कामो गुरुः, चन्द्रमा जीवितेशः, मलयमरुदुच्छ्वासहेतुः, आधयोऽन्तरङ्गस्थानेषु, संतापः, परमसुहृत्, प्रजागर आप्तः, मनोरथाः सर्वगताः, निःश्वासा विग्रहाग्रेसराः, मृत्युः पार्श्ववर्ती, रणरणकः संचारकः संकल्पा बुद्ध्युपदेशवृद्धाः । किञ्च विज्ञापयामि । अनुरूपो देव इत्यात्मसंभावना, शीलवानिति प्रक्रमविरुद्धम्, धोर इत्यवस्थाविपरीतम्, सुभग इति त्वदायत्तम्, स्थिरप्रीतिरिति निपुणोपक्षेपः, जानाति सेवितुमित्यस्वामिबावोचितम्, इच्छति दासभावमामरणात्कर्तुमिति धूर्तालापः, भवनस्वामिनी भवेत्युपप्रलोभनम्, पुण्यभागिनी भजति भर्तारं तादृशमिति स्वामिपक्षपातः, त्वं तस्य मृत्युरित्यप्रियम्, अगुणज्ञासीत्यधिक्षेपः, स्वप्नेऽप्यस्य बहुशः कृतप्रसादासीत्यसाक्षिकम्, प्राणरक्षार्थमर्थयत इति कातरता, तत्र गम्यतामित्याज्ञा, वारितोऽपि बलादागच्छतीति परिभवः । तदेवमगोचरे गिरामसीति श्रुत्वा देवी प्रमाणम्ऽ इत्यभिधाय तूष्णीमभूत । अथ सरस्वती प्रीतिविस्फारितेन चक्षुषा प्रत्यवादीत-"अयि, न शक्नोमि बहु बाषितुम् । एषास्मि ते स्मितवादिनि वचसि स्थिता । गृह्यन्ताममी प्राणाःऽ इति । मालती तु देवि, यदाज्ञापयसि, अतिप्रसादायऽ इति व्याहृत्य प्रहर्षपरवशा प्रणम्य प्रजविना तुरगेण ततार शोणम् । अगाच्च दधीचमानेतु च्यवनाश्रमपदम् । इतरा तु सखीस्नेहेन सावित्रीमपि विदितवृत्तान्तामकरोत् । उत्कण्ठाभारभृता च ताम्यता चेतसा कल्पायितं कथङ्कथमपि दिवसशेषमनैषीत् । अस्तमुपगते च भगवति गभस्तिमति, स्तिमिततरमवतरति तमसि, प्रहसितामिव सितां दिशं पौरन्दरीं दरीमिव केसरिणि मुञ्चति चन्द्रमसि सरस्वती शुचिनि चीनांशुकसुकुमारतरे तरङ्गिणि दुगूलकोमलशयन इव शोणसैकते समुपविष्टा स्वप्नकृतप्रार्थना पादपतनलग्नां दधीचचरणनखचन्द्रिकामिव ललाटिकां दधाना, गण्डस्थलादर्शप्रतिबिम्बतेन "चारुहासिनि, अयमसावाहृतो हृदयदयितो जनःऽ इति श्रवणसमीपवर्तिना निवेद्यमानमदनसंदेशेवेन्दुना, विकीर्यमाणनखकिरणचक्रवालेन वालव्यजनीकृतचन्द्रकलाकलापेनेव करेण वीजयन्ती स्वेदिनं कपोलपट्टम्, "अत्र दधीचादृते न केनचित्प्रवेष्टव्यम्ऽ इति तिरश्वीनं चित्तभुवा पातितां विलासवेत्रलतामिव बालमृणालिकामधिस्तनं स्तनयन्ती कथमपि हृदयेन वहन्ति प्रतिपालयामास आसीच्चास्या मनसि--"अहमपि नाम सरस्वती यत्रामुना मनौजन्मना जानत्येव परवशीकृता । तत्र का गणनेतरासु तपस्विनीष्वतितरलासु तरुणीषुऽ इति । आजगाम च मधुमास इव सुरभिगन्धवाहः, हंस इव कृतमृणालधृतिः, शिखण्डीव घनप्रीत्युन्मुखः, मलयानिल इवाहितसरसचन्दनघवलतनुलतोत्कम्पः, कृष्यमाण इव कृतकरकचग्रहेण ग्रहपतिना, प्रेर्यमाण इव कन्दर्पोद्दीपनदक्षेण दक्षिणानिलेन, उउह्यमान इवोत्कलिकाबहुलेन रतिसरसेन, परिमलसंपातिना मधुपपटलेन पटेनेव नीलेनाच्छादिताङ्गयष्टिः, अन्तःस्फुरता मत्तमदनकरिकर्णशह्खायमानेन प्रतिमेन्दुना प्रथमसमागमविलासविलक्षस्मितेनेव धवलीक्रियमाणैककपोलोदरो मालतीद्वितीयो दधीचः । आगत्य च हृदयगतदयितानूपुररवविमिश्रयेव हंसगद्गदया गिरा कृतसंभाषणो यथा मन्मथः समाज्ञापयति, यथा यौवनमुपदिशति, यथा विदग्धताध्यापयति, यथानुरागः शिक्षयति, तथा तामभिरामां रामामरमयत् । उपजातविस्रम्भा चात्मानमकथयदस्य सरस्वती । तेन तु सार्धमेकदिवसमिव संवत्सरमधिकमनयत् । अथ दैवयोगात्सरस्वती बभार गर्भम् । असूत चानेहसा सर्वलक्षणाभिरामं तनयम् । तस्मै च जातमात्रायैव "सम्यक्सरहस्याः सर्वेवेदाः सर्वाणि च शास्त्राणि सकलाश्च कला मत्प्रभावातॄ स्वयमाविर्भविष्यन्तिऽ इति वरमदातॄ । सद्भर्तृश्लाघया दर्शयितुमिव हृदयेनादाय दधीचं पितामहादेशात्समं सावित्र्या पुनरपि ब्रह्नलोकमारुरोह । गतायां च तस्यां दधीचोऽपि हृदये ह्रादिन्येवाभिहतो भार्गववंशसंभूतस्य भ्रातुर्ब्राह्नणस्य जायामक्षमालाभिधानां मुनिकन्यकामात्मसूनोः संवर्धनाय नियुज्य विरहातुरस्तपसे वनमसात् । यस्मिन्नेवावसरे सरस्वत्यसूत तनयं तस्मिन्नेवाक्षमालापि सुतं प्रसूतवती । तौ तु सा निर्विशेषं सामान्यस्तन्यादिना शनैः शनैः शिशू समवर्धयत् । एकस्तयोः सारस्वताख्य एवाभवतॄ, अपरोऽपि वत्सनामासीत् । आसीच्च तयोः सोदर्ययोरिव स्पृहणीया प्रीतिः । अथ सारस्वतो मातुर्महिम्ना यौवनारम्भ एवाविर्भूताशेषविद्यासंभारस्तस्मिन्सवयसि भ्रातरि प्रेयसि प्राणसमे सुहृदि वत्से वाङ्मयं समस्तमेव संचारयामास । चकार च कृतदारपरिग्रहस्यास्य तस्मिंन्नेव प्रदेशे प्रीत्या प्रीतिकूटनामानं निवासम् । आत्मनाप्याषाढी, कृष्णाजिनी, अक्षवलयी, वल्कली, मेखली, जटी च भूत्वा तपस्यतो जनयितुरेव जगामान्तिकम् । अथ वत्सात्प्रवर्धमानादिपुरुषजनितात्मचरणोन्नतिः, निर्गतप्रघोषः, परमेश्वरशिरोधृतः, सकलकलागमगम्भीरः, महामुनिमान्यः, विपक्षक्षोभक्षमः, क्षितितललब्धायतिः, अस्खलितप्रवृत्तो भागीरथीप्रवाह इव पावनः प्रावर्तत विमलो वंशः । यस्मादजायन्त वात्स्यायनो नाम नृहमुनयः, आश्रितश्रौता अप्यनालम्बितालीकबककाकवः, कृतकुक्कुटव्रता अप्यबैडालवृत्तयः, विवर्जितजनपङ्क्तयः, परिहृतकपटकौरुकुचीकूर्चाकूताः, अगृहीतगह्वराः, न्यक्कृतनिकृतयः, प्रसन्नप्रकृतयः, विहतविकृतयः, परपरीवादपराचीनचेतोवृत्तयः, वर्णत्रयव्यावृत्तिविशुद्धान्धसः, धीरविषणः, विधूताध्येषणाः, असङ्कसुकस्वभावाः, प्रणतप्रणयिनः, शमितसमस्तशाखान्तरसंशीतयः उद्धाटितसमग्रग्रन्थार्थग्रन्थयः, कवयः, वाग्मिनः, विमत्सराः, परसुभाषितव्यसनिनः, विदग्धपरिहासवेदिनः, परिचयपेशलाः, सर्वातिथयः, सर्वसाधुसंमताः, सर्वसत्त्वसाधारणसौहार्दद्रवार्द्रीकृतहृदयाः, तथा सर्वगुणोपेता राजसेनानभिभूताः, क्षमाभाज आश्रितनन्दनाः, अनिस्त्रिंशा विद्याधराः, अजडाः कलावन्तः, अदोषास्तारकाः, अपरोपतापिनो भास्वन्तः, अनुष्माणो हुतभुजः, अकुसृतयो भोगिनः, अस्तम्भाः पुण्यालयाः, अलुप्तक्रुतुक्रिया दक्षाः, अव्यालाः कामजितः, असाधारणा द्विजातयः । तेषु चैवमुत्पद्यनमानेषु, संसरति च संसारे, यात्सु युगेषु, अवतीर्णे कलौ, वहत्सु वत्सरेषु, व्रजत्सु वासरेषु, अतिक्रामति च काले प्रसवपरम्पराभिरनवरतमापतति विकाशिनि वात्स्यायनकुले, क्रमेण कुबेरनामा वैनतेय इव गुरुपक्षपाति द्विजो जन्म लेभे । तस्याभवन्नच्युतरिशानो हरः पाशुपतश्चेति चत्वारो युगारम्भा इव ब्राह्नतेजोजन्यमानप्रजाविस्तारा नारायणबाहुदण्जा इव सच्चक्रनन्दकास्तनयाः । तत्र पाशुपतस्यैक एवाभवद्भूभार इवाचलकुलस्थितिः स्थिरश्चतुरुदधिगम्भीरोर्ऽथपतिरिति नाम्ना समग्राग्रजन्मचक्रचूडामणिर्महात्मा सूनुः । सोऽजनयद्भृगुं हंसं शुचिं कविं महीदतं धर्मं जातवेदसं चित्रभानुं त्र्यक्षं महिदत्तं विश्वरूपं चेत्येकादश रुद्रानिव सोमामृतरसशीकरच्छुरितमुखान्पवित्रान्पुत्रान् । अलभत च चित्रभानुस्तेषां मध्ये राजदेव्यभिधानायां ब्राह्नण्यां बाणमात्मजम् । स बाल एव बलवतो विधेर्वशादुपसंपन्नया व्ययुज्यत जनन्या । जातस्नेहस्तु नितरां पितैवास्य मातृतामकरोत । अवर्धत च तेनाधिकतरमाधीयमानधृतिर्धाम्नि निजे । कृतोपनयनादिक्रियाकलापस्य समावृत्तस्य चास्य चतुर्दशवर्षदेशीयस्य पितापि श्रुतिस्मृतिविहितं कृत्वा द्विजजनोचितं निखिलं पुण्यजातं कालेनादशमीस्थ एवास्तमगमत् । संस्थिते च पितरि महता शोकेनाभीलमनुप्राप्तो दिवानिशं दह्नमानहृदयः कथङ्कथमपि कतिपयान्दिवसानात्मगृह एवानैषीत् । गते च विरलतां शोके शनैः शनैरविनयनिदानतया स्वातन्त्रयस्य, कुतूहलबहुलतया च बालभावस्य, धैर्यप्रतिपक्षतया च यौवनारम्भस्य, शैशवोचितान्यनेकानि चापलान्याचरन्नित्वरो बभूव । अभवंश्चास्य सवयसः समानाः सुहृदः सहायाश्च । तथा च । भ्रातरौ पारशवौ चन्द्रसेनमातृषेणौ, भाषाकदिरीशानः परं मित्त्रम्, प्रणयिनौ रुद्रनारायणौ, विद्वांसो वारबाणवासबाणौ, वर्णकविर्वेणीभारतः प्राकृतकृत्कुलपुत्रो वायुविकारः, बन्दिनादनङ्गबाणसूचीबाणौ, कत्यायनिका चक्रवाकिका, जाङ्गुलिको मयूरकः, कलादस्चामीकरः हैरिकः सिन्धुषेणः, लेखको गोविन्दकः, चित्रकृ-द्वीरवर्मा, पुस्तकृत्कुमारदत्तः, मार्दङ्गिको जीमूतः, गायनौ सोमिलग्रहादित्यौ, सैरन्ध्री कुरङ्गिका, वांशिकौ मधुकरपारावतौ, गान्धर्वोपाध्यायो दर्दुरकः, संवाहिका, केरलिका लासकयुवा ताण्डविकः, आक्षिक आखण्जलः, कितवो भीमकः, शैलालियुवा शिखण्डकः, नर्तकी हरिणिका, पाराशरी सुमतिः, क्षपणको वीरदेवः, कथकोजयसेनः, शैवो वक्रघोणः, मन्त्रसाधकः करालः, असुरविवरव्यसनी लोहिताक्षः, धातुवादविद्विहङ्गमः, दार्दुरिको दामोदरः, ऐन्द्रजालिकश्चकीराक्षः, मस्करी ताम्रचूडकः । स एभिरन्यैश्चानुगम्यमानो बालतया निघ्नतामुपगतो देशान्तरावलोकनकौतुकाक्षिप्तहृदयः सत्स्वपिपितृपितामहोपात्तेषु ब्राह्नणजनोचितेषु विभवेषु सति चाविच्छिन्ने विद्याप्रसङ्गे गृहान्निरगात् । अगाच्च निरवग्रहो ग्रहवानिव नवयौवनेन स्वैरिणा मनसा महतामुपहास्यताम् । अथ शनै । शनैरत्युदारव्यवहृतिमनोहृन्ति बृहन्ति राजकुलानि वीक्षमाणः, निरवद्यविद्याविद्योतितानि गुरुकुलानि च सेवमानः, महार्हालापगम्भीरगुणवद्गोष्ठीश्चोपतिष्ठमानः, स्वभावगम्भीरधीर्धनानि विदग्धमण्डलानि च गाहमानः, पुनरपि तैमेव वैपश्चितीमात्मवंशोचितां प्रकृतिमभजतॄ । महतश्च कालात्तमेव भूयो वात्स्यायनवंशाश्रममात्मनो जन्मभुवं ब्राह्नणाधिवासमगमतॄ । तत्र च चिरदर्शनादभिनवीभूतस्नेहसद्भावैः ससंस्तवप्रकटितज्ञातेयैराप्तैरुत्सवदिवस इवानन्दितागमनो बालमित्रमण्डलमध्यगतो मोक्षसुखमिवान्वभवतॄ । इति श्रीमहाकविबाणमट्टकृतौ हर्षचरिते वात्स्यायनवंशवर्णनं नाम प्रथम उच्छ्वासः द्वितीय उच्छ्वासः अतिम्भीरे भूपे कूप इव जनस्य निरवतारस्य । दधति समीहितसिद्धिं गुणवन्तः पार्थिवा घटकाः ॥ २.१ ॥ रागिणि नलिने लक्ष्मीं दिवसो निदधाति दिनकरप्रभवाम् । अनपेक्षितगुणदोषः परोपकारः सतां व्यसनम् ॥ २.२ ॥ अथ तत्रानवरताध्ययनध्वनिमुखराणि, भस्मपुण्ड्रकपाण्डुरललाटैः कपिलशिखाजालजटिलैः कृशानुभिरिव क्रतुलोभागतैर्बटुभिरध्यास्यमानानि, सेकसुकुमारसोमकेदारिकाहरितायमानप्रघनानि, कृष्णाजिनविकीर्णशुष्यत्पुरोडाशीयश्यामाकतण्डुलानि, बालिकाविकीर्यमाणनीवारबलीनि, शुचिशिष्यशतानीयमानहरितकुशपूलीपलाशसमिन्धि, इन्धनगो मयपिण्डकूटसंकटानि, आमिक्षीयक्षीरक्षारिणीनामग्निहोत्रधेनूनां खुरवलयैर्विलिखिताजिरवितर्दिकानि, कमण्डलव्यमृत्पिण्डमर्दनव्यग्रयतिजनानि, वैतानवेदीशङ्कव्यानामौदुम्बरीणां शाखानां राशिभिः पवित्रितपर्यन्तानि वैश्वदेवपिण्डपाण्डुरितप्रदेशानि, हविर्धूमधूसरिताङ्गणविटपिकिसलयानि, वत्सीयबालकलालितललत्तरलतर्णकानि, क्रीडत्कृष्णसारच्छागशावकप्रकटितपशुबन्धप्रबन्धानि, शुकसारिकारब्धाध्ययनदीयमानोपाध्यायविश्रान्तिसुखानि, साक्षात्त्रयीतपोवनानीव चिरदृष्टानां बान्धवानां प्रीयमाणो भ्रमन्भवनानि, बाणः सुखमतिष्ठत् । तत्रस्थस्य चास्य कदाचित्कुसुमसमययुगमुपसंहरन्नजृम्भत ग्रीष्माभिधानः समुत्फुल्लमल्लिकाधवलाट्टहासो महाकालः । प्रत्यग्रनिर्जितस्यास्तमुपगतवतो वसन्तसामन्तस्य बालापत्येष्विव पयःपायिषु नवोद्यानेषु दर्शितस्नेहो मृदुरभूत् । अभिनवोदितश्च सर्वस्यां पृथिव्यां सकलकुसुमबन्धनमोक्षमकरोत्प्रतपन्नुष्णसमयः । स्वयमृतुराजस्याभिषेकार्द्राश्चामरकलापा इवागृह्यन्त कामिनीचिकुरचयाः कुसुमायुधेन, हिमदग्धसकलकमलिनीकोपेनेव हिमालयाभिमुखीं यात्रामदादंशुमाली । अथ ललाटन्तपे तपति तपने चन्दनलिखितललाटिकापुण्ड्रकैरलकचीरचीवरसंवीतैः स्वेदोदबिन्दुमुक्ताक्षवलयवाहिभिर्दिनकराराधननियमा इवागृह्यन्त ललनाललाटेन्दुद्युतिभिः । चन्दनधूसराभिरसूर्यम्पश्याभिः कुमुदिनीभिरिव दिवसमसुप्यत सुन्दरीभिः । निद्रालसा रत्नालोकमपि नासहन्त दृशः, किमुत जरठमातपम् । अशिशिरसमयेन चक्रवाकमिथुनाभिनन्दिताः सरित इव तनिमानमानीयन्त सोडुपाः शर्वर्यः । अभिनवपटुपाटलामोदसुरभिपरिमलं न केवलं जलम्, जनस्य पवनमपि पातुमभूदभिलाषो दिवसकरसन्तापात् । क्रमेण च खरखगमयूखे खण्डितशैशवे, शुष्यत्सरसि, सीदत्स्रेतसि, मन्दनिर्झरे झिल्लिकाझाङ्कारिणि, कातरकपोतकूजितानुबन्धबधिरितविश्वे, श्वसत्पतत्त्रिणि, करीर्षकषमरुति, विरलवीरुधि, रुधिरकुतूहलिकेसरिकिशोरकलिह्यमानकठोरधातकीस्तबके, ताम्यत्स्तम्बेरमयूथवमथुतिम्यन्महामहीधारनितम्बे, दिनकरदूयमानद्विरददीनदानाश्यानदानश्यामिकालीनमूकमधुलिहि, लोहितायमानमन्दारसिन्दूरितसीम्नि, सलिलस्यन्दसंदोहसंदेहमुह्यन्महामहिषविषाणकोटिविलिख्यमानस्फुटत्स्फाटिकदृषदि, घर्ममर्मरितगर्मुति, तप्तपांशुकुकूलकातरविकिरे, विवरशरणश्वाविधे, तटार्जुनकुररकूजाज्वरविवर्तमानोत्तानशफरशारपङ्कशेषपल्पलाम्भसि, दावजनितजगन्नीराजने, रजनीराजयक्ष्मणि, कठोरीभवति निदाघकाले प्रतिदिशमाजीकमाना इवोषरेषु प्रपावाटकुटीपटलप्रकटलुण्ठकाः, प्रपक्वकपिकच्छूगुच्छच्छटाच्छोटनचापलैरकाण्जकण्डूला इव कर्षन्तः शर्करिलाः कर्करस्थलीः, स्थूलदृषच्चूर्णमुचः, मुचुकुन्दकन्दलदलनदन्तुराः, संतततपनतापमुखरचीरीगणमुखशीकरशीक्यमानतनवः, तरुणतरतरणितापतरले तरन्त इव तरङ्गिणि मृगतृष्णिकातरङ्गिणीनामलीकवारिणि, शुष्यच्छमीमर्मरमारवमार्गलङ्घनलाघवजवजङ्घालाः, रैणवावर्तमण्डलीरेचकरासरसरभसारब्धनर्तनारम्भारभटीनटाः, दावदग्धस्थलीमषीमिलनमलिनाः शिक्षितक्षपणकवृत्तय इव वनमयूरपिच्छचयानुच्चिन्वन्तः, सप्रयाणगुञ्जा इव शिञ्जानजरत्करञ्जमञ्जरीबीजजालकैः सप्ररीहा इवातपातुरवनमहिषनासानिकुञ्जस्थूलनिःश्वासैः, सापत्या इवोड्डीयमानजवनवातहरिणपरिपाटीपेटकैः, सभ्रुकुटय इव दह्यमानखलधानबुसकूटकुटिलधूमकोटिभिः, सावीचिवीचय इव महोष्ममुक्तिभिः, लोमशा इव शीर्यमाणशाल्मलिफलतूलतन्तुभिः, दद्रुणा इव शुष्कपत्रप्रकराकृष्टिभिः, शिराला इव तृणवेणीविकरणैः उच्छ्मश्रव इव धूयमाननवयवशूकशकलशङ्कुभिः, दंष्ट्राला इव चलितशललसूचीशतैः, जिह्वाला इव वैश्वानरशिखाभिः, उत्सर्पत्सर्पकञ्चुकैश्चूडाला इव ब्रह्नस्तम्भरसाभ्यवहरणाय कवलग्रहमिवोष्णैः कमलवनमधुभिरभ्यस्यन्तः सकलसलिलोच्छोषणघर्मघोषणाघोरपटहैरिव शुष्कवेणुवनास्फोटनपटुरवैस्त्रिभुवनबिभीषिकामुद्भावयन्तः, च्युतचपलचाषपक्षश्रेणीशारितसृतयः, त्विषिमन्मयूखलतालातप्लोषकल्माषवपुष इव स्फुटितगुञ्जाफलस्फुलिङ्गाङ्गाराङ्किताङ्गाः, गिरिगुहागम्भीरभाङ्कारभीषणभ्रान्तयः, भुवनभस्मीकरणाभिचारचरुपचनचतुराः, रुधिराहुतिभिरिव पारिभद्रद्रुमस्तबकवृष्टिभिस्तर्पयन्तस्तारवान्वनविभावसून्, अशिशिरशिकतातारकितरंहसः, तप्तशैलविलीयमानशिलाजतुरसलवलिप्तदिशः, दावदहनपच्यमानचटकाण्डखण्डखचिततरुकोटरकीटपटलपुटपाकगन्दकटवः, प्रावर्तन्तोन्मत्ता मातरिश्वानः । सर्वतश्च भूरिभस्त्रासहस्रसंधुक्षणक्षुभिता इव जरठाजगरगम्भीरगलगुहावाहिवायवः, क्वचित्स्वच्छन्दतृणचारिणो हरिणाः, व्कचित्तरुतलविवरविवर्तिनो बभ्रवः, व्कचिज्जटावलम्बिनः कपिलाः व्कचिच्छकुनिकुलकुलायपातिनः श्येनाः, व्कचिद्विलीनलाक्षारसलोहितच्छवयोऽधराः, व्कचिदासादितशकुनिपक्षकृतपटुगतयो विशिखाः, व्कचिद्दग्धनिःशेषजन्महेतवो निर्वाणाः, व्कचित्कुसुमवासिताम्बरसुरभयो रागिणः, क्वचित्सधूमोद्गारा मन्दरुचयः, क्वचित्सकलजगद्ग्रासघस्मराः सभस्मकाः, क्वचिद्वेणुशिखरलग्नमूर्तयोऽत्यन्तवृद्धाः, क्वचिदचलोपयुक्तशिलाजतवः, क्षयिणः क्वचित्सर्वरसभुजः पीवानः, क्वचिद्दग्धगुग्गुलवो रौद्राः, क्वचिज्ज्वलितनेत्रदहनदग्धसकुसुमशरमदनाः कृतस्थाणुस्थितयः, चटुलशिखानर्तनारम्भारभटीनटाः क्वचिच्छुष्ककासारसृतिभिः स्फुटन्नीरसनीवारबीजलाजवर्षिभिर्ज्वालाञ्जलिभिरर्चयन्त इव घर्मघृणिम्, अघृणा इव हठहूयमानकठोरस्थलकमठवसाविस्रगन्धगृध्नवः, स्वमपि धूममम्भोदसमुद्भूतिभियेव भक्षयन्तः सतिलाहुतय इव स्फुटद्बहलबालकीटपटलाः कक्षेषु, श्वित्रिण इव प्लोषविचटद्वल्कलधवलशम्बूकशुक्तयः, शुष्केषु सरःसु, स्वेदिन इव विलीयमानमधुपटलगोलगलितमधूच्छिष्टवृष्टयः काननेषु, खलतय इव परिशीर्यमाणशिखासंहतयो महोषरेषु, गृहीतशिलाकवला इव ज्वलितसूर्यमणिशकलेषु शिलोच्चयेषु, प्रत्यदृश्यन्त दारुणा दावानग्नयः । तथाभूते च तस्मिन्नत्यूग्रे ग्रीष्मसमये कदाचिदस्य स्वगृहावस्थितस्य भुक्तवतोऽपराह्णसमये ब्रात्रा पारशवश्चन्द्रसेननामा प्रविश्याकथयत्--"एष खलु देवस्य चतुःसमुद्राधिपतेः सकलराजचक्रचूडामणिश्रेणीशाणकोणकषणनिर्मलीकृतचरणनखमणेः सर्वचक्रवर्तिनां धौरेयस्यमहाराजाधिराजपरमेश्वरश्रीहर्षदेवस्य भ्रात्रा कृष्णनाम्ना भवतामन्तिकं प्रज्ञाततमो दीर्घाध्वगः प्रहितो द्वारमध्यास्तेऽ इति । सोऽब्रवीत्--"आयुष्मन्! अविलम्बितं प्रवेशयैनम्ऽ इति । अथ तेनानीयमानम्, अतिदूरगमनगुरुजडजङ्घाकाण्डम्, कार्दमिकचेलचीरिकानियमितोच्चण्डचण्डातकम्, पृष्ठप्रेङ्खत्पटच्चरकर्पटघटितगलग्रन्थिम्, अतिनिबिडसूत्रबन्धनिम्नितान्तरालकृतलेखव्यवच्छेदया लेखमालिकया परिकलितमूर्धानम्, प्रविशन्तं लेखहारकमद्राक्षीत् । अप्राक्षीच्च दूरादेव--"भद्र, भद्रमशेषभुवननिष्कारणबन्धोस्तत्रभवतः कृष्णस्य? इति । स "भद्रम्ऽ इत्युक्त्वा प्रणम्य नातिदूरे समुपाविशत् । विश्रान्तश्चाब्रवीत्--"एष खलु स्वामिना माननीयस्य लेखः प्रहितःऽ इति विमुच्या र्पयत् । बाणस्तु सादरं गृहीत्वा स्वयमेवावाचयत्--"मेखलकात्संदिष्टम्वधार्य फलप्रतिबन्धी धीमता परिहरणीयः कालातिपात इत्येतावदत्रार्थजातम् । इतरद्वार्तासंवादनमात्रकम्ऽ । अवधृतलेखार्थश्च समुत्सारितपरिजनः संदेशं पृष्टवान् । मेखलकस्त्ववादीत्--"एवमाह मेधाविनं स्वामी--जानात्येव मान्यो यथैकगोत्रता वा, समानज्ञानता वा, समानजातिता वा, सहसंवर्धनं वा, एकदेशनिवासो वा, दर्शनाभ्यासो वा, परस्परानुराग, श्रवणं वा, परोक्षोपकारकरणं वा, समानशीलता वा, स्नेहस्य हेतवः । त्वयि तु विना कारणेनादृष्टेऽपि प्रत्यासन्ने बन्धाविव बद्धपक्षपातं किमपिस्निह्यति मे हृदयं दूरस्थेऽपीन्दोरिव कुमुदाकरे । यतो भवन्तमन्तरेणान्यथा चान्यथा चायं चक्रवर्ती दुर्जनैर्ग्राहित आसीत् । न च तत्तथानसन्त्येव ते येषां सतामपि सतां न विद्यन्ते मित्रोदासीनशत्रवः । शिशुचापलापराचीनचेतोवृत्तितया च भवतः केनचिदसहिष्णुना यत्किञ्चिदसदृशमुदीरितम्, इतरो लोकस्तथैव तद्गृह्णाति वक्ति च । सलिलानीव गतानुगतिकानि लोलानि खलु भवन्त्यविवेकिनां मनांसि । बहुमुखश्रवणनिश्चलीकृतनिश्चयश्च किं करोतु पृथिवीपतिः । तत्त्वान्वेषिभिश्चास्माभिर्दूरस्थितोऽपि प्रत्यक्षीकृतोऽसि । विज्ञप्तश्चक्रवर्ती त्वदर्थम्-यथा प्रायेण प्रथमे वयसि सर्वंस्यैव चापलैः शैशवमपराधोति । तथेति च स्वामिना प्रतिपन्नम् । अतो भवता राजकगुलमकृतकालक्षेपमागन्तव्यम् । अवकेशीवादृष्टपरमेश्वरो बन्धुमध्यमधिवसन्नपि न मे बहुमतः । न च सेवार्वषम्यविषादिना परमेश्वरोपसर्पणभीरुणा वा भवता भवितव्यम् । यतो यद्यपि-- स्वेच्छोपजातविषयोऽपि न याति वक्तुं देहौति मार्गणशतैश्च ददाति दुःखम् । मोहात्समाक्षिपति जीवनमप्यकाण्डे कर्ष्ट मनोभव इवेश्वरदुर्विदग्धः ॥ तथाप्यन्ये ते भूपतयः, अन्य एवायम् । न्यक्कृतनृगनलनिषधनहुषाम्बरीषदशरथदिलीपनाभारगभरतभगीरथययातिरमृतमयः स्वामी । नास्याहङ्कारकालकूटविषदिग्धदुष्टा दृष्टयः, न गर्वगरगुरुगलग्रहगदगद्गदा गिरः, नातिस्मयोष्मापस्मारविस्मृतस्थैर्याणि स्थानकानि, नोद्दामदर्पदाहज्वरवेगविक्लवा विकाराः, नाभिमानमहासन्निपातनिर्मिताह्गभङ्गानि गतानि, न मदार्दितवक्रीकृतौष्ठनिष्ठ्यूतनिष्ठुराक्षराणि जल्पितानि । तथा च--अस्य विमलेषु साधुषु रत्नबुद्धिः, न शिलाशकलेषु । मुक्ताधवलेषु गुणेषु प्रसाधनधीः, नाभरणभारेषु । दानवत्सु कर्मसु साधनश्रद्धा, न करिकीटेषु । सर्वाग्रेसरे यशसि महाप्रीतिः, न जीवितजरत्तृणे । गृहीतकरास्वाशासु प्रसाध्नाभियोगः न निजकलत्रधर्मपुत्रिकासु । गुणवति धनुषि सहायबुद्धिः, न पिण्डोपजीविनि सेवकजने । अपि च--अस्य मित्रोपकरणमात्मा, भृत्योपकरणं प्रभुत्वम्, पण्डितोपकरणं वैदग्ध्यम्, बान्धवोपकरणं लक्ष्मीः, कृपणोपकरणमैश्वर्यम्, द्विजोपकरणं सर्वस्वम्, सुकृतसंस्मरणोपकरणं हृदयम्, धर्मोपकरणमायुः, साहसोपकरणं शरीरमसिलतोपकरणं पृथिवी, विनोदोपकरणं राजकम्, प्रतापोपकरणं प्रतिपक्षः । नास्याल्पपुण्यैरवाप्यते सर्वातिशायिसुखरसप्रसूतिः पादपल्लवच्छायाऽ इति । श्रुत्वा च तमेव चन्द्रसेनं समादिशत्--"कृतकशिपुं विश्रान्तसुखिनमेनं कारयऽ इति । अथ गते तस्मिन्, पर्यस्ते च वासरे, संघट्टमानरक्तपङ्कजसंपुटपीयमान एव क्षयिणि क्षामतां व्रजति बालवायसास्यारुणेऽपराह्णातपे, शिथिलितनिजवाजिजवे जपापीडपाटलिम्न्यस्ताचलशिखरस्खलिते खञ्जतीव कमलिनीकण्टकक्षतपादपल्लवे पतङ्गे, पुरः परापतति प्रेङ्खदन्धकारलेशलम्बालके शशिविरहशोकश्याम इव श्यामामुखे, कृतसंध्योपासनः शयनीयमगात् । अचिन्तयच्चैकाकी--किं करोमि । अन्यथा सम्भावितोऽस्मि राज्ञा । निर्निमित्तबन्धुना च संदिष्टमेवं कृष्णेन । कष्टा च सेवा । विषमं भृत्यत्वम् । अतिगम्भीरं महद्राजकुलम् । न च मे तत्र पूर्वजपुरुषप्रवर्तिता प्रीतिः, न कुलक्रमागता गतिः, नोपकारस्मरणानुरोधः, न बालसेवास्नेहः, न गोत्रगौरवम्, न पूर्वदर्शनदाक्षिण्यम्, न प्रज्ञासंविभागोपप्रलोभनम्, न विद्यातिशयकुतुहलम्, नाकारसौन्दर्यादरः, न सेवाकाकुकौशलम्, न विद्वद्गोष्ठीबन्धवैदग्ध्यम्, न वित्तव्ययवशीकरणम्, न राजवल्लभपरिचयः । अवश्यं गन्तव्यञ्च । सर्वथा भगवान्भवानीपतिर्भुवनपतिर्गतस्य मे शरणम्, सर्वं साम्प्रतमाचरिष्यति, इत्यवधार्यं गमनाय मतिमकरोत् । अथान्यस्मिन्नहन्युत्थाय, प्रातरेव स्नात्वा, धृतधवलदुकूलवासाः, गृहीताक्षमालः, प्रास्थानिकानि सूक्तानि मन्त्रपदानि च बहुशः समावर्त्य देवदेवस्य विरूपाक्षस्य क्षीरस्नपनपुरःसरां सुरभिकुसुमधूपगन्धध्वजबलिविलेपनप्रदीपकबहुलां विधाय परमया भक्त्या पूजाम्, प्रथमहुततरलतिलत्वग्विघटनचटुलमुखरशिखाशेखरं प्राज्याज्याहुतिप्रवर्धितदक्षिणार्चिषं भगवन्तमाशुशुक्षणिं हुत्वा, दत्त्वा द्युम्नं यथाविद्यमानं द्विजेभ्यः, प्रदक्षिणीकृत्य प्राङ्मुखीं नैचिकीम्, शुवलाङ्गरागः, शुक्लमाल्यः, शुक्लवासाः, रोचनाचित्रदूर्वाग्रपल्लवग्रथितगिरिकर्णिकाकुसुमकृतकर्णपूरः, शिखासक्तसिद्धार्थकः, पितुः कनीयस्या स्वस्रा मात्रेव स्नेहार्द्रहृदयया श्वेतवाससा साक्षादिव भगवत्या महाश्वेतया मालत्याख्यया कृतसकलगमनमङ्गलः, दत्ताशीर्वादो बान्धववृद्धाभिः, अभिनन्दितः परिजनजरतीभिः वन्दितचरणैरभ्यनुज्ञातो गुरुभिः, अभिवादितैराघ्रातः शिरसि कुलवृद्धैः, वर्धितगमनोत्साहः शकुनैः, मौहूर्तिकमतेन कृतनक्षत्रदोहदः, शोभने मुहूर्ते हरितगोमयोपलिप्ताजिरस्थण्डिलस्थापितमसितेतरकुसुममालापरिक्षिप्तकण्डं दत्तपिष्टपञ्चाङ्गुलपाण्डुरं मुखनिहितनवचूतपल्लवं पूर्णकलशमीक्षमाणः प्रणम्य कुलदेवताभ्यः कुसुमफलपाणिभिरप्रतिरथं जपद्भिर्निजर्द्विजैरनुगम्यमानः, प्रथमचलितदक्षिणचरणः, प्रीतिकूटान्निरगात् । प्रथमेऽहनि तु घमकालकष्टं निरुदकं निष्पत्रपादपविषमं पथिकजननमस्क्रियमाणप्रवेशपादपोत्कीर्णकात्यायनीप्रतियातनं शुष्कमपि पल्लवितमिव तृषितश्वापदकुललम्बितलोलजिह्वालतासहस्रैः पुलकितमिवाच्छभल्लगोलाङ्गूललिह्यमानमधुगोलचलितसरघासंघातैः, रोमाञ्चितमिव दग्धस्थलीरूढस्थूलाभीरुकन्दलशतैः, शनैश्चण्डिकायतनकाननमतिक्रम्य मल्लकूटनामानं ग्राममगात् । तत्र च हृदयनिर्विशेषेण भ्रात्रा सुहृदा च जगत्पतिनाम्ना संपादितसपर्यः सुखमवसत् । अथापरेद्युरुत्तीर्य भगवतीं भागीरथीं यष्टिगृहकनाम्नि वनग्रामके निशामनयत् । अन्यस्मिन्दिवसे स्कन्धावारमुपमणिपुरमन्वजिरवति कृतसन्निवेशं समाससाद । अतिष्ठच्च नातिदूरे राजभवनस्य । निवर्तितस्नानाशनव्यतिकरो विश्रान्तश्च मेखलकेन सह याममात्रावशेषे दिवसे भुक्तवति भूभुजि प्रख्यातानां क्षितिभुजां बहूञ्शिबिरसंनि वेशान्वीक्षमाणः शनैः शनैः पट्टबन्धार्थमुपस्थापितैश्च डिण्डिमाधिरोहणायाहृतैश्चाभिनवबद्धैश्च विक्षेपोपार्जितैश्च कौशलिकागतैश्च प्रथमदर्शनकुतूहलोपनीतैश्च नागवीथीपालप्रेषितैश्च पल्लीपरिवृढढौकितैश्च स्वेच्छायुद्धक्रीडाकौतुकाकारितैश्च दूतसंप्रेषणप्रेषितैश्च दीयमानैश्चाच्छिद्यमानैश्च मुच्छमानैश्च यामावस्थापितैश्च सर्वद्वीपविजिगीषया गिरिभिरिव सागरसेतुबन्धनार्थमेकीकृतैर्ध्वजपटपटुपटहशङ्खचामराङ्गरागरमणीयैः पुष्याभिषेकदिवसैरिव कल्पितैर्वारणेन्द्रैः श्यामायमानम्, अनवरतचलितखुरपुटप्रहतमृदङ्गैश्च नर्तयद्भिरिव राजलक्ष्मीमुपहसद्भिरिव सृक्विपुटप्रसृतफेनाट्टहासेन जवजडजङ्घां हरिणजातिमाकारयद्भिरिव संघट्टहेतोर्हर्षहेषितेनोच्चैरुच्चैःश्रवसमुत्पतद्भिरिव दिवसकररथतुरगरुषा यक्षायमाणमण्डनचामरमालैगगनतलं तुरङ्गैस्तरङ्गायमाणम्, अन्यत्र प्रेषितैश्च प्रेष्यमाणैश्च प्रेषितप्रतिनिवृत्तैश्च बहुयोजनगमनगणनसख्याक्षरावलीभिरिव वराटिकावलीभिर्घटितमुखमण्डनकैस्तारकितैरिव संध्यातपच्छेदैररुणचामरिकारचितकर्णपूरैः सरक्तोत्पलैरिव रक्तशालिशालेयैरनवरतझणझणायमानचारुचामीकरघुरुघुरुकमालि कैर्जत्करञ्जवनैरिव रणितशूष्कबीजकोशीशतैः श्रवणोपान्तप्रेङ्खत्पञ्चरागवर्णोर्णाचित्रसूत्रजूटजटाजालैः कपिकपोलकपिलैः क्रमेलककुलैः कपिलायमानम्, अनय्त्र शरज्जलधरैरिव सद्यःस्रुतपयःपटलधवलतनुभिः कल्पपादपैरिव मुक्ताफलजालकजायमानालोकलुप्तच्छायामण्डलैर्नारायणनाभिपुण्डरीकैरि वाश्लिष्टगरुडपक्षैः क्षीरोदोद्देशैरिव द्योतमानविकटविद्रुमदण्डैः शेषफणाफलकैरिवोपरिस्फुरत्स्फीतमाणिक्यखण्डैः श्वेतगङ्गापुलिनैरिव राजहंसोपसेवितैरभिभवद्भिरिव निदाघसमयमुपहसद्भिरिव विवस्वतः प्रतापमापिबद्भिरिवातपं चन्द्रलोकमयमिव जीवलोकं जनयद्भिः कुमुदमयमिव कालं कुर्वद्भिर्ज्योत्स्नामयमिववासरं विरचयद्भिः फेनमयीमिव दिवं दर्शयद्भिरकालकमुदीसहस्राणीवसृजद्भिरुपहसद्भिरिव शातक्रतवीं श्रियं श्वेतायमानैरातपत्रखण्डैः श्वेतद्वीपायमानम्, क्षणदृष्टनष्टाष्टदिङ्मुखं च मुष्णद्भिरिव भुवनमाक्षेपोत्क्षेपदोलायितुं दिनं गतागतानीव कारयद्भिरुत्सारयद्भिरिव कुनृपतिसम्पर्ककलङ्ककालीं कालेयीं स्थितिं विकचविशदकाशवनपाण्डुरदशदिशं शरत्समयमिवोपपादयद्भिर्बिसतन्तुमयमिवान्तरिक्षमाविर्भावयद्भि ः शशिकररुचीना चलतां चामराणां सहस्रैर्देलायमानम्, अपि च हंसयूथाय्मानं करिकर्णशङ्खेः, कल्पलतावनायमानं कदलिकाभिः, माणिक्यवृक्षकवनायमानं मायूरातपत्रेः, मन्दाकिनीप्रवाहायमाणमंशुकैः, क्षीरोदायमानं क्षौमैः, कदलीवनायमानं मरकतमयूखैः, जन्यमानान्यदिवसमिव पझरागबालातपैः, उत्पद्यमानापराम्बरमिवेन्द्रनीलप्रबापटलैः, आरभ्यमाणापूर्वनिशमिव महानीलमयूखान्धकारैः स्यन्दमानानेककालिन्दीसहस्रमिव गारुडमणिप्रभाप्रतानैः अङ्गारकितमिव पुष्परागरश्मिभिः, कैश्चित्प्रवेशमलभमानैरधोमुखैश्चरणनखपतितवदनप्रतिबिम्बनिभेन लज्जया स्वाङ्गानीव विशद्भिः कैश्चिदङ्गुलीलिखितायाः क्षितेर्विकीर्यमाणकरनखकिरणकदम्बव्याजेन सेवाचामराणीवार्पयद्भिः कैश्चिदुरःस्थलदोलायमानेन्द्रनीलतरलप्रभापट्टैः स्वामिकोपप्रशमनाय कण्ठबद्धकृपाणपट्टैरिव कैश्चिदुच्छ्वाससौरभभ्राम्यद्भ्रमरपटलान्वकारितमुखैरपहृतलक्ष्मीशोकधृतलम्बश्मश्रुभिरिवान्यैः शेखरोड्डीयमानमधुपमण्डलैः प्रणामविडम्बनाभयपलायमानमौलिभिरिव निर्जितैरपि सुसंमानितैरिवानन्यशरणैरन्तरान्तरा निष्पततां प्रविशतां चान्तरप्रतीहाराणामनुमार्गप्रधानितानेकार्थिजनसहस्राणामनुयायिनः पुरुषा नश्रान्तैः पुनः पुनः पृच्छद्भिः "भद्र! अद्य भविष्यति भुक्त्वा स्थाने दास्यति दर्शनं परमेश्वरः, निष्पतिष्यति वा बाह्यां कक्षाम्ऽ इति दर्शनाशया दिवसं नयद्भिर्भुजनिर्जितैः शत्रुमहासामन्तैः समन्तादासेव्यमानम्, अन्यैश्च प्रतापानुरागागतैर्नानादेशजैर्महामहोपालैः प्रतिपालयद्भिर्नरपतिदर्शनकालमध्यास्यमानम्, एकान्तोपविष्टैश्च जैनैरार्हतैः पाशुपतैः पाराशरिभिर्वर्णिभिः सर्वदेशजन्मभिश्च जनपदैः सर्वाम्भोधिवेलावनवलयवासिभिश्च म्लेच्छजातिभिः सर्वदेशान्तरागतैश्च दूतमण्डलैरुपास्यमानं सर्वप्रजानिर्माणभूमिमिव प्रजापतीनां, लोकत्रयसारोच्चयरचितं चतुर्थमिव लोकम्, महाभारतशतैरप्यकथनीयसमृद्धिसंभारम्, कृतयुगसहस्रैरिव कल्पितसन्निवेशं स्वर्वार्बुदैरिव विहातरामणीयकम्, राजलक्ष्मोकोटिभिरिव कृतपरिग्रहं राजद्वारमगमत् । अभवच्चास्य जातविस्मयस्य मनसि--"कथमिवेदमियत्प्रमाणं प्राणिजातं जनयतां प्रजासृजां नासीत्परिश्रमः, महाभूतानां वा परिक्षयः, परमाणू नां वा विच्छेदः, कालस्य वान्तः, आयुषो वा व्युपरमः, आकृतीनां वा परिसमाप्तिःऽ इति । मेखलकस्तु दूरादेव द्वारपललोकेन प्रत्यभिज्ञायमानः "तिष्ठतु तावत्क्षणमात्रमत्रैव पुण्यबागीऽ इति तमभिधायाप्रतिहतः पुरः प्राविशत् । अथ स मुहूर्तादिव प्रांशुना, कर्णिकारगौरेण, वीध्रकञ्चुकच्छन्नवपुषा, समुन्मिषन्माणिक्यपदकबन्धबन्धुरवस्तबन्धकृशावलग्नेन, हिमशैलशिलाविशालवक्षसा, हरवृषककुदकूटविकटांसतटेन, उरसा चपलहृषीकहरिणकुलसंयमनपाशमिव हारं बिभ्रता, "कथयतं यदि सोमवंशसंभवः सूर्यवशसंभवो वा भूपतिरभूदेवंविधःऽ इति प्रष्टुमानीताभ्यां सोमसूर्याभ्यामिव श्रवणगताभ्यां मणिकुण्डलाब्यां समुद्भासमानेन, वहद्वदनलावण्यविसरवेणिकाक्षिप्यमाणैरधिकारगौरवाद्दीयमानमागेर्णेव दिनकृतः किरणैः प्रसादलब्धया विकचपुण्डरोकमुण्डमालयेव दीर्घया दृष्ट्या दूरादेवानन्दयता, नैष्ठुर्याधिष्ठानेऽपि प्रतिष्ठितेन पदे पदे प्रश्रयमिवावनम्रेण, मौलिना पाण्डुरमुष्णीषमुद्वहता, वामेन स्थूलमुक्ताफलच्छुरणदन्तुरत्सरुं करकिसलयेन कलयता कृपाणम्, इतरेणापनीततरलतां ताडिनीमिव लतां शात कौम्भीं वेत्रयष्टिमुन्मृष्टां धारयता पुरुषेणानुगम्यमानो निर्गत्यावोचत्--"एष खलु महाप्रतीहाराणामनन्तरश्चक्षुष्यो देवस्य पारियात्रनामा दौवारिकः । समनुगृह्णात्वेनमनुरूपया प्रतिपत्त्या कल्याणाभिनिवेशीऽ इति । दौवारिकस्तु समुपसृत्य कृतप्रणामो मधुरया गिरा सविनयमभाषत-- "आगच्छत । प्रविशत देवदर्शनाय । कृतप्रसादो देवःऽ इति । बाणस्तु "धन्योऽस्मि, यदेवमनुग्राह्यं मां देवो मन्यतेऽ इत्युक्त्वा तेनोपदिश्यमानमार्गः प्राविशदभ्यन्तरम् । अथ वनायुजैः, आरट्टजैः, भारद्वाजैः, सिन्धुदेशजैः, पारसीकैश्च, शोणैश्च, श्यामैश्च, श्वेतैश्च, पिञ्जरैश्च, हरिद्भिश्च, तित्तिरिकल्माषैश्च, पञ्चभद्रैश्च, मल्लिकाक्षंश्च, कृत्तिकापिञ्जरैश्च, आयतनिर्मांसमुखैः, अनुत्कटकर्णकोशैः, सुवृत्तश्लक्ष्णसुघटितघण्टिकाबन्धैः, यूपानुपूर्वीवक्रायतोदग्रग्रीवैः, उपचयश्वसत्स्वन्धसंधिभिः, निर्भुग्नोरःस्थलैः अस्थूलप्रगुणप्रसृतैर्लोहपीठकठिनखुरमण्डलैः, अतिज्वत्रुटनभयादनिर्मितान्त्राणीवोदराणि वृत्तानि धारयद्भिः, उद्यद्द्रो णीविभज्यमानपृथुजघनैः, जगतीदोलायमानबालपल्लवैः, कथमप्युभयतो निखातदृढभूरिपाशसंयमननियन्त्रितैः, आयतैरपि पश्चात्पाशबन्धपरवशप्रसारितैकाङ्घ्रिभिरायततरैरिवोपलक्ष्यमाणैः, बहुगुणसूत्रग्रथितग्रीवागण्डकैः, आमीलितलोचनैः, दूर्वारसश्यामलफेनलवशबलान् दशनगृहीतमुक्तान् फरफरितत्वचः कण्डूजुषः प्रदेशान् प्रजालयद्भिः, सालसवलितवालधिभिः, एकशफविश्रान्तिश्रमस्रस्तशिथिलितजघनार्धैः, निद्रया प्रध्यायद्भिश्च, स्खलितहुङ्कारमन्दमन्दशब्दायमानैश्च, ताडितखूरधरणीरणितमुखरशिखरशुरलिखितक्ष्मातलैर्घासमभिलषद्भिश्च, ताडितखूरधरणीरणितमुखरशिखरखुरलिखितक्ष्मातलैर्घासमभिलषद्भिश्च, प्रकीर्यमाणयवसग्रासरसमत्सरसमुद्भूतक्षोभैश्च, प्रकुपितचण्डचण्डालहुङ्कारकातरतरतरलतारकैश्च, कुङ्कुमप्रमृष्टिपिञ्जराङ्गतया सततसन्निहितनीराजनानलरक्ष्यमाणैरिवोपरिविततवितानैः, पुरःपूजिताभिमतदैवतैः, भूपालवल्लभैस्तुरङ्गैरारचितां मन्दुरां विलोकयन्, कुतूहलाक्षिप्तहृदयः किञ्चिदन्तरमतिक्रान्तो हस्तवामेनात्युच्चतया निरवकाशमिवाकाशं कुर्वाणम्, महता कदलीवनेन परिवृतपर्यन्तं सर्वतो मधुकरमयीभिर्मदस्रुतिभिर्नदीभिरिवापतन्तीभिरापूर्यमाणम्, आशामुखविसर्पिणा बकुलवनानामिव विकसतामामोदेव लिम्पन्तं घ्राणेन्द्रियं दूरादव्यक्तमिभधिष्ण्यागारमपश्यत् । अपृच्छच्च--"अत्र देवः किङ्करोति?ऽ इति । असावकथयत्--"एष खलु देवस्यौपवाह्यो वाह्यं हृदयं जात्यन्तरित आत्मा बहिश्चराः प्राणा विक्रमक्रीडासुहृद्दर्पशात इति यथार्थनामा वारणपतिः । तस्यावस्थानमण्डपोऽयं महान् दृश्यतेऽ इति । स तमवादीत्--"भद्र! श्रूयते दर्पशातः यद्येवमदोषो वा पश्यामि तावद्वारणेन्द्रमेव । अतोर्ऽहसि मामत्र प्रापयितुम् । अतिपरवानस्मि कूतूहलेनऽ इति । सोऽभाषत--"भवत्वेवम् । आगच्छतु भवान् । को दोषः । पश्यतु तावद्वारणेन्द्रम्ऽ इति । गत्वा च तं प्रदेशं दूरादेव गभ्भीरगलगर्जितैर्वियति चातककदम्बकैर्भुवि च भवननीलकण्ठकुलैः कलकेकाकलकलमुखरमुखैः क्रियमाणाकालकोलाहलम्, विकचकदम्बसंवादिमदसुरासौरभभरितभुवनम्, कायवन्तमिवाकालमेघकालम्, अविरलमधुबिन्दुपिङ्गलपझजालकितां सरसीमिवात्यवगाढां दशां चतुर्थीमुत्सृजन्तम्, अनवरतमवतंसशङ्कैरामन्द्रकर्णतालदुन्दुभिध्वनिभिः पञ्चमीप्रवेशमङ्गलारम्भमिव सूचयन्तम् । अविरतचलनचित्रत्रिपदीललितलास्यलयैर्देलायमानदीर्घदेहाभोगवत्तया मेदिनीविदलनभयेन भारमिव लघयन्तम्, दिग्भित्तितटेषु कायमिव कण्डूयमानम्, आहवायोदस्तहस्ततया दिग्वारणानिवाह्वयमानम्, ब्रह्नस्तम्भमिव स्थूलनिशितदन्तेन करपत्रेण पाटयन्तम्, अमान्तं भुवनाब्यन्तरे बहिरिव निर्गन्तुमीहमानम्॑ सर्वतःसरसकिसलयलतालासिभिर्लेशिकैश्चिरपरिचयोपचितैर्वनैरि व विक्षिप्तं, सशैवलबिसविसरशबलसलिलैः सरोभिरिव चाधोरणैराधीयमाननिदाघसमयसमुचितोपचारानन्दम्, अपि च प्रतिगजदानपवनादानदूरोत्क्षिप्तेनानेकसमरविजयगणनालेखाभिरि व वलिवलयराजिभिस्तनीयसीभिस्तरङ्गितोदरेणातिस्थवीयसा हस्तार्गलदण्डेनार्गलयन्तमिव सकलं सकुलशैलसमुद्रद्वीपकाननं ककुभां चक्रवालम्, एकं करान्तरार्पितेनोत्पलाशेन कदलीदण्डेनान्तर्गतशीकरसिच्यमानमूलम्, मुक्तपल्लवमिवापरं लीलावलम्बिना मृणालजालकेन समररसोच्चरोमाञ्चकण्टकितमिव दन्तमाण्डमुद्वहन्तम्, विसर्पन्त्या च दन्तकाण्डयुगलस्य कान्त्या सरःक्रीडास्वा दितानि कुमुदवनानीव बहुधा वमन्तम्, निजयशोराशिमिव दिशामर्पयन्तम्, कुकरिकीटपाटनदुर्विदग्धान् सिंहानिवोपहसन्तम्, कल्पद्रुमदुकूलमुखपटमिव चात्मनः कलयन्तम्, हस्तकाण्डदण्डोद्धरणलीलासु च लक्ष्यमाणेन रक्तांशुकसुकुमारतरेण तालुना कवलितानि रक्तपझवनानीव वर्षन्तम्, अभिनवकिसलयराशीनिवोद्गिरन्तम्, कमलकवलपीतं मधुरसमिव स्वभावपिङ्गलेन वमन्तं चक्षुषां, चूतचम्पकलवलीलवङ्गकक्कोलवन्त्येलालतामिश्रितानि ससहकाराणि कर्पूरपूरितानि पारिजातकवनानीवोपभुकानि पुनःपुन करटाभ्यां बहलमदामोदव्याजेन विसृजन्तम्, अहर्निशं विभ्रमकृतहस्तस्थितिभिरर्धखण्डितपुण्ड्रेक्षुकाण्डकण्डूयनलिखितैरलिकुलवाचालितैर्दानपट्टकैर्विलभमानमिव सर्वकाननानि करिपतीनाम्, अविरलोदबिन्दुस्यन्दिना हिमशिलाशकलमयेन विभ्रमनक्षत्रमालागुणेन शिशिरीक्रियमाणम्, सकलवारणेन्द्राधिपत्यपट्टबन्धबन्धुरमिवोच्चैस्तरां शिरो दधानम्, मुहुर्मुहुः स्थगितापावृतदिङ्मुखाब्यां कर्णतालतालवृन्ताभ्यां वीजयन्तमिव भर्तृभक्त्या दन्तपर्यङ्किकास्थितां राजलक्ष्मीम्, आयतवंशक्रमागतेन गजाधिपत्यचिह्नेन चामरेणेव चलता वालधिना विराजमानम्, स्वच्छशिशिरशीकरच्छलेन दिग्विजयपीताः सरित इव पुनःपुनर्मुखेन मुञ्चन्तम्, क्षणमवधानदाननिःस्पन्दीकृतसकलावयवानामन्यद्विरदडिण्डिमाकर्णनाङ्गवलनानामन्ते दीर्घफूत्कारैः परिभवदुःखमिवावेदयन्तम्, अलब्धयुद्धमिवात्मानमनुशोचन्तम्, आरोहाधिरूढिपरिभवेन लज्जमानमिवाङ्गुलीलिखितमहीतलम्, मदं मुञ्चन्तम्, अवज्ञागृहीतमुक्तकवलकुपितारोहारटनानुरोधेन मदतन्द्रीनिमीलितनेत्रत्रिभागम्, कथं कथमपि मन्दमन्दमनादरादाददानं कवलान्, अर्धजग्धतमालपल्लवस्रुतश्यामलरसेन प्रभूततया मदप्रवाहमिव मुखेनाप्युत्सृजन्तम्, चलन्तमिव दर्पेण, श्वसन्तमिव शौर्येण, मूर्च्छन्तमिव मदेन, त्रुट्यन्तमिव तारुण्येन, द्रवन्तमिव दानेन, वल्गन्तमिव बलेन, माद्यन्तमिव मानेन, उद्यन्तमिवोत्साहेन, ताम्यन्तमिव तेजसा, लिम्पन्तमिव लावण्येन, सिञ्चन्तमिव सौभाग्येन, स्निग्धं नखेषु, परुषं रोमविषये, गुरुं मुखे, सच्छिष्यं विनये, मृदुं शिरसि, दृढं परिचयेषु, ह्रस्वं स्कन्धबन्धे, दीर्घमायुषि, दरिद्रमुदरे, सततप्रवृर्त्त दाने, बलभद्रं मदलीलासु, कुलकलत्रमायत्ततासु, जिनं क्षमासु, वह्निवर्षं क्रोधमोक्षेषु, गरुढं नागोद्धृतिषु, नारदं कलहकुतूहलेषु, शुष्काशनिपातमवस्कन्देषु, मकरं वाहिनीक्षोभेषु, आशीविषं दशनकर्मसु, वरुणं हस्तपाशाकृष्टिषु, यमवागुरामरातिसंवेष्टनेषु, कालं परिणतिषु, राहुं तीक्ष्णकरग्रहणेषु, लोहिताङ्गं वक्रचारेषु, अलातचक्रं मण्डलब्रान्तिविज्ञानेषु, मनोरथसंपादकं चिन्दामणिपर्वतं विक्रमस्य, दन्तमुक्ताशैलस्तम्भनिवासप्रासादमभिमानस्य, घण्टाचामरमण्डनमनोहरमिच्छासंचरणविमानं मनस्वितायाः, मदधारादुर्दिनान्धकारं गन्धोदकधारागृहं क्रोधस्य, सकाञ्चनप्रतिमं महानिकेतनमहङ्कारस्य, सगण्डशैलप्रस्रवणं क्रीडापर्वतमवलेपस्य, सदन्ततोरणं वज्रमन्दिरं दर्पस्य, उच्चकुम्भकूटाट्टालकविकटं संचारिगिरिदुर्गं राज्यस्य, कृतानेकबाणविवरसहस्रं लोहप्राकारं पृथिव्याः, शिलीमुखशतझाङ्कारितं पारिजातपादपं भूनन्दनस्य, तथा च संगीतगृहं कर्णतालताण्डवानाम्, आपानमण्डपं मधुपमण्डलानाम्, अन्तःपुरं शृङ्गाराभरणानाम्, मदनोत्सवं मदलीलालास्यानाम्, अक्षुण्णप्रदोषं नक्षत्रमालामण्डलानाम्, अकालप्रावृट्कालं मदमहानदीपूरप्लवानाम्, अलीकशरत्समयं सप्तच्छदवनपरिमलानाम्, अपूर्वहिमागमं शीकरनीहाराणाम्, मिथ्याजलधरं गर्जिताडम्बराणां दर्पशातमपश्यत् । आसीच्चास्य चेतसि--"नूनमस्य, निर्माणे गिरयो ग्राहिताः परमाणुताम् । कुतोऽन्यथा गौरवमिदम् । आश्चर्यमेतत् । विन्ध्यस्य दन्तावादिवराहस्य करःऽ इति विस्मयमानमेवं दौवारिकोऽब्रवीत्-- "पश्य,-- मित्यैवालिखितां मनोरथशतैर्निःशेषनष्टां प्रियं चिन्तासाधनकल्पनाकुलधियां भूयो वने विद्विषाम् । आयातः कथमप्ययं स्मृतिपथं शून्यीभवच्चेतसां नागेन्द्रः सहते न मानसगतानाशागजेन्द्रानपि ॥ तदेहि । पुनरप्येनं द्रक्ष्यसि । पश्य तावद्देवम्ऽ इत्यभिधीयमानश्च तेन मदजलपङ्किलकपोलपट्टपतितां मत्तामिव मदपरिमलेन मुकुलितां कथमपि तस्माद्दृष्टिमाकृष्य तेनैव दौवारिकेणोपदिश्यमानवर्त्मा समतिक्रम्य भूपालकुलसहस्रसंकृलानि त्रीणि कक्षान्तराणि चतुर्थे मुक्तास्थानमण्डपस्य पुरस्तादजिरे स्थितम्, दूरादूर्ध्वस्थितेन प्रांशूना कर्णिकारगौरेण व्यायामव्यायतवपुषा शस्त्रिणा मौलेन शरीरपरिवारकलोकेन पङ्क्तिस्थितेन कार्तस्वरस्तम्भमण्डलेनेव परिवृतम्, आसन्नोपविष्टविशिष्टेष्टलोकम्, हरिचन्दनरसप्रक्षालिते तुषारशीकरशीतलतले दन्तपाण्डुरपादे शशिमय इव मुक्ताशैलशिलापट्टशयने समुपविष्टम्, शयनीयपर्यन्तविन्यस्ते समर्पितसकलविग्रहभारं भुजे, दिङ्मुखविसर्पिणि देहप्रभाविताने विततमणिमयूखे घर्मसमयसुभगे सरसीव मृदुमृणालजालजटिलजले सराजकं रममाणम्, तेजसः परमाणुभिरिव केवर्लर्निर्मितम्, अनिच्छन्तमपि बलदारोपतयितुमिव सिंहासनम्, सर्वावयवेषु सर्वलक्षणैर्गृहीतम्, गृहीतब्रह्नचर्यमालिङ्गितं राजलक्षम्या, प्रतिपन्नासिधाराधारणव्रतमविसंवादिनं राजर्षिम्, विषमराजमार्गविनिहितपदस्खलनभियेव सुलग्नं धर्मे, सकलभूपालपरित्यक्तेन भीतेनेव लब्धवाचा सर्वात्मना सत्येन सेव्यमानम्, आसन्नवारविलासिनीप्रतियातनाभिश्चरणनखपातिनीभिर्दिग्भिरिव दशभिर्विग्रहावर्जिताभिः प्रणम्यमानम्, दीर्घैर्दिगन्तपातिभिर्दृष्टिपातैर्लोकपालानां कृताकृतमिव प्रत्यवेक्षमाणम्, मणिपादपीठपृष्ठप्रतिष्ठितकरेणोपरिगमनाभ्यनुज्ञां मृग्यमाणमिव दिवसकरेण, भूषणप्रभासमुत्सारणबद्धपर्यन्तमण्डलेन प्रदक्षिणीक्रियमाणमिव दिवसेन, अप्रमणमद्भिर्गिरिभिरपि दूयमानं, शौर्योष्मणा फेनायमानमिव चन्दनधवलं लावण्यजलधिमुद्वहन्तमेकराज्योर्जित्येन, निजप्रतिबिम्बान्यपि नृपचक्रचूडामणिधृतान्यसहमानमिवदर्पदुःखासिकया चामरानिलनिभेन बहुधेव श्वसन्तीं राजलक्ष्मीं दधानम्, सकलमिव चतुःसमुद्रलावण्यमादायोत्थितया श्रिया समुपश्लिष्टम्, आभरणमणिकिरणप्रभाजालजायमानानीन्द्रधनुःसहस्राणीन्द्रप्राभृतप्रहितानि विलभमानमिव राज्ञां संभाषणेषु परित्यक्तमपि मधु वर्षंन्तम्, काव्यकथास्वपीतमप्यमृतमुद्वमन्तम्, विस्रम्भभाषितेष्वनाकृष्टमपि हृदयं दर्शयन्तम्, प्रसादेषु निश्चलामपि श्रियं श्थाने श्थाने श्थापयन्तम्, वीरगोष्ठोषु पुलकितेन कपोलस्थलेनानुरागसंदेशमिवोपांशु रणश्रियः शृण्वन्तम्, अतिक्रान्तसुभटकलहालापेषु स्नेहवृष्टिमिव दृष्टिमिष्टे कृपाणे पातयन्तम्, परिहासस्मितेषु गुरुप्रतापभीतस्य राजकस्य स्वच्छमाशयमिवदशनांशुभिः कथयन्तम्, सकललोकहृदयस्थितमपि न्याये तिष्ठन्तम्, अगोचरे गुणानामभूमौ सौभाग्यानामविषये वरप्रदानानामशक्य आशिषाममार्गे मनोरथानामतिदूरे दैवस्यादिश्युपमानानामसाध्ये धर्मस्यादृष्टपूर्वे लक्ष्म्या महत्त्वे स्थितम्, अरुणपादपल्लवेन सुगतमन्थरोरुणा वज्रायुधनिष्ठुरप्रकोष्ठपृष्ठेन वृषस्कन्धेन भास्वद्बिम्बाधरेण प्रसन्नावलोकितेन चन्द्रमुखेन कृष्णकेशेन वपुषा सर्वदेवतावतारमिवैकत्र दर्शयन्तम्, अपि च मांसलमयूखमालामलिनितमहीतले महति महार्हे माणिक्यमालामण्डितमेखले महानीलमये पादपीठे कलिकालशिरसीव सलीलं विन्यस्तवामचरणम्, आक्रान्तकालियफणाचकवालं बालमिव पुण्डरीकाक्षम्, क्षौमपाण्डुरेण चरणनखदोधितिप्रतानेन प्रसरता महीं महादेवीपट्टबन्धेनेव महिमानमारोपयन्तम्, अप्रणतलोकपालकोपेनेवातिलोहितौ सकलनृपतिमौलिमालास्वतिपीतं पझरागरत्नातपमिव वमन्तौ सर्वतेजस्विमणअडलास्तमयसंध्यामिव धारयन्तावशेषराजककुसुमशेखरमधुरसस्रोतांसीव स्रवन्तौ समस्तसामन्तसीमन्तोत्तंसस्रक्सौरभभ्रान्तैर्भ्रमरमण्डलैरमित्रोत्तमाङ्गैरिव मुहूर्तमप्यविरहितौ सवाहनतत्परायाः श्रियो विकचरक्तपङ्कजवनवासभवनानीव कल्पयन्तौ जलजशङ्खमीनमकरसनाथतलतया कथितचतुरम्भोधिभोगचिह्नाविव चरमौ दधानम्, दिङ्नागदन्तमुसहाब्यामिव विकटमकरमुखप्रतिबन्धबन्धुराभ्यामुद्वेललावण्ययोधिप्रवाहाभ्यामि व फेनाहितशोभाब्यां कलाचन्दनद्रुमाभ्यामिव भोगिमण्डलशिरोरत्नरश्मिरज्यमानमूलाभ्यां हृदयारोपितभूभारधारणमाणिक्यस्तम्भाब्यामूरुदण्डाभ्यां विराजमानम्, अमृतफेनपिण्डपाण्डुना मेखलामणिमयूखखचितेन नितम्बबिम्बव्यासङ्गिना विमलपयोधौतेन नेत्रसूत्रनिवेशशोभिनाधरवाससा वासुकिनिर्मोकेणेव मन्दरं द्योतमानम्, अघनेन सतारागणेनोपरिकृतेन द्वितीयाम्बरेण भुवनाभोगमिव भासमानम्, इभपतिदशनमुसलसहस्रोल्लेखकठिनमसृणेनापर्याप्ताम्बरप्रथिम्ना विविधवाहिनीसंक्षोभकलकलसंमर्दसहिष्णुना कैलासमिव महता स्फटिकतटेनोरुणोरःकपाटेन विराजमानम्, श्रीसरस्वत्योरुरोवदनोपभोगविभागसूत्रेणेव पातितेन शेषेणेव च तद्भुजस्तम्भविन्यस्तसमस्तभूभारलब्धविश्रान्तिसुखप्रसुप्तेन हारदण्डेन परिवलितकन्धरम् । जीवितावधिगृहीतसर्वस्वमहादानदीक्षाचीरेणेव हारमुक्ताफलानां किरणनिकरेण प्रावृतवक्षःस्थलम्, अजजिगीषया बालैर्भुजैरिवापरैः प्ररोहद्भिर्बाहूपधानशायिन्याः श्रियाः कर्णोत्पलमधुरसधारासंतानैरिव गलद्भिर्भुजजन्मनः प्रतापस्य निर्गमनमार्गैरिवाविर्भवद्भिरुरणैः केयूररत्नकिरणदण्डैरुभयतःप्रसारितमणिमयपक्षवितानमिव माणिक्यमहीधरम्, सकललोकालोकमार्गार्गलेन चतुरुदधिपरिक्षेपखातशातकुम्भशिलाप्राकारेणसर्वराजहंसबन्धवज्रपञ्जरेण भुवनलक्ष्मीप्रवेशमङ्गलमहामणितोरणेनातिदीर्घदोर्दण्डयुगलेन दिशां दिक्पालानां च युगपदायतिमपहरन्तम्, सोदर्यलक्ष्मीचुम्बनलोभेन कौस्तुभमणेरिव मुखावयवतां गतस्याधरस्य गलता रागेण पारिजातपल्लवरसेनेव सिञ्चन्तं दिङ्मुखानि, अन्तरान्तरा सुहृत्परिहासस्मितैः प्रकीर्यमाणविमलदशनशिखाप्रतानैः प्रकृतिमूढायाराजश्रियाः प्रज्ञालोकमिव दर्शयन्तम्, मुखजनितेन्दुसन्देहागतानि कुमुदिनीवनानीव प्रेषयन्तम्, स्फुटस्फटिकधवलदशनपङ्क्तिकृतकुमुदवनशङ्काप्रविष्टां शरज्ज्योत्स्नामिव विसर्जयन्तम्, मदिरामृतपारिजातगन्धगर्भेण भरितसकलककुभा मुखामोदेनामृतमथनदिवसमिव सृजन्तम्, विकचमुखकमलकर्णिकाकोशेनानवरतमापीयमानश्वाससौरभमि वाधोमुखेन नासावंशेन, चक्षुषः क्षोरस्निग्धस्य धवलिम्ना दिङ्मुखान्यपूर्ववदनचन्द्रोदयोद्वेलक्षीरोदोत्प्लावितानीव कुर्वाणम्, विमलकपोलफलकप्रतिबिम्बतां चामरग्राहिणीं विग्रहिणीमिव मुखनिवासिनीं सरस्वतीं दधानम्, अरुणेन चूडामणिशोचिषा सरस्वतीर्ष्याकुपितलक्ष्मीप्रसादनलग्नेन चरणालक्तकेनेव लोहितायतललाटतटम्, आपाटलांशुतन्त्रीसंतानवलयिनीं कुण्डलमणिकुटिलकोटिबालवीणामनवरतचलितचरणानां वादयतामुपवीणयतामिव स्वरव्याकरणविवेकविशारदम्, श्रवणावतंसमधुकरकुलानां कलक्वणितमाकर्णयन्तम्, उत्फुल्लमालतीमयेन राजलक्ष्मयाः कचग्रहलीलालग्नेन नखज्योत्स्नावलयेनेव मुखशशिपरिवेषमण्डलेन मुण्डमालागुणेन परिकलितकेशान्तम्, शिखण्डाभरणभुवा मुक्ताफलालोकेन मरकतमणिकिरणकलापेन चान्योन्यसंवलनवृजिनेन प्रयागप्रवाहवेणिकावारिणेवागत्य स्वयमभिषिच्यमानम्, श्रमजलविलीनबहलकृष्णागुरुपङ्कतिलककलड्ककल्पितेन कालिम्ना प्रार्थनाचाटुचतुरचरणपतनशतश्यामिकाकिणएनेव नीलायमानललाटेन्दुलेखाभिः क्षुभितमानसोद्गतैरुत्कलिकाकलापैरिव हारैरुल्लसद्भिरवष्टभ्यमानाभिर्विलासवल्गनचजुलैर्ंभ्रूलताकल्पैरीष्य्रया श्रियमिव तर्जयन्तीभिरायामिभिः स्वसितैरविरलपरिमलैर्मलयमारुतमयैः पाशैरिवाकर्षन्तीभिर्विकटबकुलावलीवराटकवेष्टितमुखैर्बृहद्भिः स्तनकलशैः स्वदारसंतोषरसमिवाशेषमुद्धरन्तीभिः कुचोत्कम्पिकाविकारप्रेङ्खितानां हारतरलमणीनां रश्मिभिराकृष्य हृदयमिव हठात्प्रवेशयन्तीभिः प्रभामुचामाभरणमणीनां मयूखैः प्रसारितैर्बहुभिरिव बाहुबिरालिङ्गन्तीभिर्जृ म्भानुबन्धबन्धुरवदनारविन्दावरणीकृतैरुत्तानैः करकिसलयैः सरभसप्रधावितानि मानसानीव निरुन्धतीभिर्मदनान्धमधुकरकुलकीर्यमाणकर्णकुसुमरजःकणकूणितकोणानि कुसुमशरशरनिकरप्रहारमूर्च्छामुकुलितानीव लोचनानि चतुरं संचारयन्तीभिरन्योन्यमत्सरादाविर्भवद्भह्घुरमुकुटिविभ्रमक्षिप्तैः कटाक्षैः कर्णेन्दीवराणीव ताडयन्तीभिरनिमेषदर्शनसुखरसराशिं मन्थरितपक्ष्मणा चक्षुषा पीतमिव कोमलकपोलपालीप्रतिबिम्बितं वहन्तीभिरभिलाषलीलानिर्निमित्तस्मितैश्चन्द्रोदयानिव मदनसहायकाय संपादयन्तीभिरङ्गभह्गवलनान्योन्यघटितोत्तानकरवेणिकाभिः स्फुटनमुखराङ्गुलीकाण्डकुण्डलीक्रियमाणनखदीधितिनिवहनिभेनाकिञ्चित्करकामकार्मुकाणीव रुषा भञ्जन्तीभिर्वारविलासिनीभिर्विलुप्यमानसौभाग्यमिव सर्वतः, स्पर्शस्विन्नवेपमानकरकिसलयगलितचरणारविन्दां चरणग्राहिणीं विहस्य कोणेनलीलालसं शिरसि ताडयन्तम्, अनवरतकरकलितकोणतया चात्मनः प्रियां वीणामिव श्रियमपि शिक्षयन्तम्, निःस्नेह इति धनैः, अनाश्रयणीय इति दोषैः, निग्रहरुचिरितीन्द्रियैः, दुरुपसर्प इति कलिना, नीरस इति व्यसनैः, भीरुरित्ययशसा, दुर्ग्रहचित्तवृत्तिरिति चित्तभुवा, स्त्रीपर इति सरस्वत्या, षण्ढ इति परकलत्रैः, काष्ठामुनिरिति यतिभिः, धूर्त इति वेश्याभिः, नेय इति सुहृद्भिः, कर्मकर इति विप्रैः, सुसहाय इति शत्रुयोधैः, एकमप्यनेकधा गृह्यमाणम्, शन्तनोर्महावाहिनीपतिम्, भीष्माज्जितकाशितमम्, द्रोणाच्चापलालसम्, गुरुपुत्रादमोघमार्गणम्, कर्णान्मित्रप्रियम्, युधिष्ठिराद्बहुक्षमम्, भीमादनेकनागायुतबलम्, धनञ्जयान्महाभारतरणयोग्यम्, कारणमिव कृतयुगस्य, बीजमिव विबुधसर्गस्य, उत्पत्तिद्वीपमिव दर्पस्य, एकागारमिव करुणायाः, प्रातिवेशिकमिव पुरुषोत्तमस्य, खनिपर्वतमिव पराक्रमस्य, सर्वविद्यासंगीतगृहमिव सरस्वत्याः, द्वितीयामृतमन्थनदिवसमिव लक्ष्मीसमुत्थानस्य, बलदर्शनमिव वैदग्ध्यस्य, एकस्थानमिव स्थितीनाम्, सर्वस्वकथनमिव कान्तेः, अपवर्गमिव रूपपरमाणुसर्गस्य, सकलदुश्चरितप्रतायश्चित्तमिव राज्यस्य, सर्वबलसन्दोहावस्कन्दमिव कन्दर्पस्य, उपायमिव पुरन्दरदर्शनस्य, आवर्तनमिव धर्मस्य, कन्यान्तःपुरमिव कलानाम्, परमप्रमाणमिव सौभाग्यस्य राजसर्गसमाप्त्यवभृथस्नानदिवसमिव सर्वप्रजापतीनाम्, गम्भीरं च, प्रसन्नं च, त्रासजननं च, रमणीयं च, कौतुकजननं च, पुण्यं च, चक्रवर्त्तिनं हर्षमद्राक्षीत् । दृष्ट्वा चानुगृहीत इव निगृहीत इव साभिलाष इव तृप्त इव रोमाञ्चमुचा मुखेन मुञ्चन्नानन्दबाष्पवारिबिन्दून्दूरादेव विस्मयस्मेरः समचिन्तयत्--"सोऽयं सुजन्मा, सुगृहीतनामा, तेजसां राशिः, चतुरुदधिकेदारकुटुम्बी, भोक्ता ब्रह्नस्तम्भफलस्य, सकलादिराजचरितजयज्येष्ठमल्लो देवः परमेश्वरो हर्षः । एतेन च खलु राजन्वती पृथ्वी । नास्यहरेरिव वृषविरोधीनि बालचरितानि, न पशुपतेरिव दक्षजनोद्वेगकारीण्येश्वयविलासतानि, न शतक्रतोरिव गौत्रविनाशपिशुनाः प्रवादाः न यमस्येवातिवल्लभानि दण्डग्रहणानि, न वरुणस्येव निस्त्रिंशग्राहसहस्ररक्षिता रत्नालयाः, न धनदस्येव निष्फलाः सन्निधिलाभाः, न जिनस्येवार्थवादशून्यानि दर्शनानि, न चन्द्रमस इव बहुलदोषोपहताः श्रियः । चित्रमिदमत्यमरं राजत्वम् । अपि चास्य त्यागस्यार्थिनः, प्रज्ञायाः शास्त्राणि, कवित्वस्य वाचः, सत्त्वस्य साहसस्थानानि, उत्साहस्य व्यापाराः कीर्तेर्दिह्मुखानि, अनुरागस्य लोकहृदयानि, गुणगणस्य संख्या, कौशलस्य कला, न पर्याप्तो विषयः । अस्मिंश्च राजनि यतीनां योगपट्टकाः, पुस्तकर्मणां पार्थिवविगृहाः, षट्पदानां दानग्रहणकलहाः, वृत्तानां पादच्छेदाः, अष्टपदानां चतुरङ्गकल्पना, पन्नगानां द्विजगुरुद्वेषाः, वाक्यविदामधिकरणविचाराः, इति समुपसृत्य चोपवीती स्वस्तिशब्दमकरोत् । अथोत्तरे नातिदूरे राजधिष्ण्यस्य गजपरिचारको मधुरमपरवक्रमुच्चेरगायत्-- "करिकलभ विमुञ्च लोलतां चर विनयव्रतमानताननः । मृगपतिनखकोटिभङ्गुरो गुरुरुपरि क्षमते न तेऽङ्कुशःऽ ॥ राजा तु तच्छ्रु त्वा दृष्ट्वा च तं गिरिगुहागतसिंहबृंहितगम्भीरेण स्वरेण पूरयन्निव नभोभागमपृच्छत्--"एष स बाणः?ऽ इति । "यथाऽज्ञापयति देवः । सोऽयम्ऽ इति विज्ञापितो दौवारिकेण "न तावदेनमकृतप्रसादः पश्यामिऽ इति तिर्यङ्नीलधवलांशुकधारां तिरस्करिणीमिव भ्रमयन्नपाङ्गनीयमानतरलतारकस्यायामिनीं चक्षुषः प्रभां परिवृत्य प्रेष्ठस्य पृष्ठतो निषण्णस्य मालवराजसूनोरकथयत्--"महानयं भुजङ्गःऽ इति । तूष्णींभावेन त्वगमितनरेन्द्रवचसि तस्मिन्मूके च राजलोके मुहूर्तमिव तूष्णीं स्थित्वा बाणो व्यज्ञापयत्--"देव! अविज्ञाततत्त्व इव, अश्रद्दधान इव, नेय इव, अविदितलोकवृत्तान्त इव च कस्मादेवमाज्ञापयसि? स्वैरिणो विचित्राश्च लोकस्य स्वभावाः प्रवादाश्च । महद्भिस्तु थार्थदर्शिभिर्भवितव्यम् । नार्हसि मामन्यथा संभावयितुमविशिष्टमिव । ब्राह्नणोऽस्मि जातः सोमपायिनां वंशे वात्स्यायनानाम् । यथाकालमुपनयनादयाः कृताः संस्काराः । सम्यक्पठितः साड्गो वेदः । श्रुतानि चे यथाशक्तिः शाक्त्राणि । दारपरिग्रहादभ्यगारिकोऽस्मि । का मे भुजङ्गता । लोकद्वयाविरोधिभिस्तु चापलैः शैशवशून्यमासीत् । अत्रानपलापोऽस्मि । अनेनैव च गृहीतविप्रतीसारमिव मे हृदयम् । इदानीं तु सुगत इव शान्तमनसि मनाविव कर्तरि वर्णाश्रमव्यवस्थानां समवर्तिनीव च साक्षाद्दण्डभृति देवे शासति सप्ताम्बुराशिरशनाशेषद्वीपमालिनीं महीं क इवाविशङ्कः सर्वव्यसनबन्धोरविन्यस्य मनसाप्यभिनयं कल्पयिष्यति । आसतां च तावन्मानुष्यकोपेताः । त्वत्प्रभावादलयोऽपि भीता इव मधु पिबन्ति । रथाङ्गनामानोऽपि लज्जन्त इवाभ्यनुवृत्तिव्यसनैः प्रियाणाम् । कपयोऽपि चकिता इव चपलायन्ते । शरारवोऽपि सानुक्रोशा इव श्वापदगणाः पिशितानि भुञ्जते । सर्वथा कालेन मां ज्ञास्यति स्वामी स्वयमेव । अनपाचीनचित्तवृत्तिग्राहिण्यो हि भवन्ति प्रज्ञावतां प्रकृतयःऽ इत्यभिधाय तूष्णीमभूत् । भूपतिरपि "एवमस्माभिः श्रुतम्ऽ इत्यभिधाय तूष्णीमेवाभवत् । संभाषणासनदानादिना तु प्रसादेन नैनमन्वग्रहीत् । केवलममृतवृष्टिभिः स्नपयन्निव स्नेहगर्भेण दृष्टिपातमात्रेणान्तर्गतां प्रीतिमकथयत् । अस्ताभिलाषिणि च लम्बमाने सवितरि विसर्जितराजलोकोऽभ्यन्तरं प्राविशत् । बाणोऽपि निर्गत्य धौतारकूटकोमलातपत्विषि निर्वाति वासरे, आस्ताचलकूटकिरीटे निचुलमञ्जरीभांसि तेजांसि मुञ्चति वियन्मुचि मरीचिमालिनि, अतिरोमन्धमन्थरकुरह्गकुटुम्बकाध्यास्यमानम्रदिष्ठगोष्ठीनपृष्ठास्वरण्यस्थलीषु, शोकाकुलकोककामिनीकूजितकरुणासु तरङ्गिणीतटोषुवासविटपोपविष्टवाचाटचटकचक्रवालेष्वालवालावर्जितसेकजलकुटेषु निष्कुटेषु, दिवसविहृतिप्रत्यागतं प्रस्रुतस्तनं स्तनन्धये धयति धेनुवर्गमुद्गतक्षोरं क्षुधिततर्णकव्राते, क्रमेण चास्तधराधरधातुधुनीपूरप्लावित इव लोहिताय मानमहसि मज्जति सन्ध्यासिन्धुपानपात्रे पातङ्गे मण्डले, कणण्डलुजलशुचिशयचरणेषु चैत्यप्रणतिपरेषु पाराशरिषु, यज्ञपात्रपवित्रपाणौ प्रकीर्णबर्हिष्युत्तेजसि जातवेदसि हवींषि वषट्कुर्वन्ति यायजूकजने, निद्राविद्राणद्रोपणकुलकलिलकुलायेषु कापेयविकलकपिकुलेष्वारामतरुषु निर्जिगमिषति जरत्तरुकोटरकुटीकुटुम्बिनि कौशिककुले, मुनिकरसहस्रप्रकीर्णसन्ध्यावन्दनोदबिन्दुनिकर इव दन्तुरयति तारापथस्थलीं स्थवीयसि तारकानिकुरम्बे अम्बराश्रयिणि शर्वरीशबरीशिखण्डे खण्डपरशुकण्ठकाले कवलयति बाले ज्योतिः शेषं सान्ध्यमन्धकारावतारे, तिमिरतर्जननिर्गतासु दहनप्रविष्टदिनकरकरशाखास्विव स्फुरन्तीषु दीपलेखासु, अररसम्पुटसंक्रीडनकथितावृत्तिष्विव गोपुरेषु, शयनोपजोषजुषि जरतीकथितकथे शिखयिषमाणे शिशुजने, जरन्महिषमषीमलीमसतमसि जनितपुण्यजन प्रजागरे विजृम्भमाणे भीषणतमे तमीमुखे, मुखरितविततज्यधनुषि वर्षति शरनिकरमनवरतमशेषसंसारशेमुषीमुषि मकरध्वजे, रताकल्पारम्भशोभिनि शम्भलीसुभाषितभाजि भजति भूषां भुजिष्याजने, सैरन्ध्रीबध्यमानरशनाजालजल्पाकजघनासु जनीषु, वशिकविशिखाविहारिणीष्वनन्यजानुप्लवासु प्रचलितास्वभिसारिकासु, विरलोभवति वरटानां वेशन्तशायिनीनां मञ्जुनि मञ्जीरशिञ्जितजडे जल्पिते, निद्राविद्राणद्राघीयसि द्रावयतीव च विरहिहृदयानि सारसरसिते, भाविवासरवीजाङ्कुरनिकर इव च विकीर्यमाणे जगति प्रदीपप्रकरे निवासस्थानमगात् । अकरोच्च चेतसि--"अतिदक्षिणः खलु देवो हर्षः, यदेवमनोकबालचरितचापलोचितकौलीनकोपितोऽपि मनसा स्निह्यत्येव मयि । यद्यहमक्षिगतः स्यां न मे दर्शनेन प्रसादं कुर्यात् । इच्छति तु मां गुणवन्तम् । उपदिशन्ति हि विनयमनुरूपप्रतिपत्त्युपपादनेन वाचा विनापि भर्तव्यानां स्वामिनः । अपि च घिङ्मां स्वदोषान्धमानसमनादरपीडितमेवमतिगुणवति राजन्यन्यथा चान्यथा च चिन्तयन्तम् । सर्वथा तथा करोमि, यथा यथावस्थितं जानाति मामयं कालेनऽ इत्येवमवधार्य चापरेद्युर्निष्क्रम्य कटकात्सुहृदां बान्धवानां च भवनेषु तावदतिष्ठत्, यावदस्यस्वयमेव गृहीतस्वभावः पृथिवीपतिः प्रसादवानभूत् । अविशच्च पुनरपि नरपतिभवनम् । स्वल्पैरेव चाहोभिः परमप्रीतेन प्रसादजन्मनो मानस्य प्रेम्णो विस्रम्भस्य द्रविणस्य नर्मणः प्रभावस्य च परां कोटिमानीयत नरेन्द्रेणेति । इति श्रीमहाकविबाणभट्टकृते हर्षञ्चरिते राजदर्शनं नाम द्वितीय उच्छ्वासः । तृतीय उच्छ्वासः निजवर्षाहितस्नेहा बहुभक्तजनान्विताः । सुकाला इव जायन्ते प्रजापुण्येन भूभुजः ॥ ३.१ ॥ साधूनामुपकर्तु लक्ष्मीं द्रष्टुं विहायसा गन्तुम्। न कुतूहलिकस्यमनश्चरितं च महात्मनां श्रोतुम् ॥ ३.२ ॥ अथ कदाचिद्विरलितबलाहके, चातकातङ्ककारिणि क्वणत्कादम्बे, दर्दुरद्वेष मयूरमदमुषि, हंसपथिकसार्थसर्वातिथौ, धौतासिनिभनभसि, भास्वरभास्वति, शुचिशशिनि, तरुणतारागणे, गलत्सुनासीरशरासने, सीदत्सौदामनीदाम्नि, दामोदरनिद्राद्रुहि, द्रुतवैदूर्यवर्णार्णसि घूर्णमानमिहिकालघुमेघमोघमघवति, निमीलन्नीपे, निष्कुसुमकुटजे, निर्मुकुलकन्दले, कोमलकमले, मधुस्यन्दीन्दीवरे, कह्लाराह्लादिनि, शेफालिकाशीतलीकृतनिशे, यूथिकामोदिनि, मोदमानकुमुदावदातदशदिशि, सप्तच्छदधूलिधूसरितसमीरे, स्वबकिलबन्धुरबन्धूकावध्यमानाकाण्डसध्ये, नीराजितवाजिनि, उद्दामदन्तिनि दर्पक्षीबौक्षके, क्षीयमाणपङ्कचक्रवाले, बालपुलिनपल्लवितसिन्धुरोधसि, परिणामाश्यानश्यामाके, जनितप्रियङ्गमञ्जरीरजसि, कठोरितत्रपुसत्वचि, कुसुमस्मेरशरे, शरत्समयारम्भे राज्ञः समीपाद्वाणो बन्धून्द्रष्टुं पुनरापि तं ब्राह्नणाधिवासमगात् । समुपलब्धभूपालसंमानातिशयपरितुष्टास्त्वस्य ज्ञातयः श्लाघमाना निर्ययुः । क्रमेण च कांश्चिदभिवादयमानः, कश्चिदभिवाद्यमानः, कैश्चिच्छिरसि चुम्ब्यमानः, कांश्चिन्मूर्ध्नि समाजिघ्रन्, कैश्चिदालिङ्ग्यमानः, कांश्चिदालिङ्गन्, अन्यैराशिषानुगृह्यमाणः, पराननुगृह्णन्, बहुबन्धुमध्यवर्ती परं मुमुदे । संभ्रान्तपरिजनोपनीतं चासनमासीनषु गुरुषु भेजे । भजमानश्चार्चादिसत्कारं नितरां ननन्द । प्रीयमाणेन च मनसा सर्वांस्तान्पर्यपृच्छर्त्--"काच्चदेतावतो दिवसान्सु कनो यूयम्? अप्रत्यूहा वा सम्यक्करणपरितोषितद्विजचक्रा क्रातवी क्रिया क्रियते? ययावदविकलमन्त्रभाञ्जि भुञ्जते वा हवींषि हुतभुजः? यथाकालमधोयते वा बटवः? प्रतिदिनमविच्छिन्नो वा वेदाभ्यासः? कच्चित्स एव चिरन्तनो यज्ञविद्याकर्नण्यभियोगः? तान्येव व्याकरणे परस्परस्पर्धानुबन्धाबन्ध्यदिवसदर्शितादराणि व्याख्यानमण्डलानि, सैव वा पुरातीनी परित्यक्तान्यकर्तव्या प्रमाणगोष्ठी, स एव वा मन्दीकृतेतरशास्त्ररसो मीमांसायामतिरसः? कच्चित्त एवाभिनवसुभाषितसुधावर्षिणः काव्यालापाः?ऽ इति । अथ ते तमूचु-"तात! संतोषजुषां सततसंनिहितविद्याविनोदानां वैतानवह्निमात्रसहायानां कियन्मात्रं न कृत्यं सुखितया सकलभुवनभुजिभृजङ्गराजदेहदीर्घे रक्षति क्षितिं क्षितिभुजे । सर्वथा सुखिन एव वयम्, विशेषेण तु त्वयि विमुक्तकौसीद्ये परमेश्वरपार्श्ववर्तिनि वेत्रासनमधितिष्ठति । सर्वे च यथाशक्ति यथाविभवं यथाकाल च संपाद्यन्ते विप्रजनोचिताः क्रियाकलापाःऽ इत्येवमादिभिरालापैः स्कन्दावारवार्ताभिश्च शैशवातिक्रान्तक्रीडानुस्मरणैः पूर्वजकथाभिश्च विनोदितमनास्तैः सह सुचिरमतिष्ठत् । उत्थाय च मध्यन्दिने यथाक्रियमाणाः स्थितीरकरोत् । भुक्तवन्तं च त सर्वे ज्ञातयः पर्यवारयन् । अत्रान्तरे दुकूलपट्टप्रभवे शिखण्ड्यपाङ्गपाण्डुनी पौण्ड्रे वाससी वसानः स्नानावसानसमये वन्दितया तोर्थमृदा गोरोचनया च रचिततिलकः, तैलामलकमसृणितमौलिः, अनुच्चचूडाचुम्बिना निबिजेन कुसुमापोडकेन समुद्भासमानः, असकृदुपयुक्तताम्बूलविमलाधररागकान्तिः, एकशलाकाञ्जनजनितलोचनरुचिः, अचिरभुक्तः, विनीतमार्यं च वेषं दधानः, पुस्तकवाचकः सुदृष्टिराजगाम । नातिदूरवर्तिन्यां चासन्द्यांनिषसाद । स्थित्वा च मुदूर्तमिव तत्कालापनीतसूत्रवेष्टनमपि नखकिरणैर्मृदुमृणालसूत्रौरवावेष्टितं पुस्तकं पुरोनिहितशरशलाकायन्त्रके निधाय, पृष्ठतः सनीडसंनिविष्टाभ्यां मधुकरपारावताभ्यां वंशिकाभ्यां दत्ते स्थानके प्राभातिकप्रपाठकच्छेदचिह्नीकृतमन्तरं पत्रमुत्क्षिप्य, गृहीत्वा च कतिपयपत्रलघ्वीं कपाटिकां क्षालयन्निव मषीमलिनान्यक्षराणि दन्तकान्तिभिः, अर्चयन्निव सितकुसुममुक्तिभिर्ग्रन्थम्, मुखसंनिहितसरस्वतीनूपुररवैरिव गमकैर्मधुरैराक्षिपन्मनांसि श्रोतॄणां गीत्या पवमानप्रोक्तं पुराणं पपाठ । तस्मिंश्च तथा श्रुतिसुभगगीतिगर्भं पठति सुदृष्टौ नातिदूरवर्ती वन्दी सूचीबाणस्तारमधुरेण गीतिध्वनिमनुवर्तमानः स्वरेणेदमार्यायुगलमगायत्-- तदपि मुनिगीतमतिपृथु तदपि जगद्व्यापि पावनं तदपि। हर्षचरितादभिन्नं प्रतिभाति हि मे पूराणमिदम् ॥ ३.३ ॥ वंशानुगमविवादि स्फुटकरणं भरतमार्गभजनगुरु। श्रीकण्ठविनिर्यात गीतमिदं हर्षराज्यमिव ॥ ३.४ ॥ तच्छ्रुत्वा बाणस्य चत्वारः पितामहमुखपझा इव वेदाभ्यासपावत्रितमूर्तयः, उपाया इव सामप्रयोगललितमुखाः, गणपतिः, अधिपतिः, तारापतिः, श्यामल इति पितृव्यपुत्रा भ्रातरः, प्रसन्नवृत्तयः, गृहीतवाक्याः, कृतगुरुपदन्यासाः, न्यायवादिनः, सुकृतसंग्रहाभ्यासगुरवो लब्धसाधुशब्दा लोक इव व्याकरणेऽपि सकलपुराणराजर्षिचरिताभिज्ञाः, महाभारतभावितात्मानः, विदितसकलेतिहासाः, महाविद्वांसः, महाकवयः, महापुरुषवृत्तान्तकुतूहलिनः, सुभाषितश्रवणरसरसायनाः, वितृष्णाः, वयसि वचसि यशसि तपसि सदसि महसि वपुषि यजुषि च प्रथमाः, पूर्वमेव कृतसंगराः, विवक्षवः, स्मितसुधाधवलितकपोलोदराः, परस्परस्य मुखानिव्यलोकयन् । अथ तेषां कनीयान्कमलदलदीर्घलोचनः श्यामलो नाम बाणस्य प्रेयान्प्राणानामपि वशयिता दत्तसंज्ञस्तैः सप्रणयं दशनज्योत्स्नास्नपितककुभा मुखेन्दुना बभाषे--"तात बाण! द्विजानां राजा गुरुदारग्रहणमकार्षीत्पुरूरवा ब्राह्नणधनतृष्णया दयितेनायुषा व्ययुज्यत । नहुषः परकलत्राभिलाषा महाभुजङ्ग आसीत् । ययातिराहितब्राह्नणीपाञिग्रहणः पपात । सुद्युम्नः स्त्रीमय एवाभवत् । सोमकस्य प्रख्याता जगति जन्तुवधनिर्घृणता । मान्धाता मार्गणव्यसनेन सपुत्रपौत्रो रसातलमगात् । पुरुकुत्सः कुत्सितं कर्म तपस्यन्नपि मेकलकन्धकायामकरोत् । कुवलयाश्वो भुजङ्गलोकपरिग्रहादश्वतरकन्यामपि न परिजहार । पृथुः प्रथमपुरुषकः परिभूतवान्पृथिवीम् । नृगस्य कृकलासभावेऽपि वर्णसंकरः समदृश्यत । सौदासेन नरक्षिता पयाकुलीकृता क्षिति । नलमवशाक्षहृदयं कलिरभिभूतवान् । सवरणो मित्रदुहितरि विक्लवतामगात् । दशरथ इष्टरामोन्मादेन मृत्युमवाप । कार्तवीर्यो गोब्राह्नणातिपीडनेन निधनमयासीत् । मरुत्त इष्टवहुसुवर्णकोऽपि देबद्विजबहुमतो न बभव । शन्तनुरतिव्यसनादेकाकी वियुक्तो वाहिन्या विपिने विललाप । पाण्डुर्वनमध्यगतो मत्स्य इव मदनरसाविष्टः प्राणान्मुमाच । युधिष्ठिरो गुरुभयविषण्णहृदयः समरशिरसि सत्यमुत्सृष्टवान् । इत्थं नास्ति राजत्वमपकलङ्गमृते देवदेवादमतः सर्वद्वीपभूजो हर्षात् । अस्य हि बहून्याश्चर्याणि श्रूयन्ते । तथा हि-अत्र बलजिता निश्चलीकृताश्चलन्तः कृतपक्षाः क्षितिभृतः । अत्र प्रजापतिना शेषभोगिमण्डलस्योपरि क्षणा कृता । अत्र पुरुषोत्तमेन सिन्धुराजं प्रमथ्य लक्ष्मीरात्मीकृता । अत्र बलिना मोचितभूभृद्वेष्टनो मुक्तो महानागः । अत्र देवेनाभिषिक्तः कुमारः । अत्र स्वामिनैकप्रहारपातितारातिना प्रख्यापिता शक्तिः । अत्र नरसिंहेन स्वहस्तविशसितारातिना प्रकटीकृतो विक्रमः । अत्र परमेश्वरेण तुषारशैलभुवो दुर्गाया गृहीतः करः । अत्र लोकनाथेन दिशां मुखेषु परिकल्पिता लोकपालाः, सकलभुवनकोशश्चाग्रजन्मनां विभक्तः, इत्येवमादयः प्रथमकृतयुगस्येव दृश्यन्ते महासमारम्भाः । अतोऽस्य सुगृहीतनाम्नः पुरायराशेः पूर्वपुरुषवंशानुक्रमेणादितः प्रभृति चरितमिच्छामः श्रोतुम् । सुमहान्कालो नः शुश्रूषमाणानाम् । अयस्कान्तमणय इव लोहानि नीरसनिष्ठुराणि क्षुल्लकानामप्याकर्षन्ति मनांसि महतां गुणाः, किमुत स्वभावसरसमृदूनीतरेषाम् । कस्य न द्वितीयमहाभारते भवेदस्य चरिते कुतूहलम्? आचष्टा भबान् । भवतु भार्गवोऽयं वंशः शुचिनानेन पुण्यराजर्षिचरितश्रवणेन सुतरां शुचितरः, इत्येवमभिधाय तूष्णीमभूत् । बाणस्तु विहस्याब्रवीत्--आर्य! न युक्त्यनुरूपमभिहितम् । अघटमानमनोरथमिव भवतां कुतूहलमवकल्पयामि । शक्याशक्यपरिसंख्यानशून्याः प्रायेण स्वार्थतृषः । परगुणानुरागिणी प्रियजनकथाश्रवणरसरभसमोहिता च मन्ये महतामपि मतिरपहरति प्रविवेकम् । पश्यत्वार्यः क्व परमाणुपरिमाणं बटुहृदयम्, क्व समस्तब्रह्नस्तम्भव्यापि देवस्य चरितम्? क्व पारमितवर्णर्वृत्तयः कतिपये शब्दाः, क्व संख्यातिगास्तद्गुणाः? सर्वज्ञस्याप्ययमविषयः, वाचस्पतेरप्यगोचरः, सरस्वत्या अप्यतिभारः, किमुतास्मद्विधस्य? कः खलु पुरुषायुषशतेनापि शक्नुयादविकलमस्य चरितं वर्णयितुम्? एकदेशे तु यदि कुतूहलं वः, सज्जा वयम् । इयमधिगतकतिपयाक्षरलवलधीयसी जिह्वा क्वोपयोगं गमिष्यति? भवन्तः श्रोतारः । वण्यते हर्षचरितम् । किमन्यत् । दिवसः पश्चाल्लम्बनमानकपिलकिरणजटाभारभास्वरो भगवान्भार्गवराम इव समन्तपञ्चकरु धेरमहाह्रदे निमज्जति सध्यारागपटले पूषा । श्वो निवेदयितास्मि इति । सर्वे च ते "तथाऽ इति प्रत्यपद्यन्त । नातिचिरादुत्थाय संध्यामुपासितुं शोणमयासीत् । अथ मधुमदपल्लवितमालवीकपोलकोमलातपे मुकुलितेऽह्नि, कमलिनीमीलनादिव लोहिततमे तमोलिहि रवौ लम्बमाने, रविरथतुरगमार्गानुसारेण यममहिष इव धावति नभसि तमसि, क्रमेण च गृहतापसकुटोरकपटलावलम्बिषु रक्तातपच्छेदैः सह सहृतेषु वल्कलेषु, कलिकल्मषमुषि मुष्णति गगनमग्निहोत्रधामधूमे, सनियमे यजमानजने मनौव्रतिनि, विहारवेलाविलोले पर्यटति पत्नीजने, विकीर्यमाणहरितश्यामाकशालिपूलिकासु दुग्धासु होमकपिलासु, हूयमाने वैतानतनूनपाति, पूतविष्टरोपविष्टे कृष्णाजिनजटिले जटिनि जपति बटुजने, ब्रह्नासनाध्यासिनि ध्यायति योगिगणे, तालध्वनिधावमानानन्तान्तेवासिनि अलसवृद्धश्रोत्रियानुमतेन गलद्ग्रन्थदण्डकोद्गारिणि सद्यां समवधारयति वठरविटबटुसमाजे, समुन्ज्जति च ज्योतिषि तारकाख्ये खे, प्राप्ते प्रदोषारम्भे भवनमागत्योपविष्टः स्निग्धैर्बन्धुभिश्च सार्ध तयैव गोष्ठया तस्थौ । नीतप्रथमयामश्च गणपतेर्भवने परिकल्पितं शयनीयमसेवत । इतरेषां तु सर्वषां निमीलितदृशामप्यनुपजातनिद्राणां कमलवनानामिव सूर्योदयं प्रतिपालयतां कुतूहलेन कथमपि सा क्षपा क्षयमगच्छत् । अथ यामिन्यास्तुर्ये याम प्रतिबुद्धः स एव बन्दी श्लोकद्वयमगायत्-- "पश्चादङ्घ्रिं प्रसार्य त्रिकनतिवितत द्राघयित्वाङ्गमुच्चैर् आसज्याभुग्नकण्ठो मुखमुरसि सटा धृलिधूम्रा विधूय । घासग्रासाभिलाषादनवरतचलत्प्रोथतुण्डस्तुरङ्गो मन्दं शब्दायमानो विलिखति शयनादुत्थितः क्ष्मां खुरेणऽ ॥ ३.५ ॥ कुर्वन्नाभुग्नपृष्ठो मुखनिकटकटि कन्धरामातिरश्चीं लोलेनाहन्यमानं तुहितकणमुचा चञ्चता केसरेण । निद्राकण्डूकषायं कषति निबिडितश्रोत्रशुक्तिस्तुरङ्गस् त्वङ्गत्पक्ष्माप्रलग्नगन्तनुवुसकणं कोणमक्ष्णः खुरेण ॥ ३.६ ॥ बाणस्तु तच्छ्रत्बा समुत्सृज्य निद्रामुत्थाय प्क्षाल्य वदनमुपास्य च भगवतीं संध्यामुदिते च भगवति सवितरि गृहीतताम्बूलस्तत्रैवातिष्ठत् । अत्रान्तरे सर्वेऽस्य ज्ञातयः समाजग्मुः, परिवाये चासांचक्रिरे । असावपि पूर्वोद्धातेन विदिताभिप्रायस्तेषां पुरो हर्षचरितं कथयितुमारेभे-- श्रूयताम्--अस्ति पुण्यकृतामधिवासो वासवावास इव वसुधामवतीर्णः सततमसकीर्णवर्णव्यवहारस्थितिः कृतयुगव्यवस्थः, स्थलकमलबहलतया पोत्रोन्मूल्यमानमृणालैरुद्गीतमेदिनीसारगुणैरिव कृतमधुकरका लाहलैर्हरुल्लिख्यमानक्षेत्रः, ज्ञीरोदपयः पायिपयोदसिक्ताभिरिव पुण्ड्रेक्षुवाटसंततिभिर्निरन्तरः, प्रतिदिशमपूर्वपर्वतकैरिव खलधानधामभिर्विभज्यमानैः सस्यकूटैः संकटसकलसीमान्तः, समन्तादुद्धातघटीसिच्यमानैर्जीरकजूटैर्जटिलितभूमिः, उर्वरावरीयोभिः शालेयैरलङ्कृतः, पाकविशरारुराजमाषनिकरकिर्मीरितैश्चस्फुटितमुद्गफलकोशीकपिशितैर्गोधूमधामभिः स्थलीपृष्ठैरधिष्ठितः, महिषपृष्ठप्रतिष्ठितगायद्गोपालपालितैश्च कीटपटललम्पट चटकानुसृतैरवटुघटितघण्टाघटीरटितरमणीयैरटद्भिरटवीं हरवृषभपीतमामयाशङ्कयाबहुधा विभक्तं क्षीरोदमिव क्षीरं क्षरद्भिर्बाष्पच्छेद्यतृणतृप्तैर्गोधनैर्धवलितविपिनः, विविधमखहोमधूमान्धशतमन्युमुक्तैर्लोचनौरव सहस्रसंख्यैः कृष्णशारैः शारीकृतोद्देशः, धवलधूमिमुचा केतकीवनानां रजोभिः पाण्डुरीकृतैः प्रथमोद्धूलनभस्मधूसरैः शिवपुरस्येव प्रवेशैः प्रदेशैरुपशोभितः, शाककन्दलश्यामलितग्रामोपकण्ठकाश्यपीपृष्ठः, पदे पदे करभपालीभिः पीलुपल्लवप्रस्फोटितैः करपुटपीडितकोमलमातुलुङ्गादलरसोपलिप्तैः स्वेच्छाविचितकुङ्कुमकेसरकृतपुष्पप्रकरैः प्रत्यग्रफलरसपानसुखसुप्तपथिकैर्वनदेवतादीयमानामृतरसप्रपागृहैरिव द्राक्षालतामण्डपैः स्फुरत्फलानां च बीजलग्नशुकचञ्चु रागाणामिव समारूढकपिकुलकपोलसंदिह्यमानकुसुमानां दाडमीना वनैर्विलोभनीयोपनिर्गमः, वनपालपीयमाननारिकेलरसासवैश्च पथिकलोकलुप्यमानपिण्डखर्जूरैर्गोलाङ्गललिह्यमानमधुरामोदपिण्डीरसैश्चकोरचञ्चुजर्जरितारुकैरुपवनैरभिरामः, तुङ्गार्जुनपालोपरिवृतैश्च गोकुलावतारकलुषितकूलकीलालैरध्वगशतशरण्यैररण्यवरुणधराबन्धैरवध्यवनरन्ध्रः, करभीयकुमारकपाल्यमानैरौष्ट्रकैरौरभ्रकैश्च कृतसंबाधः, दिशि दिशि रविरथतुरगविलोभनायैव विलोठनमृदितकुङ्कु मस्थलीरससमालब्धानामुत्प्रोथपुटैरुन्मुखैरुदरशायिकिशोरकजवजननाय प्रभञ्जनमिव चापिबन्तीनां वातहरिणीनामिव स्वच्छन्दचारिणीनां वडवानां वृन्दैर्विचरद्भिराचितः, अनवरतक्रतुधूमान्धकारप्रवृत्तैर्हंसयूथैरिव गुणैर्धवलितभुवनः, संगीतगतमुरजरवमत्तैर्मयूरैरिव विभवैर्मुखरितजीवलोकः, शशिकरावदातवृत्तैर्मुक्ताफलैरिव गुणिभिः प्रसाधितः, पथिकशतविलुप्यमानस्फीतफलैर्महातरुभिरिव सर्वातिथिभिरभिगमनीयः, मृगमदपरिमलवाहिमृगरोमाच्छादितैर्हिमवत्पादैरिव महत्तरैः स्थि रीकृतः, प्रोद्दण्डसहस्रपत्रोपविष्टद्विजोत्तमैर्नारायणनाभिमण्डलैरिव तोयाशयैर्मण्डितः, मथितपयःप्रवाहप्रक्षालितक्षितिभिः क्षीरोदमथनारम्भैरिव महाघोषैः पूरिताशः श्रीकण्ठो नाम जनपदः । यत्र त्रेताग्निधूमाश्रुपातजलज्ञालिता इवाक्षीयन्त कुदृष्टयः । पच्यमानचयनेष्टकादहनदग्धानीव नादृश्यन्त दुरितानि । छिद्यमानयूपदारुपरशुपाटित इव व्यदीर्यताधर्मः । मखशिखिधूमजलधराधाराधौत इव ननाश वर्णसंकरः । दीयमाननेकगोसहस्रशृङ्गखण्ड्यमान इवापलायत कलिः । सुरालयशिलाघट्टनटङ्कनिकरनिकृता इव व्यदीर्यन्त विपदः । महादानविधानकलकलाभिद्रुता इव प्राद्रवन्नुपद्रवाः । दोप्यमानसत्रमहानससहस्रानलसतापिता इव व्यलीयन्त व्याधयः, वृषविवाहप्रहतपुण्यपटहपटुरव त्रासिता इव नोपासर्पन्नपमृत्यवः संततब्रह्नघोषबधिरीकृता इवापजग्मुरीतयः । धर्माधिकारपरिभूतमिव न प्राभवद्दुर्वैवम् । तत्र चैवंविधे नानारामाभिरामकुसुमगन्धपरिमलसुभगो यौवनारम्भ इव भुवनस्य, कुङ्कुममलनपिञ्जिरितबहुमहिषीसहस्रशोभितोऽन्तःपुरनिवेश इव धर्मस्य, मरुदुद्धूयमानचमरीबालव्यजनशतधवलितप्रान्त एकदेश इव सुरराज्यस्य, ज्वलन्मखशिखिसहस्रदीप्यमानदशदिगन्तः शिविरसंनिवेश इव कृतयुगस्य॑ पझासनस्थितब्रह्नर्षिध्यानाधीयमानसकलाकुशलप्रशमः प्रथमोऽवतार इव ब्रह्नलोकस्य, कलकलमुखरमहावाहिनीशतसंकुलो विपक्ष इवोत्तरकुरूपणाम्, रिश्वरमार्गणसंतापानभिज्ञसकलजनो विजिगीषुरिव त्रिपुरस्य, सुधारससिक्तधवलगृहपङ्क्तिपाण्डुरः प्रतिनिघिरिव चन्द्रलोकस्य, मधुमदमत्तकाशिनीभूषणरवभरितभुवनो नामाभिहार इव कुबेर नगरस्य, स्थाण्वीश्वराख्यो जनपदविशेषः । यस्तपोवनमिति मुनिभिः, कामायतनमिति वेश्याभिः, संगीतशालेति लासकैः, यमनगरमिति शत्रुभिः, चिन्तामणिभूमिरित्यर्थिभिः वीरक्षेत्रमिति शस्त्रोपजीविभिः, गुरुकुलमिति विद्यार्थिभिः, गन्धर्वनगरमिति गायनैः, विश्वकर्ममन्दिरमिति विज्ञानिभिः, लाभभूमिरिति वन्देहकैः, द्यूतस्थानमिति बन्धिभिः, साधुसमागम इति सद्भिः, वज्रपञ्जरमिति शरणागतैः, विटगोष्ठीति विदग्धैः, सुकृतपरिणाम इति पथिकैः, असुरविवरमिति वातिकैः शाक्याश्रम इति शमिभिः, अप्सरःपुरमिति कामिभिः, महोत्सवसमाज इति चारणैः, वसुधारेति च विप्रैरगृह्यत । यत्र च मातङ्गामिन्यः शीलवत्यश्च, गौर्यो विभवरताश्च, श्मामाः पझरागिण्यश्च, धवलद्विजशुचिवदना मदिरामोदिश्वसनाश्च, चन्द्रकान्तवपुषः शिरीषकोमलाङ्गयश्च, अभुजङ्गगम्याः कञ्चुकिन्यश्च, पृथुकलत्रश्रियो दरिद्रमध्यकलिताश्च, लावण्यवत्यो मधुरभाषिण्यश्च, अप्रमत्ताः प्रसन्नोज्ज्वलमुखरागाश्च अकौतुकाः प्रौढाश्च प्रमदाः । यत्र च प्रमदानां चक्षुरेव सहजमुण्डमालामण्डनं भारः कुवलयदलदामानि, अलकप्रतिबिम्बान्येव कपीलतलगतान्यक्लिष्टाः श्रवणावतंसाः पनरुक्तानि तमालकिसलयानि, प्रियकथा एव सुभगाः कर्णालकारा आडम्बरः कुम्डलादिः, कपोला एव सततमालोककारका विभवो निशासु मणिप्रदोपाः सुरभिनिःस्वासाकृष्टं मधुकरकुलमेव रमणीयं मुखावरणं कुलस्त्रीजनाचारो जालिका, वाण्येव मधुरतरा वीणा बाह्यविज्ञानं तन्त्रीताडनम्, हासा एवातिशयसुरभयः पटवासा निरर्थकाः कर्पूरपांसवः, अधरकान्तिविसर एवोज्ज्वलतरोऽङ्गरागो निर्गुणो लावण्यकलङ्कः कुङ्कुमपङ्कः, बाहव एव कोमलतमाः, परिहासप्रहारवेत्रलता निष्प्रयोजनानि मृणालानि, यौवनोष्मस्वेदबिन्दव एव विदग्धाः कुचाककृतयो हारास्तु भाराः, श्रोण्य एव विशालस्फटिकशिलातलचतुरस्रा रागिणां विश्रमकारणमनिमित्तं भवनमणिवेदिकाः । कमललौभनिलानान्यलिकुलान्येव मुखराणि पदाभरणकानि निष्फलानीन्द्रनीलमणिनूपुराणि । नूपुररवाहृता भवनकलहंसा एव समुचिताः संचरणसहाया ऐश्वर्यप्रपञ्चाः परिजनाः । तत्र च साक्षात्सहस्राक्ष इव सर्ववर्णधरं धनुर्दधानः, मेरमय इव कल्याणप्रकृतित्वे, मन्दरमय इव लक्ष्मीसमाकर्षणे, जलनिधिमय इव मर्यादायाम्, आकाशमय इव शब्दप्रादुर्भावे, शशिमय इव कलासंग्रहे, वेदमय इवाकृत्रिमालापत्वे, धरणिमय इव लोकधृतिकरणे, पवनमय इव सर्वपार्थिवरजोविकारहरणे, गुरुर्वचसि, पृथुरुरसि, विशालो मनसि, जनकस्तपसि, सुयात्रस्तेजसि, सुमन्त्रो रहसि, बुधः सदसि, अर्जुनो यशसि, भीष्मो धनुषि, निषधो वपुषि, शत्रुघ्नः समरे, शूरः शूरसेनाक्रमणेदशः प्रजाकर्मणि, सर्वादिराजतेजःपुञ्जनिर्मित इव राजा पुष्यभूतिरिति नाम्ना बभूव । पृषुना गौरिवेयं कृतेति यः स्पर्धमान इव महीं महिषीं चकार । निसर्गस्वैरिणी स्वरुच्यनुरोधिनी च भवति हि महतां मतिः । यतस्तस्य केनचिदनुपदिष्टा सहजैव शैशवादारभ्यानन्यदेवता भगवति, भक्तिसुरभे, भुवनभृति, भूतभावने, भवच्छिदि, भवे भूयसी भक्तिरभूत् । अकृतवृषभध्वजपूजाविधिर्न स्वप्नेऽप्याहारमकरोत् । अजम्, अजरम्, अमरगुरुम्, असुरपुररिपुम्, अपरितगणपतिम्, अवलदुहितृपतिम्, अखिलभुवनकृतचरणनतिम्, पशूपतिं प्रपन्नोऽन्यदेवताशून्यमन्यत त्रलोक्यम् । भर्तृचित्तानुवर्तिन्यश्चानुजीविनां प्रकृतयः । तथा हि-गृहे गृहे भगवानपूज्यत खण्डपरशुः । ववुरस्य होमालवालानलविलीयमानबहलगुग्गुलु गन्धगर्भाः स्नपनक्षीरशीकरक्षोदक्षारिणो विल्वपल्लवदामदलोद्वाहिनः पुण्य विषयेषु वायवः । शिवसपर्यासमुचितैरुपायनैः प्राभृतैश्च पौराः पादोपजीविनः सचिवाः स्वभुजबलनिर्जिताश्च करदीकृता महासामन्तास्तं सिषेविरे । तथा हि-कैलासकूटधवलैः कनकपत्रलालङ्कृतविषाणकोटिभिर्महा पट्टैश्चयमणियष्टिप्रदीपैश्चब्रह्नसूत्रैश्च महार्हमाणिक्यखण्डखचितैश्च मुखकोषैः परितोषमस्य मनसि चक्रुः । अन्तःपुराण्यपि स्वयमारब्वबालेयतण्डुलकण्डनानि देवगृहोपलेपनलोहिततरकरकिसलयानि कुसुमग्रथनव्यग्रसमस्तपरिजनानि तस्याभिलषितमन्ववर्तन्त । तथा च परममाहेश्वरः स भूपालो लोकतः शुश्राव भुवि भगवन्तमपरमिव साक्षाद्दक्षमखमथनं दाक्षिणात्य बहुविधविद्याप्रभावप्रख्यातैर्गुणैः शिष्यैरिवानेकसहस्रसंख्यैर्व्याप्तमर्त्यलोकं भैरवाचार्यनामानं महाशैवम् । उपनयन्ति हि हृदयमदृष्टमपि जनं शीलसंवादाः । यतः स राजा श्रवणसमकालमेव तस्मिन्भेरवाचार्ये भगवति द्वितीय इव कपर्दिनि दूरगतेऽपि गरीयसीं बबन्ध भक्तिम् । आचकाङ्क्ष च मनोरथरप्यस्य सर्वथा दर्शनम् । अथ कदाचित्पर्यस्तेऽस्ताचलचुम्बिनि वासरेऽन्तःपुरवर्तिनं राजानमपसृत्य प्रतीहारी विज्ञापितवती--"देव! द्वारि परिव्राडास्ते, कथयति च भैरवाचार्यवचनाद्देवमनुप्राप्तोऽस्मिऽ इति । राजा तु तच्छ्रत्वा सादरम्--"क्वासौ? आनयात्रैव, प्रवेशयैनम्ऽ इति चाब्रवीत् । तथा चाकरोत्प्रतीहारी । न चिराच्च प्रांवशन्तं प्रांशुम्, आजानुभुजम्, भैक्षक्षाममपि स्थूलास्थिभिरवयवैः पीवरमिवोपलक्ष्यमाणम्, पृथूत्तमाङ्गम्, उत्तुङ्गवलिभङ्गस्थपुटललाटम्, निर्मांसगण्डकूपकम्, मधुबिन्दुपिङ्गलपरिमण्डलाक्षर्म्, इषदावक्रधोणम्, अति प्रलम्बैककर्णपाशम्, अलाबुबीजविकटोन्नतदन्तपङ्क्तिम्, तुरगानूकश्लथाधरलेखम्, लम्बचिबुकायततरलपनम्, अंसावलम्बिना काषायेण योगपट्टकेन विरचितवैकक्षकम्, हृदयमध्यनिबद्धग्रन्थिना च रागेणेव खण्डशः कृतेन धातुरसारुणेन कर्पटेन कृतोत्तरासङ्गम्, पुनरुक्तबालप्रग्रहवेष्टननिश्चलमूलेन बद्धमृत्परिशोधनवंशत्वक्तितौना कौपीनसनाथशिखरेण खर्जूरपुटसमुद्गकगर्भीकृतभिक्षाकपालकेन दारवफलकत्रयत्रिकोणत्रियष्टिनिविष्टकमण्डलुना बहुरुपपादितपादुकावस्थानेन स्थूलदशासूत्रनियन्त्रितपुस्तिकापूलकेन वामकरधृतेन योगभारकेणाध्यासितस्कन्धम्, इतरकरगृहीतवेत्रासनं मस्करिणमद्राक्षीत् । क्षितिपतिरप्युगपतमुचितेन चैनमादरेणान्वग्रहीत् । आसीनं च पप्रच्छ--"क्व भैरवाचार्यः?ऽ इति । सादरनरपतिवचनमुदितमतिस्तु परिव्राट्तमुपनगरं सरस्वतीतटवनावलम्बिनि शून्यायतने स्थितमाचचक्षे । भूयश्चाबभाषे--"अर्चयति हि महाभागं भगवानाशीर्वतचसाऽ इत्युक्त्वा चोपनिन्ये योगभारकादाकृष्य भैरवाचार्यप्रहितानि रत्नवन्ति बहलालोकलिप्तान्तः पुराणि पञ्च राजतानि पुण्डरीकाणि । नरपतिस्तु प्रियजनप्रणयभङ्गकातरो दाक्षिण्यमनुरुध्यमानो ग्रहणलाघवं च लङ्घयितुमसमर्थो दोलायमानेन मनसा स्थित्वा चिरं कथकथमप्यतिसौजन्यनिघ्नस्तानि जग्राह । जगाद च--"सर्वफलप्रसवहेतुः शिवभक्तिरियं नो मनोरथदुर्लभानि फलति फलानि । येनैवमस्मासु प्रीयते तत्रभगवान्भुवनगुरुर्भैरवाचार्यः । श्वो द्रष्टास्मि भगवन्तम्ऽ इत्युक्त्वा च मस्करिणं व्यसर्जयत् । अनया च वार्तया परां मुदमवाप । अपरेद्युश्च प्रातरेवोत्थाय वाजिनमधिरुह्य समुच्छ्रितश्वेतातपत्रः समुद्धूयमानधवलचामरयुगलः कतिपयैरेव राजपुत्रैः परिवृतो भैरवाचार्यं सवितारमिव शशी द्रष्टुं प्रतस्थे । गत्वा च किञ्चिदन्तरं तदीयमेवाभिमुखमापतन्तमन्यतमं शिष्यमद्राश्रीत् । अप्राक्षीच्च--"क्व भगवानास्ते?ऽ इति । सोऽकथयत्--"अस्य जीर्णमातृगुहस्योतरेण बिल्ववाटिकामध्यास्तेऽ इति । गत्वा च तं प्रदेशमवततार तुरगात् । प्रविवेश च बिल्ववाटिकाम् । अथ महतः कार्पठिकवृन्दस्य मध्ये प्रातरेव स्नातम्, तद्दाष्टपुष्पिकम्, अनुष्ठिताग्निकार्यम्, कृतभस्मरेखापरिहारपरिकरे हरितगोमयोपलिप्तक्षितितलवितते व्याघ्रचर्मण्युपविष्टम्, कृष्णकम्बलप्रावरणनिभेनासुरविवरप्रवेशाशङ्कया पातालान्धकारावासमिवाभ्यस्यन्तम्, उन्मिषिता विद्युत्कपिलेनात्मतेजसा महामांसविक्रयक्रीतेन मनः शिलापङ्केनेव शिष्यलोकं लिम्पन्तम्, जयाकृतैकदेशलम्बमानरुद्राक्षशङ्खगुटिकेनोर्ध्वबद्धेन शिखापाशेन बध्नन्तमिव, विद्यावलेपदुर्विदग्धानुपरिसंचरतः सिद्धान्, धवलकतिपयशिरोरुहेण वयसा वञ्चपञ्चाशतं वर्षाण्यतिक्रामन्तम्, खालित्यक्षीयमाणशङ्कलोमलेशम्, लोमशकर्णशष्टलीप्रहेशम्, पृथुललाटतटम्, तिरश्यामभस्मलटिका बहुशः शिरोर्घतदन्धगुग्गुलुसंतापस्फुटितकपालास्थिपाण्डुरराज ङ्कामिव जनयन्तम्, सहजललाटबलिभङ्गसकोचितकूर्चभागां बम्रुभासं भ्रूसंगत्या निरन्तरामायामिनीमेकामिव भ्रूलेखां बिभ्राणम्, रिषत्काचरकनीनिकेन रक्तापाह्गनिगन्तंशुप्रतानेन मध्यध्वलभासेन्द्रायुधेनेवातिदीर्घेण लोचनयुगलेन परितो महामण्डलमिवानेकवर्णरागमालिखन्तम्, सितपीतलोहित पटाकावलिश्बलम्, शिवनलीमिव दिक्षु विक्षिपन्तम्, तार्क्ष्यतुण्डकोटिकुब्जाग्रघोणम्, दूरविदीर्णसृक्कसंक्षिप्तकपोलम्, किञ्चिद्दन्तुरतयासदाहृदयसंनिहितहरणौलिचन्द्रातपेनेव निर्गच्छता दन्तालोकेन धवल यन्तं दिशं जालम्, जिह्वास्रस्थितसर्वशैवसंहितातिभारणेव मनाक्प्रलम्बितौष्ठम्, प्रलम्बश्रवमपालीप्रेङ्खिताभ्यां स्फाटिककण्डलाभ्या शुक्रबृहस्पतिभ्यामिव सुरासुरविजयविद्यासिद्धिश्रद्वयानुबध्यमानम्, बद्धविवि घौषधिमन्त्रसूत्रपङ्क्तिना सरोहवलयेने प्रकष्ठ्शङ्खण्डं पूष्णओ दन्ततमिव भगवता भवेन भग्ने भक्त्या भृषणीकृतं कलयन्तम्, अखिलरसकूपोदञ्चनघटीयन्त्रमालामिव रुद्राक्षमालां दक्षिणेन पाणिना भ्रमयन्तम्, उरसि दोलायमानेनापिङ्गलाग्रेण कूटकचकलापेन संमार्जयन्तमिवान्तर्गतं निजरजोनिकरम्, अतिनिबिडनीललोममण्डलविचितं च ध्यानलब्धेन ज्योतिषा दग्धमिव हृदयदेशं दधानर्म्, इषत्प्रशिथिलवलिबलयबध्यमानतुन्दम्, उपयमानस्फिङ्मांसपिण्डकम्, पाण्डुरपवित्रक्षौमावृकौपीनम्, सावष्ठम्भपर्यङ्कबन्धमण्डलितेनामृतफेनश्वेतरुचा योगपट्टकेन वासुकिनेवाप्रतिहता नेकमन्त्रप्रभावाविर्भूतेन प्रदक्षिणीक्रियम्णम्, अरुणताभरससुकुमारतरतलस्य पादयुगलस्य निर्मलैनैखमयूखजालकैर्जर्जरयन्तमिव महानिघानोद्धरणरसेन रसातलम्, तोयक्षालितशुचिना शौतपादुकायुगले हंसमिथुनेनेव भाघीरथीतीर्थयात्रापरिचयागतेनामुच्छमानचरणान्तिकम्, शिखर निखातकुब्जकालायसकण्टकेन वैणवेन विशाखिकादण्डेन सर्वविद्यययासिद्धिविघ्नविनायकापनयनाङ्कुशेनेव सततपार्श्ववर्तिना विराजमानम्, अबहुभाषिणं मन्दहासिनं सर्वोपकारिणं कुमारब्रह्नचारिणम्, अतितपस्विनम्, महामनस्विनं सृतक्रोधन्, अकृशानुरोधम्, महानगरमिवादीनप्रकृतिशोभितम्, मेरुमिव कल्पतरुपच्चवराशिसुकुमारच्छायम्, कैलासमिव पशुपतिचरणरजःपवित्रितशिरसम्, शिवलोकमिव माहेश्वरगणानुयातम्, जलनिधिमिवानेकनदनदीसहस्रप्रक्षालितशरीरम्, जाङ्नवीप्रवाहमिव बहु पुण्यतीर्थस्थानशूचिम्, धाम धर्मस्य, तीर्थं तथ्यस्य, कोशं कुशलस्य, पत्तनं पूततायाः शाला शोलस्य, क्षेत्रं क्षमायाः शालेयं शलीनतायाः, पत्तनं पूततायाः, शाला शोलस्य, क्षेत्रं क्षमायाः शालेयं शालीनतायाः, स्थानं स्थितेः, आधारं धृतेः आकरं करुणायाः, निकेतन कौतुकस्य, आरामं रामणेयकम्य, पासादं प्रसादस्य, आगारं गौरवस्य, समाज सौजन्यस्य, संभवं सद्भावस्य, कालं कलेः, भगवन्तं सक्षादिव विरूपाक्षं भैरवाचार्यं ददर्श । भैरवाचार्यस्तु दूरादेव राजानं दृष्ट्वा शशिनमिव जलनिधिश्चचाल । प्रथमतरोत्थितशिष्यलोकश्चोत्थाय प्रत्युज्जगाम । समर्पितश्रीफलोपायनश्चजह्नुकर्णसमुद्गीर्यमाणगङ्गाप्रवाहह्रदगम्भीरया गिरा स्वस्तिशब्दमकरोत् । नरपतिरपि प्रीतिविस्तार्यमाणधवलिम्ना चक्षुषा प्रत्यर्पयन्निव बहुतराणि पुण्डरीकवनानि ललाटपट्टपर्यस्तेन चोदंसुना शिखामणिना महेश्वरप्रसादमिव तृतीयनयनोद्गमेनप्रकाशयन्नावर्जितकण्पल्लवपलायमानमधुकरः शिवसेवासमुन्मूलिताशेषपापलवमुच्यमान इव दूरादवनतः प्रणाममभिनवं चकार । आचार्योऽपि--"आगच्छ अत्रोपविशऽ इति शार्दूलचर्मात्मीयमदर्शयत् । उपदर्शितप्रश्रयस्तु राजा मत्तहसकलगद्गदस्वरसुभगां मधुरसमयीं महानदीमिव प्रवर्तयन्वाचं व्याजहार--"भगवन्! नार्हसि मामन्यनृपस्खलितैः खलीकर्तुम् । अशेषराजकोपेक्षिताया हतलक्ष्म्याः खल्वयं शीलापराधो द्रविणदौरात्म्यं वा यदेवमाचरति मयि गुरुः । अभूमिरयमुपचाराणाम् । अलमतियन्त्रणया । दूरस्थितोऽपि मनोरथशिष्योऽयं जनो भवताम् । माननीयं च गुरुवन्नोल्लङ्घनमर्हति गुरोरासनम् । आसतां च भवन्त एवात्रऽ इति व्याहृत्या परिजनोपनीते वाससि निषसाद । भैरवाचार्योऽपि प्रीत्यानतिक्रमणीयं नृपवचनमनुवर्तमानः पूर्ववत्तदेव व्याघ्राजिनमभजत । आसीने च सराजके परिजने शिष्यजने च समुचितमर्ध्यादिकं चक्रे । क्रमेण च नृपमाधुर्यहृतान्तःकरणः शशिकरनिकरविमला दशनदीधितीः स्फुरन्तीः शिवभक्तीरिव साक्षाद्द्रशयन्नुवाच-"तात! अतिनम्रतैव ते कथयति गुणानां गौरवम् । सकलसंपत्पात्रमसि । विभवानुरूपास्तु प्रतिपत्तयः । जन्मनः प्रभत्यदत्तदृष्टिरेवास्मि स्वापतेयेषु । यतः सकलदोषकलापानलेन्धनैर्धनैरविक्रीतं क्वचिञ्च्छरीरकमस्ति । भैक्षरक्षिताः सन्ति प्राणाः । दुर्गृहीतानि कतिचिद्विद्यन्ते विद्याक्षराणि । भगवच्छिवभट्टारकपादसेवया समुपार्जिताः कियत्योऽपि संनिहिताः पुण्यकणिकाः । स्वीक्रियतां यदत्रोपयोगार्हम् । प्रतनुगुणग्राह्याणि कुसुमानीव हि भवन्ति सतां मनांसि । अपि च, विद्बत्संमताः श्रूयमाणा अपि साधवः शब्दा इव सुधोरेऽपि हि मनसि यशांसि कुवंन्ति । विवरं विशतः कुतूहलस्य फेनधवर्लः स्रोतोभिरिवापह्रियमाणो गुणगणैरानोतोऽस्मि कल्याणिनाऽ इति । राजा तु तं प्रत्यवादीत्--"भगवन्! अनुरक्तेष्वपि शरीरादिष साधूनां स्वामिन एव प्रणयिनः । युष्मद्दर्शनादुपार्जितमेव चापरिमितं कुशलजातम् । अनेनैवागमनेन स्पृहणीयं पदमारोपितोऽस्मि गुरुणाऽ इति विविधाभिश्च कथाभिश्चिरं स्थित्वा गृहमगात् । अन्यस्मिन्दिवसे भैरवाचार्योऽपि राजानं द्रष्टुं ययौ । तस्मै च राजा सान्तःपुरं सपरिजनं सकोषमात्मानं निवेदितवान् । स च विहस्यावाच--"तात! क्व विभवाः, क्व च वयं वनवर्धिताः? धनोष्मणा म्लायत्यलं लतेव मनस्विता । खद्योतानामिवास्माकमियमपरोपतापिनी राजते तेजस्विता । भवादृशा एव भाजनं भूतेःऽ इति स्थित्वा च कञ्चित्कालं जगाम । परिव्राट्तेनैव क्रमेण पञ्च पञ्च राजतानि पुण्डरीकाण्युपायनीचकार । एकदा तु श्वेतकर्पटावृतं किमप्यादाय प्राविशत् । उपविश्य च पूर्ववत्स्थित्वा मुहूर्तमब्रवीत्--"महाभाग! भवन्तमाह भगवान्यथास्मच्छिष्यः पातालस्वामिनामा ब्राह्नणः । तेन ब्रह्नराक्षसहस्तादपहृतो महासिरट्टहासनामा । सोऽयं भवद्भुजयोग्यो गृह्यताम्ऽ इत्यभिधायापहृतकर्पटावच्छादनात्परिवारादाचकर्ष शरद्गगनतलमिव पिण्डतां नीतम्, कालिन्दीप्रवाहमिव स्तम्भितजलम्, नन्दकजिगीषया कृष्णकोपितं कालियमिव कृपामतां गतम्, लोकविनाशाय प्रकाशितधारासारं प्रलयकालमेघखण्डमिव नभस्तलात्पतितम्, दृश्यमानविकटदन्तमण्डलं हासमिव हिंसायाः, हरिबाहुदण्डमिव कृतदृढमुष्टिग्रहम्, सकलभुवनजीवितापहरणक्षमेण कालकूटेनेव निर्मितम्, कृतान्तकोपानलतप्तेनेवायसा घटितम्, अतितीक्ष्णतया पवनस्पर्शेनापि रुषेव क्वणन्तं मणिसभाकुट्टिमपतत्प्रतिबिम्बच्चझनात्मानमपि द्विधेव पाटयन्तम्, अरिशिरश्छेदलग्नैः कचैरिव किरणैः करालितधारम्, मुहुर्मुहुस्तडिदुन्मेषतरलैः प्रभाचक्रच्छुरितैर्जर्जरितातपम्, खण्डशश्छिन्दन्तमिव दिवसम्, कटाक्षमिव कालरात्रेः, कर्णोत्पलमिव कालस्य, ओङ्कारमिव क्रौयस्य अलकारमहङ्कारस्य, कुलमित्रं कोपस्य, देहं दर्पस्य, सुसहायं साहसस्य, अपत्यं मृत्योः, आगमनमार्गं लक्ष्म्याः, निर्गमनमार्गं कीर्तेः, कृपाणम् । अवनिपतिस्तु तं गृहीत्वा करेणायुधप्रीत्या प्रतिमानिभेनालिह्गन्निव सुचिरं ददर्श । संदिदेश च-"वक्तव्यो भगवान् परद्रव्यग्रहणावज्ञादुर्विदग्धमपि हि मे मनो युष्मद्विषये न शक्नोति वचनव्यतिक्रमव्यभिचारमाचरितुम्ऽ इति । परिब्राट्तु गृहीते तस्मिन् परितुष्टः "स्वस्ति भवते । साधयामःऽ इत्युक्त्वा निरयासीत् । नृपश्च प्रकृत्या वीररसानुरागी तेन कृपाणेनामन्यत करतलवर्तिनी मेदिनीम् । अथ बजत्सु दिवसेष्वकदा भैरवाचार्यो राजानमुपङ्वरे सोपग्रहमवादीत्--"तात! स्वार्थालसाः परोपकारदक्षाश्च प्रकृतयो भवन्ति भव्यानाम् । भवादृशां चार्थिदर्शनं महोत्सवः प्रणयनमाराधनमर्थग्रहणमुपकारः । भूमिरसि सर्वलोकमनोरथानाम् । येनाभिधीयसे । श्रूयताम् । भगवतो महाकालहृदयनाम्नो महामन्त्रस्य कृष्णस्रगम्बरानुलेपनेनाकल्पेन कल्पकथितेन महाश्मशाने जपकोट्या कृतपूर्वसेवोऽस्मि । तस्य च वेतालसाधनावसाना सिद्धिः । असहायैश्च सा दुरवापा । त्वं चालमस्मै कर्मणे । त्वयि च गृहीतभरे भविष्यन्त्यपरे सहायास्त्रयः । एकः स एवास्माकं टाटिभनामा बालमित्रं मस्करी यो भवन्तमुपतिष्ठते । द्वितीयः स पातालस्वामी । अपरो मच्छिष्य एव कणतालनामा द्राविडः । यदि साधु मन्यसे ततो नीयतामयं दिङ्नागहस्तदीर्घो गृहीताट्टहासो निशामेकामेकदिङ्मुखार्गलतां बाहुः । ऽ इति कृतवचसि च तस्मिन्नन्धकारप्रविष्ट इव दृष्टप्रकाशः प्राप्तोपकारादकाशः प्रमुदितेनान्तरात्मना नरेन्द्रः समभाषत--"भगवन्! परमनुगृहीतोऽस्म्यनेन शिष्यजनसामान्येन निदेशेन कृतपरिग्रहमिवात्मानमवैमिऽ इति । ननन्द च तेन नरेन्द्रव्याहृतेन भैरवाचार्यः । चकार च संकेतम्--"अस्यामेवागामिन्यामसितपक्षचतुर्दशीक्षणयामियत्यां बेलायाममुष्मिन्महाश्मशानसमीपभाजि शून्यायतने शस्त्रद्वितीयेनायुष्मता द्रष्टव्या वयम्ऽ इति । अथातिक्रान्तेष्वहःसु प्राप्तायां च तस्यामेव कृष्णचतुर्दश्यां शैवेन विधिना दीक्षितः क्षितिपो नियमानभूत । कृताधिवासं च संपादितगन्धधूपमाल्यादिपूजं खड्गमट्टहासमकरोत् । ततः परिणते दिवसे केनापि कर्मसाधनाय कृतरुधिरबलिविधानास्विव लोहितायमानासु दिक्षु रुधिरबलिलम्पटासु च बेलालजिह्वास्विव लम्बमानासु च रविदीधितिषु, नरेन्द्रानुरागेण गृहीतापरदिशि स्वयमिव दिक्पालतां चिकीर्षति सवितरि, यातुधानीष्विव वर्धमानासु तरुच्छाया, पातालतलवासिषु विघ्नाय दानवेष्विवोत्तिष्ठत्सु तमोमण्डलेषु, नभसि पुञ्जीभवति रौद्रं कर्म दिदृक्षमाणा इव नक्षत्रगणे विगाढायां शर्वर्याम्, सुप्तजने निःशब्दस्तिमिते निशीथे, राजा सान्तःपुरं परिजनं वञ्चयित्वा वामकरस्फुरत्सरुर्दक्षिणकरेणोत्खात खड्गमट्टहासमादाय विसर्पता च खड्गप्रभापटलेन नीलांशुकपटेनेव दर्शनभयादवगुण्ठितनिखिलगात्रयप्टिरनादिष्टयाप्यनुगम्यमानो राजलक्ष्म्या पृष्ठतः परिमललग्नमधुकरवेणिव्याजेन केशेष्विव कर्मसिद्धिमाकर्षन्नेकाकी नगरान्निरगात् । अगाच्च तमुद्देशम् । अथ प्रत्युपजग्मुस्ते त्रयोऽपि द्रौणिकृपकृतवर्माण इव सौप्तिके संनद्धाः स्नाताः स्रग्विणो गृहीतविकटवेषाः, कुसुमशेखरसंचारिभिः क्रियमाणमन्त्रशिखाबन्धा इव गुञ्जद्भिः षटचरणेरुष्णीषपट्टकांल्ललाटमध्यघटितविकटस्वस्तिकाग्रन्थीन्महामुद्राबन्धानिव धारयन्तो मूर्धबिः एकश्रवणविवरविततविमलदन्तपत्रप्रभालोकलेपधवलिततकपोलैर्मुखैरापिबन्त इव निशाचरापचयचिकीर्षया शार्वरमन्धकारम्, इतरकर्णावलम्बिनां रत्नकुण्डलानामच्छया रुचा गोरोचनयेव मन्त्रपरिजप्तया समालब्धाङ्गाः, स्वप्रतिबिम्बगर्भान् कर्मसिद्धये दत्तपुरुषोपहारानिवोल्लासयन्तो निशितान्निस्त्रिंशान्, निस्त्रिंशांशुसंतानसीमान्तततिभिरामात्मीयात्मीयदिग्विभागसंरक्षणाय त्रिधेव त्रियामां पाटयन्तः सार्धचन्द्रैः कलधौतबुद्बुदावलितरलतारागणैर्निशाया इव पुरषासिदारानिकृत्तैः खण्डैर्गृहीतैश्चमफलकैरकाण्डशर्वरीमपरां घटयन्तः, काञ्चनशृंङ्खलाकलापनियमितनिबिडनिष्परवाणयः, बद्धासिधेनवः, टीटिभकर्णतालपातालस्वामिनो निवेदितवन्तश्चात्मानम् । अवनिपतिस्तु--"कोऽत्र कः?ऽ इति त्रीनपृच्छत् । आच्चक्षिरे च स्वं स्व नाम त्रयोऽपि ते । तैरेव चानुगम्यमानो जगाम तां बलिदीपा लोकजर्जरितगुग्गुलुधूपधूमगृह्यमाणदिग्विभागतया विक्षिप्यमाणरक्षासर्षपार्धदग्धान्धकारपलायमाननिशामिव समुपकल्पितसर्वोपकरणां निःशब्दां च गम्भीरां च भीषणां च साधनभूमिम् । तस्यां च कुमुदधूलिधवलेन भस्मना लिखितस्य महतो मण्डलस्य मध्ये स्थितं दीप्ततरतेजःप्रसरम्, पृथुपरिवेशपरिक्षिप्तमिव शरत्सवितारम्, मथ्यमानक्षीरोदावर्त्तवर्तिनमिव मन्दरम्, रक्तचन्दनानुलेपिनो रक्तस्रगम्बराभरणस्योत्तानशयस्य शवस्योरस्युपविश्य जातजातवेदसि मुखकुहरे प्रारब्धाग्निकार्यम्, कृष्णोष्णीषम्, कृष्णाङ्गरागम्, कृष्णप्रतिसरम्, कृष्णवाससम्, कृष्णतिलाहुतिनिभेन विद्याधरत्वतृष्णया मानुषनिमणिकारणकालुष्यपरमाणूनिव क्षयमुपनयन्तम्, आहुतिदानपर्यस्ताभिः प्रेतमुखस्पर्शदूषितं प्रक्षालयन्तमिवाशुशुक्षणिं करनखदीधितिभिः, धूमालोहितेन चक्षुषा क्षतजाहुतिमिव हुतभुजि पातयन्तर्म्, इषद्विवृताधरपुटप्रकटितसितदसनशिखरेण दृश्यमानमूतंमन्त्राक्षरपङ्क्तिनेव मुखेन किमपि जपन्तम्, होमश्रमस्वेदसलिलप्रतिबिम्बिताभिरासन्नदीपिकाभिर्दहन्तमिव कर्मसिद्धये सर्वावयवान्, अंसावलम्बिना बहुगुणेन विद्याराजेनेव ब्रह्नसूत्रण परिगृहीतं भैरवाचार्यमपश्यत् । उपसृत्य चाकरोन्नमस्कारम् । अभिनन्दितश्च तेन स्वव्यापारमन्वतिष्ठत् । अत्रान्तरे पातालस्वामी शातक्रतवीमाशामह्गीचकार, कर्णतालः कोबेरीम्परिव्राट्प्राचेतसीम् । राजा तु त्रैशङ्कवेन ज्योतिषाङ्कितां ककुभमलङ्कृतवान् । एवं चावस्थितेषु दिक्पालेषु दिक्पालभुजपञ्जरप्रविष्टे विस्रब्धं कर्म साधयति भैरवं भैरवाचार्येऽतिचिरं च कृतकोलाहलेषु निष्फलप्रयत्नषु प्रत्यूहकारिषु शान्तेषु कौणपेषु गलत्यर्धरात्रसमये मण्डलस्य नातिदवीयस्युत्तरेणाकस्मादेव प्रलयमहावराहदंष्ट्राविवरमिव दर्शयन्ती क्षितिरदीर्यत । सहसैव च यस्माद्विवरादाशावारणोत्क्षिप्त इवालानलोहस्तम्भः, महावराहपीवरस्कन्धपीठो नरकासुर इव भुवो गर्भादुद्भूतो बलिदानव इव भित्वोत्थितः पातालम्, इन्द्रनीलप्रासाद इवोपरिज्वलितरत्नप्रदीपः, स्निग्धनीलघननिबिडकुटिलकुन्तलकान्तमौलिरुन्मीलन्मालतीमुण्डमालः, गद्गदतया स्वरस्य स्वभावपाटलतया च चक्षुषः क्षीब इव यौवनमदेन वल्गद्गलदामकः, करसंपुटमृदितया मृदा दिङ्नागकुम्भाभावंसकूटौपुनःपुनः परिपङ्कयन् सान्द्रचन्दनकर्दमदत्तैरव्यवस्थास्थासकैरतिसितजलधरशकलशारित इव शारदाकाशैकदेशः, केतकीगर्भपत्रपाण्डुरस्य चण्डातकस्योपरि क्षामतरीकृतकुक्षिः, कज्ञ्याबन्धं विधाय विलासविक्षिप्तेन धवलव्यायामफालीपटान्तेन धरणितलगतेन धार्यमाण इव पृष्ठतः शेपेण, स्थिरस्थूलोरुदण्डः, भूमिभङ्गभयेनेव मन्थराणि स्थापयन्पदानि निर्भरगर्वगुरु कथमपि शैलमिव गात्रमुद्वहन् दर्पेण मुहुर्मुहुरुरसि द्विगुणिते दोष्णि वामे तिर्यगुत्क्षिप्ते च दक्षिणे जङ्घाकाण्डे कुण्डलिते च चण्डास्फोटनटाङ्कारैः कर्णविघ्ननिर्घातानिव पातयन्नेकेन्द्रियविकलमिव जीवलोकं कुर्वन् कुवलयश्यामलः पुरुष उज्जगाम जगाद च विहस्य नरसिंहनादनिर्घोषघोरया भारत्या--"भो विद्याधरोश्रद्धाकामुक! किमयं "वद्यावलेपः सहायमदो वा यदस्मै जनायाविधाय बलिं बालिश इव सिद्धिमभिलषसि? का ते दुर्बुद्धिरियम्? एतावता कालेन क्षेत्राधिपतिरस्य मन्नाम्नैव लब्धव्यपदेशस्य देशस्य नागतस्ते श्रोत्रोपकण्ठं श्रीकण्ठनामा नागोऽहम्? अनिच्छति मयि का शक्तिर्ग्रहणस्यापि गन्तुं गगने । भूनाथोऽप्ययमनाथस्तपस्वी यस्त्वादृशैः शैवापसदैरुपकरणीक्रियते । सहस्वेदानीं सहामुना दुर्नरेन्द्रेण दुर्नयस्य फलम्ऽ इत्यभिधाय च निष्ठुरैः प्रकोष्ठप्रहारैस्त्रीनपि टीटिभप्रभृतीनभिमुखं प्रधावितान् सशरीरावरणकृपाणानपातयत् । अथापूर्वाधिक्षेपश्रवणादशस्त्रव्रणैरप्यमर्षस्वेदच्छलेनानेकसमरपीतमसिधाराजलमिव वमद्भिरवयवैरपि रोमाञ्चनिबेन मुक्तशरशतशल्यनिकरभरलघुमिवात्मानं रणाय कुर्वद्भिरट्टहासेनापि प्रतिबिम्बिततारागर्णन स्पष्टदृष्टधवलदन्तमालामवज्ञया हसतव कथ्यमानसत्वावष्टम्भः परिकरबन्धविब्रमभ्रमितकरनखकिरणचक्रवालेन व्यपगमनाशङ्क्या नागदमनमन्त्रमण्डलबन्धेनेव रुन्धन् दशदिशो नरनाथः सावज्ञमवादीत्--"अरे काकोदर काक! मयि स्थिते राजहंसे न जिह्रेषि बलिं याचितुम्? अमीभिः किं वा परुषभाषितैः? भुजे वीर्यं निवसति, न वाचि । प्रतिपद्यस्व शस्त्रम् । अयं न भवसि । अगृहीतहेतिष्वशिक्षितो मे भुजः प्रहर्तुम्ऽ इति । नागस्त्वनादृततरम्--"एहि, किं शस्त्रेण? भुजाभ्यामेवभनजज्मि भवतो दर्पम्ऽ इत्यभिधायास्फोटयामास । नरपतिरपि निरायुधमायुधेन युधि लज्जमानो जेतुमुत्सृज्य सचर्मफलकमट्टहासमसिमर्धोरुक्सयोपरि बबन्ध बाहुयुद्धाय कक्ष्याम् । युयुधाते च निर्दयास्फोटनस्फुटितभुजरुधिरशीकरसिच्यमानौ शिलास्तम्भैरिव पतद्भिर्बाहुदण्डैः शब्दमयमिव कुर्वाणौ भुवनं तौ । न चिराच्च पातयामाय भूतले भुजङ्गमं भूपतिः । जग्राह च केशेषु । उच्चखान च शिरश्छेत्तुमट्टहासम् । अपश्यच्च वैकक्षकमालान्तरेणास्य यज्ञोपवीतम् । उपसंहृतशस्त्रव्यापारश्चावादीत्--दुर्विनीत! अस्ति ते दुर्नयनिर्वाहबीजमिदम् । यतो विश्रब्धमेवाचरसि चापलानिऽ इत्युक्त्वोत्ससर्ज च तम् । अनन्तरं च सहसैवातिबहलां ज्योत्स्नां ददर्श । शरदि विकसतां कमलवनानामिव च घ्राणावलेपिनमामोदमजिघ्रत् । झटिति च नूपुरशब्दमशृणोत् । व्यापारयामास च शब्दानुसारेण दृष्टिम् । अथ करतलस्थितस्याट्टहासस्य मध्ये तडितमिव नीलजलधरोदरे स्फुरन्तीं प्रभया पिबन्तीमिव त्रियामाम्, तामरसहस्ताम्, कोमलाङ्गुलिरागराजिजालकानि च चरणलग्नानि वेलाबालविद्रुमलतावनानीवाकर्षन्तीम्, करपङ्कजसंकोचाशङ्कया शशाङ्कमण्डलमिव खण्डशः कृतं निर्मलचरणनखनिवहनिभेन बिभ्रतीम्, गुल्फावलम्बिनूपुरपुटतया स्थितनिबिडकटकावलिबन्धनादिव परिभ्रश्यागताम्, बहुविधकुसुमशकुनिशतशोभितात्पवनचलिततनुतरङ्गादतिस्वच्छादंशुकादुदधिसलिलादिवोत्तरन्तीम्, उदधिजन्मप्रेम्णा त्रिवलिच्छलेन त्रिपथगयेव परिष्वक्तमध्याम्, अत्युन्नतस्तनमण्डलाम्, दृश्यमानदिङ्नागकुम्भामिव ककुभम्, मदलग्नैरावतकरशीकरनिकरमिव शरत्तारागणतारं हारमुरसा दधानाम्, धवलचामरैरिव च मन्दमन्दनिःश्वासदोलायितैर्हारकिरणैरुपवीज्यमानाम्, स्वभावलोहितेन मदान्धगन्धेभकुम्भास्फालनसंक्रान्तसिन्दूरेणेन करद्वयेन द्योतमानाम्, हरशिखण्डेन्दुद्वितीयखण्डेनेव कुण्डलीकृतेन ज्योत्स्नामुचा दन्तपत्रेण विभ्राजमानाम्, कौस्तुभगभस्तिस्तबकेनेव च श्रवणलग्नेनाशोककिसलयेनालङ्कृताम्, महता मत्तमातङ्गमदमयेन तिलकेनादृश्यच्छत्रच्छायामण्डलसेनेवाविरहितललाटाम्, आपादतलादासीमन्ताच्च चन्द्रातपधवलेन चन्दनेनादिराजयशसेव धवलीकृताम्, धरणितलचुम्बिनीबिः कण्ठकुसुममालाभिः सरिद्भिरिव सागराधिष्ठात्रीभिरधिष्ठिताम्, मृणालकोमलैरवयवैः कमलसंभवत्वमनक्षरमाचक्षाणा स्त्रियमपश्यत् । असंभ्रान्तश्च पप्रच्छ--"भद्रे! कासि, किमर्थं वा दर्शनपथमागतासि?ऽ इति । सा तु स्त्रीजनविरुद्धेनावष्टेम्भेनाभिवन्तीवाभाषत तम्--"वीर! विद्धि मां नारायणोरःस्थलीलीलाविहारहरिणीम्, पृथुभरतभगीरथादिराजवंशपताकाम्, सुभटभुजजयस्तम्भविलासशालभञ्जिकाम्, रणरुधिरतरङ्गिणोतरङ्गक्रीडादोहददुर्ललितराजहंसीम्, सितनृपच्छत्रषण्डशिखण्डिनीम्, अतिनिशितशस्त्रधारावनभ्रमणविभ्रमसिंहीम्, असिधाराजलकमलिनीं श्रियम् । अपहृतास्मि तवामुना शौर्यरसेन । याचस्व । ददामि ते वरमभिरषितम्ऽ इति । वीराणां त्वपुनरुक्ताः परोपकाराः यतो राजा तां प्रणम्य स्वार्थविमुखो भैरवाचार्यस्य सिद्धिं ययाचे । लक्ष्मीस्तु देवी प्रीततरहृदया विस्तीर्यमाणेन चक्षुषा क्षीरोदेनेवोपरि पर्यस्तेनाभिषिञ्चन्ती भूपालम् "एवमस्तुऽ इत्यब्रवीत् । अवादीच्च पुनः--"अनेन सत्त्वोत्कर्षेण भगवच्छिवभट्टारकभक्त्या चासाधारणया भवान्भुवि सूर्याचन्द्रमसोस्तृतीय इवाविच्छिन्नस्य प्रतिदिनमुपचीयमानवृद्धेः शुचिसुभगमान्यसत्यत्यागशौर्यशौण्डपुरुषप्रकाण्डप्रायस्य महतो राजवंशस्य कर्ता भविष्यति । यस्मिन्नुत्पत्स्यते सर्वद्वीपानां भोक्ता हरिश्चन्द्र इव हर्षनामा चक्रवर्ती त्रिभुवनविजिगीषुर्द्वितीयो मान्धातेव यस्यायं करः स्वयमेव कमलमपहाय ग्रीहष्यति चामरम्ऽ इति वचसोऽन्ते तिरोबभूव । भूमिपालस्तु तदाकर्ण्य हृदयेनातिमात्रमप्रीयत । भैरवाचार्योऽपि तस्या देव्यास्तेन वचसा कर्मणा च सम्यगुपपादितेन सद्य एव कुन्तलो किरीटी कुण्डली हारी केयूरी मेखली मुद्गरी खढ्गी च भूत्वावाप विद्याधरत्वम् । प्रोवाच च--"राजन्! अदूर्वयापिनः फल्गुचेतसामलसानां मनोरथाः । सतां तु भुवि विस्तारवत्यः स्वभावेनैवोपकृतयः । स्वप्नेऽप्यसंबावितां दातुमिमां दक्षिणां क्षमः कोऽन्यो भवन्तमपहाय । संपत्कणिकामपि प्राप्य तुलेव लघुप्रकृतिरुन्नतिमायाति । त्वदोयैर्गुणैरुपकरणीकृतस्य त्वत्त एव च लब्धात्मलाभस्य निर्लज्जते यमस्य मूढहृदयस्य । तदिच्छामि येन केनचित्कार्यलवोपपादनोपयोगेन स्मरयितुमात्मानम्ऽ इति । प्रत्युपकारदुष्प्रवेशास्तु भवन्ति धीराणां हृदयावष्टम्भाः । यतस्तं राजा "भवत्सिद्धयैव परिसमाप्तकृत्योऽस्मि । साधयतु मान्यो यथासमीहितं स्थानम्ऽ इति प्रत्याचचक्षे । तथोक्तश्च भूभुजा जिगमिषुः सुदृढं समालिङ्ग्य टीटिभादीन् कुवलयवनेनेवाश्यायशीकरस्राविणा सास्रेण चक्षुषा वोक्षमाणः क्षितिपतिं पुनरुवाच--"तात! ब्रवीमि यामीति न स्नेहसदृशम् । त्वदीयाः प्राणा इति पुनरुक्तम् । गृह्यतामिदं शरीरकमिति व्यतिरेकेणार्थकरणम् । तिलशः क्रीता वयमिति नोपकारानुरूपम् । बान्धवोऽसीति दूरीकरणमिव । त्वयि स्थितं हृदयमित्यप्रत्यक्षम् । त्वद्विरहानुकारिणी कारणेयं न सिद्विरित्यश्रद्धेयम् । निष्कारणस्तवोपकार इत्यनुवादः । स्मर्तव्या वयमित्याज्ञा । सर्वथा कृतघ्नालापेष्वसज्जनकथासु च चेतसि कर्तव्योऽयं स्वार्थनिष्ठुरो जनःऽ इत्यभिधाय वेगच्छिन्नहारोच्छलितमुक्ताफलनिकरताडिततारागणं गगनतलमुत्पपात । ययौ च सीमन्तितग्रहग्रामः सिद्ध्युचितं धाम । श्रीकण्ठोऽपि--"राजन्! पराक्रमक्रीतः कर्तव्येषु नियोगेनानुग्राह्यो ग्राहितविनयोऽयं जनःऽ इत्यभिधाय राजानुमोदितस्तदेव भूयो भूविवरं विवेश । नरपतिस्तु क्षीणभूयिष्ठायां क्षपायां, प्रवातुमारब्धे प्रबुध्यमानकमलिनीनिःश्वाससुरभौ, वनदेवताकुचांशुकापहरणपरिहासस्वेदिनीव सावश्यायशीकरे परिमलाकृष्टमधुकृति कुमुदनिद्रावाहिनि निशापरिणतिजडे तुषारलेशिनि वनानिले, विरहविधुरचक्रवाकचक्रनिःश्वसितसंतापितायामिवापरजलनिधिमवतरन्त्यां त्रियामायां, साक्षादागतलक्ष्मीविलोकनकुतूहलिनीष्विव समुन्मीलन्तीषु नलिनीषु, उन्निद्रपक्षिणि क्षरति कुसुमविसरमिव तुहिनकणनिकरं मृदुपवनलासितलते कानने, कमललक्ष्मीप्रबोधमङ्गलशङ्खेष्विव रसत्स्वन्तर्बद्धध्वनन्मधुकरेषु मकुलायमानेषु कुमुदेषु, उज्जिहानरविरथवाजिविसृष्टैः प्रोथपटुपवनैः प्रोत्सायमाणास्विव वारुण्यां ककुभि पुञ्जीभवन्तीषु श्यामालताकलिकासु तारकासु, मन्दरशिखराश्रयिणि मन्दानिललुलितकल्पलतावनकुसुमधूलिविच्छुरित इव धूसरीभवति सप्तर्षिमण्डले, सुरवारणाङ्कुश इव च्युते गलति तारामये मृगे त्रीनपि टीटिभादीन् गृहीत्वा नागयुद्धव्यतिकरमलीमसानि शुचिनि वनवापीपयसि प्रक्षाल्याङ्गानि नगरं विवेश । अन्यस्मिन्नहनि तेषामात्मशरीरानन्तरं स्नानभोजनाच्छादनादिना प्रीतिकमरोत् । कतिपयदिवसापगमे च पिरव्राड्भूभुजा वार्यमाणोऽपि वनं ययौ । पातालस्वामिकर्णतालौ तु शौर्यानुरक्तौ तमेव सिषेवाते । संपादितमनोरथातिरिक्तविभवौ च सुभटमण्डलमध्ये निष्कृष्टमण्डलाग्रौ समरमुखेषु प्रथममुपयुज्यमानौ कथान्तरेषु चान्तरान्तरा समादिष्टो विचित्राणि भैरवाचार्यचरितानि शैशववृत्तान्तांश्च कथयन्तौ तेनैव सार्धं जरामाजग्मतुरिति । इति महाकविश्रीबाणभट्टकृते हर्षचरिते राजदर्शनं नाम दृतीय उच्छ्वासः चतुर्थ उच्छ्वासः योगंस्वप्नेऽपि नेच्छन्ति कुर्वते नकरग्रहम् । महान्तो नाममात्रेण भवन्ति पतयो भुवः ॥ ४.१ ॥ सकलमहीभृत्कम्पकृदुत्पद्यत एव एव नृपवंशे । विपुलेऽपि पृथुप्रतिमो दन्त इव गणाधिपस्य मुखे ॥ ४.२ ॥ अथ तस्मात्पुष्पभूतेर्द्विजवरस्वेच्छागृहीतकोषो नाबिपझ इव पुण्डरीकेक्षणात्, लक्ष्मीपुरःसरो रत्नसंचय इव रत्नाकरात्, गुरुबुधकविकलाभृत्तेजस्विभूनन्दनप्रायो ग्रहगण इवोदयस्थानात्, महाभारवाहनयोग्यः सागर इव सगरप्रभावात्, दुर्जयबलसनाथो हरिवंश इव सूरान्निर्जगाम राजवंशः । यस्मादविनष्टधर्मधवलाः प्रजासर्गा इव कृतमुखात्, प्रतापाक्रान्तभुवनाः किरणा इव तेजोनिधेः, विग्रहव्याप्तदिङ्मुखा गिरय इव भूभृत्प्रवरात्, धरणिधारणक्षमा दिग्गजा इव ब्रह्नकरात्, उदधीन् पातुमुद्यता जलधरा इव घनागमात्, इच्छाफलदायिनः कल्पतरव इव नन्दनात्, सर्वभूताश्रया विश्वरूपप्रकारा इव श्रीधरादजायन्त राजानः । तेषु चैवमुत्पद्यमानेषु क्रमेणोदपादि हूणहरिणकेसरी सिन्धुराजज्वरो गूर्जरप्रजागरो गान्धारादिपगन्धद्विपकूटपाकलो लाटपाटवपाटच्चरो मालवलक्ष्मीलतापरशुः प्रतापशील इति प्रथितापरनामा प्रभाकरवर्धनो नाम राजाधिराजः । यो राज्याङ्गसङ्गीन्यभिषिच्यमान एव मलानीव मुमोच धनानि । यः परकीयेनापि कातरवल्लभेन रणमुखे तृणेनेव धृतेनालज्जत जीवितेन । यः करधृतधौतासिप्रतिबिम्बितेनात्मनाप्यदूयत समितिषु सहायेन रिपूणां पुरः प्रधनेषु धनुषापि नमता यो मानी मानसेनाखिद्यत । यश्चान्तर्गतापरिमितरिपुशस्त्रशल्यशङ्कुकीलतामिव निश्चलामुवाह राजलक्ष्मीम् । यश्च सर्वासु दिक्षु समीकृततटावटविटपाटवीतरुतृणगुल्मवल्मीकगिरिगहनैर्दण्डयात्रापथैः पृथुभिर्भृत्योपयोगाय व्यभजतेव वसुधां बहुधा । यं चालब्धयुद्धदोहदमात्मोयोऽपि सकलरिपुसमुत्सारकः परकीय इव तताप प्रतापः । यस्य च वह्निमयो हृदयेषु, जलमयो लोचनपुटेषु, मारुतमयो निःश्वसितेषु, क्षमामयोऽङ्गेषु, आकाशमयः शून्यतायां, पञ्चमहाभूतमयो मूर्त इवादृश्यत निहतप्रतिसामन्तान्तःपुरेषु प्रतापः । यस्य चासन्नेषु भृत्यरत्नेषु प्रतिबिम्बतेव तुल्यरूपा स प्तलक्ष्यत लक्ष्मीः । तथा च यस्य प्रतापाग्निना भूतिः, शौर्योष्मणा सिद्धिः, असिधाराजलेन वंशवृद्धिः, सस्त्रव्रणमुखैः पुरुषकारोक्तिः, धनुर्गुणकिणेन करगृहीतिरभवत् । यश्च वैरमुपायनं विग्रहमनुग्रहं समरागमं महोत्सवं शत्रुं निधिदर्शनमरिबाहुल्यमभ्युदयमाहवाह्वानं वरप्रदानभवस्कन्दपातं दिष्टवृद्धिं शस्त्रप्रहारपतनं वसुधारारसममन्यत । यस्मिंश्च राजनि निरन्तरैर्यूपनिकरैरङ्कुरितमिव कृतयुगेन, दिङ्मुखविसर्पिभिरध्वरधूमैः पलायितमिव कलिना, ससुधेः सुरालयैरवतीर्णामिव स्वर्गेण, सुरालयशिखरोद्धूयमानैर्धवलध्वजैः पल्लवितमिव धर्मेण, बहिरुपरचितविकटसभासत्रप्रपाप्राग्वंशमण्डपैः प्रसूतमिव ग्रामैः, काञ्चनमयसर्वोपकरणैर्विभवैविशीर्णमिव मेरुणा, द्विजदीयमानैरार्थकलशैः फलितमिव भाग्यसंपदा । तस्य च जन्मान्तरेऽपि सती पार्वतीव शङ्करस्य, गृहीतपरहृदया लक्ष्मीरिव लोकगुरोः, स्फुरत्तरलतारका रोहिणीव कलावतः, सर्वजनजननी बुद्धिरिव प्रजापतेः, महाभूभृत्कुलोद्गता गङ्गेव वाहिनीनायकस्य, मानसानुवर्तनचतुरा हंसीव राजहंसस्य, सकललोकाचितचरणा त्रयीव धर्मस्य, दिवानिशममुक्तपार्श्वस्थितिररुन्धतीव महामुने हंसमयीव गतिषु, परपुष्टमयीवालापषु, चक्रवाकमयीव पतिप्रेम्णि, प्रावृण्मयीव पयोधरोन्नतौ, मदिरामयीव विलासेषु, निधिमयीवार्थसंचयेषु, वसुधारामयीव प्रसादेषु, कमलमयीव कोशसंग्रहेषु, कुसुममयीव फलदानेषु, संध्यामयीव वन्द्यत्वे, चन्द्रमयीव निरूष्मत्वे, दर्पणमयीव प्रतिप्राणिग्रहणेषु, सामुद्रमयीव परचित्तज्ञानेषु, परमात्ममयीव व्याप्तिषु, स्मृतिमयीव पुण्यवृत्तिषु, मधुमयीव संभाषणेषु, अमृतमयीव तृष्यत्सु, वृष्टिमयीव भृत्येषु, निर्वृतिमयीव सखीषु, वेतसमयीव गुरुषु, गोत्रवृद्धिरिव विलासानाम्, प्रायश्चित्तशुद्धिरिव स्त्रीत्वस्य, आज्ञासिद्धिरिव मकरध्वजस्य, व्युत्थानबुद्धिरिव रूपस्य, दिष्टवृद्धिरिव रतेः, मनोरथसिद्धिरिव रामणीयकस्य, दैवसंपत्तिरिव लावण्यस्य, वंशोत्पत्तिरिवानुरागस्य, वरप्राप्तिरिव सौभाग्यस्य, उत्पत्तिभूमिरिव कान्तेः, सर्गसमाप्तिरिव सौन्दर्यस्य, आयतिरिव यौवनस्य, अनभ्रवृष्टिरिव वैदग्ध्यस्य, अयश-प्रमृष्टिरिव लक्ष्म्याः, यशःपुष्टिरिव चरित्रस्य, हृदयतुष्टिरिव धर्मस्य, सौभाग्यपरमाणुसृष्टिरिव प्रजापतेः, शमस्यापि शान्तिरिव, विनयस्यापि विनीतिरिव, आभिजात्यस्याप्यभिजातिरिव, संयमस्यापि संयतिरिव, धैर्यस्यापि धृतिरिव, विभ्रमस्यापि विब्रान्तिरिह, यशोमती नाम महादेवी प्राणानां प्रणयस्य विस्रम्भस्य ध्रमस्य सुखस्य च भूमिरभूत् । यास्य वक्षसि नरकजितो लक्ष्मीरिव ललास । निसर्गत एव च स नृपतिरादित्यभक्तो बभूव । प्रतिदिनमुदये दिनकृतः स्नातः सितदुकूलधारी धवलकर्पटप्रावृतशिराः प्राङ्मुखः क्षितौ जानुब्यां स्थित्वा कुङ्कुमपङ्कानुलिप्ते मण्डलके पवित्रपझरागपात्रीनिहितेन स्वहृदयेनेव सूर्यानुरक्तेन रक्तकमलषण्डेनार्घं ददौ । अजपच्च जप्यं सुचरितः प्रत्युषसि मध्यन्दिने दिनान्ते चापत्यहेतोः प्राध्वं प्रयतेन मनसा जञ्जपूको मन्त्रमादित्यहृदयम् । भक्तजनानुरोधविधेयानि तु भवन्ति देवतानां मनांसि । यतः सराजा कदाचिद्ग्रीष्मसमये यदृच्छया सितकरकरसितसुधाधवलस्य हर्म्यस्य पृष्टे सुष्वाप । वामपार्श्वे चास्य द्वितीयशयने देवी यशोमती शिश्ये । पिरणतप्रायायां तु श्यामायाम्, आसन्नप्रभातवेलाविलुप्यमानलावण्ये लिलम्बिषमाणे सीदत्तेजसि तारकेश्वरे, कराग्रस्पृष्टकुमुदिनीप्रमोदजन्मनि शशधरस्वेद इव गलत्यतिशीतलेऽवश्यायपयसि, मधुमदमत्तप्रसुप्तसीमन्तिनीनिःश्वासाहतेषु संक्रान्तमदेष्विव घूर्णमानेष्वन्तःपुरप्रदीपेषु, राजनि च विमलनवप्रतिबिम्बिताभिः संवाह्यमानचरण इव तारकाभिः विस्रब्धप्रसारितैर्दिगङ्गनानामिवार्पितैरङ्गैर्मधुसुगन्धिभिः स्वहस्तकमलतालवृन्तवातैरिव श्वसितैर्मुखश्रिया वीज्यमाने विमलकपोलस्थलस्थितेन सितकुसुमशेखरेणेव रतिकेलिकचग्रहलम्बितेन प्रतिमाशशिबिम्बेन विराजिते स्वपति देवी यशोमती सहसैव "आर्यपुत्र! परित्रायस्व परित्रायस्वऽ इति भाषमाणा भूषणरवेण व्याहरन्तीव परिजनमुत्कम्पमानाङ्गयष्टिरुदतिष्ठत् । अथ तेन सर्वस्यामपि पृथिव्यामश्रुतपूर्वेण किमुत देवीमुखे परित्रायस्वेति ध्वनिना दग्ध इव श्रवणयोरेकपद एव निद्रां तत्याज राजा । शिरोभागाच्च कोपकम्पमानदक्षिणकराकृष्टेन कर्णोत्पलेनेव निर्गच्छताच्छधारेण धौतासिना सीमन्तयन्निव निशाम्, अन्तरालव्यवधायकमाकाशमिवोत्तरीयांशुकं विक्षिपन् वामकरपल्लवेन, करविक्षेपवेगगलितेन हृदयेनेव भयनिमित्तान्वेषिणा भ्रमता दिक्षु कनकवलयेन विराजमानः, सत्वरावतारितवामचरणाक्रान्तिकम्पितप्रासादः, पुरः पतितेनासिधारागोचरगतेन शशिमयूखखण्डेनेव खण्डितेन हारेण राजमानः, लक्ष्मीचुम्बनलग्नताम्बूलरसरञ्जिताभ्यामिव निद्रया कोपेन चातिलोहिताभ्यां लोचनाभ्यां पाटलयन्पर्यन्तानाशानाम्, बद्धान्धकारया त्रिपताकया भ्रुकुट्या पुनरिव त्रियामां परिवर्तयन् "देवि! न भेतव्यं न भेतव्यम्ऽ इत्यभिदधानो वेगेनोत्पपात । सर्वासु च दिक्षु विक्षिप्तचक्षुर्यदा नाद्राक्षीत्किञ्चिदपि तदा पप्रच्छ तां भयकारणम् । अथ गृहदेवतास्विव प्रधावितासु यामिकिनीषु, प्रबुद्धे च समीपशायिनि परिजने, शान्ते च हृदयोत्कम्पकारिणि साध्वसे सा समभाषत--"आर्यपुत्र! जानामि स्वप्ने भगवतः सवितुर्मण्डलान्निर्गत्य द्वौ कुमारकौ, तेजोमयौ, बालातपेनेवापूरयन्तौ दिग्भागान्, वैद्युतमिव जीवलोकं कुर्वाणौ, मुकुटिनौ, कुण्डलिनौ, अङ्गदिनौ, कवचिनौ, गृहोतशस्त्रौ, इन्द्रगोपकरुचा रुधिरेण स्नातौ, उन्मुखेनोत्तमाङ्गघटमानाञ्जलिना जगता निखिलेन प्रणम्यमानौ, कन्ययैकया च चन्द्रमूर्त्येव सुषुम्णारश्मिनिर्गतयानुगम्यमानौ, क्षितितलमवतीर्णौ । तौ च मे विलपन्त्याः शस्त्रेणोदरं विदार्य प्रवेष्टुमारब्धौ । प्रतिबुद्धास्मि चार्ंयपुत्र । विकोशयन्ती वेपमानहृदयाऽ इति । एतस्मिन्नेव च कालक्रमे राजलक्ष्म्याः प्रथमालापः प्रथयन्निव स्वप्नफलमुपतोरणं रराण प्रभातशङ्खः । भावननीं भूतिमिवाभिदधाना दध्वनुरमन्दं दुन्दुभयः । चकाण कोणाहतानन्दादिव प्रत्यूषनान्दी । जयजयेति प्रबोधमङ्गलपरिपाठकानामुच्चैर्वोचोऽश्रूयन्त । पुरुषश्च वल्लभतुरङ्गमन्दुरामन्दिरे मन्दमन्दं सुप्तोत्थितः सप्तीनां कृतमधुरहेषारवाणां पुरश्च्योतत्तुषारसलिलशीकरं किरन्मरकतहरितं यवसं वक्त्रापरवक्त्रे पपाठ-- "निधिस्तरुविकारेण सन्मणिः स्फुरता धाम्ना । शुभागमो निमित्तेन स्पष्टमाख्यायते लोके ॥ ४.३ ॥ अरुण इव पुरःसरोरविंपवन इवातिजवो जलागमम् । शुभमशुभमथापि वा नृणां कथयति पूर्वनिदर्शनोदयःऽ ॥ ४.४ ॥ नरपतिस्तु तच्छ्रुत्वा प्रीयमाणेनान्तःकरणेन तामवादीत्--"देवि । मुदोऽवसरे विषीदसि । समृद्धास्ते गुरुजनाशिषः । पूर्णा नो मनोरथाः । परिगृहीतासि कुलदेवताभिः । प्रसन्नस्ते भगवानंशुमाली । न चिरेणैवातिगुणवदपत्यत्रयलाभेनानन्दयिष्यति भवतीम्ऽ इति । अवतीर्य च यथाक्रियमाणाः क्रियाश्चकार । यशोमत्यपि तुतोष तेन पत्युर्भाषितेन । ततः समतिक्रान्ते कस्मिंश्चित्कालांशे देव्यां च यशोमत्यां देवो राज्यवर्धनः प्रथममेव संबभूव गर्भे । गर्भस्थितस्यैव च यस्य यशसेव पाण्डुतामादत जननी । गुणगौरवक्लान्तेव गात्रमुद्वोढुं न शशाक । कान्तिविसरामृतरसतृप्तेवाहारं प्रति पराङ्मुखी बभूव । शनैः शनैरुपचीयमानगर्भमरालसा च गुरुभिर्वारितापि वन्दनाय कयमपि सखीभिर्हस्तावलम्बेनानीयत । विश्राम्यन्ती सालभञ्जिकेव समीपगतस्तम्भभित्तिष्वलक्ष्यत । कमललोभनिलीनैरलिभिरिव वृतावुद्धर्तुं नाशकच्चरणौ । मृणाललोभेन च चरणनखमयूखलग्नैर्भवनहंसैरिव संचायेमाणा मन्दमन्द बभ्राम । मणिभित्तिपातिनीषु निजप्रतिमास्वपि हस्तावलम्बनलोभेन प्रसारयामास करकमलम्, किमुत सखीषु । माणिक्यस्तम्भदीधितीरप्यालम्बितुमाचकाङ्क्ष, कि पुनर्भवनलताः । समादेष्टुमप्यसमर्थासोद्गृहकार्याणि, कैव कथा कर्तुम् । आस्तां नूपुरभारखेदितं चरणयुगलं मनसापि नोदसहत सौधमारोढुम् । अङ्गान्यपि नाशक्नोद्धारयितुं दूरे भूषणानि । चिन्तयित्वापि क्रीडापर्वताधिरोहणमुत्कम्पितस्तनी तस्तान । प्रत्युत्थानेषूभयजानुशिखरविनिहतकरकिसलयापि गर्वादिव गर्भेणाधार्यत । दिवसं चाधोमुखी स्तनपृष्ठसंक्रान्तेनापत्यदर्शनौत्सुक्यादन्तः प्रविष्टेनेव मुखकमलेनैवं प्रीयमाणा ददर्श गर्भम् । उदरे तनयेन हृदये च भर्वा तिष्ठता द्विगुणितामिव लक्ष्मीमुवाह । सख्युत्सङ्गमुक्तशरीरा च शरीरपरिचारिकाणामङ्केषु सपत्नीनां तु शिरःसु पादौ चकार । अवतीर्णे च दशमे मासि सर्वोर्वीभृत्पक्षपाताय वज्रपरमाणुबिरिव निर्मितम्, त्रिभुवनभारधारणसमर्थं शेषफणामण्डलोपकरणैरिव कल्पितम्, सकलभूभृत्कम्पकारिणं दिग्गजावयवैरिव विहितमसूत देवं रजियवर्धनम् । यस्मिंश्च जाते जातप्रमोदा नृत्यमय्य इवाजायन्त प्रजाः । पूरितासंख्यशङ्खशब्दमुखरं प्रहतपटहशतपटुरवं गम्भीरबेरीनिनादनिर्भरभरितभुवनं प्रमोदोन्मत्तमर्त्यलोकमनोहरं मासमेकं दिवसमिव महोत्सवमकरोन्नरपतिः । अथान्यस्मिन्नतिक्रान्ते कस्मिंश्चित्काले कन्दलिनि कुड्मलितकदम्बतरौ रूढतोक्मतृणस्तम्बे स्तम्बिततामरसे विकसितचातकचेतसि मूकमानसौकसि नभसि मासि देव्या देवक्या इव चक्रपाणिर्यशोमत्या हृदये गर्भे च सममेव संबभूव हर्षः । शनैः शनैश्चास्याः सर्वप्रजापुण्यैरिव परिगृहीता भूयोऽप्यापाण्डुतामङ्गयष्टिर्जगाम । गर्भारम्भेण श्यामायमानचारुचूचुकचूलिको चक्रवर्तिनः पातुं मुद्रिताविव पयोधरकलशौ बभारोरःस्थलेव । स्तन्यार्थमानननिहिता दुग्धनदीव दीर्घस्निग्धधवला माधुर्यमधत्त दृष्टिः । सकलमङ्गलगणाधिष्ठितगात्रगरिम्णैव गतिरमन्दायत । मर्न्दं-मन्दं संचरन्त्या निर्मलमणिकुट्टिमनिमग्नप्रतिबिम्बनिभेन गृहीत पादपल्लवा पूर्वसेवामिवारेभे पृतिव्यस्याः । दिवसमधिशयानायाः शयनीयमपाश्रयपत्रभङ्गपुत्रिकाप्रतिमा विमलकपोलोदरगता प्रसवसमयं प्रतिपाल्यन्ती लक्ष्मीरिवालक्ष्यत । क्षपासु सौधशिखराग्रगताया गर्भोन्माथमक्तांशुके स्तनमण्डले संक्रान्तमुडुपतिमण्डलमुपरि गर्भस्य श्वेतातपत्रमिव केनापि धार्यमाणमदृश्यत । सुप्ताया वासभवने चित्रभित्तिचामरग्राहिण्योऽपि चामराणि चालयाञ्चक्रुः । स्वप्नेषु करविधृतकमलिनीपलाशपुटसलिलैश्चतुर्भिरपि दिक्करिभिरक्रियताभिषेकः प्रतिबुध्यमानायाश्च चन्द्रशालिकासालभञ्जिकापरिजनोऽपि जयशब्दमसकृदजनयत् । परिजनाह्वानेष्वादिशेत्यशरीरा वाचो निश्चेरुः । क्रीडायामपि नासहताज्ञाभङ्गम् । अपि च चतुर्णामपि महार्णवानामेकीकृतेनाम्भसा स्नातुं वाञ्छा बभूव । वेलावनलतागृहोदरपुलिनपरिसरेषु पर्यटितुं हृदयमभिललाष । आत्ययिकेष्वपि कार्येषु सविब्रमं भ्रूलता चचाल । संनिहितेष्वपि मणिदर्पणेषु मुखमुत्खाते खडागपट्टे वीक्षितुं व्यसनमासीत् । उत्सारितवीणाः स्त्रीजनविरुद्धा धनुर्ध्वनयः श्रुतावसुखायन्त । पञ्जकेसरिषु चक्षुररमत । गुरुप्रणामेष्वपि स्तम्बितमिव शिरः कथमपि ननाम । सख्यश्चास्याः प्रमोदविस्फारितैर्लोचनपुटैरासन्नप्रसवमहोत्सवधियेव धवलयन्त्यो भवनं विकचकुमुदकमलकुवलयपलाशवृष्टिमयं रक्षाबलिनिधिमिवानवरतं विदधाना दिक्षु क्षणमपि न मुमुचुः पार्श्वम् । आत्मोचितस्थाननिषण्णाश्च महान्तो विविधौषधिधरा भिषजो भूधरा इव भुवो धृतिं चक्रुः । पयोनिधीनां हृदयानीव लक्ष्म्या सहागतानि ग्रीवासूत्रग्रन्थिषु प्रशस्तरत्नान्यबध्यत्त । ततश्च प्राप्ते ज्येष्ठामूलीये मासि बहुलासु बहुलपक्षद्वादस्यां व्यतीते प्रदोषसमये समारुरुक्षति क्षपायौवने सहसैवान्तःपुरे समुदपादि कोलाहलः स्त्रीजनस्य । निर्गत्य च संभ्रमं यशोवत्याः स्वयमेव हृदयनिर्विशेषा धात्र्याः सुता सुपात्रेति नाम्ना राज्ञः पादयोर्निपत्य "देव । दिष्ट्या वर्धसे द्वितीयसुतजन्मनाऽ इति व्याहरन्ती पूर्णपात्रं जहार । अस्मिन्नेव च काले राज्ञः परमसंमतः शतशः संवादितातीन्द्रियादेशः, दर्शितप्रभावः संकलिती, ज्योतिषि सर्वासां ग्रहसंहितानां पारदृश्वा, सकलगणकमध्ये महितो हितश्च त्रिकालज्ञानभाग्भोजकस्तारको नाम गणकः समुपसृत्य विज्ञापितवान्--"देव! श्रूयते मान्धाता किलैवंविधे व्यतीपातादिसर्वदोषाभिषङ्घरहितेऽहनि सर्वेषूच्चस्थानस्थितेष्वेवं ग्रहेष्वीदृशि लग्ने भेजे जन्म । अर्वाक्ततोऽस्मिन्नन्तराले पुनरेवंविधे योगे चक्रवर्त्तिजनने नाजनि जगति कश्चिदपरः । सप्तानां चक्रवर्तिनामग्रणरिश्चक्रवर्तिचिह्नानां महारत्नानां च भाजनं सप्तानां सागराणां पालयिता सप्ततन्तूनां सर्वेषां प्रवर्तयिता सप्तसप्तिसमः सुतोऽयं देवस्य जातःऽ इति । अत्रान्तरे स्वयमेवानाद्माता अपि तारमधुरं शह्खा विरेसुः । अताडितोऽपि क्षुभितजलनिधिजलध्वनिधीरं जुगुञ्जाभिषेकदुन्दुभिः । अनाहतान्यपि मह्गलतूर्याणि रेणुः । सर्वभुवनाभयघोषणापटह इव दिगन्तरेषु बभ्राम तूर्यप्रतिशब्दः । विधुतकेसरसटाश्च साटोपगृहीतहरितदूर्वापल्लवकवलप्रशस्तैर्मुखपुटैः समहेषन्त हृष्टा वाजिनः । सलीलमुत्क्षिप्तैर्हस्तपल्लवैर्नृत्यन्त इव श्रवणसुभगं जगर्जुर्गजाः । ववौ चाचिराच्चक्रायुधमुत्सृजन्त्या लक्ष्म्या निश्वास इव सुरामोदसुरभिर्दिव्यानिलः । यज्वनां मन्दिरेषु प्रदक्षिणशिखाकलापकथितकल्याणागमाः । प्रजज्वलुरनिन्धना वैतानवह्नयः । भुवस्तलात्तपनीयशृह्खलाबन्धबन्धुरकलशीकोशाः समुदगुर्महानिधयः । प्रहतमङ्गलतूर्यप्रतिशब्दनिभेन दिक्षु दिक्पालैरपि प्रमोद दक्रियतेन दिष्टवृद्धिकलकलः । तत्क्षण एव च शुक्लवाससो ब्रह्नमुखाः कृतयुगप्रजापतयैव प्रजावृद्धेये समुपतस्थिरे द्विजातयः । साक्षाद्धर्म इव शान्त्युदकफलहस्तस्तस्थौ पुरः पुरोधाः । पुरातन्यः स्थितय इवादृश्यन्तागता बान्धववृद्धाः । प्रलम्बश्मश्रुजालजटिलाननानि बहलमलपङ्ककलङ्ककालकायानि नश्यतः कलिकालस्य बान्धवकुलानीवाकुलान्यधावन्त मुक्तानि बन्धनवृन्दानि । तत्कालापक्रान्तस्याधर्मस्य शिबिरश्रेणय इवालक्ष्यन्त लोकविलुण्ठिता विपणिवीथ्यः । विलसदुन्मुखवामनकबधिरवृन्दवेष्टिताः साक्षाज्जातमातृदेवता इव बहुबालकव्याकुला ननृतुर्वृद्धधात्र्यः । प्रावतत च विगतराजकुलस्थितिरधःकृतप्रतीहाराकृतिरपनीतवेत्रिवेत्रो निर्देषान्तःपुरप्रवेशः समस्वामिपरिजनो निर्विशेषबालवृद्धः समानशिष्टाशिष्टजनो दुर्ज्ञेयमत्तामत्तप्रविभागस्तुल्यकुलयुवतिवेश्यालापविलासः प्रनृत्तसकलकटकलोकः पुत्रजन्मोत्सवो महान् । अपरेद्युरारभ्य सर्वाभ्यो दिग्भ्यः स्त्रीराज्यानीवावर्जितानि, असुरविवराणोवापावृतानि, नारायणावरोधानीव प्रस्खलितानि, अप्सरसामिव महीमवतीर्णानि कुलानि, परिजनेन पृथुकरण्डपरिगृहीताः स्नानीयचूर्णावकीर्णकुसुमाः सुमनःस्रजः, स्फटिकशिलाशकलशुल्ककर्पूरखण्डपूरिताः पात्रीः, कुङ्कुमाधिवासभाञ्जि भाजनानि च मणिमयानि, सहकारतैलतिम्यत्तनुखदिरकेसरजालजटिलानि चन्दनधवलपूगफलफालीदन्तुरदन्तशफरुकाणि, गुञ्जन्मधुकरकुलपीयमानपरिजातपारिमलानि पाटलानि पाटलकानि च, सिन्दूरपात्राणि च पिष्टातकपात्राणि च बाललतालम्बमानविटकवीटकांश्च ताम्बूलवृक्षकान् बिभ्राणेनानुगम्यमानानि चरणनिकुट्टनरणितमणिनूपुरमुखरितदिङ्मुखानि नृत्यन्ति राजकुलमागच्छन्ति समन्तात्सामन्तान्तःपुरसहस्राण्यदृस्यन्त । शनैः शनैर्व्यजृम्भत च व्कचिन्नृत्तानुचितचिरन्तनशालीनकुलपुत्रकलोकलास्यप्रथितपार्थिवानुरागः, व्कचिदन्तःस्मितक्षितिपालापेक्षितक्षीबक्षुद्रदासीसमाकृष्यमाणराजवल्लभः, व्कचिन्मतकटककुट्टनीकण्ठलग्नवृद्धार्यसामन्तनृत्तनिर्भरहसितनरपतिः, व्कचित्क्षितिपाक्षिसंज्ञादिष्टदुष्टदासेरकगीतसूच्यमानसचिवचौर्यरतप्रपञ्चः, व्कचिन्मदोत्कटकुटहारिकापरिष्वज्यमानजरत्प्रव्रजितजनितजनहासः, व्कचिदन्योन्यनिर्भरस्पर्धोद्धुरविकटचेटकारब्धावाच्यवचनयुद्धः, व्कचिन्नृपाबलाबलात्कारकृष्टनर्त्यमाननृत्तानबिज्ञान्तःपुरपालभावितभुजिष्यः, सपर्वत इव कुसुमराशिभिः, साधारगृह इव सीधुप्रपाभिः, सनन्दनवन इव पारिजातकामोदैः सनीहार इव कर्पूररेणुभिः, साट्टहास इव पटहरवैः, सामृतमथन इव महाकलकलैः, सांवर्त इव रासकमण्डलेः, सरोमाञ्च इव भूषणमणिकिरणैः, सपट्टबन्ध इव चन्दनललाटिकाभिः, सप्रसव इव प्रतिशब्दकैः, सप्ररोह इव प्रसाददानैरुत्सवामोदः । स्कन्धावलम्बमानकेसरमालाः काम्बोजवाजिन इवास्कन्दन्तः, तरलतारका हरिणा इवोड्डीयमानाः, सगरसुता इव खनित्रैर्निर्दयैश्चरणाभिघातैर्दारयन्तो भुवम्, अनेकसहस्रसंख्याश्चिक्रीडुर्युवानः । कथमपि तालावचरचारणचरणक्षोभं चक्षमे क्षमा । क्षितिपालकुमारकाणां च खेलतामन्योन्यास्फालैराभरणेषु मुक्ताफलानि फेलुः । सिन्दूररेणुना पुनरुत्पन्नहिरण्यगर्भगर्भशोणितशोणाशमिव ब्रह्नाण्डकपालमभवत् । पटवासपांसुपटलेन प्रकटितमन्दाकिनीसैकतसहस्रमिव शुशुभे नभस्तलम् । विप्रकीर्यमाणपिष्टातकपरागपिञ्जरितातपा भुवनक्षोभविशीर्णपितामहकःमलकिञ्जल्करजोराजिरञ्जित इव रेजुर्दिवसाः । संघट्टविघटितहारपतितमुक्ताफलपटलेषु चस्खाल लोकः । स्थानस्थानेषु च मन्दमन्दमास्फाल्यमानालिङ्ग्यकेन शिञ्जानमञ्जुवेणुना झणझणायमानझल्लरीकेण ताड्यमानतन्त्रीपटहिकेन वाद्यमानानुत्तालालाबुवीणेन कलकांस्यकोशीव्कणितकाहलेन समकालदीयमानानुत्तालतालिकेनातोद्यवाद्येनानुगम्यमानाः, पदे पदे झणझणितभूषणरवैरपि सहृदयैरिवानुवर्तमानताललयाः, कोकिला इव मदकलकाकलीकोमलालापिन्यः, विटानां कर्णामृतान्यश्लीलरासकपदानि गायन्त्यः, समुण्डमालिकाः, सकर्णपल्लवाः, सचन्दनतिलकाः, समुच्छ्रिताभिर्वलयावलीवाचालाभिर्बाहुलतिकाभिः सवितारमिवालिङ्गयन्त्यः, कुह्कुमप्रमृष्टिरुचिरकायाः काश्मीरकिशोर्य इव वल्गन्तयः, नितम्बबिम्बलम्बिविकटकुरणटकशेखराः प्रदीप्ता इव रागाग्निना, सिन्दूरच्छटाच्छुरितमुखमुद्राः, शासनपट्टपङ्क्तय इवाप्रतिहतशासनस्य कन्दर्पस्य, मुष्टिप्रकीर्यमाणकर्पूरपटवासपांसुला मनोरथसंचरणरथ्या इव यौवनस्य, उद्दामकुसुमदामताडिततरुणजनाः प्रतीहार्य इव तरुणमहोत्सवस्य, प्रजलत्पत्रकुण्डला लसन्त्यो लता इव मदनचन्दनद्रुमस्य, ललितपदहंसकरवमुखराः समुल्लसन्त्यो वीचय इव शृङ्गाररससागरस्य, वाच्यावाच्यविवेकशून्या बालक्रीडा इव सौभाग्यस्य, घनपटहरवोत्कण्टकितगात्रयष्टयः केतक्य इव कुसुमधूलिमुद्गिरन्त्यः, आविष्टा इव नरेन्द्रवृन्दपरिवृताः, प्रीतय इव हृदयमपहरन्त्यः, गीतय इव रागमुद्दीपयन्त्यः, पुष्टय इवानन्दमुत्पादयन्त्यः, मदमपि मदयन्त्य इव, रागमपि रञ्जयन्त्य इव, आनन्दमपि आनन्दयन्त्य इव, नृत्यमपि नर्तयमाना इव, उत्सवमप्युत्सवयन्त्य इव, कटाक्षेक्षितेषु पिबन्त्य इवापाङ्गशुक्तिभिः, तर्जनेषु संयमयन्त्य इव नखमयूखपाशैः, कोपाभिनयेषु ताडयन्तय इव भ्रूलताविभागैः, प्रणयसंभाषणेषु वर्षन्त्य इव सर्वरसान्, चतुरचङ्क्रमणेषु विकिरन्त्य इव विकारान्, पण्यविलासिन्यः प्रानृत्यन् । अन्यत्र वेत्रिवेत्रवित्रासितजनदत्तान्तरालाः ध्रियमाणधवलातपत्रवना वनदेवता इव कल्पतरुतलविचारिण्यः काश्चित्स्कन्धोभयपालीलम्बमानलम्बोत्तरीयलग्नहस्ता लीलादोलाधिरूढा इव प्रेङ्खन्त्यः, काश्चित्कनककेयूरकोटिविपाट्यमानपट्टांशुकोत्तरङ्गास्तरङ्गिण्य इव तरच्चक्रवाकसीमन्त्यमानस्रोतसः, काश्चिदुद्धूयमानधवलचामरसटालग्नत्रिकण्टकवलितविकटकटाक्षाः सरस्य इव हंसाकृष्यमाणनीलोत्पलवनाः, काश्चिच्चलच्चरणच्युतालक्तकारुणस्वेदशीकरसिच्यमानभवनहंसाः, संध्यारागरज्यमानेन्दुबिम्बा इव कौमुदीरजन्यः, काश्चित्कण्ठनिहितकाञ्चनकाञ्चीगुणाञ्चितकञ्चुकिविकाराकुञ्चितब्रुवः कामवागुरा इव प्रसारितबाहुपाशा राजमहिष्यः प्रारब्धनृत्ता विलेसुः । सर्वतश्च नृत्यतः स्त्रेणस्य गलदभिः पादालक्तकैररुणिता रागमयीव शुशोण क्षोणी । समुल्लसद्भिः स्तनमण्डलैर्मङ्गलकलशमय इव बभूव महोत्सवः । भुजलताविक्षेपैर्म-णालवलयमय इव रराज जीवलोकः । समुल्लसद्भिर्विलासस्मितैस्तडिन्मय इवाक्रियत कालः । चञ्चलानां चक्षुषामं शुभिः कृष्णसारमया इवासन् वासराः । समुल्लसद्भिः शिरीषकुसुमस्तबककर्णपूरैः शुकपिच्छमय इव हरितच्छायोऽभूदातपः । विस्रंसमानैर्धम्मिल्लतमालपल्वैः कज्जलमयमिवालक्ष्यतान्तरिक्षम् । उत्क्षिप्तैर्हस्तकिसलयैः कमलिनीमय्य इव बभासिरे सृष्टयः माणिक्येन्द्रायुधानामर्चिषा चार्षिपत्रमया इव चकाशिरे रविमरीचयः । रणतामाभरणगणानां प्रतिशब्दकैः किङ्किणीमय्य इव शिशिञ्जिरे दिशः । जरत्योऽप्युन्मादिन्य इव रमण्यो रेणुः । वर्षीयांसोऽपि ग्रहगृहीता इव नापत्रेपिरे । विद्वांसोऽपिमत्ता इवात्मानं विसस्मरुः । निनतिषया मुनीनामपि मनांसि विपुस्पुलुः । सर्वस्वं च ददौ नरपतिः । दिशि दिशि कुबेरकोषा इवालुप्यन्त लोकेन द्रविणराशयः । एवं च वृत्ते तस्मिन्महोत्सवे, शनैः शनैः पुनरप्यतिक्रामति काले, देवे चोत्तमाङ्गनिहितरक्षासर्षपे, समुन्मिषत्प्रतापाग्निफुलिङ्ग इव गोरो चनापिञ्जरितवपुषि, समभिव्यज्यमानसहजक्षात्रतेजसीव हाटकबद्धविकटव्याघ्रनखपङ्क्तिमण्डितग्रीवके॑ हृदयोद्भिद्यमानदर्पाङ्कुर इव, प्रथमाव्यक्तजल्पितेन सत्यस्य शनैःशनैकरोङ्कारमिवकुर्वाणे, मुग्धस्मितैः कुसुमैरिव मधुकरकुलानि बन्धुहृदयान्याकर्षति, जननीपयोधरकलशपयःसीकलरसेकादिव जायमानैर्विलासहसिताङ्कुरैर्दर्शनकैरर्लक्रियमाणमुखकमलके, चारित्रैवान्तः पुरस्त्रीकदम्बकेन पाल्यमाने, मन्त्र इव सचिवमण्डलेन रक्ष्यमाणे, वृत्त इव कुलपुत्रकलोकेनामुच्यमाने, यशसीवात्मवशेन संवर्ध्यमाने, मृगपतिपोत इव रक्षिपुरुषशस्त्रपञ्जरमध्यगते, धात्रीकराङ्गुलिलग्ने पञ्चषाणि पदानि प्रयच्छति हर्षे, षष्ठं वर्षमवतरति च राज्यवर्धने देवी यशोमती गर्भेणाधत्त नारायणमूर्तिरिव वसुधां देवीं राज्यश्रियम् । पूर्णेषु च प्रसवदिवसेषु दीर्घरक्तनालनेत्रामुत्पलिनीमिव सरसी, हंसमधुरस्वरां शरदमिव प्रावृट्, कुसुमसुकुमारावयवां वनराजिमिव मधुश्रीः, महाकनकावदात वसुधारामिव द्यौः, प्रभावर्षिणीं रत्नजातिमिव वेला, सकलजननयनानन्दकारिणीं चन्द्रलेखामिव प्रतिपत्, सहस्रनेत्रदर्शनयोग्यां जयन्तीमिव शची, सर्वभूभुदभ्यर्थितां गौरीमिव मेना प्रसूतवती दुहितरम् । यया द्वयोः सुतयोरपि स्तनयोरिवैकावलीलतया नितरामराजत जननी । अरिमन्नेव तु काले देव्या यशोमत्या भ्राता सुतमष्टवर्षदेशीयमुद्भूयमानकुटिलकाकपक्षकशिखण्डं खण्डपरशुहुङ्काराग्निधूमलेखानुबद्धमूर्धानं मकरध्वजमिव पुनर्जातम्, एकेनेन्द्रनीलकुण्डलाशुश्यामलितेन शरीरार्धेनेतरेण च त्रिकण्टकमुक्ताफलालोकधवलितेन संपृत्तावतारमिव हरिहरयोर्दर्शयन्तम्, पीनप्रकोष्ठप्रतिष्ठितपुष्पलोहवलयं परशुराममिव क्षत्रक्षपणक्षीणपरसुपाशचिह्नितं बालताड्गतम्, कण्ठसूत्रग्रथितभङ्गुरप्रवालाङ्कुरं हिरण्यकशिपुमिवोरः काठिन्यखण्डितनरसिंहनखरखण्जं गृहीतजन्मान्तरम्, शैशवेऽपि सवाष्टम्भं बीजमिव वोर्यद्रमस्य भण्डिनामानमनुचरं कुमारयोरर्पितवान् । अवनिपतेस्तु तस्योपरि पुत्रयोस्तृतीयस्य नेत्रयोरिवेश्वरस्य तुल्यं दर्शनमासीत् । राजपुत्रावपि सकलजीवलोकहृदयानाददायिनी तेन प्रकृतिदक्षिणेन मधुमाधवाविव मलयमारुतेनोपेतौ नितरां रेजतुः । क्रमेणचापरेणेव भ्रात्रा प्रजानन्देन सह वर्धमानौ यौवनमवतेरतुः । स्थिरोरुस्तम्भौ च पृथुप्रकोष्ठौ दीर्घभुजार्गलौ विकटोरःकवाटौ प्रांशुशालाभिरामौ महानगरसंनिवेशाविव सर्वलोकाश्रयक्षमौ बभूवतुः । अथ चन्द्रसूर्याविव स्फुरज्ज्योत्स्ना शःप्रतापाक्रान्तभवानावभिरामदुर्निरीक्ष्यौ, अग्निमारुताविव समभिव्यक्ततेजोबलावेकीभूतौ, शिलाकठिनकायबन्धौ हिमवद्विन्ध्याविवाचलौ, महावृषाविव कृतयुगयोग्यौ, अरुणगरुडाविव हरिवाहनविभक्तशरीरौ, इन्द्रोपेन्द्राविव नागेन्दरगतौ, कर्णार्जुनाविव कुण्डलकिरीटधरौ, पूर्वापरदिग्भागाविव सर्वतेजस्विनामुदयास्तमयसंपादनतमर्थौ, अमान्ताविवातिमानेनासन्नवेलार्गलनिरोधसंकटे कुकुटीरके, तेजःपराङ्मुखी छायामपि जुगुप्समानौ, स्वात्मप्रतिबिम्बेनापि पादनखलग्नेन लज्जमानौ, शिरोरुहाणामपि भङ्गेन दुःखमवतिष्टमानौ, चूडामणिसंक्रान्तेनापि द्वितीयेनातपत्रेणापत्रपमाणौ, भगवति षण्मुखेऽपि स्वामिशब्देनासुखायमानश्रवणौ, दर्पणदृष्टेनापि प्रतिपुरुषेण दूयमाननयनौ, संध्याञ्जलिघटनेष्वपि शूलायमानोत्तमाह्गौ, जलधरधृतेनापि धनुषा दोधूयमानहृदयौ, आलेख्यक्षितिपतिभिरप्यप्रणमद्भिः संतप्यमानचरणौ, परिमितमण्डलसंतुष्टं तेजः सवितुरप्यबहुमन्यमानौ, भूभृदपहृतलक्ष्मीकं सागरमप्युपहसन्तौ, बलवन्तमकृतविग्रहं मारुतमपि निन्दन्तौ, हिमवतोऽपि चमरीबालव्यजनवीजितेन दह्यमानौ, जलधीनामपि शङ्खैः खिद्यमानौ, चतुःसमुद्राधिपतिमपरं प्रचेतसमप्यसहमानौ, अनपहृतच्छत्रानपि विच्छायानवनिपालान् कुर्वाणौ, साधुष्वप्यसेवितप्रसन्नौ, मुखेन मधुक्षरन्तौ, दुष्टराजवंशानूष्मणा दूरस्थितानपि म्लानिमानयन्तौ, अनुदिवसं शस्त्राम्यासश्यामिकाकलङ्कितमशेषराजकप्रतापाग्निनिर्वपणमलिनमि व करतलमुद्वहन्तौ, योग्याकालेषु धीरैर्धनुर्ध्वनिभिरभ्यर्णोपभोगादिग्वधूभिरिवालपन्तौ राज्यवर्धन इति हर्ष इति सर्वस्यामेव पृथिव्यामाविर्भूतशब्दप्रादुर्भावौ स्वल्पीयसैव कालेन द्वीपान्तरेष्वपि प्रकाशतां जग्मतुः । एकदा च तावाहूय भुक्तवानभ्यन्तरगतः पिता सस्नेहमवादीत्--"वत्सौ! प्रथमं राज्याङ्गं, दुर्लभाः सद्भृत्याः । प्रायेण परमाणव इव समवायेष्वनुगुणीभूय द्रव्यं कुर्वन्ति पार्थिवं क्षुद्राः क्रीडारसेन नर्तयन्ततौ मयूरतां नयन्ति बालिशाः । दर्पणमिवानुप्रविश्यात्मीयां प्रकृतिं संक्रामयन्ति पल्लविकाः । स्वप्ना इव मिथ्यादर्शनैरसद्बुद्धिं जनयन्ति विप्रलम्भकाः । गीतनृत्यहसितैरुन्मत्ततामावहन्त्यपेक्षिता विकारा इव वातिकाः, चातका इव तृष्णावन्तो न शक्यन्ते ग्रहीतुमकुलीनाः मानसे मीनमिव स्फुरन्तमेवाभिप्रायं गृह्णन्ति जालिकाः । यमपट्टिका इवाम्बरे चित्रमालिखन्त्युद्गीतकाः । शल्यं हृदये निक्षिपन्त्यतिमार्गणाः । यतः सर्वैरेभिर्देषाभिषङ्गैरसंगतौ बभुधैपधाभिः परीक्षितौ शुची विनीतौ विक्रान्तावभिरूपौ मालवराजपुत्रौ भ्रातरौ बुजाविव मे शरीरादव्यतिरिक्तौ कुमारगुप्तमाधवगुप्तनामानावस्माभिर्भवतोरनुचरत्वार्थमिमौ निर्दिष्टौ । अनयोरुपरि भवद्भ्यामपि नान्यपरिजनसमवृत्तिभ्यां भवितव्यम्ऽ, इत्युक्त्वा तयोराह्वानाय प्रतीहारमादिदेश । न चिराद्द्वारदेशनिहितलोचनौ राज्यवर्धनहर्षौ प्रतीहारेण सह प्रविशन्तम्, अग्रतो ज्येष्ठमष्टादशवर्षवयसं नात्युच्चं नातिखर्वमतिगुरुभिः पदन्यासैरनेकनरपतिसंचरणचलां निश्चलीकुर्वाणमिवोर्वीम्, अनवरताभ्यस्तलङ्घनघनोपचयकठिनमांसमेदुरादूरुद्वयान्निष्पततेवानुल्वणजानुग्रन्थिप्रसूतेन तनुतरजङ्घाकाण्डयुगलेन भासमानम्, उल्लिखितपार्श्वप्रकाशितक्रशिम्ना मन्दरमिव सुरासुररभसभ्रमितवासुकिकषणक्षीणेन मध्येन लक्ष्यमाणमतिविस्तीर्णेनोरसा स्वामिसंभावनानामपरिमितानामवकाशमिव प्रयच्छन्तम्, प्रलम्बमानस्य भुजयुगलस्य निभृतललितैर्विक्षेपैरतिदुस्तरं तरन्तमिव यौवनोदधिम्, वामकरकटकमाणिक्यमरीचिगञ्जरीजालिन्या समुद्भिद्यमानप्रतापानलशिखापल्लवयेव चापगुणकिणलेखयाङ्कितपीवरप्रकोष्ठम्, आलोहिनीमुच्चांसतटावलम्बिनीमस्त्रग्रहणव्रतविधृतां रौरवीमिव त्वचं कर्णाभरणमणेः प्रभां बिभ्राणम्, उत्कोटिकेयूरपत्रभङ्गपुत्रिकाप्रतिबिम्बगर्भकपोलं मुखं चन्द्रमसमिव हृदयस्थितरोहिणीकमुद्वहन्तम्, अचपलास्तमिततारकेणाधोमुखेन चक्षुषा शिक्षयन्तमिव लक्ष्मीलाभोत्तानितमुखानि पङ्कजवनानि विनयम्, स्वाम्यनुरागमिवाम्लातकमुत्तंसीकृतं शिरसा धारयन्तम्, निर्दयया कङ्कणभङ्गभीतसकलकार्मुकार्पितामिव नम्रतां प्रकाशयन्ततम्, शैशव एव निर्जितैरिन्द्रियैररिभिरिव संयतैः शोभमानम्, प्रणयिनीमिव विश्वासभूमिं कुलपुत्रतामनुव्रतमानम्, तेजस्विनमपि शीलेनाह्लादकेन सवितारमिव शशिनातर्गतेन विराजमानम्, अचलानामपि कायकार्खस्येन गन्धनमिवाचरन्तम्, दर्शनक्रीतमानन्दस्ते विक्रीणानमिव जन सौभाग्येन कुमारगुप्तम्, पृष्ठतस्तस्य कनीयांसमतिप्रांशुतया गौरतया च मनः शिलाशेलमिव संचरन्तम्, अनुल्बणमालतीकुसुमशेखरनिभेन निर्जिगमिषता गुरुण शिरसि चुम्बितमिव यशसा, परस्परविरुद्धयोर्विनययौवनयोश्चिरात्प्रथमसंगमचिह्नमिव भ्रूसंगतकेन कथयन्तम्, अतिधीरतया हृदयनिहिता स्वामिभक्तिमिव निश्चलां दृष्टिं धारयन्तम्, अच्छाच्छचन्दनरसानुलेपनशीतलं संनिहितहारोपधानं वक्षःस्थलमनन्तसामन्तसंक्रान्ति श्रान्तायाः श्रियो विशालं शशिमणिशिलापट्टशयनमिव बिब्राणम्, चक्षुः कुरङ्गकैर्घोणावंशं वराहौः स्कन्धपीठं महिषैः प्रकोष्ठबन्धं व्याघ्रैः पराक्रमं केसरिभिर्गमनं मतङ्गजैर्मृगयाक्षपितशेषैर्भीतैरुत्कोचमिव दत्तं दर्शयन्त माधवगुप्तं ददृशतुः । प्रविश्य च तौ दूरादेव चतुर्भिरह्गैरुत्तमाङ्गेन च गां स्पृशन्तौ नमश्चक्रतुः । स्निग्धनरेन्द्रदृष्टिनिर्दिष्टामुचितां भूमिं भेजाते । मुहूर्तं च स्थित्वा भूपतिरादिदेश तौ--"अद्यप्रभृति भवद्भ्यां कुमारावनुवर्तनीयौऽ इति । "यथाज्ञापयति देवःऽ इति मेदिनीदो लायमानमौलिभ्यामुत्थाय राज्यव्रधनहर्षौ प्रणेमतुः । तौ च पितरम् । ततश्चारभ्य क्षणमपि निमेषोन्मेषाविव चक्षुर्गोचरादनपयान्तावुच्छ्वासनिःश्वासाविव नक्तन्दिवमभिमुखस्थितौ भुजाविव सततपार्श्ववर्तिनौ कुमारयोस्तौ बभूवतुः । अथ राज्यश्रीरपि नृत्तगीतादिषु विदग्धासु सखीषु सकलासु कलासु च प्रतिदिवसमुपचीयमानपरिचया शनैः शनैरवर्धत । परिमितैरेव दिवसैर्यौनवनमारुरोह । निपेतुरेकस्यां तस्यां शरा इव लक्ष्यभुवि भूभुजां सर्वेषां दृषश्टयः । नूतसंप्रेषमादिभिश्च तां ययाचिरे राजानः । कदाचित्तु राजान्तःपुरप्रसादस्थितो बाह्यकक्ष्यावस्थितेन पुरुषेण स्वप्रस्तावागतां गीयमानामार्यामशृणोत्-- "उद्वेगमहावर्ते पातयति पयोधरोन्नमनकाले । सरिदिव तटमनुवर्षं विवर्धमाना सुता पितरम्ऽ ॥ ४.५ ॥ तां च श्रुत्वा पार्श्वस्थितां महादेवीमुत्सारितपरिजनो जगाद--"देवि! तरुणीभूता वत्सा राज्यश्रीः । एतदीया गुणवत्तेव क्षणमपि हृदयान्नापयाति मे चिन्ता । यौवनारम्भ एव च कन्यकानाभिन्धनीभवन्ति पितरः संतापानलस्य । हृदयमन्धकारयति मेदिवसमिव पयोधरोन्नतिरस्याः । केनापि कृता धर्म्या नाभिमता मे स्थितिरेयं यदङ्गसंभूतान्यङ्कलालितान्यपरित्याज्यान्यपत्यकान्यकाण्ड एवागत्यासंस्तुतैर्नीयन्ते । एतानि तानि खल्वङ्कनस्थानानि संसारस्य । सेयं सर्वाभिभाविनी शोकाग्नेदहिशक्तिर्यदपत्यत्वे समानेऽपि जातायां दुहितरि दूयन्ते सन्तः । एतद्रथं जन्मकाल एव कन्यकाभ्यः प्रयच्छन्ति सलिलमश्रुबिः साधवः । एत द्भयादकृतदारपरिग्रहाः परिहृतगृहवसतयः शून्यान्यरण्यान्यधिशेरते मुनयः । को हि नाम सहेत सचेतनो विरहमपत्यानाम् । यथा यथा समापतन्ति दूता वराणां वराकी लज्जमानेव चिन्ता तथा तथा नितरां प्रविशति मेहृदयम् । किं क्रियते । तथापि गृहगतैरनुगन्तव्या एव लोकवृत्तयः । प्रायेण च सत्स्वप्यन्येषु वरगुणेष्वभिजनमेवानुरुध्यन्ते धीमन्तः । धरणीधराणां च मूर्ध्नि स्थितो माहेश्वरा पादन्यास इव सकलभुवननमस्कृतो मौखरो वंशः । तत्रापि तिलकभूतस्यावन्तिवर्मणः सूनुरग्रजो ग्रहवर्मा नाम ग्रहपतिरिव गां गतः पितुरन्यूनो गुणैरेनां प्रार्थयते । यदि भवत्या अपि मतिरनुमन्यते ततस्तस्मै दातुमिच्छामिऽ इत्युक्तवति भर्तरि दुहितृस्नेहकातरतरहदया साश्रुलोचना महादेवी प्रत्युवाच--आर्यपुत्र! संवर्धनमात्रोपयोगिन्यो धात्रीनिर्विशेषा भवन्ति खलु मातरः कन्यकानाम् । दाने तु प्रमाणमासां पितरः । केवलं कृपाकटतविशेषः सुदूरेण तनयस्नेहादतिरिच्यते दुहितृस्नेह । यथा नेयं यावज्जवीवमावयोरार्गितां प्रति पद्यते तथार्यपुत्र एव जानातिऽ इति । राजा तु जातनिश्चयो दुहितृदानं प्रति समाहूय सुतावपि विदितार्थावकार्षीत् । शोभते च दिवसे ग्रहवर्मणा कन्यां प्रार्थयितुं प्रेषितस्य पूर्वागतस्यैव प्रधानदूतपुरुषस्य करे सर्वराजकुलसमक्षं दुहितृदानललमपातयत् । जातमुदि कृतार्थे गते च तस्मिन्नासन्नेषु च विवाहदिवसेषूद्दामदीयमानताम्बूलपटवासकुसुमप्रसाधितसर्वलोकम्, सकलदेशादिश्यमानशिल्पिसार्थागमनम्, अवनिपालपुरुषगृहीतसमग्रग्रामीणानीयमानोपकरणसंभारम्, राजदौवारिकोपनीयमानानेकनृपोपायनम्, उपनिमन्त्रितागतबन्धुवर्गसंवर्गण्वयग्रराजवल्लभम्, लब्धमधुमदप्रचण्डचर्मकारकरपुटोल्लालितकोणपटुविघट्टनरणन्मङ्गलपटहम्, पिष्टपञ्चाङ्गुलमण्ड्यमानोलूखलमुकलशिलाद्युपकरणम्, अशेषाशामुखाविर्भूतचारणपरम्परापूर्यमाणप्रकोष्ठप्रतिष्ठाप्यमानेन्द्राणीदैवतम्, सितकुसुमविलेपनवसनसत्कृतैः सूत्रधारैरादीयमानविवाहवेदीसूत्रपातम्, उत्कूर्चककरैश्च सुधाकर्पूरस्कन्धैरधिरोहिणीसमारूढैर्धवैर्धवलीक्रियमाणप्रासादप्रतोलीप्राकारशिखरम्, क्षुण्णक्षाल्यमानकुसुम्भसंभाराम्भःप्लवपूररज्यमानजनपादपल्लवम्, निरूप्यमाणयौतकयोग्यमातङ्गतुरह्गतरङ्गिताङ्गनम्, गणनाभियुक्तगणकगणगृह्यमाणलग्नगुणम्, गन्धोदकवाहिमकरमुखप्रणालीपूर्यमाणक्रीडावापीसमूहम्, हेमकारचक्रप्रक्रान्तहाटकघटनटाङ्कारवाचालितालिन्दकम्, उत्तापिताभिनवभित्तिपात्यमानबहलवालुकाकण्ठकालेपाकुलालेपकलोकम्, चतुरचित्रकरचक्रवाललिख्यमानमाङ्गल्यालेख्यम्, लेप्यकारकदम्बकक्रियमाणमृन्मयमीनकूर्ममकरनारिकेलकदलीपूगवृक्षकम्, क्षितिपालैश्च स्वयमावद्धकक्ष्यैः स्वाम्यर्पितकर्मशोभासंपादनाकुलैः सिन्दूरकुट्टिमभूमीश्च मसृणयद्भिर्विनिहितसरसातर्पणहस्तान्विन्यस्तालक्तकपाटलांश्च चूताशोकपल्लवलाञ्छितशिखरानुद्वाहवितर्दिकास्तम्भानुत्तम्भयद्भिः प्रारब्धविविधव्यापारम्, आसूर्योदयाच्च प्रविष्टाभिः सतीभिः सुभगाभिः सुरूपाभिः सुवेशाभिरविध वाभिः सिन्दूररजोराजिराजितललाटाभिर्वधूवरगो त्रग्रहणगर्भाणि श्रुतिसुभगानि मङ्गलानि गायन्तीभिर्बहुविधवर्णकादिग्धाङ्गुलीभिर्ग्रीवासूत्राणि च चित्रयन्तीभिस्चित्रलतालेख्यकुशलाभिः कलशांश्च धवलिताञ्शीतलशाराजिरश्रेणीश्च मण्डयन्तीभिरभिन्नपुटकर्पासतूलपल्लवांश्च वैवाहिककङ्कणोर्णासूत्रसंनाहांश्च रञ्जयन्तीभिर्बलाशनाघृतघनीकृतकुङ्कुमकल्कमिश्रितांश्चाङ्गरागांल्लावण्यविशेषकृन्ति च मुखालेपनानि कल्पयन्तीभिः कक्कोलमिश्राः स्जातीफलाः स्फुरत्स्फीतस्फाटिककर्पूरशकलखचितान्तराला लवङ्गमाला रचयन्तीभिः समन्तात्सामन्तसीमन्तिनीभिर्व्याप्तम्, बहुविधभक्तिनिर्माणनिपुणपुराणपौरपुरन्ध्रिबध्यमानैर्बद्धैश्चाचारचतुरान्तः पुरजरतीजनितपूजाराजमानरजकरज्यमानै रक्तैश्चोभयपटान्तलग्नपरिजनप्रेङ्खोलितैश्छायासु शोष्यमाणैः शुष्कैश्च कुटिलक्रमरूपक्रियमाणपल्लवपरभागैरपरैरारब्धकुङ्कुमपङ्कस्थासकच्छुरणेरपरैरुद्भुजभुजिष्यभज्यमानभङ्गुरोत्तरीयैः क्षौमैश्च बादरैश्च दुकूलैश्च लालातन्तुजैश्चांशुकैश्च नेत्रैस्च निर्मोकनिभैरकठोररम्भागर्भकोमलैर्निःश्वासहार्यैः स्पर्शानुमेयैर्वासोभिः सर्वतः स्फुरद्भिरिन्द्रायुधसहस्रैरिव संछादितम्, उज्ज्वलनिचोलकावगुण्ठ्यमानहंसकुलैश्च शयनीयैस्तारामुक्ताफलोपचीयमानैश्च कञ्चुकैरनेकोपायोगपाट्यमानैश्चापरिमितैः पट्टपटीसहस्रैरभिनवरागकौमलदुकूलराजमानैश्च पटवितानैः स्तवरकनिवहनिरन्तरच्छाद्यमानसमस्तपटलैश्च मण्डपैरुच्चित्रनेत्रपटवेष्ट्यमानैश्च स्तम्भैरुज्ज्वलं रमणीयं चौत्सुक्यदं च मङ्गल्यं चासीद्राजकुलम् । देवी तु यशोमती विवाहोत्सवपर्याकुलहृदया हृदयेन भर्तरि, कुतूहलेन जामातरि, स्नेहेन दुहितरि, उपचारेण निमन्त्रितस्त्रीषु, आदेशेन परिजने, शरीरेण संचरणे, चक्षुषा कृताकृतप्रत्यवेक्षणेषु, आनन्देन महोत्सवे, एकापि बहुधा विभक्तेवाभवत् । भूपतिरप्युपर्युपरि विसर्जितोष्ट्रवामीजनितजामातृजोषः सत्यप्याज्ञासंपादनदक्षे मुखेक्षणपरे परिजने समं पुत्राभ्यां दुहितृस्नेहविवलवः सर्वं स्वयमकरोत् । एवं च तस्मिन्नविधवामय इव भवति राजकुले, मङ्गलमय इव जायमाने जीवलोके, चारणमयेष्विव लक्ष्यमाणेषु दिङ्मुखेषु, पटहरवमय इव कृतेऽन्तरिक्षे, भूषणमय इव भ्रमति परिजने, बान्धवमय इव दृश्यमाने सर्गे, निर्वृतिमय इवोपलक्ष्यमाणे काले, लक्ष्मीमय इव विजृम्भमाणे महोत्सवे निधान इव सुखस्य, फल इव जन्मनः परिणाम इव पुण्यस्य, यौवन इव विभूतेः, यौवराज्य इव प्रीतेः, सिद्धिकाल इव मनोरथस्य वर्तमाने, गण्यमान इव जनाङ्गुलोभिः, आलोक्यमान इव मार्गध्वजैः, प्रत्युद्गम्यमान इव मड्गल्यवाद्यप्रतिश्बदकैः, आहूयमान इव मौहूर्तिकैः, आकृष्यमाण इव मनोरथैः, परिष्वज्यमान इव वधूसखीहृदयैराजगाम विवाहदिवसः । प्रातरेव प्रतीहारैः समुत्सारितनिखिलानिबद्धलोकं विविक्तमक्रियत राजकुलम् । अथ महाप्रतीहारः प्रविश्य नृपसमीपम् "देव! जामातुरन्तिकात्ताम्बूलदायकः पारिजातकनामा संप्ताप्तःऽ इत्यभिधाय स्वाकारं युवानमदर्शयत् । राजा तु तं दूरादेव जामातृबहुमानाद्दर्शितादरः "बालक! कच्चित्कुशली ग्रहवर्मा?ऽ इति पप्रच्छ । असौ तु समाकर्मितनराधिपध्वनिर्धावमानः कतिचित्पदान्युपसृत्य प्रसार्य च बाहू सेवाचतुरश्चिरं वसुंधरायां निर्धाय मूर्धानमुत्थाय "देव! कुशलौ यथाज्ञापयस्यर्चयति च देवं नमस्कारेणऽ इति व्यज्ञापयत् । आगतजामातृनिवेदनागतं च तं ज्ञात्वा कृतसत्कारं राजा "यामिन्याः प्रथमे यामे विवाहकालात्ययकृतो यथा न भवति दोषःऽ इति संदिश्य प्रतीपं प्राहिणोत् । अथ सकलकमलवनलक्ष्मीं वधूमुख इव संचार्य समवसिते वासरे, विवाहदिवसश्रियः पादपल्लव इव रज्यमाने सवितरि, वधूवरानुरागलघूकृतप्रेमलज्जितेष्विव विघटमानेषु चक्रवाकमिथुनेषु, सौभाग्यध्वज इव रक्तां शुकसुकुमारवपुषि नभसि स्फुरति संध्यारागे, कपोतकण्ठकर्वुरे वरयात्रागमनरजसीव कलुषयति दिङ्मुखानि तिमिरे, लग्नसंपादनसज्ज इवोज्जिहाने ज्योतिर्गणे विवाहमह्गलकलश इवोदयशिखरिणा समुत्क्षिप्यमाणे वर्धमानधवलच्छाये ताराधिपमण्डले, वधूवदनलावण्यज्योत्स्नापरिपीततमसि प्रदोषे, वृथोदितमुपहसत्स्विव रजनिकरमुत्तानितमुखेसु कुमुदवनेष्वाजगाम मुहुर्मुहुरुल्लासितस्फारस्फुरितारुणचामरैमनोरथैरिवोत्थितरागाग्रपल्लवैः पुरौधावमानैः पादातैरुत्कर्णकटकहयप्रतिहेषितदीयमानस्वागतैरिव वाजिनां वृन्दैरापूरितदिग्विभागः, चलकर्णचामराणां चामीकरमय सर्वोपकरणानां वर्णकलम्बिनां बलिनां घण्टाटाङ्कारिणां करिणां घटाभिः, घटयन्निव पुनरिन्दूदयविलीनमन्धकारम्, नक्षत्रमालामण्डितमुखीं करिणरिं निशाकर इव पौरन्दरीं दिशमारूढः, प्रकटितविविधविहगविरुतैस्तालावचरचारणैः पुरःसरैर्बालो वसन्त इवोपवनैः क्रियमागकोलाहलः, गन्धतैलावसेकसुगन्धिना तीपिकाचक्रवालालोकेन कुङ्कुमपटवासधूलिपटलेनेव पिञ्जरीकुर्वन्सकलं लोकम्, उत्फुल्लमल्लिकामुण्डमालामध्याध्यासितकुसुमशेखरेण शिरसा हसन्निव सपरिवेषक्षपाकर कौमुदीप्रदोषम्, आत्मरूपनिर्जितमकरकेतुकरापहृतेन नार्मुकेणेव कौसुमेन दाम्ना विरचितवैकक्षकविलासः, कुसुमसौरभगर्वभ्रान्तभ्रमरकुलकलकलप्रलापसुभगः पारिजात इव जातः श्रिया सह पुनरवतारितो मेदिनीम्, नववधूवदनावलोकनकुतूहलेनेव कृष्यमाणहृदयः पतन्निव मुखेन प्रत्यासन्नलग्नो ग्रहवर्मा । राजा तु तमुपद्वारमागतं चरणाभ्यामेव राजचक्रानुगम्यमानः ससुतः प्रत्युज्जगाम । अवतीर्णं च तं कृतनमस्कारं मन्मथमिव माधवः प्रसारितभुजो गाढमालिलिङ्ग । यथाक्रमं परिष्वक्तराज्यवर्धनहर्षं च हस्ते गृहीत्वाभ्यन्तरं निन्ये । स्वनिर्विशेषासनदानादिना चैनमुपचारेणोपचचार । न चिराच्च गम्भीरनामा नृपतेः प्रणयी विद्वान्द्विजनमा ग्रहवर्माणमुवाच--"तात! त्वां प्राप्य चिरात्खलु राज्यश्रिया घटितौ तेजोमयौ सकलजगद्गोयमानबुधकर्णानन्दकारिगुणगणौ सोमसूर्यवंशाविव पुष्यभूतिमुकरवंशौ । प्रथममेव कौस्तुभमणिरिव गुणैः स्थितोऽसि हृदये देवस्य । इदानीं तु शशीव सिरसा परमेश्वरेणासि वोढव्यो जातःऽ इति । एवं वदत्येव तस्मिन्नृपमुपसृत्य मौहूर्तिकाः "देव! समासीदति लग्नवेला । व्रजतु जामाता कौतुकगृहम्ऽ इत्यूचुः । अथ नरेन्द्रेण "उत्तिष्ठ, गच्छऽ इति गदितो ग्रहवर्मा प्रविश्यान्त पुरं जामातृदर्शनकुतूहलिनीनां स्त्रीणां पतितानि लोचनसहस्राणि विकचनीलकुवलयवनानीव लङ्घयन्नाससाद कौतुकगृहद्वारम् । निवारितपरिजनश्च प्रविवेश । अथ तत्र कतिपयाप्तप्रियसखीस्वजनप्रमदाप्रायपरिवाराम्, अरुणांशुकावगुण्ठितमुखीं प्रबातसंध्यामिव स्वप्रभया निष्प्रभान्प्रदीपकान्कुर्वाणामतिसौकुमार्यशङ्कितेनेव यौवनेन नातिनिर्भरमुपगूढाम्, साध्वसनिरुध्य मानहृदयदेशदुःखमुक्तैर्निभृतायतैः स्वसितैरपयान्तं कुमारभावमिवानुशोचन्तीम्, अत्युत्कम्पिनीं पतनभियेव त्रपया निष्पन्दं धार्यमाणाम्, हस्ततामरसप्रतिपक्षमासन्नग्रहणं शशिनमिव रोहिणीं भयवेपमानमानसामवलोकयन्तीम्, चन्दनधवलतनुलताम्, ज्योत्स्नादानसंचितलावण्यात्कुमुदिनीगर्भादिव प्रसूताम्, कुमुमामोदनिर्हारिणीं वसन्तहृद्यादिव निर्गताम्, निःश्वासपरिमलाकृष्टमधुरकुला मलयमारुतादिवोत्पन्नम्, कृतकन्दर्पानुसरणां रतिमिव पुनर्जाताम्, प्रभालावण्यमदसौरभमाधुर्यैः कौस्तुभशशिमदिरापारिजातामृतप्रभवैः सर्वरत्नगुणैरपराणिव सुरासुरस्षा रत्नाकरेण कल्पितां श्रियम्, स्निग्धेन बालिकालोकेन सितसिरणमरकतप्रभाहरितशाद्वलेन कपोलस्थलीतलेन विनोदयन्तीमिव हारिणीं लोचनच्छायाम्, अधोमुखं वरकौतुकालोकनाकुलं मुहुर्मुहुः कुतमुखन्नमनप्रयत्नं सखीजनं हृदयं च निर्भर्त्सयन्ती वधूमपश्यत् । प्रविशन्तमेव तं हृदयचौरं वध्वा समर्पितं जग्राह कन्दर्पः । परिहासस्मेरम्खीबिश्च नारीभिः कौतुकगृहे यद्यत्कार्यते जामताता तत्तत्सर्वमतिपेशलं चकार । कृतपरिणयानुरूपवेशपरिग्रहां गृहीत्वा करे वधूं निर्जगाम जगाम च नवसुधाधवला निमन्त्रितागतैस्तुषारशैलोपत्यकामिव त्र्यम्बकाम्बिकाविवाहाहूतैर्भूभृद्भिः परिवृताम्, सेकसुकुमारयवाङ्कुरदन्तुरैः पञ्चास्यैः कलशैः कोमलवर्णिकाविचित्रैरमित्रमुखैश्च मङ्गल्यफलहस्ताभिरञ्जलिकारिकाभिरूद्भासितपर्यन्ताम्, उपाध्यायोपधीयमानेन्धनधूमायमानाग्निसंधुक्षमाक्षणिकोपद्रष्टृद्विजाम्, उपकृशानुनिहितानुपहतहरितकुशां संनिहितदृषदजिनाज्यस्रुवसमित्पूलीनिवहाम्, नूतनशूर्पार्पितश्यामलशमीपलाशमिश्रलाजहासिनीं वेदीम् । आरुरोह च तां दिवमिव सज्योत्स्नः शशी । समुत्ससर्प च वेल्लितारुणशिखापल्लवस्य शिखिनः कुसुमायुध इव रतिद्वितीयो रक्ताशोकस्य समीपम् । हुते च हुतभुजि प्रदक्षिणावर्तप्रवृत्ताभिर्वधूवदनविलोकनकुतूहलिनीभिरिव ज्वालाभिरेव सह प्रदक्षिणं बभ्राम । पात्यमाने च लाजाञ्जलौ नखमयूखधवलिततनुरदृष्टपूर्ववधूवररूपविस्मयस्मेर इवादृस्यत विभावसुः । अत्रान्तरे स्वच्छकपोलोदरसंक्रान्तमनलप्रतिबिम्बमिव निर्वापयन्ती स्थूलमुक्ताफलविकलबाष्पबिन्दुसंदोहदशितदुर्दिना निर्वदनविकारं रुरोद वधूः । उदश्रुविलोचनानां च बान्धववधूनामुदपादि महानाक्रन्दः । परिसमापितवैवाहिकक्रियाकलापस्तु जामाता वध्वा स्मं प्रणनाम श्वशुरौ । प्रविवेश च द्वारपक्षलिखितरतिप्रतिदैवतं, प्रणयिभिरिव प्रथमप्रविष्टैरलिकुलैः कृतकोलाहलम्, अलिकुलपक्षपवनप्रेङ्खोलितैः कर्णोत्पलप्रहारभयप्रकम्पितैरिव मङ्गलप्रदीपैः प्रकाशितम्, एकदेशलिखितस्तबकितरक्ताशोकतरुतलभाजाधिज्यचापेन तिर्यक्कूणितनेत्रत्रिभागेण शरमृजूकुर्वता कामदेवेनाधिष्ठितम्, एकपार्श्वन्यस्तेन काञ्चनाचामरुकेणेतरपार्स्ववतिन्या च दान्तशफरुकधारिण्या कनकपुत्रिकया साक्षाल्लक्ष्म्येवोद्दण्डपुण्डरीकहस्तया सनाथेन सोपधानेन स्वास्तीर्णेन शयनेन शोभमानम्, शयनसिरोभागस्थितेन च कृतकुमुदशोभेन कुसुमायुधसाहायकायागतेन शशिनेव निद्राकलशेन राजतेन विराजमानं वासगृहम् । तत्र च ह्रीताया नववधूकायाः पराङ्मुखप्रसुप्ताया मणिभित्तिदर्पणेषु मुखप्रतिबिम्बानि प्रथमालापाकर्णनकौतुकागतगृहदेवताननानीव मणिगवाक्षकेषु वीक्षमाणः क्षणदां निन्ये । स्थित्वा च श्वशुरकुले शीलेनामृतमिव श्वश्रूहृदये वर्षन्नभिनवाभिनवोपचारैरपुनरुक्तान्यानन्दमयानि दश दिनानि, दत्त्वा च राजदौवारिकमिव राजकुले रणरणकं यौतकनिवेदितानीव शम्बलान्यादाय हृदयानि सर्वलरोकस्य कथङ्कथमपि विसर्जितो नृपेण वध्वा सह स्वदेशमगमदिति । इति श्रीमहाकविबाणमट्टकृतौ हर्षचरिते चक्रवर्तिजन्मवर्णनं नाम चतुर्थ उच्छ्वासः। षष्ठ उच्छ्वासः उच्चित्योच्चित्य भुवि प्रहितनिगूढात्मदूतनीतानाम् । विजिगीषुरिव कृतान्तः शूराणां संग्रहं कुरुते ॥ ६.१ ॥ विस्रब्धघातदोष- स्ववधाय खलस्य वीरलोपकरः । नवतरुभङ्गध्वनिरिव हरिनिद्रातस्करः करिणः ॥ ६.२ ॥ अथ प्रथमप्रेतपिण्डभुजि भुक्ते द्विजन्मनि, गतेषूद्वेजनीयेष्वशौचदिवसेषु, चक्षुर्दाहदायिनि दीयमाने द्विजेभ्यः शयनासनचामरातपत्त्रामत्रपत्त्रशस्त्रादिके नृपनिकटोपकरणकलापे, नीतेषु तीर्थस्थानानि सह जनहृदयैः कीकसेषु, कल्पितशोकशल्ये सुधानिचयचिते चिताचैत्यचिह्ने, वनाय विसर्जिते महाविजिति राजगजेन्द्रे, क्रमेण च मन्दष्वाक्रन्देषु, विरलीभवत्सु च विलापेषु, विश्राम्यत्यश्रुणि, शिथिलीभवत्सु उपदेशश्रवणक्षमेषु श्रोत्रेषु॑ अनुरोधावधानयोग्येषु हृदयेषु, गणनीयेषु नृपगुणेषु, प्रदेशवृत्तितामाश्रयति शोके, कृतेषु कविरुदितकेषु, जाते च स्वप्नावशेषदर्शने हृदयावशेषावस्थाने चित्रावशेषाकृतौ काव्यावशेषनाम्नि नरनाथे, देवो हर्षः कदाचिदुत्सृष्टव्यापारः पुञ्जीभूतवृद्धबन्धुवर्गाग्रेसरेणावनतमूकमुखेन महाजनेन मौलेनाकाल आत्मानं वेष्ट्यमानमद्राक्षीत् । दृष्ट्वा चाकरोन्मनसिकिमन्यदार्यमागतमावेदयत्ययं शोकपराभूतो लोकाकरःऽ इति । वेपमानहृदयश्च पप्रच्छ प्रविशन्तमधिकतरप्रचारमन्यतमं पुरुषम् "अङ्ग! कथय । किमार्यः प्राप्तःऽ इति । स मन्दमब्रवीत्--"देव! यथादिशसि द्वारिऽ इति श्रुत्वा च सोदर्यस्नेहनिहितनिरतिशयमन्युमृदूकृतमनाः कथमपि न ववाम बाष्पवारिप्रवाहोत्पीडेन सह जीवितम् । अनन्तरं च द्वारपालप्रमुक्तेन प्रथमप्रविष्टेन परिजनेनेवाक्रन्देन कथ्यमानम्, दूरद्रुतागमनमुषितबाहुल्येन विच्छिन्नच्छत्रधारेण लम्बिताम्बरवाहिना भ्रष्टभृङ्गारग्राहिणा च्युताचमनधारिणा ताम्यत्ताम्बूलिकेन खञ्जत्खङ्गग्राहिणा कतिपयप्रकाशदासेरकप्रायेण बहुवासरान्तरितस्नानभोजनशयनश्यामक्षामवपुषा परिजनेन परिवृतम्, अविरतमार्गधूलिधूसरितशरीरतया शरणीकृतमिवाशरणया क्रमागतया वसुंधरया, हूणनिर्जयसमरशरव्रणबद्धपट्टकैर्दीर्घधवलैः समासन्नराज्यलक्ष्मीकटाक्षपातैरिव शबलीकृतकायम्, अवनिपतिप्राणपरित्राणार्थमिव च शोकहुतभुजि हुतमांसैरतिकृशैरवयवैरावेद्यमानदुःखभारम्, अवगतचूडामणिनि मलिनाकुलकुन्तले शेखरशून्ये शिरसि शूचमारूढां मूर्तिमतीमिव दधानम्, आतपगलितस्वेदराजिना रुदतेव पितृपादपतनोत्कण्ठितेन ललाटपट्टेन लक्ष्यमाणम्, प्रथीयसा बाष्पपयःप्रवाहेणाभिमतपतिमरणमूर्च्छितामिव महीमनवरतं सिञ्चन्तम्, अनन्तसंतताश्रुप्रवाहनिपतननिम्नीकृताविव दुःखक्षाणौ कपोलावुद्वहन्तम्, अत्युष्णमुखमारुतमार्गगतेन द्रवतेव गलितताम्बूलरागेणाधरबिम्बेनोपलक्षितम्, पवित्रिकामात्रावशेषेन्दरनीलिकांशुश्यामायमानमचिरश्रुतपितृमरणजन्यमहाशोकाग्निदग्धमिव श्रवणप्रदेशमुद्वहन्तम्, अस्फुटाभिव्यक्तव्यञ्जनेनाप्यधोमुखस्तिमितनयननीलतारकमयूखमालाखचितेन शोकप्ररूढश्मश्रुश्यामलेनेव मुखशशिना लक्ष्यमाणम्, केसरिणमिव महाभूभृद्विनिपातविह्वलनिरवलंबनम्, दिवसमिव तेजःपतिपतनपरिम्लानश्रियं श्यामीभूतम्, नन्दनमिव भग्नकल्पपादपं विच्छायम्, दिग्भागमिव प्रोषितदिक्कुञ्जरशून्यम्, गिरिमिव गुरुवज्रपातदारितं प्रकम्पमानम्, क्रीतमिव क्रशिम्ना, किङ्करीकृतमिव कारुण्येन, दासीकृतमिव दौर्मनस्येन, शिष्यीकृतमिव शोचितव्येन, अन्धीकृतमिवाधिना, मूकीकृतमिव मौनेन, पिष्टमिव पिडया, स्विन्नमिव संतापेन, उच्चितमिव चिन्तया, विलुप्तमिव विलापेन, धृतमिव वैराग्येण, प्रत्याख्यातमिव प्रतिसंख्यानेन, अवज्ञातमिव प्रज्ञया, दूरीकृतमिव दुरभिभवत्वेन, अबोध्येन वृद्धबुद्धीनाम्, असाध्येन साधुभाषितानाम्, अगम्येन गुरुगिराम्, अशक्येन शास्त्रशक्तीनाम्, अपथेन प्रज्ञाप्रयत्नानाम्, अगोचरेण सुहृदनुरोधानाम्, अविषयेण विषयोपभोगानाम्, अभूमिभूतेन कालक्रमोपचयानां शोकेन कवलीकृतं ज्येष्ठं भ्रातरमपश्यत् । आवेगोद्गतकृत्स्नस्नेहोत्कलिकाकलापोत्क्षिप्य माणकाय इव च परवशः समुदगात् । अथ तं दूरादेव दृष्ट्वा देवो राज्यवर्धनश्चिरकालकलितं बाष्पावेगं मुमुक्षुः सुदूरप्रसारितेन संकल्पयन्निव सर्वदुःखानि दीर्घेण दर्दण्डद्वयेन गृहीत्वा कण्ठे मुक्तकण्ठं पुनः पतितक्षौमे क्षामे वक्षसि पुनः, कण्ठे पुनः स्कन्धभागे पुनः कपोलोदरे निधाय तथा तथा रुरोद यथा संबन्धनानीवोदपाट्यन्त हृदयानि । अश्रुस्रोतःशिरा इवामुच्यत लोचनेषु लोकेनास्मृतनृपतिना राजवल्लभेनापि प्रतिशब्दकनिभेन निर्भरमिवारुद्यत । सुचिराच्च कथं कथमपि निर्वृष्टनयनजलः पर्जन्य इव शरदि स्वयमेवोपशशाम । उपविष्टश्च परिजनोपनीतेन तोयेन तरत्करनखमयूखपुञ्जतया महाजलप्लवजायमानफेनलेखमिव पुनः पुनः प्रमृष्टमपि पक्ष्माग्रसंगलद्बाष्पबिन्दुवृन्दमन्दोन्मेषमुषितदर्शनं कथं कथमपि चक्षुरक्षालयत् । ताम्बूलिकोपस्थापितेन च वाससा चन्द्रातपशकलेनेवोष्णोष्णबाष्पदग्धं वदनमुन्ममार्ज । तूष्णीमेव च चिरं स्थित्वोत्थाय स्नानभूमिमगात् । तस्यां च स्थित्वा विभूषं वित्रस्तव्यस्तकुन्तलं मौलिमनादरान्निष्पीड्य सावशेषमन्युस्फुरितेन जिजीविषतेव जलधौतसुभगमात्मानमपि चुचुम्बिषतेवाधरेण क्षालितस्य चक्षुषः श्वेतिम्ना च शारदशशिकरविकसितविशदकुमुदवनदलावलिबलिविक्षेपैरिव दिग्देवतार्चनकर्म कुर्वाणश्चतुःशालवितर्दिकाविनिवेशितायामप्रतिपादिकायां चापाश्रयविनिहितैकोपबर्हणायां पर्यङ्किकायां निपत्य जोषमस्थात् । देवोऽपि हर्षस्तथैव स्नात्वा धरणितलनिहितकुथाप्रसारितमूर्तिरदूर एवास्य तूष्णीमेव समवातिष्ठत । दृष्ट्वा दृष्ट्वा दूयमानसमग्रजन्मानं समस्फुटदिवास्य सहस्रधा हृदयम् । औरसदर्शनं हि यौवनं शोकस्य । लोकस्य तु नरपतिमरणदिवसादपि दारुणतरः स बभूव दिवसः । सर्वस्मिन्नेव च नगरे न केनचिदपाचि न केनचिदस्नायि नाभोजि । सर्वत्र सर्वेणारोदि । केवलमनेन च क्रमेणातिचक्राम दिवसः । स च प्रत्यग्रत्वष्टुटङ्कतष्टतनुरिव वमद्वहलरुधिररसमांसच्छेदलोहितच्छविरपरपारावारपयसि ममज्ज मञ्जिष्ठारुणोऽरुणसारथिः । मुकुलायमानकमलिनीकोशविकलं चकाण चञ्चरीककुलं कमलसरसि । सविधविरहव्याधिविधुरधूबाध्यमानं बबन्ध बन्धाविव विबुद्धबन्धूकभासि भास्वति सास्रां दृशं चक्रवाकचक्रवालम् । संचरन्त्याः समधुकररवं कैरवाकरं कलहंसरमणीरमणीयं माणिक्यकाञ्जीकिङ्किणीजालमिवाचकाण श्रियः । प्रकटकलङ्कमुदयमानं विशङ्कटविषाणोत्कीर्णपङ्कसंकरशङ्करबर्कुरशव्करककुदकूटसंकाशमकाशताकाशे शशाङ्कमण्डलम् । अस्यां च वेलायामनतिक्रमणीयवचनैरुपसृत्य प्रधानसामन्तैर्वि ज्ञाप्यमानः कथं कथमप्यभुक्त । प्रभातायां च शर्वर्यां सर्वेषु प्रविष्टेषु राजसु समीपस्थितं ह्रषदेवमुवाच--"तात! भूमिरसि गुरुनियोगानाम् । शैशव एवाग्राहि गुणवत्पताकेव भवता तातस्य चित्तवृत्तिः । यतो भवन्तमेवं विधं विधेयं विधिघिधानोपनतनैर्घृण्यमिदं किमपि बिभणिषति मे हृदयम् । नावलम्बनीया बालभावसुलभा प्रेमविलोमा वामता । वैधेय इव मा कृथाः प्रत्यूहमीहितेऽस्मिन् । शृणु, न खलु न जानासि लोकवृत्तम् । लोकत्रयत्रातरि मान्धातरि मृते किं न कृतं पुरुकुत्सेन? भ्रूलतादिष्टाष्टादशद्वीपे दिलीपे वा रघुणा । महासुरसमरमध्याध्यासितत्रिदशरथे दशरथे वा रामेण? गोष्पदीकृतचतुरुदन्वदन्ते दुष्यन्ते वा भरतेन? तिष्ठन्तु तावत्ते तातेनैव शतसमधिकाधिगताध्वरधूमविसरधूसरितवासववयसि सुगृहीतनाम्नि तत्रभवति परासुतां गते पितरि किं नाकारि राज्यम्? यं च किल शोकः स्मभिभवति तं कापुरुषमाचक्षते शास्त्रविदः । स्त्रियो हि विषयः शुचाम् । तथापि किं करोमि । स्वभावस्य सेयं कापुरुषता वा स्त्रैणं वा यदेवमास्पदं पितृशोकहुतभुजो जातोऽस्मि । मम हि भूभृति पर्यस्ते निरवशेषतः प्रस्रवणानीव स्रुतान्यश्रूण्यस्तमिते महति तेजस्यन्धकारीभूतदशाशस्य प्रनष्टः प्रज्ञालोकः, प्रज्वलितं हृदयम्, आत्मदाहभीत इव स्वप्नेऽपि नोपसर्पति विवेकः, बलीयसा संतापेन जातुषमिव विलीनमखिलं धैर्यम्, पदे पदे दिग्धरोपाहतेव हरिणी मुह्यति मतिः, पुरुषद्वेषिणीव दूरत एव भ्रमति परिहरन्ती स्पृतिः, अम्बेव तातेनैव सह गता धृतिः, वार्धुषिकप्रयुक्तानीव धनानीव प्रतिदिवसं वर्धन्ते, दुःखानि, शोकानलधूमसंभारसंभूताम्भोधरबरितमिव वर्षति नयनवारिधाराविसरं शरीरम् । सर्वः पञ्चजनः पञ्चत्वमुपगतः प्रयाति । वितथमेतद्वदति बालो लोकः । तातो हुताशनतामेव केवलामापन्नोऽपि नैवं दहति माम् । अन्तस्तदेवमिदमसांपरायिकमिव हृदयमवष्टभ्य व्युत्थितः शोकौ दुर्निवारो वाडव इव वारिराशिम्, पविरिव पर्वतम्, क्षय इव क्षपाकरम्, राहुरिव रविम्, दहति दारयति तनूकरोति कवलयति च माम् । कामं न शक्नोति मे हृदयं तादृशस्य समेरुकल्पस्य कल्पमहापुरुषस्य विनिपातमश्रुबिन्दुभिरेव केवलैरतिवाहयितुम् । राज्ये विष इव चकोरस्य मे विरक्तं चक्षुः । बहुमृतपटावगुण्ठनां रञ्जितरङ्गां जनङ्गमानामिव वंशवाह्यामनार्यां श्रियं त्यक्तुमभिलषति मे मनः । क्षणमपि दग्धगृहे शकुनिरिव न पारयामि थातुम् । सोऽहमिच्छामि मनसि वाससीव सुलग्नं स्नेहमलमिदममलैः शिखरिशिखरप्रस्रवणैः स्वच्छस्रो तोम्बुभिः प्रक्षालयितुमाश्रमपदे । यतस्त्वमन्तरितयौवनसुखामनभिमतामपि जरामिव पुरुराज्ञया गुरोर्गृहाण मे राज्यचिन्ताम् । त्यक्तसकलबालक्रीडेन हरिणेव दीयतामुरो लक्ष्म्यै । परित्यक्तं मया शस्त्रम्ऽ । इत्यभिधाय च खड्गग्राहिणो हस्तादादाय निजं निस्त्रिंशमुत्ससर्ज धरण्याम् । अथ तच्छ्रु त्वा निशितशिखेन शूलेनेवाहतः प्रविदीर्णहृदयो देवो हर्षः समचिन्तयत्--"किं नु खलु मामन्तरेणार्यः केनचिदसहिष्णुना किञ्चिद्ग्राहितः कुपितः स्यात् । उतानया दिशा परीक्षितुकामो माम् । उत तातशोकजन्मा चेतसः समाक्षेपोऽयमस्य । आहोस्विदार्य एवायं न भवति, किं वार्येणान्यदेवाभिहितमन्यटेवाश्रावि मया शोकशून्येन श्रवणेन्द्रियेण । आर्यस्य चान्यद्विवक्षितमन्यदेवापतितं मुखेन । अथवा सकलवंशविनाशाय निपातनोपायोऽयं विधेः । मम वा निखिलपुण्यपरिक्षयोपक्षेपः । कर्मणामननुकूलसमग्रग्रहचक्रवालविलसितं वा । अथवा तातविनाशनिःशङ्ककलिकालक्रीडितं येनायं यः कश्चिदिव यत्किञ्चनकारिणं मामपुष्यभूतिवंशसंभूतमिव, अताततनयमिव, अनात्मानुजमिव, अभक्तमिव, अदृष्टदोषमपि श्रोत्रियमिव सुरापाने, सद्भृत्यमिव स्वामिद्रोहे सज्जनमिव नीचोपसर्पणे, सुकलत्रमिव व्यभिचारे, अतिदुष्करे कर्मणि समादिष्टवान् । तदेतत्तावदनुरूपं यच्छौर्योन्मादमदिरोन्मत्तसमस्तसामन्तमण्डलसमुद्रमथनमन्दरे तादृशि पितरि मृते तपोवनं वा गम्यते वल्कलानि वा गृह्यन्ते तपांसि वा सेव्यन्ते । या तु मयि राजाज्ञा सा दग्धोऽपि दाहकारिणी मय्यवग्रहग्लपिते धन्वनीवाङ्गारवृष्टिः । तदसदृशमिदमार्यस्य । यद्यपि च विभुरनभिमानः । द्विजातिरनेषणः, मुनिररोषणः, कपिरचपलः । कविरमत्सरः, वणिगतस्करः प्रियजानिरकुहनः, साधुरदरिद्रः, द्रविणवानखलः, कीनाशोऽनक्षिगतः, मृगयुरहिंस्रः, पाराशरी ब्राह्नण्यः, सेवकः सुखी, कितवः कृतज्ञः, परिव्राडबुभुक्षुः, नृशंसः प्रियवाक्, अमात्यः सत्यवादीः, राजसूनुरदुर्विनीतश्च जगति दुर्लभः, तथापि ममार्य एवाचार्यः । को हि नाम तद्विधे निपतिते राजगन्धकुञ्जरे जनयितरि चेदृशे विफलीकृतविशालशिलास्तम्भोरुभुजे भूभुजि भ्रातरि त्यक्तराज्ये ज्यायसि नववयसि तपोवनं गच्छति सकललोकलोचनजलपातापवित्रं मृद्गोलकं वसुधाभिधानं धनमदखेलनिखिलखलमुखविकारलक्षणाख्यायमाननीचाचरणां श्रोसंज्ञिकां सुभटकुटुम्बकर्मकुम्भदासीं चण्डालोऽपि कामयेत । कथमिव संभावितमत्यन्तमनुचितमिदमार्येण । किमुपलक्षितमनवदातमिदं मयि । किं वास्य चेतसश्च्युतः सौमित्रिर्विस्मृता वा वृकोदरप्रभृतयः । अनपेक्षितभक्तजना स्वार्थैकनिष्पादननिष्ठुरा नासीदियमार्यस्येदृशी प्रभविष्णुता । अपि चार्ये तपोवनं गते जिजीवषुः को मनसापि महीं ध्यायेत् । कुलिशशिखरखरनखरप्रचयप्रचण्डचपेटापाटितमत्तमातङ्गोत्तमाड्गमदच्छटाच्छुरितचारुकेसरभारभास्वरमुखे केसरिणि वनविहाराय विनिर्गते निवास गिरिगुहां कः पाति पृष्ठतः । प्रतापसहाया हि सत्त्ववन्तः । कश्चपलां राजलक्ष्मीं प्रत्यनुरोधोऽयमार्यस्य यदियमपि न चीवरान्तरितकुचा कुशकुसुमसमित्पलाशपूलिकां वहन्ती तत्रैव तपोवने वनमृगीव नीयते जराजालिनी । किंवा ममानेन वृथा बहुधा बिकल्पितेन तूष्णीमेवार्यमनुगमिष्यामि । गुरुवचनातिक्रमकृतं च किल्विषमेतत्तपोवने तप एवापास्यतिऽ । इत्यवधार्य मनसा प्रथमतरं गतस्तपोवनमधोमुखस्तूष्णीमवातिष्ठत । अत्रान्तरे पूर्वादिष्टेनैव रुदता वस्त्रकर्मान्तिकेन समुपस्थापितेषु वल्कलेषु, निर्दयकरतलताडनभियेव व्कापि गते हृदये, रटति राजस्त्रैणे, तारमब्रह्नण्यमूर्ध्वदोष्णि विरुदति विप्रजने, पादप्रणतिपरे फूत्कुर्वति पौरवृन्दे, विद्राति विद्रुतचेतसि चिरन्तने परिजने, परिजनावलम्बिते गते वर्षीयसि, वेपमानवपुषि, पर्याकुलवाससि, शोकगद्गदवचसि, विगलितनयनपयसि, निवारणोद्यतमनसि, विशति बन्धुवर्गे, निराशेषु नखलिखितमणिकुट्टिमेष्ववाङ्मुखेन निःश्वसत्सु सामन्तेषु, सबालवृद्धासु तपोवनाय प्रस्थितासु सर्वासु प्रजासु सहसैव प्रविश्य शोकविक्लवः प्रक्षरितनयनसलिलो राज्यश्रियः परिचारकः संवादको नाम प्रज्ञाततमो विमुक्ताक्रन्दः सदस्यात्मानमपातयत् । अथ संभ्रान्तो भ्रात्रा सह स्वयं देवो राज्यवर्धनस्तं पर्यपृच्छत्-"भद्र! भण भण किमस्मद्व्यसनव्यवसायवर्धनबद्धधृतिः, अवनिपतिमरणमुदितमतिः, अधृतिकरमपरमधिकतरमितो दुःखातिशयं समुपनयति विधिःऽ इति । स कथं कथमप्यकथयत्--"देव! पिशाचानामिव नीचात्मनां चरितानि छिद्रप्रहारीणि प्रायशो भवन्ति । यतो यस्मिन्नहन्यवनिंपतिरुपरत इत्यभूद्वार्ता तस्मिन्नेव देवो ग्रहवर्मा दुरात्मना मालवराजेन जीवलोकमात्मानः सुकृतेन सह त्याजितः । भर्तृदारिकापि राज्यश्रीः कालायसनिगडयुगलचुम्बितचरणा चौराङ्गनेव संयता कान्यकुब्जे कारायां निक्षिप्ता । किंवदन्ती च यथा किलानायकं साधनं मत्वा जिघृक्षुः सुदुर्मतिरेतामपि भुवमाजिगमिषति । इति विञ्ज्ञापिते प्रभुः प्रभवतीति । ततश्च तादृशमनुपेक्षणीयमसंभावितमाकस्मिकमुपरिं व्यतिकरमाकर्ण्याश्रुतपूर्वत्वात्परिभवस्य, परपरिंभवासहिष्णुतया च स्वभावस्य, दर्पबहुलतया च नवयौवनस्य, वीरक्षेत्रसंभवत्वाच्च जन्मनः, कृपाभूमिभूतायाश्च स्वसुः स्नेहात्स तादृशोऽपि बद्धमूलोऽप्यत्यन्तगुरुरेकपद एवास्य ननास्य ननाश शोकावेगः । विवेश च सहसा केसरीव गिरिगुहागृहं गभीरहृदयं भयङ्करः कोपावेगः । केशिनिषूदनशङ्काकुलकालियभङ्गुरभ्रूभङ्गतरङ्गिणी श्यामायमाना यमस्वसेव प्रथीयसी ललाटपट्टे भीषणा भ्रुकुटिरुदभिद्यत । दर्पात्परामृशन्नखकिरणसलिलनिर्झरैः समरभारसंभावनाभिषेकमिव चकार दिङ्नागकुम्भकूटविकटस्य बाहुशिखरकोशस्य वामः पाणिपल्लवः । संगलत्स्वेदसलिलपूरितोदरो निर्मूलं मालवोन्मूलनाय गृहीतकेश इव दुर्मदश्रीकचग्रहोत्कण्ठयेव च कम्पमानः पुनरपि समुत्ससर्प भीषणं कृपाणं पाणिरपरः । शस्त्रग्रहणमुदितराजलक्ष्मीक्रियमाणदिष्टवृद्धिविधुतसिन्दूरधूलिरि व कपिलः कपोलयोरदृस्यत रोषरागः । समासन्नसकलमहीपालचूडामणिचक्राक्रमणजाताहङ्कार इव च समारुरोह वाममूरुदण्डमुत्तानितश्चरणो दक्षिणः । निष्ठुराङ्गुष्टकषणनिष्ठ्यूतधूतधूमलेखो निर्वीरोर्वीकरणाय विमुक्तशिख इव लिलेख मणिकुट्टिममितरः पादपझः । दर्पस्फुटितसरसव्रणोच्छलितरुधिरच्छटावसेकैः शोकविषप्रसुप्तं प्रबोधयन्निव पराक्रममनुजमवादीत्--"आयुष्मन्! इदं राजकुलम्, अमी बान्धवाः, परिजनोऽयम्, इयं भूमिः, भूपतिभुजपरिघपालिताश्चैताः प्रजाः, गतोऽहमद्यैव मालवराजकुलप्रलयाय । इदमेव तावद्वल्कलग्रहणमिदमेव तपः शोकापगमोपायश्चायमेव यदत्यन्ताविनीतारिनिग्रहः । सोऽयं कुरङ्गकैः कचग्रहः केसरिणः, भेकैः करपातः काल सर्पस्य, वत्सकैर्बन्दिग्रहो व्याघ्रस्य, अलगर्दैर्गलग्रहो गरुडस्य, दारुभिर्दाहादेशो दहनस्य, तिमिरैस्तिरस्कारो रवेः, यो मालवैः परिभवः पुष्यभूतिवंशस्य । अन्तरितस्तापो मे महीयसा मन्युना । तिष्ठन्तु सर्व एव राजानः करिणश्च त्वयैव सार्धम् । अयमेको भण्डिरयुतमात्रेण तुरङ्गमाणामनुयातुमाम्ऽ । इत्यभिधाय चानन्तरमेव प्रयाणपटहमादिदेश । तं च तथा समादिशन्तमाकर्ण्य जामिजामातृवृत्तान्तविज्ञानप्रकोपाधानदूयमाने मनसि निर्वर्तनादेशेन दूरप्ररूढप्रणयपीड इव प्रोवाच देवो हर्षः--"किमिव हि दोषं पश्यत्यार्यो ममानुगमनेन? यदि बाल इति नितरां तर्हि न परित्याज्योऽस्मि । रक्षणीय इति भवद्भुजपञ्जरो रक्षास्थानम्, अशक्त इति व्क परीक्षितोऽस्मि, संवर्धनीय इति वियोगस्तनूकरोति, अक्लेशसह इति स्त्रीपक्षे निक्षिप्तोऽस्मि, सुखमनुभवत्विति त्वयैव सह तत्प्रयाति, महानध्वनः क्लेश इति विरहाग्निविषह्यतरः, कलत्रं रक्षत्विति श्रीस्ते निस्त्रिंशेऽधिवसति, पृष्ठतः शून्यमिति तिष्ठत्येव प्रतापः, राजकमनधिष्ठितमिति तत्सुबद्धमार्यगुणैः, न बाह्यः सहायो महत इति व्यतिरिक्तमेव मां गणयति, प्रलघुपरिकरः प्रयामीति पादरजसि कोऽतिभारः, द्वयोर्गमनमसांप्रतमिति मामनुगृहाण गमनाज्ञया, कातरो भ्रातृस्नेह इति सदृशो दोषः । का चेयमात्मंभरिता भुजस्य ते यदेकाकी क्षीरोदफेनपटलपाण्डुरममृतमिव यशः पिपासति । अवञ्चितपूर्वोऽस्मि प्रसादेषु । तत्प्रसीदत्वार्यो नयतु मामपिऽ -- इत्यभिधाय क्षितितलविनिहितमौलिः पादयोरपतत् । तमुत्थाप्य पुनरग्रजो जगाद-- "तात! किमेवमतिमहारम्भपरिग्रहणेन गरिमाणमारोप्यते बलादतिलघीयानप्यहितः । हरिणार्थमतिह्रेपणः सिंहसंभारः । तृणानामुपरि कति कवचयन्त्याशुशुक्षणयः । अपि च तवाष्टादशद्वीपाष्टमङ्गलकमालिनी मेदिन्यस्त्येव विक्रमस्य विषयः । नहि कुलशैलनिवहवाहिनो वायवः संनह्यन्त्यतितरले तूलराशौ । न सुमेरुवप्रप्रणयप्रगल्भा वा दिव्करिणः परिणमन्त्यणीयसि वल्मीके । ग्रहीष्यसि सकलपृथ्वीपतिप्रलयोत्पातमहाधूमकेतुं मान्धातेव चारुचामीकरपह्कपत्रलतालङ्काराङ्ककायं कार्मुकं ककुभां विजये । मम तु दुर्निवारायामस्यां विपक्षक्षपणक्षुधि क्षुभितायां क्षम्यतामयमेकाकिनः कोपकवल एकः । तिष्ठतु भवान्ऽ । इत्यभिधाय च तस्मिन्नेव वासरे निर्जगामाभ्यमित्रम् । अथ तथागते भ्रातरि, उपरते च पितरि, प्रोषितजीविते च जामातरि, मृतायां च मातरि, संयतायां च स्वसरि, स्वयूथभ्रष्ट इव वन्यः करी देवो हर्षः कथं कथमप्येकाकी कालं तमनैषीत् । अतिक्रान्तेषु बहुषु वासरेषु कदाचित्तयैव भ्रातृगमनदुःखासिकया दत्तप्रजागरसिभागशेषायां त्रियामायां यामिकेन सीयमानामिमामार्यां शुश्राव-- द्वीपोपगीतगुणमपि समुपार्जितरत्नराशिसारमपि । पोतं पवन इव विधिः पुरुषमकाण्डे निपातयति ॥ ६.३ ॥ तां च श्रुत्वा सुतरामनित्यताभावनया दूयमानहृदयः प्रक्षीणभूयिष्ठायां क्षपायां क्षणमिव निद्रामलभत । स्वप्ने चाब्रंलिहं लोहस्तम्भं भज्यमानमपश्यत् । उत्कम्पमानहृदयश्च पुनः प्रत्यबुध्यत । अचिन्तयच्च-- "किं नु खलु मामेवममी सततमनुबध्नन्ति दुःस्वप्नाः । स्फुरति च दिवानिशमकल्याणाख्यानविचक्षणमदक्षिणमक्षि । सुदारुणास्चाक्षुद्रक्षितिपक्षयमाचक्षाणाः क्षणमपि न शाम्यन्ति पुनरुत्पाताः । प्रत्यहं राहुरविकलकायबन्ध इव कबन्धवति ब्रध्नबिम्बे घटमानो विभाव्यते । तपःकरणकालकवलितानिव धूसरितसमग्रग्रहानुद्गिरन्ति धूमोद्गारान् सप्तर्षयः । दिने दिने दारुणा दिशां दाहा दृश्यन्ते । दिग्दाहभस्मकणनिकर इव निपतति नभस्तलात्तारागणः । तारापातशुचेव निष्प्रभः शसी । निशि निशि इतस्ततः प्रज्वलिताभिरुल्काभिरुग्रं ग्रहयुद्धमिव वियति विलोकयन्ति विलोलतारकाः ककुभः । राज्यसंचारसूचकः संचारयतीव क्ष्मां व्कापि वहद्बहलरजःपटलकलिलशर्कराशकलसूत्कारी मारुतः । न कुशलमिव पश्यामि लग्नस्य । अस्मिन्नस्मद्वंशे करिण इव करीरं कोमलमपि कलयतः कृतान्तस्य कः परिपन्थी? सर्वथा स्वस्ति भवत्वार्यायऽ । इति चिन्तयित्वा च अन्तर्भिन्नं भ्रातृस्नेहकातरं द्रवदिव हृदयं कथं कथमपि संस्तभ्योत्थाय यथाक्रियमाणं क्रियाकलापमकरोत् । आस्थानगतश्च सहसैव प्रविशन्तम्, अनुप्रविशता विषण्णवदनेन लोकेनानुगम्यमानम्, असह्यदुःखोष्णनिःश्वासधूमरक्ततन्तुनेव मलिनेन पटेन प्रावृतवपुषम्, जीवितधारणलज्जयेवावनतमुखम्, नासावंशस्याग्रे ग्रथितदृष्टिम्, दुःखदूरप्ररूढरोम्णा मूकेनापि मुखेन स्वामिव्यसनमविच्छिन्नैरश्रुबिन्दुभिर्विज्ञापयन्तं कुन्तलं नाम बृहदश्ववारम्, राज्यवर्धनस्य प्रसादभूमिमभिज्ञाततमं ददर्श । दृष्ट्वा च जाताशङ्कश्चक्षुषि सलिलेन, मुखशशिनि श्वसितेन, हृदये हुताशनेन उत्सङ्गे भुवा, दारुणाप्रियश्रवणसमये सममिव सर्वेष्वङ्गष्वगृह्यत लोकपालैः । तस्माच्च हेलानिर्जितमालवानीकमपि गौडाधिपेन मिथ्योपचारोपचितविश्वासं मुक्तशस्त्रमेकाकिनं विश्रब्धं स्वभवन एव भ्रातरं व्यापादितमश्रौषीत् । श्रुत्वा च महातेजस्वी प्रचण्डकोपपावकप्रसरपरिचीयमानशोकावेगः सहसैव प्रजज्वाल । ततश्चामर्षविधुतशिरःशीर्यमाणशिखामणिशकलाङ्गाकिताङ्गमिव रोषाग्निमुद्वमन्ननवरतस्फुरितेन पिबन्निव सर्वतेजस्विनामायूंषि रोषनिर्भुग्नेन दशनच्छदेव, लोहितायमानलोचनालोकविक्षेपैर्दिग्दाहानिव दर्शयन्, रोषानलेनाप्यसह्यसहजशौर्य्योष्मदहनदह्यमानेनेव वितन्यमानस्वेदसलिलशीकरासारदुर्दिनः, स्वावयवैरप्यदृष्टपूर्वप्रकोपभीतैरिव कम्पमानैरुपेतः, हर इव कृतभैरवाकारः, हरिरिव प्रकटितनरसिंहरूपः, सूर्यकान्तशैल इवापरतेजःप्रसरदर्शनप्रज्वलितः, क्षयदिवस इवोदितद्वादशदिनकरदुर्निरीक्ष्यमूर्तिः, महोत्पातमारुत इव सकलभूभृत्प्रकम्पकारी, विन्ध्य इव वर्धमानविग्रहोत्सेधः, महाशीविष इव दुर्नरेन्द्राभिभवरोपितः, परीक्षित इव सर्वभोगिदहनोद्यतः वृकोदर इव रिपुरुधिरतृषितः, सुरगज इव प्रतिपक्षवारणप्रधावितः, पूर्वागम इव पौरुषस्य, उन्माद इव मदस्य, आवेग इवावलेपस्य, तारुण्यावतार इव तेजसः, सर्वोद्योग इव दर्पस्य, युगागम इव यौवनोष्मणः, राज्याभिषेक इव रणरसस्य, नीराजनदिवस इवासहिष्णुतायाः परां भीषणतामयासीत् । अवादीच्च गौडाधिपाधममपहाय कस्तादृशं महापुरुष तत्क्षण वे निर्व्याजभूजवीर्यनिर्जितसमस्तराजकं मुक्तशस्त्रं कलशयोनिमिव कृष्णवर्त्मप्रसूतिरीदृशेन सर्ववीरलोकविमर्दितेन मृत्युना शमयेदेवमार्यम् । अनार्यं च तं मुक्त्वा भागीरथीफेनपटलपाण्डुराः केषां मनःसु सरःसु राजहंसा इव परशुरामपराक्रमस्मृतिकृतो न कुर्युरार्यशौर्यगृणाः पक्षपातम् । कथमिवात्युग्रस्यास्यार्यजीवितहरणे निदाघरवेरिव कमलाकरसलिलशोषणेऽनपेक्षितप्रीतयः प्रसृताः कराः । कां नु गतिं गमिष्यति, कां वा योनिं प्रवेक्ष्यति, कस्मिन्वा नरके निपतिष्यति । श्वपाकोऽपि क इदमाचरेत् । नामापि च गृह्णतोऽस्य पापकारिणः पापमलेन लिप्यत इव मे जिह्वा । किं वाङ्गीकृत्य कार्यमार्यस्तेन क्षुद्रेणानुप्रविश्य विगतघृणेन घुणेनेव सकलभुवनाह्लादनचतुरश्चन्दनस्तम्भः क्षयमुपनीतः । नूनं नानेन मूढेन मधुरसास्वादलुब्धेन मध्विवार्यजीवितमाकर्षता भावी दृष्टः शिलीमुखसंपातोपद्रवः । निजगृहदूषणं जालमार्गप्रदीपकेन कज्जलमिवातिमलिनं केवलमयशः संचितं गौडाधमेन । न्तवाश्वेवास्तमुपगतवत्यपि त्रिभुवनचूडामणौ सवितरि वेधसादिष्टः सत्पथशत्रोरन्धकारस्य निग्रहाय ग्रहषण्डविहारैकहरिणाधिपः शशी । विनयविधायिनि भग्नेऽपि चाङ्कुशे विद्यत एव व्यालवारणस्य विनयाय सकलमत्तमातङ्गकुम्भस्थलस्थिरशिरोभागभिदुरः खलतरः केसरिनखरः । तादृशाः कुवैकटिका इव तेजस्विरत्नविनाशकाः कस्य न वध्याः । क्वेदानीं यास्यति दुबुन्द्भिः?ऽ इत्येवमभिदधत एवास्य पितुरपि मित्रं सेनापतिः समग्रविग्रहप्राग्रहरो हरितालशैलावदातदेहः परिणतप्रगुणसालप्रकाण्डप्रकाशः प्रांशुः, अतिशौर्योष्मणेव परिपाकमागतो गतभूयिष्ठे वयसि वर्तमानः, बहुशरशयनसुप्तोत्थितोऽपि हसन्निव शान्तनवमतिदीर्घणायुषा, दुरभिभवशरीरतया जरयापि भीतभीतयेव प्रकटितप्रकम्पया परामृष्टः, कथमपि सारमयेषु शिरोरुहेषु शशिकरनिकरसितसरलशिरोरुहसटालां सैंहीमिव निष्कपटपराक्रमरसरचितां संक्रान्तो जीवन्नेवजातिम्, परस्वामिमुखदर्शनमहापातकपरिजिहीर्षयेव भ्रूयुगलेन वलितशिथिलप्रलम्बचर्मणा स्थगितदृष्टिः, धवलस्थूलगुञ्जापिच्छप्रच्छादितकपोलभागभास्वरेण वमन्निव विक्रमकालमकालेऽपि विकाशिकाशकाननविशदं शरदारम्भं भीमेन मुखेन, मृतमपि हृदयस्थितं स्वामिनमिव सितचामरेण वीजयन्नाभिलम्बेन कूर्चकलापेन, परिणामेऽपि धौतासिधाराजलपानतृषितैरिव विवृतवदनैर्बृहद्भिर्व्रणविदारैर्विषमितविशालवक्षाः, निशितशस्त्रटङ्ककोटिकुट्टितबहुबृहद्वणक्षिरपङ्क्तिनिरन्तरतया च सकलसमरविजयपर्वगणनामिव कुर्वन्पूर्वपर्वत इव पादचारी, विविधवीररसवृत्तान्तरामणीयकेन महाभारतमपि लघयन्निव, प्रतिपक्षक्षपपणातिनिर्बन्धेन परशूराममपि शिक्षयन्निव, अब्भ्रामणेनानादरश्रीसमाकर्षणविभ्रमेण मन्दरमपि मन्दयन्निव, वाहिनीनायकमर्यादानुवर्तनेनाम्भोधिमप्यभिभवन्निव, स्थैर्यकार्कस्योन्नतिभिरचलानपि ह्रेपयन्निव, सहजप्रचण्डतेजःप्रसरपरिस्फुरणेन सवितारमपि तृणीकुर्वन्निवर्, इश्वरभारोद्वहनघृष्टपृष्ठतया हरवृषभमपि हसन्निव, अरणिरमर्षाग्नेः, ऐश्वर्यं शौर्यस्य, विसर्पो दर्पस्य, हृदयं हठस्य, जीवितं जिगीषुतायाः, समुच्छ्वसितमुत्साहस्य, अङ्कुशो दुर्मदानाम्, नागदमनो दुष्टभोगिनाम्, विरामो वरमनुष्यतायाः, कुलगुरुर्वीरगोष्ठीनाम्, तुला शौयशालिनाम्, सीमान्तदृश्वा शस्त्रग्रामस्य, निर्वोढा प्रौढवादानाम्, संस्तम्भयिता भग्नानाम्, पारगः प्रतिज्ञायाः, मर्मज्ञो महाविग्रहाणाम्, आघोषणापटहः समरार्थिनाम्, संनिधावेवसमुपविष्टः सिंहनादनामा स्वरेणैव दुन्दुभिघोषगम्भीरेण सुभटानां समररसमानयन्विज्ञापितवान्-- "देव! न व्कचित्कृताश्रयया मलिनया मलिनतराः कोकिलया काका इव कापुरुषा हतलक्ष्म्या विप्रलभ्यमानमात्मानं न चेतयन्ते । श्रियो हि दोषा अन्धतादयः कामला विकाराः । छत्रच्छायान्तरितरवयो विस्मरन्त्यन्यं तेजस्विनं जडधिय । किं वा करोतु वराकः यनातिभीरुतया नित्यपराङ्मुखेन नतु दृष्टान्येव सर्वातिशायिशौर्यातिशयश्वयथुकपिलकपोलपुलकपल्लवितकोपानलानि कुपितानां तेजस्विनां मुखानि । नासौ तपस्वी जानात्येवं यथाभिचारा इव विप्रकृताः सद्यः सकलकुलप्रलयमुपाहरन्ति मनस्विन इति । जलेऽपि ज्वलन्ति ताडितास्तेजस्विनः । सकलवीरगोष्ठीबाह्यस्य तस्यैवेदमुचितमनुत्तारनिरयनिपातनिपुणं कर्म । मनस्विनां हि प्रधनप्रधानधने धनुषि ध्रियमाणे सति च कमलाकलहंसीकेलिकुवलयकानने कृपाणे कृपणोपायाः पयोधिमथनप्रभृतयोऽपि श्रीममत्थानस्य किं पुनरीदृशाः । येषां च धात्रा धरित्रीं त्रातुं नियुक्ताः स्वयमसमर्था इव कुलशकर्कशभुजपरिघप्रहरणहेतोरुद्गिरन्ति गिरयोऽपि लोहानि ते कथमिव बाहुशालिनो मनसापि विमलयशोभान्धवा ध्यायेयुरकार्यम् । सर्वग्रहाभिभवभास्वराणां हि सुभटकराणामग्रतो दिग्ग्रहणे पङ्गवः पतङ्गकराः । महामहिषशृङ्गतरङ्गभङ्गभह्गुरभीषणान्तराला लोकप्रवादमात्रेण च दक्षिणाशा परमार्थतो भटम्रुकुटिरधिवासो यमस्य । चित्रं च यदुन्मुक्तसिंहनादानां सहसा साहसरभसरसरोमाञ्चकण्टकनिकरेण सह न निर्यान्ति सटाः शूराणां रणेषु । द्वयमेव च चतुःसागरसंभृतस्य भूतिसंभारस्य बाजनं प्रतिपक्षदाहि दारुणं वडवामुखं वा महापुरुषहृदयं वा । तेजस्विनः सकलाननवाप्य पयोराशिसहजस्य कुतो निवृत्तिरूष्मणः । वृथाविततविपुलफणाभारो भुजह्गानां भर्ता बिभर्ति यो भोगेन मृत्पिण्डमेव केवलम् । अप्रतिहतशासनाक्रान्त्युपभोगसुखरसं तु रसायां दिक्कुञ्जरभारभास्वरप्रकोष्ठा वीरबाहव एव जानन्ति । रविरिवोन्मुखपझाकरगृहीतपादपल्लवः सुखेनाखण्डिततेजा दिवसान्नयति शूरः । कातरस्य तु शशिन इव हरिणहृदयस्य पाण्डुरपृष्ठस्य सुतो द्विरात्रमपि निश्चला लक्ष्मीः । अपरिमितयशःप्रकरवर्षी विकासी वोररसः । पुरःप्रवृत्तप्रतापप्रहताः पन्थानः पौरुषस्य । शब्दविद्रुतविद्विषन्ति भवन्ति द्वाराणि दर्पस्य । शस्त्रालोकप्रकाशिताः शून्या दिशः शौर्यस्य । रिपुरुधिरशीकरासारेण भूरिव श्रीरप्यनुरज्यते । बहुनरपतिमुकुटमणिशिलाशाणकोणकषणेन चरणनखराजिरिव राजताप्युज्ज्वलीभवति । अनवरतशस्त्राभ्यासेन करतलानीव रिपुमुखान्यपि श्यामीभवन्ति । विविधव्रणबद्धपट्टकशतैः शरीरमिव यशोऽपि धवलीभवति । कवचिषु रिपूरःकवाटेषु पात्यमानाः, पावकशिखामिव श्रियमपि वमन्ति निष्ठुरा निस्त्रिंशप्रहाराः । यस्छाहितहतस्वजनो मनस्विजनो द्विषद्योषिदुरस्ताडनेन कथयति हृदयदुःखं परुषासिलतानिपातपवनेनोच्छ्वसिति निरुच्छ्वसितशत्रुधारापातेन रोदिति विपक्षवनिताचक्षुषा ददाति जलं स श्रेयान्नेतरः । न च स्वप्नदृष्टनष्टेष्विव क्षणिकेषु शरीरेषु निबध्नन्ति बन्धुबुद्धिं प्रबुद्धाः । स्थायिनि यशसीव शरीरधीर्वीराणाम् । अनवरतप्रज्वलिततेजःप्रसरभास्वरस्वभावं च मणिप्रदोपमिव कलुषः कज्जलमलो न स्पृशत्येवातितेजस्विनं शोकः । सत्वं सत्त्ववतामग्रणीः प्राग्रहरः प्राज्ञानां प्रथमः समर्थानां प्रष्ठोऽभिजातानामग्रेसरस्तेजस्विनामादिरसहिष्णूनाम् । एताश्च सततसंनिहितधूमायमानकोपाग्नयः सुलभासिधारातोयतृप्तयो विकटबाहुवनच्छायोपगूढा धीरताया निवासशिशिरभूमयः स्वायत्ताः सुभटानामुरःकवाटभित्तयः । यतः किं गौडाधिपाधमैकेन । तथा कुरु यथा नान्योऽपि कश्चिदाचरत्येवं भूयः । सर्वोर्वीश्रद्धाकामुकानामलीकविजिगीषूणां संचारय चामराण्यन्तःपुरपुरन्ध्रिनिःश्वसितैः । उच्छिन्धि रुधिरगन्धान्धगृध्रमण्डलच्छादनैश्चत्त्रच्छायाव्यसनानि । अपाकुरु कदुष्णशोणितोदकस्वैदैः कुलक्ष्मीकुलटाकटाक्षचक्षूरागरोगान् । उपशमय निशितशरशिरावेधैरकार्यशौर्यश्वयथून् । उन्मूलय लोहनिगडापीडमालामलमहौषधैः पादपीठदोहददुर्ललितपादपटुमान्द्यानि । क्षपय तीक्ष्णाज्ञाक्षरक्षारपातैर्जयशब्दश्रवणकर्णकण्डूः । अपनय चरणनखमरीचिचन्दनचर्चाललाटलेपैरनमितस्तिमितमस्तकस्तम्भविकारान् । उद्धर करदानसंदेशसंदंशैर्द्रविणदर्पोष्मायमाणदुःशीललीलाशल्यानि । भिन्धि मणिपादपीठदीधितिदीप्रप्रदीपिकाभिः शुष्कसुभटाटोपभ्रुकुटिबन्धान्धकारान् । जय चरणलङ्घनलाघवगलितशिरोगौरवारौग्यैर्मिथ्याभिमानमहासंविपातान् । म्रदय सततसेवाञ्जलिमुकुलितकरसंपुटोष्मबिरिष्वसनगुणकिणकार्कश्यानि । येनैव च ते गतः पिता पितामहः प्रपितामहो वा तमेव मा हासीस्त्रिभुवनस्पृहणीयं पन्थानम् । अवहाय कुपुरुषोचितां शुचं प्रतिपद्यस्व कुलक्रमागतां केसरीव कुरङ्गीं राजलक्ष्मीम् । देव! देवभूयं गते नरेन्द्रे दुष्टगौडभुजङ्गजग्धजीविते च राज्यवर्धने वृत्तेऽस्मिन्महाप्रलये धरणीधारणायाधुना त्वं शेषः । समाश्वासय अशरणाः प्रजाः । क्ष्मापतीनां शिरःसु शरत्सवितेव ललाटन्तपान् प्रयच्छ पादन्यासान् । अहितानामभिनवसेवादीक्षादुःखसंतप्तश्वासधूममण्डलैर्नखंपचैः प्रचलितचूडामणिचक्रवालबालातपैश्चायाहि कल्माषपादताम् । अपि च हते पितर्येकाकी तपस्वी मृगैः सह संवर्धितः सहजब्राह्नण्यमार्दवसुकुमारमनाः कृतनिश्चयचण्डचापवनाटनिटाङ्कारनादनिर्मदीकृतदिग्गजं गुञ्जज्ज्याजालजनितजगज्ज्वरं समग्रमुद्यतमेकविंशतिकृत्वः कृतवंशमुत्खातवान् राजन्यकं परशुरामः, किं पुनर्नैसर्गिककायकार्कश्यकुलिशायमानमानसो मानिनां मूर्धन्यो देवः । तदद्यैव कृतप्रतिज्ञो गृहाण गौडाधिपाधमजीवितध्वस्तये जीवितसंकलनाकुलकालाकाण्डदयात्राचिह्नध्वजं धनुः । न ह्ययमरातिरक्तचन्दनचर्चाशिशिरोपचारमन्तरेण साम्यति परिभवानलपच्यमानदेहस्य देवस्य दुःखदाहज्वर सुदारुणः । निकारसंतापशान्तयुपायपरिक्षये हि हिडिम्बाचुम्बनास्वादितमिव रिपुरुधिरामृतममन्दरोपायमपायि पवनात्मजेन । जामदग्न्येन च शाम्यन्मन्युशिखिशिखासंज्वरसुखायमानस्पर्शशीतलेषु क्षत्रियक्षतजह्रदेष्वस्नायिऽ । इत्युक्त्वा व्यरंसीत् । देवस्तु हर्षस्तं प्रत्यवादीत्-- "करणीयमेवेदमभिहितं मान्येन । इतरथा हि मे गृहीतभुवि भोगिनाथेऽपि दायाददृष्टिरीर्ष्यालोर्भुजस्य । उपरि गच्छतीच्छति निग्रहाय ग्रहगणेऽपि दायाददृष्टिरीर्ष्यालोर्भुजस्य । उपरि गच्छतीच्छति निग्रहाय ग्रहगणेऽपि भ्रूलता चलितुम् । अनमत्सु शैलेष्वपि कचग्रहमभिलषति दातुं करः । तेजोदुर्विदग्धानर्ककरानपि चामराणि ग्राहयितुमीहते हृदयम् । राजशब्दरूपा मृगराजानामपि शिरांशिवाञ्छति पादः पादपीठीकर्तुम् । स्वच्छन्दलोकपालस्वेच्छागृहीतानामाक्षेपादेशाय दिशामपि स्फुरत्यधरः । किं पुनरीदृशे दुर्जाते जाते जातामर्षनिर्भरे च मनसि नास्त्येवावकाशः सोकक्रियाकरणस्य? अपि च हृदयविषमशल्ये मुसल्ये जीवति जाल्मे जगद्विगहिते गौडाधिपाधमचण्डाले जिह्रेमि शुष्काधरपुटः पीजेव प्रतिकारशून्यं शुचा शूत्कर्तुम् । अकृतरिपुबलाबलाविलोललोचनोदकदुर्दिनस्य मे कुतः करयुगलस्य जलाञ्जलिदानम्, अदृष्टगौडाधमचिताधूममण्डलस्य वा चक्षुषः स्वल्पमप्यश्रुसलिलम् । श्रूयतां मे प्रतिज्ञा-- "शपाम्यार्यस्यैव पादपांसुस्पर्शेन, यदि परिगणितैरेव वासरेः सकलचापचापलदुर्ललितनरपतिचरणरणरणायमाननिगडां निर्गौडं गां न करोमि ततस्तनूनपाति पीतसर्पिषि पतङ्ग इव पातकी पातयाम्यात्मानम्ऽ इत्युक्त्वा च महासन्धिविग्रहाधिकृतमवन्तिकमन्तिकस्थमादिदेश-- "लिख्यताम् । आ रविरथचक्रचीत्कारजकितचारणमिथुनमुक्तसानो रुदयाचलात्, आ त्रिकूटकटककुट्टाकटङ्कलिखितकाकुत्स्थलङ्कालुण्ठनव्यतिकरात्सुवेलात्, आ वारुणीमदस्खलितवरुणवरनारीनूपुररवमुखरकुहरकुक्षेरस्तगिरेः, आ गुह्यकगेहिनीपरिमलसुगन्धिगन्धपाषाणवासितगुहागृहाच्च गन्धमादनात्सर्वेषां राज्ञां सज्जीक्रियन्तां कराः करदानाय शस्त्रग्रहणाय वा, गृह्यन्तां दिशश्चामराणि वा, नमन्तु शिरांसि धनूंषि वा, कर्णपूरीक्रियन्तामाज्ञा मौर्व्यो वा, शेखरीभवन्तु पादरजांसि शिरस्त्राणि वा, घटन्तामञ्जलयः करिघटाबन्धा वा, मुच्यन्तां भूमय इषवो वा, समालम्ब्यन्तां वेत्रयष्टयः कुन्तयष्टयो वा, सुदृष्टः क्रियतामात्मा मच्चरणनखेषु कृपाणदर्पंणेषु वा । परागतोऽहम् । पङ्गोरिव मेकुतो निवृत्तिस्तावद्यावन्न कृतः सर्वद्वीपान्तरसंचारी सकलनरपतिमुकुटमणिशिलालोकमयः पादलेपःऽ । इति कृतनिश्चयश्च मुक्तास्थानो विसर्जितराजलोकः स्नानारम्भाकाङ्क्षी सभामत्याक्षीत् । उत्थाय च स्वस्थवन्निःशेषमाह्निकमकार्षीत् । अगलच्च दर्पप्रसर इव श्रुतप्रतिज्ञस्य शाम्यदूष्मा दिवसस्त्रिभुवनस्य । ततश्च निजाधिकारापहारभीत इव भगवत्यपि व्कापि गते गततेजस्यहिमभासि, तामरसवनेष्वपि निगूढशिलीमुखालापेषु त्रासादिव संकुचत्सु, विहगगणेष्वपि समुपसंहृतनिजपक्षविक्षेपनिश्चलेषु भियेवाप्रकटीभवत्सु, भुवनव्यापिनीं सन्ध्यां प्रतिज्ञामिव मानयति नतशिरसि घटिताञ्जलिवने जने सकले, स्वपदच्युतिचकितदिक्पालदीयमानाभ्रलिहलोहप्राकारवलयकलितास्वि व बहलतिमिरमालातिरौधीयमानासु दिक्षु प्रदोषास्थाने नातिचिरं तस्थौ । नमन्नृपलोकलोलांशुकपवनकम्पितशिखैर्दीपिकाचक्रवालैरपि प्रणम्यमान इव प्राहिणोल्लोकं प्रतिषिद्धपरिजनप्रवेशश्च शयनगृहं प्राविशत् । उत्तानश्च मुमोचाङ्गानि शयनतले । दीपद्वितीयं च तमभिसर इव लब्धावसरस्तरसा भ्रातृशोको जग्राह । जीवन्तमिव हृदये निमीलितलोचनी ददर्शाग्रजम् । उपर्युपरि भ्रातृजीवितान्वेषिण इव प्रसस्रुः श्वासाः । धवलांशुकपटान्तेनेव चाश्रुजलप्लवेन मुखमाच्छाद्य निःशब्दमतिचिरं रुरोद । चकार चेतसि-- "कथं नामाकृतेस्तादृस्या युक्तः परिणामोऽयमीदृशः । पृथुशिलासंघातकर्कशकायबन्धात्तातादचलादिव लोहधातुः कठिनतर आसीदार्यः । कथं चास्य मे हतहृदयस्यार्यविरहे सकृदपि युक्तं समच्छ्वसितुम् । इयं सा प्रीतिर्भक्तिरनुवृत्तिर्वा । बालिशोऽपि कः संभावयेदार्यमरणे मज्जीवितम् । तत्तादृशमैक्यमेकपद एव व्कापि गतम् । अयत्नेनैव हतविधिना पृथक्कृतोऽस्मि । दग्धरोषान्तरितशुचा सुचिरं रुदितमपि न मुक्तकण्ठं गतघृणेन मया । सर्वथा लूतातन्तुच्छटाच्छिदुरास्तुच्छाः प्रीतयः प्राणिनाम् । लोकयात्रामात्रनिबन्धना बान्धवता यत्राहमपि नाम पर इवार्ये स्वर्गस्थे स्वस्थ इवासे । दैवहतकेन फलमासादितमीदृशि परस्परप्रीतिबन्धनिर्वृतहृदये सुखभाजि भ्रातृमिथुने विघटिते । तथा च चन्द्रमया इव जगदाह्लादिनो लोकान्तरीभूतस्य लग्नचिताग्नय इवार्यस्य त एव दहन्ति गुणाः इत्येतानि चान्यानि च हृदयेन पर्यदेवत । प्रभातायां च शर्वर्यां प्रतीहारमादिदेशाशेषगजसाधनाधिकृतं स्कन्दगुप्तं द्रष्टुमिच्छामीति । अथ युगपत्प्रधावितबहुपुरुषपरम्पराहूयमानः, स्वमन्दिरादप्रतिपालितकरेणुश्चरणाभ्यामेव संभ्रान्तः, ससंभ्रमैर्दण्डिभिरुत्सार्यमाणजनपदः, पदे पदे प्रणमतः प्रतिदिशमिभभिषग्वरान्वरवारणानां विभावरीवार्ताः पृच्छन्नुच्छ्रितशिखिपिच्छलाञ्छितवंशलतावनगहनगृहीतदिगायामैर्विन्ध्यवनैरिव वारणबन्धविमर्देद्योगागतैः, पुरःप्रधावद्भिरनायत्तमण्डलैराधोरणगणैश्च मरकतहरितघासमुष्टीश्च दर्शयद्भिर्नवग्रहगजपतींश्च प्रार्थयमानैश्च लब्धाभिमतमत्तमातङ्गमुदितमानसैश्च सुदूरमुपसृत्य नमस्यद्भिरात्मीयमातङ्गमदागमांश्च निवेदयद्भिः, डिण्डिमाधिरोहणाय च विज्ञापयद्भिः, प्रमादपतितापराधापहृतद्विरददुःखधृतदीर्शश्मश्रुबिरग्रतो गच्छद्भिः, अभिनवोपसृतैश्च कर्पटिभिर्वारणाप्तिसुखप्रत्याशया धावमानैः, गणिकाधिकारिगणैश्चिरलब्धान्तरैरुच्छ्रितकरैः, कर्मण्यकरेणुकासंकथनाकुलैरुल्लासितपल्लवचिह्नाभिररण्यपालपङ्क्तिभिश्च, निष्पादितनवग्रहनागनिवहनिवेदनोद्यताभिरुत्तम्भिततुह्गतोत्रवनाभिर्महामात्रपेटकैश्च प्रकटितकरिकर्मचर्मपुटैः, अभिनवगजसाधनसंचरणवार्तानिवेदनविसर्जितैश्च नागवनवीथीपालदूतवृन्दैः, प्रतिक्षणप्रत्यवेक्षितकरिकवलकूटैश्च, कटभङ्गसंग्रंह ग्रामनगरनिगमेषु निवेदयमानैः, कटककदम्बकैः क्रियमाणकोलाहलः, स्वामिप्रसादसंभृतेन महाधिकाराविष्कारेण स्वाभाविकेन चावष्टम्बाभोगेनोदासीनोऽप्यादिशन्निव, असंख्यकरिकर्णशङ्खसम्पत्सम्पादनाय समुद्रानाज्ञापयन्निव, शृङ्गारगैरिकपह्काङ्गरागर्सग्रहाय गिरीन्मुष्णन्निव, दिग्गजाधिकारं ककुभामैरावतमिवापहरन् हरेर्हरपदभरनमितकैलासगिरिगुरुबिः पादन्यासैर्गुरुभारग्रहणगर्वमुर्व्याः संहरन्निव, गतिवशविलोलस्य चाजानुलम्बस्य बाहुदण्डद्वयस्य विक्षेपैरालानशिलास्तम्भमालामिवोभयतो निखनन्नीषदुत्तङ्गलम्बेनाधरबिम्बेनामृतरसस्वादुना नवपल्लवकोमलेन कवलेनेव श्रीकरेणुकां विलोभयन्निजनृपवंशदीर्घं नासावंशं दधानः, अतिस्निग्धमधुरधवलविशालतया पीतक्षीरोदेनेव पिबन्नीक्षणयुग्मायामेन दिशामायामं मेरुतटादपि विकटविपुलालिकः, सततविच्छिन्नच्छत्रच्छायाप्ररूढिवशादिव नितान्तायतनीलकोमलच्छविसुभगेन स्वभावभङ्गुरेण कुन्तलबालवल्लरीवेल्लितविलासिना लुनन्निव लुप्तालोकानर्ककरान् बर्बरकेणारिपक्षयपरित्यक्तकार्मुककर्मापि सकलदिगन्तश्रूयमाणगुरुगुणध्वनिः, आत्मस्थसमस्तमत्तमातङ्गसाधनोऽप्यस्पृष्टो मदेन भूतिमानपि स्नेहमयः पार्थिवोऽपि गुणमयः करिणामिव दानवतामुपरि स्थितः, स्वामितामिव स्पृहणीयां भृत्यतामप्यपरिभूतामुद्वहन्नेकभर्तृभक्तिनिश्चलां कुलाङ्गनामिवानन्यगम्यां प्रबुप्रसादभूमिमारूढः, निष्कारणबान्दवो विदग्धानाम्, अभृतभृत्यो भजताम्, अक्रीतदासो विदुषाम्, स्कन्दगुप्तो विवेश राजकुलम् । दूरादेव चोभयकरकमलावलम्बितं स्पृशन्मौलिना महीतलं नमस्कारमकरोत् । उपविष्टं च नातिनिकटे तं तदा जगाद देवो हर्षः-- "श्रुतो विस्तर एवास्यार्यव्यतिकरस्यास्मच्चिकीर्षितस्य च । अतः शीघ्रं प्रवेश्यन्तां प्रचारनिर्गतानि गजसाधनानि । न क्षाम्यत्यतिस्वल्पमप्यार्यपरिभवपीडापावकः प्रयाणविलम्बम्ऽ । इत्येवमभिहितश्च प्रमम्य व्यज्ञापयत्--"कृतमवधारयतु स्वामी समादिष्टं कितु स्वल्पं विज्ञप्यमस्ति भर्तृभक्तेः । तदाकर्णयतु देवः । देवेन हि पुष्यभूतिवंशसंभूतस्याभिजनस्याबिजात्यस्य सहजस्य तेजसोदिक्करिकरप्रलम्बस्य बाहुयुगलस्यासाधारणस्य च सोदरस्नेहस्य सर्वं सदृशमुपक्रान्तम् । काकोदराबिधानाः कृपणाः कृमयोऽपि न मृष्यन्ति निकारं किमुत भवादृशास्तेजसां राशयः । केवलं देवराज्यवर्धनोदन्तेन कियदपि दृष्टमेव देवेन दुर्जनदौरात्म्यम् । रिदृशाः खलु लोकस्वभावाः प्रतिग्रामं प्रतिनगरं प्रतिदेशं प्रतिद्वीपं प्रतिदिशं च भिन्ना वेशाश्चाकाराश्चाहाराश्च व्याहाराश्च व्यवहाराश्च जनपदानाम् । तदियमात्मदेशाचारोचिता स्वभावसरलहृदयजा त्यज्यतां सर्वविश्वासिता । प्रमाददोषाबिषङ्गेषु श्रुतबहुवार्त एव प्रतिदिनं देवः । यथा नागकुलजन्मनः सारिकाश्रावितमन्त्रस्यासीन्नाशो नागसेनस्य पझावत्याम् । शुकश्रुतरहस्यस्य च श्रीरशीर्यत श्रुततवर्मणः श्रावस्त्याम् । स्वप्नायमानस्य च मन्त्रभेदोऽभून्मृत्यवे मृत्तिकावत्यां सुवर्णचूडस्य । चूडामणिलग्नलेखप्रतिबिम्बवाचिताक्षरा च चारुचामोकरचामरग्राहिणी यमतां ययौ यवनेश्वरस्य । लोभबहुलं च बहुलनिशि निधानमुत्खनन्तमुत्खातखड्गप्रमाथिनी ममन्थ माथुरं बृहद्रथं विदूरथवरूथिनी । नागवनविहारशीलं च मायामातङ्गाङ्गान्निर्गता महासेनसैनिका वत्सपतिं न्ययंसिषुः । अतिदयितलास्यस्य च शैलूषमद्यमध्यास्य मूर्धानमसिलतया मृणालमिवालुनादग्निमित्रात्मजस्य सुमित्रस्य मित्रदेवः । प्रियतन्त्रीवाद्यस्यालाबुवीणाभ्यन्तरशुषिरनिहितनिशिततरवारयो गान्धर्वच्छात्रच्छझानः चिच्छिदुरश्मकेस्वरस्य शरभस्य शिरो रिपुपुरुषाः । प्रज्ञादुर्बलं च बलदर्शनव्यपदेशदर्शिताशेषसैन्यः, सेनानीरनार्यो मौर्यं बृहद्रथं पिपेष पुष्यमित्रः स्वामिनम् । आश्चर्यकुतूहली च दण्डोपनतयवननिर्मितेन नभस्तलयायिना यन्त्रयानेनानीयत व्कापि काकवर्णः शैशुनागिश्च नगरोपकण्ठे कण्ठे निचकृते निस्त्रिंशेन । अतिस्त्रीसङ्गरतमनङ्गपरवसं शुङ्गममात्यो वसुदेवो देवभूतिदासीदुहित्रा देवीव्यञ्जनया वीतजीवितमकारयत् । असुरविवरव्यसनिनं, चापजह्ररपरिमितरमणीमणिनूपुरझणझणाह्लादरम्यया मागध गोवर्धनगिरिसुरुङ्गया स्वविषयं मेकलाधिपमन्त्रिण । महाकालमहे च मनामांसविक्रयवादवातूलं वेतालस्तालजङ्घो जघान जघन्यजं प्रद्योतस्य पौणकिं कुमारं कुमारसेनम् । रसायनरसाबिनिवेशिनश्च वैद्यव्यञ्जनाः सुबहुपुरुषानतरप्रकाशितौषधिगुणा गणपतेर्विदेहराजसुतस्य राजयक्ष्माणमजनयन् । स्त्रीविश्वासिनस्च महादेवीगृहगूढभित्तिभाग्भूत्वा भ्राता भद्रसेनस्याभवन्मृत्यवे कालिङ्गस्य वीरसेनः । मातृशयनीयतूलिकातलनिषण्णश्च तनयोऽन्यं तनयमभिषेक्तुकामस्य दध्रस्य करूषाधिपतेरभवन्मृत्यवे । उत्सारकरुचिं चरहसि ससचिवमेव दूरीचकार चकोरनाथं शूद्रकदूतश्चन्द्रकेतुं जीवितात् । मृगयासक्तस्य च मथ्नतो गण्डकानुद्दण्डनड्वलनलवननिलीनास्च चम्पाधिपचमूचरभटास्चामुण्डीपतेराचेमुः प्राणान् पुष्करस्य । बन्दिरागपरं च परप्रयुक्ता जयशब्दमुखरमुखा मङ्खा मौखरिं मूर्खं क्षत्रवर्माणमुदखनन् । अरिपुरे च परकलत्रकामुकं कामिनीवेशगुप्तश्च चन्द्रगुप्तः शकपतिमशातयदिति । प्रमत्तानां च प्रमदाकृता अपि प्रमादाः श्रुतिविषयमागता एव देवस्य । यथा मधुमोदितं मधुरकसंलिप्तैर्लाजैः सुप्रभा पुत्रराज्यार्थं महासेन काशिराजं जघान । व्याजजनितकन्दर्पदर्पा च दर्पणेन क्षुरधारापर्यन्तेनायोध्याधिपतिं परन्तपं रत्नवती जारूथ्यम्, विषचूर्णचुम्बितमकरन्देन च कर्णेन्दीवरेण देवकी देवरानुरुक्ता देवसेनं सौह्न्यम्, योगपरागविरसवर्षिणा च मणिनूपुरेण वल्लभा सपत्नीरुषा वैरन्त्यं रन्तिदेवम्, वेणीविनिगूढेन च शस्त्रेण बिन्दुमतीं वृष्णिं विन्दूरथम्, रसदिग्धमद्येन च मेखलामणिना हसवती सौवीरं वोरसेनम्, अदृश्यागदविलिप्तवदना च विषवारुणीगण्डूषपायनेन पौरवी पौरवेश्वरं सोमकम्ऽ । इत्युक्त्वा विरराम स्वाम्यादेशसंपादनाय च निर्जगाम । देवोऽपि हषः सकलराज्यस्थितीश्चकार । ततश्च तथा कृतप्रतिज्ञे प्रयाणं विजयाय दिशां समादिशति देवे हर्षे गतायुषां प्रतिसामन्तानामुदवसितेषु बहुरूपाण्युपलिङ्गानि वितेनिरे । तथा ह्यविप्रकृष्टाः कालदूतदृष्टय इवेतस्ततश्चटुलाः कृष्णशारश्रेणयः । प्रचलितलक्ष्मीनूपुरप्रणादप्रतिमा मधुसरघासंघातझङ्कारा जह्रादिरे । चिरं विवृतविकृतवदनविव रविनिःसृतवह्निविसरा वासरेऽपि विरसं विरेसुश्चिरमशिवार्थमशिवाः शिवाः । शवपिशितप्ररूढप्रसरा इव कपिपोतकपोलकपिलपक्षतयः काननकपोताः पेतुः । आमन्त्रयमाणा इव दधुरकालकुसुमानि सममुपवनतरवः । तरलकरतलप्रहारप्रहतपयोधरा रुरुदुः प्रसभं सभाशालभञ्जिकाः । ददृशुरासन्नकचग्रहभयोद्भ्रान्तोत्तमाङ्गमिवात्मानं कबन्धमादर्शोदरेषु योधाः । चूडामणिषु चक्रशह्खकमललक्ष्माणः प्रादुरभवन्पादन्यासा राजमहिषीणाम् । चेटीचामराण्यकस्मादधावन्त पाणिपल्लवात् । प्रणयकलहेऽपि दत्तपृष्ठाश्चिरमभवन्भटाः पराङ्मुखा मानिनीनाम् । करिकपोलेषु व्यघटन्त मधुलिहां मधुमदिरापानगोष्ठ्यः । समाघ्रातयममहिषगन्धा इव ताम्यन्तः स्तम्बकरिमपि हरयो हरितं नवयवसं न चेरुः । चलवलयावलीवाचालबालिकातालिकातोद्यलालिता अपि न नृतुर्मन्दा मन्दिरमयूराः । निशि निशि रजनिकरहरिणनिहितनयन इवोन्मुखस्तारमुपतोरणमकारणमकाणीत्कौलेयकगणः । गणयन्तीवगतायुषस्तर्जनतरलया तर्जन्या दिवसमाट वाटकेषु कोटवी । कुट्टिमेषु कुटिलहरिणखुरवेणीतरङ्गिण्यश्च शष्पराजयोऽजायन्त । जनितवेणीबन्धानि निरञ्जनरोचनारोचींषि चषकमधुनि मुखकलप्रतिबिम्बान्यदृश्यन्त भटीनाम् । समासन्नात्मापहारचकिता इव चकम्पिरे भूमयः । वध्यालङ्काररक्तचन्दनरसच्छटा इवालक्ष्यन्त शूराणां पतिताः शरीरेषु विकसितबन्धूककुसुमशोणितशोचिषः शोणितवृष्टयः । पर्यग्नीकुर्वाणा इव विनश्वरीं श्रियमविरलस्फुरत्स्फुलिङ्गाह्गारोद्गारदग्धतारागणा गणशः पतन्तः प्रज्वलन्तो न व्यरंसिषुरुल्कादण्डाः । प्रथममेव प्रतिहारीवापहरन्ती प्रतिभवनं चामरातपत्रव्यजनानि परुषा बभ्राम वात्येति । इति श्रीबाणमट्टकृतौ हर्षचरिते राजप्रतिज्ञावर्णनं नाम षष्ठ उच्छ्वासः। सप्तम उच्छ्वासः अङ्गनवेदी वसुधा कुल्या जलधिः स्थली च पातालम् । वल्मीकश्च सुमेरुः कृतप्रतिज्ञस्य वीरस्य ॥ ७.१ ॥ धृतधनुषि बाहुशालिनि शैला न नमन्ति यत्तदाश्चर्यम् । रिपुसंज्ञकेषु गणना कैव वराकेषु काकेषु ॥ ७.२ ॥ अथ व्यीतेषु च केषुचिद्दिवसेषु मौहूर्तिकमण्डलेन शतशः सुगणिते सुप्रशस्तेऽहनि दत्ते चतसृणामपि दिशां विजययोग्ये दण्डयात्रालग्ने सलिलमोक्षविशारदैः शारदैरिवाम्भोधरैः कालधौतैः शातकौम्भैश्च कुम्भैः स्नात्वा विरचय्य परमया भक्त्या भगवतो नीललोहितस्यार्चामुदर्चिषं हुत्वा प्रदक्षिणावर्तशिखाकलापमाशुशुक्षणिं, दत्त्वा द्विजेब्यो रत्नवन्ति राजतानि जातरूपमयानि च सहस्रशस्तिलपात्राणि कनकपत्रलतालङ्कृतशफशृङ्गशिखरा गाश्चार्बुदशः, समुपविश्य विततव्याघ्रचर्मणि भद्रासने विलिप्य प्रथमविलिप्तायुधो निजयशोधवलेनाचरणतश्चन्दनेन शरीरं, परिधाय राजहंसमिथुनलक्ष्मणी सदृशे दुकूले, परमेश्वरचिह्नभूतां शशिकलामिव कल्पयित्वा सितकुसुममुण्डमालिकां शिरसि, नीत्वा कर्णाभरणमरकतमयूखमिव कर्णगोचरतां गोरोचनाच्छुरितमभिनवं दूर्वापल्लवं, विन्यस्य सह शासनवलयेन गमनमह्गलप्रतिसरं प्रकोष्ठे, परिपूजितप्रहृष्टपुरोहितकरप्रकीर्यमाणशान्तिसलिलसीकरनिकराभ्युक्षितशिराः संप्रेष्य महार्हाणि वाहनानि बहलरत्नालोकलिप्तककुभि च भूषणानि भूभुजां सविभज्य, क्लिष्टकार्पटिककुलपुत्रलोकमोचितैः प्रसाददानैश्च विमुच्य बन्धनानि सकलानि, नियुज्य तत्कालस्मरणस्फुरणेन कथितात्मानमिव चाष्टादशद्वीपजेतव्याधिकारे दक्षिणं भुजस्तम्भमहमहमिकया सेवकैरिव सनिमित्तैरपि समग्रैरग्रतो भवद्भिः प्रमुदितप्रजाजन्यमानजयशब्दकोलाहलो हिरण्यगर्भ इव ब्रह्नाण्डात्कृतयुगकरणाय भवनान्निर्जगाम । नातिदूरे च नगरादुपसरस्वति निर्मिते महति तृणमये, समुत्तम्भिततुङ्गतोरणे, वेदीविनिहितपल्लवललामहेमकलशे, बद्धवनमालादाम्नि, धवलध्वजसालिनि, भ्रमच्छुक्लवाससि, पठद्द्विजन्मनि मन्दिरे प्रस्थानमकरोत् । तत्रस्थस्य चास्य ग्रामाक्षपटलिकः सकलकरणिपरिकरः "करोतु देवो दिवसग्रहणमद्यैवावन्ध्यशासनः शासनानाम्ऽ इत्यभिधाय वृषाङ्कामभिनवघटितां हाटकमयीं मुद्रां समुपनिन्ये । जग्राह च तां राजा । समुपस्थापिते च प्रथमत एव मृत्पिण्डे परिभ्रश्य करकमलादधोमुखी महीतले पपात मुद्रा । मन्दाश्यानपङ्कपटले मृदुमृदि सरस्वतीतीरे परिस्फुटं व्यराजन्त राजयो वर्णानाम् । अमङ्गलाशङ्किनि च विषीदति परिजने नरपतिरकरोन्मनस्येतत्--"अतत्त्वदर्शिन्यो हि भवन्त्यविदग्धानां धियः । तथा हि--एकशासनमुद्राङ्का भूर्भवतो भविष्यतीति निवेदितमपि निमित्तेनान्यथा गृह्णन्ति ग्राम्याःऽ । इत्यभिनन्द्य मनसा महानिमित्तं तत्सीरसहस्रसंमितसीम्नां ग्रामाणां शतमदाद्द्विजेभ्यः । निनाय च तत्र तं दिवसम् । प्रतिपन्नायां सर्वर्यां संमानितसर्वराजलोकः सुष्वाप । अथ गलति तृतीये यामे सुप्तसमस्तसनत्त्वनिःशब्दे दिक्कुञ्जरजृम्भमाणगम्भीरध्वनिरताढ्यत प्रयाणपटहः । अग्रतः स्थित्वा च मुहूर्तमिव पुनः प्रयाणक्रोशसंख्यापकाः स्पष्टमष्टावदीयन्त प्रहाराः पटहे पटीयांसः । अथ गलति तृतीये यामे सुप्तसमस्तसत्त्वनिःशब्दे दिक्कुञ्जरजृम्भमाणगम्भीरध्वनिरताड्यत प्रयाणपटहः अग्रतः स्थित्वा च मुहूर्तमिव पुनः प्रयाणक्रीशसंख्यापकाः स्पष्टमष्टावदीयन्त प्रहाराः पटहे पटीयांसः । ततो रटत्पटहे, नन्दन्नान्दीके, गुञ्जद्गुञ्जे, कूजत्काहले, शब्दायमानशङ्खे, क्रमोपचीयमानकटककलकले, परिजनोत्थापनव्यापृतव्यवहारिणि, द्रुतद्रुघणघातघट्यमानकोणिकाकीलकोलाहलकलितककुभि, बलाधिकृतबध्यमानपाटीपतिपेटके, जनज्वलितोल्कासहस्रालोकलुप्यमानत्रियामातमसि, यामचेटीचरणचलनोत्थाप्यमानकामिमिथुने, कटुककटुकनिर्देशनश्यन्निद्रोन्मिषन्निषादिनि, प्रबुद्धहास्तिकशून्यीक्रियमाणशय्यागृहे, सुप्तोत्थिताश्वीयविधूयमानसटेष रटत्कटकमुखरखनित्रखन्यमानक्षोणीपाशे, समुत्कील्यमानकीलशिञ्जानाहिञ्जीरे, उपनीयमाननिगडतालकलरवोत्तालतुरङ्गतरङ्ग्यमाणखुरपुटे, लेशिकमुच्यमानमदस्यन्दिदन्तिसंदानशृङ्खलाखनखननिनादनिर्भरभरितदशदिशि, भासपूलकप्रहारप्रमृष्टपांसुलकरिपृष्ठत्रसार्यमाणप्रस्फोटितप्रमृष्टचर्मणि, गृहचिन्तकचेटकसंवेष्ट्यमानपटपुटीकाण्डपटमण्डपपरिवस्त्रावितानके, कीलकलापापूर्यमाणचिपिटचर्मपुटे, संभाण्डायमानभाण्डागारिणि, भाण्डागारवहनसंवाह्यमानबहुनालीवाहिके, निषादिनिश्चलानेकानेकपारोप्यमाणकोशकलशपीडापीडसंकटायमानसामन्तौकसि, दूरगतदक्षदासेरकक्षिप्रप्रक्षिप्यमाणोपकरणसंभारभ्रियमाणदुष्टदन्तिनि, तिर्यगानमज्जाघनिकरकृच्छ्राकृष्टलम्बमानपरतन्त्रतुन्दिलचुन्दीजनजनितजनहासे, पीड्यमानशारशारिवरत्रागुणग्राहितगात्रविहारबृंहद्बहुबृहदुन्मदकरिणि, करिघटाघटमानघण्टाटाङ्कारक्रियमाणकर्णज्वरे, पृष्ठप्रतिष्ठाप्यमानकण्ठालककदर्थितकूजत्करभे, अभिजातराजपुत्रप्रेष्यमाण कुप्ययुक्ताकुलकुलीनकुलपुत्रकलत्रवाहने, गमनवेलाविप्रलब्धवारणाधोरणान्विष्यमाणनवसेवके, प्रसादवित्तपत्तिनीयमाननरपतिवल्लभवारवाजिनि, चारुचारभटसन्यन्यस्यमाननासीरमण्डलाडम्बरस्थूलस्थासके, स्थानपालपर्यमाणलम्बमानलवणकलायीकिङ्किणीनालीसनाथसंकलिततलसारके, कुण्डलीकृतावरक्षणीजालजटिलवल्लभपालाश्वधटानिवेश्यमानसाखामृगे, परिवर्धकाकृष्यमाणार्धजन्धप्राभातिकयोग्याशनप्रारोहके, व्यक्रोशीविजृम्भमाणघासिकघोषे, गमनसंभ्रमभ्रष्टभ्रमदुत्तुण्डतरुणतुरङ्गमतन्यमानानेकमन्दुराविमर्दे, सज्जीकृतकरेणुकारोहाह्वानसत्वरसुन्दरीदीयमानमुखालेपने, चलितमातङ्गतुरङ्गप्रधावितप्राकृतप्रातिवेशिकलोकलुण्ठ्यमाननिर्घाससस्यसंचये, संचरच्चेलचक्राकान्तचक्रीवति, चक्रचीत्कारिगन्त्रीगणगृह्यमाणप्रहतवर्त्मनि, अकाण्डकोड्डीयमानभाण्डभरितानडुहि, निकटघासलाभलुभ्यल्लम्बमानप्रथमप्रसार्यमाणसारसौरभेये, प्रमुखप्रवर्त्यमानमहासमामन्तमहानसे, पुरःप्रधावद्ध्वजवाहिनि, प्रियशतोपलभ्यमानसंकटकुटीरकान्तरालनिःसरणे, करिचरणदलितमठिकोत्थितलोकलोष्टहन्यमानमेण्ठक्रियमाणासन्नसाक्षिंणि, संघट्टविघट्टमानव्याघ्रपल्लीपलायमानक्षुद्रकुटुम्बके, कलकलोपद्रवद्रवद्द्रविणबलीवर्दविद्राणवणिजि, पुरःसरदीपिकालोकविरलायमानलोकोत्पीडाप्रस्थितान्तःपुरकरिणीकदम्बके, हयारोहाहूयमानलम्बितशुनि, सरभसचरणनिपतननिश्चलगमनसुखायमानखक्खटस्तूयमानतुङ्गतङ्गणगुणे, स्रस्तवेसरविसंवादिसीदद्दाक्षिणात्यसादिनि, रोजजग्धजगति प्रयाणसमये, प्रतिदिशमागच्छद्भिर्गजवधूसमारूढैराधोरणैरूर्ध्वध्रियमाणहेमपत्रभङ्गशारशार्ङ्गैः, अन्तरासनासीनान्तरङ्गगृहीतासिभिः, ताम्बूलिकविधूयमानचामरपल्लवैः, पश्चिमासनिकार्पितभस्त्राभरणभिन्दिपालपूलिङ्कैः, पत्रलताकुटिलकलधौतनलकपल्लवितपर्याणैः, पर्याणपक्षकपरिक्षेपपट्टिकाबन्धनिश्चलपट्टोपधानस्थिरावधानैः, प्रचलपादफलिकास्फालनस्फायमानपदबन्धमणिशिलाशब्दैः, उच्चित्रनेत्रसुकुमारस्वस्थानस्थगितजङ्घाकाण्डैश्च कार्दमिकपटकल्माषितपिशङ्गपिङ्गैः, अलिनीलमसृणसतुलासमुत्पादितसितासमायोगपरभागैश्चावदातदेहवणर्विराजमानराजावर्तमेचकैः, कञ्चुकैश्चापचितचीनचोलकैश्च तारमुक्तास्तबकितस्तवरकवारबाणैश्च नानाकषायकर्बुरकूपसिकैश्य शुकपिच्छच्छायाच्छादनकैश्च व्यायामोल्लुप्तपार्श्वप्रविष्टचारुशस्त्रश्च गतिवशवेल्लितहारलतागलल्लोलकुण्डलोन्मोचनप्रधावितपरिजनैः, चामीकरपत्राङ्कुरकर्णपूरकविघट्टमानवाचालवालपाशैश्चोष्णीषपट्टावष्टब्धकर्णोत्पलनालैश्च कुङ्कुमरागकोमलोत्तरीयान्तरितोत्तमाह्गैश्च चूडामणिखण्डखचितक्षौमचोलैश्य मायूरातपत्रायमाणशेखरषट्पदपटलैश्च मार्गागतशारिकशारिवाहवेगदण्डैः, पुनश्चञ्चच्चामरकिर्मीरकार्दरङ्गचर्ममण्डलमण्डनोड्डीयमानचटुलडामरचारभटभरितभुवनान्तरैः, आस्कन्दत्काम्बोजवाजिशतशिञ्जानजातरूपायानरवमुखरितदिङ्मुखैश्च निर्दयप्रहतलम्बापटहशतपटुरवबधिरीकृतश्रवणविवरैः, उद्घोष्यमाणनामभिः, उन्मुखपादातप्रतिपाल्यमानाज्ञापातै राजभिरापुपूरे राजद्वारम् । उदिते च भगवति दिनकृति राज्ञः समायोगग्रहणसमयशंसी सस्वान संज्ञाशङ्खो मुहुर्मुहुः । अथ न चिरादिव प्रथमप्रयाण एव दिग्विजयाय दिग्गजसमागममिव गमनविलोलकर्णतालदोलाविलासैः कुर्वाणया करेणुकया सिद्धयात्रयोह्यमानः, वैदूर्यदण्डविकटेनोपरि प्रत्युप्तपझरागखण्डमयूखखचिततया सूर्योदयदर्शनकोपादिव लोहितायतया ध्रियमाणेन मङ्गलातपत्रेण कदलीगर्भाभ्यधिकम्रदिम्ना नवनेत्रनिर्मितेन द्वितीय इव भोगिनामधिपतिरङ्गलग्नेन कञ्चुकेनामृतमथनदिवस इव क्षीरोदफेनपटलधवलाम्बरवाही, बाल एव पारिजातपादप इवाखण्डलभूमिमारूढः, विधूयमानचामरमरुद्विधूतकर्णपूरकुसुममञ्जरीरजसा सकलभुवनवशीकरणचूर्णेनेवदिशश्छुरयन्नभिमुखचूडामणिघटमानपाटलप्रतिबिम्बमुदयमानं सवितारमपि पिबन्निव तेजसा बहलताम्बूलसिन्दूरच्छुरितया विलभमान इव द्वीपान्तराण्योष्ठमुद्रयानुरागस्य स्फुरन्महाहारमरीचिचक्रवालानि चामराणीव दिशोऽपि ग्राहयन्, राजकेक्षणोत्क्षिप्तत्रिभागया त्रीनपि लोकान् करदानायाज्ञापयन्निव सविभ्रमं भ्रूलतया द्राघीयसा बाहुप्राकारेण परिक्षिपन्निव रिरक्षया सप्तापि सागरमहाखातानखिलमिव क्षोरोदमाधुर्यमादायोद्गतया लक्ष्म्या समुपगूढः, गाढममृतमय इव पीयमानः कुतूहलोत्तानकटकलोकलोचनसहस्रऐः स्नेहार्द्रेषु राज्ञां हृदयेषु गुणगौरवेण मज्जन्निव, लिम्पन्निवसौभाग्यद्रवेण द्रष्टॄणाममरपतिरिवाग्रजवधकलह्कप्रक्षालनाकुलः, पृथुरिव पृथिवीपरिशोधनावधानसंकलितसकलमहीभृत्समुत्सारणः, पुरःसरैरालोककारकैः सहस्रसंख्यैरर्क इव किरणैरधिकारचातुर्यचञ्चलचरणैर्व्यवस्थास्थापननिष्ठुरैः भयपलायमानलोकोत्पीडान्तरिता दसापि दिशो ग्राहयद्भिरिव, चलितकदलिकासंपातपीतप्रचारं पवनमपि विनये स्थापयद्भिरिव, द्रुतचरणोद्धूतधूलिपटलावधूतान् दिनकरकिलणानप्युत्सारयद्भिरिव, कनकवेत्रलतालोकविक्षिप्यमाणं दिनमपि दूरीकुर्वद्भिरिव, दण्डिभिरितस्ततः समुत्सार्यमाणजनसमूहो निर्जगाम नरपतिः । अवनमति च विनयनमितवपुषि, भयचकितमनसि, चलनशिथिलमणिकनकमुकुटकिरणनिकरपरिकररुचिरशिरसि, विलुलितकुसुमशेखररजसि राजचक्रे, प्रभामुचां चूडामणीनामवाञ्चस्तिर्यञ्च उदञ्चश्च चञ्चन्तो मरीचयश्चापराशय इव सुशकुनसंपादनाय चेलुः । मेघायमानरेणुमेदुरं मन्दिरशिखण्डिन इव खमुड्डीयमानाः कोमलकल्पपादपपल्लववन्दनमालाः कलापा इवाबध्यन्त दिग्द्वारेषु दिक्पालैः । प्रणम्यमानश्च नेत्रविभागैश्चकटाक्षैश्च समग्रेक्षितैर्भ्रूवञ्चितैश्चार्धस्मितैश्च परिहासैश्च छेकालापैश्च कुशलप्रश्नैश्च प्रतिप्रणामैश्चोन्मत्तभ्रूवीक्षितैश्चाज्ञादानैश्चाक्रीणन्निव मानमयान् प्राणान् प्रणयदानैः प्रवीराणां वीरो यथानुरूपं विबभाज राजकम् । अथ प्रस्थिते राजनि बहलकलकलत्रस्तदिङ्नागशूत्काररव इवेतस्ततस्तस्तार तारतरस्तूर्याणां प्रतिध्वनिराशातटेषु । दिग्गजेभ्यः प्रकुपितानां त्रिप्रस्रुतानां करिणां मदप्रस्रवणवीथीभिरलिकुलकालीभिः कालिन्दीवेणिकासहस्राणीव सस्यन्दिरे । सिन्दूररेणुराशिभिररुणायमानबिम्बे रवावस्तमयसमयं शशङ्किरे शकुनयः । करिणां षट्पदकोलाहलमांसलैः कर्णतालनिःस्वनैस्तिरोदधिरे दुन्दुभिध्वनयः । दोधूयमानश्च सचराचरमाचचाम चामरसंघातो विश्वम् । अश्वीयश्वासनिक्षिप्तैः शिश्विन्दे सितसिन्धुवारदामशुचिभिर्निरन्तरमन्तरिक्षं फेनिपण्डैः । पिण्डीभूततगरस्तबकपाण्डुराणि पपुरिव परस्परसंघट्टनष्टाष्टदिशं दिवसमुच्चचामीकरदण्डान्यातपत्रवनानि । रजोरजनीनिमीलितो मुकुटमणिशिलावलीबालातपेन विचकास वासरः । राजतैर्हिरण्यैश्च मण्डनकभाण्डमण्डलैर्ह्रदमानैर्हिरतीकृताः परिह्रादा हरितो बधिरतां दधुः । अरिप्रतापानलनिर्मूलनायेव मदोष्मशीकरैः शिशेकिरे करिणः ककुभां चक्रम् । चक्षुषामुन्मेषं मुमुषुस्तडिच्चञ्चलानि चूडामणीनामर्चीषि । स्वयमपि विसिष्मिये बलानां भूपालः सर्वतोविक्षिप्तचक्षुश्चाद्राक्षीदावासस्थानसकाशात्प्रतिष्ठमानं स्वन्धावारम्, अधोक्षजकुक्षेरिव युगादौ निष्पतन्तं जीवलोकम्, अम्भोनिधिमिव कुम्भभुवो वदनात्प्लावितभुवनमुद्भवन्तम्, अर्जुनबाहुदण्डसहस्रसंपिण्डितोन्मुक्तमिव सहस्रधा प्रवर्तमानं प्रवाहं नर्मदायाः । "प्रसर तात । भाव, किं विलम्बसे? लङ्घति तुरङ्गमः । भद्र, भग्नचरण इव संचरसियावदमी पुरःसराः सरभसमुपरि पतन्ति । वाहयसि किमुष्ट्रम्? न पश्यसि निर्दय, निःशूकशिशुकं शयानम्? वत्स रामिल, रजसि यथा न नस्यसि तथा समीपे भव, किं न पश्यसि गलति शक्तुप्रसेवकः? किमेवमित्वर, त्वरसे । सौरभेय, सरणिमपहाय हयमध्यं धावसि? धीवरि, विशसि, गन्तुकामा मातह्गि, मातङ्गमार्गम् । अङ्ग, गलति तिरश्चीना चणकगोणी । गणयसि न मामारटन्तम्? अवटमतटेनावतरसि । सुखमास्स्व स्वैरिणि । सौवीरक, कुम्भो भग्नः । मन्थरक खादिष्यसि गतः सन्निक्षुम् । उक्षाणं प्रसादय । कियच्चिरमुच्चिनोषि चेट, बदराणि? दूरं गन्तव्यम् । किमद्यैव विद्रासि द्रोणक, द्राघीयसी दण्डयात्रा, विनैकेन निष्ठुरकेण निष्क्रेयमस्माकम् । अग्रतः पन्थाः स्थपुटक, स्थावर, यथा न भनक्षि फणितस्थालीं, गरीयान् गण्डकतण्डुलभारको न निर्वहति दम्यः । दासक, माषीणाममुतो द्राग्दात्रेण मुखघासपूलकं लुनीहि । को जानाति यवसगतं गतानाम् । धव, वारय बलीवर्दान्, वाहीकरक्षितं क्षेत्रमिदम् । लम्बिता शकटी । शाक्करं धुरन्धरं धुरि धवलं नियुङ्क्ष्व । यक्षपालित, प्रमदाः पिनक्षि । अक्षिणी किं ते स्फुटिते । हत हस्तिपक, नेदीयसि करिकरदण्डे समदःसंमर्दकर्दमे स्खलसि । भ्रातर्भावविधुरबन्धो, उद्धर पङ्कादनड्वाहम् । इत एहि माणवक, घनेभघटासंघट्टसंकटे नास्ति निस्तरणसरणिःऽ । इत्येवमादिप्रवर्तमानानेकसंलापं व्कचित्स्वेच्छामृदितोद्दामसस्यघासविघससुखसंपन्नान्नपुष्टैः केलिकलैः किलकिलायमानैर्मेण्ठवण्ठवठरलम्बनलेशिकलुण्ठकचेटशाटचण्डालमण्डलैराण्डीरैः स्तूयमानम्, व्कविदसहायैः क्लेशार्जितकुग्रामकुटुम्बिसंपादितसीदत्सौरभेयशम्बलसंवाहनायासावेगागतसंयोगैः स्वयं गृहीतगृहोपस्करणैः "इयमेका कथञ्चिद्दण्डयात्रा यातु । यातु पातालतलं तृष्ण भूतेरभवनिः । भवतु शिवम् । सेवां करोतु । स्वस्ति सर्वदुःखकूटाय कटकायऽ इति दुर्विधवृद्धकुलपुत्रकैर्निन्द्यमानम्, व्कचिदतितीक्ष्णसलिलस्रोतःपातिनौगतैरिव ग्रथितैरिव पङ्क्तिभूतैर्जनैरतिद्रुतम्, द्रवद्भिः कृष्णकठिनस्कन्धगुरुलगुडैर्गृहीतसौवर्णपादपीठीकरह्ककलशपतद्ग्रहावग्राहैः प्रत्यासन्नपार्थिवोपकरणग्रहणगर्वदुर्वारैः सवंमेव बहिः कारयद्भिर्भूपतिभृतकभारिकैर्महानसोपकरणवाहिभिश्च बद्धवराहवर्ध्रवार्धीणसैर्लम्बमानहरिणचटुकचटकजूटजटि लैः शिशुशशकशाकपत्रवेत्राग्रसंग्रहसंग्राहिभिः शुक्लकर्पटप्रावृतमुखैकदेशदतार्द्रमुद्रागुप्तगोरसभण्डैस्तलकतापकतापिकाहस्तकताम्रचरुककटाहसंकटपिटकभारिकैः समुत्सार्यमाणपुरोवर्तिजनम्, व्कचित्"क्लोशोऽस्माकम् । फलकालेऽन्य एव विटाः समुपस्थास्यन्तेऽ इति मुखरैः पदे पदे पततां दुर्बलबलीवर्दानां नियुक्तैः स्खलने खलचेटकेः खेद्यमानांसंविभक्तकुलपुत्रलोकम्, क्वचिन्नरपतिदर्शनकुतूहलादुभयतः प्रजवितप्रधावितग्रामेयकजनपदम्, मार्गग्रामनिर्गतैराग्रहारिकजाल्मैश्च पुरःसरजरन्महत्तरोत्तम्भिताम्भःकुम्भैरुपायनीकृतदधिगुडखण्डकुसुमकरण्डकैर्घटितपेटकैः सरभसं समुत्सर्पद्भिः प्रकुपितप्रचण्जदण्जिवित्रासनविद्रुतैर्दूरगतैरपि स्खलद्भिरपि पतद्भिरपि नरेन्द्रनिहितदृष्टिभिरसतोऽपि पूर्वभोगपतिदोषानुद्भावयद्भिरधिक्रान्तायुक्तकशतानि च शंसद्भिश्चिरन्तनचाटापराधाश्चाभिदधानैरुद्धूयमानधूलिपटलम्, क्वचिदेकान्तप्रवृत्ताश्ववारचक्रचर्व्यमाणागामिगौडविमृग्यमाणसस्यसंरक्षणम्, अपरैरादिष्टपरिपालकपुरुषपरितुष्टैः "धर्मःप्रत्यक्षो देवःऽ इति स्तुतीरातन्घद्बिः, अपरैर्लूयमाननिष्पन्नसस्यप्रकटितविषादैः क्षेत्रशुचा सकुटुम्बकैरेव निर्गतैः प्ररूढप्राणच्छेदैः परितापत्याजितभयैः "व्क राजा, कुतो राजा? को दृशो वा राजा?ऽ इति प्रारब्धनरनाथनिन्दम्, शशकैश्च कैश्चित्पदे पदे प्रजविप्रचम्डदण्डपाणिपेटकानुबद्धैर्गिरिगुडकैरिव हन्यमानैरितस्ततः संचरद्भिः, अपरैर्युगपत्परापतितमहाजनग्रस्तैस्तिलशो विलुप्यमानैरनेकजन्तुजह्घान्तरालनिःसरणकुशलिभिः कुटिलिकाव्यंसितसादिबहुश्वभिः पतल्लोष्टलगुडकोणकुठारकील कुद्दाल्खनित्रदात्रयष्टिवृष्टिभिरपि निःसरद्भिरायुषो बलात्कृतकलकलम्, अन्यत्र संघशो घासिकैर्बुसधूलिधूसरितघासजालजालकितजघनैश्च पुराणपर्याणैकदेशदोलायमानदात्रैश्च सीर्णोर्णाशकलशिथिलमलिनमलकुथैश्च प्रभुप्रसादीकृतपाटितपटच्चरचलच्चोलकधारिभिश्च दावमानैरुद्धूयमानधूलिपटलम्, व्कचिदेकान्तप्रवृत्तास्ववारचक्रचर्च्यमानागामिगौडविग्रहम्, व्कचित्पङ्कितप्रदेशपूरणादेशाकुलसकललोकलूयमानतृणपूलकम्, व्कचित्तलवर्तिवेत्रिवेत्रवित्रास्यमानशाखिशिखरगतविक्रोशाद्विवादिब्राह्नणम्, व्कचित्कुलुण्ठकपाशविवेष्ट्यमानग्रामीणग्रामाकृष्टकौलेयकम्, व्कचिदन्योन्यविभवस्पर्थोद्धुरराजपुत्रवाह्यमानवाजिसंघट्टमण्डितम्, अनेकवृत्तान्ततया कौतुकजननम्, प्रलयजलधिमिव जगद्ग्रासग्रहणाय प्रवृत्तम्, पातालमिव मह्राभोगिनां गुप्तये समुत्पादितम्, कैलासमिव परमेश्वरवसतये सृष्टम्, दृस्यमानसकलप्राणिपर्यायं चतुर्युगसर्गकोशमिव प्रजापतीनां क्लेशबहुलमपि तपःकरणमित्र क्रमकारिणं कल्याणानाम्, एवं च वीक्ष्यमाणः कटकं जगांम । आसन्नवर्तिनां च "तत्रभवता मान्धात्रा प्रवर्तिताः पन्थानो दिग्विजयाय । अप्रतिहतरथरंहसा रघुणा लघुनैव कालेनाकारि ककुभां प्रसादनम् । शरासनद्वितीयः करदीचकार चक्रं क्रमागतभुजबलाभिजनधनमदावलिप्तानां भूभुजां पाण्डुः । पाण्डवः सव्यसाची जीनविषयमतिक्रम्यराजसूयसंपदे क्रुध्यद्गन्धर्वधनुष्कोटिटाङ्कारकूजितकुञ्जं हेमकूटपर्वतं पराजैष्ट । संकल्पान्तरितो विजयस्तरस्विनाम् । सहिमहिमवद्व्यवहितोऽप्युवाह बाहुबलव्यतिकरकातरः करं कौरवेश्वरस्य किङ्कर इवाकृती द्रुमः । नातिजिगीषवः खलु पूर्वे येनाल्प एव भूभागे भूयांसो भगदत्तदन्तवक्रक्राथकर्णकौ रवशिशुपालसाल्वजरासंधसिन्धुराजप्रभृतयोऽभवन् भूपतयः । संतुष्टो राजा युधिष्ठिरो यो ह्यसहत समीप एव धनञ्जयजयजनितजगत्कम्पः किंपुरुषाणां राज्यम् । अलसश्चण्डकोशो यो न प्राविक्षत्क्ष्मां जित्वा स्त्रीराज्यम् । ह्रसीय एवान्तरं तुषारगिरिगन्धमादनयोः उत्साहिनः । किष्कुः तुरुष्कविषयः । प्रादेशः पारसीकदेशः । शशपदं शकश्थानम् । अदृश्यमानप्रतिहारे पारियात्रे यात्रैव शिथिला । शौर्यशुल्कः सुलभो दक्षिणापथः । दक्षिणार्णवकल्लोलानिलचलितचन्दनलतासौरभसुन्दरीकृतदरीमन्दिराद्दर्दुरादद्रेर्नेदीयसि मलयो मलयलग्न एव च महेन्द्रःऽ । इत्येवंप्रायानुद्योगद्योतकानामालापान् पार्थिवकुमाराणां बाहुशालिनां शृण्वन्नेवाससादावासम् । मन्दिरद्वारि चोभयतः सबहुमानं ब्रूलताभ्यां विसर्जितराजलोकः प्रविश्य चावततार बाह्यास्थानमण्डपस्थापितमासनमाचक्राम । अपास्तसमायोगश्च क्षणमासिष्ट । अथ तत्र प्रतीहारः पृथिवीपृष्ठप्रतिष्ठापितपाणिपल्लवो विज्ञापितवान्--"देव! प्राग्ज्योतिषेश्वरेण कुमारेण प्रहितो हंसवेगनामा दूतोऽन्तरङ्गस्तोरणमध्यास्तेऽ इति । राजा तु "तमाशु प्रवेशयऽ इति सादरमादिदेश । अथ दक्षतया क्षितिपालादराच्च प्रतीहारः स्वयमेव निरगात् । अनन्तरं च हंसवेगः सविनयमाकृत्यैव नयनानन्दसंपादनसुभगाभोगभद्रतया समुल्लङ्घ्यमानगुणगरिमा प्रभूतप्राभृतभृतां पुरुषाणां समूहेन महतानुगम्यमानः प्रविवेश राजमन्दिरम् । आरादेव पञ्चाह्गालिङ्गिताङ्गनः प्रणाममकरोत् । "एह्येहिऽ इति सबहुमानमाहूतश्च प्रदावितोऽपसृतः पादपीठलुठितललाटलेखो न्यस्तहस्तः पृष्ठे पार्थिवेनोपसृत्य भूयो नमश्चक्रे । स्निग्धनरेन्दरदृष्ट्या निर्दिष्टमविप्रकृष्टं स प्रदेशमध्यास्ते । ततो राजा तिरश्चीं तनुमीषदिव दधानश्चामरग्राहिणीमन्तरालवर्तिनीं समुत्सार्य संमुखीनस्तं सप्रश्रयं पप्रच्छ--"हंसवेग! श्रीमान्कच्चित्कुशली कुमारः?ऽ इति । स तमन्ववादीत्--"अद्य कुशली येनैवं स्नेहस्नपितया सौहार्दद्रवार्द्रया सगौरवं गिरा पृच्छति देवःऽ इति । स्थित्वा च मुहूर्त्तमिव पुनः स चतुरमुवाच--"चतुरम्भोधिभोगभूतिभाजनभूतस्य देवस्य सद्भावगर्भमपहाय हृदयमेकमन्यदनुरूपं प्राभृतमेव दुर्लभं लोके तथाप्यस्मत्स्वामिना संदेशमशून्यतां नयता पूर्वजोपार्जितं वारुणातपत्रमाभोगाख्यमनुरूपस्थानन्यासेन कृतार्थीकृतमेतत् । अस्य च कुतूहलकृन्ति बहून्याश्चर्याणि दृस्यन्ते । तथा हि--प्रतिदिवसं प्रविशति शैत्यहेतोश्छायायाः किरणसहस्रादेकैकः सोमस्य रश्मिरस्मिन् । यस्मिन्प्रविष्टे प्रध्यानानन्तरं स्वादवो दन्तवीणोपदेशाचार्याश्च्योतन्तिचन्द्रभासामम्भसां मणिशलाकाभ्यो यावदिच्छमच्छा धाराः । प्रचेता इव यश्चतुर्णामर्णवानामधिपतिर्भूतो भावी वा तमिदमनुगृह्णाति च्छायया नेतरम् । इदं च न सप्तार्चिर्दहति, न पृषदश्वो हरति, नोदकमार्द्रयति, न रजांसि मलिनयन्ति, न जरा जर्जरयतीति । एतत्तावदनुगृह्णातु दृशा देवः संदेशमपि विस्रब्धं श्रोष्यतिऽ । इत्येवमभिधाय विवृत्यात्मीयं पुरुषमभ्यधात्--"उत्तिष्ठ! दर्शय देवस्यऽ इति । स च वचनानन्तरमुत्थाय पुमानूर्ध्वीचकार तद्धौतदुकूलकल्पिताच्च निचोलकादकोषीत् । आकृष्यमाण एव च यस्मिन्नतिसितमहसि सरभसमहासीव हरेण, रसातलादुदलासीव शेषफणिफणाफलकमण्डलेन, अस्थायीव चक्रीभूयान्तरिक्षे क्षीरोदेन, अघटीव गगनाङ्गने गीष्ठीबन्धः शारदेन बलाहकव्यहैन, विश्रान्तमिव विततपक्षतिना वियति पातामहविमानहंसयूथेन, अत्रिनेत्रनिर्गतस्य धवलधाममण्डलमनोहरो दृष्ट इव जनेन जन्मदिवसः कुमुदबन्धोः प्रत्यक्षीकृत इवोद्गमनक्षणो नारायणनाबिपुण्डरीकस्य, आहितेव कीमुदीप्रदोषदर्शनानन्दतृप्तिरक्ष्णाम्, उदमाङ्क्षीदिव मन्दाकिनीपुलिनमण्डलं महदम्बरोदरे, परिवर्तित इव दिवसः पौर्णमासीनिशया, मन्दंमन्दमिन्दूदयसंदेहदूयमानमानसैर्विघटितं घटमानचञ्चुच्युतमृणालकोटिभिरासन्नकमलिनीचक्रवाकमिथुनैः, शरज्जलधरपटलाशङ्कासंकोचितकेकारवमूकमुखपुटैः पराङ्मुखीभूतं भवनशिखण्डिमण्डलैः, प्रबुद्धमाबद्धचन्द्रानन्दोद्दामोद्दलद्दलपुटाट्टहासविशदं कुमुदषण्डैः । चित्रीयमाणचेताश्च सराजको राजा दण्डानुसाराधिरोहिण्या दृष्ट्या सादरमैक्षिष्ट तत्तिंलकमिव त्रिभुवनस्य, शैशवमिव श्वेतद्वीपस्य, अंशावतारमिव शरदिन्दोः, हृदयमिव धर्मस्य, निवेशमिव शशिलोकस्य, दन्तमडलकद्युतिधवलं मुखमिव चक्रवर्तित्वस्य, मौक्तिकजालपरिकरसितं सीमन्तचक्रमिव दिवः, बहलज्योत्स्नाशुक्लोदरमैन्दवमिव परिवेषवलयं शौक्ल्यापहसितशङ्खश्रीकं श्रवणमण्डलमिव निश्चलतां गतमैरावतस्य, श्वेतगङ्गावर्तपाण्डुरं पदमिव त्रिभुवनवन्दनीयं त्रिविक्रमस्य, प्रचेतसश्चूडामणिमरीचिशिखाभिरिव श्लिष्ठाभिर्मानसबिसतन्तुमयीभिश्चामरिकावलीभिर्विरचितपरिवेषम्, उपरि चक्रवर्तिलक्ष्मीनूपुरस्वनश्रवणदोहदनिश्चलेनेव लक्ष्मणा विततपत्रेण हंसेन सनाथीकृतशिखरम्, स्पर्शवता च प्रभावस्तम्भितेन मन्दाकिनीमृणालेन मुकुलितफणेन वासुकिनेव नीतेन दण्डतां द्योतमानम्, धवलिम्ना क्षालयदिव नक्षत्रपथम्, प्रबाप्रवाहप्रथिम्ना प्रावृण्वदिव दिवसम्, समुच्छ्रायेणाधःकुर्वदिव दिवम्, उपरिस्थितमिव सर्वमङ्गलानाम्, श्वेतमण्डपमिव श्रियःष स्तबकमिव ब्रह्नस्तम्बस्य, नाभिमण्डलमिव ज्योत्स्नायाः, विशदहासमिव कीर्तेः, फेनराशिमिंव खड्गधाराजलानाम्, यशः पटलमिव शौर्यशालितायाः, त्रैलौक्याद्भुतं महच्छत्रम् । दृष्टे तस्मिन् राज्ञा प्रथमे शेषमपि प्राभृतं प्रकाशयाञ्चक्रुः क्रमेण कार्माः । तद्यथा परार्ध्यरत्नांशुशोणीकृतदिग्भागान्, भगदत्तप्रभृतिख्यातपार्थिवपरागतानाहतलक्षणानलङ्कारान्, प्रबालेपिनां च चूडामणीनां समुत्कर्षान्, क्षीरोदधेर्धवलताहेतूनिव हारान्, अनेकरागरुचिरवेत्रकरण्डकुण्डलीकृतानि शरच्चन्द्रमरीचिरुञ्चि शौचक्षमाणि क्षौमाणि, कुशलशिल्पिलोकोल्लिखितानां च शुक्तिशङ्खगल्वर्कप्रमुखानां पानबाजनानां निचयान्, निचोलकरक्षितरुचां च रुचिरकाञ्चनपत्रभङ्गभङ्गुराणामतिबन्धुरपरिवेशानां कार्दरङ्गचर्मणां संभारान्, भूर्जत्वक्कोमलाः स्पर्शवतीर्जातीपट्टिकाः, चित्रपटानां च म्रदीयसां समूरुकोपधानादीन् विकारान्, प्रियङ्गुप्रसवपिङ्गलत्वञ्चि चासनानि वेत्रमयान्यगुरुवल्कलकल्पितसञ्चयानि च सुभाषितभाञ्जि पुस्तकानि, परिणतपाटलपटोलत्विंषि च तरुणहारीतहरिन्ति क्षीरक्षारीणि च पूगानां पल्लववलम्बीनि सरसानि फलानि, सहकारलतारकानां च कृष्णागुरुतैलस्य च कुपितकपिकपोलकपिलकापोतिकापलाशकोशीकवचिताङ्गीः स्थवीयसीर्वैणवीर्नाडोश्च पट्टसूत्रप्रसेवकार्पितांश्च भिन्नाञ्जनवर्णस्य कृष्णागुरुणो गुरुपरितापमुषश्च गोशीर्षचन्दनस्य, तुषारशिलाशकलशिशिरस्वच्छसितस्य च कर्पूरस्य, कस्तूरिकाकोशकानां च पक्कफलजूटजटिलानां च कक्कोलपल्लवानाम्, लवङ्गपुष्पमञ्जरीणां जातीफलस्तबकानां च राशीन्, अतिमधुरमधुरसामोदनिर्हारिणीश्वोल्लककलशीः सितासितस्य च चामरजातस्य निचयान्, अवलम्बमानतूलिकालाबुकांस्च लिखितानेकलेख्यफलकसंपुटान्, कुतूहलकृन्ति च कनकशृङ्खलानियमितग्रीवाणां किंन्नराणां च वनमानुषाणां च जीवञ्जीवकानां च जलमानुषाणां च मिथुनानि, परिमलामोदितककुभश्च कस्तूरिकाकुरङ्गान्, गेहपरिसरणपरिचिताश्च चमरीः चामीकररसचित्रवेत्रपञ्जरान्तर्गतांश्च बहुसुभाषितजल्पाकजिह्वांश्च सुकशारिकाप्रभृतीन्पक्षिणः प्रवालपञ्जरगतांश्च चकोरान् जलहस्तिनामुदग्रकुम्भमुक्ताफलदामदन्तुराणि च दन्तकाण्डकुण्डलानि । राजा तु छत्रदर्शनात्प्रहृष्टहृदयः प्रथमप्रयाणे शोभननिमितमिति मनसा जग्राह । हंसवेगं च प्रीयमाणो बभाषे--"भद्र! सकलरत्नधाम्नः परमेस्वरशिरोधारणार्हस्यास्य महातपत्रस्य महार्णवादिव कुमुदबान्धवस्य कुमाराल्लाभो न विस्माय । बालविद्याः खलु महतामुपकृतयःऽ इति । अपनीते च तस्मात्प्रदेशात्प्राभृतसंभारे क्षणमिव स्थित्वा "हंसवेग! विश्रम्यताम्ऽ इति प्रतीहारभवनं विसर्जयांबभूव । स्वयमप्युत्थाय स्नात्वा मड्गलाकाङ्क्षी प्राङ्मुखः प्राविशदाभोगस्य छायाम् । अथ विशत एवास्य छायाजन्मना जडिम्ना चूढामणितामनीयतेव शशिबिम्बमम्बुबिन्दुमुचश्चुचुम्बुरिव चन्द्रकान्तमणयो ललाटतटं कर्पूररेणव इव व्यलीयन्त लोचनयूगले गले गलत्तुहिनकणनिकरकृतनीहारा हारा इवावबध्यन्त हरिचन्दनरसासारेणेवापाति संततमुरसि कुमुदमयमिव हृदयमभवदतिशिशिरमन्तर्हितहिमशिलेव विलीयमाना व्यलिम्पदङ्गानि । जातविस्मयश्चाकरोन्मनसि "एकमजर्यं संगतमपहाय कास्त्यान्या प्रतिकौशलिकेऽति । आहारकाले च हसवेगाय धवलकर्पटप्रावृतधौतनालिकेरपरिगृहीतं विलिप्तशेषं चन्दनमह्गस्पृष्टे च वाससी शरत्तारकाकारतारमुक्तास्तबकितपदं परिवेशं नाम कटिसूत्रकमतिमहार्हपझरागालोकलोहितीकृतदिवसं च तरङ्गकं नाम कर्णाभरणं प्रबूतं च भोज्यजातं प्राहिणोत् । एवंप्रायेण च क्रमेण जगाम दिवसः । ततः कटकस्थलबलबहलधूलिधूसरितवपुरंशुमाली मलीमसमङ्गमिवक्षालयितुमपरजलनिधिमवातरत् । आभोगातपत्रप्रदानवार्तामिव निवेदयितुं वरुणाय वारुणीं दिशमयासीत् । मुकुलायमानसकलकमलवना प्रमुख एव बद्धसेवाञ्जलिपुटेव सद्वीपा भूरभूद्भूपतेः । भूपालानुरागम्य इव निखिलजीवलोकलोकाञ्जलिबद्धबन्दुर्जगज्जग्राह संध्यारागः । गौडापराधशङ्किनीव श्यामतां प्रपेदे दिक्प्राची । प्रचिततिमिरनिवहा निर्वाणान्यनृपप्रतापानलकलापेव कालिमानमतानीन्मेदिनी । मेदिनीशप्रधोषास्थानपुष्पनिकरमिव विकचतगररुचिरमवचकरुरुडुनिकरमविरलं ककुभः । स्कन्धावारगन्धगजमदामोदधावितस्येव मार्गो वियति विरराज रजःपाण्डुरैरावतस्य । कुपितनृपव्याघ्राघ्रातामुपसृष्टामिव पौरुष्टुतीं विहाय विहायस्तलमारुरोह रोहिणीरमणः । प्रयाणवार्ता इव मानिनीनां हृदयभेदिन्यो ययुरिन्दुदीधितयो दश दिशः । नवनृपदण्डयात्रात्रासातुरा इव तरलितसत्त्ववृत्तयश्चुक्षुभुः पतयो वाहिनीनाम् । चिन्तेव भूभृतां हृदयानि विवेश गुहाविवराणि विमुक्तसर्वाशातिमिरसंततिः । प्रतिसामन्तचक्षुषामिव ननाश निद्रा कुमुदवनानाम् । अस्यां च वेलायां विततवितानतलवर्ती नरेन्द्रो "यात तावत्ऽ इति विसर्ज्यानुजीविनो हंसवेगमादिष्टवान्--"कथय संदेशम्ऽ इति । प्रणम्य स कथयितुं प्रास्तावीत्--"देव! पुरा महावराहसंपर्कसंभूतगर्भया भगवत्या भुवा नरको नाम सूनुरसावि रसातले । वीरस्य सयस्याभवन्भाल्य एव पादप्रणामप्रणयिनश्चूडामणयो लोकपालानाम् । यस्य च त्रिभुवनभुजो भुजशौण्डस्य भवनकमलिनीचक्रवाकीकोपकुटिलकटाक्षेक्षितोऽपि भयचकितारुणपरिवर्तितरथो नाज्ञया विना रविरस्तमव्राजीत् । यश्च वरुणस्य बहिर्वृत्ति हृदयमिदमातपत्रमहार्षीत् । महात्मनस्तस्यान्वये भगदत्तपुष्पदत्तवज्रदत्तप्रभृतिषु व्यतीतेषु बहुषु मेरूपमेषु महत्सु महीपालेषु प्रमौत्रो महाराजभूतिवर्मणः पौत्रश्चन्द्रमुखवर्मणः पुत्रो देवस्य कैलासस्थिरस्थितेः स्थितिवर्मणः सुस्थिरवर्मा नाम महाराजाधिराजो जज्ञे तेजसां राशिर्मृगाङ्क इति यं जना जगुः । योऽयमग्रजेनेवाजायत सहैवाहङ्कारेण । यश्च बाल एव प्रीत्या द्विजातीनप्रीत्या चारातीन्समग्रान्प्रतिग्रहानग्राहयत् । यत्र चातिदुर्लभं लवणालयसंभूतायाः परं माधुर्यमभूल्लक्ष्म्याः । तथा च यो वाहिनीनाथानां शङ्खाञ्जहार न रत्नानि, पृथिव्याः स्थैर्यं जग्राह न करम्, अवनिभृतां गौरवमादत्त न नैष्ठुर्यम् । तस्य च सुगृहीतनाम्नो देवस्य देव्यां श्यामादेव्यां भास्करद्युतिर्भास्करवर्मापरनामा तनयः संतनोर्बागीरथ्यां भीष्म इव कुमारः समभवत् । अयमस्य च शैशवादारब्य संकल्पः स्थेयान्स्थाणुपादारविन्दद्वयादृते नाहमन्यं नमस्कुर्यामितिरिदृशश्चायं मनोरथस्त्रिभुवनदुर्लभस्त्रयाणामन्यतमेन संपद्यते सकलबुवनविजयेन वा मृत्युना वा यदि वा प्रजण्डप्रतापज्वलनजनितदिग्दाहेन जगत्येकवीरेण देवोपमेन मित्रेण । मैत्री च प्रायः कार्यव्यपेक्षिणी क्षेणीभृताम् । कार्यं च कीदृशं नाम तद्भवेद्यदुपन्यस्यमानमुपनयेन्मित्रतां देवम् । देवस्य हि यशांसि सञ्चिचीषतो बहिरङ्गभूतानि धनानि । बाहावेव च केवले निषण्णस्य शेषावयवानामपि साहायकसंपादनमनोरथो निरवकाशः किमुत बाह्यजनस्य । चतुःसागरग्रामग्रहणघस्मरस्य पृथिव्येकदेशदानोपन्यासेनापि का तुष्टिः । अभिरूपकन्याविश्राणनविलोभनमपि लक्ष्मीमुखारविन्ददर्शनदुर्ललितदृष्टेरकिञ्चित्करम् । एवमघटमानसकलोपायसंपादितपदार्थेऽस्मिन्प्रार्थनामात्रकमेव केवलमनुरुध्यमानः शृणोतु देवः । प्राग्ज्योतिषेस्वरो हि देवेन सहैकपिङ्ग इवानह्गद्विषा, दशरथ इव गोत्रभिदा, धनञ्जय इव पुष्कराक्षेण, वकर्तन इव दुर्योधनेन, मलयानिल इव माधवेन, अजर्यं संगतमिच्छति । यदि च देवस्यापि मैत्रीयति हृदयमवगच्छति च पर्यायान्तरितं दास्यमनुतिष्ठन्ति सुहृद इति ततः किमास्यते समाज्ञाप्यतामनुभवतु विष्णोर्मन्दरगिरिरिव विकटकेयूरकोटिमणिविघट्टनव्कणितकटकमणिशिलाशकलानि गाढोपगूढानि देवस्य कामरूपाधिपतिः । अस्मिन्नातृप्तेरनवरतविमललावण्यसौभाग्यसुधानिर्झरिणि मुखशशिनि चिराच्चक्षुषी लालयतु प्राग्ज्योतिषेश्वरश्रीः । नाभिनन्दति चेद्देवः प्रणयमाज्ञापयतु किं कथनीयं मया स्वामिनऽ इति । विरतवचसि तस्मिन्भूपालः पूर्वोपलब्धैरेव गुरुभिर्गुणैरारोपितबहुमानः कुमारे सुदूरमाभोगातपत्रव्यतिकरेण तु परां कोटिमारोपिते प्रेम्णि लज्जमान इव सादरं जगाद--"हंसवेग! कथमिव तादृशि महात्मनि महाभिजने पुण्यराशौ गुणीनां प्राग्रहरे परोक्षसुहृदि स्निह्यति मद्विधस्यान्यथा स्वप्नेऽपि प्रवर्तेत मनः । सकलजगदुत्तापनपटवोऽपि शिशिरायन्ते त्रिबुवननयनानन्दकरे कमलाकरे करास्तिग्मतेजसः. सुबहुगुणक्रीतास्च के वयं सख्यस्य । सज्जनमाधुर्याणामभृतदास्यो दश दिशः । एकान्तावदातोत्तानस्वभावसंभृतसादृश्यस्य कुमुदस्य कृते केनाभिहितः शिशिररश्मिः । श्रेयांश्च संकल्पः कुमारस्य स्वयं बाहुशाली मयि च समालम्बितशरासने सुहृदि हरादृते कमन्यं नमस्यति । संवर्धिता मे प्रीतिरमुना संकल्पेन । अवलेपिनि पशावपि केसरिणि बहुमानो हृदयस्य किं पुनः सुहृदि । तत्तथा यतेषाः यथा न चिरमियमस्मान्क्लेशयति कुमारदर्शनोत्कण्ठाऽ इति । हंसवेगस्तु विज्ञापयांबभूव--"देव! किमपरमिदानीं क्लेशयत्यभिजातमभिहितं देवेव । सेवाभीरवो हि सन्तः, तत्रापि विशेषेणायमहङ्कारधनो वैष्णवो वंशः । आस्तां तावदस्मत्स्वामिवंशः । पश्यतु देवः पुरुषस्य हि सेवां प्रति दुर्जनन्येवातिवृद्धया दुर्गत्या वाभिमुखीक्रियमाणस्य, कुटुम्बिन्येवासंतुष्टया तृष्णया वा प्रेर्यमाणस्य, दुरपत्यैरिव यौवनजनितैर्नानाभिलाषिभिरसत्संकल्पैर्वाकुलीक्रियमाणस्य, जरत्कुमारीमिव परमार्गणयोग्यामतिमहतीं वा अवस्थां पश्यतः, स्तगृहे दुर्बन्धुभिरिव दुःस्थितैः समग्रैर्ग्रहैर्वा ग्राह्यमाणस्याभियोगं, पुरातनैरतिदुस्त्यजैर्भृत्यैरिव मलिनैः कर्मभिर्वानुवर्त्यमानस्य, सकलशरीरसंतापकरं करीषाग्निमिव दुष्कृतिनः कृतचित्त्स्य संप्रवेष्टुं राजकुलमुपहतसकलेन्द्रियशक्तेरिव मिथ्यैव हृदयगतविषयग्रामग्रहणाभिलाषस्य, प्रथममेव तोरणतले वन्तनमालाकिसलयस्येव शुष्यतो द्वाररक्षिभिर्निरुद्धस्य, पीडितस्य प्रविशतो द्वारे हरिणस्येवापरैर्हन्यमानस्य, करिकर्मचर्मपुटस्येव मुहुर्मुहुः प्रतिहारमण्डलकरप्रहारैर्निरस्यमानस्य, निधिपादपप्ररोहस्येव द्रविणाबिलाषादधोमुखीभवतः, दूरममार्गणस्याप्यतिविप्रकृष्टविवृतविसर्जितस्योद्वेगं व्रजतः, अकण्टकस्यापि चरणतललग्नस्याकृष्य क्षेपीयः क्षिप्यमाणस्य, अमकरकेतोरप्यकालोपसर्पणाप्रकुपितेश्वरदृष्टिदग्धस्य, प्रलयमुपगच्छतः कपेरिव कोपनिर्भर्त्सितस्याप्यभिन्नमुखरागस्य, ब्रह्नग्न इव प्रतिदिवसवन्दनोद्घृष्टशिरःकपालस्य, स्पर्शरहितस्याशुभकर्माणि निर्वहतः, त्रिशङ्कोरिवोभयलोकभ्रष्टस्य नक्तन्दिनमवाक्शिरसस्तिष्ठतः, वाजिन इव कवलवशेन सुखवाह्यमात्मानं विदधानस्य, अनशनशायिन इव हृदयस्थापितजीवनाशस्य, शरीरं क्षपयतः शुन इव निजदारपराह्मुखस्य, जघन्यकर्मलग्नमा मानं ताडयतः, प्रेतस्येवानुचितभूमिदीयमानान्नपिण्डस्य, बलिभुज इव जिह्वालौल्योपयुक्तपुरुषवर्चसो वृथा विहितायुषो जीवितः, श्मशानपादपानिव पिशाचरय दग्धभूत्या परुषीकृतान्राजवल्लभानुपसर्पतः विपरीतजिह्वाजनितमाधुर्यैरोष्ठमात्रप्रकटितरागै राजशुकालापैः शिशोरिव मुग्धविलोभ्यमानस्य, वेतालस्येव नरेन्द्रप्रभावाविष्टस्य न किञ्चिन्नाचरतः, चित्रधनुष इवालीकगुणाध्यारोपणैकक्रियानित्यनम्रस्य निर्वाणतेजसः, संमार्जनीसमुपार्जितरजसोऽवकरकूटस्येव निर्माल्यवाहिनः, कफविकारिण इव दिने दिने कटुकैरुद्वेज्यमानस्य, सौगतस्येवार्थशून्यविज्ञप्तिजनितवैराग्यस्य काषायाण्यभिलषतः, निशास्वपि मातृबलिपिण्डस्येव दिक्षु विक्षिप्यमाणस्य, अशौचगतस्येव कुशयनचनितसमधिकतरदुःखवृत्तेः, तुलायन्त्रस्येव पश्चात्कृतगौरवस्य तोयार्थमपि नमतः, अतिकृपणस्य शिरसा केवलेनासंतुष्टस्य वचसापि पादौ स्पृशतः, निर्दयवेत्रिवेत्रताडनत्रस्तयेव त्रपयात्यक्तस्य, दैन्यसंकोचितहृदयहृतावकाशयेवाहोपुरुषिकया परिवर्जितस्य, कुत्सितकर्मा ङ्गीकरणकुपितयेवोन्नत्या वियुक्तस्य, धनश्रद्धया क्लेशानुपार्जयतः. स्ववृद्धिबुद्ध्यावमानं संवर्धयतो मूढस्य, सत्यपि विविधकुसुमाधिवाससुरभिणि वने तृष्णायाञ्जलिमुपरचयतः, कुलपुत्रस्यापि कृतागस इव भीतभीतस्य समीपमुपसर्पतः, दर्शनीयस्याप्यालेख्यकुसुमस्येव निष्फलजन्मनः, विदुषोऽपि वेधेयस्येवापशब्दमुखस्य, शक्तिमतोऽपि श्वित्रिण इव संकोचितकरयुगलस्य, समसमुत्कर्षेषु निरग्निपच्यमानस्य, नीचसमीकरणेषु निरुच्छ्वासंम्रियमाणस्य, परिभवैस्तृणीकृतस्य, दुःखानिलेनानिर्वृतेर्ज्वलतः, भक्तस्याप्यभक्तस्य, निरूष्मणः सषन्तापयतो बन्धून्, विमानस्याप्यगतिकस्य, च्युतगौरवस्याप्यधस्ताद्गच्छतः, निःसत्त्वस्यापि महामांसविक्रयं कुर्वतः, निर्मदस्याप्यस्वतन्त्रवृत्तेः, अयोगिनोऽपि ध्यानवशोकृतात्मनः, शय्योत्थायं प्रणमतो दग्धमुण्डस्य, गोत्रविदूषकस्य नक्तन्दिनं नृत्यतो मनस्विजनं हासयतः, कुलाह्गारस्य वंशं दहतः, नृपशोस्तृणेऽपि लब्दे कन्धरामवनमयतः, जठरपरिपूरणमात्रप्रयोजनजन्मनो मांसपिण्डस्य गर्भरोगस्यमातुः, अपुण्यानां कमणामाचरणाद्भृतकस्य किं प्रायश्चित्तम्, का प्रतिपत्तिक्रिया, व्क गतस्य शान्तिः, कीदृशं जीवितम्, कः पुरुषाभिमानः, किंनामानो विलासाः, कीदृशो भोगश्रद्धा, प्रबलपङ्क इव सर्वमधस्तान्नयति दारुणो दासशब्दः धिक्तदुच्छ्वसितमुपयातु निधनं धनम्, अभवनिर्भूतेरस्तु तस्या नमो भगवद्भ्यस्तेभ्यः सुखेभ्यस्तस्यायमञ्जलिरैश्वर्यस्य तिष्ठतु दूर एव सा श्रीः शिवं स परिच्छदः करोतु यदर्थमुत्तमाङ्गं गा गमिष्यत्यशापानुग्रहक्षमस्तपस्वी मुखप्रियरतः क्लीबो पूतिमांसमयः कृमिरगण्यमानो नरकः, पादरजोधूसरोत्तमाह्गो जङ्गमः पादपीठः पुंस्कोकिलः काकुव्कणितेषु, शिखी मुखकरकेकासु, स्थूलकूर्म क्रोडकषणेषु, श्वा नीचचाटुकरणेषु, कृकलासः शिरोविडम्बनासु, जाहक आत्मसंकोचनेषु, वेणुर्मूर्च्छनासु, वेश्याकायः करणबन्धक्लेशेषु, पलालं सत्त्वशालिषु, प्रतिपादकः पादसंवाहनासु, कन्दुकः करतलताडनेषु, वीणादण्डः कोणाबिघातेषु, वराकः सेवकोऽपि मर्त्यमध्ये राजिलोऽपि वा भोगी, पुलाकोऽपि वा कलमो, वरं क्षणमपि कृता मानवता मानवता न मतो नमतस्त्रैलोक्याधिराज्योपभोगोऽपि मनस्विनः । तदेवमभिनन्दितास्मदीयप्रणयो देवोऽपि दिवसैः कतिपयैरेव परागतः प्राग्ज्योतिषेश्वर इति करोतु चेतसिऽ इत्युक्त्वा तूष्णीमभूत् । चिराच्च नमस्कृत्य निर्जगाम । राजापि रजनीं तां कुमारदर्शनौत्सुक्यस्वीकृतहृदयः समनैषीत् । आत्मार्पणं हि महताममूलमन्त्रमयं वशीकरणम् । प्रबाते च प्रभूतं प्रतिप्राभृतं प्रधानप्रतिदूताधिष्ठितं दत्त्वा हंसवेगं प्राहिणोत् । आत्मनापि ततः प्रभृति प्रयाणकैरनवरतैरभ्यमित्रं प्रावर्तत । कदाचित्तु राज्यवर्धनभुजबलोपार्जितमशेषं मालवराजसाधनमादायागतं समीप एवावासितं लेखहारकाद्भण्डिमशृणोत् । श्रुत्वा चाभिनवीभूतभ्रातृशोकहुताशनस्तद्दर्शनकातरहृदयो बभूव मूर्च्छान्धकारमिव विवेशातिष्ठच्च समुत्सृष्टसकलव्यापारः प्रतीहारनिवारणनिभृतनिःशब्दपरिजने निजमन्दिरे सराजकपरिवारस्तदागमनमुदीक्षमाणो मुहूर्तम् । अथ भण्डिरेकेनैव वाजिना कतिपयकुलपुत्रपरिवृतो मलिनवासा रिपुशरशल्यपूरितेन निखातबहुलोहकीलकपरिकररक्षितस्फुटनेनेव हृदयेन, हृदयलग्नैः स्वामिसत्कृतैरिव श्मश्रुभिः, शुचं समुपदर्शयन्दूरीकृतव्यायामशिथिलभुजदण्डदोलायमानमङ्गलवलयैकशेषालह्कृतिरनादरोपयुक्तताम्बूलविरलरागेण शोकदहनदह्यमानस्य हृदयस्याङ्गारेणेव, दीर्घनिःश्वासवेगनिर्गतेनाधरेण शुष्यता स्वामिविरहविधृतजीवितापराधवैलक्ष्यादिव, बाष्पवारिपटलेन पटेनेव प्रावृतवदनः, विशन्निव दुर्बलीभूतैः स्वाह्गमपत्रपयाह्गैर्वमन्निव च व्षथीभूतभुजोष्माणमायतैर्निःश्वसितैः, पातकीव, अपराधीव, द्रोहीव, मुषित इव, छलित इव, यूथपतिपतनविषण्ण इव वेगदण्डवारणः, सूर्यास्तमयनिःश्रीक इव कमलाकरः, दुर्योधननिधनदुर्मना इव द्रौणिः, अपहृतरत्न इव सागरो राजद्वारमाजगाम । अवतीर्य च तुरह्गमादवनतमुखो विवेश राजमन्दिरम् । दूरादेव च विमुक्ताक्रन्दः पपात पादयोः । अवनिपतिरपि दृष्ट्वा तमुत्थाय प्रविरलैः पदैः प्रत्युद्गम्योत्थाप्य च गाढमुपगूह्य कण्ठे करुणमतिचिरं रुरोद । शिथिलीभूतमन्युवेघश्च पुरेव पुनरागत्य निजासने निषसाद । प्रथमप्रक्षालितमुखे च भण्डौ मुखमक्षालयत् । समतिक्रान्ते च कियत्यपि कालकलाकलापे भ्रातृमरणवृत्तान्तमप्राक्षीत् । अथाकथयच्च यथावृत्तमखिलं भण्डिः । अथ नरपतिस्तमुवाच--"राज्यश्रीव्यतिकरः कः?ऽ इति । स पुनरवादीत्--"देव! देव भूयं गते देवे राज्यवर्धने गुप्तनाम्ना च गृहीते कुशस्थले देवी राज्यश्रीः परिभ्रश्य बन्धनाद्विन्ध्याटवीं सपरिवारा प्रविष्टेति लोकतो वार्तामशृणवम् । अन्वेष्टारस्तु तां प्रति प्रभूताः प्रहिता जना नाद्यापि निवर्तन्तेऽ इति । तच्चाकर्ण्य भूपतिरब्रवीत्--"किमन्यैरनुपदिबिः यत्र सा तत्र परित्यक्तान्यकृत्यः स्वयमेवाहं यास्यामि । भवानपि कटकमादाय प्रवर्ततां गौडाभिमुखम्ऽ । इत्युक्त्वा चोत्थाय स्नानभुवमगात् । कारितशोकश्मश्रुवपनकर्मणा च महाप्रतीहारभवनस्नातेन, शारीरिकवसनकुसुमाङ्गरागालङ्कारप्रेषणप्रकटितप्रसादेव भण्डिना सार्धमभुक्त, निनाय च तेनैव सह वासरम् । अथापरेद्युरुषस्येव भण्डिर्भूपालमुपसृत्य व्यज्ञापयत्--"पश्यतु देवः श्रीराज्यवर्धनभुजबलार्जितं साधनं सपरिबर्हं मालवराजस्यऽ इति । नरपतिना स "एवं क्रियताम्ऽ इत्यभ्यनुज्ञातो दर्शयाबभूव । तद्याथा--अनवरतगलितमदमदिरामोदमुखरमधुकरजूटजटिलकरटपट्टपङ्किलगण्डान्, गण्डशैलानिव जह्गमान्, गम्भीरगर्जितरवाञ्जलधरानिव महीमवतीर्णानुत्फुल्लसप्तच्छदवनामोदमुचः, शरद्दिवसानिव पुञ्जभूतान्, अनेकसहस्रसंख्यान्करिणः, चारुचामीकरचित्रचामरमण्डलमनोहरांश्च हरिणरंहसो हरीन्, बालातपविसरवर्षिणां च क्रिरणैरनेकेन्द्रायुधीकृतदशदिशामलङ्काराणां विशेषान्, विस्मयकृतः स्मरोन्मादितमालवीकुचपरिमलदुर्ललितांश्च निजज्योत्स्नापूरप्लावितदिगन्तानपि तारान्हारान्, उडुपतिपादसंचयशूचीनि निजयशांसीव बालव्यजनानि, जातरूपमयनालं च निवासपुण्डरीकमिव श्रियः श्वेतमातपत्रम्, अप्सरस इव बहुसमररससाहसानुरागावतीर्णा वारविलासिनीः, सिंहासनशयनासन्दीप्रभृतीनि राज्योपकरणानि, कालायसनिश्यलीकृतचरणयुगलं च सकलं मालवराजलोकम्, अशेषांश्च ससंख्यालेख्यपत्रान्, सालङ्कारापीडपीडान् कोशकलशान् । अथालोच्य तत्सर्वमवनिपालः स्वीकर्तुं यथाधिकारमादिशदध्यक्षानन्यस्मिंश्चाहनि हयैरेव स्वसारमन्वेष्टुमुच्चचाल विन्ध्याटवीमवाप च परिमितैरेव प्रयाणकैस्ताम् । अथ प्रविशन्दूरादेव दह्यमानषष्टिकबुसविसरविसारिविभावसूनां वन्यधान्यबीजधानीनां धूमेन धूसरिमाणमादधानैः शुष्कशाखासंचयरचितगोवाटवेष्टितविकटवटैः, व्यापादितवत्सरूपकरोषाविष्टगोपालकल्पितव्याग्रमन्त्रैः, अयन्त्रितवनपालहठह्रियमाणपरग्रामीणकाष्ठिककुठारैः, गहनतरुखण्डनिर्मितचामुण्डामण्डपैर्वनप्रदेशैः, प्रकास्यमानमटवीप्रायप्रान्ततया कुटुम्बभरणाकुलैः कुद्दालप्रायकृषिभिः कृषीवलैरबलवद्भिरुच्चभागबाषितेन भज्यमानभूरिशालिखलक्षेत्रखण्डलकमल्पावकाशैश्च कापितैः, कालायसैरिव कृष्णमृत्तिकाकठिनैः, स्थानस्थानस्कथापितस्थाणूत्थितस्थूलपल्लवैः दुरुपगमश्यामाकप्ररूढिभिरलम्बुसबहुलैः, अविरहितकोकिलाक्षक्षुपैर्विरलविरलैः केदारैः, कृच्छ्रात्कृष्यमाणैर्नातिप्रभूतप्रवृत्तगतागताप्रहतभुवमुपक्षेत्रमुपरचितैरुच्चैर्मञ्चैश्च सूच्यमानश्वापदोपद्रवं, दिशि दिशि च प्रतिमार्गद्रुमकृतानां पथिकपादप्रस्फोटनधूलिधूसरैर्नवपल्लवैर्लाञ्झितच्छायानाम्, अटवीसुलभसालकुसुमस्तबकाञ्चितनवखातकूपिकोपकण्ठप्रतिष्ठितनाशस्फुटानामच्छिद्रकटकल्पितकुटीरकाणाम्, कुटिलकीटवेणीवेष्ट्यमानसक्तुशारशरावश्रेणीश्रितानाम्, अध्वगजनजग्धजम्बूफलास्थिशबलसमीपभुवाम्, उद्धूलितधूलीकदम्बस्तबकप्रकरपुलकिनीनाम्, कण्टकितकर्करीचक्राक्रान्तकाष्ठमञ्चिकामुषिततृषाम्, तिम्यत्तलशीतलसिकतिलकलशीशमितश्रमाणाम्, आश्यानशैवलश्यामलितालिञ्जरजायमानजलजडिम्नाम्, उदकुम्भाकृष्टपाटलशर्कराशकलशिशिरीकृतदिशाम्, घटमुखघटितकटहारपाटलपुष्पपुटानाम्, शीकरपुलकितपल्लवपूलीपाल्यमानशोष्यसरसशिशुसहकारफलजूटीजटिलस्थाणूनाम्, विश्राम्यत्कार्पटिकपेटकपरिपाटीपीयमानपयसामटवीप्रवेशप्रपाणां शैत्येन त्याजयन्तमिव ग्रैष्ममूष्मणां व्कचिदन्यत्र ग्राहयन्तमिवाङ्गारीयदारुसंग्रहदाहिभिः व्योकारैः, सर्वतश्च प्रातिवेश्यविषयवासिना समासन्नग्रामगृहस्थगृहस्थापितस्थविरपरिपाल्यमानपाथेयस्थगितेन कृतदारुणदारुव्यायामयोग्याङ्गाब्यङ्गेन स्कन्धाद्यासितकठोरकुठारकण्ठलम्बमानप्रातराशपुटेन पाटच्चरप्रत्यवायप्रतिपन्नपटच्चरेण कालवेत्रकत्रिगुणव्रततिवलयपाशग्रथितग्रीवाग्रथितैः पत्रवीटावृतमुखैः, बोटकूटैरूढवारिणा पुरःसरबलद्बलीवर्दयुगसरेण नैकटिककुटुम्बिकलोकेन काष्ठसंग्रहार्थमटवीं प्रविशता स्वापदव्यधनव्यवधानबहलीसमारोपितकुटीकृतकूटपाशैश्च गृहीतमृगतन्तुतन्त्रीजालवलयवागुरैः, बहिर्व्यादैर्विचरद्भिरंसावसक्तवीतंसव्यालम्बमानबालपाशिकैश्च संगृहीतग्राहकक्रकरकपिञ्जलादिपञ्जरकैः शाकुनिकैः, संचरद्भिश्च्युतलासकलेशलिप्रलतावधूलट्वालम्पटानां चपेटकैः, पाशकशिशूनामटद्भिः तृणस्तम्बान्तरिततित्तिरितरलायमानकौलेयककुलचाटुकारैश्चलद्विंहगमृगयां मृगयुयुवभिः क्रीडद्भिः, पुरिणतचक्रवाककण्ठकषायरुचां शीधव्यानां वल्कलानां कलापान्, नातिचिरोद्धृतानां च धातुत्विषां धातकीकुसुमानां गोणीरगणिताः पिचव्यानां चातसीगणपट्टमूलकानां पुष्कलान्संबारान्, भारांश्च मधुनो माक्षिकस्य मयूराङ्गजस्याक्लिष्टमधूच्छिष्टचक्रमालानां लम्बमानलामज्जकमुञ्जजूटजटानामपत्वचां खदिरकाष्ठानां कुष्ठस्य कठोरकेसरिसटाभारबभ्रुणश्च रोध्रस्य भूयसो भारकान्, लोकेनादाय व्रजता प्रविचितविविधवनफलपूरितपिटकमस्तकाभिश्चाभ्यर्णग्रामगत्वरीभिस्त्वरमाणाभिर्विक्रयचिन्ताव्यग्राभिर्ग्रामेयकाभिर्व्याप्तदिगन्तरमितस्ततश्च युक्तशूरशकुरशाव्कराणां पुराणपांसूत्किरकरीषकूटवाहिनीनां धूर्गतधूलिधूसरसैरिभसरोषस्वरसार्यमाणानां संक्रीडच्चटुलचक्रचीत्कारिणीनां शकटश्रेणीनां संपातैः, संपाद्यमानदुर्बलोर्वीविरूक्षक्षेत्रसंस्कारमारक्षक्षिप्तदान्तवाहकदण्डोड्डीयमानहरिणहेलालङ्घिततुङ्गवैणववृतिभिश्च निकातगौरकरङ्कशङ्खुशङ्कितशशकशकलिततुङ्गशुङ्गैः, प्रयत्नप्रभृतविशङ्कटविचपैर्वाचैरैक्षवैः, कार्मुककर्मण्यवंशविटपसंकटैः, कण्टकितकरञ्जराजिदुष्प्रवेश्यैः, उरुबूकवचावङ्गकसुरससूरणशिग्रुग्रन्थिपर्णगवेधुकागर्मुद्गुल्मगहनगृहवाटिकैः, निखातोच्चकाष्ठारोपितकाष्ठालुकलताप्रतानविहितच्छायैः, परिमण्डलबदरीमण्डपकतलनिखातखादिरकीलबद्धवत्सरूपैः, कथमपि कुक्कुटरटितानुमीयमानसंनिवेशैरह्गनागस्तिस्तम्भतलविरचितपक्षि पूपिकावापिकैर्विकीर्णबदरपाटलपटलैः, वेणुपोटदलनलकलितशरमयवृतिविहितभित्तिभिः, किंशुकगोरोचनारचितमण्डलमण्डपबल्वजबद्धाङ्गारराशिभिः, शाल्मलीफलतूलसंचयबहुलैः, संनिहितनलशालिशालूकखण्डकुमुदबीजवेणुतण्डुलैः, संगृहीततमालबीजैः, भस्ममलिनम्लानकाश्मर्यकूट्वयाधृतकटैराश्यानराजादनमदनफलस्फीतैर्मधूकासवमद्यप्रायैः, कुसुम्भकुम्भगण्डकुसूलैरविरहितराजमाषत्रपुषकर्कटिकाकूष्मांण्डालाबुबीजैः, पोष्यमाणवनबिडालमालुधाननकुलशालिजातजातकादिभिरटवीकुटुम्बिनां गृहैरुपेतं वनग्रामकं ददर्श । तत्रैव च तं दिवसमत्यवाहयदिति । इति श्रीमहाकविबाणभट्टकृतौ हर्षचरिते छत्रलब्धिर्नाम सप्तम उच्छ्वास अष्टम उच्छ्वासः सहसा संपादयता मनोरथप्रार्थितानि वस्तूनि । दैवेनापि क्रियते भव्यानां पूर्वसेवेव ॥ ८.१ ॥ विद्वज्जनसंपर्को नष्टेष्टज्ञातिदर्शनाभ्युदयः । कस्य न सुखाय भवने भवति महारत्नलाभश्च ॥ ८.२ ॥ अथापरेद्युरुत्थाय पार्थिवस्तस्माद्ग्रामकान्निर्गत्य विवेश विन्ध्याटवीम् । आट च तस्यामितश्चेतश्च सुबहून्दिवसान् । एकदा तु भूपतेर्भ्रमत एवाटविकसामन्तस्य शरभकेतोः सूनुर्व्याघ्रकेतुर्नाम कुतोऽपि कज्जलश्यामलश्यामलतावलयेनाधिललाटमुच्चैः कृतमौलिबन्धम्, अन्धकारिणीमकारणभुवा भ्रकुटिभङ्गेन त्रिशाखेन त्रिशाखेन त्रियामामिव साहससहचारिणीं ललाटस्थलीं सदा समुद्वहन्तम्, अवतंसितैकशुकपक्षकप्रभाहरितायमानेन पिनद्धकाचरकाचमणिकर्णिकेन श्रवणेन शोभमानम्, किञ्चिच्चुल्लस्य प्रविरलपक्ष्मणश्चक्षुषः सहजेन रागरोचिषा रसायनरसोपयुक्तं तारक्षवं क्षतजमिव क्षरन्तम्, अवनाटनासिकं चिपिटाधरम्, चिकिनचिबुकम्, अपीनहनूत्कटकपोलकूटास्थिपर्यन्तमीषदवाग्रग्रीवाबन्धम्, स्खन्नस्कन्धार्धभागम्, अनवरतकठिनकोदण्डकुण्डलीकरणकर्कशव्यायामविस्तारितेनांसलेनोरसा हसन्तमिव तटशिलाप्रथिमानं विन्ध्यगिरेः, अजगरगरीयसा च भुजयुगलेन लघयन्तं तुहिनशैलशालद्रुमाणां द्राघिमाणम्, वराहबालवलितबन्धनाभिर्नागदमनजूटिकावाटिकाभिर्जटिलीकृतपृष्ठे प्रकोष्ठे प्रतिष्ठां गतं गोदन्तमणिचित्रं त्रापुषं वलयं बिभ्राणम्, अतुन्दिलमपि तुण्डिभम्, अहीरमणिचर्मनिर्मितपट्टिकयोश्चित्रचित्रकत्वक्तारकितपरिवारया संकुब्जाजिनजालकितया शृङ्गमयमसृणमुष्टिभागभास्वरया पारदरसलेशलिप्तसमस्तमस्तिकया कृपाण्या करलितविशङ्कटकटिप्रदेशम्, प्रथमयौवनोल्लिख्यमानमद्यभागभ्रष्टमांसभरिताविव स्थवीयसावूरुदम्डौ दधतम्, अच्छभल्लचर्ममयेन भल्लीप्रायप्रभूतशरभृता शबलशार्दूलचर्मपटपीडिते नालिकुलकालकम्बललोललोम्ना पृष्ठभागभाजा भस्राभरणेन पल्लवितमिव कार्श्यमुपदर्शयन्तमुत्तरत्रिभागोत्तंसितचाषपिच्छचारुशिखरे खदिरजटानिर्माणे खरप्राणे प्रचुरमयूरपित्तपत्रलताचित्रितत्वचि त्वचिसारगुणे गुरुणि वामस्कन्धाध्यासितधनुषि दोषि लम्बमानेनावाक्शिरसा शितशरकृत्तैकनलकविवरप्रवेशितेतरजङ्गजनितस्वस्तिकबन्धेन बन्धूकलोहितरुधिरराजिरञ्जितघ्राणवर्त्मना वपुर्विततिव्यक्तविभाव्यमानकोमलक्रोडरोमशुक्लिम्ना शशेन शिताटनीशिखाग्रग्रथितग्रीवेण चापावृतचञ्चूत्तानताम्रतालुना तित्तिरिणा वर्णकमुष्टिमिव मृगयायाः, दर्शयन्तम्, विषमविषदूषितवदनेन च विकर्णेन कृष्णाहिनेव मूलगृहीतेन व्यग्रदक्षिणकराग्रम्, जङ्गममिव गिरितटतमालपादपम्, यन्त्रोल्लिखितमश्मसारस्तम्भमिव भ्रमन्तम, अञ्जनशिलाच्छेदमिव चलन्तम्, अयःसारमिव गिरेर्विन्ध्यस्य गलन्तम्, पाकलं करिकुलानाम्, कालपाशं कुरङ्गयूथानाम्, धूमकेतुं मृगराजचक्राणाम्, महानवमीमहं महीषमण्डलानाम्, हृदयमिव हिंसायाः, फलमिंव पापस्य, कारणमिव कलिकालस्य, कामुकमिव कालरात्रेः शबरयुवानमादायाजगाम । दूरे च स्थापयित्वा विज्ञापयांबभूव--देव! सर्वस्यास्य विन्ध्यस्य स्वामी सर्वपल्लीपतीनां प्राग्रहरः शबरसेनापतिर्भूकम्पो नाम । तस्यायं निर्घातनामा स्वस्रीयः सकलस्यास्य विन्ध्यकान्तारारण्यस्य पर्णानामप्यभिज्ञः किमुत प्रदेशानाम् । एनं पृच्छतु देवो योग्योऽयमाज्ञां कर्तुम्ऽ । इति कथिते च निर्गातस्तु क्षितितलनिहितमौलिः प्रणाममकरोत् । उपनिन्ये च तित्तिरिणा सह शशोपायनम् । अवनिपतिस्तु संमानयन्स्वयमेव तमप्राक्षीत्--"अङ्ग! अभिज्ञा यूयमस्य सर्वस्योद्देशस्य? विहारशीलाश्च दिवसष्वेतेषु भवन्तः? सेनापतेर्वान्यस्य वा तदनुजीविनः कस्यचिदुदाररूप नारी न गता भवेद्दर्शनगोचरम्?ऽ इति । निर्घातस्तु भूपालालापनप्रसादेनात्मानं बहुमन्यमानः प्रणनाम, दर्शितादरं च व्यज्ञापयत्--"देव! प्रायेणात्र हिरण्योऽपि नापरिगताः संचरन्ति सेनापतेः, कुत एव नार्यः? नाप्येवंरूपा काचिदबला । तथापि देवादेशादिदानीमन्वेषणं प्रति प्रतिदिनमनन्यकृत्यैः क्रियते यत्नः । इतश्चार्धगव्यूतिमात्र एव मुनिमहिते महति महीधरमालामूलरुहि महीरुहां षण्डेऽपि पिण्डपाती प्रभूतान्तेवासिपरिवृतः पाराशरी दिवाकरमित्रनामा गिरिनदीमाश्रित्य प्रतिवसति, स यदि विन्देद्वार्ताम्ऽ इति । तच्छ्रु त्वा नरपतिरचिन्तयत्--श्रूयते हि तत्रभवतः सुगृहीतनाम्नः स्वर्गतस्य ग्रहवर्मणो बालमित्रं मैत्रायणीयस्त्रयीं विहाय ब्राह्नणायनो विद्वानुत्पन्नसमाधिः सौगते मते युवैव काषायाणि गृहीतवान्ऽ इति । प्रायशश्च जनस्य जनयति सुहृदपि दृष्टो भृशमाश्वासम् । अभिगमनीयाश्च गुणाः सर्वस्य । कस्य न प्रतीक्ष्यो मुनिभावः । भगवती च वैधेयेऽपि धर्मगृहिणी गरिमाणमापादयति प्रव्रज्या, किं पुनः सकलजनमनोमुषि विदुषि जने । यतो नः कुतूहलि हृदयमभूत्सततमस्य दर्शनं प्रति प्रासङ्गिकमेवेदमापतितमतिकल्याणं पश्यामः प्रयत्नप्रार्थितदर्शनं जनमिति । प्रकाशं चाब्रवीत्--"अङ्क! समुपदिश तमुद्देशं यत्रास्ते स पिण्डपातीऽ इति । एवमुक्त्वा च तेनेवोपदिश्यमानवर्त्मा प्रावर्तत गन्तुम् । अथ क्रमेण गच्छत एव तस्य अनवकेशिनः कुड्मलितकर्णिकाराः, प्रचूरचम्पकाः स्फीतफलेग्रहयः, फलभरभरितनमेरवः नीलदलन लदनारिकेलनिकराः, हरिकेसरसरलपरिकराः कोरकनिकुरम्बरोमाञ्चितकुरबकराजयः, रक्ताशोकपल्लवलावण्यलिप्यमानदशदिशः, प्रविकसितकेसररजोविसरबध्यमानचारुधूसरिमाणः स्वरजः सिकतिलतिलकतालाः, प्रविचलितहिङ्गवः, प्रचुरपूगफलाः, प्रसवपूगपिङ्गलप्रियङ्गवः, परागपिञ्जरितमञ्जरीपुञ्जायमानमधुपमञ्जुशिञ्जाजनितजनमुदः, मदमलमेचकितमुचुकुन्दस्कन्धकाण्डकथ्यमाननिःशङ्ककरिकरटकण्डूतयः, उड्डीयमाननिःशङ्कचटुलकृष्णशारशावसकलशाद्वलसुभगभूमयः, तमः कालतमतमालमालामीलितातपाः, स्तबकदन्तुरितदेवदारवः, तरलताम्बूलीस्तम्बजालकितजम्बूजम्भीरवीथयः, कुसुमरजोधवलधूलीकदम्बचक्रचुम्बितव्योमानः, बहलमधुमोक्षोक्षितक्षितयः, परिमलघटितघनघ्राणतृप्तयः, कतिपयदिवससूतकुक्कुटीकुटीकृतकुटजकोटराः, चटकासंचार्यमाणवाचाटचाटकैरक्रियमाणचाटवः, सहचरोचारणचञ्चुरचकोरचञ्चवः, निर्भयभूरिभुरुण्डभुज्यमानपाककपिलपीलवः, सदाफलकट्फलविशसननिःशूकशुकशकुन्तशातितशलाटवः, शैलेयसुकुमारशिलातलसुखशयितशशशिशवः, शेफालिकाशिफाविवरविस्रब्धविवर्तमानगौधेरराशयः, निरातङ्करह्गवः, निराकुलनकुलकुलकेलयः, कलकोकिलकुलकवलितकलिकोद्रमाः, सहकारारामरोमन्थायमानचमरयूथाः, यथासुखनिषण्णनीलाण्डजमण्डलाः, निर्विकारवृकविलोक्यमानपोतपीतगवयधेनवः, श्रवणहारिसनीडगिरिनितम्बनिर्झरनिनादनिद्रानन्दमन्दायमानकरिकुलकर्णतालदुन्दुभ्यः समासन्नकिन्नरीगीतरवरसमानरुरवः, प्रमुदिततरतरक्षवः, क्षतहरितहरिद्राद्रवरज्यमाननववराहपोतपोत्रवलयः, गुञ्जाकुञ्जगुञ्जज्जाहकाः, जातीफलकसुप्तशालिजातकवलयः, दशनकुपितकपिपोतपेटकपाटितपाटलमुखकीटपुटकाः, लकुचलम्पटगोलाङ्गूललङ्घ्यमानलवलयः, बद्धवालुकालवालवलयाः, कुटिलकुटावलिवलितवेगगिरिनदिकास्रोतसः निबिडशाखाकाण्डलम्बमानकमण्डलवः, सूत्रशिक्यासक्तरिक्तभिक्षाकपालपल्लवितलतामण्डपाः, निकटकुटीकृतपाटलमुद्राचैत्यकमूर्तयः, चोवराम्बररागकषायोदकदूषितोद्देशाः, मेघमया इव कृतशिखण्डिकुलकोलाहलाः, वेदमया इवापरिमितशाखाभेदगहनाः, माणिक्यमया इव महानीलतनवः, तिमिरमया इव सकलजननयनमुषः, यामुना इवोर्ध्वीकृतमहाह्रदाः, मरकतमणिश्यामलाः क्रीडापर्वतका इव वसन्तस्य, अञ्जनाचला इव पल्लविताः, तनया इवाटवीजाता विन्ध्यस्याद्रेः, पातालान्धकारराशय इव भित्त्वा भुवमुत्थिताः, प्रतिप्रवेशिका इव वर्षावासराणआम्, अंशावतारा इव कृष्णार्धरात्रीणाम्, इन्द्रनीलमयाः प्रासादा इव वनदेवतानाम्, पुरस्ताद्दर्शनपथमवतेरुस्तरवः । ततो नरपतेरभवन्मनस्यदूरवर्तिना खलु भवितव्यं भदन्तेनेति । अवतीर्य च गिरिसरिति समुपस्पृश्य युगपद्विश्रामसमयसमुन्मुक्तहेषाघोषबधिरीकृताटवीगहनामस्मिन्नेव प्रदेशे स्थापयित्वा वाजिसेनामवलम्ब्य च तपस्विजनदर्शनोचितं विनयं हृदयेन दक्षिणेन च हस्तेन माधवगुप्तमंसे विरलैरेव राजभिरनुगम्यमानस्चरणाब्यामेव प्रावर्तत गन्तुम् । अथ तेषां तरूणां मद्ये नानादेशीयैः स्थानस्थानेषु स्थाणूनाश्रितैः शिलातलेषूपविष्टैर्लताभवनान्यध्यावसद्भिररण्यानीनिकुञ्जेषु निलीनैर्विटपच्छायासु निषण्णैस्तरुमूलानि निषेवमाणैर्वीतरागैरार्हतैर्मस्करिभिः श्वेतपटैः पाण्डुरबिक्षुभिर्भागवतैर्वर्णिबिः केशलुञ्चनैः कापिलैर्जैनैर्लोकायतिकैः काणादैरोपनिषदैरैश्वरकारणिकैः कारन्धमिभिर्धर्मशास्त्रिभिः पौराणिकैः साप्ततन्तवैः शाब्दिकैः पाञ्चरात्रिकैरन्यैश्च स्वान्स्वान्सिद्धान्ताञ्शृण्वद्भिरभियुक्तैश्चिन्तयद्भिस्च प्रत्युच्चरद्भिश्च संशयानैश्च निश्चिन्वद्भिश्च व्युत्पादयद्भिश्च विवदमानैश्चाभ्यसद्भिश्च व्याचक्षाणैश्च शिष्यतां प्रतिपन्नैर्दूरादेवावेद्यमानम्, अतिविनीतैः कपिभिरपि चैत्यकर्म कुर्वाणैस्त्रिसरणपरैः परमोपासकैः शुकैरपि शाक्यशासनकुशलैः कोशं समुपदिशद्भिः शिक्षापदोपदेशदोषोपशमशालिनीभिः शारिकाभिरपि धर्मदेशानां दर्शयन्तीभिरनवरतश्रवणगृहीतालोकैः कौशिकैरपि बोधिसत्त्वजातकानि जपद्भिर्जातसौगतशीलशीतलस्वभावैः शार्दूलैरप्यमांसाशिभिरुपास्यमानम्, आसनोपान्तोपविष्टविस्रब्धानेककेसरिशावकतया मुनिपरमेश्वरम्, अकृत्रिम इव सिंहासने निषण्णम्, उपसममिव पिबद्बिर्वनहरिणैर्जिह्वालताभिरुपलिह्यमानपादपल्लवम्, वामकरतलनिविष्टेन नीवारमश्नता पारावतपोतकेन कर्णोत्पलेनेव प्रियां मैत्रीं प्रसादयन्तम्, इतरकरकिसलयनखमयूखलेखाभिर्जनितजनव्यामोहम्, उद्ग्रीवं मयूरं मरकतमणिकरकमिव वारिधाराभिः पूरयन्तम्, इतस्ततः पिपीलकश्रेणीनां श्यामाकतण्डुलकणान्स्वयमेव किरन्तम्, अरुणेन चीवरपटलेन म्रद्रीयसा संवीतम्, बहलबालातपानुलिप्तमिव पौरन्दरं दिग्भागम्, उल्लिखितपझरागप्रभाप्रतिमया रक्तावदातया देहप्रभया पाटलीकृतानां काषायग्रहणमिव दिशामप्युपदिशन्तम्, अनौद्धत्यादधोमुखेन मन्दमुकुलितकुमुदाकरेण स्निग्धधवलप्रसन्नेन चक्षुषा जनक्षुण्णक्षुद्रजन्तुजीवनार्थममृतमिव वर्षन्तम्, सर्वशास्त्राक्षरपरमाणुभिरिव निर्मितम्, परमसौगतमप्यवलोकितेश्वरम्, अस्खलितमपि तपसि लग्नम्, आलोकमिव यथावस्थितसकलपदार्थप्रकाशकं दर्शनार्थिनाम्, सुगतस्याप्यभिगमनीयम्, अवधर्मस्याप्याराधनीयमिव, प्रसादस्यापि प्रसादनीयमिव, मानस्यापि माननीयमिव, वन्द्यत्वस्यापि वन्दनीयमिव, आत्मनोऽपि स्पृहणीयमिव, ध्यानस्यापि ध्येयमिव, ज्ञानस्यापि ज्ञेयमिव, जन्म जपस्य, नेमिं नियमस्य, तत्त्वं तपसः, शरीरं शौचस्य, कोशं कुशलस्य, वेश्म विश्वासस्य, सद्वृत्तं सद्वृत्ततायाः, सर्वस्वं सर्वज्ञतायाः, दाक्ष्यं दाक्षिण्यस्य, पारं परानुकम्पायाः, निर्वृति सुखस्य, मध्यमे वयसि वर्तमानं दिवाकरमित्रमद्राक्षीत् । अतिप्रशान्तगम्भीराकारारोपितबहुमानश्व सादरं दूरादेव शिरसा वचसा मनसा च ववन्दे । दिवाकरमित्रस्तु मैत्रीमयः प्रकृत्या विशेषतस्तेनापरेणादृष्टपूर्वेणामानुषलोकोचितेन सर्वाभिभाविना महानुभावाभोगभाजा म्राजिष्णुना भूपतेरप्राकृतेनाकारविशेषेण तेन चाबिजात्यप्रकाशकेन गरीयसा प्रश्रयेण चाह्लादितश्चक्षुषि च चेतसि च युगपदग्रहीत । धीरस्वभावोऽपि च संपादितससंभ्रमाभ्युत्थानः संकलय्य किञ्चिदुद्गमनकेन विलोलं विलम्बमानं वामांसाच्चीवरपटान्तमुत्क्षिप्य चानेकाभयदानदीक्षादक्षिणो दक्षिणं महापुरुषलक्षणलेखाप्रशस्तं स्निग्धमधुरया वाचा स्गौरवमारोग्यदानेन राजानमन्वग्रहीत् । अब्यनन्दच्च स्वागतगिरा गुरुमिवाब्यागतं बहु मन्यमानः स्वेनासनेनासद्द्वमत्रेति निमन्त्रयाञ्चकार । पार्श्वस्थितं च शिष्यमब्रवीत्--"आयुष्न्! उपानय कमण्डलुना पादोदकम्ऽ इति । राजा त्वचिन्तयत्--"अलोहः खलु संयमनपाशः शौजन्यमभिजातानाम् । स्थाने खलु तत्रभवान्गुणानुरागी ग्रहवर्मा बहुशो वर्णितवानस्य गुणान्ऽ इति । प्रकाशं चाबभाषे--"भगवन्! भवद्दर्शनपुण्यानुगृहीतस्य मम पुनरुक्त इवायमार्यप्रयुक्तः प्रतिभात्यनुग्रहः । चक्षुःप्रमाणप्रसादस्वीकृतस्य च परकरणमिवासनादिदानोपचारचेष्टितम् । अतिभूमिर्भूमिरेवासनं भवादृशां पुरः संबाषणा मृताभिषेकप्रक्षालितसकलवपुषश्च मे प्रदेशवृत्तिः । पाद्यमप्यपार्थकम् । आसतां भवन्तो यथासुखम् । आसीनोऽहम्ऽ इत्यभिधाय क्षितावेवोपाविशत् । "अलङ्कारो हि परमार्थतः प्रभवतां प्रश्रयातिशयः, रत्नादिकस्तु शिलाभारःऽ इत्याकलय्य पुनः पुनरब्यर्थ्यमानोऽपि यदा न प्रत्यपद्यत पार्थिवो वचनं तदा स्वमेवासनं पुनरपि भेजे भदन्तः । भूपतिमुखनलिननिहितनिभृतनयनयुगलनिगडनिश्चलीकृतहृदयस्च स्थित्वा काञ्चित्कालकलां कलिकालकल्मषकालुष्यमिव क्षालयन्नमलाभिर्दन्तमयूखमालाभिर्मूलफलाब्यवहारसंभवमुद्वमन्निव च परिमलसुबगं विकचकुसुमपटलपाण्डुरं लतावनमवादीत्--"अद्यप्रभृति न केवलमयमनिन्द्यो वन्द्योऽपि प्रकाशितसत्सारः संसारः । कि नाम नालोक्यते जीवद्भिरद्भुतं येन रूपमचिन्ततोपनतमिदं दृक्पथमुपगतम् । एवंविधैरनुमीयन्ते जन्मान्तरावस्थितसुकृतानि हृदयोत्सवैः । इहापि जन्मनि दत्तमेवास्माकममुना तपःक्लेशेन फलमसुलभदर्शनं दर्शयता देवानांप्रियम् । आ तृप्तेरापीतममृतमीक्षणाभ्याम् । जातं निरुत्कण्ठं मानसं निवृत्तिसुखस्य । महद्भिः पुण्यैर्विना न विश्राम्यन्ति सज्जने त्वादृसि दृशः । सुदिवसः स त्वं यस्मिञ्जातोऽसि । सा सुजाता जननी या सकलजीवलोकजीवितजनकमजनयदायुष्मन्तम् । पुण्यवन्ति पुण्यान्यपि तानि येषामसि परिणामः । सुकृततपसस्ते परमाणवो ये तव परिगृहीतसर्वावयवाः । तत्सुभगं सौभाग्यमाश्रितोऽसि येन । भव्यः स पुरुषभावो भवत्यवस्थितो यः । यत्सत्यं मुमुक्षोरपि मे पुण्यभाजमालोक्य पुनः श्रद्धा जाता मनुजजन्मनि । नेच्छद्भिरप्यस्माभिर्दृष्टः कुसुमायुधः । कृतार्थमद्य चक्षुर्वनदेवतानाम् । अद्य सफलं जन्म पादपानां येषामसि गतो गोचरम् । अमृतमयस्य भवतो वचसां माधुर्यं कार्यमेव । अस्यत्वीदृशे शैशवे विनयस्योपाध्यायं ध्यायन्नपि न संभावयामि भुवि । सर्वथा शून्य असीदजाते दीर्घायुषि गुणग्रामः । धन्यः स भूभृद्यस्य वंशे मणिरिव मुक्तामयः संभूतोऽसि । एवंविध्स्व च पुण्यवतः कथञ्चित्प्राप्तस्य केन प्रियं समाचराम इति पारिप्लवं चेतो नः । सकलवनचरसार्थधारणस्य कन्दमूलफलस्य गिरिसरिदम्भसो वा के वयम् । अपरोपकरणीकृतस्तु कायकलिरयमस्माकम् । सर्वस्वमवशिष्टमिष्टातिथ्याय । स्वायत्तस्च विद्यन्ते विद्याबिन्दवः कतिचित् । उपयोगं तु न प्रीतिर्विचारयति । यदि च नोपरुणद्धि कञ्चत्कार्यलवमरक्षणीयाक्षरं वा कथनीयं तत्कथयतु भवान् स श्रोतुमभिलषति हृदयं सर्वमिदं नः । केन कृत्यातिभारेण भव्यो भूषितवान्भूमिमेतामब्रमणयोग्याम्? कियदवधिर्वायं शून्याटवीपर्यटनवलेशः कल्याणराशेः? कस्माच्च संतप्तरूपेव ते तनुरियमसंतापार्हा विभाव्यते?ऽ इति । राजा तु सादरतरमब्रवीत्--"आर्य! दर्शितसंभ्रमेणानेन मधुरसविसरममृतमिव हृदयधृतिकरमनवरतं वर्षता वचसैव ते सर्वमनुष्ठितम् । धन्योऽस्मि यदेवमभ्यर्हितमनुपचरणीयमपि मान्यो मन्यते माम् । अस्य च महावनभ्रमणपरिक्लेशस्य कारणमवधारयतु मतिमान् । मम हि विनष्टनिखिलेष्टबन्धोर्जीवितानुबन्धस्य निबन्धनमेकैव यवीयसी स्वसावशेषा । सापि भर्तुर्वियोगाद्वैरिपरिभवभयाद्ब्रमन्ती कथमपि विन्ध्यवनमिदम्, अशुभशबरबलबहुलम्, अगणितगजकुलकलिलम्, अपरिमितमृगपतिशरभभयम्, उरुमहिषमुषितपथिकगमनम्, अतिनिशितशरकुशपरषम्, अवटशतविषममविशत् । अतस्तामन्वेष्टुं वयमनिशं निशि निशि च सततमिमामटवीमटामः । न चैनामासादयामः कथयतु च गुरुरपि यदि कदाचित्कुतश्चिद्वने चरतः श्रुतिपथमुपगता तद्वार्ताऽ इति । अथ तच्छुत्वा जातोद्वेग इव भदन्तः पुनरभ्यधात्--"धीमन्! न खलु कश्चिदेवंरूपो वृत्तान्तोऽस्मानुपागतवान् । अभाजनं हि वयमीदृशानां प्रियाख्यानोपायनानां भवताम्ऽ । इत्येवं भा,माण इव तस्मिन्नकस्मादाग्तयापरः शमिनि वयसि वर्तमानः संभ्रान्तरूप इव पुरस्तादुपरचिताञ्जलिर्जातकरुणः प्रक्षरितचक्षुर्बिक्षुरभाषत--"भगवन्भदन्त! महत्करुणं वर्तते । बालैव च बलवद्व्यसनाबिभूता भूतपूर्वापि कल्याणरूपा स्त्रोशोकावेशविवशा वैश्वानरं विशति । संभावयतु तामप्रोषितप्राणां भगवान् । अभ्युपपद्यतां समुचितैः समाश्वासनः । अनुपरतपूर्वं कृमिकीटप्रायमपि दुःखितं दयाराशेरार्यस्य गोचरगतम्ऽ इति । राजा तु जातानुजाशह्कः सोदर्यस्नेहाच्चान्तर्द्रुत इव दुःखेन दोदूयमानहृदयः कथमपि गद्गदिकागृहीतकण्ठो विकलवाग्बाष्पायमाणदृष्टिः पप्रच्छ--"पाराशरिन्! कियद्दूरे सा योषिदेवञ्जातीया दीवेद्वा कालमेतावन्तमिति । पृष्टा वा त्वया भद्रे! कासि, कस्यासि, कुतोऽसि, किमर्थं वनमिदमभ्युपगतासि, विशसि च किंनिमित्तमनलम्? इत्यादितश्च प्रभृति कार्त्स्न्येन कथ्यमानमिच्छामि श्रोतुं कथमार्यस्य गता दर्शनगोचरमाकारतो वा कीदृशोऽ इति । तथाभिहितस्तु भूभुजा भिक्षुराजजक्षे--"महाभाग! श्रूयताम्--अहं हि प्रत्युषस्येवाद्य वन्दित्वा भगवन्तमनेनैव नदीरोधसा सैकतसुकुमारेणयदुच्छया विहृतवानतिदूरम् । एकस्मिंञ्च वनलतागहने गिरिनदीसमीपभाजि भ्रमरीणामिव हिमहतकमलाकरकातराणां रसितं सार्यमाणानामतितारतानवर्तिनीनां वीणातन्त्रीणामिव झाङ्कारमेकतानं नारीणां रुदितमधृतिकरमतिकरुणमाकर्णितवानस्मि । समुपजातकृपश्च गतोऽस्मि तं प्रदेशम् । दृष्टवानस्मि च दृष्त्खण्डखण्डिताङ्गुलिगलल्लोहितेन च पार्ष्णिप्रविष्टशरशलाकाशल्यशूलसंकोचितचक्षुषा चाध्वनीनश्रमश्वयथुनिश्चलचरणेन च स्थाणवव्रणव्यथितगुर्फबद्धभूर्जत्वचा च वातखुडखेदखञ्जजङ्घाजातज्वरेण च पांसुपाण्डुरपिच्छकेन च खर्जूरजूटजटाजर्जरितजानुना च शतावरीविदारितोरुणा च विदारीदारिततनुदुकूलपल्लवेन चोत्कटवंशविटपकण्टककोटिपाटितकञ्चुककर्पटेन स फललोभावलम्बितानम्रबदरीलताजालकैरुत्कण्टकैरुल्लिखितसुकुमारकरोदरेण च कुरङ्गशृङ्गोत्खातैः कन्दमूलफलैः कदर्थितबाहुना ताम्बूलविरहविरसमुखखण्डितकोमलामलकीफलेन कुशकुसुमाहतिलोहिताना श्वयथुमतामक्ष्णां लेपीकृतमनःशिलेन च कण्टकिलतालूनालकलतेन च केनचित्किसलयोपपादितातपत्रकृत्येन केनचित्कदलीदलव्यजनवाहिना केनचित्कमलिनीपलाशपुटगृहीताम्भसा केनचित्पाथेयीकृतमृणालपूलिकेन केनचिच्चीनांशुकदशाशिक्यानिहितनालिकेरकोशकलशीकलितसरलतैलेन, कतिपयावशेषशोकविकलमूककुब्जवामनबधिरबर्बराविरलेनाबलानां चक्रवालेन परिवृताम्, आपत्कालेऽपि कुलोद्गतेनेवामुच्यमानां प्रभालेपिना लावण्येन, प्रतिबिम्बितैरासन्नवनलताकिसलयैः सरसैर्दुःखक्षतैरिवान्तःपटलीक्रियमाणकायाम्, कठोरदर्भाह्कुरक्षतक्षारिणा क्षतजेनानुसरणालक्तकेनेव रक्तचरणाम्, उन्नालेनान्यतरनारीधृतेनारविन्दिनीदलेन कृतच्छायमपि विच्छायं मुखमुद्वहन्तीम्, आकाशमपि शूनय्तयातिशयानाम्, मृन्मयीमिव निश्चेतनतया मरुन्मयीमिव निःश्वाससंपदा पावकमयीमिव संतापसंतानेन सलिलमयीमिवाश्रुप्रस्रवणेन वियन्मयीमिव निरवलम्बनतया तडिन्मयीमिव पारिप्लवतया शब्दमयीमिव परिदेवितवाणीबाहुल्येन मुक्तमुक्तांशुकरत्नकुसुमकनकपत्राभरणां कल्पलतामिव महावने पतिताम्, परमेस्वरोत्तमाङ्गपातदुर्ललिताङ्गां गङ्गामिव गां गातम्, वनकुसुमधूलिधूसरितपादपल्लवाम्, प्रभातचन्द्रमूर्तिमिव लोकान्तरमबिलषन्तीम्, निजजलमोक्षकदर्थितदर्शितधवलायतनेत्रशोमां मन्दाकिनीमृणालिनीमिव परिम्लायमानाम्, दुःसहरविकिरणसंस्पर्शखेदनिमीलितां कुमुदिनीमिव दुःखेन दिवसं नयन्तीम्, दग्धदशाविसंवादितां प्रत्यूषप्दीपशिखामिव क्षामक्षामां पाण्डुवपुषम्, पार्श्ववर्तिवारणाभियोगरक्ष्यमाणां वनकरिणीमिव महाह्रदे निमग्नाम्, प्रविष्टां वनगहनं ध्यानं च, स्थिता तरुतले मरणे च पतितां धात्र्युत्स ङ्गे महानर्थे च, दूरीकृतां भर्त्रा सुखेन च, विरेचितां भ्रमणेनायुषा च, आकुलां केशकलापेन मरणोपायेन च, विवर्णितामध्वधूलिभिरङ्गवेदनाभिश्च, दग्धां चण्डातपेन वैधव्येन च, धृतमुखीं पाणिना मौनेन च, गृहीतां प्रियसखीजनेन मन्युना च, तथा च भ्रष्टैर्बन्धुभिर्विलासैश्च, मुक्तेन श्रवणयुगलेनात्मना च, परित्यक्तै र्भूषणैः सर्वारम्भैश्च, भग्नैर्वलयैर्मनोरथैश्च, चरणलग्नाभिः, परिचारिकाभिर्दर्भाङ्कु रसूचीभिश्च, हृदयविनिहितेन चक्षुषा प्रियेण च, दीर्घैः शोकस्वसितैः केशेश्च, क्षीणेन वपुषा पुण्येन च पादयोः पतन्तोबिर्वृद्धाभिरश्रुवाराभिश्च, स्वल्पावशेषेण परिजनेन जोवितेन च, अलसामुत्मेषे, दक्षामश्रुमोक्षे, संततां चिन्तासु, विच्छिन्नामाशासु, कृसां काये, स्थूलां श्वसिते, पूरितां दुःखेन, रिक्ता सत्त्वेन, अध्यासितामायासेन, शून्यां हृदयेन, निस्चलां निस्चयेन, चलितां धैर्यात्, अपि च वसतिं व्यसनानाम्, आधानमाधीनाम्, अवस्थानमनवस्थानाम्, आधारमधृतीनाम्, आवासमवसादानाम्, आस्पदमापदाम्, अभियोगमभाग्यानाम्, उद्वेगमुद्वेगानाम्, कारणं करुणायाः, पारं परायत्तताया योषितम् । चिन्तितवानस्मि च चित्रमीदृशीमप्याकृतिमुपतापाः स्पृशन्तीति । सा तु समीपगते मयि तदवस्थापि सबहुमानमानतमौलिः प्रणतवती । अहं तु प्रबलकरुणाप्रेर्यमाणस्तामालपितुकामः पुनः कृतवान्मनसि--कथमिव महानुभावामेनामामन्त्रये । "वत्सेऽ इत्यतिप्रणयः, "मातःऽ इति चाटु, "भगिनिऽ इत्यात्मसंभावना, "देविऽ इति परिजनालापः, "राजपुत्रिऽ इत्यस्फुटम्, "उपासिकेऽ इति मनोरथः, "स्वामिनिऽ इति भृत्यभावाभ्युपगमः, "भद्रेऽ इतीतरस्त्रीसमुचितम्, "आयुष्मतिऽ इत्यवस्थायामप्रियम्, "कल्याणिनिऽ इति दशायां विरुद्धम्, "चन्द्रमुखिऽ इत्यमुनिमतम्, "बालेऽ इत्यगौरवोपेतम्, "आर्येऽ इति जरारोपणम् "पुण्यवतिऽ इति फलविपरीतम्, "भवतिऽ इति सर्वसाधारणम् । अपि च "कासिऽ इत्यनभिजातम्, किमर्थं रोदिषिऽ इति दुःखकारणस्मरणकारि, "मा रोदीःऽ इति शोकहेतुमनपनीय न शोभते, "समास्वसिहिऽ इति किमाश्रित्य, "स्वागतम्ऽ इति यातयामम्, "सुखमास्यतेऽ इति मित्या । इत्येवं चिन्तयत्येव मयि तस्मात्स्त्रैणादुत्थायान्यतरा योषिदार्यरूपेव शोकविक्लवा समुपसृत्य कतिपयपलितशारं शिरो नीत्वा महीतलमतुलहृदयसंतापसूचकैरश्रुबिन्दुभिस्चरणयुगलं दहन्ती ममातिकृपणैरक्षरैश्च हृदयमभिहितवती--"भगवन्! सर्वसत्त्वानुकम्पिनी प्रायः प्रव्रज्या । प्रतिपन्नदुःखक्षपणदीक्षादक्षाश्च भवन्ति सौगताः । करुणाकुलगृहं च भगवतः शाक्यमुनेः शासनम् । सकलजनोपकारसज्जा सज्जनता जैनी । परलोकसाधनं च धर्मो मुनीनाम् । प्राणरक्षणाच्च न परं पुण्यजातं जगति गीयते जनेन । अनुकम्पाभूमयः प्रकृत्यैव युवतयः किं पुनर्विपदभिभूताः? साधुजनश्च सिद्धक्षेत्रमार्तवचसाम् । यत इयं नः स्वामिनी मरणेन पितुरभावेन भर्तृः प्रवासेन च भ्रातुः भ्रंशेन च शेषस्य बान्धववर्गस्यातिमृदुहृदयतयानपत्यतया च निरवलम्बना, परिभवेन च नीचारातिकृतेन, प्रकृतिमनस्विनी अमुना च महाटवीपर्यटनवलेशेन कदर्थितसौकुमार्या, दग्धदैवदत्तैरेवंविधैर्बहुभिरुपर्युपरि व्यसनैविवलवीकृतहृदया, दारुणं दुःखमपारयन्ती सोढुं निवारयन्तमानाक्रान्तपूर्वं स्वप्नेऽप्यवगणय्य गुरुजनमनुनयन्तीरखण्डितप्रणया नर्मस्वपि समवधीर्य प्रियसखीर्विज्ञापयन्तमशरणमनाथमश्रुव्याकुलनयनमपरिभूतपूर्वं मनसापि परिभूय भृत्यवर्गमग्निं प्रविशति । परित्रायताम् । आर्योऽपि तावदसङ्यशोकापनयनोपायोपदेर्शानपुणां व्यापारयतु वाणीमस्याम्ऽ इति चातिकृपणं व्याहरन्तीमहमुत्थाप्योद्विग्नतरः शनैरभिहितवान्--"आर्ये! यथा कथयसि तथा । अस्मद्गिरामगोचरोऽयमस्याः पुण्याशयायाः शोकः । शक्यते चेन्मुहूर्तमात्रमपि त्रातुमुपरिष्टान्न व्यर्थेयमभ्यर्थना भविष्यतीति । मम हि गुरुरपर इव भगवान्सुगतः समीपगत एव । कथिते मयास्मन्नुदन्ते नियतमागमिष्यति परमदयालुः । दुःखान्धकारपटलभिदुरैश्च सौगतैः सुभाषितैः स्वकीयैश्च दर्शितनिदर्शनैर्नानागमगुरुभिर्गिरां कौशलैः कुशलशीलामेनां प्रबोधपदवीमारोपयिष्टतिऽ इति । तच्च श्रुत्वा "त्वरतामार्यःऽ इत्यभिदधाना सा पुनरपि पादयोः पतितवती । सोऽहमुपगत्य त्वरमाणो व्यतिकरमिममधृतिकरमशरणकृपणबहुयुवतिमरणमतिकरुणमत्रभवते गुरवे निवेदितवान्ऽ इति । अथ भूभृद्भैक्षवं समवधार्य तद्भाषितमश्रुमिश्रितमश्रुतेऽपि स्वसुर्नाम्नि निंम्नीकृतमना मन्युना सर्वाकारसंवादिन्या दशयैव दूरीकृतसंदेहो दग्ध इव सोदर्यावस्थाश्रवणेन श्रवणयोः श्रमणाचार्यमुवाच--"आर्य! नियतं सैवेयमनार्यस्यास्य जनस्यातिकठिनहृदयस्यातिनृशंसस्य मन्दभाग्यस्यभगिनी भागधेयैरेतामवस्थां नीता निष्कारणवैरिभिर्वराकी विदीर्यमाणं मे हृदयमेवं निवेदयतिऽ इत्युक्त्वा तमपि श्रमणमब्यधात्--"आर्य! उत्तिष्ट । दर्शय व्कासौ । यतस्व प्रभूतप्राणपरित्राणपुण्योपार्जनाय यामः, यदि कथञ्चिज्जीवन्तीं संभावयामःऽ इति भाषमाण एवोत्तस्थौ । अथ समग्रशिष्यवर्घानुगतेनाचार्येण तुरगेभ्यश्चावतीर्य समस्तेन सामन्तलोकेन पश्चादाकृष्यमाणाश्वीयेनानुगम्यमानः पुरस्ताच्च तेन शाक्यपुत्रीयेण प्रदिश्यमानवर्त्मा पद्भ्यामेव तं प्रदेशमविरलैः पदैः पिबन्निवप्रावर्तत । क्रमेण च समीपमुपगतः शुश्राव लतावनान्तरितस्य मुमूर्षोर्महतः स्त्रैणस्य तत्कालोचिताननेकप्रकारानालापान्--"भगवन्धर्म! धाव शीघ्रम् । ब्कासि कुलदेवते । देवि धरणि, धीरयसि न दुखितां दुहितरम् । व्क नु खलु प्रोषिता पुष्पभूतिकुटुम्बिनी लक्ष्मीः । अनाथां नाथ मुखरवश्यविविधाधिविधुरां वधूं विधवां विबोधयसि किमिति नेमाम् । भगवन्, भक्तजने संज्वरिणि सुगत सुप्तोऽसि । राजधर्मपुष्पभूतिभवनपक्षपातिन्, उदासीनीभूतोऽसि कथम् । त्वय्यपि विपद्बान्धव विन्ध्य, वन्ध्योऽयमञ्जलिबन्धः । मातर्महाटवि, रटन्तीं, नशृणोषीमामापत्पतिताम् । पतङ्ग, प्रसीद पाहि पतिव्रतामशरणम् । प्रयत्नरक्षित कृतघ्न चारित्रचण्डाल, न रक्षसि राजपुत्रीम् । किमवधृतं लक्षणैः । हा देवि दुहितृस्नेहमयि यशोमति, मषितासि दग्धधवदस्युना । देव, दुहितरि दह्यमानायां नापतसि । प्रतापशील, शिथिलीभूतमपत्यप्रेण । महाराज राज्यवर्धन, न धावसि मन्दीभूता भगिनीप्रीतिः । अहो निष्ठुरः प्रेतबावः । व्यपेहि पाप पावक स्त्रीघातनिर्घृण, ज्वलन्न लज्जसे । ब्रातर्वात, दासी तवास्मि । संवादय द्रुतं देवीदाहं देवाय दुःखितजनातिहराय हर्षाय । नितान्तनिःशूक शोकश्वपाक, सकामोऽसि । दुःखदायिन्वियोगराक्षस, संतुष्टीऽसि । विजने वने कमाक्रन्दामि कस्मै कथयामि, कमुपयामि शरणम्, कां दिशं प्रतिपद्ये, करोमि किमभागधेया । गान्धारिके, गृहीतोऽयं लतापाशः । पिशाचि मोचनिके, मुञ्च शाखाग्रहणकलहम् । कलहंसि हंसि, किमतःपरमुत्तमाङ्गम् । मङ्गलिके मुक्तगलं किमद्यापि रुद्यते । सुन्दरि, दूरीभवति सखीसार्थः । स्थास्यसि कथमिवाशिवे शवशिबिरे शबरिके सुतनु तनूनपाति पतिष्यसि त्वमपि । मृणालकोमले मालावति, मलानासि । मातर्मातङ्गिके, अङ्गीकृतस्त्वयापि मृत्युः । वत्से वत्सिके, वत्स्यसि कथमनभिप्रेते प्रेतनगरे । नागरिके, गरिमाणमागतास्यनया स्वामिभक्त्या । विराजिके, विराजितासि राजपुत्रीविपदि जीवितव्ययव्यवसायेन । भृगुपतनाभ्युद्यमबागाभिज्ञे भृङ्गारधारिणि, धन्यासि । केतकि, कुतः पुनरीदृशी स्वप्नेऽपि सुस्वामिनी । मेनके, जन्मनि जन्मनि देवीदास्यमेव ददातु देवो देवं दहन्दहनः । विजये, वीजय कृशानुम् । सानुमति, नमतीन्दीवरिका दिवं गन्तुकामा । कामदासि, देहि दहनप्रदक्षिणावकाशम् । विचारिके, विरचय वह्निम् । विकिर किरातिके, कुसुमप्रकरम् । कुररिके, कुरु कुरुबककोरकाचितां चिताम् । चामरं चामरग्राहिणि, गृहाण । पुनरपि कण्ठे मर्षयितव्यानिनर्मदे नर्मनिर्मितानि निर्मर्यादहसितानि । भद्रे सुभद्रे, भद्रमस्तु ते परलोकगमनम् । अग्रामीणगुणानुरागिणि ग्रामेयिके, गच्छ सुगतिम् । वसन्तिके, अन्तरं प्रयच्छ । आपृच्छते छत्रधारी देवि, देहि दृष्टिम् । इष्टा तव जहाति जीवितं विजयसेना । सेयं मुक्तिका मुक्तकण्ठमारटति निकटे नाटकसूत्रधारी । पादयोः पतति ते ताम्बूलवाहिनी बहुमता राजपुत्रि, पत्रलता । कलिङ्गसेने, अयं पश्चिमः परिष्वङ्गः । पीडय निर्भरमुरसा माम् । असवः प्रवसन्ति वसन्तसेने । मञ्जुलिके, मार्जयसि कतिकृत्वः सुदुःसहदुःखसहस्रास्रदिग्धं चक्षुरिदं, रोदिषि कियदाश्लिष्य च माम् । निर्माणमीदृशं प्रायशो यशोधने । धीरयस्यद्यापि किं मां माधविके । क्वेयमवस्था संस्थापनानाम् । गतः कालः कालिन्दि, सखीजनानुनयाञ्जलीनाम् । उन्मत्तिके मत्तपालिके, कृताः पृष्टतः प्रणयिनीप्रणिपातानुरोधाः । शिथिलयचकोरवति, चरणग्रहणं ग्रहिणि । कमलिनि, किमनेन पुनः पुनर्दैवोपालम्भेन । न प्राप्तं चिरं सखीजनसंगमसुखम् । आर्ये महत्तरिके तरड्गसेने, नमस्कारः । सखि सौदामिनि, दृष्टासि । समुपनय हव्यवाहनाचनकुसुमानि कमुदिके । देहि चितारोहणाय रोहिणि, हस्तावलम्बनम् । अम्व, धात्रि, धीरा भव । भवन्त्येवंविधा एव कर्मणां विपाकाः पापकारिणीनाम् । आर्यचरणानामयमञ्जलिः । परः परलोकप्रयाणप्रणामोऽयं मातः । मरणसमये कस्माल्लवलिके, हलहलको बलीयानानन्दमयो हृदयस्य मे । हृष्यन्त्युच्चरोमाञ्चमुञ्चि किमङ्गीकृत्याङ्गानि । वामनिके, वामेन मे स्फुरितमक्ष्णा । वृथा विरससि वयस्य वायस, वृक्षे क्षीरिणि क्षणे क्षणे क्षीणपुण्यायाः पुरः । हरिणि, हेषितमिव हयानामुत्तरतः । कस्येदमातपत्रमुच्चमत्र पादपान्तरेण प्रभावति, विभाव्यते । कुरङ्गिके, केन सुगृहीतनाम्नो नाम गृहीतममृतमयमार्यस्य । देवि, दिष्ट्या वर्धसे देवस्य हर्षस्यागमनमहोत्सवेनऽ । इत्येतच्च श्रुत्वा सत्वरमुपससर्प । ददर्श च मुह्यन्तीमग्निप्रवेशायोद्यतां राजा राज्यश्रियम् । आललम्बे च मूर्च्छामीलितलोचनाया ललाटं हस्तेन तस्याः ससंभ्रमम् । अथ तेन भ्रातुः प्रेयसः प्रकोष्ठबद्धानामोषधीनां रसविरसमिव प्रत्युज्जीवनक्षमं क्षरता वमतेव पारिहार्यमणीनामचिन्त्यं प्रबावममृतमिव नखचन्द्ररश्मिभिरुद्गिरता बध्नतेव चन्द्रोदयच्युतशिशिरशीकरं चन्द्रकान्तचूडामणिं मूर्धनि मृणालमयाङ्गुलिनेवातिशीतलेन निर्वापयता दह्यमाम हृदयप्रत्यानयतेव कुतोऽपि जीवितमाह्लादकेन हस्तसंस्पर्शेन सहसैव समुन्मिमील राज्यश्रीः । तथा चासंभावितागमनस्याचिन्तितदर्शनस्य सहसा प्राप्तस्य भ्रातुः स्वप्नदृष्टदर्शनस्येव कण्ठे समाश्लिष्य तत्कालाविर्भावनिर्भरेणाभिभूतसर्वात्मना दुःखसंभारेण निर्दयं नदीमुखप्रणालाब्यामिवमुक्ताभ्यां स्थूलप्रवाहमुत्सृजन्ती बाष्पवारि विलोचनाभ्याम् "हा तात, हा अम्ब हा सख्यःऽ इति व्याहरन्ती, मुहुर्मुहुरुच्चैस्तरां च समुद्भूतभगिनीस्नेहसद्भावभारभावितमन्युना मुक्तकण्ठमतिचिरं विक्रुश्य "वत्से, स्थिरा भव त्वम्ऽ इति भ्रात्रा करस्थगितमुखी समाश्वास्यमानापि, "कल्याणिनि, कुरु वचनमग्रजस्य गुरोःऽ इत्याचार्येण याच्यमानापि, देवि, न पश्यसि देवस्यावस्थाम् । अलमतिरुदितेनऽ इति राजलोकेनाब्यर्थ्यमानापि, "स्वामिनि, भ्रातरमवेक्षस्वऽ इति परिजनेन विज्ञाप्यमानापि, "दुहितः, विश्रम्य पुनरारटितव्यम्ऽ इति निवार्यमाणापि बान्धववृद्धाभिः, "प्रियसखि, कियद्रोदिषि, तूष्णीमास्स्व । दृढं दूयते देवऽ इति सखीभिरनुनीयमानापि, चिर संभावितानेकदुःसहदुःखनिवहनिर्बवणबाष्पोत्पीडपीड्यमानकण्ठभागा, प्रभूतमन्युभारभरितान्तःकरणा करुणं काहलेन स्वरेण कतिचित्कालमतिदीर्घं रुरोद । विगते च मन्युवेगे वह्नेः समीपादाक्षिप्य भ्राता नीता निकटवर्तिनि तरुतले निषसाद । शनैराचार्यस्तु तथा हर्ष इति विज्ञाय विवर्धितादरः सुतरां मुहूर्तमिवातिवाह्य निभृतसंज्ञाज्ञापितेन शिष्येणोपनीतं नलिनीदलैः स्वयमेवादाय नम्रो मुखप्रक्षालनायोदकमुपनिन्ये । नरेन्द्रोऽपि सादरं गृहीत्वा प्रथममनवरतरोदनाताम्रं चिरप्रवृत्ताश्रुजलजालं रक्तपङ्गजमिव स्वसुश्चक्षुरक्षालयत्पश्चादात्मनः । प्रक्षालितमुखशशिनि च महीपाले सर्वतो निःशब्दः संबभूवसकलो लिखित इव लोकः । ततो नरेन्द्रो मन्दमन्दमब्रवीत्स्वसारम्--"वत्से! वन्दस्वात्रभवन्तं भदन्तम् । एष ते भर्तुर्हृदयं द्वितीयमस्माकं च गुरुःऽ इति । राजवचनात्तु राजदुहितरि पतिपरिचयश्रवणोद्घातेन पुनरानीतनेत्राम्भसि नमन्त्यामाचार्यः प्रयत्नरक्षितागमागतबाष्पाम्भःसंभारभज्यमानधैर्यार्द्रलोचनः किञ्चित्परावृत्तनयनो दीर्घं निःशश्वास । स्मित्वा च क्षणमेकं प्रदर्शितप्रश्रयो मृदुवादी मधुरया वाचा व्याजहार--"कल्याणराशे! अलं रुदित्वातिचिरम् । राजलोको नाद्यापि रोदनान्निवर्तते । क्रियतामवश्यकरणीयः स्नानविधिः । स्नात्वा च गम्यता तामेव भूयो भुवम्ऽ इति । अथ भूपतिरनुवर्तमानो लौकिकमाचारमाचार्यवचनं चोत्थाय स्नात्वा गिरिसरिति सह स्वस्रा तामेव भूमिप्तयासीत् । तस्यां च सपरिजनां प्रथममाहितावधानः पार्श्ववर्ती परवतीं शुचा पतिपिण्डप्रदर्शितप्रयत्नप्रतिपन्नाभ्यवहारकारणां भगिनीमभोजयत् । अनन्तरं च स्वयमाहारस्थितिमकरोत् । भुक्तवांश्च बन्धनात्प्रभृति विस्तरतः स्वसुः कान्यकुब्जाद्गौडसंभ्रमं गुप्तितो गुप्तनाम्ना कुलपुत्रेण निष्कासनं निर्गतायाश्च राज्यवर्धनमरणश्रवणं श्रुत्वा चाहारनिराकरणमनाहारपराहतायाश्च विन्ध्याटवीपर्यटनखेदं जातनिर्वेदायाः पात्रकप्रवेशोपक्रमणं यावत्सर्वमशृणोद्व्यतिकरं परिजनतः । ततः सुखासीनमेकत्र तरुतले विविक्तभुवि भगिनीद्वितीयं दूरस्थितानुजीविजनं राजानमाचार्यः समुपसृत्य शनैरासांचक्रे । स्थित्वा च कञ्चित्कालांशं लेशतो वक्तुमुपचक्रमे--"श्रीमन्! आकर्ण्यताम् । आख्येयमस्ति नः किञ्चित्-- अयं हि यौवनौन्मादात्परिभूय भूयसीर्भार्या यौवनावतारतरलतरास्ताराराजो रजनीकर्णपूरः पुरा पुरुहूतपुरोधसो धिषणस्य पुरन्ध्रीं धर्मपत्नीं पत्नीयन्नतितरलस्तारां नामापजहार । नाकतश्च पलायाञ्चक्रे । चकितचकोरलोचनया च तया सहातिकामया सर्वाकाराभिरामया रममाणो रमणीयेषु देशेषु चचार । चिराच्च कथञ्चित्सर्वगीर्वाणवाणीगौरवाद्गिरां पत्युः पुनरिप प्रत्यर्पयामास ताम् । हृदये त्वनिन्धनमदह्यत विरहाद्वरारोहायास्तस्याः सततम् । एकदा तु शैलादुदयाददयमानो विमले वारिणि वरुणालयस्य संक्रान्तमात्मनः प्रतिबिम्बं विलोकितवान् । दृष्ट्वा च तत्तदा सस्मरः सस्मार स्मेरगण्डस्थलस्य ताराया मुखस्य । मुमोच स मन्मथोन्मादमथ्यमानमानसः स्वःस्थोऽप्यस्वस्थः स्थवीयसः पीतसकलकुमुतवनप्रभाप्रवाहधवलताराभ्यामिव लोचनाभ्यां बाष्पवारिबिन्दून् । अथ पततस्तानुदन्वति समस्तानेवाचेमुर्मुक्ताशुक्तयः । तासां च कुक्षिकोषेषु मुक्ताफलीभूतानवाप तान्कथमपि रसातलनिवासी वासुकिर्नाम विषमुचामीशः । स च तैर्मुक्ताफलैः पातालतलेऽपि तारागणमिव दर्शयद्भिरेकावलीमकल्पयत् । चकार च मन्दाकिनीति नाम तस्याः । सा च भगवतः सोमस्य सर्वासामोषधीनामधिपतेः प्रभावादत्यन्तविषघ्नी हिमामृतसंभवत्वाच्च स्पर्शेन सर्वसत्त्वसंतापहारिणी बभूव । यतः स तां सर्वदा विषोष्मशान्तये वासुकिः पर्यधत्त । समतिक्रामति च कियत्यपि काले कदाचिन्नामैकावलीं तस्मान्नागराजान्नागार्जुनो नाम नागैरेवानीतः पातालतलं भिक्षुरभिक्षत लेभे च । निर्गत्य च रसातलात्त्रिसमुद्राधिपतये सातवाहननाम्ने नरेन्द्राय सुहृदे स ददौ ताम् । सा चास्माकं कालेन शिष्यपरम्परया कथमपि हस्तमुपगता । यद्यपि च परिभव इव भवति भवादृशां दत्त्रिम उपचारस्तथाप्योषधिबुद्ध्या बुद्धिमता सर्वसत्त्वराशिरक्षाप्रवृत्तेन रक्षणीयशरीरेणायुष्मता विषरक्षापेक्षया गृह्यताम्ऽ इत्यभिधाय भिक्षोरभ्याशवर्तिनश्चीवरपटान्तसंयतां मुमोच तामेकावलीं मन्दाकिनीम् । उन्मुच्यमानाया एव यस्याः प्रभालेपिनि लब्धावकाशे विशदमहसि महीयसि विसर्पति रश्मिमण्डले युगपद्धवलायमानेषु दिङ्मुकेषु मुकुलितलतावधूत्कण्ठितैरामूलाद्विकसितमिव तरुभिः, अभिनवमृणाललुब्धैर्धावितमिव धुतपक्षपुटपटलधवलितगगनं वनसरसीहंसयूथैः, स्फुटितमिव भरवशविशीर्यमाणधूलिधवलैर्गर्भभेदसूचितसूचीसंचयशुचिभिः केतकीवाटेः, उद्दलितदन्तुराबिः प्रबुद्धमिव कुमुदिनीभिः, विद्युतसितसटाभारभरितदिक्चक्रैश्चलितमिव केसरिकुलैः, प्रहसितमिव सितदशनांशुमालालोकलिप्यमानवनं वनदेवताभिः, विकसितमिव शिथिलितकुसुमकोशकेसराट्टहसानिरङ्कुशं काशकाननैः, भ्रान्तमिव संब्रमभ्रमितबालपल्लवपरिवेषश्वेतायमानैश्चमरीकदम्बकैः, प्रसृतमिव स्फायमानफेनिलतरलतरतरह्गोद्गारिणा गिरिनदीपूरेण, अपरतारागणलोभमुदितेनोदितमिव विकचमरीचिचक्रान्तककुभा पूर्णचन्द्रेण, प्रक्षालित इव दावानलधूलिधूसरितदिगन्तो दिवसः, पुनरिव धौतान्यश्रुजलक्लिष्टानि नारीणां मुखानि । राजा तु मांसलैस्तस्याः संमुखैर्मयूखैराकुलीक्रियमाणं मुहुर्मुहुरुन्मीलयन्निमीलयंश्च चक्षुः कथमपि प्रयत्नेन ददर्श सर्वाशापूरणीं पङ्क्तीकृतामिव दिङ्नागकरशीकरसंहतिम्, घनमुक्तां शारदीमिव लेखीकृतां ज्योत्स्नाम्, प्रकटपदकचिह्नां संचारवीथीमिव बालेन्दोर्निश्चलीभूतां सप्तर्षिमालामिव हस्तमुक्ताम्, अभिभूतसकलभुवनभूषणभूतिप्रभावामिवैशानीं शशिकलाम्, धवलतागुणपरिगृहीतां कान्तिमिव निर्गतां क्षीरराशेः अनेकमहामहीभृत्परम्परागतां गङ्गामिव दुर्गतिहराम्, अनवरतस्फुरिततरलाशुकां पुरःसरपताकामिव महेश्वरभावागमस्य, अनसारशुक्लां दन्तपङ्क्तिमिवाभिमुखस्येश्वरस्य, वरमनोरथपूरणसमर्थां स्वयंवरस्रजमिव भुवनश्रियः, निजकरपल्लवावरणादुर्लक्ष्यां चक्षूरागविहसतिकामिव वसुधायाः, मन्त्रकोशसाधनप्रवृत्तस्याक्षमालामिव राजधर्मस्य, समुद्रालङ्गारभूतां संख्यालेख्यपट्टिकामिव कुबेरकोशस्य । पश्यंश्चैतां विस्मयमाजगाम मनसा सुचिरम् । आचार्यस्तु तामुद्धृत्य बबन्ध बन्धुरे स्कन्धभागे भूपतेः । अथ नरपतिरपि प्रतिप्रीतिमुपदर्शयन्प्रत्यवादीत्--"आर्य! रत्नानामीदृशानामनर्हाः प्रायेण पुरुषाः । तपःसिद्धिरियमार्यस्य देवताप्रसादो वा । के च वयमिदानीमात्मनोऽपि किमुत ग्रहणस्य प्रत्याख्यानस्य वा । दर्शनात्प्रभृति प्रभूतगुरुगुणगणहृतेन हृदयेन परवन्तो वयम् । संकल्पितमिदमामरणादार्योपयोगाय शरीरम् । अत्र कामचारो वः कर्तव्यानाम्ऽ इति । समतिक्रान्ते च कियत्यपि काले गते चैकावलीवर्णनालापे लोकस्यानन्तरं लब्धविश्रम्भा राज्यश्रीस्ताम्बूलवाहिनीं पत्रलतामाहूयोपांशुकिमपि सर्णमूले शनैरादिदेश । दर्शितविनया च पत्रलता पार्थिवं व्यज्ञापयत्--"देव! देवी विज्ञापयति न स्मराम्यार्यस्य पुरः कदाचिदुच्चैर्वचनमपि । कुतो विज्ञापनम् । इयं हि शुचामसह्यतां व्यापारयन्ती हतदैवदत्ता च दशा शिथिलयति विनयम् । अबलानां हि प्रायशः पतिरपत्यं वावलम्बनम् । उभयविकलानां तु दुःखानलेन्धनायमानं प्राणितमशालीनत्वमेव केवलम् । आर्यागमनेन च कृतोऽपि प्रतिहतो मरणप्रयत्नः । यतः काषायग्रहणाभ्यनुज्ञयानुगृह्यतामयमपुण्यभाजनं जनःऽ इति । जनाधिपस्तु तदाकर्ण्य तूष्णीमेवावतिष्ठत् । अथाचार्यः सुधीरमभ्यधात्--"आयुष्मति! शोको हि नाम पर्यायः पिशाचस्य, रूपान्तरमाक्षेपस्य, तारुण्यं तमसः, विशेषणं विषस्य, अनन्तकः प्रेतनगरनायकः, अयमनिर्वृतिधर्मा दहनः, अयमक्षयो राजयक्ष्मा, अयमलक्ष्मीनिवासो जनार्दनः, अयमपुण्यप्रवृत्तः क्षपणकः, अयमप्रतिबोधो निद्राप्रकारः, अयमनलसधर्मा संनिपातः, अयमशिवसहचरो विनायकः, अयमबुधसेवितो ग्रहवर्गः, अयमयोगसमुत्थो ज्योतिःप्रकारः, अयं स्नेहाद्वायुप्रकोपः, मानसादग्निसंभवः, आर्द्रभावाद्रजःक्षोभः, रसादभिशोषः, रागात्कालपरिणामः । तदस्याजस्रास्रस्राविणो हृदयमहाव्रणस्य बहलदोषान्धकारलब्धप्रवेशप्रसरस्य प्राणतस्करस्य शून्यताहेतोर्महाभूतग्रामघातकस्य सकलविग्रहक्षपणदक्षस्य दोषचक्रवर्तिनः कार्श्यश्वासप्रलापोपद्रवबहलस्य दोर्घरोगस्यासद्ग्रहस्य सकललोकक्षयधूमकेतोर्जीवितापहारदक्षस्याक्षणरुचेरनभ्रवज्रगातस्य स्फुरदनवद्यविद्याविद्युद्विद्योतमानानि गहनग्रन्धगूढगर्भग्रहणगम्भीराणि भूरिकाव्यकथाकठोराणि बहुशाखोद्वहनबृहन्ति विदुषामपि हृदयानि नालं सोढुमापातं किमुत नवमालिकाकुसुमकोमलानां सरसबिसतन्तुदुर्बलकमबलानां हृदयम् । एवं सति सत्यव्रते! वद किमत्र क्रियते, कतम उपालभ्यते, कस्य पुर उच्चैराक्रद्यन्ते, हृदयदाहि दुःखं वा ख्याप्यते? सर्वमक्षिणो निमोल्य सोढव्यममूढेन मर्त्यधर्मणा । पुण्यवति! पुरातन्यः स्थितय एताःकेन शक्यन्तेऽन्यथाकर्तुम् । संसरन्त्यो नक्तन्दिवं द्राघीयस्यो जन्मजरामरणघटनघटीयन्त्रराजिरज्जवः सर्वपञ्चजनानाम् । पञ्चमहाभूतपञ्चकुलाधिष्ठितान्तःकरणव्यवहारदर्शननिपुणाः सर्वङ्कषा विषमा धर्मराजस्थितयः । क्षणमपि क्षममाणा गलन्त्यायुष्कलाकलनकुशला निलये निलये कालनालिकाः । जगति सर्वजन्तुजीवितोपहारपातिनी संचरति झटिति चण्डिका यमाज्ञा । रटन्त्यनवरतमखिलप्राणिप्रयाणप्रकटनपटवः प्रेतपतिपटहाः । प्रतिदिशं पर्यटन्ति पेटकैः प्रतप्तलोहलोहिताक्षाः कालकूटकान्तिकालकायाः कालपाशपाणयः कालपुरुषाः । प्रतिभवनं भ्रमन्ति भीषणकिङ्करकरघट्टितयमघण्टापुटपटुटाङ्कारभयङ्कराः सर्वसत्त्वसंघसंहरणाय घोराघातघोषणाः । दिशि दिशि वहन्ति बहुचिताधूमधूसरितप्रेतपतिपताकापटुपतितगृध्रदृष्टयः शोककृतकोलाहलकुलकुटुम्बिनीविकीर्णकेशकलापशबलशवशिबिकासहस्रसंङ्कुलाः किलकिलायमानश्मशानशिविरशिवाशावकाः परलोकावसथपथिकसार्थप्रस्थानविशिखा वीथयः । सकललोककवलावलेहलम्पटा बहला वहंलिहा लेढि लोहिताचिता चिताङ्गारकाली कालरात्रिजिह्वा जीवितानि जीविनाम् । तृप्तमशिक्षिता च भगवतः सर्वभूतभुजो बुभुक्षा मृत्योः । अतिद्रुतवाहिनी चानित्यतानदी । क्षणिकाश्च महाभूतग्रामगोष्ठयः । रात्रिषु भह्गुराणि पात्रयन्त्रपञ्जरदारूणि देहिनाम् । अशूभशुभावेशविवशा विशरवः शरीरनिर्माणपरमाणवः । छिदुरा जीवबन्धनपाशतन्त्रीतन्तवः । सर्वमात्मनोऽनीश्वरं विश्वं नश्वरम् । एवमवधृत्य नात्यर्थमेवार्हसि मेधाविनि मृदुनि मनसि तमसः प्रसरं दातुम् । एकोऽपि प्रतिसंख्यानक्षण आधारीभवति धृतेः । अपि च दूरगतेऽपि हि शोके नन्विदानीमपेक्षणीय एवायं ज्येष्ठः पितृकल्पो भ्राता भवत्या गुरुः । इतरथा को न बहु मन्येत कल्याणरूपमीदृसं संकल्पमत्रभवत्याः काषायग्रहणकृतम् । अखिलमनोज्वरप्रशमनकारणं हि भगवती प्रव्रज्या । ज्यायः खल्विदं परमात्मवताम् । महाभागस्तु भिनत्ति मनोरथमधुना । यदयमादिशति तदेवानुष्ठेयम् । यदि भ्रातेति यदि ज्येष्ठ इति यदि वत्स इति यदि गुणवानिति यदि राजेति सर्वथा स्थातव्यमस्य नियोगेऽ इत्युक्त्वा व्यरंसीत् । उपरतवचसि च तस्मिन्निजगाद नरपतिः--"आर्यमपहाय कोऽन्य एवमभिदध्यात् । अनभ्यर्थितदैवनिर्मिता हि विषमविपदवलम्बनस्तम्भा भवन्तो लोकस्य । स्नेहार्द्रमूर्तयो मोहान्धकारध्वंसिनश्च धर्मप्रदीपाः । किन्तु प्रणयप्रदानदुर्ललिता दुर्लभमपि मनोरथमतिप्रीतिरभिलषति । धीरस्यापि धार्ष्ट्यमारोपयति हृदयं लङ्घितलघिमातिवल्लभत्वम् । युक्तायुक्तविचारशून्यत्वाच्च शालीनमपि शिक्षयन्ति स्वार्थतृष्णाः प्रागल्भ्यम् । अभ्यर्थनाया रक्षन्ति च जलनिधय इव मर्यादामार्याः । दत्तमेव च शरीरमिदमनभ्यर्थितेन प्रथममेवातिथ्याय माननीयेन भवता म्हयम् । अतः किञ्चिदर्थये भदन्तमियं नः स्वसा बाला च बहुदुःखखेदिता च सर्वकार्यावधीरणोपरोधेनापि यावल्लालनीया नित्यम् । अस्माभिश्च भ्रातृवधापकारिरिपुकुलप्रलयकरणोद्यतस्य बाहोर्विधेयैर्भूत्वा सकललोकप्रत्यक्षं प्रतिज्ञा कृता । पूर्वावमाननाभिभवमसहमानैरर्पित आत्मा कोपस्य । अतो नियुङ्क्तां कियन्तमपि कालमात्मानमार्योऽपि कार्ये मदीये । दीयतामतिथये शरीरमिदम् । अद्यप्रभृति यावदयं जनो लघयति प्रतिज्ञाभारम्, आश्वासयति च तातविनाशदुःखविक्लवाः प्रजाः, तावदिमामत्रभवतः कथाभिश्च धर्म्याभिः, कुशलप्रतिबोधविधायिभिरुपदेशैश्च दूरापसारितरजोभिः, शीलोपशमदायिनीभिश्च देशनाभिः, क्लेशप्रहाणहेतुभूतैश्च तथागतैर्दर्शनैः, अस्मात्पार्श्वोपयायिनीमेव प्रतिबोध्यमानामिच्छामि । इयं तु ग्रहीष्यति मयैव समं समाप्तकृत्येन काषायाणि । अर्थिजने च किमिवनातिसृजन्ति महान्तः । सुरनाथमात्मास्थिभिरपि यावत्कृतार्थमकरोद्धैर्योदधिर्दधीचः । मुनिनाथोऽप्यनपेक्षितात्मस्थितिरनुकम्पेति कृत्वा कृपावानात्मानं वठरसत्त्वेभ्यः कतिकृत्वो न दत्तवान् । अतः परं भवन्त एव बहुतरं जानन्ति--इत्युक्त्वा तूष्णीं बभूव भूपतिः । भूयस्तु बभाषे भदन्तः--"भव्या न द्विरुच्चारयन्ति वाचम् । चेतसा प्रथममेव प्रतिग्राहिता गुणास्तावकाः कायबलिमिमाम् । अमुना जनेन उपयोगस्तु निरुपयोगस्यास्य लघुनि गुरुणि वा कृत्ये गुणवदायत्तःऽ इति । अथ तथा तस्मिन्नभिनन्दितप्रणये प्रीयमाणः पार्थिवस्तत्र तामुषित्वा विभावरीमुषसि च वसनालङ्कारादिप्रदानपरितोषितं विसर्ज्य निर्घातमाचार्येण सह स्वसारमादाय प्रयाणकैः । कतिपयैरेव कटकमनुजाह्नवि निविष्ट प्रत्याजगाम । तत्र च राज्यश्रीप्राप्तिव्यतिकरकथां कथयत एव प्रणयिभ्यो रविरपि ततार गगनतलम् । बहलमधुपङ्कपिङ्गलः पङ्गजाकर इव संचुकोच चक्रवाकवल्लभो वासरः प्रकीर्णआनि नवरुधिररसारुणवर्णानि लोकालोकजूंषि यजूंषीव कुपितयाज्ञवल्क्यवक्त्रवान्तानि निजवपुषि पूषा पापमूषि पुनरपि संजहार जालकानि रोचिषाम् । क्रमेण च समुपोह्यमानमांसलरागरोचिष्णुरुष्णाशुरुष्णीषबन्धसहजचूडामणिरिव वृकोदरकरपुटोत्पाटितः, प्रत्यग्रशोणितशोणाङ्गरागरौद्रो द्रौणायनस्य, रुद्रभिक्षादानशौण्डपुरमथनमुक्तमुण्डशिरानाडिरुधिरपूरणशोणितकपिलः कपालकर्पर इव च पैतामहः, पितृवधरुषितरामरागरचितः पृथुविकटकार्तवीर्यांसकूटकुट्टाककुठारतुण्डतष्टदुष्टक्षत्रियकण्ठकुहररुधिरकुल्याप्रणालसहस्रपूरितो ह्रद इव दूररोधी रौधिरो भयनिगूढकरचरणमुण्डमण्डलाकृतिर्गुरुगरुडनखपञ्जराक्षेपक्षपणक्षिप्तक्षतजोक्षितो व्यसुर्विभावसुः कण्ठ इव च लोठ्यमानः, नभस्यरुणगर्भमांसपिण्ड इव च खण्जिमानमानीतः, नियतकालातिपातदूयमानदाक्षायणीक्षिप्तः धातुतट इव च सुमेरोरसुरवधाभिचारचरुपचनपिशुनः शोणितव्काथकषायितकुक्षिरतिविसंकटः कटाह इव च बार्हस्पत्यः, सद्योगलितगजदानवदेहलोहितोपलेपभीषणः मुखमण्डलाभोग इव महाभैरवस्य मुहूर्तमदृश्यत । जलनिधिजलप्रतिबिम्बितरविबिम्बाराजिभास्वराभ्रावलम्बिनी गृहीतार्द्रमांसभारेव चाबभासे वासरावसानवेला वेतालनिभा । ज्वलत्संध्यारागरज्यमानजलप्रवाहः पुनरिव पुराणपुरुषपीवरोरुसंपुटपिष्टमधुकैटभरुधिरपटलपाटलवपुरभवदधिपतिरर्णसाम् । समवसिते च संध्यांसमये समनन्तरमपरिमितयशःपानतृषिताय मुक्ताशैलशिलाचषक इव निजकुलकीर्त्या, कृतयुगकरणोद्यतायादिराजराजतशासनमुद्रानिवेश इव राज्यश्रिया, सकलद्वीपजिगीषाचलिताय श्वेतद्वीपदूत इव चायत्या, श्वेतभानुरुपानीयत निशया नरेन्द्रायेति भद्रमोम् ॥ इति श्रीमहाकविबाणभट्टकृतौ हर्षचरितेऽष्टम उच्छ्वासः