काव्यप्रकाशः प्रथम उल्लासः ग्रन्थारम्भे विघ्नविघाताय समुचितेष्टदेवतां ग्रन्थकृत्परामृशति नियतिकृतनियमरहितां ह्लादैकमयीमनन्यपरतन्त्राम् । नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति ॥ कारिका १ ॥ नियतिशक्त्या नियतरूपा सुखदुःखमोहस्वभावा परमाण्वाद्युपादानकर्मादिसहकारिकारणपरतन्त्रा षड्रसा न च हृद्यैव तैः, तादृशी ब्रह्मणो निर्मितिर्निर्माणम् । एतद्विलक्षणा तु कविवाङ्निर्मितिः । अत एव जयति । जयत्यर्थेन च नमस्कार आक्षिप्यते इति तां प्रत्यस्मि प्रणत इति लभ्यते ॥१॥ इहाभिधेयं सप्रज्योजनमित्याह काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे ॥ कारिका २ ॥ कालिदासादीनामिव यशः श्रीहर्षादेर्धावकादीनामिव धनं राजादिगतोचिताचारपरिज्ञानमादित्यादेर्मयूरादीनामिवानर्थनिवारणम् । सकलप्रयोजनमौलिभूतं समनन्तरमेव रसास्वादनसमुद्भूतं विगलितवेद्यान्तरमानन्दं प्रभुसंमितशब्दप्रधानवेदादिशास्त्रेभ्यः शब्दार्थयोर्गुणभावेन रसाङ्गभूतव्यापारप्रवणतया विलक्षणं यत्काव्यं लोकोत्तरवर्णनानिपुणकविकर्म तत्कान्तेव सरसतापादनेनाभिमुखीकृत्य रामादिवद्वर्तितव्यं न रावणादिवदित्युपदेशं च यथायोगं कवेः सहृदयस्य च करोतीति सर्वथा तत्र यतनीयम् ॥२॥ एवमस्य प्रयोजनमुक्त्वा कारणमाह शक्तिर्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात् । काव्यज्ञशिक्षयाभ्यास इति हेतुस्तदुद्भवे ॥ कारिका ३ ॥ शक्तिः कवित्वबीजरूपः संस्कारविशेषः यां विना काव्यं न प्रसरेत्प्रसृतं वा उपहसनीयं स्यात् । लोकस्य स्थावरजङ्गमात्मकलोकवृत्तस्य । शास्त्राणां छन्दोव्याकरणाभिधानकोशकलाचतुर्वर्गगजतुरगखड्गादिलक्षणग्रन्थानाम् । काव्यानां च महाकविसंबन्धिनाम् । आदिग्रहणादितिहासानां च विमर्शनाद्व्युत्पत्तिः । काव्यं कर्तुं विचारयितुं च ये जानन्ति तदुपदेशेन करणे योजने च पौनःपुन्येन प्रवृत्तिरिति । त्रयः समुदिताः न तु व्यस्ताः तस्य काव्यस्योद्भवे निर्माणे समुल्लासे च हेतुर्न तु हेतवः ॥३॥ एवमस्य कारणमुक्त्वा स्वरूपमाह तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः क्वापि । दोषगुणालङ्काराः वक्ष्यन्ते । क्वापीत्यनेनैतदाह यत्सर्वत्र सालङ्कारौ क्वचित्तु स्फुटालङ्कारविरहेऽपि न काव्यत्वहानिः । यथा {यः कौमरहरः स एव हि वरस्ता एव चैत्रक्षपास्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः । सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविदौ रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥१॥} <([शीलाभट्टारिका], एत्च्.)> अत्र स्फुटो न कश्चिदलङ्कारः । रसस्य च प्राधान्यान्नालङ्कारता । तद्भेदान् क्रमेणाह इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद्ध्वनिर्बुधैः कथितः ॥ कारिका ४ ॥ इदमिति काव्यम् । बुधैर्वैयाकरणैः प्रधानभूतस्फोटरूपव्यङ्ग्यव्यञ्जकस्य शब्दस्य ध्वनिरिति व्यवहारः कृतः । ततस्तन्मतानुसारिभिरन्यैरपि न्यग्भावितवाच्यव्यङ्ग्यव्यञ्जनक्षमस्य शब्दार्थयुगलस्य । यथा {निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोछरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवयं तनुः । मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥२॥} <(अमरुशतक १०५)> अत्र तदन्तिकमेव रन्तुं गतासीति प्राधान्येनाधमपदेन व्यज्यते ॥४॥ अतादृशि गुणीभूतव्यङ्ग्यं व्यङ्ग्ये तु मध्यमम् । अतादृशि वाच्यादनतिशायिनि । यथा {ग्रामतरुणं तरुण्या नववञ्जुलमञ्जरीसनाथकरम् । पश्यन्त्या भवति मुहुर्नितरां मलिना मुखच्छाया ॥३॥} <(रुद्रटऽस्काव्यालङ्कार ७.३९)> अत्र वञ्जुललतागृहे दत्तसंकेता न गतेति व्यङ्ग्यं गुणीभूतं तदपेक्षया वाच्यस्यैव चमत्कारित्वात् ॥ शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम् ॥ कारिका ५ ॥ चित्रमिति गुणालङ्कारयुक्तम् । अव्यङ्ग्यमिति स्फुटप्रतीयमानार्थरहितम् । अवरमधमम् । यथा {स्वच्छन्दोच्छलदच्छकच्छकुहरच्छातेतराम्बुच्छटा मूर्छन्मोहमहर्षिहर्षविहितस्नानाह्निकाह्नाय वः । भिद्यादुद्यदुदारदर्दुरदरीदीर्घादरिद्रद्रुम द्रोहोद्रेकमहोर्मिमेदुरमदा मन्दाकिनी मन्दताम् ॥४॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> {विनिर्गतं मानदमात्ममन्दिराद्भवत्युपश्रुत्य यदृच्छयापि यम् । ससंभ्रमेन्द्र्रद्रुतपातितार्गला निमीलिताक्षीव भियामरावती ॥५॥} <(मेण्ठकृतं हयग्रीववधम्)> इति काव्यप्रकाशे काव्यस्य प्रयोजनकारणस्वरूपविशेषनिर्णयो नाम प्रथम उल्लासः ॥ १ ॥ ================================================== क्रमेण शब्दार्थयोः स्वरूपमाह स्याद्वाचको लाक्षणिकः शब्दोऽत्र व्यञ्जकस्त्रिधा । अत्रेति काव्ये । एषां स्वरूपं वक्ष्यते ॥ वाच्यादयस्तदर्थाः स्युः ... वाच्यलक्ष्यव्यङ्ग्याः ॥ ... तात्पर्यार्थोऽपि केषुचित् ॥ कारिका ६ ॥ आकाङ्क्षायोग्यतासंनिधिवशाद्वक्ष्यमाणस्वरूपाणां पदार्थानां समन्वये तात्पर्यार्थो विशेषवपुरपदार्थोऽपि वाक्यआर्थः समुल्लसतीत्यभिहितान्वयवादिनां मतम् ॥ वाच्य एव वाक्यार्थ इत्यन्विताभिधानवादिनः ॥६॥ सर्वेषां प्रायशोऽर्थानां व्यञ्जकत्वमपीष्यते । अत्र वाच्यस्य यथा {मा_ए घरोव_अरणं अज्ज हु णत्थि त्ति साहि_अं तुम_ए । ता भण किं करणिज्जं एमे_अ ण वासरो ठा_इ ॥६॥} [मातः गृहोपकरणं अद्य खलु नास्तीति साधितं त्वया । तद्भण किं करणीयं एवमेव न वासरः स्थीयी ॥] <(हालऽस्गाथासप्तशती)> अत्र स्वैरविहारार्थिनीति व्यज्यते । लक्ष्यस्य यथा {साहेन्ती सहि सुह_अं खणे खणे दुम्मिआसि मज्झक_ए । सब्भावणेहकरणिज्जसरिस_अं दाव विर_इ_अं तुम_ए ॥७॥} [साधयन्ती सखि सुभगं क्षणेक्षणे दूनाऽसि मत्कृते । सद्भावस्नेहकरणीयसदृशं तावत्विरचितं त्वया ॥] <(हालऽस्गाथासप्तशती)> अत्र मत्प्रियं रमयन्त्या त्वया शत्रुत्वमाचरितमिति लक्ष्यम् । तेन च कामुकविषयं सापराधत्वप्रकाशनं व्यङ्ग्यम् । व्यङ्ग्यस्य यथा {उ_अ णिच्चलणिप्पन्दा भिसिणीपत्तम्मि रेहै वला_आ । णिम्मलमरग_अभा_अणपरिट्टिआ संखसुत्तिव्व ॥८॥} [पश्य निश्चलनिष्पन्दा विसिनीप्त्रे राजते बलाका । निर्मलमरकतभाजनपरिस्थिता शङ्खशुक्तिरिव ॥] <(हालऽस्गाथासप्तशती १.४)> अत्र निष्पन्दत्वेन आश्वस्तत्वम् । तेन च जनरहितत्वम् । अतः संकेतस्थानमेतदिति कयाचित्कञ्चित्प्रत्युच्यते । अथवा मिथ्या वदसि न त्वमत्रागतोभूरिति व्यज्यते ॥ वाचकादीनां क्रमेण स्वरूपमाह । साक्षात्संकेतितं योऽर्थमभिधत्ते स वाचकः ॥ कारिका ७ ॥ इहागृहीतसंकेतस्य शब्दस्यार्थप्रतीतेरभावात्संकेतसहाय एव शब्दोऽर्थविशेषं प्रतिपादयतीति यस्य यत्राव्यवधानेन संकेतो गृह्यते स तस्य वाचकः ॥७॥ सङ्केतितश्चतुर्भेदो जात्यादिर्जातिरेव वा । यद्यप्यर्थक्रियाकारितया प्रवृत्तिनिवृत्तियोग्या व्यक्तिरेव तथाप्यानन्त्याद्व्यभिचाराच्च तत्र संकेतः कर्तुं न युज्यत इति गौः शुक्लश्चलो डित्थ इत्यादीनां विषयविभागो न प्राप्नोतीति च । तदुपाधावेव संकेतः । उपाधिश्च द्विविधः वस्तुधर्मो वक्तृयदृच्छासंनिवेशितश्च । वस्तुधर्मोऽपि द्विविधः सिद्धः साध्यश्च । सिद्धोऽपि द्विविधः पदार्थस्य प्राणप्रदो विशेषाधानहेतुश्च । तत्राद्यो जातिः । उक्तं हि वाक्यपदीये {न हि गौः स्वरूपेण गौर्नाप्यगौः । गोत्वाभिसंवन्धातु गौः} इति । द्वितीयो गुणः । शुक्लादिना हि लब्धसत्ताकं वस्तु विशिष्यते । साध्यः पूर्वापरीभूतावयवः क्रियारूपः । डित्थादिशब्दानामन्त्यबुद्धिनिर्ग्राह्यं संहृतक्रमं स्वरूपं वक्त्रा तदृच्छया डित्थादिष्वर्थेषूपाधित्वेन संनिवेश्यत इति सोऽयं संज्ञारूपो यदृच्छात्मक इति । {गौःशुक्लश्चलो डित्थ इत्यादौ चतुष्टयी शब्दानां प्रवृत्तिः} इति महाभाष्यकारः । परमाण्वादीनां तु गुणमध्यपाठात्पारिभाषिकं गुणत्वम् । गुणक्रियायदृच्छानां वस्तुत एकरूपाणामप्याश्रयभेदाद्भेद इव लक्ष्यते । यथैकस्य मुखस्य खड्गमुकुरतैलाद्यालम्बनभेदात् । हिमपयःशङ्खाद्याश्रयेषु परमार्थतो भिन्नेषु शुक्लादिषु यद्वशेन शुक्लः शुक्ल इत्याद्यभिन्नाभिधानप्रत्ययोत्पत्तिस्तत्शुक्लत्वादि सामान्यम् । गुडतण्डुलादिपाकादिष्वेवमेव पाकत्वादि । बालवृद्धशुकाद्युदीरितेषु डित्थादिशब्देषु च प्रतिक्षणं भिद्यमानेषु डित्थाद्यऽर्थेषु वा डित्थत्वाद्यस्तीति सर्वेषां शब्दानां जातिरेव प्रवृत्तिनिमित्तमित्यन्ये । तद्वानपोहो वा शब्दार्थः कैश्चिदुक्तं इति ग्रन्थगौरवभयात्प्रकृतानुपयोगाच्च न दर्शितम् ॥७॥ स मुख्योऽर्थस्तत्र मुख्यो व्यापारोऽस्याभिधोच्यते ॥ कारिका ८ ॥ स इति साक्षात्संकेतितः । अस्येति शब्दस्य ॥८॥ मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात् । अन्योऽर्थो लक्ष्यते यत्सा लक्षणारोपिता क्रिया ॥ कारिका ९ ॥ {कर्मनि कुशलः} इत्यादौ दर्भग्रहणाद्ययोगात्{गङ्गआयां घोषः} इत्यादौ च गङ्गादीनां घोषाद्याधारत्वासंभवात्मुख्यार्थस्य बाधे विवेचकत्वादौ सामीप्ये च संबन्धे रूढितः प्रसिद्धेः तथा गङ्गातटे घोष इत्यादैः प्रयोगात्येषां न तथा प्रतिपत्तिः तेषां पावनत्वादीनां धर्माणां तथाप्रतिपादनात्मनः प्रयोजनाच्च मुख्येन अमुख्योऽर्थो लक्ष्यते यत्स आरोपितः शब्दव्यापारः सान्तरार्थनिष्ठो लक्षणा ॥९॥ स्वासिद्धये पराक्षेपः परार्थं स्वसमर्पणम् । उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा ॥ कारिका १० ॥ {कुन्ताः प्रविशन्ति} {यष्टयः प्रविशन्ति} इत्यादौ कुन्तादिभिरात्मनः प्रवेशसिद्ध्यर्थं स्वसंयोगिनः पुरुषा आक्षिप्यन्ते । तत उपादानेनेऽयं लक्षणा । {गौरनुबन्ध्यः} इत्यादौ श्रुतिचोदितमनुबन्धनं कथं मे स्यादिति जात्या व्यक्तिराक्षिप्यते न तु शब्देनोच्यते {विशेष्यं नाभिधा गच्छेत्क्षीणशक्तिर्विशेषणे} इति न्यायादित्युपादानलक्षणा तु नोदाहर्तव्या । न ह्यत्र प्रयोजनमस्ति न वा रूढिरियम् । व्यक्त्यविनाभावित्वात्तु जात्या व्यक्तिराक्षिप्यते । यथा क्रियतामित्यत्र कर्ता । कुर्वित्यत्र कर्म । प्रविश पिण्डीमित्यादौ गृहं भक्षयेत्यादि च । {पीनो देवदत्तो दिवा न भुङ्क्ते} इत्यत्र च रात्रिभोजनं न लक्ष्यते श्रुतार्थापत्तेरर्थापत्तेर्वा तस्य विषयत्वात् । {गङ्गायां घोषः} इत्यत्र तटस्य घोषाधिकरणत्वसिद्धये गङ्गाशब्दः स्वार्थमर्पयति इत्येवमादौ लक्षणेनैषा लक्षणा । उभयरूपा चेयं शुद्धा । उपचारेणामिश्रितत्वात् । अनयोर्लक्ष्यस्य लक्षकस्य च न भेदरूपं ताटस्थ्यम् । तटादीनां गङ्गादिशब्दैः प्रतिपादने तत्त्वप्रतिपत्तौ हि प्रतिपिपादयिषितप्रयोजनसंप्रत्ययः । गङ्गासंबन्धमात्रप्रतीतौ तु गङ्गातटे घोष इति मुख्यशब्दाभिधानाल्लक्षणायाः को भेदः ॥१०॥ सारोपान्या तु यत्रोक्तौ विषयी विषयस्तथा । आरोप्यमाणः आरोपविषयश्च यत्रानपह्नुतभेदौ सामानाधिकरण्येन निर्दिश्येते सा लक्षणा सारोपा ॥ विष्यय्यन्तःकृतेऽन्यस्मिन् सा स्यात्साध्यवसानिका ॥ कारिका ११ ॥ विषयिणारोप्यमाणेनान्तःकृते निगीर्णे अन्यस्मिन्नारोपविषये सति साध्यवसाना स्यात् ॥११॥ भेदाविमौ च सादृश्यात्सम्बन्धान्तरतस्तथा । गौणौ शुद्धौ च विज्ञेयौ ... इमावारोपाध्यवसानरूपौ सादृश्यहेतू भेदौ {गौर्वाहीकः} इत्यत्र {गौरयम्} इत्यत्र च । अत्र हि स्वार्थसहचारिणो गुणा जाड्यमान्द्यादयो लक्ष्यमाणा अपि गोशब्दस्य परार्थाभिधाने प्रवृत्तिनिमित्तत्वमुपयान्तिं इति केचित् । स्वार्थसहचारिगुणाभेदेन पदार्थगता गुणा एव लक्ष्यन्ते न परार्थोऽभिधीयते इत्यन्ये । साधारणगुणाश्रयत्वेन परार्थ एव लक्ष्यते इत्यपरे । उक्तं चान्यत्र {अभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यते । लक्ष्यमाणगुणैर्योगाद्वृत्तेरिष्टा तु गौणतां} इति । <([कुमारिल, तन्त्रवार्तिक ३,४.१२])> अविनाभावोऽत्र संबन्धमात्रं न तु नान्तरीयकत्वम् । तत्त्वे हि {मञ्चाः क्रोशन्ति} इत्यादौ न लक्षणा स्यात् । अविनाभावे चाक्षेपेणैव सिद्धेर्लक्षणाया नोपयोग इत्युक्तम् । {आयुर्धृतम्} {आयुरेवेदम्} इत्यादौ च सादृश्यादन्यत्कार्यकारणभावादि संबन्धान्तरम् । एवमादौ च कार्यकारणभावादिलक्षणपूर्वे आरोपाध्यवसाने । अत्र गौणभेदयोर्भेदेऽपि ताद्रूप्यप्रतीतिः सर्वथैवाभेदावगमश्च प्रयोजनम् । शुद्धभेदयोस्त्वन्यवैलक्षण्येनाव्यभिचारेण च कार्यकारित्वादि । क्वचित्तादर्थ्यादुपचारः । यथा इन्द्रार्था स्थूणा इन्द्रः । क्वचित्स्वस्वामिभावात् । यथा राजकीयः पुरुषो राजा । क्वचितवयवावयविभावात् । यथा अग्रहस्त इत्यत्राग्रमात्रेऽवयवे हस्तः । क्वचित्तात्कर्म्यात् । यथा अतक्षा तक्षा ॥ ... लक्षणा तेन षड्विधा ॥ कारिका १२ ॥ आद्यभेदाभ्यां सह ॥१२॥ सा च व्यङ्ग्येन रहिता रूढौ सहिता तु प्रयोजने । प्रयोजनं हि व्यञ्जनव्यापारगम्यमेव ॥ तच्च गूढमगूढं वा ... तच्चेति व्यङ्ग्यम् । गूढं यथा {मुखं विकसितस्मितं वशितवक्रिम प्रेक्षितं समुच्छलितविभ्रमा गतिरपास्तसंस्था मतिः । उरो मुकुलितस्तनं जघनमंसवन्धोद्धुरं बतेन्दुवदनातनौ तरुणिमोद्गमो मोदते ॥९॥} <(अभिनवगुप्तऽस्ध्वन्यालोकलोचन)> अगूढं यथा {श्रीपरिचयाज्जडा अपि भवन्त्यभिज्ञा विदग्धचरितानाम् । उपदिशति कामिनीनां यौवनमद एव ललितानि ॥१०॥} <(वल्लभदेवऽस्सुभाषितावलि)> अत्रोपदिशतीति ॥ ... तदेषा कथिता त्रिधा ॥ कारिका १३ ॥ अव्यङ्ग्या गूढव्यङ्ग्या अगूढव्यङ्ग्या च ॥१३॥ तद्भूर्लाक्षिणिकस्... शब्द इति संबध्यते । तद्भूस्तदाश्रयः ॥ ... तत्र व्यापारो व्यञ्जनात्मकः । कुत इत्याह यस्य प्रतीतिमाधातुं लक्षणा समुपास्यते ॥ कारिका १४ ॥ फले शब्दैकगम्येऽत्र व्यञ्जनान्नापरा क्रिया । प्रयोजनप्रतिपिपादयिषया यत्र लक्षणया शब्दप्रयोगस्तत्र नान्यतस्तत्प्रतीतिरपि तु तस्मादेव शब्दात् । न चात्र व्यञ्जनादृतेऽन्यो व्यापारः ॥ तथाहि नाभिधा समयाभावात्... गङ्गायां घोष इत्यादौ ये पावनत्वादयो धर्मास्तटादौ प्रतीयन्ते न तत्र गङ्गादिशब्दाः संकेतिताः ॥ हेत्वभावान्न लक्षणा ॥ कारिका १५ ॥ मुख्यार्थबाधादित्रयं हेतुः ॥१५॥ तथा च लक्ष्यं न मुख्यं नाप्यत्र बाधो योगः फलेन नो । न प्रयोजनमेतस्मिन्न च शब्दः स्खलद्गतिः ॥ कारिका १६ ॥ यथा गङ्गाशब्दः स्रोतसि सबाध इति तटं लक्षयति तद्वत्यदि तटेऽपि सबाधः स्यात्तत्प्रयोजनं लक्षयेत् । न च तटं मुख्योऽर्थः । नाप्यत्र बाधः । न च गङ्गाशब्दार्थस्य तटस्य पावनत्वाद्यैर्लक्षणीयैः संबन्धः । नापि प्रयोजने लक्ष्ये किञ्चित्प्रयोजनम् । नापि गङ्गाशब्दस्तटमिव प्रयोजनं प्रतिपादयितुमसमर्थः ॥१६॥ एवमप्यनवस्था स्याद्या मूलक्षयकारिणी । एवमपि प्रयोजनं चेल्लक्ष्यते तत्प्रयोजनान्तरेणेति तदपि प्रयोजनान्तरेणेति प्रकृताप्रतीतिकृतनवस्था भवेत् ॥ ननु पावनत्वादिधर्मयुक्तमेव तटं लक्ष्यते । {गङ्गायास्तटे घोषः} इत्यतोऽधिकस्यार्थस्य प्रतीतिश्च प्रयोजनमिति विशिष्टे लक्षणा तत्किं व्यञ्जनयेत्याह प्रयोजनेन सहितं लक्षणीयं न युज्यते ॥ कारिका १७ ॥ कुत इत्याह ज्ञानस्य विषयो ह्यन्यः फलमन्यदुदाहृतम् । प्रत्यक्षादेर्नीलादिर्विषयः फलं तु प्रक्टता संवित्तिर्वा ॥ विशिष्टे लक्षणा नैवं ... व्याख्यातम् ॥ ... विशेषाः स्युस्तु लक्षिते ॥ कारिका १८ ॥ तटादौ विशेषाः पावनत्वादयस्ते चाभिधातात्पर्यलक्षणाभ्यो व्यापारान्तरेण गम्याः । तच्च व्यञ्जनध्वननद्योतनादिशब्दवाच्यमवश्यमेषितव्यम् ॥१८॥ एवं लक्षणामूलं व्यञ्जकत्वमुक्तम् ॥ अभिधामूलं त्वाह अनेकार्थस्य शब्दस्य वाचकत्वे नियन्त्रिते । संयोगाद्यैरवाच्यार्थधीकृद्व्यापृतिरञ्जनम् ॥ कारिका १९ ॥ {संयोगो विप्रयोगश्च साहचर्यं विरोधिता । अर्थः प्रकरणं लिङ्गं शब्दस्यान्यस्य संनिधिः ॥ सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः । शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥} <([भर्तृहरि, वाक्यपदीय २.३१५३१६])> इत्युक्तदिशा सशङ्खचक्रो हरिः अशङ्खचक्रो हरिरित्युच्यते । रामलक्ष्मणाविति दाशरथौ । रामार्जुनगतिस्तयोरिति भार्गवकार्तवीर्ययोः । स्थाणुं भज भवच्छिदे, इति हरे । सर्वं जानाति देव इति युष्मदर्थे । कुपितो मकरध्वज इति कामे । देवस्य पुरारातेरिति शंभौ । मधुना मत्तः कोकिल इति वसन्ते । पातु वो दयितामुखमिति सांमुख्ये । भात्यत्र परमेश्वर इति राजधानीरूपात्देशाद्राजनि । चित्रभानुर्विभातीति दिने रवौ रात्रौ वह्नौ । मित्रं भातीति सुहृदि मित्रो भातीति रवौ । इन्द्रशत्रुरित्यादौ वेदे एव न काव्ये स्वरो विषेषप्रतीतिकृत् । आदिग्रहणात् {एद्दहमेत्तत्थणिआ एद्दहमेत्तेहि अच्छिवत्तेहिम् । एद्दहमेत्तावत्था एद्दहमेत्तेहिं दिअएहिम् ॥११॥} [एतावन्मात्रस्तन्का एतावन्मात्राभ्यामक्षिपत्राभ्याम् । एतावन्मात्रावस्था एतावन्मात्रैर्दिवसैः ॥] <(हालऽस्गाथासप्तशती ९७३)> इत्यादावभिनयादयः । इत्थं संयोगादिभिरर्थान्तराभिधायकत्वे निवारितेऽप्यनेकार्थस्य शब्दस्य यत्क्वचिदर्थान्तरप्रतिपादनं तत्र नाभिधा नियमनात्तस्याः । न च लक्षणा मुख्यार्थबाधाद्यभावात् । अपि त्वञ्जनं व्यञ्जनमेव व्यापारः । यथा {भद्रात्मनो दुरधिरोहतनोर्विशाल वंशोन्नतेःकृतशिलीमुखविग्रहस्य । यस्यानुपप्लुतगतेः परवारणस्य दानाम्बुसेकसुभगः सततं करोभूत् ॥१२॥} <(शिवस्वामिन्ऽस्कप्फिनाभ्युदय १.३८)> ॥१९॥ तद्युक्तो व्यञ्जकः शब्दो ... तद्युक्तो व्यञ्जनयुक्तः ... यत्सोऽर्थान्तरयुक्तथा । अर्थोऽपि व्यञ्जकस्तत्र सहकारितया मतः ॥ कारिका २० ॥ तथेति व्यञ्जकः ॥२०॥ इति काव्यप्रकाशे शब्दार्थस्वरूपनिर्णयो नाम द्वितीय उल्लासः ॥२॥ =========================================== तृतीय उल्लासः अर्थाः प्रोक्ताः पुरा तेषाम् ... अर्थाः वाच्यलक्ष्यव्यङ्ग्याः । तेषां वाचकलाक्षणिकव्यञ्जकानाम् ॥ ... अर्ह्तव्यञ्जकतोच्यते । कीदृशीत्याह वक्तृबोद्धव्यकाकूनां वाक्यवाच्यान्यसन्निधेः ॥ कारिका २१ ॥ प्रस्तावदेशकालादेर्वैशिष्ट्यात्प्रतिभाजुषाम् । योऽर्थस्यान्यार्थधीहेतुर्व्यापारो व्यक्तिरेव सा ॥ कारिका २२ ॥ बोद्धव्यः प्रतिपाद्यः । काकुर्ध्वनेर्विकारः । प्रस्तावः प्रकरणम् । अर्थस्य वाच्यलक्ष्यव्यङ्ग्यात्मनः । क्रमेणोदाहरणानि । {अ_इपिहुलं जलकुंभं घेत्तूण समागदह्मि सहि तुरि_अम् । समसे_असलिलणीसासणीसहा वीसमामि खणम् ॥१३॥} [अतिपृथुलं जलकुम्भं गृहीत्वा समागतास्मि सखि त्वरितम् । श्रमस्वेदसलिलनिःश्वासनिःसहा विश्राम्यामि क्षणम् ॥] <(हालऽस्गाथासप्तशती ९८९)> अत्र चौर्यरतहोपनं गम्यते । {ओण्णिद्दं दोब्बल्लं चिन्ता अलसत्तणं सणीससि_अम् । मह मन्दभा_इणी_ए केरं सहि तुह वि अहह परिहव_इ ॥१४॥} [औन्निद्र्यं दौर्बल्यं चिन्तालसत्वं सनिश्चसितम् । मम मन्दभागिन्याः क्र्टे सखि त्वामप्यहह परिभवति ॥] <(हालऽस्गाथासप्तशती ९५६)> अत्र दूत्यास्तत्कामुकोपभोगो व्यज्यते । {तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयां वने व्याधैः सार्धं सुचिरमुषितं वल्कलधरैः । विराटस्यावासे स्थितमनुचितारम्भनिभृतं गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ॥१५ [=२२०]॥} <(भट्टनारायणऽस्वेणीसंहार १.११)> अत्र मयि न योग्यः खेदः कुरुषु तु योग्य इति काक्वा प्रकाश्यते । न च वाच्यसिद्ध्यङ्गमत्र काकुरिति गुणीभूतव्यङ्ग्यत्वं शङ्ग्यम् । प्रश्नमात्रेणापि काकोर्विश्रान्तेः । {त_इ_आ मह गण्डत्थलणिमिअं दिट्ठिं ण णेसि अण्णत्तो । एण्हिं सच्चे_अ अहं ते अ कवाला ण सा दिट्ठी ॥१६॥} [तदा मम गण्डस्थलनिमग्नां दृष्टिं नानैषीरत्न्यत्र । इदानीं सैवाहं तौ च कपोलौ न च सा दृष्टिः ॥] <(हालऽस्गाथासप्तशती ९३९)> अत्र मत्सखीं कपोलप्रतिबिम्बितां पश्यतस्ते दृष्टिरन्यैवाभूत्चलितायां तु तस्यामन्यैव जातेत्यहो प्रच्छन्नकामुकत्वं ते इति व्यज्यते । {उद्देशोऽयं सरसकदलीश्रेणिशोभातिशायी कुञ्जोत्कर्षाङ्कुरितरमणीविभ्रमो नर्मदायाः । किं चैतस्मिन् सुरतसुहृदस्तन्वि ते वान्ति वाता येषामग्रे सरति कलिताकाण्डकोपो मनोभूः ॥१७॥} <(कुन्तकऽस्वक्रोक्तिजीवित १.९३)> अत्र रतार्थं प्रविशेति व्यङ्ग्यम् । {णोल्ले_इ अणोल्लमणा अत्ता मं घरभरम्मि स_अलम्मि । खणमेत्तं ज_इ संझा_इ हो_इ ण व हो_इ वीसामो ॥१८॥} [नुदत्यनार्द्रमनाः श्वश्रूर्मां गृहभरे सकले । क्षणमात्रं यदि संध्यायां भवति न वा भवति विश्रामः ॥] <(हालऽस्गाथासप्तशती ८७५)> अत्र संध्या संकेतकाल इति तटस्थं प्रति कयाचिद्द्योत्यते । {सुव्व_इ समागमिस्सदि तुज्झ पि_ओ अञ्जं पहरमेत्तेण । एमे अ कित्ति चिट्ठसि ता सहि सञ्जेसु करणिज्जम् ॥१९॥} [श्रूयते समागमिष्यति तव प्रियोऽद्य प्रहरमात्रेण । एवमेव किमिति तिष्ठसि तत्सखि सज्जय करणीयम् ॥] <(हालऽस्गाथासप्तशती ९६२)> अत्रोपपतिं प्रत्यभिसर्तुं प्रस्तुता न युक्तमिति कयाचिन्निवार्यते । {अन्यत्र यूयं कुसुमावचायं कुरुध्वमत्रास्मि करोमि सख्यः । नाहं हि दूरं भ्रमितुं समर्था प्रसीदतायं रचितोञ्जलिर्वः ॥२०॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र विविक्तोऽयं देश इति प्रच्छन्नकामुकस्त्वयाभिसार्यतामिति आश्वस्तां प्रति कयाचिन्निवेद्यते । {गुरु_अणपरवस पि_अ किं भणामि तु_इ मन्दभाइणी अह_अम् । अज्ज पवासं वच्चसि वच्च स_अं जेव्व सुणसि करणिज्जम् ॥२१॥} [गुरुजनपरवश प्रिय किं भणामि तव मन्दभागिनी अहकम् । अद्य प्रवासं व्रजसि व्रज स्वयमेव श्रोष्यसि करणीयम् ॥] <(हालऽस्गाथासप्तशती ८५१)> अत्राद्य मधुसमये यदि व्रजसि तदाहं तावत्न भवामि तव तु न जानामि गतिमिति व्यज्यते । ॥ आदिग्रहणाच्चेष्टादेः । तत्र चेष्टाया यथा {द्वारोपान्तनिरन्तरे मयि तया सौन्दर्यसारश्रिया प्रोल्लास्योरुयुगं परस्परसमासक्तं समासादितम् । आनीतं पुरतः शिरोंशुकमधः क्षिप्ते चले लोचने वाचस्तत्र निवारितं प्रसरणं संकोचिते दोर्लते ॥२२॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र चेष्टया प्रच्छन्नकान्तविषय आकूतविशेषो ध्वन्यते । निराकाङ्क्षप्रतिपत्तये प्राप्तावसरतया च पुनः पुनरुदाह्रियते । वक्त्रादीनां मिथःसंयोगे द्विकादिभेदेन । अनेन क्रमेण लक्ष्यव्यङ्ग्ययोश्च व्यञ्जकत्वमुदाहार्यम् ॥२१२२॥ शब्दप्रमाणवेद्योऽर्थो व्यनक्त्यर्थान्तरं यतः । अर्थस्य व्यञ्जकत्वे तच्छब्दस्य सहकारिता ॥ कारिका २३ ॥ शब्देति । नहि प्रमाणान्तरवेद्योऽर्थो व्यञ्जकः ॥२३॥ इति श्रीकाव्यप्रकाशेऽर्थव्यञ्जकतानिर्णयो नाम तृतीय उल्लासः ॥३॥ ================================================================= चतुर्थ उल्लासः यद्यपि शब्दार्थयोर्निर्णये कृते दोषगुणाल.अम्काराणां स्वरूपमभिधानीयं तथापि धर्मिणि प्रदर्शिते धर्माणां हेयोपादेयता ज्ञायत इति प्रथमं काव्यभेदाताह अविवक्षितवाच्यो यस्तत्र वाच्यं भवेद्ध्वनौ । अर्थान्तरे सङ्क्रमितमत्यन्तं वा तिरस्कृतम् ॥ कारिका २४ ॥ लक्षणामूलगूढव्यङ्ग्यप्राधान्ये सत्येव अविवक्षितं वाच्यं यत्र सऽध्वनौऽ इत्यनुवादात्ध्वनिरिति ज्ञेयः । तत्र च वाच्यं क्वचिदनुपयुज्यमानत्वादर्थान्तरे परिणमितम् । यथा {त्वामस्मि वच्मि विदुषां समवायोऽत्र तिष्ठति । आत्मीयां मतिमास्थाय स्थितिमत्र विधेहि तत् ॥२३॥} <(रुद्रटऽस्काव्यालङ्कार ६.१५)> अत्र वचनादि उपदेशादिरूपतया परिणमति । क्वचिदनुपपद्यमानतया अत्यन्तं तिरस्कृतम् । यथा {उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परम् । विदधदीदृशमेव सदा सखे सुखितमास्स्व ततः शरदां शतम् ॥२४॥} <(अभिनवगुप्तऽस्ध्वन्यालोकलोचन)> एतदपकारिणं प्रति विपरीतलक्षणया कश्चिद्वक्ति ॥२४॥ विवक्षितं चान्यपरं वाच्यं यत्रापरस्तु सः । अन्यपरं व्यङ्ग्यनिष्ठम् । एष च कोऽप्यलक्ष्यक्रमव्यङ्ग्यो लक्ष्यव्यङ्ग्यक्रमः परः ॥ कारिका २५ ॥ अलक्ष्येति । न खलु विभावानुभावव्यभिचारिण एव रसः । अपि तु रसस्तैः इत्यस्ति क्रमः । स तु लाघवान्न लक्ष्यते ॥२५॥ अत्र रसभावतदाभावभावशान्त्यादिरक्रमः । भिन्नो रसाद्यलङ्कारादलङ्कार्यतया स्थितः ॥ कारिका २६ ॥ आदिग्रहणाद्भावोदयभावसंधिभावशबलत्वानि । प्रधानतया यत्र स्थितो रसादिस्तत्रालङ्कार्यः यथोदाहरिष्यते । अन्यत्र तु प्रधाने वाक्यार्थे यत्राङ्गभूतो रसादिस्तत्र गुणीभूतव्यङ्ग्ये रसवत्प्रेयऊर्जस्विसमाहितादयोऽलङ्काराः । ते च गुणीभूतव्यङ्ग्याभिधाने उदाहरिष्यन्ते ॥२६॥ तत्र रसस्वरूपमाह कारणान्यथ कार्याणि सहकारीणि यानि च । रत्यादेः स्थायिनो लोके तानि चेन्नाट्यकाव्ययोः ॥ कारिका २७ ॥ विभावा अनुभावास्तत्कथ्यन्ते व्यभिचारिणः । व्यक्तः स तैर्विभावाद्यैः स्थायी भावो रसः स्मृतः ॥ कारिका २८ ॥ उक्तं हि भरतेन {विभावानुभावव्यभिचारिसंयोगाद्रसनिष्पत्तिः} इति एतद्विवृण्वते {विभावैर्ललनोद्यानादिभिरालम्बनोद्दीपनकारणैः रत्यादिको भावो जनितः अनुभावैः कटाक्षभुजाक्षेपप्रभृतिभिः कार्यैः प्रतीतियोग्यः कृतः व्यभिचारिभिर्निर्वेदादिभिः सहकारिभिरुपचितो मुख्यया वृत्त्या रामादावनुकार्ये तद्रूपसंधानान्नर्तकेऽपि प्रतीयमानो रसः} इति भट्टलोल्लटप्रभृतयः । राम एवायमयमेव राम इति {न रामोऽयम्} इत्यौत्तरकालिके बाधे रामोऽयमिति रामः स्याद्वा न वायमिति रामसदृश्योऽयमिति च सम्यङ्मिथ्यासंशयसादृश्यप्रतीतिभ्यो विलक्षणया चित्रतुरगादिन्यायेन रामोऽयमिति प्रतिपत्त्या ग्राह्ये नटे {सेयं ममाङ्गेषु सुधारसच्छटा सुपूरकर्पूरशलाकिका दृशोः । मनोरथश्रीर्मनसः शरीरिणी प्राणेश्वरी लोचनगोचरं गता ॥२५॥} <(सुभाषितरत्नभाण्डागार २७३।६)> {दैवादहमद्य तया चपलायतनेत्रया वियुक्तश्च । अचिरलविलोलजलदः कालः समुपागतश्चायम् ॥२६॥} <(रुद्रटऽस्काव्यालङ्कार ७.२९)> इत्यादिकाव्यानुसंधानबलाच्छिक्षाभ्यासनिर्वर्तितस्वकार्यप्रकटनेन च नटेनैव प्रकाशितैः कारणकार्यसहकारिभिः कृत्रिमैरपि तथानभिमन्यमानैर्विभावादिशब्दव्यपदेश्यैः {संयोगात्}, गम्यगमकभावरूपातनुमीयमानोऽपि वस्तुसौदर्यबलाद्रसनीयत्वेनान्यानुमीयमानविलक्षणः स्थायित्वेन संभाव्यमानो रत्यादिर्भावस्तत्रासन्नपि सामाजिकानां वासनया चर्व्यमाणो रस इति श्रीशङ्कुकः । न ताटस्थ्येन नात्मगतत्वेन रसः प्रतीयते नोत्पद्यते नाभिव्यज्यते अपि तु काव्ये नाट्ये चाभिधातो द्वितीयेन विभावादिसाधारणीकरणात्मना भावकत्वव्यापारेण भाव्यमानः स्थायी सत्त्वोद्रेकप्रकाशानन्दमयसंविद्विश्रान्तिसतत्त्वेन भोगेन भुज्यते इति भट्टनायकः । लोके प्रमदाभिः स्थाय्यनुमानेऽभ्यासपाटववतां काव्ये नाट्ये च तैरेव कारणत्वादिपरिहारेण विभावनादिव्यापारवत्त्वादलौकिकविभावादिशब्दव्यवहार्यैर्ममैवैते शत्रोरेवैते तटस्थस्यैवैते न ममैवैते न शत्रोरेवैते न तटस्थस्यैवैते इति संबन्धविशेषस्वीकारपरिहारनियमानध्यवसायात्साधारण्येन प्रतीतैरभिव्यक्तः सामाजिकानां वासनात्मतया स्थितः स्थायी रत्यादिको नियतप्रमातृगतत्वेन स्थितोऽपि साधारणोपायबलात्तत्कालविगलितपरिमितप्रमातृभाववशोन्मिषितवेद्यान्तरसंपर्कशून्यापरिमितभावेन प्रमात्रा सकलसहृदयसंवादभाजा साधारण्येन स्वाकार इवाभिन्नोऽपि गोचरीकृतश्चर्व्यमाणतैकप्राणोविभावादिजीवितावधिः पानकरसन्यायेन चर्व्यमाणः पुर इव परिस्फुरन् हृदयमिव प्रविशन् सर्वाङ्गीणमिवालिङ्गनन्यत् सर्वमिव तिरोदधत्ब्रह्मास्वादमिवानुभावयनलौकिकचमत्कारकारी शृङ्गारादिको रसः । स च न कार्यः । विभावादिविनांशेऽपि तस्य संभवप्रसङ्गात् । नापि ज्ञाप्यः सिद्धस्य तस्यासंभवात् । अपि तु विभावादिभिर्व्यञ्जितश्चर्वणीयः । कारकज्ञापकाभ्यामन्यत्क्व दृष्टमिति चेत्न क्वचिद्दृष्टमित्यलौकिकसिद्धेर्भूषणमेतन्न दूषणम् । चर्वणानिष्पत्त्या तस्य निष्पत्तिरुपचरितेति कार्योऽप्युच्यताम् । लौकिकप्रत्यक्षादिप्रमाणताटस्थ्यावबोधशालिमितयोगिज्ञानवेद्यान्तरसंस्पर्शरहितस्वात्ममात्रपर्यवसितपरिमितेतरयोगिसंवेदनविलक्षणलोकोत्तरस्वसंवेदनगोचर इति प्रत्येयोऽप्यभिधीयताम् । तद्ग्राहकं च न निर्विकल्पकं विभावादिपरामर्शप्रधानत्वात् । नापि सविकल्पकं चर्व्यमाणस्यालौकिकानन्दमयस्य स्वसंवेदनसिद्धत्वात् । उभयाभावस्वरूपस्य चोभयात्मकत्वमपि पूर्ववल्लोकोत्तरतामेव गमयति न तु विरोधमिति श्रीमदाचार्याभिनवगुप्तपादाः ॥ व्याघ्रादयो विभावा भयानकस्येव वीराद्भुतरौद्राणामश्रुपातादयोऽनुभावाः शृङ्गारस्येव करुणभयानकयोः चिन्तादयो व्यभिचारिणः शृङ्गारस्यएव वीरकरुणभयानकानामिति पृथगनैकान्तिकत्वात्सूत्रे मिलिता निर्दिष्टाः । {वियदलिमलिनाम्बुगर्भमेघं मधुकरकोकिलकूजितैर्दिशां श्रीः । धरणिरभिनवाङ्कुराङ्कटङ्का प्रणतिपरे दयिते प्रसीद मुग्धे ॥२७॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> इत्यादौ {परिमृदितमृणालीम्लानमङ्गं प्रवृत्तिः कथमपि परिवारप्रार्थनाभिः क्रियासु । कलयति च हिमांशोर्निष्कलङ्कस्य लक्ष्मीं अभिनवकरिदन्तच्छेदकान्तः कपोलः ॥२८॥} <(भवभूतिऽस्मालतीमाधव १.२२)> इत्यादौ {दुरादुत्सुकमागते विवलितं संभाषिणि स्फारितं संश्लिष्यत्यरुणं गृहीतवसने किञ्चाञ्चितभ्रूलतम् । मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णेक्षणं चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥२९॥} <(अमरुशतक ४४)> इत्यादौ च यद्यपि विभावानामनुभावानामौत्सुक्यव्रीडाहर्षकोपासूयाप्रसादानां च व्यभिचारिणां केवलानामत्र स्थितिः, तथाप्येतेषामसाधारणत्वमित्यन्यतमद्वयाक्षेपकत्वे सति नानैकान्तिकत्वमिति ॥२८॥ तद्विशेषानाह सृङ्गारहास्यकरुणरौद्रवीरभयानकाः । बीभत्साद्भुतसंज्ञौ चेत्यष्टौ नाट्ये रसाः स्मृताः ॥ कारिका २९ ॥ तत्र शृङ्गारस्य द्वौ भेदौ । संभोगो विप्रलम्भश्च । तत्राद्यः परस्परावलोकनालिङ्गनाधरपानपरिचुम्बनाद्यनन्तत्वादपरिच्छेद्य एक एव गण्यते । यथा {शून्यं वासगृहं विलोक्य शयनादुत्थाय किञ्चिच्छनैर् निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् । विश्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं लज्जानम्रमुखी प्रियेण हसता बाला चिरं चुम्बिता ॥३०॥} <(अमरुशतक ७७)> तथा {त्वं मुग्धाक्षि विनैव कञ्चुलिकया धत्से मनोहारिणीं लक्ष्मीमित्यभिधायिनि प्रियतमे तद्वीटिकासंस्पृशि । शय्योपान्तनिविष्टसस्मितसखीनेत्रोत्सवानन्दितो निर्यातः शनकैरलीकवचनोपन्यासमालीजनः ॥३१॥} <(अमरुशतक २३)> अपरस्तु अभिलाषविरहेर्ष्याप्रवासशापहेतुक इति पञ्चविधः । क्रमेणोदाहरणम् {प्रेमार्द्राः प्रणयस्पृशः परिचयादुद्गाढरागोदयाः तास्ता मुग्धदृशो निसर्गमधुराश्चेष्टा भवेयुर्मयि । यास्वन्तःकरणस्य बाह्यकरणव्यापाररोधी क्षणात् आशंसापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः ॥३२॥} <(भवभूतिऽस्मालतीमाधव ५.७)> {अन्यत्र व्रजतीति का खलु कथा नाप्यस्य तादृक्सुहृद् यो मां नेच्छति नागतश्च हहहा कोऽयं विधेःप्रक्रमः । इत्यल्पेतरकल्पनाकवलितस्वान्ता निशान्तान्तरे बाला वृत्तविवर्तनव्यतिकरा नाप्नोति निद्रां निशि ॥३३॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> एषा विरहोत्कण्ठिता । {सा पत्युः प्रथमापराधसमये सख्योपदेशं विना नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम् । स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला बाला केवलमेव रोदिति लुठल्लोलालकैरश्रुभिः ॥३४॥} <(अमरुशतक २९)> {प्रस्थानं वलयैः कृतं प्रियसखैरस्रैरजस्रं गतं धृत्या न क्षणमासितं व्यवसितं चित्तेन गन्तुं पुरः । यातुं निश्चितचेतसि प्रियतमे सर्वे समं प्रस्थिता गन्तव्ये सति जीवित प्रियसुहृत्सार्थः किमु त्यज्यते ॥३५॥} <(अमरुशतक ३५)> {त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् । अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतान्तः ॥३६॥} <(कालिदासऽस्मेघदूत, उत्तरमेघ ४४)> {आकुञ्च्य पाणिमशुच्ञ्चि मम मूर्ध्नि वेश्या मन्त्राभसां प्रतिपदं पृषतैः पवित्रे । तारस्वरं प्रथितथूत्कमदात्प्रहारं हाहा हतोऽहमिति रोदिति विष्णुशर्मा ॥३७॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> {हा मातस्त्वरितासि कुत्र किमिदं हा देवताः क्वाशिषः धिक्प्राणान् पतितोऽशनिर्हुतवहस्तेऽङ्गेषु दग्धे दृशौ । इत्थं घर्घरमध्यरुद्धकरुणाः पौराङ्गनानां गिर श्चित्रस्थानपि रोदयन्ति शतधा कुर्वन्ति भित्तीरपि ॥३८॥} <(नारायणभट्ट,जयन्तभट्टोल्लेखः)> {कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः । नरकरिपुणा सार्ध तेषां सभीमकिरीटिना मयमह[म]सृङ्मेदोमांसैः करोमि दिशां बलिम् ॥३९॥} <(भट्टनारायणऽस्वेणीसंहार ३.२४)> {क्षुद्रा संत्रासमेते विजहित हरयः क्षुण्णशक्रेभकुम्भा युष्मद्देहेषु लज्जां दधति परममी सायका निष्पतन्तः । सौमित्रे तिष्ठ पात्रं त्वमसि न हि रुषां नन्वहं मेघनादः किञ्चिद्भ्रूभङ्गलीलानियमितजलधिं राममन्वेषयामि ॥४०॥} <(हर्षऽस्नागानन्द ११.२)> {ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् । दर्भैरर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति ॥४१॥} <(कालिदासऽसभिज्ञानशकुन्तलम् १.७)> {उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूत्सेधभूयांसि मांसा न्यंसस्फिक्पृष्ठपिण्ड्याद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा । आर्त्तः पर्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्का दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥४२॥} <(भवभूतिऽस्मालतीमाधव ५.१६)> {चित्रं महानेष बतावतारः क्व कान्तिरेषाभिनवैव भङ्गिः । लोकोत्तरं धैर्यमहो प्रभावः काप्याकृतिर्नूतन एष सर्गः ॥४३॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा २९)> एषां स्थायिभावानाह रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा । जुगुप्सा विस्मयश्चेति स्थायिभावाः प्रकीर्तिताः ॥ कारिका ३० ॥ स्पष्टम् ॥३०॥ व्यभिचारिणो ब्रूते निर्वेदग्लानिशङ्काख्यास्तथासूया मदश्रमाः । आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥ कारिका ३१ ॥ व्रीडा चपलता हर्ष आवेगो जडता तथा । गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ कारिका ३२ ॥ सुप्तं प्रबोधोमर्षश्चाप्यवहित्थमथोग्रता । मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ कारिका ३३ ॥ त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रिंस्त्रिशदमी भावाः समाख्यातास्तु नामतः ॥ कारिका ३४ ॥ निर्वेदस्यामङ्गलप्रायस्य प्रथममनुपादेयत्वेऽप्युपादानं व्यभिचारित्वेऽपि स्थायिताभिधानार्थम् । तेन निर्वेदस्थायिभावोऽस्ति शान्तोऽपि नवमो रसः । यथा {अहौ वा हारे वा कुसुमशयने वा दृषदि वा मणौ वा लोष्टे वा बलवति रिपौ वा सुहृदि वा । तृणे वा स्त्रैणे वा मम समदृशो यान्ति दिवसाः क्वचित्पुण्यारण्ये शिव शिव शिवेति प्रलपतः ॥४४॥} <(उत्पलराज, उत्पलराजीय)> रतिर्देवादिविषया व्यभिचारी तथाञ्जितः ॥ कारिका ३५ ॥ भावः प्रोक्तः ... आदिशब्दान्मुनिगुरुनृपपुत्रादिविषया । कान्ताविषया तु व्यक्ता शृङ्गारः । उदाहरणम् {कण्ठकोणविनिविष्टमीश ते कालकूटमपि मे महामृतम् । अप्युपात्तममृतं भवद्वपुर्भेदवृत्ति यदि मे न रोचते ॥४५॥} <(उत्पलराज, उत्पलराजीय)> {हरत्यघं संप्रति हेतुरेष्यतः शुभस्य पूर्वाचरितैः कृतं शुभैः । शरीरभाजां भवदीयदर्शनं व्यनक्ति कालत्रितयेऽपि योग्यताम् ॥४६॥} <(माघऽस्सिशुपालवध १.२६)> एवमन्यदप्युदाहार्यम् । अञ्जितव्यभिचारी यथा {जाने कोपपराङ्मुखी प्रियतमा स्वप्नेद्य दृष्टा मया मा मां संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता पुरः । नो यावत्परिरभ्य चाटुशतकैराश्वासयामि प्रियां भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृतः ॥४७॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र विधिं प्रत्यसूया । ... तदाभासा अनौचित्यप्रवर्त्तिताः । तदाभासा रसाभासा भावाभासाश्च । तत्र रसाभासो यथा {स्तुमः कं वामाक्षि क्षणमपि विना यं न रमसे विलेभे कः प्राणान् रणमखमुखे यं मृगयसे । सुलग्ने को जातः शशिमुखि यमालिङ्गसि बलात् तपःश्रीः कस्यैषा मदननगरि ध्यायसि तु यम् ॥४८॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा ३३)> अत्रानेककामुकविषयमभिलापं तस्याः स्तुम इत्याद्यनुगतं बहुव्यापारोपादानं व्यनक्ति । भावाभासो यथा {राकासुधाकरमुखी तरलायताक्षी सा स्मेरयौवनतरङ्गितविभ्रमाङ्गी । तत्किं करोमि विदधे कथमत्र मैत्रीं तत्स्वीकृतिव्यतिकरे क इवाभ्युपायः ॥४९॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा ३४)> अत्र चिन्ता अनौचित्यप्रवर्तिता । एवमन्येऽप्युदाहार्याः ॥ भावस्य शान्तिरुदयः सन्धिः शबलता तथा ॥ कारिका ३६ ॥ करमेणोदाहरणम् {तस्याः सान्द्रविलेपनस्तनतटप्रश्लेषमुद्राङ्कितं किं वक्षश्चरणानतिव्यतिकरव्याजेन गोपाय्यते । इत्युक्ते क्व तदित्युदीर्य सहसा तत्संप्रमार्ष्टुं मया साश्लिष्टा(च्x संश्लिष्टा) रभसेन तत्सुखवशात्तन्व्या च तद्विस्मृतम् ॥५०॥} <(अमरुशतक २६)> अत्र कोपस्य । {एकस्मिञ्शयने विपक्षरमणीनामग्रहे मुग्धया सद्यो मानपरिग्रहग्लपितया चाटूनि कुर्वन्नपि । आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणं मा भूत्सुप्त इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः ॥५१॥} <(अमरुशतक २२)> अत्रौत्सुक्यस्य । {उत्सिक्तस्य तपःपराक्रमनिधेरभ्यागमादेकतः सत्संगप्रियता च वीररभसोत्फालश्च मां कर्षतः । वैदैहीपरिरम्भ एष च मुहुर्श्चैतन्यमामीलयन् आनन्दी हरिचन्दनेन्दुशिशिरस्निग्धो रुणद्ध्यन्यतः ॥५२॥} <(भवभ्तूतिऽस्महावीरचरित २.१६)> अत्रावेगहर्षयोः । {क्वाकार्यं शशलक्षणः क्व च कुलं भूयोऽपि दृश्येत सा दोषाणां प्रशमाय न श्रुतमहो कोपेऽपि कान्तं मुखम् । किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं धास्यति ॥५३॥} <(कालिदासऽस्विक्रमोर्वशीय ४.४)> अत्र वितर्कौत्सुक्यमतिस्मरणशङ्कादैन्यधृतिचिन्तानां शबलता । भावस्थितिस्तूक्ता उदाहृता च ॥३६॥ मुख्ये रसेऽपि तेऽङ्गित्वं प्राप्नुवन्ति कदाचन । ते भावशान्त्यादयः । अङ्गित्वं राजानुगतविवाहप्रवृत्तभृत्यवत् ॥ अनुस्वानाभसंलक्ष्यक्रमव्यङ्ग्यस्थितिस्तु यः ॥ कारिका ३७ ॥ शब्दार्थोभयशक्त्युत्थस्त्रिधा स कथितो ध्वनिः । शब्दशक्तिमूलानुरणनरूपव्यङ्ग्यः, अर्थशक्तिमूलानुरणनरूपव्यङ्ग्यः, उभयशक्तिमूलानुरणनरूपव्यङ्ग्यश्चेति त्रिविधः ॥३७॥ तत्र अलङ्कारोऽथ वस्त्वेव शब्दाद्यत्रावभासते ॥ कारिका ३८ ॥ प्रधानत्वेन स ज्ञेयः शब्दशक्त्युद्भवो द्विधा । वस्त्वेति, अनलङ्कारं वस्तुमात्रम् । आद्यो यथा {उल्लास्य कालकरवालमहाम्बुवाहं देवेन येन जरठोर्जितगर्जितेन । निर्वापितः सकल एव रणे रिपूणां धाराजलैस्त्रिजगति ज्वलितः प्रतापः ॥५४॥} <(शिवस्वामिन्ऽस्कप्फिनाभ्युदय १.२४)> अत्र वाक्यस्यासंबद्धार्थाभिधायकत्वं मा प्रसाङ्क्षीदिति प्राकरणिकाप्राकरणिकयोरुपमानोपमेयभावः कल्पनीय इत्यत्रोपमालङ्कारो व्यङ्ग्यः । {तिग्मरुचिरप्रतापो विधुरनिशाकृद्विभो मधुरलीलः । मतिमानतत्त्ववृत्तिःप्रतिपदपक्षाग्रणीर्विभाति भवान् ॥५५॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्रैकैकस्य पदस्य द्विपदत्वे विरोधाभासः । {अमितः समितः प्राप्तैरुत्कर्षैर्हर्षद प्रभो । अहितः सहितः साधुयशोभिरसतामसि ॥५६॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्रापि विरोधाभासः । {निरुपादानसंभारमभित्तावेव तन्वते । जगच्चित्रं नमस्तस्मै कलाश्लाध्याय शूलिने ॥५७॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र व्यतिरेकः । अलङ्कार्यस्यापि ब्राह्मणश्रमणन्यायेनालङ्कारता । वस्तुमात्रं यथा {पन्थि_अ ण एत्थ सत्थरमैत्थि मणं पत्थरत्थले गामे । उण्ण_अप_ओहरं पेख्खिऊण ज_इ वससि ता वससु ॥५८॥} [पथिक नात्र स्रस्तरमस्ति मनाक्प्रस्तरस्थले ग्रामे । उन्नतपयोधरं प्रक्स्.य यदि वससि तदा वस ॥] <(हालऽस्गाथासप्तशती ८७९)> अत्र यद्युपभोगक्षमोसि तदा आस्स्वेतिं व्यज्यते । {शनिरशनिश्च तमुच्चैर्निहन्ति कुप्यसि नरेन्द्र यस्मै त्वम् । यत्र प्रसीदसि पुनः स भात्युदारोनुदारश्च ॥५९॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अविरुद्धावपि त्वदनुवर्तनार्थमेकं कार्य कुरुत इति ध्वन्यते । अर्थशक्त्युद्भवोऽप्यर्थो व्यञ्जकः संभवी स्वतः ॥ कारिका ३९ ॥ प्रौढोक्तिमात्रात्सिद्धो वा कवेस्तेनोम्भितस्य वा । वस्तु वालङ्कृतिर्वेत्य्षड्भेदोऽसौ व्यनक्ति यत् ॥ कारिका ४० ॥ वस्त्वलङ्कारमथवा तेनायं द्वादशात्मकः । स्वतःसंभवी न केवलं भणितमात्रनिष्पन्नो यावद्बहिरप्यौचित्येन संभाव्यमानः । कविना प्रतिभामात्रेण बहिरसन्नपि निर्मितः कविनिबद्धेन वक्त्रेति वा द्विविधोपर इति त्रिविधः । वस्तु वालङ्कारो वासाविति षोढा व्यञ्जकः । तस्य वस्तु वालङ्कारो वा व्यङ्ग्य इति द्वादशभेदोऽर्थशक्त्युद्भवो ध्वनिः । क्रमेणोदाहरणम् {अलसशिरोमणि धुत्ताणं अग्गिमो पुत्ति धणसमिद्धिम_ओ । इ_अ भणि_एण ण_अङ्गी पप्फुल्लविलो_अणा जा_आ ॥६०॥} [अलसशिरोमणिर्धूर्तानामग्रिमः पुत्रि धनसमृद्धिमयः । इति भणितेननताङ्गी प्रफुल्लविलोचना जाता ॥] <(हालऽस्गाथासप्तशती ९७०)> अत्र ममैवोपभोग्य इति वस्तुना वस्तु व्यज्यते । {धन्यासि या कथयसि प्रियसंगमेऽपि विश्रब्धचाटुकशतानि रतान्तरेषु । नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि किञ्चिदपि स्मरामि ॥६१॥} <(शार्ङ्गधरपद्धति)> अत्र त्वमधन्या अहं तु धन्येति व्यतिरेकालङ्कारः । {दर्पान्धगन्धगजकुम्भकपाटकूट संक्रान्तिनिघ्नघनशोणितशोणशोचिः । वीरैर्व्यलोकि युधि कोपकषायकान्तिः कालीकटाक्ष इव यस्य करे कृपाणः ॥६२॥} <(शिवस्वामिन्ऽस्कप्फिनाभ्युदय १.३७)> अत्रोपमालङ्कारेण सकलरिपुबलक्षयः क्षणात्करिष्यते इति वस्तु । {गाढकान्तदशनक्षतव्यथासंकटादरिवधूजनस्य यः । ओष्ठविद्रुमदलान्यमोचयन्निर्दशन् युधि रुषा निजाधरम् ॥६३॥} <(विश्वनाथऽस्साहित्यदर्पण ४.९)> अत्र विरोधालङ्कारेणाधरनिर्दशनसमकालमेव शत्रवो व्यापादिता इति तुल्ययोगिता मम क्षत्याप्यन्यस्य क्षतिर्निवर्ततामिति तद्बुद्धिरुत्प्रेक्ष्यते इत्युत्प्रेक्षा च । एषूदाहरणेषु स्वतःसंभवी व्यञ्जकः । {कैलासस्य प्रथमशिखरे वेणुसंमूर्छनाभिः श्रुत्वा कीर्तिं विबुधरमणीगीयमानां यदीयाम् । स्रस्तापाङ्गाः सरसबिसिनीकाण्डसंजातशङ्काः दिङ्मातङ्गाः श्रवणपुलिने हस्तमावर्तयन्ति ॥६४॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र वस्तुना येषामप्यर्थाधिगमो नास्ति तेषामप्येवमादिबुद्धिजननेन चमत्कारं करोति त्वत्कीर्तिरिति वस्तु ध्वन्यते । {केसेसु बलामोडि_अ तेण अ समरम्मि ज_असिरी गहि_आ । जह कन्दरांहि विहुरा तस्स दढं कण्ठ_अम्मि संठवि_आ ॥६५॥} [केशेषु बलात्कारेण तेन च समरे जयश्रीर्गृहीता । यथा कन्दराभिर्विधुरास्तस्य दृढं कण्ठे संस्थापिता ॥] <(हालऽस्गाथासप्तशती ९७१)> अत्र केशग्रहणावलोकनोद्दीपितमदना इव कन्दरास्तद्विधुरान् कण्ठे गृह्णन्ति इत्युत्प्रेक्षा । एकत्र संग्रामे विजयदर्शनात्तस्यारयः पलाय्य गुहासु तिष्ठन्तीति काव्यहेतुरलङ्कारः । न पलाय्य गतास्तद्वैरिणोऽपि तु ततः पराभवं संभाव्य तान् कन्दरा न त्यजन्तीत्यपह्नुतिश्च । {गाढालिङ्गणरहसुज्जअम्मि दैए लहु समोसरै । माणंसिणीण माणो पीलणभीअ व्व हिअआहिम् ॥६६॥} [गाढालिङ्गनरभसोद्यते दयिते लघु समपसरति । मनस्विन्याः मानः पीडनभीत इव हृदयात् ॥] <(हालऽस्गाथासप्तशती ९३४)> अत्रोत्प्रेक्षया प्रत्यालिङ्गनादि तत्र विजृम्भते इति वस्तु । {जा ठेरंव्व हसन्ती कैवअणंबुरुहवद्धविणिवेसा । दावेइ भुअणमण्डलमण्णं विअ जऐ सा वाणी ॥६७॥} [या स्थविरमिव हसन्ती कविवदनाम्बुरुहबद्धविनिवेशा । दर्शयति भुवनमण्डलमन्यदिव जयति सा वाणी ॥] <(हालऽस्गाथासप्तशती ९८२)> अत्रोत्प्रेक्षया चमत्कारैककारणं नवं नवं जगतजडासनस्था निर्मिमीते इति व्यतिरेकः । एषु कविप्रौढोक्तिमात्रनिष्पन्नो व्यञ्जकः । {जे लङ्कागिरिमेहलासे खलिआ संभोगखिण्णोरै फारुप्फुल्लफणावलीकवलणे पत्ता दरिद्दत्तणम् । ते एह्णिं मलआनिला विरहिणीणीसाससंपक्किणो जादा झत्ति सिसुत्तणे वि बहला तारुण्णपुण्णा विअ ॥६८॥} [ये लङ्कागिरिमेखलासु स्खलिताः संभोगखिन्नोरगी स्फारोत्फुल्लफणावलीकवलने प्राप्ता दरिद्रत्वम् । त इदानीं मलयानिला विरहिणीनिःश्वाससंपर्किणः जाता झटिति शिशुत्वेऽपि बहलास्तारुण्यपूर्णा इव ॥] <(राजशेखरऽस्कर्पूरमञ्जरी १.१९)> अत्र निःश्वासैः प्राप्तैश्वर्या वायवः किं किं न कुर्वन्तीति वस्तुना वस्तु व्यज्यते । {सहि विरैऊण माणस्स मज्झ धीरत्तणेण आसासम् । पिअदंसणविहङ्खलेलक्खणम्मि सहसत्ति तेण ओसरिअम् ॥६९॥} [सखि विरचय्य मानस्य मम धीरत्वेनाश्वासम् । प्रियदर्शनविशृङ्खलक्षणे सहसेति तेनापसृतम् ॥] <(हालऽस्गाथासप्तशती ९३६)> अत्र वस्तुनाकृतेऽपि प्रार्थने प्रसन्नेति विभावना प्रियदर्शनस्य सौभाग्यबलं धैर्येण सोढुं न शक्यते इत्युत्प्रेक्षा वा । {ओल्लोल्लकरअरअख्खएहि तुह लोअणेसु मह दिण्णम् । रत्तंसुअं पसाओ कोवेण पुणो इमे ण अक्कमिआ ॥७०॥} [आर्द्रार्द्रकरजरदनक्षतैस्तव लोचनयोर्मम दत्तम् । रक्तांशुकं प्रसादः कोपेन पुनरिमे नाक्रान्ते ॥] <(हालऽस्गाथासप्तशती ९७१)> अत्र किमिति लोचने कुपिते वहसि इति उत्तरालङ्कारेण न केवलमार्द्रनखक्षतानि गोपायसि यावत्तेषामहं प्रसादपात्रं जातेति वस्तु । {महिलासहस्सभरिए तुह हिअए सुहअ सा अमाअन्ती । अणुदिणमणण्णकम्मा अङ्गं तणुअं वि तणुएइ ॥७१॥} [महिलासहस्रभरिते तव हृदये सुभग सा अमान्ती । अनुदिनमनन्यकर्मा अङ्गं तनुकमपि तनयति ॥] <(हालऽस्गाथासप्तशती २.८२)> अत्र हेत्वलङ्कारेण तनोस्तनूकरणेपि तव हृदये न वर्तते इति विशेषोक्तिः । एषु कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरो व्यञ्जकः । एवं द्वादश भेदाः ॥ शब्दार्थोभयभूरेको ... {अतन्द्रचन्द्राभरणा समुद्दीपितमन्मथा । तारकातरला श्यामा सानन्दं न करोति कम् ॥७२॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्रोपमा व्यङ्ग्या ॥ ... भेदा अष्टादशास्य तत् ॥ कारिका ४१ ॥ अस्येति ध्वनेः ॥४१॥ ननु रसादीनां बहुभेदत्वेन कथमष्टादशेत्यत आह । रसादीनामनन्तत्वाद्भेद एको हि गण्यते । अनन्तत्वादिति । तथाहि नव रसाः । तत्र शृङ्गारस्य द्वौ भेदौ । संभोगो विप्रलम्भश्च । संभोगस्यापि परस्परावलोकनालिङ्गनपरिचुम्बनादिकुसुमोच्चयजलकेलिसूर्यास्तमयचन्द्रोदयषडृतुवर्णनादयो बहवो भेदाः । विप्रलम्भस्याभिलाषादय उक्ताः । तयोरपि विभावानुभावव्यभिचारिवैचित्र्यम् । तत्रापि नायकयोरुत्तममध्यमाधमप्रकृतित्वम् । तत्रापि देशकालावस्थादिभेदा इत्येकस्यैव रसस्यानन्त्यम् । का गणना त्वन्येषाम् । क्रमत्वं तु सामान्यमाश्रित्य रसादिध्वनिभेद एक एव गण्यते ॥ वाक्ये द्व्युत्थः ... द्व्युत्थ इति शब्दार्थोभयशक्तिमूलः ॥ ... पदेऽप्यन्ये ... अपिशब्दाद्वाक्येपि । एकावयवस्थितेन भूषणेन कामिनीव पदद्योत्येन व्यङ्ग्येन वाक्यव्यङ्ग्यापि भारती भासते । तत्र पदप्रकाश्यत्वे क्रमेणोदाहरणानि {यस्य मित्राणि मित्राणि शत्रवः शत्रवस्तथा । अनुकम्प्योनुकम्प्यश्च स जातः स च जीवति ॥७३॥ (१)} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र द्वितीयमित्रादिशब्दा आश्वस्तत्वनियन्त्रणीयत्वस्नेहपात्रत्वादिसंक्रमितवाच्याः । {खलववहारा दीसन्ति दारुणा जहवि तहवि धीराणम् । हि_अ_अव_अस्सवहुम_आ ण हु ववसा_आ विमुज्झन्ति ॥७४॥ (२)} [खलव्यवहाराः दृश्यन्ते दारुणाः यद्यपि तथापि धीराणाम् । हृदयवयस्यबहुमताः न खलु व्यवसायाः विमुह्यन्ति ॥] <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र विमुह्यन्तीति । {लावण्यं तदसौ कान्तिस्तद्रूपं स वचःक्रमः । तदा सुधास्पदमभूदधुना तु ज्वरो महान् ॥७५॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र तदादिपदैरनुभवैकगोचरा अर्थाः प्रकाश्यन्ते । यथा वा {मुग्धे मुग्धतयैव नेतुमखिलः कालः किमारभ्यते मानं धत्स्व धृतिं बधान ऋजुतां दूरे कुरु प्रेयसि । सख्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना नीचैःशंस हृदि स्थितो हि ननु मे प्राणेश्वरः श्रोष्यति ॥७६॥ (३)} <(अमरुशतक ७०)> अत्र भीताननेति । एतेन हि नीचैःशंसनविधानस्य युक्तता गम्यते । भावादीनां पदप्रकाश्यत्वेऽधिकं न वैचित्र्यमिति न तदुदाह्रियते । {रुधिरविसरप्रसाधितकरवालकरालरुचिरभुजपरिघः । झटिति भ्रुकुटिविटङ्कितललाटपट्टो विभासि नृप भीम ॥७७॥ (४)} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र भीषणीयस्य भीमसेन उपमानम् । {भुक्तिमुक्तिकृदेकान्तसमादेशनतत्परः । कस्य नानन्दनिस्यन्दं विदधाति सदागमः ॥७८॥ (५)} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> काचित्संकेतदायिनमेवं मुख्यया वृत्त्या शंसति । {सायं स्नानमुपासितं मलयजेनाङ्गं समालेपितं यातोऽस्ताचलमौलिमम्बरमणिर्विस्रब्धमत्रागतिः । आश्चर्यं तव सौकुमार्यमभितः क्लान्तासि येनाधुना नेत्रद्वन्द्वममीलनव्यतिकरं शक्नोति तेनासितुम् ॥७९॥ (६)} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र वस्तुना कृतपुरुषपरिचया क्लान्तासीति वस्तु अधुनापदद्योत्यं व्यज्यते । {तद्प्राप्तिमहादुःखविलीनाशेषपातका । तच्चिन्ताविपुलाह्लादक्षीणपुण्यचया तथा ॥८०॥ चिन्तयन्ती जगत्सूतिं परब्रह्मस्वरूपिणम् । निरुच्छ्वासतया मुक्तिं गतान्या गोपकन्यका ॥८१॥ (७)} <(विष्णुपुराण ५,१३.२१,२२)> अत्र जन्मसहस्तैरुपभोक्तव्यानि दुष्कृतसुकृतफलानि वियोगदुःखचिन्तनाह्लादाभ्यामनुभूतानीत्युक्तम् । एवं चाशेषचयपदद्योत्ये अतिशयोक्ती । {क्षणदासावक्षणदा वनमवनं व्यसनमव्यसनम् । बत वीर तव द्विषतां पराङ्मुखे त्वयि परांङ्मुखं सर्वम् ॥८२॥ (८)} <(सुभाषितरत्नभाण्डागार १०३।७४)> अत्र शब्दशक्तिमूलविरोधाङ्गेनार्थान्तरन्यासेन {विधिरपि त्वामनुवर्तते} इति सर्वपदद्योत्यं वस्तु । {तुह वल्लहस्स गोसम्मि आसि अहरो मिलाणकमलदलो । इअ णववहुआ सोऊण कुणै वअणं महिसंमुहम् ॥८३॥ (९)} [तव वल्लभस्य प्रभात आसीदधरो म्लानकमलदलम् । इति नववधूः श्रुत्वा करोति वदनं महीसंमुखम् ॥] <(हालऽस्गाथासप्तशती ९९८)> अत्र रूपकेण त्वयास्य मुहुर्मुहुः परिचुम्बनं तथा कृतं येन म्लानत्वमिति मिलाणादिपदद्योत्यं काव्यलिङ्गम् । एषु स्वतः संभवी व्यञ्जकः । {राईसु चन्दधवलासु ललिअमप्फालिऊण जो चावम् । एकच्छत्तं विअ कुणै भुअणरज्जं विजंभन्तो ॥८४॥ (१०)} [रात्रीषु चन्द्रधवलासु ललितमास्फाल्य यश्चापम् । एकच्छत्रमिव करोति भुवनराज्यं विजृम्भमाणः ॥] <(हालऽस्गाथासप्तशती ९९२)> अत्र वस्तुना येषां कामिनामसौ राजा स्मरस्तेभ्यो न कश्चिदपि तदादेशपराङ्मुख इति जाग्रद्भिरुपभोगपरैरेव तैर्निशातिवाह्यते इति भु_अणरज्जपदद्योत्यं वस्तु प्रकाश्यते । {निशितशरधियार्पयत्यनङ्गो दृशि सुदृशः स्वबलं वयस्यराले । दिशि निपतति यत्र सा च तत्र व्यतिकरमेत्य समुन्मिषन्त्यवस्थाः ॥८५॥ (११)} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र वस्तुना युगपदवस्थाः प्रस्परविरुद्धा अपि प्रभवन्तीति व्यतिकरपदद्योत्यो विरोधः । {वारिज्जन्तो वि पुणो संदावकदत्थिएण हिअएण । थणहरवअस्मएण विसुद्धजाई ण चलै से हारो ॥८६॥ (१२)} [वार्यमाणोऽपि पुनः संतापकदर्थितेन हृदयेन । स्तनभरवयस्येन विशुद्धजातिर्न चलत्यस्या हारः ॥] <(हालऽस्गाथासप्तशती ९९४)> अत्र विशुद्धजातित्वलक्षणहेत्वलङ्कारेण हारोऽनवरतं कम्पमान एवास्ते इति ण चलैपदद्योत्यं वस्तु । {सो मुद्धसामलङ्गो धम्मिल्लो कलिअललिअणिअदेहो । तीए खन्धाहि बलं गहिअ संरो सुरअसंगरे जऐ ॥८७॥ (१३)} [स मुग्धश्यामलाङ्गः धम्मिल्लः कलितललितनिजदेहः । तस्याः स्कन्धाद्बलं गृहीत्वा स्मरः सुरतसंगरे जयति ॥] <(हालऽस्गाथासप्तशती ९९८)> अत्र रूपकेण मुहुर्मुहुराकर्षणेन तथा केशपाशः स्कन्धयोः प्राप्तो यथा रतिविरतावप्यनिवृत्ताभिलाषः काम्कोऽभूदिति खन्धपदद्योत्या विभावना ॥ एषु कविप्रौढोक्तिमात्रनिष्पन्नशरीरः ॥ {णवपुण्णिमामिअङ्कस्स सुहअ को तं सि भणसु मह सच्चम् । का सोहग्गसमग्गा पओसरअणिव्व तुह अज्ज ॥८८॥ (१४)} [नवपूर्णिमामृगाङ्कस्य सुभग कस्त्वमसि भण मम सत्यम् । का सौभाग्यसमग्रा प्रदोषरजनीव तवाद्य ॥] <(हालऽस्गाथासप्तशती ९८६)> अत्र वस्तुना मयीवान्यस्यामपि प्रथममनुरक्तस्त्वं न तत इति णवेत्यादि पओसेत्यादिपदद्योत्यं वस्तु व्यज्यते ॥ {सहि णवणिहुवणसमरम्मि अङ्कवालीसहीए णिविडाए । हारो णिवारिओ विअ उच्छेरन्तो तदो कहं रमिअम् ॥८९॥ (१५)} [सखि नवनिधुवनसमरेऽङ्कपालीसख्या निबिडया । हारो निवारित एवोच्छ्रियमाणस्ततः कथं रमितम् ॥] <(हालऽस्गाथासप्तशती ९९६)> अत्र वस्तुना हारच्छेदानन्तरमन्यदेव रतमवश्यमभूत्तत्कथय कीदृगिति व्यतिरेकः कहंपदगम्यः ॥ {प्रविसंती घरवारं विवलिअवअणा विलोइऊण पहम् । खन्धे घेत्तूण घडं हा हा णट्ठोत्ति रुअसि सहि किन्ति ॥९०॥} [प्रविशन्ती गृहद्वारं विवलितवदना विलोक्य पन्थानम् । स्कन्धे गृहीत्वा घटं हा हा नष्ट इति रोदिषि सखि किमिति ॥] <(हालऽस्गाथासप्तशती ८८०)> अत्र हेत्वलङ्कारेण संकेतनिकेतनं गच्छन्तं दृष्ट्वा यदि तत्र गन्तुमिच्छसि तदा अपरं घटं गृहीत्वा गच्छेति वस्तु किन्तिपदद्योत्यम् । यथा वा {विहलङ्खलं तुमं सहि दट्ठूण कुडेण तरलतरदिट्ठिम् । वारप्फंसमिसेण अ अप्पा गुरुओत्ति पाडिअ विहिण्णो ॥९१॥ (१६)} [विशृङ्खलां त्वां सखि दृष्ट्वा कुटेन तरलतरदृष्टिम् । द्वारस्पर्शमिषेण चात्मा गुरुक इति पातयित्वा विभिन्नः ॥] <(हालऽस्गाथासप्तशती ८८०)> अत्र नदीकूले लतागहने कृतसंकेतमप्राप्तं गृहप्रवेशावसरे पश्चादागतं दृष्ट्वा पुनर्नदीगमनाय द्वारोपघातव्याजेन बुद्धिपूर्वं व्याकुलतया त्वया घटः स्फोटित इति मया चिन्तितं तत्किमिति नाश्वसिषि तत्समीहितसिद्धये व्रज अहं ते श्वश्रूनिकटे सर्वं समर्थयिष्ये इति द्वारस्पर्शनव्याजेनेत्यपह्नुत्या वस्तु । {जोह्णाइं महुरसेण अ विइण्णतारुण्च्छुअमणा सा । वुड्ढावि णवोढव्विअ परवहुआ अहह हरैतुह हिअअम् ॥९२॥ (१७)} [ज्योत्स्नया मधुरसेन च वितीर्णतारुण्योत्सुकमनाः सा । वृद्धापि नवोढेव परवधूरहह हरति तव हृदयम् ॥] <(हालऽस्गाथासप्तशती ९८४)> अत्र काव्यलिङ्गेन वृद्धां परवधूं त्वमस्मानुज्झित्वाभिलषसीति त्वदीयमाचरितं वक्तुं न शक्त्यमित्याक्षेपः परवहूपदप्रकाश्यः । एषु कविनिबद्धवक्तृप्रौढोक्तिमात्रनिष्पन्नशरीरः ॥ वाक्यप्रकाश्ये तु पूर्वमुदाहृतम् ॥ शब्दार्थोभयशक्त्युद्भवस्तु पदप्रकाश्यो न भवतीति पञ्चत्रिंशद्भेदाः ॥ ... प्रबन्धेऽप्यर्थशक्तिभूः ॥ कारिका ४२ ॥ यथा गृध्रगोमायुसंवादादौ । {अलं स्थित्वा श्मशानेऽस्मिन् गृध्रगोमायुसंकुले । कङ्कालबहले घोरे सर्वप्राणिभयङ्करे ॥९३॥} <(महाभारत शान्तिपर्वन् १५३११)> {न चेह जीवितः कश्चित्कालधर्ममुपागतः । प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी ॥९४॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा ५२)> इति दिवा प्रभवतो गृध्रस्य पुरुषविसर्जनपरमिदं वचनम् ॥ {आदित्योऽयं स्थितो मूढाः स्नेहं कुरुत सांप्रतम् । बहुविघ्नो मुहूर्तोऽयं जीवेदपि कदाचन ॥९५॥} <(महाभारत, गित प्रेस्स्. शान्तिपर्वन् १५३१९)> {अमुं कनकवर्णाभं बालमप्राप्तयौवनम् । गृध्रवाक्यात्कथं मूढास्त्यजध्वमविशङ्किताः ॥९६॥} <(महाभारत, गित प्रेस्स्. शान्तिपर्वन् १५३६५?)> इति निशि विजृम्भमाणस्य गोमायोर्जनव्यावर्तननिष्ठं च वचनमिति प्रबन्ध एव प्रथते ॥ अन्ये त्वेकादश भेदा ग्रन्थविस्तरभयान्नोदाहृताः स्वयं तु लक्षणतोनुसर्तव्याः ॥ अपिशब्दात्पदवाक्ययोः ॥४२॥ पदैकदेशरचनावर्णेष्वपि रसादयः । तत्र प्रकृत्या यथा {रैकेलिहिअणिवसणकरकिसलअरुद्धणअणजुअलस्स । रुद्धस्स तैअणअणं पव्वईपरिचुंबिअं जऐ ॥९७॥} [रतिकेलिबृतनिवसनकरकिसलयरुद्धनयनयुगलस्य । रुद्रस्य तृतीयनयनं पार्वतीपरिचुम्बितञ्जयति ॥] <(हालऽस्गाथासप्तशती ५.५३)> अथ जयतीति न तु शोभते इत्यादि । समानेऽपि हि स्थगनव्यापारे लोकोत्तरेणैव व्यापारेणास्य पिधानमिति तदेवोत्कृष्टम् । यथा वा {प्रेयान् सोऽयमपाकृतः सशपथं पादानतः कान्तया द्वित्राण्येव पदानि वासभवनाद्यावन्न यात्युन्मनाः । तावत्प्रत्युत पाणिसंपुटगलन्नीवीनिबन्धं धृतो धावित्वेव कृतप्रणामकमहो प्रेम्णो विचित्रा गतिः ॥९८॥} <(वामनऽस्काव्यालङ्कारसूत्रवृत्ति ३,२.१५)> अत्र पदानीति न तु द्वाराणीति ॥ तिङ्सुपोर्यथा {पथि पथि शुकचञ्चूचारुराभाङ्कुराणां दिशि दिशि पवमानो वीरुधां लासकश्च । नरि नरि किरति द्राक्सायकान् पुष्पधन्वा पुरि पुरि विनिवृत्ता मानिनीमानचर्चा ॥९९॥} <(सुभाषितरत्नभाण्डागार ३३३।८५)> अत्र किरतीति किरणस्य साध्यमानत्वं निवृत्तेति निवर्तनस्य सिद्धत्वं तिङा सुपा च तत्रापि क्तप्रत्ययेनातीतत्वं द्योत्यते । यथा वा {लिखन्नास्ते भूमिं बहिरवनतः प्राणदयितो निराहाराः सख्यः सततरुदितोच्छूननयनाः । परित्यक्तं सर्वं हसितपठितं पञ्जरशुकैः तवावस्था चेयं विसृज कठिने मानमध्हुना ॥१००॥} <(अमरुशतक ६)> अत्र लिखन्निति न तु लिखतीति तथा आस्ते इति न तु आसीत इति अपि तु प्रसादपर्यन्तमास्ते इति भूमिमिति न तु भूमाविति न हि बुद्धिपूर्वकमपरं किञ्चिल्लिखतीति तिङ्सुब्विभक्तीनां व्यङ्ग्यम् । संबन्धस्य यथा {गामारुहम्हि हामे वसामि णअरट्ठिइं ण जाणामि । णाअरिआणं पैणो हरेमि जा होमि सा होमि ॥१०१॥} [ग्रामरुहास्मि ग्रामे वसामि नगरस्थितिं न जानामि । नागरिकाणां पतीन् हरामि या भवामि सा भवामि ॥] <(हालऽस्गाथासप्तशती ७०५)> अत्र नागरिकाणामिति षष्ठ्याः । रमणीयः क्षत्रियकुमार आसीतिति कालस्य । एषा हि भग्नमहेश्वरकार्मुकं दाशरथिं प्रतिकुपितस्य भार्गवस्योक्ति । वचनस्य यथा । {ताणं गुणग्गअणाणं ताणुक्कण्ठाणं तस्स पेम्मस्स । ताणं भणिआणं सुंदर एरिसिअं जाअमवसाणम् ॥१०२॥} [तेषां गुणग्रहणानां तासामुत्कण्ठानां तस्य प्रेम्नः । तासां भणितीनां सुन्दर ईदृशं जातमवसानम् ॥] <(हालऽस्गाथासप्तशती ९४०)> अत्र गुणग्रहणादीनां बहुत्वं प्रेम्णश्चैकत्वं द्योत्यते ॥ पुरुषव्यत्ययस्य यथा {रे रे चञ्चललोचनाञ्चितरुचे चेतः प्रमुच्य स्थिर प्रेमाणं महिमानमेणयनामालोक्य किं नृत्यसि । किं मन्ये विहरिष्यसे बत हतां मुञ्चान्तराशामिमाम् एषा कण्ठतटे कृता खलु शिला संसारवारांनिधौ ॥१०३॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र प्रहासः । पूर्वनिपातस्य यथा {येषां दोर्बलमेव दुर्बलतया ते संमतास्तैरपि प्रायः केवलनीतिरीतिशरणैः कार्यं किमुर्वीश्वरैः । ये क्ष्माशक्र पुनः पराक्रमनयस्वीकारकान्तक्रमास् ते स्युर्नैव भवादृशास्त्रिजगति द्वित्राः पवित्राः परम् ॥१०४॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र पराक्रमस्य प्राधान्यमवगम्यते । विभक्तिविशेषस्य यथा {प्रधनाध्वनि धीरधनुर्ध्वनिभृति विधुरैरयोधि तव दिवसम् । दिवसेन तु नरप भवानयुद्ध विधिसिद्धसाधुवादपदम् ॥१०५॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र दिवसेनेत्यपवर्गतृतीया फलप्राप्तिं द्योतयति । {भूयो भूयः सविधनगरीरथ्यया पर्यटन्तं दृष्ट्वा दृष्ट्वा भवनवलभीतुङ्गवातायनस्था । साक्षात्कामं नवमिव रतिर्मालती माधवं यत् गाढोत्कण्ठालुलितलुलितैरङ्गकैस्ताम्यतीति ॥१०६॥} <(भवभूतिऽस्मालतीमाधव १.३०)> अत्रानुकम्पावृत्तेः करूपतद्धितस्य । {परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान् । विवेकप्रध्वंसादुपचितमहामोहगहनो विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते ॥१०७॥} <(भवभूतिऽस्मालतीमाधव १.३०)> अत्र प्रशब्दस्योपसर्गस्य । {कृतं च गर्वाभिमुखं मनस्त्वया किमन्यदेवं निहताश्च नो द्विषः । तमांसि तिष्ठन्ति हि तावदंशुमान् न यावदायात्युदयाद्रिमौलिताम् ॥१०८॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र तुल्ययोगिताद्योतकस्य [च] इति निपातस्य । {रामोसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं परा मस्मद्भाग्यविपर्ययाद्यदि परं देवो न जानाति तम् । बन्दीवैष यशांसि गायति मरुद्यस्यैकबाणाहति श्रेणीभूतविशालतालविवरोद्गीर्णैःस्वरैःसप्तभिः ॥१०९॥} <([विशाखदत्त])> अत्रासाविति भुवनेष्विति गुणैरिति सर्वनामप्रातिपदिकवचनानां न त्वदिति न मदिति अपि अस्मदित्यस्य सर्वाक्षेपिणः भाग्यविपर्ययादित्यन्यथासंपत्तिमुखेन न त्वभावमुखेनाभिधानस्य । {तरुणिमनि कलयति कलामनुमदनधनुर्भ्रुवोः पठत्यग्रे । अधिवसति सकलललनामौलिमियं चकितंहरिणचलनयना ॥११०॥} <(महिमभट्टऽस्व्यक्तिविवेक)> अत्र इमनिजव्ययीभावकर्मभूताधाराणां स्वरूपस्य तरुणत्वे, इति धनुषः समीपे, इति मौलौ वसतीति त्वादिभिस्तुल्ये, एषां वाचकत्वे, अस्ति कश्चित्स्वरूपस्य विशेषो यश्चमत्कारकारी स एव व्यञ्जकत्वं प्राप्नोति । एवमन्येषामपि बोद्धव्यम् । वर्णरचनानां व्यञ्जकत्वं गुणस्वरूपनिरूपणे उदाहरिष्यते अपिशब्दात्प्रबन्धेषु नाटकादिषु । एवं रसादीनां पूर्वगणितभेदाभ्यां सह षड्भेदाः । भेदास्तदेकपञ्चाशत्... व्याख्याताः ॥ ... तेषां चान्योन्ययोजने ॥ कारिका ४३ ॥ संकरेण त्रिरूपेण संसृष्ट्या चैकरूपया । न केवलं शुद्धा एवैकपञ्चाशद्भेदा भवन्ति । यावत्तेषां स्वप्रभेदैरेकपञ्चाशता संशयास्पदत्वेनानुग्राहकतयैकव्यञ्जकानुप्रवेशेन चेति त्रिविधेन संकरेण परस्परनिरपेक्षरूपयैकप्रकारया संसृष्ट्या चेति चतुर्[भिर्]गुणने । वेदखाब्धिवियच्चन्द्राः ... शुद्धभेदैः सह ... शरेषुयुगखेन्दवः ॥ कारिका ४४ ॥ तत्र दिङ्मात्रमुदाह्णियते । {क्खणपाहुणिआ देअर जाआए सुहअ किंपि दे भणिआ । रुऐ पडोहरवलहीघरम्मि अणुणिञ्जौ वराई ॥१११॥} [क्षणप्राघुणिका देवर जायया सुभग किमपि ते भणिता । रोदिति गृहपश्चाद्भागवलन्भीगृहेऽनुनीयतां वराकी ॥] <(हालऽस्गाथासप्तशती ९६३ ॑ अभिनवगुप्तऽस्ध्वन्यालोकलोचन ३)> अत्रानुनयः किमुपभोगलक्षणेऽर्थान्तरे संक्रमितः किमनुरणनन्यायेनोपभोगे एव व्यङ्ग्ये व्यञ्जकः इति संदेहः । {स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्बलाका घनाः वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वं सहे वैदेही तु कथं भविष्यति ह हा हा देवि धीरा भव ॥११२॥} <(आनन्दवर्दनऽस्ध्वन्यालोक २)> अत्र लिप्तेति पयोदसुहृदामिति च अत्यन्ततिरस्कृतवाच्ययोः संसृष्टिः । ताभ्यां सह रामोऽस्मीत्यर्थान्तरसंक्रमितवाच्यस्यानुग्राहकभावेन रामपदलक्षणैकव्यञ्जकानुप्रवेशेन चार्थान्तरसंक्रमितवाच्यरसध्वन्योः संकरः । एवमन्यदप्युदाहार्यम् ॥ इति काव्यप्रकाशे ध्वनिनिर्णयो नाम चतुर्थ उल्लासः ॥४॥ ========================================================== अथ पञ्चम उल्लासः एवं ध्वनौ निर्णीते गुणीभूतव्यङ्ग्यप्रभेदानाह । अगूढमपरस्याङ्गं वाच्यसिद्ध्यङ्गमस्फुटम् । सन्दिग्धतुल्यप्राधान्ये काक्वाक्षिप्तमसुन्दरम् ॥ कारिका ४५ ॥ व्यङ्ग्यमेवं गुणीभूतव्यङ्ग्यस्याष्टौ भिदाः स्मृताः । कामिनीकुचकलशवत्गूढं चमत्करोति । अगूढं तु स्फुटतया वाच्यायमानमिति गुणीभूतमेव । अगूढं यथा {यस्यासुहृत्कृततिरस्कृतिरेत्य तप्त सूचीव्यधव्यतिकरेण युनक्ति कर्णौ । काञ्चीगुणग्रथनभाजनमेष सोऽस्मि जीवन्न संप्रति भवामि किमावहामि ॥११३॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र जीवन्नित्यर्थान्तरसंक्रमितवाच्यस्य । {उन्निद्रकोकनदरेणुपिशङ्गितान्गा गायन्ति मञ्जु मधुपा गृहदीर्घिकासु । एतच्चकास्ति च रवेर्नवबन्धुजीव पुष्पच्छदाभमुदयाचलचुम्बि बिम्बम् ॥११४॥} <(कुन्तकऽस्वक्रोक्तिजीवित २.३)> अत्र चुम्बनस्यात्यन्ततिरस्कृतवाच्यस्य । {अत्रासीत्फणिपाशबन्धनविधिः शक्त्या भवद्देवरे गाढं वक्षसि ताडिते हनुमता द्रोणाद्रिरत्राहृतः । दिव्यैरिन्द्रजिदत्र लक्ष्मणशरैर्लोकान्तरं प्रापितः केनाप्यत्र मृगाक्षि राक्षसपतेः कृत्ता च कण्ठाटवी ॥११५॥ (१)} <(राजशेखरऽस्बालरामायण १०.२०)> अत्र केनाप्यत्रेत्यर्थशक्तिमूलानुरणनरूपस्य । {तस्याप्यत्र} इति युक्तः पाठः । अपरस्य रसादेर्वाच्यस्य वा (वाक्यार्थीभूतस्य) अङ्गं रसादि अनुरणनरूपं वा । यथा {अयं स रशनोत्कर्षी पीनस्तनविमर्दनः । नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः ॥११६॥} <(महाभारत)> अत्र शृङ्गारः करुणस्य । {कैलासालयभाललोचनरुचा निर्वर्तितालक्तक व्यक्तिः पादनखद्युतिर्गिरिभुवः सा वः सदा त्रायताम् । स्पर्धाबन्धसमृद्धयेव सुदृढं रूढा यया नेत्रयोः कान्तिः कोकनदानुकारसरसा सद्यः समुत्सार्यते ॥११७॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र भावस्य रसः । {अत्युच्चाः परितः स्फुरन्ति गिरयः स्फारास्तथाभ्योधय स्तानेतानपि बिभ्रती किमपि न क्लान्तासि तुभ्यं नमः । आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्भुव स्तावद्बिभ्रदिमां स्मृतस्तव भुजो वाचस्ततो मुद्रिताः ॥११८॥} <(पञ्चाक्षरीप्रशस्ति)> अत्र भू.विषयो रत्याख्यो भावो राजविषयस्य रतिभावस्य । {बन्दीकृत्य नृप द्विषां मृगदृशस्ताः पश्यतां प्रेयसां श्लिष्यन्ति प्रणमन्ति लान्ति परितश्चुम्बन्ति ते सैनिकाः । अस्माकं सुकृतैर्दृशोर्निपतितोस्यौचित्यवारांनिधे विध्वस्ता विपदोखिलास्तदिति तैः प्रत्यर्थिभिः स्तूयसे ॥११९॥} <(सुभाषितरत्नभाण्डागार ११२।२६८)> अत्र भावस्य रसाभासभावाभासौ प्रथमार्धद्वितीयार्धद्योत्यौ । {अविरलकरवालकम्पनैर्भ्रुकुटीतर्जनगर्जनैर्मुहुः । ददृशे तव वैरिणां मदः स गतः क्वापि तवेक्षणे क्षणात् ॥१२०॥} <(विश्वनाथऽस्साहित्यदर्पण)> अत्र भावस्य भावप्रशमः । {साकं कुरङ्गकदृशा मधुपानलीलां कर्तुं सुहृद्भिरपि वैरिणि ते प्रवृत्ते । अन्याभिधायि तव नाम विभो गृहीतं केनापि तत्र विषमामकरोदवस्थाम् ॥१२१॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र त्रासोदयः । {असोढा तत्कालोल्लसदसहभावस्य तपसः कथानां विश्रम्भेष्वथ च रसिकः शैलदुहितुः । प्रमोदं वो दिश्यात्कपटबटुवेषापनयने त्वराशैथिल्याभ्यां युगपदभियुक्तः स्मरहरः ॥१२२॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्रावेगधैर्ययोः संधिः ॥ {पश्येत्कश्चिच्चल चपल रे का त्वराहं कुमारी हस्तालम्बं वितर ह ह हा व्युत्क्रमः क्वासि यासि । इत्थं पृथ्वीपरिवृढ भवद्विद्विषोरण्यवृत्तेः कन्या कञ्चित्फलकिसलयान्याददानाभिधत्ते ॥१२३॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र शङ्कासूयाधृतिस्मृतिश्रमदैन्यविबोधौत्सुक्यानां शबलता । एते च रसवदाद्यलङ्काराः । यद्यपि भावोदयभावसंधिभावशबलत्वानि नालङ्कारतया उक्तानि तथापि कश्चित्ब्रूयादित्येवमुक्तम् । यद्यपि स नास्ति कश्चिद्विषयः यत्र ध्वनिगुणीभूतव्यङ्ग्ययोः स्वप्रभेदादिभिः सह संकरः संसृष्टिर्वा नास्ति तथापि प्राधान्येन व्यपदेशा भवन्तीति क्वचित्केनचिद्व्यवहारः । {जनस्थाने भ्रान्तं कनकमृगतृष्णान्धितधिया वचो वैदेहीति प्रतिपदमुदश्रु प्रलपितम् । कृतालङ्काभर्तुर्वदनपरिपाटीषुघटना मयाप्तं रामत्वं कुशलवसुता न त्वधिगता ॥१२४॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा ६६)> अत्र शब्दशक्तिमूलानुरणनरूपो रामेण सहोपमानोपमेयभावो वाच्याङ्गतां नीतः । {आगत्य संप्रति वियोगविसंष्ठुलाङ्गी मम्भोजिनीं क्वचिदपि क्षपितत्रियामः । एतां प्रसादयति पश्य शनैः प्रभाते तन्वङ्गि पादपतनेन सहस्ररश्मिः ॥१२५॥ (२)} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा ६७)> अत्र नायकवृत्तान्तोऽर्थशक्तिमूलो वस्तुरूपो निरपेक्षरविकमलिनीवृत्तान्ताध्यारोपेणैव स्थितः ॥ वाच्यसिद्ध्यङ्गं यथा {भ्रमिमरतिमलसहृदयतां प्रलयं मूर्छा तमः शरीरसादम् । मरणं जलदभुजगजं प्रसह्य कुरुते विषं वियोगिनीनाम् ॥१२६॥} <(आनन्दवर्दनऽस्ध्वन्यालोक २.३)> अत्र हालाहलं व्यङ्ग्यं भुजगरूपस्य वाच्यस्य सिद्धिकृत् । यथा वा {गच्छाम्यच्युत दर्शनेन भवतः किं तृप्तिरुत्पद्यते किं त्वेवं विजनस्थयोर्हतजनःसंभावयत्यन्यथा । इत्यामन्त्रणभङ्गिसूचितवृथावस्थानखेदालसाम् आश्लिष्यन् पुलकोत्कराञ्चिततनुर्गोपीं हरिः पातु वः ॥१२७॥ (३)} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्राच्युतादिपदव्यङ्ग्यमामन्त्रणेत्यादिवाच्यस्य । एतच्चैकत्र एकवक्तृगतत्वेन अपरत्र भिन्नवक्तृगतत्वेनेत्यनयोर्भेदः ॥ अस्फुटं यथा {अदृष्टे दर्शनोत्कण्ठा दृष्टे विच्छेदभीरुता । नादृष्टेन न दृष्टेन भवता लभ्यते सुखम् ॥१२८॥ (४)} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्रादृष्टो यथा न भवसि वियोगभयं च यथा नोत्पद्यते तथा कुर्या इति क्लिष्टम् ॥ संदिग्धप्राधान्यं यथा {हरस्तु किञ्चित्परिवृत्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः । उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥१२९॥ (५)} <(कालिदासऽस्कुमारसंभव ३.६७)> अत्र परिचुम्बितुमैच्छदिति किं प्रतीयमानं किं वा विलोचनव्यापारणं वाच्यं प्रधानमिति संदेहः ॥ तुल्यप्राधान्यं यथा {ब्राह्मणातिक्रमत्यागो भवतामेव भूतये । जामदग्न्यस्तथा मित्रमन्यथा दुर्मनायते ॥१३०॥ (६)} <(भवभूतिऽस्महावीरचरित २.८)> अत्र जामदग्न्यः सर्वेषां क्षत्रियाणामिव रक्षसां क्षणात्क्षयं करिष्यतीति व्यङ्ग्यस्य वाच्यस्य च समं प्राधान्यम् ॥ काक्वाक्षिप्तं यथा {मथ्नामि कौरवशतं समरे न कोपात् दुःशासनस्य रुधिरं न प्बाम्युरस्तः ॥ संचूर्णयामि गदया न सुयोधनोरू संधिं करोतु भवतां नृपतिः पणेन ॥१३१॥ (७)} <(भट्टनारायणऽस्वेणीसंहार १.१५)> अत्र मथ्नाम्येवेत्यादि व्यङ्ग्यं वाच्यनिषेधसहभावेन स्थितम् ॥ असुन्दरं यथा {वाणीरकुञ्जुड्डीणसौणिकोलाहलं सुणन्तीए । घरकम्मवावडाए बहुए सीअन्ति अङ्गाइम् ॥१३२॥ (८)} [वानीरकुञ्जोड्डीनशकुनिकोलाहलं शृण्वन्त्याः । गृहकर्मव्यापृताया वध्वाः सीदन्त्यङ्गानि ॥] <(हालऽस्गाथासप्तशती ८७६)> अत्र दत्तसंकेतः कश्चिल्लतागहनं प्रविष्ट इति व्यङ्ग्यात्सीदन्त्यङ्गानीति वाच्यं सचमत्कारम् ॥ एषां भेदा यथायोगं वेदितव्याश्च पूर्ववत् ॥ कारिका ४६ ॥ यथायोगमिति {व्यज्यन्ते वस्तुमात्रेण यदालङ्कृतयस्तदा । ध्रुवं ध्वन्यङ्गता तासां काव्यवृत्तेस्तदाश्रयात् ॥} इति ध्वनिकारोक्तदिशा वस्तुमात्रेण यत्रालङ्कारो व्यज्यते न तत्र गुणीभूतव्यङ्ग्यत्वम् । सालङ्कारैर्ध्वनेस्तैश्च योगः संसृष्टिसङ्करैः । सालङ्कारैरिति तैरेवालङ्कारैः अलङ्कारयुक्तैश्च तैः । तदुक्तं ध्वनिकृता {स गुणीभूतव्यङ्ग्यैः सालङ्कारैः सह प्रभेदैः स्वैः । संकरसंसृष्टिभ्यां पुनरप्युद्द्योतते बहुधा ॥} इति । अन्योन्ययोगादेवं स्याद्भेदसंख्यातिभूयसी ॥ कारिका ४७ ॥ एवमनेन प्रकारेण अवान्तरभेदगणनेतिप्रभूततरा गणना । तथाहिशृङ्गस्यैव भेदप्रभेदगणनायामानन्त्यम् । का गणना तु सर्वेषाम् । संकलनेन पुनरस्य ध्वनेस्त्रयो भेदाः । व्यङ्ग्यस्य त्रिरूपत्वात् । तथाहिकिञ्चिद्वाच्यतां सहते किञ्चित्त्वन्यथा । तत्र वाच्यतासहमविचित्रं विचित्रं चेति । अविचित्रं वस्तुमात्रं विचित्रं त्वलङ्काररूपम् । यद्यपि प्राधान्येन तदलङ्कार्यं तथापि ब्राह्मणश्रमणन्यायेन तथोच्यते । रसादिलक्षणस्त्वर्थः स्वप्नेऽपि न वाच्यः । स हि रसादिशब्देन शृङ्गारादिशब्देन वाभिधीयेत । न चाभिधीयते तत्प्रयोगेऽपि विभावाद्यप्रयोगे तस्याप्रतिपत्तेस्तदप्रयोगेऽपि विभावादिप्रयोगे तस्य प्रतिपत्तेश्चेत्यन्वयव्यतिरेकाभ्यां विभावाद्यभिधानद्वारेणैव प्रतीयते इति निश्चीयते । तेनासौ व्यङ्ग्य एव । मुख्यार्थबाधाद्यभावान्न पुनर्लक्षणीयः । अर्थान्तरसंक्रमितात्यन्ततिरस्कृतवाच्ययोर्वस्तुमात्ररूपं व्यङ्ग्यं विना लक्षणैव न भवतीति प्राक्प्रतिपादितम् । शब्दशक्तिमूले तु अभिधाया नियन्त्रणेनानभिधेयस्यार्थान्तरस्य तेन सहोपमादेर[रं]लङ्कारस्य च निर्विवादं व्यङ्गत्वम् । ([रं] इस्नेएद्लेस्स्) अर्थशक्तिमूलेऽपि विशेषे संकेतः कर्तु[ं] न युज्यते इति सामान्यरूपाणां पदार्थानामाकाङ्क्षासंनिधियोग्यतावशात्परस्परसंसर्गो यत्रापदार्थोऽपि विशेषरूपो वाक्यार्थस्तत्राभिहितान्वयवादे का वार्त्[त्]आ व्यङ्ग्यस्याभिधेयतायाम् । यंप्याहुः {शब्दवृद्धाभिधेयांश्च प्रत्यक्षेणात्र पश्यति । श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टया ॥१॥ अन्यथानुपपत्त्या तु बोधेच्छक्तिं द्वयात्मिकाम् । अर्थापत्त्यावबोधेत संबन्धं त्रिप्रमाणकम् ॥२॥} <([कुमारिलभट्ट,श्लोकवार्तिक१४१])> इति प्रतिपादितदिशा देवदत्त गामानय इत्याद्युत्तमवृद्धवाक्यप्रयोगाद्देशान्तरं सास्नादिमन्तमर्थं मध्यमवृद्धे नयति सति अनेनास्माद्वाक्यादेवंविधोऽर्थः प्रतिपन्नः इति तच्चेष्टयानुमाय तयोरखण्डवाक्यवाक्यार्थयोरर्थापत्त्या वाच्यवाचकभावलक्षणं संबन्धमवधार्य बालस्तत्र व्युत्पद्यते । परतः चैत्र गामानय देवदत्त अश्वमानय देवदत्त गां नय इत्यादिवाक्यप्रयोगे तस्य तस्य शब्दस्य तं तमर्थमवधारयतीति अन्वयव्यतिरेकाभ्यां प्रवृत्तिनिवृत्तिकारि वाक्यमेव प्रयोगयोग्यमिति वाक्यस्थितानामेव पदानामन्वितैः पदा[र्]थैरन्वितानामेव संकेतो गृह्यते इति विशिष्टा एव पदार्था वाक्यार्थाः । न तु पदार्थानां वैशिष्ट्यम् । यद्यपि वाक्यान्तरप्रयुज्यमानान्यपि प्रत्यभिज्ञाप्रत्ययेन तान्येवैतानि पदानि निश्चीयन्त इति पदार्थान्तरमात्रेणान्वितः पदार्थः संकेतगोचरः । तथापि सामान्यावच्छादितो विशेषरूप एवासौ प्रतिपद्यते व्यतिषक्तानां पदार्थानां तथाभूतत्वादित्यन्विताभिधानवादिनः । तेषामपि मते सामान्यविशेषरूपः पदार्हः संकेतविषय इत्यतिविशेषभूतो वाक्यार्थान्तर्गतोसंकेतितत्वादवाच्य एव यत्र पदार्थः प्रतिपद्यते तत्र दूरे अर्थान्तरभूतस्य निःशेषच्युतेत्यादौ विध्यादेश्चर्चा । अनन्वितोऽर्थोऽभिहितान्वये पदार्थान्तरमात्रेणान्वितस्त्वन्विताभिधाने अन्वितविशेषस्त्ववाच्य एव इत्युभयनयेऽप्यपदार्थ एव वाक्यार्थः । यदप्युच्यते नैमित्तिकानुसारेण निमित्तानि कल्प्यन्ते इति । तत्र निमित्तत्वं कारकत्वं ज्ञापकत्वं वा शब्दस्य । प्रकाशकत्वान्न कारकत्वम् । ज्ञापकत्वं तु अज्ञातस्य कथम् । ज्ञातत्वञ्च संकेतेनैव स चान्वितमात्रे एवं च निमित्तस्य नियतनिमित्तत्वं यावन्न निश्चितं तावन्नैमित्तिकस्य प्रतीतिरेव कथमितिऽनैमित्तिकानुसारेण निमित्तानि कल्प्यन्तेऽ इत्यविचारिताभिधानम् । ये त्वभिदधति सोऽयमिषोरिव दीर्घदीर्घतरो व्यापारः इति यत्परः शब्दः स शब्दार्थः इति विधिरेवात्र वाच्य इति । तेऽप्यतात्पर्यज्ञास्तात्पर्यवाचोयुक्तेर्देवानांप्रियाः । तथाहि {भूतव्यसमुच्चारणे भूतं भव्यायोपदिश्यते} इति कारकपदार्थाः क्रियाभिसण्बन्धात्साध्यामानतां प्राप्नुवन्ति । ततश्चादग्धदहनन्यायेन यावदप्राप्तं तावद्विधीयते । यथा ऋत्विक्प्रचरणे प्रमाणान्तरात्सिद्धे {लोहितोष्णीषा ऋत्विजः प्रचरन्ति} इत्यत्र लोहितोष्णीषत्वमात्रं विधेयं हवनस्यान्यतः सिद्धेः {दध्ना जुहोति} इत्यादौ दध्यादेः करणत्वमात्रं विधेयम् ॥ क्वचिदुभयविधिः क्वचित्त्रिविधिरपि यथा {रक्तं पटं वयः} इत्यादौ एकविधिर्द्विविधिस्त्रिविधिर्वा । ततश्च {यदेव विधेयं तत्रैव तात्पर्यम्} इत्युपात्तस्यव शब्दस्यार्थे तात्पर्य न तु प्रतीतमात्रे एवं हि {पूर्वो धावति} इत्यादावपराद्यथपि क्वचित्तात्पर्यं स्यात् । यत्तु {विषं भक्षय मा चान्य गृहे भुङ्क्थाः} इत्यत्र {एतद्गृहे न भोक्तव्यम्} इत्यत्र तात्पर्यमिति स एव वाक्यार्थ इति, उच्यते तत्र चकार एकवाक्यतासूचनार्थः न चाख्यातवाक्ययोर्द्वयोरङ्गाङ्गिभाव इति विषभक्षणवाक्यस्य सुहृद्वाक्यत्वेनाङ्गता कल्पनीयेति {विषभक्षणादपि दुष्टमेतद्गृहे भोजनमिति सर्वथा मास्य गृहे भुङ्क्थाः} इति, उपात्तशब्दार्थे एव तात्पर्यम् । यदि शब्दश्रुतेरन्तरं यावानर्थो लभ्यते तावति शब्दस्याभिधैव व्यापारः ततः कथंऽब्राह्मण पुत्रस्ते जातः ब्राह्मण कन्या ते गर्भिणीऽ इत्यादौ हर्षशोकादीनामपि न वाच्यत्वम् । कस्माच्च लक्षणा लक्षणीयेऽप्यर्थे दीर्घदीर्घतराभिधाव्यआपारेणैव प्रतीतिसिद्धेः । किमिति च श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां पूर्वपूर्वबलीयस्त्वमित्यन्विताभिधानवादेऽपि विधेरपि सिद्धं व्यङ्ग्यत्वम् ॥ किं च {कुरु रुचिम्} इति पदयोर्वैपरीत्ये काव्यान्तर्वर्तिनि कथं दुष्टत्वम् । न ह्मत्रासभ्योऽर्थः पदार्थान्तरैरन्वितः इत्यनभिधेय एवेति एवमादि अपरित्याज्यं स्यात् । यदि च वाच्यवाचकत्वव्यतिरेकेण व्यङ्ग्यव्यञ्जकभावो नाभ्युपेयते तदासाधुत्वादीनां नित्यदोषत्वं कष्टत्वादीनामनित्यदोषत्वमिति विभागकरणमनुपपन्नं स्यात् । न चानुपपन्नं सर्वस्यैव विभक्ततया प्रतिभासात् । वाच्यवाचकभावव्यतिरेकेण व्यङ्ग्यव्यञ्जकताश्रयणे तु व्यङ्ग्यस्य बहुविधत्वात्क्वचिदेव कस्यचिदेवौचित्येनोपपद्यत एव विभागव्यवस्था ॥ {द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।} इत्यादौ पिनाक्यादिपदवैलक्षण्येन किमिति कपाल्यादिपदानां काव्यानुगुणत्वम् । अपि च वाच्योऽर्थः सर्वान् प्रतिपत्तॄन् प्रति एकरूप एवेति नियतोऽसौ । न हि {गतोस्तमर्कः} इत्यादौ वाच्योऽर्थः क्वचिदन्यथा भवति । प्रतीयमानस्तु तत्तत्प्रकरणवक्तृप्रतिपत्त्रादिविशेषसहायतया नानात्वं भजते । तथा च {गतोऽस्तमर्कः} इत्यतः सपत्नं प्रत्यवस्कन्दनावसर इति अभिसरणमुपक्रम्यतामिति प्राप्तप्रायस्ते प्रेयानिति कर्मकरणान्निवर्तामह इति सांध्यो विधिरुपक्रम्यतामिति दूरं मा गा इति सुरभयो गृहं प्रवेश्यन्तामिति संतापोधुना न भवतीति विक्रेयवस्तूनि संह्रियन्तामिति नागतोद्यापि प्रेयानित्यादिरनवधिर्व्यङ्ग्योऽर्थः तत्र तत्र प्रतिभाति । वाच्तव्तञ्ज्ययोः निःशेषेत्यादौ निषेधविध्यात्मना {मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमुदाहरन्तु । सेव्यानितम्बाः किमुभूधराणामुतस्मरस्मेरविलासिनीनाम् ॥१३३॥} <(भर्तृहरिऽस्शृङ्गारशतक ३६)> इत्यादौ संशयशान्तशृङ्गार्यन्तरगतनिश्चयरूपेण, {कथमवनिप दर्पो यन्निशातासिधारा दलनगलितमूर्ध्ना विद्विषां स्वीकृता श्रीः । ननु तव निहतारेरप्यसौ किं न नीता त्रिदिवमपगताङ्गैर्वल्लभा कीर्तिरेभिः ॥१३४॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> इत्यादौ निन्दास्तुतिवपुषा स्वरूपस्य । पूर्वपश्चाद्भावेन प्रतीतेः कालस्य शब्दाश्रयत्वेन शब्दतदेकदेशतदर्थवर्णघटनाश्रयत्वेन च आश्रयस्य शब्दानुशासबज्ञानेन प्रकरणादिसहायप्रतिभानैर्मल्यसहितेन तेन चावगम इति निमित्तस्य बोद्धृमात्रविदग्धव्यपदेशयोः प्रतीतिमात्रचमत्कृत्योश्च करणात्कार्यस्य "गतोऽस्तमर्कः" इत्यादौ प्रदर्शितनयेन संख्यायाः {कस्स व ण होइ रोसो दट्ठूण पिआइ सव्वणं अहरम् । सभमरपडमग्धाइणि वारिअवामे सहसु एण्हिम् ॥१३५॥} [कस्य वा न भवति रोषो दृष्ट्वा प्रियाया सव्रणमषरम् । सभ्रमरपद्माघ्रायिणि वारितवासे सहस्वेदानीम् ॥] <(अभिनवगुप्तऽस्ध्वन्यालोकलोचन)> इत्यादौ सखीतत्कान्तादिगतत्वेन विषयस्य च भेदेऽपि यद्येकत्वं तत्क्वचिदपि नीलपीतादौ भेदो न स्यात् । उक्तं हि {अयमेव हि भेदो भेदहेतुर्वा यद्विरुद्धधर्माध्यासः कारणभेदश्च} इति । <([ज्ञानश्रीमित्रनिबन्धावलौ,क्षणभङ्गाध्यायः])> वाचकानामर्थापेक्षा व्यञ्जकानां तु न तदपेक्षत्वमिति न वाचकत्वमेव व्यञ्जकत्वम् । किं च {वाणीरकुडङ्गु} इत्यादौ प्रतीयमानमर्थमभिव्यज्य वाच्यं स्वरूप एव यत्र विश्राम्यति तत्र गुणीभूतव्यङ्ग्येतात्पर्य्भूतोऽप्यर्थः स्वशब्दानभिधेयः प्रतीतिपथमवतरन् कस्य व्यापारस्य विषयतामवलम्बतामिति । ननु {रामोऽस्मि सर्वं सहे} इति {रामेण प्रियजीवितेन तु कृतं प्रेम्णः प्रिये नोचितम्} इति {रामोऽसौ भुवनेषु विक्रमगुणैः प्राप्तः प्रसिद्धिं पराम्} इत्यादौ लक्षणीयोऽप्यर्थो नानात्वं भजते विशेषव्यपदेशहेतुश्च भवति । तदवगमश्च शब्दार्थायत्तः प्रकरणादिसव्यपेक्षश्च इति कोऽयं नूतनः प्रतीयमानो नाम । उच्यते लक्षणीयस्यार्थस्य नानात्वेऽपि अनेकार्थशब्दाभिधेयवन्नियतत्वमेव । न खलु मुख्येनार्थेनानियतसंबन्धो लक्षयितुं शक्यते । प्रतीयमानस्तु प्रकरणादिविशेषवशेन नियत संबन्धः अनियतसंबन्धः संबद्धसंबन्धश्च द्योत्यते । न च {अत्ता एत्थ णिमज्जै एत्थ अहं दिअहए पलोएहि । मा पहिअ रत्तिअन्धअ सेज्जाए मह णिमज्जहिसि ॥१३६॥} [श्वश्रूतत्र निमज्जति अत्राहं दिवसके प्रलोकय । मा पथिक रात्र्यन्धक शय्यायामावयोर्निमङ्क्ष्यसि ॥] <(हालऽस्गाथासप्तशती ७.६७)> इत्यादु विवक्षितान्यपरवाच्ये ध्वनौ मुख्यार्थबाधः । तत्कथमत्र लक्षणा । लक्षणायामपि व्यञ्जनमवश्यमाश्रयितव्यमिति प्रतिपादितम् । यथा च समयसव्यपेक्षा अभिधा तथा मुख्यार्थबाधादित्रयसमयविशेषसव्यपेक्षा लक्षणा । अत एवाभिधापुच्छभूता सेत्याहुः । न च लक्षणात्मकमेव ध्वननं तदनुगमेन तस्य दर्शनात् । न च तदनुगतमेव अभिधावलम्बनेनापि तस्य भावात् । न चोभयानुसार्येव अवाचकवर्णानुसारेणापि तस्य दृष्टेः । न च शब्दानुसार्येव अशब्दात्मकनेत्रत्रिभागावलोकनादिगतत्वेनापि तस्य प्रसिद्धेः इति अभिधातात्पर्यलक्षणात्मकव्यापारत्रयातिवर्ती ध्वननादिपर्यायो व्यापारोनपह्नवनीय एव ॥ तत्र {अत्ता एत्थ} इत्यादौ नियतसंबन्धः {कस्य व ण होइ रोसो} इत्यादौ, अनियतसंबन्धः । {विपरीअरए लच्छी बम्हं दटठूण णाहिकमलट्ठम् । हरिणो दाहिणणअणं रसाउला झत्ति ढक्केइ ॥१३७॥} [विपरीतरते लक्ष्मीर्व्रह्माणं दृष्ट्वा नाभिकमलस्थम् । हरेर्दक्षिणनयनं रसाकुला झटिति स्थगयति ॥] <(हालऽस्गाथासप्तशती ८१६)> इत्यादौ संबद्धसंबन्धः । अत्र हि हरिपदेन दक्षिणनयनस्य सूर्यात्मकता व्यज्यते . तन्निमीलनेन सूर्यास्तमयः । तेन पद्मस्य संकोचः । ततो ब्रह्मणः स्थगनम् । तत्र सति गोऽप्याङ्गस्यादर्शनेन अनिर्यन्त्रणं निधुवनविलसितमिति । {अखण्डबुद्धिनिर्ग्राह्यो वाक्यार्थ एव वाच्यः वाक्यमेव च वाचकम्} ॥ <([बृहद्देवी])> इति येऽप्याहुः तैरप्यविद्यापदपतितैः पदपदार्थकल्पना कर्तव्यैवेति तत्पक्षेऽप्यवश्यमुक्तोदाहरणादौ विध्यादिर्व्यङ्ग्य एव । ननु वाच्यादसंबद्धं तावन्न प्रतीयते यतः कुतश्चित्यस्य कस्यचिदर्थस्य प्रतीतेः प्रसङ्गात् । एवं च संबन्धात्व्यङ्ग्यव्यञ्जकभावोप्रतिबन्धेवश्यं न भवतीति व्याप्तत्वेन नियतधर्मिनिष्ठत्वेन च त्रिरूपाल्लिङ्गाल्लिङ्गिज्ञानमनुमानं यत्तद्रूपः पर्यवस्यति । तथाहि {भम धम्मिअ वीसद्धो सो सुणओ अज्ज मारिओ तेण । गोलाणैकच्छकुडङ्गवासिणा दरिअसीहेण ॥१३८॥} [भ्रम धार्मिक विश्रब्धः स शूनकोऽद्य मारितस्तेन । गोदानदीकच्छकुञ्जवासिना दृप्तसिंहेन ॥] <(हालऽस्गाथासप्तशती १७५(२.७५))> अत्र गृहे श्वनिवृत्त्या भ्रमणं विहितं गोदावरीतीरे सिंहोपलब्धेरभ्रमणमनुमापयति । यत्यत भीरुभ्रमणं तत्तद्भयकारणनिवृत्त्युपलब्धिपूर्वकं गोदावरीतीरे च सिंहोपलब्धिरिति व्यापकविरुद्धोपलब्धिः । अत्रोच्यते भीरुरपि गुरोः प्रभोर्वा निदेशेन प्रियानुरागेण अन्येन चैवंभूतेन हेतुना सत्यपि भयकारणे भ्रमतीत्यनैकान्तिको हेतुःशुनो बिभ्यदपि बीरत्वेन सिंहान्न बिभेतीति विरुद्धोऽपि गोदावरीतीरे सिंहसद्भावः प्रत्यक्षादनुमानाद्वा न निश्चितः । अपि तु वचनात् । न च वचनस्य प्रामाण्यमस्ति । अर्थेनाप्रतिबन्धादित्यअसिद्धश्च तत्कथमेवंविधाद्धेयोः साध्यसिद्धिः । तथा {निःशेषच्युत } इत्यादौ गमकतया यानि चन्दनच्यवनादीन्युपात्तानि तानि कारणान्तरतोऽपि भवन्ति । अतश्चात्रैव स्नानकार्यत्वेनोक्तानीति नोपभोगे एव प्रतिबद्धानीत्यनैकान्तिकानि । व्यक्तिवादिना चाधमपदसहायानामेषां व्यञ्जकत्वमुक्तम् । न चात्राधमत्वं प्रमाणप्रतिपन्नमिति कथमनुमानम् । एवंविधादर्थादेवंविधोऽर्थ उपपत्त्यनपेक्षत्वेऽपि प्रकाशते इति व्यक्तिवादिनः पुनस्ततदूषणम् ॥ इति काव्यप्रकाशे ध्वनिगुणीभूतव्यङ्ग्यसंकीर्णभेदनिर्णयो नाम पञ्चम उल्लासः ॥ ५ ॥ ============================================================= अथ षष्ठ उल्लासः शब्दार्थचित्रं यत्पूर्वं काव्यद्वयमुदाहृतम् । गुणप्राधान्यतस्तत्र स्थितिश्चित्रार्थशब्दयोः ॥ कारिका ४८ ॥ न तु शब्दचित्रे अर्थस्याचित्रत्वमर्थचित्रे वा शब्दस्य । तथा चोक्तम् {रूपकादिरलङ्कारस्तस्यान्यैर्बहुधोदितः । न कान्तमपि निर्भूषं विभाति वनिताननम् ॥ रूपकादिमलङ्कारं बाह्यमाचक्षते परे । सुपां तिङां च व्युत्पत्तिं वाचां वाञ्छन्त्यलङ्कृतिम् ॥ तदेतदाहुः सौशब्द्यं नार्थव्युत्पत्तिरीदृशी । शब्दाभिधेयालङ्कारभेदादिष्टं द्वयं तु नः ॥} इति ॥ शब्दचित्रं यथा {प्रथममरुणच्छायस्तावत्ततः कनकप्रभ स्तदनु विरहोत्ताम्यत्तन्वीकपोलतलद्युतिः । उदयति ततो ध्वान्तध्वंसक्षमः क्षणदामुखे सरसबिसिनीकन्दच्छेदच्छविर्मृगलाञ्छनः ॥१३९॥} <([भवभूति,मालिनीमाधव)> अर्थचित्रं यथा {ते दृष्टिमात्रपतिता अपि कस्य नात्र क्षोभाय पक्ष्मलदृशामलकाः खलाश्च । नीचाः सदैव सविलासमलीकलग्ना ये कालतां कुटिलतामिव न त्यजन्ति ॥१४०॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> यद्यपि सर्वत्र काव्येन्ततः विभावादिरूपतयैव पर्यवसानं तथापि स्फुटस्य रसस्यानुपलम्भादव्यङ्ग्यमेतत्काव्यद्वयमुक्तम् । अत्र च शब्दार्थालङ्कारभेदाद्बहवो भेदाः ते चालङ्कारनिर्णये निर्णेष्यन्ते ॥ इति काव्यप्रकाशे शब्दार्थचित्रनिरूपणं नाम षष्ठ उल्लासः ॥ ६ ॥ ============================================================= अथ सप्तम उल्लासः काव्यस्वरूपं निरूप्य दोषाणां सामान्यलक्षणमाह मुख्यार्थहतिर्दोषो रसश्च मुख्यस्तदाश्रयाद्वाच्यः । उभयोपयोगिनः स्युः शब्दाद्यास्तेन तेष्वपि सः ॥ कारिका ४९ ॥ हतिरपकर्षः । शब्दाद्याः इत्याद्यग्रहणाद्वर्णरचने । विशेषलक्षणमाह दुष्टं पदं श्रुतिकटु च्युतसंस्कृत्यप्रयुक्तमसमर्थम् । निहतार्थमनुचितार्थं निरर्थकमवाचकं त्रिधाश्लीलम् ॥ कारिका ५० ॥ सन्दिग्धमप्रतीतं ग्राम्यं नेयार्थमथ भवेत्क्लिष्टम् । अविमृष्टविधेयांशं विरुद्धमतिकृत्समासगतमेव ॥ कारिका ५१ ॥ (१) {श्रुतिकटु} परुषवर्णरूपं दुष्टम् । यथा {अनङ्गमन्गलगृहापाङ्गभङ्गितरङ्गितैः । आलिङ्गितः स तन्वङ्ग्या कार्तार्थ्यं लभते कदा ॥१४१॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा)> अत्र कार्तार्थ्यमिति ॥ (२) {च्युतसंस्कृति} व्याकरणलक्षणहीनम् यथा {एतन्मन्दविपक्वतिन्दुकफलश्यामोदरापाण्डर प्रान्तं हन्त पुलिन्दसुन्दरकरस्पर्शक्षमं लभ्यते । तत्पल्लीपतिपुत्रि कुञ्जरकुलं कुम्भाभयाभ्यर्थना दीनं त्वामनुनाथते कुचयुगं पत्रावृतं मा कृथाः ॥१४२॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्रानुनाथते इति । {सर्पिषो नाथते} इत्यादावाशिष्येव नाथतेरात्मनेपदं विहितम् । {आशिषि नाथः} इति । अत्र तु याचनमर्थः । तस्मात्{अनुनाथति स्तनयुगम्} इति पठनीयम् । (३) {अप्रयुक्तं} तथा आम्नातमपि कविभिर्नादृतम् । यथा {यथायं दारुणाचारः सर्वदैव विभाव्यते । तथा मन्ये दैवतोऽस्य पिशाचो राक्षसोऽथ वा ॥१४३॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र दैवतशब्दो {दैवतानि पुंसि वा} इति पुंस्याम्नातोऽपि न केनचित्प्रयुज्यते ॥ (४) {असमर्थं} यत्तदर्थं पठ्यते न च तत्रास्य शक्तिः । यथा {तीर्थान्तरेषु स्नानेन समुपार्जितसत्कृतिः । सुरस्रोतस्विनीमेष हन्ति संप्रति सादरम् ॥१४४॥} <(रुय्यकऽसलङ्कारसर्वस्व)> अत्र हन्तीति गमनार्थम् ॥ (५) {निहतार्थं} यदुभयार्थमप्रसिद्धेऽर्थे प्रयुक्तम् । यथा {यावकरसार्द्रपादप्रहारशोणितकचेन दयितेन । मुग्धा साध्वसतरला विलोक्य परिचुम्बिता सहसा ॥१४५॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा ७७)> अत्र शोणितशब्दस्य रुधिरलक्षणेनार्थेनोज्ज्वलीकृतत्वरूपोऽर्थो व्यवधीयते ॥ (६) {अनुचितार्थं} यथा {तपस्विभिर्या सुचिरेण लभ्यते प्रयत्नतः सत्त्रिभिरिष्यते च या । प्रयान्ति तामाशु गतिं यशस्विनो रणाश्वमेधेपशुतामुपागताः ॥१४६॥} <(महिमभट्टऽस्व्यक्तिविवेक)> अत्र पशुपदं कातरतामभिव्यनक्तीत्यनुचितार्थम् ॥ (७) {निरर्थकं} पादपूरणमात्रप्रयोजनं चादिपदम् । यथा {उत्फुल्लकमलकेसरपरागगौरद्युते मम हि गौरि । अभिवाञ्छितं प्रसिद्ध्यतु भगवति युष्मत्प्रसादेन ॥१४७॥} <(हर्षऽस्नागानन्द १.१४)> अत्र हिशब्दः ॥ (८) {अवाचकं} यथा {अवन्ध्यकोपस्य विहन्तुरापदां भवन्ति वश्याः स्वयमेव देहिनः । अमर्षशून्येन जनस्य जन्तुना न जातहार्देन न विद्विषादरः ॥१४८॥} <(भारविऽस्किरातार्जुनीय १.३३)> अत्र जन्तुपदमदातर्यर्थे विवक्षितं तत्र च नाभिधायकम् । यथा वा {हाधिक सा किल तामसी शशिमुखी दृष्टा मया यत्र सा तद्विच्छेदरुजान्धकारितमिदं दग्धं दिनं कल्पितम् । किं कुर्मः कुशले सदैव विधुरो धाता न चेत्तत्कथं तादृग्यामवतीमयो भवति मे नो जीवलोकोधुना ॥१४९॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र दिनमिति प्रकाशमयमित्यर्थे वाचकम् । यच्चोपसर्गसंसर्गादर्थान्तरगतम् यथा {जङ्घाकाण्डोरुनालो नखकिरणलसत्जेसरालीकरालः प्रत्यग्रालक्तकाभाप्रसरकिसकयो मञ्जुमञ्जीरभृङ्ग । भर्तुर्नृत्तानुकारे जयति निजतनुस्वच्छलावण्यवापी संभूताम्भोजशोभां विदधदभिबवो दण्डपादो भवान्याः ॥१५०॥} <(महिमभट्टऽस्व्यक्तिविवेक)> अत्र दधदित्यर्थे विदधदिति ॥ (९) {अश्लीलम्} त्रैधेति व्रीडाजुगुप्सामङ्गलव्यञ्जकत्वात् । यथा {साधनं सुमहद्यस्य यन्नान्यस्य विलोक्यते । तस्य धीशालिनः कोऽन्यः सहतारालितां भ्रुवम् ॥१५१॥(१)} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा)> {लीलातामरसाहतोऽन्यवनितानिःशङ्कदष्टाधरः कश्च्वित्केसरदूषितेक्षण इव व्यामील्य नेत्रे स्थितः । मुग्धा कुड्मलिताननेन ददती वायुं स्थिता तत्र सा भ्रान्त्या धूर्ततयाथ वानतिमृतेतेनानिशञ्चुम्बिता ॥१५२॥(२)} ([अमरुशतक ७२(ओर्७०),ओर्८८)]) {मृदुपवनविभिन्नो मत्प्त्रियाया विनाशाद् घनरुचिरकलापो निःसपत्नोऽद्य जातः । रतिविगलितबन्धे केशपाशे सुकेश्याः सति कुसुमसनाथे कं हरेदेष बर्ही ॥१५३॥(३)} <(कालिदासऽस्विक्रमोर्वशीय ४.२२)> एषु साधनवायुविनाशशब्दाः व्रीडादिव्यञ्जकाः ॥ (१०) {संदिग्धं} यथा {आलिङ्गितस्तत्रभवान् संपराये जयश्रिया । आशीःपरंपरां वन्द्यां कर्णे कृत्वा कृपां कुरु ॥१५४॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा)> अत्र वन्द्यां किं हठहृतमहिलायां किं वा नमस्यामिति संदेहः ॥ (११) {अप्रतीतं} यत्केवले शास्त्रे प्रसिद्धम् । यथा {सम्यग्ज्ञानमहाज्योतिर्दलिताशयताजुषः । विधीयमानमप्येतन्न भवेत्कर्मबन्धनम् ॥१५५॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> (१२) {ग्राम्यं} यत्केवले लोके स्थितम् । यथा {राकाविभावरीकान्तसंक्रान्तद्युति ते मुखम् । तपनीयशिलाशोभा कटिश्च हरते मनः ॥१५६॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा ८६)> अत्र कटिरिति ॥ (१३) {नेयार्थम्} {निरूढा लक्षणाः काश्चित्सामर्थ्यातभिधानवत् । क्रियन्ते सांप्रतं काश्चित्काश्चिन्नैव त्वशक्तितः ॥} <(कुमारिल,तन्त्रवार्तिकपूर्व ७००)> इति यन्निषिद्धं लाक्षणिकम् । यथा {शरत्कालसमुल्लासिपूर्णिमाशर्वरीप्रियम् । करोति ते मुखं तन्वि चपेटापातनातिथिम् ॥१५७॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र चपेटापातनेन निर्जितत्वं लक्ष्यते । अथ समासगतमेव दुष्टमिति संबन्धः, अन्यत्केवलं समासगतं च ॥ (१४) {क्लिष्टं} यतः अर्थप्रतिपत्तिर्व्यवहिता । यथा {अत्रिलोचनसंभूतज्योतिरुद्गमभासिभिः । सदृशं शोभतेत्यर्थं भूपाल तव चेष्टितम् ॥१५८॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्रात्रिलोचनसंभूतस्य चन्द्रस्य ज्योतिरुद्गमेन भासिभिः कुमुदैरित्यर्थः ॥ (१५) {अविमृष्टविधेयांशम्} अविमृष्टः प्राधान्येनानिर्दिष्टो विधेयांशो यत्र तत् । यथा {मूर्द्ध्नामुद्वृत्तकृत्ताविरलगलगलद्रक्तसंसक्तधारा धौतेशाङ्घ्रिप्रसादोपनतजयजगज्जातमिथ्यामहिम्नाम् । कैलासोल्लासनेच्छाव्यतिकरपिशुनोत्सर्पिदर्पोद्धुराणां दोष्णां चैषां किमेतत्फलमिह नगरीरक्षणे यत्प्रयासः ॥१५९॥} <(हर्षऽस्नागानन्द ८)> अत्र मिथ्यामहिमत्वं नानुवाद्यमपि तु विधेयम् । यथा वा {स्रस्तां नितम्बादवरोपयन्ती पुनः पुनः केसरदामकाञ्चीम् । न्यासीकृतां स्थानविदा स्मरेण द्वितीयमौर्वीमिव कार्मुकस्य ॥१६०॥} <(कालिदासऽस्कुमारसंभव ३.५५)> अत्र द्वितीयत्वमात्रमुत्प्रेक्ष्यम् । मौर्वीं द्वितीयामिति युक्तः पाठः । यथा वा {वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु । वरेषु यद्बालमृगाक्षि मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने ॥१६१॥} <(कालिदासऽस्कुमारसंभव ५.१२)> अत्र {अलक्षिता जनिः} इति वाच्यम् । यथा वा {आनन्दसिन्धुरतिचापलशालिचित्त संदाननैकसदनं क्षणमप्यमुक्ता । या सर्वदैव भवता तदुदन्तचिन्ता तान्तिं तनोति तव संप्रति धिग्धिगस्मान् ॥१६२॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र {न मुक्ता} इति संनद्धोऽयं विधेयः । यथा {नवजलधरः संनद्धोऽयं न दृप्तनिशाचरः सुरधनुरिदं दूराकृष्टं न तस्य शरासनम् । अयमपि पटुर्धारासारो न बाणपरंपरा कनकनिकषस्निग्धा विद्युत्प्रिया न ममोर्वशी ॥१६३॥} <(कालिदासऽस्विक्रमोर्वशीय ४.७)> इत्यत्र । न त्वमुक्ततानुवादेनान्यदत्र किञ्चिद्विहितम् । यथा {जुगोपात्मानमत्रस्तो भेजे धर्ममनातुरः । अगृध्नुराददे सोऽर्थानसक्तः सुखमन्वभूत् ॥१६४॥} <(कालिदासऽस्रघुवंश १.२१)> इत्यत्र अत्रस्तत्वाद्यनुवादेनात्मनो गोपनादि ॥ (१६) {विरुद्धमतिकृत्} यथा {सुधाकरकराकारविशारदविचेष्टितः । अकार्यमित्रमेकोऽसौ तस्य किं वर्णयामहे ॥१६५॥} <(शार्ङ्गधरपद्धति)> अत्र {कार्यं विना मित्रम्} इति विवक्षितम् {अकार्ये मित्रमिति} तु प्रतीतिः । यथा वा {चिरकालपरिप्राप्तलोचनानन्ददायिनः । कान्ता कान्तस्य सहसा विदधाति गलग्रहम् ॥१६६॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र {कण्ठग्रहम्} इति वाच्यम् । यथा वा {न त्रस्तं यदि नाम भूतकरुणासंतानशान्तात्मनः तेन व्यारुजता धनुर्भगवतो देवाद्भवानीपतेः । तत्पुत्रस्तु मदान्धतारकवधाद्विश्वस्य दत्तोत्सवः स्कन्दः स्कन्द इव प्रियोऽहमथ वा शिष्यः कथं विस्मृतः ॥१६७॥} <(भवभ्तूतिऽस्महावीरचरित २.२८)> अत्र भवानीपतिसब्दो भवान्याः पत्यन्तरे प्रतीतिं करोति । यथा वा {गोरपि यद्वाहनतां प्राप्तवतः सोऽपि गिरिसुतासिंहः । सविधे निरहङ्कारः पायाद्वः सोऽम्बिकारमणः ॥१६८॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्राम्बिकारमण इति विरुद्धां धियमुत्पादयति ॥ {श्रुतिकटु} ससासगतं यथा {सा दूरे च सुधासान्द्रतरङ्गितविलोचना । बहिर्निर्ह्रादनार्होऽयं कालश्च समुपागतः ॥१६९॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा ९३)> एवमन्यदपि ज्ञेयम् ॥ अपास्य च्युतसंस्कारमसमर्थं निरर्थकम् । वाक्येऽपि दोषाः सन्त्येते पदस्यांशेऽपि केचन ॥ कारिका ५२ ॥ केचन न पुनः सर्वे । क्रमेणोदाहरणम् [(१) श्रुतिकटु] {सोऽध्यौष्ट वेदांस्त्रिदशानयष्ट पितृनतार्प्सीत्सममंस्त बन्धून् । व्यजेष्ट षडवर्गमरंस्त नीतौ समूलघातं न्यवधीदरींश्च ॥१७०॥} <(भट्टिकाव्य १.२)> [(२) अप्रयुक्तम्)] {स रातु वो दुश्च्यवनो भावुकानां परंपराम् । अनेडमूकताद्यैश्च द्यतु दोषैरसंमतान् ॥१७१॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र दुश्च्यवन इन्द्रः अनेडमूको मूकबधिरः ॥ [(३) निहतअर्थम्] {सायकसहायबाहोर्मकरध्वजनियमितक्षमाधिपतेः । अब्जरुचिभास्वरस्ते भातितरामवनिप श्लोकः ॥१७२॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र सायकादयः शब्दः खड्गाब्धिभूचन्द्रयशःपर्यायाः शराद्यर्थतया प्रसिद्धः ॥ [(४) अनुचितअर्थम्] {कुविन्दस्त्वं तावत्पटयसि गुणग्राममभितो यशो गायन्त्येते दिशि दिशि च नग्नास्तव विभो । शरज्ज्योत्स्नागौरस्फुटविकटसर्वाङ्गसुभगा तथापि त्वत्कीर्तिर्भ्रमति विगताच्छादनमिह ॥१७३॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र कुविन्दादिशब्दोऽर्थान्तरं प्रतिपादयन्नुपश्लोक्यमानस्य तिरस्कारं व्यनक्तीत्यनुचितार्थः । [(५) निरर्थकम्] {प्राभ्रभ्राड्विष्णुधामाप्य विषमाश्वः करोत्ययम् । निद्रां सहस्रपर्णानां पलायनपरायणाम् ॥१७४॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र प्राभ्रभ्राड्विष्णुधामच्विषमाश्वनिद्रापर्णशब्दाः प्रकुष्टजलदगगनसप्ताश्वसंकोचदलानामवाचकाः ॥ [(६) अश्लीलम्, व्रीड] {भूपतेरुपसर्पन्ती कम्पना वामलोचना । तत्तत्प्रहरणोत्साहवती मोहनमादधौ ॥१७५॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्रोपसर्पणप्रहरणमोहनशब्दा व्रीडादायित्वादश्लीलाः । [जुगुप्सा] {तेन्यैर्वान्तं समश्नन्ति परोत्सर्गं च भुञ्जते । इतरार्थग्रहे येषां कवीनां स्यात्प्रवर्तनम् ॥१७६॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र वान्तोत्सर्गप्रवर्तनशब्दा जुगुप्सादायिनः । [अमङ्गल] {पितृवसतिमहं व्रजामि तां सह परिवारजनेन यत्र मे । भवति सपदि पावकान्वये हृदयमशेषितशोकशल्यकम् ॥१७७॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा ८३)> अत्र पितृगृहमित्यादौ विवक्षिते श्मशानादिप्रतीतावमङ्गलार्थत्वम् । [(७) संदिग्धम्] {सुरालयोल्लासपरः प्राप्तपर्याप्तकम्पनः । मार्गणप्रवणो भास्वद्भूतिरेष विलोक्यताम् ॥१७८॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र किं सुरादिशब्दा देवसेनाशरविभूत्यर्थाः किं मदिराद्यर्थाः इति संदेहः ॥ [(८) अप्रतीतम्] {तस्याधिमात्रोपायस्य तीव्रसंवेगताजुषः । दृढभूमिः प्रियप्राप्तौ यत्नः स फलितः सखे ॥१७९॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्राधिमात्रोपायादयः शब्दा योगशास्त्रमात्रप्रयुक्तत्वादप्रतीताः ॥ [(९)वुल्गर्(ग्राम्यम्)] {ताम्बूलभृतगल्लोयं भल्लं जल्पति मानुषः । करोति खादनं पादं सदैव तु यथा तथा ॥१८०॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र गल्लादयः शब्दाः ग्राम्याः ॥ [(१०) नेयार्थम्] {वस्त्रवैदूर्यचरणैः क्षतसत्त्वरजःपरा । निष्कम्पा रचिता नेत्रयुद्धं वेदय सांप्रतम् ॥१८१॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा ३७)> अत्राम्बररत्नपादैः क्षततमा अचला भूः कृता नेत्रद्वन्द्वं बोधयेति नेयार्थता ॥ [(११) क्लिष्टम्] {धम्मिल्लस्य न कस्य प्रेक्ष्य निकामं कुरङ्गशावाक्ष्याः । रज्यत्यपूर्वबन्धव्युत्पत्तेर्मानसं शोभाम् ॥१८२॥} <(वामनऽस्काव्यालङ्कारसूत्रवृत्ति २,१.२२)> अत्र धम्मिल्लस्य शोभां प्रेक्ष्य कस्य मानसं न रज्यतीति संबन्धे क्लिष्टत्वम् ॥ [(१२) अविमृष्टविधेयांशम्] {न्यक्कारो ह्ययमेव मे यदरयस्तत्राप्यसौ तापसः सोऽप्यत्रैव निहन्ति राक्षसकुलं जीवत्यहो रावणः । धिग्धिक्शक्रजितं प्रबोधितवता किं कुम्भकर्णेन वा स्वर्गगामटिकाविलुण्ठनवृथोच्छूनैः किमेभिर्भुजैः ॥१८३॥} <(हर्षऽस्नागानन्द ९.५५ ॑ अभिनवगुप्तऽस्ध्वन्यालोकलोचन)> अत्रऽअयमेव न्यक्कारःऽ इति वाच्यम् । उच्छूनत्वमात्रं चानुवाद्यम्, न वृथात्वविशेषितम् । अत्र च शब्दरचना विपरीता कृतेति वाक्यस्यैव दोषो न वाक्यार्थस्य । यथा वा {अपाङ्गसंसर्गि तरङ्गितं दृशोर्भ्रुवोररालान्तविलासि वेल्लितम् । विसारि रोमाञ्चनकञ्चुकं तनोस्तनोति योऽसौ सुभगे तवागतः ॥१८४॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र योऽसाविति पदद्वयमनुवाद्यमात्रप्रतीतिकृत् । तथाहि प्रक्रान्तप्रसिद्धानुभूतार्थविषयस्तच्छब्दो यच्छब्दोपादानं नापेक्षते । क्रमेणोदाहरणम् । {कातर्यं केवला नीतिः शौर्यं श्वापदचेष्टितम् । अतः सिद्धिं समेताभ्यामुभाभ्यामन्वियेष सः ॥१८५॥} <(कालिदासऽस्रघुवंश १७.४७)> {द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः । कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी ॥१८६[=२५२]॥} <(कालिदासऽस्कुमारसंभव ५.७१)> {उत्कम्पिनी भयपरिस्खलितांशुकान्ता ते लोचने प्रतिदिशं विधुरे क्षिपन्ती । क्रूरेण दारुणतया सहसैव दग्धा धूमान्धितेन दहनेन न वीक्षितासि ॥१८७॥} <(हर्षऽस्रत्नावलि ॑ आनन्दवर्दनऽस्ध्वन्यालोक)> यच्छब्दस्तूत्तरवाक्यानुगतत्वेनोपात्तः सामर्थ्यात्पूर्ववाक्यानुगतस्य तच्छब्दस्योपादानं नापेक्षते । यथा {साधु चन्द्रमसि पुष्करैः कृतं मीलितं यदभिरामताधिके । उद्यता जयनि कामिनीमुखे तेन साहसमनुष्ठितं पुनः ॥१८८॥} <(अभिनन्दऽस्रामचरित २.९५)> प्रागुपात्तस्तु यच्छब्दस्तच्छब्दोपादानं विना साकाङ्क्षः । यथा अत्रैव श्लोके आद्यपादयोर्व्यत्यासे । द्वयोरुपादाने तु निराकाङ्क्षत्वं प्रसिद्धम् । अनुपादानेऽपि सामर्थ्यात्कुत्रचिद्द्वयमपि गम्यते । यथा {ये नाम केचिदिह नः प्रथयन्त्यवज्ञां जानन्ति ते किमपि तान् प्रति नैष यत्नः । उत्पत्स्यतेस्ति मम कोऽपि समानधर्मा कालो ह्ययं निरवधिर्विपुला च पृथ्वी ॥१८९॥} <(भवभूतिऽस्मालतीमाधव १.७)> अत्र य उत्पत्स्यते तं प्रतीति । एवं च तच्छब्दानुपादानेऽत्र साकाङ्क्षत्वम् । न चासाविति तच्छब्दार्थमाह । {असौ मरुच्चुम्बितचारुकेसरः प्रसन्नताराधिपमण्डलाग्रणीः । वियुक्तरामातुरदृष्टिवीक्षितो वसन्तकालो हनुमानिवागतः ॥१९०॥} <(हर्षऽस्नागानन्द ६.४)> अत्र हि न तच्छब्दार्थप्रतीतिः । प्रतीतौ वा {करबालकरालदोः सहायो युधि योसौ विजयार्जुनैकमल्लः । यदि भूपतिना स तत्र कार्ये विनियुज्येत ततः कृतं कृतं स्यात् ॥१९१॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र स इत्यस्यानर्थक्यं स्यात् । अथ {योविकल्पमिदमर्थमण्डलं पश्यतीश निखिलं भवद्वपुः । आत्मपक्षपरिपूरिते जगत्यस्य नित्यसुखिनः कुतो भयम् ॥१९२॥} <(महिमभट्टऽस्व्यक्तिविवेक)> इतीदंशब्दवददःशब्दस्तच्छब्दार्थमभिधत्ते इति उच्यते । तर्ह्यत्रैव वाक्यान्तरे उपादानमर्हति न तत्रैव । यच्छब्दस्य हि निकटे स्थितः प्रसिद्धिं परामृशति । यथा {यत्तदूर्जितमत्युग्रं क्षात्रं तेजोस्य भूपतेः । दीव्यताक्षैस्तदानेन नूनं तदपिं हारितम् ॥१९३॥} <(भट्टनारायणऽस्वेणीसंहार १.१३)> इत्यत्र तच्छब्दः । ननु कथम् {कल्याणानां त्वमसि महसां भाजनं विश्वमूर्ते धुर्यां लक्ष्मीमथ मयि भृशं धेहि देव प्रसीद । यद्यत्पापं प्रतिजहि जगन्नाथ नम्रस्य तन्मे भद्रं भद्रं वितर भगवन् भूयसे मङ्गलाय ॥१९४॥} <(भवभूतिऽस्मालतीमाधव १.४)> अत्र यद्यदित्युक्त्वा तन्मे इत्युक्तम् । उच्यते यद्यदिति येन केनचिद्रूपेण स्थितं सर्वात्मकं वस्त्वाक्षिप्तं तथाभूतमेव तच्छब्देन परामृश्यते । यथा वा {किं लोभेब विलङ्घितः स भरतो येनतदेवं कृतं मात्रा स्त्रीलघुतां गता किमथ वा मातैव मध्यमा । मिथ्यैतन्मम चिन्तितं द्वितयमप्यार्यानुजोसौ गुरु र्माता तातकलत्रमित्यनुचितं मन्ये विधात्रा कृतम् ॥१९५॥} <(धनञ्जयऽस्दशरूपक ३.२९ ॑ भवभूतिऽसुत्तररामचरित)> अत्रार्यस्येति तातस्येति च वाच्यम् । न त्वनयोः समासे गुणीभावः कार्यः । एवं समासान्तरेऽप्युदाहार्यम् ॥ विरुद्धमतिकृद्यथा [(१३) विरुद्धमतिकृत्)] {श्रितक्षमा रक्तभुवः शिवालिङ्गितमूर्तयः । विग्रहक्षपणेनाद्य शेरते ते गतासुखाः ॥१९६॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा ९७)> अत्र क्षमादिगुणयुक्ताः सुखमासते इति विवक्षिते हता इति विरुद्धा प्रतीतिः ॥ पदैकदेशे यथासंभवं क्रमेणोदाहरणम् [(१) श्रुतिकटु] {अलमतिचपलत्वात्स्वप्नमायोपमत्वात् परिणतिविरसत्वात्संगमेनाङ्गनायाः । इति यदि शतकृत्वस्तत्त्वमालोचयाम स्तदपि न हरिणाक्षीं विस्मरत्यन्तरात्मा ॥१९७॥} <(बिल्हणचरित[ओर्बिल्हणकाव्य] ५८)> अत्र त्वादिति । यथा वा {तद्गच्छ सिद्ध्यै कुरु देवकार्यमर्थोऽयमर्थान्तरलभ्य एव । अपेक्षते प्रत्ययमङ्गलब्ध्यै बीजाङ्कुरः प्रागुदयादिवाम्भः ॥१९८॥} <(कालिदासऽस्कुमारसंभव ३.१८)> अत्र द्ध्यै व्ध्यै, इति कटु ॥ [(२)] {यश्चाप्सरोविभ्रममण्डनानां संपादयित्रीं शिखरैर्बिभर्ति । बलाहकच्छेदविभक्तरागाम्कालसंध्यामिव धातुमत्ताम् ॥१९९॥} <(कालिदासऽस्कुमारसंभव १.४)> अत्र मत्ताशब्दः क्षीबार्थे निहतार्थः ॥ [(३)] {आदावञ्जनपुञ्जलिप्तवपुषां श्वासानिल्लोल्लासित प्रोत्सर्पद्धिरहानलेन च ततः संतापितानां दृशाम् । संप्रत्येव निषेकमश्रुपयसा देवस्य चेत्तोभुवो भल्लीनामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा ॥२००॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र दृशामिति बहुवचनं निरर्थकं कुरङ्गेक्षणाया एकस्या एवोपादानात् । न चालसवलितैरित्यादिवत्व्यापारभेदाद्बहुत्वं व्यापाराणामनुपात्तत्वात् । न च व्यापारेत्र दृक्शब्दो वर्तते । अत्रैवऽकुरुतेऽ इत्यात्मनेपदमप्यनर्थकम् । प्रधानक्रियाफलस्य कर्त्रसंबन्धे कर्त्रभिप्रायक्रियाफलाभावात् ॥ [(४)] {चापाचार्यस्त्रिपुरविजयी कार्तिकेयो विजेयः शस्त्रव्यस्तः सदनमुदधिर्भूरियं हन्तकारः । अस्त्येवैतत्किमु कृतवता रेणुकाकण्ठबाधां बद्धस्पर्धस्तव परशुना लज्जते चन्द्रहासः ॥२०१॥} <(राजशेखरऽस्बालरामायण २.३७)> अत्र विजेय इति कृत्यप्रत्ययः क्तप्रत्ययार्थवाचकः ॥ [(५)] {अतिपेलवमतिपरिमितवर्णं लघुतरमुदाहरति शठः । परमार्थतः स हृदयं वहति पुनः कालकूटघटितमिव ॥२०२॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा)> अत्र पेलवशब्दः ॥ {यः पूयते सुरसरिन्मुखतीर्थसार्थ स्नानेन शास्त्रपरिशीलनकीलनेन । सौजन्त्यमान्यजनिरूर्जितमूर्जितानां योऽयं दृशोः पतति कस्यचिदेव पुंसः ॥२०३॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र पूयशब्दः ॥ {विनयप्रणऐककेतनं सततं योभवदङ्ग तादृशः । कथमद्य स तद्वदीक्ष्यतआं तदभिप्रेतपदं समागतः ॥२०४॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा १०४)> अथ प्रेतशब्दः ॥ [(६)] {कस्मिन् कर्मणि सामर्थ्यमस्य नोत्तपतेतराम् । अयं साध्य्चरस्तस्मादञ्जलिर्बध्यतामिह ॥२०५॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा)> अत्र किं पूर्वं साधुः उत साधुषु चरतीति संदेहः ॥ [(७)] {किमुच्यतेऽस्य भूपालमौलिमालामहामणेः । सुदुर्लभं वचोबाणैस्तेजो यस्य विभाव्यते ॥२०६॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र वचःशब्देन गीःशब्दो लक्ष्यते । अत्र खलु न केवलं पूर्वपदं यावदुत्तरपदमपि पर्यायपरिवर्तनं न क्षमते । जलध्यादावुत्तरपदमेव वडवानलादौ पूर्वपदमेव ॥ यद्यप्यसमर्थस्यैवाप्रयुक्तादयः केचन भेदाः तथाप्यन्यैरालङ्कारिकैर्विभागेन प्रदर्शिता इति भेदप्रदर्शनेनोदाहर्तव्या इति च विभज्योक्ताः ॥५२॥ [वाक्यदोष] प्रतिकूलवर्णमुपहतलुप्तविसर्गं विसन्धि हतवृत्तम् । न्यूनाधिककथितपदं पतत्प्रकर्षं समाप्तपुनरात्तम् ॥ कारिका ५३ ॥ अर्धान्तरैकवाचकमभवन्मतयोगमनभिहितवाच्यम् । अपदस्थपदसमासं संकीर्णं गर्भितं प्रसिद्धिहतम् ॥ कारिका ५४ ॥ भग्नप्रक्रममक्रमममतपरार्थं च वाक्यमेव तथा । (१) रसानुगुणत्वं वर्णानां वक्ष्यते । तद्विपरीतं प्रतिकूलवर्णम् । यथा शृङ्गारे {अकुण्ठोत्कण्ठया पूर्णमाकण्ठं कलकण्ठि माम् । कम्बुकण्ठ्याः क्षणं कण्ठे कुरु कण्ठार्तिमुद्धर ॥२०७॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा १०७,३२५)> रौद्रे यथा {देशः सोऽयमरातिशोणितजलैर्यस्मिन् ह्रदाः पूरिताः क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः । तान्येवाहितहेतिघस्मरगुरूण्यस्त्राणि भास्वन्ति मे यद्रामेण कृतं तदेव कुरुते द्रोणात्मजः क्रोधनः ॥२०८॥} <(भट्टनारायणऽस्वेणीसंहार ३.३३)> अत्र हि विकटवर्णत्वं दीर्घसमासत्वं चोचितम् । यथा {प्राग्प्राप्तनिशुम्भशांभवधनुर्द्वेधाविधाविर्भवत् क्रोधप्रेरितभीमभार्गवभुजस्तम्भापविद्धः क्स्.अणात् । उज्ज्वालः परशुर्भवत्वशिथिलस्त्वत्कण्ठपीठातिथि र्येनानेन जगत्सु खण्डपरशुर्देवो हरः ख्याप्यते ॥२०९॥} <(भवभ्तूतिऽस्महावीरचरित २.३३)> यत्र तु न क्रोधस्तत्र चतुर्थपादाभिधाने तथैव शब्दप्रयोगः ॥ (२) उपहत उत्वं प्राप्तो (३) लुप्तो वा विसर्गो यत्र तत् । यथा {धीरो विनीतो निपुणो वराकारो नृपोऽत्र सः । यस्य भृत्या बलोत्सिक्ता भक्ता बुद्धिप्रभाविताः ॥२१०॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> (४) विसंधि संधेर्वैरूप्यं विश्लेषोश्लीलत्वं कष्टत्वं च । तत्राद्यं यह्ता {राजन्विभान्ति भवतश्चरितानि तानि इन्दोर्द्युतिं दधति यानि रसातलेन्तः । धीदोर्बले अतितते उचितानुवृत्ती आतन्वती विजयसंपदमेत्य भातः ॥२११॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा १०९)> यथा वा {तत उदित उदारहारहारिद्युतिरुच्चैरुदयाचलादिवेन्दुः । निजवंश उदात्तकान्तकान्तिर्बत मुक्तामणिवच्चकास्त्यनर्घः ॥२१२॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> संहितां न करोमीति स्वच्छया सकृदपि दोषः प्रगृह्यादिहेतुकत्वे त्वसकृत् ॥ {वेगादुड्डीय गगने चलण्डामरचेष्टितः । अयमुत्तपते पस्त्री ततोऽत्रैव रुचिङ्कुरु ॥२१३॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र संधावश्लीलता ॥ {उर्व्यसावत्र तर्वाली मर्वन्ते चार्ववस्थितिः । मात्रर्जु युज्यते गन्तुं शिरो नमय तन्मनाक् ॥२१४॥} <(रुद्रटऽस्काव्यालङ्कार २.१०)> (५) हतं लक्षणानुसरणेऽप्यश्रव्यम् । अप्राप्तगुरुभावान्तलघु रसाननुगुणं च वृत्तं यत्र तथतवृत्तम् । क्रमेणोदाहरणम् {अमृतममृतं कः संदेहो मधून्यपि नान्यथा मधुरमधिकं चूतस्यापि प्रसन्नरसं फलम् । सकृदपि पुनर्मध्यस्थः सन् रसान्तरविज्जनो वदतु यदिहान्यत्स्वादु स्यात्प्रियादशनच्छदात् ॥२१५॥} <(वामनऽस्काव्यालङ्कारसूत्रवृत्ति ३,२.१०)> अत्रऽयदिहान्यत्स्वादु स्यात्ऽ इत्यश्रव्यम् । यथा वा {जं परिहरि_उं तीर_इ मण_अंपि ण सुन्दरत्तणगुणेण । अह णवरं जस्स दोसो पडिपक्खेहिं पि पडिवण्णो ॥२१६॥} [यत्परिहर्तुं तीर्यते मनागपि न सुन्दरत्वगुणेन । अथ केवलं यस्य दोषः प्रतिपक्षैरपि प्रतिपन्नः ॥] <(आनन्दवर्धनऽस्विषमबाणलीला ॑ हालऽस्गाथासप्तशती)> अत्र द्वितीयततीयगणौ सकारभकारौ । {विकसितसहकारतारहारिपरिमलगुञ्जितपुञ्जितद्विरेफः । नवकिसलयचारुचामरश्रीहरति मुनेरपि मानसं वसन्तः ॥२१७॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र हारिशब्दः । हारिप्रमुदितसौरभेति पाठो युक्तः । यथा वा {अन्यास्ता गुणरत्नरोहणभुवो धन्या मृदन्यैव सा संभाराः खलु तेन्य एव विधिना यैरेष सृष्टो युवा । श्रीमत्कान्तिजुषां द्विषां करतलात्स्त्रीणां नितम्बस्थलात् दृष्टे यत्र पतन्ति मूढमनसामस्त्राणि वस्त्राणि च ॥२१८॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्रऽवस्त्राण्यपिऽ इति पाठे लघुरपि गुरुतां भजते ॥ {हा नृप हा बुध हा कविबन्धो विप्रसहस्रसमाश्रय देव । मुग्धविदग्धसभान्तररत्न क्वासि गतः क्व वयं च तवैते ॥२१९॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> हास्यरसव्यञ्जकमेतद्वृत्तम् (६) न्यूनपदं यथा {तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयां वने व्याधैः सार्धं सुचिरमुषितं वल्कलधरैः । विराटस्यावासे स्थितमनुचितारम्भनिभृतं गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ॥२२०[= १५]॥} <(भट्टनारायणऽस्वेणीसंहार १.११)> अत्रास्माभिरिति "खिन्न" इत्यस्मात्पूर्वमित्थमिति च ॥ (७) अधिकं यथा {स्फटिकाकृतिनिर्मलः प्रकामं प्रतिसंक्रान्तनिशातशास्त्रतत्त्वः । अविरुद्धसमन्वितोक्तियुक्तिः प्रतिमल्लास्तमयोदयः स कोऽपि ॥२२१॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र आकृतिशब्दः । यथा वा {इदमनुचितमक्रमश्च पुंसां यदिह जरास्वपि मान्मथा विकाराः । यदपि च न कृतं नितम्बिनीनां स्तनपतनावधि जीवितं रतं वा ॥२२२॥} <(भर्तृहरिऽस्शृङ्गारशतक २७)> अत्र कृतमिति । कृतं प्रत्युत प्रक्रमभङ्गमावहति । तथा चऽयदपि च न कुरङ्गलोचनानाम्ऽ इति पाठे निराकाङ्क्षैव प्रतीतिः ॥ (८) कथितपदं यथा {अधिकरतलतल्पं कल्पितस्वापलीला परिमिलननिमीलत्पाण्डिमा गण्डपाली । सुतनु कथय कस्य व्यञ्जयत्यञ्जसैव स्मरनरपतिलीलायौवराज्याभिषेकम् ॥२२३॥} <(कुन्तक, वक्रोक्तिजीवित १.१०९)> अत्र लीलेति ॥ (९) पतत्प्रकर्षं यथा {कः कः कुत्र न घुर्घुरायितघुरीघोरो घुरेत्सूकरः कः कः कं कमलाकरं विकमकं कर्तुं करी नोद्यतः । के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः सिंहीस्नेहविलासबद्धवसतिः पञ्चाननो वर्तते ॥२२४॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा ११५)> (१०) समाप्तपुनरात्तं यथा {क्रेङ्कारः स्मरकार्मुकस्य सुरतक्रीडापिकीनां रवः झङ्कारो रतिमञ्करीमधुलिहां लीलाचकोरीध्वनिः । तन्व्याः कञ्चुलिकापसारणभुजाक्षेपस्खलत्कङ्कण क्वाणः प्रेम तनोतु वो नववयोलास्याय वेणुस्वनः ॥२२५॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा ११६)> (११) द्वितीयार्धगतैकवाचकशेषप्रथमार्धं यथा {मसृणचरणपातं गम्यतां भूः सदर्भा विरचय सिचयान्तं मूर्ध्नि घर्मः कठोरः । तदिति जनकपुत्री लोचनैरश्रुपूर्णैः पथि पथिकवधूभिर्वीक्षिता शिक्षिता च ॥२२६॥} <(राजशेखरऽस्बालरामायण ६.३६)> (१२) अभवन्मतः (इष्टः) योगः (संबन्धः) यत्र तत् । यथा {येषां तास्त्रिदशेभदानसरितः पीताः प्रतापोष्मभि र्लीलापानभुवश्च नन्दनवनच्छायासु यैः कल्पिताः । येषां हुङ्कृतयः कृतामरपतिक्षोभाः क्षपाचारिणां किं तैस्त्वत्परितोषकारि विहितं किञ्चित्प्रवादोचितम् ॥२२७॥} <(महिमभट्टऽस्व्यक्तिविवेक)> अत्र {गुणानां च परार्थत्वादसंबन्धः समत्वात्स्यात्} इत्युक्तनयेन यच्छब्दनिदश्यानामर्थानां परस्परसमन्वयेन यैरित्यत्र विशेषस्याप्रतीतिरिति । {क्षपाचारिभिः} इति पाठे युज्यते समन्वयः । यथा वा {त्वमेवंसौन्दर्या स च रुचिरतायाः परिचितः कलानां सीमानं परमिह युवामेव भजथः । अपि द्वन्द्वं दिष्ट्या तदिति सुभगे संवदति वाम् अतः शेषं यत्स्याज्जितमिह तदानीं गुणितया ॥२२८॥} <(भवभूतिऽस्मालतीमाधव)> अत्र यदित्यत्र तदिति तदानीमित्यत्र यदेति वचनं नास्ति । {चेत्स्यात्} इति युक्तः पाठः । यथा वा {संग्रामाङ्गणमागतेन भवता चापे समारोपिते देवाकर्णय येन येन सहसा यद्यत्समासादितम् । कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम् ॥२२९॥} <(रुय्यकऽसलङ्कारसर्वस्व)> अत्राकर्णनक्रियाकर्मत्वे कोदण्डं शरानित्यादि वाक्यार्थस्य कर्मत्वे कोदण्डः शरा इति प्राप्तम् । न च यच्छब्दार्थस्तद्विशेषणं वा कोदण्डादि । न च केन केनेत्यादि प्रश्नः । यथा वा {"चापाचार्यस्त्रिपुरविजयी कार्तिकेयो विजेयः शस्त्रव्यस्तः सदनमुदधिर्भूरियं हन्तकारः । अस्त्येवैतत्किमु कृतवता रेणुकाकण्ठबाधां बद्धस्पर्द्धस्तव परशुना लज्जते चन्द्रहासः" ॥२३०॥} <(राजशेखरऽस्बालरामायण २.३७)> इत्यादौ भार्गवस्य निन्दायां तात्पर्यम् । कृतवतेति परशौ सा प्रतीयते ।ऽकृतवतःऽ इति तु पाठे मतयोगो भवति । यथा वा {चत्वारो वयमृत्विजः स भगवान् कर्मोपदेष्टा हरिः संग्रामाध्वरदीक्षितो नरपतिः पत्नी गृहीतव्रता । कौरव्याः पशवः प्रियापरिरभवक्लेशोपशान्तिः फलं राज्यन्योपनिमन्त्रणाय रसति स्फीतं हतो दुन्दुभिः ॥२३१॥} <(भट्टनारायणऽस्वेणीसंहार १.२५)> अत्राध्वरशब्दःसमासे गुणीभूत इति न तदर्थः सर्वैः संयुज्यते । यथा वा {जङ्घाकाण्डोरुनालो नखकिरणलसत्लेसरालीकरालः प्रत्यग्रालक्तकाभाप्रसरकिसलयो मञ्जुमञ्जीरभृङ्गः । भर्तुर्नृत्तानुकार जयति निजतनुस्वच्छलावण्यवापी संभूताम्भोजशोभां विदधवभिनवो दण्डपादो भवान्याः ॥२३२[=१५०]॥} <(महिमभट्टऽस्व्यक्तिविवेक)> अत्र दण्डपादगता निजतनुःप्रतीयते भवान्याः संबन्धिनी तु विवक्षिता ॥ (१३) अवश्यवक्तव्यमनुक्तं यत्र । यथा {अप्राकृतस्य चरितातिशयैश्च दृष्टै रत्यद्भुतैरपहृतस्य तथापि नास्था । कोऽप्येष वीरशिशुकाकृतिरप्रमेय सौन्दर्यसारसमुदायमयः पदार्थः ॥२३३॥} <(भवभ्तूतिऽस्महावीरचरित २.३९)> अत्रऽअपहृतोऽस्मिऽ इत्यपहृतत्वस्य विधिर्वाच्यः तथापीत्यस्य द्वितीयवाक्यगतत्वेनैवोपपत्तेः । यथा वा {एषोऽहमद्रितनयामुखपद्मजन्मा प्राप्तः सुरासुरमनोरथदूरवर्ती । स्वप्नेनिरुद्धघटनाधिगताभिरूप लक्ष्मीफलामसुरराजसुतां विधाय ॥२३४॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र मनोरथानामपि दूरवर्तीत्यप्यर्थो वाच्यः । यथा वा {त्वयि निबद्धरतेः प्रियवादिनः प्रणयभङ्गपराङ्मुखचेतसः । कमपराधलवं मम पश्यसि त्यजसि मानिनि दासजनं यतः ॥२३५॥} <(कालिदासऽस्विक्रमोर्वशीय ४.५५)> अत्रऽअपराधस्य लवमपिऽ इति वाच्यम् ॥ (१४) अस्थानस्थपदं यथा {प्रियेण संग्रथ्य विपक्षसंनिधा वुपाहितां वक्षसि पीवरस्तने । स्रजं न काचिद्विजहौ जलाविलां वसन्ति हि प्रेम्णि गुणा न वस्तुषु ॥२३६॥} <(भारविऽस्किरातार्जुनीय ८.३७)> अत्रऽकाचिन्न विजहौऽ इति वाच्यम् । यथा वा {लग्नः केलिकचग्रहश्लथजटालम्बेन निद्रान्तरे मुद्राङ्कः शितिकन्धरेन्दुशकलेनान्त.ग्कप्पोलस्थलम् । पार्वत्या नखलक्ष्मशङ्कितसखीनर्मस्मितह्रीतया प्रोन्मृष्टः करपल्लवेन कुटिलाताम्रच्छविः पातु वः ॥२३७॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र नखलक्ष्मेत्यतः पूर्वंऽकुटिलताम्र ...ऽ इति वाच्यम् ॥ (१५) अस्थानस्थसमासं यथा {अद्यापि स्तनशैलदुर्गविषमे सीमन्तिनीनां हृदि स्थातुं वाञ्छति मान एष धिगिति क्रोधादिवालोहितः । प्रोद्यद्दूरतरप्रसारितकरः कर्षत्यसौ तत्क्षणात् फुल्लत्कैरवकोशनिःसरदलिश्रेणीकृपाणं शशी ॥२३८॥} <(हर्षऽस्नागानन्द २.४१)> अत्र क्रुद्धस्योक्तौ समासो न कृतः कवेरुक्तौ तु कृतः ॥ (१६) संकीर्णं यत्र वाक्यान्तरस्य पदानि वाक्यान्तरमनुप्रविशन्ति । यथा {किमिति न पश्यसि कोपं पादगतं बहुगुणं गृहाणेमम् । ननु मुञ्च हृदयनाथं कण्ठे मनसस्तमोरूपम् ॥२३९॥} <(रुद्रटऽस्काव्यालङ्कार ६.४२)> अत्र पादगतं बहुगुणं हृदयनार्थं किमिति न पश्यसि । इमं कण्ठे गृहाण मनसस्तमोरूपं कोपं मुञ्चेति । एकवाक्यतायां तु क्लिष्टमिति भेदः ॥ (१७) गर्भितं यत्र वाक्यस्य मध्ये वाक्यान्तरमनुप्रविशति । यथा {परापकारनिरतैर्दुर्जनैः सह संगतिः । वदामि भवतस्तत्त्वं न विधेया कथञ्चन ॥२४०॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र तृतीयपादो वाक्यान्तरमध्ये प्रविष्टः । यथा वा {लग्नं रागावृताङ्ग्या सुदृढमिह ययैवासियष्ट्यारिकण्ठे मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती । तत्सक्तोऽयं न किञ्चिद्गणयति विदितं तेऽस्तु तेनास्मि दत्ता भृत्येभ्यः श्रीनियोगाद्गदितुमिव गतेत्यम्बुधिं यस्य कीर्तिः ॥२४१॥} <(वेणिदत्तऽस्पद्यवेणी २)> अत्र {विदितं तेस्तु} इति एतत्कृतम् । प्रत्युत लक्ष्मीस्ततोपसरतीति विरुद्धमतिकृत् ॥ (१८) {मञ्जीरादिषु रणितप्रायं पक्षिषु च कूजितप्रभृति । स्तनितमणितादि सुरते मेघादिषु गर्जितप्रमुखम् ॥} इति प्रसिद्धिमतिक्रान्तम् । यथा {महाप्रलयमारुतक्षुभितपुष्करावर्तक प्रचण्डघनगर्जितप्रतिरुतानुकारी मुहुः । रवः श्रवणभैरवः स्थगितरोदसीकन्दरः कुतोऽद्य समरोदधेरयम्भूतपूर्वः पुरः ॥२४२॥} <(भट्टनारायणऽस्वेणीसंहार ३.४)> अत्र रवो मण्डूकादिषु प्रसिद्धो न तूक्तविशेषे सिंहनादे ॥ (१९) भग्नः प्रक्रमः प्रस्तावः यत्र । यथा {नाथे निशाया नियतेर्नियोगादस्तं गते हन्त निशापि याता । कुलाङ्गनानां हि दशानुरूपं नातःपरं भद्रतरं समस्ति ॥२४३॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा १२२)> अत्र {गते} इति प्रक्रान्ते {याता} इति प्रकृतेः । {गता निशापि} इति तु युक्तम् । ननु {नैकं पदं द्विः प्रयोज्यं प्रायेण} इत्यन्यत्र कथितपदं दुष्टमिति चेहैवोक्तम् । तत्कथमेकस्य पदस्य द्विःप्रयोगः । उच्यते । उद्देश्यप्रतिनिर्देश्यव्यतिरिक्तो विषय एकपदप्रयोगनिषेधस्य । तद्वति विषये प्रत्युत तस्यैव पदस्य सर्वनाम्रो वा प्रयोगं विना दोषः । तथाहि {उदेति सविता ताम्रस्ताम्र एवास्तमेति च । संपत्तौ च विपत्तौ च महतामेकरूपता ॥२४४॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा १२३)> अत्र रक्त एवास्तमेतीति यदि क्रियेत तदा पदान्तरप्रतिपादितः स एवार्थोऽर्थान्तरतयेव प्रतिभासमानः प्रतीतिं स्थगयति ॥ यथा वा {यशोधिगन्तुं सुखलिप्सया वा मनुष्यसंख्यामतिवर्तितुं वा । निरुत्सुकानामभियोगभाजां समुत्सुकेवाङ्कमुपैति सिद्धिः ॥२४५॥} <(भारविऽस्किरातार्जुनीय ३.४०)> अत्र प्रत्ययस्य ।ऽसुखमीहितुं वाऽ इति युक्तः पाठः । {ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम् । सिद्धं चास्मै निवेद्यार्थं तद्धिसृष्टा क्खमुद्ययुः ॥२४६॥} <(कालिदासऽस्कुमारसंभव ६.९४)> अत्र सर्वनाम्नः ।ऽअनेन विसृष्टाःऽ इति तु वाच्यम् । {महीभृतः पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम् । अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसङ्गा ॥२४७॥} <(कालिदासऽस्कुमारसंभव १.२७)> अत्र पर्यायस्य । {महीभृतोपत्यवतोऽपि} इति युक्तम् । {अत्र सत्यपि पुत्रे कन्यारूपेऽप्यपत्ये स्नेहोऽभूत्} इति केचित्समर्थयन्ते । {विपदोऽभिभवन्त्यविक्रमं रहयत्यापदुपेतमायतिः । नियता लघुता निरायतेरगरीयान्न पदं नृपश्रियः ॥२४८॥} <(भारविऽस्किरातार्जुनीय २.१४)> अत्रोपसर्गस्य पर्यायस्य च । {तदभिभवः कुरुते निरायतिम्} । लघुतां भजते निरायतिर्लघुतावान्न पदं नृपश्रियः ॥ इति युक्तम् । {काचित्कीर्णा रजोभिर्दिवमनुविदधौ मन्दवज्त्रेन्दुलक्ष्मी रश्रीकाः काश्चिदन्तर्दिश इव दधिरे दाहमुद्भ्रान्तसत्त्वाः । भ्रेमुर्वात्या इवान्याः प्रतिपदमपरा भूमिवत्कम्पमानाः प्रस्थाने पार्थिवानामशिवमिति पुरो भावि नार्यः शशंसुः ॥२४९॥} <(माघऽस्सिशुपालवध १५.९६)> अत्र वचनस्य ।ऽकाशिचित्कीर्णा रजोभिर्दिवमनुविदधुर्मन्दवक्त्रेन्दुशोभा निःश्रीकाःऽ इतिऽकम्पमानाःऽ इत्यत्रऽकम्पमापुःऽ इति च पठनीयम् । {गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यताम् । विश्रब्धैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले विश्रान्तिं लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः ॥२५०॥} <(कालिदासऽसभिज्ञानशकुन्तलम् २.६)> अत्र कारकस्य । {विश्रब्धा रचयन्तु शूकरवरा मुस्ताक्षतिम्} इत्यदुष्टम् । {अकलिततपस्तेजोवीर्यप्रथिम्नि यशोनिधा ववितथमदाध्माते रोषान्मुनावभिगच्छति । अभिनवधनुर्विद्यादर्पक्षमाय च कर्मणे स्फुरति रभसात्पाणिः पादोपसंग्रहणाय च ॥२५१॥} <(भवभ्तूतिऽस्महावीरचरित २.३०)> अत्र क्रमस्य । पादोपसंग्रहणायति पूर्वं वाच्यम् । एवमन्यदप्यनुसर्तव्यम् ॥ (२०) अविद्यमानः क्रमो यत्र । यथा {द्वयं गतं संप्रति शोचनीयतां समागमप्रार्थनया कपालिनः । कला च सा कान्तिमती कलावतः त्वमस्य लोकस्य च नेत्रकौमुदी ॥२५२[=१८६]॥} <(कालिदासऽस्कुमारसंभव ५.७१)> अत्र त्वंशब्दानन्तरं चकारो युक्तः । यथा वा {शक्तिर्निस्त्रिंशजेयं तव भुजयुगले नाथ दोषाकरश्री र्वक्त्रे पार्श्वे तथैषा प्रतिवसति महाकुट्टनी खड्गयष्टिः । आज्ञेयं सर्वगा ते विलसति च पुरः किं मया वृद्धया ते प्रोच्येवेत्थं प्रकोपाच्छशिकरसितया यस्य कीर्त्या प्रयातम् ॥२५३॥} <(वेणिदत्तऽस्पद्यवेणी २)> अत्र {इत्थं प्रोच्येव} इति न्याय्यम् । तथा {लग्नं रागावृताङ्ग्या ...... ॥२५३ (क) ॥} इत्यदौ {इति श्रीनियोगात्} इति वाच्यम् ॥ (२१) अमतः प्रकृतविरुद्धः परार्थो यत्र । यथा {राममन्मथशरेण ताडिता दुःसहेन हृदये निशाचरी । गन्धवद्रुधिरचन्दनोक्षिता जीवितेशवसतिं जगाम सा ॥२५४॥} <(कालिदासऽस्रघुवंश ११.२०)> अत्र प्रकृते रसे विरुद्धस्य शृङ्गारस्य व्यञ्जकोपरोऽर्थः ॥५४॥ अर्थदोषानाह अर्थोऽपुष्टः कष्टो व्याहतपुनरुक्तदुष्क्रमग्राम्याः ॥ कारिका ५५ ॥ संदिग्धो निर्हेतुः प्रसिद्धिविद्याविरुद्धश्च । अनवीकृतः सनियमानियमविशेषा विशेषपरिवृत्ताः ॥ कारिका ५६ ॥ साकाङ्क्षोऽपदयुक्तः सहचरभिन्नः प्रकाशितविरुद्धः । विध्यनुवादायुक्तस्त्यक्तपुनःस्वीकृतोऽश्लीलः ॥ कारिका ५७ ॥ दुष्ट इति संबध्यते । क्रंेणोदाहरणम् (१) [अपुष्ट] {अतिविततगगनसरणिप्रसरणपरिमुक्तविश्रमानन्दः । मरुदुल्लासितसौरभकमलाकरहासकृद्रविर्जयति ॥२५५॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा १२६)> अत्रातिविततत्वादयोऽनुपादानेऽपि प्रतिपाद्यमानमर्थं न बाधन्त इत्यपुष्टाः न त्वसंगताः पुनरुक्ता वा ॥ (२) [कष्टअर्थ] {सदा मध्ये यासामियममृतनि[ः]स्यन्दमधुरा सरस्वत्युद्दामा वहति बहुमार्गा परिमलम् । प्रसादं ता एता घनपरिचिताः केन महतां महाकाव्यव्योम्नि स्फुरितमधुरा यान्तु रुचयः ॥२५६॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा १२७)> अत्र यासां कविरुचीनां मध्ये सुकुमारविचित्रमध्यमात्मकत्रिमार्गा भारती चमत्कारं वहति ताः गम्भीरकाव्यपरिचिताः कथमितरकाव्यवत्प्रसन्ना भवन्तु । यासामादित्यप्रभाणां मध्ये त्रिपथगा वहति ता मेघपरिचिताः कथं प्रसन्ना भवन्तीति संक्षेपार्थः ॥ (३) [व्याहतअर्थ] {जगति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृतिमधुराः सन्त्येवान्ये मनो मदयन्ति ये । मम तु यदियं याता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकः स एव महोत्सवः ॥२५७॥} <(भवभूतिऽस्मालतीमाधव १.३६)> अत्रेन्दुकलादयो यं प्रति पस्पशप्रायाः स एव चन्द्रिकात्वमुत्कर्षार्थमारोपयतीति व्याहतत्वम् ॥ (४) [पुनरुक्तः] {कृतमनुमतमित्यादि ॥२५८[=३९]॥} [कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः । नरकरिपुणा सार्ध तेषां सभीमकिरीटिना मयमह[म]सृङ्मेदोमांसैः करोमि दिशां बलिम् ॥३९॥] <(भट्टनारायणऽस्वेणीसंहार ३.२४)> अत्रार्जुनार्जुनेति भवद्भिरिति चोक्ते सभीमकिरीटिनामिति किरीटिपदार्थः पुनरुक्तः । यथा वा {अस्त्रज्वालावलीढप्रतिबलजलधेरन्तरौर्वायमाणे सेनानाथे स्थितेस्मिन्मम पितरि गुरौ सर्वधन्वीश्वराणाम् । कर्णालं संभ्रमेण व्रज कृप समरं मुञ्च हार्दिक्य शङ्कां ताते चापद्धितीये वहति रणधुरं को भयस्यावकाशः ॥२५९॥} <(भट्टनारायणऽस्वेणीसंहार ३.७)> अत्र चतुर्थपादवाक्यार्थः पुनरुक्तः ॥ (५) [दुष्क्रमः] {भूपालरत्न निर्दैन्यप्रदानप्रथितोत्सव । विश्राणय तुरङ्गं मे मातङ्गं वा मदालसम् ॥२६०॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा १२६)> अत्र मातङ्गस्य प्राङ्निर्देशो युक्तः । (६) [ग्राम्यः] {स्वपिति यावदयं निकटे जनः स्वपिमि तावदहं किमपैति ते । तदपि सांप्रतमाहर कूर्परं त्वरितमूरुमुदञ्चय कुञ्चितम् ॥२६१॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा)> एषोऽविदग्धः ॥ (७) [सन्दिग्धः] {मात्सर्यमुत्सार्येत्यादि ॥२६२[=१३३]॥} [मात्सर्यमुत्सार्य विचार्य कार्यमार्याः समर्यादमुदाहरन्तु । सेव्या नितम्बाः किमु भूधराणामुत स्मरस्मेरविलासिनीनाम् ॥१३३॥] <(भर्तृहरिऽस्शृङ्गारशतक, सुभाषितत्रिशती ३६)> अत्र प्रकरणाद्यभावे संदेहः शान्तशृङ्गार्यन्यतराभिधाने तु निश्चयः ॥ (८) [निर्हेतुः] {गृहीतं येनासीः परिभवभयान्नोचितमपि प्रभावाद्यस्याभून्न खलु तव कश्चिन्न विषयः । परित्यक्तं तेन त्वमसि सुतशोकान्न तु भया द्विमोक्ष्ये शस्त्र त्वामहमपि यतः स्वस्ति भवते ॥२६३॥} <(भट्टनारायणऽस्वेणीसंहार ३.१९)> अत्र [द्वितीय]शस्त्रमोचने हेतुर्नोपात्तः ॥ (९) [प्रसिद्धिविरोधः] {इदं ते केनोक्तं कथय कमलातङ्कवदने यदेतस्मिन् हेम्नः कटकमिति धत्से खलु धियम् । इदं तद्दुःसाधाक्रमणपरमास्त्रं स्मृतिभुवा तव प्रीत्या चक्रं करकमलमूले विनिहितम् ॥२६४॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र कामस्य चक्रं लोकेऽप्रसिद्धम् । यथा वा (९ ) {उपपरिसरं गोदावर्याः परित्यजताध्वगाः सरणिमपरो मार्गस्त्वद्भवद्भिरिहेक्ष्यताम् । इह हि विहितो रक्ताशोकः कयापि हताशया चरणलिनन्यासोदञ्चन्नवाङ्कुरकञ्चुकः ॥२६५॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र पादाघातेनाशोकस्य पुष्पोद्गमः कविषु प्रसिद्धो न पुनरङ्कुरोद्गमः । ({सुसितवसनालङ्कारायां कदाचन कौमुदी महसि सुदृशि स्वैरं यान्त्यां गतोस्तमभूद्चिधुः । तदनु भवतः कीर्तिः केनाप्यगीयत येन सा प्रियगृहमगान्मुक्ताशङ्का क्व नासि शुभप्रदः ॥२६६॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा १२१)> अत्रामूर्तापि कीर्तिः ज्योत्स्नावत्प्रकाशरूपा कथितेति लोकविरुद्धमपि कविप्रसिद्धेर्न दुष्टम् ॥) (१०) [विद्याविरोधः] {सदा स्नात्वा निशीथिन्यां सकलं वासरं बुधः । नानाविधानि शास्त्राणि व्याचष्टे च शृणोति च ॥२६७॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा १३२)> ग्रहोपरागादिकं विना रात्रौ स्नानं धर्मशास्त्रण विरुद्धम् । (१० अ) {अनन्यसदृशं यस्य बलं बाह्वोः समीक्ष्यते । षाडगुण्यानुसृतिस्तस्य सत्यं सा निष्प्रयोजना ॥२६८॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप २४०)> एततर्थशास्त्रेण । (१० आ) {विधाय दूरे केयूरमनङ्गाङ्गणमङ्गना । बभार कान्तेन कृतां करजोल्लेखमालिकाम् ॥२६९॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र केयूरपदे नखक्सटं न विहितमिति । एतत्कामशास्त्रेण । (१० इ) {कष्टाङ्गयोगपरिशीलनकीलनेन दुःसाधसिद्धिसविधं विदधद्विदूरे । आसादयन्नभिमतामधुना विवेक ख्यातिं समाधिधनमौलिमर्णिर्विमुक्तः ॥२७०॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र विवेकख्यातिस्ततः संप्रज्ञातसमाधिः पश्चादसंप्रज्ञातस्ततो मुक्तिर्न तु विवेकख्यातौ । एतत्योगशास्त्रेण ॥ एवं विद्यान्तरैरपि विरुद्धमुदाहार्यम् ॥ (११) [अनवीकृतः] {प्राप्ताः श्रियः सकलकामदुघास्ततः किम् दत्तं पदं शिरसि विद्विषतां ततः किम् । संतर्पिताः प्रणयिनो विभवैस्ततः किम् कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ॥२७१॥} <(भर्तृहरिऽस्वैराग्यशतक ६७)> अत्र ततः किमिति न नवीकृतम् । तत्तु यथा {यदि दहत्यनलोत्र किमद्भुतं यदि च गौरवमद्रिषु किं ततः । लवणमम्बु सदैव महोदधेः प्रकृतिरेव सतामविषादिता ॥२७२॥} <(आनन्दवर्धनऽस्देविशतक)> (१२) [सनियमपरिवृत्तः] {यत्रानुल्लिखितार्थमेव निखिलं निर्माणमेतद्विधेर् उत्कर्षप्रतियोगिकल्पनमपि न्यक्कारकोटिः परा । याताः प्राणभृतां मनोरथगतीरुल्लङ्घ्य यत्संपदस् तस्याभासमणीकृताश्मसुमणेरश्मत्वमेवोचितम् ॥२७३॥} <(कुन्तकऽस्वक्रोक्तिजीवित [१.२९])> अत्र {छायामात्रमणीकृताश्मसु मणेस्तस्याश्मतैवोचिता} इति सनियमत्वं वाच्यम् ॥ (१३) [अनियमपरिवृत्तः] {वक्त्राम्भोजं सरस्वत्यधिवसति सदा शोण एवाधरस्ते बाहुः काकुत्स्थवीर्यस्मृतिकरणपटुर्दक्षिणस्ते समुद्रः । वाहिन्यः पार्श्वमेताः क्षणमपि भवतो नैव मुञ्चन्त्यभीक्षणं स्वच्छेन्तर्मानसेस्मिन् कथमवनिपते तेम्बुपानाभिलाषः ॥२७४॥} <(बल्लालऽस्भोजप्रबन्ध २३०)> अत्र {शोण एव} इति नियमो न वाच्यः ॥ (१४) [विशेषपरिवृत्तः] {श्यामां श्यामलिमानमानयत भोः सान्द्रैर्मषीकूर्चकैर् मन्त्रं तन्त्रमथ प्रयुज्य हरत श्वेतोत्पलानां श्रियम् । चन्द्रं चर्णयत क्षणाच्च कणशः कृत्वा शिलापट्टके येन द्रष्टुमहं क्षमे दश दिशस्तद्वक्त्रमुद्राङ्किताः ॥२७५॥} <(राजशेखरऽस्विद्धशालभञ्जिका ३.१)> अत्रऽज्यौत्स्नीम्ऽ इति श्यामाविशेषो वाच्यः ॥ (१५) [अविशेषपरिवृत्तः] {कल्लोलवेल्लितदृषत्परुषप्रहारै रत्नान्यमूनि मकरालय मावमंस्थाः । किं कौस्तुभेन विहितो भवतो न नाम या[ञ्च्]आप्रसारितकरः पुरुषोत्तमेऽपि ॥२७६॥} <(भल्लटशतक ६२)> अत्र {एकेन किं न विहितो भवतः स नाम} इति सामान्यं वाच्यम् । (१६) [साकाङ्क्षः] {अर्थित्वे प्रकटीकृतेऽपि न फलप्राप्तिः प्रभोः प्रत्युत द्रुह्यन् दाशरथिर्विरुद्धचरितो युक्तस्तया कन्यया । उत्कर्षं च परस्य मानयशसोर्विस्रंसनं चात्मनः स्त्रीरत्नं च जगत्पतिर्दशमुखो देवः कथं मृष्यते ॥२७७॥} <(भवभ्तूतिऽस्महावीरचरित २.९)> अत्र स्त्रीरत्नम्ऽउपेक्स्.इतुम्ऽ इत्याकाङ्क्षति । नहि परस्येत्यनेन संबन्धो योग्यः ॥ (१७) [अपदयुक्तः] {आज्ञा शक्रशिखामणिप्रणयिनी शास्त्राणि चक्षुर्नवं भक्तिर्भूतपतौ पिनाकिनि पदं लङ्केति दिव्या पुरी । उत्पत्तिर्द्रुहिणान्वये च तदहो नेदृग्वरो लभ्यते स्याच्चेदेष न रावणः क्व नु पुनः सर्वत्र सर्वे गुणाः ॥२७८॥} <(राजशेखरऽस्बालरामायण १.३६)> अत्रऽस्याच्चेदेष न रावणःऽ इत्यत्र एव समाप्यम् ॥ (१८) [सहचरभिन्नः] {श्रुतेन बुद्धिर्व्यसनेन मूर्खता मदेन नारी सलिलेन निम्नगा । निशा शशाङ्केन धृतिःसमाधिना नयेन चालङ्क्रियते नरेन्द्रता ॥२७९॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा १४०)> अत्र श्रुतादिभिरुत्कृष्टैः सहचरितैर्व्यसनमूर्खतयोर्निकृष्टयोर्भिन्नत्वम् । (१९) [प्रकाशितविरुद्धः] {लग्नं रागावृताङ्ग्या ....... ॥२८०[=२४१]॥} [लग्नं रागावृताङ्ग्या सुदृढमिह ययैवासियष्ट्यारिकण्ठे मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती । तत्सक्तोऽयं न किञ्चिद्गणयति विदितं तेस्तु तेनास्मि दत्ता भृत्येभ्यः श्रीनियोगाद्गदितुमिव गतेत्यम्बुधिं यस्य कीर्तिः ॥२४१॥] <(वेणिदत्तऽस्पद्यवेणी २)> इत्यत्र विदितं तेस्त्वित्यनेन श्रीस्तस्मादपसरतीति विरुद्धं प्रकाश्यते ॥ (२०) [विध्ययुक्तः] {प्रयत्नपरिबोधितः स्तुतिभिरद्य शेषे निशा मकेशवमपाण्डवं भुवनमद्य निःसोमकम् । इयं परिसमाप्यते रणकथाद्य दोःशालिना मपैतु रिपुकाननातिगुरुरद्य भारो भुवः ॥२८१॥} <(भट्टनारायणऽस्वेणीसंहार ३.३४)> अत्र {शयितः प्रयत्नेन बोध्यसे} इति विधेयम् । यथा वा {वाताहारतया जगद्विषधरैराश्वास्य निःशषितं ते ग्रस्ताः पुनरभ्रतोयकणिकातीव्रव्रतैर्बर्हिभिः । तेऽपि क्रुरचमूरुचर्मवसनैर्नीताः क्षयं लुब्धकैर् दम्भस्य स्फुरितं विदन्नपि जनो जाल्मो गुणानीहते ॥२८२॥} <(भल्लटशतक ८७)> अत्र वाताहारादित्रयं व्युत्क्रमेण वाच्यम् ॥ (२१) [अनुवादायुक्तः] {अरे रामाहस्ताभरण भसलश्रेणिशरण स्मरक्रीडाव्रीडाशमन विरहिप्राणदमन । सरोहंसोत्तंस प्रचलदल नीलोत्पल सखे सखेदोऽहं मोहं श्लथय कथय क्वेन्दुवदना ॥२८३॥} <(कालिदासऽस्विक्रमोर्वशीय)> अत्रऽविहहिप्राणदमनऽ इति नानुवाद्यम् ॥ (२२) [त्यक्तपुनःस्वीकृतः] {लग्नं रागावृताङ्ग्येत्यादि ॥२८४=४१॥} [लग्नं रागावृताङ्ग्या सुदृढमिह ययैवासियष्ट्यारिकण्ठे मातङ्गानामपीहोपरि परपुरुषैर्या च दृष्टा पतन्ती । तत्सक्तोऽयं न किञ्चिद्गणयति विदितं तेस्तु तेनास्मि दत्ता भृत्येभ्यः श्रीनियोगाद्गदितुमिव गतेत्यम्बुधिं यस्य कीर्तिः ॥२४१॥] <(वेणिदत्तऽस्पद्यवेणी २)> अत्र {विदितं तेस्तु} इत्युपसंहृतोऽपि तेनेत्यादिना पुनरुपात्तः ॥ (२३) [अश्लीलः] {हन्तुमेव प्रवृत्तस्य स्तब्धस्य विवरैषिणः । यथास्य जायते पातो न तथा पुनरुन्नतिः ॥२८५॥} <(भामहऽस्काव्यालङ्कार १.५१)> अत्र पुंव्यञ्जनस्यापि प्रतीतिः ॥ यत्रैको दोषः प्रदर्शितस्तत्र दोषान्तराण्यपि सन्ति तथापि तेषां तत्राप्रकृतत्वात्प्रकाशनं न कृतम् ॥५५५७॥ कर्णावतंसादिपदे कर्णादिध्वनिनिर्मितिः । संनिधानादिबोधार्थं ... अवतंसादीनि कर्णाद्याभरणान्येवोच्यन्ते । तत्र कर्णादिशब्दाः कर्णादिस्थितिप्रतिपत्तये । यथा {अस्याः कर्णावतंसेन जितं सर्वं विभूषणम् । तथैव शोभतेत्यर्थमस्याः श्रवणकुण्डलम् ॥२८६॥} <(वामनऽस्काव्यालङ्कारसूत्रवृत्ति २,२.१४)> {अपूर्वमधुरामोदप्रमोदितदिशस्ततः । आययुर्भृङ्गमुखराः शिरःशेखरशालिनः ॥२८७॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र कर्णश्रवणशिरःशब्दाः संनिधानप्रतीत्यर्थाः ॥ {विदीर्णाभिमुखारातिकराले संगरान्तरे । धनुर्ज्याकिणचिह्नेन दोष्णा विस्फुरितं तव ॥२८८॥} <(वामनऽस्काव्यालङ्कारसूत्रवृत्ति २,२.१३)> अत्र धनुःशब्द आरूठत्वावगतये ॥ अन्यत्र तु {ज्याबन्धनिष्पन्दभुजेन यस्य विनिश्वमद्वक्त्रपरंपरेण । कारागृहे निर्जितवासवने लङ्केश्वरेणोषितमा प्रसादात् ॥२८९॥} <(कालिदासऽस्रघुवंश ६.२०)> इत्यत्र केवलो ज्याशब्दः । {प्राणेश्वरपरिष्वङ्गविभ्रमप्रतिपत्तिभिः । मुक्ताहारेण लसता हसतीव स्तनद्वयम् ॥२९०॥} <(वामनऽस्काव्यालङ्कारसूत्रवृत्ति २,२.१५)> अत्र मुक्तानामन्यरत्नामिश्रितत्वबोधनाय मुक्ताशब्दः । {सौन्दर्यसंपत्तारुण्यं यस्यास्ते ते च विभ्रमाः । षट्पदान् पुष्पमालेव कान्नाकर्षति सा सखे ॥२९१॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्रोत्कृष्टपुष्पविषये पुष्पशब्दः । निरुपपदो हि मालाशब्दः पुष्पस्रजमेवाभिधत्ते ॥ ... स्थितेष्वेतत्समर्थनम् ॥ कारिका ५८ ॥ {न खलु कर्णावतंसादिवज्जघनकाञ्चीत्यादि क्रियते । जगाद मधुरां वाचं विशदाक्षरशालिनीम् ॥२९२॥} <(वामनऽस्काव्यालङ्कारसूत्रवृत्ति २,२.१८)> इत्यादौ क्रियाविशेषणत्वेऽपि विवक्षितार्थप्रतीतिसिद्धौ {गतार्थस्यापि विशेष्यस्य विशेषणदानार्थं क्वचित्प्रयोगः कार्यः} इति न युक्तम् । युक्तत्वे वा {चरणत्रपरित्राणरहिताभ्यामपि द्रुतम् । पादाभ्यां दूरमध्वानं व्रजन्नेष न खिद्यते ॥२९३॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> इत्युदाहार्यम् ॥५८॥ ख्यातेऽर्थे निर्हेतोरदुष्टता ... यथा {चन्द्रं गता पद्मगुणान्न भुङ्क्ते पद्माश्रिता चान्द्रमसीमभिख्याम् । उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ॥२९४॥} <(कालिदासऽस्कुमारसंभव १.४३)> अत्र रात्रौ पद्मस्य संकोचः दिवा चन्द्रमसश्च निष्प्रभत्वं लोकप्रसिद्धमितिऽन भुङ्क्तेऽ इति हेतुं नापेक्षते ॥ ... अनुकरणे तु सर्वेषाम् । सर्वेषां श्रुतिकटुप्रभृतीनां दोषाणाम् । यथा {मृगचक्षुषमद्राक्षमित्यादि कथयत्ययम् । पश्यैष च गवित्याह सूत्रामाणं यजेत च ॥२९५॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा १४७)> वक्त्राद्यौचित्यवशाद्दोषोऽपि गुणः क्वचित्क्वचिन्नोभौ ॥ कारिका ५९ ॥ वकृप्रतिपाद्यव्यङ्गवाच्यप्रकरणादीनां महिम्ना दोषोऽपि क्वचिदगुणः क्वचिन्न दोषो न गुणः । तत्र व्याकरणादौ वक्तरि प्रतिपाद्ये च रौद्रादौ च रसे व्यङ्गे कष्टत्वं गुणः । क्रमेणोदाहरणम् {दीर्घीङ्वेवीङ्समः कश्चिद्गुणवृद्ध्योरभाजनम् । क्विप्प्रत्ययनिभः कश्चिद्यत्र संनिहिते न ते ॥२९६॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा ४३)> {यदा त्वामहमद्राक्षं पदविद्याविशारदम् । उपाध्यायं तदास्मार्षं समस्प्राक्षं च संमदम् ॥२९७॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा १४९)> {अन्त्रप्रोतबृहत्कपालनलकक्रूरक्वणत्कङ्कण प्रायप्रेङ्खितभूरिभूषणरवैराघोषयन्त्यम्बरम् । पीतच्छर्दितरक्तकर्दमघनप्राग्भारघोरोल्लस द्व्यालोलस्तनभारभैरववपुर्दर्पोद्धतं धावति ॥२९८॥} <(भवभ्तूतिऽस्महावीरचरित १.३५)> वाच्यवशाद्यथा {मातङ्गाः किमु विल्गितैः किमफलैराडम्बरैर्जम्बुकाः सारङ्गा महिषा मदं व्रजथ किं शून्येषु शरा न के । कोपाटोपसमुद्भटोत्कटसटाकोटेरिभारेः पुरः सिन्धुध्वानिनि हुङ्कृते स्फुरति यत्तद्गर्जितं गर्जितम् ॥२९९॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र सिंहे वाच्ये परुषाः शब्दाः ॥ प्रकरणवशाद्यथा {रक्ताशोक कृशोदरी क्क नु गता त्यक्त्वानुरक्तं जनं नो दृष्टेति मुधैव चालयसि किं वातावधूतं शिरः । उत्कण्ठाघटमानषड्पदघटासंघट्टदष्.टच्छद स्तत्पादाहतिमन्तरेण भवतः पुष्पोद्गमोऽयं कुतः ॥३००॥} <(कालिदासऽस्विक्रमोर्वशीय ४)> अत्र शिरोधूननेन कुपितस्य वचसि ॥ क्वचिन्नीरसे न गुणो न दोषः । यथा {शीर्णघ्राणाङ्घ्रपाणीन् व्रणिभिरपघनैर्घराव्यक्तघोषान् दीर्घाघ्रातानघौघैः पुनरपि घटयत्येक उल्लाघयन् यः । घर्मांशोस्तस्य वोन्तर्द्विगुणघनघृणानिघ्ननिर्विघ्नवृत्तेर् दत्तार्घाः सिद्धसंघैर्विदधतु घृणयः शीघ्रमंहोविघातम् ॥३०१॥} <(मयूरऽस्सूर्यशतक ६)> अप्रयुक्तनिहतार्थौ श्लेषादावदुष्टौ । यथा {येन ध्वस्तमनोभवेन बलिजित्कायः पुरा स्त्रीकृतो यश्चोद्धृत्तभुजङ्गहारवलयोगङ्गां च योधारयत् । यस्याहुः शशिमच्छिरोहर इति स्युत्यं च नामामराः पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदोमाधवः ॥३०२॥} <(वल्लभदेवऽस्सुभाषितावलि ॑ अभिनवगुप्तऽस्ध्वन्यालोकलोचन [२.२१,२२])> अत्र माधवपक्षे शशिमदन्धकक्षयशब्दाप्रयुक्तनिहतार्थौ ॥ अश्लीलं क्वचिद्गुणः । यथा सुरतारम्भगोष्ठ्याम् {द्व्यर्थेः पदैः पिशुनयेच्च रहस्यवस्तु} इति कामशास्त्रस्थितौ {करिहस्तेन संबाधे प्रविश्यान्तर्विलोडिते । उपसर्पन् ध्वजः पुंसः साधनान्तर्विराजते ॥३०३॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा १५४)> शमकथासु {उत्तानोच्छनमण्डूकपाटितोदरसंनिभे । क्लेदिनि स्त्रीव्रणे सक्तिरकृमेः कस्य जायते ॥३०४॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा १५५)> {निर्वाणवैरदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनया सह माधवेन । रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥३०५॥} <(भट्टनारायणऽस्वेणीसंहार १.७)> अत्र भाव्यमङ्गकसूचकम् ॥ संदिग्धमपि वाच्यमहिम्ना क्वचिन्नियतार्थप्रतीतिकृत्त्वेन व्याजस्तुतिपर्यवसायित्वे गुणः । यथा {पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव । विलसत्करेणुगहनं संप्रति सममावयोः सदनम् ॥३०६॥} <(सुभाषितरत्नाकर १६४४)> प्रतिपाद्यप्रतिपादकयोर्ज्ञत्वे सत्यप्रतीतं गुणः । यथा {आत्मारामा विहितरतयो निर्विकल्पे समादौ ज्ञानोद्रेकाद्विघटिततमोग्रन्थयः सत्त्वनिष्ठाः । यं वीक्षन्ते कमपि तमसां ज्योतिषां वा परस्तात् तं मोहान्धः कथमयममुं वेत्ति देवं पुराणम् ॥३०७॥} <(भट्टनारायणऽस्वेणीसंहार १.२३)> स्वयं वा परामर्शे । यथा {षडधिकदशनाडीचक्रमध्यस्थितात्मा हृदि विनिहितरूपः सिद्धिदस्तद्धितां यः । अविचलितमनोभिः साधकैर्मृग्यमाणः स जयति परिणद्धः शक्तिभिः शक्तिनाथः ॥३०८॥} <(भवभूतिऽस्मालतीमाधव ५.१)> अधमप्रकृत्युक्तिषु ग्राम्यो गुणः । यथा {फुल्लुक्करं कलमकूरणिहं वहन्ति जे सिन्धुवारविडवा मह वल्लहा दे । जे गालिदस्स महिसीदहिणो सरिच्छा दे किं च मुद्धवि_अ_इल्लपसूणपुञ्जा ॥३०९॥} [पुष्पोत्करं कलमभक्तनिभं वहन्ति ये सिन्धुवारविटपा मम वल्लभास्ते । ये गालितस्य महिषीदघ्नः सदृक्षा स्तेकिं च मुग्धविचकिलप्रसूनपुञ्जाः ॥] <(राजशेखरऽस्कर्पूरमञ्जरी १.१९)> अत्र कलमभक्तमहिषीदधिशब्दा ग्राम्या अपि विदूषकोक्तौ ॥ न्यूनपदं क्वचिद्गुणः । यथा {गाढालिङ्गनवामनीकृतकुचप्रोद्भूतरोमोद्गमा सान्द्रस्नेहरसातिरेकविगलच्छ्रीमन्नितम्बाम्बरा । मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी सुप्ता किं नु मृता नु किं मनसि मे लीना विलीना नु किम् ॥३१०॥} <(अमरुशतक ३६)> क्वचिन्न गुणो न दोषः । यथा {तिष्ठेत्कोपवशात्प्रभावपिहिता दीर्घं न सा कुप्यति स्वर्गायोत्पतिता भवेन्मयि पुनर्भावाद्रमस्या मनः । तां हर्तुं विबुधद्विषोऽपि न च मे शक्ताः पुरोवर्तिनीं सा चात्यन्तमगोचरं नयनयोर्यातेति कोऽयं विधिः ॥३११॥} <(कालिदासऽस्विक्रमोर्वशीय ४.९)> अत्र पिहिता इत्यतोनन्तरंऽनैतद्यतःऽ इत्येतैर्न्यूनैः पदैर्विशेषबुद्धेरकरणान्न गुणः । उत्तरा प्रतिपत्तिः पूर्वां प्रतिपत्तिं बाधते इति न दोषः ॥ अधिकपदं क्वचिद्गुणः । यथा {यद्वञ्चनाहितमतिर्बहुचाटुगर्भं कार्योन्मुखः खलजनः क्र्टकं ब्रवीति । तत्साधवो न न विदन्ति विदन्ति किन्तु कर्तुं वृथा प्रणयमस्य न पारयन्ति ॥३१२॥} <(अभिनवगुप्तऽस्ध्वन्यालोकलोचन ३.१६)> अत्र {विदन्ति} इति द्वितीयमन्ययोगव्यवच्छेदपरम् । यथा वा {वद वद जितः स शत्रुर्न हतो जल्पंश्च तव तवास्मीति । चित्रं चित्रमरोदीद्धा हेति परं मृते पुत्रे ॥३१३॥} <(रुद्रटऽस्काव्यालङ्कार ६.३०)> इत्येवमादौ हर्षभयादियुक्ते वक्तरि ॥ कथितपदं क्वचिद्गुणः लाटानुप्रासे अर्थान्तरसंक्रमितवाच्ये विहितस्यानुवाद्यत्वे च । क्रमेणोदाहरणम् {सितकरकररुचिरविभा विभाकराकार धरणिधर कीर्तिः । पौरुषकमला कमला सापि तवैवास्ति नान्यस्य ॥३१४(च्f.३५९)॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा १९५)> {ताला जा_अन्ति गुणा जाला दे सहि_अ_एंहि घेप्पन्ति । र_इकिरणाणुग्गहि_आ_इं होन्ति कमला_इं कमला_इम् ॥३१५॥} [तदा जायन्ते गुणाः यदा ते सहृदयैर्गृह्यन्ते । रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ॥] <(हालऽस्गाथासप्तशती ९८९ ॑ अभिनवगुप्तऽस्ध्वन्यालोकलोचन॑ आनन्दवर्धनऽस्विषमबाणलीला)> {जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते । गुणप्रकर्षेण जनोनुरज्यते जनानुरागप्रभवा हि संपदः ॥३१६॥} <(वल्लभदेवऽस्सुभाषितावलि)> {पतत्प्रकर्षमपि क्वचिद्गुणः । यथा उदाहृते प्रागप्राप्तैत्यादौ ॥३१७॥} <(भवभ्तूतिऽस्महावीरचरित २.३३)> समाप्तपुनरात्तं क्वचिन्न गुणो न दोषः । यत्र न विशेषणमात्रदानार्थः पुनर्ग्रहणमपि तु वाक्यान्तरमेव क्रियते । यथा {अत्रैव प्रागप्राप्त इत्यादौ ॥३१८॥} अपदस्थसमासं क्वचिद्गुणः । यथा {उदाहृते रक्ताशोकैत्यादौ ॥३१९॥} गर्भितं तथैव । यथा {हुमि अवहत्थि_अरेहो णिरङ्कुसो अह विवे_अरहि_ओ वि । सिविणे वि तुमम्मि पुणो पत्तिहि भत्तिं ण पसुमरामि ॥३२०॥} [भवाम्यपहस्तितरेखो निरङ्गुशोऽथ विवेकरहितोऽपि । स्वप्नेऽपि त्वयि पुनः प्रतीहि भक्तिं न प्रस्मरामि ॥] <(आनन्दवर्धनऽस्विषमबाणलीला ॑ अभिनवगुप्तऽस्ध्वन्यालोकलोचन)> अत्र प्रतीहीति मध्ये दृढप्रत्ययोत्पादनाय । एवमन्यदपि लक्ष्याल्लक्ष्यम् ॥५९॥ व्यभिचारिरसस्थायिभावानां शब्दवाच्यता । कष्टकल्पनया व्यक्तिरनुभावविभावयोः ॥ कारिका ६० ॥ प्रतिकूलविभावादिग्रहो दीप्तिः पुनः पुनः । अकाण्डे प्रथनच्छेदावङ्गस्याप्यतिविस्तृतिः ॥ कारिका ६१ ॥ अङ्गिनोऽननुसंधानं प्रकृतीनां विपर्ययः । अनङ्गस्याभिधानं च रसे दोषाः स्युरीदृशाः ॥ कारिका ६२ ॥ (१) स्वशब्दोपादानं व्यभिचारिणो यथा {सव्रीडा दयितानने सकरुणा मातङ्गचर्माम्बरे सत्रासा भुजगे सविस्मयरसा चन्द्रेऽमृतस्यन्दिनि । सेर्ष्या जह्नुसुतावलोकनविधौ दीना कपालोदरे पार्वत्या नवसंगमप्रणयिनी दृष्टिः शिवायास्तु वः ॥३२१॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा १६४)> अत्र व्रीडादीनाम् । {व्यानम्रा दयितानने मुकुलिता मातङ्गचर्माम्बरे सोत्कम्पा भुजगे निमेषरहिता चन्द्रेमृतस्यन्दिनि । मीलद्भूः सुरसिन्धुदर्शनविधौ म्लाना कपालोदरे} इत्यादि तु युक्तम् ॥ (२) रसस्य स्वशब्देन शृङ्गारादिशब्देन वा वाच्यत्वम् । क्रमेणोदाहरणम् {तामनङ्गजयमङ्गलश्रियं किञ्चिदुच्चभुजमूललोकिताम् । नेत्रयोः कृतवतोऽस्य गोचरे कोऽप्यजायत रसो निरन्तरः ॥३२२॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा १६६)> {आलोक्य कोमलकपोलतलाभिषिक्त व्यक्तानुरागसुभगामभिराममूर्तिम् । पश्यैष बाल्यमतिवृत्य विवर्तमानः शृङ्गारसीमनि तरङ्गितमातनोति ॥३२३॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> (३) स्थायिनो यथा {संप्रहारे प्रहरणैः प्रहाराणां परस्परम् । ठणत्कारैः श्रुतिगतैरुत्साहस्तस्य कोऽप्यभूत् ॥३२४॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा १६७)> अत्रोत्साहस्य ॥ (४) {कर्पूरधूलिधवलद्युतिपूरधौत दिङ्मण्डले शिशिररोचिषि तस्य यूनः । लीलाशिरोऽंशुकनिवेशविशेषकॢ.प्ति व्यक्तस्तनोन्नतिरभून्नयनावनौ सा ॥३२५॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्रोद्दीपनालम्बनरूपाः शृङ्गारयोग्या विभावा अनुभावपर्यवसायिनः स्थिता इति कष्टकल्पना ॥ (५) {परिहरति रतिं मतिं लुनीते स्खलति भृशं परिवर्तते च भूयः । इति बत विषमा दशास्य देहं परिभवति प्रसभं किमत्र कुर्मः ॥३२६॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र रतिपरिहारादीनामनुभावानां करुणादावपि संभवात्कामिनीरूपो विभावो यत्नतः प्रतिपाद्यः ॥ (६) {प्रसादे वर्तस्व प्रकटय मुदं संत्यज रुषं प्रिये शुष्यन्त्यङ्गान्यमृतमिव ते सिञ्चतु वचः । निधानं सौख्यानां क्षणमभिमुखं स्थापय मुखं न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः ॥३२७॥} <(अभिनवगुप्तऽस्ध्वन्यालोकलोचन ॑ शार्ङ्गधरपद्धति)> अत्र शृङ्गारे प्रतिकूलस्य शान्तस्यानित्यताप्रकाशनरूपो विभावस्तत्प्रकाशितो निर्वेदश्च व्यभिचारी उपात्तः ॥ {णिहु_अरमणम्मि लो_अणपहम्मि पडि_ए गुरु_अणमज्झम्मि । स_अलपरिहारहि_अ_आ वणगमणं एव्व मह_इ वहू ॥३२८॥} [निभृतरमणे लोचनपथे पतिते गुरुजनमध्ये । सकलपरिहारहृदया वनमनमेवेच्छति वधूः ॥] <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र सकलपरिहारवनगमने शान्तानुभावौ । इन्धनाद्यानयनव्याजेनोपभोगार्थं वनगमनं चेत्न दोषः ॥ (७) दीप्तिः पुनः पुनर्यथा कुमारसंभवे रतिविलापे ॥ (८) अकाण्डे प्रथनं यथा वेणीसंहारे द्वितीयेङ्केनेकवीरक्षये प्रवृत्ते भानुमत्या सह दुर्योधनस्य शृङ्गारवर्णनम् । (९) अकाण्डे छेदो यथा वीरचरिते द्वितीयेङ्के राघवभार्गवयोर्धाराधिरूढे वीररसे {कङ्कणमोचनाय गच्छामि} इति राघवस्योक्तौ ॥ (१०) अङ्गस्याप्रधानस्यातिविस्तरेण वर्णनम् । यथा हयग्रीववधे हयग्रीवस्य ॥ (११) अङ्गिनोऽननुसंधानम् । यथा रत्नावल्यां चतुर्थेङ्के बाभ्रव्यागमने सागरिकाया विस्मृतिः ॥ (१२) प्रकृतयो दिव्या अदिव्या दिव्यादिव्याश्च वीररौद्रशृङ्गारशान्तरसप्रधाना धीरोदात्तधीरोद्धतधीरललितधीरप्रशान्ताः उत्तमाधममध्यमाश्च । तत्र रतिहासशोकाद्भुतानि अदिव्योत्तमप्रकृतिवत्दिव्येष्वपि । किं तु रतिः संभोगशृङ्गाररूपा उत्तमदेवताविषया न वर्णनीया । तद्वर्णनं हि पित्रोः संभोगवर्णनमिवात्यन्तमनुचितम् । {क्रोधं प्रभो संहर संहरेति यावद्गिरः खे मरुतां चरन्ति । तावत्स वह्निर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार ॥३२९॥} <(कालिदासऽस्कुमारसंभव ३.३२)> इत्युक्तवत्भ्रुकुट्यादिविकारवर्जितः क्रोधः सद्यःफलदः स्वर्गपातालगगसमुद्रोल्लङ्घनाद्युत्साहश्च दिव्येष्येव । अधिकं तु निबध्यमानमसत्यप्रतिभासेनऽनायकवद्वर्तितव्यं न प्रतिनायकवत्ऽ इत्युपदेशे न पर्यवस्येत् । दिव्यादिव्येषु उभयथापि । एवमुक्तस्यौचित्यस्य दिव्यादीनामिव धीरोदात्तादीनामप्यन्यथावर्णनं विपर्ययः । तत्रभवन् भगवन्नित्युत्तमेन न अधमेन मुनिप्रभृतौ न राजादौ भट्टारकैति नोत्तमेन राजादौ प्रकृतिविपर्ययापत्तेर्वाच्यम् । एवं देशकालवयोजात्यादीनां वेषव्यवहारादिकमुचितमेवोपनिबन्द्धव्यम् ॥ (१३) अनङ्गस्य रसानुपकारकस्य वर्णनम् । यथा कर्पूरमञ्जर्या नायिकया स्वात्मना च कृतं वसन्तवर्णनमनादृत्य बन्दिवर्णितस्य राज्ञा प्रशंसनम् ॥ {ईदृशाः} इति । नायिकापादप्रहारादिना नायककोपादिवर्णनम् । उक्तं हि ध्वनिकृता {अनौचित्यादृत्ते नान्यद्रसभङ्गस्य कारणम् । औचित्योपनिबन्धस्तु रसस्योपनिषत्परा ॥} इति ॥६०६२॥ इदानीं क्वचिददोषा अप्येते इत्युच्यन्ते । न दोषः स्वपदेनोक्तावपि संचारिणः क्वचिद् । यथा {औत्सुक्येन कृतत्वरा सहभुवा व्यावर्तमाना ह्रिया तैस्तैर्बन्धुवधूजनस्य वचनैर्नीताभिमुख्यं पुनः । दृष्ट्वाग्रे वरमात्तसाध्वसरसा गौरी नवे संगमे संरोहत्पुलका हरेण हसता श्लिष्टा शिवायास्तु वः ॥३३०॥} <(हर्षऽस्रत्नावलि १.२)> अत्रौत्सुक्यशब्द इव तदनुभावो न तथा प्रतीतिकृत् । अत एवऽदूरादुत्सुकम्ऽ इत्यादौ व्रीडाप्रेमाद्यनुभावानाम् । विवलितत्वादीनामिवोत्सुकत्वानुभावस्य सहसा प्रसरणादिरूपस्य तथा प्रतिपत्तिकारित्वाभावादुत्सुकमिति कृतम् ॥ संचार्यादेर्विरुद्धस्य बाध्यस्योक्तिर्गुणावहा ॥ कारिका ६३ ॥ बाध्यत्वेनोक्तिर्न परमदोषः यावत्प्रकृतरसपरिपोषकृत् । यथा {ऽक्वाकार्यं शशलक्ष्मणः क्व च कुलम्ऽ इत्यादौ ॥३३१[=५३]॥} [क्वाकार्यं शशलक्षणः क्व च कुलं भूयोऽपि दृश्येत सा दोषाणां प्रशमाय न श्रुतमहो कोपेऽपि कान्तं मुखम् । किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं धास्यति ॥५३॥] <(कालिदासऽस्विक्रमोर्वशीय ४.४)> अत्र वितर्कादिषु उद्गतेष्वपि चिन्तायामेव विश्रान्तिरिति प्रकृतरसपरिपोषः ॥ {पाण्डु क्षामं वदनं हृदयं सरसं तवालसं च वपुः । आवेदयति नितान्तं क्षेत्रियरोगं सखि हृदन्तः ॥३३२॥} <(अभिनवगुप्तऽस्ध्वन्यालोकलोचन)> इत्यादौ साधारणत्वं पाण्डुतादीनामिति न विरुद्धम् ॥ {सत्यं मनोरमा रामाः सत्यं रम्या विभूतयः । किं तु मत्ताङ्गनापाङ्गभङ्गलोलं हि जीवितम् ॥३३३॥} <(अभिनवगुप्तऽस्ध्वन्यालोकलोचन ३.३०)> इत्यत्राद्यमर्धं बाध्यत्वेनैवोक्यम् । जीवितादपि अधिकमपाङ्गभङ्गस्यास्थिरत्वमिति प्रसिद्धभङ्गुरोपमानतयोपात्तं शान्तमेव पुष्णाति न पुनः शृङ्गारस्यात्र प्रतीतिस्तदङ्गाप्रतिपत्तेर्ः । न तु विनेयोन्मुखीकरणमत्र परिहारः शान्तशृङ्गारयोर्नैरन्तर्यस्याभावात् । नापि काव्यशोभाकरणं रसान्तरादनुप्रासमात्राद्वा तथाभावात् ॥६३॥ आश्रयैक्ये विरुद्धो यः स कार्यो भिन्नसंश्रयः । रसान्तरेणान्तरितो नैरन्तर्येण यो रसः ॥ कारिका ६४ ॥ वीरभयानकयोरेकाश्रयत्वेन विरोध इति प्रतिप्रक्षगतत्वेन भयानको निवेशयितव्यः । शान्तशृङ्गारयोस्तु नैरन्तर्येण विरोध इति रसान्तरमन्तरे कार्यं यथा नागानन्दे शान्तस्य जीमूतवाहनस्यऽअहो गीतमहो वादित्रम्ऽ इत्यद्भूतमन्तर्निवेश्य मलयवतीं प्रति शृङ्गारो निबद्धः । न परं प्रबन्धे यावदेकस्मिन्नपि वाक्ये रसान्तरव्यवधिना विरोधो निवर्तते । यथा {भूरेणुदिग्धान्नवपारिजात मालारजोवासितबाहुमध्या । गाढं शिवाभिः परिरभ्यमाणान् सुराङ्गनाश्लिष्टभुजान्तरालाः ॥३३४॥} <(आनन्दवर्दनऽस्ध्वन्यालोक)> {सशोणितैः क्रव्यभुजां स्फुरद्भिः पक्षैः खगानामुपवीज्यमानान् । संवीजिताश्चन्दनवारिसेकैः सुगन्धिभिः कल्पलतादुकूलैः ॥३३४॥(अ)॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> {विमानपर्यङ्कतले निषण्णाः कुतूहलाविष्टितया तदानीम् । निर्दिश्यमानान् ललनाङ्गुलीभिर् वीराः स्वदेहान् पतितानपश्यन् ॥३३५॥} <(आनन्दवर्दनऽस्ध्वन्यालोक)> अत्र बीभत्सशृङ्गारयोरन्तर्वीररसो निवेशितः ॥६४॥ स्मर्यमाणो विरुद्धोऽपि साम्येनाथ विवक्षितः । अङ्गिन्यङ्गत्वमाप्तौ यौ तौ न दुष्टौ परस्परम् ॥ कारिका ६५ ॥ {अयं स रशनोत्कर्षी पीनस्तनविमर्दनः । नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः ॥३३६॥} <(महाभारत स्त्रीपर्वन् २४१९)> एतद्भूरिश्रवसः समरभुवि पतितं हस्तमालोक्य तद्वधूरभिदधौ । अत्र पूर्वावस्थास्मरणं शृङ्गाराङ्गमपि करुणं परिपोषयति ॥ {दन्तक्षतानि करजैश्च विपाटितानि प्रोद्भिन्नसान्द्रपुलके भवतः शरीरे । दत्तानि रक्तमनसा मृगराजवध्वा जातस्पृहैर्मुनिभिरप्यवलोकितानि ॥३३७॥} <(अभिनवगुप्तऽस्ध्वन्यालोकलोचन ३.४३)> अत्र कामुकस्य दन्तक्षतादीनि यथा चमत्कारकारीणि तथा जिनस्य । यथा वा परः शृङ्गारी तदलोकनात्सस्पृहस्तद्वतेतद्दृशो मुनय इति साम्यविवक्षा ॥ {क्रामन्त्यः क्षतकोमललाङ्गुलिगलद्रक्तैः सदर्भाः स्थलीः पादैः पातितयावकैरिव गलद्बाष्पाम्बुधौतानना । भीता भर्तृकरावलम्बितकरास्त्वच्छत्रुनार्योधुना दावाग्निं परितो भ्रमन्ति पुनरप्युद्यद्विवाहा इव ॥३३८॥} <(आनन्दवर्दनऽस्ध्वन्यालोक ३.२०)> अत्र चाटुके राजविषया रतिः प्रतीयते । तत्र करुण इव शृङ्गारोऽप्यङ्गमिति तयोर्न विरोधः । यथा {एहि गच्छ पतोत्तिष्ठ वद मौनं समाचर । एवमाशाग्रहग्रस्तैः क्रीडन्ति धनिनोऽर्थिभिः ॥३३९॥} <(अभिनवगुप्तऽस्ध्वन्यालोकलोचन ३.४४)> इत्यत्र एहीति क्रीडन्ति गच्छेति क्रीडन्तीति क्रीडनापेक्षयोः आगमनगमनयोर्न विरोधः । {क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोऽंशुकान्तं गृह्णन् केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण । आलिङ्गन् योवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शाभवो वः शराग्निः ॥३४०॥} <(अमरुशतक २)> इत्यत्र त्रिपुररिपुप्रभावातिशयस्य करुणोऽङ्गम् । तस्य तु शृङ्गारः । तथापि न करुणे विश्रान्तिरिति तस्याङ्गतैव । अथवा प्राक्यथा कामुक आचरति स्म तथा शराग्निरिति शृङ्गारपोषितेन करुणेण मुख्य एवार्थ उपोद्बल्यते । उक्तां हि {गुणः कृतात्मसंस्कारः प्रधानं प्रतिमद्यते । प्रधानस्योपकारे हि तथा भूयसि वर्तते ॥} इति ॥ <(ध्वन्यालोकलोचन ३.२२)> प्राक्प्रतिपादितस्य रसस्य रसान्तरेण न विरोधः नाप्यङ्गाङ्गिभावो भवति इति रसशब्देनात्र स्थायिभाव उपलक्ष्यते ॥६५॥ इति काव्यप्रकाशे दोषदर्शनो नाम सप्तम उल्लासः ॥७॥ ==================================================== अथ अष्टम उल्लासः एवं दोषानुक्त्वा गुणालङ्कारविवेकमाह ये रसस्याङ्गिनो धर्माः शौर्यादय इवात्मनः । उत्कर्षहेतवस्ते स्युरचलस्थितयो गुणाः ॥ कारिका ६६ ॥ आत्मन एव हि यथा शौर्यादयो नाकारस्य तथा रसस्यैव माधुर्यादयो गुणा न वर्णानाम् ॥ क्वचित्तु शौर्यादिसमुचितस्याकारमहत्त्वादेर्दर्शनात्ऽआकार एवास्य शूरःऽ इत्यादेर्व्यवहारादन्यत्राशूरेऽपि वितताकृतित्वमात्रेण {शूरःऽ इति क्वापि शूरेऽपि मूर्तिलाघवमात्रेणऽअशूरः} इति अविश्रान्तप्रतीतयो यथा व्यवहरन्ति तद्वन्मधुरादिव्यञ्जकसुकुमारादिवर्णानां मधुरादिव्यवहारप्रवृत्तेरमधुरादिरसाङ्गानां वर्णानां सौकुमार्यादिमात्रेण माधुर्यादि मधुरादिरसोपकरणानां तेषामसौकुमार्यादेरमाधुर्यादि रसपर्यन्तविश्रान्तप्रतीतिबन्ध्या व्यवहरन्ति । अत एव माधुर्यादयो रसधर्माः समुचितैर्वर्णैर्व्यज्यन्ते न तु वर्णमात्राश्रयाः । यथैषां व्यञ्जकत्वं तथोदाहरिष्यते ॥६६॥ उपकुर्वन्ति तं सन्तं येऽङ्गद्वारेण जातुचित् । हारादिवदलङ्कारास्तेऽनुप्रासोपमादयः ॥ कारिका ६७ ॥ ये वाचकवाच्यलक्षणाङ्गातिशयमुखेन मुख्यं रसं संभविनमुपकुर्वन्ति ते कण्ठाद्यङ्गानामुत्कर्षाधानद्वारेण शरीरिणोऽपि उपकारका हारादय इवालङ्काराः । यत्र तु नास्ति रसस्तत्रोक्तिवैचित्र्यमात्रपर्यवसायिनः । क्वचित्तु सन्तमपि नोपकुर्वन्ति । यथाक्रममुदाहरणानि {अपसारय घनसारं कुरु हारं दूर एव किं कमलैः । अलमलमालि मृणालैरिति वदति दिवानिशं बाला ॥३४१॥} <(दामोदरगुप्तऽस्कुट्टनीमत १०२)> इत्यादौ वाचकमुखेन {मनोरागस्तीव्रं विषमिव विसर्पत्यविरतं प्रमाथी निर्धूमं ज्वलति विधुतः पावक इव । हिनस्ति प्रत्यङ्गं ज्वर इव गरीयानित इतो न मां त्रातुं तातः प्रभवति न चाम्बा न भवती ॥३४२॥} <(भवभूतिऽस्मालतीमाधव २.१)> इत्यादौ वाच्यमुखेनालङ्कारौ रसमुपकुरुतः ॥ {चित्ते चिहुत्टदि ण टुट्टदि सा गुणेसुं सेज्जासु लोट्टदि विसप्पदि दिमुंहेसुम् । बोलम्मि वट्टदि पवट्टदि कव्वबन्धे झाणेण टुट्टदि चिरं तरुणी तरट्टी ॥३४३॥} [चित्ते विघटते न त्रुट्यति सा गुणेषु शय्यासु लुठति विसर्पति दिङ्मुखेषु । वचने वर्तते प्रवर्तते काव्यबन्धे ध्यानेन त्रुट्यति चिरं तरुणी प्रगल्भा ॥] <(राजशेखरऽस्कर्पूरमञ्जरी २.४)> इत्यादौ वाचकमेव । {मित्रे क्वापि गते सरोरुहवने बद्धानने ताम्यति क्रन्दत्सु भ्रमरेषु वीक्ष्य दयितासन्नं पुरः सारसम् । चक्राह्वेन वियोगिना बिसलता नास्वादिता नोज्झिता कण्ठे केवलमर्गलेव निहिता जीवस्य निर्गच्छतः ॥३४४॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा १७६)> इत्यादौ वाच्यमेव न तु रसम् । अत्र बिसलता न जीवं रोद्धुं क्षमेति प्रकृताननुगुणोपमा ॥ एष एव च गुणालङ्कारप्रविभागः । एवं च "समवायवृत्त्या शौर्यादयः संयोगवृत्त्या तु हारादय इत्यस्तु गुणालङ्काराणां भेदः । ओजःप्रभृतीनामनुप्रासोपमादीनां चोभयेषामपि समवायवृत्त्या स्थितिरिति गड्डलिकाप्रवाहेणैवैषां भेदः" इत्यभिधानमसत् ॥ यदप्युक्तम् {काव्यशोभायाः कर्तारो धर्मा गुणास्तदतिशयहेतवस्त्वलङ्काराः} इति तदपि न युक्तम् । यतः किं समस्तैर्गुणैः काव्यव्यवहारः उत कतिपयैः । यदि समस्तैः तत्कथमसमस्तगुणा गौडी पाञ्चाली च रीतिः काव्यस्यात्मा । अथ कतिपयैः ततः {अद्रावत्र प्रज्वलत्यग्निरुच्चैः प्राज्यः प्रोद्यन्नुल्लसत्येष धूमः ॥३४५॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा ११४)> इत्यादावोजः प्रभृतिषु गुणेषु सत्सु काव्यव्यवहारप्राप्तिः । {स्वर्गप्राप्तिरनेनैव देहेन वरवर्णिनी । अस्या रदच्छदरसो न्यक्करोतितरां सुधाम् ॥३४६॥} इत्यादौ विशेषोक्तिव्यतिरेकौ गुणनिरपेक्षौ काव्यव्यवहारस्य प्रवर्तकौ ॥६७॥ इदानीं गुणानां भेदमाह माधुर्यौजःप्रसादाख्यास्त्रयस्ते न पुनर्दश । एषां क्रमेण लक्षणमाह आह्लादकत्वं माधुर्यं शृङ्गारे द्रुतिकारणम् ॥ कारिका ६८ ॥ शृङ्गारे अर्थात्संभोगे । द्रुतिर्गलितत्वमिव । श्रव्यत्वं पुनरोजःप्रसादयोरपि ॥६८॥ करुणे विप्रलम्भे तच्छान्ते चातिशयान्वितम् । [अतिशयान्वितमिति] अत्यन्तद्रुतिहेतुत्वात् ॥ दीप्त्यात्मविस्तृतेर्हेतुरोजो वीररसस्थिति ॥ कारिका ६९ ॥ चित्तस्य विस्ताररूपदीप्तत्वजनकमोजः ॥६९॥ बीभत्सरौद्ररसयोस्तस्याधिक्यं क्रमेण च । वीराद्वीभत्से ततो सातिशयमोजः ॥ शुष्केन्धनाग्निवत्स्वच्छजलवत्सहसैव यः ॥ कारिका ७० ॥ व्याप्नोत्यन्यत्प्रसादोऽसौ सर्वत्र विहितस्थितिः । अन्यदिति । व्याप्यमिह चित्तम् । सर्वत्रेति । सर्वेषु रसेषु सर्वासु रचनासु च ॥ गुणवृत्त्या पुनस्तेषां वृत्तिः शब्दार्थयोर्मता ॥ कारिका ७१ ॥ गुणवृत्त्या उपचारेण । तेषाङ्गुणानाम् । आकारे शौर्य्स्येव ॥७०७१॥ कुतस्त्रय एव न दश इत्याह केचिदन्तर्भवन्त्येषु दोषत्यागात्परे श्रिताः । अन्ये भजन्ति दोषत्वं कुत्रचिन्न ततो दश ॥ कारिका ७२ ॥ बहुनामपि पदानामेकपदवद्भासनात्मा यः श्लेषः यश्चारोहाबरोहक्रमरूपः समाधिः या च विकटत्वलक्षणा उदारता यश्चौजोमिश्रितशैथिल्यात्मा प्रसादः तेषामोजस्तन्तर्भावः । पृथक्पदत्वरूपं माधुर्यं भङ्ग्या साक्षादुपात्तम् । प्रसादेनार्थव्यक्तिर्गृहीता । मार्गाभेदरूपा समता क्वचिद्दोषः । तथाहि {मातङ्गाः किमु वल्गतैः} इत्यादौ सिंहाभिधाने मसृणमार्गत्वायो गुणः । कष्टत्वग्राम्यत्वयोर्दुष्टाभिधानात्तन्निराकरणेनापारुष्यरूपं सौकुमार्यमौज्ज्वल्यरूपा कान्तिश्च स्वीकृता ॥ एवं न दश शब्दगुणाः ॥ {पदार्थे वाक्यरचनं वाक्यार्थे च पदाभिधा । प्रौढिर्व्याससमासौ च साभिप्रायत्वमस्य च ॥} <(वामन, काव्यालङ्कारसूत्रवृत्ति ३,२.२)> इति या प्रौढिः ओज इत्युक्तं तद्वैचित्र्यमात्रं न गुणः । तदभावेऽपि काव्यव्यवहारप्रवृत्तेः । अपुष्टार्थत्वाधिकपदत्वानवीकृतत्वामङ्गलरूपाश्लीलग्राम्याणां निराकरणेन च साभिप्रायत्वरूपमोजः अर्थवैमल्यात्मा प्रसादः उक्तिवैचित्र्यरूपं माधुर्यमपारुष्यरूपं सौकुमार्यमग्राम्यत्वरूपा उदारता च स्वीकृतानि । अभिधास्यमानस्वभावोक्त्यलङ्कारेण रसध्वनिगुणीभूतव्यङ्ग्याभ्यां च वस्तुस्वभावस्फुटत्वरूपा अर्थव्यक्तिः, दीप्तरसत्वरूपा कान्तिश्च स्वीकृता । क्रमकौटिल्यानुल्बणत्वोपपत्तियोगरूपघटनात्मा श्लेषोऽपि विचित्रत्वमात्रम् । अवैषम्यस्वरूपा समता दोषाभावमात्रं न पुनर्गुणः । कः खल्वनुन्मत्तोन्यस्य प्रस्तावेन्यदभिदध्यात् । अर्थस्यायोनेर्ऽन्यच्छायायोनेर्वा यदि न भवति दर्शनं तत्कथं काव्यमित्यर्थदृष्टिरूपः समाधिरपि न गुणः ॥७२॥ तेन नार्थगुणा वाच्याः ... न वाच्याः न वक्तव्याः ॥ ... प्रोक्ताः शब्दगुणाश्च ये । वर्णाः समासो रचना तेषां व्यञ्जकतामिताः ॥ कारिका ७३ ॥ के कस्य इत्याह मुर्ध्नि वर्गान्त्यगाः स्पर्शा अटवर्गा रणौ लघू । आवृत्तिर्मध्यवृत्तिर्वा माधुर्ये घटना तथा ॥ कारिका ७४ ॥ टठडढवर्जिताः कादयो मान्ताः शिरसि निजवर्गान्त्ययुक्ताः तथा रेफणकारौ ह्रस्वान्तरिताविति वर्णाः समासाभावो मध्यमः समासो वेति समासः तथा माधुर्यवती पदान्तरयोगेन रचना माधुर्यस्य व्यञ्जिका ॥ उदाहरणम् {अनङ्गरङ्गप्रतिअं तदङ्गं भङ्गीभ्रङ्गीकृतमानताङ्ग्याः । कुर्वन्ति यूनां सहसा यथैताः स्वान्तानि शान्तापरचिन्तनानि ॥३४७॥७४॥।} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा १७९)> योग आद्यतृतीयाम्यामन्त्ययो रेण तुल्ययोः । टादिः शषौ वृत्तिदैर्घ्यं गुम्फ उद्धृत ओजसि ॥ कारिका ७५ ॥ वर्गप्रथमतृतीयाभ्यामन्त्ययोः द्वितीयचतुर्थयोः रेफेण अध उपरि उभयत्र वा यस्य कस्यचित्तुल्ययोः तेन तस्यैव संबन्धः टवर्गोऽर्थात्णकारवर्जः शकारषकारौ दीर्घसमासः विकटा संघटना ओजसः । उदाहरणम् {मूर्ध्नामुद्धृत्तक्र्ट्त_इत्यादि ॥३४८[=१५९(इन्चोर्र्.२८५)]॥७५॥} [मूर्द्ध्नामुद्वृत्तकृत्ताविरलगलगलद्रक्तसंसक्तधारा धौतेशाङ्घ्रिप्रसादोपनतजयजगज्जातमिथ्यामहिम्नाम् । कैलासोल्लासनेच्छाव्यतिकरपिशुनोत्सर्पिदर्पोद्धुराणां दोष्णां चैषां किमेतत्फलमिह नगरीरक्षणे यत्प्रयासः ॥१५९॥] <(हर्षऽस्नागानन्द ८)> श्रुतिमात्रेण शब्दात्तु येनार्थप्रत्ययो भवेत् । साधारणः समग्राणां स प्रसादो गुणो मतः ॥ कारिका ७६ ॥ समग्राणां रसानां संघटनानां च । उदाहरणम् {परिम्लानं पीनस्तनजघनसंगादुभयतस् तनोर्मध्यस्यान्तः परिमिलनमप्राप्य हरितम् । इदं व्यस्तन्यासं श्लथभुजलताक्षेपवलनैः कृशाङ्ग्याः संतापं वदति बिसिनीपत्रशयनम् ॥३४९॥७६॥} <(कालिदासऽस्रघुवंश २.१२)> यद्यपि गुणपरतन्त्राः संघटनादयस्तथापि वक्तृवाच्यप्रबन्धानामौचित्येन क्वचित्क्वचित् । रचनावृत्तिवर्णानामन्यथात्वमपीष्यते ॥ कारिका ७७ ॥ क्वचिद्वाच्यप्रबन्धानपेक्षया वक्त्रौचित्यादेव रचनादयः । यथा {मन्थायस्तार्णवाम्भःप्लुतकुहरचलन्मन्दरध्वानधीरः कोणाघातेषु गर्जत्प्रलयघनघटान्योन्यसंघट्टचण्डः । कृष्.णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितोसौ ॥३५०॥} <(भट्टनारायणऽस्वेणीसंहार १.२२)> अत्र हि न वाच्यं क्रोधादिव्यञ्जकम् । अभिनेयार्थं च च काव्यमिति तत्प्रतिकूला उद्धता रचनादयः । वक्ता चात्र भीमसेनः ॥ क्वचिद्वक्तृप्रबन्धानपेक्षया वाच्यौचित्यादेव रचनादयः ॥ यथा {प्रौढच्छेदानुरूपोच्छलनरयभवत्सैंहिकेयोपघात त्रासाकृष्टाश्वतिर्यग्वलितरविरथेनारुणेनेक्ष्यमाणम् । कुर्वत्काकुत्स्थवीर्यस्तुतिमिव मरुतां कन्धरारन्ध्रभाजां भाङ्कारैर्भीममेतन्निपतति वियतः कुम्भकर्णोत्तमाङ्गम् ॥३५१॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> क्वचिद्वक्तृवाच्यानपेक्षाः प्रबन्धोचिता एव ते ॥ तथाहि आख्यायिकायां शृङ्गारेऽपि न मसृणवर्णादयः । कथायां रौद्रेऽपि नात्यन्तमुद्धताः । नाटकादौ रौद्रेऽपि न दीर्घसमासादयः ॥ एवमन्यदपुऔचित्यमनुसर्तव्यम् ॥७७॥ इति काव्यप्रकाशे गुणालङ्कारभेदनियतगुणनिर्णयो नाम अष्टम उल्लासः ॥८॥ ======================================================= अथ नवम उल्लासः गुणविवेचने कृतेऽलङ्काराः प्राप्तावसराः इति संप्रति शब्दालङ्कारानाह यदुक्तमन्यथा वाक्यमन्यथान्येन योज्यते । श्लेषेण काक्वा वा ज्ञेया सा वक्त्रोक्तिस्तथा द्विधा ॥ कारिका ७८ ॥ तथेति श्लेषवक्रोक्तिः काकुवक्रोक्तिश्च । तर पदभङ्गश्लेषेण यथा {नारीणामनुकूलमाचरसि चेज्जानासि कश्चेतनो वामानां प्रियमादधाति हितकृन्नैवाबलानां भवान् । युक्तं किं हितकर्तनं ननु बलाभावप्रसिद्धात्मनः सामर्थ्यं भवतः पुरन्दरमतच्छेदं विधातुं कुतः ॥३५२॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अभङ्गश्लेषेण यथा {अहो केनेदृशी बुद्धिर्दारुणा तव निर्मिता । त्रिगुणा श्रूयते बुद्धिर्न तु दारुमयी क्वचित् ॥३५३॥} <(रुय्यकऽसलङ्कारसर्वस्व)> काक्वा यथा {गुरुजनपरतन्त्रतया दूरतरं देशमुद्यतो गन्तुम् । अलिकुलकोकिलललिते नैष्यति सखि सुरभिसमयेऽसौ ॥३५४॥७८॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा १९१)> वर्णसाम्यमनुप्रासश्... स्वरवैसादृश्येऽपि व्यञ्जनसदृशत्वं वर्णसाम्यम् । रसाद्यनुगतः प्रकृष्टो न्यासोऽनुप्रासः ॥ ... छेकवृत्तिगतो द्विधा । छेकाः विदग्धाः । वृत्तिर्नियतवर्णगतो रसविषयो व्यापारः । गत इति छेकानुप्रासो वृत्त्यनुप्रासश्च ॥ किं तयोः स्वरूपमित्याह सोऽनेकस्य सकृत्पूर्वः ... अनेकस्य अर्थात्व्यञ्जनस्य सकृदेकवारं सादृश्यं छेकानुप्रासः । उदाहरणम् {ततोऽरुणपरिस्पन्दमन्दीकृतवपुः शशी । दध्रे कामपरिक्षामकामिनीगण्डपाण्डुताम् ॥३५५॥} <(कुन्तकऽस्वक्रोक्तिजीवित १.१९)> ... एकस्याप्यसकृत्परः ॥ कारिका ७९ ॥ एकस्य अपिशब्दादनेकस्य व्यञ्जनस्य द्विर्बहुकृत्वो वा सादृश्यं वृत्त्यनुप्रासः ॥७९॥ तत्र माधुर्यव्य्ञ्जकैर्वर्णैरुपनागरिकोच्यते । ओजःप्रकाशकैस्तैस्तु परुषा ... उभयत्रापि प्रागुदाहृतम् । ... कोमला परैः ॥ कारिका ८० ॥ परैः शेषैः । तामेव केचित्ग्राम्येति वदन्ति । उदाहरणम् {अपसारस्य घनसारं कुरु हारं दूर एव किं कमलैः । अलमलमालि मृणाकैरिति वदति दिवानिशं बाला ॥३५६[=३४१]॥} <(दामोदरगुप्तऽस्कुट्टनीमत १०२)> ॥८०॥ केषांचिदेता वैदर्भीप्रमुखा रीतयो मताः । एतास्तिस्रो वृत्तयः वामानादीनां मते वैदर्भीगौडीपाञ्चाल्याख्या रीतयो मताः ॥ शाब्दस्तु लाटानुप्रासो भेदे तात्पर्यमात्रतः ॥ कारिका ८१ ॥ शब्दगतोऽनुप्रासः शब्दार्थयोरभेदेऽप्यन्वयमात्रभेदात्लाटजनवल्लभत्वाच्च लाटानुप्रासः । एष पदानुप्रास इत्यन्ये ॥८१॥ पदानां सः ... स इति लाटानुप्रासः । उदाहरणम् {यस्य न सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य । यस्य च सविधे दयिता दवदहनस्तुहिनदीधितिस्तस्य ॥३५७॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा १६१)> ... पदस्यापि ... अपिशब्देन स इति समुच्चीयते । उदाहरणम् {वदनं वरवर्णिन्यास्तस्याः सत्यं सुधाकरः । सुधाकरः क्व नु पुनः कलङ्कविकलो भवेत् ॥३५८॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा १९४)> ... वृत्तावन्यत्र तत्र वा । नाम्नः स वृत्त्यवृत्त्योश्च ... एकस्मिन् समासे भिन्ने वा समासे समासासमासयोर्वा नाम्नः प्रातिपदिकस्य न तु पदस्य सारूप्यम् । उदाहरणम् {सितकरकररुचिरविभा विभाकराकार धरणिधर कीर्तिः । पौरुषकमला कमला सापि तवैवास्ति नान्यस्य ॥३५९ [=३१४]॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा १९५)> ... तदेवं पञ्चधा मतः ॥ कारिका ८२ ॥ अर्थे सत्यर्थभिन्नानां वर्णानां सा पुनः श्रुतिः । यमकं ... समरसमरसोऽयमित्यादावेकेषामर्थवत्त्वे अन्येषामनर्थकत्वे भिन्नार्थानामिति न युज्यते वक्तुमिति अर्थे सतीत्युक्तम् । सेति सरोरस इत्यादिवैलक्षण्येन तेनैव क्रमेण स्थिता । ... पादतद्भागवृत्ति तद्यात्यनेकताम् ॥ कारिका ८३ ॥ प्रथमो द्वितीयादौ द्वितीयस्तृतीयादौ तृतीयश्चतुर्थे प्रथमस्त्रिष्वपीति सप्त । प्रथमो द्वितीये तृतीयश्चतुर्थे प्रथमश्चतुर्थे द्वितीयस्तृतीये, इति द्वे । तदेवं पादजं नवभेदम् । अर्धावृत्तिः श्लोकावृत्तिश्चेति द्वे । द्विधा विभक्ते पादे प्रथमादिपादादिभागः पूर्ववत्द्वितीयादिपादादिभागेषु अन्तभागोऽनन्तभागेष्विति विंशतिर्भेदाः श्लोकान्तरे हि नासौ भागावृत्तिः । त्रिखण्डे त्रिंशत्चतुःखण्डे चत्वारिंशत् । प्रथमपादादिगतान्त्यार्घादिभागो द्वितीयपादादिगते आद्यार्धादिभागे यम्यते इत्याद्यन्वर्थतानुसरणेनानेकभेदम् । अन्तादिकम् । आद्यन्तिकम् । तत्समुच्छयः । मध्यादिकम् । आदिमध्यम् । अन्तमध्यम् । मध्य्ञ्तिकम् । तेषां समुच्चयः । तथा तस्मिन्नेव पादे आद्यादिभागानां मध्यादिभागे अनियते च स्थाने आवृत्तिरिति प्रभूततमभेदम् । तदेतत्काव्यान्तर्गडुभूतमिति नास्य भेदलक्षणं कृतम् । दिङ्मात्रमुदाह्रियते । {सन्नारीभरणोमायमाराध्य विधुशेखरम् । सन्नारीभरणोमायस्ततस्त्वं पृथिवीं जय ॥३६०॥} <(रुद्रटऽस्काव्यालङ्कार १०.२७)> {विनायमेनो नयतासुखादिना विना यमेनोनयता सुखादिना । महाजनोदीयत मानसादरं महाजनोदी यतमानसादरम् ॥३६१॥} <(रुद्रटऽस्काव्यालङ्कार ३.५)> {स त्वारम्भरतोवश्यमबलं विततारवम् । सर्वदा रणमानैषीदवानलसमस्थितः ॥३६२॥} <(रुद्रटऽस्काव्यालङ्कार ३.१८)> {सत्त्वारम्भरतोवश्यमवलम्बिततारवम् । सर्वदारणमानैषी दवानलसमस्थितः ॥३६३॥} <(रुद्रटऽस्काव्यालङ्कार३१९)> {अनन्तमहिमव्याप्तविश्वां वेधा न वेद याम् । या च मातेव भजते प्रणते मानवे दयाम् ॥३६४॥} <(आनन्दवर्धनऽस्देविशतक १)> {यदानतोऽयदा नतो नयात्ययं न यात्ययम् । शिवेहितां शिवे हितां स्मरामितां स्मरामि ताम् ॥३६५॥} <(आनन्दवर्धनऽस्देविशतक ४९)> {सरस्वति प्रसादं मे स्थितिं चित्तसरस्वति । सर स्वति कुरु क्षेत्रकुरुक्षेत्रसरस्वति ॥३६६॥} <(आनन्दवर्धनऽस्देवीशतक ५०)> {ससार साकं दर्पणे कन्दर्पेण ससारसा । शरन्नवाना बिभ्राणा नाविभ्राणा शरन्नवा ॥३६७॥} <(रुद्रटऽस्काव्यालङ्कार ३.३५)> {मधुपराजिपराजितमानीजनमनःसुमनःसुरभि श्रियम् । अभृत वारितवारिजविप्लवं स्फुटितताम्रतताम्रवणं जगत् ॥३६८॥} <(रत्नाकरऽस्हरविजय ३.५७)> एवं वैचित्र्यसहस्रैः स्थितमन्यदुन्नेयम् ॥८३॥ वाच्यभेदेन भिन्ना तद्युगपद्भाषणस्पृशः । श्लिष्यन्ति शब्दाः श्लेषोऽसावक्षरादिभिरष्टधा ॥ कारिका ८४ ॥ {अर्थभेदेन शब्दभेदः} इति दर्शने {काव्यमार्गे स्वरो न गण्यते} इति च नये वाच्यभेदेन भिन्ना अपि शब्दा यत्युगपदुच्चारणेन श्लिष्यन्ति भिन्नं स्वरूपमपह्नुवते स श्लेषः । स च वर्णपदलिङ्गभाषाप्रकृतिप्रत्ययविभक्तिवचन्ञनां भेदादष्टधा । क्रमेणोदाहरणम् [(१) वर्ण] {अलङ्कारः शङ्काकरनरकपालं परिजनो विशीर्णाङ्गो भृङ्गी अव्सु च वृष एको बहुवयाः । अवस्थेयं स्थाणोर्ऽपि भवति सर्वामरगुरोर् विधौ वक्रे मूर्ध्नि स्थितवति वयं के पुनरमी ॥३६९॥} <(सुभाषितरत्नाकर १३४४)> [(२) पद] {पृथुकार्तस्वरपात्रं भूषितनिःशेषपरिजनं देव । विलसत्करेणुगहनं संप्रति सममावयोः सदनम् ॥३७०[=३०६]॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> [(३) लिङ्ग, (८) वचन] {भक्तिप्रह्वविलोकनप्रणयिनी नीलोत्पलस्पर्धिनी ध्यानालम्बनतां समाधिनिरतैर्नीतेहितप्राप्तये । लावण्यस्य महानिधी रसिकतां लक्ष्मीदृशोस्तन्वती युष्माकं कुरुतां भवार्तिशमनं नेत्रे तनुर्वा हरेः ॥३७१॥} <(वल्लभदेवऽस्सुभाषितावलि)> एष वचनश्लेषोऽपि । [(४) भाषा] {महदेसुरसंधम्मे तमवसमासंगमागमाहरणे । हरबहुसरणं तं चित्तमोहमवसर_उमे सहसा ॥३७२॥} [मम देहि रसं धर्मे तमोअशामाशां गमागमाथर नः । हरवधु शरणं त्वं चित्तमोहोऽपसरतु मे सहसा ॥] <(हालऽस्गाथासप्तशती ९९१ ॑ आनन्दवर्धनऽस्देविशतक)> [(५) प्रकृति] {अयं सर्वाणि शास्त्राणि हृदि ज्ञेषु च वक्ष्यति । सामर्थ्यकृदमित्राणां मित्राणां च नृपात्मजः ॥३७३॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> [(६) प्रत्यय] {रजनिरमणमौलेः पादपद्मावलोक क्षणसमयपराप्तापूर्वसंसहस्रम् । प्रमथनिवहमध्ये जातुचित्त्वत्प्रसादाद् अहमुचितरुचिः स्यान्नन्दिता सा तथा मे ॥३७४॥} [(७) विभक्ति] {सर्वस्वं हर सर्वस्य त्वं भवच्छेदतत्परः । नयोपकारसांमुख्यमायासि तनुवर्तनम् ॥३७५॥८४॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> भेदाभावात्प्रकृत्यादेर्भेदोऽपि नवमो भवेत् । नवमोपीत्यपिर्भिन्नक्रमः । उदाहरणम् {योसकृत्परगोत्राणां पक्षच्छेदक्षणक्षमः । शतकोटिदतां बिभ्रद्चिबुधेन्द्रः स राजते ॥३७६॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा २०१)> अत्र प्रकरणादिनियमाभावात्द्वावप्यर्थौ वाच्यौ ॥ ननु स्वरितादिगुणभेदाद्भिन्नप्रयत्नोच्चार्याणां तदभावादभिन्नप्रयत्नोच्चार्याणां च शब्दानां बन्धेऽलङ्कारान्तरप्रतिभोत्पत्तिहेतुः शब्दश्लेषोऽर्थश्लेषश्चेति द्विविधोऽप्यर्थालङ्कारमध्ये परिगणितोऽन्यैरिति कथमयं शब्दालङ्कारः । उच्यते इह दोषगुणालङ्काराणां शब्दार्थगतत्वेन यो विभागः सः अन्वयव्यतिरेकाभ्यामेव व्यवतिष्ठते । तथाहि कष्टवादिगाढत्वाद्यनुप्रासादयः व्यर्थत्वादिप्रौढ्याद्युपमादयस्तद्भावतदभावानुविधायित्वादेव शब्दार्थगतत्वेन व्यवस्थाप्यन्ते । स्वयं च पल्लवाताम्रभास्वत्करविराजिता । इत्यभङ्गः {प्रभातसंध्येवास्वापफललुब्धेहितप्रदा ॥३७७॥} इति सभङ्गः इति द्वावपि शब्दैकसमाश्रयाविति द्वयोरपि शब्दश्लेषत्वमुपपन्नं न त्वाद्यस्यार्थश्लेषत्वम् । अर्थश्लेषस्य तु स विषयः यत्र शब्दपरिवर्तनेऽपि न श्लेषत्वखण्डना । यथा {स्तोकेनोन्नतिमायाति स्तोकेनायात्यधोगतिम् । अहो सुसदृशी वृत्तिस्तुलाकोटेः खलस्य च ॥३७८॥} <(कालिदासऽस्पञ्चस्तवी १.१५०)> न चायमुपमाप्रतिभोत्पत्तिहेतुः श्लेषः अपि तु श्लेषप्रतिभोत्पत्तिहेतुरुपमा । तथापि यथा {कमलमिव मुखं मनोज्ञमेतत्कचतितराम्} इत्यादौ गुणसाम्ये क्रियासाम्ये उभयसाम्ये वा उपमा । तथाऽसकलकलं पुरमेतज्जातं संप्रति सुधांशुबिम्बमिवऽ इत्यादौ शब्दमात्रसाम्येऽपि सा युक्तैव । तथा ह्युक्तं रुद्रटेन {स्फुटमर्थालङ्कारावेतावुपमासमुच्चयौ किं तु । आश्रित्य शब्दमात्रं स्श्मान्यमिहापि संभवतः ॥} इति । <(रुद्रट, काव्यालङ्कार)> न च {कमलमिव मुखम्} इत्यादिः साधारणधर्मप्रयोगशून्य उपमाविषय इति वक्तं युक्तं पूर्णोपमाया निर्विषयत्वापत्तेः ॥ {देव त्वमेव पातालमाशानां त्वं निबन्धनम् । त्वं चामरमरुद्भूमिरेको लोकत्रयात्मकः ॥३७९॥} इत्यादिः श्लेषस्य चोपमाद्यलङ्कारविविक्तोस्ति विषय इति । द्वयोर्योगे संकर एव । उपपत्तिपर्यालोचने तु उपमाया एवायं युक्तो विषयः । अन्यथा विषयापहार एव पूर्णोपमायाः स्यात् । न चऽअबिन्दुसुन्दरी नित्यं गलल्लावण्यबिन्दुकाऽ इत्यादौ विरोधप्रतिभोत्पत्तिहेतुः श्लेषः अपि तु श्लेषप्रतिभोत्पत्तिहेतुर्विरोधः । न ह्यत्रार्थद्वयप्रतिपादकः शब्दश्लेषः द्वितीयार्थस्य प्रतिभातमात्रस्य प्ररोहाभावात् । न च विरोधाभास इव विरोधः श्लेषाभासः श्लेषः । तदेवमादिषु वाक्येषु श्लेषप्रतिभोत्पत्तिहेतुरलङ्कारान्तरमेव । तथा च { सद्वंशमुक्तामणिः ॥३८०॥} <(रुद्रटऽस्काव्यालङ्कार १०.२७)> {नाल्पः कविरिव स्वल्पश्लोको देव महान् भवान् ॥३८१॥} {अनुरागवती संध्या दिवसस्तत्पुरःसरः । अहो दैवगतिश्चित्रा तथापि न समागमः ॥३८२॥} <(आनन्दवर्दनऽस्ध्वन्यालोक १.९)> {आदाय चापमचलं कृत्वाहीनं गुणं विषमदृष्टिः । यश्चित्रमच्युतशरो लक्ष्यमभाङ्क्षीन्नमस्तस्मै ॥३८३॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> इत्यादावेकदेशविवर्तिरूपकश्लेषव्यतिरेकसमासोक्तिविरोधत्वमुचितं न तु श्लेषत्वम् ॥ शब्दश्लेष इति चोच्यते अर्थालङ्कारमध्ये च लक्ष्यते इति कोऽयं नयः । किं च चैचित्र्यमलङ्कार इति य एव कविप्रतिभासंरम्भगोचरस्तत्रेव विचित्रता इति सैवालङ्कारभूमिः । अर्थमुखप्रेक्षित्वमेतेषां शब्दानामिति चेतनुप्रासादीनामपि तथैवेति तेऽप्यर्थालङ्काराः किं नोच्यन्ते । रसादिव्यञ्जकस्वरूपवाच्यविशेषसव्यपेक्षत्वेऽपि ह्यनुप्रासादीनाम् अलङ्कारता । शब्दगुणदोषाणामप्यर्थापेक्षयैव गुणदोषता । अर्थगुणदोषालङ्काराणां शब्दापेक्षयैव व्यवस्थितिरिति तेऽपि शब्दगतत्वेनोच्यन्ताम् । {विधौ वक्रे मूर्ध्नि} इत्यादौ च वर्णादिश्लेषे एकप्रयत्नोच्चार्यत्वेऽर्थश्लेषत्वं शब्दभेदेऽपि प्रसज्यतामित्येवमादि स्वयं विचार्यम् ॥ तच्चित्रं यत्र वर्णानां खड्गाद्याकृतिहेतुता ॥ कारिका ८५ ॥ संनिवेशविशेषेण यत्र न्यस्ता वर्णाः खड्गमुरजपद्माद्याकारमुल्लासयन्ति तच्चित्रं काव्यम् । कष्टं काव्यमेतदिति दिङ्मात्रं प्रदर्श्यते । उदाहरणम् {मारारिशक्ररामेभमुखैरासाररंहसा । सारारब्धस्तवा नित्यं तदार्तिहरणक्षमा ॥३८४॥} <(रुद्रटऽस्काव्यालङ्कार ५.६)> {माता नतानां संघट्टःश्रियां बाधितसंभ्रमा । मान्याथ सीमा रामाणां शं मे दिश्यादुमादिमा ॥३८५॥} <(रुद्रटऽस्काव्यालङ्कार ५.७)> <(खङ्गबन्धः)> {सरला बहुलारम्भतरलालिबलारवा । वारलाबहुलामन्दकरलाबहुलामला ॥३८६॥} <(रुद्रटऽस्काव्यालङ्कार ५.१९)> <(मुरजबन्धः)> {भासते प्रतिभासार रसाभाताहताविभा । भावितात्मा शुभा वादे देवाभा बत ते सभा ॥३८७॥} <(रुय्यकऽसलङ्कारसर्वस्व)> <(पद्मबन्धः)> {रसासार रसा सारसायताक्षक्षतायसा । सातावात तवातासा रक्षतस्त्वस्त्वतक्षर ॥३८८॥} <(रुद्रटऽस्काव्यालङ्कार ३.३९९)> <(सर्वतोभद्रम्)> संभविनोऽप्यन्ये प्रभेदाः शक्तिमात्रप्रकाशका न तु काव्यरूपतां दधतीति न प्रदर्श्यन्ते ॥८५॥ पुनरेक्तवदाभासो विभिन्नाकारशब्दगा । एकार्थतेव ... भिन्नरूपसार्थकानर्थकशब्दनिष्ठमेकार्थत्वेन मुखे भासनं पुनरुक्तवदाभासः । स च ... शब्दस्य ... सभङ्गाभङ्गरूपकेवलशब्दनिष्ठः । उदाहरणम् {अरिवधदेहशरीरः सहसा रथिसूततुरगपादातः । भाति सदानत्यागः स्थिरतायामवनितलतिलकः ॥३८९॥} <(उद्भटऽस्काव्यालङ्कारसारसङ्ग्रह १)> {चकासत्यङ्गनारामाः कौतुकानन्दहेतवः । तस्य राज्ञः सुमनसो विबुधाः पार्श्ववर्तिनः ॥३९०॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा २०७)> ... तथा शब्दार्थयोरयम् ॥ कारिका ८६ ॥ उदाहरणम् {तनुवपुरजघन्योऽसौ करिकुञ्जररुधिररक्तखरनखरः । तेजोधाम महःपृथुमनसामिन्द्रो हरिर्जिष्णुः ॥३९१॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्रैकस्मिन् पदे परिवर्तिते नालङ्कार इति शब्दाश्रयः अपरस्मिंस्तु परिवर्तितेऽपि स न हीयते इत्यर्थनिष्ठ इत्युभयालङ्कारोऽयम् ॥८६॥ इति काव्यप्रकाशे शब्दालङ्कारनिर्णयो नाम नवम उल्लासः ॥ ========================================================= अथ दशम उल्लासः अर्थालङ्कारानाह साधर्म्यमुपमा भेदे ... उपमानोपमेययोरेव न तु कार्यकारणादिकयोः साधर्म्यं भवतीति तयोरेव समानेन धर्मेण संबन्ध उपमा । ... पूर्णा लुप्ता च ... उपमानोपमेयसाधारणधर्मोपमाप्रतिपादकानामुपादाने पूर्णा । एकस्य द्वयोस्त्रयाणां वा लोपे लुप्ता ॥ ... साग्रिमा । श्रौत्यार्थी च भवेद्वाक्ये समासे तद्धिते तथा ॥ कारिका ८७ ॥ अग्रिमा पूर्णा । यथेवादिशब्दा यत्परास्तस्यैवोपमानताप्रतीतिरिति यद्यप्युपमानविशेषणान्येते तथापि शब्दशक्तिमहिम्ना श्रुत्यैव षष्ठीवत्संबन्धं प्रतिपादयन्तीति तत्सद्भावे श्रौती उपमा । तथैव {तत्र तस्येव} इत्यनेनेवार्थे विहितस्य वतेरुपादाने ॥ {तेन तुल्यं मुखम्} इत्यादावुपमेये एव {तत्तुल्यमस्य} इत्यादौ चोपमाने एव {इदं च तच्च तुल्यम्} इत्युभयत्रापि तुल्यादिशब्दानां विश्रान्तिरिति साम्यपर्यालोचनया तुल्यताप्रतीतिरिति साधर्म्यस्यार्थत्वात्तुल्यादिशन्दोपादाने आर्थी तद्वत्ऽतेन तुल्यं क्रिया चेद्वतिःऽ इत्यनेन विहितस्य वतेः स्थितौ । {इवेन नित्यसमासो विभक्त्यपोलः पूर्वपदकृतिस्वरत्वं च} इति नित्यसमासे इवशब्दयोगे समासगा ॥ क्रमेणोदाहरणम् {स्वप्नेऽपि समरेषु त्वां विजयश्रीर्न मुञ्छति । प्रभावप्रभवं कान्तं स्वाधीनपतिका यथा ॥३९२॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> {चकितहरिणलोललोचनायाः क्रुधि तरुणारुणतारहारिकान्ति । सरसिजमिदमाननं च तस्याः सममिति चेतसि संमदं विधत्ते ॥३९३॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा २११)> {अत्यायतैर्नियमकारिभिरुद्धतानां दिव्यैः प्रभाभिरनपायमयैरुपायैः । शौरिर्भुजैरिव चतुर्भिरदः सदा यो लक्ष्मीविलासभवनैर्भुवनं बभार ॥३९४॥} <(शिवस्वामिन्ऽस्कप्फिनाभ्युदय १.३९)> {अवितथमनोरथपथप्रथनेषु प्रगुण गरिमगीतश्रीः । सुरतरुसदृशः स भवानभिलषणीयः क्षितीश्वरो न कस्य ॥३९५॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> {गाम्भीर्यगरिमा तस्य सत्यङ्गङ्गाभुजङ्गवत् । दुरालोकः स समरे निदाघाम्बररत्नवत् ॥३९६॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> स्वाधीनपतिका कान्तं भजमाना यथां लोकोत्तरचमत्कारभूः तथा जयश्रीस्त्वदासेवनेनेत्यादिना प्रतीयमानेन विना यद्यपि नोक्तेर्वैचित्र्यम् । वैचित्र्यं चालङ्कारः । तथापि न ध्वनिगुणीभूतव्यङ्ग्यव्यवहारः । न खलु व्यङ्ग्यसंस्पर्शपरामर्शादत्र चारुताप्रतीतिः । अपि तु वाच्य वैचित्यप्रतिभासादेव ॥ रसादिस्तु व्यङ्ग्योर्ऽर्थालङ्कारान्तरं च सर्वत्राव्यभिचारीत्यगणयित्वैव तदलङ्कारा उदाहृताः । तद्रहितत्वेन तु उदाह्रियमाणा विरसतामावहन्तीति पूर्वापरचिरुद्धाभिधानमिति न चोदनीयम् ॥८७॥ तद्वद्धर्मस्य लोपे स्यान्न श्रौती तद्धिते पुनः । धर्मः साधारणः । तद्धिते कल्पवादौ त्वार्थ्येव ॥ तेन पञ्च ॥ उदाहरणम् {धन्यस्यानन्यसामान्यसौजन्योत्कर्षशालिनः । करणीयं वचश्चेतः सत्यं तस्यामृतं यथा ॥३९७॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> {आकृष्टकरवालोऽसौ संपराये परिभ्रमन् । प्रत्यर्थिसेनया दृष्टः कृतान्तेन समः प्रभुः ॥३९८॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> {करवाल इवाचारस्तस्य वागमृतोपमा । विषकल्पं मनो वेत्सि यदि जीवसि तत्सखे ॥३९९॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> उपमानानुपादाने वाक्यगाथ समासगा ॥ कारिका ८८ ॥ {स_अलकरणपरवीसामसिरिविअरणं ण सरसकव्वस्स । दीस_इ अह वा णिसम्म_इ सरिसं अंसंसमेत्तेण ॥४००॥} [सकलकरणपरचिश्रामश्रीवितरणं न सरसकाव्यस्य । दृश्यतेऽथ वा निशम्यते सदृशमंशांशमात्रेण ॥] <(हालऽस्गाथासप्तशती ९९५)> कव्वस्सेत्र्यत्र कव्वसममिति सरिसमित्यत्र च णूणमिति पाठे एषैव समासगा ॥८८॥ वादेर्लोपे समासे सा कर्माधारक्यचि क्यङि । कर्मकर्त्रोर्णमुलि ... वाशब्दः उपमाद्योतक इति । वादेरुपमाप्रतिपादकस्य लोपे षट्समासेन कर्न्णोऽधिकरणाच्चोत्पन्नेन क्यचा कर्तुः क्यङा कर्मकर्त्रोरुपपदयोर्णमुला च भवेत् ॥ उदाहरणम् {ततः कुमुदनाथेन कामिनीगण्डपाण्डुना । नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलङ्कृता ॥४०१॥} <(महाभारत द्रो.[१८४४६])> तथा {असितभुजगभीषणासिपत्रो रुहरुहिकाहितचित्ततूर्णचारः । पुलकिततनुरुत्कपोलकान्तिः प्रतिभटविक्रमदर्शनेयमासीत् ॥४०२॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> {पौरं सुतीयति जनं समरान्तरेसा वन्तःपुरीयति विचित्रचरित्रचुञ्चुः । नारीयते समरसीम्नि कृपाणपाणेर् आलोक्य तस्य चरितानि सपत्नसेना ॥४०३॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा २१७)> {मृधे निदाघघर्मांशुदर्शं पश्यन्ति तं परे । स पुनः पार्थसंचारं संचरत्यवनीपतिः ॥४०४॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा २१८)> ... एतद्द्विलोपे क्विप्समासगा ॥ कारिका ८९ ॥ एतयोर्ध्र्मवाद्योः । उदाहरणम् {सविता विधवति विधुरपि सवितरति तथा दिनन्ति यामिन्यः । यामिनयन्ति दिनानि च सुखदुःखवशीकृते मनसि ॥४०५॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा २१९)> {परिपन्थिमनोज्यशतैरपि दुराक्रमः । संपरायप्रवृत्तौसौ राजते राजकुञ्जरः ॥४०६॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> ॥८९॥ धर्मोपमानयोर्लोपे वृत्तौ वाक्ये च दृश्यते । {टुटुण्णन्तो मरिहिसि कण्टअकलिआइं केऐवणाइम् । मालैकुसुमसरिच्छं भमर भमन्तो ण पाविहिसि ॥४०७॥} [टुण्टुणायमानो मरिष्यसि कण्टककलितानि केतकीवनानि । मालतीकुसुमसदृक्षं भ्रमर भ्रमन्न प्राप्स्यसि ॥] <(हालऽस्गाथासप्तशती ९७९ ॑ अभिनवगुप्तऽस्ध्वन्यालोकलोचन)> कुसुमेण सममिति पाठे वाक्यगा । क्यचि वाद्युपमेयासे ... आसे निरासे । {अरातिविक्रमालोकविकस्वरविलोचनः । कृपाणोदग्रदोर्दण्डः स सहस्रायुधीयति ॥४०८॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्रात्मा उपमेयः । ... त्रिलोपे च समासगा ॥ कारिका ९० ॥ त्रयाणां वादिधर्मोपमानानाम् । उदाहरणम् {तरुणमनि कृतावलोकना ललितविलासवितीर्णविग्रहा । स्मरशरविसराचितान्तरा मृगनयना हरते मुनेर्मनः ॥४०९॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र सप्तम्युपमानेत्यादिना यदा समासलोपौ भवतः । तदेदमुदाहरणम् ॥ क्रूरस्याचारस्यायःशूलतयाध्यवसायादयःशूलेनान्विच्छति {आयःशूलिकः} इत्यतिशयोक्तिर्न तु क्रूराचारोपमेयतैक्ष्ण्यधर्मवादीनां लोपे त्रिलोपेऽयमुपमा । एवमेकोनविंशतिर्लुप्ताः पूर्णाभिः सह पञ्चविंशतिः ॥ {अनयेनेव राज्यश्रीर्दैन्येनेव मनस्विता । मम्लौ साथ विषादेन पद्मिनीव हिमाम्भसा ॥४१०॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा २२२)> इत्यभिन्ने साधारणे धर्मे ॥ {ज्योत्स्नेव नयनानन्दः सुरेव मदकारणम् । प्रभुतेव समाकृष्टसर्वलोका नितम्बिनी ॥४११॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> इत्य्भिन्ने च तस्मिनेकस्यैव बहूपमानोपादाने मालोपमा । यथोत्तरमुपमेयस्योपमानत्वे पूर्ववदभिन्नधर्मत्वे {अनवरतकनकवितरणजललवभृतकरतरङ्गितार्थिततेः । भणितिरिव मतिर्मतिरिव चेष्टा चेष्टेव कीर्तिरतिविमला ॥४१२॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> {मतिरिव मूर्तिर्मधुरा मूर्तिरिव सभा प्रभावचिता । तस्य सभेव जयश्रीः शक्या जेतुं नृपस्य न परेषाम् ॥४१३॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा २२३)> इत्यादिका रशनोपमा च न लक्षिता एवंविधवैचित्र्यसहस्रसंभवात् उक्तभेदानतिक्रमाच्च ॥९०॥ उपमानोपमेयत्वे एकस्यैवैकवाक्यगे । अनन्वयः ... उपमानान्तरसंबन्धाभावोऽनन्वयः । उदाहरणम् {न केवलं भाति नितान्तकान्तिर्नितम्बनी सैव नितम्बिनीव । यावद्विलासायुधलास्यवासास्ते तद्विलासा इव तद्विलासाः ॥४१४॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> ... विपर्यास उपमेयोपमा तयोः ॥ कारिका ९१ ॥ तयोः उपमानोपमेययोः । परिवृत्तिः अर्थात्वाक्यद्वये । इतरोपमानव्यवच्छेदपरा उपमेयेनोपमा इति उपमेयोपमा । उदाहरणम् {कमलेव मतिर्मतिरिव कमला तनुरिव विभा विभेव तनुः । धरणीव धृतिर्धृतिरिव धरणी सततं विभाति बत यस्य ॥४१५॥ <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा २२५)> ॥९१॥ संभावनमथोत्प्रेक्षा प्रकृतस्य समेन यत् । समेन उपमानेन । उदाहरणम् {उन्मेषं यो मम न सहते जातिवैरी निशायाम् इन्दोरिन्दीवरदलदृशा तस्य सौन्दर्यदर्पः । नीतिः शान्तिं प्रसभमनया वक्त्रकान्त्येति हर्षाल् लग्ना मन्ये ललिततनु ते पादयोः पद्मलक्ष्मीः ॥४१६॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> {लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिर्विफलतां गता ॥४१७॥} <(शूद्रकऽस्मृच्छकटिका १.३२)> इत्यादौ व्यापनादि लेपनादिरूपतया संभावितम् ॥ ससंदेहस्तु भेदोक्तौ तदनुक्तौ च संशयः ॥ कारिका ९२ ॥ भेदोक्तौ यथा {अयं मार्तण्डः किं स खलु तुरगैः सप्तभिरितः कृशानुः किं सर्वाः प्रसरति दिशो नैष नियतम् । कृतान्तः किं साक्षान्महिषवहनोऽसाविति चिरं समालोक्याजौ त्वां विदधति विकल्पान् प्रतिभटाः ॥४१८॥} <(रुय्यकऽसलङ्कारसर्वस्व)> भेदोक्तावित्यनेन न केवलमयं निश्चयगर्भो यावन्निश्चयान्तोऽपि संदेहः स्वीक्र्टः । यथा {इन्दुः किं क्व कलङ्कः सरसिजमेतत्किमम्बु कुत्र गतम् । ललितसविलासवचनैर्मुखमिति हरिणाक्षि निश्चितं परतः ॥४१९॥} <(रुय्यकऽसलङ्कारसर्वस्व)> किं तु निश्चयगर्भ इव नात्र निश्चयः प्रतीयमान इति उपेक्षितो भट्टोद्भटेन । तदनुक्तौ यथा {अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥४२०॥} <(कालिदासऽस्विक्रमोर्वशीय १.८)> ॥९२॥ तद्रूपकमभेदो य उपमानोपमेययोः । अतिसाम्यादनपह्नुतभेदयोः अभेदः । समस्तवस्तुचिष्यं श्रौता आरोपिता यदा ॥ कारिका ९३ ॥ आरोपविषया इव आरोप्यमाणाः यदा शब्दोपात्ताः तदा समस्तानि वस्तूनि विषयोस्येति समस्तवस्तुविषयम् । आरोपिता इति बहुवचनमविवक्षितम् । यथा {ज्योत्स्नाभस्मच्छुरणधवला बिभ्रती तारकास्थी न्यन्तर्धानव्यसनरसिका रात्रिकापालिकीयम् । द्वीपाद्द्वीपं भ्रमति दधती चन्द्रमुद्राकपाले न्यस्तं सिद्धाञ्जनपरिमलं लाञ्छनस्यच्छलेन ॥४२१॥} <(रुय्यकऽसलङ्कारसर्वस्व)> अत्र पादत्रये, अन्तर्धानव्यसनरसिकत्वमारोपितधर्म एवेति रूपकपरिग्रहे साधकमस्तीतितत्संकराशङ्का न कार्या ॥९३॥ श्रौता आर्थश्च ते यस्मिन्नेकदेशविवर्ति तत् । केविदारोप्यमाणाः शब्दोऽपात्ताः केचिदर्थसामर्थ्यादवसेयाः इत्येकदेशविवर्तनातेकदेशविवर्ति । यथा {जस्स रणन्ते_उर_ए करे कुणन्तस्स मण्डलग्गल_अम् । रससंमुही वि सहसा परमुही हो_इ रि_उसेणा ॥४२२॥} [यस्य रणान्तःपुरे करे कुर्वतो मण्डलाग्रलताम् । रससंमुख्यपि सहसा पराञ्मुखी भवति रिपुसेना ॥] <(हालऽस्गाथासप्तशती ९८०)> अत्र रणस्यान्तःपुरत्वमारोप्यमाणं शब्दोऽपात्तं मण्डलाग्रलतायाः नायिकात्वं रिपुसेनायाश्च प्रतिनायिकात्वमर्थसामर्थ्यादवसीयते इति एकदेशे विशेषेण वर्तनादेकदेशविवर्ति । साङ्गमेतत्... उक्तद्विभेदं सावयवम् ॥ ... निरङ्गं तु शुद्धं ... यथा {कुरङ्गीवाङ्गानि स्तिमितयति गीतध्वनिषु यत् सखीं कान्तोदन्तं श्रुतमपि पुनः प्रश्नयति यत् । अनिद्रं यच्चान्तः स्वपिति तदहो वेद्म्यभिनवां प्रवृत्तोऽस्याः सेक्तुं हृदि मनसिजः प्रेमलतिकाम् ॥४२३॥} <(अभिनवगुप्तऽस्ध्वन्यालोकलोचन ॑ अभिनवगुप्तऽसभिनवभारती)> ... माला तु पूर्ववत् ॥ कारिका ९४ ॥ मालोपमायामिवैकस्मिन् बहव आरोपिताः । यथा {सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्गमः कान्तेः कार्मणकर्म नर्मरहसामुल्लासनावासभूः । विद्या वक्रगिरां विधेरनवधिप्रावीण्यसाक्षात्क्रिया वाणाः पञ्चशिलीमुखस्य ललनाचूडामणिः सा प्रिया ॥४२४॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> ॥९४॥ नियतारोपणोपायः स्यादारोपः परस्य यः । तत्परंपरितं श्लिष्टे वाचके भेदभाजि वा ॥ कारिका ९५ ॥ यथा {विद्वन्मानसहंस वैरिकमलासंकोचदीप्तद्युते दुर्गामार्गणनीललोहित समित्स्वीकारवैश्वानर । सत्यप्रीतिविधानदक्ष विजयप्राग्भावभीम प्रभो साम्राज्यं वरवीर वत्सरशतं वैरिञ्चमुच्चैः क्रियाः ॥४२५॥} <(रुय्यकऽसलङ्कारसर्वस्व)> अत्र मानसमेव मानसं कमलायाः संकोच एव कमलानामसंकोचः दुर्गाणाममार्गणमेव दुर्गायाः मार्गणं समितां स्वीकार एव समिधां स्वीकारः सत्ये प्रतीतिरेव सत्यामप्रीतिः विजयः परपराभव एव विजयोर्जुनः एवमारोपणनिमित्तो हंसादेरारोपः । यद्यपि शब्दार्थालङ्कारोऽयमित्युक्तं वक्ष्यते च तथापि प्रसिद्ध्यनुरोधादत्रोक्तः । एकदेशविवर्ति हीदमन्यैरभिधीयते ॥ भेदभाजि यथा {आलानं जयकुञ्जरस्य दृषदां सेतुर्विपद्वारिधेः पूर्वाद्रिः करवालचण्डमहसो लीलोपधानं श्रियः । संग्रामामृतसागरप्रमथनक्रीडाविधौ मन्दरो राजन् राजति वीरवैरिवनितावैधव्यदस्ते भुजः ॥४२६॥} <(महिमभट्टऽस्व्यक्तिविवेक)> अत्र जयादेर्भिन्नशब्दवाच्यस्य कुञ्जरत्वाद्यारोपे भुजस्य आलानत्वाद्यारोपो युज्यते । {अलौकिकमहालोकप्रकाशितजगत्त्रयः । स्तूयते देव सद्वंशमुक्तारत्नं न कैर्भवान् ॥४२७॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> {निरवधि च निराश्रयं च यस्य स्थितमनिवर्तितकौतुकप्रप्ञ्चम् । प्रथम इह भवान् स कूर्ममूर्तिर्जयति चतुर्दशलोकवल्लिकन्दः ॥४२८॥} <(वामनऽस्काव्यालङ्कारसूत्रवृत्ति ३,४.३२)> इति च अमालारूपोअकमपि परंपरितं द्रष्टव्यम् ॥ {किसलयकरैर्लतानां करकमलैः कामिनां मनो जयति । नलिनीनां कमलमुखैः मुखेन्दुभिर्योषितां मदनः ॥४२९॥} <(रुद्रटऽस्काव्यालङ्कार ८.५०)> इत्यादि रशनारूपकं न वैचित्र्यवदिति न लक्षितम् ॥९५॥ प्रकृतं यन्निषिध्यान्यत्साध्यते सा त्वपह्नुतिः । उपमेयमसत्यं कृत्वोपमानं सत्यतया यत्स्थाप्यते सा तु अपह्नुतिः उदाहरणम् {अवाप्तः प्रागल्भ्यं परिणतरुचः शैलतनये कलङ्को नैवायं विलसति शशाङ्कस्य वपुषि । अमुष्येयं मन्ये विगलदमृतस्यन्दशिशिरे रतिश्रान्ता शेते रजनिरमणी गाढमुरसि ॥४३०॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> इत्थं वा {बत सखि कियदेतत्पश्य वैरं स्मरस्य प्रियविरहकृशेस्मिन् रागिलोके तथा हि । उपवनसहकारोद्भासिभृङ्गच्छलेन प्रतिविशिखमनेनोट्टङ्कितं कालकूटम् ॥४३१॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र हि न सभृङ्गाणि सहकाराणि अपि तु सकालकूटा शरा इति प्रतीतिः । एवं वा {अमुष्मिंल्लावण्यामृतसरसि नूनं मृगदृशः स्मरः शर्वप्लुष्टः पृथुजघनभागे निपतितः । यदङ्गाङ्गारणां प्रथमपिशुना नाभिकुहरे शिखा धूमस्येयं परिणंमति रोमावलिवपुः ॥४३२॥} <(वल्लभदेवऽस्सुभाषितावलि, बोम्बय्सन्क्रितन्द्प्रक्रित्सेरिएस्. १५५८)> अत्र न रोमावलिः धूमशिखेयमिति प्रतिपत्तिः ॥ एवमियं भङ्ग्यन्तरैरप्यूह्या ॥ श्लेषः स वाक्य एकस्मिन् यत्रानेकार्थता भवेत् ॥ कारिका ९६ ॥ एकार्थप्रतिपादकानामेव शब्दानां यत्रानेकोऽर्थः स श्लेषः । उदाहरणम् {उदयमयते दिङ्मालिन्यं निराकुरुतेतरां नयति निधनं निद्रामुद्रां प्रवर्तयति क्रियाः । रचयतितरां स्वैराचारप्रवर्तनकर्तनं बत बत लसत्तेजःपुञ्जो विभाति विभाकरः ॥४३३॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा २३७)> अत्राभिधाया अनियन्त्रणात्द्वावप्यर्कभूपौ वाच्यौ ॥९६॥ परोक्तिर्भेदकैः श्लिष्टैः समासोक्तिर्... प्रकृतार्थप्रतिपादकवाक्येन श्लिष्टविशेषणमाहात्म्यात्न तु विशेष्यस्य सामर्थ्यादपि यतप्रकृतस्यार्थस्याभिधानं सा समासेन संक्षेपेणार्थद्वयकथनात्समासोक्तिः । उदाहरणम् {लहिऊण तुज्झ बाहुप्फंसं जीए स को वि उल्लासो । जअलच्छी तुब विरहे ण हुज्जला दुब्बला णं सा ॥४३४॥} [लब्ध्वा तव बाहुस्पर्श यस्याः स कोऽप्युल्लासः । जयलक्ष्मीस्तव विरहे न खलूज्ज्वला दुर्बला ननु सा ॥] <(हालऽस्गाथासप्तशती, निर्नय सगर्प्रेस्स्. ४२८)> अत्र जयलक्ष्मीशब्दस्य केवलं कान्तावाचकत्वं नास्ति ॥ ... निदर्शना । अभवन्वस्तुसंबन्ध उपमापरिकल्पकः ॥ कारिका ९७ ॥ निदर्शनं दृष्टान्तकरणम् । उदाहरणम् {क्व सूर्यप्रभावो वंशः क्व चाल्पविषया मतिः । तितीर्षुर्दुस्तरं मोहादुडुपेनास्मि सागरम् ॥४३५॥} <(कालिदासऽस्रघुवंश१२)> अत्र उडुपेन सागरतरणमिव मन्मत्या सूर्यवंशवर्णनमित्युपमायां पर्यवस्यति । यथा वा {उदयति विततोर्ध्वरश्मिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम् । वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम् ॥४३६॥} <(माघऽस्सिशुपालवध, निर्नय सगर्प्रेस्स्. ४.२०)> अत्र कथ्मन्यस्य लीलामन्यो वहतीति तत्सदृशीमित्युपमायां पर्यवसानम् । {दोर्भ्यां तितीर्षति तरङ्गवतीभुजङ्गम् आदातुमिच्छति करे हरिणाङ्कबिम्बम् । मेरुंलिलङ्घयिषति ध्रुवमेष देव यस्ते गुणान् गदितुमुद्यममादधति ॥४३७॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा २४१)> इत्यादौ मालारूपाप्येषा द्रष्टव्या ॥९७॥ स्वस्वहेत्वन्वयस्योक्तिः क्रिययैव च सापरा । क्रिययैव स्वस्वरूपस्वकारणयोः संबन्धो यदवगम्यते सा अपरा निदर्शना । यथा {उन्नतं पदमवाप्य यो लघुहेलयैव पतेदिति ब्रुवन् । शैलशेखरगतो दृषत्कणश्चारुमारुतधुतः पतत्यधः ॥४३८॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा २४२)> अत्र पातक्रियया पतनस्य लाघवे सति उन्नतपदप्राप्तिरूपस्य च संबन्धः ख्याप्यते ॥ अप्रस्तुतप्रशंसा या सा सैव प्रस्तुताश्रया ॥ कारिका ९८ ॥ अप्राकरणिकस्याभिधानेन प्राकरणिकस्याक्षेपोऽप्रस्तुतप्रशंसा ॥९८॥ कार्ये निमित्ते सामान्ये विशेषे प्रस्तुते सति । तदन्यस्य वचस्तुल्ये तुल्यस्येति च पञ्चधा ॥ कारिका ९९ ॥ तदन्यस्य कारणादेः । क्रमेणोदाह्यणम् {याता किं न मिलन्ति सुन्दरि पुनश्चिन्ता त्वया मत्कृते नो कार्या नितरां कृशासि कथयत्येवं सबाष्पे मयि । लज्जामन्थरतारकेण निपतत्पीताश्रुणा चक्षुषा दृष्ट्वा मां हसितेन भाविमरणोत्साहस्तया सूचितः ॥४३९॥} <(अमरुशतक १०)> अत्र प्रस्थानात्किमिति निवृत्तोऽसीति कार्ये पृष्टे कारणमभिहितम् । {राजन्राजसुता न पाठयति मां देव्योऽपि तूष्णीं स्थिताः कुब्जे भोजय मां कुमारसचिवैर्नाद्यापि किं भुज्यते । इत्थं नाथ शुकस्तवारिभवने मुक्तोध्वगैः पञ्जराच् चित्रस्थानवलोक्य शून्यवलभावेकैकमाभाषते ॥४४०॥} <(रुय्यकऽसलङ्कारसर्वस्व)> अत्र प्रस्थानोद्यतं भवन्तं ज्ञात्वा सहसैव त्वदरयः पलाय्य गताः इति कारणे प्रस्तुते कार्यमुक्तम् । {एतत्तस्य मुखात्कियत्कमलिनीपत्रे कणं वारिणो यन्मुक्तामणिरित्यमंस्त स जडःशृण्वन्यदस्मादपि । अङ्गुल्यग्रलघुक्रियाप्रविलयिन्यादीयमाने शनैः कुत्रोड्डीय गतो ममेत्यनुदिनं निद्राति नान्तःशुचा ॥४४१॥} <(भल्लटशतक ९४)> अत्रास्थाने जडानां ममत्वसंभावना भवतीति सामान्ये प्रस्तुते विशेषः कथितः । {सुहृद्वधूबाष्पजलप्रमार्जनं करोति वैरप्रतियातनेन यः । स एव पूज्यः स पुमान्स नीतिमान्सुजीवितं तस्य स भाजनं श्रियः ॥४४२॥} <(उद्भटऽस्काव्यालङ्कारसारसङ्ग्रह)> अत्रऽकृष्णं निहत्य नरकासुरवधूनां यदि दुःखं प्रशमयसि तत्त्वमेव श्लाघ्यःऽ इति विशेषे प्रकृते सामान्यमभिहितम् । तुये प्रस्तुते तुल्याभिधाने त्रयः प्रकाराः । श्लेषः समासोक्तिः सादृश्यमात्रं वा तुल्यात्तुल्यस्य ह्याक्षेपे हेतुः । क्रमेणोदाहरणम् {पुंस्त्वादपि प्रविचलेत्यदि यद्यधोऽपि यायाद्यदि प्रणयने न महानपि स्यात् । अभ्युद्धरेत्तदपि विश्वमितीदृशीयं केनापि दिकोरकटिता पुरुषोत्तमेन ॥४४३॥} <(भल्लटशतक ७९)> {येञास्यभ्युदितेन चन्द्र गमितः क्लान्तिं रवौ तत्र ते युज्येत प्रतिकर्तुमेव न पुनस्तस्यैव पादग्रहः । क्षीणेनैतदनुष्ठितं यदि ततः किं लज्जसे नो मनाग् अस्त्वेवं जडधामता तु भवतो यद्व्योम्नि विस्फूर्जसे ॥४४४॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> {आदाय वारि परितः सरितां मुखेभ्यः किं तावदर्जितमनेन दुरर्णवेन । क्षारीकृतं च वडवादहने हुतं च पातालकुक्षिकुहरे विनिवेशितं च ॥४४५॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> इयं च काचित्वाच्ये प्रतीयमानार्थानध्यारोपेणैव भवति । यथा {अब्धेरम्भः स्थगितभुवनाभोगपातालकुक्षेः पोतोपाया इह हि बहवो लङ्घनेऽपि क्षमन्ते । आहो रिक्तः कथमपि भवेदेष दैवात्तदानीं को नाम स्यादवटकुहरालोकनेऽप्यस्य कल्पः ॥४४६॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> क्वचिदध्यारोपेणैव । यथा {कस्त्वं भोः कथयामि दैवहतकं मां विद्धि शाखोटकं वैराग्यादिव वक्षि साधु विदितं कस्मादिदं कथ्यते । वामेनात्र वटस्तमध्वगजनः सर्वात्मना सेवते न च्छायापि परोपकारकरणे मार्गस्थितस्यापि म् ।४४७॥} <(अभिनवगुप्तऽस्ध्वन्यालोकलोचन ३.५१)> क्वचिदंशेष्वध्यारोपेण । यथा {सोऽपूर्वो रसनाविपर्ययविधिः तत्कर्णयोश्चापलं दृष्टिः सा मदविस्मृतस्वपरदिक्किं भूयसोक्तेन वा । सर्वं विस्मृतवानसि भ्रमर हे यद्वारणोऽद्याप्यसौ अन्तःशून्यकरो निषेव्यत इति भ्रातः क एष ग्रहः ॥४४८॥} <(भल्लटशतक १८)> अत्र रसनावपर्यासः शून्यकर्त्वं च भ्रमरस्यासेवने न हेतुः कर्णचापलं तु हेतुः मदः प्रत्युत सेवते निमित्तम् ॥९९॥ निगीर्याध्यवसानं तु प्रकृतस्य परेण यत् । प्रस्तुतस्य यदन्यत्वं यद्यर्थोक्तौ च कल्पनम् ॥ कारिका १०० ॥ कार्यकारणयोर्यश्च पौर्वापर्यविपर्ययः । विज्ञेयातिशयोक्तिः सा ... उपमानेनान्तर्निगीर्णस्योपमेयस्य यदध्यवसानं सैका । यथा {कमलमनम्भसि कमले च कुबलये तानि कनकलतिकायाम् । सा च सुकुमारसुभगेत्युत्पातपरंपरा केयम् ॥४४९॥} <(रुय्यकऽसलङ्कारसर्वस्व)> अत्र मुखादि कमलादिरूपतयाध्यवसितम् । यच्च तदेवान्यत्वेनाध्यवसीयते सा अपरा । यथा {अण्णं लडहत्तण_अं अण्णा वि_अ का वि वत्तणच्छा_आ । सामा सामण्णप_आव_इणो रेहच्चि_अ ण हो_इ ॥४५०॥} [अन्यत्सौकुमार्यमन्यैव च कापि वर्तनच्छाया । श्यामा सामान्यप्रजापतेः रेक्षैव च न भवति ॥] <(हालऽस्गाथासप्तशती ९६९)> (अर्थातसंभविनोऽर्थस्य) सा तृतीया । यथा {राकायामकलङ्कं चेदमृतांशोर्भवेद्वपुः । तस्या मुखं तदा साम्यपराभवमवाप्नुयात् ॥४५१॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> कारणस्य शीघ्रकारितां वक्तुं कार्यस्य पूर्वमुक्तौ चतुर्थी । यथा {हृदयमधिष्ठितमादौ मालत्याः कुसुमचापबाणेन । चरमं रमणीवल्लभ लोचनविषयं त्वया भजता ॥४५२॥} <(दामोदरगुप्तऽस्कुट्टनीमत ९६)> ... प्रतिवस्तूपमा तु सा ॥ कारिका १०१ ॥ सामान्यस्य द्विरेकस्य यत्र वाक्यद्वये स्थितिः । साधारणो धर्मः उपमेयवाक्ये उपमानवाक्ये च कथितपदस्य दुष्टतयाभिहितत्वात्शब्दभेदेन यतुपादीयते सा वस्तूनो वाक्यार्थस्योपमानत्वात्प्रतिवस्तूपमा । यथा {देवीभावं गमिता परिवारपदं कथं भजत्वेषा । न खलु परिभोगयोग्यं दैवतरूपाङ्कितं रत्नम् ॥४५३॥} <(वामनऽस्काव्यालङ्कारसूत्रवृत्ति ४,२.४)> {यदि दहत्यनलोऽत्र किमद्भुतं यदि च गौरवमद्रिषु किं ततः । लवणमम्बु सदैव महोदधेः प्रकृतिरेव सतामविषादिता ॥४५४[=२७२]॥} <(आनन्दवर्धनऽस्देविशतक)> इत्यादिका मालाप्रतिवस्तूपमा द्रष्टव्या । एवमन्यत्राप्यनुसर्तव्यम् ॥ दृष्टान्तः पुनरेतेषां सर्वेषां प्रतिबिम्बनम् ॥ कारिका १०२ ॥ एतेषां साधारणधर्मादीनां दृष्टोऽन्तो निश्चयो यत्र स दृष्टान्तः । {त्वयि दृष्ट एव तस्या निर्वाति मनो मनोभवज्वलितम् । आलोके हि हिमांशोर्विकसति कुसुमं कुमुद्वत्याः ॥४५५॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा २५१)> एष साधर्म्येण । वैधर्म्येण तु {तवाहवे साहसकर्मशर्मणः करं कृपाणान्तिकमानिनीषतः । भटः परेषां विशरारुतामगुः दधत्यवाते स्थिरतां हि पांसवः ॥४५६॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> ॥१००१०२॥ सकृद्वृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम् । सैव क्रियासु बह्वीषु कारकस्येति दीपकम् ॥ कारिका १०३ ॥ प्राकरणिकाप्राकरणिकानामर्थातुपमानोपमेयानां धर्मः क्रियादिः एकवारमेव यतुपादीयते ततेकस्थस्यैव समस्तवाक्यदीपनाद्दीपकम् । यथा {किवणाणं धणं णागाणं फणमणी केशरा_इं सीहाणम् । कुलबालि_आणं त्थण_आ कुत्तो छिप्पन्ति अमु_आणम् ॥४५७॥} [कृपणानां धनं नागानां फणमणिः केसरा सिंहानाम् । कुलबालिकानां स्तनाः कुतः स्पृश्यन्तेऽमृतानाम् ॥] <(हालऽस्गाथासप्तशती, निर्नय सगर्प्रेस्स्. ९७६)> कारकस्य च बह्वीषु क्रियासु सकृद्वृत्तिदीर्पकम् । यथा {स्विद्य[त्]इ कूणति वेल्लति विचलति निमिषति विलोकयति तिर्यक् । अन्तर्नन्दति चुम्बतुमिच्छति नवपरिणया वधूः शयने ॥४५८॥} <(सुभाषितरत्नभाण्डागार ३१७।३)> ॥१०३॥ मालादीपकमाद्यं चेत्यथोत्तरगुणावहम् । पूर्वेण पूर्वेण वस्तुना उत्तरमुत्तरं चेदुपक्रियते तत्मालादीपकम् । यथा {संग्रामाङ्गणमागतेन भवता चापे समारोपिते देवाक्रणय येन येन सहसा यद्यत्समासादितम् । कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम् ॥४५९॥} <(रुय्यकऽसलङ्कारसर्वस्व)> नियतानां सकृद्धर्मः सा पुनस्तुल्ययोगिता ॥ कारिका १०४ ॥ नियतानां प्राकरणिकानामेव अप्राकरणिकानामेव वा । क्रमेणोदाहरणम् {पाण्डु क्षामं वदनं हृदयं सरसं तवालसं च वपुः । आवेदयति नितान्तं क्षेत्रियरोगं सखि हृदन्तः ॥४६०॥} <(अभिनवगुप्तऽस्ध्वन्यालोकलोचन)> {कुमुदकमलनीलनीरजालिर्ललितविलासजुषोर्दृशोः पुरः का । अमृतममृतरश्मिरम्बुजन्म प्रतिहतमेकपदे तवाननस्य ॥४६१॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> ॥१०४॥ उपमानाद्यदन्यस्य व्यतिरेकः स एव सः । अन्यस्योपमेयस्य व्यतिरेक आधिक्यम् । {क्षीणः क्षीणोऽपि शशी भूयो भूयो विवर्धते सत्यम् । विरम प्रसीद सुन्दरि यौवनमनिवर्ति यातं तु ॥४६२॥} <(अमरुशतक)> तद्युक्तम् । अत्र यौवनगतास्तैर्याधिक्यं हि विवक्षितम् ॥ हेत्वोरुक्तावनुक्तीनां त्रये साम्ये निवेदिते ॥ कारिका १०५ ॥ शब्दार्थाभ्यामथाक्षिप्ते श्लिष्टे तद्वत्त्रिरष्ट तत् । व्यतिरेकस्य हेतुः उपमेयगतमुत्कर्षनिमित्तम् । उपमानगतमपकर्षकारणम् । तयोर्द्वयोरुक्तिः, एकतरस्य द्वयोर्वा अनुक्तिरित्यनुक्तित्रयम् । एतद्भेदचतुष्टयमुपमानोपमेयभावे शब्देन प्रतिपादिते आर्थेन च क्रमेणोक्ताश्चत्वार एव भेदाः । आक्षिप्ते चौपम्ये तावन्त एव । एवं द्वादश ॥ एते श्लेषेऽपि भवन्तीति चतुर्विशतिर्भेदाः । क्रमेणोदाहरणम् {असिमात्रसहायस्य प्रभूतारिपराभवे । अन्यतुच्छजनस्येव न स्मयोऽस्य महाधृतेः ॥४६३॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्रैव तुच्छेति महाधृतेरित्यनयोः पर्यायेण युगपद्वानपादानेन्यत्भेदत्रयम् । एवमन्येष्वपि द्रष्टव्यम् । अत्र इवशब्दस्य सद्भावाच्छाब्दमौपम्यम् । {असिमात्रसहायोऽपि प्रभूतारिपराभवे । नैवान्यतुच्छजनवत्सगर्वोऽयं महाधृतिः ॥४६४॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र्त्रुल्यार्थे वतिरित्यार्थमौपम्यम् । {इयं सुनयना दासीकृततामरसश्रिया । आननेनाकलङ्केन जयतीन्दुं कलङ्किनम् ॥४६५॥} <(उद्भटऽस्काव्यालङ्कारसारसङ्ग्रह)> अत्रेवादितुल्यादिपदविरहेण आक्षिप्तैवोपमा । {जितेन्द्रियतया सम्यग्विद्यावृद्धनिषेविणः । अतिगाढगुणस्यास्य नाब्जवद्भङ्गुरा गुणाः ॥४६६॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्रेवार्थे वतिः । गुणशब्दः श्लिष्टः । शाब्दमौपम्यम् ॥ {अखण्डमण्डलः श्रीमान् पश्यैष पृथिवीपतिः । न निशाकरवज्जातु कलावैकल्यमागतः ॥४६७॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र तुल्यार्थे वतिः । कलाशब्दः श्लिष्टः । मालाप्रतिवस्तूपमावत्मालाव्यतिरेकोऽपि संभवति । तस्यापि भेदा एवमूह्याः । दिङ्मात्रमुदाह्रियते । यथा {हरवन्न विषमदृष्टिर्हरिवन्न विभो विधूतविततवृषः । रतिवन्न चातिदुःसहकरतापितभूः कदाचिदसि ॥४६८॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा २५६)> अत्र तुल्यार्थे वतिः । विषमादयश्च शब्दाः श्लिष्टाः । {नित्योदितप्रतापेन त्रियामामीलितओरभः । भास्वतानेन भूपेन भास्वानेष विनिर्जितः ॥४६९॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र ह्याक्षिप्तैवोपमा भास्वतेतिश्लिष्टः । यथा वा {स्वच्छात्मतागुणसमुल्लसितेन्दुबिम्बं बिम्बप्रभाधरमकृत्रिमहृद्यगन्धम् । यूनामतीव पिबतां रजनीषु यत्र तृष्णां जहार मधु नाननमङ्गनानाम् ॥४७०॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्रेवादीनां तुल्यादीनां च पदानामभावेऽपि श्लिष्टविशेषणैराक्षिप्तैवोपमा प्रतीयते । एवञ्जातीयकाः श्लिष्टोक्तियोग्यस्य पदस्य पृथग्पादानेऽन्येपि भेदाः संभवन्ति । तेऽपि अनयैव दिशा द्रष्टव्याः ॥ निषेधो वक्तुमिष्टस्य यो विशेषाभिधित्सया ॥ कारिका १०६ ॥ वक्ष्यमाणोक्तविषयः स आक्षेपो द्विधा मतः । विवक्षितस्य प्राकरणिकत्वादनुपसर्जनीकार्यस्य अशक्यवक्तव्यत्वमतिप्रसिद्धत्वं वा विशेषं वक्तुं निषेधो निषेध इव यः स वक्ष्यमाणविषय उक्तविषयश्चेति द्विधा आक्षेपः । क्रमेणोदाहरणम् {ए एहि किंपि कीएवि अ_एण णिक्किव भणामि अलमह वा । अविआरि_अकज्जारम्भ_आरिणी मरौ ण भणिस्सम् ॥४७१॥} [ए एहि किमपि कस्या अपि कृते निष्कृप भणामि अलमथ वा । अविचारितकार्यारम्भकारिणी म्रियतां न भनिष्यामि ॥] <(हालऽस्गाथासप्तशती ७.२)> {ज्योत्स्ना मौक्तिकदाम चन्दनरसः शीतांशुकान्तद्रवः कर्पूरं कदली मृणालवलयान्यम्भोजिनीपल्लवाः । अन्तर्मानसमास्त्वया प्रभवता तस्याः स्फुलिङ्गोत्कर व्यापाराय भवन्ति हन्त किमनेनोक्तेन न ब्रूमहे ॥४७२॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> क्रियायाः प्रतिषेधेऽपि फलव्यक्तिर्विभावना ॥ कारिका १०७ ॥ हेतुरूपक्रियायाः निषेधेऽपि तत्फलप्रकाशनं विभावना । यथा {कुसुमितलताभिरहताप्यधत्त रुजमलिकुलैरदष्टापि । परिवर्तते स्म नलिनीलहरीभिरलोलिताप्यघूर्णत सा ॥४७३॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा)> ॥१०५१०७॥ विशेषोक्तिरखण्डेषु कारणेषु फलावचः । मिलितेष्वपि कारणेषु कार्यस्याकथनं विशेषोक्तिः । अनुक्तनिमित्ता उक्तनिमित्ता अचिन्त्यनिमित्ता च । क्रमेणोदाहरणम् {निद्रानिवृत्तावुदिते द्युरत्ने सखीजने द्वारपदं पराप्ते । श्लथीकृताश्लेषरसे भुजङ्गे चचाल नालिङ्गनतोङ्गना सा ॥४७४॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> {कर्पूर इव दग्धोऽपि शक्तिमान् यो जने जने । नमोऽस्त्ववार्यवीर्याय तस्मै मकरकेतवे ॥४७५॥} <(राजशेखरऽस्बालरामायण ३.११)> {स एकस्त्रीणि जयति जगन्ति कुसुमायुधः । हरतापि तनुं यस्य शम्भुना न बलं हृतम् ॥४७६॥} <(भामहऽस्काव्यालङ्कार ३.२४)> यथासंख्यं क्रमेणैव क्रमिकाणां समन्वयः ॥ कारिका १०८ ॥ यथा {एकस्त्रिधा वससि चेतसि चित्रमत्र देव द्विषां च विदुषां च मृगीदृशां च । तापं च संमदरसं च रतिं च पुष्णन् शौर्योष्मणा च विनयेन च लीलया च ॥४७७॥} <(सुभाषितरत्नाकर १४३८)> ॥१०८॥ सामान्यं वा विशेषो वा तदन्येन समर्थ्यते । यत्तु सोऽर्थान्तरन्यासः साधर्म्येणेतरेण वा ॥ कारिका १०९ ॥ साधर्म्येण वैधर्म्येण वा सामान्यं विशेषेण यत्समर्थ्यते विशेषो वा सामान्येन सोऽर्थान्तरन्यासः । क्रमेणोदाहरणम् {निजदोषावृतमनसामतिसुन्दरमेव भाति विपरीतम् । पश्यति पित्तोपहतः शशिशुभ्रं शङ्खमपि पीतम् ॥४७८॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा २६५)> {सुसितवसनालङ्कारायां कदाचन कौमुदी महसि सुदृशि स्वैरं यान्त्यां गतोऽस्तमभूद्विधुः । तदनु भवतः कीर्तिः केनाप्यगीयत येन सा प्रियगृहमगान्मुक्ताशङ्का क्व नासि शुभप्रदः ॥४७९[=२६६]॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा १२१)> {गुणानामेव दौरात्म्याद्धुरि धुर्यो नियुज्यते । असंजातकिणस्कन्धः सुखं स्वपिति गौर्गलिः ॥४८०॥} <(भोजऽस्सरस्वतीकाण्ठाभरण ४.१२५)> {अहो हि मे बह्वपराद्धमायुषा यदप्रियं वाच्यमिदं मयेदृशम् । त एव धन्याः सुहृदः पराभवं जगत्यदृष्ट्वैव हि ये क्षयं गताः ॥४८१॥} <(रुय्यकऽसलङ्कारसर्वस्व)> ॥१०९॥ विरोधः सोविरोधेऽपि विरुद्धत्वेन यद्वचः । वस्तुवृत्तेनाविरोधेऽपि विरुद्धयोरिव यदभिधानं स विरोधः । जातिश्चतुर्भिजात्याद्यैर्विरुद्धा स्याद्गुणैस्त्रिभिः ॥ कारिका ११० ॥ क्रिया द्वाभ्यामपि द्रव्यं द्रव्येणैवेति ते दश । क्रमेणोदाहरणम् {अभिनवनलिनीकिसलयमृणालवलयादि दवदहनराशिः । सुभग कुरङ्गदृशोस्या विधिवशतस्त्वद्वियोगपविपाते ॥४८२॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप २६७)> {गिरयोऽप्यनुन्नतियुजो मरुदप्यचलोब्धयोऽप्यगम्भीराः । विश्वंभराप्यतिलघुर्नरनाथ तवान्तिके नियतम् ॥४८३॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> {येषां कण्ठपरिग्रहप्रणयितां संप्राप्य धाराधरस् तीक्ष्णः सोऽप्यनुरज्यते च कमपि स्नेहं पराप्नोति च । तेषां संगरसङ्गसक्तमनसां राज्ञां त्वया भूपते पांसूनां पटलैः प्रसाधनविधिर्निर्वर्त्यते कौतुकम् ॥४८४॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> {सृजति च जगदिदमवति च संहरति च हेलयैव यो नियतम् । अवसरवशतः शफरो जनार्दनः सोऽपि चित्रमिदम् ॥४८५॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> {सततं मुसलासक्ता बहुतरगृहकर्मघटनया नृपते । द्विजपत्नीनां कठिनाः सति भवति कराः सरोजसुकुमाराः ॥४८६॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> {पेशलमपि खलवचनं दहतितरां मानसं सत्तत्त्वविदाम् । परुषमपि सुजनवाक्यं मलयजरसवत्प्रमोदयति ॥४८७॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> {कौञ्चाद्रिरुद्दामदृषद्दृढोसौ यन्मार्गणानर्गलशातपाते । अभून्नवाम्भोजदलाभिजातः स भार्गवः सत्यमपूर्वसर्गः ॥४८८॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> {परिच्छेदातीतः सकलवचनानामविषयः पुनर्जन्मन्यस्मिन्ननुभवपथं यो न गतवान् । विवेकप्रध्वंसादुपचितमहामोहगहनो विकारः कोऽप्यन्तर्जडयति च तापं च कुरुते ॥४८९॥} <(भवभूतिऽस्मालतीमाधव १.३०)> {अयं वारामेको निलय इत रत्नाकर इति श्रितोस्माभिस्तृष्णातरलितमनोभिर्जलनिधिः । क एवं जानीते निजकरपुटीकोटरगतं क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनिः ॥४९०॥} <(भल्लटशतक १०८)> {समदमतङ्गजमदजलनिस्यन्दतरङ्गिणीपरिष्वङ्गात् । क्षितितिलक त्वयि तटजुषि शङ्करचूडापगापि कालिन्दी ॥४९१॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> स्वभावोक्तिस्तु डिम्भादेः स्वक्रियारूपवर्णनम् ॥ कारिका १११ ॥ स्वयोस्तदेकाश्रयोः । रूपं वर्णः संस्थानं च । उदाहरणम् {पश्चादङ्घ्री प्रसार्य त्रिकनतिविततं द्राघयित्वाङ्गमुच्चैर् आसज्याभुग्नकण्ठो मुखमुरसि सटां धूलिधूभ्रां विधूय । घासग्रासाभिलाषादनवरतचलत्प्रोथतुण्डस्तुरङ्गो मन्दं शब्दायमानो विलिखति शयनादुत्थितः क्ष्मां खुरेण ॥४९२॥} <(बाणऽस्हर्षचरित ३.५)> ॥११०१११॥ व्याजस्तुतिर्मुखे निन्दा स्तुतिर्वा रूढिरन्यथा । व्याजरूपा व्याजेन वा स्तुतिः । क्रमेणोदाहरणम् {हित्वा त्वामुपरोधबन्ध्यमनसां मन्ये न मौलिः परो लज्जावर्जनमन्तरेण न रमामन्यत्र संदृश्यते । यस्त्यागं तनुतेतरां मुखशतैरेत्याश्रितायाः श्रियः प्राप्य त्यागकृतावमाननमपि त्वय्येव यस्याः स्थितिः ॥४९३॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> {हे हेलाजितबोधिसत्त्व वचसां किं विस्तरैस्तोयधे नास्ति त्वत्सदृशः परः परहिताधाने गृहीतव्रतः । तृष्यत्पान्थजनोपकारघटनावैमुख्यलब्धायशो भारप्रोद्वहने करोषि कृपया साहायकं यन्मरोः ॥४९४॥} <(कुन्तकऽस्वक्रोक्तिजीवित १.९०॑ पुञ्जराज, वाक्यपदीयटीका २.२४९)> सा सहोक्तिः सहार्थस्य बलादेकं द्विवाचकम् ॥ कारिका ११२ ॥ एकार्थाभिधायकमपि सहार्थबलात्यतुभयस्याप्यवगमकं सा सहोक्तिः । यथा {सह दिअहणिसांहि दीहरा सासदण्डा सह मणिवलयेंहि बाहधारा गलन्ति । तुह सुहअ विओए तीअ उब्बिग्गिरीए सह अ तणुलदाए दुब्बला जीविदासा ॥४९५॥} [सह दिवसनिशाभिर्दीर्घाः श्वासदण्डाः सह मणिबलयैर्वाष्पधारा गलन्ति । तव सुभग वियोगे तस्या उद्विग्नायाः सह च तनुलतया दुर्बला जीविताशा ॥] <(राजशेखरऽस्कर्पूरमञ्जरी २.९)> श्वासदण्डादिगतं दीर्घत्वादि शाब्दं दिवसनिशादिगतं तु सहार्थसामर्थ्यात्प्रतिपद्यते ॥११२॥ विनोक्तिः सा विनान्येन यत्रान्यः सन्न नेतरः । क्वचिदशोभनः क्वचिच्छोभनः । क्रमेणोदाहरणम् {अरुचिर्निशया विना शशी शशिना सापि विना महत्तमः । उभयेन विना मनोभवस्फुरितं नैव चकास्ति कामिनोः ॥४९६॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> {मृगलोचनया विना विचित्रच्व्यवहारप्रतिभाप्रभाप्रगल्भः । अमृतद्युतिसुन्दराशयोऽयं सुहृदा तेन विना नरेन्द्रसूनुः ॥४९७॥} <(रुय्यकऽसलङ्कारसर्वस्व ५०)> परिवृत्तिर्विनिमयो योऽर्थानां स्यात्समासमैः ॥ कारिका ११३ ॥ परिवृत्तिरलङ्कारः । उदाहरणम् {लतानामेतासामुदितकुसुमानां मरुदयं मतं लास्यं दत्त्वा श्रयति भृशमामोदमसमम् । लतास्त्वध्वन्यानामहह दृशमादय सहसा ददत्याधिव्याधिभ्रमिरुदितमोहव्यतिकरम् ॥४९८॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र प्रथमेर्घे समेन समस्य द्वितीये उत्तमेने न्यूनस्य । {नानाविधप्रहरणैर्नृप संप्रहारे स्वीकृत्य दारुणनिनादवतः प्रहारान् । दृप्तारिवीरविसरेण वसुंधरेयं निर्विप्रलम्भपरिरम्भविधिर्वितीर्णा ॥४९९॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र न्यूनेनोत्तमस्य ॥११३॥ प्रत्यक्षा इव यद्भावाः क्रियन्ते भूतभाविनः । तद्भाविकं ... भूताश्च भाविनश्चेति द्वन्द्वः । भावः कवेरभिप्रायोऽत्रास्तीति भाविकम् । उदाहरणम् {आसीदञ्जनमत्रेति पश्यामि तव लोचने । भाविभूषणसंभारां साक्षात्कुर्वे तवाकृतिम् ॥५००॥} <(भल्लटशतक ६९)> आद्ये भूतस्य द्वितीये भाविनो दर्शनम् ॥ ... काव्यलिङ्गं हेतोर्वाक्यपदार्थता ॥ कारिका ११४ ॥ वाक्यार्थता यथा {वपुःप्रादुर्भावादनुमितमिदं जन्मनि पुरा पुरारे न प्रायः क्वचिदपि भवन्तं प्रणतवान् । नमन्मुक्तः संप्रत्यहमतनुरग्रेऽप्यनतिभाङ् महेश क्षन्तव्यं तदिदमपराधद्वयमपि ॥५०१॥} <(सुभाषितरत्नाकर ३६)> अनेकपदार्थता यथा {प्रणयिसखी सलीलपरिहासरसाधिगतैर् ललितशिरीषपुष्पहननैरपि ताम्यति यत् । वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः पततु शिरस्यकाण्डयमदण्ड इवैष भुजः ॥५०२॥} <(भवभूतिऽस्मालतीमाधव ५.३१)> एकपदार्थता यथा {भस्मोद्धूलन भद्रमस्तु भवते रुद्राक्षमाले शुभं हा सोपानपरंपरां गिरिसुताकान्तालयालङ्कृतिम् । अद्याराधनतोषितेन विभुना युष्मत्सपर्यासुखा लोकोच्छेदिनि मोक्षनामनि महामोहे निधीयामहे ॥५०३॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> एषु अपराधद्वये पूर्वापरजन्मनोरनमनं भुजपाते शस्त्रोपक्षेपः महामोहे सुखावलोकोच्छेदित्वं च यथाक्रममुक्तरूपो हेतुः ॥११४॥ पर्यायोक्तं विना वाच्यवाचकत्वेन यद्वचः । वाच्यवाचकभावव्यतिरिक्तेनावगमनव्यापारेण यत्प्रतिपादनं तत्पर्यायेण भङ्ग्यन्तरेण कथनात्पर्यायोक्तम् । उदाहरणम् {यं प्रेक्ष्य चिररूढापि निवासप्रीतिरुज्झता । मदेनैरावणमुखे मानेन हृदये हरेः ॥५०४॥} <(मेण्ठ,हयग्रीववधम्)> अत्र ऐरावणशक्रौ मदमानमुक्तौ जाताविति व्यङ्ग्यमपि शब्देनोच्यते । तेन यदेवोच्यते तदेव व्यङ्ग्यम् । यथा तु व्यङ्ग्यं न तथोच्यते । यथा गवि शुक्ले चलति दृष्टे {गौः शुक्लश्चलति} इति विकल्पः । यदेव दृष्टं तदेव विकल्पयति न तु यथा दृष्टं तथा । यतोऽभिन्नासंसृष्टत्वेन दृष्टं भेदसंसर्गाभ्यां विकल्पयति ॥ उदात्तं वस्तुनः संपत्... संपत्समृद्धियोगः । यथा {मुक्ताः केलिविसूत्रहारगलिताः संमार्जनीभिर्हृताः प्रातः प्राङ्गणसीम्नि मन्थरचलद्बालाङ्घ्रिलाक्षारुणाः । दूराद्दाडिमबीजशङ्कितधिंयः कर्षन्ति केलीशुकाः यद्विद्वद्भवनेषु भोजनृपतेस्तत्त्यागलीलायितम् ॥५०५॥} <(रुय्यकऽसलङ्कारसर्वस्व)> ... महतां चोपलक्षणम् ॥ कारिका ११५ ॥ उपलक्षणमङ्गभावः अर्थादुपलक्षणीयेऽर्थे । उदाहरणम् {तदिदमरण्यं यस्मिन् दशरथवचनानुपालनव्यसनी । निवसन् बाहुसहायश्चकार रक्षःक्षयं रामः ॥५०६॥} <(रुद्रटऽस्काव्यालङ्कार ७.१०४)> न चात्र वीरो रसः तस्येहाङ्गत्वात् ॥११५॥ तत्सिद्धिहेतावेकस्मिन् यत्रान्यत्तत्करं भवेत् । समुच्चयोऽसौ ... तस्य प्रस्तुतस्य कार्यस्य एकस्मिन् साधके स्थिते साधकान्तराणि यत्र संभवन्ति स समुच्चयः । उदाहरणम् {दुर्वाराः स्मरमार्गणाः प्रियतमो दूरे मनोत्युत्सुकं गाढं प्रेम नवं वयोतिकठिनाः प्राणाः कुलं निर्मलम् । स्त्रीत्वं धैर्यविरोधि मन्मथसुहृत्कालः कृतान्तोक्षमो नो सख्यश्चतुराः कथं नु विरहः सोढव्य इत्थं शठः ॥५०७॥} <(शार्ङ्गधरपद्धति)> अत्र विरहासहत्वं स्मरमार्गणा एव कुर्वन्ति । तदुपरि प्रियतमदूरस्थित्यादि उपात्तम् ॥ एष एव समुच्चयः सद्योगेऽसद्योगे सदसद्योगे च पर्यवस्यतीति न पृथक्लक्ष्यते । तथाहि {कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतिशालिनी भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम् । प्रकृतिसुभगा ह्येते भावा अमीभिरयं जनो व्रजति सुतरां दर्पं राजन् त एव तवाङ्कुशाः ॥५०८॥} <(भोजऽस्सरस्वतीकाण्ठाभरण ५.३६८)> अत्र सतां योगः । उक्तोदाहरणे त्वसतां योगः । {शशी दिवसधूसरो गलितयौवना कामिनी सरो विगतवारिकं मुखमनक्षरं स्वाकृतेः । प्रभुर्धनपरायणः सततदुर्गतः सज्जनो नृपाङ्गणगतः खलो मनसि सप्त शल्यानि मे ॥५०९॥} <(भर्तृहरिऽस्नीतिशतक ४५)> अत्र शशिनि धूसरे शल्ये शल्यान्तराणीति शोभनाशोभनयोगः ॥ ... स त्वन्यो युगपद्या गुणक्रियाः ॥ कारिका ११६ ॥ गुणौ च क्रिये च गुणक्रिये च गुणक्रियाः । क्रमेणोदाहरणम् {विदलितसकलारिकुलं तव बलमिदमभवदा’ु विमलं च । प्रखलमुखानि नराधिप मलिनानि च तानि जातानि ॥५१०॥} <(रुद्रटऽस्काव्यालङ्कार ७.२८)> {अयमेकपदे तया वियोगः प्रयया चोपनतः सुदुःसहो मे । नववारिधरोदयादहोभिर्भवितव्यं च निरातपत्वरम्यैः ॥५११॥} <(कालिदासऽस्विक्रमोर्वशीय ४.१०)> {कलुषं च तवाहितेष्वकस्मात्सितपङ्केरुहसोदरश्रि चक्षुः । पतितं च महीपतीन्द्र तेषां वपुषि प्रस्फुटमापदां कटाक्षैः ॥५१२॥} <(विश्वनाथऽस्साहित्यदर्पण १०.८५)> {धुनोति चासिं तनुते च कीर्तिम्} इत्यादेः {कृपाणपाणिश्च भवान् रणक्षितौ ससाधुवादाश्च सुराः सुरालये} इत्यादेश्च दर्शनात्{व्यधिकरणे} इति {एकस्मिन् देशे} इति च न वाच्यम् ॥११६॥ एकं क्रमेणानेकस्मिन् पर्यायः ... एकं वस्तु क्रमेणानेकस्मिन् भवति क्रियते वा स पर्यायः । क्रमेणोदाहरणम् {नन्वाश्रयस्थितिरियं तव कालकूट केनोत्तरोत्तरविशिष्टपदोपदिष्टा । प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेधुना वससि वाचि पुनः खलानाम् ॥५१३॥} <(भल्लटशतक ४)> यथा वा {बिम्बोष्ट एव रागस्ते तन्वि पूर्वमदृश्यत । अधुना हृदयेऽप्येष मृगशावाक्षि लक्ष्यते ॥५१४॥} <(पद्मगुप्त अलिअस्परिमलऽस्नवसाहसाङ्कचरित ६.६०)> रागस्य वस्तुतो भेदेऽप्येकतयाध्यवसितत्वादेकत्वमविरुद्धम् । {तं ताण सिरिसहोअररअणाहरणम्मि हिअअमेक्करसम् । बिम्बाहरे पिआणं णिवेसिअं कुसुमबाणेण ॥५१५॥} [तत्तेषां श्रीसहोदररत्नाभरणे हृदयमेकरसम् । विम्बाधरे प्रियाणां निवेशितं कुसुमबाणेन ॥] <(आनन्दवर्धनऽस्विषमबाणलीला)> ... अन्यस्ततोऽन्यथा । अनेकमेकस्मिन् क्रमेण भवति क्रियते वा सोऽन्यः ॥ क्रमेणोदाहरणम् {मधुरिमरुचिरं वचः खलानाममृतमहो प्रथमं पृथु व्यनक्ति । अथ कथयति मोहहेतुमन्तर्गतमिव हालहलं विषं तदेव ॥५१६॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा २८६)> {तद्गेहं नतभित्ति मन्दिरमिदं लब्धावकाशं दिवः सा धेनुर्जरती नदम्ति करिणामेता घनाभा घटाः । स क्षुद्रो मुसलध्वनिः कलमिदं संगीतकं योषिताम् आश्चर्यं दिवसैर्द्विजोयमियतीं भूमिं समारोपितः ॥५१७॥} <(अभिनवगुप्तऽस्ध्वन्यालोकलोचन ३.१६)> अत्र एकस्यैव हानोपादानयोरविवक्षितत्वात्न परिवृत्तिः ॥ अनुमानं तदुक्तं यत्साध्यसाधनयोर्वचः ॥ कारिका ११७ ॥ पक्षधर्मान्वयव्यतिरेकित्वेन त्रिरूपो हेतुः साधनम् । धर्मिणि अयोगव्यवच्छेदो व्यापकस्य साध्यत्वम् । यथा {यत्रैता लहरीचलाचलदृशो व्यापारयन्ति भ्रुवं यत्तत्रैव पतन्ति संततममी मर्मस्पृशो मार्गणाः । तच्चक्रीकृतचापमञ्चितशरप्रेङ्खत्करः क्रोधनो धावत्यग्रत एव शासनधरः सत्यं सदासां स्मरः ॥५१८॥} <(रुय्यकऽसलङ्कारसर्वस्व)> साध्यसाधन्योः पौर्वापर्यविकल्पे ने किञ्चिद्वैचित्र्यमिति न तथा दर्शितम् ॥११७॥ विशेषणैर्यत्साकूतैरुक्तिः परिकरस्तु सः । अर्थाद्विशेष्यस्य । उदाहरणम् {महौजसो मानधना धनार्चिता धनुर्भृतः संयति लब्धकीर्तयः । न संहतास्तस्य न भेदवृत्तयह् प्रियाणि वाञ्छन्त्यसुभिः समीहितुम् ॥५१९॥} <(भारविऽस्किरातार्जुनीय १.१९)> यद्यप्युष्टार्थस्य दोषताभिधानात्तन्निराकरणेन पुष्टार्थस्वीकारः कृतः तथाप्येकनिष्ठत्वेन बहुनां विशेषणानामेवमुपन्यासे वैचित्र्यमित्यलङ्कारमध्ये गणितः ॥ व्याजोक्तिश्छद्मनोद्भिन्नवस्तुरूपनिगूहनम् ॥ कारिका ११८ ॥ निगूढमपि वस्तुनो रूपं कथमपि प्रभिन्नं केनापि व्यपदेशेन यदपह्नूयते सा व्याजोक्तिः । न चैषापह्नुतिः प्रकृताप्रकृतोऽभयनिष्ठस्य साम्यस्येहासंभवात् । उदाहरणम् {शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लसद् रोमाञ्चादिविसंष्ठुलाखिलविधिव्यासङ्गभङ्गाकुलः । हा शैत्यं तुहिनाचलस्य करयोरित्यूचिवान् सस्मितं शैलान्तःपुरमातृमण्डलगणैर्दृष्टोऽवताद्वः शिवः ॥५२०॥} <(रुय्यकऽसलङ्कारसर्वस्व)> किञ्चित्पृष्टमपृष्टं वा कथितं यत्प्रकल्पते । तादृगन्यव्यपोहाय परिसंख्या तु सा स्मृता ॥ कारिका ११९ ॥ प्रमानान्तरावगतमपि वस्तु शब्देन प्रतिपादितं प्रयोजनान्तराभावात्सदृशवस्त्वनतरव्यवच्छेदाय यत्पर्यवस्यति सा भवेत्परिसंख्या । अत्र च कथनं प्रश्नपूर्वकं तदन्यथा च परिदृष्टम् । तथा उभयत्र व्यपोह्यमानस्य प्रतीयमानता वाच्यत्वं चेति चत्वारो भेदाः ॥ क्रमेणोदाहरणम् {किमासेव्यं पुंसां सविधमनवद्यं द्युसरितः किमेकान्ते ध्येयं चरणयुगलं कौस्तुभभृतः । किमाराध्यं पुण्यं किंभिलषणीयं च करुणा यदासक्त्या चेतो निरवधिविमुक्त्यै प्रभ[व्]अति ॥५२१॥} <(रुय्यकऽसलङ्कारसर्वस्व)> {किं भूषणं सुदृढमत्र यशो न रत्नं किं कार्यमार्यचरितं सुकृतं न दोषः । किं चक्षुरप्रतिहतं धिषणा न नेत्रं जानाति कस्त्वददपरः सदसद्विवेकम् ॥५२२॥} <(विश्वनाथऽस्साहित्यदर्पण १०.८२)> {कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते । काठिन्यं कुचयुगले तरलत्वं नयनयोर्वसति ॥५२३॥} <(रुद्रटऽस्काव्यालङ्कार ७.८१)> {भक्तिर्भवे न विभवे व्यसनं शास्त्रे न युवतिकामास्त्रे । चिन्ता यशसि न वपुषि प्रायः परिदृश्यते महताम् ॥५२४॥} <(रुय्यकऽसलङ्कारसर्वस्व)> ॥११९॥ यथोत्तरं चेत्पूर्वस्य पूर्वस्यार्थस्य हेतुता । तदा कारणमाला स्यात्... उत्तरमुत्तरं प्रति यथोत्तरम् । उदाहरणम् {जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते । गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि संपदः ॥५२५॥} <(वल्लभदेवऽस्सुभाषितावलि ॑ श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा १६२)> {हेतुमता सह हेतोरव्हिधानमभेदयो हेतुः ।} इति हेत्वलङ्कारो न लक्षितः । आयुर्धृतमित्यादिरूपो ह्येष न भूषणतां कदाचिदर्हति वैचित्र्याभावात् । {अविरलकमलविकासः सकलालिमदश्च कोकिलानन्दः । रम्योऽयमेति संप्रति लोकोत्कण्ठाकरः कालः ॥५२६॥} <(रुद्रटऽस्काव्यालङ्कार ७.८३)> इत्यत्र काव्यरूपतां कोमलानुप्रासमहिम्नैव समाम्नासिषुर्न पुनर्हेत्वलङ्कारकल्पनयेति पूर्वोक्तकाव्यलिङ्गमेव हेतुः ॥ ... क्रियया तु परस्परम् ॥ कारिका १२० ॥ वस्तुनोर्जननेऽन्योन्यम् ... अर्थयोरेकक्रियामुखेन परस्परं कारणत्वे सति अन्योन्यनामा अलङ्कारः । उदाहरणम् {हंसाणं सरेहिं सिरी सारिज्जै अह सराण हंसेहिम् । अण्णोण्णं विअ एए अप्पाण्णं णवर गरुअन्ति ॥५२७॥} [हंसानां सरोभिः श्रीः सार्यते अथ सरसां हंसैः । अन्योन्यमेव एते आत्मानं केवलं गरयन्ति ॥] <(हालऽस्गाथासप्तशती, निर्नय सगर्प्रेस्स्. ९५३)> अत्रोभयेषानपि परस्परजनकता मिथः श्रीसारतासंपादनद्वारेण ॥ ... उत्तरश्रुतिमात्रतः । प्रश्नस्योन्नयनं यत्र क्रियते तत्र वा सति ॥ कारिका १२१ ॥ असकृद्यदसंभाव्यमुत्तरं स्यात्तदुत्तरम् । प्रतिवचनोपलम्भादेव पूर्ववाक्यं यत्र कल्प्यते तदेकं तावदुत्तरम् । उदाहरणम् {वाणिअ_अ हत्थिदन्ता कुत्तो अम्हाण वग्धकित्ती अ । जाव लुलिआल_अमुही धरम्मि परिसक्कए सोण्हा ॥५२८॥} [वाणिजक हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृतयश्च । यावत्लुलितालकमुखी गृहे परिष्वक्कते स्नुषा ॥] <(हालऽस्गाथासप्तशती ९५१॑ अभिनवगुप्तऽस्ध्वन्यालोकलोचन ३.१७)> हस्तिदन्तव्याघ्रकृत्तीनामहमर्थी ताः मूल्येन प्रयच्छेति क्रेतुर्वचनममुना वाक्येन समुन्नीयत ॥ न चैतत्काव्यलिङ्गमुत्तरस्य ताद्रूप्यानुपपत्तेः । नहि प्रश्नस्य प्रतिवचनं जनको हेतुः । नापीदमनुमानमेकधर्मिनिष्ठतया साद्यसाधनयोरनिर्देशादित्यलङ्कारान्तरमेवोत्तरं साधीयः । प्रश्नादनन्तरं लोकातिक्रान्तगोचरतया यतसंभाव्यरूपं प्रतिवचनं स्यात्ततपरमुत्तरम् । अनयोश्च सकृदुपादाने न चारुताप्रतीतिरित्यसकृदित्युक्तम् । उदाहरणम् {का विसमा देव्वगरि किं लब्धं जं जणो गुण्ग्गाही । किं सोक्खं सुकलत्तं किं दुक्खं जं खलो लो_ओ ॥५२९॥} [का विषमा दैवगतिः किं लब्धव्यं यत्जनो गुणग्राही । किं सौख्यं सुकलत्रं किं दुःखं यत्खलो लोकः ॥] <(हालऽस्गाथासप्तशती, निर्नय सगर्प्रेस्स्. ९७५)> प्रश्नपरिसंख्यायामन्यव्यपोहे एव तात्पर्यम् । इह तु वाच्ये एव विश्रान्तिरित्यनयोर्विवेकः ॥ कुतोऽपि लक्षितः सूक्ष्मोऽप्यर्थोऽन्यस्मै प्रकाश्यते ॥ कारिका १२२ ॥ धर्मेण केनचिद्यत्र तत्सूक्ष्मं परिचक्षते । कुतोऽपि आकारादिङ्गिताद्वा सूक्ष्मस्तीक्ष्णमतिसंवेद्यः ॥ उदाहरणम् {वक्त्रस्यन्दिस्वेदबिन्दुप्रबन्धैर्दृष्ट्वा भिन्नं कुङ्कुमं कापि कण्ठे । पुंस्त्वं तन्व्या व्यञ्जयन्ती वयस्या स्मित्वा पाणौ खड्गलेखां लिलेख ॥५३०॥} <(रुय्यकऽसलङ्कारसर्वस्व)> अत्र आकृतिमवलोक्य कयापि वितर्कितं पुरुषायितमसिलतालेखनेन वैदग्ध्यादभिव्यक्तिमुपनीतं पुंसामेव कृपाणपाणिता योग्यत्वात् ॥ यथा वा {संकेतकालमनसं विट्.अं ज्ञात्वा विदग्धया । ईषन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम् ॥५३१॥} <(अभिनवगुप्तऽस्ध्वन्यालोकलोचन २.३६)> अत्र जिज्ञासितः संकेतकालः कयाचिदिङ्गितमात्रेण विदितो निशासमयशंसिना कमलनिमीलनेन लीलया प्रतिपादितः ॥ उत्तरोत्तरमुत्कर्षो भवेत्सारः परावधिः ॥ कारिका १२३ ॥ परः पर्यन्तभागः अवधिर्यस्य धाराधिरोहितया तत्रैवोत्कर्षस्य विश्रान्तेः । उदाहरणम् {राज्ये सारं वसुधा वसुधायां पुरं पुरे सौधम् । सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम् ॥५३२॥} <(रुद्रटऽस्काव्यालङ्कार ७.९७)> ॥१२३॥ भिन्नदेशतयात्यन्तं कार्यकारणभूतयोः । युगपद्धर्मयोर्यत्र ख्यातिः सा स्यादसंगतिः ॥ कारिका १२४ ॥ इह यद्देशं करणं तद्देशमेव कार्यमुत्पद्यमानं दृष्टं यथा धूमादि । यत्र तु हेतुफलरूपयोरपि धर्मयोः केनाप्यतिशयेन नानादेशतया युगपदवभासनं सा तयोः स्वभावोत्पन्नपरस्परसंगतित्यागातसंगतिः । उदाहरणम् {जस्से_अ वणो तस्से_अ वे_अणा भणै तं जणो अलि_अम् । दन्तक्ख_अं कवोले बहु_ए वे_अणा सवत्तीणम् ॥५३३॥} [यस्यैव व्रणस्तस्यैव वेदना भणति तज्जनोऽलीकम् । दन्तक्षतं कपोले वध्वाः वेदना सपत्नीनाम् ॥] <(हालऽस्गाथासप्तशती ९८१)> एषा च विरोधबाधिनी न विरोधः भिन्नाधरतयैव द्वयोरिह विरोधितायाः प्रतिभासात् । विरोधे तु विरोधित्वमेकाश्रयनिष्टमनुक्तमपि पर्यवसितमपवादविषयपरिहारेणोत्सर्गस्य व्यवस्थितेः । तथा चैवं निदर्शितम् ॥१२४॥ समाधिः सुकरं कार्यं कारणान्तरयोगतः । साधनान्तरोपकृतेन कर्त्रा यतक्लेशेन कार्यमारब्धं समाधीयते स समाधिर्नाम । उदाहरणम् {मानमस्या निराकर्तुं पादयोर्मे पतिष्यतः । उपकाराय दिष्ट्येदमुदीर्णं घनगर्जितम् ॥५३४॥} <(दण्डिन्ऽस्काव्यादर्श २.२९९)> समं योग्यतया योगो यदि संभावितः क्वचित् ॥ कारिका १२५ ॥ इदमनयोः श्लाघ्यमिति योग्यतया संबन्धस्य नियतविषयमध्यवसानं चेत्तदा समं तत्सद्योगेऽसद्योगे च ॥ उदाहरणम् {धातुः शिल्पातिशयनिकषस्थानमेषा मृगाक्षी रूपे देवोऽप्ययमनुपमो दत्तपत्रः स्मरस्य । जातं दैवात्सदृशमनयोः संगतं यत्तदेत च्छृङ्गारस्योपनतमधुना राज्यमेकातपत्रम् ॥५३५॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> {चित्रं चित्रं बत बत महच्चित्रमेतद्विचित्रं जातो दैवादुचितरचनासंविधाता विधाता । यन्निम्बानां परिणतफलस्फीतिरास्वादनीया यच्चैतस्याः कवलनकलाकोविदः काकलोकः ॥५३६॥} <(रुय्यकऽसलङ्कारसर्वस्व)> क्वचिद्यदतिवैधर्म्यान्न श्लेषो घटनामियात् । कर्तुः क्रियाफलावाप्तिर्नैवानर्थश्च यद्भवेत् ॥ कारिका १२६ ॥ गुणक्रियाभ्यां कार्यस्य कारणस्य गुणक्रिये । क्रमेण च विरुद्धे यत्स एष विषमो मतः ॥ कारिका १२७ ॥ द्वयोरत्यन्तविलक्षणतया यतनुपपद्यमानतयैव योगः प्रतीयते (१) यच्च किञ्चिदारभमाणः कर्ता क्रियायाः प्रणाशात्न केवलमभीष्टं यत्फलं न लभेत्यावदप्रार्थितमप्यनर्थं विषयमासादयेत्(२) तथा सत्यपि कार्यस्य कारणरूपानुकारे तत्तयोर्गुणौ क्रिये च परस्परं विरुद्धतां व्रजतः (३।४) स समविपर्ययात्मा चतूरूपो विषमः ॥ क्रमेणोदाहरणम् {शिरीषादपि मृद्वङ्गी क्वेयमायतलोचना । अयं क्व च कुकूलाग्निकर्कशो मदनानलः ॥५३७॥} <(पद्मगुप्तऽस्नवसाहसाङ्कचरित १.२८)> {सिंहिकासुतसंत्रस्तः शशः शीतांशुमाश्रितः । जग्रसे साश्रयं तत्र तमन्यः सिंहिकासुतः ॥५३८॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा ३०३)> {सद्यःकरस्पर्शमवाप्य चित्रं रणे रणे यस्य कृपाणलेखा । तमालनीला शरदिन्दुपाण्डु यशस्त्रिलोक्याभरणं प्रसूते ॥५३९॥} <(पद्मगुप्तऽस्नवसाहसाङ्कचरित १.६२)> {आनन्दममन्दमिमं कुवलयदललोचने ददासि त्वम् । विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ॥५४०॥} <(रुद्रटऽस्काव्यालङ्कार ९.४७)> अत्रानन्ददानं शरीरतापेन विरुध्यते । एवम् {विपुलेन सागरशयस्य कुक्षिणा भुवनानि यस्य पपिरे युगक्षये । मदविभ्रमासकलया पपे पुनः स पुरस्त्रियैकतमयैकया दृशा ॥५४१॥} <(माघऽस्सिशुपालवध १३.४०)> इत्यादावपि विषमत्वं यथायोगभवगन्तव्यम् ॥१२७॥ महतोर्यन्महीयांसावाश्रिताश्रययोः क्रमात् । आश्रयाश्रयिणौ स्यातां तनुत्वेऽप्यधिकं तु तत् ॥ कारिका १२८ ॥ आश्रितमाधेयमाश्रयस्तदाधारः । तयोर्महतोरपि विषये तदपेक्षया तनू अप्याश्रयाश्रयिणौ प्रस्तुतवस्तुप्रकर्षविअव्क्षया यथाक्रमं यतधिकतरतां व्रजतः । तदिदं द्विविधमधिकं नाम । क्रमेणोदाहरणम् {अहो विशालं भूपाल भुवनत्रितयोदरम् । माति मातुमशक्योऽपि यशोराशिर्यदत्र ते ॥५४२॥} <(दण्डिन्ऽस्काव्यादर्श २.२९७)> {युगान्तकालप्रतिसंहृतात्मनो जगन्ति यस्यां सविकाशमासत । तनौ मनुस्तत्र न कैटभद्विषस्तपोधनाभ्यागमसंभवा मुदः ॥५४३॥} <(माघऽस्सिशुपालवध १.२३)> ॥१२८॥ प्रतिपक्षमशक्तेन प्रतिकर्तुं तिरस्क्रिया । या तदीयस्य तत्स्तुत्यै प्रत्यनीकं तदुच्यते ॥ कारिका १२९ ॥ न्यक्कृतिपरमपि विपक्षं साक्षान्निरसितुमशक्तेन केनापि यत्तमेव प्रतिपक्षमुत्कर्षयितुं तदाश्रितस्य तिरस्करणं ततनीकप्रतिनिधितुल्यत्वात्प्रत्यनीकमभिधीयते । यथा अनीके अभियोज्ये तत्प्रतिनिधीभूतमपरं मूढतया केनचिदभियुज्यते तथेह प्रतियोगिनि विजेये तदीयोन्यो विजीयते इत्यर्थः । उदाहरणम् {त्वं विनिर्जितमनोभवरूपः सा च सुन्दर भवत्यनुरक्ता । पञ्चभिर्युगपदेव शरैस्तां तापयत्यनुशयादिव कामः ॥५४४॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा ३०६)> यथा वा {यस्य किञ्चिदपकर्तुमक्षमः कायनिग्रहगृहीतविग्रहः । कान्तवक्त्रसदृशाकृतिं कृती राहुरिन्दुमधुनापि बाधते ॥५४५॥} <(माघऽस्सिशुपालवध १४.७८)> इन्दोरत्र तदीयता संबन्धिसंबन्धात् ॥१२९॥ समेन लक्ष्मणा वस्तु वस्तुना यन्निगूह्यते । निजेनागन्तुना वापि तन्मीलितमिति स्मृतम् ॥ कारिका १३० ॥ सहजमागन्तुकं वा किमपि साधारणं यत्लक्षणं तद्द्वारेण यत्किञ्चित्केनचिद्वस्तु वस्तुस्थित्यैव वलीयस्तया तिरोधीयते तत्मीलितमिति द्विधा स्मरन्ति ॥ {अपाङ्गतरले दृशौ मधुरवक्रवर्णागिरो विलासभरमन्थरा गतिरतीव कान्तं मुखम् । इति स्फुरितमङ्गके मृगदृशःस्वतो लीलया तदत्र न मदोदयः कृतपदोऽपि संलक्ष्यते ॥५४६॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र दृक्तरलतादिकमङ्गस्य लिङ्गं स्वाभाविकं साधारणं च महोदयेन तत्राप्येतस्य दर्शनात् । {ये कन्दरासु निवसन्ति सदा हिमाद्रेस् त्वत्पातशङ्कितधियो विवशा द्विषस्ते । अप्यङ्गमुत्पुलकमुद्वहतां सकम्पं तेषामहो बत भियां न बुधोऽप्यभिज्ञः ॥५४७॥} <(रुय्यकऽसलङ्कारसर्वस्व)> अत्र तु सामर्थ्यादवसितस्य शैत्यस्य आगन्तुकत्वात्तत्प्रभवयोरपि कम्पपुलकयोस्ताद्रूप्यं समानता च भयेष्वपि तयोरुपलक्षितत्वात् ॥१३०॥ स्थाप्यतेपोह्यते वापि यथापूर्वं परं परम् । विशेषणतया यत्र वस्तु सैकावली द्विधा ॥ कारिका १३१ ॥ पूर्वं पूर्वं प्रति यथोत्तरस्य वस्तुनो वीप्सया विशेषणभावेन यत्स्थापनं निषेधो वा संभवति सा द्विधा बुधैरेकावली भण्यते । क्रमेणोदाहरणम् {पुराणि यस्यां सवराङ्गनानि वराङ्गना रूपपुरस्कृताङ्ग्यः । रूपं समुन्मीलितसद्विलासमस्त्रं विलासः कुसुमायुधस्य ॥५४८॥} <(पद्मगुप्तऽस्नवसाहसाङ्कचरित १.२२)> {न तज्जलं यन्न सुचारुपङ्कजं नपङ्कजं तद्यदलीनषट्पदम् । च षट्पदोऽसौ कलगुञ्जितो न यो न गुञ्जितं तन्न जहार यन्मनः ॥५४९॥} <(भट्टिकाव्य २.१९)> पूर्वत्र पुराणां वराङ्गनाः तासामङ्गविशेषणमुखेन रूपं तस्य विलासाः तेषामप्यस्त्रमित्यमुना क्रमेण विशेषणं विधीयते । उत्तरत्र प्रतिषेधेऽप्येवं योज्यम् ॥१३१॥ यथानुभवमर्थस्य दृष्टे तत्सदृशे स्मृतिः । स्मरणं ... यः पदार्थः केनचिदाकारेण नियतः यदा कदाचितनुभूतोऽभूत्स कालान्तरे स्मृतिप्रतिबोधाधायिनि तत्समाने वस्तुनि दृष्टे सति यत्तथैव स्मर्यते तत्भवेत्स्मरणम् । उदाहरणम् {निम्ननाभिकुहरेषु यदम्भः प्लावितं चलदृशां लहरीभिः । तद्भवैः कुहरुतैः सुरनार्यः स्मारिता सुरतकण्ठरुतानाम् ॥५५०॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा ३१०)> यथा वा {करजुअगहिअजसोआत्थणमुहविणिवेसिआहरपुडस्स । समरिअपञ्चजण्णस्स णमह कण्हस्स रोमाञ्चम् ॥५५१॥} [करयुगगृहीतयशोदास्तनमुखविनिवेशिताधरपुटस्य । संस्मृतपाञ्चजन्यस्य नमत कृष्णस्य रोमाञ्चम् ॥] <(हालऽस्गाथासप्तशती ९७४)> ... भ्रान्तिमानन्यसंवित्तत्तुल्यदर्शने ॥ कारिका १३२ ॥ तदिति अन्यतप्राकरणिकं निर्दिश्यते । तेन समानमर्थादिह प्राकरणिकमाश्रीयते । तस्य तथाविधस्य दृष्टौ सत्यां यतप्राकरणिकतया संवेदनं स भ्रान्तिमान् । न चैष रूपकं प्रथमातिशयोक्तिर्वा तत्र वस्तुतो भ्रमस्याभावातिह च, अर्थानुगमनेन संज्ञायाः प्रवृत्तेः तस्य स्पष्टमेव प्रतिपन्नत्वात् । उदाहरणम् {कपाले मार्जारः पय इति करान् लेढि शशिनस् तरुच्छिद्रप्रोतान् बिसमिति करी संकलयति । रतान्ते तल्पस्थान् हरति वनिताप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो विप्लवयति ॥५५२॥} <(भोजऽस्सरस्वतीकाण्ठाभरण ३.३८ ॑ सुभाषितरत्नाकर ९०५)> आक्षेप उपमानस्य प्रतीपमुपमेयता । तस्यैव यदि वा कल्प्या तिरस्कारनिबन्धनम् ॥ कारिका १३३ ॥ अस्य धुरं सुतरामुपमेयमेव वोढुं प्रौढमिति कैमर्थ्येन यतुपमानमाक्षिप्यते यदपि तस्यैवोपमानतया प्रसिद्धस्य उपमानान्तरविवक्षयानादरार्थमुपमेयभावः कल्प्यते ततुपमेयस्योपमानप्रतिकूलवर्तित्वातुभ्यरूपं प्रतीपम् । क्रमेणोदाहरणम् {लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां देव त्वय्यवनीभरक्षमभुजे निष्पादिते वेधसा । इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं चिन्तारत्नमदो मुधैव किममी सृष्टाः कुलक्ष्माभृतः ॥५५३॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> {ए एहि दाव सुन्दरि कण्णं दाऊण सुणसु वअणिज्जम् । तुज्झ मुहेण किसोअरि चन्दो उअमिज्जै जणेण ॥५५४॥} [अयि एहि तावत्सुन्दरि कर्णन्दत्त्वा शृणुष्व वचनीयम् । तव मुखेन कृशोदरि चन्द्र उपमीयते जनेन ॥] <(हालऽस्गाथासप्तशती ९७२)> अत्र मुखेनोपमीयमानस्य शशिनः स्वल्पतरगुणत्वातुपमित्यनिष्पत्त्याऽव_अणिज्जंऽ इति वचनीयपदाभिव्यङ्ग्यस्तिरस्कारः । क्कचित्तु निष्पन्नैवोपमितिक्रिया अनादरनिबन्धनम् । यथा {गर्वमसंवाह्यमिमं लोच्रनयुगलेन किं वहसि मुग्धे । सन्तीदृशानि दिशि दिशि सरस्सु ननु नीलनलिनानि ॥५५५॥} <(रुद्रटऽस्काव्यालङ्कार ८.७८)> इहोपमेयीकरणमेवोत्पलानामनादरः । अनयैव रीत्या यतसामान्यगुणयोगात्नोपमानभावमपि अनुभूतपूर्वि तस्य तत्कल्पनायामपि भवति प्रतीपमिति प्रत्येतव्यम् । यथा {अहमेव गुरुः सुदारुणानाम् इति हालाहल तात मा स्म दृप्यः । ननु सन्ति भवादृशानि भूयो भुवनेस्मिन् वचनानि दुर्जनानाम् ॥५५६॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र हालाहलस्योपमानत्वमसंभाव्यमेवोपनिबद्धम् ॥ प्रस्तुतस्य यदन्येन गुणसाम्यविवक्षया । ऐकात्म्यं बध्यते योगात्तत्सामान्यमिति स्मृतम् ॥ कारिका १३४ ॥ अतादृशमपि तादृशतया विवक्षितुं यतप्रस्तुतार्थेन संपृक्तमपरित्यक्तनिजगुणमेव तदेकात्मतया निबध्यते तत्समानगुणनिबन्धनात्सामान्यम् । उदाहरणम् {मलयजरसविलिप्तनवो नवहारलताविभूषिताः सिततरदन्तपत्र कृतवक्त्ररुचो रुचिरामलांशुकाः । शशभृति विततधाम्नि धवलयति धरामविभाव्यतां गताः । प्रियवसतिं प्रयान्ति सुखमेव निरस्तभियोऽभिसारिकाः ॥५५७॥} <(वामनऽस्काव्यालङ्कारसूत्रवृत्ति ४,३.१०)> अत्र प्रस्तुततदन्ययोरन्यूनानतिरिक्ततया निबद्धं धवलत्वमेकात्मताहेतुः । अत एव पृथग्भावेन न तयोरुपलक्षणम् । यथा वा {वेत्रत्वचा तुल्यरुचां चधूनां कर्णाग्रतो गण्डतलागतानि । भृङ्गा सहेलं यदि नापतिष्यन् कोवेदयिष्यन्नवचम्पकानि ॥५५८॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा ३११)> अत्र निमित्तान्तरजनितापि नानात्वप्रतीतिः प्रथमप्रतिपन्नमभेदं न व्युद्सितुमुत्सहते प्रतीतत्वात्तस्य प्रतीतेश्च बाधायोगात् ॥ विना प्रसिद्धमाधारमाधेयस्य व्यवस्थितिः । एकात्मा यगपद्दृत्तिरेकस्यानेकगोचरा ॥ कारिका १३५ ॥ अन्यत्प्रकुर्वतः कार्यमशक्यस्यान्यवस्तुनः । तथैव करणं चेति विशेषस्त्रिविधः स्मृतः ॥ कारिका १३६ ॥ प्रसिद्धार्धपरिहारेण यताधेयस्य विशिष्टा स्थितिरभिधीयते स प्रथमो विशेषः । उदाहरणम् {दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् । रमयन्ति जगन्ति गिरः कथमिह कवयो न ते वन्द्याः ॥५५९॥} <(रुद्रटऽस्काव्यालङ्कार ९.६)> एवमपि वस्तु यतेकेनैव स्वभावेन युगपदनेकत्र वर्तते स द्वितीयः । उदाहरणम् {सा वसै तुज्झ हिअए सा च्चिअ अच्छीसु सा अ वअणेसु । अह्मारिसाण सुन्दर ओसासो कत्थ पावाणम् ॥५६०॥} [सा वसति तव हृदये सैवाक्षिषु सा च वचनेषु । अस्मादृशीनां सुन्दर अवकाशः कुत्र पापानाम् ॥] <(हालऽस्गाथासप्तशती ९४७)> यद्यपि किञ्चिद्रभसेन आरभमाणस्तेनैव यत्नेनाशक्यमपि कार्यान्तरमारभते सोपरो विशेषः । उदाहरणम् {स्फुरदद्भुतरूपमुत्प्रतापज्वलनं त्वां सृजतानवद्यविद्यम् । विधिना ससृजे नवो मनोभूर्भुविसत्यं सविता वृहस्पतिश्च ॥५६१॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा ३१५)> यथा वा {गृहिणी सचिवः सखी मिथः प्रियशिष्या ललिते कलाविधौ । करुणाविमुखेन मृत्युना हरता त्वां बत किं न मे हृतम् ॥५६२॥} <(कालिदासऽस्रघुवंश ८.६७)> सर्वत्र एवंविधविषयेऽतिशयोक्तिरेव प्राणत्वेनावतिष्ठते तां विना प्राउएणालङ्कारत्वायोगात् । अत एवोक्तम् {सैषा सर्वत्र वक्रोक्तिरनयार्थो विभाव्यते । यत्नोस्यां कविना कार्यः कोऽलङ्कारोऽनया विना ॥} इति ॥ स्वमुत्सृज्य गुणं योगादत्युज्ज्वलगुणस्य यत् । वस्तु तद्गुणतामेति भण्यते स तु तद्गुणः ॥ कारिका १३७ ॥ वस्तु तिरस्कृतनिजरूपं केनापि समीपगतेन प्रगुणया स्वगुणसंपदोपरक्तं तत्प्रतिभासमेव यत्समासादयति स तद्गुणः । तस्याप्रकृतस्य गुणोत्रास्तीति । उदाहरणम् {विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या । रत्नैः पुनर्यत्र रुचा रुचं स्वामानिन्यिरे वंशकरीरनीलैः ॥५६३॥} <(माघऽस्सिशुपालवध, निर्नय सगर्प्रेस्स्. ४.१४)> अत्र रवितुरगापेक्षया गरुडाग्रजस्य तदपेक्षया च हरिन्मणीनां प्रगुणवर्णता ॥१३७॥ तद्रूपाननुहारश्चेदस्य तत्स्यादतद्गुणः । यदि तु तदीयं वर्णं संभवन्त्यामपि योग्यतायामिदं न्यूनगुणं न गृहणीयात्तदा भवेदतद्गुणो नाम । उदाहरणम् {धवलोसि जहवि सुन्दर तह वि तुए मज्झ रञ्जिअं हिअअम् । राअभरिएवि हिअए सुहअ णिहित्तो ण रत्तोसि ॥५६४॥} [ध्वलोऽसि यद्यपि सुन्दर तथापि त्वया मम रञ्जितं हृदयम् । रागभरितेऽपि हृदये सुभग निहितो न रक्तोऽसि ॥] <(हालऽस्गाथासप्तशती [६६५,७६४])> अत्रातिरक्तेनापि मनसा संयुक्तो न रक्ततामुपगत इत्यतद्गुणः । किञ्च तदिति अप्रकृतमस्येति च प्रकृतमत्र निर्दिश्यते । तेन यतप्रकृतस्य रूपं प्रकृतेन कुत्प्ऽपि निमित्तात्नानुविधीयते सोऽतदगुण इत्यपि प्रतिपत्तव्यम् । यथा {गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः । राजहंस तव सैव शुभ्रता चीयते न च न चापचीयते ॥५६५॥} <(रुय्यकऽसलङ्कारसर्वस्व)> यद्यथा साधितं केनाप्यपरेण तदन्यथा ॥ कारिका १३८ ॥ तथैव यद्विधीयेत स व्याघात इति स्मृतिः । येनोपायेन यतेकेनोपकल्पितं तस्यान्येन जिगीषुतया तदुपायकमेव यतन्यथाकरणं स साधितवस्तुव्याहतितेतुत्वात्व्याघातः । उदाहरणम् {दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः । विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचनाः ॥५६६॥} <(राजशेखरऽस्विद्धशालभञ्जिका १.४)> सेष्टा संसृष्टिरेतेषां भेदेन यदिह स्थितिः ॥ कारिका १३९ ॥ एतेषां समनन्तरमेवोक्तस्वरूपाणां यथासंभवनन्योन्यनिरपेक्षतया यतेकत्र शब्दभागे एव अर्थविषये एव उभयत्रापि वा अवस्थानं सा एकार्थसमवायस्वभावा संसृष्टिः । तत्र शब्दालङ्कारसंसृष्टिर्यथा {वदनसौरभलोभपरिभ्रमद्भ्रमरसंभ्रमसंभृतशोभया । चलितया विदधे कलमेखलाकलकलोलकलोलदृशान्यया ॥५६७॥} <(माघऽस्सिशुपालवध ६.१४)> अर्थालङ्कारसंसृष्टिस्तु {लिम्पतीव तमोङ्गानि वर्षतीवाञ्जनं नभः । असत्पुरुषसेवेव दृष्टिर्विफलतां गता ॥५६८[=४१७]॥} <(शूद्रकऽस्मृच्छकटिका १.३२)> पूर्वत्र परस्परनिरपेक्षौ यमकानुप्रासौ संसृष्टिं प्रयोजयतः उत्तरत्र तु तथाविधे उपमोत्प्रेक्षे । शब्दार्थालङ्कारयोस्तु संसृष्टिः । {सो णत्थि एत्थ गामे जो ए_अं महमहन्तला_अण्णम् । तरुणाण हिअअलूडिं परिसक्कन्तीं णिवारे_इ ॥५६९॥} [स नास्त्यत्र ग्रामे य एनां महमहायमानलावण्याम् । तरुणानां हृदयलुण्ठाकिं परिष्वक्कमाणां निवारयति ।] <(हालऽस्गाथासप्तशती ९९७)> अत्रानुप्रासो रूपकं चान्योन्यानपेक्षे । संसर्गश्च तयोरेकत्र वाक्ये छन्दसि वा समवेतत्वात् ॥१३९॥ अविश्रान्तिजुषामात्मन्यङ्गाङ्गित्वं तु संकरः । एते एव यत्रात्मनि अनासादितस्वतन्त्रभावाः प्रस्परमनुग्राह्यानुग्राहकतां दधति स एषां संकीर्यमाणस्वरूपत्वात्संकरः । उदाहरणम् {आत्ते सीमन्तरत्ने मरकतिनि हृते हेमताटङ्कपत्रे लुप्तायां मेखलायां झटिति मणितुलाकोटियुग्मे गृहीते । शोणं बिम्बोष्ठकान्त्या त्वदरिमृगदृशामित्वरीणामरण्ये राजन् गुञ्जाफलानां स्रज इति शबरा नैव हारं हरन्ति ॥५७०॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्र तद्गुणमपेक्ष्य भ्रान्तिमता प्रादुर्भूतं तदाश्रयेण च तद्गुणः सचेतसां प्रभूतचमत्कृतिनिमित्तमित्यनयोरङ्गाङ्गिभावः । यथा वा {जटाभाभिर्भाभिः करधृतकलङ्काक्षवलयो वियोगिव्यापत्तेरिव कलितवैराग्यविशदः । परिप्रेङ्खत्तारापरिकरकपालाङ्किततले शशी भस्मापाण्डुः पितृवन इव व्योम्नि चरति ॥५७१॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> उपमा रूपकमुत्प्रेक्षा श्लेषश्चेति चत्वारोऽत्र पूर्ववतङ्गाङ्गितया प्रतीयन्ते । कलङ्क एवाक्षवलयमिति रूपकपरिग्रहे करधृतत्वमेव साधकप्रमाणतां प्रतिपद्यते । अस्य हि रूपकत्वे तिरोहितकलङ्करूपमक्षवलयमेव मुख्यतयावगम्यते तस्यैव च करग्रहणयोग्यतायां सार्वत्रिकी प्रसिद्धिः । श्लेषच्छायया तु कलङ्गस्य कलङ्कस्य मूर्त्यैव उद्वहनात् । कलङ्कोऽक्षवलयमिवेति तु, उपमायां कलङ्कस्य, उत्कटतया प्रतिपत्तिः । न चास्य करधृतत्वं तत्त्वतोस्तीति मुख्येऽप्युपचार एव शरणं स्यात् । एवंरूपश्च संकरः शब्दालङ्कारयोरपि परिदृश्यते । यथा {राजति तटीयमभिहतदानवरासातिपातिसारावनदा । गजता च यूथम्विरतदानवरा सातिपाति सारा वनदा ॥५७२॥} <(रत्नाकरऽस्हरविजय ५.१३७)> अत्र यमकामनुलोमप्रतिलोमश्च चित्रभेदः पादद्वयगते परस्परापेक्षे । एकस्य च ग्रहे न्यायदोषाभावादनिश्चयः ॥ कारिका १४० ॥ द्वयोर्बहूनां वा अलङ्काराणामेकत्र समावेशेऽपि विरोधात्न यत्र युगपदवस्थानं न चैकतरस्य परिग्रहे साधकं तदितरस्य वा परिहारे बाधकमस्ति येनैकतर एव परिगृह्यते स निश्चयाभावारूपो द्वितीयः संकरः समुच्चयेन संकरस्यैवाक्षेपात् । उदाहरणम् {जह गहिरो जह रअणणिव्भरो जह अ णिम्मलच्छाओ । तह किं विहिणा एसो सरसवाणीओ जलणिही ण किओ ॥५७३॥} [यथा गभीरो यथा रत्ननिर्भरो यथा च निर्मलच्छायः । तथा किं विधिना एष सरसपानीयो जलनिधिर्न क्र्टः ॥] <(हालऽस्गाथासप्तशती ९७६)> अत्र समुद्रे प्रस्तुते विशेषणसाम्यादप्रस्तुतार्थप्रतीतेः किमसौ समासोक्तिः किमब्धेरप्रस्तुतस्य मुखेन कस्यापि तत्समगुणतया प्रस्तुतस्य प्रतीतेः इयमप्रस्तुतप्रशंसा इति संदेहः । यथा वा {नयनानन्ददायीन्दोर्बिम्बमेतत्प्रसीदति । अधुनापि निरुद्धाशमविशीर्णमिदं तमः ॥५७४॥} <(क्षेमेन्द्रऽसौचित्यविचारचर्चा)> अत्र किं कामस्योद्दीपलः कालो वर्तते इति भङ्ग्यन्तरेणाभिधानात्पर्यायोक्तम् । उत वदनस्येन्दुबिम्बतया अध्यवसानाततिशयोक्तिः किं वा । एतदिति वक्त्रं निर्दिश्य तद्रूपारोपवशात्रूपकम् । अथवा तयोः समुच्चयविवक्षायां दीपकम् ।थवा तुल्ययोगिता । किमु प्रदोषसमये विशेषणसाम्यादाननस्यावगतौ समासोक्तिः । आहोस्वित्मुखनैर्मल्यप्रस्तावातप्रस्तुतप्रशंसा इति बहूनां संदेहादयमेव संकरः । यत्र तु न्यायदोषयोरन्यरस्यावतारः तत्र एकतरस्य निश्चयात्न संशयः ॥ न्यायश्च साधकत्वमनुकूलता दोषोऽपि बाधकत्वं प्रतिकूलता । तत्र {सौभाग्यं वितनोति वक्त्रशशिनो ज्योत्स्नेव हासद्युतिः ॥५७५॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा ३२१)> इत्यत्र मुख्यतया अवगम्यमाना हासद्युतिर्वक्त्रे एवानुकूल्यं भजते इत्युपमायाः साधकम् । शशिना तु न तथा प्रतिकूलेति रूपकं प्रति तस्या अबाधकता । {वक्त्रेन्दौ तव सत्ययं यदपरः शीतांशुरभ्युद्यतः ॥५७६॥} <(हर्षऽस्रत्नावलि [३.२३ च्द्])> इत्यत्रापरत्वमिन्दोरनुगुणं न तु वक्त्रस्य प्रतिकूलमिति रूपकस्य साधकतां प्रतिपद्यते न तूपमाया बाधकताम् । {राजनारायणं लक्ष्मीस्त्वामालिङ्गति निर्भरम् ॥५७७॥} <(उद्भटऽस्काव्यालङ्कारसारसङ्ग्रह)> इत्यत्र पुनरालिङ्गनमुपमां निरस्यति सदृशं प्रति परप्रेयसीप्रयुक्तस्यालोङ्गनस्यासंभवात् । {पादाम्बुजं भवतु नो विजयाय मञ्जु मञ्जीरशिज्जितमनोहरमम्बिकायाः ॥५७८॥} <(कालिदास, पञ्चस्तवी ३.१)> इत्यत्र मञ्जीरशिञ्जितमम्बुजे प्रतिकूलमसंभवादिति रूपकस्यबाधकं न तु पादेऽनुकूलमित्युपमायाः साधकमभिधयते विध्युपमर्दिनो बाधकस्य तदपेक्षयोत्कटत्वेन प्रतिपत्तेः ॥ एवमन्यत्रापि सुधीभिः परीक्ष्यम् ॥१४०॥ स्फुटमेकत्र विषये शब्दार्थालङ्कृतिद्वयम् । व्यवस्थितं च ... अभिन्ने एव पदे स्फुटतया, यतुभावपि शब्दार्थालङ्कारौ व्यवस्थां समासादयतः सोऽप्यपरः संकरः । उदाहरणम् {स्पष्टोल्लसत्किरणकेसरसूर्यबिम्ब विस्तीर्णकणिकमथो दिवसारविन्दम् । श्लिष्टाष्टदिग्दलकलापमुखावतार बद्धान्धकारमधपावलि संचकोच ॥५७९॥} <(रत्नाकरऽस्हरविजय १९.१)> अत्र एकापदानुप्रविष्टौ रूपकानुप्रासौ ॥ ... तेनासौ त्रिरूपः परिकीर्तितः ॥ कारिका १४१ ॥ तदयमनुग्राह्यानुग्राहकतया संदेहेन एकपदप्रतिपाद्यतया च व्यवस्थितत्वात्त्रिप्रकार एव संकरो व्याकृतः । प्रकारान्तरेण तु न शक्यो व्याकर्तुमानन्त्यात्तत्प्रभेदानामिति प्रतिपादिताः शब्दार्थोभयगतत्वेन त्रिविध्यजुषोऽलङ्काराः ॥ कुतः पुनरेष नियमो यदेतेषां तुल्येऽपि काव्यशोभातिशयहेतुत्वे कश्चिदलङ्कारः शब्दस्य कश्चिदर्थस्य कश्चिच्चोभयस्य इति चेत् । उक्तम्त्र यथा काव्ये दोषगुणाळङ्काराणां शब्दार्थोभयगतत्वेन व्यवस्थायामन्वयव्यतिरेकावेव प्रभवतः निमित्तान्तरस्याभावात् । ततश्च योऽलङ्कारो यदीयान्वयव्यतिरेकावनुविधत्ते स तदलङ्कारो व्यवस्थाप्यते इति । एवं च यथा पुनरुक्तवदाभासः परंपरितरूपकं चोभयोर्भावानुविधायितया, उभयालङ्कारौ तथा शब्दहेतुकार्थान्तरन्यासप्रभृतयोऽपि द्रष्टव्याः । अर्थस्य तु तत्र वैवित्र्यमुत्कटतया प्रतिभासते, इति वाच्यालङ्कारमध्ये वस्तुस्थितिमनपेक्ष्यैव लक्षिताः ॥ योऽलङ्कारो यदाश्रितः स तदलङ्कार इत्यपि कल्पनायामन्वयव्यतिरेलावेव समाश्रयितव्यौ तदाश्रयणमन्तरेण विशिष्टस्याश्रयिभावस्याभावादित्यलङ्काराणां यथोक्तनिमित्त एव परस्परव्यतिरेको ज्यायान् ॥१४१॥ एषां दोषा यथायोगं संभवन्तोऽपि केचन । उक्तेष्वन्तर्भवन्तीति न पृथक्प्रतिपादिताः ॥ कारिका १४२ ॥ तथाहि अनुप्रासस्य प्रसिद्ध्यभावो वैफल्यं वृत्तिविरोध इति ये त्रयो दोषाः । ते प्रसिद्धिविरुद्धतामपुष्टाथत्वं प्रतिकूलवर्णतां च यथाक्रमं न व्यतिक्रामन्ति तत्स्वभावत्वात् । क्रमेणोदाहरणम् {चक्री चक्रारपङ्क्तिं हरिरपि च हरीन् धूर्जटिर्धूर्ध्वजाग्रान् अक्षं नक्षत्रनाथोरुणमपि वरुणः कूबराग्रं कुबेरः । रंहः संघः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य स्तौति प्रीतिप्रसन्नोन्वहमहिमरुचेः सोवतात्स्यन्दनो वः ॥५८०॥} <(मयूरऽस्सूर्यशतक ७१)> अत्र कर्तृकर्मप्रतिनियमेन स्तुतिः अनुप्रासानुरोधेनैव कृता न पुराणेतिहासादिषु तथा प्रतीतेति प्रसिद्धिविरोधः ॥ {भण तरुणि रमणमन्दिरमानन्दस्यन्दिसुन्दरेन्दुमुखि । यदि सल्लीलोल्लापिनि गच्छसि तत्किं त्वदीयं मे ॥५८१॥} <(रुद्रटऽस्काव्यालङ्कार २.२२)> {अनुणुरणन्मणिमेखलमविरतशिञ्जानमञ्जुमञ्जीरम् । परिसरणमरुणचरणे रणरणकमकारणं कुरुते ॥५८२ (=२०७)॥} <(रुद्रटऽस्काव्यालङ्कार २.२३)> अत्र वाव्यस्य विचिन्त्यमानं न किञ्चिदपि चारुत्वं प्रतीयते, इत्यपुष्टार्थतैवानुप्रासस्य वैफल्यम् ॥ अकुण्ठोत्कण्ठया इति अत्र शृङ्गारे परुषवर्णाडम्बरः पूर्वोक्तरीत्या विरुध्यते इति परुषानुप्रासोऽत्र प्रतिकूलवर्णतैव वृत्तिविरोधः ॥ यमकस्य पादत्रयगतत्वेन यमनमप्रयुतत्वं दोषः ॥ यथा {भुजङ्गमस्येव मणिः सदम्भा ग्राहावकीर्णेव नदी सदम्भाः । दुरन्ततां निर्णयतोऽपि जन्तोः कर्षन्ति चेतः प्रसभं सदम्भाः ॥५८३॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> उपमायामुपमानस्य जातिप्रमाणगतन्यूनत्वमधिकता वा तादृशी अनुचितार्थत्वं दोषः । धर्माश्रये तु न्यूनाधिकत्वे यथाक्रमं हीनपदत्वमधिकपदत्वं च न व्यभिचरतः ॥ क्रमेणोदाहरणम् {चण्डालैरिव युष्माभिः साहसं परमं कृतम् ॥५८४॥} <(वामनऽस्काव्यालङ्कारसूत्रवृत्ति ४,२.९)> {वह्निस्फुलिङ्ग इव भानुरयं चकास्ति ॥५८५॥} <(वामनऽस्काव्यालङ्कारसूत्रवृत्ति ४.२)> {अयं पद्मासनासीनश्चक्रवाको विराजते । युगादौ भगवान् वेधा विनिर्मित्सुरिव प्रजाः ॥५८६॥} <(भामहऽस्काव्यालङ्कार २.२५॑ वामनऽस्काव्यालङ्कारसूत्रवृत्ति ४,२.११)> {पातालमिव ते नाभिः स्तनौ क्षितिधरोपमौ । वेणीदण्डः पुनरयं कालिन्दीपातसंनिभः ॥५८७॥} <(वामनऽस्काव्यालङ्कारसूत्रवृत्ति ४,२.११)> अत्र चण्डालादिभिरुपमानः प्रस्तुतोऽर्थोऽत्यर्थमेव कदर्थित इत्यनुचिताथन्ता ॥ {स मुनिर्लाञ्छितो मौञ्ज्या कृष्णाजिनपटं वहन् । व्यराजन्नीलजीमूतभागाश्लिष्ट इवांशुमान् ॥५८८॥} <(वामनऽस्काव्यालङ्कारसूत्रवृत्ति ४,२.९)> अत्रोपमानस्य मौञ्जीस्थानीयस्तडिल्लक्षणो धर्मः केनापि पदेन न प्रतिपादित इति हीनपदत्वम् ॥ {स पीतवासाः प्रगृहीतशार्ङ्गो मनोज्ञभीमं वपुराप कृष्णः । शतह्रदेन्द्रायुधवान्निशायां संसृज्यमानः शशिनेव मेघः ॥५८९॥} <(भामहऽस्काव्यालङ्कार २.५८)> अत्रोपमेयस्य शङ्खादेरनिर्देशे शशिनो ग्रहणमतिरिच्यते इत्यधिकपदत्वम् ॥ लिङ्गवचनभेदोऽपि उपमानोपमेययोः साधारणं चेत्धर्ममन्यरूपं कुर्यात् । तदा एकतरस्यैव तद्धर्मसमन्वयावगतेः सविशेषणस्यैव तस्योपमानत्वमुपमेयत्वं वा प्रतीयमानेन धर्मेण प्रतीयते इति प्रकान्तस्यार्थस्य स्फुटमनिर्वाहादस्य भग्नप्रक्रमरूपत्वम् । यथा {चिन्तारत्नमिव च्युतोसि करतो धिङ्मन्दभाग्यस्य मे ॥५९०॥} <(रुद्रट, काव्यालङ्कार ११.२०)> {सक्तवो भक्षिता देव शुद्धाः कुलवधूरिव ॥५९१॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा ३३४)> यत्र तु नानात्वेऽपि लिङ्ग्गवचनयोः सामान्याभिधायि पदं द्वरूपभेदं नापद्यते न तत्रैतद्दूषणावतारः उभयथापि अस्य अनुगमक्षमस्वभावत्वात् । यथा {गुणैरनर्घ्यैः प्रथितो रत्नैरिव महार्णवः ॥५९२॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा ३३५)> {तद्वेषोसदृशोन्याभिः स्त्रीभिर्मधुरताभृतः । दधते स्म परां शोभां तदीया विभ्रमा इव ॥५९३॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा ३३६)> कालपुरुषविध्यादिभेदेऽपि न तथा प्रतीतिरस्खलितरूपतया विश्रान्तिमासादयतीत्यसावपि भग्नप्रक्रमतयैव व्याप्तः । यथा {अतिथिं नाम काकुत्स्थात्पुत्रमाप कुमुद्वती । पश्चिमाद्यामिनीयामात्प्रसादमिव चेतना ॥५९४॥} <(कालिदासऽस्रघुवंश १७.१)> अत्र चेतना प्रसादमाप्नोति न पुनरापेति कालभेदः । {प्रत्यग्रमज्जनविशेषविविक्तमूर्तिः कौसुम्भरागरुचिरस्फुरदंशुकान्ताः । विभ्राजसे मकरकेतनमर्चयन्ती बालप्रबालविटपप्रभवा लतेव ॥५९५॥} <(हर्षऽस्रत्नावलि १.२०)> अत्र लता विभ्राजते न तु विभ्राजसे इति संबोध्यमाननिष्ठस्य परभागस्य असंबोध्यमानविषयतया व्यत्यासात्पुरुषभेदः । {गङ्गेव प्रवहतु ते सदैव कीर्तिः ॥५९६॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा ३३९)> इत्यादौ च गङ्गा प्रवहति न तु प्रवहतु इति अप्रवृत्तप्रवर्तनात्मनो विधेः । एवञ्जातीयकस्य चान्यस्यार्थस्य उपमानगतस्यासंभवाद्विध्यादिभेदः ॥ ननु समानमुच्चारितं प्रतीयमानं वा धर्मान्तरमुपादाय पर्यवसितायामुपमायामुपमेयस्य प्रकृतधर्मामिसंबन्धान्न कश्चित्कालादिभेदोऽस्ति । यत्राप्युपात्तेनैव सामान्यधर्मेण उपमा अवगम्यते यथा {युधिष्ठिर इवायं सत्यं वदति} इति तत्र युधिष्थिर इव सत्यवाद्ययं सत्यं वदतीति प्रतिपत्स्यामहे । सत्यवादी सत्यं वदतीति च न पौनरुक्त्यमाशङ्कनीयं रैपोषं पुष्णातीतिवत् युधिष्थिर इव सत्यवदनेन सत्यवाद्ययमित्यर्थावगमात् । सत्यमेतत्किं तु स्थितेषु प्रयोगेषु समर्थनमिदं न तु सर्वथा निरवद्यं प्रस्तुतवस्तुप्रतीतिव्याधातादिति सवेतस एवात्र प्रमाणम् ॥ असादृश्यासंभवावप्युपमायामनुचितार्थतायामेव पर्यवस्यतः । यथा {ग्रथ्नामि काव्यशशिनं विततार्थरश्मिम् ॥५९७॥} <(वामनऽस्काव्यालङ्कारसूत्रवृत्ति २,४.१६)> अत्र काव्यस्य शशिना अर्थानां च रश्मिभिः साधर्म्यं कुत्रापि न प्रतीतमित्यनुचितार्थत्वम् । {निपेतुरास्यादिव तस्य दीप्ताः शरा धनुर्मण्डलमध्यभाजः । जाज्वल्यमाना इव वारिधारा दिनार्धभाजः परिवेषिणोर्कात् ॥५९८॥} <(गोविन्दठक्कुरऽस्काव्यप्रदीप)> अत्रापि ज्वलन्त्योम्बुधाराः सूर्यमण्डलात्निष्पतन्त्यो न संभवन्तीत्युपनिबध्यमानोऽर्थोऽनौचित्यमेव पुष्णाति ॥ उत्प्रेक्षायामपि संभावनं ध्रुवेवादय एव शब्दा वक्तुं सहन्ते न यथाशब्दोऽपि केवलस्यास्य साधार्म्यमेव प्रतिपादयितुं पर्याप्तत्वात्तस्य चास्यामविवक्षितत्वादिति तत्राशक्तिरस्यावाचकत्वं दोषः । यथा {उद्ययौ दीर्घिकागर्भान्मुकुलं मेचकोत्पलम् । नारीलोचनचातुर्यशङ्कासंकुचितंय था ॥५९९॥} <(श्रिवत्सलाञ्छनाचार्यऽस्काव्यपरीक्षा ३४०)> उत्प्रेक्षितमपि तात्त्विकेन रूपेण परिवर्जितत्वात्निरुपाख्यप्रख्यम् । तत्समर्थनाय यतर्थान्तरन्यासोपादानं ततालेख्यमिव गगनतलेत्यन्तमसमीचीनमिति निर्विषयत्वमेतस्य । अनुचितार्थतैव दोषः । यथा {दिवाकराद्रक्षति यो गुहासु लीनं दिवा भीतमिवान्धकारम् । क्षुद्रेऽपि नूनं प्रपन्ने ममत्वमुच्चैः शिरसामतीव ॥६००॥} <(कालिदासऽस्कुमारसंभव १.१२)> अत्राचेतनस्य तमसो दिवाकरात्त्रास एव न संभवतीति कुत एव तत्प्रयोजितमद्रिणा परित्राणम् । संभावितेन तु रूपेण प्रतिभासमानस्यास्य न काचिदनुपपत्तिरवतरतीति व्यर्थ एव तत्समर्थनायां यत्नः । साधारणविशेषणवशादेव समासोक्तिरनुक्तमपि उपमानविशेषं प्रकाशयतीति तस्यात्र पुनरुपादाने प्रयोजनाभावातनुपादेयत्वं यत्ततपुष्टार्थत्वं पुनरुक्तं वा दोषः । यथा {स्पृशति तिग्मरुचौ ककुभः करैर्दयितयेव विजृम्भिततापया । अतनुमानपरिग्रहया स्थितं रुचिरया चिरयापि दिनश्रिया ॥६०१॥} <(रत्नाकरऽस्हरविजय ३.३७)> अत्र तिग्मरुचेः ककुभां च यथा सदृशविशेषणवशेन व्यक्तिविशेषपरिग्रहेण च नायकतया नायिकात्वेन च व्यक्तिः, तथा ग्रीष्मदिवसश्रियोऽपि प्रतिनायिकात्वेन भविष्यतीति किं दयितयेति स्वशब्दोपादानेन ॥ श्लेषोपमायास्तु स विषयः यत्रोपमानस्योपादानमन्तरेण साधारणेष्वपि विशेषणेषु न तथा प्रतीतिः । यथा {स्वयं च पल्लवाताम्र भास्वत्करविराजिता । प्रभातसंध्येवास्वापफललुब्धेहितप्रदा ॥६०२॥} इति॥ <(उद्भटऽस्काव्यालङ्कारसारसङ्ग्रह ४.१५)> अप्रस्तुतप्रशंसायामपि उपमेयमनयैव रीत्या प्रतीतं न पुनः प्रयोगेण कदर्थतां नेयम् । यथा {आहूतेषु विहङ्गमेषु मशको नायान् पुरो वार्यते मध्येवारिधि वावसंस्तृणमणिर्धत्ते मणीनां रुचम् । खद्योतोऽपि न कम्पते प्रचलितुं मध्येऽपि तेजस्विनां धिक्सामान्यमचेतनं प्रभुमिवानामृष्टतत्त्वान्तरम् ॥६०३॥} <(भल्लटशतक ६७)> अत्र अचेतनस्य प्रभोरप्रस्तुतविशिष्टसामान्यद्वारेणाभिव्यक्तौ न युक्तमेव पुनः कथनम् ॥ तदेत अलङ्कारदोषाः यथासंभाविनोन्येऽप्येवञ्जातीयकाः पूर्वोक्तयैव दोषजात्या अन्तर्भाविताः न पृथग्प्रतिपादनमर्हन्तीति संपूर्णमिदं काव्यलक्षणम् ॥१४२॥ {इत्येष मार्गो विदुषां विभिन्नोऽप्यभिन्नरूपः प्रतिभासते यत् । न तद्विचित्रं यदमुत्र सम्यग्विनिर्मिता संघटनैव हेतुः ॥१॥} इति काव्यप्रकाशेऽर्थालङ्कारनिर्णयो नाम दशम उल्लासः ॥ ॥ समाप्तश्चायं काव्यप्रकाशः ॥ ॥ समाप्तोऽयं ग्रन्थः ॥