आपस्तम्बशुल्बसूत्रम् विहारयोगान् व्याख्यास्यामः ॥ १.१ ॥ यावदायामं प्रमाणम् ॥ १.२ ॥ तदर्धमभ्यस्यापरस्मिंस्तृतीये षड्भागोने लक्षणं करोति ॥ १.२ ॥ पृष्ठ्यान्तयोरन्तौ नियम्य लक्षणेन दक्षिणापायम्य निमितं करोति ॥ १.२ ॥ एवमुत्तरतो विपर्यस्येतरतः स समाधिः ॥ १.२ ॥ तन्निमित्तो निर्ह्रासो विवृद्धिर्वा ॥ १.२ ॥ आयामं वाभ्यस्यागन्तुचतुर्थमायामश्चाक्ष्णया रज्जुस्तिर्यङ्भानीशेषः । व्याख्यातं विहरणम् ॥ १.३ ॥ दीर्घस्याक्ष्णयारज्जुः पार्श्वमानी तिर्यङ्मानी च यत्पृथग्भुते कुरुतस्तदुभयं करोति ॥ १.४ ॥ ताभिर्ज्ञेयाभिरुक्तं विहरणम् ॥ १.४ ॥ चतुरश्रस्याक्ष्णयारज्जुर्द्विस्तवतीं भूमिं करोति । समस्य द्विकरणी ॥ १.५ ॥ प्रमाणं तृतीयेन वर्धयेत्तच्चतुर्थेनात्मचतुस्त्रिंशोनेन सविशेषः ॥ १.६ ॥ अथापरम् ॥ १.७ ॥ प्रमाणमात्रीं रज्जुमुभयतः पाशां करोति ॥ १.७ ॥ मध्ये लक्षणमर्धमध्यमयोश्च पृष्ठ्यायां रज्जुमायम्य पाशयोर्लक्षणेष्विति शङ्कून्निहत्युपान्त्ययोः पाशौ प्रतिमुच्य मध्यमेन लक्षणेन दक्षिणापायम्य शङ्कुं निमित्तं करोति । मध्यमे पाशौ प्रतिमुच्य, उपर्युपरि निमित्तं मध्यमेन लक्षणेन दक्षिणमंसमायच्छेत् । उन्मुच्य पूर्वस्मादपरस्मिन् प्रतिमुच्य मध्यमेनैव लक्षणेन दक्षिणां श्रोणिमायच्छेत् । एवमुत्तरौ श्रोण्यंसौ ॥ १.७ ॥ अथापरोयोगः ॥ २.१ ॥ पृष्ठ्यान्तयोर्मध्ये च शङ्कून्निहत्यार्धेऽर्धे तद्विशेषमभ्यस्य लक्षणं कृत्वार्धमगमयेत् । अन्त्ययोः पाशौ कृत्वा मध्यमे सविशेषं प्रतिमुच्य पूर्वस्मिन्नितरं लक्षणेन दक्षिणमङ्कमायच्छेत् । उन्मुच्य पूर्वस्मादपरस्मिन् प्रतिमुच्य लक्षणेनैव दक्षिणां श्रोणिमायच्छेत् । एवमुत्तरौ श्रोण्यंसौ ॥ २.१ ॥ प्रमाणं तिर्यग्द्विकरण्यायामस्तस्याक्ष्णयारज्जुस्त्रिकरणी ॥ २.२ ॥ तृतीयकरण्येतेन व्याख्याता । विभागस्तु नवधा ॥ २.३ ॥ तुल्ययोश्चतुरश्रयोरुक्तः समासः । नानाप्रमाणयोश्चतुरश्रयोः समासः ॥ २.४ ॥ ह्रसीयसः करण्या वर्षीयसो वृद्ध्रमुल्लिखेत् । वृद्ध्रस्याक्ष्णयारज्जुरुभे समस्यति । तदुक्तम् ॥ २.४ ॥ चतुरश्राच्चतुरश्रं निर्जिहीर्षन् यावन्निर्जिहीर्षेत्तस्य करण्या वर्षीयसो वृद्ध्रमुल्लिखेत् ॥ २.५ ॥ वृर्धस्य पार्श्वमानीमक्ष्णयेतरत्पार्श्वमुपसंहरेत् ॥ २.५ ॥ सा यत्र निपतेत्तदपच्छिन्द्यात् ॥ २.५ ॥ छिन्नया निरस्तम् ॥ २.५ ॥ उपसंहृताक्षणयारज्जुः सा चतुष्करणी छिन्ना चेतरा च यत्पृथग्भूते कुरुतस्तदुभयं करोति ॥ २.६ ॥ तिर्यङ्मानी पुरुषं शेषस्त्रीन् ॥ २.६ ॥ तदुक्तम् ॥ २.६ ॥ दीर्घचतुरश्रं समचतुरश्रं चिकीर्षन् तिर्यङ्मान्यापच्छिद्य शेषं विभज्योभयत उपदध्यात् ॥ २.७ ॥ खण्डमागन्तुना संपुरयेत् ॥ २.७ ॥ तस्य निर्हार उक्तः ॥ २.७ ॥ समचतुरश्रं दीर्घचतुरश्रं चुकीर्षना यावच्चिकीर्षेत्तावतीं पार्श्वमानीं कृत्वा यदधिकं स्याद्यथायोगमुपदध्यात् ॥ ३.१ ॥ चतुरश्रं मण्डलं चिकीर्षन्मध्यात्कोट्यां निपातयेत् ॥ ३.२ ॥ पार्श्वतः परिकृष्यातिशयतृतीयेन सह मण्डलं परिलिखेत् ॥ ३.२ ॥ सा नित्या मण्डलम् ॥ ३.२ ॥ यावद्धीयते तावदागन्तु ॥ ३.२ ॥ मण्डलं चतुरश्रं चिकीर्षन् विष्कम्भं पञ्चदश भागान् कृत्वा द्वावुद्धरेत् । त्रयोदशावशिष्यन्ते । सा नित्या चतुरश्रम् ॥ ३.३ ॥ प्रमाणेन प्रमाणं विधीयते ॥ ३.४ ॥ चतुरश्रमादेशादन्यत् ॥ ३.५ ॥ द्वाभ्यां चत्वारि ॥ ३.६ ॥ त्रिभिर्नव ॥ ३.६ ॥ यावत्प्रमाणा रज्जुस्तावतस्तावतो वर्गान् करोति ॥ ३.८ ॥ अर्धतृतीयपुरुषा षट्सपादान् ॥ ३.८ ॥ अथात्यन्त प्रदेशः ॥ ३.९ ॥ यावता यावताधिकेन परिलिखति तत्पार्श्वयोरुपदधाति । यच्च तेन चतुरश्रं क्रियते तत्कोट्याम् ॥ ३.९ ॥ अर्धप्रमाणेन पादप्रमाणं विधीयते ॥ ३.१० ॥ अर्धस्य द्विप्रमाणायाः पादपूरणत्वात् ॥ ३.१० ॥ तृतीयेन नवमी कला ॥ ३.१० ॥ आग्न्याधेयिके विहारे गार्हपत्याहवनीययोरन्तराले विज्ञायते ॥ ४.१ ॥ अष्टासु प्रक्रमेषु ब्राह्मणोऽग्निमादधीत । एकादशसु राजन्यः । द्वादशसु वैश्यः ॥ ४.१ ॥ चतुर्विंशत्यामपरिमिते यावता वा चक्षुषा मन्यते तस्मान्नातिदूरमाधेय इति सर्वेषामविशेषेण श्रूयते ॥ ४.२ ॥ दक्षिणतः पुरस्ताद्वितृतीयदेशे गार्हपत्यस्य नेदीयसि दक्षिणाग्नेर्विज्ञायते ॥ ४.३ ॥ गार्हपत्याहवनीययोरन्तरालं पञ्चधा षड्धा वा संविभज्य षष्ठं सप्तमं वा भागमागन्तुमुपसमस्य समं त्रैधं विभज्यापरस्मिंस्तृतीये लक्षणं कृत्वा गार्हपत्याहवनीययोरन्तौ नियम्य लक्षणेन दक्षिणापायम्य निमित्तं करोति तद्दक्षिणाग्नेरायतनम् । श्रुतिसामर्थ्यात् ॥ ४.४ ॥ यजमानमात्री प्राच्यपरिमिता वा यथासन्नानि हवींषि संभवेदेवं तिरश्ची प्राञ्चौ वेद्यंसावुन्नयति । प्रतीची श्रोणी पुरस्तादंहीयसी पश्चात्प्रथीयसी मध्ये संनततरैवमिव हि योषेति दार्शिक्या वेदेर्विज्ञायते ॥ ४.५ ॥ अपरेणाहवनीयं यजमानमात्री दीर्घं चतुरश्रं विहृत्य तावतीं रज्जुमायम्य मध्ये लक्षणं कृत्वा दक्षिणयोः श्रोण्यंसयोरन्तरा नियम्य लक्षणेन दक्षिणापायम्य निमित्तं करोति । निमित्ते रज्जुं नियम्यान्तौ समस्य । दक्षिणायाः श्रोणेर्दक्षिणमंसमालिखेत् । एवमुत्तरतः । तिर्यङ्मानीं द्विगुणां तथा कृत्वा पश्चात्पुरस्ताच्चोपलिखेत् । विमितायां पुरस्तात्पार्श्वमान्यावुपसंहरेत् । श्रुतिसामर्थ्यात् ॥ ४.६ ॥ त्रिंशत्पदानि प्रक्रमा वा पश्चात्तिरश्वी भवति । षट्त्रिंशत्प्राची चतुर्विंशतिः पुरस्तात्तिरश्चीति सौमिक्या वेदेर्विज्ञायते ॥ ५.१ ॥ षट्त्रिंशिकायामष्टादशोपसमस्य अपरस्मादन्ताद्द्वादशसु लक्षणं पञ्चदशसु लक्षणं पृष्ठ्यान्तयोरन्तौ नियम्य पञ्चदशकेन दक्षिणापायम्य शङ्कुं निहन्त्येवमुत्तरतःश्रोणी । विपर्यस्यांसौ पञ्चदशिकेनैवापायम्य द्वादशिके शङ्कुं निहन्ति । एवमुत्तरतस्तावंसौ ॥ ५.२ ॥ तदेकरज्ज्वा विहरणम् ॥ ५.२ ॥ त्रिकचतुष्कयोः पञ्चिकाक्ष्णयारज्जुः । ताभिस्त्रिरभ्यस्ताभिरंसौ । चतुरभ्यस्ताभिःश्रोणी ॥ ५.३ ॥ द्वादशिकापञ्चिकयोस्त्रयोदशिकाक्ष्णयारज्जुः, ताभिरंसौ द्विरभ्यस्ताभिः श्रोणी ॥ ५.४ ॥ पञ्चदशिकाष्टिकयोः सप्तदशिकाक्ष्णयारज्जुः । ताभिःश्रोणी ॥ ५.५ ॥ द्वादशिकापञ्चत्रिंशिकयोः सप्तत्रिंशिकाक्ष्णयारज्जुः । ताभिरंसौ ॥ ५.५ ॥ एतावन्ति ज्ञेयानि वेदिविहरणानि भवन्ति ॥ ५.६ ॥ अष्टविंशत्योनं पदसहस्रं महावेदिः ॥ ५.७ ॥ दक्षिणस्मादंसाद्द्वादशसु दक्षिणस्यां श्रोण्यां निपातयेत् । छेदं विपर्यस्योत्तरत उपदध्यात् । सा दीर्घा चतुरश्रा । तथा युक्तां संचक्षीत ॥ ५.७ ॥ सौमिक्या वेदितृतीयदेशे यजेतेति सौत्रामण्या वेदेर्विज्ञायते ॥ ५.८ ॥ प्रक्रमास्य द्विकरणी प्रक्रमस्थानीया भवति त्रिकरण्या वा ॥ ५.८ ॥ अष्टिका दशिकेति तिर्यङ्मान्यौ । द्वादशिका पृष्ठया ॥ ५.८ ॥ त्रीणि चतुर्विंशानि पदशतानि सौत्रामणिकी वेदिः ॥ ५.९ ॥ द्विस्तावा वेदिर्भवतीत्यश्वमेधे विज्ञायते ॥ ५.१० ॥ प्रक्रमस्य द्विकरणी प्रकमस्थानीया भवति ॥ ६.१ ॥ प्रक्रमो द्विपदस्त्रिपदो वा । प्रक्रमे याथाकामी शब्दार्थस्य विशयित्वात् ॥ ६.२ ॥ यजमानस्याध्वर्योर्वा । एष हि चेष्टानां कर्ता भवति ॥ ६.२ ॥ रथमात्री निरूढपशुबन्धस्य वेदिर्भवतीति विज्ञायते ॥ ६.३ ॥ तस्य खल्वाहू रथाक्षमात्री पश्चात्तिर्यगीषया प्राची । विपथयुगेन पुरस्तात् ॥ ६.३ ॥ यावता वा बाह्ये छिद्रे ॥ ६.३ ॥ तदेकरज्ज्वोक्तम् । पञ्चदशिकेनैवापायम्यार्धाक्षेणार्धयुगेन श्रोण्यंसान्निर्हरेत् ॥ ६.४ ॥ अथाप्युदाहरन्ति ॥ ६.५ ॥ अष्टाशीतिशतमीषा तिर्यगक्षश्चतुःशतम् । षडशीतियुगं चास्य रथश्चारण उच्यते इति रथपरिमाणम् ॥ ६.५ ॥ अरत्निभिर्वा चतुर्भिः पश्चात्षड्भिः प्राची त्रिभिः पुरस्तात् । तदेकरज्ज्वोक्तं पञ्चदशिकेनैवापायम्य द्वाभ्यामध्यर्धेनेति श्रोण्यंसान्निर्हरेत् ॥ ६.६ ॥ यजमानमात्री चतुःस्रक्तिर्भवतीति पैतृक्या वेदेर्विज्ञायते, तदेकरज्ज्वोक्तं पञ्चदशिकेनैवापायम्यार्धेन ततः श्रोण्यंसान्निर्हरेत् ॥ ६.७ ॥ दशपदोत्तरा वेदिर्भवतीति सोमे विज्ञायते । तदेकरज्ज्वोक्तं पञ्चदशिकेनैवापायम्यार्धेन ततः श्रोण्यंसान्निर्हरेत् ॥ ६.८ ॥ तां युगेन यजमानस्य वा पदैर्विमाय शम्यया परिमिमीते ॥ ६.९ ॥ पदे युगेऽरत्नावियति शम्यायां च मानार्थेषु यथाकामी शब्दार्थस्य विशयित्वात् ॥ ६.१० ॥ विमितायां पुरस्तात्पार्श्वमान्या उपसंहरेत् । श्रुतिसामर्थ्यात् ॥ ६.११ ॥ नवारत्नि तिर्यक्सप्तविंशतिरुदगायतमिति सदसो विज्ञायते ॥ ७.१ ॥ अष्ठादशेत्येकेषां ॥ ७.२ ॥ तदेकरज्ज्वोक्तं पञ्चदशिकेनैवापायम्यार्धपञ्चमैः श्रोण्यंसान्निर्हरेत् ॥ ७.३ ॥ प्रादेशमुखाः प्रादेशान्तराला भवन्तीत्युपरवाणां विज्ञायते । अरत्निमात्रं चतुरश्रं विहृत्य स्रक्तिषु शङ्कून्निहत्यार्धप्रादेशेन तं तं परिलिखेच्छ्रुतिसामर्थ्यात् ॥ ७.४ ॥ व्यायाममात्री भवतीति गार्हपत्यचितेर्विज्ञायते ॥ ७.५ ॥ चतुरश्रेत्येकेषाम्, परिमण्डलेत्येकेषाम् ॥ ७.६ ॥ करणं व्यायामस्य तृतीयायामं सप्तमव्यासं कारयेत् ॥ ७.७ ॥ ता एकविंशतिर्भवन्ति ॥ ७.८ ॥ प्रागायामाः प्रथमे प्रस्तारेऽपरस्मिन्नुदगायामाः ॥ ७.९ ॥ मण्डलायां मृदो देहं कृत्वा मध्ये शङ्कुं निहत्यार्धव्यायामेन सह मण्डलं परिलिखेत् ॥ ७.१० ॥ तस्मिंश्चतुरश्रमवदध्याद्यावत्सम्भवेत्तन्नवधा व्यवलिख्य त्रैधमेकैकं प्रधिकं विभजेत् ॥ ७.१० ॥ उपधाने चतुरश्रस्यावान्तरदेशान् प्रति स्रक्तीः सम्पादयेत् ॥ ७.११ ॥ मध्यानीतरस्मिन्प्रस्तारे ॥ ७.११ ॥ व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेत् ॥ ७.११ ॥ पिशीलमात्रा भवन्तीति धिष्ण्यानां विज्ञायते ॥ ७.१२ ॥ चतुरश्रा इत्येकेषां परिमण्डला इत्येकेषाम् ॥ ७.१३ ॥ मृदो देहान् कृत्वाग्नीध्रीयं नवधा व्यवलिख्य, एकस्याः स्थानेऽश्मानमुपपध्यात् ॥ ७.१४ ॥ यथासङ्ख्यमितरा व्यवलिख्य यथायोगमुपदध्यात् ॥ ७.१५ ॥ भवतीव खलु वा एष योऽग्निं चिनुते इति विज्ञायते । वयसां वा एष प्रतिमया चीयत इत्याकृतिचोदनात् । प्रत्यक्षविधानाद्वा ॥ ८.१ ॥ यावदाम्नानेन वेणुना चतुरश्रे आत्मनि पुरुषानवमिमोते ॥ ८.२ ॥ पुरुषं दक्षिणे पक्षे पुरुषं पुच्छे पुरुषमुत्तरे ॥ ८.२ ॥ अरत्निना दक्षिणतो दक्षिणं पक्षं वर्धयति । एवमुत्तरत उत्तरम् ॥ ८.२ ॥ प्रादेशेन वितस्त्या वा पश्चात्पुच्छम् ॥ ८.२ ॥ एकविधः प्रथमोऽग्निर्द्विविधो द्वितीयस्त्रिविधस्तृतीयः त एवमेवोद्यन्त्यैकशतविधात् ॥ ८.३ ॥ तदु ह वै सप्तविधमेव चिन्वीत । सप्तविधो वाव प्राकृतोऽग्निः । तत ऊर्ध्वमेकोत्तरानिति विज्ञायते ॥ ८.४ ॥ एकविधप्रभृतीनां न पक्षपुच्छानि भवन्ति । सप्तविधवाक्यशेषत्वाच्छ्रुतिविप्रतिषेधाच्च ॥ ८.५ ॥ अष्टविधप्रभृतीनां यदन्यत्सप्तभ्यस्तत्सप्तधा विभज्य प्रतिपुरुषमावेशयेत् ॥ ८.६ ॥ आकृतिविकारस्याश्रुतत्वात् ॥ ८.६ ॥ पुरुषमात्रेण विमिमीतेऽ वेणुना विमिमीते, इति विज्ञायते ॥ ८.७ ॥ यावान् यजमान ऊर्ध्वबाहुस्तावदन्तराले वेणोश्छिद्रे करोति मध्ये तृतीयम् ॥ ८.८ ॥ अपरेण यूपावटदेशमनुपृष्ठ्यं वेणुं निधाय छिद्रेषु शङ्कून्निहत्योन्मुच्यापराभ्यां दक्षिणाप्राक्परिलिखेदान्तात् ॥ ८.९ ॥ उन्मुच्य पूर्वस्मादपरस्मिन् प्रतिमुच्य दक्षिणा प्रत्यक्परिलिखेदान्तात् ॥ ८.१० ॥ उन्मुच्य वेणुं मध्यमे शङ्कावन्त्यं वेणोश्छिद्रं प्रतिमुच्योपर्युपरि लेखासमरं दक्षिणा वेणुं निधायान्त्ये छिद्रे शङ्कुं निहत्य तस्मिन्मध्यमं वेणोश्छिद्रं प्रतिमुच्य लेखान्तयोरितरे प्रतिष्ठाप्य छिद्रयोः शङ्कू निहन्ति ॥ ९.१ ॥ स पुरुषश्चतुरश्रः ॥ ९.१ ॥ एवं पुरदक्षिणं चतुर आत्मनि पुरुषानवमिमीते ॥ ९.२ ॥ पुरुषं दक्षिणे पक्षे । पुरुषं पुच्छे पुरुषमुत्तरे ॥ ९.२ ॥ अरत्निना दक्षिणतो दक्षिणमित्युक्तम् ॥ ९.२ ॥ पृष्ठ्यातो वा पुरुषमात्रस्याक्ष्णया वेणुं निधाय पूर्वस्मिन्नितरम् । ताभ्यां दक्षिणं अंसं निर्हरेत् । विपर्यस्य श्रोणी ॥ ९.३ ॥ पूर्ववदुत्तरमंसम् ॥ ९.३ ॥ रज्ज्वा वा विमायोत्तरवेदिन्यायेन वेणुना विमिमीते ॥ ९.४ ॥ सपक्षपुच्छेषु विधाभ्यासेऽपचये च विधासप्तमकरणीं पुरुषस्थानीयां कृत्वा विहरेत् ॥ ९.५ ॥ करणानाष्टकानां पुरुषस्य पञ्चमेन कारयेत् ॥ ९.६ ॥ तासामेवैकतोऽध्यर्धास्तद्द्वितीयम् । पुरुषस्य पञ्चमो भाग एकतः प्रादेश एकतः तत्तृतीयम् ॥ ९.६ ॥ सर्वतः प्रादेशस्तच्चतुर्थम् । समचतुरश्राः पञ्चदशभागीयास्तत्पञ्चमम् ॥ ९.६ ॥ ऊर्व्ध्वप्रमाणमिष्टकानां जानोः जानोः पञ्चमेन कारयेत् ॥ ९.७ ॥ अर्धेन नाकसदां पञ्चचूडानां च ॥ ९.७ ॥ यत्पच्यमानानां प्रतिह्रसीत पुरीषेण तत्सम्पूरयेदनियतपरिमाणत्वात्पुरीषस्य ॥ ९.८ ॥ उपधानेऽध्यर्धा दश पुरस्तात्प्रतीचीरात्मन्युपदधाति । दश पश्चात्प्राचीः ॥ १०.१ ॥ पञ्चपञ्च पक्षाग्रयोः । पक्षाप्यययोश्च विशयास्तासामर्धेष्टकामात्राणि पक्षयोर्भवन्ति ॥ १०.१ ॥ पञ्चपञ्च पुच्छपार्श्वयोर्दक्षिणा उदीचीश्च ॥ १०.१ ॥ पुच्छे प्रादेशमुपधाय सर्वमग्निं पञ्चमभागीयाभिः प्रच्छादयेत् ॥ १०.२ ॥ पञ्चदशभागीयाभिः सङ्ख्यां पूरयेत् ॥ १०.३ ॥ अपरस्मिन् प्रस्तारेऽध्यर्धा दश दक्षिणत उदीचीरात्मन्युपदधाति । दशोत्तरतो दक्षिणाः ॥ १०.४ ॥ यथा प्रथमे प्रस्तारे पक्षौ तथा पुच्छम् । यथा पुच्छं तथा पक्षौ विपरीता अप्यये ॥ १०.४ ॥ सर्वमग्निं पञ्चमभागीयाभिः प्रच्छादयेत् ॥ १०.५ ॥ पञ्चदशभागीयाबिः सङ्ख्यां पूरयेत् ॥ १०.६ ॥ व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेत् ॥ १०.६ ॥ पञ्च चितयो भवन्ति । पञ्चभिः पुरीषैरभ्यूहतीति पुरीषान्ता चितिरर्थान्तरत्वात्पुरीषस्य ॥ १०.७ ॥ जानुदघ्नीं साहस्रं चिन्वीत प्रथमं चिन्वानः ॥ १०.८ ॥ नाभिदघ्नीं द्विषाहस्रं द्वितीयमास्यदघ्नीं त्रिषाहस्रं तृतीयमुत्तरमुत्तरं ज्यायाम्सम् ॥ १०.८ ॥ महान्तं बृहन्तमपरिमितं स्वर्गकामश्चिन्वीतेति विज्ञायते ॥ १०.८ ॥ द्विषाहस्रे द्विप्रस्ताराश्चितयो भवन्ति । त्रिषाहस्र त्रिप्रस्ताराश्चतुर्थप्रभृतिष्वाहारेषु नित्यमिष्टकापरिमाणम् ॥ १०.९ ॥ विज्ञायते च ःन ज्यायांसं चित्वा कनीयांसं चिन्वीतेतिऽ ॥ १०.१० ॥ चतुरश्राभिरग्निं चिनुत इति विज्ञायत । समचतुरश्रा अनुपपदत्वाच्छब्दस्य ॥ ११.१ ॥ पादमात्रयो भवन्ति अरत्निमात्रयो भवन्त्यूर्वस्थिमात्रयो भवन्त्यणूकमात्रयो भवन्तीति विज्ञायते ॥ ११.२ ॥ चतुर्भागीयमणूकम् । पञ्चमभागीयारत्निः । तथोर्वस्थि ॥ ११.३ ॥ पादेष्टका पादमात्री ॥ ११.३ ॥ तत्र यथाकामी शब्दार्थस्य विशयित्वात् ॥ ११.४ ॥ उपधानेऽष्टावष्टौ पादेष्टकाश्चतुर्भागीयानां पक्षाग्रयोर्निदध्यात् । सन्ध्योश्च तद्वदात्मानं षडङ्गुलापेताः ॥ ११.५ ॥ श्रोण्यंसेषु चाष्टौ प्राचीः प्रतीचिश्च ॥ ११.५ ॥ सन्ध्यन्तराले पञ्चभागीयाः सपादाः ॥ ११.६ ॥ पुच्छे प्रादेशमुपधाय सर्वमग्निं चतुर्भागीयाभिः प्रच्छादयेत् ॥ ११.७ ॥ पादेष्टकाभिः संख्यां पूरयेत् ॥ ११.८ ॥ अपरस्मिन् प्रस्तारे पुच्छाप्यये पञ्चमभागीया विशयाः ॥ ११.९ ॥ ता आत्मनि चतुर्दशभिः पादैर्यथायोगं पर्युपदध्यात् ॥ ११.९ ॥ सर्वमग्निं पञ्चमभागीयाभिः प्रच्छादयेत् ॥ ११.१० ॥ पादेष्टकाक्षिः सङ्ख्यां पूरयेत् ॥ ११.११ ॥ व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेत् ॥ ११.११ ॥ एकविधप्रभृतीनां करणीनां द्वादशेन त्रयोदशेनेतीष्टकाः कारयेत् ॥ १२.१ ॥ पादेष्टकाश्च व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेत् ॥ १२.१ ॥ एकविधप्रभृतीनां प्रथमाहारेण द्वितीयेन तृतीयेनेति यो युज्येत । सर्वेषां यथा श्रुतिसङ्ख्या तथोर्ध्वप्रमाणम् ॥ १२.२ ॥ काम्या गुणविकाराः गुणशास्त्रत्वात् ॥ १२.३ ॥ प्रौगचितं चिन्वीत भ्रातृव्यवानिति विज्ञायते ॥ १२.४ ॥ यावानग्निः सारत्निप्रादेशो द्विस्तावतीं भूमिं चतुरश्रां कृत्वा पूर्वस्याः करण्या अर्धाच्छ्रोणीं प्रत्यालिखेत् । सा नित्या प्रौगम् ॥ १२.५ ॥ कराणानि चयनमित्येकविधोक्तम् ॥ १२.६ ॥ प्रौगा इष्टकाः कारयेत् ॥ १२.६ ॥ उभययः प्रौगं चिन्वीत यः कामयेत प्रजातान् भ्रातृव्यान्नुदेय प्रतिजनिष्यमाणानिति विज्ञायते ॥ १२.७ ॥ यथा विमुखे शकटे ॥ १२.८ ॥ तावदेव तीर्घं चतुरश्रं विहृत्य पूर्वापरयोः करण्योरर्धात्तावति दक्षिणोत्तरयोर्निपातयेत् । सा नित्योभभयतः प्रौगम् ॥ १२.९ ॥ प्रौगचितोक्तीः (क्तं) । उभयतः प्रौगा इष्टकाः कारयेत् ॥ १२.१० ॥ रथचक्रचितं चिन्वीत भ्रातृव्यवानिति विज्ञायते ॥ १२.११ ॥ यावानग्निः सारत्निप्रादेशस्तावतीं भूमिं परिमण्डलां कृत्वा तस्मिंश्चतुरश्रमवदध्याद्यावत्सम्भवेत् ॥ १२.१२ ॥ तस्य करण्या द्वादशेनेष्टकाः कारयेत् ॥ १३.१ ॥ तासां षट्प्रधावुपधाय शेषमष्टधा विभजेत् ॥ १३.२ ॥ उपधाने चतुरश्रस्यावान्तरदेशान् प्रति स्रक्तीः सम्पादयेत् । मध्यानीतरस्मिन् प्रस्तारे । व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेत् ॥ १३.३ ॥ द्रोणचितं चिन्वीतान्नकाम इति विज्ञायते ॥ १३.४ ॥ द्वयानि तु खलु द्रोणानि, चतुरश्राणि परिमण्डलानि च ॥ १३.५ ॥ तत्र यथाकामी शब्दार्थस्य विशयित्वात् ॥ १३.६ ॥ चतुरश्रं वा यस्य गुणशास्त्रम् ॥ १३.७ ॥ स चतुरश्रः ॥ १३.८ ॥ पश्चात्त्सरुर्भवत्यनुरूपत्वायेति विज्ञायते ॥ १३.९ ॥ सर्वस्या भूमेर्दशमं त्सरुस्तस्य पुच्छेन निर्हार उक्तः ॥ १३.१० ॥ तस्य करण्या द्वादशेनेष्टकाः कारयेत् । अध्यर्धाः पादेष्टकाश्च ॥ १३.११ ॥ उपधानेऽध्यर्धाः पुरस्तात्प्रतीचीरात्मन्युपदधाति । त्सर्वर्गे श्रोण्योश्च प्राचीः ॥ १३.१२ ॥ सर्वमग्निं चतुरश्राभिः प्रच्छादयेत् ॥ १३.१३ ॥ पादेष्टकाभिः सङ्ख्यां पूरयेत् ॥ १३.१४ ॥ अपरस्मिन् प्रस्तारेऽध्यर्धा दक्षिणत उदीचीरात्मन्युपदधात्युत्तरतश्च दक्षिणास्त्सरुपार्श्वयोर्दक्षिणा उतीचीश्च ॥ १३.१५ ॥ सर्वमग्निं चतुरश्राभिः प्रच्छादयेत् ॥ १३.१६ ॥ पादेष्टकाक्षिः सङ्क्यां पूरयेत् ॥ १३.१७ ॥ व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेत् ॥ १३.१८ ॥ समूह्यं चिन्वीत पशुकाम इति विज्ञायते ॥ १४.१ ॥ समूहन्नेवेष्टका उपदधाति ॥ १४.२ ॥ दिक्षु चात्वाला भवन्ति । तेभ्यः पुरषिमभ्युदूहतीति विज्ञायते ॥ १४.३ ॥ परिचाय्यं चिन्वीत ग्रामकाम इति विज्ञायते ॥ १४.४ ॥ मध्यमां स्वयमातृण्णां प्रदक्षिणमिष्टकागणैः परिचिनोति । स परियाय्यः ॥ १४.५ ॥ उपचाय्यं चिन्वीत ग्रामकाम इति विज्ञायते ॥ १४.६ ॥ परिचाय्येनोक्तः ॥ १४.७ ॥ श्मशानचितं चिन्वीत यः कामयेत्पितृलोक ऋध्नुयामिति विज्ञायते ॥ १४.८ ॥ द्वयानि खलु श्ममशानानि चतुरश्राणि परिमण्डलानि च ॥ १४.९ ॥ तत्र यथाकामी शब्दार्थस्य विशयित्वात् ॥ १४.१० ॥ चतुरश्रं वा । यस्य गुणशास्त्रम् ॥ १४.११ ॥ स चतुरश्रः । त्सरुवर्जं द्रोणचितोक्तः ॥ १४.१२ ॥ छन्दश्चितं चिन्वीत पशुकाम इति विज्ञायते ॥ १४.१३ ॥ सर्वैश्छन्दोबिश्चिनुयादित्येकम् । प्राकृतैरित्यपरम् ॥ १४.१४ ॥ श्येनचितं चिन्वीत सुवर्गकाम इति विज्ञायते ॥ १५.१ ॥ वक्रपक्षो व्यस्तपुच्छो भवति ॥ १५.२ ॥ पश्चात्प्राङुदूहति । पुरस्तात्प्रत्यङ्ङुदूहति । एवमिव हि वयसां मध्ये पक्षनिर्णामो भवतीति विज्ञायते ॥ १५.२ ॥ यावानग्निः सारत्निप्रादेशः सप्तविधः संपद्यते । प्रादेशं चतुर्थमात्मनश्चतुर्भागीयाश्चाष्टौ । तासां तिस्रः शिर इतरत्पक्षयोर्विभजेत् ॥ १५.३ ॥ पञ्चारत्निः पुरुषः । चतुररत्निः व्यायामः । चतुर्विंशत्यङ्गुलयोऽरत्निः । तदर्धं प्रादेश इति कॢप्तिः ॥ १५.४ ॥ अर्धदशमा अरत्नयोऽङ्गुलयश्च चतुर्भागोनाः पक्षायामः ॥ १५.५ ॥ द्विपुरुषां रज्जुमुभयतःपाशां करोति । मध्ये लक्षणम् । पक्षस्यापरयोः कोट्योरन्तौ नियम्य लक्षणेन प्राचीनमायच्छेदेवं पुरस्तात् । स निर्णामः ॥ १५.६ ॥ एतेनोत्तरः पक्षो व्याख्यातः ॥ १५.७ ॥ आत्मा द्विपुरुषायामोऽध्यर्धपुरुषव्यासः ॥ १५.८ ॥ पुच्छेऽर्धपुरुषव्यासं पुरुषं प्रतीचीनमायच्छेत् । तस्य दक्षिणतोऽन्यमुत्तरतश्च ॥ १५.९ ॥ तावक्ष्णया व्यवलिखेत् । यथार्धपुरुषोऽप्यये स्यात् ॥ १५.९ ॥ शिरस्यर्धपुरुषेण चतुरश्रं कृत्वा पूर्वस्याः करण्या अर्धात्तावति दक्षिणयोर्निपातयेत् ॥ १५.१० ॥ अप्ययान् प्रति श्रोण्यंसानपच्छिन्द्यात् ॥ १६.१ ॥ एवमिव हि श्येनः ॥ १६.१ ॥ करणं पुरुषस्य पञ्चमायामं षष्ठव्यासं कारयेद्यथायोगनतं तत्प्रथमम् ॥ १६.२ ॥ ते द्वे प्राची संहिते । तद्द्वितीयम् ॥ १६.३ ॥ प्रथमस्य षड्भागमष्टभागेन वर्धयेत् । यथायोगनतं तत्तृतीयम् ॥ १६.४ ॥ चतुर्भागीयाध्यर्धा । तस्याश्चतुर्भागीयामात्रमक्ष्णया छिन्द्यात् । तच्चतुर्थम् ॥ १६.५ ॥ चतुर्बागीयार्धं पञ्चमम् ॥ १६.६ ॥ तस्याक्ष्णया भेदः षष्ठम् ॥ १६.७ ॥ पुरुषस्य पञ्चमभागं दशभागव्यासं प्रतीचीनमायच्छेत् । तस्य दक्षिणतोऽन्यमुत्तरतश्च । तावक्ष्णया दक्षिणाओअरयोः कोट्योरालिखेत् । तत्सप्तमम् ॥ १६.८ ॥ एवमन्यत् । उत्तरं तूत्तरस्याः कोट्यालिखेत्तदष्टमम् ॥ १६.९ ॥ चतुर्भागीयाक्ष्णयोभयतो भेदो नवमम् ॥ १६.१० ॥ उपधाने षष्टिःषष्टिः पक्षयोः प्रथमा उदीचीर्निरुपदध्यात् ॥ १६.११ ॥ पुच्छपार्श्वयोरष्टावष्टौ षठ्ययस्तिस्रोऽग्रे तत एकान् ततस्तिस्रः तत एका ॥ १६.१२ ॥ पुच्छाप्यये चतुर्थ्यौ विशये । तयोस्तु पश्चात्पञ्चम्यावनीकसंहिते ॥ १६.१२ ॥ शेषे दश चतुर्थ्यः श्रोण्यंसेषु चाष्टौ प्राचीः प्रतीचीश्च ॥ १७.१ ॥ शेषे च षड्विंशतिरष्टौ षष्टयश्चतस्रः पञ्चम्यः ॥ १७.२ ॥ शिरसि चतुर्थ्यौ विशये । तयोश्च पुरस्तात्प्राच्यौ ॥ १७.३ ॥ एष द्विशतः प्रस्तारः ॥ १७.४ ॥ अपरस्मिन् प्रस्तारे पञ्चपञ्च निर्णामयोर्द्वितीयाः । अप्यययोश्च तृतीया आत्मानमष्टभागावेताः ॥ १७.५ ॥ शेषे पञ्चचत्वारिंशत्प्रथमाः प्राचीः ॥ १७.५ ॥ पुच्छपार्श्वयोः पञ्चपञ्च सप्तम्यः ॥ १७.६ ॥ द्वितीयचतुर्थोश्चान्यतरतः प्रतिसंहितामेकैकाम् ॥ १७.६ ॥ शेषे त्रयोदशाष्टम्यः ॥ १७.६ ॥ श्रोण्यंसेषु चाष्टौ चतुर्थ्यो दक्षिणा उदीचीश्च ॥ १७.७ ॥ शेषे च विंशतिस्त्रिंशत्षष्ठयः एकां पञ्चमीम् ॥ १७.७ ॥ शिरसि चतुर्थ्यौ तयोश्च पुरस्ताच्चतस्रो नवम्यः ॥ १७.८ ॥ एष द्विशतप्रस्तारः ॥ १७.९ ॥ व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेत् ॥ १७.१० ॥ श्येनचितं चिन्वीत सुवर्गकाम इति विज्ञायते ॥ १८.१ ॥ वक्रपक्षो व्यस्तपुच्छो भवति । पश्चात्प्राङुदूहति । पुरस्तात्प्रत्यङुदूहति । एवमिव हि वयसां मध्ये पक्षनिर्णामो भवतीति विज्ञायते ॥ १८.२ ॥ पुरुषस्य षोडशभिर्विंशं शतं सारत्निप्रादेशः सप्तविधः संपद्यते । तासां चत्वारिंशदात्मनि तिस्रः शिरसि पञ्चदश पुच्छ एकत्रिंशद्दक्षिणे पक्षे तथोत्तरे ॥ १८.३ ॥ अध्यर्धपुरुषस्तिर्यग्द्वावायामत इति दीर्घं चतुरश्रं विहृत्य श्रोण्यंसेभ्यो द्वे द्वे षोडस्यौ निरस्येत् । चत्वारिंशत्परिशिष्यन्ते । स आत्मा ॥ १८.४ ॥ शिरस्यर्धपुरुषेण चतुरश्रं कृत्वा पूर्वस्याः करण्या अर्धात्तावति दक्षिणोत्तरयोर्निपातयेत् ॥ १८.५ ॥ तिस्रः परिशिष्यन्ते । तच्छिरः ॥ १८.५ ॥ पुरुषस्तिर्यग्द्वावायामतः षोडशभागश्च दक्षिणः पक्षः । तथोत्तरः ॥ १८.६ ॥ पक्षाग्रेपक्षाग्रे पुरुषचतुर्थेन चत्वारि चतुरश्राणि कृत्वा तान्यक्ष्णया व्यवलिख्यार्धानि निरस्येत् । एकत्रिंशत्परिशिष्यन्ते ॥ १८.७ ॥ पक्षाग्रमुत्सृज्य मध्ये पक्षस्य प्राचीं लेखामालिखेत् ॥ १८.८ ॥ पक्षाप्यये पुरुषं नियम्य लेखायां पुरुषान्ते नितोदन्तुकुर्यात् । नितोदात्प्राचीनं पुरुषान्ते नितोदं नितोदयोर्नानान्तावालिखेत् । तत्पक्षिनमनम् । एतेनोत्तरः पक्षो व्याख्यातः ॥ १८.८ ॥ द्विपुरुषं पस्चादर्धपुरुषं पुरस्ताच्चतुर्भागोनः पुरुष आयामोऽष्टादशकरण्यो पार्श्वयोस्ताः पञ्चदशपरिगृह्णन्ति । तत्पुच्छम् ॥ १९.१ ॥ षोडशीं चतुर्भिः परिगृह्णीयात् ॥ १९.२ ॥ अष्टमेन त्रिभिरष्टमैश्चतुर्थेन चतुर्थसविशेषेणेति ॥ १९.२ ॥ अर्धेष्टकां त्रिभिर्द्वाभ्यां चतुर्थाभ्यां चतुर्थसविशेषेणेति ॥ १९.३ ॥ पादेष्टकां त्रिभिश्चतुर्थेनैकं चतुर्थसविशेषार्धाभ्यां चेति ॥ १९.४ ॥ पक्षेष्टकां चतुर्भिर्द्वाभ्यां चतुर्थाभ्यां द्विसप्तमाभ्यां चेति ॥ १९.५ ॥ पक्षमध्यीयां चतुर्भिर्द्वाभ्यां चतुर्थाभ्यां द्विसप्तमाभ्यां चेति ॥ १९.६ ॥ पक्षाग्रीयां त्रिभिश्चतुर्थेनैकं चतुर्थसप्तमाभ्यामेकं चतुर्थसविशेषसप्तमाभ्यां चेति ॥ १९.७ ॥ पक्षकरण्याःसप्तमं तिर्यङ्मानी । पुरुषचतुर्थं च पार्श्वमानी । तस्याक्ष्णया रज्ज्वा करणं प्रजृम्भयेत् ॥ १९.८ ॥ पक्षनमन्याः सप्तमेन फलकानि नमयेत् ॥ १९.८ ॥ उपधाने चतस्रः पादेष्टकाः पुरस्ताच्छिरसि । अपरेण शिरसोऽप्ययं पञ्च । पूर्वेण पक्षाप्ययावेकादश । अपरेणैकादश पूर्वेण पुच्छाप्ययं पञ्चापरेण पञ्च पञ्चदश पुच्छाग्रे ॥ १९.९ ॥ चतस्रश्चतस्रः पक्षाग्रीयाः पक्षाग्रयोः पक्षाप्यययोश्च विशयाः ॥ २०.१ ॥ ता आत्मनि चतसृभिश्चतसृभिः षोडशीभिर्यथायोगं पर्युपदध्यात् ॥ २०.२ ॥ चतस्रश्चतस्रः पक्षमध्यीयाः पक्षमध्ययोः ॥ २०.३ ॥ पक्षेष्टकाभिः प्राचीभिः पक्षौ प्रच्छादयेत् ॥ २०.४ ॥ अवशिष्टं षोडशीभिः प्राच्छादयेत् ॥ २०.५ ॥ अन्त्या बाह्यविशेषा अन्यत्र शिरसः ॥ २०.५ ॥ अपरस्मिन् प्रस्तारे पुरस्ताच्छिरसि द्वे षोडश्यौ बाह्यविशेषे उपदध्यात् ॥ २०.६ ॥ तेऽपरेण द्वे विशये अभ्यन्तरविशेषे ॥ २०.६ ॥ द्वाभ्यामर्धेष्टकाभ्यां यथायोगं पर्युपदध्यात् ॥ २०.७ ॥ बाह्यविशेषाभ्यां परिगृह्णीयात् ॥ २०.७ ॥ आत्मनः करणीनां सन्धिषु षोडश्यो बाह्यविशेषा उपदध्यात् ॥ २०.८ ॥ चतस्रश्चतस्रोऽर्धेष्टकाः पक्षाग्रयोः ॥ २०.९ ॥ पक्षेष्टकाभिरुदीचीभिः पक्षौ प्रच्छादयेत् ॥ २०.९ ॥ तिस्रस्तिस्रोऽर्धेष्टकाः पुच्छपार्श्वयोः ॥ २०.१० ॥ अवशिष्टं षोडशीभिः प्रच्छादयेत् ॥ २०.११ ॥ अन्त्या बाह्यविशेषा अन्यत्र पुच्छात् ॥ २०.११ ॥ यच्चतुरश्रं त्र्यश्रं वा संपद्येतार्धेष्टकाभिः पादेष्टकाभिर्वा प्रच्छादयेत् ॥ २०.१२ ॥ अणूकाः पञ्चदशभागीयानां स्थाने ॥ २०.१३ ॥ व्यत्यासं चिनुयाद्यावतः प्रस्तारांश्चिकीर्षेत् ॥ २०.१४ ॥ कङ्कचिदलजचिदिति श्येनचिता व्याख्यातौ ॥ २१.१ ॥ एवमि व हि श्येनस्य वर्षीयांसौ पक्षौ पुच्छाद्वक्रौ संनतं पुच्छं दीर्घ आत्मा मण्डलं शिरश्च । तस्माच्छ्रुतिसामर्थ्यात् ॥ २१.२ ॥ अशिरस्को वानाम्नानात् ॥ २१.२ ॥ ज्ञायते च । कङ्कचितं शीर्षण्वन्तं चिन्वीत यः कामयेत सशीर्षोऽमुष्मिंल्लोके संभवेयमिति विद्यमाने कथं ब्रूयात् ॥ २१.३ ॥ प्राकृतौ वक्रौ पक्षौ संनतं पुच्छं विकारश्रवणात् ॥ २१.४ ॥ यथाप्रकृत्यात्माविकारात् ॥ २१.४ ॥ यथो एतच्छेयनचितं चिन्वीतेति । यावदाम्नानसारूप्यं तद्व्याख्यातम् ॥ २१.५ ॥ त्रिस्तावोऽग्निर्भवतीत्यश्वमेधे विज्ञायते ॥ २१.६ ॥ तत्र सर्वाब्यासोऽविशेषात् ॥ २१.७ ॥ दीर्घचतुरश्राणां समासेन पक्षपुच्छानां समास उक्तः ॥ २१.८ ॥ एकविंशोऽग्निर्भवतीत्यश्वमेधे विज्ञायते ॥ २१.९ ॥ तत्र पुरुषाभ्यासो नारत्निप्रादेशानां सङ्ख्यासंयोगात्सङ्ख्यासंयोगात् ॥ २१.१० ॥