Book Categories
Newsletter Subscription

samasa

There are Three approaches to samAsa offered here.

1. The first is through samAsacakra (समासचक्र) written by an unknown author.

This is described below.

2. The second is through samAsalakSaNa (समासलक्षण) written by ratnamaNDanasUri (रत्नमण्डनसूरि).

To read it, just click here.

3. The third is through samAsaprakaraNavyAkhyA (समासप्रकरणव्याख्या) by jayAnandasUri (जयानन्दसूरि). To read it, please click here.

The second and third books are edited by me. Therefore as a gentleman’s promise, I expect that the scholarly community will not violate copyright laws and use it for their personal use only.

Enjoy

 

 

समासचक्र
षोढा समासः संक्षेपाद्‌ अष्टाविंशतिधा पुनः ।
नित्यानित्यत्वयोगेन लुगलुक्त्वेन च द्विधा ॥१
तत्राष्टधा तत्पुरूषः सप्तधा कर्मधारयः ।
सप्तधा च बहुव्रीहिर्द्विगुराभाषितो द्विधा ॥२
द्वन्द्वोऽपि द्विविधो ज्ञेयोऽव्ययीभावो द्विधा मतः ।
तेषां पुनः समासानां प्राधान्यं स्याच्चतुर्विधम्‌ ॥३
चकारबहुलो द्वन्द्वः स चासौ कर्मधारयः ।
यस्य येषां बहुव्रीहिः शेषस्तत्पुरुषः स्मृतः ॥४

Meaning:
1. There are six types of SamAsas (namely tatpuruSha, karmadhAraya, bahuvrIhi, dvigu, dvandva and avyayIbhAva) in brief. But in detail they are 28 in total. These 28 types are further divided into nityayoga and anityayoga / luk and aluk…
2. tatpuruSha is of 8 types.
karmadhAraya is of 7 types.
bahuvrIhi is of 7 types.
dvigu is of 2 types.
3. dvandva is also of 2 types.
avyayIvbhAva is of 2 types. (Thus making it 28 types).
The samAsas are also sometimes classified into 4 types according to the weightage of its constituents.
4. The samAsas having preponderance of च (and) is called dvandva.
samAsa showing ‘that and this’ is karmadhAraya.
samAsa having यस्य or येषां (whose) in anvaya is called bahuvrIhi.
The rest are tatpuruSha.

प्रयोगाः पञ्चविधाः
कर्तृकर्मक्रियायुक्तः प्रयोगः स्यात्सकर्मकः ।
अकर्मकः कर्मशून्यः कर्मद्वन्द्वो द्विकर्मकः ॥५

Meaning:
sakarmaka : having kartR and karma
akarmaka : having only kartR
dvikarmaka : having two karmas

उदाहरणानिः
(१) सकर्मकप्रयोगो यथा – कृष्णो भक्तान्‌ रक्षति ।
(२) अकर्मकप्रयोगो यथा – कृष्णस्तिष्ठति ।
(३)कर्मणिप्रयोगो यथा – विष्णुना प्रपञ्चः क्रियते ।
(४) भावेप्रयोगो यथा – कृष्णेन क्रियते ।
(५) द्विकर्मकप्रयोगो यथा – (नृपः) धराम्‌ अन्नं दुदोह ।
इति प्रयोगविधिः

Examples: They are self explanatory.
1. kRShNa is kartR and bhakta is karma
2. kRShna is kartR and no karma
3. and 4. The only difference between karmaNi and bhAve prayoga is that in karmaNi prayoga there is some karma (prapaNYca) and in bhAve there is no karma.
5. dharA and anna are both karmas…

(Comments by Mr. H N Bhat:
Verb patterns

This seems extraneous to the title of the work as it has nothing to do with
the compound formation.

कर्तृकर्मक्रियायुक्तः प्रयोगः स्यात्सकर्मकः ।
अकर्मकः कर्मशून्यः कर्मद्वन्द्वो द्विकर्मकः ॥५

This verse as it is doesn’t need any comments. It is clear in its
assertion.
SOV – pattern of sentence is called सकर्मक (seems to be a translation of
English pattern)
.
SV – Intransitive pattern of the above अकर्मक, and double object (different
from
English Direct and Indirect Objects) is द्विकर्मक.

I could not find a equivalant of the प्रयोग in the above sense.The only rule
regarding the Verb Pattern is लः कर्मणि च भावे च अकर्मकेभ्यः।। ३,४.६९।।

Meaning

The tense affixes l(a)(T) l(i)(T) l(u)(T) l(R)(T) l(e)(T) l(o)(T) l(a)(G)
l(i)(G) l(u)(G) l(R)(G) called lakAra are used in denoting the object or
karman and the agent or kartR in the case of Transitive verbs; and after
Intransitive verbs they denote the action or bhAva as well as the agent or
kartR

One more postscript to the above. It doesn’t contain the popularly known
भावे प्रयोग as it is for the intransitive verbs only to denote action and
our writer seems to take it if the word denoting object is used in the
sentence or not for classifying अकर्मक and सकर्मक and कर्मणि and भावे )
अथ समासविधिः
समासाः षड्विधाः । तत्पुरुषः कर्मधारयो बहुव्रीहिर्द्विगुर्द्वन्द्वोऽव्ययीभावश्चेति भेदात्‌ । तल्लक्षणानि तु -
(१) पूर्वपदार्थप्रधानोऽव्ययीभावः ।
(२) उत्तरपदार्थप्रधानस्तत्पुरुषः ।
(३) उभयपदार्थप्रधानो द्वन्द्वः ।
(४) अन्यपदार्थप्रधानो बहुव्रीहिः ।
(५) द्विगुकर्मधारयौ तत्पुरुषभेदौ ।

samAsas are of six types:
1. tatpuruSha
2. karmadhAraya
3. bahuvrIhi
4. dvigu
5. dvandva and
6. avyayIbhAva
their definitions are as follows:
(1) avyayIbhAva – in which first object is more important (pUrvapadArthapradhAna)
(2) tatpurUSha – in which second object is more important (uttarapadArthapradhAna)
(3) dvandva – in which both objects are equally important (ubhayapadArthapradhAna)
(4) bahuvrIhi – in which some other object (other than the two objects mentioned) is more important
(5) dvigu and karmadhAraya – they are subset of tatpurUSha .

(१) तत्पुरुषः।
तत्राष्टधा तत्पुरुषक्रमः। प्रथमातत्पुरुषो द्वितीयातत्पुरुषस्तृतीयातत्पुरुषश्चतुर्थीतत्पुरुषः पञ्चमीतत्पुरुषः षष्ठीतत्पुरुषः सप्तमीतत्पुरुषो नञ्‌तत्पुरुषश्चेति ।

(1) tatpurUSha -
tatpurUSha is of eight types:
1. prathamA tatpurUSha
2. dvitIyA tatpurUSha
3. tRtIyA tatpurUSha
4. caturthI tatpurUSha
5. paYcamI tatpurUSha
6. ShaShThI tatpurUSha
7. saptamI tatpurUSha
8. naY tatpurUSha

उदाहरणानिः

तत्र प्रथमातत्पुरुषो यथा-
- अर्धं पिप्पल्याः अर्धपिप्पली।
- पूर्वं कायस्य इति पूर्वकायः।
द्वितीयातत्पुरुषो यथा-
- कृष्णं श्रितः इति कृष्णश्रितः।
-ग्रामं ततो इति ग्रामगतः।
- कान्तारम्‌ अतीतः इति कान्तारातीतः।
तृतीयातत्पुरुषो यथा -
- शङ्कुलया खण्डः इति शङ्कुलाखण्डः।
- धान्येन अर्थः इति धान्यार्थः।
चतुर्थीतत्पुरुषो यथा -
- यूपाय दारु इति यूपदारु ।
- कुण्डलाय हिरण्यम्‌ इति कुण्डलहिरण्यम्‌ ।
- गुरवे दक्षिणा इति गुरुदक्षिणा ।
पञ्चमीतत्पुरुषो यथा -
- अर्थात्‌ अपेतः इति अर्थापेतः ।
- सिंहात्‌ भयम्‌ इति सिंहभयम्‌।
- वृश्चिकात्‌ भीः इति वृश्चिकभीः ।
षष्ठीतत्पुरुषो यथा -
- कृष्णस्य भक्तः इति कृष्णभक्तः ।
- आम्रस्य फलम्‌ इति आम्रफलम्‌ ।
- राज्ञः पुरुषः इति राजपुरुषः ।
सप्तमीतत्पुरुषो यथा -
- अक्षेषु शौण्डः इति अक्षशौण्डः ।
- कर्मणि कुशलम्‌ इति कर्मकुशलः ।
- विद्यायां निपुणः इति विद्यानिपुणः ।
नञ्‌ तत्पुरुषो यथा -
- न ब्राह्मणः इति अब्राह्मणः ।
- न वृषभः इति अवृषभः ।
- पापाभावः इति अपापम्‌ ।
- धर्मविरुद्धः इति अधर्मः ।
इति तत्पुरुषः

These are examples of tatpurUSha.
The type of tatpurUSha depends on the case suffix you have to append to the pUrvapada. e.g. आम्रस्य फलम्‌ इति आम्रफलम्‌ . In this case we have to append genitive case (ShaShThI vibhakti) to the pUrvapada. Therefore it is ShaShThI tatpurUSha..

नञ्‌ तत्पुरुष needs different treatment. The words having prefixes अ and अन्‌ in negation are called naY tatpurUSha…

अथ कर्मधारयः
स च विशेषणपूर्वपदो विशेष्यपूर्वपदो विशेषणोभयपद उपमानपूर्वपद उपमानोत्तरपदः सम्भावनापूर्वपदोऽवधारणापूर्वपदश्चेति भेदात्‌ सप्तविधः।

karmadhAraya:
It is of seven types as mentioned below….
1. visheShaNapUrvapada (the first word is adjective)
2. visheShyapUrvapada (the first word is visheshya – the one to which adjective is to be appended)
3. visheShaNobhayapada (both the words are adjectives)
4. upamAnapUrvapada (The first word is upamAna – the thing to which comparision is made)
5. upamAnottarapada (The second word is upamAna)
6. sambhAvanApUrvapada (the first word is sambhAvanA, joined by iti)and
7. avadhAraNApUrvapada (the first word is avadhAraNA, joined by eva)
Note: The examples below mentioned also has one other type namely
madhyamapadalopI (in which one or more word has to be imported to get a legible meaning and connection between the first and the second word)

(१) तत्र विशेषणपूर्वपदः कर्मधारयो यथा -
- कृष्णश्चासौ सर्पश्च कृष्णसर्पः । कृष्णौ च तौ सर्पौ च कृष्णसर्पौ। कृष्णाश्च ते सर्पाः कृष्णसर्पाः
-रक्ता चासौ लता च रक्तलता। रक्ते च ते लते च रक्तलते। रक्ताश्च तः लताश्च रक्तलताः।
- नीलं च तत्‌ उत्पलं च नीलोत्पलम्‌। नीले च ते उत्पले च नीलोत्पले। नीलानि च तानि उत्पलानि च नीलोत्पलानि।

visheShaNapUrvapada karmadhAraya :
kRShNa – adjective, sarpa – visheshya (the one to which adjective is appended)
similarly for others…

(२) विशेष्यपूर्वपदः कर्मधारयो यथा – वैयाकरणश्चासौ खसूचिश्च वैयाकरणखसूचिः। गोपालश्चासौ बालश्च इति गोपालबालः|
visheshyapUrvapada karmadhAraya:
second word bAla is adjective and gopAla is visheshya… Therefore it is visheshyapUrvapada.

(३) विशेषणोभयपदः कर्मधारयो यथा – शीतं च तत्‌ उष्णं च इति शीतोष्णम्‌ ।
visheShaNobhayapada:
zIta and uShNa both are adjective. Therefore it is visheShaNobhayapada karmadhAraya.
Note: Here, the word zItoShNam refers to something which is somewhat cold and somewhat hot… e.g water for bathing / moonlight for the bereft lovers etc.

(४) उपमानपूर्वपदः कर्मधारयो यथा – मेघ इव श्यामो मेघश्यामः । कम्बुवत्‌ ग्रीवा कम्बुग्रीवा । चन्द्रवत्‌ मुखम्‌ चन्द्रमुखम्‌।
upamAnapUrvapada karmadhAraya:
megha – upamAna (the thing to which something is compared)
zyAma – upameya (the thing which is to be compared)

(५) उपमानोत्तरपदः कर्मधारयो यथा – पुरुषः व्याघ्र इव पुरुषव्याघ्रः। नरः सिंह इव नरसिंहः।
upamAnottarapada karmadhAraya:
Here the upamAna vyAghra is the second word and upameya purUSha is the first word. Therefore it is an example of upamAnottarapada.

(६) सम्भावनापूर्वपदः कर्मधारयो यथा – गुण इति बुद्धिः गुणबुद्धिः ।
sambhAvanApurvapada karmadhAraya: The meaning is not clear to me. I am trying to find a suitable English translation for this.

(Comments courtesy ShrimallalitAlAlita: यद्यपि गुणेषु दोषदृष्टिरसूयेत्यादाविवात्रापि गुणबुद्धेर्विषयान्वेषणेन तस्मिन्गुणत्वसम्भाविका धीर्गुणबुद्धिरिति वक्तुं शक्यते तथापि तुल्याधिकरणपदसमुदायविशेषत्वरूपकर्म्मधारयत्वं कथमिति चिन्त्यम् । नीलोत्पलादिष्विवात्रैकपदार्थेऽपरपदार्थस्य तादात्म्याभावात् । न हि गुणे एव बुद्धित्वं बुद्धौ वा गुणत्वम् । किन्तु गुणत्वप्रकारकत्वं धियि ।

गुणबुद्धिपदार्थः क इति चिन्त्यम् । गुणविषयिणी बुद्धिरिति स्यात् ।
यथा गुणेषु दोषदृष्टिः असूया इत्युच्यते । तथैव बलादिषु गुणबुद्धिरित्युक्तिः सम्भवति । तथा च बलादिः गुणबुद्धेः विषयः ।
अपि च बलादिषु बलादिबुद्धिरेव युक्ता नेतरा । बलादेः स्वरूपेण गुणत्वाभावात् । गुणत्वं तु तस्योपकारकत्वेन स्थलविशेषे सम्भाव्यते । अत एव बलादिषु गुणबुद्धिः नाम गुणत्वसम्भाविका धीः । एवञ्च गुणधीः = गुण इति धीः = गुणत्वसम्भाविका धीः ।
इदानीमत्र समासे गुणपदधीपदयोस्समानविभक्तिकत्वात् कर्मधारयत्वमपि स्वीकार्यमेव ।
एवञ्च समाहितमाकाङ्क्षितं तव ।

इदानीमत्र शङ्का एका -
नीलोत्पलादिषु समानाधिकरणत्वमात्रं नास्ति । किन्तु तत्र नीलस्योत्पलस्य च तादात्म्यमपि ज्ञायते सामानाधिकरण्यात् । अत एव तादात्म्यज्ञापकसामानाधिकरण्यविशिष्टपदसमुदायविशेषः कर्मधारय इति वक्तव्यम् । तादृशश्च कर्मधारयो न गुणबुद्धिस्थले वर्त्तते । गुणबुद्धिपदयोस्सामानाधिकरण्येऽपि तादात्म्याभावात् । न हि गुणो बुद्धिः , किन्तु बलादिरेव । न वा बुद्धिरेव गुणः , बलादेरेव तथात्वात् । इति ।

अत्र किं समाधानं स्यादित्यन्वेष्टव्यम् ।

कश्चिद्विद्वानत्र पृष्ट आह – न समासचक्रोक्तविभागाः पाणिनीयमूलाः इति । अयं तस्याशयः – पाणिनीये तादृशनामोक्तिपूर्वककर्मधारयविभागो न दृश्यत इति ।)

(Comments by GSS Murthy:
सम्भावनापूर्वपदकर्मधारयः: तमाल इति वृक्षः तमालवृक्षः, गुण इति बुद्धिः गुणबुद्धिः, सह्य इति नगः सह्यनगः

सम्भावना means supposing, fancying
अवधारणा means affirmation, emphasis, limitation

My view is that
संभावना conveys that तमाल is a sub-category of वृक्ष.If I may borrow from mathematics, तमाल is an element of group वृक्ष, गुण of बुद्धि, सह्य of नग)

(Comments by H.N. Bhat:उत्कटैककोटिकः संशयः – संभावना,
अवधारणम् – इतरव्यावर्तनेन स्वस्मिन् विषये निश्चयः इति अनयोर्विशेषः।
संभावना अन्यधर्मसंबन्धेन अन्यत्र तादात्म्यायोपयुज्यते चेद् उत्प्रेक्षाविषयः ।
एवकारस्य इतरव्यावतनेन स्वस्मिन्नवधारणम् – मुखमेव पद्मम्;
इत्यादौ मयूरव्यंसकादौ पाठेन तत्पुरुषत्वम्। अवधारणा तु इतरव्यार्तनमात्रेण, सामानाधिकरण्यमात्रेण कर्मधारयत्वमिति भाति। रूपकसमासस्यायं विषयः। मुखं कमलमिव इति विग्रहे तु उपमितसमासः इति व्यवहारः, उपमानपूर्वपदकर्मधारय इति तु चिन्त्यम्।
========

परं तु प्रथमे, संभावना तु अतस्मिन् अन्यधर्मसम्बन्धेन अन्यत्वेन् संभावना तु नात्र अतीवोपयोगिनी, यतश्च गुण इति बुद्धिरिति अगुणे गुणत्वसंभावनायां संगच्छते कथं चित्, अन्यत्र चूतवृक्षादौ तु न संगच्छते; अतश्च चूतश्चासौ वृक्षश्च इत्यादिः समासस्तु स्यादेव।

चूतस्तु वृक्षविशेषः, इति तु तत्र चूते चूतत्वसंभावना नापेक्ष्यते एव।

संभवः संभावना – भू प्राप्तौ इति धातोः, चूतत्वं प्राप्तः वृक्षः इत्यर्थे चूतवृक्ष इति समासस्तु स्यादेव। तद्विवरणं संभावना इति तुल्यमेव। पाणिनीये तु तथा व्यवहारस्य मूलं चिन्त्यम्।

तत्र उभयत्रापि सूत्रैः समर्थनं तु नास्त्येव। सुप्सुपा इति तु सामान्येन, “अभिधानलक्षणा हि कृत्तद्धितसमासाः” इत्यभिधानापेक्षया समासविवरणं भवतीति समाधेयम्। एवं कर्मधारयत्वमपि सामानाधिकरण्यमात्रेण व्यवहारः। इति मे मतिः।)

(७) अवधारणापूर्वपदः कर्मधारयो यथा – विद्यैव धनं विद्याधनम्‌ । अविद्यैव शृङ्खला अविद्याशृङ्खला ।

avadhAraNApUrvapada karmadhAraya: vidyA is dhanam – knowledge is wealth. avidyA is shRGkhalA. Here, there is abheda between the first and the second word of samAsa. The abheda is shown by similar vibhaktis and the word ‘eva’ is for determining it. (Correction by ShrimallalitAlAlitaH, uncorrected version was : Here, there is abheda between the first and the second word of samAsa. The abheda is shown by the word ‘eva’.)

(Comments courtesy ShrimallalitAlAlita: अवधारणा निश्चयः । विद्यामात्रस्य धनत्वमाद्यपदमपरञ्चाविद्यामात्रस्य शृङ्खलात्वं ज्ञापयति । मात्रपदं मुख्यत्वपरम् । कर्म्मधारयत्वञ्च समानविभक्तिकत्वेनैकपदार्थेऽपरपदार्थस्य तादात्म्यज्ञापनात् । तथा चाद्ये विद्याधनयोरपरस्मिंश्चाविद्याशृङ्खलयोरभेदो ज्ञायते ।)
(Comments by GSS Murthy: अवधारणापूर्वपदकर्मधारयः विनय एव धनम् विनयधनम्, मुखमेव चन्द्रः मुखचन्द्रः
अवधारणा means affirmation, emphasis, limitation
अवधारणा restricts धनम् to the particular namely विनयम् . Generally there is an element of metaphor in अवधारणा.)

(८) मध्यमपदलोपी समासो यथा – शाकप्रियः पार्थिवः शाकपार्थिवः । देवपूजको ब्राह्मणः देवब्राह्मणः।
इति कर्मधारयः॥

madhyamapadalopI samAsa : Here, you have to import one or more word according to context to fulfil the meaning of the samAsa. E.g. priya has to be imported in the samAsa shAkapArthiva. The priya word is elided. Therefore it is known as madhyamapadalopI…

 

 

अथ बहुव्रीहिः
स च द्विपदो, बहुपदः सहपूर्वपदः संख्योत्तरपदः, संख्योभयपदो, व्यतिहारलक्षणो, दिगन्तराललक्षणश्चेति भेदात्‌ सप्तविधः ।

bahuvrIhi is of seven types namely:
(1) dvipada – having two words
(2) bahupada – having more than 2 words
(3) sahapUrvapada – having ‘sa’ or ‘saha’ as first word (showing nearness or togetherness)
(4) saGkhyottarapada – having numerals as uttarapada
(5) saGkhobhayapada – having numerals as both words
(6) vyatihAralakShaNa – showing reciprocity or repitition
(7) digantarAlalakShaNa – showing the quarters of directions

तत्र द्विपदबहुव्रीहिर्यथा -
Here is the first type dvipada bahuvrIhi:

(१) चित्राः गावो यस्य सः चित्रगुः गोपः
(Comments by Mr. H.N. Bhat: Here the rule Paninian rule गोस्त्रियोरुपसर्जनस्य । । १,२.४८ । । makes the -word “go” into “gu” at the end of the compound as the long vowel of feminine suffixes and the word “go” embeded in compound. (called upasarjana technically). )
(Commentary on the above rule on www.learnsanskrit.org:
1.2.48 गोस्त्रियोरुपसर्जनस्य
and when it ends with an upasarjana and that upasarjana is either go or a word that becomes feminine because of an affix, its final vowel becomes short [e.g. śabalago "having mottled cows" becomes śabalagu, but śabalago "a mottled cow" remains the same. And when it is uparsajana, a word like mālā becomes māla, but a word like lakṣmī stays the same].)
(२) प्राप्तम्‌ उदकं येन सः प्राप्तोदको ग्रामः।
(३) भुक्तम्‌ ओदनं येन सः भुक्तौदनो राजा ।
(४) निर्जितः कामः येन स निर्जितकामः शिवः ।
(५) विभक्तं धनं यैस्ते विभक्तधना बन्धवः ।
(६) दत्तः सूपो यस्मै सः दत्तसूपो ब्राह्मणः।
(७) उद्धृतम्‌ धनं यस्मात् तत् उद्धृतधनं कुण्डम्‌।
(८) चक्रं पाणौ यस्य सः चक्रपाणिः हरिः ।
(९) करे स्थितं धनं यस्य सः करस्थितधनो वणिक् ।
(१०) पुष्पिताः द्रुमाः यस्मिन् सः पुष्पितद्रुमः आरामः ।
(११) बहवो यज्वानो यस्यां सा बहुयज्वा शाला ।
(Comments by Mr. H.N. Bhat: In this case of यज्वन् in contrast with राजन् there are different possibilities of feminine endings.
But it goes as in the masculine, as यज्वा, यज्वानौ, यज्वानः though in बहुव्रीहि though it ends with “n” and ङीप् was required as per the rule4-1-5 ऋन्नेभ्यो ङीप्, like करिन् – करिणी, राजन् – राज्ञी etc. In this case, of बहुव्रीहि ending with अन् it is prohibited as per the rule: ४. १. १२ अनो बहुव्रीहेः.

Now, instead of ङीप्, it is optionally prescribed आ as feminine ending in Bahuvrithi as per the next rule: ४. १. १३ डाप् उभाभ्यां अन्यतरस्याम् ।

So ir can be declined as the masculine यज्वन् itself, ending in न् or like other feminine ending words with आ like रमा.

बहुयज्वा – बहुयज्वानौ – बहुयज्वानः।
बहुयज्वानम् – बहुयज्वानौ – बहुयज्वनः।
बहुयज्वना – etc.

or

बहुयज्वा – बहुयज्वे – बहुयज्वाः।
बहुयज्वाम् – बहुयज्वे- बहुयज्वाः।
बहुयज्वया – etc.

In the same way, बहुराजा also can be declined, in both ways as above. In addition, it can take ङीप् also optionally as per the rule 4-1-28 अन उपधालोपिनो ऽन्यतरस्याम्.

बहुराज्ञी – बहुराज्ञ्यौ – बहुराज्ञ्यः
बहुराज्ञीम् – बहुराज्ञ्यौ – बहुराज्ञीः

So this can be declined in three ways. Casually, the word धीवन् (= fisherman) in the compound, will take the forms like राजन्, but one more additionally.

बहुधीवा – बहुधीवानौ/बहुधीवे,
बहुधीव्नी, or बहुधीवरी -
Total form ways of declination.)
(१२) पुष्पिताः द्रुमाः यस्मित्‌ ‌तत्‌ पुष्पितद्रुमं वनम्‌।
(१३) खरस्य मुखमिव मुखं यस्य सः खरमुखः तुरगः ।
(१४) उष्ट्रस्य मुखमिव मुखं यस्य सः उष्ट्रमुखो यक्षः ।
(१५) उच्चैर्घटो यस्याः सा उच्चैर्घटा नारी ।
अङ्गगात्रोदरस्तनकण्ठोष्ठदन्तमुखाक्षिकेशाः स्त्रियां बहुव्रीहो ईबन्ता भवन्ति। ते च यथा -

In feminine, the bahuvrIhis ending with the following words take ‘Ip’ as ending.
aGga, gAtra, udara, stana, kaNTha, oShTha, danta, mukha, kesha, (akSha) etc.
(१) सुन्दरम् अङ्गं यस्याः सा सुन्दराङ्गी।
(२) शोभनं गात्रं यस्याः सा सुगात्री।
(३) कृशम्‌ उदरं यस्याः सा कृशोदरी।
(४) चारू स्तनौ यस्याः सा चारूस्तनी।
(५) इन्दीवरे इव अक्षिणि यस्याः सा इन्दीवराक्षी ।
(६) कम्बुरिव कण्ठो यस्याः सा कम्बुकण्ठी ।
(७) कुटिलाः केशाः यस्याः सा कुटिलकेशी ।

इतरेषाम्‌ अङ्गादिवाचकानाम्‌ स्त्रीत्वेऽपि आबन्त्वमेव। चारूदेहा, विस्तृतालका, आवृतकुचा, कुन्ददशना इत्यादि।
In other words showing parts of body, it takes ‘Ap’. eg. chArudehA

(Comments by Mr. H.N. Bhat: In the above case of parts of body, PaNINIAN RULE differs in certain cases:

Generally, the बहुव्रीहि compound formed with the words denoting parts of body as part of body embeded in compound as per the rule 4-1-54 स्वाङ्गाच् च उपसर्जनादसंयोगौपधात्
which excepts the words ending with penultimate clusters of consonants, are prescribed optionally ङीष्. The exception is overruled by Vartika in the case of the words listed above as per by Vartika under the rule अङ्गगात्रकण्ठेभ्य इति वक्तव्यम्। and the rule 4-1-55 नासिका-उदर-ओष्ठ-जङ्घा-दन्त-कर्ण-शृङ्गाच् च.
In the above cases, it can take ङीष् or टाप् as

===== चन्द्रमुखी, चन्द्रमुखा। मृद्वङ्गी, मृद्वङ्गा। सुगात्री, सुगात्रा। स्निग्धकण्ठी, स्निग्धकण्ठा।
तुङ्गनासिकी, तुङ्गनासिका। तिलोदरी, तिलोदरा। बम्बोष्ठी, बम्बोष्ठा। दीर्घजङ्घी, दीर्घजङ्घा। समदन्ती, समदन्ता। चारुकर्णी, चारुकर्णा। तीक्षणशृङ्गी, तीक्ष्णशृङ्गा।

There are certain examples as exceptions more. with the word पुच्छ the following are examples:
कल्याणपुच्छी, कल्याणपुच्छा।but
कबरपुच्छी। मणिपुच्छी। विषयुच्छी। शरपुच्छी। only.

I could not find any examples in the list highlighed in red your message as you had mentioned under द्विपदबहुव्रीहि. Hence I have collected information where the suffixes are prescribed in the above list according to Paninian Grammar with some more informati

More can be added, but it will make the message bulky and confusing. Hence rest in the next. )

 

उरुपृथुलघुबहुपटुऋजुस्वादुचारूमृदुशब्दानां त्रीलिङ्गविशेषणत्वे ईबन्तत्वमपि यथा मृद्वी शाटी, लघ्वी भाषा इत्यादि ।

The adjectives listed would be used with (feminine suffix) ई also when used to qualify a noun in feminine gender (or otherwise they would be used as any feminine word ending in short vowel उ), This makes in their declinations two fold forms, one with ending ई and the other ending उ.

(Comments by Mr. H.N. Bhat:
4-1-44 वा उतो गुणवचनात्
This Paninian rule explains the above, prescribing optionally feminine endings to the adjectives qualifying the attributes of things that end in उ. Almost all the words denoting qualities of things (used as adjectives) ending in उ come under this catagory and a selection of commonly used adjective is made above. More technical details about the word गुण attribute of things could be found in this link:

http://www.avg-sanskrit.org/avgupload/sutras/4-1-44.html

The adjectives ending in “i” will take no feminine suffix. शुचिः ब्राह्मणः or ब्राह्मणी. The exception is खरुः
1 kharu mfn. white L. ; foolish , idiotic Un2. ; harsh , cruel ib. ; desirous of improper or prohibited things L
खरुः ब्राह्मणी. but गुरुः or गुर्वी पृथ्वी, which is popular by उर्वी as synonym also. as adjective उरुः, उर्वी शाला. large hall.

Any other adjectives describing the attributes of things, ending in उ can be use as above, with or without feminine ending suffix to qualify words ending in feminine gender.

The list could continue with all the adjectives you find words ending उ which could be used as such, मृदुः or मृद्वी with feminine suffix ई. The rule has been simplified collecting almost all the adjectives coming under this category. The adjective words ending in अ like शुक्ल, नील, itself take feminine ending आ, obligatorily as they denote the colour as well as used as adjectives as शुक्लः पटः, or शुक्ला पटी, शुक्लं रूपम्।

The correct translation of the sentence would be the adjectives listed would be used with (feminine suffix) ई also when used to qualify a noun in feminine gender (or otherwise they would be used as any feminine word ending in short vowel उ), This makes in their declinations two fold forms, one with ending ई and the other ending उ.

In the case of other words substantive nouns ending with short vowel उ, they will take long ऊ when used denote feminine gender, with the exception animals, and some listed words like रज्जुः etc. But it is not considered here in this list. The result of operation of this rule, will be कुरुः (m) – कुरुः (f) – बन्धुः, ब्रह्मबन्धुः (m.) will take U, ब्रह्मबन्धूः, तनुः – तनूः (both feminine when meaning body), but when used as adjective, lean, तनुः , तन्वी बाला, etc. अलाबुः – अलाबूः, कर्कन्धुः – कर्कन्धूः, etc. Exception: रज्जुः, हनुः etc.)

(Commentaries on www.avg-sanskrit.org:
4-1-44 वा उतो गुणवचनात्

काशिका
गुणम् उक्तवान् गुणवचनः। गुणवचनात् प्रातिपदिकादुकारान्तात् स्त्रियां वा ङीष् प्रत्ययो भवति। पट्वी, पटुः। मृद्वी, मृदुः। उतः इति किम्? शुचिरियं ब्राहमणी। गुणवचनातिति किम्? आखुः। वसुशब्दाद् गुणवचनाद् ङीबाद्युदात्तार्थम्। वस्वी। खरुसंयोगोपधात् प्रतिषेधो वक्तव्यः। खरुरियं ब्राह्मणी। पाण्डुरियं ब्राह्मणी। सत्त्वे निविशते ऽपैति पृथग् जातिषु दृश्यते। आधेयश्च अक्रियाजश्च सो ऽसत्त्वप्रकृतिर् गुणः।

लघु
1262 उदन्ताद् गुणवाचिनो वा ङीष् स्यात्. मृद्वी, मृदुः..

बलमनोरमा
495 वोतो गुणवचनात्। प्रातिपदिकादित्यनुवृत्तम्। वा उत इतिच्छेदः। उता गुणवचनस्य प्रातिपदिकस्य विशेषणात्तदन्तविधिः। तदाह–उदन्तादिति। वा ङीबिति। ङीषिति नात्रानुवर्तते। `गुणवचनान्ङीबाद्युदात्तार्थः’ इति वार्तिकादिति भावः। मृद्वीति। मृदुशब्दान्ङीपि यण्। अत्र-`सत्त्वे निविशतेऽपैति पृथग्जातिषु दृश्यते। आधेयश्चाऽक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः’ इति भाष्ये गुणलक्षणमुक्तम्। सत्त्वं द्रव्यं समवायिकारणं, तत्रैव निविशते समवैति यः स गुण इत्यन्वयः। द्रव्यमात्रसमवेत इति यावत्। मात्रपदात्सत्ताजातिव्र्यवच्छिद्यते, तस्या द्रव्यगुणक्रियावृत्तित्वात्। अथ द्रव्यत्वेऽतिव्याप्तिवारणाय आह–अपैतीति। कतिपयद्रव्येभ्योऽपगच्छतीत्यर्थः। द्रव्यत्वस्य सर्वद्रव्यवृत्तित्वान्नातिव्याप्तिरिति भावः। एवमपि क्रियायामतिव्याप्तिवारणाय आह–आधेयश्चाक्रियाजश्चेति। आधीयते उत्पाद्यते इत्याधेयः=उत्पाद्यः, अक्रियाजः=अनुत्पाद्यः। उत्पाद्यत्वाऽनुत्पाद्यत्वाभ्यां द्विविध इति यावत्। गुणोनित्याऽनित्यभेदेन द्विविधो भवति। नित्यगतानां गुणानां नित्यत्वात्, अनित्यगतानामनित्यत्वात्। क्रियायास्तु सर्वस्या अप्युत्प#आद्यत्वान्नातिव्याप्तिरिति भावः। एवमपि द्रव्येऽतिव्याप्तिः, तस्य अवयवद्रव्यसमवेतत्वादसमवायिकारणसंयोगनाशे ततोऽपायात्, विजातीयपार्थिवाद्यवयवेषु सत्त्वात्, नित्याऽनित्यभेदसत्त्वाच्च। ?त आह–असत्त्वप्रकृतिरिति। अद्रव्यस्वभाव इत्यर्थः। द्रव्यभिन्न इति यावत्। ?त्र मात्रपदेन सत्ताजातेः, अपैतीत्यनेन द्रव्यत्वस्य, पृथग्जातिषु दृश्यते इत्यनेन गोत्वादिजातेश्च निरासत्ताद्भिन्नत्वमिति लब्धम्। `आधेयश्चाक्रियाजश्चे’त्यनेन क्रियानिरासात्क्रियाभिन्नत्वं लब्धम्। असत्वप्रकृतीरित्यनेन द्रव्यस्य निरासाद्द्रव्यभिन्नत्वं लब्धम्। तथाच जातिभिन्नत्वे सति क्रियाभिन्नत्वे सति द्रव्यभिन्नत्वे सति समवेतत्वं गुणलक्षणं निष्कृष्टं वेदितव्यम्। समवेतत्वाऽभावादभावनिरासः। अत्र `नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव’ इति तार्किकाभिमतविशेषपदार्थाङ्गीकारे तद्भिन्नत्वमपि निवेश्यम्। `आकडारादेक संज्ञा’ इति सूत्रभाष्ये तु `समासकृदन्ततद्धितान्ताव्ययसर्वनामजातिसंख्यासंज्ञाशब्दव्यतिरिक्तमर्थवच्छब्दरूपं गुणवचनसंज्ञं भवती’त्युक्तम्। तदिदं प्रकृतसूत्रभाष्यस्थलक्षणस्यास्योक्तस्य प्रपञ्चनपरं वेदितव्यम्। परन्तु आकडारसूत्रभाष्ये संख्याशब्दभिन्नत्वमप्युपात्तम्। तदप्युक्तलक्षणे निवेश्यम्। न चैवमपि मृदुपट्वादिशब्दानां गुणविशिष्टद्रव्यवाचित्वाद्गुणवचनत्वाऽभाव इति वाच्यं, गुणवचनेत्यन्वर्थसंज्ञया गुणोपसर्जनद्रव्यवाचित्वस्यैव विवक्षितत्वात्। एवं च रूपशब्दस्य न गुणवचनता तस्य प्राधान्येन रूपवाचितया रूपवति प्रयोगाऽभावात्। रूपादिशब्दस्यापि गुणवचनशब्देन ग्रहणे `गुणवचनेभ्यो मतुपो लुगिष्टः’ इत्यत्रापि रूपादिशब्दानां ग्रहणापत्तौ `रूपो घटः’ इत्यादिप्रयोगापत्तेः। प्रपञ्चितं चैदरूणाधिकरणेऽस्माभिरध्वरमीमांसाकुतूहलवृत्तौ। शुचिरिति। शुक्लेत्यर्थः। `शुक्लशुभ्रशुचिउfffदोतविशदश्येतपाण्डराः’ इत्यमरः। नच शुचिधातोः `इगुपधात् कि’दित्यौणादिके इप्रत्यये उत्पन्नस्य शुचिशब्दस्य आकडारसूत्रे भाष्ये कृदन्तस्य गुणवचनत्वपर्युदासादेवात्र ङीष् न भविष्यतीति वाच्यम्, उणादीनामव्युत्पत्तिपक्षाश्रयणात्। आखुरिति। मूषिकेत्यर्थः। आखोस्तु जातिविशिष्टद्रव्यवचनत्वादुक्तगुणवचनत्वाऽभावान्न ङीप्। `खरुसंयोगापधान्ने’ति वार्तिकम्। खरुश्च संयोगापधश्चेति समाहारद्वन्द्वः। खरुशब्दात् संयोगोपधाञ्च `वोतो गुणवचनादि’ति ङीप् नेत्यर्थः। खरुशब्दमप्रसिद्धत्वाद्व्याचष्टे–पतिंवरा कन्येति। पतिलाभोत्कण्ठावतीत्यर्थः। औत्कण्ठउfffद्लक्षणगुणोपसर्जनद्रव्यवाचितया गुणवाचित्वात् प्राप्तिः। पाण्डुरिति। उfffदोतेत्यर्थः। संयोगोपधत्वान्न ङीप्।

तत्त्वबोधिनी
446 गुणवचनात्। गुणो नाम नेहादेङ्रूपः, `उतः’इति विशेषणाद्वचनग्रहणाच्च, नापि विशेषणमात्रमिदम्, आखुद्र्रव्यमित्यादावतिप्रसङ्गादिति चेत्। अत्राहुः–`संज्ञाजातिक्रियाशब्दान् हित्वाऽन्ये गुणवाचिनः’। `चतुष्टयीशब्दानां प्रवृत्तिरित्याकरग्रन्थनिष्कर्षादेव निर्णयः’ इति। भाष्ये तु `सत्त्वे निविशतेऽपैति पृथग्जातिषु दृश्यते। आधेयश्चाऽक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः।’इति स्थितम्। सत्त्वं द्रव्यम्। सत्त्व एव निविशतो इति सावधारणं व्याख्येयम्। एतेनसत्ता व्यावर्त्त्यते। सा हि न केवलं द्रव्ये वर्तते किन्तु द्रव्यगुणकर्मसु। ननु द्रव्य एव द्रत्र्यत्वं वर्तत इति तत्राऽतिव्याप्तिरत आह—अपैतीति। अपगच्छतीत्यर्थः। अर्थात्सत्त्वादेव। यथा पीततायां जातायां फलादेर्नीलताऽपैति, नैवं द्रव्यत्वं द्रव्यादपैति। एवमपि गोत्वं गोषु वर्तते अउfffदाआदेश्चापैति तत्रातिव्याप्तिरत आह–पृथग्जातिषुदृश्यत इति। गोत्वं हि द्रव्यत्वाऽवान्तरनानाजातिषु न दृश्यते। गुणस्तु दृश्यते। यथा अम्रे दृष्टा नीलता तृणादिष्वपि दृश्यते। एतेन पूर्वार्धेन सकलजातेव्र्यवच्छेदः। एवं तर्हि कर्म द्रव्ये वर्तते ततोऽपैति पृथग्जातिषु दृश्यते चेति तत्रातिव्याप्तिरत आह–आधेयश्चाक्रियाजश्चेति। उत्पाद्योऽनुत्पाद्य इत्यर्थः। उत्पाद्यो–यथा घटादेः पाकजो रूपादिः। अक्रियाजोऽनुत्पाद्यः। स यथा आकाशादेर्महत्त्वादिः। क्रिया तु सर्वाप्युत्पाद्यैव न नित्येति तस्या द्वेविध्याऽभावाद्गुणत्वाऽभावाः। एवमपिल द्रव्यस्य गुणत्वं प्राप्नोति, अवयविद्रव्यं ह्रस्तपादादिषु दृश्यते, द्विविधं च भवति नित्याऽनित्यभेदेन, निरवयवस्याऽत्मपरमाण्वादेर्नित्यात्वादवयविद्रव्यस्य तु घटादेरनित्यत्वादत आह–असत्त्वपर्कृतिरिति। अद्रव्यस्वभाव इत्यर्थः। पतिवरेति। एवं च पाणिग्रहणोत्कण्ठाभिधायित्वाद्गुणवचनोऽयमिति भावः।)

इति द्विपदबहुव्रीहिः॥
This is all about dvipadabahuvrIhi.

(२) बहुपदो यथा – अधिकः उन्नतः अंसो यस्य सः अधिकोन्नतांसः।
Now let us see bahupada bahuvrIhi:
E.g. as above. Here there are more than 2 (namely three) words, adhika, unnata, aMsa:. Thus this is an example of bahupada.

(३) सहपूर्वपदो यथा – सह कृष्णेन वर्तत इति सकृष्णः । सह पुत्रेण इति सपुत्रः। रामेण सह वर्तत इति सरामः।

sahapUrvapada bahuvrIhi – it is used in sense of togetherness, nearness or closeness or conjugation…

(Comments by Mr. H.N. Bhat:
Even though there is no suffix for case ending, this compound with सह can be substituted with स optionally in बहुव्रीहि compound. Hence both forms are possible:

सहकृष्णः, सकृष्णः)

(४) संख्योत्तरपदो यथा – दशानां समीपे ये सन्ति,ते उपदशाः।
saGkhyottarapada bahuvrIhi – that which is nearby 10 is upadashA:

(Comments by Mr. H.N. Bhat:
2-2-25 सङ्ख्यया ऽव्ययाऽसन्नादूराधिकसङ्ख्याः सङ्ख्येये

The above compound is formed is explained as Bahuvrihi, as per the above rule, which forms the compounds with numerals used to denote the count of the things, like एकः, द्वौ etc. denoting the number of the counted qualifying it. The compound between formed with these numerals, with the above अव्यय, आसन्न, अदूर, अधिक, and सङ्ख्या (numerals) are covered by this rule under bahuvrihi.

The above example is for the bahuvrihi, between the two numerals, which covers the more examples of the type.

The more examples of the 4th type of Bahuvrihi, are covered in the above rule itself:

उपविंशाः। आसन्नदशाः। आसन्नविंशाः। अदूरदशाः। अदूरविंशाः। अधिकदशाः। अधिकविंशाः।

The first being collected with अव्यय, उप meaning समीपे , the total meaning nearly twenty. The same with other compounds with the other words in the rule. The last one in the list is again संख्या, which was described under the next item ५ as संख्योभयपद.

according to the Paninian rule 6-3-82 वा उपसर्जनस्य. )

(५) संख्योभयपदो यथा – द्वौ वा त्रयो वा द्वित्राः ।
saGkhyobhayapada bahuvrIhi – that which is either 2 or three..

(Comments by Mr. H.N. Bhat:
2-2-25 सङ्ख्यया ऽव्ययाऽसन्नादूराधिकसङ्ख्याः सङ्ख्येये

The above compound is formed is explained as Bahuvrihi, as per the above rule, which forms the compounds with numerals used to denote the count of the things, like एकः, द्वौ etc. denoting the number of the counted qualifying it. The compound between formed with these numerals, with the above अव्यय, आसन्न, अदूर, अधिक, and सङ्ख्या (numerals) are covered by this rule under bahuvrihi.

The above example is for the bahuvrihi, between the two numerals, which covers the more examples of the type>

द्वित्राः, त्रिचतुराः, पञ्चषाः, etc. are commonly used, in the sense one or two, three or four, five or six respectively, showing the uncertainty of the total number of the counted between the two numbers. Others could also be formed. But for dvandva, these एक to चतुर् will make एकश्च एकश्च – द्वौ and not एकौ as द्वन्द्व compound. But पञ्च च दश च – पञ्चदश, This is because they take the gender and number of the counted thing, but they have distinct numbers unlike those above five. Only after ten, you will get such एकादश etc. Before ten, पञ्च बालाः, दश ब्राह्मणाः etc.

In the above cases, the numerals denoting the counted objects are added suffix in the compound.
5-4-73 बहुव्रीहौ सङ्ख्येये डजबहुगणात्
it takes they take समासान्त suffix डच् making the numerals ending in अ.
They are used in plural also always.

In the same way, एकद्वानि, पञ्चषाः, त्रिचतुरा, चतुष्पञ्चाः etc.)

(६) व्यतिहारलक्षणो यथा – केशेषु केशेषु गृहीत्वा इदम्‌ युद्धम्‌ प्रवृत्तम्‌ इति केशाकेशि युद्धम्। दण्दैर्डण्डैः कृत्वा इदम्‌ युद्ध‌ प्रवृत्तम्‌ इति दण्डादण्डि।
vyatihAralakShana bahuvrIhi – Difficult to translate in English. But in the present examples it means that the warriors fought catching each other’s hairs in the first example or they both fought with the stick in second example.

(Comments by Mr. H.N. Bhat:
by the Paninian rule:
2-2-27 तत्र तेन इदम् इति सरूपे

More information on this compound and its meaning can be found in the commentaries on it:

http://www.avg-sanskrit.org/avgupload/sutras/2-2-27.html

The above describes the fighting, in which the weapons named in the compound are used against each other.
and hence it takes the suffix in the compound इच् by the rule:

इच् कर्मव्यतीहारे (5,4.127) and it is considered as indeclinable adverb.

which is and it is inde
clinable too as an adverb as per .

Any clarification on the topics dealt with will be provided on demand.

Hope this all the case of समासान्त suffixes in the examples in the list.

which is and it is indeclinable too as an adverb as per the list of अव्यय–s provided in the Paninian rule:

http://www.avg-sanskrit.org/avgupload/sutras/2-1-17.html)

(Commentaries as per www.avg-sanskrit.org:
2-2-27 तत्र तेन इदम् इति सरूपे

काशिका
तत्र इति सप्तम्यन्तं गृह्यते। तेन इति तृतीयान्तम्। सरूपग्रहनं प्रत्येकम् अभिसम्बध्यते। तत्र इति सप्तम्यन्ते सरूपे पदे तेनेति च तृतीयान्ते इदम् इत्येतस्मिन्नर्थे संस्येते, बहुव्रीहिश्च समासो भवति। इतिकरनश्च इह विवक्षार्थो लौकिकम् अर्थम् अनुसारयति। ततो ग्रहणं, प्रहरनं कर्मव्यतीहारो, युद्धं च समासार्थः इति सर्वम् इतिकरनाल्लभ्यते। यत् तत्र इति निर्दिष्टं ग्रहणम् चेत् तद् भवति, यत् तेन इति निर्दिष्टं प्रहरनं चेत् तद् भवति, यतिदम् इति निर्दिष्टं युद्धं चेत् तद् भवति। केशेषु केशेषु च गृहीत्वा इदं युद्धं प्रवृत्तं केशाकेशि। कचाकचि। दण्डैश्च दण्डैश्च प्रगृत्य इदं युद्धं प्रवृत्तं दण्डादण्डि। मुसलामुसलि। इच् कर्मव्यतीहारे (*5,4.127) इति इच् समासान्तः, स च अव्ययम्। अन्येषाम् अपि दृश्यते (*6,3.137) इति पूर्वपदस्य दीर्घत्वम्। सरूपग्रहणं किम्? हलैश्च मुसलैश्च प्रहृत्य इदं युद्धं प्रवृत्तम्।

लघु

बलमनोरमा
836 तत्र तेन। समास इति, बहुव्रीहिरिति चाधिकृतम्। `तत्रे’त्यनेन सप्तम्यन्ते पदे विवक्षिते। `ग्रहणविषये’ इति प्रथमाद्विवचनान्तं तद्विशेषणमध्याहार्यम्। `तेने’त्यनेन तु तृतीयान्ते पदे विवक्षिते। `प्रहरणविषये’इति, प्रथमाद्विवचनान्तं तद्विशेषणमध्ताहार्यम्। `सरूपे’ इति प्रथमाद्विवचनान्तं पदविशेषणम्। `ग्रहणविषये’ इति `प्रहरणविषये’ इति तु सप्तम्यन्तयोस्तृतीयान्तयोश्च यथासङ्ख्यमन्वेति। `इद’मित्यर्थनिर्देशः। `युद्धं प्रवृत्त’मिति तद्विशेष्यमध्याहार्यम्। कर्मव्यतिहारे द्योत्ये’इत्यपयध्याहार्यम्। तदाह–सप्तम्यन्ते इति। प्रथमाद्विवचनमिदम्। ग्रहणविषये इति। गृह्रते अस्मिन्निति ग्रहणं=केशादि। अधिकरणे ल्युट्, तत् विषयः=वाच्यं ययोस्ते ग्रहणविषये। ग्रहणवाचके इति यावत्। प्रहरणविषये इति। प्रह्यियते अनेनेति प्रहरणं =दण्डादि। तत्-विषयः=वाच्यं ययोस्ते प्रहरणविषये। प्रहरणवाचके इति यावत्। अत्रापि `सरूपे’पदे इन्यन्वेति। इदं युद्धं प्रवृत्तमित्यर्थे इति। `इद’मिति सामान्यार्थनिर्देशः। `युद्ध’मिति विशेषनिर्देशः। अतः केशाकेशि युद्धिमिति न पुनरुक्तिः। परस्परग्रहणं परस्परप्रहरणं च कर्मव्यतिहारः। ननु `ग्रहणविषये’ `प्रहरणविषये’इत्यध्याहारे किं प्रमाणमित्यत आह–इतिशब्दादिति। इतिशब्दो लौकिकप्रसिद्धप्रकारवचनः। `केशाकेशी’त्यादिलौकिकप्रयोगे यावानर्थः प्रसिद्धस्तावत्यर्थेऽयं बहुव्रीहिर्भवतीत्यर्थः। र्न्

तत्त्वबोधिनी
732 तत्र तेनेदं। ग्रहण विषय इति। गृह्रते अनेनेति ग्रहणं=केशादि। तद्विषयो=वाच्यो ययोस्ते सरूपे। प्राह्यियते अनेनेति प्रहरणं=दण्डादि, तद्विषयो=वाच्यो ययोरिति प्राग्वत्। कर्मव्यतिहारः=परस्परग्रहणं, परस्परप्रहरणं च। ननु `ग्रहणविषये सप्तम्यन्ते समस्येते, प्रहरणविषये तृतीयान्ते चे’त्यादिविषयविशेषः सूत्राक्षरैः कथं लभ्यत इत्यत आह—इति शब्दादिति। स हि लौकिकीं विवक्षां दर्शयति। लोके केशाकेशीत्यादिप्रयोगे यावानर्थः प्रतीयते तावत्यर्थे बहुव्रीहिर्भवतीत्यर्थः।)

(७) दिगन्तराललक्षणो यथा – दक्षिणस्याः पूर्वस्याश्च दिशो यद्‌ अन्तरालम्‌ सा दक्षिणपूर्वा ।
digantarAlalakShaNa bahuvrIhi – it is used to denote the quarters of direction.
E.g. the direction which is between the south and the east is dakShiNapUrvA direction (south east).

इति बहुव्रीहिः॥
Thus ends bahuvrIhi samAsa.

(Comments by GSS Murthy:
शब्दरत्नाकर of G V Krishnamacharyar gives the following classification for बहुव्रीहि
१.द्विपद
२.बहुपद
३.व्यधिकरण
४.विकार
५.सङ्घात
६.अभ्यास
७.विकल्प
८.सामीप्य
९.दिगन्तराल
१०.व्यतिहारलक्षण
११.समसम्बन्ध
१२.उपमान
१३.लुप्तमध्यमपद
१४.उपमा
१५.क्रियापूर्वपद
१६.नञ्
१७.प्रादि
Needless to say that this sort of classification, which our Sanskrit scholars of yore reveled in, is needless.
He further classifies द्विपद into seven categories depending on the case that links the two words.
द्वित्राः (द्वौ वा त्रयो वा), त्रिचतुराः (त्रयो वा चत्वारो वा) come under the category of विकल्पबहुव्रीहि.
He has given examples for each category. Perhaps going into further detail may not serve any purpose. )
अथ द्विगुः।
द्विगुसमासो द्विविधः – एकवद्भावी अनेकवद्भावी चेति।
एकवद्भावी द्विगुर्यथा – त्रयाणां शृङ्गाणां समाहारः त्रिशृङ्गम्‌। पञ्चानां फलानां समाहारः पञ्चफली॥ अनेकवद्भावी द्विगुर्यथा – सप्त च ते ऋषयश्च सप्तर्षयः ॥
इति द्विगुः॥

Now let’ see dvigu samAsa.

It is of two types: ekavadbhAvI and anekavadbhAvI

ekavadbhAvI dvigu: trizRGgam – group of three horns, group of five fruits etc..

anekavadbhAvI dvigu: saptarSi – they are seven and they are all RSis.
(Comments by Mr. H.N. Bhat: समाहारे एकवद्भावः
this refers to the group as a unit and takes singular only
otherwise, individually it takes plural in anekavadbhAvI dvigu.

in the usage, ekavadbhAvI is used in feminine gender,
even though समाहर is masculine
excepting another set called पात्रादि
पञ्चानां वटानां समाहारः पञ्चवटी
but त्रयाणां भुवनानां समाहारः – त्रिभुवनम्
but त्रयाणां लोकानां समाहारः – त्रिलोकी
etc.)

(Commentaries on www.avg-sanskrit.org:
2-4-1 द्विगुरेकवचनम्

काशिका
द्विगुः समासः एकवचनं भवति। एकस्य वचनम् एकवचनम्। एकस्य अर्थस्य वाचको भवति इत्यर्थः। तदनेन प्रकारेण द्विग्वर्थस्य एकवद् भावो विधीयते, द्विग्वर्थ एकवद् भवति इति। समाहारद्विगोश्च इदं ग्रहणम्, न अन्यस्य। पञ्चपूलाः समाहृताः पञ्चपूली। दशपूली। द्विग्वर्थस्य्)अ ए)कत्वादनुप्रयोगे ऽप्येकवचनं भवति, पञ्चपूलीयं शोभना इति।

लघु
945 द्विग्वर्थः समाहार एकवत्स्यात्..

बलमनोरमा
721 द्विगुरेकवचनम्। अत्र `समाहारग्रहणं कर्तव्य’मिति वार्तिकात्समाहार इति लभ्यते। वक्तीति वचनम्। बाहुलकः कर्तरि ल्युट्। सामान्ये नपुंसकम्। समाहारे द्विगुरेकार्थप्रतिपादकः स्यादिति लभ्यते। तत्र यदि समाह्यियत इति कर्मणि घञि समाहारशब्दः समाह्मतप्रधानः तदा समाह्मतगतद्वित्वबहुत्वयोः एकत्वानुपपत्तेरतिदेशः सम्पद्यते। तदाह–द्विग्वर्थः समाहार एकवदिति। यदा समाहरणं समाहारः=समूहः, तदा तस्यैकत्वादेव सिद्धमिति नेदं सूत्रमारम्भणीयमिति भाष्ये स्पष्टम्। केचित्तु समूहस्य वस्तुत एकत्वेऽपि उद्भूतावयवभेदविवक्षया द्विबहुवचनव्यावृत्त्यर्थमिदम्। एवं चात्र उद्भूतावयवभेदविवक्षा न कर्तव्येति फलतीत्याहुः।र्न्स नपुंसकमिति। समाहारे द्विगुद्र्वन्द्वश्च नपुंसकं स्यादिति तदर्थो मूले वक्ष्यते।[इति द्विगुसमासः]।र्न्

तत्त्वबोधिनी
639 द्विगुरेकवचनम्। वक्तीति वचनम्। बाहुलकात्कर्तरि ल्युट्। `सामान्ये नपुंसकम्’। द्विगुः समास एकर्थप्रतिपादको भवतीत्यर्थः। न च वस्तुतोऽनेकार्थस्यैकार्थत्वं कथंचिदुपपद्यत इति सामथ्र्यादतिदेशः संपद्यत इत्याह–एकवत्स्यादिति। `समाहारे’इति तूपसङ्ख्यानाल्लभ्यते। समाहारे यो द्विगुस्तदर्थ एकवदित्यवयः। समाहारे किम्?। तद्धितार्थे माभूत्। पञ्चसु कपालेषु संस्कृताः पञ्चकपालाः, पञ्चभिर्गोभिः क्रीताः पञ्चगवः पटाः। पञ्चगवे पञ्चगवानीत्यत्र तु प्रथम् द्विगर्थस्यैकवद्भावे कृते योऽयमेकशेषे कृते द्विगर्थसमुदायस्तस्याऽद्विगर्थत्वाद्बहिरङ्गत्वाच्चैतवद्भावो न भवतीति स्थितमाकरे। यदा `तद्धितार्थ’इति सूत्रे `समाहारे’इति कर्मसाधनस्तदा समाह्मतप्रधानो द्विगुरिति बहुत्वे प्राप्तेऽनेन एकवद्भावः क्रियते। यदा तु भावसाधन एव समाहारस्तदा समूहप्रधानत्वाद्द्विगोः, समूहस्य चैकत्वात्सिद्धमेकत्वमिति नास्य प्रयोजनम्। न च `स नपुंसक’मिति नपुंसकत्वार्थमेकत्वविधानमितिवाच्यं, समुदायवाचकेषु `सामान्ये नपुंसक’मित्यभ्युपगमे बाधकाऽभावादित्याहुः। वस्तुतस्तु `तद्धितार्त’इति सूत्रे समाहार इति भावे घञ्न तु कर्मणि। `पञ्चगव’मित्यत्र पञ्च गव#ः समाह्मता इत्यर्थाभ्युपगमे समाह्यियमाणानां बहुत्वेन एकवचनानुपपत्तेः। न च `द्विगुरेकवचन’मिति सूत्रान्नैवमिति वाच्यम्, पञ्चखट्वीत्यसिद्धेः। तत्र हि पञ्च खट्वाः समाह्मताः, पञ्चसु खट्वासु समाह्मतास्वित्येवं विग्रहसंभवेन नियतविभक्तित्वाऽभावादेविभक्ति चापूर्वनिपाते इत्यप्रवृत्तेरनुपसर्जनत्वात् `गोस्त्रियो’रिति ह्यस्वो न स्यात्। ततश्च `आबन्तो वे’ति स्त्रीत्वपक्षे `द्विगोः’इत्यदन्तलक्षणो ङीब्न स्यात्। भावसाधनत्वे त्वेकविभक्तित्वादुपसर्जनत्वमव्याहतमेव। समाहारापेक्षया नियमेन वर्तिपदानां षष्ठउfffद्न्तत्वात्, तथा च पञ्चखट्वीत्यादिरूपं निर्बाधमेवेति दिक्। स नपुंसकमिति। एतस्यार्थो मूल एव स्फुटीभविष्यति। )

अथ द्वन्द्वः।
द्वन्द्वो हि द्विविधः। इतरेतरयोगसमाहारभेदात्‌ ।
(१) इततेतरयोगद्वन्द्वो यथा – प्लक्षश्च न्यग्रोधश्च प्लक्षन्यग्रोधौ। रामश्च कृष्णश्च रामकृष्नौ ।
(२) समाहारद्वन्द्वो यथा – हरिश्च हरश्च गुरुश्च एषां समाहारः हरिहरगुरु।

प्राणितूर्यसेनाङ्गानां द्वन्द्वैकवद्भावः।
(१) प्राण्यङ्गे यथा – पाणी च पादौ च मुखं च पाणिपादमुखम्‌।
२) तूर्याङ्गे यथा – मार्दङ्गिकं वैणविकश्च मार्दङ्गिकवैणविकम्‌।
(३) सेनाङ्गे यथा – राजन्याश्च रथाश्च अश्वाश्च राजन्यरथाश्वम्‌।

इति द्वन्द्वः॥

(Commentaries on www.avg-sanskrit.org:
2-4-2 द्वन्द्वश् च प्राणितूर्यसेनाऽङ्गानाम्

काशिका
एकवचनम् इति वर्तते। अङ्गशब्दस्य प्रत्येकं वाक्यपरिसमाप्त्या त्रीणि वाक्यानि सम्पद्यन्ते। प्राण्यङ्गानां द्वन्द्व एकवद् भवति, तथा तूर्याङ्गानां सेनाऽङ्गानां च। प्राण्यङ्गानां तावत् पाणिपादम्। शिरोग्रीवम्। तूर्याङ्गानाम् मार्दङ्गिकपाणविकम्। वीणावदकपरिवादकम्। सेनाऽङ्गानाम् रथिकाश्वारोहम्। रथिकपादातम्। हस्त्यश्वाऽदिषु परत्वात् पशुद्वन्द्वे विभाषया एअक्वद् भवति। इतरेतरयोगे समहारे च द्वन्द्वो विहितः। तत्र समाहारस्य एकत्वात् सिद्धम् एव एकवचनम्। इदं तु प्रकरणं विषयविभागार्थम्, प्राण्यङ्गाऽदीनां समाहार एव द्वन्द्वः, दधिपयाऽदीनाम् इतरेतरयोग एव, वृक्षमृगाऽदीनाम् उभयत्र इति।

लघु
994 एषां द्वन्द्व एकवत्. पाणिपादम्. मार्दङ्गिकवैणविकम्. रथिकाश्वारोहम्..

बलमनोरमा
896 द्वन्द्वश्च प्राणि। `प्राणितूर्यसेनाङ्गानी’ति द्वन्द्वगर्भषष्ठीसमासः। द्वन्द्वान्ते श्रूयमाणोऽङ्गशब्दः प्रत्येकं संबध्यते, इत्यभिप्रेत्याह–एषामिति। प्राण्याङ्गानां तूर्याङ्गानां सेनाङ्गानां चेत्यर्थः। द्वन्द्व इति। समाहारद्वन्द्व इत्यर्थः। `द्विगुरेकवचन’मिति पूर्वसूत्रे `समाहारग्रहणं कर्तव्य’मिति वार्तिकस्यात्राप्यनुवृत्तेः। एकवदिति। `एकवचन’मित्यनुवर्तते। एकं वक्तीत्येकवचनम्। ल्युट्। सामान्याभिप्रायं नपुंसकम्। पाणिपादमिति। पाण्योः पादयोश्च समाहार इति विग्रहः। अत्र समाहारे एकवत्त्वं, `स नपुंसक’मिति नपुंसकत्वं च। पाण्योः पादयोश्च प्राण्यवयवत्प्राण्यङ्गोदाहरणमिदम्। र्नत तूर्याङ्गद्वन्द्वे उदाहरति–मार्दङ्गिकपाणविकमिति। मृगङ्गपणवशब्दौ वाद्यविशेषपरौ। इह तु तद्वादनेऽपि वर्तेते। मृदङ्गवादनं शिल्पमस्येत्यर्थे `शिल्प’मिति ठक्। मार्दङ्गिकपाणविकयोः समाहार इति विग्रहः। तूर्याङ्गत्वादेकवचनम्। तूर्याङ्गत्वं च तद्वादकतया बोध्यम्। `स नपुंसक’मिति नपुंसकत्वम्। र्न्सेनाङ्गद्वन्द्वे उदाहरति–रतिकाउfffदाआरोहमिति। रथेन चरन्तीति रथिकाः। `पर्पादिभ्यः ष्ठन्’। रथिकानामउfffदाआरोहाणा च समाहार इति विग्रहः। सेनावयवत्वादेकवत्त्वम्। पूर्ववन्नपुंसकत्वम्। ननु समाहारद्वन्द्वे समाहारस्य इति विग्रहः। सेनावयवत्वादेकवत्त्वम्। पूर्ववन्नपुंसकत्वम्। ननु समाहारद्वन्द्वे समाहरस्य विशेष्यत्वात्तस्य चैकत्वादिदं सूत्रं व्यर्थमित्यत आह–समाहारस्यैकत्वादिति। समाहार एवेति। न त्वितरेतरयोगः। एषां द्वन्द्वे नियमार्थं सूत्रमित्यर्थः। एवमुत्तरसूत्राण्यपि समाहर एवेति नियमार्थानि। नचेतरेतरयोगद्वन्द्वे एषामेकवत्त्वविधानार्थमिदं सूत्रमस्तु। तथा च `पाणिपाद’ इति पुंलिङ्गमेकवचनान्तं रूपं फलमिति वाच्यं, `समाहारग्रहणं कर्तव्य’मिति पूर्वसूत्रस्थवार्तिकस्यात्रानुवृत्तेः, एकवद्भावप्रकरणेऽस्मिन् सर्वत्र समाहारद्वन्द्वानामेव भाष्ये उदाह्मतत्वाच्चा। नच रथिकमार्दङ्गिकावित्यादावतिप्रसङ्गः शङ्क्यः, प्राण्यङ्गानां परस्परद्वन्द्व एकवत्, तूर्याङ्गानां परस्परद्वन्द्व एकवत्, सेनाह्गानां परस्परद्वन्द्व एकवदित्यभ्युपगमादिति भाष्ये स्पष्टम्।र्न्

तत्त्वबोधिनी
773 द्वन्द्वश्चप्राणि। प्राणितूर्यसेनानामङ्गानीति बहुवचनान्तेनाऽङ्गशब्देन षष्ठीसमासः। अङ्गशब्दश्च प्रत्येकमन्वेति। तेन प्राण्यङ्गानां प्राण्यह्गैरेव, तूर्याङ्गेरैव, सेनाङ्गैरेव यो द्वन्द्वः स एकवद्भवति न तु व्यतिरेकेण। तेनेह न–मार्दङ्गिकाउfffदाआरोहौ। अत्र प्राणिसेनयोरङ्गं नामाऽवयवः। तूर्यस्य त्वङ्गं नामोपकारकं बोध्यम्। एषां द्वन्द्व इति। प्राण्यङ्गानां द्वन्द्वः, तूर्याङ्गानां द्वन्द्वः, सेनाङ्गानां द्वन्द्व इत्यर्थधः। `द्विगुरेकवचन’मित्यत एकवचनं वर्तते। तत्रैकं वक्तीति व्युत्पत्त्या एकत्वविशिष्टः समाहाररूपो योऽर्थस्तत्प्रतिपादकः स्यादित्यर्थं मन्वानः फलितमाह–एकवत्स्यादिति। पाणिपादमिति। यद्यप्यत्र `जातिरप्राणिना’मित्येव सिद्धं, तथापि द्रव्यप्राधान्येऽपि भवत्विति प्राणिग्रहणमित्येके। प्राणिपणवाविति व्यतिकरे मा भूदिति नियमार्थं वचनमित्यन्ये। मार्दङ्गिकेति। मृदङ्गवादनं शिल्पमस्येत्यर्थे `तदस्य शिल्प’मिति ठक्। एवं `पाणविक’इत्यपि। रथिकाउfffदाआरोहमिति। रथेन चरन्तीति रथिकाः। `पर्पादिभ्यः ष्ठ’न्निति ष्ठ्न्। ते चाउfffदारोहाश्चा तेषां समाहारः। ननु `चार्थे द्वन्द्वः’इत्यनेन समाहारद्वन्द्वः सिद्धः तस्य चैकत्वादेकवचनमपि सिद्धमिति किमनेनेत्याशङ्क्याह–नियमार्तमिति। समाहार एवेति। `समाहारे प्राण्यङ्गादीनामेवे’ति विपरीतनियमोऽत्र न भवति, `तिष्यपुनर्वस्वो’रिति सूत्रे बहुवचनग्रहणात्। तद्धि समाहारे एकवचनस्य द्विवचनं मा भूदिति कृतम्। अन्यथा `तिष्यपुनर्वस्वि’ति न स्यादिति। एवं च `द्वन्द्वश्च प्राणिसूत्रेय’ति प्रकरणबहुर्भूतानामपि लसमाहारद्वन्द्वो भवत्येव, तेन `सर्वो द्वन्द्वो विभाषैकवद्भवती’ति पठउfffद्मानं नाऽपूर्वं वचनमिति ज्ञेयम्।)
 

अथाऽव्ययीभावः।
स यथा – तटं तटं प्रति अनुतटम्‌। गिरिं गिरिं प्रति अनुगिरि। क्रमम्‌ अनतिक्रम्य वर्तत इति यथाक्रमम्‌। वेलायाम्‌ इति अधिवेलम्‌। कुम्भस्य समीपे वर्तते इति उपकुम्भम्‌। मक्षिकाणाम्‌ अभावो निर्मक्षिकम्‌। हिमस्य अत्ययः अतिहिमम्‌। अव्यवीभावस्य अव्ययत्वात्‌ त्रिषु लिङ्गेषु समानं रुपम्‌।
इति षट्‌ समासा निर्णीताः॥

(Conversation between me and Mr. H.N. Bhat:
me: I want to ask whether all 20 upasargas are capable of creating avyayIbhAva or some of them?
and whether any word other than upasargas can create avyayIbhAva?

me: I can observe that yathA is not an upasarga and yet it is creating avyayIbhAva….
Are there any set of such words specified?
hnbhat: depending on their meaning to create compound
they are prefixes to verbs mainly
me: प्रप्रत्यपिपरापोपपर्यन्ववविसंस्वति ।
निर्न्युदधिदुरभ्याड्‌ उपसर्गाश्च विंशतिः ॥ १ ॥
hnbhat: with nouns they are used to form अव्ययीभाव depending on their capacity to convey the meaning
me: can all of them create avyayIbhAva?

hnbhat: neeed not all the avyaya-s too be necessarily be used to form अव्ययीभाव compound, but only those convey the meaning intended by the अव्ययीभाव compound are counted
hnbhat: अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्ध्य्-अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तव्चनेषु । । २,१.६ । ।

hnbhat: The next rules 7 – 21 prescribe compound formation with specific अव्यय-s under specific conditions
of meaning

hnbhat: So list of upasarga-s have notthing to do with अव्ययीभाव compound directly

me: ok
hnbhat: they are listted among other अव्यय-s for compound formation in specific meaning
अप-परि-बहिरञ्चवः पञ्चम्या । । २,१.१२ । ।
आङ्मर्यादा-अभिविध्योः । । २,१.१३ । ।
लक्षणेन अभिप्रती आभिमुख्ये । । २,१.१४ । ।
अनुर्यत्-समया । । २,१.१५ । ।
यस्य च आयामः । । २,१.१६ । ।
Here is the list in the अव्ययीभाव formation)

(pANinIya sUtras:
2-1-5 अव्ययीभावः ।
2-1-6 अव्ययं विभक्तिसमीपसमृद्धि-
व्यृद्ध्यर्थाभावात्ययासम्प्रति-
शब्दप्रादुर्भावपश्चाद्यथाऽऽनुपूर्व्ययौगपद्यसादृश्य-
सम्पत्तिसाकल्यान्तवचनेषु ।
2-1-7 यथाऽसादृये ।
2-1-8 यावदवधारणे ।
2-1-9 सुप्प्रतिना मात्राऽर्थे ।
2-1-10 अक्षशलाकासंख्याः परिणा ।
2-1-11 विभाषा ।
2-1-12 अपपरिबहिरञ्चवः पञ्चम्या ।
2-1-13 आङ् मर्यादाऽभिविध्योः ।
2-1-14 लक्षणेनाभिप्रती आभिमुख्ये ।
2-1-15 अनुर्यत्समया ।
2-1-16 यस्य चायामः ।
2-1-17 तिष्ठद्गुप्रभृतीनि च ।
2-1-18 पारे मध्ये षष्ठ्या वा ।
2-1-19 संख्या वंश्येन ।
2-1-20 नदीभिश्च ।
2-1-21 अन्यपदार्थे च संज्ञायाम्‌ ।)

(Commentaries on avyayIbhAva samAsa:
2-1-5 अव्ययीभवः

काशिका
अव्ययीभावः इत्यधिकारो वेदितव्यः। यानित ऊर्ध्वम् अनुक्रमिष्यामः, अव्ययीभावसंज्ञा अस्ते वेदितव्याः। वक्ष्यति यथा ऽसादृश्ये (*2,1.7)। यथावृद्धं ब्राह्मणानामन्त्रयस्व। अन्वर्थसंज्ञा चेयं महती पूर्वपदार्थप्राधान्यम् अव्ययीभावस्य दर्शयति। अव्ययीभावप्रदेशाः अव्ययीभावश्च (*2,4.18) इत्येवम् आदयः।

लघु
910 अधिकारोऽयं प्राक् तत्पुरुषात्..

बलमनोरमा
643 अव्ययीभावः। अधिकारोऽयमिति। एकसंज्ञाधिकारेऽपि अनया संज्ञया समास संज्ञा न बाध्यते इति `प्राक्कडारात्’ इत्यत्रोक्तम्।र्न्

तत्त्वबोधिनी

2-1-6 अव्ययं विभक्तिसमीपसमृद्धिव्यृद्ध्यर्थाभावात्ययासम्प्रतिशब्दप्रादुर्भावपश्चाद्यथाऽअनुपूर्व्ययौगपद्यसादृश्यसम्पत्तिसाकल्यान्तव्चनेषु

काशिका
सुप् सुपा इति च वर्तते। विभक्त्यादिश्वर्थेषु यदव्ययं वर्तते तत् समर्थेन सुबन्तेन सह समस्यते, अव्ययीभावश्च समासो भवति। वचनग्रहणं प्रत्येकं सम्बध्यते। विभक्तिवचने तावत् स्त्रीष्वधिकृत्य कथा प्रवर्तते अधिस्त्रि। अधिकुमारि। सप्तम्यर्थे यदव्ययं तद् बिभक्तिवचनम्। समीपवचने कुम्भस्य समीपम् उपकुम्भम्। उपमणिकम्। समृद्धिरृद्धेराधिक्यम् समृद्धिर् मद्राणां सुमद्रम्। सुमगधं वर्तते। व्यृद्धिरृद्धेरभावः गवदिकानाम् ऋद्धेरभावः दुर्गवदिकम्। दुर्यबनं वर्तते। अर्थाभावः वस्तुनो ऽभावः अभावो मक्षिकाणां निर्मक्षिकम्। निर्मशकम् वर्तते। अत्ययः अभूतत्वम्, अतिक्रमः अतीतानि हिमानि अतिहिमम्। निर्हिमम्। निःशीतं वर्तते। असम्प्रति उपभोगस्य वर्तमानकालप्रतिषेधः अतितसृकम्। तैसृकमाच्छादनम्, तस्य अयम् उपभोगकालो न भवति इत्यर्थः। शब्दप्रादुर्भावः प्रकाशता शब्दस्य इति पाणिनि। तत्पाणिनि। पाणिनिशब्दो लोके प्रकाशते इत्यर्थः। पश्चात् अनुरथं पादातम्। रथानां पश्चातित्यर्थः। यथा। यथाऽर्थे यदव्ययं वर्तते तत् समस्यते। योग्यता विप्सा पदार्थानतिवृत्तिः सादृश्यं च इति यथार्थाः। योग्यतायाम् अनुरूपम्। रूपयोग्यम् भवति इत्यर्थः। वीप्सायाम् अर्थमर्थं प्रति प्रत्यर्थम्। पदार्थनतिवृत्तौ यथाशक्ति। आनुपूर्व्यमनुक्रमः अनुज्येष्ठं प्रविशन्तु भवन्तिअः। ज्येष्ठानुपूर्व्या भवन्तः प्रविशन्तु इत्यर्थः। यौगपद्यम् एककालता सचक्रम् धेहि। युगपच्चक्रं धेहि इत्यर्थः। सादृश्यम् तुल्यता। किमर्थम् इदम् उच्यते, यथार्थ इत्येव सिद्धम्? गुणभूते ऽपि सादृश्ये यथा स्यात्, सदृशः किख्या राकिखि। सम्पत्तिः अनुरूप आत्मभावः समृद्धेरन्यः सब्रह्म बाभ्रवाणाम्। सक्षत्रं शालङ्कायनानाम्। साक्ल्यम् अशेषता सतृणम् अभ्यावहरति। सबुसम्। न किंचिदभ्यावहार्यं परित्यजति इत्ययमर्थो ऽधिकार्थवचनेन प्रतिपाद्यते। अन्तवचने अन्तः इति परिग्रहापेक्षया समाप्तिरुच्यते। साग्नि अधीते। सेष्टि सपशुबन्धम्। सपशुबन्धान्तमधीते इत्यर्थः। इयं समाप्तिरसकले ऽप्यध्ययने भवति इति साकल्यात् पृथगुच्यते।

लघु
949 नञ् सुपा सह समस्यते..

बलमनोरमा
644 अव्ययं विभक्ति। विभक्त्यर्थाद्यभावेऽप्यपदिशमित्यादि साधयितुमाह–अव्ययमिति योगो विभज्यत इति। अत्र `समर्थः पदविधिः’ इत्यतः समर्थग्रहणमनुवृत्तं तृतीयान्ततया विपरिणम्यते। समास इति, अव्ययीभाव इति चाधिकृतम्। तदाह–अव्ययं समर्थेनेति। सोऽव्ययीभाव इति। स समासः अव्ययीभावसंज्ञः स्यादित्यर्थः। तथाच दिशयोर्मध्यमित्यस्वपदविग्रहे मध्यार्थकस्य अपेत्यव्ययस्य दिशयोरित्यनेन समाससंज्ञा, तस्य समासस्याऽव्ययीभावसंज्ञा च सिद्धा। तथाच समासत्वात्प्रातिपदिकत्वे `सुपो धातु’इति सुब्लुकि सति दिशा-अप इति स्थितम्। र्न्

तत्त्वबोधिनी
571 अव्ययं विभक्ति। विभक्तिरिह कारकशक्तिः। विभज्यते अनया प्रातिपदिकार्थ इथि व्युत्पत्तेः। अतएव वक्ष्यति `विभक्त्यर्थादिषु विद्यमानमव्यय’मिति।र्न्

2-1-7 यथा ऽसादृश्ये

काशिका
यथा इत्येतदव्ययम् असादृश्ये वर्तमानं सुपा सह समस्यते, अव्ययीभावश्च समासो भवति। यथावृद्धं ब्राह्मणानामन्त्रयस्व। ये ये वृद्धाः यथावृद्धम्। यथाध्यापकम्। असादृश्ये इति किम्? यथा देवदत्तः तथा यज्ञदत्तः। यथार्थे यदव्ययम् इति पूर्वेण एव सिद्धे समासे वचनम् इदं सादृश्यप्रतिषेधार्थम्।

लघु

बलमनोरमा
653 यथाऽसादृस्ये। `असादृश्ये’ इति छेदः। व्याख्यानात्। असादृश्ये योग्यतावीप्सापदार्थानतिवृत्तिरूपे वर्तमानं यथेत्यव्ययं समस्यते इत्यर्थस्य यथार्थत्वादेव सिद्धे नियमार्थमिदमित्याह-असादृश्ये एवेति। ननु `प्रकारवचने था’लिति विहिततताल्प्रत्ययान्तस्य कथं सादृश्ये वृत्तिरित्यत आह–हरेरिति। सामान्यस्य भेदको यो विशेषः स प्रकारः, तस्मिन्प्रकारे थालिति `प्रकारवचने थाल्’ इत्यास्यार्थः। ततश्च यद्विशेषधर्मवान्हरिस्तद्विशेषधर्मवान्हर इति बोधे सति यत्तच्छब्दाभ्यां तयोः प्रकारयोरभेदावगमादुपमानत्वप्रतीतिरिति भावः। तेनेति `प्राप्त’मित्यत्रान्वयः। सादृश्यार्थकत्वेनेत्यर्थः। सादृश्य इति वेति। `अव्ययं विभक्ती’ति सूत्रगतेन सादृश्ये वर्तमानमव्ययं समस्यत इत्यंशेन वा, यथार्थे विद्यमानमव्ययं समस्यत इत्यंशेन वा प्राप्तमव्ययीभावसमासकार्यं निषिध्यत इति भावः। भाष्ये तु प्रकारवचने यथाशब्दयोगे सादृस्येत्यनेनैव प्राप्तिरुक्ता, न तु यथार्थत्वेन प्राप्तिरुक्ता। यथाशब्दस्य सूत्रगृहीतत्वेन तद्योगे यतार्थेत्यस्याऽप्रवृत्तेरिति तदाशय इति शब्देन्दुशेखरे विस्तरः।र्न्

तत्त्वबोधिनी
578 यथाऽसा। निःसंदेहाय `सादृश्ये यथे’त्येव वक्तव्ये विपरीतोच्चारणं नञः प्रश्लेषलाभार्थमिति वायचष्ठे असादृश्य इति। यावन्त इति। यत्परिमाणमेषां ते। `यत्तदेतेभ्यः—’ इति वतुप्।र्न्

2-1-8 यावदवधारणे

काशिका
यावतित्येतदव्ययम् अवधारणे वर्तमानं सुपा सह समस्यते, अव्ययीभावश्च समासो भवति। अवधारणम् इयत्तापरिद्धेदः। यावदमत्रं ब्राह्मणानामन्त्रयस्व। यावन्त्यमत्राणि सम्भवन्ति पञ्च षट् वा तावत आमन्त्रयस्व। अवधारणे इति किम्? यावदृत्तं तावद् भुक्तम्। न अवधारयामि कियन् मया भुक्तम् इति।

लघु

बलमनोरमा
654 यावदवधारणे। इयत्तापरिच्छेदे गम्ये यावदित्यव्ययं समस्यते, सोऽव्ययीभाव इत्यर्थः। यावन्त इति। यत्परिमाणं येषामिति विग्रहे`यत्तदेतेभ्यः परिमाणे वतु’बिति वतुप्प्रत्ययः। यावदित्यव्ययमेव समस्यते, विग्रहस्तु तद्धितान्तेनैव, नित्यसमासत्वेनाऽस्वपदविग्रहौचित्यात्। अवधारणे किम् ?। यावद्दत्तं तावद्भुक्तम्। इयद्भुक्तमिति नावधारयतीत्यर्थः। र्न्

तत्त्वबोधिनी
579 यावच्छ्लोकमिति।`याव’दित्यव्ययं समस्यते, विग्रहस्तु तद्धितान्तेनेत्यस्वपदविग्रहत्वमस्त्येव। अवधारणे किम्?। यावद्दत्तं तावद्भुक्तम्। [कियद्दत्त] कियद्भुक्तं वा नावधारयतीत्यर्थः।र्न्

2-1-9 सुप् प्रैत्ना मात्राऽर्थे

काशिका
मात्रा बिन्दुः, स्तोकम्, अल्पम् इति पर्यायाः। मात्राऽर्थे वर्तमानेन प्रतिना सह सुबन्तं समस्यते, अव्ययीभावश्च समासो भवति। अस्त्यत्र किञ्चित् शाकम् शाकप्रति। सूपप्रति। मात्राऽर्थे इति किम्? वृक्षं प्रति विधोतते विद्युत्। सुपिति वर्तमाने पुनः सुब्ग्रहणम् अव्ययनिवृत्त्यर्थम्।

लघु

बलमनोरमा
655 सुप्प्रतिना मात्रार्थे। सुबिति छेदः। मात्रा-लेशः। तस्मिन्नर्थे विद्यमानेन प्रतिना सुबन्तं समस्यत इत्यर्थः। सुबित्यनुवर्तमाने पुनः सुब्ग्रहणं संनिहितस्याऽव्ययमित्यस्याननुवृत्त्यर्थं, तद्ध्वनयन्नुदाहरति-शाकस्य लेश इति। अत्र `प्रती’त्यव्ययं मात्रार्थकम्। अतस्तेन शाकस्येति सुबन्तस्य समासः। समासविधौ सुबन्तस्य प्रथमानिर्दिष्टत्वेन उपसर्जनत्वात्पूर्वनिपातः, न तु प्रतेः, तस्य समासविधौ तृतीयानिर्दिष्टत्वात्। वृक्षं प्रतीति। अत्र प्रतेर्मात्रार्थकत्वाऽभावान्न तेन समासः। न च `लक्षणेत्थ’मिति कर्मप्रवचनीयत्वविधानसामथ्र्यादेवाऽत्र समासो न भविष्यति, सति समासे द्वितीयायाः षष्ठउfffदा वा लुकि अविशेषात्, सकृत्प्रवृत्ततया समासात्तद्विभक्त्यनुत्पत्तेरिति वाच्यम्, `वृक्षं प्रति सिञ्चती’त्यादौ `उपसर्गात्सुनोती’ति षत्वनिवृत्त्या कर्मप्रवचनीयत्वस्य चरितार्थत्वादित्यन्यत्र विस्तरः। र्न्

तत्त्वबोधिनी
580 सुप्प्रतिना। सुबित्यनुवर्तमाने पुनः सुब्ग्रहणमव्ययनिवृत्त्यर्थमिति ध्वनयन्नुदाहरति–शाकप्रतीति।नन्वारम्भसामथ्र्यादव्ययभिन्नमेव सुप्समस्यत इति चेत्। अत्राहुः–पुनः सुब्ग्रहणाऽभावे दोषामन्यमहर्दिवामन्या रात्रिरिति वृत्तिविषये सत्त्वप्रधानतादर्शनात्तादृशाव्ययान्येव मात्रार्थे प्रतिना समस्येरन्, तथा च दिवसस्य लेशो दिवाप्रति दोषाप्रतीत्यादीनाहरणत्वं संभाव्येतेति। वृक्षं प्रतीति। ननु लक्षणादौ प्रतेः कर्मप्रवचनीयसंज्ञाविधानसामथ्र्याद्ध्वितीयागर्भं वाक्यमेव स्यात्, न तु समासः, तस्य लेशार्थे सावकाशत्वादिति चेत्। मैवम्। `वृक्षं प्रति सिञ्चन्ती’त्यादौ षत्वनिवारकत्वेन कर्मप्रवचनीयसंज्ञाविधानस्य चरुतार्थत्वान्मात्रार्थग्रहणाऽभावे लक्षणादाबप्यनेन समासप्रसङ्गात्। वीप्सायामव्ययीभावे तु प्रत्यादेः पूर्वनिपातत्वे `प्रत्यर्थं सिञ्चन्ती’त्यादौ षत्वाऽप्रसक्त्या कर्मप्रवचनीयविधानस्याऽचरितार्थतया तत्सामथ्र्याद्द्वितीयागर्भं वाक्यमपीत्युक्तं मूलकृता `अव्ययं विभक्ती’ति सूत्रे। अत्र नव्याः–प्रत्यर्थमित्यव्ययीभावे वीप्सायां द्योतकत्वेन विद्यमानमव्ययं समस्यते। वीप्साद्योतकस्य यदि कर्म प्रवचनीयसंज्ञाविधिः स्वीक्रियते, तदापि प्रतिस्तवनं प्रतिस्थानमित्यादौ षत्वनिवारणाय प्रतीत्यस्य कर्मप्रवचनीयसंज्ञा चरितार्थैव। वस्तुतस्तु वीप्सायां विषयभूतायां प्रत्यादेः कर्मप्रवचनीयसंज्ञा, न तु वीप्साद्योतकस्यैव। अन्यथा `वृक्षं वृक्षं प्रति सिञ्चती’त्यत्र द्विर्वचनेनैव वीप्सा द्योत्यते। प्रतिशब्दस्तु क्रियाया संबध्यते। कर्मणि द्वितीया। कर्मप्रवचनीयसंज्ञया उपसर्गसंज्ञाया बाधात् षत्वं ने’त्यादिमनोरमाग्रन्थस्य `लक्षणेत्थंभूते’ति सूत्रस्थस्य दत्तजलाञ्जलिः स्यात्, ततश्च संज्ञाविधानसामथ्र्यास्योपक्षीणत्वात्, अर्थमर्थं प्रतीत्यादिभाष्यप्रयोगादेव द्वितीयागर्भं वाक्यमपि भवतीत्येवं व्याख्येयमित्याहुः। पराजयं द्योतयितुमाह—विपरीतं वृत्तमिति। पूर्वं जये यथा वृत्तं तथा न वृत्तमित्यर्थः। एकपरीति। एकंन विपरीतं वृत्तमित्यर्थः। एवं द्विपरीत्यादि। `विभाषाऽपपरिबहि’रिति योगं विभज्य व्याचष्टे।र्न्र्न्

2-1-10 अक्षशलाकासङ्ख्याः परिणा

काशिका
अक्षशब्दः, शलाकाशब्दः, सङ्ख्याशब्दश्च परिणा सह समस्यन्ते, अव्ययीभावश्च समासो भवति। कितवव्यवहारे समासो ऽयम् इष्यते। पञ्चिका नाम द्यूतं पञ्चभिरक्षैः शलाकाभिर् वा भवति। तत्र यदा सर्वे उत्तानाः पतन्ति अवाञ्चो वा, तदा पात्यिता ज्यति, तस्य एव अस्य विपातो ऽन्यथा पाते सति जायते। अक्षेण इदं न तथा वृत्तं यथा पूर्वं जये अक्षपरि। शलाकापरि। एकपरि। द्विपरि। त्रिपरि। परमेण चतुष्परि। पञ्चसुत्वेकरूपासु जय एव भविष्यति। अक्षादयस् तृतीयान्ताः पूर्वोक्तस्य यथा न तत्। कितवव्यवहारे च एकत्वे ऽक्षशलाकयोः।

लघु

बलमनोरमा
656 अक्षशलाका। `समस्यन्ते सोऽव्ययीभाव’ इति शेषः। द्यूतव्यवहारे इति। वार्तिकमिदम्। [इद] द्यूतं तावत्पञ्चभिरक्षैः शलाकाभिर्वा भवति। यदि अक्षाः शलाका वा कत्स्ना उत्ताना अवाञ्चो वा पतन्ति, तदा पातयिता जयति। अन्यथा पराजयत इति स्थितिः। अक्षेणेति। कर्तरि तृतीया। `विपरीतं वृत्त’मित्यत्र वृत्तेर्भाव क्तः। `विपरीत’मिति क्रियाविशेषणम्। जये यथा परिवर्तितव्यं न तथा परिवृत्तमित्यर्थः। शलाकापरीति। शलाकया विपरीतं वृत्तमिति भावः। एकपरीति। एकेन विपरीतं वृत्तमित्यर्थः। एवं `द्विपरि’ `त्रिपरी’त्यादि। र्न्

तत्त्वबोधिनी

2-1-11 विभाषा

काशिका
विभाषा इत्ययम् अधिकारो वेदितव्यः। यदित ऊर्ध्वम् अनुक्रमिष्यामः, तद् विभाषा भवति। वक्ष्यति

लघु

बलमनोरमा
657 विभाषा। अधिकारोऽयमिति। ततश्चोत्तरत्र समासविधिष्वेतदनुवर्तते इति लभ्यते। ननु `प्राक्कडारात्समासः’ इत्यत ऊध्र्वं `सहसुपे’त्यतः प्रागेव कुतो विभाषाधिकारो न कृत इत्यत आह–एतत्सामथ्र्यादिति। मध्ये विभाषाधिकारपाठसामथ्र्यादेवेतः प्राचीनानां नित्यसमासत्वं गम्यत इत्यर्थः। यद्यपीतः प्राचीनानां विकल्पे प्रमाणाऽभावादेव नित्यत्वं सिद्धं, तथापि तस्यैव लिङ्गेन दृढीकरणमिति। बोध्यम्। नन्वेवं सति `सुप्सुपे’त्यपि नित्यसमासः स्यात्, ततश्च पूर्वं भूत इति लौकिकविग्रहवाक्यमनुपपन्नं स्यात्। `सुप्सुपे’ति विषये विस्पष्टं पटुर्विस्पष्टपटुरिति विग्रहप्रदर्शनपरम् `आकडारात्’ इति सूत्रस्थभाष्यमपि विरुध्येतेत्यत आह-न नित्यसमास इति। कुत इतयत आह–अव्ययमित्यादीति। `आकडारा’दित्येव सिद्धे `प्राक्कडारा’दिति प्राग्ग्रहणं समाससंज्ञायां अव्ययीभावादिसंज्ञासमावेशार्थम्। अन्यथा एकसंज्ञाधिकारात्पर्यायः स्यादिति `आकडारा’दिति सूत्रे भाष्ये स्थितम्। तत्र `अव्ययं विभक्ती’त्याद्यव्ययीभावादिविधिषु`सुप्सुपे’ति समासमनूद्य नाव्ययीभावादिसंज्ञा विधेयाः। `उपपदमतिङ्’ `कर्तृकरणे कृता बहुलम्’ `आख्यातमाख्यातेन क्रियासातत्ये’ इत्यादौ सुबन्तस्य सुबन्तेन समासस्य उद्देश्यस्याऽप्रसिद्धेः। अतस्तेषु समासविधानस्यावश्यकत्वादर्थाधिकारानुरोधात्सर्वत्र समास इत्यनुवृत्तं विधेयसमर्पकमित्यास्थेयम्। तत्र `सुप्सुपे’त्येव सिद्धे `अव्ययं विभक्ती’त्याद्यव्ययीबावादिविधिषु समाससंज्ञाविधानं व्यर्थं सत्ततः प्राचीनविधेर्वैकल्पिकत्वं ज्ञापयति। न चाव्ययीभावादिविधिषु समासविध्यभावेऽव्ययादीनां समासशास्त्रे प्रथमानिर्दिष्टत्वाऽभावेन उपसर्जनत्वाऽभावात्पूर्वनिपातनियमो न स्यात्, तदर्थमव्ययीभावादिविदिषु समासविधानं चरितार्थमिति वाच्यं, `प्रथमानिर्दिष्टम्’ इति सूत्रे `समासे’ इत्यस्य समासत्वव्याफ्याऽव्ययीभावादिविधायके शास्त्रे इत्यर्थाभ्युपगमेनाऽव्ययादीनामुपसर्जनत्वसिद्धेर्वक्तुं शक्यत्वात्। तस्मादव्ययी भावादिविधिषु समासविधानं `सुप्सुपे’ति समासस्य वैकल्पिकत्वं ज्ञापयतीति स्थितम् . `आकडारा’दिति सूत्रे `सुप्सुपे’ति समासविषये विस्पष्टं पटुविस्पष्टपटुरिति विग्रहप्रदर्शनपरभाष्यं चेह लिङ्गमित्यलं बहुना। एवंच `इवेन समासः’ इत्यादि वैकल्पिकमिति सिद्धम्। यद्यपि नित्यसमासाधिकारे `कुगती’त्यत्रापि `इवेने’ति वार्तिकं पठितं तथापि `सुप्सुपे’त्यत्र पठितमेव तत्रापि स्मार्यत इति कैयटः।र्न्

तत्त्वबोधिनी
581 विभाषेति। इतः प्राचीनानां समासानां हि टिघुभादिसंज्ञानामिव वाग्रहणाऽभावान्नित्यत्वं न्यायत एव सिद्धं, तच्च लिङ्गेनापि द्रढयति-एतदिति। नन्वेवं `सुप्सुपा’ इत्यपि नित्यं स्यात्, इष्टापत्तौ तु `पूर्वं भूतो भूतपूर्वः। सुप्सुपेति समासः’ इति वृत्तिग्रन्थो विरुध्येत। तथा शाकलसूत्रे `सिन्नित्यसमासयोः शाकलप्रतिषेधः’ इत्यत्र `नित्य ग्रहणेन नार्थः, इदमपि सिद्धं भवति–वाप्यामउfffदाओ वाप्यउfffदाः’ इति भाष्यं कैयटो व्याख्यात्–`वाप्यउfffदा इति सुप्सुपे’ति समाससः। `संज्ञायाम्’ इति सप्तमीसमासस्य तु नित्यत्वात्सिद्धः प्रतिषेधः’इति। सोऽपि ग्रन्थो विरुध्येतेत्याशङ्कायामाह सुप्सुपेति त्विति। नन्वत्र किं प्रमाणमित्यत आह–अव्ययमित्यादीति। सुप्सपेत्यनेनैव सिद्धे समासे `अव्यय’मित्यादिसूत्रैः पुनः समासविधानं प्काचीनस्य क्वाचित्कातां ज्ञापयतीत्यर्थः। एवं च इवेन समासस्यापि क्वाचित्कत्वात् `उद्वाहुरिव वामनः’इत्यादि सिद्धम्। `इवेने’तिवार्तिकं तु यद्यपि `कुगती’त्यत्र पठउfffद्ते तथापि `सुप्सुपे’त्यत्रत्यमेव नित्याऽधिकारे स्मारितमिति कैयटः। एवं स्थिते `उद्बाहुरिव वामनः’इत्यादिलोकप्रयोदसिद्धये इवेन समासस्य छन्दोविषयकत्वं कल्पयन्तः प्रत्युक्ताः। छन्दस्यपि तत्समासस्य नित्यत्वानभ्युपगमात्। `जीमूतस्येवे’त्यत्र हि बह्वृचैः समासाभ्युपगमेऽपि तैत्तिरयैव्र्यस्तस्यैव पाठात्। एतच्च मनोरमायां स्थितम्।र्न्

2-1-12 अपपरिबहिरञ्चवः पञ्चम्या

काशिका
अपत्रिगर्तं वृष्तो देवः, अप त्रिगर्तेभ्यः। अपपरिबहिरञ्चवः पञ्चम्या (*2,1.12)। अप परि बहिसञ्चु इत्येते सुबन्ताः पञ्चम्यन्तेन सह विभाषा समस्यन्ते, अव्ययीभावश्च समासो भवति। अपत्रिगर्तं वृष्टो देवः, अप त्रिगर्तेभ्यः। परित्रिगर्तम्, परि त्रिगर्तेभ्यः। बहिर्ग्रामम्, वहिर्ग्रामात्। प्राग्ग्रामम्, प्राग् ग्रामात्। बहिः शब्दयोगे पञ्चमीभावस्य एतदेव ज्ञापकम्।

लघु

बलमनोरमा
658 अपरिबहिः। `समस्यन्ते सोऽव्ययीभाव’ इति शेषः। अपविष्ण्विति। अत्र `अप’ इत्यव्ययं वर्जने। विष्णुं वर्जयित्वा संसरणमित्यर्थः। अप विष्णोरिति-लौकिकविग्रहवाक्यम्, समासस्य वैकल्पिकत्वेनास्वपदविग्रहनियमाऽभावात्। `अपपरी वर्जने’ इति अपेत्यव्ययस्य कर्मप्रवचनीयत्वात्तद्योगे `पञ्चम्यपाङ्परिभि’रिति पञ्चमी। तदन्तेन `अपे’त्यस्याव्ययीभावसमासः। सुब्लुक्। अपेत्यव्ययस्य प्रथमानिर्दिष्टत्वात् पूर्वनिपातः। समासात्सुबुत्पत्तिः। `अव्ययादाप्सुपः’ इति लुक्। एवं यथायथमग्रेऽपि ज्ञेयम्। परिविष्ण्विति। अत्रापि परिर्वर्जने। पञ्चम्यादि पूर्ववत्। बहिर्वनं बहिर्वनादिति। अस्मादेव ज्ञापकाद्बहिर्योगे पञ्चमी। इतरत् पूर्ववत्। ?दन्तत्वादम्भावः। प्राग्वनं प्राग्वनादिति। अञ्चूत्तरपदयोगे पञ्चमी। र्न्

तत्त्वबोधिनी
582 अपपरिबहिः। अपपरियोगे `पञ्चम्यपाङ्परिभि’रिति पञ्चमीविहिता, अञ्चूत्तरपदयोगेऽपि `अन्यारा’ दित्यादिना विहितैव। तेनाऽत्र `पञ्चम्या’इति ग्रहणं `बहिर्योगे पञ्चमी भवति’ इति ज्ञापनार्थम्। `ज्ञापकसिद्धं न सर्वत्रे’ति `करस्य करभो बहि’रित्यपि सिद्धम्।र्न्

2-1-13 आङ् मर्यादाऽभिविध्योः

काशिका
आङित्येतन् मर्यादायाम् अभिविधौ च वर्तमानम् पज्चम्यन्तेन सह विभाषा संस्यते, अव्ययीभावश्च समासो भवति। आपाटलिपुत्रं वृष्टो देवः, आ पाटलिपुत्रात्। अभिविधौ आकुमारं यशः पाणिनेः, आ कुमारेभ्यः।

लघु

बलमनोरमा
659 आङ्मर्यादाभिविध्योः। एतयोरिति। मर्यादाभिविध्योर्विद्यमानादित्यर्थः। मर्यादायामुदाहरति-आमुक्तीति। मुक्तेः प्रागित्यर्थः। अमिविधावुदाहरति-आबलमिति। बालानारभ्येत्यर्थः। `आङ्मर्यादावचने’ इत्युभयत्रापि कर्मप्रवचनीयत्वात् `पञ्चम्यपाङ्परिभि’रिति पञ्चमी। र्न्

तत्त्वबोधिनी
583 आबालमिति। `आ परमणोरा च भूगोलक’ मिति किरणावलीप्रयोगस्तु प्रामादिकः, समासमध्ये च शब्द प्रयोगाऽसंभवात्। `आ च भूगोलकात्’इति पास्तूचितः।र्न्

2-1-14 लक्षणेन अभिप्रती आभिमुख्ये

काशिका
लक्षणं चिह्नं, तद्वाचिना सुबन्तेन सह अभिप्रती शब्दावाभिमुख्ये वर्तमानौ विभाषा समस्येते, अव्ययीभावश्च समासो भवति। अभ्यग्नि शलभाः पतन्ति, अग्निमभि। प्रत्यग्नि, अग्निं प्रति। अग्निं लक्ष्यीकृत्य अभिमुखं पतन्ति इत्यर्थः। लक्षणेन इति किम्? स्रुग्घ्नं प्रतिगतः। प्रतिनिवृत्त्य स्रुग्घ्नम् एव अभिमुखं गतः। अभिप्रती इति किम्? येन अग्निस् तेन गतः। आभिमुख्ये इति किम्? अभ्यङ्का गावः। प्रत्यङ्क्का गावः। नवाङ्का इत्यर्थः।

लघु
731 चतुर्थ्यन्तात् कष्टशब्दादुत्साहेर्ऽथे क्यङ् स्यात्. कष्टाय क्रमते कष्टायते. पापं कर्तुमुत्सहत इत्यर्थः..

बलमनोरमा
660 लक्षणेनाभि। लक्षणेनेत्येतद्व्याचश्टे-चिह्नवाचिनेति। प्राग्वदिति। `समस्येतेसोऽव्ययीभाव’ इत्यर्थः। अभ्यग्नीति। शलभाः-क्षुद्रजन्तुविशेषाः स्थूलमक्षिकाः। अग्निमभीति। विग्रहोऽयम्। `अभिरभागे’ इति `लक्षणेत्थ’मिति चाभिप्रत्योः कर्मप्रवचनीयत्वम्, अग्निज्ञाप्यं तदभिमुखं च शलभपतनमित्यर्थः। र्न्

तत्त्वबोधिनी
584 लक्षणेन। `चिह्नं लक्ष्म च लक्षण’मित्यमरस्तदाह–चिह्नवाचिनेति। इहाऽभिप्रती लक्ष्यलक्षणभावम्, आभिमुख्यं चेत्युभयं द्योतयत इति फलितम्। अग्निमभि। अउfffद्ग्न प्रतीति। `अभिरभागे’ `लक्षणेत्थंभूते’त्यनेन च अभिप्रत्योः कर्मप्रवचनीयत्वाद्द्रितीया। लक्षणेनेति किम्?। रुआउग्ध्नं प्रतिगतः। रुआउग्ध्नादागतस्तमेव प्रतिनिवृत्त इत्यर्थः। अत्र हि रुआउग्ध्नः कर्म, न तु लक्षणम्। अभिप्रतीति किम्?। येनाग्निस्तेन गतः। येन पथा अग्निर्गतस्तेन गत इति प्रतीतेर्भवति गमनस्याग्निर्लक्षणम्, आभिमुख्यमप्यस्तीति येनतेन शब्दयोरग्निशब्देन समासः स्यात्। आभिमुख्ये किम्?। अभ्यङ्का गावः। प्रत्यङ्काः। अभिनवः प्रतिनवश्चाङ्क आसामिति बहुव्रीहिः। अङ्को ह्रत्र भवति गवां लक्षणम्। आभिमुख्यं तु नास्ति। ननूत्सर्गतोऽव्ययार्थप्राधान्येऽव्ययीभावस्वीकारात्कथमिह प्रसङ्गः?। अत्राहुः–इह प्रकरणे बहुव्रीहिविषयेऽव्ययीभावो भवतीति ज्ञापनार्थमिदं। तेन `सङ्ख्या वंश्येन’`द्विमुनि व्याकरण’मित्यादि सिद्धमिति।र्न्

2-1-15 अनुर् यत्समया

काशिका
समया समीपम्। अनुर्यस्य समीपवाची तेन लक्षणभूतेन सह विभाषा समस्यते, अव्ययीभावश्च समासो भवति। अनुवनमशनिर्गतः। अनुः इति किम्? वनं समया। यत्समया इति किम्? वृक्षमनु विद्योतते विद्युत्। अव्ययं विभक्तिसमीप (*2,1.6) इत्येव सिद्धे पुनर्वचनम् विभाषार्थम्।

लघु

बलमनोरमा
661 अनुर्यत्समया। लक्षणेनेत्यनुवत्र्तते। `य’दिति समयायोगे `अभितःपरितः’ इति द्वितीयान्तम्। सामान्ये नपुंसकम्। तदाह–पदार्थमिति। अनुवनमिति। अत्र वनशब्दः वनसमीपदेशे लाक्षणिकः। वनसमीपस्य लक्षणत्वं वस्तुसदेव निमित्तम्। तदाह–वनस्य समीपं गत इत्यर्थ इति। वस्तुतो लक्षणीभूतस्य वनस्य समीपंगत इति यावत्। `अव्ययं विभक्ती’त्यादिना सिद्धे विभाषार्थमिदं सूत्रम्। ततश्च `वनस्यानु’ इति लौकिकविग्रहवाक्यमुदाहार्यम्। नात्र कर्मप्रवचनीयसंज्ञा शङ्क्या, वस्तुसत एवात्र लक्षणत्वस्य निमित्तत्वाश्रयणात्। लक्षणत्वस्य ज्ञातस्य निमित्तत्वे तु `वनमनु’ इत्येववाक्यमुदाहार्यम्।र्न्

तत्त्वबोधिनी
585 अनुर्यत्,। यदिसि समयायोगे द्वितीयेति ध्वनयति-यं पदार्थमिति। यस्य पदार्थस्य समीपमित्यर्थः। लक्षणेनेत्यनुवर्तत इत्याह–लक्षणभूतेनेति। चिह्नवाचिनेत्यर्थः। `अव्यय विभक्ती’ त्यनेन सिद्धे विभाषार्थं सूत्रम्। तेन पक्षे `वनस्यानु’इत्युदाहार्यमिति मनोरमायां स्थितम्। अत्र वदन्ति–वनस्येति षष्ठीह दुर्लभा, कर्मप्रवचनीययुक्ते द्वितीयाया दुर्वारत्वात्, तत्सामथ्र्यात्समया लङ्कामितिवत्समासबाधे प्रसक्ते अस्य विध्यर्थत्वात्। न चायमनुः सामीप्यमात्रद्योतको, न लक्ष्यलक्षमभावस्येति वाच्यम्। लक्षणेनेत्यवृत्तिवैयथ्र्यात्। न चैवमपि लक्षणमात्रद्योतकत्वं नास्तीति वाच्यम्। `लक्षणेत्थ’मित्यत्र मात्रपदाऽभावात्। अग्निमभि, अउfffद्ग्न प्रतीति पूर्वसूत्रस्थोदाहरणा[प्रत्युदाहरण]वाक्यविरोधाच्च। अतोऽत्र पक्षे `वनमनु’इत्युदाहार्यम्। `वनस्य समीपं गत’ इति मूलस्थं विवरणवाक्यं तु `लक्षण भूतस्य वनस्य समीपं गत’ इति व्याख्येयमिति। अन्विति किम्?। ग्रामं समया। यत्समयेति किम्?। वृक्षमनुविद्योतते विद्युत्। लक्षणेन किम्?। अनुव[च]नम्। उपकृष्णमितिवदत्र नित्यमव्ययीभावः।र्न्

2-1-16 यस्य च आयामः

काशिका
लक्षनेन इति वर्तते। आयामो दैर्घ्यम्। अनुर्यस्यायामवाची तेन लक्षणभूतेन सह विभाषा समस्यते, अव्ययीभावश्च समासो भवति। अनुगङ्गं वाराणसी। अनुयमौनं मथुरा। यमुनायामेन मथुरायामो लक्ष्यते। आयामः इति किम्? वृक्षमनु विध्योतते विद्युत्।

लघु

बलमनोरमा
662 यस्य चायामः। लक्षणेनेत्यनुवर्तते। अनुरित्यनुवर्त्त्य आवर्त्त्य तृतीयया विपरिणम्यते। तत्र एकं लक्षणेनेत्यत्र संबध्यते। द्वितीयं तु अनुनेत्येतत्–`यस्य चायामः’ इत्यनन्तरं संबध्यते। द्योत्यत इति शेषः। आयामो दैघ्र्यम्। तदाह-यस्य दैघ्र्यमिति। यद्दैघ्र्यसदृशं दैघ्र्यमित्यर्थः। समस्यते इति। `सोऽव्ययीभाव’त् इत्यपि बोध्यम्। अनुगङ्गमिति-समासः। लौकिकविग्रहं दर्शयति-गङ्गाया अन्विति। इहापि लक्षणत्वं वस्तुसदेव निमित्तं न त्वनुद्योत्यम्। अतो न कर्मप्रवचनीयत्वम्। द्योत्यत्वेनान्वये तु गङ्गामन्विति युक्तम्। अनुगङ्गमित्यत्र गङ्गाशब्देन गङ्गादैघ्र्यसदृशं दैघ्र्यं लक्ष्यते। तदेवानुद्योत्यम्। तदाह–गङ्गा-दैघ्र्येति। र्न्

तत्त्वबोधिनी
587 यस्य चा। इहानुरित्यनुवर्त्त्य आवर्त्त्यैकं तृतीयान्तत्वेन विपरिणमय्य व्याचष्टे–अनुनेति। लक्षणभूतेनेति। लक्षणेनेत्यनुवर्तत इति भावः। अनुगङ्गमिति। इहाऽऽयामोपलक्षणत्वं चानुना द्योत्यते, लक्ष्यं तु समासार्थः। अतएव वाराणस्याः सामानाधिकरण्यम्। एवं स्थिते फलितमाह–गङ्गादैध्र्येति। वाराणसीति। वरं च तदनश्च वरान:=श्रेष्ठोदकम्। `अनः क्लीबं जले शोके मातृस्यन्दनयोद्र्वयोः’ इति रुद्ररभसौ। तस्याऽदूरे भवा। `अदूरभवश्च’ इत्यण्। आदिवृद्धिः। `पूर्वपदात्संज्ञायाम्’इति णत्वम्। गङ्गाया अन्विति। समासाऽभावपक्षे प्रागुक्तरीत्या गङ्गामन्वित्युदाहार्यमित्याहुः।त्(586) तिष्ठद्गुप्रभृतीनि च।2।1।17।र्न्तिष्ठद्गुप्रभृतीनि च। चकार एवकारार्थेष। तेनैषां वृत्त्यन्तरं न भवति। परमतिष्ठद्गु इत्यादि न भवतीत्यर्थः। तिष्ठद्गु इति। `गोस्त्रियो’रिति ह्यस्वः। प्रथमासमानाधिकरणे शत्रादेशस्याऽसंभवादाह–इह शत्रादेश इति। इत्यादीति। आदिशब्देन–खलेयवम्। खलेबुसम्। सप्तम्या अलुक्। लूनयवम्। लूयमानयवमित्यादि ग्राह्रम्।र्न्

2-1-17 तिष्ठद्गुप्रभृतीनि च

काशिका
तिष्ठद्ग्वादयः समुदाया एव निपात्यन्ते। तिष्ठद्गुप्रभृतीनि शब्दरूपाणि अव्ययीभावसंज्ञानि भवन्ति। तिष्ठद्गु कालविशेषः। तिष्ठन्ति गावो यस्मिन् काले दोहनाय स तिष्ठद्गु कालः। खलेयवादीनि प्रथमानतानि विभक्त्यनतरेन्ण न एव सम्बध्यन्ते ऽन्यपदार्थे च काले वर्तन्ते। चकारो ऽवधारणार्थः। अपरः समासो न भवति, परमतिष्ठद्गु इति। तिष्ठद्गु। वहद्गु। आयतीगवम्। खलेबुसम्। खलेयवम्। लूनयवम्। लूयमानयवम्। पूतयवम्। पूयमानयवम्। संहृतयवम्। संह्रियमाणायवम्। संहृतबुसम्। संह्रियमाणाबुसम्। एते कालशब्दाः। समभूमि। समपदाति। सुषमम्। विषमम्। निष्षमम्। दुष्षमम्। अपरसमम्। आयतीसमम् ःप्राह्णम्। प्ररथम्। प्रमऋगम्। प्रदक्षिणम्। अपरदक्षिणम्। संप्रति। असंप्रति। पापसमम्। पुण्यसमम्। इच् कर्मव्यतिहारे (*5,4.127) दण्डादण्डि। मुसलामुसलि।

लघु

बलमनोरमा
663 तिष्ठद्गुप्रभृतीनि च। एतानीति शब्दरूपाणीत्यर्थः। तिष्ठन्ति गाव इति। फलितार्थकथनम्। तिष्ठन्त्यो गावो यस्मिन् काले स तिष्ठद्गुः इत्येव वक्तव्यम्, `सुप्सुपः’ इत्यनुवृत्तेः। दोहनकाल इति। तदा गवां शयनोपवेशनयोरभावादिति भावः। आयतीगवमिति। आयत्यो गावो यस्मिन् काले इति विग्रहः। इहेति। उदाहरणद्वये इत्यर्थः। शत्रादेश इति। `तिष्ठन्त्यो गाव’ इति `आयत्यो गाव’ इति च प्रथमासमानाधिकरणत्वात् `लटश्शतृशानचौ’ इत्यस्याऽप्राप्तौ तन्निपातनमिति भावः। पुंवद्भावेति। तिष्ठन्तीशब्दस्येव आयतीशब्दस्यापि `स्त्रियाः पुंवत्’ इति पुंवत्त्वस्य प्राप्तौ तदभावो निपात्यते इति भावः। समासान्तश्चेति। आयतीगोशब्दस्य टच् समासान्तो निपात्यते, तत्पुरुष एव गोशब्दस्य टज्विधेरिति भावः। `समासान्तश्चे’ति चकारादव्ययीभावश्च निपात्यते इति ज्ञेयम्। तथा च तिष्ठद्गोशब्दस्य नपुंसकह्यस्वत्वम्। अव्ययत्वात् सुपो लुक्। औगतीगवशब्दात्तु `नाव्ययीभावात्’ इत्यम्भाव इत्यादि फलति। इत्यादीति। खलेयवं खलेबुसमिति सप्तम्या अलुगिति -आदिपदग्राह्रम्। र्न्

तत्त्वबोधिनी

2-1-18 पारे मध्ये षष्ठ्या वा

काशिका
षष्थीसमासे प्राप्ते तदपवादो ऽव्ययीभव आरभ्यते। वावचनात् षष्ठीसमासो ऽपि पक्षे ऽभ्यनुज्ञायते। पारंध्यशब्दौ षष्ठ्यन्तेन सह विभाषा समस्येते, अव्ययीभावश्च समासो भवति। तत्सन्नियोगेन च अनयोरेकारान्तत्वं निपात्यते। पारं गङ्गायाः पारेगङ्हम्। मध्यं गङ्गायाः मध्येगङ्गम्। षष्ठीसमासपक्षे गङ्गापारम्। गङ्गामध्यम्। महाविभाषया वाक्यविकल्पः क्रियते।

लघु

बलमनोरमा
664 पारे मध्ये। पारे मध्ये #इति न सप्तम्यन्तयोग्र्रहणं, किन्तु पारमध्यशब्दयोरेवेत्याह–पारमद्यशब्दाविति। समस्येते इति। अव्ययीभावसंज्ञौ चेत्यपि बोध्यम्। ननु पारमध्यशब्दयोरकारान्तयोग्र्रहणे कथमेकारनिर्देश इत्यत आह–एदन्तत्वं चेति। ननु विभाषेत्यधिकारादेव सिद्धे `वा’ग्रहणं किमर्थमित्यत आह–पक्षे षष्ठीतत्पुरुष इति वाग्रहणाभावेऽयमव्ययीभावसमासो विशेषविहितत्वात् षष्ठीसमासं बाधेत, तदबाधार्थं वाग्रहणमिति भावः। र्न्पारेगङ्गादानयेति। गङ्गायाः पारादिति विग्रहे अव्ययीभावसमासे सति सुब्लुकि पारशब्दस्य पूर्वनिपाते निपातनादेत्वे नपुंसकह्यस्वत्वे पारेगङ्गशब्दात्समासात्पुनः पञ्चम्युत्पत्तिः। `अव्ययादाप्’ इति न लुक्, अदन्ततया `नाव्ययीभावात्’ इति निषेधात्। `अपञ्चम्या’ इति पर्युदासादम्भावश्च नेति भावः। गङ्गापारादिति -षष्ठीसमासपक्षे ज्ञेयम्। मद्येगङ्गादिति। पारेगङ्गादितिवद्रूपम्। गङ्गामध्यादिति -षष्ठीसमासेज्ञेयम्। `पारे मध्ये इति सप्तम्यन्ते षष्ठउfffदा समस्येते’ इति व्याख्याने तु गङ्गायाः पारे मध्ये इति विग्रहे संमासे सति `तत्पुरुषे कृति बहुलम्’ इति बहुलग्रहणात् सप्तम्योरलुकि नपुंसकह्यस्वत्वे समासात्पुनरुत्वपन्नायाः सप्तम्या अम्भावे पारेमध्यं पारेगङ्गमिति सिद्धे रेकारनिर्देशो व्यर्थः स्यात्। अतो यत्र सप्तम्यर्थो न संभवति तदर्थमेकारनिपातनमिति भाष्ये स्पष्टम्। एतत्सूचनायैव पञ्चम्यन्तोदाहरणमिति बोध्यम्। ननु यदि वाग्रहणमिह पक्षे षष्ठीसमासप्राप्त्यर्थमेव स्यात्, तर्हि गङ्गायाः पारात् गङ्गाया मध्यादिति वाक्यं न स्यादित्यत आह-महाविभाषयेति। विभाषेत्यधिकृता महाविभाषा। सर्वेषु समासविधिषु प्रायेण तस्यानुवृत्तेर्महत्त्वं बोध्यम्। नन्वव्ययीभावसमासस्य षष्ठीसमासापवादत्वेऽपि तस्य महाविभाषया वैकल्पिकत्वात्तदभावपक्षे उत्सर्गतः षष्ठीतत्पुरुषः प्रवर्तत एव। तस्यापि षष्ठीसमासस्य विभाषाधिकारस्थत्वेन वैकल्पिकत्वात्तदभावपक्षे वाक्यमपि सिध्यत्येव। तस्मादिह सूत्रे वाग्रहणं व्यर्थमेवेति चेत्, उच्यते, `यत्र उत्सर्गापवादौ महाविभाषया विकल्पितौ तत्रापवादेन मुक्ते पुनरुत्सर्गो न प्रवर्तते ‘ इति ज्ञापनार्थमिह वाग्रहणम्। तेन पूर्वं कायस्येत्यत्र #एकदेशिसमासेन मुक्ते षष्ठीसमासो न भवति। दक्षस्यापत्यं दाक्षिरित्यत्र अत इञा मुक्ते `तस्यापत्य’मित्यण् न भवति। किं तु वाक्यमेवेति भाष्ये स्पष्टम्।र्न्

तत्त्वबोधिनी
588 पारे मध्ये। निपात्यत इति। यत्र सप्तम्यर्थो न संभवति तदर्थमेकारान्तत्वनिपातनम्। सप्तम्यर्थसंभवे तु `तत्पुरुषे कृति बहुल’मिति बहुलग्रहणादलुकाऽपि सिद्धेः, अतोऽत्र सप्तम्यर्थाऽभावसूचनाय पञ्चम्यन्तमुदाहरति–पारेगङ्गादित्यादि। महाविभाषयेति। नन्वपवादेऽव्ययीभावे महाविभाषया विकल्पिते पक्षे तदुत्सर्गः षष्ठीतत्पुरुषः प्रवर्तते, तस्यापि विभाषाधिकारस्थत्वेन वैकल्पिकत्वात्पक्षे वाक्यमपि सिध्यतीति सूत्रे वाग्रहणं व्यर्थमेवेति चेत्। अत्राहुः–महाविभाषया एकार्थीभावस्य पाक्षिकत्वे विवक्षिते यदा एकार्थीभावस्तदा षष्ठीसमासं बाधित्वा नित्यमव्ययीभावे प्राप्ते पक्षे षष्ठीसमाससमावेशार्थमिह वाग्रहणम्। `व्यपेक्षासामथ्र्यमेके’ इति पक्षे तु वृत्तावपि व्यपेक्षालक्षणमेव सामथ्र्यामिति वाक्यस्य नित्यं बाधे प्रसक्ते तया वृत्तिर्विकल्प्यते। तथा चाऽव्ययीभावे विकल्पिते पूर्वोक्तरीत्या पक्षे तत्पुरुषस्तस्यापि वैकल्पिकत्वाद्वाक्यमपि सिद्धत्येव, तथापि `यत्रोत्सर्गापवादौ महाविभाषया विकल्प्येते तत्रापवादेन मुक्ते पुनरुत्सर्गो न प्रवर्तते’ इति ज्ञापनायेदम्। तेन पूर्वं कायस्येत्येकदेशिसमासेन मुक्ते षष्ठीसमासो न भवति, दक्षस्यापत्यं दाक्षिरित्यत्र अत इञा मुक्ते अण् न भवति, किंतूभयत्र वाक्यमेवेति।त्र्न्

2-1-19 सङ्ख्या वंश्येन

काशिका
विद्यया जन्मना वा प्राणिनाम् एकलक्षणसन्तानो वंशः इत्यभिधीयते। तत्र भवो वंश्यः। तद्वाचिना सुबन्तेन सह सङ्ख्या समस्यते, अव्ययीभावश्च समासो भवति। द्वौ मुनी व्याकरणस्य वंश्यौ द्विमुनि व्याकरनस्य। त्रिमुनि व्याकरणस्य। यदा तु विद्यय तद्वताम् अभेदविवक्षा तदा सामानाधिकरण्यं भवति। द्विमुनि व्यकरणम्। त्रिमुनि व्याकरणम् इति। जन्मना एकविंशतिभारद्वाजम्।

लघु

बलमनोरमा
665 संख्या वंश्येन। वंशो द्विधेति। वंशः-सन्ततिः। `सन्ततिर्गोत्रजननकुलान्यभिजनान्वयौ। वंशोऽन्ववायः सन्तानः’ इत्यमरः। विद्यया जन्मनेति। तत्र जन्मनवांशः पुत्रादिपरम्परेति प्रसिद्धमेव। विद्यया तु वंशो गुरुपरम्परा, `यस्माद्धर्मानाचिनोति स आचार्यः। तस्मै न द्रुह्रेत्कदाचन। स हि विद्यातस्तं जयति तच्छ्रेष्ठं जन्म। शरीरमेष मातापितरौ जनयतः’ इत्याद्यापस्तम्बस्मरणात्। तत्र भवो वंश्य इति। दिगादित्वाद्यत्। वा समस्यते इति। `सोऽव्ययीभाव’ इत्यपि बोध्यम्। द्वौ मुनी वंश्याविति। विग्रहोऽयम्। मुनिशब्दो विद्यावंश्यवाचीति सूचनाय वंश्यावित्युक्तम्। द्विमुनि व्याकरणस्येति। द्वौ च तौ मुनी चेति विग्रहे `विशेषणं विशेष्येण बहुल’मिति कर्मधारयं बाधित्वाऽव्ययीभावः। अव्ययत्वात्सुब्लुक्। व्याकरमविद्यायाः प्रवर्तकौ द्वौ मुनी पाणिनिकात्यायनावित्यर्थः। त्रिमुनीति। त्रयो मुनयः पाणिनिकात्यायनपतञ्जलय इति विग्रहः। नन्वेवं `त्रिमुनि व्याकरण’मिति सामानाधिकरण्यानुपपत्तिरित्यत आह–विद्यातद्वतामिति। यद्यपि बहुव्रीहिणाप्येतत्सिद्धं तथापि विभक्त्यन्तरेषु रूपभेद इत्याहुः। अथ जन्मना वंश्यमुदाहरति–एकविशतिभ#आरद्वाजमिति एकविंशतिर्भरद्वाजा इति कर्मधारयं बाधित्वाऽव्ययीभावः। तत्र विग्रहवाक्ये भरद्वाजशब्दाद्विदादित्वादञ्। `यञञोश्चे’ति लुक्। समासे तु `उपकादिभ्योऽन्यतरस्यामद्वन्द्वे’ इति लुगभावः। `तृतीयासप्तम्योर्बहुल’मिति सूत्रे `एकविंशतिभारद्वाज’मिति प्रयोगदर्शनेन उपकादिषु भारद्वाजशब्दस्य पाठानुमानात्।र्न्

तत्त्वबोधिनी
589 संख्या वंश्येन। वंशः संताननस्तत्र भवो वंश्यः। दिगादित्वाद्यत्। द्विमुनीति। पाणिनिकात्यायनौ। त्रिमुनीति। तौ द्वौ, पातञ्जलिश्चेति त्रयो वंश्याः। व्याकरणस्येति संबन्धे षष्ठी। स्वपदार्थप्राधान्य एवायं समासः। यदा त्वन्यपदार्थप्राधान्यविवक्षा-त्रयो मुनयो वंश्या यस्येति, तदा बहुव्रीहिरेवेत्याहुः। त्रिमुनि व्याकरणमिति। यद्यप्येतद्बहुव्रीहिणाऽप्युपपन्नं, तथापि विभक्त्यन्तरेषु रुपेऽपि विशेषोऽस्त्येवेति भावः। वस्तुतस्तु `लक्षणेनाभिप्रती–’इति सूत्रे आभिमुख्यग्रहणाद्बहुव्रीहिविषयेऽप्यठउfffद्यीभावो भवतीतिद्विमुनि व्याकरणमित्यादि सिद्धमित्यवोचाम। जन्मनोदाहरति—एकविंशति भारद्वाजमिति। एकविंशतिर्भरद्वाजा वंश्या इति विग्रहः। ननु भरद्वाजाद्विदाद्यञो `यञञोश्चे’ति लुक् प्राप्नोति। न च वर्तिपदानां स्वार्थेपसर्जनैकत्वविशिष्टार्थान्तरोपसङ्कमाल्लुगभाव इति कैयटोक्तमादर्तव्यम्। वृत्तिप्रवेशात्प्रागेव प्राप्नुवतोऽन्तरङ्गस्य लुको दुर्वारत्वात्। अन्यथा गर्गाणां कुलं गर्गकुलमित्यपि न स्यात्। अत्राहुः–भाष्यकारप्रयोगादेव लुगभावोऽत्र बोध्य इति। एतच्च `तृतीयासप्तम्यो’रिति सूत्रे शब्दकौस्तुभे स्पष्टम्।र्न्

2-1-20 नदीभिश् च

काशिका
सङ्ख्या इत्यनुवर्तते। नदीवचनैः शब्दैः सह सङ्ख्या समस्यते, अव्ययीभावश्च समासो भवति। समाहारे च अयम् इष्यते। सप्तगङ्गम्। द्वियमुनम्। पञ्चनदम्। सप्तगोदावरम्।

लघु
918 नदीभिः सह संख्या समस्यते. (समाहारे चायमिष्यते). पञ्चगङ्गम्. द्वियमुनम्..

बलमनोरमा
666 नदीभिश्च। प्राग्वदिति। नदीभिः संख्या समस्यते सोऽव्ययीभाव इत्यर्थः। समाहारे चेति–वार्त्तिकम्। चकार एवार्थे। भाष्ये चकारविहीनस्यैव पाठात्। सप्तगङ्गमिति। सप्तानां गङ्गानां समाहार इति विग्रहे `तद्धितार्थोत्तरपदसमाहारे चे’ति द्विगुसमासं बाधित्वाऽव्ययीभावसमासः। द्वियमुनमिति। द्वयोर्यमुनयो समाहार इति विग्रहः। अत्र नदीशब्देन नदीशब्दविशेषस्य, नदीवाचकानां च ग्रहणमिति संख्यासंज्ञासूत्रे भाष्ये स्पष्टम्। तेन पञ्चनदं सप्तगोदावरमित्यादि सिध्यति। र्न्

तत्त्वबोधिनी
590 नदीभिश्च। स्वरूपस्य संज्ञायाश्च नेह ग्रहणं, बहुवचननिर्देशात्, किं त्वर्थस्य। नच तस्य समासः संभवति, अतस्तद्वाचिनामयं समासः, ते च न केवलं विशेषशब्दा एव किंतु सामान्यशब्दोऽपि। तेन पञ्चनदं सप्तगोदावरमिति सिद्धम्। `गोदावर्याश्च नद्याश्चे’ति वक्ष्यमाणेन समासान्तोऽच्। चकारेण सङ्ख्येत्यनुकृष्यत इत्याह—संख्येति। स्यादेतत्–पुरस्तादपवादन्यायेन `पूर्वकालैके’त्यस्यैवेदं बाधकं स्यात्, ततश्चैवनदीत्यत्राव्ययोभावे तन्निबन्धनस्य `नदीपौर्णमास्ये’ति टचः प्रसङ्गः, समाहारे तु परत्वाद्द्विगुरेव स्यादित्यत आह–।र्न्समाहारे चायमिष्यते। समाहारे चायमिति। एवकारार्थश्चाकारः। एवं च द्विगोरपवादोऽमव्ययीभाव इति फलितम्।र्न्

2-1-21 अन्यपदर्थे च संज्ञायाम्

काशिका
सङ्ख्या इति निवृत्तम्। नदीग्रहनम् अनुवर्तते। नदीभिः सह सुबन्तम् अन्यपदार्थे वर्तमानं संज्ञायां विष्ये समस्यते, अव्ययीभावश्च समासो भवति। विभाषा ऽधिकारे ऽपि नित्यसमास एव अयम्। न हि वाक्येन संज्ञा गम्यते। उन्मत्तगङ्गम् नाम देशः। लोहितगङ्गम्। शनैर्गङ्गम्। कृष्णगङ्गम्। अन्यपदार्थे इति किम्? कृष्णवेण्णा। संज्ञायाम् इति किम्? शीघ्रगङ्गो देशः।

लघु

बलमनोरमा

तत्त्वबोधिनी
–)

अथ अलुक्समासो लुक्समासश्च।
लुक्समासो यथा – तनुरेव लता तनुलता। कृष्णा एव मेघाः कृष्णमेघाः।
अलुक्समासो यथा – वने चरति इति वनेचरः । पङ्के रोहतीति पङ्केरुहम् ॥
Now let’s see the two types according to luk and aluk samAsa:
1. luksamAsa: tanulatA – here there is elision of the case markers
2. aluksamAsa: vanechara – there is no elision of the case markers. vane remains ass it is.

(The pANinIya sutras corresponding to it are as follows:
6-3-1 अलुगुत्तरपदे ।
6-3-2 पञ्चम्याः स्तोकादिभ्यः ।
6-3-3 ओजःसहोऽम्भस्तमसः तृतीयायाः ।
6-3-4 मनसः संज्ञायाम् ।
6-3-5 आज्ञायिनि च ।
6-3-6 आत्मनश्च पूरणे ।
6-3-7 वैयाकरणाख्यायां चतुर्थ्याः ।
6-3-8 परस्य च ।
6-3-9 हलदन्तात्‌ सप्तम्याः संज्ञायाम् ।
6-3-10 कारनाम्नि च प्राचां हलादौ ।
6-3-11 मध्याद्गुरौ ।
6-3-12 अमूर्धमस्तकात्‌ स्वाङ्गादकामे ।
6-3-13 बन्धे च विभाषा ।
6-3-14 तत्पुरुषे कृति बहुलम् ।
6-3-15 प्रावृट्शरत्कालदिवां जे ।
6-3-16 विभाषा वर्षक्षरशरवरात्‌ ।
6-3-17 घकालतनेषु कालनाम्नः ।
6-3-18 शयवासवासिषु अकालात्‌ ।
6-3-19 नेन्सिद्धबध्नातिषु ।
6-3-20 स्थे च भाषायाम् ।
6-3-21 षष्ठ्या आक्रोशे ।
6-3-22 पुत्रेऽन्यतरस्याम् ।
6-3-23 ऋतो विद्यायोनिसम्बन्धेभ्यः ।
6-3-24 विभाषा स्वसृपत्योः ।
6-3-25 आनङ् ऋतो द्वंद्वे ।
6-3-26 देवताद्वंद्वे च ।
6-3-27 ईदग्नेः सोमवरुणयोः ।
6-3-28 इद्वृद्धौ ।
6-3-29 दिवो द्यावा ।
6-3-30 दिवसश्च पृथिव्याम् ।
6-3-31 उषासोषसः ।
6-3-32 मातरपितरावुदीचाम् ।
6-3-33 पितरामातरा च च्छन्दसि ।)

(Commentaries on pANinIya sutras are as follows:

6-3-1 अलुगुत्तरपदे

काशिका
अलुकिति च, उत्तरपदे इति च एतदधिकृतम् वेदितव्यम्। यदिति ऊर्ध्वम् अनुक्रमिष्यामो ऽलुकुत्तरपदे इत्येवं तद् वेदितव्यम्। वक्ष्यति

लघु

बलमनोरमा
943 अथाऽलुक्समासो निरूप्यते–अलुगुत्तरपदे। नाऽयं विधिः, `राजपुरुष’ इत्यादावतिप्रसङ्गात्, `पञ्चम्याः स्तोकादिभ्यः’ इत्याद्यारम्भाच्च। किंतु पदद्वयमधिक्रियते। अस्य कियत्पर्यन्तमनुवृत्तिरित्याह-अलुगधिकारः प्रागानङ इति। `आनङृतः’ इत्यतः प्रागित्यर्थः। उत्तरपदेति। षष्ठस्य तृतीये पादे अद्यमिदं सूत्रम्। #इत उत्तरमेतत्पादपरिसमाप्तिपर्यन्तमुत्तरपदाधिकार इत्यर्थः। अत्रोतत्रपदादिकारनियमे भाष्येमेव प्रमाणम्।र्न्

तत्त्वबोधिनी
816 अलुक्सयादिति। प्रसज्यप्रतिषेधोऽयम्। सुपो धात्वित्यादिना प्राप्तो लुङ्ग भवतीत्यर्थः। र्न्

——

6-3-2 पञ्चम्याः स्तोकादिभ्यः

काशिका
स्तोकान्मुक्तः। अल्पान्मुक्तः। उत्तरपदे इति किम्? निष्क्रान्तः स्तोकात् निस्तोकः। अन्यार्थम् इदम् उत्तरपदग्रहणम् इह अप्यलुको निवृतिं करोति इत्येवम् अर्थं लक्षणप्रतिपदोक्तपरिभाषा न अश्रयितव्या। अलुगधिकारः प्रागानङः। उत्तरपदाधिकारः प्रागङ्गाधिकारात्। पञ्चम्याः स्तोकाऽदिभ्यः (*6,3.2)। स्तोकान्तिकदूरार्थकृच्छ्राणि स्तोकादीनि, तेभ्यः परस्याः पञ्चम्याः उत्तरपदे अलुक् भवति। स्तोकान्मुक्तः। अल्पान्मुक्तः। अन्तिकादगतः अभ्याशादागतः। दूरादागतः। विप्रकृष्टादागतः। कृच्छ्रान्मुक्तः। समासे कृते प्रातिपदिकत्वात् सुपो लुकि प्राप्ते प्रतिषेधः क्रियते। द्विवचनबहुवचनान्तानां तु स्तोकादीनाम् अनभिधानात् समास एव न भवति स्तोकाभ्यां मुक्तः, स्तोकेभ्यो मुक्तः इति। तेन अत्र न कदाचिदैकपद्यम् ऐकस्वर्यं च भवति। ब्राह्मणाच्छंसिन उपसङ्ख्यानं कर्तव्यम्। ब्राह्मणदादाय शंसति इति ब्राह्मणाच्छंसी इति। ऋत्विग्विशेषस्य रूढिरियम्। तस्य व्युत्पत्तिरसता सता वा अवयवार्थेन क्रियते।

लघु
933 अलुगुत्तरपदे. स्तोकान्मुक्तः. अन्तिकादागतः. अभ्याशादागतः. दूरादागतः. कृच्छ्रादागतः..

बलमनोरमा
944 पञ्चम्याः स्तोकादिभ्यः। एभ्य इति। स्तोकादिभ्यः परा या पञ्चमी तस्या `सुपो धातु’ इति लुङ् न स्यादित्यर्थः। उत्तरपदे इति। उत्तरशब्दः समासचरमावयवे रूढः, `पदे’ इत्येव सिद्धे उत्तरग्रहणात्। स्तोकान्मुक्त इति। एवमल्पान्मुक्तः। `स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेने’ति समासः। अत्र पञ्चम्या अलुक्। एवमिति। आदिपदेन समासविधौ गृहीतानामन्तिकादीनां ग्रहणादिति भावः। अन्तिकादागतः, अभ्याशादागतः, दूरादागतः, विप्रकृष्टादागतः, कृच्छ्रादागतः। निःस्तोक इति। `निरादयः क्रान्ताद्यर्थे पञ्चम्ये’ति समासः। अत्र स्तोकशब्दस्य उत्तरपदपरकत्वाऽभावात्पञ्चम्या अलुक् न। `स्तोकान्मुक्तः’ इत्यादौ समासप्रयोजनं तु समासस्वरः, सर्वस्मात्स्तोकान्मुक्त इति विशेषणयोगाऽभावश्च। किंच स्तोकान्मुक्तस्यापत्यं स्तौकामुक्तिरित्यादौ समुदायात्तद्धितोत्पत्तिश्च। स्तोकान्मुक्तौ, स्तोकान्मुक्ता इति द्विबहवचनान्तैर्न समासः, अनभिधानादिति भाष्ये स्पष्टम्। र्न्ब्राआहृणाच्छंसिन उपसङ्ख्यानमिति। `पञ्चम्या अलु’गिति शेषः। ननु ब्राआहृणानि शंसतीत्यर्थे कथं पञ्चमी ?। विधायकवाक्यानि हि ब्राआहृणशब्देनोच्यन्ते, `कर्मचोदना ब्राआहृणानि’ इति कल्पसूत्रात्, `शेषे ब्राआहृणशब्दः’ इति मन्त्रभिन्नवेदभागे ब्राआह्णशब्दस्य जैमिनिना सङ्केतितत्वाच्च। एतादृशब्राआहृणभागस्य न क्लापि शंसनं विहितम् `ऋचः शंसति निविदः शंसती’ति श्रुतिष्वित्यत आह–ब्राआहृणे इति। शस्त्राणीति। ऋचा निविदां च सङ्घः शस्त्रम्। उपचारादिति। लक्षणयेत्यर्थः। द्वितीयार्थे इति। पञ्चम्या अलुगुपसङ्ख्यानबलादेव द्वितीयार्थे पञ्चमीत्यर्थः। र्न्

तत्त्वबोधिनी
337 हलः। र`संप्रसारणस्ये’त्यनुवर्तते। `अङ्गस्ये’त्यवयवषष्ठी। `हल’ इति पञ्चमी। तदेतदाह–अङ्गावयवादिति। अङ्गावयवात्किम् ?। निरुतम्। दुरुतम्। तदन्ताङ्गस्य किम् ?। विध्यति। क्षीष् हिंसायाम्। षित्त्वादङ्। `क्षिया’। `हेति क्षियायाम्’। `क्षियाशी’रित्यादौ `क्षिया धर्मव्यतिक्रम आचारभेद’ इति वक्ष्यति। दीर्घनिर्देशसामथ्र्यादिति। ननु दीर्घग्रहणेनाऽङ्गवृत्तपिरभाषा ज्ञाप्यत इत्याकरे स्थितम्। अन्यथा ज्ञाजनोर्जं विदध्यात्, `अतो दीर्घो यञी’ति दीर्घसिद्धेः। तथा च दीर्घनिर्देशसामथ्र्यस्योपक्षयात्कथमिह ह्यस्वाऽभावसिद्धिरिति चेत्। अत्राहुः– ह्यस्वाऽभावे सत्येव दीर्घनिर्देश उक्तपरभाषाया ज्ञापकः। सति तु ह्यस्वे पुनरङ्गकार्यं प्रवृत्तमेवेति न ज्ञापकः। तथा च ह्यस्वाऽभावसिद्धौ न किंचिद्बाधकमिति। किंच `अङ्गवृत्ते पुनरङ्गवृत्तावविधि’रित्येव परिभाषाशरीरम्। तञ्चोक्तज्ञापकात्सिद्धम्। यदि तु `भ्यसो भ्य’मिति सूत्रे भाष्ये परिनिष्ठितस्येत्येव पाठस्तर्हि स्वतन्त्रमेवेदं वचनं न तु ज्ञापकमिति पक्षोऽपि युष्मदस्मच्छब्दगतमनोरमाग्रन्तादवगम्यते। तउfffद्स्मस्तु पक्षे दीर्घग्रहणसामथ्र्यं नोपक्षीणमिति सम्यगेवायं ग्रन्थ इति। केच#इत्तु संज्ञापूर्वकविधेरनित्यत्वान्न ह्यस्व इति व्याख्येयमित्याहुः। बध्नातीति। `अनिदिता’मिति नलोपः। अभान्त्सीदिति। `वदव्रजे’ति वृद्धिः। भष्भावः। अबान्द्?धामिति। `झषस्तथो’रिति तस्य धत्वम्। `झरो झरी’ति वा लोपः। वृङ् संभक्तौ। भक्तिर्भजनम्। श्रन्थ। कित्त्वपक्षे इति। `श्रन्थिग्रन्थदम्भिस्वञ्जीनां लिटः कित्त्वं वे’ति व्याकरणान्तरमित्युक्तत्वात्।र्न्र्न्

———————-

6-3-3 ओजःसहो ऽम्भस्तमसस् तृतीययाः

काशिका
ओजस् सहसम्भस् तमसित्येतेभ्य उत्तरस्याः तृतीयायाः अलुक् भवति उत्तरपदे। ओजसाकृतम्। सहसाकृतम्। अम्भसाकृतम्। तमसाकृतम्। अञ्जस उपसङ्ख्यानम्। अञ्जसाकृतम्। पुंसानुजो जनुषान्ध इति वक्तव्यम्। पुंसानुजः। जनुषान्धः।

लघु

बलमनोरमा
945 ओजस्। `ओजस्’, `सहस्’, `अम्भस्’, `तमस्’-एषां समाहारद्वन्द्वः। एभ्य परस्यास्तृतीयाया अलुक् स्यादुत्तरपदे इत्यर्थः। ओजसाकृतमिति। `कर्तृकरणे कृता बहुल’मिति समासः। `ओजो दीप्तौ बले’ इत्यमरः। इत्यादीति। `सहसाकृतम्’, `अम्भसाकृतम्’ `तमसावृत्तम्’। तमोवृत्तमिति तु असाध्वेव। शेषषष्ठउfffदा वा समासः। अञ्जस उपसङ्ख्यानमिति। अञ्जश्शब्दात्तृतीयाया अलुक उपसङ्ख्यानमित्यर्थः। अञ्जसाकृतमिति। अञ्जश्शब्द आर्जवे वर्तते, यथा क्षेत्रज्ञोऽञ्जसा नयतीत्यादौ तथा दर्शनात्। तदाह—आर्जवेनेति। र्न्पुंसानुजः। `तृतीयाया अलुकि साधु’रिति शेषः। यस्येति। यस्य पुमान् पूर्वजः स पुंसा हेतुना अनुजः कनीयान् इत्यर्थः। जनुषेति। `जनुर्जननजन्मानी’त्यमरः जनुषा=जन्मना हेतुना अन्ध इत्यर्थः। फलितमाह–जात्यन्ध इति। ब्राआहृण्यादिजातितुल्याऽन्ध्वानित्यर्थः। उत्पत्तिप्रभृत्यन्ध इति यावत्। र्न्

तत्त्वबोधिनी
818 ओजः सहो। ओजसाकृतमिति। कर्तृकरणे कृतेति समासः। कथं तर्हि सततनैशतमोवृतमन्यतः इति भारविः ?। अत्राहुः — वृतु वर्तने इत्यस्मात् घञर्थे कविधानमिति भावे कप्रत्यये तदन्तेन षष्ठीसमासाश्रयणान्न दोष इति। यत्तु केवलपदाधिकार एव तदन्तविधिर्न तूत्तरपदाधिकारे। तथा च नैतशतमसा इति तृतीयाया अलुङ्न भवतीति दुर्घटवृत्याद्वुक्तम्। तन्न। पदाङ्गाधिकारे इत्यत्र इष्टकचितं, पक्वेष्टकचितमिति भाष्योदाहरमादुत्तरपदाधिकारेऽपि तदन्तविधिप्रवृत्तेः। र्न्पुंसानुजो जनुषान्ध इति च। जनुषेति। जनुर्जननजन्मानीत्यमरः।र्न्

———————

6-3-4 मनसः संज्ञायाम्

काशिका
मनसः उत्तरस्याः तृतीयायाः संज्ञायाम् अलुग् भवति। मनसादत्ता। मनसगुप्ता। मनसासङ्गता। संज्ञायाम् इति किम्? मनोदत्ता। मनोगुप्ता।

लघु

बलमनोरमा
946 मनसः संज्ञायां। मनसस्तृतीयाया अलुक् स्यादुत्तरपदे इत्यर्थः। मनसागुप्तेति। कस्याश्चित्संज्ञेयम्। असंज्ञायां तु-मनोगुप्ता।र्न्

तत्त्वबोधिनी
– ——————-

6-3-5 आज्ञायिनि च

काशिका
आज्ञायिन्युत्तारपदे मनसः उत्तरस्य तृतीयायाः अलुग् भवति। मनसा अज्ञातुं शीलमस्य मनसाज्ञायी।

लघु

बलमनोरमा
947 आज्ञायिनि च। मनस इत्येवेति। अनुवर्तत एवेत्यर्थः। मनसस्तृतीयाया अलुक् स्यादाज्ञायिनि परे इत्यर्थः। असंज्ञार्थमिदम्। ज्ञातुमिति। प्रेरयितुमित्यर्थः। मनसाज्ञायीति। `सुप्यजातौ’ इति णिनिः। `आतो युक्चिण्कृतो’रिति युक्। अत्र सूत्रभाष्ये `आत्मनश्च पूरणे उपसङ्ख्यान’मिति वार्तिकं पठितम्।र्न्

तत्त्वबोधिनी
————————–

6-3-6 आत्मनश् च पूरणे

काशिका
आत्मनश्च पूरणे (*6,3.6)। आत्मनः उत्तरस्याः तृतीयायाः पूरणप्रत्ययान्ते उतारपदे ऽलुग् भवति। आत्मनापञ्चमः। आत्मनाषष्ठः। तृतीयाविधाने प्रकृत्यादिभ्य उपसङ्ख्यानम् इति तृतीया। तृतीया इति योगविभागात् समासः। आत्मना वा कृतः पञ्चमः आत्मनापञ्चमः। कथं जनार्दनस्त्वात्मचतुर्थ एव इति? बहुव्रीहिरयम् आत्मा चतुर्थो ऽस्य असौ आत्मचतुर्थः।

लघु

बलमनोरमा

तत्त्वबोधिनी

———————-

6-3-7 वैयाकरणाख्यायां चतुर्थ्याः

काशिका
वैयाकरनानामाख्या वैयाकरणाख्या। आख्या संज्ञा। यया संज्ञया वैयाकरणा एव व्यहरन्ति तस्याम् आत्मनः उत्तरस्याश्चतुर्थ्या अलुग् भवति। आत्मनेपदम्। आत्मनेभषा। तदर्थ्ये चतुर्थी। चतुर्थी इति योगविभागात् समासः।

लघु

बलमनोरमा
949 वैयकरणाख्यायाम्। आत्मन इत्येवेति। अनुवर्तत एवेत्यर्थः। न च `आत्मनश्चे’त्यस्य वार्तिकत्वे कथमिह सूत्रे एतदनुवृत्तिरिति वाच्यं, `सोऽपदादौ’ इति सूत्रे पठितस्य `काम्ये रोरेवेति वाच्य’मिति वार्तिकस्य `इणः षः’ इति सूत्रेऽनुवृत्तिवदुपपत्तेः। व्याकरणे भवा वैयाकरणी, सा चासावाख्या च वैयाकरणाख्या, तस्यां या चतुर्थी तस्या अलुगित्यर्थः। आत्मनेभाषे इति। पूर्वाचार्यकृतमात्मनेपदस्य संज्ञान्तरमिदं धातुपाठे प्रसिद्धम्। तादर्थ्ये चतुर्थीति। तथा चात्मने इत्यस्याऽऽत्मार्थमित्यर्थः। आत्मगामिनि फले प्रायेण तद्विधानादिति भावः। ननु प्रकृतिविकाराऽभावात्कथमिह तादर्थ्ये चतुर्थ्याः समास इत्यत आह–चतुर्थीति योगविभागादिति। पस्पासाह्निकभाष्ये `धर्माय नियमो धर्मनियम’ इति भाष्यमिह लिङ्गन्।र्न्

तत्त्वबोधिनी
820 वैयाकरणा। व्याकरणे भवा वैयाकरणी। अणृगयनादिभ्यः इत्यण्। सा चासावाख्या चेति कर्मधारयः। आत्मन इत्येवेति। इह आत्मनः इत्यननुवत्र्य वैयाकरणाख्यायां चतुथ्र्या अलुगिति व्याख्याने तु परसय् चेत्युत्तरसूत्रं त्युक्तं शक्यमित्याहुः। आत्मनेभाषा इति। यद्यपीयमाख्या अष्टाध्यायां नास्ति, तथापि धातुपाठेऽस्तीति भावः। प्रकृतिविकृतिभावविरहात् रन्धनाय स्थालीतिवत्समासाऽभावमाशङ्क्याह– योगविभागादिति। इहाऽलुग्विधिसामथ्र्यादपि समासः सुवचः।र्न्

———————

6-3-8 परस्य च

काशिका
परस्य च या चतुर्थी तस्य वैयाकरणाख्यायाम् अलुग् भवति। परस्मैपदम्। परस्मैभाषा।

लघु

बलमनोरमा
950 परस्य च। वैयकरणाख्यायां परशब्दस्यापि चतुथ्र्या अलुगित्यर्थः। र्न्

तत्त्वबोधिनी
821 परस्य च। परशब्दस्य च या चतुर्थी तस्या अलुक् स्याद्वैयाकरणाख्यायाम्। र्न्
———————

6-3-9 हलदन्तात् सप्तम्याः संज्ञायाम्

काशिका
हलन्ताददन्ताच् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग् भवति। युधिष्ठिरः। त्वचिसारः। गविष्ठिरः इत्यत्र तु गवियुधिभ्यां स्थिरः (*8,3.95) इत्यत एव वचनादलुक्। अदन्तात् अरण्येतिलकाः। अरण्येमाषकाः। वनेकिंशुकाः। वनेहरिद्रकाः। वनेबल्बजकाः। पुर्वाह्णेस्फोटकाः। कूपेपिशाचकाः। हलदन्तादिति किम्? नद्यां कुक्कुटिका नदीकुक्कुटिका। भूम्यां पाशाः भूमिपाशाः। संज्ञायाम् इति किम्? अक्षशौण्डः। हृद्द्युभां ङेः। हृद् दिवित्येतेभ्याम् उत्तरस्य ङेरलुग् भवति। हृदिस्पृक्। दिविस्पृक्।

लघु
971 हलन्ताददन्ताच्च सप्तम्या अलुक्. कण्ठेकालः. प्राप्तमुदकं यं स प्राप्तोदको ग्रामः. ऊढरथोऽनड्वान्. उपहृतपशू रुद्रः. उद्धृतौदना स्थाली. पीताम्बरो हरिः. वीरपुरुषको ग्रामः. (प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः). प्रपतितपर्णः, प्रपर्णः. (नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः) अविद्यमानपुत्रः, अपुत्रः..

बलमनोरमा
951 हलदन्तात्। त्वचिसार इति। अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः। `वंशे त्वक्सारकर्मारत्वचिसारतृणध्वजाः’ इत्यमरः। अथ हलन्तस्योदाहरणान्तरं वक्ष्यति–युधिष्ठिर इति। अत्र `अजिरशिशिसस्थिरे’त्युणादिसूत्रेण स्थाधातोः किरचि स्थिरशब्दो व्युत्पादितः। र्न्

तत्त्वबोधिनी

————–

6-3-10 कारनाम्नि च प्राचां हलादौ

काशिका
प्राचां देशे यत्कारनाम तत्र हलादवुत्तरपदे हलदन्तादुत्तरस्याः सप्तम्याः अलुग् भवति। सूपेशाणः। दृषदिमाषकः। हलेद्विपदिका। हलेत्रिपदिका। कारविशेषस्याः संज्ञा एताः, तत्र पूर्वेण एव सिद्धे नियमार्थम् इदम्। एते च त्रयो नियमविकल्पा अत्रेष्यन्ते, कारनाम्न्येव, प्राचाम् एव, हलादावेव इति। कारनाम्नि इति किम्? अभ्यर्हिते पशुः अभ्यर्हितपशुः। कारादन्यस्या एतद् देयस्य नाम। प्राचाम् इति किम्? यूथे पशुः यूथपशुः। हलादौ इति किम्? अविकटे उरणः अविकटोरणः। हलदन्तादित्येव, नद्यां दोहनी नदीदोहनी।

लघु

बलमनोरमा
953 कारनाम्नि। यत्रकारनामेति। राजग्राह्रो भागः करः, स एव कारः, तद्विशेषवाचक इत्यर्थः। नियमार्थमिति। `प्राचां देशे हलादौ यदि भवति कारनाम्न्येव,’ `कारनाम्नि हलादौ चेत्प्राचामेव,’ `प्राचां कारनाम्नि चेद्धलादावेवे’ति नियमत्रयार्थमित्यर्थः। अविकटोरण इति। अविशब्दासङ्घाते कटच्। उपणो मेषः। नद्यामिति। नद्युत्तारणे तात्कालिको दोहः-करः। र्न्

तत्त्वबोधिनी
823 अविकटोरण इति। सङ्घाते कट जिति कटच्प्रत्ययान्तः। उरणो-मेषः। र्न्

——————–

6-3-11 मध्याद् गुरौ

काशिका
मध्यादुत्तरस्याः सप्तम्याः गुरावुत्तरपदे ऽलुग् भवति। मध्येगुरुः। अन्ताचेति वक्तव्यम्। अन्तेगुरुः। सप्तमी इति योगविभागात् समासः।

लघु

बलमनोरमा
954 मध्याद्गुरौ। गुरुशब्दे परे मध्यशब्दात्सप्तम्या अलुक् स्यादित्यर्थः। असंज्ञार्थमिदम्। र्नन्ताच्चेति। सप्तम्या अलुक्स्याद्गुरौ परे इत्यर्थः। र्न्

तत्त्वबोधिनी

———————

6-3-12 अमूर्धमस्तकात् स्वाङ्गादकामे

काशिका
मूर्धमस्तकवर्जितात् स्वाङ्गादुत्तरस्याः सप्तम्याः अकामे उत्तरपदे ऽलुग् भवति। कण्ठे कालो ऽस्य कण्ठेकालः। उरसिलोमा। उदरेमणिः। अमूर्धमस्तकातिति किम्? मूर्धशिखः। मस्तकशिखः। अकामे इति किम्? मुखे कामो ऽस्य मुखकामः। स्वाङ्गातिति किम्? अक्षशौण्डः। हलदन्तातित्येव, अङ्गुलित्राणः। जङ्घावलिः।

लघु

बलमनोरमा
955 अमूर्धमस्तकात्। मूर्धंमस्तकशब्दवर्जितात्स्वाङ्गवाचकात्सप्तम्या अलुक्स्यात्, नतु कामशब्दे उत्तरपदे इत्यर्थः। अत्र संज्ञायामित्यनुवर्तते। अत एव `ह्मद्द्युभ्यां चे’त्यत्र ह्मद्ग्रहणमर्थवत्। कण्ठेकाल इति। शिवस्य नाम। उरसिलोमेति। कस्यचिन्नाम। अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः। र्न्

तत्त्वबोधिनी

——————

6-3-13 भन्धे च विभाषा

काशिका
बन्धः इति घञन्तो गृह्यते। तस्मिन्नुत्तरपदे हलदन्त्तदुत्तरस्याः सप्तम्याः विभाषा अलुग् भवति। हस्तेबन्धः, हस्तबन्धः। चक्रेबन्धः, चक्रबन्धः। उभयत्र विभाषेयम्। स्वङ्गाद् धि बहुव्रिहौ पूर्वेण नित्यम् अलुक् प्राप्नोति, तत्पुरुषे तु स्वङ्गादस्वाङ्गाच् च नैन्सिद्धबध्नातिसु च (*6,3.19) इति प्रतिषेधः प्राप्नोति। हलदन्तादित्येव, गुप्तिबन्धः।

लघु

बलमनोरमा
956 बन्धे च विभाषा। शेषपूरणेन सूत्रं व्याचष्टे–हलदन्तादिति। बस्तेबन्ध इति। संज्ञायामिति सप्तमीत्तपुरुषोऽयम्। इह तत्पुरुष इति संबध्यते, `बन्ध’ इति घञन्तम्, अन्यत्र तु `नेन्सिद्धे’ति निषेध इति स्पष्ट भाष्ये। र्न्

तत्त्वबोधिनी
824 बन्धे च विभाषा। बन्ध इति घञन्तः। हस्तेबन्ध इति। बहुव्रीहिरयम्। तत्पुरुषे तु नेन्सिद्धबन्धातिषु चेति वक्ष्यमाणेन निषेध एवेत्याहुः। अप्सव्य इति। दिगादित्वाद्यति ओर्गुणे वान्तादेशः। प्राचा तु यतः स्थाने जं पठित्वा अप्सुजः इत्युदाह्मतं, तदाकरविरुद्धम्। र्नपो योनियन्मतुषु। अप्सुमन्ताविति। कारीर्याम् अप्स्वग्ने सधिष्ठव अप्सु मे सोमो अब्रावीदित्याज्यभागमन्त्रौ स्तः। तत्र ह्रप्सुशब्दोऽस्तीति तद्द्वारा आज्यभागयोरप्यप्सुमत्त्वम्। प्राचा तु मतिषु इति पठित्वा अप्सुमतिः इत्युदाह्मतम्। अत्र केचित्— अप्स्वित्येतदनुकरणशब्दः सप्तम्यन्तो न वा ?। आद्ये सप्तम्यान्तात्प्रथमाया अभावेन मतुबेव दुर्लभः। अन्त्ये तु लुकः प्राप्तिरेव नास्ति, सप्तम्यभावात्। तथा च मतिषु इति प्राचोक्तः पाठ एव युक्तः। न च स पाठो भाष्यादौ न दृष्ट इति वाच्यं, मतिषु इति पाठस्य अप्सुमतिः इत्युदाहरणस्य च भाष्यवृत्त्यादिपुस्तकेषु दृश्यमानत्वेन मतुष्विति पाठस्यैव क्काप्यदर्शनात्, व्यर्थत्वाच्च। अस्यवामीयं कथाशुभीयम् इत्यादाविव लुकि कर्तव्ये प्रकृतिप्रकृतिवदनुकरणमित्यतिदेशाऽप्रवृत्त्यैवेष्टसिद्धेरित्याहुः।र्न्

——————

6-3-14 तत्पुरुषे कृति बहुलम्

काशिका
तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति। स्तम्बेरमः। कर्णेजपः। न च भवति। कुरुचरः। मद्रचरः।

लघु
815 ङेरलुक्. सरसिजम्, सरोजम्..

बलमनोरमा
957 तत्पुरुषे कृति। तत्पुरुषे सप्तम्या बहुलमलुक्?स्यात्कृदन्ते उत्तरपदे संज्ञायामित्यर्थः। स्तम्बेरम इति। तृणसमूहः स्तम्बः, तस्मिन् रमत इति स्तम्बेरमो हस्ती। कर्णेजप इति। कर्णे जपति=परदोषमुपांउfffदाआविष्करोतीति कर्णेजपः पिशुनः। `स्तम्बकर्णयो रमिजपो’रित्यच्। उपपदसमासः। क्वचिन्नेति। बहुवग्रहणादिति भावः। कुरुचर इति। `चरेष्टः’ इत्यधिकरण उपपदेः चरेष्टः। उपपदसमासः। यद्यपि हलदन्तादित्यनुवृत्त्यैव सिद्धमिदं, तथापि बहुलग्रहणादेव सिद्धे `हलदन्ता’दिति नानुवत्र्तनीयमिति भावः। र्न्

तत्त्वबोधिनी

6-3-14 तत्पुरुषे कृति बहुलम्

काशिका
तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति। स्तम्बेरमः। कर्णेजपः। न च भवति। कुरुचरः। मद्रचरः।

लघु
815 ङेरलुक्. सरसिजम्, सरोजम्..

बलमनोरमा
957 तत्पुरुषे कृति। तत्पुरुषे सप्तम्या बहुलमलुक्?स्यात्कृदन्ते उत्तरपदे संज्ञायामित्यर्थः। स्तम्बेरम इति। तृणसमूहः स्तम्बः, तस्मिन् रमत इति स्तम्बेरमो हस्ती। कर्णेजप इति। कर्णे जपति=परदोषमुपांउfffदाआविष्करोतीति कर्णेजपः पिशुनः। `स्तम्बकर्णयो रमिजपो’रित्यच्। उपपदसमासः। क्वचिन्नेति। बहुवग्रहणादिति भावः। कुरुचर इति। `चरेष्टः’ इत्यधिकरण उपपदेः चरेष्टः। उपपदसमासः। यद्यपि हलदन्तादित्यनुवृत्त्यैव सिद्धमिदं, तथापि बहुलग्रहणादेव सिद्धे `हलदन्ता’दिति नानुवत्र्तनीयमिति भावः। र्न्

तत्त्वबोधिनी

————–

6-3-15 प्रावृट्शरत्कालदिवां जे

काशिका
प्रावृट् शरत् काल दिवित्येतेषां जे उत्तरपदे सप्तम्याः अलुक् भवति। प्रावृषिजः। शरदिजः। शरदिजः। कालेजः। दिविजः। पूर्वस्य एव अयं प्रपञ्चः।

लघु

बलमनोरमा
958 प्रावृट्शरत्। प्रावृट्, शरत्, काल, दिव्-एषां सम्या अलुक् स्याज्ज शब्दे परे संज्ञायामित्यर्थः। ननु `हलदन्ता’दित्येव सिद्धे किमर्थमिदमित्यत आह–पूर्वस्यैवायं प्रपञ्च इति। विस्तर इत्यर्थः। र्न्

तत्त्वबोधिनी

———————-

6-3-16 विभाषा

काशिका
वर्ष क्षर शर वर इत्येतेभ्य उत्तरस्यः सप्तम्याः जे उत्तरपदे विभाषा अलुग् भवति। वर्षेजः, वर्षजः। क्षरेजः, क्षरजः। शरेजः, शरजः। वरेजः, वरजः।

लघु

बलमनोरमा
959 विभाषा वर्ष। शेषपूरणेन सूत्रं व्याचष्टे–एभ्यस्सप्तम्या इति। र्न्

तत्त्वबोधिनी

—————

6-3-17 घकालतनेसु कालनाम्नः

काशिका
घसंज्ञके प्रत्यये, कालशब्दे, तनप्रत्यये च परतः कालनाम्नः उत्तरस्याः सप्तम्या विभाषा अलुग् भवति। घ पूर्वह्णेतरे, पूर्वाह्णतरे। पूर्वाह्णेतमे, पूर्वाह्णतमे। काल पूर्वाह्णेकाले, पूर्वह्णाकाले। तन पूर्वाह्णेतने, पूर्वाह्णतने। कालनाम्नः इति किम्? शुक्लतरे। शुक्लतमे। हलदन्तादित्येव, रात्रितरायाम्। उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तविधिर् न इष्यते हृदयस्य हृल्लेख इति लेखग्रहणाल् लिङ्गात्। तेन घतनग्रहणे, तदन्तग्रहनं न भवति। काल इति न स्वरूपग्रहणम्।

लघु

बलमनोरमा
960 घकालतनेषु। शेषपूरणेन सूत्रं व्याचष्टे–सप्तम्या इति। घेति घे परे उदाहरणसूचनमिदम्। `तरप्तमपौ घः’। पूर्वाह्णेतरे इति। अतिशायने सप्तम्यन्तात्तरप्तमपौ। अत एव तत्तद्विभक्त्यन्तात्तरप्तमपाविति विज्ञायते। कालेति। उदाहरणसूचनमिदम्। पूर्वाह्णेकाले इति। अत एव विशेषणादिसमासोऽपि तत्तद्विभक्त्यन्तानामेव। तनेति। उदाहरणसूचनमिदम्। पूर्वाह्णेतने इति। `विभाषा पूर्वाह्णापराह्णाभ्या’मिति ठ्युठ्युलौ, तुट् च। र्न्

तत्त्वबोधिनी

——————-

6-3-18 शयवासवासिष्वकलात्

काशिका
शय वास वासिनित्येतेषु उत्तरपदेष्वकालवाचिनः उत्तरस्याः सप्तम्या विभाषा अलुक् भवति। खेशयः, खशयः। ग्रामेवासः, ग्रामवासः। ग्रामेवासी, ग्रामवासी। अकालातिति किम्? पूर्वह्णशयः। हलदन्तातित्येव, भूमिशयः। अपो योनियन्मतुसु सप्तम्या अलुग् वक्तव्यः। अप्सुयोनिः। अप्सव्यः। अप्सुमन्तौ। अप्सु भवः इति दिगादित्वाद् यत् प्रत्ययः। सर्वत्र सप्तमी ती योगविभागात् समासः।

लघु

बलमनोरमा
961 शयवास। शय, वास, वासिन्-एतेषु परेषु कालभिन्नात्सप्तम्या अलुक् स्यादित्यर्थः। र्नपो योनि। योनिशब्दे यत्प्रत्यये मतुपि च परेऽप्शब्दात्सप्तम्या अलुक् स्यादित्यर्थः। अप्सव्य इति। दिगादित्वाद्यत्। `ओर्गुणः’ `वान्तो यी’त्यवादेशः। अप्सुमन्ताविति। `अप्सु’ इति पदं यदीयमन्त्रयोरस्ति तावप्सुमन्तौ, आज्यभागाविति कर्मविशेषौ। र्न्

तत्त्वबोधिनी

——————–

6-3-19 नैन्सिद्धबध्नातिषु च

काशिका
इन्नन्ते उत्तरपदे सिद्धशब्दे बध्नातौ च परतः सप्तम्याः अलुग् न भवति। स्थण्दिलवर्ती। सिद्ध साङ्काश्यसिद्धः। काम्पिल्यसिद्धः। बध्नाति चक्रबद्धः। चारबद्धः। सप्तमी इति योगविभागात् समासः। चक्रबन्धः इति केचिदुदाहरन्ति, तत् पचाद्यजन्तम् द्रष्टव्यम्। घञन्ते हि बन्धे च विभाषा (*6,3.13) इत्युक्तम्।

लघु

बलमनोरमा
962 नेन्सिद्धबन्धानादिषु च। चक्रबद्ध इति। `साधनं कृते’ति क्तान्तेन सप्तम्यन्तस्य समासः। र्न्

तत्त्वबोधिनी
881 नेन्सिद्धब। चक्रबन्ध इति। तत्पुरुषे इत्यनुवृत्तेस्तत्पुरुष एवायं निषेधः। बहुव्रीहौ तु बन्धे च विभाषा इति विकल्प एव। र्न्वाग्दिक्पश्यद्भ्यो युक्तिदण्डहरेषु। पश्यतोहर इति। पश्यन्तमनादृत्य हरतीत्यर्थः। षष्ठी चाऽनादरे इति षष्ठी। र्न्देवानांप्रिय इति च मूर्खे। देवानामिति। मूर्खा हि देवानां प्रीतिं जनयन्ति देवपशुत्वादिति मनोरमा। अयं भावः– ब्राहृआज्ञानरहितत्वात्संसारिणो मूर्खाः। ते तु यागादिकर्माण्युनुतिष्ठन्तः पुरोडाशादिप्रदानद्वारा देवानाम्तयन्तं प्रीतिं जनयन्ति। बहृज्ञानिनस्तु न तथा, तेषां यागाद्यनुष्ठानाऽबावात्। अतो गवादिस्थानापन्नत्वान्मूर्खा एव देवपशव इति। र्न्शेपपुच्छलाङ्गूलेषु शुनः। सेपपुच्छेति। शुन इव शेपमस्य शुनःशेपः। यद्यपि शेपस्शब्दः सकारान्तः, गौर्लिङ्गं चिह्नशेपसोः इत्यमरप्रोगात्, तथापि शीङ्गो निपातनादौणादिके पप्रत्यये अकारान्तोऽप्यस्त्येव। तथा च मन्त्र यस्याकमुशन्तः प्रहराम शेपमिति। चिह्नशेफसोः इति पाटे तु शेफशब्दस्य सकारान्तत्वशङ्कैव नास्तीति बोध्यम्। शुनः पुच्छ इत्यादावपि बहुव्रीहिः। त्रयोऽप्यमी ऋषिविशेषाणां संज्ञाः। मातुः पितुभ्र्यामिति सूत्रे समासेऽङ्गुलेः सङ्गः इत्यतः समास इत्यनुवर्तितम्, तत्फलं दर्शयति– असमासे त्विति। वाक्ये वैकल्पिकमपि षत्वं नेत्यर्थः। र्नित्यलुक्समासः तत्त्वबोधिन्याम्।र्न्र्न्र्न्

———–

6-3-20 स्थे च भाषायाम्

काशिका
स्थे च उत्तरपदे भाषायाम् सप्तम्या अलुक् न भवति। समस्थः। विषमस्थः। कूटस्थः। पर्वतस्थः। भाषायाम् इति किम्? कृणोम्यारेष्ठः। पूर्वपदात् (*8,3.106) इति षत्वम्।

लघु

बलमनोरमा
963 स्थे च भाषायाम्। `अनन्तरस्ये’ति न्यायात् `तत्पुरुषे कृती’त्यस्यैवायं निषेधः। अत एव `अनेकमन्यपदार्थे’ इति सूत्रभाष्ये `सप्तम्युपमानपूर्वपदस्ये’ति वार्तिकव्याख्यावसरे कण्ठेस्थः कालो यस्येति विग्रहे कण्ठेस्थशब्दस्य समासत्वमभ्युपगम्य उत्तरपदलोप उपन्यस्तः सङ्गच्छते। यदा तु `अमूर्धंमस्तका’दित्यस्याप्ययं निषेधः स्यात्तर्हि तदसङ्गतिः स्यात्, लुक्प्रसङ्गात्। र्न्

तत्त्वबोधिनी

——————

6-3-21 षष्ठ्या आक्रोशे

काशिका
आक्रोशे गम्यमाने उत्तरपदे षष्ठ्या अलुग् भवति। चौरस्यकुलम्। वृषलस्यकुलम्। आक्रोशे इति किम्? ब्राह्मनकुलम्। षष्थीप्रकरने वाग्दिक्पश्यद्भ्यो युक्तिदण्डहरेषु यथासङ्ख्यम् अलुग् वक्तव्यः। वाचोयुक्तिः। दिशोदण्डः। पश्यतोहरः। आमुष्यायणामुष्यपुत्रिकामुष्यकुलिकेति च अलुग् वक्तव्यः। अमुस्यापत्यम् आमुस्यायणः। नडादित्वात् फक्। अमुष्य पुत्रस्य भावः आमुस्यपुत्रिका। मनोज्ञादित्वद् वुञ्। तथा आमुस्यकुलिका इति। देवानाम्प्रिय इत्यत्र च षष्ठ्या अलुग् वक्तव्यः। देवानम् प्रियः। शेपपुच्छलङ्कूलेषु शुनः संज्ञायां अलुग् वक्तव्यः। शुनःशेपः। शुनःपुच्छः। शुनोलाङ्गूलः। दिवश्च दासे षष्ठ्या अलुग् वक्तव्यः। दिवोदासाय गायति।

लघु

बलमनोरमा
964 षष्ठउfffदा आक्रोशे। `अलुगुत्तरपदे’ इति शेषः। आक्रोशो-निन्दा। र्न्वाग्दिक्। वाक्, दिक् , पश्यत्-एतेभ्यः परस्याः षष्ठउfffदा अलुक् स्यात्-युक्ति, दण्ड, हर एतेषु क्रमादुत्तरपदेषु परेष्वित्यर्थः। वाचोयुक्तिरिति। शब्दप्रयोग इत्यर्थः। दिशोदण्ड इति। अधिकरणस्य शेषत्वविवक्षायां षष्ठी। पश्यतोहर इति। पस्यन्तमनादृत्य हरतीत्यर्थः। `षष्ठी चानादरे’ इति षष्ठी। र्नामुष्यायणेति। वार्तिकमिदम्। एते निपात्यन्ते। अमुष्येति। अमुष्याषत्यमित्यर्थे `नडादिभ्यः फगि’ति फकि आयन्नादेशे आदिवृद्धौ तद्धितान्तत्वात्प्रातिपदिकतया तदवयवत्वात्प्राप्तस्य सुब्लुको निषेधे नस्य णत्वे `आमुष्यायण’ इति रूपमित्यर्थः। अमुष्य पुत्र इति विग्रहे षष्ठीसमासे षष्ठउfffदा अलुकि `अमुष्यपुत्र’ शब्दः। अमुष्यपुत्रस्य भाव इत्यर्थे `द्वन्द्वमनोज्ञादिभ्यश्चे’ति वुञि अकादेशे पुत्रशब्दात्सुपो लुकि आदिवृद्धौ स्त्रीत्वाट्टापि `प्रत्ययस्था’दितीत्त्वे आमुष्यपुत्रिकाशब्द इत्यर्थः। एवमिति। अमुष्य कुलमिति षष्ठीसमासे षष्ठउfffदा अलुकि अमुष्यकुलशब्दाद्बुञादिः पूर्ववदित्यर्थः। र्न्देवानामिति। वार्तिकमिदम्।मूर्खः-अज्ञः। `दिवु क्रीडायाम्’। देवाः-क्रीडासक्ता मूर्खाः, तेषां प्रियोष?प्रि मूर्ख एव, मूर्खप्रियस्यावश्यं मूर्खत्वादिति `अजेर्वी’त्यत्र कैयटः। र्न्शेपपुच्छेति। वार्तिकमिदम्। षष्ठउfffदा अलु’गिति सेषः। संज्ञायामिति। `भाष्यम् ष शुनश्शेप इति। शुनः शेप इव शेपो यस्येति विग्रहः। `मेढ्रो मेहनशेपसी’। शेफशब्दोऽप्यस्ति, `शेपाय स्वाहा’ इति दर्शनात्। शुनःपुच्छ इति। शुनः पुच्छमिव पुच्छं यस्येति विग्रहः। एवं शुनोलाङ्गूल इत्यपि। ऋषिविशेषणां संज्ञा एताः। र्न्दिवश्च दासे इति। वार्तिकम्। `षष्ठउfffदा अलु’गिति शेषः। दिवोदास इति कश्चिद्राजर्षिरयम्। र्न्

तत्त्वबोधिनी

——————-

6-3-22 पुत्रे ऽन्यतरस्याम्

काशिका
पुत्रशब्दे उत्तरपदे आक्रोशे गम्यमाने ऽन्यतरस्यां षष्ठ्याः अलुग् भवति। दास्यःपुत्रः, दासीपुत्रः। वृषल्याःपुत्रः वृषलीपुत्रः। आक्रोशे इत्येव, ब्राह्मणीपुत्रः।

लघु

बलमनोरमा
965 पुत्रेऽन्यतरस्यां। निन्दायामिति। `आक्रोशे’ इत्यनुवृत्तिलभ्यमिदम्। स्पष्टं चेदम् `आनङृतः’ इत्यत्र भाष्ये।र्न्

तत्त्वबोधिनी

————————-

6-3-23 ऋतो विद्यायोनिसम्बन्धेभ्यः

काशिका
ऋकारान्तेभ्यो विद्यसम्बन्धवचिभ्यो योनिसम्बन्धवाचिभ्यश्च उत्तरस्याः षष्ठ्या अलुग् भवति। होतुरन्तेवसी। होतुःपुत्रः। पितुरन्तेवासी। पितुःपुत्रः। ऋतः इति किम्? आचर्यपुत्रः। मातुलपुत्रः। विद्यायोनिसम्बन्धेभ्यस् तत्पूर्वोत्तरपदग्रहणम्। विद्यायोनिसम्बन्धवाचिनि एव उत्तरपदे यथा स्यात्, अन्यत्र मा भूत्। होतृधनम्। पितृधनम् होतृगृहम्। पितृगृहम्।

लघु

बलमनोरमा
966 ऋतो विद्यमा। एकत्वे बहुवचनम्।र्न्तदाह-विद्यासंबन्धयोनिसंबन्धवाचिन ऋदन्तादिति। अलुक् स्यादिति। `उत्तरपदे परत’इति शेषः।विद्यासंबन्धवाचिनमुदाहरति–होतुरन्तेवासीति। ऋग्वेदविहितकर्मविशेषकर्ता होता। अतो होतृशब्दो विद्यासंबन्धप्रवृत्तिनिमित्तक इति भावः। होतुः पुत्र इति। विद्यासंबन्धवाचिन उदाहरणान्तरमिदम्। अथ योनिसंबन्धवाचिनमुदाहरति–पितुरन्तेवासीति। पितुःपुत्र इति च। ननु `होतृधनं’ पितृधन`मित्यत्राऽप्यलुक् स्यादित्यत आह–विद्यायोनिसंबन्धेभ्यस्तत्पूर्वोत्तरपदग्रहणमिति। `विद्यायोनिसंबन्धेभ्यः’ इत्यत्र विद्यासंबन्धयोनिसंबन्धवाचिनोः पूर्वोत्तरपदयोग्र्रहणमित्यर्थः। पूर्वोत्तरपदयोरुभयोरपि विद्यासम्बन्धयोनिसंबन्ध्यान्यतरवाचित्वं विवक्षितमिति भावः। `होतृधनं’`पितृधन’मित्यत्र उत्तरपदस्य विद्यासंबन्धयोनिसंबन्धान्यतरवाचित्वाऽभावान्न षष्ठउfffदा अलुगिति भावः। अन्यतरसंबन्धवाचित्वस्य विवक्षितत्वादेव `होतुःपुत्र’ इत्यादि सिद्धम्। र्न्

तत्त्वबोधिनी

—————-

6-3-24 विभाषा स्वसृपत्योः

काशिका
स्वसृ पति इत्येतयोः उत्तरपदयोः ऋकारान्तेभ्यः विद्यायोनिसम्बन्धवाचिभ्यः विभाषा ऽलुग् भवति। मातुःष्वसा, मातुःस्वसा, मातृष्वसा। पितुःष्वसा, पितुःस्वसा, पितृष्वसा। यदा लुक् तदा मातृपितृभ्यां स्वसा (*8,3.84) इति नित्यं षत्वम्। यदा तु अलुक् तदा मातुः पितुर्भ्यम् अन्यतरस्याम् (*8,3.85) इति विकल्पेन षत्वम्। दुहितुःपतिः, दुहितृपतिः। ननान्दुःपितिः, ननान्दृपतिः।

लघु

बलमनोरमा
967 विभाषा स्वसृपत्योः। ऋदन्तादिति। `विद्यासंबन्धयोनिसंबन्धान्यतरवाचिन’ इति शेषः। ततश्च `भोक्तृस्वसे’त्यत्र नातिव्याप्तिः। र्न्

तत्त्वबोधिनी

—————-

6-3-25 अनङृतो द्वन्द्वे

काशिका
ऋकारान्तानां विद्यायोनिसम्भन्धवाचिनां यो द्वन्द्वस् तत्र उत्तरपदे पूर्वपदस्य आनङादेशो भवति। होतापोतारौ। नेष्टोद्गातारौ। प्रशास्ताप्रतिहर्तारौ। योनिसम्बन्धेभ्यः मातापितरौ। याताननान्दरौ। मकारोच्चारणं रपरत्वनिवृत्त्यर्थम्। ऋतः इति किम्? पितृपितामहौ। पुत्रे इत्यत्र अनुवर्तते, ऋतः इति च। तेन पुत्रशब्दे ऽप्युत्तरपदे ऋकारान्तस्य अनङादेशो भवति। पितापुत्रौ। मातापुत्रौ।

लघु

बलमनोरमा
911 आनङृतो द्वन्द्वे। विद्यायोनिसंबन्धवाचिनामिति। विद्यासंबन्धवाचिनां, योनसंबन्धवाचिनां चेत्यर्थः। `ऋतो विद्यायोनिसम्बन्धेभ्यः’ इत्यतस्तदनुवृत्तेरिति भावः। ऋदन्तानामिति। बहुत्वे व्यत्ययेन `ऋतः’ इत्येकवचनम्। ऋदन्तसर्वावयवकानामित्यर्थः। `ऋत’ इत्यनुवर्तमाने पुनरृत इत्युक्तिरेतदर्थेति भावः। उत्तरपदे परे इति। `ऋत’ इत्यनुवर्तमाने पुनरृत इत्युक्तिरेतदर्थेति भावः। उत्तरपदे परे इति। `अलुगुत्तरपदे’ इत्यधिकारादिति भावः। होतापोताराविति। होता च पोता चेति विग्रहः। विद्याद्वारकैकयज्ञउfffद्त्वक्त्वकृतः सम्बन्धः। आनङि ङकार इत्, अकार उच्चारणार्थः, ङिच्चे’त्यन्तादेशः, नलोपः, नकारस्तु रपरत्वनिवृत्त्यर्थ इति भाष्ये स्पष्टम्। होतृपोत्रिति। अत्र होतृशब्दस्य पोतृशब्दस्य च नाऽऽनङ्, नेष्टुशब्देन व्यवधानादुत्तरपदपरकत्वाऽभावात्। तथाच नेष्टृशब्दस्यैवाऽऽनङ्। उत्तरपदेन तु न पूर्वपदमाक्षिप्यते, समर्थसूत्रे नेष्टृशब्दस्याऽऽनङदर्शनात्। अथ योनिसबन्धमुदाहरति–मातापितराविति। पितृपितामहावित्यादौ तु नाऽऽनङ्, ऋदन्तसर्वावयवकत्वाऽभावादिति भावः। तर्हि पितापुत्राविति कथमित्यत आह–पुत्रेऽन्यतरस्यामिति। `ऋतो विद्यायोनिसंबन्धेभ्यः’ इत्यत्र `विभाषा स्वसृपत्योः’ इत्यत्र च मध्येऽसम्बन्धादाह–मण्डूकेति। अनुवृत्तेरिति। नच तातपुत्रावित्यत्रापि स्यादिति वाच्यम्, ऋदन्तस्य पुत्रे परे आनङ् स्यादिति वाक्यभेदेन व्याख्यानात्। र्न्

तत्त्वबोधिनी
787 आनङ्। `ऋत’इति षष्ठउfffद्न्तं जातावेकवचनम्। `ऋतो विद्यायोनिसंबन्धेभ्यः’ इति त्वनुवर्तते, तच्चात्र षष्ठउfffदा विपरिणम्यते, तदाह–विद्यायोनिसंबन्धवाचिनामिति। ननु `ऋतः’इत्यनुवर्तनादेव सिद्धे किमनेन ऋतो ग्रहणेन?। अत्राहुः–`ऋतः’इति श्रूयमाणद्वन्द्वविशेषणम्। अनुवृत्तं तूत्तरपदे परतो यत्पूर्वं तस्य विशेषणं, पुत्रशब्दे पर आनङ् विधास्यते तत्र कार्यिनिर्देशार्थम्। अन्यथा तातपुत्रावित्यत्रापि स्यादिति। उत्तरपदे इति। एतच्च `अलुगुत्तरपदे’इत्यधिकारल्लभ्यते। उत्तरपदे परतः पूर्वं यदृदन्तं तस्याऽऽनङित्यर्थः। होतापोतारावेति। आनङो ङित्त्वात्पूर्वान्त्यस्य ऋकारस्याऽऽदेशे सति नलोपः। न चाऽऽकारमात्रमेव विधीयतामिति वाच्यम्, `उरण्रपरः’इति रपरप्रसङ्गात्, नन्विहोत्तरपदेन पूर्वपदं नाक्षिप्यते, अन्यथा `होतृपोतृनेष्टोद्गातार’इत्यत्र मध्यमस्याऽऽनङ् न स्यात्। ततश्च विशेष्याऽसन्निधानदृत एव स्थाने आदेशेन भवितव्यं, न तु ऋदन्तपदस्य स्थाने इति किमनेनानङो ङित्करणेन?। सत्यम्। ङित्करणाऽभावे मित्रावरुणावित्यादौ `देवताद्वन्द्वे चे’त्युत्तरपदे परे विधीयमानोऽयमादेशः पूर्वस्याक्षरस्य पदस्य वा स्यात्, पूर्वस्याऽल एवेत्यत्र नियामकाऽभावत्। एतेन’ ऋत इति कार्यिनिर्देशार्थ’मित्युक्तत्वान्निर्दिश्यमानस्य ऋकारस्यैवादेशः स्यादिति ङित्करणं व्यर्थमित्याशङ्कापि परास्त। नेष्टोद्गतार इति। न ह्रत्र नेष्टा पूर्पदम्, आद्यवयवस्यैव पूर्वपदत्वात्। मातापितराविति। पुत्रोत्पादने अनयोर्योनिकृतः संबन्धः, पूर्वत्र तु हौत्रादिरूपविद्याकृतः सम्बन्ध एकस्मिन्यज्ञे आत्विज्यरूप इति विवेकः। मण्हूकप्लुत्येति। तेन `विभाषा स्वसृपत्यो’रित्यत्र न संबध्यत इति भावः। पितापुत्राविति। अनयोरपि योनिकृतः सम्बन्धास जन्यजनकभावलक्षणः। र्न्
————–

6-3-26 देवताद्वन्द्वे च

काशिका
देवतावाचिनां यो द्वन्द्वः तत्र उत्तरपदे पूर्वपदस्य आनङादेशो भवति। इन्द्रावरुणौ। इन्द्रासोमौ। इन्द्राबृहस्पती। द्वन्द्वे इति वर्तमाने पुनर् द्वन्द्वग्रहणं प्रसिद्धसहाचर्यार्थम्। अत्यन्तसहचरिते लोकविज्ञाते द्वन्द्वम् इत्येतत् निपात्यते। तत्र ये लोके प्रसिद्धसाहचर्या वेदे च ये सहवापनिर्दिष्टास् तेषाम् इह ग्रहणं भवति। तेन ब्रहमप्रजापती, शिववैश्रवणौ इत्येवम् आदौ न भवति। उभ्यत्र वायोः प्रतिषेधो वक्तव्यः। अग्निवायू। वाय्वग्नी।

लघु

बलमनोरमा
912 देवताद्वन्द्वे च। मित्रावरुणाविति। इह ऋदन्तत्वाऽभावात्पूर्वेणाऽप्राप्ते विधिरयम्। र्न्वायुशब्देति। वायुशब्दस्य पूर्वपदत्वेनोत्तरपदत्वेन वा प्रयोगे सत्यानङः प्रतिषेधो वक्तव्य इत्यर्थः। ननु पूर्वसूत्राद्द्वन्द्वग्रहणेऽनुवर्तमाने पुनद्र्वन्द्वग्रहणं व्यर्थमित्यत आह-पुनरिति। निर्वापादौ प्रसिद्धसाहित्यकदेवतावाचकशब्दग्रहणार्थः। तेनेति। प्रसिद्धसाहचर्यग्रहणेनेत्यर्थः। एतदिति। एतत्=ब्राहृप्रजापतियुगलं हविर्भागित्वेन न वेदे प्रसिद्धमित्यर्थः। नापि लोके इति। प्रौढिवादमात्रमेवेदम्, `वेदे ये सहनिर्वापनिर्दिष्टाः’ इत्येव भाष्ये दर्शनात्, लोकप्रसिद्धसाहचर्यग्रहणे पार्वतीपरमेउfffदारावित्यादावतिप्रसङ्गाच्च।र्न्

तत्त्वबोधिनी
788 देवता। अनृकारान्तार्थमविद्यायोनिसम्बन्धार्थं च वचनम्।र्न्

—————

6-3-27 ईदग्नेः सोमवरुणयोः

काशिका
सोम वरुण इत्येतयोः देवताद्वन्द्वे अग्नेः ईकारादेशो भवति। अग्नीषोमौ। अग्नीवरुणौ। अग्नेः स्तुत्स्तोमसोमाः (*8,3.82) इति षत्वम्।

लघु

बलमनोरमा
913 ईदग्नेः। इत्येवेति। `देवताद्वन्द्वे’ इत्यनुवर्तत एवेत्यर्थः। सोमशब्दे वरुणशब्दे च उत्तरपदे परे अग्नेरीदादेशः स्याद्देवताद्वन्द्वे इत्यर्थः। आनङोऽपवादः।र्न्

तत्त्वबोधिनी
789 ईदग्नेः। आनङोऽपवादोऽयम्। देवताद्वन्द्व इत्येवेति। इदं च वृत्तिगन्थे स्थितम्। ज्यतिर्लतयोरदेवताद्वन्द्वेऽपि `अग्नीषोमौप्रणेष्यामि’इत्याउfffदालायनप्रयोगस्त्वार्षत्वात्साधुः। यद्वा मास्तु तदनुवृत्तिः, अद्निसोमौ माणवकावित्यत्र `अभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताः’इति न्यायेनाऽदोषत्वात्।र्न्

——————

6-3-28 इद् वृद्धौ

काशिका
कृतवृद्धावुत्तरपदे देवताद्वन्द्वे अग्नेः इकारादेशो भवति। आग्निवारुणीमनड्वहीमालभेत। आग्निमारुतं कर्म क्रियते। अग्नीवरुणौ देवते अस्य, अग्नीअरुतौ देवते अस्य इति तद्धितः। तत्र देवताद्वन्द्वे च (*7,3.21) इत्युभयपदवृद्धौ कृतायाम् आनङ्, ईत्वं च बाधितुम् इकारः क्रियते। वृद्धौ इति किम्? आग्रेन्द्रः। नेन्द्रस्य परस्य (*7,3.24) इत्युत्तरपदवृद्धिः प्रतिषिध्यते। इद्वृद्धौ विष्णोः प्रतिषेधो वक्तव्यः। आग्नावैष्णवं चरुं निर्वपेत्।

लघु

बलमनोरमा
915 आगेन्द्र इति। अग्निश्च इन्द्रश्च अग्नेन्द्रौ। `देवताद्वन्द्वे चे’त्यानङ्। आद्गुणः। अग्नेन्द्रौ देवते अस्येत्याग्नेन्द्रः। `साऽस्य देवते’त्यण्। आदिवृद्धिः। अत्रेन्द्रशब्दस्योत्तरपदस्य वृद्धिमत्त्वाऽभावात्। `इद्वृद्धौ’ इति नेति भावः। `देवताद्वन्द्वे चे’त्युभयपदवृद्धिमाशङ्क्याह–नेन्द्रस्येति। र्न्विष्णौ नेति। विष्णुशब्दे परे अग्नेरिकारो नेति वक्तव्यमित्यर्थः। आग्नावैष्णवमिति। अग्नि ष्च विष्णुश्च -अग्नाविष्णू। `देवताद्वन्द्वे चे’त्यानङ्। अगनाविष्णू देवते अस्येत्यर्थे `साऽस्य देवते’त्यण्। आग्नावैष्णवं हविः। `देवताद्वन्द्वे चे’त्युभयपदवृद्धिः। इत्त्वाऽभावादान व। र्न्

तत्त्वबोधिनी
791 इद्वृद्धौ। तकार उच्चारणार्थः। इकारस्येकारविधानं तु बाधकबाधनार्थम्। वृद्धिशब्देनाऽत्र वृद्धिमद्गृह्रते, वृद्धिमात्रस्योत्तरपदस्याऽसंभवात्। अतो व्याचष्टे—वृद्धिमत्युत्तरपद इति। आनङमीत्वं च बाधित्वेति। यद्यपि वृद्धेः प्रागेव आनङीत्वयोरन्तरङ्गत्वात्प्रवृत्तिरस्ति, तथापि `परिह्मत्यापवादविषयमत्सुर्गोऽभिनिविशते, इति न्यायादानङीत्वे न भवत इति भावः। आग्नावेष्णवमिति। इत्वाऽभावादानङेव भवति।र्न्

———————

6-3-29 देवो द्यावा

काशिका
दिवित्येतस्य द्यावा इत्ययम् आदेशो भवति देवताद्वन्द्वे उत्तरपदे। द्यावाक्षामा। द्यावाभूमी।

लघु

बलमनोरमा
916 दिवो द्यावा। शेषपूरणेन सूत्रं व्याचष्टे–देवताद्वन्द्वे इति। द्यावाभूमि इति। द्यौश्च भूमिश्चेति विग्रहः। द्यावाक्षामा रुक्मो अन्तर्विभाति’ इति ऋचि पठितमिदम्। द्यावापृथिव्योरित्यर्थः। द्यौश्च क्षामा चेति विग्रहः। क्षामाशब्दो भुमिपर्यायो वेदे। तत्र द्वन्द्वे दिवो द्यावादेशः। षष्ठउfffदास्तु `सुपां सुलुक्’इति डादेशः, `देवताद्वन्द्वे चे’ति पूर्वोत्तरपदयोः प्रकृतिस्वर इति वेदभाष्ये स्पष्टम्। र्न्

तत्त्वबोधिनी

———————–

6-3-30 दिवसश् च पृथिव्याम्

काशिका
पृथिव्याम् उत्तरपदे देवताद्वन्द्वे दिवो दिवसित्ययम् आदेशो भवति, चकाराद् द्यावा च। दिवस्पृथिव्यौ। द्यावापृथिव्यौ। अकारोच्चारणम् सकारस्य विकाराभावप्रतिपत्त्यर्थम्। तेन रुत्वदीनि न भवन्ति। कथं द्यावा चिदस्मै पृथिवी नमेते इति? कर्तव्यो ऽत्र यत्नः।

लघु

बलमनोरमा
दिवसश्च पृथिव्यां। दिव इत्येवेति। दिव इत्यनुवर्तत एवेत्यर्थः, स्वरितत्वादिति भावः। तर्हि चकारो व्यर्थ इत्यत आह–चादिति। तथा च दिव्शब्दस्य दिवसादेशो, द्यावादेशश्च स्यात्पृथिवीशब्दे उत्तरपदे परे देवताद्वन्द्वे इत्यर्थः। `दिवस्पृथिव्याः’ इत्यत्र सकारादकारस्याऽश्रवणाद्दिवसादेशस्य सकारान्तत्वावश्यंभावादादेश सकारादकारोच्चारणस्य किं प्रयोजनमित्यत आह–आदेशेऽकारोच्चारणमिति। सामथ्र्यात् `ससजुषो रु’रिति रुत्वं नेति भावः। ननु `द्यावा चिदस्मै पृथिवी सन्नमेते’ इत्यत्र दिव्शब्दपृथिवीशब्दयोः कथं द्वन्द्वः ?, कथं वा दिवो द्यावा देशः?, उत्तरपदस्य `चिदस्मै’ इत्यनेन व्यवहितत्वादित्यत आह–छन्दसि दृष्टानुविधिरिति॥ भाष्यवाक्यमेतत्। वेदे दृष्टानुसरणमित्यर्थः। यतादृष्टं तथा प्रक्रिया कल्पनीयेति भावः। पदकारा इति। `दिवस्पृथिव्यो’रित्यवग्रहे विसर्गं पठन्तीत्यर्थः। `पदकारा’ इत्यनेन पदपाठस्याधुनिकत्वं सूचितम्। तथाच विसर्गपाठः प्रामादिक इति सूचितम्, अकारोच्चारणेन रुत्वनिवृत्तेरुक्तत्वात्। उषासोषसः। उषासासूर्यमिति। उषाश्च सूर्यश्चेति समाहारद्वन्द्वः। मातरपितरावुदीचाम्। उदीचां मते मातरपितराविति भवतीत्यर्थः। अत्र मातृशब्दस्याऽरङादेशो निपात्यते। मातापितराविति। अरङभावे `आनङृतः’ इत्यानङ्। द्वन्द्वाच्चुदष। समासान्ताधिकारस्थं तद्धिताधिकारस्थं चेदं सूत्रम्। टच्स्यादिति। `राजाहःसखिभ्यः’ इत्यतस्तदनुवृत्तेरिति भावः। वाक्त्वचमिति। वाक्य त्वक्चेति समाहारद्वन्द्वः। कुत्वस्याऽसिद्धत्वाच्चवर्गान्तत्वाट्टच्।एवं त्वक्रुआजमित्यत्रापि। त्वक्च रुआक्चेति विग्रहः। शमीदृषदमिति। शमी च दृषच्चेति विग्रहः। दकारान्तत्वाट्टच्। वाक्त्विषमिति। वाक्च त्विट्। चेति विग्रहः। षान्तत्वाट्टच्, जश्त्वस्याऽसिद्धत्वादिति भावः। छत्रोपानहमिति। छत्रं च उपानच्चेति विग्रहः। हान्तत्वाट्टच्। प्रावृट्शरदाविति। प्रावृट् च शरच्चेति विग्रहः। इतरेतरयोगद्वन्द्वत्वान्न टजिति भावः।र्न्*****इति बालमनोरमायांद्वन्द्वसमासः*****र्न्र्न्र्न्र्न्र्न्र्नथ द्विरुक्तप्रक्रिया।र्न्————–र्न्

तत्त्वबोधिनी
792 रुत्वं मा भूदिति। अकारे सति सकारस्य श्रवणं भवति, तेन प्रयोगे विकाराऽभावोऽनुमीयत इति भावः।र्न्छन्दसि दृष्टानुविधिः। विसर्गमिति। तथा च `क्वचिद्वकारो ने’त्येवानुमेयं, लक्ष्यामुरोधादिति भावः।र्न्

——————–

6-3-31 उषासाउषसः

काशिका
उषसः उषासा इत्ययम् आदेशो भवति देवताद्वन्द्वे उत्तरपदे। उषासासूर्यम्। उषासानक्ता।

लघु

बलमनोरमा

तत्त्वबोधिनी
793 उषासासूर्यमिति। उषाश्च सूर्यश्च तयोः समाहारः। मातरपितरौ। मातृशब्दस्याऽरङादेशो निपात्यते।र्न्

————————

6-3-32 मातरपितरावुदीचम्

काशिका
मातरपितरौ इत्युदीचामाचार्याणां मतेनारङादेशः मातृशब्दस्य निपत्यते मातरपितरौ। उदीचाम् इति किम्? मातापितरौ।

लघु

बलमनोरमा

तत्त्वबोधिनी

——————–

6-3-33 पितरामातरा च च्छन्दसि

काशिका
पितरामातरा इति छन्दसि निपात्यते। आ मा गन्तां पितरामातरा च। पूर्वपदस्य अराङादेशो निपात्यते। उत्तरपदे तु सुपां सुलुक् पूर्वसवर्णाऽआच्छेयाडाड्यायाजालः (*7,1.39) इति आकारादेशः। तत्र ऋतो ङिसर्वनामस्थानयोः (*7,3.110) इति गुणः। छन्दसि इति किम्? मातापितरौ।

लघु

बलमनोरमा

तत्त्वबोधिनी
–)

वृक्षशाखा तत्पुरुषः श्वेताश्वः कर्मधारयः ।
रक्तवस्त्रो बहुव्रीहिर्द्वन्द्वश्चन्द्रदिवाकरौ ॥
यल्लिङ्गं यद्वचनं या च विभक्तिर्विशेष्यस्य ।
तल्लिङ्गं तद्वचनं सैव विभक्तिर्विशेषणस्यापि ॥

Here different examples are given:
tatpuruSha – vRkShashAkhA
karmadhAraya – shvetAshva
bahuvrIhi – raktavastra
dvandva – chandradivAkarau

Whatever is the gender and vachana and vibhakti of the visheShya, visheShaNa will also take the same gender, vachana and vibhakti.

सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु ।
वचनेषु च सर्वेषु यन्न व्येति तदव्ययम्‌ ॥

avyaya – which is the same in all three gender, vachana and vibhakti is called avyaya.
Thus the definition of avyayIbhAva is also provided.

आदौ कर्तृपदं वाच्यं द्वितीयादिपदं ततः ।
क्त्वातुमुन्ल्यप्च मध्ये कुर्याद्‌ अन्ते क्रियापदम्‌॥

(Comments by Mr. H N Bhat:
A very interesting guidance is the syntactical order given in the end:

आदौ कर्तृपदं वाच्यं द्वितीयादिपदं ततः ।
क्त्वातुमुन्ल्यप्च मध्ये कुर्याद्‌ अन्ते क्रियापदम्‌॥

Subject + Object + Predication+Verb
कर्तृ + कर्म + क्त्व, तुमुन्, ल्यप् (auxilliary verbs) + क्रिया.

in the case complex sentences having Verbal Phrase as the part. English
terms are roughly corresponding to the idea expressed in the simple words of
the verse. But it makes the general structure of a comprehensible sentence
in Sanskrit. It seems the intention of द्वितीयादि seems to convey all the
other कारक-s except the subject of the principal predication and it is the
same subject (agent) for the

One more point to be noted is that the subject and other kAraka-s in their
order placed as above, the adjective to be placed before the corresponding
nouns. Otherwise the above guidance is very useful in understanding the
sentence structure and in providing the paraphrase अन्वय for the Sanskrit
verses. )

इति समासचक्रं समाप्तम्‌ ॥
Thus ends samAsachakram

 

 

<<<<<<<<<<<<<<<पाणिनीयसूत्राणि>>>>>>>>>>>>>>>

(courtesy : www.avg-sanskrit/org)

(click on the sutra number to get access to the various commentaries)

 

2-1-1 समर्थः पदविधिः ।
2-1-2 सुबामन्त्रिते पराङ्गवत्‌ स्वरे ।
2-1-3 प्राक् कडारात्‌ समासः ।
2-1-4 सह सुपा ।
2-1-5 अव्ययीभावः ।
2-1-6 अव्ययं विभक्तिसमीपसमृद्धि-
व्यृद्ध्यर्थाभावात्ययासम्प्रति-
शब्दप्रादुर्भावपश्चाद्यथाऽऽनुपूर्व्ययौगपद्यसादृश्य-
सम्पत्तिसाकल्यान्तवचनेषु ।
2-1-7 यथाऽसादृये ।
2-1-8 यावदवधारणे ।
2-1-9 सुप्प्रतिना मात्राऽर्थे ।
2-1-10 अक्षशलाकासंख्याः परिणा ।
2-1-11 विभाषा ।
2-1-12 अपपरिबहिरञ्चवः पञ्चम्या ।
2-1-13 आङ् मर्यादाऽभिविध्योः ।
2-1-14 लक्षणेनाभिप्रती आभिमुख्ये ।
2-1-15 अनुर्यत्समया ।
2-1-16 यस्य चायामः ।
2-1-17 तिष्ठद्गुप्रभृतीनि च ।
2-1-18 पारे मध्ये षष्ठ्या वा ।
2-1-19 संख्या वंश्येन ।
2-1-20 नदीभिश्च ।
2-1-21 अन्यपदार्थे च संज्ञायाम्‌ ।
2-1-22 तत्पुरुषः ।
2-1-23 द्विगुश्च ।
2-1-24 द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः ।
2-1-25 स्वयं क्तेन ।
2-1-26 खट्वा क्षेपे ।
2-1-27 सामि ।
2-1-28 कालाः ।
2-1-29 अत्यन्तसंयोगे च ।
2-1-30 तृतीया तत्कृतार्थेन गुणवचनेन ।
2-1-31 पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः ।
2-1-32 कर्तृकरणे कृता बहुलम्‌ ।
2-1-33 कृत्यैरधिकार्थवचने ।
2-1-34 अन्नेन व्यञ्जनम्‌ ।
2-1-35 भक्ष्येण मिश्रीकरणम्‌ ।
2-1-36 चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः ।
2-1-37 पञ्चमी भयेन ।
2-1-38 अपेतापोढमुक्तपतितापत्रस्तैरल्पशः ।
2-1-39 स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन ।
2-1-40 सप्तमी शौण्डैः ।
2-1-41 सिद्धशुष्कपक्वबन्धैश्च ।
2-1-42 ध्वाङ्क्षेण क्षेपे ।
2-1-43 कृत्यैरृणे ।
2-1-44 संज्ञायाम्‌ ।
2-1-45 क्तेनाहोरात्रावयवाः ।
2-1-46 तत्र ।
2-1-47 क्षेपे ।
2-1-48 पात्रेसमितादयश्च ।
2-1-49 पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन ।
2-1-50 दिक्संख्ये संज्ञायाम्‌ ।
2-1-51 तद्धितार्थोत्तरपदसमाहारे च ।
2-1-52 संख्यापूर्वो द्विगुः ।
2-1-53 कुत्सितानि कुत्सनैः ।
2-1-54 पापाणके कुत्सितैः ।
2-1-55 उपमानानि सामान्यवचनैः ।
2-1-56 उपमितं व्याघ्रादिभिः सामान्याप्रयोगे ।
2-1-57 विशेषणं विशेष्येण बहुलम्‌ ।
2-1-58 पूर्वापरप्रथमचरमजघन्यसमान-
मध्यमध्यमवीराश्च ।
2-1-59 श्रेण्यादयः कृतादिभिः ।
2-1-60 क्तेन नञ्विशिष्टेनानञ् ।
2-1-61 सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः ।
2-1-62 वृन्दारकनागकुञ्जरैः पूज्यमानम्‌ ।
2-1-63 कतरकतमौ जातिपरिप्रश्ने ।
2-1-64 किं क्षेपे ।
2-1-65 पोटायुवतिस्तोककतिपयगृष्टिधेनुवशा-
वेहत्बष्कयणीप्रवक्तॄ- श्रोत्रियाध्यापकधूर्तैर्जातिः ।
2-1-66 प्रशंसावचनैश्च ।
2-1-67 युवा खलतिपलितवलिनजरतीभिः ।
2-1-68 कृत्यतुल्याख्या अजात्या ।
2-1-69 वर्णो वर्णेन ।
2-1-70 कुमारः श्रमणाऽऽदिभिः ।
2-1-71 चतुष्पादो गर्भिण्या ।
2-1-72 मयूरव्यंसकादयश्च ।
2-2-1 पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे ।
2-2-2 अर्धं नपुंसकम्‌ ।
2-2-3 द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम्‌ ।
2-2-4 प्राप्तापन्ने च द्वितीयया ।
2-2-5 कालाः परिमाणिना ।
2-2-6 नञ्‌ ।
2-2-7 ईषदकृता ।
2-2-8 षष्ठी ।
2-2-9 याजकादिभिश्च ।
2-2-10 न निर्धारणे ।
2-2-11 पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन ।
2-2-12 क्तेन च पूजायाम्‌ ।
2-2-13 अधिकरणवाचिना च ।
2-2-14 कर्म्मणि च ।
2-2-15 तृजकाभ्यां कर्तरि ।
2-2-16 कर्त्तरि च ।
2-2-17 नित्यं क्रीडाजीविकयोः ।
2-2-18 कुगतिप्रादयः ।
2-2-19 उपपदमतिङ् ।
2-2-20 अमैवाव्ययेन ।
2-2-21 तृतीयाप्रभृतीन्यन्यतरस्याम्‌ ।
2-2-22 क्त्वा च ।
2-2-23 शेषो बहुव्रीहिः ।
2-2-24 अनेकमन्यपदार्थे ।
2-2-25 संख्ययाऽव्ययासन्नादूराधिकसंख्याः संख्येये ।
2-2-26 दिङ्नामान्यन्तराले ।
2-2-27 तत्र तेनेदमिति सरूपे ।
2-2-28 तेन सहेति तुल्ययोगे ।
2-2-29 चार्थे द्वंद्वः ।
2-2-30 उपसर्जनं पूर्वम्‌ ।
2-2-31 राजदन्तादिषु परम्‌ ।
2-2-32 द्वंद्वे घि ।
2-2-33 अजाद्यदन्तम्‌ ।
2-2-34 अल्पाच्तरम्‌ ।
2-2-35 सप्तमीविशेषणे बहुव्रीहौ ।
2-2-36 निष्ठा ।
2-2-37 वाऽऽहिताग्न्यादिषु ।

  • By sreelatha,

    namasthe.. need the explanation of samasas in english. if possible kindly post it.

  • By Narayanan,

    Sir I am not able to access the books mentioned below. samAsalakSaNa samAsaprakaraNavyAkhyA Thanks Narayanan

  • By Jash Dholani,, Feb,17 2012 @ 10:40 PM

    It helped! Thanks!

  • By By S. Sankar,, Mar,23 2012 @ 06:54 PM

    You are doing a great service to Sanskrit, the language of Indian culture and traditions. may I humbly request for guidance in analyzing the समास of the word जलरुहमित्राब्जशत्रुनॆत्रम् | This word occurs in a carnatic music composition. I can understand that it means “one who has sun and moon as his eyes” and is praising Vishnu.

  • By admin,, Mar,24 2012 @ 08:55 AM

    जलरुहम्‌ – जले रोहति तज्जलरुहम्‌ (उपपद) – कमलम्‌ तस्य मित्रम्‌ – जलरुहमित्रम्‌ (षष्ठीतत्पुरुष) – सूर्यः अब्जम्‌ – अप्सु जायत इति अब्जम्‌ (उपपद) – कमलम्‌ तस्य शत्रुः – अब्जशत्रुः (षष्ठीतत्पुरुष) – चन्द्रः जलरुहमित्रम्‌ च अब्जशत्रुः च नेत्रे यस्य स जलरुहमित्राब्जशत्रुनेत्रम्‌ (बहुव्रीहि) – anyone with sUrya and candra as his eyes… context required

About Sanskritworld

This site is mainly using content which has been entered painstakingly by hundreds of dedicated scholars related to www.sanskritdocuments.org, GRETIL, Gaudiya Grantha Mandira and some other sources. The purpose of this site is to make the scriptures available in Devanagari Unicode format which is easy to search.. This is for scholarly purpose only. Not to be used for Commercial purpose as a gentleman's promise. The data entered in other formats and encoding are converted to the unicode format for uniformity and ease of search … The terms of usage and copyright would be the same as the original site.